The Upanishad of the Head

Śira-upaniṣad (= Atharvaśira-upanisad) · Śइर-उपनिषद् (= Aथर्वशिर-उपनिसद्)

The Upanishad of the Head

Śira-upaniṣad (= Atharvaśira-upanisad)

Śइर-उपनिषद् (= Aथर्वशिर-उपनिसद्)

SK
ॐ देवा ह वै स्वर्गलोकम् आयंस् ते रुद्रम् अपृच्छन् को भवान् इति / सो ऽब्रवीद् अहम् एकः प्रथमम् आसोद्वर्तामि च भविष्यामि च नान्यः कश्चिन् मत्तो व्यतिरिक्त इति / सो ऽन्तराद् अन्तरं प्राविशत् दिशश् चान्तरं प्राविशत् सो ऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा ब्रह्माहं प्राञ्चः प्रत्यञ्चो ऽहं दक्षिणां च उदञ्चो ऽहम् अधश् चोर्ध्वश् चाहं दिशश् च प्रतिदिशश् चाहं पुमान् अपुमान् स्त्रियश् चाहं सावित्र्य् अहं गायत्र्य् अहं त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दो ऽहं सत्यो ऽहं गार्हपत्यो दक्षिणाग्निर् आहवनीयो ऽहं गौर् अहं गौर्य् अहम् ऋग् अहं यजुर् अहं सामाहम् अथर्वाङ्गिरसो ऽहं ज्येष्ठो ऽहं श्रेष्ठोऽहं वरिष्ठो ऽहम् आपो ऽहं तेजो ऽहं गुह्यो ऽहम् अरण्यो ऽहम् अक्षरम् अहं क्षरम् अहं पुष्करम् अहं पवित्रम् अहम् उग्रं च बलिश् च पुरस्ताज् ज्योतिर् इत्य् अहम् एव सर्वेभ्यो माम् एव स सर्वः समायो मां वेद स देवान् वेद सर्वांश् च वेदान् साङ्गान् अपि ब्रह्म ब्राह्मणैश् च गां गोभिर् ब्राह्मणान् ब्राह्मण्येन हविर् हविषा आयुर् आयुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा / ततो ह वै ते देवा रुद्रम् अपृच्छन् ते देवा रुद्रम् अपश्यन् ते देवा रुद्रम् अध्यायन् ते देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति //
SK
ॐ यो वै रुद्रः स भगवान् यश् च ब्रह्मा तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् च विष्णुस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् च स्कन्दस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् चेन्द्रस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् चाग्निस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् च वायुस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवन् यश् च सूर्यस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् च सोमस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् ये चाष्टौ ग्रहास् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् ये चाष्टौ प्रतिग्रहास् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च भूस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च भुवस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च स्वस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च महस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् या च पृथिवी तस्मै वै नमोनमः / यो वै रुद्रः स भगवान् यच् चान्तरिक्षं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् या च द्यौस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् याश् चापस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च तेजस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् च कालस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् च यमस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यश् च मृत्युस् तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् चामृतं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् चाकाशं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च विश्वं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च स्थूलं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च सूक्ष्मं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च शुक्लं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च कृष्णं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च कृत्स्नं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च सत्यं तस्मै वै नमोनमः //
SK
यो वै रुद्रः स भगवान् यच् च सर्वं तस्मै वै नमोनमः //
SK
भस् ते आदिर् मध्यं भुवस् ते स्वस् ते शीर्षं विश्वरूपो ऽसि ब्रह्मैकस् त्वं द्विधा त्रिधा वृद्धिस् त्वं शान्तिस् त्वं पुष्टिस् त्वं हुतम् अहुतं दत्तम् अदत्तं सर्वम् असर्वं विश्वम् अविश्वं कृतम् अकृतं परम् अपरं परायणं च त्वम् / अपाम् असोमम् अमृता अभूम् आगन् मे ज्योतिर् अविदाम देवान् / किं नूनम् अस्मान् कृणवद् अरातिः / किम् उ धूर्तिर् अमृतं मर्त्यस्य सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः / सर्वं जगद्धितं वा एतद् अक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यम् अगुह्येन भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेन वायव्यं वायव्येन ग्रसति तस्मै महाग्रासाय वै नमोनमः / हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः / हृदि त्वम् असि यो नित्यं तिस्रो मात्राः परस् तु सः //
SK
तस्योत्तरतः शिरोदक्षिणतः पादौ य उत्तरतः स ॐकारः य ॐकारः स प्रणवः यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सो ऽनन्तः यो ऽनन्तस् तत् तारं यत् तारं तच् छुक्लं यच् छुक्लं तत् सूक्ष्मं यत् सूक्ष्मं तद् वैद्युतं यद् वैद्युतं तत् परं ब्रह्म यत् परं ब्रह्म स एकः यः एकः स रुद्रः यो रुद्रः स ईशानः य ईशानः स भगवान् महेश्वरः //
SK
अथ कस्माद् उच्यते ॐकारः यस्माद् उच्चार्यमाण एव प्राणान् ऊर्ध्वम् उत्क्रामयति तस्माद् उच्यते ॐकारः / अथ कस्माद् उच्यते प्रणवः यस्माद् उच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्माद् उच्यते प्रणवः / अथ कस्माद् उच्यते सर्वव्यापी यस्माद् उच्चार्यमाण एव यथा स्नेहेन पललपिण्डम् इव शान्तरूपम् ओतप्रोतम् अनुप्राप्तो व्यतिषक्तश् च तस्माद् उच्यते सर्वव्यापी / अथ कस्माद् उच्यते ऽनन्तः यस्माद् उच्चार्यमाण एव तिर्यग् ऊर्ध्वम् अधस्ताच् चास्यान्तो नोपलभ्यते तस्माद् उच्यते ऽनन्तः / अथ कस्माद् उच्यते तारं यस्माद् उच्चार्यमाण एव गर्भजन्मव्याधिजरामरणसंसारमहाभयात् तारयति त्रायते च तस्माद् उच्यते तारम् / अथ कस्माद् उच्यते शुक्लं यस्माद् उच्चार्यमाण एव क्लन्दते क्लामयति च तस्माद् उच्यते शुक्लम् / अथ कस्माद् उच्यते सूक्ष्मं यस्माद् उच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्य् अधितिष्ठति सर्वाणि चाङ्गान्य् अभिमृशति तस्माद् उच्यते सूक्ष्मम् / अथ कस्माद् उच्यते वैद्युतं यस्माद् उच्चार्यमाण एव व्यक्ते महति तमसि द्योतयति तस्माद् उच्यते वैद्युतम् / अथ कस्माद् उच्यते परं ब्रह्म यस्मात् परम् अपरं परायणं च बृहद् बृहत्या बृंहयति तस्माद् उच्यते परं ब्रह्म / अथ कस्माद् उच्यते एकः यः सर्वान् प्राणान् संभक्ष्य संभक्षणेनाजः संसृजति विसृजति तीर्थम् एके व्रजन्ति तीर्थम् एके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चो ऽभिव्रजन्त्य् एके तेषां सर्वेषाम् इह संगतिः / साकं स एको भूतश् चरति प्रजानां तस्माद् उच्यते एकः / अथ कस्माद् उच्यते रुद्रः यस्माद् ऋषिभिर् नान्यैर् भक्तैर् द्रुतम् अस्य रूपम् उपलभ्यते तस्माद् उच्यते रुद्रः / अथ कस्माद् उच्यते ईशानः यः सर्वान् देवान् ईशते ईशानीभिर् जननीभिश् च शक्तिभिः / अभित्त्वा शूरणो नुमो दुग्धा इव धेनवः / ईशानम् अस्य जगतः स्वदर्शम् ईशानम् इन्द्रतस्थुष इति तस्माद् उच्यते ईशानः / अथ कस्माद् उच्यते भगवान् महेश्वरः यस्माद् भक्ताज्ञानेन भजत्य् अनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्माद् उच्यते भगवान् महेश्वरः तद् एतद् रुद्रचरितम् //
SK
एको ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स उ गर्भ अन्तः / स एव जातः स जनिष्यमाणः प्रत्यङ्जनास् तिष्ठति सर्वतोमुखः / एको रुद्रो न द्वितीयाय तस्मै य इमांल् लोकान् ईशत ईशानीभिः / प्रत्यङ्जनास् तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता / यो योनिं योनिम् अधितिष्ठत्य् एको येनेदं सर्वं विचरति सर्वम् / तम् ईशानं वरदं देवम् ईड्यं निचाय्येमां शान्तिम् अत्यन्तम् एति / क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या संचितं स्थापयित्वा तु रुद्रो रुद्रम् एकत्वम् आहुः / शाश्वतं वै पुराणम् इषम् ऊर्जेण पशवो ऽनुनामयन्तं मृत्युपाशान् / तद् एतेनात्मन्न् एतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजति पशुपाशविमोक्षणम् या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् ब्रह्मपदम् / या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम् / या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम् / या सार्धचतुर्थी मात्रा सर्वदेवत्याव्यक्तीभूता खं विचरति शुद्धा स्फटिकसंनिभा वर्णेन यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामयम् / तद् एतद् उपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणम् अयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परम् अपरं परायणं चेति //
SK
बालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् / तम् आत्मस्थं ये तु पश्यन्ति धीरास् तेषां शान्तिर् भवति नेतरेषाम् //
SK
यस्मिन् क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा हेतुजालस्य मूलम् / बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रम् एकत्वम् आहुः //
SK
रुद्रो हि शाश्वतेन वै पुराणेनेषम् ऊर्जेण तपसा नियन्ताग्निर् इति भस्म वायर् इति भस्म जलम् इति भस्म स्थलम् इति भस्म व्योमम् इति भस्म सर्वं ह वा इदं भस्म मन एतानि चक्षूंषि यस्माद् व्रतम् इदं पाशुपतं यद् भस्मनाङ्गानि संस्पृशेत् तस्माद् ब्रह्म तद् एतत् पाशुपतं पशुपाशविमोक्षणाय //
SK
यो ऽग्नौ रुद्रो यो ऽप्स्व् अन्तर् य ओषधीर् वीरुध आविवेश / य इमा विश्वा भुवनानि चक्लपे तस्मै रुद्राय नमो ऽस्त्व् अग्नये / यो रुद्रो ऽग्नौ यो रुद्रो ऽप्स्व् अन्तर् यो रुद्र ओषधीर् वीरुध आविवेश / यो रुद्र इमा विश्वा भुवनानि चक्लपे तस्मै रुद्राय नमोनमः / यो रुद्रो ऽप्सु यो रुद्र ओषधिषु यो रुद्रो वनस्पतिषु / येन रुद्रेण जगद् ऊर्ध्वं धारितं पृथिवी द्विधा त्रिधा धर्ता धारिता नागा ये ऽन्तरिक्षे तस्मै रुद्राय वै नमोनमः / मूर्धानम् अस्य संसेव्याप्य् अथर्वा हृदयं च यत् / मस्तिष्काद् ऊर्ध्वं प्रेरयत्य् अवमानो ऽधिशीर्षतः //
SK
तद् वा अथर्वणः शिरो देवकोशः समुज्झितः / तत् प्राणो ऽभिरक्षति शिरो ऽन्तम् अथो मनः / न च दिवो देवजनेन गुप्ता न चान्तरिक्षाणि न च भूम इमाः यस्मिन्न् इदं सर्वम् ओतप्रोतं तस्माद् अन्यं न परं किंच नास्ति //
SK
न तस्मात् पूर्वं न परं तद् अस्ति न भूतं नोत भव्यं यद् आसीत् / सहस्रपाद् एकमूर्ध्ना व्याप्तं स एवेदम् आवरीवर्त्ति भूतम् //
SK
अक्षरात् संजायते कालः कालाद् व्यापक उच्यते //
SK
व्यापको हि भगवान् रुद्रो भोगायमानो यदा शेते रुद्रस् तदा संहार्य्यते प्रजाः / उच्छ्वसिते तमो भवति तमस आपो ऽप्स्व् अङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनाद् अण्डं भवत्य् अण्डाद् ब्रह्मा भवति ब्रह्मणो वायुः वायोर् ॐकारः ॐकारात् सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति / अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद् ध्रुवम् / एतद्धि परमं तपः / आपो ज्योती रसो ऽमृतं ब्रह्म भूर् भुवः स्वर् ॐ नम इति //
SK
य इदम् अथर्वशिरो ब्राह्मणो ऽधीते अश्रोत्रियः श्रोत्रियो भवति अनुपनीत उपनीतो भवति सो ऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वैर् देवैर् ज्ञातो भवति स सर्वैर् वेदैर् अनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतुभिर् इष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति / प्रणवानाम् अयुतं जप्तं भवति / स चक्षुषः पङ्क्तिं पुनाति / आ सप्तमात् पुरुषयुगान् पुनातीत्य् आह भगवान् अथर्वशिरः सकृज् जप्त्वैव शुचिः स पूतः कर्मण्यो भवति / द्वितीयं जप्त्वा गणाधिपत्यम् आप्नोति / तृतीयं जप्त्वैवम् एवानुप्रविशत्य् ॐ सत्यम् ॐ सत्यम् ॐ सत्यम् / इत्य् अथर्ववेदे शिरौपनिषत् समाप्ता //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Śira-upaniṣad (= Atharvaśira-upanisad) (sa_zira-upaniSad.htm).

Source