2 SK ००१०६ इष्टस्य अर्थस्य सिद्धिः साधनम्, तस्य निर्वर्तकम् ००१०७ अङ्गम्, तस्य अवचनम् तस्य अङ्गस्य अनुच्चारणं वादिनो ००१०८ निग्रह-अधिकरणम्, तद् अभ्युपगम्य अप्रतिभया तूष्णींभावात्, ००१०९ साधन-अङ्गस्य असमर्थाद् वा. ००११० त्रिविधम् एव हि लिङ्गम् अप्रत्यक्षस्य सिद्धेर् अङ्गम्, ००१११ स्वभावः कार्यम् अनुपलब्धश् च. तस्य समर्थनं ००११२ साध्येन व्याप्तिं प्रसाध्य धर्मिणि भाव-साधनम्, ००११३ यथा यत् सत् कृतकम् वा, तत् सर्वम् अनित्यम्, यथा घट-आदिः, ००११४ सन् कृतको वा शब्द इति. अत्र अपि न कश्चित् क्रम- ००११५ नियमः, इष्ट-अर्थ-सिद्धेर् उभयत्र अविशेषात्. धर्मिणि प्राक् ००११६ सत्त्वं प्रसाध्य पश्चाद् अपि व्याप्तिः प्रसाध्यत एव ००११७ यथा सन् शब्दः कृतको वा, यश् च एवम्, स सर्वो अनित्यः, ००११८ यथा घट-आदिर् इति. ००२०१ अत्र व्याप्ति-साधनं विपर्यये बाधक-प्रमाण-उपदर्शनम्. ००२०२ यदि न सर्वं सत् कृतकं वा प्रतिक्षण-विनाशि ००२०३ स्यात्, अक्षणिकस्य क्रमयौगपद्याभ्याम् अर्थक्रिया-अयोगाद् ००२०४ अर्थक्रिया-सामर्थ्य लक्षणतो निवृत्तम् इत्य् असद् एव स्यात्. ००२०५ सर्व-सामर्थ्य-उपाख्या विरह-लक्षणं हि निरुपाख्यम् इति. ००२०६ एवं साधनस्य साध्य-विपर्यये बाधक-प्रमाण-अनुपदर्शने ००२०७ विरोध-अभावाद् अस्य विपर्यये वृत्तेर् अदर्शने अपि ००२०८ सन् कृतको वा स्यान् नित्यश् च इत्य् अनिवृत्तिर् एव शङ्कायाः. ततो ००२०९ व्यतिरेकस्य सन्देहाद् अनैकान्तिकः स्याद् हेत्वाभासः. ००२१० न अप्य् अदर्शन-मात्राद् व्यावृत्तिः, विप्रकृष्टेष्व् असर्व-दर्शिनो ००२११ अदर्शनस्य अभाव-असाधनात्, अर्वाग्दर्शनेन सताम् अपि केषांचिद् ००२१२ अर्थानाम् अदर्शनात्. ००२१३ बाधकं पुनः प्रमाणम्, यत्र क्रमयौगपद्य-अयोगः, ००२१४ न तस्य क्वचित् सामर्थ्यम्, अस्ति च अक्षणिके स इति ००२१५ प्रवर्तमानम् असामर्थ्यम् असल्-लक्षणम् आकर्षति. तेन ००२१६ यत् सत् कृतकं वा तद् अनित्यम् एव इति सिध्यति, तावता च साधन ००२१७ धर्म-मात्र-अन्वयः साध्य-धर्मस्य, स्वभावहेतु- ००२१८ लक्षणं च सिद्धं भवति. ००२१९ अत्र अप्य् अदर्शनम् अप्रमाणयतः क्रमयौगपद्य-अयोगस्य ००३०१ एव असामर्थ्येन व्याप्त्य्-असिद्धेः पूर्वकस्य अपि हेतोर् ००३०२ अव्याप्तिः. इह अपि पुनः साधन-उपक्रमे अनवस्था-प्रसङ्ग ००३०३ इति चेत्. न, अभाव साधनस्य अदर्शनस्य अप्रतिषेधात्. यद् ००३०४ अदर्शनं विपर्ययं साधयति हेतोः साध्य-विपर्यये, ००३०५ तद् अस्य विरुद्ध-प्रत्युपस्थापनाद् बाधकं प्रमाणम् ००३०६ उच्यते. एवं हि स हेतुः साध्य-अभावे असन् सिध्येत्, यदि ००३०७ तत्र प्रमाणवता स्व-विरुद्धेन बाध्येत. अन्यथा तत्र ००३०८ अस्य बाधक-असिद्धौ संशयो दुर्निवारः. न च सर्व-अनुपलब्धिर् ००३०९ भावस्य बाधिका. तत्र सामर्थ्यं क्रम-अक्रम ००३१० योगेन व्याप्तं सिद्धम्, प्रकार-अन्तर-अभावात्. तेन व्यापक- ००३११ अनुपलब्धिर् अक्षणिके सामर्थ्यं बाधत इति ००३१२ क्रमयौगपद्य-अयोगस्य सामर्थ्य-अभावेन व्याप्ति-सिद्धेर् ००३१३ न अनवस्था-प्रसङ्गः. ००३१४ एवं स्वभावहेतु-प्रयोगेषु समर्थितं साधन-अङ्गं ००३१५ भवति. तस्य असमर्थनं साधन-अङ्ग-अवचनं तद्-वादिनः ००३१६ पराजय-स्थानम् आरब्ध-अर्थ-अप्रसाधनात्, वस्तुतः ००३१७ समर्थस्य हेतोर् उपादाने अपि सामर्थ्य-अप्रतिपादनात्. ००३१८ कार्यहेताव् अपि साधन-अङ्गस्य समर्थनम्, यत् कार्य- ००३१९ लिङ्गं कारणस्य साधनाय उपादीयते, तस्य तेन सह कार्यकारणभाव- ००४०१ प्रसाधनं भाव-अभाव-साधन-प्रमाणाभ्याम्. ००४०२ यथा इदम् अस्मिन् सति भवति. सत्स्व् अपि तद्-अन्येषु ००४०३ समर्थेषु तद्-हेतुषु तद्-अभावे न भवति इति. एवं ह्य् ००४०४ अस्य असन्दिग्धं तत्-कार्यत्वं समर्थितं भवति. ००४०५ अन्यथा केवलं तद्-अभावे न भवति इत्य् उपदर्शने ००४०६ अन्यस्य अपि तत्र अभावे सन्दिग्धम् अस्य सामर्थ्यम्. अन्यत् ००४०७ तत्र समर्थम्, तद्-अभावात् तन् न भूतम्. एतन्-निवृत्तौ ००४०८ पुनर् निवृत्तिर् यदृच्छा-संवादः, मातृ-विवाह-उचित-देश-जन्मः ००४०९ पिण्ड खर्जूरस्य देश-अन्तरेषु मातृ-विवाह-अभावे ००४१० अभाव-वत्. ००४११ एवं समर्थितं तत् तत्-कार्यं सिध्यति. सिद्धं ००४१२ सत् स्व-सम्भवेन तत्-सम्भवं साधयति. कार्यस्य कारण- ००४१३ अव्यभिचारात्. अव्यभिचारे च स्व-कारणैः सर्व-कार्याणां ००४१४ सदृशो न्यायः. एवम् असमर्थनं कार्यहेताव् अपि साधन- ००४१५ अङ्ग-अवचनं तद्-वादिनः पराजय-स्थानम्, असमर्थिते ००४१६ तस्मिन् कार्यत्व-असिद्धेर् अर्थ-अन्तरस्य तद्भाव-अप्रतिबद्ध- ००४१७ स्वभावस्य भावे तद्भाव-नियम-अभावाद् आरब्ध-अर्थ- ००४१८ असिद्धेः, वस्तुतः कार्यस्य अप्य् उपादाने तद्-अप्रतिपादनात्. ००४२० अनुपलब्धाव् अपि प्रतिपत्तुर् उपलब्धि-लक्षण-प्राप्तस्य ००४२१ अनुपलब्धि-साधनं समर्थनम्, तादृश्या एव अनुपलब्धेर् ००४२२ असद्-व्यवहार-सिद्धेः, अनुपलब्धि-लक्षण-प्राप्तस्य ००४२३ प्रतिपत्तृ-प्रत्यक्ष-उपलब्धि-निवृत्ताव् अप्य् अभाव-असिद्धेः. ००५०१ तत्र उपलब्धि-लक्षण-प्राप्तिः स्वभाव-विशेषः कारण-अन्तर- ००५०२ साकल्यं च. स्वभाव-विशेषो यन् न त्रिविधेन ००५०३ विप्रकर्षेण विप्रकृष्टम्, यद् अनात्म-रूप-प्रतिभास-विवेकेन ००५०४ प्रतिपत्तृ-प्रत्यक्ष-प्रतिभास-रूपम्. तादृशः सत्स्व् ००५०५ अन्येषु उपलम्भ-प्रत्ययेषु तथा अनुपलब्धो असद्-व्यवहार- ००५०६ विषयः. ततो अन्यथा सति लिङ्गे संशयः. ००५०७ अत्र अपि सर्वम् एवंविधम् असद्-व्यवहार-विषय इति ००५०८ व्याप्तिः, कस्यचिद् असतो अभ्युपगमे तल्-लक्षण-अविशेषात्; न ००५०९ ह्य् एवंविधस्य असत्त्वान् अभ्युपगमे अन्यत्र तस्य योगः. ००५१० न ह्य् एवंविधस्य सतः सत्स्व् अन्येषु उपलम्भ-कारणेष्व् ००५११ अनुपलब्धिः. अनुपलभ्यमाणं त्व् ईदृशं न अस्ति इत्य् एतावन्मात्र- ००५१२ निमित्तो अयम् असद्-व्यवहारः, अन्यस्य तन्-निमित्तस्य ००५१३ अभावात्. ००५१४ सर्व-सामर्थ्य-विवेको निमित्तम् इति चेत्, एवम् एतत् तस्य एव ००५१५ सर्व-सामर्थ्य-विवेकिन एवं प्रतीतिः, अन्यस्य तत्-प्रतिपत्त्य्- ००५१६ उपाय-अभावात्. तत्-प्रतिपत्तौ च सत्याम् असद्-व्यवहार ००५१७ इति इदं तन्-निमित्तम् उच्यते. ००५१८ बुद्धि-व्यपदेश-अर्थक्रियाभ्यः सद्-व्यवहारो विपर्यये ००५१९ च असद्-व्यवहार इति चेत्, भवति बुद्धेर् यथोक्त-प्रतिभासायाः ००५२० सद्-व्यवहारः, विपर्यये असद्-व्यवहारः. ००५२१ प्रत्यक्ष-अविषये तु स्याल् लिङ्गजाया अपि कुतश्चित् सद्-व्यवहारः. ००५२२ असद्-व्यवहारस् तु तद्-विपर्यये अनैकान्तिकः, विप्रकृष्टे ००५२३ अर्थे प्रतिपत्तृ-प्रत्यक्षस्य अन्यस्य वा प्रमाणस्य ००५२४ निवृत्ताव् अपि संशयात्. ००६०१ न च सर्वे बुद्धि-व्यपदेशास् तद्-भेद-अभेदौ वा वस्तु- ००६०२ सत्तां वस्तु-भेद-अभेद-सत्तां वा साधयन्ति, असत्स्व् अपि ००६०३ कथंचिद् अतीत-अनागत-आदिषु नाना-एक-अर्थक्रियाकारिषु वा अर्थेषु ००६०४ तद्-भाव स्थापनाय नाना-एकात्म-अभावे अपि नाना-एक-रूपाणां ००६०५ वृत्तेः, राजा महा-सम्मतः प्रभवो राजवंशस्य, शङ्खश् ००६०६ चक्रवर्त्ती महा-सम्मत-निर्मितस्य यूपस्य उत्थापयिता, ००६०७ शश-विषाणम्, रूपं सनिदर्शनं सप्रतिघम्, ००६०८ घटश् च इति. न हि सनिदर्शन-आदि शब्दा नाना-वस्तु-विषया एकत्र ००६०९ उपसंहारात्. ००६१० नाना-विषयत्वे अप्य् एकत्र उपसंहारस् तन्-निमित्तानान् तत्र ००६११ समवायाद् इति चेत्, आयासे वत अयं तपस्वी पदार्थः पतितो ००६१२ अनेक-सम्बन्धिनम् उपकृत्य-अनेकं शब्दम् आत्मनि तेभ्यः ००६१३ समाशंसन्. स यैः शक्ति-भेदैर् अनेकं सम्बन्धिनम् ००६१४ उपकरोति तैर् एव अनेकं शब्दं किं न उत्थापयति. ००६१५ एवं ह्य् अनेन परंपर-अनुसार-परिश्रमः परिहृतो ००६१६ भवति नाना-शब्द-उत्थापन असामर्थ्ये नाना-सम्बन्ध्य्- ००६१७ उपकारो अपि मा भूत्, अनुपकारे हि तेषां तत्-सम्बन्धिता ००६१८ अपि न सिध्यति. ००६१९ घट इत्य् अपि च रूप-आदय एव बहव एक-अर्थक्रियाकारिण ००६२० एक-शब्द-वाच्या भवन्तु, किम् अर्थ-अन्तर-कल्पनया. ००६२१ बहवो अपि ह्य् एक-अर्थ-कारिणो भवेयुश् चक्षुर्-आदि-वत्. तत्-सामर्थ्य- ००६२२ स्थापनाय तत्र एक-शब्द-नियोगो अपि स्याद् इति युक्तं ००६२३ पश्यामः. न च निःप्रयोजना लोकस्य अर्थेषु शब्द-योजना. ००६२४ तत्र ये अर्थाः सह पृथग् वा एक-प्रयोजनास् तेषां तद्भाव- ००६२५ स्थापनाय ह्य् एक-शब्दो नियुज्यते यदि, किं स्यात्. तद्-अर्थक्रिया- ००७०१ शक्ति-स्थापनाय नियुक्तस्य समुदाय-शब्दस्य एक- ००७०२ वचन-विरोधो अपि न अस्त्य् एव. सहितानां सा शक्तिर् एका न ००७०३ प्रत्येकम् इति समुदाय-शब्द एकस्मिन् समुदाये वाच्ये ००७०४ एक-वचनं घट इति. जाति शब्देष्व् अर्थानां प्रत्येकं ००७०५ सहितानां च शक्तेर् नाना-एका च शक्तिर् इति, नाना-एक-शक्ति-विवक्षायां ००७०६ बहु-वचनम् एक-वचनं च इच्छातो वृक्षा वृक्ष इति ००७०७ स्यात्, यद्य् एष नियमो बहुष्व् एव बहु-वचनम्, एकस्मिन्न् ००७०८ एक-वचनम् इति. अस्माकन् तु सांकेतिकेष्व् अर्थेषु संकेत- ००७०९ वशाद् वृत्तिर् इत्य् अनभिनिवेश एव. ००७१० नाना-एको रूप-आदिर् एक-शब्द-उत्थापने शक्त इति चेत्, किं वै ००७११ पुरुष-वृत्तेर् अनपेक्षाः शब्दान् अर्थाः स्वयम् उत्थापयन्ति, ००७१२ आहोस्वित् पुरुषैर् शब्दा व्यवहार-अर्थम् अर्थेषु ००७१३ नियुज्यन्ते. स्वयम् उत्थापने हि भाव-शक्तिर् अशक्तिर् वा चिन्त्येत, ००७१४ न च तद् युक्तम्. पुरुषैस् तेषां नियोगे यथेष्टं ००७१५ नियुञ्जीरन्न् इति कस् तत्र उपालम्भः, निमित्तं च नियोगस्य ००७१६ उक्तम् एव. अपि च यदि न रूप-आदीनाम् एकेन शब्देन सम्बन्धः, ००७१७ कथम् एकेन एषाम् आश्रय-अभिमतेन द्रव्येण ००७१८ सम्बन्ध इति केवलम् अयम् असद्-भूत-अभिनिवेश एव. ००७१९ न वयम् एक-सम्बन्ध-विरोधाद् एकं शब्दं न इच्छामः, ००७२० अपि त्व् अभिन्नानां रूप-आदीनां घट-कम्बल-आदिषु नाना- ००७२१ अर्थक्रिया-शब्द-विरोधात् त एक-रूपाः समुदाय-अन्तर-असम्भाविनीम् ००७२२ अर्थक्रियाम् एव न कुर्युः. तेन तत्-प्रकाशनाय एकैकेन ००७२३ अपि शब्देन न उच्येरन्. भवतु नाम कस्यचिद् अयं ००७२४ वाञ्च्छा भवेयुर् एक-रूपा रूप-आदयः सर्व-समुदायेष्व् इति. ००७२५ किम् इदं परस्पर-विविक्त-रूप प्रतिभास-अधियक्ष-दर्शनम् ००७२६ एनाम् उपेक्षते. अनिष्टं च इदं रूप-आदीनां प्रतिसमुदायं ००७२७ स्वभाव-भेद-उपगमात्. ००८०१ यद्य् अन्य एव रूप-आदिभ्यो घट इति एकः स्यात्, ००८०२ किं स्यात्. अस्तु, प्रत्यक्षस्य सतो अरूप-आदि-रूपस्य तद्-विवेकेन बुद्धौ ००८०३ स्वरूपेण प्रतिभासेन किम् आवरणम्. प्रतिभासमानाश् ००८०४ च विवेकेन प्रत्यक्षा अर्था दृश्यन्ते अपृथग्देशत्वे ००८०५ अपि गन्ध-रस-आदयः, वात-आतप-स्पर्श-आदयश् च एक-इन्द्रिय-ग्राह्यत्वे ००८०६ अपि. इदम् एव च प्रत्यक्षस्य प्रत्यक्षत्वम्, यद् ००८०७ अनात्म-रूप-विवेकेन स्वरूपस्य बुद्धौ समर्पणम्. ००८०८ अयं पुनर् घटो अमूल्य-दान-क्रयी, यः स्वरूपं च न उपदर्शयति ००८०९ प्रत्यक्षतां च स्वीकर्तुम् इच्छति. एतेन बुद्धि- ००८१० शब्द-आदयो अपि व्याख्याता यदि तैस् तत्-साधनम् इष्यते. न च ००८११ प्रत्यक्षस्य अनभिभवे रूप-अनुपलक्षणम्, येन तत्-साधनाय ००८१२ लिङ्गम् उच्यते. अप्रत्यक्षत्वे अप्य् अप्रमाणस्य सत्ता- ००८१३ उपगमो न युक्तः. तन् न रूप-आदिभ्यो अन्यो घटः. एवं ००८१४ तावन् न बुद्धि-व्यपदेशाभ्यां सत्ता-व्यवहारः सत्ता- ००८१५ भेद-अभेद-व्यवहारो वा अत एव न तद्-विपर्ययाद् विपर्ययः. ००८१७ अर्थक्रियातस् तु सत्ता-व्यवहारः स्यात्, न सत्ता-भेद-अभेद- ००८१८ व्यवहारः, एकस्य अप्य् अनेक-अर्थक्रिया-दर्शनात्, यथा ००८१९ प्रदीपस्य विज्ञान-वर्ति-विकार-ज्वाला-अन्तर-उत्पादनानि, अनेकस्य ००८२० अपि चक्षुर्-आदेर् एक-विज्ञान-क्रिया-दर्शनात्. ००८२१ न ब्रूमो अर्थक्रिया-भेद-मात्रेण सत्ता-भेद इति, किं ००८२२ तर्हि अदृष्ट-अर्थक्रिया-भेदेन. या अर्थक्रिया यस्मिन्न् अदृष्टा ००८२३ पुनर् दृश्यते सा सत्ता-भेदं साधयति, यथा मृद्य् अदृष्टा ००८२४ सत्य् उदक-धारण-आद्य्-अर्थक्रिया घटे दृश्यमाना, अदृष्टा अपि ००८२५ तन्तुषु प्रावरण-आद्य्-अर्थक्रिया पटे दृश्यत इति सत्ता- ००८२६ भेदः. ००९०१ सिध्यति एवम् अर्थ-अन्तरम्, तथा अप्य् अवयवी न सिध्यति. ००९०२ यथाप्रत्ययं संस्कार-सन्ततौ स्वभाव-भेद-उत्पत्तेर् ००९०३ अर्थक्रिया-भेदः, अरणि-निर्मथन-अवस्था-भेदाद् इव अग्नेः ००९०४ स्थूल-करीष-तृण-काष्ठ-दहन-शक्ति-भेदः. तथा यथाप्रत्ययं ००९०५ स्वभाव-भेद-उत्पत्तेस् तन्त्व्-आदिष्व् अर्थक्रिया-भेदः. ००९०६ एतेन बुद्धि-व्यपदेश-भेद-अभेदौ व्याख्यातौ. ००९०७ तत्र यद् उक्तम् अर्थक्रियातः सत्ता-व्यवहार-सिद्धिः, ००९०८ विपर्ययाद् विपर्यय इति सत्यम् एतत्. स एव तु विपर्ययो ००९०९ अनुपलब्धि-लक्षण-प्राप्तेषु न सिध्यति. तत्र पुनर् इदम् ००९१० अनिच्छतो अप्य् आयातम्, यस्य इदं सामर्थ्यम् उपलब्धि-लक्षण- ००९११ प्राप्तं सन् न उपलभ्यते, सो असद्-व्यवहार-विषयः ००९१२ सामर्थ्य-लक्षणत्वात् सत्त्वस्य इति. तथा अपि को अतिशयः पूर्वकाद् ००९१३ अस्य. न हि स्वभावाद् अर्थ-अन्तरं सामर्थ्यम्, तस्य ००९१४ उपलब्धि-लक्षण-प्राप्तस्य यो अनुपलम्भः स स्वभावस्य ००९१५ एव इति पूर्वका एव इयम् अनुपलब्धिः. तस्माद् अनेन क्वचित् ००९१६ केषांचिद् असद्-व्यवहारम् अभ्युपगच्छता अतो अनुपलम्भाद् ००९१७ अभ्युपगन्तव्यो न वा क्वचिद् विशेष-अभावात्. सो ००९१८ अन्यत्र अपि तथाविधे अविशिष्ट इति सो अपि तथा अस्त्व् इति व्याप्तिः: ००९१९ सर्व एवंविधो अनुपलब्धो असद्-व्यवहार-विषय इति. ००९२० न एव कश्चित् क्वचित् कथंचिद् अनुपलब्धो अप्य् असद्-व्यवहार- ००९२१ विषय इति चेत्, सर्वस्य सर्व-रूपाणां सर्वदा अनिवृत्तेः ००९२२ सर्वं सर्वत्र सर्वदा समुपयुज्येत. इदं च न ००९२३ स्यात्: इदम् अतः, नात इदम्, इह इदम्, इह न इदम्, इदानीम् ००९२४ इदम्, इदानीं न इदम्, इदम् एवम्, इदं न एवम् इति, कस्यचिद् ००९२५ अपि रूपस्य कथंचिद् क्वचित् कदाचिद् विवेक-हेतोर् अभावात्. ००९२६ अनन्वय-व्यतिरेकं विश्वं स्यात्, भेद-अभावात्. ०१००१ अवस्था-निवृत्ति-प्रवृत्ति-भेदेभ्यो व्यवस्था इति चेत्, ननु ०१००२ त एव सर्व-विषयस्य असद्-व्यवहारस्य अभावान् न सम्भवन्ति, ०१००३ यतस् तेभ्यो व्यवस्था स्यात्. क्वचिद् विषये असद्-व्यवहार- ०१००४ उपगमे स कुत इति वक्तव्यम्. न ह्य् अनुपलम्भाद् ०१००५ अन्यो व्यवच्छेद-हेतुर् अस्ति, विधि-प्रतिषेधाभ्यां व्यवच्छेदे ०१००६ सर्वदा अनुपलम्भस्य एव साधनत्वात्. अनुपलम्भाद् ०१००७ एव तद्-अभ्युपगमे स यत्र एव अस्ति सर्वो असद्-व्यवहार- ०१००८ विषय इति वक्तव्यम्, विशेष-अभावात्. ०१००९ सर्व-प्रमाण-निवृत्तिर् अनुपलब्धिः. सा यत्र सो असद्-विषय ०१०१० इष्ट इति चेत्, सुकुमार-प्रज्ञो देवानांप्रियो न सहते ०१०११ प्रमाण-चिन्ता-व्यवहार-परिक्लेशं येन न अत्र आदरं कृतवान्. ०१०१२ न ह्य् अनुमान-आदि-निवृत्तिर् अभावं गमयति व्यभिचारात्, ०१०१३ न सर्व-प्रत्यक्ष-निवृत्तिर् असिद्धेः, न आत्म-प्रत्यक्ष-अविशेष- ०१०१४ निवृत्तिर् अपि विप्रकृष्टेषु. तस्मात् स्वभाव-विशेषो यतः ०१०१५ प्रमाणान् नियमेन सद्-व्यवहारं प्रतिपद्यते, तन्-निवृत्तिस् ०१०१६ तस्य असद्-व्यवहारं साधयति, तत्-स्वभाव-सत्तायास् तत्- ०१०१७ प्रमाण-सत्तया व्याप्तेः. न च उपलब्धि-लक्षण-प्राप्तस्य अर्थस्य ०१०१८ प्रत्यक्षाद् अन्य-उपलब्धिर् येन अनुमानाद् अस्य उपलब्धिः ०१०१९ स्यात्. न च तद्-रूप-अन्यथाभावम् अन्तरेण अप्रत्यक्षता- ०१०२० अन्यथाभावे च तद् एव न स्यात्. ०१०२१ अपि च कुत इदम् अमन्त्र-ओषधम् इन्द्रजालं भावेन ०१०२२ शिक्षितम्, यद् अयम् अजात-अनष्ट-रूप-अतिशयो अव्यवधान-अदूर- ०११०१ स्थानस् तस्य एव तद्-अवस्था इन्द्रिय-आदेर् एव पुरुषस्य कदाचित् ०११०२ प्रत्यक्षो अप्रत्यक्षश् च, येन कदाचित् अस्य अनुमानम् उपलब्धिः ०११०३ कदाचित् प्रत्यक्षं कदाचिद् आगमः, एतस्मिन्न् एव अनतिशये ०११०४ अमीषां प्रकाराणां विरोधात्. ०११०५ न अनतिशय एक-अतिशय-निवृत्त्या अपर-अतिशय-उत्पत्त्या च व्यवहार- ०११०६ भेद-उपगमात्. सो अतिशयस् तस्य आत्मभूतो अनन्वयो निवर्तमानः ०११०७ प्रवर्तमानश् च कथं न स्वभाव-नानात्वम् ०११०८ आकर्षयति सुख-दुःख-वत्. सान्वयत्वे च का कस्य ०११०९ प्रवृत्तिर् निवृत्तिर् वा इति यत् किंचिद् एतत्. ०१११० अथवा यदि कस्यचित् स्वभावस्य प्रवृत्ति-निवृत्ती स्वयम् ०११११ अभ्यनुज्ञायेते, तद् एव परो ब्रुवाणः किम् इति न अनुमन्यते. ०१११२ तस्य निरन्वय-उपजनन-विनाश-उपगमाद् इति चेत्, को ०१११३ अयम् अन्वयो नाम भावस्य जन्म-विनाशयोः. शक्तिः, सा अस्त्य् ०१११४ एव प्राग् अपि जन्मनो निरोधाद् अप्य् ऊर्ध्वम्. तेन अयं न अपूर्वः ०१११५ सर्वथा जायते, न पूर्वो विनाश्यति इति. यदि सा सर्वदा अनतिशया ०१११६ किम् इदानीम् अतिशयवत् यत् कृतो अयं व्यवहार-विभागः. ०१११७ ता अवस्था अतिशयवत्य इति चेत् ता अवस्थाः सा च ०१११८ शक्तिः, किम् एको भाव आहोस्विन् नाना. एकश् चेत्, कथम् इदानीम् ०१११९ इदम् एकत्र अविभक्त-आत्मनि निष्पर्यायं परस्पर-व्याहतं ०११२० योक्ष्यते: जन्म-अजन्म निवृत्तिर् अनिवृत्तिर् एकत्वं नानात्वं ०११२१ प्रत्यक्षता-अप्रत्यक्षता अर्थक्रिया-उपयोगो अनुपयोगश् ०११२२ च इत्य् आदि. ०१२०१ अस्ति पर्यायो अवस्था शक्तिर् इति तेन अविरोध इति चेत्, विस्मरण- ०१२०२ शीलो देवानांप्रियः प्रकरणं न लक्षयति. शक्तिर् ०१२०३ अवस्था इत्य् एको भावो अविभाग इति पक्षे अयं विरोध उक्तः. ०१२०४ अथ अस्त्य् अनयोर् विभागो न कश्चिद् विरोधः, केवलं ०१२०५ सान्वयौ भावस्य जन्म-विनाशाव् इति न स्यात्, यस्माद् यस्य अन्वयो ०१२०६ न तस्य जन्म-विनाशौ यस्य च तौ न तस्य अन्वयः. ०१२०७ तयोर् अभेदाद् अदोष इति चेत्, अनुत्तरं बत, दोष-सङ्कटम् ०१२०८ अत्रभवान् दृष्टि-रागेण प्रवेश्यमानो अपि न आत्मानं ०१२०९ चेतयति. अभेदो हि नाम-ऐक्यं ताव् इति च भेद-अधिष्ठानो ०१२१० भाविको व्यवहारः. निवृत्ति-प्रादुर्भावयोर् अनिवृत्ति-प्रादुर्भावौ ०१२११ स्थिताव्, अस्थितिर् इत्य् आदिकं नानात्व-लक्षणं च ०१२१२ कथं योज्यते. एष हि भावानां भेद एतद्-विरहश् च अभेदो ०१२१३ यथा सुख-आदिषु शक्त्य्- अवस्थयोश् च एकात्मनि. अन्यथा ०१२१४ भेद-अभेद-लक्षण-अभावाद् भेद-अभेदयोर् अव्यवस्था स्यात् ०१२१५ सर्वत्र. ०१२१६ तदात्मनि प्रादुर्भावो अभेदः, विपर्यये भेदः, यथा ०१२१७ मृद्-आत्मनि प्रादुर्भवतो घटस्य तस्माद् अभेदः. ०१२१८ भेदश् च विपर्यये सुख-दुःखयोर् इति, इदं भेद- ०१२१९ अभेद-लक्षणम्, तेन अविरोध इति चेत्, न वै मृदात्मनि ०१२२० घटस्य प्रादुर्भावः, किं तर्हि मृदात्मा एव कश्चित् ०१२२१ घटः. न ह्य् एकस् त्रैलोक्ये मृद्-आत्मा, प्रतिविज्ञप्ति-प्रतिभास- ०१२२२ भेदात् द्रव्य-स्वभाव-भेदात्. एवं ह्य् अस्य अपि सुख-आदिषु ०१२२३ चैतन्येषु च भेद-अवगमः समर्थो भवति, यद्य् ०१२२४ एवं भेदः स्यात्. ०१३०१ सत्य् अप्य् एतस्मिन् कस्यचिद् आत्मनो अन्वयाद् ऐक्यम् इति ०१३०२ चेत्, सुख-आदिष्व् अप्य् अयं प्रसङ्गः चैतन्येषु च. न च घट- ०१३०३ आदिष्व् अपि सर्व-आत्मना अन्वयो अवैश्वरूप्य-सहोत्पत्त्य्-आदि-प्रसङ्गात्. ०१३०४ न च घटं मृद्-आत्मानं च कश्चिद् विवेकेन उपलक्षयति. ०१३०५ येन एवं स्याद् इदम् इह प्रादुर्भूतम् इति. न ह्य् ०१३०६ अधिष्ठान-अधिष्ठानिनोर् विवेकेन अनुपलक्षणे एवं भवति. ०१३०७ न च शक्तेः शक्त्य्-आत्मनि प्रादुर्भाव इति तस्याः स्वात्मनो ०१३०८ अभेदो न स्यात्. ०१३०९ एतेन परिणामः प्रत्युक्तः, यो अपि हि कल्पयेत्, यो यस्य ०१३१० परिणामः, स तस्माद् अभिन्न इति, न हि शक्तेर् आत्म-अपरिणाम ०१३११ इति, किं च इदम् उक्तं भवति परिणाम इति. अवस्थितस्य ०१३१२ द्रव्यस्य धर्म-अन्तर-निवृत्तिर् धर्म-अन्तर-प्रादुर्भावश् ०१३१३ च परिणामः यत् तद् धर्म-अन्तरं निवर्तते ०१३१४ प्रादुर्भवति च, किं तत् तद् एव अवस्थितं द्रव्यं स्यात्. ०१३१५ ततो अर्थ-अन्तरं वा अन्य-विकल्प-अभावात्. ०१३१६ यदि तत् तद् एव, तस्य अवस्थानं न निवृत्ति-प्रादुर्भावाव् ०१३१७ इति कस्य ताव् इति वक्तव्यम्. अवस्थितस्य धर्म-अन्तरम् इति ०१३१८ च न सिध्यति. न हि तद् एव तस्य अनपाश्रित-व्यपेक्ष-अभेदं ०१३१९ धर्म-अन्तरं भवति. ०१३२० अथ द्रव्याद् अर्थ-अन्तरं धर्मः, तदा तस्य निवृत्ति- ०१३२१ प्रादुर्भावाभ्यां न द्रव्यस्य परिणतिः. न ह्य् अर्थ-अन्तरगताभ्यां ०१३२२ निवृत्ति-प्रादुर्भावाभ्याम् अर्थ-अन्तरस्य परिणतिः, ०१३२३ चैतन्ये अपि प्रसङ्गात्. ०१४०१ द्रव्यस्य धर्म इति च व्यपदेशो न सिध्यति सम्बन्ध- ०१४०२ अभावात्. न हि कार्यकारणभावाद् अन्यो वस्तु-सम्बन्धो ०१४०३ अस्ति. न च अनयोः कार्यकारणभावः, स्वयम् अतदात्मनो ०१४०४ अतत्-कारणत्वात्, धर्मस्य द्रव्याद् अर्थ-अन्तर-भूतत्वात्. ०१४०६ अर्थान्तरत्वे अपि धर्म-कारणत्वे धर्म-अन्तरस्य ०१४०७ कार्यस्य उत्पादनाद् द्रव्यस्य परिणाम इति इष्टं स्यात्. तद् अविरुद्धम् ०१४०८ अन्यस्य अपि, हेतु-फल-सन्ताने मृद्-द्रव्य-आख्ये पूर्वकान् ०१४०९ मृत्-पिण्ड-द्रव्यात् कारणाद् उत्तरस्य घट-द्रव्यस्य ०१४१० कार्यस्य उत्पत्तौ मृद्-द्रव्यं परिणतम् इति व्यवहारस्य उपगमात्. ०१४११ न च धर्मस्य द्रव्यात् तत्त्वान्यत्वाभ्याम् अन्यो ०१४१२ विकल्पः सम्भवति, उभयथा अपि न परिणामः. ०१४१३ न निर्विवेकं द्रव्यम् एव धर्मः, न अपि द्रव्याद् ०१४१४ अर्थ-अन्तरम्, किं तर्हि, द्रव्यस्य संनिवेशो अवस्था-अन्तरम्, ०१४१५ यथा अङ्गुलीनां मुष्टिः. न ह्य् अङ्गुल्य् एव निर्विवेका मुष्टिः, ०१४१६ प्रसारितानाम् अमुष्टित्वात्, न अप्य् अर्थ-अन्तरम्, पृथक्-स्वभावेन ०१४१७ अनुपलब्धेर् इति चेत्, न, मुष्टेर् अङ्गुलि-विशेषत्वात्. अङ्गुल्य ०१४१८ एव हि काश्चिन् मुष्टिः, न सर्वाः. न हि प्रसारिता अङ्गुल्यो ०१४१९ निर्विवेक-स्वभावा मुष्ट्य्-अङ्गुल्यः, अवस्था-द्वये अपि उभय- ०१४२० प्रतिपत्ति-प्रसङ्गात्. य एव हि खलु विवेकः स्वभावभूतः, ०१४२१ स एव वस्तु-भेद-लक्षणं सुख-दुःख-वत्. परभूते ०१५०१ च विवेक-उत्पादे अङ्गुल्यः प्रसारिता एव उपलभ्येरन्, न हि ०१५०२ स्वयं स्वभावाद् अच्युतस्य अर्थ-अन्तर-उत्पादे अन्यथा-उपलब्धिः, ०१५०३ अतिप्रसङ्गात् ०१५०४ ननु उक्तं न द्रव्यम् एव निर्विवेकम् अवस्था, न अपि ०१५०५ द्रव्याद् अर्थ-अन्तरम् इति. उक्तम् इदम्, न पुनर् युक्तम्, न ०१५०६ हि सतो वस्तुनस् तत्त्वान्यत्वे मुक्त्वा अन्यः प्रकारः सम्भवन्ति, ०१५०७ तयोर् वस्तुनि परस्पर-परिहार-स्थित-लक्षणत्वेन ०१५०८ एक-त्यागस्य अपर-उपादान-नान्तरीयकत्वात्. अङ्गुलीषु पुनः ०१५०९ प्रतिक्षण-विनाशिनीष्व् अन्या एव प्रसारिताः, अन्या मुष्टिः. ०१५१० तत्र मुष्ट्य्-आदि-शब्दा विशेष-विषयाः, अङ्गुली-शब्दः सामान्य- ०१५११ विषयः, बीज-अङ्कुर-आदि-शब्द-वत् व्रीह्य्-आदि-शब्द-वच् च. तेन अङ्गुल्यः ०१५१२ प्रसारिता न मुष्टिः. ०१५१३ तद् यदि प्राग् असद् एव कारणे कार्यं भवेत्, किं न ०१५१४ सर्वः सर्वस्माद् भवति. न ह्य् असत्त्वे कश्चिद् विशेष इति. ०१५१५ ननु सर्वत्र सर्वस्य सत्त्वे अप्य् अयं तुल्यो दोषः. न हि ०१५१६ सत्त्वे कश्चिद् विशेषः. विशेषे वा स विशेषस् त्रैगुण्याद् ०१५१७ भिन्नः स्यात्, तद्भावे विशेषस्य अनन्वयात्. सतश् च सर्वात्मना ०१५१८ निष्पन्न-अवस्थायाम् इव किं जायते. साधन-वैफल्यं ०१५१९ च, साध्यस्य कस्यचिद् अभावात् यस्य कस्यचिद् अतिशयस्य ०१५२० तत्र कथंचिद् असत उत्पत्तौ, सो अतिशयस् तत्र असन् ०१५२१ कथं जायते. जातौ वा सर्वः सर्वस्माज् जायेत इति तुल्यः पर्यनुयोगः. ०१६०१ न अतिशयस् तत्र सर्वथा न अस्ति, कथंचित् सत एव भावाद् ०१६०२ इति चेत्, यथा न अस्ति, स प्रकारस् तत्र असन् कथं जायेत. ०१६०३ न च सर्वथा सतः कश्चिज् जन्म-अर्थ इत्य् उक्तम्. ०१६०४ असतो अपि कार्यस्य कारणाद् उत्पादे, यो यज्-जनन-स्वभावः, ०१६०५ तत एव तस्य जन्म, न अन्यस्माद् इति नियमः. ०१६०६ तस्य अपि स स्वभाव-नियमः स्व-हेतोर् इत्य् अनादि-भाव-स्वभाव- ०१६०७ नियमः. ०१६०८ अपि च, यदि मृत्-पिण्डे घटो अस्ति, कथं तद्-अवस्थायां ०१६०९ न पश्चाद्-वद् उपलब्धिः, तद्-अर्थक्रिया वा. व्यक्तेर् अप्रादुर्भावाद् ०१६१० इति चेत्, तस्य एव तद्-अर्थक्रिया-आदि-भावे घटत्वात्, ०१६११ तद्-रूपस्य च प्राग् असत्त्वात्, कथं घटो अस्ति. न हि रूप-अन्तरस्य ०१६१२ सत्त्वे रूप-अन्तरम् अस्ति. न च रूप-प्रतिभास-भेदे वस्त्व्- ०१६१३ अभेदो युक्तः, अतिप्रसङ्गात्. ०१६१४ तस्माद् य उपलब्धि-लक्षण-प्राप्त-स्वभावो अनुपलब्धः, ०१६१५ स न अस्त्य् एव. न हि तस्य तत्-स्वभाव-स्थिताव् अनुपलब्धिः. ०१६१६ तद्-अस्थितिश् च अतत्त्वं. परस्पर-स्वभाव-अस्थितयोर् ०१६१७ इव दुःख-सुखयोर् इति व्याप्तिर् असद्-व्यवहार-निश्चयेन ०१६१८ अनुपलब्धि-विशेषस्य. ०१६१९ तेन अनुपलब्ध्या कस्यचिद् व्यवच्छेदं प्रसाधयता ०१६२० तस्य यथोक्त-उपलब्धि-लक्षण-प्राप्तिर् उपदर्शनिया. उपदर्श्य- ०१६२१ अनुपलब्धि-निर्देशः समर्थनं स्वभाव-अनुपलब्धौ. ०१६२२ व्यापक-अनुपलब्धाव् अपि धर्मयोर् व्याप्यव्यापकभावं ०१६२३ प्रसाध्य व्यापकस्य निवृत्ति-प्रसाधनं समर्थनम्. ०१६२४ कारण-अनुपलब्धाव् अपि कार्यकारणभावं ०१६२५ प्रसाध्य कारणस्य निवृत्ति-प्रसाधनं समर्थनम्. तद्- ०१६२६ विरुद्ध-उपलब्धिष्व् अपि द्वयोर् विरुद्धयोर् एकस्य विरुद्धस्य ०१६२७ उपदर्शनं समर्थनम्. ०१७०१ एवम् अनुपलब्धौ साधन-अङ्गस्य असमर्थनं साधन- ०१७०२ अङ्ग-अवचनं तद् वादिनो निग्रहस्थानम्, असमर्थने ०१७०३ तस्मिन् साध्य-असिद्धेः. ०१७०४ अथवा साध्यते तेन परेषाम् अप्रतीतो अर्थ इति साधनं ०१७०५ त्रिरूप-हेतु-वचन-समुदायः. तस्य अङ्गं पक्ष-धर्म- ०१७०६ आदि-वचनम्. तस्य एकस्य अप्य् अवचनम् असाधन-अङ्ग-वचनम्. ०१७०७ तद् अपि वादिनो निग्रहस्थानम् तद्-अवचने हेतु-रूपस्य ०१७०८ एव अवचनेन सिद्धेर् अभावात्. ०१७०९ अथवा तस्य एव साधनस्य यन् न अङ्गं प्रतिज्ञा-उपनय- ०१७१० निगमन-आदि, तस्य असाधन-अङ्गस्य साधन-वाक्ये उपादानं ०१७११ वादिनो निग्रहस्थानम्, व्यर्थ-अभिधानात्. ०१७१२ अन्वय-व्यतिरेकयोर् वा साधर्म्यवति वैधर्म्यवति ०१७१३ च साधन-प्रयोग एकस्य एव अभिधानेन सिद्धेर् भावात्, ०१७१४ द्वितीयस्य असामर्थ्यम् इति तस्य अप्य् असाधन-अङ्गस्य अभिधानं ०१७१५ निग्रहस्थानम् व्यर्थ-अभिधानाद् एव. ०१७१६ ननु च विषय-उपदर्शनाय प्रतिज्ञा-वचनम् असाधन-अङ्गम् ०१७१७ अप्य् उपदेयम् एव. न, वैयर्थ्यात्. असत्य् अपि प्रतिज्ञा- ०१७१८ वचने यथोक्तात् साधन-वाक्याद् भवत्य् एव इष्ट-अर्थ-सिद्धिर् ०१७१९ इत्य् अपार्थकं तस्य उपादानम्. यदि च विषय-उपदर्शनम् ०१७२० अन्तरेण प्रतीतेर् अनुत्पत्तिः, कथं न प्रतिज्ञा साधन- ०१७२१ अवयवः. न हि पक्ष-धर्म-आदि-वचनस्य अपि प्रतीति-हेतु- ०१७२२ भावाद् अन्यः साधन-अर्थः. स प्रतिज्ञा-वचने अपि तुल्य इति ०१७२३ कथं न साधनम्. ०१८०१ केवलस्य असामर्थ्याद् असाधनत्वम् इति चेत्, तत् तुल्यं ०१८०२ पक्ष-धर्म-वचनस्य अपि इति तद् अपि न साधन-अवयवः स्यात्. ०१८०३ न हि पक्ष-धर्म-वचनात् केवलात् प्रतिपत्तेर् उत्पत्तिः. ०१८०४ एतेन संशय-उत्पत्तिः प्रत्युक्ता, पक्ष-धर्म-वचनाद् अपि ०१८०५ केवलाद् अप्रदर्शिते सम्बन्धे संशय-उत्पत्तेः. तस्माद् ०१८०६ व्यर्थम् एव साधन-वाक्ये प्रतिज्ञा-वचन-उपादानं वादिनो ०१८०७ निग्रहस्थानम्. ०१८०८ अथवा साधनस्य सिद्धेर् यन् न अङ्गम् असिद्धो विरुद्धो ०१८०९ अनैकान्तिको वा हेत्वाभासः. तस्य अपि वचनं वादिनो ०१८१० निग्रहस्थानम् असमर्थ-उपादानात्. ०१८११ तथा साध्य-आदि-विकलस्य अनन्वय-अप्रदर्शित-अन्वय-आदेर् अपि ०१८१२ दृष्टान्ताभासस्य असाधन-अङ्गस्य वचनम् अपि वादिनो निग्रहस्थानम्, ०१८१३ असमर्थ-उपादानाद् एव. न हि तैर् हेतोः सम्बन्धः ०१८१४ शक्यते प्रदर्शयितुम्, अप्रदर्शनाद् असामर्थ्यम्. ०१८१६ अथवा सिद्धिः साधनम् तद्-अङ्गं धर्मो यस्य अर्थस्य ०१८१७ विवाद-आश्रयस्य वाद-प्रस्ताव-हेतोः, स साधन-अङ्गः. ०१८१८ तद्-व्यतिरेकेण अपरस्य अप्य् अजिज्ञासितस्य विशेषस्य शास्त्र-आश्रय- ०१८१९ व्याज-आदिभिः प्रक्षेपो घोषणं च पर-व्यामोहन-अनुभाषण- ०१८२० शक्ति-विघात-आदि-हेतोः. तद् अप्य् असाधन-अङ्ग-वचनं ०१९०१ वादिनो निग्रहस्थानम्, अप्रस्तुत-अभिधानात्, तथा विशेष-सहितस्य ०१९०२ अर्थस्य प्रतिवादिनो अजिज्ञासितत्वात्. जिज्ञासायाम् अदोषः. ०१९०३ जिज्ञासितं पुनर् अर्थस्य अन्यस्य प्रसङ्ग-परंपरया ०१९०४ येष पन्न-आदिना बहिः प्रतिवादिनः प्राश्निकानां च ०१९०५ न्यायदर्शिनाम् इति. एभिः कथा-विच्छेद एव करणीयः, न ०१९०६ हि कश्चिद् अर्थः क्वचित् क्रियमाण-प्रसङ्गे न प्रयुज्यते, ०१९०७ नैरात्म्यवादिनस् तु तत्-साधने नृत्य-गीत्य्-आदेर् अपि तत्र ०१९०८ प्रसङ्गात्. ०१९०९ यथा प्रतिज्ञा-अभिधान-पूर्वकं कश्चित् कुर्यात्. न अस्त्य् ०१९१० आत्मा इति वयं बौद्धा ब्रूमः. के बौद्धाः. ये बुद्धस्य ०१९११ भगवतः शासनम् अभ्युपगताः. को बुद्धो भगवान्. ०१९१२ यस्य शासने भदन्त-अश्वघोषः प्रव्रजितः. कः पुनर् ०१९१३ भदन्त-अश्वघोषः. यस्य राष्ट्र-पालं नाम नाटकम्. ०१९१४ कीदृशं राष्ट्र-पालं नाम नाटकम् इति प्रसङ्गं कृत्वा ०१९१५ नान्द्यन्ते ततः प्रविशति सूत्रधार इति पठेन् नृत्येद् ०१९१६ गायेच् च. प्रतिवादी तं च सर्व-प्रसङ्गं न अनुकर्तुं ०१९१७ समर्थ इति पराजितः स्याद् इति. ०१९१८ सभ्यः साधु-सम्मतानां विदुषां तत्त्व-चिन्ता-प्रकारः. ०१९१९ न च एवं प्रस्तुतस्य पर्यवसानं सम्भवति, अनिश्चय- ०१९२० फलत्वाद् अनारम्भ एव वादस्य. ०२००१ कथं च एवं जय-पराजयौ, प्रतिवादिनो अप्य् अननुभाषणस्य ०२००२ एवंप्रकारस्य प्रसङ्गस्य विस्तरेण अनुभाषण- ०२००३ व्याजेन सम्भवाद् अनिश्चितत्वाच् च. तस्मात् प्रतिज्ञा-वचनम् ०२००४ एव तावन् न न्याय्यम्. कुतः पुनर् तत्र अजिज्ञासित- ०२००५ विशेष-प्रसङ्ग-उपन्यासस् तद्-व्याख्या-प्रसङ्ग-वितथ-प्रलापश् ०२००६ च. सर्वश् च अयं प्रकारो दुर्मतिभिः शठैर् न्याय-सामर्थ्येन ०२००७ अर्थ-प्रतिपादने असमर्थैः प्रवर्तितः. यथा ०२००८ पुरुष-अतिशय-पूर्वकानि तनु-करण-भुवन-आदीनि इति प्रतिज्ञाय ०२००९ तनु-करण-भुवन-व्याख्या-व्याजेन सकल-वैशेषिक-शास्त्र-अर्थ- ०२०१० घोषणम्, नित्यः शब्दो अनित्यो वा इति वादे द्वादश-लक्षण- ०२०११ प्रपञ्च-प्रकाशन-शास्त्र-प्रणेतुर् जैमिनि-प्रतिज्ञत-तत्त्व- ०२०१२ नित्यता-अधिकरण-शब्द-घट-अन्यतर-सद्वितीयो घट इति ०२०१३ प्रतिज्ञाम् उपरचय्य द्वादश-लक्षण-अर्थ-व्याख्यानम्. सर्वो ०२०१४ अयं दुर्मतीनाम् असामर्थ्य-प्रच्छादन-उपायः, न तु ०२०१५ सत्यैर् अस्त्य् उपेतः, तत्त्व-परीक्षायां फल-आदि-प्रतिसरण- ०२०१६ दण्ड-प्रयोग-आदीनाम् अयुक्तत्वात्. ०२०१७ भवत्य् एव नाटक-आदि-घोषणे अर्थ-अन्तर-गमनात् पराजय ०२०१८ इति चेत्, अन्यस्य अप्य् अजिज्ञासितस्य किं न भवति. न हि ०२०१९ अस्य अपि काचिद् विवक्षित-साध्य-धर्म-सिद्धौ नान्तरीयकता. ०२०२० यथा हेतु-प्रत्यय-पारतन्त्र्य-लक्षण-संस्कार-दुःखता- ०२०२१ आदि-सिद्धिम् अन्तरेण न अनित्यता-सिद्धिः, तथाविधस् तु ०२०२२ धर्मः पृथग् अनुक्तो अपि साध्य-धर्मे अन्तर्भावात् पक्षीकृत ०२०२३ एव इति न पृथग् अस्य उपन्यासो व्याख्यानं वा. तस्माद् ०२१०१ एवंविधस्य अपि तदानीं प्रतिवादिना अजिज्ञासितस्य अर्थस्य ०२१०२ प्रतिज्ञायाम् अन्यत्र वा उपन्यासो व्याख्यानं वा अर्थ-अन्तर- ०२१०३ गमनान् निग्रहस्थानम् एव. तेन जिज्ञासित-धर्म-मात्रम् ०२१०४ एव साधन-अङ्गं वाच्यम्. न प्रसङ्ग उपक्षेप्तव्यः, ०२१०५ तद्-उपक्षेपे अतिप्रसङ्गात्. ०२१०६ एवम् असाधन-अङ्ग-वचनं वादिनो निग्रहस्थानं प्रतिवादिना ०२१०७ तथाभावे प्रतिपादिते, अन्यथा द्वयोर् एकस्य अपि ०२१०८ न जय-पराजयाव् इति. ०२१०९ अदोष-उद्भावनं प्रतिवादिनो निग्रहस्थानम्. वादिना ०२११० साधने प्रयुक्ते अभ्युपगत-उत्तर-पक्षो यत्र विषये प्रतिवादी ०२१११ यदा न दोषम् उद्भावयति तदा पराजितो वक्तव्यः. ०२११२ साधन-दोषाः पुनर् न्यूनत्वम् असिद्धिर् अनैकान्तिकता ०२११३ वादिनः साधयितुम् इष्टस्य अर्थस्य विपर्यय-साधनम् ०२११४ अष्टादश दृष्टान्त-दोषश् च. तेषाम् अनुद्भावनम् अप्रत्यायनम् ०२११५ अप्रतिपादनं प्रतिवादिनः पराजय-अधिकरणम्. ०२११६ तत् पुनः साधनस्य निर्दोषत्वात्, सदोषत्वे अपि प्रतिवादिनो ०२११७ अज्ञानात् प्रतिपादन-असामर्थ्याद् वा. न हि दुष्ट-साधन-अभिधाने ०२११८ अपि वादिनः प्रतिवादिनो अप्रतिपादिते दोषे पराजय- ०२११९ व्यवस्थापना युक्ता, तयोर् एव परस्पर-सामर्थ्य-उपघात- ०२१२० अपेक्षया जय-पराजय-व्यवस्थापनात्. केवलं हेत्वाभासाद् ०२१२१ भूत-प्रतिपत्तेर् अभावाद् अप्रतिपादकस्य जयो अपि न अस्त्य् ०२१२२ एव. न हि तत्त्व-चिन्तायां कश्चिच् छल-व्यवहारः. ०२२०१ यद्य् एवं किं न पराजयः, तत्त्व-सिद्धि-भ्रंशात्. ०२२०२ न अनिराकरणात्. निराकरणं हि तस्य अन्येन पराजयः, न ०२२०३ सिद्ध्य्-अभावः, प्रतियोग्य्-अनपेक्षणात् सिद्ध्य्-अभावस्य, ०२२०४ साधन-अभावे असत्य् अपि प्रतियोगिनि भावात्. प्रतियोगिनश् च ०२२०५ तन्-निराकरणे असामर्थ्यात् पराजयस्य अनुत्पत्तेर् अपराजयः. ०२२०६ तस्माद् अयम् असमर्थ-साधन-अभिधाय्य् अपि परेण ०२२०७ तथाभावे अप्रतिपादिते अपराजितो वक्तव्यः. ०२२०८ छल-व्यवहारे अपि विजिगीषूणां वाद इति चेत्, न, दुर्जन- ०२२०९ विप्रतिपत्त्य्-अधिकारे सतां शास्त्र-प्रवृत्तेः. न हि पर-अनुग्रह- ०२२१० प्रवृत्ता मिथ्या-प्रलाप-आरम्भ-आत्म-उत्कर्ष-पर-पंसन- ०२२११ आदीन् असद्-व्यवहारान् उपदिशन्ति. न च पर-विपंसनेन ०२२१२ लाभ-सत्कार-श्लोक-उपार्जनं सताम् आचारः. न अपि तथा-प्रवृत्तेभ्यः ०२२१३ स्व-हस्त-दानेन प्राणिनाम् उपतापनं सत्-सम्मतानां ०२२१४ शास्त्रकार-सभासदां युक्तम्. न च न्याय-शास्त्राणि ०२२१५ सद्भिर् लाभ-आद्य्-उपार्जनाय प्रणीयन्ते. तस्मान् न योग-विहितः ०२२१६ कश्चिद् विजिगीषु-वादो नाम. पर-अनुग्रह-प्रवृत्तास् तु सन्तो ०२२१७ विप्रतिपन्नं प्रतिपादयन्तो न्यायम् अनुसरेयुः सत्- ०२२१८ साधन-अभिधानेन भूत-दोष-उद्भावनेन वा, साक्षि-प्रत्यक्षं ०२२१९ तस्य एव अनुप्रबोधाय. तद् एव न्याय-अनुसरणं सतां ०२२२० वादः, उक्त-न्याये तत्त्व-अर्थी चेत् प्रतिपद्येत, तद्-अप्रतिपत्ताव् ०२२२१ अप्य् अन्यो न प्रतिपद्येत इति. ०२२२२ तत्त्व-रक्षण-अर्थं सद्भिर् उपहर्तव्यम् एव छल-आदि ०२२२३ विजिगीषुभिर् इति चेत्, न, नख-चपेट-शस्त्र-प्रहार-आदीपन-आदिभिर् ०२२२४ अपि इति वक्तव्यम्. तस्मान् न ज्यायान् अयं तत्त्व-रक्षण- ०२३०१ उपायः. साधन-प्रख्यापनं सतां तत्त्व-रक्षण-उपायः ०२३०२ साधन-आभास-दूषणं च, तद्-अभावे मिथ्या-प्रलापाद् अत्र ०२३०३ पर-उपताप-विधाने अपि तत्त्व-अप्रतिष्ठापनात्. अन्यथा अपि न्याय- ०२३०४ उपवर्णने विद्वत्-प्रतिष्ठानात्. तस्मात् पर-अनुग्रहाय ०२३०५ तत्त्व-ख्यापनं वादिनो विजयः, भूत-दोष-दर्शनेन मिथ्या- ०२३०६ प्रतिपत्ति-निवर्तनं प्रतिवादिनः. ०२३०७ अथवा यो न दोषः साधनस्य तद्-भावे अपि वादिना साधयितुम् ०२३०८ इष्टस्य अर्थस्य सिद्धेर् विघात-अभावात्, तस्य उद्भावनं ०२३०९ प्रतिवादिनो निग्रह-अधिकरणम्, मिथ्या-उत्तर-अभिधानात्. ०२३११ यथा साध्यतया अनिष्टो अपि वादिनो धर्मः, शास्त्र-उपगमात् ०२३१२ साध्य इति तद्-विपर्यासेन विरोध-उद्भावनम्. न अस्त्य् ०२३१३ आत्मा इति तव प्रतिज्ञा-पदयोर् विरोध इति प्रतिज्ञा-दोष-उद्भावनम्. ०२३१४ प्रयत्नानन्तरीयकः शब्दो अनित्यः प्रयत्नानन्तरीयकत्वाद् ०२३१५ इति हेतोर् धर्म-विशेषत्वात् प्रतिज्ञार्थैकदेश इत्य् ०२३१६ असिद्ध-उद्भावनम्, सर्वाणि साधर्म्य-वैधर्म्य-सम-आदीनि ०२३१७ जात्य्-उत्तराणि इत्य् एवम्-आदेर् दोषस्य उद्भावनम् अदोष-उद्भावनम्. ०२३१९ तस्य वादिना दोष-आभासत्वे प्रख्यापिते प्रतिवादी पराजितो ०२३२० वक्तव्यः, पूर्वपक्षे साधनस्य निर्दोषत्वात्. दोषवति ०२३२१ पुनः साधने न द्वयोर् एकस्य अपि जय-पराजयौ, तत्त्व- ०२३२२ अप्रख्यापनात् अदोष-उद्भावनाच् च. अप्रतिपक्षायां च ०२३२३ पक्ष-सिद्धौ कृतायां जेता भवति. ०२४०१ तस्माज् जिगीषता स्व-पक्षश् च स्थापनीयः पर-पक्षश् च ०२४०२ निराकर्तव्यः. निर्दोषे साधन-अभिधाने अपि वादिनः प्रतिवादिना ०२४०३ दोष-आभास उद्भाविते, दूषण-आभासत्व-ख्यापन एव ०२४०४ जय-पराजयौ, न अन्यथा, भावतस् तत्त्व-अभिधाने अपि प्रतिपक्ष- ०२४०५ निराकरणेन तत्त्वस्य प्रख्यापन-असामर्थ्यात्. न ०२४०६ प्रतिवादिनो अप्य् अत्र, भावतो मिथ्या-प्रतिपत्तेर् इति. ०२४०७ इदं न्याय्यं निग्रहस्थान-लक्षणम् उक्तम् अस्माभिः. ०२५०१ अन्यत् तु न युक्तम् इति न इष्यते. ०२५०२ यत्र इदं यथोक्तं निग्रहस्थान-लक्षणं न अस्ति तस्य ०२५०३ निग्रहस्थानत्वम् अयुक्तम् इति न उक्तम् अस्माभिः. ०२५०४ प्रतिदृष्टान्त-धर्म-अभ्यनुज्ञा-स्व-दृष्टान्ते प्रतिज्ञाहानिर् ०२५०५ निग्रहस्थानम् इति अत्र भाष्यकार-मतं दूषयित्वा वार्त्तिककारो ०२५०६ अयं स्थित-पक्षम् आह. तम् एव ब्रूमः. ०२५०७ प्रतिदृष्टान्तस्य यो धर्मस् तं यदा स्व-दृष्टान्ते ०२५०८ अभ्यनुजानाति निगृहीतो वेदितव्यः. तत्र दृष्टश् च असाव् अन्ते च ०२५०९ व्यवस्थित इति दृष्टान्तः. स्व-दृष्टान्तः स्व-पक्षः, प्रतिदृष्टान्तः ०२५१० प्रतिपक्षः. प्रतिपक्षस्य धर्मं स्व-पक्षे ०२५११ अभ्यनुजानन् पराजितः, यथा अनित्यः शब्द ऐन्द्रियकत्वाद् ०२५१२ इति ब्रूवन् प्रतिपक्ष-वादिनि सामान्येन प्रत्यवस्थिते आह ०२५१३ यदि सामान्यम् ऐन्द्रियकं नित्यं शब्दो अप्य् एवम् अस्त्व् इति ०२५१४ एषा प्रतिज्ञाहानिः प्राक्-प्रतिज्ञातस्य शब्द-अनित्यत्वस्य त्यागाद् ०२५१५ इति. ०२५१६ अत्र उपगत-प्रतिज्ञा-त्यागात् प्रतिज्ञाहानौ विशेष-प्रतिनियमः ०२५१७ किं कृतो अनेन प्रकारेण प्रतिज्ञां त्यजतः प्रतिज्ञाहानिर् ०२५१८ इति. सम्भवति ह्य् अन्येन अपि प्रकारेण हेतु-दोष-उद्भावन- ०२५१९ आदिना प्रतिपक्ष-साधन-अभिधानेन च स्व-पक्ष-परित्यागः ०२५२० पर-पक्ष-उपगमश् च. इदम् एव च प्रतिज्ञाहानेः ०२५२१ प्रधानं निमित्तम् एवं प्रतिपादितेन प्रतिज्ञा हातव्या ०२५२२ हानौ च पराजय इति. ०२६०१ इदं पुनर् असम्बद्धम् एव सामान्यं नित्यम् ऐन्द्रियकम् ०२६०२ इत्य् उक्ते शब्दो अप्य् एवम् अस्त्व् इति. कः स्वस्थ-आत्मा स्वयम् ०२६०३ ऐन्द्रियकत्वाद् अनित्यः शब्दो घटवद् इति ब्रुवन् सामान्येन ०२६०४ उपदर्शन-मात्रेण नित्यं शब्दं प्रतिपद्यते. ०२६०५ सामान्यस्य अपि नित्यस्य ऐन्द्रियकत्वे अप्य् अनित्ये घटे दर्शनात् ०२६०६ संशयितः स्यात्. ०२६०७ जाड्यात् प्रतिपद्येत अपि इति चेत्, तथा अपि किं सामान्यस्य उपदर्शनेन. ०२६०८ एवम् एव नित्यः शब्द इति वक्तव्यं जडस्य ०२६०९ प्रतिपत्तौ विचार-अभावात्. ०२६१० न च नित्य-सामान्य-उपदर्शनेन तद्-धर्मं शब्दे प्रतिपद्यमाने ०२६११ प्रतिपक्ष-धर्म-अभ्यनुज्ञातो भवति, अनित्यः ०२६१२ शब्द इति च वदतो नित्यः शब्द इत्य् आञ्जसः प्रतिपक्षः ०२६१३ स्यात्, न नित्यं सामान्यम् इति. ०२६१४ तस्माद् ऐन्द्रियकत्वस्य नित्य-अनित्य-पक्ष-वृत्तेर् व्यभिचाराद् ०२६१५ असाधन-अङ्गस्य उपादानान् निग्रह-अर्हः, न प्रतिपक्ष- ०२६१६ धर्म-अनुज्ञया अनेन प्रकारेण प्रतिज्ञाहानेः. ०२६१७ प्रतिज्ञा-अर्थ-प्रतिषेधे धर्म-विकल्पात् तद्-अर्थ-निर्देशः ०२६१८ प्रतिज्ञा-अन्तरम् प्रतिज्ञातो अर्थो अनित्यः शब्द ऐन्द्रियकत्वाद् ०२६१९ इत्य् एव, तस्य हेतु-व्यभिचार-उपदर्शनेन प्रतिषेधे ०२६२० कृते धर्म-भेद-विकल्पात् सामान्य-घटयोः सर्वगतत्व- ०२७०१ असर्वगतत्व-धर्म-विकल्पेन प्रतिज्ञा-अन्तरं करोति, यथा ०२७०२ घटो असर्वगतो अनित्य एव शब्दो अप्य् असर्वगतो अनित्य ०२७०३ इति. एतत् प्रतिज्ञा-अन्तरं नाम निग्रहस्थानं साधन-सामर्थ्ये ०२७०४ अप्य् अपरिज्ञानात्. स हि पूर्वस्या अनित्यः शब्द इति ०२७०५ प्रतिज्ञायाः साधनाय उत्तराम् असर्वगतः शब्द इति प्रतिज्ञाम् ०२७०६ आह. तद्-दर्शनाय तद्-अर्थ-निर्देश इत्य् आह. तद्-अर्थः ०२७०७ पूर्व-उक्त-साध्य-सिद्ध्य्-अर्थ उत्तर-प्रतिज्ञा-निर्देशस् तद्-अर्थ- ०२७०८ निर्देशः. न च प्रतिज्ञा प्रतिज्ञा-अन्तर-साधने समर्था ०२७०९ इति निग्रहस्थानम्. ०२७१० अत्र अपि न एवम्-ब्रुवता प्रतिज्ञा-अन्तरं पूर्व-प्रतिज्ञा-साधनाय ०२७११ उक्तं भवति, किं तर्हि विशेषणम् ऐन्द्रियकत्वस्य ०२७१२ हेतोः सामान्ये वृत्त्या व्यभिचार उद्भाविते असर्वगतत्वे ०२७१३ सत्य् ऐन्द्रियकत्वस्य हेतोर् विशेषण-उपादाने व्यभिचारं ०२७१४ परिहरति. न पुनः प्रतिज्ञा-अन्तरम् आह, असर्वगतत्वस्य ०२७१५ शब्दे सिद्धत्वात् प्रतिज्ञायाश् च साध्य-निर्देश-लक्षणत्वात्. ०२७१७ यद् अप्य् उक्तं पूर्व-प्रतिज्ञा-साधनाय उत्तरां प्रतिज्ञाम् ०२७१८ आह इति तद् अप्य् अयुक्तम्. न हि प्रतिज्ञा प्रतिज्ञा-साधनाय ०२७१९ उच्यमाना प्रतिज्ञा-अन्तरं भवति, किं तर्हि हेत्व्-आदेर् अनन्यतमः. ०२७२० साध्य-साधनाय उपादानात् साधन-निर्देशः स ०२८०१ स्यान् न साध्य-निर्देशः. उदाहरण-साधर्म्य-आदेश् च हेतु-लक्षणस्य ०२८०२ असर्वगत्वे भावात् प्रतिज्ञा-लक्षणस्य च अभावात्, हेतुत्वम् ०२८०३ असर्वगत्वे प्रयुक्तं न प्रतिज्ञा-अन्तरत्वम्. अत्यन्त- ०२८०४ असम्बद्धं च इदं प्रतिज्ञां प्रतिज्ञा-साधनाय आह इति. ०२८०५ यो हि प्राक् प्रतिज्ञाम् उक्त्वा हेतु-उदाहरण-आदिकं वक्तुं ०२८०६ जानाति, स किंचिद् अनुक्रमं साधनस्य जानात्य् एव हि, जानन् ०२८०७ कथम् अविकल-अन्तःकरणः प्रतिज्ञाम् एव प्रतिज्ञा-साधनाय ०२८०८ उपाददीत. उपाददता च अनेन प्रतिज्ञा-मात्रेण सिद्धिर् ०२८०९ इष्टा भवति, ततश् च न प्राग् अपि हेतुं ब्रूयात्. ०२८१० एवंप्रकारणाम् असम्बद्धानां परिसंख्यातुम् ०२८११ अशक्यत्वात्, लक्षण-नियमो अप्य् असम्बद्ध एव प्रतिज्ञा- ०२८१२ अन्तर-अभिधाने प्रतिज्ञा-अन्तरं नाम निग्रहस्थानम् इति. ०२८१३ असम्बद्ध-अभिधानं निग्रहस्थानम् इति एवंप्रकाराणाम् ०२८१४ एकम् एव लक्षणं वाच्यं स्यात्. न च एवंविधः ०२८१५ कश्चिद् विवादेषु दृष्ट-पूर्वो व्यवहारो येन तद्-अर्थं ०२८१६ यत्नः क्रियते. न च बाल-प्रलाप-अनुदिश्य शास्त्रं प्रवर्तते ०२८१७ प्रवृत्तौ च का निष्ठा तेषाम् अनिष्टानात्. दृश्यते च ०२८१८ विदुषाम् अपि न अतिनिरूपणाद् असिद्ध-अभिधानम् इति. व्यवहार- ०२८१९ दर्शनात् तादृशं पराजय-अधिकरणं व्यवस्थाप्यते. ०२९०१ तस्माद् इह अपि यदि निवृत्त-आकाङ्क्षे वादिनि परो अनैकान्तिकताम् ०२९०२ उद्भावयेत्, असाधन-अङ्गस्य अनैकान्तिकस्य अभिधानान् ०२९०३ निग्रहस्थानं वादिनः, एवं यदि प्रतिवादी सत् सामान्यम् ०२९०४ ऐन्द्रियकं नित्यं च प्रमाणेन प्रतिपादयितुं ०२९०५ शक्नुयात्. अनुदिश्य-अप्रमाणकं शास्त्र-उपगमं प्रमाणेन ०२९०६ एषाम् अर्थानाम् अप्रतिपादने न भूत-दोष-उद्भावनम् इति ०२९०७ न कश्चित् पराजयो अभ्युपगम-मात्रेण वस्तु-सिद्धेर् अभावात् ०२९०८ प्रतिवादिना दोषस्य अप्रतिपादितत्वात्. प्रमाणैर् असमर्थित- ०२९०९ साधन-अभिधानात् तु जेता अपि न भवति इति. ०२९१० अनित्य-आकाङ्क्षे पुनर् वादिनि न कश्चिद् दोषो विशेषण-अभिधानेन ०२९११ हेतोः समर्थन-उपक्रमात्. ०२९१२ प्रतिज्ञा-हेत्वोर् विरोधः प्रतिज्ञा-विरोधः. यथा गुण-व्यतिरिक्तं ०२९१३ द्रव्यम् इति प्रतिज्ञा, रूप-आदिभ्यो अर्थ-अन्तरस्य अनुपलब्धेर् ०२९१४ इति हेतुः, सो अयं प्रतिज्ञा-हेत्वोर् विरोधः. एतेन ०२९१५ एव प्रतिज्ञा-विरोधो अप्य् उक्तो यत्र प्रतिज्ञा स्व-वचनेन ०२९१६ विरुध्यते, यथा श्रमणा गर्भिणी, न अस्त्य् आत्मा इति वा, हेतु- ०२९१७ विरोधो अपि यत्र प्रतिज्ञया हेतुर् विरुध्यते, यथा सर्वं ०२९१८ पृथक् समूहे भाव-शब्द-प्रयोगाद् इति. एतेन प्रतिज्ञया ०२९१९ दृष्टान्त-विरोधो अपि व्याख्यातः. हेतोश् च दृष्टान्त-आदिभिर् ०२९२० विरोधः प्रमाण-विरोधश् च प्रतिज्ञा-हेत्वोर् वक्तव्यः. ०३००१ पर-पक्षे स्व-सिद्धेन गोत्व-आदिना अनैकान्तिक-चोदनाद् ०३००२ विरोधः, यः पर-पक्षं स्व-सिद्धेन गोत्व-आदिना व्यभिचारयति, ०३००३ तद् विरुद्धम् उत्तरं वेदितव्यम् स्व-पक्ष-अनपेक्षं ०३००४ च, यश् च स्व-पक्ष-अनपेक्षं हेतुं प्रयुङ्क्ते ०३००५ अनित्यः शब्द ऐन्द्रियकत्वाद् इति, तस्य स्व-सिद्धस्य गोत्व-आदेर् ०३००६ अनित्यत्व-विरोधाद् विरुद्धः. उभय-पक्ष-सम्प्रतिपन्नस् ०३००७ त्व् अनैकान्तिकः, यद् उभय-पक्ष-प्रतिपन्नं वस्तु, ०३००८ तेन अनैकान्तिक-चोदना इति. ०३००९ अत्र अपि प्रतिज्ञायाः साधन-वाक्ये प्रयोग-प्रतिषेधात् ०३०१० तद्-आश्रयस् तत्-कृतो वा हेतु-दृष्टान्तयोर् न विरोध इति न प्रतिज्ञा- ०३०११ विरोधो नाम किंचित् निग्रहस्थानम्. ०३०१२ स्याद् एतत्, असत्य् अपि प्रतिज्ञा-प्रयोगे गम्यमानो अपि प्रतिज्ञा- ०३०१३ हेत्वोर् विरोधो भवति, यथा रूप-आदिभ्यो अर्थ-अन्तरस्य अनुपलब्धिः ०३०१४ तद् गुण-व्यतिरिक्तम्, न उपलभ्यते च रूप-आदिभ्यो ०३०१५ अर्थ-अन्तरं द्रव्यम् इत्य् उक्ते अपि गम्यत एव साध्य- ०३०१६ साधनयोर् विरोधः; कथं ततो अर्थ-अन्तरस्य-अनुपलब्धिस् ०३०१७ तद्-व्यतिरेकश् च इति. ०३०१८ सत्यम्, स्याद् अयं विरोधः, यदि हेतुः साध्य-धर्म- ०३१०१ विपर्ययं साधयेत्. यदि ह्य् उपलब्धि-लक्षण-प्राप्तत्वेन ०३१०२ उपगतस्य सतो द्रव्यस्य रूप-आदि-प्रतिभास-विवेकेन स्व- ०३१०३ प्रतिभास-अनुपलब्धिः, तत् तद्-व्यतिरेकेण न अस्ति इति इष्ट-व्यतिरेक- ०३१०४ विपर्यय-साधनाद् विरुद्धो हेतुर् अस्माभिर् उक्त एव इति ०३१०५ भवत्य् एव इदं निग्रह-अधिकरणम्, यद्य् एवंविधः प्रतिज्ञा- ०३१०६ हेत्वोर् विरोध इष्टः. अथ पुनर् अस्य उपलब्धि-लक्षण- ०३१०७ प्राप्तिर् लुप्यते, तदा न कश्चित् प्रतिज्ञा-हेत्वोर् विरोधः, ०३१०८ व्यतिरिक्तानाम् अपि भावानां कुतश्चिद् विप्रकर्षिणां तद्- ०३१०९ व्यतिरेकेण अनुपलब्धाव् अपि व्यतिरेकस्य भावात्. ०३११० यद् उक्तं प्रतिज्ञायाः स्व-वचन-विरोधे प्रतिज्ञा-विरोध ०३१११ इति तत्र इदम् एव निग्रह-अधिकरणम् असाधन-अङ्ग- ०३११२ भूतायाः प्रतिज्ञायाः साधन-वाक्ये प्रयोगः; न विरोधः ०३११३ तद्-अधिकरणत्वात्. यदि प्रतिज्ञा-अनपेक्षो विरोधः स्यात्, स्यात् ०३११४ पराजय-आश्रयः. प्रतिज्ञा-अधिकरणत्वे पुनस् तत्-प्रयोगकृत ०३११५ एव पराजयो अस्य प्रस्ताव-उपसंहार-अवसानत्वात्. व्यर्थं ०३११६ विरोध-उद्भावनं पराजित-पराजय-अभावाद् भस्मीकृत-प्रज्वलन-वत्. ०३११७ ये तु केचिद् विचार-प्रसङ्गेष्व् एकत्र साध्ये बहवो ०३११८ हेतव उच्यन्ते, तेषां विकल्पेन तत्-साध्य-साधनाय ०३११९ वृत्तेः सामर्थ्यम् अन्यथा द्वितीयस्य वैयर्थ्यात्. यदि हि ०३१२० तत्र अप्य् एक-प्रयोगम् अन्तरेण अपरस्य प्रयोगो न सम्भवेत्, ०३१२१ न तदा द्वितीयस्य कश्चित् साधन-अर्थः प्रतीत-प्रतिपादन- ०३१२२ अभावात्. तस्मान् न प्रतिज्ञायाः स्व-वचन-विरोधो नाम ०३१२३ किंचित् निग्रहस्थानम्. ०३२०१ न च न अस्त्य् आत्मा इत्य् अत्र कश्चित् प्रतिज्ञा-विरोधः न अस्त्य् आत्म- ०३२०२ शब्दार्थस्य भाव-उपादानत्व-निषेधात्. शब्दार्थ-निषेधे ०३२०३ हि विरोधः स्यात्. न च स्व-लक्षणं शब्दार्थ इति. ०३२०४ यः पुनः प्रतिज्ञया बाधनाद् हेतु-विरोध उक्तः, यथा ०३२०५ सर्वं पृथक् समूहे भाव-शब्द-प्रयोगाद् इति, न अत्र ०३२०६ प्रतिज्ञायाः प्रयोगः, न अपि हेतोर्, येन विरोधः स्यात्, किं ०३२०७ तर्हि प्रतिपादित-अर्थ-उपदर्शनेन उपसंहार-वचनम् एतस्मात्. ०३२०९ अन्यैर् एव हेतुभिः शब्दस्य एक-विशेष-अनभिधानम् ०३२१० अनेक-अर्थ-सामान्य-अभिधानं च प्रतिपाद्य सर्वस्य शब्दार्थस्य ०३२११ नाना-अर्थ-रूपतया एक-वस्तु-विशेष-स्वभावता-भावम् ०३२१२ उपदर्शयन् शब्दार्थम् अधिकृत्य सर्वं पृथग् ०३२१३ इति ब्रूयात्. एतेन तद्-विरोधः प्रत्युक्तः. दृष्टान्त-उपदर्शनं ०३२१४ च एतद् अनित्यः शब्दः कृतक-अनित्यत्वाद् इति यथा. क्वचिद् ०३२१५ अर्थे विप्रतिपत्तौ प्रसिद्धम् अनेक-अर्थ-सामान्ये शब्द- ०३२१६ प्रयोगम् उपदर्श्य प्रतिपादित-विप्रतिपत्ति-स्थानः सामान्येन ०३२१७ उपसंहरति सर्वं पृथग् इति. ०३२१८ यदि दृष्टान्त-प्रयोगः किं ऋजुना एव तत्-प्रयोग-क्रमेण ०३२१९ न प्रयुक्तो विप्रतिपत्ति-विषयश् च किं न दर्शित इति चेत्, न, ०३२२० समास-निर्देशात्, एवम् अपि प्रयोग-दर्शनाद् असाधन-वाक्यत्वाच् ०३२२१ च. अत एव न प्रतिज्ञया हेतोर् बाधनम्. न च एकम् ०३२२२ एव किंचिन् न अस्ति इति ब्रुवाणः कश्चित् तत्-समुच्चय-रूपम् ०३२२३ एकं समूहम् इच्छति येन विरोधः स्यात्. ०३३०१ यो अपि युगपत् षट्केन योगाद् इत्य् आदिना परमाणोर् ०३३०२ भेदम् आह, न तस्य अप्य् एकः समुच्चय-रूपः साधयितुम् ०३३०३ इष्टः, किं तर्ह्य् अभाव एव एक-अनेक-प्रतिषेधात्. अतः सो अपि ०३३०४ न समूहस् तस्य इष्टः, न तत्र शब्द इति न विरोधः. ०३३०५ न विरोधो अयं पूर्वकात् प्रतिज्ञा-हेतु-विरोधात् भिद्यते ०३३०६ येन पृथग् उच्येत. तत्र हेतु-प्रतिज्ञायोर् बाधनम्, इह ०३३०७ प्रतिज्ञया हेतोर् इत्य् अस्ति भेद इति चेत्, अर्थ-विरोधे हि हेतु- ०३३०८ प्रतिज्ञयोर् बाध्यबादकभावः स्यात्. सर्वो अर्थ-विरोधो ०३३०९ द्विष्व् इत्य् अपि परस्परं बाधकम् एक-अर्थ-संनिधाव् अपर- ०३३१० अर्था-सम्भवात्. तत्र हेतु-प्रतिज्ञायोः पृथग् बाध-उदाहरणयोर् ०३३११ न कश्चिद् अर्थ-भेदः. ०३३१२ अपि च अयं विरुद्धो अविरुद्धो वा सति हेतु-प्रयोगे व्यधिकरणत्वाद् ०३३१३ असिद्ध इत्य् असिद्धता हेतोर् निग्रहस्थानम्. ०३३१४ स खलु उच्यमान एव अतद्-धर्मतया प्रतीतो वक्तुः पराजयम् ०३३१५ आनयति. पराजिते तस्मिंस् तद्-अर्थ-विरोध-चिन्तया न ०३३१६ किंचित्. ०३३१७ अपि च सर्वत्र अयं प्रतिज्ञा-हेत्वोर् विरोधः सम्भवन् ०३३१८ न द्वयीं हेतु-दोष-जातिम् अतिपतति विरुद्धताम् असिद्धतां ०३३१९ च इति. विरुद्धता सिद्धे हेतोर् धर्मिणि भावे साध्य-धर्म- ०३३२० विपर्यय एव भावेन प्रतिज्ञा-अर्थ-विरोधात्. असिद्धता ०३४०१ पुनर् धर्मिणि प्रतिज्ञाता-अर्थ-सिद्धौ विरुद्धयोः स्वभावयोर् ०३४०२ एकत्र असम्भवात्. न च अन्यथा विरोधः. ०३४०३ असिद्धे धर्मि-स्वभावे अभिहितयोर् हेतु-प्रतिज्ञा-अर्थयोर् ०३४०४ विरोधाद् विरोध-सम्भव इति चेत्, अप्रमाण-योगे तु उभयोर् ०३४०५ धर्मिणि संशयः. तथा सति हेतोर् धर्मिणि भाव-संशये ०३४०६ असिद्धता एव हेतु-दोष इत्य् असिद्ध-विरुद्धाभ्याम् अन्यो ०३४०७ न प्रतिज्ञया विरोधो नाम पराजय-हेतुः. असिद्ध-विरुद्धे ०३४०८ च हेत्व्-आभास-वचनाद् एव उक्त इति न पृथक् प्रतिज्ञा-विरोधो ०३४०९ वक्तव्य इति. ०३४१० उभय-आश्रितत्वाद् विरोधस्य विवक्षातो अन्यतर-निर्देश इति ०३४११ चेत्, स्याद् एतत् प्रतिज्ञा-हेत्वोर् विरोध इति प्रतिज्ञा-हेतू आश्रित्य ०३४१२ उभय-आश्रयो भवति. तत्र यदा प्रतिज्ञा-विरोधो विवक्षितस् ०३४१३ तदा प्रतिज्ञा-विरोध इति उच्यते, यदा प्रतिज्ञाया हेतोर् वा ०३४१४ विरोधस् तदा विरुद्धो हेतुर् इति. अतः प्रतिज्ञा-विरोधो हेतु-विरोधो ०३४१५ वा इत्य् अदोषः. तत्र हेतोर् उदाहरणं नित्यः शब्द ०३४१६ उत्पत्ति-धर्मकत्वाद् इति, प्रतिज्ञा-विरोधस्य न अस्त्य् आत्मा इति, ०३४१७ प्रतिज्ञा-हेत्वोः परस्पर-विरुद्ध-उदाहरणं गुण-व्यतिरिक्तम् ०३४१८ इत्य् आदि, प्रतिज्ञया हेतु-विरोध-उदाहरणं न अस्त्य् एको ०३४१९ भाव इत्य् आदिकम् इति. ०३४२० न, सर्वत्र हेत्व्-अपेक्षस्य विरोधस्य हेत्व्-आभास-अनतिक्रमात्, ०३४२१ यथोक्तं प्राक्. अनपेक्षे च केवले स्वतः प्रतिज्ञा- ०३४२२ विरोधे विवक्षिते प्रतिज्ञा-हेत्वोर् विरोध इति हेतु-ग्रहणम् ०३५०१ असम्बद्धम्. न च उत्पत्ति-धर्मकत्वान् नित्यम् इत्य् ०३५०२ अत्र अपि हेतु-विरोधो युक्तः, प्रतिज्ञया हि हेतोर् बाधने ०३५०३ हेतु-विरोधः. इह तु हेतुना प्रतिज्ञा बाध्यत इति प्रतिज्ञा-विरोधो ०३५०४ युक्तः, उभय-आश्रये अपि विरोधे बाध्यमान-विवक्षया ०३५०५ तद्-विरोध-व्यवस्थापनात्. ०३५०६ यद् अप्य् उक्तम् एतेन प्रतिज्ञया दृष्टान्त-विरोध-आदयो अपि ०३५०७ वक्तव्या भण्डालेख्यन्यायेन इति तत्र अपि पक्षीकृत-धर्म- ०३५०८ विपर्ययवति दृष्टान्ते विरोधः स्यात्. विरुद्धे च दृष्टान्ते ०३५०९ यदि पक्ष-धर्मस्य वृत्तिर् अनन्य-साधारणा प्रसाध्यते, ०३५१० विरुद्धस् तदा हेत्व्-आभासः साधारणायाम् अप्रसाधिते वा ०३५११ तद्-वृत्ति-नियमे अनैकान्तिकः अवृत्तौ वा असाधारणः. ०३५१२ विरुद्ध-दृष्टान्ता-वृत्तौ विपर्यय-वृत्तौ च हेतोर् न ०३५१३ कश्चिद् हेतु-दोषो दृष्टान्त-विरोधश् च प्रतिज्ञया इति चेत्, न, ०३५१४ तद् अपि संशय-हेतुत्व-अनतिवृत्तेर् दृष्टान्त-विरोधो हि प्रतिज्ञायाः ०३५१५ साधर्म्ये दोषः, न वैधर्म्ये, अभिमतत्वात्. ०३५१६ साधर्म्य-दृष्टान्ते च विपरीत-धर्मवति वस्तुतः साध्या-अव्यभिचारे ०३५१७ अपि हेतोर् न अव्यभिचार-धर्मता शक्या दर्शयितुम् ०३५१८ इति न अप्रदर्शित-अविनाभाव-सम्बद्धाद् हेतोर् निश्चयः. ०३५१९ तन् न प्रतिज्ञया दृष्टान्त-विरोधो हेत्व्-आभासान् अतिवर्तते. ०३६०१ उभयथा अपि दोषो अस्त्व् इति चेत्, न न हेतु-दोषस्य प्राक् ०३६०२ प्रसङ्गेन पराजितस्य दोष-अन्तर-अनपेक्षणात्. विशेषेण साधन- ०३६०३ अवयव-अनुक्रम-नियम-वादिन उदाहरण-साधर्म्यं ०३६०४ हेतु-लक्षणं विरुद्धे दृष्टान्ते न सम्भवति इति प्राक् ०३६०५ प्रयुक्तस्य हेतोर् दोषेण पराजय इति न उत्तर-दृष्टान्त-अपेक्षया ०३६०६ विरोधश् चिन्ताम् अर्हति. हेतोर् अपि दृष्टान्त-विरोधे असाधारणत्वं ०३६०७ विरुद्धत्वं वा वैधर्म्ये यदि वृत्तिः स्यात्. ०३६०८ प्रमाण-विरोधे तु हेतोः, यथा न दहनो अग्निः शैत्याद् ०३६०९ इत्य् आदि ह्य् असिद्धो हेत्व्-आभासः. ०३६१० प्रतिज्ञायाः प्रमाण-विरोधः स्व-वचन-विरोधेन व्याख्यात ०३६११ इति. ०३६१२ सर्व एते साधन-विरोधा हेत्व्-आभासेष्व् एव अन्तर्भवन्ति ०३६१३ इति हेत्व्-आभास-वचनेन एव उक्ताः. ०३६१४ यत् तु विरुद्धम् उत्तरं पर-पक्षे स्व-सिद्धेन गोत्व-आदिना ०३६१५ अनैकान्तिक-चोदना इति, तद् असम्बद्धम् एव. यदि हि स्व-सिद्धेन ०३६१६ गोत्व-आदिना परस्य व्यभिचार-सिद्धिम् आकाङ्क्षेत, ०३६१७ तस्य तत् स्व-पक्ष-विरुद्धं न अभिमतम् इति विरोध ०३६१८ युज्येत. स हि स्वयं प्रतिपन्ने गोत्वे हेतु-वृत्तेः संशयानो ०३६१९ अप्रतिपत्तिम् आत्मनस् तथा ख्यापयति. स च हेतुः ०३६२० सत्य् असति गोत्वे अप्रसाधित-साधन-सामर्थ्यः संशय-हेतुत्वाद् ०३७०१ अनैकान्तिक एव प्रसाधिते तु सामर्थ्ये गोत्वे ०३७०२ अवृत्त्या हेतोर् न संशय एव सर्व-संशय-प्रकाराणां ०३७०३ परिहारेण समर्थनात्. एतेन स्व-पक्ष-अनपेक्ष-हेतु-प्रयोगस्य ०३७०४ अनैकान्तिकता व्याख्याता, सो अपि स्व-अभिमत-नित्य-गोत्व- ०३७०५ वृत्तिं हेतुम् अनित्यत्वे ब्रुवाणो असमर्थित-साधन-अङ्गतया ०३७०६ संशय-हेतुम् एव आह इति. यत् पुनर् उक्तम् उभय-पक्ष-सम्प्रतिपन्नेन ०३७०७ वस्तुना अनैकान्तिक-चोदना इति, तत्र अप्य् अवश्यं ०३७०८ संशय-हेतुत्व-मुखेन एव अनैकान्तिको वक्तव्यः. तद् ०३७०९ असमर्थिते अन्यत्र अपि तुल्यम् इति न उभय-सिद्ध-इतरयोर् अनैकान्तिकत्वैर् ०३७१० विशेषः. ०३७११ यद् अप्य् उक्तम्, दृष्टान्त-आभास-हेत्व्-आभास-पूर्वकत्वात् ०३७१२ तद्-अभिधानेन एव उक्ता इति न पृथग् निग्रहस्थानेषु उक्ता इति, ०३७१३ तद् अप्य् अवयव-अन्तर-वादिनो अयुक्तम्. यो अवयव-अन्तरं ०३७१४ दृष्टान्तं हेतोर् आह, तस्य न हेत्व्-आभास-उक्त्या दृष्टान्त-आभास- ०३७१५ उक्तिर् व्याप्या तद्-वचनेन गम्यमानस्य तस्मात् साधन-अन्तर- ०३७१६ अभाव-प्रसङ्गात्. दृष्टान्त-आभासानां हेत्व्-आभासेष्व् ०३७१७ अन्तर्भावाद् दृष्टान्तस्य अपि हेताव् अन्तर्भाव इष्टो भवति, ०३७१८ तथा च न दृष्टान्तः पृथक् साधन-अवयवः स्याद् अपृथग्-वृत्तेः. ०३७१९ यो दृष्टान्त-साध्यो अर्थस् तस्य हेताव् अन्तर्भावाद् ०३७२० हेतुना एव साधित इति न दृष्टान्तस्य पृथक् किंचित् सामर्थ्यम्. ०३८०१ अपि च न किंचित् पूर्व-पक्ष-वादिनो हेत्व्-आभास-असंस्पर्षे ०३८०२ न्याय्यं निग्रहस्थानम् अस्ति इति तत्-सम्बन्धीनि सर्वाण्य् ०३८०३ एव हेत्व्-आभास-वचनेन एव उक्तानि इति न पृथग् वाच्यानि ०३८०४ स्युः. अर्थ-अन्तर-गमन-आदेर् अपि हेतोर् असामर्थ्य एव सम्भवात्. ०३८०५ न हि समर्थे हेतौ साध्ये च सिद्धे अर्थ-अन्तर- ०३८०६ गमनं कश्चिद् आरभते असमर्थस्य मिथ्या-प्रवृत्तेर् इति. ०३८०७ पक्ष-प्रतिषेधे प्रतिज्ञाता-अर्थ-अपनयनं प्रतिज्ञा-संन्यासः. ०३८०८ यः प्रतिज्ञातम् अर्थम् अनित्यः शब्द ऐन्द्रियकत्वाद् ०३८०९ इति सामान्य-वृत्त्या हेतोर् व्यभिचार-प्रदर्शनेन ०३८१० प्रतिषेधे कृते क एवम् आह अनित्यः शब्द इति परित्यजति, ०३८११ तस्य प्रतिज्ञा-संन्यासो नाम निग्रहस्थानम् इति. ०३८१२ अत्र अपि यद्य् उद्भाविते अपि हेतोर् व्यभिचारे न स पक्षं ०३८१३ परित्यजति, किं न गृह्येत. निगृहीत एव हेत्व्-आभास-अभिधानाद् ०३८१४ इति चेत्, किम् इदानीम् उत्तर-प्रतिज्ञा-सांन्यास-अपेक्षया, ०३८१५ तस्य तद् एव अद्यं निग्रहस्थानम् इति किम् अन्यैर् ०३८१६ अशक्य-परिच्छेदैः क्लीब-प्रलाप-चेष्टितैर्. उपन्यस्तैर् एवं ०३८१७ ह्य् अतिप्रसङ्गः स्यात्. पक्ष-प्रतिषेधे तूष्णींभवतस् ०३८१८ तूष्णींभावो नाम निग्रहस्थानम् प्रपलायमानस्य ०३९०१ प्रपलायित्वं नाम निग्रहस्थानम् इत्य् एवम् आद्य् अपि वाच्यं ०३९०२ स्यात्, तस्माद् एतद् अप्य् असम्बद्धम् इति. ०३९०३ अविशेष-उक्ते हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्व्-अन्तरम्. ०३९०४ निदर्शनम् एक-प्रकृति इदं व्यक्तं परिमाणात्, मृत्-पूर्वकाणां ०३९०५ शराव-प्रभृतीनां दृष्टं परिमाणम् इति. अस्य ०३९०६ व्यभिचारेण प्रत्यवस्थानं नाना-प्राकृतीनाम् एक-प्रकृतीनां ०३९०७ च दृष्टं परिमाणम् इति एवं प्रत्यवस्थित आह ०३९०८ एक-प्रकृति-समन्वय-विकाराणां परिमाण-दर्शनात् सुख- ०३९०९ दुःख-मोह-समन्वितं हि इदं सर्वं व्यक्तं परिमितं ०३९१० गृह्यते. तस्य प्रकृत्य्-अन्तर-रूप-समन्वय-अभावे सत्य् एक- ०४००१ प्रकृतिकत्वम् इति. तद् इदम् अविशेष-उक्ते हेतौ प्रतिषिद्धे विशेषं ०४००२ ब्रुवतो हेत्व्-अन्तरं भवति. सति च हेत्व्-अन्तर-भावे ०४००३ पूर्वस्य हेतोर् असाधकत्वान् निग्रहस्थानम्. ०४००४ अत्र अपि पूर्वस्य एव हेतोर् अनैकान्तिकस्य अभिधानान् निगृहीते ०४००५ हेत्व्-अन्तर-चिन्ता क्व उपयुज्यते. यदि प्राक्-साधन-वादी ०४००६ हेतुम् अनैकान्तिकम् उक्त्वा दत्त-उत्तर-अवसरः, तेन एव निगृह्यते ०४००७ अदत्त-उत्तर-अवसरः, हेत्व्-अन्तर-अभिधाने अपि न निग्रहम् ०४००८ अर्हत्य् अविरामात्. ०४००९ प्रकृताद् अर्थाद् अप्रतिबद्ध-अर्थम् अर्थ-अन्तरम्. यथोक्त- ०४०१० लक्षणे पक्ष-प्रतिपक्ष-परिग्रहे हेतुतः साध्य-सिद्धौ ०४०११ प्रकृत्यायां कुर्यान् नित्यः शब्दो अस्पर्शत्वाद् इति हेतुः, ०४०१२ हेतुश् च नाम हिनोतेर् धातोस् तु-शब्दे प्रत्यये कृद्-अन्तं ०४०१३ पदम्. पदं च नाम-आख्यात-उपसर्ग-निपाता इति प्रस्तुत्य ०४०१४ नाम-आदीनि व्याचष्टे, इदम् अर्थ-अन्तरं नाम निग्रहस्थानम् ०४०१५ अभ्युपगत-अर्थ-असंगतत्वाद् इति. ०४०१६ न्याय्यम् एतन् निग्रहस्थानम्, पूर्व-उत्तर-पक्ष-वादिनोः ०४०१७ प्रतिपादिते दोषे प्रकृतं परित्यज्या-साधन-अङ्ग-वचनम् ०४०१८ अदोष-उद्भावनं च. साधन-वादिनो ह्य् उपन्यस्त-साधनस्य ०४१०१ समर्थने कर्तव्ये तद् अकृत्वा अपरस्य प्रसङ्गेन अप्रसङ्गेन ०४१०२ वा अतन्-नान्तरीयकस्य अप्य् अभिधानं पराजय- ०४१०३ स्थानम् उत्तर-वादिनो अपि दोष-उद्भावन-मात्राद् अपरस्य उपक्षेप ०४१०४ इति. ०४१०५ वर्ण-क्रम-निर्देशवन् निरर्थकम्. यथा नित्यः शब्दो ०४१०६ जबगडदशत्वात् झभञ्घढधषवद् इति. साधन-अनुपादानान् ०४१०७ निगृह्यत इति. ०४१०८ इदम् अप्य् असम्बद्धम्, न हि वर्ण-क्रम-निर्देशाद् एव इष्ट- ०४१०९ अर्थ-सिद्धाव् आनर्थक्यम्. यद् एव किंचिद् असाधन-अङ्गस्य ०४११० वचनम्, तद् एव अनर्थकं साध्य-सिद्ध्य्-उपयोगिनो ०४१११ अभिधेयस्य अभावात् निष्प्रयोजनत्वाच् च इति, प्रकार-विशेष-उपादानम् ०४११२ असम्बद्धम्. ०४११३ वतेर् उपादानाद् अदोष इति चेत्, स्याद् एतत्, वर्ण-क्रम-निर्देशवद् ०४११४ इति वतिर् अत्र उपात्तः सो अन्यदा अप्य् अननुरूपं गृह्नति इत्य् ०४११५ अदोष इति. न, अर्थ-अन्तर-आदेर् निग्रहस्थानस्य अवचन-प्रसङ्गात्, ०४११६ एवं हि ता न पृथग् वाच्या निरर्थकेन एव अभिधानात्. ०४२०१ न साध्य-सिद्धाव् अनर्थकं निरर्थकम्, यस्य न एव ०४२०२ कश्चिद् अर्थः, तन् निरर्थकम् इष्टम् इति चेत्, यस्य कस्यचिद् ०४२०३ अवादिनो अपि हि निरर्थक-अभिधाने किं न निग्रहो निग्रह- ०४२०४ निमित्त-अविशेषात्. ०४२०५ न, तस्य इह अप्रस्तावाद् इति चेत्, आयातम् इह यो निरर्थकं ०४२०६ ब्रवीति, तस्य तेन एव निग्रह इति. तत् तुल्यं सर्वस्य असाधन- ०४२०७ अङ्ग-वादिन इति. स सर्वो निरर्थक-अभिधाय्य् अनेन एव ०४२०८ निग्रहस्थानेन निग्रह-अर्हः. ०४२०९ न च वर्ण-क्रम-निर्देशः सर्वत्र निरर्थकः क्वचित्- ०४२१० प्रकरणे तस्य अपि अर्थवत्त्वात्. तस्माद् अत्र एव अस्य आनर्थक्यात् ०४२११ निग्रहस्थानत्वम्. ०४२१२ अपि च अत्यल्पम् इदम् उच्यते वर्ण-क्रम-निर्देशो निग्रहस्थानम् ०४२१३ इति कपोल-वादित-कक्ष-घट्टितकम् इत्य् एवम्-आदीनाम् ०४२१४ अपि वाच्यत्वात्. ०४२१५ पर्षत्-प्रतिवादिभ्यां त्रिर्-अभिहितम् अप्य् अविज्ञातम् ०४२१६ अविज्ञात-अर्थम्. यद् वाक्यं पर्षदा प्रतिवादिना च त्रिर्-अभिहितं ०४२१७ न विज्ञायते श्लिष्ट-शब्दम् अप्रतीत-प्रयोगम् अतिद्रुत- ०४२१८ उच्चारितम् इत्य् एवम् आदिना कारणेन, तद् अविज्ञात-अर्थम्, असामर्थ्य- ०४३०१ संवरणाय प्रयुक्तं निग्रहस्थानम् इति. ०४३०२ न इदं निरर्थकाद् भिद्यते. स यदि प्रकृत-अर्थ-सम्बद्धं ०४३०३ गमकम् एव कुर्यात्, न अस्य-असामर्थ्यम्, तत्र ०४३०४ जाड्यात् पर्षद्-आदयो न प्रतिपद्यन्त इति न विद्वान् निग्रहम् ०४३०५ अर्हति. ०४३०६ पर्षत्-प्रज्ञाम् अपरिकल्प्य वचनान् निग्रह-अर्ह एव इति चेत्, ०४३०७ न्यायवादिनो जाड्याद् उक्तम् अजानन् किं न प्रतिवादी निगृह्यते. ०४३०८ जाड्यात् पर्षद्-आदेर् अविज्ञात-प्रतिपादन-असामर्थ्य इति विजेता न ०४३०९ स्यान् न निग्रह-अर्हः. असम्बद्ध-अभिधाने निरर्थकम् ०४३१० एव इति न पृथग् अविज्ञात-अर्थं नाम निग्रहस्थानम् इति. ०४३११ पौर्वापर्य-अयोगाद् अप्रतिबद्ध-अर्थम् अपार्थकम्. यत्र ०४३१२ अनेकस्य पदस्य वाक्यस्य वा पौर्वापर्येण योगो ०४३१३ न अस्ति इत्य् असम्बद्ध-अर्थता गृह्यते, तत् समुदाय-अर्थस्य अपायाद् ०४३१४ अपार्थकम्, दश-दाडिम-आदि-वाक्य-वत्. ०४४०१ इदं किल पदानाम् असम्बन्धाद् असम्बद्ध-वर्णान् ०४४०२ निरर्थकात् पृथग् उक्तम् नन्व् एवम् असम्बद्ध-वाक्यम् ०४४०३ अपि पृथग् वाच्यं स्यात्. न उभय-संग्रहात् अपार्थकम्, ०४४०४ निरर्थकस्य अपि संग्रह-प्रसङ्गात्. एवंविधाच् च विशेष- ०४४०५ समाश्रयात् पृथग्-निग्रहस्थान-लक्षण-प्रलपने अतिप्रसङ्गो ०४४०६ अप्य् उक्तः. न च संग्रह-निर्देशे किंचिद् दोषं पश्यामः ०४४०७ प्रभेदे वा गुण-अन्तरम् इति यत् किंचिद् एतत्. ०४४०८ अवयव-विपर्यास-वचनम् अप्राप्तकालम्. प्रतिज्ञा-आदीनां ०४४०९ यथालक्षणम् अर्थ-वशात् क्रमः, तत्र अवयवानां विपर्ययेण ०४४१० अभिधानं निग्रहस्थानम्. ०४४११ न, एवम् अपि सिद्धेर् इति चेत्, न प्रयोग-अपेत-शब्द-तुल्यत्वात्. ०४४१२ यथा गौर् इत्य् अस्य पदस्य अर्थे गोणी इति प्रयुज्यमानं ०४४१३ पदं ककुद-आदिमन्तम् अर्थं प्रतिपाद्यति इति. न शब्द-अन्वाख्यानं ०४४१४ व्यर्थम्, अनेन पदेन गो-शब्दम् एव प्रतिपद्यते, ०४४१५ गो-शब्दात् ककुद-आदिमन्तम् अर्थम्; तथा प्रतिज्ञा-आद्य्- ०४४१६ अवयव-विपर्ययेण अनुपूर्वीं प्रतिपद्यते, आनुपूर्व्या ०४५०१ च अर्थम् इति, तथा हि पूर्वं कर्म-उपादीयते ततः करणं ०४५०२ मृत्-पिण्ड-आदिकं लोक इति. ०४५०३ तद् एतद् उन्मत्तस्य उन्मत्त-संवर्णनम् इव प्रयोग-अपेत- ०४५०४ शब्द-वद् एतद् इति. यदि गोणी-शब्दात् ककुद-आदिमत्य् ०४५०५ अर्थे प्रतीतिः, शब्द-अन्वाख्यान-प्रयत्नेन अर्थं न पश्यामः. ०४५०७ गोणी-शब्दस्य अर्थ-प्रतिपादने असामर्थ्यात् प्रतिपादक- ०४५०८ व्युत्पत्त्य्-अर्थम् अन्वाख्यानम् इति चेत्, ननु गोणी-शब्दाद् अपि ०४५०९ लोके प्रतीतिर् दृष्टा. सत्यं दृष्टा, न तु साक्षाद् इत्य् उक्तम्. ०४५१० उक्तम् एतन् न पुनर् युक्तम्, स्त्री-शूद्राणाम् उभय-प्रतीतेर् ०४५११ अभावात्. यः खलु उभयं वेत्ति शब्दम् अपशब्दं च, स ०४५१२ एवं प्रतिपद्यते. यस् तु नक्क-शब्दं मुक्क-शब्दम् एव ०४५१३ वा वेत्ति, न नासा-शब्दम्, स कथम् अपशब्दाच् शब्दं प्रतिपद्य ०४५१४ ततो अर्थं प्रतिपद्येत. दृष्टा च अनुभय-वेदिनो अपि ०४५१५ प्रतीतिर् इति न परंपरया प्रतीतिः. ०४५१६ अर्थे असमर्थस्य शब्दे अपि प्रतीति-जनन-असामर्थ्याच् च. ०४५१७ न ह्य् अर्थे अपि वाचकत्वं नाम अन्यद् एव तद्-विषय-प्रतीति- ०४५१८ जननात्. अपशब्दश् चेच् शब्दे प्रतीतिं जनयेत्, अर्थ एव ०४५१९ किं न जनयति. न ह्य् एतस्य अर्थात् किंचिद् भयं पश्यामो ०४५२० येन तं परिहरेत्. ०४६०१ अकृत-समयस्य शब्दे अप्य् अप्रतीति-जननाच् च. न ह्य् ०४६०२ अयम् अपशब्दः शब्दे अपि स्वभावतः प्रतीतिं जनयत्य् ०४६०३ अदर्शनात्, समयत एव तु जनयेत्. समय-वशाद् वर्तमानो ०४६०४ अर्थ एव किं न प्रवर्तते. एवं हि प्रतिपत्ति-परंपरा- ०४६०५ परिश्रमः परिहृतो भवति. ०४६०६ विपर्यय-दर्शनाच् च. शब्दाद् अर्थम् अप्रतिपद्यमानाः ०४६०७ अपशब्दैर् एव बहुलं व्युत्पद्यमाना लोके दृश्यन्ते ०४६०८ इति व्यर्थं शब्द-अनुशासनम्. ०४६०९ न व्यर्थं संस्कृत-शब्द-व्युत्पत्त्य्-अर्थत्वाद् इति चेत्, ०४६१० को अयं शब्दानां संस्कारः. न ह्य् एषां प्रज्ञा-बाहु-श्रुत्य्- ०४६११ आदिकं संस्कारं पश्यामः, न अप्य् एषाम् एकान्तेन ०४६१२ श्रव्यता, न अप्य् अर्थ-प्रत्यायने कश्चिद् अतिशयः. न ०४६१३ धर्म-साधनता मिथ्या-वृत्ति-चोदनेभ्यः संस्कृतेभ्यो ०४६१४ अप्य् अधर्म-उत्पत्तेः, अन्येभ्यो अपि विपर्यये धर्म-उत्पत्तेः. ०४६१५ शब्दस्य सुप्रयोगाद् एव स्वर्ग-मोदन-घोषणा वचन-मात्रम्. ०४६१६ न च एवंविधान् आगमान् आद्रियन्ते युक्तिज्ञाः. न च ०४६१७ दान-आदि-धर्म-साधन-चोदना-शून्य-केवल-शब्द-सुप्रयोगान् ०४६१८ नरक-पातम् इति ब्रुवाणस्य कस्यचिन् मुखं वक्रीभवति. ०४६१९ तस्मान् न संस्कृतो नाम कश्चिच् शब्दः. ०४७०१ शिष्ट-प्रयोगः संस्कार इति चेत्, के शिष्टाः. ये विदित-वेद्यता- ०४७०२ आदि-गुण-युक्ताः. कः पुनर् एषां गुण-उत्कर्ष-अनपेक्षो अलीक-निर्बन्धः, ०४७०३ यत् ते अमून् एव शब्दान् प्रयुञ्जते, न अपरान्. न ०४७०४ च अत्र कश्चिच् शब्दे परोक्षः साक्षी, यत इदम् एवं निश्चिनुमः ०४७०५ प्रयुञ्जते नाम शिष्टाः. नन्व् एवं वयं गुण-अतिशयम् ०४७०६ अपश्यन्तः संस्कारं केषांचिच् शब्दानाम् ०४७०७ अनुमन्यामहे, तद्-अन्वाख्यान-यत्नं वा, गुण-अतिशय-अभावात्. ०४७०८ वेद-रक्ष-आदिकं च अप्रयोजनम् एव अतत्-समय-स्थायिनः. ०४७०९ सत्य् अपि गुण अतिशये न करणीय एव अन्वाख्याने यत्नः ०४७१० तत्-स्वभावस्य अन्यतो अपि सिद्धेः, प्राकृत-अपभ्रंश- ०४७११ द्रमिड-अन्ध्र-आदि-भाषा-वत्. न हि प्रतिदेशं भाषाणां ०४७१२ किंचिल् लक्षणम् अस्ति, अथ च सम्प्रदाय-वशात् ता लोकस् ०४७१३ तथा एव प्रतिपद्यते तासां च प्रयोग-भ्रंशम् तथा ०४७१४ संस्कृतानां शब्दानां प्रतीतिर् भविष्यति इति. जड-प्रवृत्तिर् ०४७१५ एव एषा, या शब्दानां लक्षणे प्रवृत्तिः. ०४८०१ अवयव-विपर्यये अपि यदि तेषां वचनानां सम्बन्ध-प्रतीतिर्, न ०४८०२ विपर्ययो न अप्य् अर्थ-अप्रतीतिः सामर्थ्यात्. न ह्य् अत्र कश्चित् ०४८०३ समयः प्रत्यायन-अविशेषे अप्य् एवम् एव अवयवाः प्रयोक्तव्या ०४८०४ इति. ०४८०५ स एव तेषां क्रमो यथावस्थितेभ्यो अर्थ-प्रतीतिर् भवति इति ०४८०६ न विपर्ययात् प्रतीतिः, तत आनुपूर्वी-प्रतिपत्त्या प्रतीतिर् ०४८०७ इति चेत्, न अप्रतीयमान-सम्बन्धेभ्य आनुपूर्वी-प्रतिपत्तिः. ०४८०८ येषां शब्दानां कश्चित् सम्बन्धो जायते, इदम् इह ०४८०९ सम्बध्यत इति तेषु विदित-सम्बन्धेषु कः कस्य पूर्वो ०४८१० अपरो वा क्रमः, येन क्रमेण व्यवस्थाप्येरन्. सम्बन्ध- ०४८११ प्रतिपत्तौ स एव तेषां क्रमः, यो यथावस्थितानां ०४८१२ सम्बन्धः प्रतीयते. न हि वाक्येषु पदानां क्रम-नियमः ०४८१३ कश्चित्, यथा राज्ञः पुरुषः, पुरुषो रज्ञ इति. यावद्भिः ०४८१४ पदैर् अर्थ-परिसमाप्तिः तदा एकं वाक्यम्, यथा ०४८१५ देवदत्त गाम् आनय कृष्णाम् इति. अत्र पदानां यथाकामं ०४८१६ प्रयोगे अपि न अर्थ-प्रतीतौ विशेष इति कश्चित् क्रम-अभिनिवेशः. ०४८१८ प्रतिपादितं च प्रतिज्ञा-वचन-अन्तरेण अपि यथार्थं ०४८१९ प्रतीतिर् भविष्यति इति प्रतीयमान-अर्थस्य च शब्दस्य प्रयोगे ०४८२० अतिप्रसङ्गः. परिशिष्टेषु च सम्बन्धं प्रदर्श्य ०४९०१ धर्मिणि भावः प्रदर्श्येत, धर्मिणि भावं प्रदर्श्य ०४९०२ सम्बन्धः प्रदर्श्येत इति न नियमः कश्चिद् उभयथा अपि ०४९०३ प्रतीत्य्-उत्पत्तेर् इत्य् उक्तम्. अप्रतीयमान-सम्बन्धेषु च पदेषु ०४९०४ न तेभ्य आनुपूर्व्या अपि प्रतीतिर् इति न इदम् अपार्थकाद् ०४९०५ भिद्यत इति; न अप्राप्तकालं पृथग् वाच्यं स्याद् इति. ०४९०६ हीनम् अन्यतमेन अप्य् अवयवेन न्यूनम्. यस्मिन् वाक्ये ०४९०७ प्रतिज्ञा-आदीनाम् अन्यतमो अवयवो न भवति, तद् वाक्यं ०४९०८ हीनं साधन-अभावे साध्या-सिद्धेः. ०४९०९ न प्रतिज्ञा-न्यूनं हीनं तद्-अभावे प्रतीति-भावाद् इति ०४९१० प्रतिपादितम्. हीनम् एव तत् न्यूनतायाम् अपि निग्रहाद् इत्य् ०४९११ अपरः. यः प्रतीयमान-अर्थम् अनर्थकं शब्दं प्रयुङ्क्ते, ०४९१२ स निग्रहम् अर्हेत्. न अर्थ-उपसंहितस्य अभिधाता इत्य् ०४९१३ असमीक्षित-अभिधानम् एतत्. अत एव च प्रतिज्ञाया न साधन- ०४९१४ अङ्ग-भाव इति. ०४९१५ हेतु-उदाहरण-अधिकम् अधिकम्. एकेन कृतत्वाद् अन्यतरस्य ०४९१६ आनर्थक्यम् इति तद् एतन् नियम-अभ्युपगमे वेदितव्यम्. ०४९१८ यत्र एक-साधन-वाक्य-प्रयोग-पूर्वको विचारः, तत्र अधिक- ०४९१९ अभिधानम् अनर्थकम् इति निग्रहस्थानम्. प्रपञ्च-कथायां ०४९२० तु न कश्चिद् दोषो नियम-अभावाद् इति. ०५००१ शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात्. ०५००२ शब्द-पुनरुक्तम् अनित्यः शब्दो अनित्यः शब्द इति. ०५००३ अर्थ-पुनरुक्तम् अनित्यः शब्दो निरोध-धर्मको ध्वान ०५००४ इति. ०५००५ अत्र न शब्द-पुनरुक्तं पृथग् वाच्यम् अर्थ-पुनरुक्त- ०५००६ वचनेन एव गतत्वात्. न ह्य् अर्थ-भेदे शब्द-साम्ये अपि ०५००७ कश्चिद् दोषः, यथा ०५००८ हसति हसति स्वामिन्य् उच्चै रुदत्य् अतिरोदिति / ०५००९ कृत-परिकरं स्वेद-उद्गारं प्रधावति धावति / ०५०१० गुण-समुदितं दोष-अपेतं प्रणिन्दति निन्दति / ०५०११ धन-लव-परिक्रीतं यन्त्रं प्रनृत्यति नृत्यति