न च रागनिबन्धना तत्र प्रवृत्तिः / न हीच्छामात्रं रागः / अविद्याक्षिप्तमभूतगुणाभिनिवेशं रागमाचक्षते / तत्त्वदर्शनवैमल्यात्तु तत्त्वे चेतसः प्रसादो ऽभिरुचिरभीच्छा न रागपक्षे व्यवस्थाप्यते, यथा संसारासारतातत्त्वदर्शननिष्पन्नो नोद्वेगस्ततो द्वेषपक्षे / अन्यथा सर्वदुःखातिगे ऽपि तत्त्वे तद्द्वेषनिबन्धना प्रवृत्तिरिति संसारानुबन्धः स्यात् / अपि च दृष्टपरोत्कर्षरागिभ्यो ऽपीन्द्रियजय उपदिश्यते साधनत्वेन कामादित्यागात्मकः, तथेहापि भविष्यति / कथं च तत्र समीहितेतरविषयाभिष्वङ्गनिषेधः? सर्वनिषेधे ऽप्रवृत्तिदर्शनात् / तथोत्तमसुखरागादितरस्मादुपनतादपि निवृत्तिः / तथा चोक्तम् --- &#८२१६;कामात्मता न प्रशस्ता न चैवेहास्त्यकामताऽ; इति /
SK
स्यादेतत् --- आनन्दश्चेद्ब्रह्मणि संवेद्यः, कर्तुरन्यत्कर्मेति द्वैतप्रसङ्गः / कर्तृकर्मभावश्च न क्रियां करणं चान्तरेण यतः / ततः &#८२१६;आनन्दं ब्रह्मऽ; [KKS_४] इति च न स्यात् / तद्वत्तया व्यपदेशे अद्वितीयमिति न युज्यते / असंवेदने सन्नप्यसत्कल्प इति व्यर्थं तत्संकीर्तनम् / पुरुषार्थत्वाय हि तत्संकीर्तनम्, असंवेद्यश्च कथं पुरुषार्थः? उच्यते --- फलवत्कर्तृवच्चेदं द्रष्टव्यम् / तथा हि --- प्रमाणस्य फलमर्थान्तरमनर्थान्तरं वा सर्वपरीक्षकैः प्रतिज्ञायते प्रज्ञायते च / न च तदसंवेद्यम्, तदसंवेद्यत्वे सर्वासंवेद्यत्वप्रसङ्गात्, तत्कृतत्वात्संवेद्यभावस्य भावानाम् / न च संवेद्यम्, फलान्तरानुपलब्धेरनवस्थाप्रसङ्गाच्च / तस्मात्संवेद्यम्, आत्मप्रकाशत्वात् / असंवेद्यं च, विषयवत्कर्मभावाभावात् / यथा च कर्तर्यात्मन्यसंवेद्ये संविदेव न स्यात् / न हि तदैवं भवति --- मयेदं विदितम् --- इति / न ह्यात्मासंवेद्यः फले विषये चानुसंधातुं शक्यः / अननुसंधाने च स्वपरसंवेद्ययोः को ऽतिशयः? न च संवेद्यः, कर्मत्वे कर्तुर्व्यतिरेकप्रसङ्गात् अनात्मत्वप्रसङ्गाच्च / तस्मादात्मप्रकाशतैव तस्य संवेद्यता / तथा ब्रह्मणः स्वात्मप्रकाशस्यानन्दस्वभावो न संवेद्यः, कर्मत्वाभावात् / न चासंवेद्यः, स्वप्रकाशत्वात् / &#८२१६;तत्केन कं पश्येत्?ऽइत्यपि निषेधः कर्मविषयः / तथा हि सर्वकर्मप्रत्यस्तमयहेतुक एव स उच्यते &#८२१६;यदास्य सर्वमात्मैवाभूत्ऽ; इति /
SK
अन्ये मन्यन्ते --- द्विविधा धर्माः --- भावरूपा अभावरूपाश्चेति / तत्राभावरूपा नाद्वैतं विघ्नन्ति, यथा --- &#८२१६;एकममृतमजम्ऽ; इति / न हि भेदोदयव्ययानां निवृत्तिः किञ्चिद्वस्तु, येन द्वैतमावहेत् / आनन्दश्च यदि भावः, तस्य धर्मित्वे विज्ञानं धर्मः स्यात् / अथ विज्ञानं धर्मिरूपम्, आनन्दो धर्मः / न ह्येकस्य द्वे रूपे युज्येते, विरोधात् / तत्र &#८२१६;विज्ञानमानन्दं ब्रह्मऽ; इति भावरूपयोरानन्दब्रह्मणोर्धर्मधर्मिणोर्भेदादद्वैतविघातः / स्यादेतत् --- धर्मो ऽपि धर्मिणो न भिन्नः, भेदे गवाश्ववद्धर्मधर्मिभावानुपपत्तेः / तदसत्, अभेदे ऽपि धर्मिरूपवत्तदनुपपत्तेः / तस्मात्कथञ्चिद्भिन्नो धर्मः / तथा चात्यन्तिकभेदाभावश्रुतिः &#८२१६;एकमेवाद्वितीयम्ऽ; इति न युज्यते / एवं यो ऽप्येकस्य रूपद्वयं प्रतिपद्यते / तस्माद्विज्ञानात्मनो ब्रह्मणो दुःखाभावोपाधिरेवानन्दशब्दः, [KKS_५] यथा --- स्थूलाभावाद्युपाधयः &#८२१६;अस्थूलमनण्वह्रस्वम्ऽइत्यादयः शब्दाः / न च विज्ञानानन्दयोरेकत्वमेव, शब्दद्वयप्रयोगवैयर्थ्यात् / कथं चापर्यायशब्दाभिधेय एकत्वम्? तस्माद्दुःखोपरम एवानन्दशब्दस्य ब्रह्मण्यर्थ इति /
SK
अत्रोच्यते --- विशिष्टस्याह्लादात्मनः प्रकाशस्य चान्द्रमसस्येव शब्दद्वयेन प्रतिपादनान्न दोषः / यथा च --- प्रकृष्टः प्रकाशः सविता --- इति / न च प्रकृष्टप्रकाशशब्दयोः पर्यायत्वम् / अथ च एक एवाभ्यामर्थविशेषः प्रतिपाद्यते प्रकाशविशेषः / न हि प्रकर्षो ऽन्यः प्रकाशरूपात्सवितरि, न प्रकाशरूपो वा प्रकर्षात्, अपि तु प्रकाशभेदः शब्दद्वयोपायः प्रतीयते / तथा &#८२१६;विज्ञानमानन्दं ब्रह्मऽ; इत्यानन्दभेदो विज्ञानभेदो वा ब्रह्मरूपमिति शब्दद्वयेनावगम्यते / परमतामप्यस्य केचित्साधनपारतन्त्र्यलक्षणायाः क्षयितालक्षणायाश्च दुःखताया अभावान्मन्यन्ते / तदपि यथाशब्दं प्रतिपत्तेः शब्दप्रमाणके ऽर्थे नानुमन्यन्ते / न हि स्वरूपतः परमतासंभवे विरोध्यसंसर्गादुपचरिता सा युक्ता भवितुम् / तस्मादात्मप्रकाशप्रकृष्टात्मस्वभावमेव ब्रह्मेति युक्तम् / एवं च लौकिकानन्द एतस्य मात्रेति युज्यते, अवच्छेदात् / दुःखनिवृत्तौ तु दुर्योजमेतत् / इतश्चानन्दस्वभाव आत्मा, परप्रेमास्पदत्वात् / श्रूयते हि परप्रेमास्पदत्वम्- &#८२१६;तदेतत्प्रेयः पुत्रात्ऽ; इति / प्रतीयते च / तथा हि --- सर्वस्येयमात्माशीः कृमेरपि &#८२१६;मा न भूवम्, भूयासम्ऽ; इति / सा च प्रिये ऽवकल्पते / प्रेमा च सुखात्मनि / न दुःखे, नोभयरूपरहिते, द्वेषादुपेक्षणाच्च / अन्ये तु सुषुप्ते &#८२१६;सुखमहमस्वाप्सम्ऽ; इति परामर्शादात्मनि सुखानुभवमाहुः / न ह्यननुभवे परामर्श एवं स्यात्, सुषुप्ताभ्युपगमश्च / [KKS_६] न चान्यथानुभवे सुखमिति परामर्शः / न च तत्रात्मनो ऽन्यदनुभवनीयमस्ति / तथा चाहरहर्ब्रह्मलोकावाप्तिः श्रूयते / तत्रान्य आहुः --- दुःखोपरमादपि तथा परामर्शसिद्धेर्नैकान्ततः सुखित्वसिद्धिः / तान् प्रत्याहुः --- अन्यथाभावे ऽवगते दुःखोपरमनिमित्तः सुखशब्द इति युज्यते, अन्यथा मुख्यार्थतैव युक्ता / तत्राहुः --- उभयथा व्यपदेशस्य दर्शनादुपपत्तेश्च न व्यपदेशमात्रादर्थसिद्धिरित्यलमतिविस्तरेण /
SK
अत्र केचित् --- भोगव्यवस्थानात्, मुक्तसंसारिविभागोपपत्तेश्च, दृक्छक्तेश्चार्थवत्त्वात् स्वात्मनि वृत्तिविरोधात्, दृश्येन च द्रष्टुरनुमानात्, दृश्यस्य च सुखदुःखमोहभेदवच्छब्दादिविभागोपलब्धेः, एकत्वश्रुतिः जातिदेशकालविभागाभावनिमित्तोपचारान्मन्यन्ते / &#८२१६;आत्मैवेदं सर्वम्ऽ; इति च तादर्थ्यनिमित्तोपचारात् / तान् प्रत्युच्यते --- एकमिति / &#८२१६;इन्द्रो मायाभिः पुरुरूप ईयतेऽ; इति व्यक्तमेव नानारूपावगमो मायानिबन्धनो दर्शितः / तत्र कथमेकत्वमुपचरितमिति वक्तुं शक्यम्? तथा व्यक्तो नानात्वनिषेधः --- &#८२१६;नेह नानास्ति किञ्चनऽ; इति / नानात्वदर्शननिन्दा च --- &#८२१६;मृत्योः स मृत्युमाप्नोतिऽ; इति / भेददर्शनस्य चाभावः --- भेददृष्टिरिव भ्रमात् --- &#८२१६;य इह नानेव पश्यतिऽ; इति इवशब्देन प्रकाशितो नोपचरित एकत्वे ऽवकल्पते / काममुपचारादस्त्वेकत्वम्, न तु भाविकस्य नानात्वस्य निवृत्तिः / साप्युपचारेणैवोच्यत इति चेत्, न, प्रयोजनाभावात् / सति निमित्ते प्रयोजने चोपचारः / न च नानात्वनिवृत्त्युपचारे प्रयोजनं पश्यामः / विपर्ययाच्च / अभ्युदयाय निःश्रेयसाय वा नानात्वनिवृत्तिरुपचर्येत / सा हि साध्यसाधनादिविभागं निवर्तयन्ती सर्वत्र चात्माभिमानमाविर्भावयन्ती तद्विरोधिनी स्यात् / तथा हि सर्वतो निवृत्तस्य निःश्रेयसमित्यविसंवादः (चोर्रेच्तेद्; अपि संवादः -- एदितिओन्) / तथा &#८२१६;एकमेवाद्वितीयम्ऽइत्यवधारणाद्वितीयशब्दाभ्यां तस्यैवार्थस्य पुनःपुनरभिधानात्सर्वप्रकारभेदनिवृत्तिपरता श्रुतेर्लक्ष्यते / अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथा &#८२१६;अहो दर्शनीया, अहो दर्शनीयाऽ; इति / न न्यूनत्वमपि / दूरत एवोपचरितत्वम् / [KKS_७] यत्तु भोगव्यवस्थानादिति, तत्रोच्यते --- कल्पितादपि भेदाद्भोगव्यवस्थासिद्धेरसारमेतत् / तथा हि --- एकस्मिन्नप्यात्मनि सर्वगते शरीरपरिमाणे ऽणुपरिमाणे वा कल्पितभेदनिबन्धना भोगव्यवस्था दृश्यते --- पादे मे वेदना, शिरसि मे वेदना --- इति / न हि पादस्य शिरसो वा वेदनयाभिसंबन्धः, अज्ञत्वात् / शरीरपरिमाणात्मवादिनो ऽपि नावयवा एव वेदनाभाजः, आत्मनस्तद्विरहप्रसङ्गात् / स्यादेतत् --- ऐकात्म्ये तद्वदेव देहान्तरभोगानुसन्धानं स्यात् / अन्यदिदानीमेतत् / अस्ति तावद्भोगव्यवस्था / अपि च तत्रापि न प्रदेशः प्रदेशान्तरवेदनामनुसंदधाति, तथेहापि न जीवो जीवान्तरवेदनामनुसंदधातीति समानम् / तथा मणिकृपाणदर्पणादिषु सुखादीनां वर्णसंस्थानभेदव्यवस्थानमुपलभ्यते भेदाभावे ऽपि / एवं च मुक्तसंसारिविभागो ऽप्युपपन्नः / तथा हि --- एको ऽप्यात्मा प्रदेशैः सुखदुःखादिभिर्युज्यमानस्तत्र बद्ध इव इतरत्र मुक्त इव च गम्यते / यथा मलीमसे दर्पणतले मलीमसं मुखं विशुद्धे विशुद्धं दर्पणरहितं च गम्यमानं तदुपाधिदोषासंपृक्तम् / स्यादेतत् --- कल्पना प्रतिपत्तुः प्रत्ययस्य धर्मो न वस्तु व्यवस्थापयितुमलम् / न खलु प्रतिपत्तुः प्रत्ययमनु विपरिवर्तन्ते वस्तूनि / न चोपचरितात्कार्यमुपपद्यते / न ह्युपचरिताग्निभावो माणवको दहति / उदाहृता तु व्यवस्था / सत्यम् / विभ्रमो हि सः / अत्रापि विभ्रमत्वं न दण्डवारितम् / कल्पितो ऽपि चाहिदंशो मरणकार्याय कल्पते, प्रतिसूर्यकश्च प्रकाशकार्याय /
SK
यदपि दृश्येनैव द्रष्टुरनुमानाद्द्रष्टृदृश्ययोर्भेदः, दृश्यस्य च सुखादिभेदोपलब्धेर्नानात्वमिति, तदप्यसत् / न द्रष्टर्यप्रकाशे यतो दृश्यस्य सिद्धिरस्तीत्युक्तम् / दृश्यभेदोपलब्धिश्च नास्ति, प्रमाणस्यानवच्छेदकत्वादिति वक्ष्यते / दृक्छक्तेश्चार्थवत्त्वं स्वात्मोपयोगात् / न च स्वात्मनि वृत्तिविरोधः / प्रदीपवत्प्रमाणफलवच्चेत्युक्तम् / अपि च एकत्व एवायं द्रष्टृदृश्यभावो ऽवकल्पते, द्रष्टुरेव चिदात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा / नानात्वे तु [KKS_८] विवित्कस्वभावयोरसंसृष्टपरस्परस्वरूपयोरसम्बद्धयोः कीदृशो द्रष्टृदृश्यभावः / न हि चित्यासंसृष्टं चेतितमिति युज्यते / एकान्तःकरणसंक्रान्तावस्त्येव सम्बन्ध इति चेत्, न, चितेः शुद्धत्वादपरिणामादप्रतिसंक्रमाच्च / दृश्या बुद्धिश्चितिसन्निधेस्तच्छायया विवर्तत इति चेत्, अथ केयं तच्छायता? अतदात्मनस्तदवभासः / न तर्हि परमार्थतो दृश्यं दृश्यते / परमार्थतश्चादृश्यमानं द्रष्टृव्यतिरिक्तमस्तीति दुर्भणम् / यो ऽपि मन्यते --- दृश्यतयैव दृश्यं व्यवस्थाप्यते, न सम्बन्धेन / दर्शनं च &#८२१६;इदम्ऽइति पराग्रूपविषयम् / स वक्तव्यः --- सत्यं पराग्रूपविषयम् / तत्त्वेकस्यैवात्मनस्तथा तथा विपरिणामाद्विवर्तनाद्वा दर्पणतल इवात्मनः / तथा हि दर्पणतलस्थमात्मानं विभक्तमिवात्मनः प्रत्येति / चितेस्तु विभक्तमसंसृष्टं तया चेत्यत इति दुरवगमम् / एवं च द्रष्टुरव्यतिरेको दृश्यस्याम्नायते --- &#८२१६;आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतिऽ; इति / तस्मात्सुष्ठूक्तमेकमिति /
SK
क्षणिकज्ञानात्मवादिनस्तु सवासनक्लेशसमुच्छेदाज्ज्ञानोपरमलक्षणामेव ब्रह्मप्राप्तिमाहुः / तथा च श्रूयते --- &#८२१६;न प्रेत्य संज्ञास्तिऽ; इति / अन्ये तु समुच्छिन्नसकलवासनत्वाद्विधूतविषयाकारोपप्लवविशुद्धज्ञानोत्पादलक्षणाम् / अनादिनिधनत्वे हि नापनेयं नोपनेयं वा किञ्चिदस्तीति तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयो व्यर्थाः स्युः / तथा हि विद्यास्वभावं चेत्, न किञ्चिन्निवर्तव्यमवाप्तव्यं वा स्यात्, अविद्याया अभावाद्विद्यायाश्च भावात् / अविद्यास्वभावं चेत्, तस्य नित्यत्वे पूर्वस्वभावत्यागात्स्वभावान्तरानापत्तेश्च / एवमुभयस्वभावत्वे ऽपि विद्यायाः प्राप्तत्वादविद्यायाश्चोच्छेत्तुमशक्यत्वात् / तान् प्रत्याह --- अमृतमजमिति / न च शास्त्राणां मुक्त्यर्थानां च प्रवृत्तीनां वैयर्थ्यम्, अविद्याया निवर्त्यत्वात् / सर्वप्रवादेषु चानादिरप्यविद्योच्छेद्याभ्युपगम्यते / न ब्रूमो ऽनादेर्नोच्छेद इति, किं तु नित्यस्य ब्रह्मणः स्वभावस्य / [KKS_९] अथाविद्या न ब्रह्मणः स्वभावः, अर्थान्तरं ब्रह्मण आपद्येत / न वा स्यात्, तत्र किं निवर्त्यम्? अथ मतम् --- अग्रहणमविद्या, सा कथमर्थान्तरं स्यात्? न चानिवर्त्या, सर्वप्रमाणव्यापाराणामग्रहणनिवृत्त्यर्थत्वात् / तदप्ययुक्तम् / तत्त्वाग्रहणात्मिकया विद्यया निवर्त्यते / सा च नित्या ब्रह्मणि / न च ब्रह्मणो ऽन्यो ऽस्ति, यस्य तत्त्वाग्रहणं ब्रह्मणि प्रयत्नलभ्यया विद्यया निवर्त्येत / ब्रह्मणि तु युगपद्ग्रहणाग्रहणे विप्रतिषिद्धे / अविप्रतिषेधे वा न कदाचिदविद्या निवर्त्येत / यस्य तु विपर्ययग्रहणमविद्या, तस्य ब्रह्मणः स्वभावश्चेत्स नित्यः कथं निवर्त्येत? अस्वभावश्चेदर्थान्तरमापद्येत / कस्य च तदिति वाच्यम्, ब्रह्मणो ऽन्यस्याभावात् / ब्रह्मण एवेति चेत्, विप्रतिषेधः, तस्य विद्यास्वरूपत्वात् / अविप्रतिषेधे वा केन निवृत्तिः?
SK
अत्रोच्यते --- नाविद्या ब्रह्मणः स्वभावः, नार्थान्तरम्, नात्यन्तमसती, नापि सती / एवमेवेयमविद्या माया मिथ्यावभास इत्युच्यते / स्वभावश्चेत्कस्यचित्, अन्यो ऽनन्यो वा परमार्थ एवेति नाविद्या / अत्यन्तासत्त्वे खपुष्पसदृशी न व्यवहाराङ्गम् / तस्मादनिर्वचनीया / सर्वप्रवादिभिश्चेत्थमियमास्थेया / तथा हि --- शून्यवादिना सत्त्वे यथार्थदर्शनम्, नाविद्या / खपुष्पतुल्यत्वे न व्यवहाराङ्गम् / विज्ञानमात्रवादिनो ऽपि यथावभासं ज्ञानसद्भावे नार्थापह्नवः, नीलपीतादेर्ज्ञेयाकारस्य बहिरवभासानपह्नवात्, अत्यन्तासत्त्वे बहिरवभासायोगात्, खपुष्पवत् / बाह्यार्थवादिनामप्यनित्यादिषु नित्यादिख्यातयो रजतादिविभ्रान्तयश्चावभासमानरूपसद्भावे नाविद्यात्वमश्नुवीरन् / नात्यन्तासत्त्वे तन्निबन्धनः कश्चन व्यवहारः स्यात् / स्यादेतत् --- अवभासमानं रूपं मा भूत्, अवभासस्तु सन्नेव, स चाविद्येति गीयते / नैतत्सारम् / अवभासमाने ऽसति तदवभासो ऽपि सत्यतो दुर्निरूपः / अवभासमात्रं तु स्यात् / तदवभास इत्यपि भ्रान्तिरेव / तस्मान्नाविद्या सती, नाप्यसतीति / अत एव चास्या निवृत्तिरदृढस्वभावायाः, मायामात्रत्वात् / अन्यथास्वभावे दृढं व्यवस्थितायाः कथमन्यथात्वम्? स्वभावहानात् / [KKS_१०] शून्यत्वे स्वयं निवृत्तत्वात् / एवं च नाद्वैतहानम्, न निवर्तनीयस्याभावो वा /
SK
यत्तु कस्याविद्येति / जीवानामिति ब्रूमः / ननु न जीवा ब्रह्मणो भिद्यन्ते / एवं ह्याह --- &#८२१६;अनेन जीवेनात्मानुप्रविश्यऽ; इति / सत्यं परमार्थतः / कल्पनया तु भिद्यन्ते / कस्य पुनः कल्पना भेदिका? न तावद् ब्रह्मणः, तस्य विद्यात्मनः कल्पनाशून्यत्वात् / नापि जीवानाम्, कल्पनायाः प्राक् तदभावादितरेतराश्रयप्रसङ्गात् --- कल्पनाधीनो हि जीवविभागः, जीवाश्रया कल्पनेति /
SK
अत्र केचिदाहुः --- वस्तुसिद्धावेव दोषः --- नासिद्धं वस्तु वस्त्वन्तरनिष्पत्तये ऽलम्, न मायामात्रे / न हि मायायां काचिदनुपपत्तिः / अनुपपद्यमानार्थैव हि माया / उपपद्यमानार्थत्वे यथार्थभावान्न माया स्यात् / अन्ये तु --- अनादित्वादुभयोरविद्याजीवयोर्बीजाङ्कुरसन्तानयोरिव नेतरेतराश्रयमप्रकॢप्तिमावहतीति वर्णयन्ति / तथा चोक्तमविद्योपादानवादिभिः --- &#८२१६;अनादिरप्रयोजना चाविद्याऽ; इति / तत्रानादित्वान्नेतरेतराश्रयत्वदोषः, अप्रयोजनत्वान्न भेदप्रपञ्चसर्गप्रयोजनपर्यनुयोगावकाशः / यदेके पर्यनुयुञ्जते --- &#८२१६;प्रयोजनमनुद्दिश्य न मन्दो ऽपि प्रवर्ततेऽ; इति, तत्र परस्य ब्रह्मणः प्रपञ्चसर्गप्रयोजनं वाच्यम् / न तावत्परानुग्रहः / प्राक् सर्गादनुग्राह्याणामभावात्, दुःखोत्तरत्वाच्च सर्गस्य / नात्मार्थक्रीडादिः, आप्तकामत्वादिति --- तस्य अविद्यानिबन्धनत्वे सर्गे नावकाशः / न ह्यविद्या प्रयोजनमपेक्ष्य प्रवर्तते / न हि गन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति / तथा &#८२१६;पुरुषस्य विशुद्धस्य नाशुद्धा विकृतिर्भवेत्ऽ; इत्यपि प्रयुक्तमविद्यानिबन्धने सर्गविभागे / अपि च कृतार्थानामाप्तकामानामेव क्रीडादिप्रवृत्तिरुल्लासात् / प्रार्थनापरिकृष्टचेतसां तु रतिविरहिणामनभिमतैव क्रीडा भवति / न च वैषम्यनैर्घृण्यदोषः / न हि मायाकारस्य विविधं प्रपञ्चं [KKS_११] दर्शयतो ऽङ्गसाकल्यवैकल्यविभागेन रागद्वेषविभागः / चित्रपुस्तादिकृतां वा विकलाविकलादिभेदेन चित्राणि तानि तानि कुर्वताम्, बालानां च मृण्मयादिभिः प्रतिकृतिभेदैर्विचित्रैः क्रीडतां न तेषु किञ्चिद्वैषम्यं नैर्घृण्यं वा / कर्माशयानुरोधेन च विदधतो वैचित्र्यं न दोष इत्याचार्याः / न चानीश्वरत्वदोषः / न हि सेवाभेदानुरोधेन फलभेदप्रदः प्रभुरप्रभुर्भवति / तथा शुद्धस्याप्यशुद्धो विकारः / न हि प्रकृतिविकारयोरत्यन्तमवैलक्षण्यम् / प्रकृतिविकारभाव एव न स्यात् / द्रवाणां चापां करकादिः कठिनो विकारः, तथाचेतनस्य गोमयस्य चेतनो वृश्चिक इत्यादि बहुविधं प्रकृतिविकारवैलक्षण्यमुत्प्रेक्षितव्यमित्यलमतिप्रसङ्गेन /
SK
ननु जीवा अपि ब्रह्मतत्त्वाव्यतिरेकाद्विशुद्धस्वभावाः / तत्कथं तेष्वविद्यावकाशः? वार्तमेतत् / न च तावद्बिम्बादवदातात्प्रतिबिम्बं कृपाणादिषु भिन्नम् / अथ च तत्र श्यामतादिरशुद्धिरवकाशं लभते / विभ्रमः स इति चेत्, समानमेतज्जीवानामप्यशुद्धिर्विभ्रमः / अन्यथा दुरवापैव विशुद्धिः स्यादित्युक्तम् / स्यादेतत् --- कृपाणादयो मुखे विभ्रान्तिहेतवः, तथेहापि विभ्रमहेतुर्वाच्यः / अनादौ विभ्रमे हेत्वन्वेषणमसाम्प्रतमिव / तथा च &#८२१६;स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किङ्कृताऽ; इति प्रत्युक्तम् / ननु स्वाभाविक्यनादिरविद्या निर्हेतुः, सा कथमुच्छिद्येत? सर्वशास्त्राण्येव तावन्नैसर्गिक्या अविद्याया उच्छेदाय प्रस्थितानि / अपि च पार्थिवानामणूनां श्यामतानादिः पाकजेन वर्णेन निवर्त्यते / ननु स्वाभाविकमपि किञ्चिद्विलक्षणप्रत्ययोपनिपातान्निवर्तताम् / ऐकात्म्यवादिनस्त्वनागन्तुकार्थस्य तदभावात्कुतो निवृत्तिः? न खल्वात्मस्वभाव एव विद्या अविद्यानिवर्तिका, अविद्यायास्तया सह वृत्तेरविरोधात् / विरोधे वा नित्यनिवृत्तेर्नित्यमुक्तं जगत्स्यात् / न च विद्यान्तरमागन्तुकं विरोधि निवर्तकम्, ऐकात्म्यवादे व्यतिरिक्तस्य तस्यायोगात्, आगन्तुकस्य ब्रह्मस्वभावत्वानुपपत्तेश्च / तदुक्तम् ---
SK
&#८२१६;स्वाभाविकीमविद्यां तु नोच्छेत्तुं कश्चिदर्हति / विलक्षणोपपाते हि नश्येत्स्वाभाविकं क्वचित् //
SK
[KKS_१२] न त्वैकात्म्याभ्युपायानां हेतुरस्ति विलक्षणःऽ; / इति /
SK
अत्रोच्यते --- उक्तमेतज्जीवानामविद्याकलुषितत्वम्, न ब्रह्मणः / तद्धि सदा विशुद्धनित्यप्रकाशमनागन्तुकार्थम् / अन्यथा ब्रह्मभूयं गतस्यापि नाविद्या निवर्तेत / तत्रानिर्मोक्षः / अथ ब्रह्मैव संसरति ब्रह्मैव मुच्यते, एकमुक्तौ सर्वमुक्तिप्रसङ्गः / यतो भेददर्शनेन ब्रह्मैव संसरति, अभेददर्शनेन च मुच्यते / तेषां च निसर्गजाविद्याकलुषाणां विलक्षणप्रत्ययविद्योदयेनोपपद्यते ऽविद्यानिवृत्तिः / न हि जीवेषु निसर्गजा विद्यास्ति / अविद्यैव हि नैसर्गिकी / तस्या आगन्तुक्या विद्यया प्रविलयः / अव्यतिरेके ऽपि च ब्रह्मणो जीवानां बिम्बप्रतिबिम्बवद्विद्याविद्याव्यवस्था व्याख्याता / केन पुनरुपायेनाविद्या निवर्तते? श्रवणमननध्यानाभ्यासैर्ब्रह्मचर्यादिभिश्च साधनभेदैः शास्त्रोक्तैः / कथम्? यो ऽयं श्रवणमननपूर्वको ध्यानाभ्यासः प्रतिषिद्धाखिलभेदप्रपञ्चे &#८२१६;स एष नेति नेतिऽआत्मनि, स व्यक्तमेव भेददर्शनप्रतियोगी तन्निवर्तयति / स च सामान्येन भेददर्शनं प्रविलापयन्नात्मनापि प्रविलीयते / न च श्रोतृश्रवणश्रोतव्यादिविभागपरिहाण्या विभागान्तरनिवृत्तिविषयाः श्रवणादयः, अपि तु सामान्येन / तथा च तस्मिन्नपि प्रविलीने स्वच्छः परिशुद्धो ऽस्यात्मा प्रकाशते / यथा रजःसम्पर्ककलुषितमुदकं द्रव्यविशेषचूर्णरजः प्रक्षिप्तं रजोन्तराणि संहरत्स्वयमपि संह्रियमाणं स्वच्छां स्वरूपावस्थामुपनयति, एवमेव श्रवणादिभिर्भेददर्शने प्रविलीयमाने विशेषाभावात्तद्गते च भेदे, स्वच्छे परिशुद्धे स्वरूपे जीवो ऽवतिष्ठते / अविद्ययैव तु ब्रह्मणो जीवो विभक्तः, तन्निवृत्तौ ब्रह्मस्वरूपमेव भवति / यथा घटादिभेदे तदाकाशं परिशुद्धं परमाकाशमेव भवति / स्यादेतत् --- कथं भेदेनैव भेदः प्रतिसंह्रियते? भेदप्रतिपक्षत्वात्, यथा रजसा रजः --- इत्युक्तम् / व्यक्तमेव भेदातीतब्रह्मणि श्रवणमननध्यानाभ्यासानां भेददर्शनप्रतिपक्षत्वमविद्यानुबन्धे ऽपि / यथा पयः पयो जरयति [KKS_१३] स्वयं च जीर्यति, यथा च विषं विषान्तरं शमयति स्वयं च शाम्यति / यथोक्तम् ---
नापेक्षा नाम कश्चिद्वस्तुधर्मः, येन वस्तूनि व्यवस्थाप्येरन्, न खलु स्वहेतुप्रापितोदयेषु स्वभावव्यवस्थितेषु वस्तुषु स्वभावस्थितये वस्त्वन्तरापेक्षा युज्यते / तत्र पुरुषप्रत्ययधर्मो ऽयम् / न च पुरुषप्रत्ययानुविधायीनि वस्तूनि, स्वहेतुभ्यः स्वस्वभावव्यवस्थितेः / अतो न तदनुसारेण वस्तुरूपं व्यवतिष्ठते / व्यवस्थितवस्तुस्वरूपानुसारेणैव तस्य व्यवस्था न्याय्या, तत्पूर्वकत्वात् / परस्परापेक्षायां च [KKS_४९] वस्तुस्वभावस्थितावितरेतराश्रयप्रसङ्गात् / अथवा यदुक्तम् --- एकस्माद्भेदादव्यतिरेदाद्वस्तुनो भेदाभावप्रसङ्ग इति, तत्राहुः --- न भेद एकः, रूपविरोधात्, एकत्वे च तन्निमित्तं वस्तूनामेकत्वं स्यात्, तस्मात्प्रतिभावं भेदो भिद्यते, कथं तर्ह्यनेकाश्रयत्वम्? अपेक्षातः, तथा हि प्रतियोग्यपेक्षं तस्य स्वरूपं व्यवस्थितम्, तथा च यथायथं भेदैः प्रतियोग्यपेक्षैरात्मभूतैर्भिन्नाः सर्वे भावा इति / तत्रोच्यते --- पौरुषेयीमिति / पुरुषो ह्येकमर्थं गृहीत्वा परमपेक्षते कार्यार्थम्, स्वहेतुभ्यस्तु प्रतिलब्धाविकलस्वभावानां भावानां भावान्तरेषु किमर्थापेक्षा? ननु स्वभावस्थितये, नानाविधा हि भावस्वभावाः, तत्र कश्चित्प्रतियोग्यपेक्षयैव व्यवतिष्ठते वस्तुतत्त्वे, यथायमेव भेदः / न तर्हि हेतुभ्यो भावस्याविकलात्मलाभः, भेदाख्यस्य रूपस्य प्रतियोग्यपेक्षत्वात् / हेत्वन्तराच्च प्रतियोगिनः संपद्यमानः पश्चाद्भेदो न स्वभावः स्यात् /
SK
स्यादेतत् --- अविकलरूप एव भावो हेतुभ्यो जायते / तत्र भेदाख्यं रूपं प्रतियोग्यपेक्षम्, नानपेक्षं कदाचिदित्तस्य तद्विधत्वात्तेन तद्विधेनैव सह जायत इति न विकलरूपप्रादुर्भावः / तत्रोच्यते --- भवतु तद्विधस्य प्रादुर्भावः, अपेक्षार्थस्तु वक्तव्यः, यस्य हि यत्र किञ्चिद् आयतते, तत् तदपेक्षत इत्युच्यते, नान्यो विशेषः सापेक्षनिरपेक्षयोर्व्यपस्थापको निरूप्यते / तत्र न तावदुत्पत्तिः प्रतियोगिन्यायतते, स्वहेतुभ्यो ऽविकलस्योत्पत्तेः / नार्थक्रिया, तदसंनिधाने ऽपि तस्यार्थक्रियादर्शनात् / प्रतीतिश्चेत् --- तथा हि, नानपेक्ष्य प्रतियोगिनं भेदः प्रतीयत इति --- न तर्हि भेदस्वभावः सापेक्षः, तस्मिन्नवस्थिते वस्तुस्थित्युत्तरकाला प्रतीतिरर्थान्तरमेव प्रतियोगिनमपेक्षते, यथा व्यवस्थितानपेक्षस्वभावा रूपादयश्चक्षुराद्यपेक्षायां प्रतीतौ न सापेक्षस्वभावाः कथ्यते / इतरेतराश्रयाच्च न प्रतीतिरपि परस्परायत्तावकल्पते / न च वस्तुमात्रादनवगृहीतभेदाद्भेदसिद्धिः, एकस्मिन्नपि तत्प्रसङ्गात् / तस्मात्पौरुषेयीमपेक्षायां न वस्त्वनुवर्त्तते, अतो न वस्तुस्वभाव इत्यर्थः / [KKS_५०] अन्या व्याख्या --- न भेदो वस्तुनो रूपम्, आपेक्षिको हि प्रतीयते / न चापेक्षायां पुरुषप्रत्ययं वस्त्वनुवर्तते, व्यवस्थितवस्तुपूर्वकत्वादिति /
SK
कथं तर्थि पित्रादयः? न हि ते ऽपेक्षया विना, न च खपुष्पगन्धर्वनगरादितुल्याः, अविसंवादिव्यवहाराङ्गतया लोकसिद्धत्वात् / उच्यते --- भेदो ऽप्येवं किं न लोकसिद्धः? अपि च
सामान्यं न हि वस्त्वात्मा न भेदश्चित्र एव सः / तस्यानन्वयतो भेदवादः शब्दान्तरादयम् // MBस्_१.२४ //
SK
यस्यैकमुभयात्मकं वस्तु न तस्य सामान्यमात्रं वस्तुन आत्मा न विशेषमात्रम् / तन्मात्रत्वे वस्तुभेदप्रसङ्गात् / तस्मात् संभिन्नोभयरूपः शबलो वस्त्वात्मा / न च शबलस्यान्यत्रानुगमः / यस्य त्वनुगमः स वस्तुरूपं न भवति / तथा च शब्दान्तरमवलम्ब्य भेदा एव सत्या इत्येतत्प्रतिपाद्यते शब्दान्तरेण वा हेतुना द्व्यात्मकमेकमिति / अनुगन्तुरवस्तुस्वभावत्वे कल्पनाविषयत्वात् /
SK
स्यादेतत् --- मा भूद्वस्तु तदंशत्वं तु न वार्यते / अन्यथा निर्बीजा कल्पनापि न भवेत् / कः पुनरयमंशो नाम / न तावद्वस्त्वेव / तन्मात्ररूपत्वे वस्तुनो भेदप्रसङ्ग इत्युक्तम् /
SK
नापि वस्तुनो ऽन्यत्स्वयं वस्तु, सामान्यविशेषतद्वतां त्रयाणां वस्तूनां प्रसङ्गात् / अथ न वस्त्वेव नान्यत्स्वयं वस्तु / परिशेषात् कल्पनाविषयस्तत्त्वान्यत्वाभ्यामनिर्वचनीयः / ननु नांश्ॐ ऽशिनो ऽर्थान्तरं नापि स एव, उभयथानंशत्वात् / नाप्यवस्तु, अत एव / न हि खपुष्पं कस्यचिदंशो भवति / तत्रांशानुगमे वस्त्वेवानुगतं भवति तस्य तदव्यतिरेकात् / नैतत्सारम् / [KKS_६७] अननुगमादंशान्तरस्य किं न वस्तुनो ऽननुगमः / अपि त्वननुगम (अपि त्वननुगम -- एदितिओन्) एव तस्य समुदायात्मकत्वादेकाभावे ऽप्यभावात् / तथा हि --- इतरेतरापेक्षौ वा सामान्यविशेषौ वस्तु, तत्समाहारो वा / उभयथार्थान्तरे विशेषस्याभावान्न वस्त्वन्वयः / प्रत्येकमनपेक्षयोर्वस्तुत्वे नोभयात्मकमेकं वस्तु स्यादिति सुष्ठूच्यते ---
SK
तस्यानन्वयतो भेदवादः शब्दान्तरादयमिति /
SK
यदि वाखिलभावानामभेदात्तदतत्त्वतः / अभेदवादाश्रयणं स्यादन्यविधया गिरा // MBस्_१.२५ //
न कर्मविधिवाक्यार्थज्ञानप्रवृत्तौ विधिरपेक्ष्यते ऽन्यः, न तद्गत एव वा / अन्यस्मिन्ननवस्थादोषात्, तदर्थज्ञाने ऽपि विध्यन्तरस्यापेक्षणीयत्वात्, तद्गतस्य च कर्मविषयत्वेन तद्बोधं विधातुमसामर्थ्यात् /
भूमौ निखातमविद्यमानेन्द्रियसंबन्धमदृश्यमानाविनाभूतमसंवेद्यमानान्यथानवकल्पमानं वस्तु प्रलीनद्रष्टृकं यत्तस्य न प्रत्यक्षानुमानार्थापत्त्यागमहेतवः सन्ति / सादृश्यविषयं ह्युपमानम्, तस्य हेतुर्दूरापेत एव / सर्वप्रमाणयोग्यतामतिक्रामति, न च तदसत् / ननु सत्त्वमप्यस्य कथम्? एवमपि संशयः / तत्र प्रमाणहेतुभावलक्षणयोग्यतारूपे सत्त्वे प्रमाणहेत्वभावस्य निश्चयात्संशयो न स्यात् / अथ स्वभावविशेषः कश्चित्प्रमाणं प्रति योग्यः सत्त्वम्, प्रकृतहानादसुन्दरमित्युक्तम् / अथ वा प्रमाणविशिष्टः सच्छब्दार्थ इत्येतदनेन निराक्रियते / न निश्चिते विशेषणाभावे विशिष्टाभिधायिशब्दानुविद्धः संशयो युक्त इति /
SK
अपि चाभावस्यापि प्रमेयत्वान्न प्रमाणयोग्यता सत्तालक्षणम् / तथा हि ---
SK
असत्प्रमेयं च तथा यथैव स्थापयत्ययम् / अमितं हि तथा कस्मात्तथा न पुनरन्यथा // MBस्_२.४१ //
SK
अवश्यं खल्वनेन सदसद्व्यवहारविभागमिच्छता असत्कथञ्चिद्व्यवस्थाप्यम्, अन्यथा व्यवहारसंकरात् / तत्र यदि प्रमाणस्याविषयः, यदि [KKS_९२] सर्वशक्तिविरहो वासद्बुद्धेर्विषयः / सर्वथा तथा प्रमेयम् / अपरिच्छिन्नं हि तथा प्रमाणेन किमिति तद्विधम्, न पुनरन्यथा स्यात्? न चेत्तस्य तथाभावे ऽतथाभावे वा प्रमाणव्यापारः किंनिमित्त एकपक्षानुरागः?
नाभावभिन्ना व्यवहृत्तदभावश्च धीपदे / तमोदृष्टिस्तु भूच्छायामालोकाभावमेव वा // MBस्_२.५० //
SK
आलम्बते न त्वदृष्टाविष्टो दर्शनविभ्रमः /
SK
यदि खल्वदर्शने विपर्ययदर्शनभ्रमो भवति सुषुप्ताद्यवस्थासु विश्वाभावदर्शनभ्रमः स्यादालोकादर्शनभ्रमवत् / न च किञ्चिदपरिच्छिन्दतो विभ्रमः / तथा हि --- आरोपस्य विषयं पुरोवर्ति वस्तु आरोपणीयं च रजतं ज्ञानेनानाप्नुवन् न रजतभ्रमवान् भवति / अन्यथाप्रतिपत्तिः, स्मृतिः, सामान्यप्रतिपत्तिर्वा / न च बुद्ध्यभावो ज्ञानस्य विषयो न व्यवहाराभावः, नाभावबुद्धिर्नाभावव्यवहारः, विशेषणस्याभावस्य ज्ञानाविषयत्वात् / तत्रोभयोर्विषयारोपणीययोरग्रहणे न मिथ्याज्ञानमिति /
[KKS_१०५] यदि प्रवृत्त्युन्नीयमानप्रत्ययविशेषणत्वेन व्यवस्थितो ऽनुमेयो विधायकार्थः संबन्धज्ञानविषयः, न तर्हि शब्दैकप्रमाणकः / अथानुमानं शब्दपूर्वकमिति तथोच्यते, शाब्दो ऽपि प्रत्ययो ऽनुमानपूर्वक इत्यनुमानैकगोचरः स्यात् / न खलु बीजाङ्कुरयोरिवानयोरेकस्य प्राथम्यं व्यवस्थापयितुं शक्यम् / शब्दावगतस्यानुमानात्, अनुमितस्य विदितसंगतेः शब्दादवगमात् / अपि च सर्वप्रतिपत्तॄणामनुमानपूर्वा शब्दात्प्रतिपत्तिरिति तेषां शब्दो ऽनुवादक एव / तथा हि --- शब्दाद्बुद्ध्यमानो ऽनुमितं विदितसंगतिं बुध्यते सर्वप्रतिपत्ता, न त्वनुमिमानः शब्दावगतमनुमिमीते / ननु शब्दावगत एवानुमीयते / सत्यमनेन तु प्रतिपत्त्रा / न चान्यदीया प्रतिपत्तिरन्यप्रतिपत्तिमनुवादीकरोति / प्रवृत्तिहेतुमात्रे च संबन्धव्युत्पत्तेस्तन्मात्रं शब्दार्थः स्यात् / न चालौकिकः कल्पयितुमपि शक्यः, लौकिकादपि प्रवृत्तिसिद्धेः / स्यादेतत् --- वैदिकीषु प्रवृत्तिषु तदसंभवादलौकिककल्पना / नैतत् / लोकावगतसामर्थ्यो हि शब्दो वेदे ऽपि प्रतिपादकः / तत्र लौकिकीषु प्रवृत्तिषु लौकिके विदितसंबन्धे वेदे ऽपि तत्प्रतिपत्तिरेव स्यात् / असंभवे वा मिथ्यात्वम् /
SK
अथ बहुविधत्वात्प्रवृत्तिहेतूनां व्यभिचारादशब्दार्थत्वे प्रवृत्तिहेतुसामान्यं शब्दार्थः / तत्र वेदे लौकिकानां विशेषणानामसंभवादलौकिकं विशेषान्तरं प्रतीयते / एवमपि यः शब्दार्थो वेदे सामान्यं स लोकसिद्ध इति नानुवादता व्यावर्तते पदार्थान्तरवत् / यो ऽपि विशेषः सो ऽन्यासंभवेन परिशेषानुमानगोचर इति न प्रमाणान्तराविषयत्वम् / न च परिशेषानुमानमपि श्रेयःसाधनतायाः संभवात् / अथ मतम् --- लोकव्यवहार इव वेदव्यवहारो ऽप्यनादिः / तत्र वैदिकीषु प्रवृत्तिषु लौकिकप्रवृत्तिहेत्वभावादलौकिके [KKS_१०६] तु प्रवृत्तिहेतौ वैदिकानां विधायकानां संबन्धज्ञानम् / न चानुमेयत्वम्, तत्प्रत्ययस्य प्रवृत्त्यानुमानात् / तत्सिद्धिस्तु तत्प्रत्ययसामर्थ्येनैव / स च प्रत्ययः शब्दोत्थ इत्यनन्यप्रमाणता / न च लौकिकस्यैव श्रेयःसाधनत्वस्य संभव इति युक्तम् / लौकिकी हि प्रमाणान्तरावगम्या श्रेयःसाधनता / तत्र प्रयोगदर्शनाल्लिङादेस्तदनुसारेण च शब्दार्थावधारणात् प्रमाणान्तरगम्यतापि शब्दार्थानुप्रवेशिनी /
SK
अत्रोच्यते --- भवतु नाम वेदव्यवहारादेव शब्दार्थानुगमः, तथापि न प्रमाणान्तरगोचरता व्यावर्तते / तथा हि --- अलौकिके प्रवृत्तिहेतौ शब्दस्य सामर्थ्यज्ञानकाले प्रमितो वा स्यात्, न वा? प्रमितश्चेत्, शब्दसंबन्धस्य तदैव ज्ञायमानत्वादवश्यं प्रमाणान्तरेणेति वाच्यम् / अथ न प्रमितः, कथं तत्र संबन्धज्ञानम्? न ह्यप्रमितयोः संबन्धिनोस्तदाश्रयः संबन्धः प्रमातुं शक्यः /
SK
यो ऽपि मन्यते --- शक्तिर्हि शब्दस्य संबन्धः / सा च नार्थे, तस्य व्यवस्थितत्वात् / प्रत्ययस्तु तस्य कार्यः / स च प्रवृत्त्यानुमितः / तत्रैव सामर्थ्यलक्षणः संबन्धः प्रमीयत इति / स इदं प्रष्टव्यः --- किं प्रत्ययमात्रे सामर्थ्यं गृह्यते, अथ विशिष्टे प्रवृत्तिहेतुप्रत्यये? यदि प्रत्ययमात्रे, यत्किञ्चित्ततः प्रतीयेत / अथ विशिष्टे लौकिकव्यतिरिक्तप्रवृत्तिहेतुप्रत्यये, प्रवृत्तिपरिशेषाभ्यां तस्यानुमितत्वात्प्राप्तं प्रमाणान्तरगोचरत्वम् / द्वयी हि विशेषणस्य गतिः --- स्मार्ताकृष्टं विशिष्टप्रमितावङ्गत्वमेति, यथाग्निमान् धूमादिति / विशिष्टग्राहिप्रमाणप्रमेयं वा, यथा शुक्लो गौरिति / उभयथा च प्रमाणान्तरविषयः, शब्दस्यानधिगतसंबन्धत्वात् / स्मार्ताकृष्टत्वे प्रमाणान्तरमन्वेष्यम् / द्वितीये ऽपि कल्पे विशिष्टप्रत्ययानुमानानुमितत्वात् / अथानुमानस्य [KKS_१०७] प्रत्यय एव प्रामाण्यम् / प्रतीतिमात्रं तु तत्र विशेषणस्य / तावता च तद्विशिष्टप्रतीत्यङ्गम् / विशेषणप्रमितिस्त्वनुमितात्प्रत्ययात्, यथा पुरुषवचनाद्विशिष्टार्थप्रमाणे ऽनुमिते ऽर्थसिद्धिस्तत एव प्रमाणात् / तत्र ह्यर्थः प्रतीतिमात्रेणैव वक्तृज्ञानस्य विशेषणम् / तदेतदपेशलम्, स्मृतिप्रमाणसंशयविपर्यासविकल्पान्तर्गमात्प्रतीतेः / तत्रालौकिकविशेषणप्रतीतिर्न स्मृतिः, प्रागनधिगतेः / न संशयः, कोटिद्वयसंस्पर्शाभावात् / न विकल्पः, प्रवृत्तिहेतुप्रत्ययस्यापि तथा प्रसङ्गात् / तथा न विपर्यासः कथं हि तत्र यथार्थत्वे तथाभूतग्राहिणी तत्प्रतीतिरर्थशून्या स्यात्? परिशेषात्प्रमाणम् / परज्ञानेन च परः प्रतिपद्यत इति सुभाषितम् / अथ मतम् --- न परज्ञानेन परः प्रतिपद्यते, किं तु स्वज्ञानेनैव परज्ञानसामर्थ्यात् / अथ तस्य स्वज्ञानं कतमत्प्रमाणमिति वाच्यम्, न तावच्छाब्दम्, शब्दविज्ञानादर्थे विज्ञानमिति लक्षणात् / न च तच्छब्दज्ञानात् / कुतस्तर्हि? शब्दोत्थज्ञानादनुमितात् / अथ तस्य प्रामाण्ये प्रवृत्तिहेतुसद्भावसिद्धिः / प्रामाण्यं च तस्य दोषरहितशब्दोद्भवात् / तेन शब्दस्य तत्र प्रामाण्यमुच्यते / तदधीनस्तत्रार्थनिश्चय इति / तदप्यसांप्रतम्, शब्दादर्थज्ञानं शाब्दमिति लक्षणात् / पुरुषवचनमपि नार्थे न प्रमाणम् / किं तु ज्ञानविशेषणे / द्वयी च विशेषणस्य गतिरुक्ता / तत्र स्मृत्यसंभवात्प्रमीयमाण एव स विशिष्टार्थप्रमित्यङ्गम् / अन्यथार्थे प्रमाणान्तरमन्वेष्यं स्यात् / न च वक्तृज्ञानेनैवार्थसिद्धिः, परज्ञानेन न परः प्रतिपद्यत इत्युक्तम् /
SK
[KKS_१०८] यत्तूक्तम् --- वक्तृज्ञानाधीनार्थसिद्धिरिति, तत्तन्मिथ्यात्वे तदसंभवे वा प्रमाणप्रतीतिबाधने ऽर्थप्रतीतेरपि बाधनात्तदबाधे चाबाधात् / न तु वचसो ऽर्थो न विषयः / अन्यथा प्रमाणान्तरपरतन्त्रं पुरुषवचो ऽर्थे सापेक्षमित्येतदेव न स्यात् / न हि यो यस्याविषयः स तत्र सापेक्षो ऽनपेक्षो वा / तथा च &#८२१६;प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसंभवात्ऽ; इत्युक्तम् / स्थापनमबाधः, न तु प्रामाण्यमेव / तच्च वक्तृधीहेतुसंभवाद्वाक्यस्य, न तु वक्तृधिय एव / शब्दस्य चार्थेन संबन्धः, न तु ज्ञानेन / एवं ह्युक्तम् --- &#८२१६;औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धःऽ; इति / अर्थग्रहणमत्र &#८२१६;अर्थासंस्पशी शब्दः, ज्ञानेनैव शब्दस्य संबन्धः --- इति पश्यतां निराकरणाय / तस्मादन्योन्ययोग्यता शब्दार्थयोरेव संबन्धः / न चाप्रमिते ऽर्थे स शक्यो ग्रहीतुम् / प्रमिते प्रमाणान्तरविषयत्वमुक्तम् / न च प्रतीतिमात्रे, अर्थवत्याः प्रतीतेः स्मृतिप्रमाणयोरन्यतरत्रान्तर्गमात् / आनर्थक्ये केन संबन्ध? यदि च शाब्दप्रतीतिव्यतिरेकिण्यापि प्रतीत्या स विषयीक्रियते ऽप्रमाणात्मिकयापि, भवत्ययमशाब्दस्यापि ज्ञानस्य गोचर इति प्रमाणान्तराशङ्का केन वार्यते? नच प्रमाणान्तरावगम्यता शब्दार्थमनुप्रविशति, यतो नान्वयमात्रेण व्यतिरेकमात्रेण वा शब्दार्थः / सति ह्यन्यस्मिन् प्रयोजके ऽर्थे यस्याभावे न प्रयोगः सो ऽपि तस्य शब्दस्य प्रयोजक इति गम्यते, यथा सत्सु हेत्वन्तरेषु यस्याभावे न कार्यं सो ऽपि हेतुर्गम्यते / इह च श्रेयोहेतुविवक्षायां लिङ्गादेर्दर्शनात्, तदभावे सत्यपि प्रमाणान्तरगम्यत्वे ऽदर्शनाच्छ्रेयोहेतुत्वं तावच्छब्दार्थः / प्रमाणान्तरगम्यत्वे यद्यपि दर्शनम्, तदभावे च यद्यप्यदर्शनम्, न तु श्रेयोहेतुत्वे सति प्रमाणान्तरगम्यताया अभावात् / तत्र संदिग्धो व्यतिरेकः --- उभयाभावे ऽप्रयोगात् किंनिबन्धनो ऽप्रयोग इति / तत्र श्रेयःसाधनतायाः प्रयोजकत्वस्यावधारितत्वात् [KKS_१०९] तदभावे तन्निबन्धन इति गम्यते / तन्मात्रेणान्वयव्यतिरेकोपपत्तौ नान्यस्य शब्दार्थत्वे प्रमाणम् / अन्यथा शिंशपाशब्दार्थे सत्त्वादयो ऽप्यनुप्रविशेयुः, तेषु सत्सु प्रयोगात्तदभावे चाप्रयोगात् / अथ शिंशपात्वस्य शब्दार्थत्वात्तदभावनिबन्धन एव सत्ताद्यभावे ऽप्रयोगः, तत्सद्भावाच्च प्रयोग उपपद्यत इति न तेषु सामर्थ्यकल्पना, समानमेतदत्रापि / अथ श्रेयोहेतुत्वस्य प्रमाणान्तरविषयत्वात्तस्य च वेदे ऽसंभवादप्रामाण्यम् / तदसत् / न हि य एकत्र यस्य प्रमाणस्य गोचरः सो ऽन्यत्रापि मिथ्या / समीपे हि बहिरिन्द्रियविषयः, दूरे त्वागमानुमानगम्यः / तथा यागादिषु विप्रकृष्टकालफलेषु वेदावगम्यं श्रेयःसाधनत्वं भविष्यति / न च प्रमाणान्तरानुपलब्ध्या प्रमाणान्तरगम्यो बाध्यते, विषयव्यवस्थयापि प्रमाणप्रवृत्तेः / अथ प्रमाणान्तरविषयत्वे तद्विरोधादप्रामाण्यम्, अनन्तरफलानुपलब्धेः / तदविषये तु शब्दार्थे न तद्विरोध इति / स्यात्, यदि विरोधः स्यात् / न चासौ / &#८२१६;आनन्तर्यं ह्यचोदितम्ऽ; इत्युक्तम् /
SK
अथ मा भूदानन्तर्यचोदना, मा च भूत्प्रमाणान्तरावगम्यता शब्दार्थः / सर्वथा प्रमाणान्तरसिद्धश्चेत्पदार्थ आश्रीयते, स यथासिद्ध्याश्रयणीयः / अन्यथा न तत्सिद्धः स्यात् / अनन्तरश्रेयोहेतुता च तत्सिद्धा / तन्न / न तावदनन्तरफलसाधनता नियोगतः कर्मणाम्, कृष्यौषधपानादिष्वन्यथापि दर्शनात्, अवान्तरकार्यस्य यागादावपि प्रमाणसामर्थ्येन सिद्धेः / अपि च विशिष्टसिद्धौ विशेषणमपि श्रेयोहेतुत्वमात्रं सिद्धम् / तावच्च शब्दार्थः / न च तावति प्रमाणविरोधः / तदेवं लौकिके ऽपि प्रवृत्तिहेतौ दोषाभावाद्व्यर्था अलौकिककल्पना / सुखादिवच्चास्यानुमेयत्वात् / [KKS_११०] तथा हि --- मुखप्रसादाद्युन्नेयसंवेदनाः सुखादयस्तेनैव सहोन्नीयन्ते / नैवं सत्त्वे पृथक्प्रमाणमर्थ्यते / यदापीदं दर्शनम् --- वक्तृज्ञानमेव पुरुषवचनार्थः / तत्र ज्ञानं नार्थमन्तरेण संभवतीत्यर्थापत्त्यानुमानेन वार्थसिद्धिः / तदापि प्रवृत्तिप्रमितस्तधेतुप्रत्ययो न तमन्तरेणेत्याप्तवचनार्थवदनुमेयता न व्यावर्तते / अथानुमानह्र्तोः प्रत्ययस्य शब्दसाधनत्वाच्छब्दप्रमाणकत्वम् / तदसत् / नाप्तवचनार्थज्ञानस्याक्षसाधनत्वात्तदर्थः श्रोतुः प्रत्यक्षप्रमाणको भवति / तस्मात्सुष्ठूच्यते --- &#८२१६;तस्यैवमनुमेयत्वे कथं शब्दैकगोचरःऽ; / तथा --- &#८२१६;न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकदपिऽ; //
SK
इति //
SK
अथ प्रमाणरूपेण स स्वशब्दप्रकाशितः // MBस्_२.८५ //
SK
आक्षेप्ता निरपेक्षश्च कथ्यते ऽन्यप्रमां प्रति /
SK
अथोच्यते --- न ब्रूमो विधिरन्यथा वृथा स्यादिति तदधीनः संसर्गः / किं तु प्रमाणान्त्मनैव स स्वशब्देन प्रतिपाद्यते / तथा च प्रमाणत्वात्प्रमेयस्याक्षेप्तापूर्वस्य, प्रमाणान्तरानपेक्षश्च / न ह्यसौ शब्दवत्संबन्धापेक्षत्वात्पूर्वसिद्धिमपेक्षत इति /