SK
|| श्रीः || श्रीमन्महेश्वराय नमः क्रियासारः द्वितीयं संपुटम् अथ पञ्चमोपदेशः व्याससूत्रमिदं पात्रं ब्रह्माऽनन्दसुधासृतेः | तत्र निष्णातमनसां तत्त्वसारमहं ब्रुवे || १ || आचाराणामनेकेषामङ्गाङ्गित्वव्यवस्थया | द्वारं प्रविशतः शीर्षमिव ब्रह्म व्यवस्थितम् || २ || आचारः प्रथमो धर्मस्तस्माच्छ्रेयस्ततो जयः | तस्मान्निश्चिन्तता तस्याश्चित्तनैर्मल्यसंभवः || ३ || ततः शास्त्रेषु विश्वासः प्रविश्य परिशीलनम् | तस्मादध्यवसायः स्यात् प्रवाहो निश्चितस्य च || ४ || प्रवाहात् सञ्चितागामिप्रारब्धपरिपाकतः | विदुषां ब्रह्मभावेन मुक्तिः सायुज्यरूपिणी || ५ || तस्मान्मूलं सदाचारास्तेषां मूलं गुरुः स्वयम् | गुरूपदिष्टमार्गेण सदाचाररतो भवेत् || ६ || परमात्मा गुरुः साक्षात् कालावच्छेदवर्तिनाम् | गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः || ७ || गुरुरेव परं ब्रह्म तस्माद्गुरुमनुव्रजेत् | विश्वस्य गुरुवाक्यानि सदाचारपरो भवेत् || ८ || प्. २) सदाचारा बहुविधाः प्रमाणैरुपवर्णिताः | संक्षेपतः पञ्चविधा आचारा निर्विशेषकाः || ९ || नित्यं नैमित्तिकं काम्यं नित्यनैमित्तिकं तथा | नित्यकाम्यमिति प्राहुः पञ्चधा शास्त्रकोविदाः || १० || सविशेषाः सदाचारा आगमैरुपपादिताः | पञ्चाचारा वीरशैवैः सादरं स्वीकृताः सदा || ११ || अनपेक्ष्य शरीरान्तं विच्छेदे प्राणसंशयम् | प्रायश्चित्तेन सहितं निर्विशेषं विदुर्बुधाः || १२ || अपेक्ष्यैव शरीरान्तं विच्छेदे प्राणसंशयम् | प्रायश्चित्तेन रहितं सविशेषं विदुर्बुधाः || १३ || सविशेषप्रपञ्चस्तु वीरशैवीयसङ्ग्रहे | उपात्तो निर्विशेषस्तु वीरशैवैर्मतो न वा || १४ || इत्येवं सन्दिहानानां शङ्काशूकनिवृत्तये | प्रपञ्च्यते मया सर्वं तत्त्वमार्गानुसारतः || १५ || यदुक्तं निर्विशेषाख्यं पञ्चधा विधिमार्गतः | तत्र नित्यं सायमग्निहोत्रमौपासनादिकम् || १६ || नित्यत्वं श्रुतिचोद्यत्वं प्रमादे दोषसंभवः | तद्दोषविनिवृत्त्यर्थं प्रायश्चित्तविधिः पुनः || १७ ||