Commentary on the Essence of Reasons

Hetubinduṭīkāloka (subcommentary on Arcaṭa's Hetubinduṭīkā on Dharmakīrti's Hetubindu) · Hएतुबिन्दुटीकालोक (सुब्चोम्मेन्तर्य् ओन् Aर्चटऽस् Hएतुबिन्दुटीका ओन् Dहर्मकीर्तिऽस् Hएतुबिन्दु)

Commentary on the Essence of Reasons

Hetubinduṭīkāloka (subcommentary on Arcaṭa's Hetubinduṭīkā on Dharmakīrti's Hetubindu)

Hएतुबिन्दुटीकालोक (सुब्चोम्मेन्तर्य् ओन् Aर्चटऽस् Hएतुबिन्दुटीका ओन् Dहर्मकीर्तिऽस् Hएतुबिन्दु)

SK
{प्. २३३}
SK
पण्डितदुर्वेकमिश्रकृतो
SK
हेतुबिन्दुटीकालोकः |
SK
[१ ब्] | १नमो बुद्धाय |
SK
प्रहीणावृतिसंघातं प्रणिपत्य तथागतम् | विवृणोमि यथाशक्ति भट्टार्चटगुरोर् गिरः ||
SK
अभिमानधना ये च ये च बुद्धिधना जनाः | न तदर्थम् अयं यत्नस् तस्मान् नैव निरर्थकः ||
SK
स्वेष्टदेवतानमस्क्रिया हि पुण्यप्रसवभूमिर् इतश् चान्तरायरहिता ईप्सितपरिसमाप्तिर् भवतीत्य् आगमाद् वेदिता शिष्टाचारानुरक्षणधर्मा २चायं धर्माकरदत्तो हेतुबिन्दुतीकां चिकीर्षुरादित एव स्वाधिदैवतं स्तुतिपुरःसरं नमस्यति | नमस्कारश्लोककरणे चाक्षेपपरिहारौधर्मोत्तरप्रदीपादितनीतिदिशा अनुगन्तव्यौ |
SK
आशयप्रयोगभेदेन हेत्ववस्थाम् उभयीं स्वार्थपरार्थप्रकर्षभेदेन फलावस्थां द्वयीं दर्शयिष्यते | अस्य हेतुफलावस्थोपदर्शनं३ मुनीन्द्रस्य नमस्याभिमता | बोधिसत्त्वावस्थायां हि भगवान् अनेकजन्माभ्यासयोगात् कल्याणमित्रसंपर्काच् च प्रथमम् आशयविशेषसम्पदम् उदपीपदत् | याम् इह प्रणिधिबोधिचित्तम् आतिष्ठन्ते तत्त्वविदः | तस्य परस्ताद् आशंसितार्थसंपादनाय प्रयोगविशेषम् अशेषम् अकार्षीत् | यं प्रस्थानबोधिचि४त्तम् आचक्षते | तस्योपरिष्टात् प्रयोगविशेषप्रकर्षप्राप्तेः परमपुरुषार्थफलं सकलम् अलब्ध | अथातः सत्त्वोपकारं विविधम् अबाधितं व्यधित |
SK
अत एवायं यः संजाते [१.५. [त्यादिनादौ कण्ठोक्ताम् अकृत आशयावस्थाम् | तदनु पुण्यज्ञाने [१.६. [त्यादिना प्रयोगावस्थाम् | तस्य पश्चात् कृत्स्ने [१.७.] त्यादिना फलावस्थाम् | तदनन्तरं लोक [१.८.] इत्यादिना च सत्त्वोपकारावस्थाम् इति |
SK
यत्र च एवंविधो जिनरविः [१.८.] तं नमस्यामि [१.८.] नमस्कारोमीति सम्बन्धः |
SK
उपकार्योपकारिणोः समं प्रवर्तमाना निरन्तरम् उदीयमाना च महत्त्वयुक्ता महती च सा दुःखात् दुःखहेतोर् वा समुद्धरणकामता नाम या करुणा तदात्मिका कृपा चेति तथा | संजाता ६महाकृपा यस्य स तथोक्तः |
SK
किं कर्तुं स तथाविध इत्याकांक्षायाम् आह -- त्रातुम् [१.५.] इति |
SK
{प्.२३४}किं त्रातुम् इत्यपेक्षायां त्राणक्रियाकर्म जनम् [१.५.] आह |
SK
तं विशेषयन्न् आह -- समग्रम् [१.५.] परिपूर्णं सकलम् इति यावत् |
SK
पुनर् अपि विशिनष्टि व्यसनिनम् [१.५.] इति | व्यसनं दुःखम्, तद्वन्तम् | नित्ययोगे चायमिनिर्द्रष्ट्व्यः | कृपाशब्दप्रत्यासत्तेः ७सामर्थ्यात् दुःखात् दुःखहेतोर् वा त्रातुम् इत्य् अर्थो ऽवतिष्ठते | अविवक्षितापादनाद् वा अनपादानत्वम् |
SK
दुःखाद् दुःखहेतोश् च सर्वसत्त्वा मया मोचयितव्या इत्याशयसंपद्योगिन्य् अवस्था आशयावस्थेत्य् उच्यते |
SK
हेतुः [१.६.] निमित्तम्, सार्वज्ञपदस्येति वक्ष्यमाणस्वार्थप्रकर्षप्राप्तिसामर्थ्याद् अवसेयम् | चितिक्रियाभिसम्बन्धाद् द्वितीया |
SK
कीदृशम् इ८त्याशङ्कायां तद्विशेष्टुम् उक्तं पुण्येत्यादि पश्चाद् योज्यम् | पुण्यज्ञानम् अयं [१.६.] पुण्यज्ञानस्वभावम् |
SK
अन्यथा विशिनष्टि विपुलं [१.६.] विस्तीर्णं महान्तं यावत् | पुण्यज्ञानसंभाराव् एव हि सार्वज्ञं पदम् आवहतः |
SK
पुण्यज्ञानसंभारोपार्जनम् एव सत्त्वोद्धरणाय प्रयोगः | तेन तत्पदप्राप्त्यैव सत्त्वोद्धरणसंभवात् | अन्यथा तत्पदाभावात् | [२अ] १एवंविधप्रयोगसम्पद्योगिन्य् एवावस्था प्रयोगावस्थेत्य् उच्यते |
SK
अयं प्रयोगः प्राचीनश् चाशयो द्वाव् एतौ पारंपर्येण परमपदप्राप्तेः कारणम् इति तत्पदप्राप्तिहेतुत्वमात्रविवक्षया, अवस्थामात्रविवक्षया च हेत्ववस्था भगवतो व्यपदिश्यते | भेदविवक्षया पुनर् आशयप्रयोगावस्थेति |
SK
प्रचित्य [१.६.] उपचित्य राशीकृत्येति यावत् | तथा२भूताद्रिसमाश्रितौ समाश्रयणापेक्षायां पौर्वकालिकः प्रत्ययः |
SK
किम् एवंकारं चकारेत्य् आह -- कृत्स्ने[१.७.]त्यादि | यच्छब्दो ऽत्रापि सम्बध्यते | उत्तरत्रापि अभिसम्भन्त्स्यते | किं भूतः सन् यस् तम् आश्रित इत्याह -- विधूते[१.६.]ति | सर्वथा निरस्तः सादरनिरन्तरचिरकालाभ्यासायासो येन स तथा | मतद्वयाश्रयणेन३ सदाव्यापनेन इच्छाधीनत्वात् योग्यतया वा व्यापनेन उपयुक्तकार्त्स्न्ये कृत्स्नशब्दप्रयोगात् सोपायहेयोपादेयात्मककृत्स्नज्ञेयविसर्पिणी चासावावरणादिलक्षणस्य मलस्यातिशयेन प्रहाणान् निर्मलप्रज्ञा चेति तथा | सैव परार्थोदयस्थानत्वाद् उदयाद्रिर् इव तथा | तं श्रितः [१.७.] प्राप्तः तद्योगी ४जात इति यावत् | इदम् एव च सर्वज्ञस्य पदं परमपुरुषार्थफलम् | एवंलक्षणफलसंपद्योगिन्य् अवस्था फलावस्थेत्य् उच्यते |
SK
{प्.२३५}हृदि भवं हार्दम् [ १.८.] सदसत्पथविवेकविबन्धकत्वात् तम इव तमः [१.८.] अज्ञानम् कयाचिद् व्यपेक्षया तु हृदो मनसो भेदविवक्षायां तदुभयत्वम् उक्तम्. लोकोक्त्यपे५क्षया वा | तदपहन्ति विध्वंसयति धर्मदेशनाद्वारेण अन्यथा चेति तथा | जिनो मारजयनाद्बुद्धो भगवान्| क्व हार्दतमोपह इति अपेक्षयाम् आह -- लोके [१.८.] इति | लोकविषयं यच् चैतसं तमस् तस्य हन्ता | लोकस्यैव तथाभूततमसोपहन्तेति यावत् लुप्य(क्य)त इति लोकः | हार्दतमः ६शब्दप्रत्यासत्तेः प्राणी ज्ञातव्यः | एवंकारिण्येवावस्था सत्त्वोपकारावस्थेत्य् उच्यते |
SK
स एव व्यसनिजनत्राणनिमित्तकृपाधारणसाधर्म्यात् | रवेर् अपि तदागमे तथार्थोप्वर्णनात् | तदा तु व्यसनं रोगो ज्ञातव्यम् | उदयाद्रिसमाश्रयणसाम्याल् लोके तमोपहत्वसाधर्म्याच् च | तदा ७तत्तमो ऽन्धकारं द्रष्टव्यम् | रविर् इव रविः | रूपकालङ्कारश् चात्र काव्यगुणो दर्शितः |
SK
मूर्ध्ना नमस्यामि [१.८.] इति शिरः प्रणमयत एवंविधं वचनम् अवसेयम् | तेन कायिको नमस्कारो दर्शितः स्यान् नान्यथा | शब्दानुपूर्वीविशेषोच्चारणेन तु वाचिको दर्शितः | कायव्यापारव्याहारयोश् च तदुत्थापकमनःपूर्वकत्वात् ८मानसिको ऽपि इति सर्वम् अवदातम् |
SK
सोपायस्वार्थसम्पदाख्यानद्वारेणेयं नमस्क्रिया इति तत्त्वाव्याख्यानम् उद्घृष्टं नातिश्लिष्टञ्चेति नोद्घटितम् |
SK
अथवा अन्यथा व्याख्यायते | परार्थः खल्व् अयं टीकालक्षणो ग्रन्थो ऽभिप्रेतः | परश् च विषयदोषाशङ्कायां श्रवणाय नावधत्ते | ततश् चानवधानं विषयदोषाशङ्क[२ ब्.] १या व्याप्तं तद्विरुद्धोपदर्शनेन अनवधाननिषेधार्थं व्यापकविरुद्धविषयविशुद्धिम् उपदिदर्शयिषुर् आह -- य [१.५.] इत्यादि |
SK
टीकाविषयोश् चा(०षयश् चा)चार्यधर्मकीर्तिग्रन्थः | तद्विषुद्धिश् च प्रवचनविशुद्ध्या, प्रवचनार्थसमर्थनपरतया आचार्यशास्त्रस्य तदेकविषयत्वात् | ततश् चाचार्यशास्त्रविशुद्धिनिबन्धनप्रवचनविशुद्धिं बोधयितुं भगवतो गुणेदि२तत्वनिर्दोषते नमस्कारापदेशेन दर्शयति | उपायोपदर्शनपूर्वकतथाभूतप्रज्ञोदयाद्रिसमाश्रयणाभिधानेन भगवतः सर्वाज्ञानविगमो दर्शितः |
SK
सर्वाज्ञानवैधुर्याद् अस्तु निर्दोषः, स तु स्वार्थप्रकर्षप्राप्तः कस्मात् परस्मै सोपायहेयोपादेयतत्त्वम् उपदिशति येन तस्य तथाभूतं प्रवचनं सम्भवेद् इत्य् अपे३क्षायां -- यः संजाते[१.५.]त्यादिना महाकरुणया योगम् उपदर्शयति | ततो महाकरुणायागात् समीचीनम् उपदिशति प्रज्ञाप्रकर्षयोगाच् च भूतं समाधा(ससाध)नमिति प्रकाशितम् | तेनानुपदेशो ऽन्यथोपदेशश् च व्युदस्तः | यद् आह --
SK
{प्.२३६}᳚दयया श्रेय आचष्टे ज्ञानाद् भूतं ससाधनम्᳚ [PV १.२८४] इति |
SK
तथा --
SK
᳚वैफल्याद्वक्ति ४नानृतम्᳚
SK
इति | अत एवाविपरीतज्ञेयाद्युपदेशद्वारेण हार्दतमोपहः [१.८.] संवृत्तः इत्यर्थाद् एव वचनं विशुद्धं दर्शितम् | तद्विषयतया चाचार्यग्रन्थविशुद्धिः | तद्विषयतया च टीकाविशुद्धिश्च सामर्थ्याद् आख्याता भवति | शेषम् समानं पूर्वेणेति |
SK
भवतु भगवतो निर्दोषतया प्रवचनविशुद्धिः | तथाप्याचार्यस्य५ वाङ्मनसो(सयो)र् वैगुण्यसम्भवेन तच्छास्त्रं न विशोत्स्यति इत्य् आशङ्क्याचार्यस्यापि जगदतिशायिप्रज्ञायोगप्रदर्शनेन वाङ्मनसो(सयो)र्वैगुण्याभावो न्यायमार्गे[१.१३.]त्यादिना दर्शयिष्यते | वाङ्मनसो(सयो)र्वैगुण्यं हि जाड्ये सति भवत्तेन व्याप्तम् | तद्विरुद्धं चात्यन्तप्रकृष्टबुद्धित्वं | तस्मिन् सति कथम् भवेद् इत्य् अभिप्रायात् |
SK
६आचार्यग्रन्थविशुद्धाव् अपि तवैव वाङ्मनसयोर् वैगुण्यात् टीका अवदाता न भविष्यति इति चाशङ्क्य औद्धत्यपरिहारापदेशेन आचार्यवचनापेक्षया आत्मनो जडत्वम् अभ्युपेत्य वैदर्भ्यपरया वचनम् अङ्ग्या तथापि [१.१५.] इत्यादिना स्ववाङ्मनसो(सयो)र् वैगुण्यवैकल्यम् अपि प्रकाशैष्यते |
SK
आदौ कस्य७चित् पार्श्वस्थस्य अश्रुतैतत्पूर्वपक्षवादिवचनस्य तत्रानादृतस्य वा व्याख्यातग्रन्थव्याख्यानेन चर्वितचर्वणम् अनुतिष्ठता त्वया [कथं] तत्त्वातिशयप्रकाशनलक्षनं माधुर्यम् अन्तस्तृप्तिकरम् आसादयितव्यः (व्यम्) तत् किम् एवम् आचरितम् इति त्वरयाभिप्रायं स्वयम् उद्घाटितं विघटयितुम् आह -- वरं हि [१.१०.] इत्यादि | --
SK
त्वरायोगिनो ऽस्य पूर्वपक्षं क्षे८पयित्वा तु ते एवाशङ्के निराकुर्वन्न् आह -- न्यायमार्गे[१.१३.]त्यादि |
SK
पूर्वव्याख्याने तु वरम् अव्याख्याते ऽन्यत्र क्लेशः क्रियतां यत्र रसविशेषास्वादः सम्भवी, न पुनर् अत्र तदसम्भवाद् इति आशङ्कायाम् इदं योज्यं | उत्तराभ्यां तु श्लोकाभ्यां स्वकीयौद्धत्यपरिहारः केवलः कृत इति |
SK
धर्मकीर्तेर् इमानि वचनानि तेषु | आकृष्टरसं हि र[३अ] १सनीयं चर्वितम् उच्यते | अमीषाम् अपि बहुभिर् व्याख्यातत्वेन आकृष्टरसत्वात् चर्वितम् इव चर्वितेषु चर्वणं [१.१०.] रसास्वादार्थो व्यापारविशेषः | अचर्वितचर्वणरूपादव्याख्यातान्यग्रन्थव्याख्यानाद् इति प्रकरणलभ्यम् अवधिम् अभिसम्बन्धाय (सन्धाय) किञ्चिद् इष्टौ -- वरम् [१.१०.] इत्य् अव्ययम् आह |
SK
{प्. २३७}᳚वरम् अद्य कपोतः श्वो मयूरात्᳚, ᳚मृताद् वरं दुर्बलते᳚त्यादि यावत् | न पुनर् अच२र्वितान्यग्रन्थचर्वणम् इति बुद्धिस्थीकृतवर्जनीयाङ्गम् एव चैवम् आह | सामर्थ्यगम्यत्वाच् च वर्जनीयत्वेनाभिमतं नावादीत् | `अपि` न्यायतः सम्भावनाम् आह |
SK
अन्ये पुनर् अनिपातम् एव श्रेष्ठवचनं चर्वणसमानाधिकरणं वरशब्दं वर्णयन्ति | न केवलम् अचर्वितेष्व् इति चापिशब्दं व्याचक्षते | महतो ऽपि महीयांसमाचार्यम् | विदुषश् चा३स्य सर्वथैवाभिधानं द्रष्टव्यम् |
SK
ननु च व्याख्यातत्वाद् आन्तरतया निष्पीडितस्य मनाग् अपि माधुर्याभावाद् एव तदप्राप्तौ कथं वरम् इत्य् अभिधीयत इति आशङ्क्य प्रतिवस्तूपमालङ्कारेण प्रतिवचनम् आह निष्पीडितापि [१.११.] इति | मृद्वीका द्राक्षाफलम् | किमः क्षेपे प्रयोगात् नैव जहातीत्य् अर्थः | अनया वचनव्यक्त्या ४असूयाम् अपि | गम्भीराणाम् आचार्यगिरां नूनं न सर्वम् अर्थजातम् यथावत् पूर्वे व्याचख्युर् अतस् तथाविधरसास्वादस् तेन भविष्यतीति नितरां वाच्यम् इति सूचयति | पूर्वपक्षनिषेधाभिप्राये हिः[१.१०.] यस्माद् अर्थे, व्यक्तम् इत्य् अस्मिन्न् अर्थे वा |
SK
न्यायमार्गः [१.१३.] युक्तिमार्गः एव तुलेत्यन्तर्नीतनियमः समासः | एकत्र [१.१३.] इत्य् अयं शब्दः का५काक्षिवद् उभयोर् अपि पार्श्वयोर् व्याप्रियते | तेनायम् अर्थः जगत् कर्मभूतम् एकत्र एकस्मिंस्तुलान्तर्वर्तमानम् एकत्रावस्थिता यस्य मतिर् जयेद् अधरीकुर्यात् | जयेद् इति सम्भावनापदम् एतत् | यन्मतेर् जगद् अभिभवनं सम्भाव्यते इत्य् अर्थः | शक्यार्थं वा | जगज् जेतुं शक्तेति यावत् |
SK
तस्य [१.१४] एवंमतेः गिरः [१.१४.] वाच६ | परोक्षार्थेत्याद्यात्मिकाः | क्वति वदन्स्वव्याख्येयतया तान् संभावयति | दुरवगाहतया गम्भीराः [१.१४.] | अत एव क्वेत्य् आह |
SK
अहं जडधीः क्व चेत्य् अनेन तदव्याख्यातृत्वेनात्मानम् असंभावयन् दूरीकरोति |
SK
तथापि [१.१५.] इत्य् अनेन निपातसमुदायेन प्रकृतं प्रतिसमाधत्ते |[१]यान् उद्दिश्य [१.१६.] यान् अधिकृत्य ७यदर्थम् इति यावत् | मयापि[१.१६.]एवंविधेनापि मया | वक्त्रोक्तिपक्षे त्व् आचार्यं प्रति जडधीर् इति ब्रुवता लोकं प्रति विपर्ययो ऽन्तर्निहितः |
SK
__________NOTES__________
SK
[१] टिबेतनभाषान्तरम् आश्रित्य ᳚तेषां कृते᳚ इत्य् एवंरूपः पाठो ऽस्माभिः कल्पितः मुद्रितश् च| किन्तु इमां टीकाम् आश्रित्य तत्रत्यमूलपाठः ᳚यान् उद्दिश्य᳚ इत्य् एवं पूरणीयः |
SK
मन्दमतयः सन्ति मत्तोपि केचन [१.१५.] इति विदर्भवचनेन दुर्जनमनस् तोषकरेण -- यदि दुर्जनो मयि नाहत्य यदा चरति तदा बहुबिर् एवाचार्याभिप्रायो न सम्यग्व्यज्ञायीति बहुजनोद्देशेनैव ८मयैतद् विभज्यते | अन्यथा तु सोपि जनः {प्. २३८}पूर्वादपव्याख्यानग्रन्थादाचार्यग्रन्थार्थं ज्ञास्यति | न ह्य् अज्ञो ज्ञकृताद् एव किञ्चिद् अवगच्छति नान्यत इति नियमः | ततः कथम् अहम् अस्मिन् निष्फले महीयसि प्रयासे प्रवर्तेयेति दर्शयति | पूर्वव्याख्याने पुनर् औद्धत्यपरिहारमात्रपरं विवक्षितम् एतन् नैतत् पर्यवसानव्यापारम् इति [३ब्] १सर्वम् अनवद्यम् |
SK
अवच्छेद्यावच्छेदकभावेनावस्थितौ विशिष्टौ वाच्यवाचकराशी प्रकरणम् [१.१८.] तस्यारम्भ [१.१८.] आरभ्यत इति कृत्वा | सामर्थ्यात् तदादिस् तत्र प्रयोजनं [१.१८.] फलं प्रकरणस्येत्य् अर्थात् | इदं च शाब्दीङ्गतिम् आश्रित्योक्तं द्रष्टव्यम् | आर्थेन तु न्यायेन प्रकरणाभिधेयस्यानुमानस्य प्रयोजनं परोक्षार्थप्रतिपत्तिरूपं व्याख्यार्थतया ज्ञातव्यम् | २तथा ह्य् अनुमनव्युत्पादनम् एवानेन कस्मात् क्रियते ? यस्मात् परोक्सार्थप्रतीतिस् तदाश्रया | अतस् तत्परं वदन् वाक्यम् इति सैव वाक्यार्थः | एतच् च ᳚परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वात्᳚ इत्य् अनेन तु [३.२३.] इत्यादिना परस्ताल्लेशतो निर्ने(र्णे)ष्यत इति |
SK
तत् [१.१६.] प्रयोजनाभिधानम् | चो [१.१६.] अवधारणे प्रवृ[त्त्य]र्थमित्य् अस्मात् परो द्रष्टव्यः | इतिः [१.१९] ३एवम् अर्थे | केचिद्व्याख्यातारो मन्यन्त इति विशेषः [इति शेषः]त एव तदनुसहायकम् अन्यं साक्षिणम् उपक्षिपन्त आचक्षते तद् उक्तम् [१.२०.] इत्यादि | कस्यचिद् [१.२१.] इत्य् अनेन सर्वं संगृह्णाति अल्पस्येतरस्यापि वेत्य् अर्थः | अत एव पूर्वस्माद् अविशेषप्रदर्शनार्थो वा[१.२१.]शब्दः | यावत्[१.२२.] इत्यव्ययम् अवधौ | नोक्तम् [१.२२.] इत्य् अस्मात् परो ऽस्तिर् भवन्तीपरः ४सामान्यप्राय[ः] सिद्धो द्रष्टव्यः | तावद् इति पर्ववदवधौ | तच्छास्त्रं तच् च कर्म केन गृह्यताम् [१.२२.] प्रवृत्तिविषयि क्रियताम् |
SK
किमः क्सेपे प्रयोगात् न केनचिद् इत्य् अर्थः |
SK
तत् [१.२४.] श्रोतृप्रवृत्त्यर्थं प्रकरणादौ प्रयोजनाभिधानम् अयुक्तम् [१.२४.] |
SK
ननु येनाभिप्रायेण तैस् तत्प्रवृत्यर्थम् उपवर्ण्यते स एवाभिप्रायो भवता ना५बोधि तत् कथम् एतत् प्रतिषिध्यत इत्य् आशङ्क्य यत [१.२४.] इत्यादिना तदभिप्रायम् उद्भिनत्ति | इतिना [१.२४.] वचनस्याकारम् आह | तं प्रति प्रकरणस्योपायतां निश्चित्य प्रवृत्तिः स्याद् यथा स्याद् इति प्रकरणात् |
SK
किमुपायनिश्चयेन तेषाम् इत्य् आह -- अनुपाय [१. २५.] इति |
SK
प्रेक्षावताम्[२.१]इति काकाक्षिन्यायेन द्वयोर् अपि पार्श्वयो६र् अभिसम्बध्यते |
SK
उपायनिश्चयेपि कस्मात् प्रवृत्तिर् इत्य् आह -- तदर्थितया [२.१.] तस्य फलस्याभिलाषेण | क्व प्रवृत्तिर् इत्य् आह -- प्रकरणस्य श्रवणं [२. १.] आदिग्रहणात् चिन्तादेः {प्. २३९} संग्रहस् तत्र | इति [२.२] हेतौ | तद् अभिधानस्य [२.२] तस्य प्रयोजनस्योक्तेः | अर्थवत्ता [२.२] सफलत्वम् वर्ण्यते [२.२] तैर् इति प्रकरणात् |
SK
यदि सोपपत्ति७कम् एतत् तैस् तथोपवर्णितम् तर्हि सुन्दरम् एवेत्य् आह -- न चैतद् इति [२.२] | चो ऽवधारणे | एतद् अनन्तरोपनीतोपपत्तिगर्भितं तद् अभिधानं न युक्त्या सङ्गतम् |
SK
तद् उपाये [२.३] तस्य प्रयोजनस्योपाये | तद्भावः [२.३] तद् उपायत्वम् | तस्य निश्चयात् [२.३] | सस्यद्युपाये बीजादौ [२.४] प्रवृत्तिः |
SK
अवधृते[१.४]त्यत्रान्तर्भूतो णिजर्थो द्रष्टव्यः | तेन अवध्र्तः अवधारितो बी८जादि भावो यैस् तेषाम् | कर्षका अपि बीजादिविषये बुद्धिपूर्वकारिण इति प्रेक्षावत्त्वपुरस्कारेणोदाहरणम् |
SK
ननु यथोपेयार्थिनाम् उपायानिश्चयेन प्रवृत्तौ प्रेक्षावत्त्वे क्षतिस् तथोपेयानिश्चयेपि प्रवृत्तौ किं न तत्क्षतिर् इत्य् आह उपेये तु [२.६] इति | तुः पूर्वस्माद् अस्य भेदं दर्शयति |[२]भाविनि [१.६] इति हेतुभावेन विशेषणम् | अनिश्चयेपि [२.७] इत्य् उपे[४अ] १यस्येति प्रकरणात् |
SK
__________NOTES__________
SK
[२] हेतुबिन्दुटीकायाः प्रतेर् अत्र त्रुटितत्वात् ᳚भाविनि᳚ इति पदं पूरयित्वा न मुद्रितं निर्दिष्टपृष्ठे, तथापि ᳚उपेये तु᳚ इत्य् अनन्तरं तत्पदं तत्र स्थाप्यम् एव आलोकानुरोधेन | ३२ हे.
SK
इतिः [२.८] सम्भावनाया आकारं दर्शयति | एतद् उक्तं भवति -- शक्यनिश्चयम् अनिश्चित्य प्रवर्तमानाः स्वकर्तव्याकरणाद् उपालभ्याः, न त्व् अशक्या(क्य)निश्चयम् इति |
SK
यद्य् एवं प्रकरणस्यापि प्रयोजनविशेषं प्रत्युपायभावं निश्चित्य तदर्थितया प्रवर्तिष्यन्त इति आह -- निश्चयश् च [२.१०] इति | चो ऽवधारणे |
SK
कस्मान् नास्ति इत्य् आह -- शब्दानाम् [२.११] इति |
SK
न२नु च वाच्यवाचकभावलक्षणप्रतिबन्धसद्भावात् प्रतिबन्धाभावो ऽसिद्धः | तथाहि -- यदि शब्दस्य वाचकशक्तिर् अर्थस्य च वाच्यशक्तिर् वस्तुसती न स्यात् तदा पौरुषेयी स्यात्| पुरुषाधीनत्वे च शक्तेः -- यो ऽयम् ᳚शब्द एव वाचको ऽर्थस्य, अर्थ एव वाच्यः, न त्व् अर्थः शब्दस्य वाचकः᳚ इति दृष्टो नियमः, स न स्यात् | पुरुषेच्छाया अव्याह३तप्रसरत्वात् | न च नियमविलोपो ऽस्ति | न हीच्छन्न् अपि समयकारः पुरुषो ऽर्थे वाचकशक्तिम्, शब्दे च वाच्यशक्तिम् अर्पयितुं पारयति | तस्माद् यथा घट-प्रदीपयोः प्रकाश्यप्रकाशकशक्तिर् वैपरीत्यमननुभवन्ती नियमवती वास्तवी तथा शब्दार्थयोर् अपि वाच्यवाचकशक्तिर् नियमवती वास्तव्येवेति |
SK
{प्.२४०}अत्रोच्य४ते | यद्य् अर्थशब्दमात्रापेक्षया नियमः प्रतिपाद्यते तदासाव् असिद्धः | तथाहि -- सङ्केतवशात् तृणजूटादिर् अर्थो यथार्थान्तरस्य ममत्वक्रियाविशेषविधातादिलक्षणस्य प्रकाशको वाचकस् तथा समयसामर्थ्याद् एवार्थः शब्दस्यापि वाचको भवत्य् एव | तद् यथा भूतहस्तलक्षणायां कलायां ५कनिष्ठाद्या अङ्गुल्यः ककारादीनां तत्पर्वरेखाश् चाकारादीनाम् | न च शब्दस्यापि अर्थप्रकाशनाद् अर्थप्रतीतिजननाद् अन्यद्वाचकत्वं नाम |
SK
अथ घटार्थो घटशब्दस्य वाचको न भवतीत्य् उच्यते | हन्त! तस्यापि सङ्केतवशात् तथाभावः केन निवार्यते? | ᳚यदाहं युष्मभ्यं घटम् अ६र्थं दर्शयामि तदा घटश दमुच्चारयितव्यम्, अन्यथा वा ज्ञास्यथेति᳚ -- तदा किं तस्य तथात्वं न भवति? | यदि सत्यवादी भवान् नैवं वक्तुम् अर्हतीति यत् किञ्चिद् एतत् | तस्मात् सिद्धः प्रतिबन्धाभावः |
SK
ननु शब्दस्य तावद् वक्तुकामतायां अस्ति प्रतिबन्धः | सा च यथावस् त्व् एव वर्तत इति प्रणालिकया बाह्ये प्रति७बन्धात् शब्दस्य प्रामाण्यं को ऽपहस्तयेद् इत्य् आशङ्क्याह -- विवक्षायाम् [२.११] इति |
SK
अपिः [२.१२] विशेषविवक्षाया अभ्युपगमे | वस्त्वनतिक्रमेणापि क्वचिद् भवतीति नियमग्रहणम् | ततः [२.१२] इति विवक्षायां प्रमाणात् शब्दात् |
SK
स्याद् एतत् -- ये यम् अर्थं यथा विवक्षया विषयीकुर्वन्ति वक्तारस् ते तथैव तम् अर्थम् अनुतिष्ठन्ति इत्य् अत्र अप्य् एवं विवक्षितुर् एवम् एवानुष्ठानं८ भविष्यतीति निश्चये कुतो निश्चयाभावः इत्य् आशङ्क्याह -- न हि [२.१३] इति | हिः यस्मात् |
SK
कथं तथानुष्ठाननियमाभाव इत्य् आह -- विसंवादे[२.१४]ति |
SK
᳚सरितस्तीरे शर्कराशकटं पर्यस्तम् आस्ते | तदागच्छत भो गच्छामः᳚ इत्य् अभिधायाप्य् अन्यथा प्रवृत्तिदर्शनात् लोके [२.१५] व्यवहर्तरि जने | सर्वग्रन्थकारवचने ऽपि अनाश्वासात् [२.१६] आस्थाया अभावात् |
SK
प्रयोजना[४ब्] १भिधानात् प्रकरणस्य तदुपायभावविषयो ऽर्थसन्देहः प्रवृत्त्यङ्गम् उपजायते | ततश् च प्रकरणे प्रवृत्तिर् अर्थिनाम् इति प्रकरणस्य प्रयोजनविशेषं प्रत्युपायत्वसंशयं प्रवृत्त्यङ्गकर्तुम् आदिवाक्यम् उक्तम् इति मतं पश्चात्धर्मोत्तरादिनाप्य् अर्थात् दर्शितं येषाम्, तान् कटाक्षयन्न् आह -- प्रयोजने[२.१७]त्यादि |
SK
प्रकरणस्य [२.१७] इति प्रथमतो योज्य२म् | तस्य तस्मिन् वा उपायस् तद्भावस्तत्ता सैव[३]विषयो यस्य स तथा |
SK
__________NOTES__________
SK
[३] अस्माभिः ᳚तदुपायताविषये᳚ इति पाठः कल्पयित्वा मुद्रितः किन्तु आलोकम् आश्रित्य ᳚तदुपायताविषयः᳚ इति पाठः कल्पनीयः |
SK
{प्. २४१} कस्य तदुपायतेत्य् एकदेशाकाङ्क्षायां तु प्रकरणस्य [२.१७] इति श्रुतत्वाद् द्रष्तव्यम् |
SK
जन्यते [२.१८] जायते | अत एव ᳚जनिः कर्तुः प्रकृतिः᳚ [Pआ. १.३.२३] इत्य् अनेन लब्धापादानसंज्ञकात् पूर्वं पञ्चमी |
SK
ततः [२.१८] सन्देहोदयात् | तद्भावनिर्धारणाय [२.१८] तदुपायनिश्चयार्थम् | कृषीवलो [२.१८] हालिकः | आदि[२.१८]शब्दात् ३तद् इतरः | अङ्कुरादिजननयोम्यं बीजं, तद्विपरीतम् अबीजम्[४] | तदवधृतये [२.१८] तन्नियमार्थम् |
SK
__________NOTES__________
SK
[४] अत्रालोकसम्मतः टीकापाठः ᳚बीजाबीजावधृतये᳚ न तु यथा मुद्रिते लभ्यते ᳚बीजाद्यवधृतये᳚ इति |
SK
चेत् [२.१९] इति पराभ्युपगमे सर्वत्र | न [२.१९] इति युक्तत्वेनाभिमतां प्रवृत्तिं प्रतिषेधयति | हेतुम् आह -- प्रयोजने[२.१९]ति |
SK
असति वचने कथं सम्भव इत्य् आह -- तत्साधके[१.२०]ति | तस्य [२.२१] संशयस्य |
SK
᳚अनुमानव्युत्पत्तिः प्रयोजनम् अस्य᳚ इत्य्४अनभिधाने विशिष्टं प्रयोजनं प्रति प्रकरणस्योपायत्वं कथम् इह सन्दिग्धे विदग्ध इत्य् आशङ्क्याह -- अनुमाने[२.२१]ति |
SK
दर्शनात् [२.२२] इत्य् उपलम्भात् | सामर्थ्यात् तेषां श्रवणादित्य् अर्थो ऽवसातव्यः |
SK
अयम् अत्रभट्टार्चटस्याभिप्रायः -- यद्व्युत्पत्त्य यो ऽर्थीश्रुततदुपायग्रन्थसम्भवश्च स कस्यचिद् ग्रन्थस्य दर्शनात् तस्य चार्थित्व५विषयोपायभावं प्रति साधकबाधकप्रमाणाप्रतिसंवेदी तथाविधवचनम् अन्तरेणापि अर्थित्वमात्रचोदितो ऽर्थित्वविषयोपायभावं संशयानो जिज्ञासादित एवान्यत्र आदिवाक्यवियुक्त इव ग्रन्थे प्रवर्तिष्यति(ते) -- तत्पाठश्रवणादिलक्षणां प्रवृत्तिम् आचरिष्यति | अन्यथा आदिवाक्यविकले भूयसि शास्त्रे प्रवृ६त्तिर् न स्यात् | तत्र च यद् एव प्रवृत्तिनिबन्धनं तद् अत्रापि भविष्यति |
SK
नापि आदिवाक्ये सत्य् अप्य् आश्वासो युज्यते, अन्यत्प्रतिज्ञातवताम् अपि अन्यव्युत्पादनदर्शनात् | यथातः (यथा --᳚अथातः) धर्मं व्याख्यास्यामः᳚ [VS १.१.१] इति प्रतिज्ञाय षट्पदार्थीप्रतिपादनंकणादस्य |
SK
ततो निष्फलैवादिवाक्यक्रिया स्याद् यदि तद्विषय७संशयोत्पादनेने प्रवृत्त्यर्थं तद् उपवर्ण्यते | अन्यथा त्व् आदिवाक्येपि कथम् इव प्रवर्तेत श्रोतेति? |
SK
{प्. २४२} अनयैव चर्चद्वाराधर्मोत्तरादिमतेपि प्रत्यवस्थेयम् | तथाहि --यद्य् अर्थसंशयं प्रकरणे प्रवृत्त्यङ्गं कर्तुम् अभिधेयादीनि अभिधीयन्त आदिवाक्येन, तत्करणाद् एव च तफलम् उपवर्ण्यते, तर्हि तत्रैवादिवाक्ये कथं प्रवृत्तिः८ श्रोतॄणाम् असति तस्यादिवाक्यस्याभिधेयाद्यभिधायके वाक्यान्तरेऽ इति प्र्ष्टोधर्मोत्तरादिराचष्टां तावत् |
SK
का प्रवृत्तिर् आदिवाक्य इति चेत्; तस्य पठनं श्रवणम् अर्थावगाहनम् | अन्यथा प्रकरणेपि का प्रवृत्तिर् इति तुल्यचोद्यम् | व्याख्यातृवचनात् तत्र प्रवृत्तौ प्रकरणे ऽपि का क्षतिः? | तद्वचनं क्रीडाद्यर्थम् अन्यथापि [५अ]१संभाव्यत इति चेत्; समानम् इदम् अन्यत्रापि | जिज्ञासया प्रवृत्तौ चादिवाक्यं वैयर्थ्यम् अश्नुवीत | आदिवाक्यविकलशास्त्रप्रवृत्त्यैव च प्रयासाल्पीयस्त्वात् | तत्र तदन्तरेणापि प्रवृत्तिर् नान्यत्रेति प्रतिवचनं प्रतिक्षिप्तम् | तस्माद् दूरम् अपि गत्वा तेनेदम् अभिधानीयं यद् एवास्मदभिमतम् इति किम् अतिनिर्बन्धेन [कृ]तं बहुतिथेन दोषेण |
SK
संशयस्य २स्वरूपम् उपदर्शयन्न् आह -- किम् अस्य [२.२२] इति | न वा किञ्चिदि[२.२२]त्य् अनेन निश्चयेनान्यानुसरणबीजं दर्शितम् |
SK
संप्रति प्रयोजनविशेषं प्रति प्रकरणस्योपायभावसंशयं तदभिधानात् प्राण् न्यायप्राप्तं प्रदर्श्य प्रयोजनमात्रापेक्षयापि तस्योपायत्वसन्देहस् तदभिधानस्य पुरस्तात् सम्भवी ततो ऽपि प्रकरणे प्रवृत्तिर् अव्याहतेति दर्शयन् ३तत्रैवाभ्य्च्चये हेतुम् आह -- अपि च [२.२३] इति |
SK
एवं जिज्ञासोः [२.२४] इत्य् एतज्जिज्ञासात इत्य् अर्थात् |
SK
प्रवृत्त्युपयोगिप्रयोजनशून्यं निष्प्रयोजनम् [२.२४] तद्विपरीतं प्रयोजनवत् [२.२४] | उत [२.२४] इति पक्षान्तरावद्योतने | अनेन प्रेक्षापूर्वकारि[त्व]प्रयुक्तत्वजि(प्रयुक्तजि)ज्ञासा दर्शिता | सप्रयोजनत्वानुसरणे कदाचिद् अस्मदभिमतम् अपि प्रयोज४नं सम्भाव्यत इति भावः | अत एव व्यनक्ति -- अस्मदभिमतेन वा [२.२४] इति | इतिना [२.२५] जिज्ञासायाः स्वरूपं दर्शितम् |
SK
व्यर्थः [२.२५] निष्फलः प्रयोजनप्रतिपादको वाक्यस्य प्रस्तावादादिवाक्यस्योपन्यासः [२.२६] प्रदर्शनम् |
SK
यद्य् एवम् अर्थो वाक्योपन्यासो व्यर्थस् तर्हि किम् अर्थंवार्तिककारेणाकारीत्य् आशण्क्य तस्माद् [२.२७] इत्या५दिनोपसंहारव्याजेन फलम् अस्य दर्शयति | यस्माद् एवम् अर्थः सम्बद्धः तस्माद्धेतोः |
SK
कर्तुं प्रतिपादयितुं वा नारभ्यते [२.२८] नानुष्ठीयत इति यथासंख्यं सम्बन्धः | तयोः साध्ययोः यथासंख्यम् एवोदाहरणे प्राह |
SK
{प्.२४३} इतिः [३.२] प्रतिषेध्यस्य तत्करणप्रतिपादनानुष्ठानलक्सणस्य व्यापकस्यानुप६लब्धेर् आकारं कथयति | तया प्रत्यवतिष्ठमानस्य [३.२] प्रत्यवस्थानं कुर्वतः | तस्या असिद्धता, यस्या उद्भावनं प्रदर्शनं तद् एवार्थः प्रयोजनम्, तद् यथा भवतीत्य् उपन्यसनक्रियाया विशेषणम् एतत् |
SK
आदीयते अस्माद् इति आदिः [३.३] तत्र | अस्मात् खलु अर्था आदाय आदाय व्याख्यायन्त इति |
SK
स्याद् एतत् -- वचन७स्यास्य बहिर् अर्थे प्रामाण्याभावात् कथम् असौ तद्वचनात् तदसिद्धतां बुध्यते? | यदि परस्मादस्य तद्विषयो ऽर्थसंशयः प्रव्र्त्त्यङ्गं जायत इति तद् एव मतमायातम् इति किम् अनेन मसीम्रक्षितकुक्कटन्यायेनाचरितेनेति |
SK
अत्राचष्टे -- केवलं यः प्रतिपत्ता सति प्रयोजनादौ प्रेक्षापूर्वकारिणं कर्तारं ८नियमेन आदौ तद्वादिनं मन्वानः तदर्थं वचनम् अस्याप्य् अपश्यन्न् अप्रेक्षावत्प्रयुक्तत्वगर्भप्रयोजनादिकम् अत्रापि जानीते, तं प्रतिपत्तृविशेषं प्रतीदम् अकृतादिवाक्यंवार्तिककृद् इति | अन्यथा कथम् असौ निष्प्रयोजनं चेदि(दमि)त्यादि निःसन्दिग्धम् अभिदध्यात् |
SK
आद्यस्य तूक्तया नीत्या प्रवृत्तिर् अव्याहतेति सर्वम् अवदातम् |
SK
अत्र१ [५ब्]भट्टार्च्चटमते सर्वैर् एवधर्मोत्तरादिमतानुसारिभिः पराक्रम्यते | इत्थम् अस्माभिर् इदं गमितम् | एतच् च साध्व् असाधु वा मध्यस्थया धिया सद्भिर् एव विज्ञास्यत इति |
SK
पूर्वं सामान्येन प्रयोजनाभिधानम् आख्यातम् इदानीं विशेषेणावच्छिन्दन्न् आह तत्रेति [३.५] वाक्योपन्यासे | एतद् अर्थात्मनोपि संभवात् प्रकरणात्मन इत्य् आह | तद् उक्तम्काव्याल२ङ्कारे ᳚शब्दार्थौ सहितौ काव्यम्᳚ [काव्या. १.१६] इति |
SK
कथं पुनर् व्युत्पादनं ᳚परोक्षार्थे᳚त्यादिशब्दरूपस्य प्रकरणस्य प्रयोजनम् इत्य् आशंक्य सर्वशब्दसाधारणप्रयोजनोपन्यासपूर्वकम् अस्य तद्योगं दर्शयितुम् यथास्वम् [३.६] इत्यादिनोपक्रमते | यस्य यदात्मीयम् इत्य् अस्यार्थः | वाक्यस्य [३.६] एकस्मिन्न् अर्थे प्राधान्येन प्रतिपाद्ये ऽर्थाद्वारेणान्योन्या३पेक्षिण उपकार्योपकारकभावेनावस्थितस्य पदसमूहस्य | हिः [३.६] यस्माद् अर्थे |
SK
तद् एवात्र नास्तीत्य् आह तच्चे[३.७]ति | चो यस्माद् अर्थे | पदानां [३.७] सुप्तिङ्न्तानां शब्दानाम् अवान्तरवाक्यान्तर्गतानाम् | अवान्तरवाक्यानामि[३.७]ति |हेतुबिन्दुसंज्ञकमहावाक्यापेक्षया तदन्तर्भूतानां वाक्यानाम् | आकांक्षापूरण४योग्यं(ग्य)तत्तदर्थद्वारेण परस्परं[५]सम्बन्धो[३.७]व्यपेक्षा तेन |
SK
__________NOTES__________ [५] परस्परसंसर्गात्ऽ S[अतः परं सर्वत्र मुद्रितहेतुबिन्दुटीकायाःSऽ इति संज्ञा बोध्या |]
SK
{प्. २४४} नन्व् एतावतापि न ज्ञायते कोत्र समुदायार्थो यस्मिन् प्रतिपाद्ये अमीषां परस्परसम्बन्धेन व्यापार इत्य् आह तथाहि [३.८] इति | निपातसमुदायश्चायं यस्माद् इत्य् अस्मिन्न् अर्थे सर्वत्र |
SK
व्युत्पाद्यते [३.८] विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते | ५इतिः [३.८] हेतौ |
SK
यदि तच्छब्देन तत् परामृष्येत तदा तदभिधेयं व्युत्पाद्यतयोक्तं भवेद् यावता तच्छब्देन तन् न परामृष्टम् इति आह -- तस्यैव [३.९] इति |[६]चः यस्माद् अर्थे | वाक्यभेदेश् च द्रष्टव्यः | ततो ऽयम् अर्थः -- यस्मात् तच्छब्देन तस्य सम्बन्धः स्वीकारः तस्मात् सम्बन्धात् [३.९] इति |
SK
__________NOTES__________
SK
[६] आलोकानुरोधेनतस्यैव च तच्छब्देनऽ इतिटीकापाठः स्यात् | मुद्रिते तुचऽ वर्जितः पाठो ऽस्ति |
SK
स्याद् एतत् -- अयं खलु तच्छब्दो अनन्तरप्र६कान्तं प्रधानं परामृशन् दृष्टः, अनुमानञ् च सामान्ये(समासार्थे) गुणीभूतम् | तत् कथं तस्य तेन परामर्शः? Iत्य् अशंक्याह -- यद्य् अपि [३.९] इति | निपातसमुदायश् चायं विशेषार्थाभिधानाभ्युपगमे सर्वत्र | गुणीभूतम्[७][३.१०] उपसर्जनीभूतम् अप्रधानीभूतम् इति यावत् | बहुव्रीहावन्य् अस्यैव पदार्थस्य प्राधान्यात् |
SK
__________NOTES__________
SK
[७] टीकायां प्रतेर् अत्र त्रुटितत्वात्गुणभूतम्ऽ इति कल्पयित्वा स्थापितः पाठः, किन्तु आलोकसम्मतःगुणीभूतम्ऽ इति पाठः |
SK
त७थापि [३.१०] इत्य् अभ्युपगपूर्वं विशेषोक्तौ | शब्दस्य वृतिः प्रवृत्तिः -- अर्थाभिधानम्, तस्याः |
SK
प्रधानस्य संस्पर्शः स्वीकारः सम्बन्धः इति यावत् | तेन समं वास्तवसम्बन्धात् तत्परामर्शः स्यादित्य् आह -- शब्दानाम् [३.१२] इति | स्वभावतः [३.१२] स्वरूपेण सङ्केताव्यवधानेनेत्य् अर्थाः |
SK
अथवा मस(श)कसंकाशे किं महास्त्राकर्षणप्राये८णेति मन्यमानस् तदभिमतं प्राधान्यम् एव दर्शयन्न् आह -- पक्षे[३.१३]त्यादि |
SK
अयम् अस्याशयः -- यद्य् अपि समासार्थोपसर्जनं प्रत्यवम्रस्टुम् अशक्यं तथापि व्युत्पाद्यतया शास्त्रे प्रकृतत्वात् बुद्ध्यन्तरेण गृहीतं स्वतन्त्रं सत्प्रत्यवमृष्यते | यथायद्गृहम् एतत् तम् आनयऽ इति |
SK
अविपरीतस्वरूपप्रतिपत्तिः [३.१४] शिष्यसन्तानवर्त्तिनीति द्रष्टव्यम् | [६अ] १साध्यत्वाद्[३.१५] एवेत्य् अवधारणीयम् | {प्. २४५} यद्य् एवं तद्व्युत्पत्त्यर्थम् इति वक्तव्ये णिचा निर्देशेन किं प्रयोजनम् इत्य् आह -- अत एव [३.१५] इति | यतो ऽनुमानव्युत्पत्तिः प्रकरणस्य साध्यत्वाद् एव प्रयोजनं नान्यथा अतः अस्मात् कारणात् प्रकरणस्य व्यापारस् तथार्थाभिधानं तद् दर्शयितुं[८][३.१६] | किंरूपं तद् दत्शयितुम् इत्य् आह -- अनुमाने[३.१५]ति | अनुमानव्युत्पत्तिः विषयः साध्यत्वाद् य२स्य स तथोक्तस् तं दर्शयितुं व्युत्पत्तिविषयं प्रयोजकव्यापारं दर्शयितुम् इति यावत् | निर्दिशति [३.१६] आचार्य इत्य् अर्थात् | णिच्निर्देशस्यैवाकारं इतिः दर्शयति |
SK
__________NOTES__________
SK
[८] प्रतिपादयितुम्ऽ इति कल्पयित्वा पूरितो टीकापाठः | तथापि आलोकानुरोधेनदर्शयितुम्ऽ इत्य् एव सम्यक् |
SK
एवं च व्याचक्साणः शिष्यस्यानुमानव्युत्पत्तौ प्रकरणस्य हेतुकर्तृतां दर्शयति | शब्दो ऽर्थं प्रतिपादयति इति लोकस्य व्यवहारदर्शनात् | सामर्थ्याच् चाचार्यस्यापि तथाभाव३म् अभिप्रैति | सति चैवं कर्तुः श्रोतुश् च करण-श्रवणप्रयोजनम् अपि सूचितं भवति |
SK
अथासति साध्यसाधनसम्बन्धाभिधाने कथं तत्प्रतीतिर् येन तस्य तत्प्रयोजनं सिद्धिम् अध्यासीतेत्य् आह -- ततश् च [३.१७] इति | यतः प्रकरणव्यापारो ऽनुमानव्युत्पत्तिविषय उक्तः ततः कारणात् | चः [३.१७] अवधारणे उक्तः [३.१७] प्रकाशितः४ | अन्यथा प्रकरणव्यापारस्य तद्विषयत्वायोगाद् इति भावः |
SK
ननु च प्रणेतुर् ज्ञानस्थम् अर्थं प्रतिपादयितुम् उच्यते न (ंउच्चरितेन) शब्दात्मना प्रकरणेन तदभिधानं कर्तव्यम् | न हि अन्यथा तम् अर्थं प्रतिपाद्या(द्याः आ)कृत्या दर्शयितुं शक्यन्ते | तथा चार्थाभिधानम् एवात्र प्रयोजकस्य प्रकरणस्य व्यापारः | स च ण्यन्ताभिधेयः५ | तस्मात् व्युत्पादनं प्रकरणस्याभिधानम् एव | ततश् चास्यैवाभिधानार्थम् इदम् आरभ्यत इति प्रसक्तम् | न चैतद् युक्तम् | अनुमानव्युत्पत्त्यर्थं हीदम् आरभ्यते | न त्व् अस्यैवाभिधानार्थम् इति चोद्यं प्रतिविधातुम् अभ्युपगच्छन्न् आह -- यद्य् अपि [३.१८] इति | शब्दस्य वृत्तम् वर्तनम् प्रवृत्तिः व्यापार इति यावत् | तेन शाब्देन न्या६येन प्रकरणव्यापारस्य प्राधान्यम् इत्य् अर्थः |
SK
एतद् उक्तं भवति -- शब्दस्य हि व्युत्पत्तिविषयः प्रयोजकव्यापारो ऽभिधेयः प्रधानं तेन् तादर्थ्यं गम्येतेति |
SK
यदीदम् अनुमतम् एव तर्हि किम् अर्थम् एवम् अभिहितम् इत्य् आशङ्क्य प्रतिसमाधानम् आह -- तथापि [३.१९] इति | वस्तुवृत्तेन [३.१९] वस्तुवृत्त्यपेक्षया आर्थेन न्यायेनेति७ यावत् |
SK
{प् २४६}वस्तुवृत्त्यापि कथं व्युत्पत्तेः प्राधान्यम् इत्य् आह तस्या [३.१८] इति | अयम् आशयः -- सर्वो हि प्रयोजकव्यापारः प्रयोज्यक्रियार्थः | उक्तं हि ᳚विक्लेदनोपसर्जना विक्लित्तिः पचेः प्रधानार्थः᳚ इति | तस्माद् व्युत्पादनार्थम् इति प्रयोजकव्यापारवद् व्युत्पत्त्यर्थम् इत्य् उक्तं भवति | तद्व्युत्पत्त्यर्थम् इति तूच्यमाने अन्यैस् तदर्थैस् भोजना८द् इव (जनाव)स्थानादिभिः प्रयोजकस् तदर्थमात्रव्यापारतया समान उक्तः स्यात् | अस्ति चास्यासाधाराणो व्यापारः | स कथं नाम् गम्येत इति न्याय्यो णिङ्निर्देशः इति |
SK
शाब्दीं गतिम् आश्रित्य वाक्यस्य प्रकरणप्रयोजनाभिधानप्रवृत्तत्वम् अभिसन्धाय परोक्षार्थेत्य् आदेर् एकदेशस्य शाब्द्यैव गत्या गुणभूतार्थवाचकत्वं द[६ब्] १र्शयन्न् आह -- परोक्षार्थे[३.२३]ति |
SK
शब्दात्मनश् चेत् प्रकरणस्य प्रयोजनम् उक्तम्, कृतम् अर्थात्मनस् तेनाभिहितेन इत्य् आशङ्क्याह -- न हि [३.२४] इति |
SK
तात्पर्यार्थप्रदर्शनेनैवं व्याचक्षाणश् चार्थेन न्यायेन अभिधेयप्रयोजनम् एव वक्तुं प्रवृत्तम् इदं वाक्यम् इति दर्शयति | यथा [४.५] इति सामान्योक्तस्यास्य विषयोपदर्शने | भूतं [४.५] सत्यं | किं तद् इ२त्य् अपेक्षायां ब्राह्मणीत्युक्तौ स्त्रीत्वावगताव् अपि यथा न तत्र स्त्रीप्रत्ययस् तद्वत् सर्वत्र द्रष्टव्यम् इत्य् अर्थः |
SK
आ समन्ताद् उप्यते ऽनेन इति आवपनम् [४.५] किम् इत्य् अपेक्षायां इयम् [४.५] इति | उष्ट्रिका पिटकिका |
SK
ननु परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वात् यदि तद् व्युत्पाद्यते तर्हि शब्दादेर् अपि तन्निमित्तत्वात् तद् अपि किं न व्युत्पाद्यते इत्य् आशङ्क्याह -- अनेन [४.७] इति | अनेन ३तत्प्रतिपत्तेः त्रिरूपलिङ्गाश्रयत्वकथनेन | चो यस्माद् अर्थे | प्रमाणभूता [४.८] प्रमाणरूपा अव्यभिचारिणीति यावत् |
SK
कस्माद् एवम् उक्तं भवतीत्य् आह -- अन्यस्मात् [४.८] इति उक्तत्रिरूपलिङ्गाद् अन्यस्मात् तत्प्रतिपत्तेर् अव्यभिचारिण्याः परोक्षार्थप्रतिपत्तेर् अयोगाद् अप्रयुज्यमानत्वात् |
SK
असत्य् अवधारणे अयम् अ४र्थः कुतस्त्य इत्य् आह -- अवधारणात् [४.१०] नियमाद् इति | इतिः [४.१०] अवधारणस्य आकारं दर्शयति |
SK
ततः [४.१०] परोक्षार्थप्रतिपत्तेर् अनुमानाश्रयत्वाद् एव | आदि[४.१०]शब्दाद् अर्थापत्त्यादिपरिग्रहः | उक्ताद् अन्येन प्रकारेणानुमानत्वे प्रामाण्ये सति इति यावत् | तेषां [४.११] शब्दादीनाम् |
SK
{प्. २४७} स्याद् एतत् -- अलिङ्गजापि परोक्षार्थप्रतिपत्तिर् ५अव्य्भिचारिणी भविष्यति तत्कहं शब्दादीनां सत्य् अपि प्रामाण्ये तथात्वम् इत्य् आशङ्क्याह -- तथाहि [४.१३] इति |
SK
सर्वशब्देनाशेषपरिग्रहं दर्शयति | स्वतन्त्रा [४.१३] स्ववशा लिङ्गानपेक्षेति यावत् |
SK
हेतुम् आह -- तस्याः [४.१४] इति | यस्तया व्यवसीयते स तस्याः स्वार्थः |
SK
मा भूत् संवादिका, प्रमाणं तु कस्मान् न भवति? | आह -- अवि६संवादनम्[९]अविसंवादकत्वं, तद् एव लक्षणं स्वभावो यस्य तद्भावस् तत्त्वं तस्मात् [४.१५] |
SK
__________NOTES__________
SK
[९] आलोकसम्मतः मूलपाठःअविसंवादनलक्षत्वात्ऽ न तु यथा मुद्रितः --अविसंवादलक्षणत्वात्ऽ इति |
SK
स्वतन्त्राया अयोगात्, अन्यत एव सा भविष्यति किम् एतावतानुमानत्वम्? | न हि पक्षधर्मतैव लिङ्गस्य रूपं येन तज्जायाः तथात्वं स्यादित्य् आह -- अन्यत्रापि(तोपि) [४.१५] इति |[१०]असम्बद्धात् [४.१६] सिषाधयिषिताप्रतिबद्धात् |
SK
__________NOTES__________
SK
[१०] Sऽ प्रतेर् अत्र त्रुटितत्वात्यदि स्याऽ इति पूरितम् अस्माभिः | आलोकम् अनुसृत्यअसम्बद्धात् यदि स्याऽ इति -- पाठः पूरणीयः |
SK
अस्तु तर्हि प्रतिबन्धो न तु ७पक्षधर्मता | ततश् चान्वयव्यतिरेकवतो ऽपि शब्दादेर् अपक्षधर्मात् परोक्षार्थप्रतिपत्तिर् अव्यभिचारिणी नानुमानम् इत्य् आशङ्क्याह -- धर्म्यसंबन्धेपि [४.१६] इति |
SK
यद्य् एवम् अस्तु तत्प्रतिपत्तिहेतोः पक्षधर्मत्वम् अपि | किम् अतः इत्य् आह -- एवम् [४.१८] इति | एवं[११]रूपं [४.१८] साध्यसम्बद्धं विशिष्टधर्मसम्बद्धञ् च | इतिः हेतौ | सर्वा [४.१८] कृत्स्नैव | न भिद्यते [४.१९] न पृथक् प्रमाणम्८ |
SK
__________NOTES__________
SK
[११] अयम् आलोकसम्मतः पाठः | Sएवम्भूतःऽ |
SK
सर्वत्रायम् इतिः [४.१९] वाक्यार्थपरिसमाप्तौ | यत्र तु अर्थविशेषे वर्तते स प्रायेण कथ्यते |
SK
स्याद् एतत् -- उत्सूत्रो ऽयम् अर्थस् त्वया व्याख्यायते न त्व् अयम् अत्राचार्यस्य विवक्षित इत्य् आह एष च [४.१९] इति | चः [४.२०] यस्माद् अर्थे |
SK
ननु प्रकृतसम्बन्धाद् अर्थितम् अयम् अर्थो ऽत्यन्त (-दर्शने ऽयम् अर्थो ऽसङ्गत) इत्य् आह -- पक्ष [४.२०] इति | व्याप्त एव च [४.२२] इति समुच्चीयमानावधारणम् इदम् |
SK
नरञ् च नारायण[७अ] १म् एव चादौ स्वतः सुतौ द्वौ जनयां बभूव
SK
इति यथा
SK
{प्. २४८} ᳚विवक्षातो ऽप्रयोगे ऽपि तस्यार्थो ऽयं प्रतीयते᳚
SK
इति च भावः अवधारणात् [४.२२] इति ध्रु(ब्रु)वतः |
SK
तद्व्युत्पादनार्थम् इत्य् अत्रापि अर्थग्रहणसम्भवाद्[१२]अत्रे[४.२४]त्य् आह |
SK
__________NOTES__________
SK
[१२] आलोकसम्मतःअत्रार्थग्रहणंऽ इति पाठः | Sअर्थग्रहणंऽ |
SK
इतिः [४.२४] पदस्याकारं दर्शयति | स्वलक्षणविषयं [४.२४] वस्तुविषयम्, न सामान्यविषयम् इत्य् अर्थात् |
SK
कथम् अर्थविषयत्वाभिधाने ऽनुमानप्रामाण्यस्य स्वलक्षण२विषयत्वम् उक्तं भवतीत्य् आह -- अर्थे[४.२५]ति |
SK
एवम् एवाचार्यस्य तथाभिधानं सङ्गच्छते नान्यथेति दर्शयितुम् आह -- अत एव [४.२६] इति | अनुमनप्रामाण्यस्य स्वलक्षणविषयत्वाद् एव | अन्यथाप्रत्यक्षव्यवस्थायाःऽ इति विशेषो(ष्यो)क्तं स्यात् न सामान्येनेत्य् आशयः | अत्र प्रामाण्यस्य वस्तुविषयत्वाद् अन्येन सामान्यविषयत्वप्रकारेण तत्र [४.२७] स्वलक्षणे, नान्यविषया३ज् ज्ञानाद् अन्यत्र प्रवृत्तिर् युक्ता, अतिप्रसङ्गाद् इति भावः |
SK
ननु सामान्यम् अपि वस्तु, तेन तदर्थक्रियार्थितयैवे प्रवृत्तिर् उपपत्स्यत इत्य् आह -- सामान्यस्येति [५.१] | अपिना [५.१] वस्तुत्वे ऽभ्युपगमं दर्शयति |
SK
तस्याम् एवार्थक्रियायां प्रवृत्तिर् भविष्यतीत्य् आह -- तस्याश् च [५.२] इति |[१३]तदुत्पत्ताव् एव [५.२] सामान्यालम्बनज्ञानोत्पत्ताव् एव |
SK
__________NOTES__________ [१३] तदु[त्पाद्य]त्वेनऽ S |
SK
तर्हि वाहदोहार्थक्रि४यार्थितयैव प्रतीते गोत्वे सामान्ये प्रवर्त्स्यतीति अत आह -- न हि [५.२] इति | हिः अवधारणे |
SK
हेतुम् आह -- तस्य[१४][?] इति | अन्वयव्यतिरेकाभ्यां तत्रैव तद्व्यापारावधारणाद् इति भावः |
SK
__________NOTES__________
SK
[१४] स्वलक्षणस्यैव S |
SK
भिन्नस्य सतः कार्यकारणभावाद् अन्यस्य सम्बन्धस्याभावाद्[१५]अनुपकार्यतये[५.४]त्य् आह |
SK
__________NOTES__________
SK
[१५] अनुपकार[कत्वेन]ऽ S |
SK
अभ्युपेत्यापि सम्बन्धम् इदानीम् आह -- सत्यपि [५.५] इति | चः [५.५] वक्तव्या५न्तरसमुच्चये |
SK
धूमार्थिनोपि धूमप्रतिपत्तौ धूमध्वजे प्रतिपत्तिः प्राप्नोति इति इष्टम् धर्मम् अतिक्रान्तः प्रसङ्गः अतिप्रसङ्ग[५.६]स् तस्माद्धेतोः |
SK
{प्. २४९} अनवसितः -- अनवधारितः, विवेकः -- अन्यत्वं येन स तथा तस्य [५.६] |
SK
तदनवसाय एव कुत इत्य् आह -- समवायस्य [५.३] इति | समवायेन हि सम्बद्धं सामान्यम् इति --नैयायिकादीनांमतम् | तस्य[१६]सामान्यस्याध्यवसायात् [५.७] समारोपात् | तत्र [५.७] स्वलक्षणे |
SK
__________NOTES__________
SK
[१६] आलोकसंमतःतदध्यवसायात्ऽ इति पाठः |अवसायात्ऽ S |
SK
ननु किम् इदं समवायस्य सूक्ष्मत्वं विवक्षितम्? | यदि परिमाणविशेषयोगित्वम्, तद् अस्य न सम्भवति | अथाप्य् उपलब्धिजननयोग्यरूपरहितत्वं तद् अपि तदभावात् तद् एव नोपलभ्यताम्, न तु तस्य ताद्रूप्येण सामान्यतद्वेतोर् भेदानुपलक्षणम् उपपद्यते | न च समवायो नोपलभ्यतेनैयायिकमते समवेतविशेषणभावेन तस्योपलब्धेर् इष्टत्वात् | तन्मतस्य चाशंक्यमानत्वाद् इति |
SK
न, अभिप्रायापरिज्ञानात् | इह हि सूक्ष्मत्वं समवायस्य समवायिनोर् भेदेनानुपलम्भकत्वं विवक्षितम् | एष हि समवायस्य महिमा येन समवायिनौ निर्लुठितगर्भवद्भेदेन नोपल८म्भयति पटतन्त्वादिवद् इति | अन्यथा व्याख्यानं तु साहसम् एव |
SK
अत्र एवं तर्हि [५.७] इति प्रतिविधानम् | इह भ्रान्तेस् त्वयाप्य् अवश्याभ्युपगन्तव्यत्वाद् भ्रान्तिमात्रम् एवास्तु [५.८] इत्य् आह |
SK
वासनाद्वयनिबद्धो हि विकल्पः स्वाभासम् एवागोव्यावृत्तं प्रतियन् बाह्यस्याप्य् अगोव्यावृत्ततया भेदम् अवगाहितुम् अनीशानो बाह्य एव गौर् मया प्रतीत इत्य् अभिमन्यमा[७ब्] १नः प्रकृत्यैव भ्रान्तिरूपो जायते |
SK
भ्रान्तिर् एव भ्रान्तिमात्रम् [५.८] वस्तुभूतसामान्यशून्यं स्वक्षणाश्रयतया अनुमानज्ञानाश्रयतयोपगतत्वेन च तयोर् अन्तर्वर्तित्वाद् अनुपयोगितया च घाटामस्तकान्तरालवर्तिमांसपिण्डरूपगडुस्थानीयत्वात् गडुरूपं [५.८] तेन तद्विषयतयोपगतेनेति प्रकरणात् किं [५.८] न किञ्चिद् इत्य् अर्थः |
SK
अयम् अस्याशयः -- २यदि विकल्पो दृश्यविकल्प्याव् अर्थाव् एकीकृत्य लोकं प्रवर्तयितुं न शक्नुयात् यदि च तदुपगमे ऽपि भ्रान्तिः प्रवृत्तिनिमित्तं नोपगम्येत, तदा तथा प्रवृत्तौ सामान्यम् उपयुज्येतापि | यदि च तत् प्रमाणप्रसिद्धं भवेत् गडुवदेवानुपयुक्तम् अपि उपगम्येत, उपगम्य च तथा प्रवृत्ति इष्येत, यावता सर्वम् एवेदम् असम्भवीति |
SK
ननु निर्निबन्धनो ऽन्यत्रा३न्यस्य समारोपो नोपपद्यते | न च व्यक्तिषु सर्वतो व्यावृत्तासु अनुगताकारस्य बुद्धिप्रतिभासस्यारोपे किण्चिन् निमित्तम् अस्ति | तत् कथं भ्रान्त्या प्रवृत्तिकल्पना ज्यायसीत्य् अभिप्रायवानाह -- निर्बीजे[५.८]ति |
SK
{२५०} ता एव [५.९] इत्य् उत्तरम् | याः स्वहेतुभ्यस् तथोत्पन्नास् ता व्यक्तयः स्वहेतुसामर्थ्यात् तदेकप्रत्यवमर्षार्थज्ञानाद्य् एकं कार्यं ४यासां तास् तथा |
SK
एतद् उक्तं भवति -- अतत्कार्यव्यावृत्त्या तदेककार्यत्वं सर्वसजातीयानुगतं तासु विद्यमानम् अनुगताकारस्य बुद्धिप्रतिभासस्यारोपबीजं किन् न भवतीति? |
SK
स्याद् एतत् -- तदेककार्यतया तथाभूता अपि व्यक्तयः तथाभूताया भ्रान्तेर् बीजम् उपपद्यन्ते | सामान्यम् इत्य् अस्मत्पक्षस्यापि न किञ्चित् प्रमाणम् इत्य् अभि५सम्बन्धम् आकलय्य परस्परसामान्याभिधानम् उन्मूलयितुम् आह -- वर्णे[५.१०]ति | वर्णः शुक्लादिः, आकृतिः संस्थानं संयोगविशेषः, ताभ्यां समानो ऽविशिष्टः आकार आभासो यस्य यत्र वा तत् तथोक्तम् | वर्णसमानाभासम् आकृतिसमानाभासं वर्णाभासम् आकृत्याभासम् इति यावत् | वर्णाकृतिप्रयुक्त६त्वात् सामान्यस्य, तज्ज्ञानस्यापि तथात्वं नायुक्तम् इत्य् आह -- न च [५.११] इति | तद्रूपं [५.११] वर्णाकृतियुक्तरूपम् | तदुक्तम् --
SK
᳚वर्णाकृत्यक्षराकारशून्यं गोत्वम् हि वर्ण्यते᳚ [PV २.१४७] इति |
SK
तत् [५.११] तस्मात् |
SK
वर्णाकृतिप्रयुक्तं हि प्रतिभासमानं हि तद्वर्णाकृतियोगिन्य् अपरत्र भ्रान्तेर् बीजं [५.११] निबन्धनं भवेत्, नान्यद् इतिभावः |
SK
यदि नाम सामान्य७तद्वतोर् वर्णादियोगाभ्यां वैसदृश्यं तथापि सामान्यं तत्र भ्रमनिबन्धनं किं न भवति इत्य् आह -- सादृश्ये[५.११]ति | अस्ति हि काचिद्भ्रान्तिर् या अन्तरुपप्लवसम्भवे इत्य् अभिप्रेत्य परैः [५.१२] इत्य् आह |
SK
यदि एवं बाह्यस्य बुद्धिप्रतिभासेन सामान्येन किं सादृश्यं येन ब्रान्तिर् उत्पद्यत इति आह -- व्यक्तय [५.१२] इति |
SK
[१७]सामान्यालम्बनं यज् ज्ञानं तस्य य आकारो८ विजातीयव्यावृत्तरूपं तस्य सरूपाः [५.१३][१८]विजातीयव्यावृत्ता [५.१२] इति हेतुभावेन विशेषणम् | तेन विजातीयव्यावृत्तत्वाद् इत्य् अर्थः | बुद्धिप्रतिभासस्य वा अतद्रूपपरावृत्ततयैवावभासनाद् इति च भावः |
SK
__________NOTES__________
SK
[१७] आलोकसम्मतःसामान्यालम्बनज्ञानाकारसरूपाःऽ इति पाठः |सामान्याकारज्ञानस्वरूपाःऽ S | [१८] आलोकसम्मतःविजातीयव्यावृत्ताःऽ इति पाठः |अ[समानजा]तीयव्यावृत्ताःऽ S |
SK
यैर्वैशेषिकादिभिर् व्यक्तेर् भिन्नं सामान्यम् इष्टं तैर् अप्य् अवश्यम् उक्तया नीत्या स्वलक्षणविषयम् अनुमानस्य प्रामाण्यम् एष्टव्यम् इति प्र[८अ] १तिपाद्य संप्रतिमीमांसकादीन् प्रतिपादयितुं यैः [५.१६] इत्य् आदिनोपक्रमते |
SK
{प्. २५१} तुः [५.१६] विशेषार्थः |
SK
सामाण्यं अनुमाने प्रतिभासमानं प्रवृत्तिविषयः, तच् च व्यक्तिस्वरूपम् इति स्वलक्षणविषयम् एव प्रामाण्यं तस्यापतितम् इत्य् आशयः |
SK
यद्य् एवं भवन्मतवत् तद् अपि मतम् अतिशोभनम् इत्य् आशङ्क्य आह -- स्वलक्षणे[५.१७]ति |
SK
तद्देशोपसर्गणजन्मनीन्द्रियज्ञान इव २प्रतिभासनप्रसङ्गेन शब्दाद् अपि तं(तत्)प्रतीतौ चक्षुरिन्द्रियादिवैयर्थ्यप्रसङ्गेन व्यक्तेर् अप्रतिभासने तदात्मकं सामान्यं कथम् इव प्रतिभायाद् इति भावः |
SK
ननु यद्य् अनुमानस्यापि प्रामाण्यं स्वलक्षणविषयं तर्हि प्रत्यक्षाद् अस्य भेदः कथम् इत्य् आशङ्क्याह --[१९]परोक्ष इति | तुः प्रत्य्क्षाद् अनुमानं भेदवद् दर्शयति |
SK
__________NOTES__________
SK
[१९] S संज्ञकहेतुबिन्दुटीकायाः प्रतेर् अत्र त्रुटितत्वात् मूलपाठाभावः बोध्यः |
SK
यस्माद् अर्था[त्]साक्षाद् अनुदय३मानम् उत्पत्तुं लिङ्गम् अपेक्सते, अर्थञ् च न साक्षात्करोति तस्माद् इत्य् अर्थः | सति भाव आश्रयार्थः |
SK
स्यान् मतम् -- यद्य् अस्यापि स्वलक्षणं विषयः, तर्ह्य् अन्यत् सामान्यलक्षणं, सो ऽनुमानस्य विषयः[NB I] इतिन्यायबिन्दुर् विरुध्येतेत्य् आह -- तदेवेति | चो यस्माद् अर्थे |
SK
कथं तथा वक्तुं शक्यत इत्य् आह -- लक्ष्यत इति |
SK
सा४मान्यम् अतद्रूपपरावृत्तिर् लक्षणं लक्षकं यस्यातद्रूपपरावृत्तस्य वस्तुनः |
SK
त एव भेदाश् च अविवेचितभेदाः सामान्यम् इत्य् अर्थः | पुनर् उक्ताशङ्काम् इत्य् अर्थपुनरुक्ताशङ्का इत्य् अवसेयम् | शब्दपुनरुक्तस्यानुम्भवाद् एव तदाशङ्काया अभावात् | द्विविधं हि पुनर् उक्तम् | अर्थपुनरुक्तम् -- यदा विशेषविधित्सा५द्यभावे स एवार्थः शब्दान्तरेणाभिधीयते | शब्दपुनरुक्तं तु विधित्साद्यभाव एव यदा स एव शब्दः पुनर् उच्चार्यते | विशेषविधित्सादिभावे तद् एव द्वैधम् अर्थानुवादशब्दानुवादात्मना द्वैधं भवतीति |
SK
वार्तिकादौ तर्ह्य् अनैपुण्यमाचार्यस्येति चेत् | न, मन्दबुद्धीनधिकृत्य तत्प्रवृत्तेः |
SK
प्रमाणेनेति तृतीयान्तात् तसिर् द्रष्टव्यः |
SK
तन्निश्चयतः प्रभेदनिश्चयतः पुरुषव्युत्पादनम् इति विग्रहः | प्रभेदस्य व्युत्पादनम् इति सम्बध्यते | प्रभेदो ऽपि द्विधा द्रष्टव्यः -- अनुपलब्ध्यादिभेदेन पक्षधर्मत्वाद्यात्मना च | यदि कार्यादिभेदनिश्चायकं प्रमाणम् अत्रोक्तम्, तर्हि अन्वयादिप्र(स्व)रूपप्रभेदनिश्चायकं प्रमाणं नोक्त७म् एवत्य् आशंक्याह त्रिविधेति | त्रिभिर् अन्वयव्यतिरेकपक्षधर्मतात्मकैः प्रकारैः | {प्. २५२} प्रकर्षेण भिन्नस्य भेदम् उपगतस्य | एवम् अभिधानाद् एव चास्य प्रभेदस्येत्य् अत्रास्माभिस् तथा व्याख्यातम् अन्यथा एतन् न संगच्छेत |
SK
स्याद् एतत् -- लिङ्गलक्षणानुमानस्वरूपस्य व्युत्पादनं स्याद् यदि लक्ष्यं लक्षणं तन् निर्दिष्टं भवेत् | प्रभेदस्य च ८तदा स्याद् यदि तन् निर्देशः स्यात् | न चात्र तद्वाचकम् अस्तीत्य् आह तत्र त्रेधाव्युत्पादने व्यवस्थिते सतीति | एवञ् च निर्देशप्रदर्शनं परं कृतं बोद्धव्यं न तु लक्षणानुवादेन लक्ष्यविधिर्दर्शितः |
SK
हेतुर् इति तु लक्ष्यमनूद्य पक्षधर्म इत्यादिलक्षणं विधेयम् अवसेयम् | इतिना नियमस्याकारो दर्शितः | प्रतिपाद्योपलक्षणं [८ब्] १भावग्रहणं | तेन भावेषु अभिधेयेषु इत्य् अर्थः | अभावेषु तथा न स्यात् |
SK
अत्र तु साहायकंकुमारिलसाक्षिणम् अपक्षिपन्न् आह तद् उक्तम् इति | संवित्तेर् अनुगमो ऽनुबन्धः स्थैर्यम् | धारावाहित्वम् इति यावत् | सकृज्जाता तु विपक्षाभावसंवित्तिर् अदृढा यत्र, न तत्र, यथावधारणम् इत्य् अनेन सूचयति |[२०]हिर्यस्माद् इन्द्रियस्य भावाङ्गे(वांशे)नैव संयोगः | संयोगशब्देन २संबन्धो विवक्ष्यते | न त्व् अन्यतरकर्मादिगुण एव | सामान्यादेर् अप्रत्यक्षत्वप्रसङ्गात् | सो ऽपि कस्माद् इत्य् आह -- योग्यत्वाद् इति | भावांशेन सह सम्बद्धम् इन्द्रियं योग्यंमीमांसकमते | सतोर् एव सम्बन्धोपपत्तेर् इति भावः | स विषयो ऽस्येति तद्विषयस् तस्य भावस् तत्ता | कस्या सेत्य् अपेक्षायाम् आह प्रत्य्क्षस्येति | कस्माद् इत्य् आह -- अर्थेति | विरो३धिन्य् अनुपपन्ना चतुर्धा चतुर्भिः प्रकारैः |
SK
__________NOTES__________
SK
[२०] भावांशेनैव संयोगो योग्यत्वादि इन्द्रियस्य हिऽ इति SV, अभाव १८ |
SK
असामान्यतयैव तत्साधनीभविष्यतीत्य् आह -- तत्र इति |
SK
अनुक्रान्तं रूपं [६.९] स्वभावो यस्य तत् तथा | अनुक्रान्तं प्रकान्तम् एकज्ञानसंसर्गितुल्ययोग्यतालक्षणं वाच्यम् |
SK
हेत्वन्तरम् अपि तथा भविष्यति इत्य् आह -- यदि [६.९] इति सम्भावयति | हिः [६.९] यस्माद् अर्थे | स्यात् तथारूपम् इति प्रस्तावात् | आदि[६.९] ४शब्दात् कालस्य संग्रहः | घटवद् इति चाशयः |
SK
अयं प्रकारः[२१][६.१२] कार्यकारणव्याप्यव्यापकलक्षणः | तस्मात्[२२][६.१२] कार्यकारणभावाद्यभावात् | ते [६.१२] कारणव्यापकानुपलब्धी | न च तस्य चात्यन्तासतो ऽविकलकारणस्य भावः सम्भवति इति भावः |
SK
__________NOTES__________
SK
[२१] प्रकारो ऽयंऽ --S [२२] तत्ऽ -- S
SK
{प्. २५३} अमूषां सम्भवम् अभ्युपपद्येदानीं दूषणं दत्ते -- सम्भवे च[२३] [६.१४] ५इति |
SK
__________NOTES__________
SK
[२३] वाऽ S
SK
ननु कथम् अयं नियमः सिध्यतीति प्रश्ने किम् इदम् अकृतं नियमसिद्ध्यनङ्गम् अभिधीयत इत्य् आशङ्क्याह -- एवं मन्यत [६.१८] इति | एवं वक्ष्यमाणकम् | इह [६.१८] वाङ्मये व्यवहारे | तद्विपर्ययेण [६.१८] तस्य नियम्यमानस्य विपर्ययेण | तद्विपक्षस्य [६.१९] तस्य नियमविषयस्य विपक्षः तद्विपक्षस् तस्य व्याप्तौ | [६.२१] सत्याम् | ६प्रतिषेध्यस्य हेतुत्वस्य यः स्वभावस् तेन यद्विरुद्धं हेत्वाभासत्वं तस्य उपलब्ध्या [६.२५] |
SK
ननु हेतूक्तलक्षणप्रतीतिकाम्(मो)हेतोर् एव रूपं प्रतीयताम्, कथं पुनः परस्परपरिहारवत्तया तयोर् विरोधः प्रतीयत इत्य् आह -- तदात्मे[७.१]ति | तस्य हेतोर् य आत्मा तत्र नियतो यः प्रतिभासस् तस्य यज् ज्ञानं संवे७दनं तस्माद्धेतोः विपरीतस्य अन्यतया तदनात्मतया सामर्थ्यात् ज्ञातया | इत्थंभूतलक्षणा चेयं तृतीया | तदाभासता तस्याः प्रतीतेः [७.२] सामर्थ्येन निश्चयात् |
SK
तस्मात् किं भवतीत्य् आह -- परस्परम् इति [७.२]
SK
स्याद् एतत् -- अत्यन्तासतो हेत्वन्तरस्य न केनचित् सह विरोधावगतिः येन विरुद्धोपलम्भात् अभावगतिर् भवति | तत्र च हेतुत्वम् अ८त्यन्तासत् कथं निषिध्येत इति पूर्वपक्षद्वयम् उत्प्रेक्षमाण आह -- ते च [७.४] इति | चो यस्माद् अर्थे | नापि च तेन निषिध्यमानं हेतुत्वम् अत्यन्तासत्तयोपगतम् इति सम्बन्धनीयम् | तर्हि किम् अत्र तत्त्वम् इत्य् आह -- केवलं [७.६] इति |
SK
अन्यत्र [७.६] कार्यादौ प्रसिद्धं निश्चितं व्यामोहाद् अज्ञानात् तत्र [७.६] हेतुत्रयबाह्ये अर्थे आरोपितं [७.७] सत्त्वेन व्यवस्थापितम् | शङ्कित[९अ] १मस्ति न वेतिऽ संशयास्पदीकृतम् |
SK
तत् [७.७] तस्मात् | किं कस्मात् सामर्थ्यात् प्रकाश्यमानम् इत्य् उक्तम् | एवम् उपलक्षणत्वाद् अस्य कथं निषेध इत्य् अपि द्रष्टव्यम् |
SK
ननु किं हेत्वन्तरे हेतुत्वं भवत्वा[भवत् हेत्वा]भासत्वभावान् निवर्तमानम् अवगतं येन तस्यानेन विरोधो वक्ष्यत इत्य् आह -- न च [७.८] इति |
SK
इदानीम् अत्यन्तासत्त्वम् अभ्युपगम्यापि दोषाभावं प्रदर्शयितुम् आह -- नापि [७.१०] इति |
SK
{प्. २५४} कथं पुनस् तत्रैव२ तदवगमो न भवतीत्य् आशङ्क्याह -- न हि [७.११] इति |
SK
मा तत्रावधारि विरोधो ऽन्यत्रापि कथम् अत्यन्तः(ता)सतस् तदवगम इत्य् आह -- सर्वत्र[२४] [७.१३] इति |
SK
__________NOTES__________
SK
[२४] S प्रताव् अत्र शङ्कितः पाठः | आलोकानुरोधेन स तु ᳚विरोधो ऽपि तु सर्वत्र᳚ इति गम्यते |
SK
लक्षणं [७.१५] वस्तूनां विभक्तरूपं, तत् प्रयोजनम् अस्य इति तथा[२५]| नियतरूपप्रतीतिर् एव सर्वेण समं तस्य विरोधप्रतीतिर् इति समुदायार्थः |
SK
__________NOTES__________
SK
[२५] लाक्षणिकः [७.१५]
SK
दुर्मतीनां विस्पन्दितानि [७.१८] व्याकृतानि, तेषु |
SK
प्रकरणं निगमयन्न् आह -- इति स्थितम् ए३तत् [७.१८] इति | इतिः [७.१८] इति अनन्तरोक्तम् उपपत्तिप्रकारं प्रत्यवमृषति | इतिः [७.२०] अभिप्रायस्याभिप्रायेण विषयीकृतस्याकारं दर्शयति |
SK
प्रमाणयोर् द्वैतात् द्वयोर् अनियतरूपदर्शने कतरेणे[७.२५]त्य् उक्तम् | उपगतम् इत्य् अनेनारोपम् आह | विशेषप्रतिषेधात् शेषविधानं लब्धम् इत्य् अभिप्रायेण पक्षधर्मतासद्भावे पि४ [७.२७] इत्य् आह |
SK
भवतु अविनाभावाभावो हेत्वाभासत्वन् तु कस्माद् इत्य् आह -- अविनाभावेति [८.२] | असिद्धविरुद्धानैकान्तिकानां सामान्यधर्मेण [८.३] साधारणेन धर्मेण |
SK
संप्रति विशिष्टेन नाम्ना साधनम् इदम् अवच्छिन्दन् आह -- इति [८.३] इत्यादि |
SK
अविनाभाववैकल्यम् एव तु कुतः सिद्धिम् इत्य् आह -- अविनाभाववैकल्यञ् च [८.५] इति |
SK
तेभ्यः५ स्वभावादिभ्यो व्यतिरिक्तानां व्यापकानुपलब्ध्या[२६] [८.६] वक्ष्यमाणस्य व्यापकस्यानुपलब्ध्या |
SK
__________NOTES__________
SK
[२६] व्यापकानुपलब्धितः -- S
SK
तदनुपलब्धिर् एव कुत इत्य् आह -- त्रिविधे[८.५]ति | तद्भावे हि त्रिविधान्तर्भावाद् एव तद्व्यतिरिक्तत्वम् एव न भवेद् इति भावः |
SK
किं तद्व्यापकानुपलब्ध्या तत्सिद्धिम् अध्यारोहतीत्य् आह -- तथाहि [८.६] इति |
SK
तादात्म्येन तदुत्पत्ता६व् एवेति(त्पत्त्या वेति) विवक्षितम् | न तु द्वाभ्याम् एव | तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिश् च तदुत्पत्तिर् इष्टा द्रष्टव्या | कुतस् ताभ्यां तस्य व्याप्तिर् इत्य् आह -- तयोः [८.७] इति | तत्र [८.७] अविनाभावे | तस्य [८.८] अविनाभावस्य | तयोः [८.८] सतोर् एव |
SK
{प्. २५५} कस्मात् तयोर् एव तस्य भावः? | किं पुनर् अन्यथापि न भावह् इत्य् आह -- अतत्स्वभावस्येति [८.८] |
SK
पूर्वोक्तत७दुत्पत्तिनिषेधेन यस्य यस्माद् अनुत्पत्तिर् यत्कारणाद् वा तस्यातदुत्पत्तेर् इति [८.८] बोद्धव्यम् |
SK
अत्र स्वातन्त्र्यजिहासयावार्तिकम् उपन्यस्यति -- तदुक्तम् [८.९] इति |
SK
स्याद् एतत् -- दृष्टचरम् इदं यत् अतत्स्वभावेन अनुत्पन्नेन च केनचित् कस्यचिद् अव्यभिचारो यथा रसादिना रूपादेर् इत्य् आह -- रूपादिना [८.१५] इति |
SK
रसादेर् अविनाभावः [८.१५] अव्यभिचारित्वम् |
SK
३केनेत्य् आह -- रूपादिना [८.१५] इति | आदिशब्दात् स्पर्शादिसङ्ग्रहः |
SK
तत्कारणोत्पत्तिर् एव [८.१६] इत्य् अभिदधानस् तदुत्पत्तिशब्देन पूर्वं द्वे विधे विवक्षिते इति स्फुटयति |
SK
एतद् एवान्यथा [८.१७] इत्यादिना द्रढयति |
SK
विशेषाभावो ऽसिद्धः, एकार्थसमवायित्वम् एव विशेष इत्य् अभिप्रेतुर् वचनम् एकार्थ [८.१९] इत्यादिना शङ्कते |
SK
एकार्थसमवाय इत्य् अत्र द्वयी व्युत्प[९ब्] १त्तिः -- एकस्मिन्न् अर्थे एकस्मिन् समवाय एकार्थस्य वा समवाय इति |
SK
अत्र तु एकस्मिन्न् अर्थे द्वयोः समवायः इति विवक्षितम् | स निमित्तं यस्य अविनाभावस्य स तथा |
SK
सिद्धान्ती प्रतिविधास्यमानश् चोदयति -- ननु [८.२०] इति |
SK
᳚अयुतसिद्धानाम् आधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः᳚ [Pरशस्त. प्. ६९६) इत्यादाव् आधार्याधारग्रहणाद् उपवर्ण्यते इत्या२ह |
SK
अस्तु तथाविधयोर् असौ का क्षतिर् इति आह -- स च [८.२०] इति | चो यस्माद् अर्थे |
SK
तस्याभिधेयत्वेनाभिमतस्वरूपान्धकारे अतिप्रसक्तिदोषान् न सिध्यति [८.२१] | स्थित्यादिकरणेनाधारभावस्यान्यत्र निषिद्धत्वाद् इति भावः | इतिः [८.२१] हेतौ |
SK
समवायम् अभ्युपेत्य एतद् उक्तम् | तद् एव तु नास्तीति संप्रति प्रतिपादयन्न् आह --[२७]यथा च [८.२२] इति | तादा३त्म्ये चे[२८][९.१]ति तेन सहेत्य् एव योजनीयम् |
SK
__________NOTES__________
SK
[२७] S प्रतेर् अत्र त्रुटितत्वात् ᳚-समवायो[वसे]यः᳚ इति कल्पनया पूरितः पाठः | आलोकानुरोधेन तु स एवं स्यात् -- ᳚-समवायो ऽवसेयः | यथा च समवायः᳚ [२८] वा -- S
SK
{प्. २५६} ये [९.२] वस्तुस्वभावाः एवं भवन्ति [९.२] तथाभूताव्यभिचारिणो भवन्ति |
SK
भवन्तस् तर्हि किं कर्तार इत्य् आह -- केवलम् [९.३] इति | द्रष्टारः [९.३] परिच्छेदकाः तथाभूतवस्तुस्वभावानाम् इति प्रकरणात् |
SK
᳚अकस्मात्᳚शब्दो ऽनिमित्तवचनः तेनाकस्माद् भवो ऽहेतुक इत्य् अर्थः | इतिः [९.४] तस्मात् न कस्य चिद्व४स्तुनः स स्वभावो विरमेत् | सर्वस्य सर्वः स्वभावः स्याद् इत्य् अर्थः |
SK
दिगादिवद् अहेतोः सतो देशकालनियमो नेष्ट एवेति वादिनि तु देशकालग्रहणं दृष्टान्तार्थं द्रष्टव्यम् | तेन यथा देशकालनियमो हेतुरहितस्य नास्ति तथा द्रव्यनियमो ऽपि न स्याद् इत्यर्थः |
SK
एतद् एव तद्धि [९.५] इत्यादिना समर्थयति | ५हिर् यस्मात् तद्गमकं वस्तु कर्तृ किञ्चिद् गम्यं[२९]कञ्चिद्(क्वचिद्) धर्मिण्युपनीयेत अग्निर् वा न वेति [९.५] तद्विपरीतं वा स्यात् | यस्य [९.५] वस्तुनो यत्र [९.६] गम्ये किञ्चिद् द्रव्यम् आयत्तं, न वेति अस्य विवरणं अनायत्तम् इति |
SK
__________NOTES__________
SK
[२९] ᳚क्वचिद्᳚ इति मुद्रिते संपूरितः पाठः सम्यक्
SK
अन्वयमुखेनोक्त्वा व्यतिरेकमुखेणाप्य् उपपादयति अन्यथा [९.६] इति |
SK
[३०]तस्माद् [९.७] इत्यादिनोपसंहरति |
SK
__________NOTES__________
SK
[३०] ᳚ततो᳚ इति मुद्रिते संपूरितः पाठः |
SK
पादप्रसारिका [९.९] इति | सुखावस्थानोपलक्षणम् इदं द्रष्टव्यम् | अभिधातव्यम् एव कारणम् |
SK
न तु भवदभिप्रेतम् इत्य् आह तच् च [९.१०] इति | इतिः [९.१०] तस्मात् | तद्विकला [९.११] अविनाभावरहिताः | एतद् एवाचार्यवचनेन संस्यन्दयन्न् आह -- तथा चाह [९.११] इति | स्याद् एतत् -- असत्य् अपि तत्स्वाभाव्ये तत्कार्यत्वे वा किञ्चिद् अर्थान्तरम् अव्यभिचरदृष्टम् एव यथा ७तपे तरुच्छाया | यथा तुलाया अर्वाग्भागोन्नामावनामौ परभागावनामोन्नामाव् इति | एवम् आद्यस्माभिर्धर्मोत्तरप्रदीपे विस्तरेण निरूपितम् इत्य् आस्ताम् तावद् इह | स्याद् एतद् -- अविनाभावस्य तादात्म्यतदुत्पत्त्योर् अव्यभिचारे निमित्तम् न तावत् तादात्म्यतदुत्पत्ती स्तो यथा चायं तथा तदन्योपि तदव्यभिचारी च स्या८न् न च तस्य तत्स्वभावत्वं तत्कार्यत्वञ् चेति |
SK
{प्. २५७} अत्रोच्यते | नाविनाभावो नामान्य एवान्वयव्यतिरेकवतो ऽविनाभाविनो रूपात् | केवलं कयाचिद् व्यपेक्षया ततो भिन्न इव कथ्यते. न तु तावता वस्तुतो भिन्न एव. अविनाभावि च रूपं किञ्चिद् अव्यभिचरितव्याद् अर्थान्तरं किञ्चिद् अनर्थान्तरम्, तस्य तत्कार्यतयाइव प्रतिबन्धो ऽनर्थान्त[१०अ]१रस्य तु तादात्म्येन | अत एवाविनाभावभावात् तादात्म्यतदुत्पत्तिव्यवहारः साध्यते | तदभावं तु तद् अपि रूपं नास्तीति प्रतिपाद्यत इति सर्वम् अवदातम् |
SK
अत्र [९.१५] अस्मिन्न् अर्थे प्रयोगो [९.१५] द्व्यवयं साधनवाक्यम् | तदुत्पत्तिपक्षे तु तत्कारणेन चेत्य् अपि |
SK
स्याद् एतत् -- यथा तादात्म्यतदुत्पत्त्यभावो ऽप्य् अनुपलब्धिः साध्याव्यभिचारिणी तथान्यद् अपि किं न भवेद् इत्य् आशं२क्याह स्वभावे[९.१८]ति | अभावव्यवहारयोग्यतायाः साधनादित्य् अभिप्रायः | तादात्म्यं [९.१९] लक्षनं निबन्धनं यस्य स तथा | तद् अपिआचार्यस्याभिमतम् इति दर्शयन्न् आह तदुक्तम् [९.२२] इति |
SK
इदानीम् इमम् एव ᳚पक्षधर्म᳚इत्यादिश्लोकं अन्यथा व्याचिख्यासुरनेन यावन्तो ऽर्था निर्दिष्टाः तावतः परिसंख्यातुम् आह -- तद् एवम् [९.२५] इति |[३१]तस्य संख्यानियमस्योपपत्ति३र् युक्तिः |
SK
__________NOTES__________
SK
[३१] ᳚तदुपदर्शकं च प्रमाणम्᳚ -- S | ᳚तदुपपत्तिश् च᳚ इति आलोकसंमतः पाठः |
SK
एतच् छ्लोकव्याख्यानस्यापराम् अपि विधां दर्शयन्न् आह -- अथवा [९.२८] इति | पूर्वन् तु लक्ष्यानुवादेन लक्षणविधानपरं विवक्षितम् | न त्व् अवधारणचिन्ताकृतेति ततो भिन्नम् इदं व्याख्यानम् | कथम् इदम् उक्तम् अवधारणम् उपपद्यत इत्य् अभिप्रेत्य पृच्छति | किं कारणम् [१०.१] अत्रेति प्रस्तावात् | किम् इति सामान्यतः कारणं पृच्छति | अवि४नाभाव[३२]भावाद् इति श्लिष्टनिर्देशम् अभिसन्धाय त्रिविधस्य च [१०.३] इत्य् उक्तम् | तथा ह्य् अविनाभावे नियमान् नियतत्वाद् इत्य् उक्ते कस्येत्य् आशंकायां त्रिविधस्य च श्रुतत्वात् त्रिविधस्येति युज्यते वक्तुम् |
SK
__________NOTES__________
SK
[३२] अविनाभावनियमात् -- S
SK
एवम् उभयावधारणे(णेन) व्याख्यातेन कोर्थातिशयः प्रकाशितो भवतीत्य् आह तेन [१०.३] इति | द्वाव् अपि इति शब्दौ हेत्वर्थाउ | एवम् उ५क्तं भवति | ततः [१०.७] कारणात् त्रिविधहेतुवाह्येषु हेतुव्यवहारं कुर्वन्तो निरस्ता भवन्ति | कुतः? अवि[३३]नाभावस्याभावात् | त्रिवेधे च हेताव् अहेतुताम् आचक्षाणा निरस्ता भवन्ति | कुतः अत्रावि[३४]नाभावस्यावश्यं भावात् [१०.८] |
SK
__________NOTES__________
SK
[३३] आलोकसंमतः पाठः सम्यक्, न तु यथा संपूरितः [३४] अहेतुत्वम् -- S
SK
{प्. २५८} अस्मिन् व्याख्याने ᳚हेत्वाभासास् ततो ऽपरे᳚ इति व्याख्यातुं पूर्वपक्षं रचयन्न् आह[३५]तथैतत् [१०.११] ६इति | द्वेधा हि तदंशव्याप्तिविरहो विपर्ययव्याप्तेः विपर्यये बाधकप्रमाणाभावाद् इत्य् अभिप्रायेणाह विपर्यये[१०.१७]त्यादि | ते [१०.१७] बुद्धिनिविष्टा असिद्धविरुद्धानैकान्तिका हेतुरूपविकलतया हेत्वाभासा गम्यन्त एव | असिद्धेत्यादि तु वास्तवानुवादः | न तु तत्संज्ञया ज्ञातैस् तैः प्रयोजन(नं) हेतुत्वमात्रज्ञाने७न चरितार्थत्वात् | एवम् अपि वा प्रज्ञाइः ज्ञायन्त इति न काचित् क्षतिः |
SK
__________NOTES__________
SK
[३५] तत्रैतत् -- S
SK
एवदेव सामान्यन्यायोपदर्शनमुखेन प्रसाधयन्न् आह -- तथाहि [१०.१९] इति |
SK
अत्रापि व्याख्याने अङ्गाङ्गिभावेन प्रतिपादितानाम् अर्थानाम् अवच्छेदं कुर्वन्न् आह -- तद् अत्रेति [१०.२७] | तदुभयस्य -- त्रिविधो हेतुर् एव, त्रिविध एव हेतुर् इत्य् अस्यावधारणद्वयस्य कारणम् [११.१] उपपत्ती द्वे ८इत्य् अर्थत्वात् | श्लिष्टस्य षष्ठ्या सप्तम्या च संगतस्य, अविनाभावनियमात् -- इत्य् अस्य निर्देशात् | अनन्तरोक्तास् त्रयो ऽर्था इमौ च द्विकारणलक्षणौ द्वाव् अर्थापत्तयश् चक इति षडर्था भवन्ति |
SK
अस्मिन्न् एव श्लोके पूर्वव्याख्यानापरित्यागेनावृत्त्यैवापरम् अपि व्याख्यानम् अभ्युच्चिन्वन्न् आह किञ्चेति [११.४] |
SK
ननु प्रथम एव व्याख्याने ᳚त्रिविधैव(त्रिधैव) स[१०ब्] १इति प्रभेदस्य व्युत्पादनम्᳚ इति ब्रुवता स हेतुस् त्रैधा कार्यस्वभावानुपलब्धिभेदभिन्न इति प्रकाशितम् एवैतत्, कथं व्याख्यानान्तरम् इदम् इति चेत् | सत्यम् एतत् | केवलं ᳚त्रिधैव स᳚ इत्य् अत्र व्याख्यानान्तरम् इदं विधेयं तच् च तदा सुज्ञातं भवति, यद्य् अस्य प्राक्प्रवृत्तं व्याख्यानम् उपदर्श्य प्रदर्श्यत इत्य् अभिप्रायेण तद् व्याख्यानम् अनूदितम् | एतद् अपेक्षेण तु अ२थवेत्य् अनेन किञ्चशब्दार्थम् उज्ज्वलयता यत् प्रदर्श्यते तद् एव व्याख्यानान्तरं द्रष्टव्यम् | अजहत्कार्यत्वादिप्रभेद एवायं प्रभेदो ज्ञातव्यः | तेनायम् अर्थः -- कार्यादिभेदभिन्न एव प्रत्येकं पक्षधर्मत्वान्वयव्यतिरेकात्मकस् त्रिरूप एवेति | एतेनैकद्विपदपर्युदासेन षट्पक्षान् प्रतिक्षिप्य सप्तमपक्षपरिग्रहेणानुमानलक्षणम् अभिप्रे३तं वार्तिककृतो दर्शयति |
SK
यत एकपदपरिग्रहेण त्रयः पक्षा, द्विपदपरिग्रहेणापि त्रय इति षट्कम्, तत्पर्युदासेन सप्तिका(सप्तम)परिग्रहः | तथाहि पक्षधर्मो हेतुर् इत्य् उच्यमाने यस्य सपक्षेनन्वयो विपक्षे च प्रवृत्तिः सोपि हेतुः स्यात् | यथा नित्यः शब्दः कृतकत्वाद् इति | सपक्षे यस्यान्वय इत्य् उच्यमा४ने विपक्षप्रवृत्तेर् अपक्षधर्मस्य हेतुत्वं स्यात् | यथा नित्यः शब्दश् चाक्षुषत्वात् सामान्य{प्. २५९}वद् इति | य(त)था सपक्षव्यतिरेक इत्य् उच्यमाने यो ऽपक्षधर्मः सपक्षे च नास्ति स हेतुः स्यात् | यथा अनित्यः शब्दो ऽसत्त्वाद् इति | पक्षधर्मे सपक्षे च यो ऽस्ति स हेतुर् इत्य् उच्यमाने नित्यः शब्दः प्रमेयत्वाद् इति५ विपक्षवृत्तिर् हेतुः स्यात् | पक्षधर्मः सपक्षे नास्तीत्य् उच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वाद् इत्य् अयं सपक्षवृत्तिहीनो हेतुः स्यात् | सपक्षे ऽस्ति विपक्षे च नास्तीत्य् उच्यमाने अनित्याः परमानवः कृतकत्वाद् इत्य् अयम् अपक्षधर्मो हेतुः स्यात् | तद् एतत् सर्वम् मा भूद् इति समुदायोपादाने प्रयो६जनम् इति | इदम् एव च सर्वं बुद्धावाधायधर्मोत्तरप्रदीपे ऽस्माभिर् अभ्यधायि ᳚त्रिरूपाल् लिङ्गाद् इति च आचक्षाणेन᳚ इत्यादि |
SK
ननु पक्षधर्मवचने पक्षधर्मतोक्ता | अन्वयव्यतिरेकात्मकयोस् तु रूपयोः केनाभिधानं येनैवं व्याख्यायत इत्य् आह तदंशे[११.६]ति | अत्रैव सामर्थ्यावच्छिन्नम् अवदर्शयन्न् आह ७नाबाधिते[११.७]त्यादि | पूर्वप्रभेदापरित्यागेनास्य भेदस्य विवक्षितत्वात् | उभयम् अपि तच्छब्देन परामृषति | अविनाभावभाव एवाबाधितविषयत्वस्य भावात् न तद्रूपान्तरम्, वस्तूनाञ् च विरुद्धस्वभावद्वयाभावात् तत्रैकस्मिंस् तदविनाभाविनि तद्विरुद्धरूपाविनाभाविनो ऽन्यस्यासंभवेनापि(प्य)प्रतिपक्षत्वं नाम तदन्तर्गतम् एव | यस्य तु तद्व्य८तिरिक्तम् इष्टं तदभिप्रायेण व्यतिरिक्त[११.१०]ग्रहणम् | रूपान्तरस्य[११.१२] सम्भवः[११.१२] सद्भावः, स यस्यास्ति तस्मिन् |
SK
अविना[भावा]भावम् एव नहि [११.१३] इत्यादिना समर्थयति | रूपान्तरयोगिन्य् अप्य् अविनाभावासम्भवाद् असिद्धस् तद्भाव इत्य् आह तद्वति [११.१४] प्रतिबन्धनिबन्धना[विना] भाववतीति | यदि तस्मिन्न् अपि रूपान्तरं स्यात् केवलम् अप्रमाणकम् एतद् उच्यत इत्य् आह यथा चे[११.१५]ति | [११अ] १वक्ष्यते[३६]हेतुना व्यक्तीक्रियत इति |
SK
__________NOTES__________
SK
[३६] वक्ष्यति -- S
SK
पक्षो धर्मधर्मिसमुदायः | तथाभूतसमुदायसाधकप्रमाणाभावेन तद्धर्मतया सर्वस्यैव ग्रहीतुम् अशक्यत्वाद् इति भावः | अथ कथञ्चित् तद्धर्मस्य सिद्धिः [११.१९] निश्चयस् तस्यां वा सिद्धप्रयोजनत्वात् तस्य हेतोर् वैयर्थ्यम् |
SK
परस्थानपतितत्वात् पर एवासाव् इत्य् अभिप्रायेणईश्वरसेन एव परः [१२.६] अभिप्रेतः |
SK
अधि(व्यधि)करणत्वेन२ साध्याधिकरणाद् विभिन्नाधिकरणत्वेन असिद्धम् [१२.१२] अनिश्चितम्, तत्र चिरास्पदीभूते धर्मिणि द्वयोर् अप्य् अन्ययोर् असिद्धत्वात् | इदम् इह स्वरूपासिद्धम् इदं तु व्यधिकरणासिद्धम् इत्य् एतद् एव कुतो व्यवस्थाप्यम् इति चेत् | सत्यम् एतत् | केवलं तत्रासिद्धो ऽपि हेतुर् अन्यधर्मिगतत्वेनोपादीयते, स व्यधिकरणासिद्धो बोद्धव्यः | {प्. २६०} कस्मात् तत्संबन्धना३र्थं नाशङ्कनीयम् इत्य् आशंकायां तद् अभिधानीयं तदभिव्यक्तत्वाद् अनेन नोक्तम् | धर्मो हेतुस् तदंशेन व्याप्त इत्युक्ते वा [सक]लोपि हि जानात्य् एव | न तस्यात्मन एवांशेन व्याप्त इत्यभिप्रायात् |
SK
आचार्येण [१३.२२] इति |आचार्यदिग्नागेन |
SK
पक्सस्य धर्मिणो धर्मस्यानुपपत्तेः न तावत् कर्मधारयो त एवासंख्यापूर्वकत्वा४च् च न द्विगुः | अनव्ययत्वाच् च नाव्ययीभावः | यच् छब्दवाच्यासंभवात्, न हि स एव धर्मी स एव धर्म इत्य् अर्थविरोधाच् च समासान्तस्यानिच्प्रत्ययप्रसक्तेश् च न बहुव्रीहिः | नपुसंकलिङ्गात् द्विवचनप्रसङ्गाच् च ᳚चा᳚अर्थासंभवाच् च न द्वन्द्वः | सप्तमीसमाससूत्रे च धर्मशब्दस्यासंग्रहाद् योगविभागेन तत्समासभावे५पि षष्ठीसप्तम्योर् अभेदाद् इत्य् अभिप्रायवान् प्राह [३७]षष्थीतत्पुरुषाद् [१४.२२] इति | षष्ठीसमासे च राजपुरुषादौ स्वाम्यन्तरव्यवच्छेदो दृष्टो राज्ञः पुरुषो वाच्युस्येति(-षो नान्यस्येति) | तद्वद् इहापि पक्षस्य धर्मो नान्यस्येत्य् अन्ययोगव्यवच्छेदः स्याद् इत्य् अभिसम्बन्धः |
SK
__________NOTES__________
SK
[३७] षष्ठीसमासाच् च -- S
SK
ननु ज्वाला [१५.२१] वह्निः | आदिशब्दाद् बुद्ध्यादि क्षणिकत्वेनेष्टम् इति तत् क६थम् अक्सणिवादिनं तं प्रति पक्षस्य(स्या)भाव इत्य् आह यद् अपीति [१५.२१] | न प्रत्यक्षतः [१५.२२] इति ब्रुवतोयं भावः -- यदि प्रत्यक्षेण क्षणस्योपलक्षणं स्यात्, तदा दृष्टान्तपर्येषणा पर्यवसानं गच्छेत् | यदा त्व् अनुमानतस् तदा तद् अपि तेषाम् अनुमानम् अदृष्टान्तकं कथं स्याद् इति साधनं दुःखम् इति | एतच् च कस्यचित् परस्य क्षणिकत्वाभ्यु७पगमम् अभ्युपगम्योक्तम् | न तु सहेतुनाशवादिभिर् बुद्ध्यादेर् अप्य् उत्पत्तिक्षण एव भावो न तु द्वितीये क्षण इति एवं लक्षणं क्षणिकत्वम् एष्टव्यम्, आशुतरविनाशित्वाभिप्रायेण क्षणिकशब्दप्रवृत्तेर् इष्टत्वाद् इति द्रष्टव्यम् इति | तत्र प्रति.....न्धनस्याविनाभावस्य बाधकप्रमाणतः सिद्धाव् अप्य् अन्यत्वे ऽत्रैव वृत्तिर् अपेक्षणीयेति परिभा.... ८काल्पनिकत्वं [१५.२४] तस्य प्रतिपन्नं स्याद् इत्य् आशयः | प्रतिपन्नं [१५.२५] स्वीकृतम् अभ्युपगतम् इति यावत् | स्व(स) [१५.२६] इति स्वसाध्यप्रतिबन्धः | अन्यत्र [१६.१]विनिश्चये | यद् वस्तु धूमादिकं क्वचित् पर्वतादौ दृष्टं निश्चितं तस्य धूमादेः यत्र वह्न्यादौ प्रतिबन्धः प्रतिबद्धत्वम् तद्विदः प्रतिबन्धविदः पुंसस् तस्य प्रतिबन्धविषयस्य वह्न्यादेः तद् धूमादि[११ब्] १कं गमकम् अनुमापकं तत्र पर्वतादौ इतिः एवम् अर्थे | गतिर् बलं सामर्थ्यम् इति यावत् |
SK
एवंपरम् [१६.५] एवंप्रधानम् एतद् अर्थं ᳚तत्तुल्ये सद्भावः᳚ इति वचनम् | स हेतुनापि तत्त्वेन (हेतुः कल्पितत्वेन) धर्मो यस्य स तद्धर्मा [१६.५] साध्यधर्मी तस्य | वस्तुबलाद् आगतं वास्तवम् |
SK
{प्. २६१} पक्षत्वेन तस्य सपक्षत्वं निराक्रियत इत्य् आह साध्यत्वेने[१६.६]ति | इच्छाव्यवस्थितलक्षणत्वेन तस्यावास्तवत्वं २दर्शितम् | तेन हीनबलत्वम् साध्याविनाभावित्वस्याविनाभावाद् इति संबन्धः | कस्मात् तन्निबन्धनं तद् इत्य् अपेक्षायाम् आह -- अन्यथा [१६.८] इति | तस्याविनाभावित्वस्यायोगाद् अयुज्यमानत्वाद् इति | इदम् [१६.१०] अत्राननुवृत्तेर् इति |
SK
सत्यम् इ[१६.१०]त्यादिना प्रतिविधत्ते | कस्यचिदि[१६.१४]ति शिंशपात्वादेर् वृक्षत्वादिव्यवहारसाधनस्य | यदापि तथाविधस्य हेतोर् अन्यत्वे च प्रसिद्धेन ३प्रतिबन्धेन् कार्यं तदाप्य् अन्यत्राप्य् अननुवर्तमानः कथं दुष्येद् इत्य् आह तदा ही[१६.१८]ति | विरुद्धोपि विपर्यये सम्यग्धेतुनेति चेति विपर्ययानिश्चितवृत्तित्वम् उक्तम् | तस्मिन् धर्मिणि संशयहेतुः स्यात् | साध्यभावाभावयोर् इत्य् अर्थात् |
SK
साध्यभावाभावविमुक्त एव धर्मी भविष्यति प्रकारान्तरसद्भावात्, तत् कथम् असौ तत्र संशयहे४तुः स्याद् इत्य् आशंक्याह -- तदुभयबहिर् भावायोगात् [१६.१९] साध्यवृत्तिव्यवच्छेदे वह्निभावायोगात् | कस्येत्य् आशंकायाम् आह तद्धर्मिणः [१६.१९] तस्य हेतोर् आश्रयस्येति | कस्मात् पुनस् तेन साध्यधर्मव[ता] | तदभाववता वा भवितव्यः(व्यम्) प्रकारान्तरस्यापि सम्भवाद् इत्य् आह साध्ये[१६.२०]ति | अन्योन्यव्यवच्छेदरूपाणाम् एकभावस्या५परविधिनान्तरीयत्वात् कुतः प्रकारान्तरं संभवतीति भावः |
SK
स्याद् एतत् -- अन्तर्व्याप्तिप्रसाधकाद् एव प्रमाणाद्विवादाध्यासितस्य धर्मिणस् तद्धर्मत्वज्ञानान् मौलस्य हेतोह् कथम् अतिव्यक्तम् अपि वैयर्थ्यंभदन्तधर्माकरदत्तेन न लक्षितम् इति | अहो अभिप्रायापरिज्ञानविलसितम् | एवं हि ब्रुवतो ऽस्यायम् आश६यः -- दृष्टान्तधर्मिणीव साध्यधर्मिण्य् अपि सर्वोपसंहारेण धर्मानवच्छेदेन व्याप्तिग्रहे मौलाद् एव साध्यसिद्धेः कुतो वैयर्थ्यम् | इतरथा दृष्टान्तधर्मिण्यपि विपर्यये बाधकप्रमाणवृत्ताविष्यमाणायां कथम् इव मौलो हेतुर् वैयर्थ्यं नाश्नुवीत | तथाहि तत्रापि तत्प्रवृत्तं धर्मिसामान्योपग्रहेण व्याप्तिं प्रतिपद्यते | ७तथा च पक्षीकृतस्यापि जिज्ञासितधर्मवत्त्वं तत एव सिद्धम् इति |
SK
अथोच्यते -- बाधकप्रमाणमाहात्म्यात् सत्त्वस्य क्षणिकत्वसिद्धाव् अपि किं न शशविषाणादेस् तत्त्वं सिद्धं ततस् तद्व्यावृत्तिरूपताप्रतिपादनार्थं धर्मिणो ऽवश्यं ᳚संश्चायम् शब्दादिः᳚ इत्य् अर्थः [उप]संहर्तव्यः | इतः सत्त्वहेतोर् एवासंहृतात् शब्दादेः क्षणिकत्वावगतिर् नास्मन्मते हेतोर् वैयर्थ्यम् इ८ति |
SK
ननु समानम् इदम् अस्माकम् अपि | तथाहि व्याप्तिग्राहकात् प्रमाणात् तत्र प्रवृत्ताद् अपि धर्मिविशेषापरिग्रहेण प्लवमानाकारा प्रवृत्तिः क्षणिकत्वसत्त्वयोस् तादात्म्यग्राहिणी जाता न तु प्रवृत्त्यङ्गम् | ᳚य(स)च्चेदम्᳚ इति तु दर्षिते सति ᳚इदं क्षणिकं शब्दादि᳚ इति प्रवृत्त्यङ्गं प्रतीतिर् उपजायते, यतो विशिष्टे देशादौ प्रवर्त्तत इति | कथम् अस्मन्मते मौल[१२अ] १स्य हेतोर् वैयर्थ्यम् {प्. २६२}अमन्दमन्दाक्षेणोच्यत इति |धर्मोत्तरादिभिर्विगर्हिते ऽप्य् अस्मिन्मते गतिर् इयं अस्माभिर् उपवर्णिता | अत्रापि तु किञ्चिद् वाच्यं तद् अस्माभिर् एवस्वयूथ्यविचारे दर्शितम् इह तु मा भूद् विरसीभाव इति नोच्यत इति |
SK
ननु विशेषणेन सहोदितो निपातो ऽयोगं व्यवच्छिनत्ति | ᳚विशेषणविशेष्याभ्याम् इति᳚ वचनात् | अत्र च पक्ष एव २व्यवच्छेदकवद् विशेषणम् इति तेनैव सहावधारणं वाच्यम् | तथा च पक्षस्यैवे धर्म इत्य् उक्तौ तदवस्थो दोष इति चेत् | नैतद् अस्ति | ᳚विशेषणविशेष्याभ्याम्᳚ इत्य् अत्र शाब्दीं गतिम् अनाश्रित्याश्रितत्वाद् विशेषणम्, आश्रयत्वाद् विशेष्यम् इत्य् आर्थेन विशेषणविशेष्ययोर् अभिप्रेतत्वात् | सति चैवं पक्षो न विशेषणम्, आश्रयत्वाद् विशेष्यस् तु भवति, धर्मस् त्व् आश्रि३तत्वाद् विशेषणम् एव न विशेष्य इति | तेन सहोदितनिपातो ऽयोगम् एव व्यवच्छिनत्तीति सर्वम् अवदातम् |
SK
चैत्रो [१७.४] नाम कश्चित् पुरुषः | तेनैवाकारेण ज्ञातस्य ज्ञानाय प्रश्नानुपपत्तिः | साम[३८]र्थ्यम् [१७.११] | आदि[१७.११] शब्दात् प्रकरणादिसंग्रहः | प्रकृष्टे अनन्यसाधारणे गुणे ऽतिशये वृत्तिर् यस्य स [१७.१२] तथा | तद् उक्तं ᳚४न हि विशेषसन्निधिर् एव सामान्यशब्दानां विशेषावस्थितिहेतुर् अपि तु प्रकरणसामर्थ्यादिकम् अर्पय(म् अपि᳚ इ)ति | पार्थे ही[१७.१२]त्यादिनैतद् एव समर्थयते | पार्थः पृथायाः कुन्ताया अपत्यम् | योगरूढिश् चैषा तेनार्जुन एवाभिधीयते | श्रोतुः [१७.१९] अर्थात् प्रष्टुः प्रतिपाद्यस्येति यावत् | तादृशं [१७.१३] सातिशयं धानुर्द्धर्य(यं य)दान्य५गामि निषिध्यते |
SK
__________NOTES__________
SK
[३८] आलोकसम्मतः ᳚सामर्थ्यादिना᳚ इति सम्यक् | न तु यथा मुद्रितः ᳚प्रकरण सामर्थ्यादिना᳚ इति |
SK
कमात् तत्र धनुर्धरत्वमात्रम् इत्य् आह प्रतिपाद्ये[१७.१५]ति |
SK
परामृष्यते[३९][१७.२१] वाच्यत्वेन परिगृह्यते |
SK
__________NOTES__________
SK
[३९] परामृश्यते -- S
SK
अनभिमतं प्रतिषेधयति न धर्म [१७.२१] इति | कुत इत्य् आह -- धर्मस्ये[१७.२२]ति |
SK
ननु कैषा वाचोयुक्तिर्द्धर्मस्य धर्मासंभवाद् इति | किं धूमादीनां आश्रितत्वेन धर्माणां धूमत्वपार्थिवत्वादयो धर्मा न सन्ति६? येनैवम् उच्यत इति | सत्यम् एतद् वा केवलं बोधे यत्नः करणीयः | धर्मशब्देनेह साध्यो वह्न्यादिर् अभिप्रेतः स च तस्य धर्मो नास्त्य् एवेति किम् अवद्यम् | अथात्र केन धर्मो ऽभिहितो येन धर्मस्य धर्मभावप्रतिपादनं युज्यत इत्य् आह {प्. २६३} अंशश् च [१७.२२] इति | चो यस्माद् अर्थे | अंश इवांशो यथांशो ऽ७शिविशेषणस् तथा धर्मोपि धर्मिविशेषक इत्य् अभिप्रायः | पक्षशब्देन समुदायवचनात् तद् एकदेश एवांशो वक्तव्य इत्य् आह पक्षशब्देन [१७.२२] इति | तस्यैवैकदेशः किं नोच्यत इत्य् आह तस्य[४०]च [१७.२२] इति | [४०] मुद्रिते ᳚च᳚ रहितः पाठः कप्लितः किन्तु आलोकसम्मतः पाठः ᳚तस्य च एक-᳚ इति |
SK
धर्माणां धर्मा[४१]धारत्वासंभवादि[१७.२८]ति पूर्वं बोद्धव्यम् | यतो व्याप्ये सति व्यापकस्य नियमेनोपस्थापनम् एव व्यापकनिष्ठा व्याप्ति८स् तत्करणात् | व्याप्यस्यैव [१८.३] न तु व्यापकस्य व्याप्तताप्रतीतिर् अविनाभाविताप्रतीतिः | किम् अपेक्षा सा तथा प्रतीतिर् इत्य् आह[४२]व्यापके[१८.२]ति | व्यापकभावम् अपेक्षते ᳚ईक्षिक्षमिभ्यांञ् च᳚ [Vआ. १९८१] इति कर्मोपपदे णः | व्यापकस्य भावं नियमविषयं रूपम् अपेक्ष्य पर्यालोच्य तथा प्रतीतिर् भवतीत्य् अर्थः |
SK
__________NOTES__________
SK
[४१] अयम् एव सम्यक् पाठः न तु यथा कल्पितो ऽस्माभिह् ᳚धर्माणां धर्मान्तरत्वाभावात्᳚ इति | [४२] आलोकसम्मतः ᳚व्यापकभावापेक्षा᳚ इति पाठः सम्यक्, न तु यथा अस्माभिः कल्पितः |
SK
तत्र भावम् एवेत्य् अभिमतम् अवधारणं प्रदर्श्यानभिमतं निरा[१२ब्] १कुर्वन्न् आह न त्व् इ[१८.३]ति | नापि तत्रैवे[१८.५]ति | अवधार्यत इति वर्तते | साधारणः [१८.६] सपक्षासपक्षसाधारणः | दोषान्तरसमुच्चयार्थश् चकारः | वा[१८.८]शब्दो व्यापकधर्मापेक्षया पक्षान्तरम् अवद्योतयति |
SK
तत्रैवे[१८.८]त्य् अवधारणम् अभिमतं प्रतिपाद्यान्यथावधारणं निषेधयन्न् आह अत्रापीति [१८.९] |
SK
एतद् एव सूत्रकारवचनेन संस्यन्दयन्न् आह तद् उक्तमि[१८.१७]ति | २लिङ्गे साधने सति लिङ्गी साध्यं भवत्य् एव | अनेन व्यापकधर्मगता व्याप्तिर् दर्शिता | इतरल्लिङ्गं पुनर्लिङ्गिन्य् एव साध्य एव भवतीति | अनेन व्याप्यधर्मगता व्याप्तिर् उक्ता | उक्तेन प्रकारेण नियमस्यावधारणस्य विपर्यासे वैपरीत्ये-विपर्यासश् च एकत्रायोगव्यवच्छेदेन विशेषणा(णम)परत्रान्ययोगव्यवच्छेदेन तस्मिन् विपर्यासे सति ३लिङ्गलिङ्गिनो[र]सम्बन्धो ()व्याप्तिर् इत्य् अर्थः |[४३]तेन [१८.२०] व्याप्तेर् उभयत्र एकाकारताप्रतिपत्तिप्रतिषेधप्रदर्शनेन | अयञ् च दोषआचार्येणये धूमं संयोगिनं हेतुम् इच्छन्ति, तान् प्रत्यभिहितो न तुनैयायिकान् प्रति | तैर् धूमस्य एकार्थसमवायित्वाल् लिङ्गत्वेनोपगतत्वात् | ते हि धूमा{प्. २६४}वयविनं प्रदेशं वा धर्मिणम् आधाय४ साग्नित्वसिषाधयिषया धूमत्वं धूमवत्त्वं वा सामान्यं हेतुम् उपाददत इति |
SK
__________NOTES__________
SK
[४३] एतेन -- S इह [१८.२३] व्याप्तिवत्सद्गमकत्वे आख्यातं [१८.२३] प्रकाशितम् | तथाही[१८.२३]त्यादिनैतद् एव समर्थयते |
SK
एतद् अपि तद्वचनेन संस्यन्दयन्न् आह -- तथा च [१९.१] इति | द्विष्ठत्वात् सम्बन्धस्य कथम् उभयत्रैकाकारताव्याप्तिर् न स्याद् इत्य् आशंक्य यद्य् अपि इत्य् अनेन द्विष्ठं सम्ब५न्धं वास्तवम् अभ्युपगम्यापि प्रतिविधत्ते | कयोर् असाव् इत्य् आह = अङ्ग [१९.२] इति | अंगेज्ञप(अङ्गेर् ज्ञानप)रस्य ग्रहणाद् अंग्यते लिङ्ग्यते प्रतीयते ऽनेन परोक्षार्थ इत्य् अङ्गं लिङ्गम् | तेन लिङ्गलिङ्गिनोर् इत्य् अर्थः |
SK
किंभूतः स इत्य् आह | सहे[१९.२]ति | तयोर् एव युगपद्भाविप्रकृतत्वात् | द्विष्ठत्वाभ्युपगमाद् एव च सहभावित्वाभ्युपगमो६प्य् आयातः | ᳚यद्य् अपि᳚शब्दसान्निध्यात् ᳚तथापी᳚त्य् अर्थतो द्रष्टव्यम् | तस्य संबन्धस्य वृत्तिर् वर्तनम् | तयोर् लिङ्गलिङ्गिनोर् इत्य् अर्थात् | कयोर् इव सेत्य् आह -- आधाराधेययोर् इवेति सप्तम्यन्ताद् वतिः |
SK
यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्ठोपि नैकरूपया वृत्त्या द्वयोर् वर्तते यत एवैकसम्बन्धयोगेपि नाधारस्या७धेयत्वम् आधेयस्य वाधारत्वं तथा लिङ्गलिङ्गिनोर् व्याप्तिर् अपि धूमत्वादाव् अन्यथा, अन्यथा च वह्नित्वादौ | अत एव धूमत्वादिर् एव व्याप्यतया गमको न प्रमेयत्वादिः | वह्नित्वादिर् एव व्यापकतया गम्यो न तु तार्णत्वादिर् नापि धूमो गम्यो वह्निर् गमक इति |
SK
यत एवं तस्य वृत्तिः तेन [१९.४] कारणेन | इती[१९.४]त्यादिना प्रकरणोपसंहारः |
SK
अन्यत्र८ [१९.१०] इतिन्यायबिन्दौ |विनिश्चये ऽपि ᳚त्रिरूपाल् लिङ्गात्᳚ इत्यादिनोक्तः |
SK
स्पर्धयावस्थानं कक्षा | तुल्या कक्षा [१९.२२] यस्य स, तद्भावस् तत्ता, तस्याः सूचकं प्रकाशनं तद् एव अर्थः प्रयोजनं यस्य ᳚वा᳚शब्दस्य |
SK
परमार्थतस् तादात्म्यात् [१९.२४] इति ब्रुवता तदुपपादयता चान्वयेन व्यतिरेकगतौ व्यतिरेकेण चान्वयगतौ स्वभावहेतुर् अधिकृत इति दर्शितम् | तेन यत् के[१३अ] १नचिद् उपक्षिप्तम् --
SK
᳚सामर्थ्यम् इच्छतःकीर्तेर् नष्टं द्वित्वावधारणम्᳚ इति
SK
- तद् अपहस्तितम् द्रष्टव्यम् |
SK
{प्. २६५}[४४]प्रसङ्गतो निश्चयरूपात् प्रस्तावात् | ᳚पक्षधर्मस् तदंशेन व्याप्तो हेतुः᳚ इति वचनात् | सूत्रस्य क्रमेण परिपाट्या | सर्वस्येति सर्वस्यैवेत्य् अवधारणीयम् | प्रत्यक्षानुमानाभ्याम् इति सामस्त्य् अनिषेधो बोद्धव्यो न तु कस्यचित् | द्वाभ्याम् अन्यस्य पुनर् एकैके२नेति |
SK
__________NOTES__________
SK
[४४] अत्र S प्रतेर् एकं पत्रं नष्टम् |
SK
अविकल्पनत्वात् प्रत्यक्षास्य कथं ततो निश्चयस् तस्य सम्भवीत्य् आशंक्याह -- प्रत्यक्षेण[४५]प्रती[२०.८]ति | चो [२०.८] यस्माद् अर्थे | सामान्यविकल्पजननाद् इ[२०.९]ति धूमादिलिङ्गप्रत्यक्षाभिप्रायेणोक्तम् | उपचारत [२०.९] इति प्रत्यक्षतो निश्चय इत्य् उपचारतः उच्यत इति |
SK
__________NOTES__________
SK
[४५] S प्रतौ ᳚प्रति᳚ इति नास्ति |
SK
ननु सामान्यं लिङ्गं कथं तस्याध्यक्षतो निश्चय इत्य् आह यद्य् अपी[२०.११]ति |
SK
यस् तु [२०.१९] इत्यादिनाउद्द्यो३तकरमतम् आशंक्यते | अग्निसम्बन्धी [२०.१९] वह्निमान् | स देशो ऽप्रत्यक्षो ऽधोदेशस्य ताद्रूप्याद् इत्य् आशयः | किं तथाभूतं नभोस्ति? सत्त्वे वा किं तस्य भागोस्तीत्य् आशंक्यबौद्धाभिप्रेतम् एव दर्शयन् पर आह आलोके[२०.२०]ति | आदिरहणात् तमसो ग्रहणम् | तद् उक्तम् ᳚ आलोकतमसी नभः᳚ इवा(इत्या)शयः | प्रदेशे वस्तुतः साधर्म्या(साध्या)धा४र इति द्रष्टव्यम् | तर्ह्य् अनुमानोत्सेद एव प्राप्त इत्य् आशंक्य पुनेर् एव व्यवस्थां कुर्वन्न् आह तस्माद् [२०.२२] इति |
SK
कथं पुनः स एव धर्मी स एव हेतुर् भवितुम् अर्हतीत्य् आह साग्निः [२०.२२] इति | अनेन धूमविशेषस्य धर्मित्वं धूमसामान्यस्य हेतुत्वं दर्शयति | समानचोद्योपदर्शनमुखेन तुल्या(तस्या)पि [२०.२३] इत्यादिना सिद्धान्ती प्र५तिविधातुम् उपक्रमते | तस्यैवं मतेः | तावत [२०.२७] इति दृश्यादृश्यविभागवतः धूमेपि धर्मिणि उक्तेन प्रकारेण एतत् संगच्छत इति साम्याभिमानशष्यं(शस्यं) परस्य सा(शा)तयन्न् आह प्रदेश एव चे[२१.१]ति | चशब्दः परमताद् विशेषार्थः | अन्यत्रोपलभ्यमानस्यान्यदेशापेक्षया गमकत्वं कथम् इत्य् आह देश६काले[२१.२]ति |
SK
आचार्येणाप्य् एतद् अभिमतम् इत्य् उपदर्शयन्न् आह यदाचे(हे)[२१.३]ति | अतश् चैवम् अभ्युपेतव्यम् इति दर्शयन्न् आह पथे[२१.९]ति | अनुमानहेतुत्वाद् अनुमानं प्रत्ययभेदभेदित्वादि |
SK
धर्मिणो वा[२१.१५] स्वरूपग्रहणम् अपि तावत् कथं युज्यते इत्य् एव योज्यम् |
SK
तयोः सम्बन्धस्य [२१.१५] आधाराधेयलक्षणस्य ग्रह७णम् | इतिः [२१.१६] प्रत्यवस्थीयमानस्याकारं दर्शयति |
SK
{प्. २६६} एवम् असौ प्रत्यवतस्थ इति कथं ज्ञायत इत्य् आशंक्याह तेन ही[२१.१६]ति | हिर् यस्मात् तेनकुमारिलेन| ज्योतिष्टोमादेः श्रेयःसाधनत्वं धर्मो बोद्धव्यः | यद् आहशबरस्वामी᳚को धर्म्मो यः श्रेयःसाधनः᳚ [Śआबरभा.१.१.२] इति | अतएवकुमारिलोप्याह
SK
᳚श्रेयःसाधनताप्य् एषां नि८त्यं वेदात् प्रतीयते᳚ [Śलोकवा. २.१४] इति |
SK
जैमिनिसूत्रे शबरस्वामीयम् एतद् भाष्यम् [२१.१७] | एतद्भाष्यम् इति चार्थद्वारेणोक्तम् | न त्व् ईदृश एवभाष्यग्रन्थः| प्रमाणस्येति विवक्षायाम् अनुमानादिन [२१.१८] इति निर्देशः |
SK
कदा तत्पूर्वकं तद् इत्य् आह यदेति | निर्विकल्पा कल्पनाशून्या इन्द्रियस्य धीः [२१.१९] | सैव कथं तथेत्य् आह स्मृती[२१.१९]ति |
SK
यस्माद् अर्थे वा [१३ब्] १यदाशब्दो द्रष्टव्यः | विकल्पनम् अन्तरेणापि कथं न तथा ग्रहणम् इत्य् आह नचे[२१.२०]ति | लिङ्गादेः प्रत्यासन्नत्वात् लिङ्गादिकम् एवाविकल्प्येति द्रष्टव्यम् | तथा सम्बद्धत्वेन गृहीतिर् ग्रहणम् | इतिः आक्षेपस्याकारं दर्शयति |
SK
प्रत्यक्षेणाग्रहणं कस्येत्य् अपेक्षायाम् आह लिङ्गादे[२१.२३]र् इति | कुत इत्य् आह -- अविकल्पनाद् इति | तद् इत्य् अग्रहणम् | नेति निषेधयति | विकल्प२स्यापीष्टत्वात् प्रत्यक्षेणेति प्रकरणात् | किं विकल्पमात्रस्य तथोत्पत्तिर् इत्य् आशंक्याह -- अर्थे[२१.२४]ति | अर्थरूपम् उपकारि यस्य, तस्माद्वोपकारोप्य् अस्तीति तथा | ननु निर्विकल्पसविकल्पभेदेनार्थविज्ञानस्य द्वैते सतीदं वक्तुं युज्यते | न चैतत् संभवीत्य् आह -- अस्ती[२१.२५]ति | हिर् यस्मादर्थे | विकल्पात् पूर्वं भावात् प्रथमम् [२१.२५] आद्यम् बालादिषु तथा३विधविकल्पानिष्टेर् ज्ञानं दृष्टान्ततयेष्टम् | शुद्धवस्तुजम् [२१.२६] शब्दस्मरणरहितवस्तुजम् इत्य् अर्थः | ततः [२१.२७] आलोचनाज्ञानात् परम् उत्तरकालम् | पुनर् अप्रथमे | जात्यादिभिर् विशिष्टं यया बुद्ध्यावसीयते सापि न केवलम् आलोचनाज्ञानम् इति अपिशब्दः | एवं च ब्रुवतो ऽयं भावः -- यद्य् अपि प्रथमं निर्विकल्पकबोधेन द्व्यात्मकं ४वस्तुगृहीतम् इन्द्रियसंबन्धात्, तथापि न विशेष्यविशेषणभावापत्त्या गृहीतम्, अयःशलाकाकल्पयोर् जातितद्वतोः साक्षात्करणात् | तथा गृह्णत्त्व् इदं प्रमाणम् एवेति | इतिना [२२.१] उक्तेः आकारं दर्शयति | उक्तं [२२.३] सामर्थ्याद् एतद् उक्तम् | न तु साक्षात् तेनोक्तम् एतत् | यस्मात् तेनैवं ब्रुवता सामर्थ्याद् एतत् प्रकाशितं ततः [२२.३] तस्मात् | तेनकुमारिलेन उपद[४६]र्शितो यो दोषः ᳚सौगतानाम् एव प्रत्यक्षेण लिङ्गाद्यग्रहणाम्᳚ इत्य् एवंलक्षणः, तस्य प्रतिविधानाय |
SK
__________NOTES__________
SK
[४६] उपवर्णित S |
SK
{प्. २६७} शिष्याणां सुखप्रतिपत्त्यर्थं सधूमं ही[२२.४]त्यादिफक्किकायाः समुदायार्थम् उपदर्शयन्न् आह अयम् अत्रे[२२.५]ति |
SK
ननु चाविकल्पकं प्रत्यक्षं नेयतो व्याधान(व्यापारान्)कर्तुं समर्थं तत्६ कथं तन्निबन्धनस् तन्निश्चय इत्य् अभिधातरि कथम् इदं ᳚सधूमं ही᳚त्यादिवचो न प्लवत इत्य् आशंकायाम् अत्रे[२२.५]ति | हिः [२२.५] अवधारणे |
SK
एकस्य साक्षाद् इतरस्य सामर्थ्याज् जननात् विधिप्रतिषेधविकल्पद्वयं जनयती[२२.९]त्य् उक्तम् | कदाचिद् विधिविकल्पं कदाचित् प्रतिषेधविकल्पं जनयतीत्य् अभिप्रायेण चैतद् उक्तम् | एवम् एतदि[२२.१०]ति यथायोगं वि७धिविकल्पो दर्शितः | नान्यथा [२२.१०] इत्यादि यथायोगं प्रतिषेधविकल्पः | किम् अनुभूते ऽर्थे विकल्पोदयः? नैवम् उच्यत इत्य् आह[४७]यथाभ्यासमि[२२.११]ति (यथानुभवम् इति) | यद्य् अनुभवानतिक्रमेण विकल्पोदयस् तदा सर्वत्रांशे तदुदयप्रसङ्गः इत्य् आह अभ्यासे[२२.११]ति | अभ्यासादिसहकारिणाम् इत्य् अभ्यासादिसहकारिकाणाम् इति बोद्धव्यम् | न तु विकल्पस्योत्पद्यमानाभ्या(मानस्याभ्या)सादिः ८सहकारी, अनुभवस्य तु भवति | केचित्(कश्चित्) खलु यन्नम(?)नुभवो भूयोदर्शनलक्षणाभ्याससहकार्यनुरूपं विकल्पं जनयति | अस्याप्य् अयम् अर्थः -- नानुभव इत्य् एव विकल्पं जनयति | किंतु कश्चित् पुनः पुनस् तत्रोत्पद्यमानस् तादृशो भवति | यथा रूपकादिपरीक्षकाणाम् | कश्चित् तु स्वभावातिशयलक्षणं पाटवम् अपेक्ष्य जनयति | अस्याप्य् अय[१४अ] १म् अर्थः -- कश्चिद् अनुभवः प्रकृत्यैव पटीयान् जायते यस् तत्र क्षमः | यथा योगिनां सर्वत्र | अस्मादादीनां के(क्व)चिद् विषये | क्वचित् पुनर् अविद्यानुबन्धात् सदृशापरापरोत्पादविप्रलब्धश् च सर्वदैव तिरस्कृतपटिमा यो नैव तत्क्षमो भवति | यथार्वाग्दर्शिनां क्षणिकत्वादौ | पाटवादी[२२.११]त्य् अत्रादिग्रहणात् प्रत्यासत्तितारतम्यादयो गृह्यन्ते |
SK
__________NOTES__________
SK
[४७] यथानुभवम् इति -- S
SK
स्याद् एतत् -- स२म्बन्धो ऽयम् इति निश्चयाननुभवनात् कथं सम्बन्धनिश्चयस् तन्निबन्धन उच्यत इत्य् आशंक्याह तथाही[२२.१३]ति | पाश्चात्यविधिप्रतिषेधविकल्पजननं यथोक्तः प्रकारस् तेन |
SK
ननु सम्बन्धस्याधाराधेयलक्षणस्याननुभवात् कथं तन्निश्चयस् तन्निबन्धन उपवर्ण्यत इत्य् आह न चे[२२.१६]ति | तथा [२२.१९] औत्तराधर्येण अवस्थितम् अर्थद्व्यम् आश्रित्य [२२.१९] गृहीत्वा |
SK
{प्. २६८} यदि ३तथाभूतवस्तुद्वयाद् अन्यो नास्ति तर्हि कथम् ᳚अनयोर् अयं संबन्धः सम्बन्धिनौ चैतौ᳚ इति व्यवहार इत्य् आह -- तेनेति[२२.२०] | येन तथाभूतवस्तुद्वयानुभवाश्रयतः समारोपितः सन्बन्धः तेन कारणेन व्यवहार[२२.२१]श् च ᳚अयं धर्मी अयं धर्मः᳚ इति शाब्दो ऽभिप्रेतः | धर्मधर्मितये[२२.२१]तीत्थंभूतलक्षणा चेयं तृतीया | एतद् व्यवहारे कारणम् आह भे४दान्तरे[२२.२०]ति | न त्व् अयं परमार्थिको व्यवहार इत्य् अर्थः |
SK
ननु च तथाभूतवस्तुद्वयाद् अन्यस्य सम्बन्धस्याभावात्, तस्य च प्रत्यक्षेण ग्रहणात् सम्बन्धनिश्चयस् तथाभूतवस्तुद्वयकृतोस् तु, लिङ्गसामान्यनिश्चयस् तु कथं तत्कृतः | प्रत्यक्षेण लिङ्गसामान्यस्याग्रहणात् | न च विशेषो लिङ्गम् इत्य् आशंक्याह सामान्ये[२२.२२]ति | ५अपिशब्दः सम्बन्धव्यवहारात् सामान्यव्यवहारस्यानतिशयख्यापनार्थः |
SK
स्याद् एतत् -- अनुगतस्य वस्तुनो ऽभावे ऽनुगतप्रत्ययो निर्हेतुकः कथं भवेद् इत्य् आह तेषाम् एव [२२.२३] इति | न स्वलक्षणस्य विकल्पजनने साक्षाद् व्यापरस् तस्यातद्विषयत्वाद् इत्य् आह -- अनुभवे[२२.२३]ति | यदि ते विजातीयस्वभावास् तथापि कथं त६त्प्रत्ययहेतुत्वं तेषाम् इत्य् आह -- विजातीये[२२.२३]ति | एकाकारस्याभिन्नकारस्य परामर्षः, स चासौ प्रत्ययश् च [तत्र] हेतुत्वात् |आचार्यवचनेनैतत् संस्यन्दयन्न् आह तथा चाह [२२.२५] इति | [एकस्या]भिन्नस्य प्रत्यवमर्षस् तद् एवेदम् इति सम्बन्धाहार (समन्वाहार) इति विग्रहः कार्यः न त्व् एकश् चासौ प्रत्यवमर्षश् चेति | एवं हि प्रत्यवमर्षश् चा(स्या)पि भिन्न७त्वात् कथम् एकत्वं? तदपरैक(परा)मर्शाद् इति यद्य् उच्येत तदा तस्यापि तत्त्वं तत इत्य् अनवस्था | तथा च यावद् अन्तिमस्य तथात्वं न ज्ञायते तावद् आदिमस्यापि तत्त्वव्यवस्था न स्यात्, असत्यां च तस्याम् एकधीहेतुभावेन व्यक्तीनाम् अप्य् अभिन्न[त्वम् अ]र्पायितुं न शक्येतेत्य् अलम् इह विस्तरेण |
SK
यस्मात् तैर् अयं विकल्पो जन्यते ततः [२३.१] |
SK
अनुभूतालम्बनं ज्ञानं स्मृतिः, अत्र तु ८सामान्यं केनानुभूतम् अयं गृह्णाति, येन स्मृतित्वं स्याद् इत्य् आह तत्प्रतिभासिन [२३.१] इति |
SK
विजातीयव्यावृत्तं स्वलक्सणं प्रत्यक्षेणेक्षितम्, न तु व्यावृत्तिर् इत्य् आह नही[२३.३]ति |
SK
स्याद् एतत् -- विकल्पानाम् अनर्थग्राहितया बाह्यार्थासंस्पर्शाद् एव कथं गृहीतग्राहित्वलक्षणं स्मृतित्वम् इत्य् आश्चर्य उपसंहारापदेशेनाह -- तस्मात् [२३.४] इति | यद्य् एवं द्वैधम् अपि विकल्पः प्रतिपत्तुर् अध्यवसा[१४ब्] १यवशाद् गृहीतबाह्यार्थग्राहितया स्मृतिर् उच्यते, तर्हि परमार्थतः किंविषय इत्य् आह वस्तुत [२३.७] इति | यतो ऽयं विकल्पः परमार्थतो निर्विषयोपि प्रतिपन्त्रध्यवसायानुरोधात् स्मृतिर् अभिप्रेतः ततः [२३.७] तस्मात् | यद् एतद् वक्ष्यमाणकम् आह {प्. २६९} कश्चित्कुमारिलादिः| किम् आहेत्य् आह सामान्ये[२३.७]ति | अभेदेनाभिन्नाकारं यद्विज्ञानं तद् एतत् स्मार्तं स्मृतिरूप२म् इति योबौद्धो वदेत् | तस्याइवंवादिनो नूनं निश्चितं वन्ध्यासुते ऽपि विषये यत्स्मरणं तत्र शक्तता सामर्थ्यम् अस्तु | वन्ध्यासुतस्यापि स्मर्त्तुं यत् सो(-र्तुम् असौ) शक्त इति यावत् कथं तस्यात्यान्ताभावस्मरणशक्ततोपकल्प्यत इति आशंकायां चूर्णकेनोपपत्तिम् आह सामान्यस्याननुभूततया अननुभूतत्वात् | एवं ब्रुवतो ऽपि (यं) भावः -- अनुभूते ३हि स्मृतिर् भवति | यदि वाननुभूतेपि स्मरणम् उपपद्यते तदा वन्ध्यासुतेप्य् अननुभूतत्वाविशेषात् स्मार्ता बुद्धिः किं न कल्प्यत इति |
SK
अङ्ग[२३.१८]शब्दो ऽध्येषामन्त्रणे | किंशब्दः सामान्यतः प्रश्ने | पुनःशब्दस् तु विशेषतः | तेनायम् अर्थः -- युष्मान् एवाध्येष्य सामान्यतो विशेषतश् च एतत् पृच्छाम इति | शतं संवत्स४राः पुरुषायुषम् | अत्र स्वातन्त्र्यपरिजिहीर्षया तत्कारिका उपक्षिपन्न् आह -- तथा चाहे[२३.१९]ति | यस्य [२३.२०]बौद्धस्यमतेन | तस्य एकलिङ्गिनि [२३.२८] गतिर् युगसहस्रेषु बहुष्व् अपि न विद्यत [२३.२९] इति सम्बन्धः कार्यः |
SK
आनन्त्यात् [२३.२८] इति हेतुः | तस्यैव समर्थनं सर्वम् |
SK
अलिङ्गजम् एवानुमानं भविष्यतीत्य् आह -- नचे[२३.२१]ति | चो यस्माद् अर्थे | ५लिङ्गविनिर्मुक्तं[२३.२१] लिङ्गरहितम् | असामान्यस्य स्वलक्षणस्य अनवगतम् एव लिङ्गं लिङ्गिज्ञानं करिष्यतीत्य् आह -- नचे[२३.२३]ति | चः पूर्ववत् | प्रदीपयोग्यतया गमकस्वस्याभावाद् इति भावः | तस्य [२३.२४] सामान्यरूपस्य लिङ्गस्य | तस्य लिङ्गसामान्यग्राहिणो ऽनुमानान्तरस्योद्भूतिः [२३.२५] जन्म | किंभूताल् लिङ्गात् सामान्यज्ञा६नसंहितात् सामान्यज्ञानयुक्तात् सामान्यात्मना ज्ञाताद् इति यावत् | अस्य च लिङ्गसामान्यस्य ज्ञायमानस्यानुमेयत्वम्, प्रत्यक्षेण त्वन्मते सामान्याग्रहणाद् इति भावः | तस्य लिङ्गस्य सामान्यस्योद्भवस् तदुद्भवो [२३.२६] लिङ्गेनापरेणेत्य् अर्थात् | तेनापि सामान्यरूपतया अनुमानान्तराद् एव ज्ञातेन तथाभाव्य७म् इत्य् अभिप्रायेणाह -- अनुमानान्तराद् एव ज्ञातेने[२३.२७]ति | अस्त्व् एवं का क्षतिर् इत्य् आह एवं चे[२३.२७]ति |
SK
नन्व् एवं लिङ्गानुमानस्यैवानन्त्यं न तु लिङ्ग्यनुमानस्य तत् कथंलिङ्ग्यनुमानानाम् इत्य् उक्तम् इति चेत् | सत्यं, केवलं तद् एवाद्यं लिङ्गं ज्ञापकहेत्वधिकारात् ज्ञायमानसामान्यरूपतया चानुमानता (-मानेन) निश्चीयमानं लिङ्गि जातम् | स्वलिङ्ग्यपे८क्षया लिङ्गम् अपेक्षत(म् अपीष्यत) इति अभिप्रायाद् अदोष एव |
SK
{प्. २७०} एकस्मिल् लिङ्गिनि [२३.२८] धर्मिणि |
SK
ननु च सामान्यरूपस्य लिङ्गत्वे तस्य चानुमानेनैव ग्रहे न प्रत्यक्षतस् तन्निश्चय उपपद्यत इत्य् अभिधातरि कथम् इदमाचार्यीयं सधूमेत्यादिना प्रत्यक्षतस् तन्निश्चयस्योपवर्णनं युज्यत इत्य् आशंक्याह एवं मन्यत [२३.३०] इति |
SK
प्रकृत्या विभ्रमाद् [२४.१] भ्रान्तत्वात् | [१५अ] १सामान्यं हि विजातीयव्यावृत्तिः | अयम् अर्थो -- विजातीयव्यावृत्तेर् अन्यस्य सामान्यस्याभावात् विजातीयव्यावृत्त्यवगम एव सामान्यावगमः | वासनाद्वयनिबद्धश् च विकल्पः स्वप्रतिभासम् एव नियतं बहीरूपतया साधारणतया प्रतिपद्यमानो बाह्य एव विजातीयव्यावृत्त्या मया प्रतीयत इति मन्यत इति | प्रक्र्त्या भ्रान्तत्वात् सामान्यस्य | स विवेचित२भेदो []भेद एव विकल्पेन प्रतीयत इत्य् उक्तम् |
SK
अथ यदि प्रकृतिभ्रान्तो ऽयं विकल्पस् तर्हि कथं तस्य अतद्व्याव्र्त्तवस्तुप्रापकत्वलक्षणं संवादकत्वम् इत्य् आह लिङ्गविकल्पस्य चे[२४.२]ति | कस्मात् पुनर् विकल्पाभाससामान्यस्य लिङ्ग(ङ्गत्वम्) न तु धूमादिस्वलक्षणस्येत्य् आह नही[२४.६]ति | तस्ये[२४.६]त्यादिनोपपत्तिम् आह | अत्रैवोपचयहेतुं दर्शयन्न् आह साध्ये[२४.७]ति |
SK
अय३म् अत्राभिप्रायः | अवश्यं हि किञ्चिद् अनुमित्सता धूमादिस्वलक्षणदर्शनोत्तरकालम् -- ᳚इदं साध्यम् इदं साधनम्᳚ इति संकलयितव्यम् | सति चास्मिन् संकल्पे सतः क्षणभङ्गितया वस्तुदर्शनाभावात् | दर्शनेन च विषयिणा विषयस्य दृश्यस्या[४८]भिधानं तेन दृश्यस्य लिङ्गं(लिङ्ग)स्वलक्षणस्याभावाद् इत्य् अर्थः | ततश् च कथम् स्वलक्षणदर्शनाश्रयो ४गम्यगमकभावो भवेद् येन कल्पितधर्मद्वारको गम्यगमकभावो [न भ]वेद् इति |
SK
__________NOTES__________
SK
[४८] P दृश्यस्य लिङ्गं | N प्रतेर् अत्र सम्यक् पाठः | अत एव स एव मूले स्थापितः |
SK
ननु यदि प्रत्यक्षपृष्ठभाविनापि विकल्पेन सामान्यं प्रतीयते, तर्हिन्यायबिन्दौ यदवादि [ते]न ᳚अन्यत्सामान्यलक्षणं सो ऽनुमानस्य विषयः᳚ इति विरुध्येतेत्य् आशंक्याह यत् तूक्तम् इ[२४.९]ति | तदन्यस्ये[२४.११]त्य् अनुमानोत्तरकालभावि५नो ऽप्राप्तप्रामान्यस्याग्निर् अत्रेत्याद्याकारस्यान्यस्यापि स्वतन्त्रस्य विकल्पस्य |
SK
एवम् अपि किम् अर्थम् अवधार्यत इत्य् आह स्वलक्षणेति [२४.१२] | स्वलक्षणं विषयो ग्राह्यत्वेन नैव भवतीति प्रतिपादयितुम् इत्य् अर्थः |
SK
पूर्वपक्षद्वयपूर्वकं फक्किकायाः समुदायार्थं व्याख्यायावयवार्थं व्याख्यातुं तत्र [२४.१३] इत्यादिनोपक्र६मते | आदि[?]शब्दाद् एकविनाशे सर्वविनाशादिसङ्ग्रहः ᳚प्रत्यक्सेण दृष्टवतः᳚ {प्. २७१} इत्य् अस्य तात्पर्यार्थम् आह न त्वि[२४.२६]ति | कथं पुनर् अस्य तथामननम् अनुपपन्नम् इत्य् आह नही[२४.२७]ति | वस्तुवलभाविने[२४.२७]ति हेतुभावेन विशेषणम् |
SK
स्याद् एतत् -- कथं विविक्तताप्रतीतिः | यदि केवलप्रतीतिस् तर्हि साभावसंवित्तिभन्तरेण७ नतरां प्रसिद्द्यतीति कथं प्रत्यक्षेण तथाग्रहणम् उपवर्ण्यत इति | तद् असत् | तथाहि भिन्नम् अभावम् इच्छतापि वस्तूनां स्वरूपं पराननुप्रविष्टम् अवश्यैष्टव्यम्, अन्यथा प्रातिस्विकाम् एवं तदभावस्यैवायोगानाम् (?) | अतः पराननुप्रवेशेन ग्रह एव केवलग्रहः | इतरथेतरेतराश्रयत्वप्रसङ्गः | तावत् खल्व् अभावसंवित्तिर् नास्ति तदा८त्मवद् यावत् केवलग्रहो न भवेत् | तावच् च केवलग्रहो नास्ति यावत् नाभावसंवित्तिर् इति |
SK
किञ्च यथा केवलो ऽभावो ऽपरणाभावेन विना प्रतीयते तथा भावोप्य् अन्तरेणापराभावं केवलः किं न मीयेत | एवम् अनभ्युपगमे वानवस्था प्रसज्येतेति | तद् आहवार्तिकालंकारे प्रज्ञाकरगुप्तः
SK
᳚प्रपराननु[१५ब्] १वेशेन प्रतीतिः केवलग्रहः |
SK
ननु केवलसम्व(संवित्ति)र् अभाववित्तितः कुतः |
SK
सापि केवलसंवित्तिं विना नेति समानता ||
SK
यथा वा केवलो ऽभावो विनाभावेन मीयते |
SK
तथाभा(तथा भा)वोपि नैवञ् चेद् अनवस्था प्रसज्यते ||᳚ इति |
SK
कथं निर्विषयस्य विकल्पस्य यथादृष्टभेदस्य परमार्थविषयत्वम् उच्यत इत्य् आह[४९]निश्चयेत्यादि |
SK
__________NOTES__________
SK
[४९] S प्रतिर् अत्र त्रुटितः |
SK
अनेनैतद् उपपत्त्यपे२क्षया | परमार्थशब्दयोगोवार्तिककारस्य टीकाकृतादर्शितः | लक्ष्यते चायमाचार्यस्याभिमतः | समानो यद्वत् यादृशो दृष्टो यथादृष्टः | स चासौ भेद एव परमार्थः | स एव विषयो ऽध्यवसायवशाद् यस्येति स तथा | इतरथा तु परमार्थतो ऽविषय एव |
SK
᳚परमार्थशब्दं प्रयुंजानो वार्तिककारः कथं न प्रमाद्ये(द्य?)᳚ एवं तुभट्टा३र्चटेन कथं न व्याख्यातम् इति न प्रतीमः |
SK
प्रमाणलक्षणसामान्येन योगम् उपदर्श्य प्रमाणविशेषस्य प्रत्यक्षस्यापि लक्षणेन योगं दर्शयन्न् आह सद् इति | | इन्द्रियाणां इति व्यक्तिविवक्षया बहुवचनम् | चक्षुर् इन्द्रियापेक्षया ग्रन्थस्यास्य योजनायां तु इन्द्रियस्य नायनरश्म्यवयविन इन्द्रियस्यानु४मानसिद्धस्य संभारदंशेन संयोगे संबन्धे सत्य् अस्य विकल्पस्य नीतोपनित्यात्मनो भावाद् इति |
SK
{प्. २७२-२७८} ᳚यद्वेन्द्रियं प्रमाण(णं) स्यात् तस्य चार्थेन संगतिः [Śलोकवा. ४.६०] इत्यादिवचनात् स्वाभिमानात् प्रत्यक्षत्वेनेन्द्रियम् उदाहरणीकृतं परेण | न पुनः प्रतिपाद्यप्रतिपादकयोर् बुद्धिसाम्यविषयो दृष्टान्तो भवितुम् अर्हति |बौद्धस्यै५वम् अनिष्टेर् बाधकाभिधानाच् चेति |
SK
प्रथममिती[२५.१३]त्य् अत्र च्छेदः सुबोध एव | आद्यमि[२५.१२]त्य् एतद् व्याचक्षाण आह आदौ [२५.१४] इति | कस्मादा[द]वित्याकांक्षायां आह विकल्पप्रवृतेरि[२५.१४]ति | आदौ भवम् इति त्व् अर्थ[ः] यस्यार्थस्येत्यादिना स्वलक्षणेनासाधारणस्यैवोपलक्षणाद् असाधारणविषयं स्वलक्षणम् इति व्याचष्टे | इतरयो[२५.१६]र् विधिप्रतिषेध६विकल्पयोः | उक्तम् एवार्थं तथाही[२५.१७]त्यादिनोपपादयति |
SK
असंकीर्णरूपे [२५.२५] [अ]परामिश्र(मृष्ट)स्वभावे |
SK
ननु च तस्यासंकीर्णरूपता [न] स्वतः किं त्व् अभावांशसद्भावात् | तत् कथम् एवम् अभिधीयत इत्य् आशंक्य कारणम् आह तथाही[२५.२६]त्यादि | अन्यथा [२५.२७] तस्य पररूपमिश्रताप्रकारेण | स एवाभावांशः [२५.२८] पराभावो न सिद्ध्येत् परात्मव७द् इति भावः | अत्रैवाभ्युच्चयहेतुम् आह न चेति [२५.२८] | सा [२६.१] संकीर्णरूपता कथं न युक्तिमतीत्य् आह स्वहेतुबले[२६.२]ति | स्वहेतुबलायातस्य तद्धेतुभावेन विशेषणम् | योगपरिवर्जनं तस्यायोगात् तेन वस्तुनेति सामर्थ्यात् |
SK
ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषाम् एव भावानाम् उदयक्षणाद् ऊर्ध्वम् अभावाद् अभावैक८रसं जगत् स्याद् इति प्रसंजयितुं युक्तं न भू(तु) तेन संकीर्णरूपविनाशेन[५०]वरं स्वहेतोर् एवासंकीर्णरूपाणाम् उदयो ऽस्त्वि[२६.४]ति | सत्यम् | यथाश्रुतिः(ते) स्याद् एष दोषः | केवलम् अस्य तात्पर्यार्थबोधे यत्नः करणीयः | इह खलु भावानां क्षणभङ्गित्वेपि सदृशापरापरक्षणोदयाद् वस्तुसन्तानविषया प्रतीतिर् अस्ति न त्व् अभावविष[१६अ] १यैव | अतएव तत्त्ववार्मतथ(?)याम् उपप्लवतोत्पद्यते | उदयोत्तरकालम् अव्यवधानेन वस्तुविषया च प्रतीतिः कथम् उपपद्येत यदि स एवाभावः पूर्वसिद्धं संकीर्णरूपं विनास्याद् अन्यसं(विनाश्यात्य् अदसं)कीर्णरूपम् उत्पादयेत् | सति चैवं वरं स्वहेतोर् एव तथाविधाताम् उदयोस् त्व् इत्य् उच्यत इति | हेतुत्वेनार्थाक्रियाकारित्वेन वस्तुरूपत्वाद् अभाव२रूपतैव हीयेतेत्य् एतद् उपेक्षे(क्ष्यै)व चैतद् उक्तं द्रष्टव्यम् |
SK
__________NOTES__________
SK
[५०] -विनाशने च वरं -- S
SK
प्रथमं संकीर्णरूपाणाम् उत्पादोभ्युपेयते पश्चाद् असंकीर्णरूपाणाम् उदयम् उपगन्तुम् -- का पुनर् अत्र हानिर् इत्य् आशंक्याह किमि[२६.५]त्यादि | कश्चित् किल परिव्राडशुचौ पतितं {प्. २७९} मोदकं करण गृह्णन् केनचित् सोत्प्रासं पृष्टः ᳚ किम् अशुचेर् मोदकम् उद्ग्र्ह्णासि᳚ इति | स एवं पृष्टस् तं प्रत्य३वादीत् ᳚प्रक्षाल्य्ॐ(ल्या) त्रैव त्यक्षा(क्ष्या)मि᳚ इति | सो ऽयं परिव्राजको(क)मोदके(क)ग्रहणार्थो न्यायस् तदुपगमेन किम् [२६.६] | यथा च तत्र तन्मतम् ᳚अत्रैव त्यक्तव्य एवायम्᳚ तदा किम् अशुचिम् रक्षितस्यान्नस्य ग्रहणेन, वरम् अयं पूर्वावस्थाने नै(ए)वास्तु इत्य् उपालम्भस् तथात्रापि | यदि त्व् अभावत एवासंकीर्णरूपाणां पश्चाद् उत्पादो ऽभ्युपेतव्यो ४वरं प्रथमत एव तथाभूतानाम् उदयो ऽभ्युपगम्यताम् इत्य् आभिप्रायः | ततस् तथाविधो(ध)स्य प्रमाणप्रसिद्धौ चायम् उपालम्भाभिप्रायो द्रष्टव्यः | तस्मादि[२६.६]त्यादिना प्रकृतोपसंहारः |
SK
प्रत्य्क्षबलेन [२६.१३] इत्य् अस्य तात्पर्यार्थं दर्शयन्न् आह -- यदि तु [२६.१३] इति | यदिः संभावयति तुर् भिनत्ति | व्यवच्छेदेविषया [२६.१४] व्यवच्छिन्नऋउपविष५यातद्रूपपरावृत्तरूपविषयेति यावत् | तथा सत्य् अपि स्मृतिर् न स्यात् | व्याप्तिग्राहकप्रमाणानधिगतस्य विशिष्टदेशादिवर्तितद् असाधारणरूपस्य ग्रहणाद् इति भावः |
SK
᳚अन्यरूपम् इदं न भवति᳚ इत्य(ती)यम् अभावप्रतीतिः केन प्रमाणेनेष्टा येनास्याः प्रामाण्यम् आचार्येण निवार्यत इत्य् आशंक्याचार्यस्याभिप्रायं ६परिस्फुटयन्न् आह -- नाभावे[२६.२०]ति | कस्मात् पुनर् एतत् प्रतीतिजनकत्वेनान्यद् अ[भा]वाख्यं प्रमाणं न भवति, एषा च तत्फलम् इत्य् आह नही[२६.२०]ति | आक्रियते अध्यवसीयत इति आकारो [२६.२१] विशेषो व्यावृत्तिर् एव | किंभूत इत्य् आह -- पाटवे[२६.२२]ति | पाटवं तीक्ष्णता बुद्धेर् इति प्रकरणात् | आदिशब्दात् प्रत्यासत्तितारतम्यादेर् ग्रहणम् | पाटवा७दिप्रत्ययान्तरं स्वनिश्चया[या]पेक्षत इति तत्सापेक्ष उक्तः | एतद् एवोपपादयन्न् आह नही[२६.२२]ति |
SK
अनधिगमाद् इति [२७.१०] वस्तुनो विशेषणत्वेनाग्रहणाद् इति द्रष्टव्यम् | न तु सर्वथा []ग्राह एव वाच्यः | अयःशलाकाकल्पस्य स्वतन्त्रस्य तेन ग्रहणस्याभिमतत्वात् | अ(न्य)था ᳚निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनो ग्रहणम् |᳚ (Śलोकवा. प्. ११८) इत्यादि विरुध्येत | इन्द्रिय८सम्बधाधीनालोचनाज्ञानोत्पत्तिश् च कथम् अनिष्टमात्रेन निर्वर्त्येते(निवर्त्येते)ति | पुनर् अ[२७.१४]प्रथमे | वर्ण्यत [२७.१६] इति वदन् प्रमाणाप्रसिद्धतां दर्शयति | प्रख्यानं प्रकाशनं प्रतिभासनं प्रख्या | तै[मि]रिकादिज्ञानस्येव प्रख्या [२७.२७] यस्य स तथोक्तः | अत एव तत्सदृश इत्य् आर्थः |
SK
अथ मा भूत् सामान्यम् अर्थक्रियासाधनं व्यक्तिस् तावत् तत्साधनीभवति | [१६ब्] १तदध्यवसायितयैव च विधिविकल्पः प्रमाणं किं न भवतीत्य् आशंक्य न तत्र प्रामाण्यम् इति [२७.२४] दूरस्थेन सम्बन्धः कार्यः | तस्य [२७.२३] विधेर् विकल्पस्येति प्रस्तावात् | {प्. २८०} कथम् अप्रामाण्यम् इत्य् आशंक्यं योज्यम् | तस्य निर्विकल्पकप्रत्यक्षविषयस्य निर्विकल्पकज्ञानेनाधिगमाद् इति | चो [२७.२३] व्यक्तम् इत्य् अस्मिन्न् अर्थे | न मयार्थक्रियासाधननिर्विकल्पप्रत्यक्षविषयाध्यवसातृत्वं २तस्योच्यते, येन त्वयैवम् उच्यत इत्य् आह ततः परम् इ[२७.१९]त्यादि | चो [२७.२१] यस्माद् अर्थे | ततोयम् अर्थः -- यस्माद् एवम् उच्यते पूर्वपक्षवादिनेत्य् अर्थात् | एवम् अभिधाने ऽपि कथं तदध्यवसाय उक्तो भवतीत्य् आशंक्याह तत्रेति [२७.२१] |
SK
जातिम् अतिरिक्ताम् अधिगच्छतो ऽस्य प्रामाण्यं भविष्यतीत्य् आशंक्योक्तम् एवार्थम् अधिकविधानार्थम् अनुवदन्न् आह जातेस् त्व् इति [२७.२४] | अपिः [२७.२५] अक्षमायाम् | तस्या अर्थक्रियासाधनत्वाभावेनानर्थत्वाद्, अर्थक्रियासाधनस्याइव चार्थत्वात् | अपूर्वार्थविज्ञानत्वस्य प्रमाणलक्षणस्याभावाद् अभिप्रेत्य न प्रामाण्यम् इत्य् उक्तम् |
SK
अनेन यः परेण विधिविकल्पस्य ᳚तत्रापूर्वार्थविज्ञानम्᳚ इत्यादिना सामान्येन प्रमाणलक्षणयोगो दर्शितः स नास्तीति दर्शितम् | योपि ᳚सत्संप्रयोग᳚ इत्यादिना ४विषेशेण प्रत्यक्सलक्षणयोगो दर्शितः सो ऽपि नास्तीति दर्शयन्न् आह अत एवेति [२७.२५] | अतएव -- जातेर् अर्थक्रियासाधनत्वाभावेनानर्थत्वाद् एव | प्रत्यक्षतापि अस्य विकल्पस्य असंभविनी | कथं न संभवतीति आह -- अर्थक्रिये[२७.२५]ति | तेन सहेन्द्रियाणां [२६.२६] यः संप्रयोगः सम्बन्धस् तस्या अभावात् [२७.२६] |
SK
मीमांसकमतेन सदै(तै)व सहेन्द्रियं सम्बन्धं (बन्द्धुं) प्रभवति नासतेत्य् अभिप्रायः | तद् उक्तंकुमारिलेन --
SK
᳚भावांशेनैव सम्बन्धो योग्यत्वाद् इन्द्रियस्य हि᳚ (Śलोकवा. प्र. १८) इति |
SK
[५१]अस्य [२८.१३] अर्थक्रियासाधनस्य वि(साधनवि)षयस्य ज्ञानस्य अर्थक्रियासाधने [२८.१४] वस्तुनि प्रवृत्त्यङ्गत्वाद् उपदर्शितार्थप्रापकत्वाद् इति यावत् | नेतरत् प्रमाणं व्रवीती[२८.१३]ति संबन्धनीयम् | इतरद् इ[२२.८]त्यर्थक्रियासाधनविषयं यन् न भव६तीति | तद(द्)विपरीतत्वाद[२७.१४]र्थक्रियासाधने प्रवृत्त्यनङ्गत्वात् | एतद् एव समर्थयन्न् आह तथाहीति [२८.१४] | अप्रतारक[२८.१५]म् उपदर्शितार्थप्रापकम् इत्य् अर्थः | लोकेपी[२८.१५]त्य् अत्रच्छेदो व्यक्त एव | लोके व्यवहर्तरि जने | अपि व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे |
SK
__________NOTES__________
SK
[५१] तस्य S |
SK
ननु यदि नाम तदर्थक्रियासाधने प्रवर्तकं न भवति तथापि तत् प्रापकत्वेनाविसंवाद७कतया प्रमाणं किं न भवतीत्य् आशंक्याह यच् चे[२८.१६]ति | अनधिगच्छन्न् इति (गंच्छदि)ति [२८.१६] | अत्र हेतौ शतुर् विधानात् प्रवर्तते | अनधिगमाद् इति कारणम् उक्तम् |
SK
{प्. २८१} तत्सध्यतया [२८.२२] सामान्यजन्मजन्य(सामान्यजन्य)तयोपगताम् अभिन्नज्ञानाभिधानलक्षणाम् | ᳚समानप्रसवात्मिका जातिः᳚ इति वचनात् | व्यक्तिसाध्याम् [२८.२३] इति व्यक्तिसाध्यतयोपगताम् इति प्रत्येतव्यम् | अनेन यौवार्थक्रिया८युष्माभिर् व्यक्तिसाध्यतयोपगम्यते सैव तत्साध्या भविष्यतीत्य् अपि पक्षः प्रतिक्षिप्तः | उभयत्रापि व्यक्तेर् एवान्वयव्यतिरेकाभ्यां साक्षात् पारंपर्येण च तत्र सामर्थ्यस्य प्रमाणेनावगतत्वाद् इत्य् अभिप्रेतम् |
SK
ननु कस्मिन् काले करोतीति प्रश्ने ᳚स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम्᳚ [२८.२३] इत्य् उक्तम् युक्तम् | न तु[५२]कीदृश इति प्रश्ने इति चेत् | सत्यम् केवलं स्वलक्षण[१७अ] १प्रतिपत्तेः [२८.२४] उत्तरकालं प्रतीयमानत्वाद् ऊर्ध्वम् उत्तरकालम् इत्य् उक्तम् उपचारत इति बोद्धव्यम् | तत्प्रतिपत्तेर् ऊर्ध्वं प्रतीयमानत्वम् एव दर्शयन्न् आह तत्सामर्थ्येति [२८.२५] | यद् वा कीदृशम् इति प्रश्नयित्वैव तत्सामर्थ्येति योज्यम् | तत्सामर्थ्योत्पन्नविकल्पग्राह्यत्वम् अपि किं स्वलक्षणप्रतिपत्तेर् ऊर्ध्वम् एव किं वा कियत्कालपरि(र्य)वसाने इत्य् अपेक्षायाम् उक्तम् तत्प्रतिपत्ते२र् ऊर्ध्वम् इति एवं ब्रवीति [२८.२७] | किंविशिष्टं सामान्य तथातया प्र(ब्र)वीतीति | पराभिप्रायेणाप्य् एवम् अभिधानं किम् अर्थम् इत्य् आह दर्शनेति [२८.२७] | ननु किं सामान्यमात्रम् एवार्थक्रियासाधनं न भवति, येन परैस् तथाभिधानाद् एवं ब्रवीतीत्य् उच्यत इत्य् आशंक्याभ्युपगमम् एवोत्तरं रचयन्न् आह -- सर्वम् एवेति [२८.२९] |
SK
__________NOTES__________
SK
[५२] कीदृशं S
SK
यदि एवम् अनुमानविकल्पग्राह्यस्यापि सामान्यस्य तथात्वा३त् तद्विषयस्यानुमानविकल्पस्यापि प्रामाण्यन् न स्यात् | ततश् च शब्दप्रवेशे ऽक्षितारानिर्गमवृत्तान्तो जात इत्य् आशंक्याह यत् त्व् अपि [२९.१] | तुर् विशेषार्थः | यत् सामान्यम् अर्थक्रियाम् उपकल्पयति [२९.३] | कीदृशम् इत्य् अपेक्षायाम् आह -- अनधिगतेति [२९.२] | अनधिगतं पूर्वज्ञानेनापरिच्छिन्नं यद् अर्थक्रियासाधनं तद्विषय आश्रयत्वा४ध्यवसायेन यस्य तत् तथा | हेतुभावेन चैतद् विशेषणम् | अनेन च विधिविकल्पावभासिसामान्यस्यार्थक्रियासाधनविषयत्वेपि नानधिगतार्थक्रियासाधनविषयत्वम् इति न तद्विषयस्य प्रामाण्यम् इति दर्शितम् | तद्विषयत्वम् एवास्य कुत इत्य् आह सम्बद्धेति [२९.२] यद् अर्थक्रियायां सम्बद्धं क(का)रणभावेन तत्संबन्धा५त् तदारूढत्वात् तन्निष्ठत्वाद् इति यावत् | सम्बद्धसम्बन्ध(द्ध)त्वम् एवेदृशम् अस्य क्व इत्य् अपेक्षायां कारणे[२९.१]त्यादि योज्यम् | तथाभूतलिङ्गनिश्चयद्वारेण प्रतीयमानत्वात् कारणव्यापकसंबद्धलिङ्गनिश्चयद्वारायातम् [२९.१] उक्तं वेदितव्यम् | कार्यञ् च व्याप्यञ् च तथावसीयमानं स्वकारणं व्यापकं चातद्रूपपरावृत्तं ६प्रत्याययतीति भावः | अनेन सर्वणैतद् उक्तं अनुमानविकल्पेन हि परमार्थतो ऽर्थक्रियासाधनम् एव वह्न्यादि विशिष्टदेशाद्यवच्छेदेन | {प्. २८२} एकतो व्यावृत्त्योल्लिख्यमानं सामान्यं, नान्यद् अतस् तदध्यवसायिनस् तस्य प्रामाण्यम् उपपद्यते |
SK
ननु दर्शनोत्तरकालभाविनो विकल्पस्य विशिष्टदेशादितया गृहीत७स्यैवार्थक्रियासाधनस्य तथाध्यवसायाद् इति विधिविकल्पग्राह्यम् अपि सामान्यम् अनधिगतार्थक्रियासाधनविषयं सत् स्वग्राहिणं विकल्पं प्रामाण्येन जोजयिष्यतीत्य् आह -- इदम् इति [२९.४] | तुः पूर्वाद् वैधर्म्यम् अस्य द्योतयति |
SK
उदाह्रियते [२९.९] | उदाहरणीक्रियते | प्रकृतपरित्यागे किं कारणम् इति चाशयः | निराकर्तुम् उ[२९.१०]दाह्रियत इति संबन्धनीय्८अम् |
SK
दृष्टान्तम् एव विवटयितुं कां पुनर् इ[२९.१०]त्यादिनोपक्रमते | परस्परं व्यावृत्त्या हि व्यक्तयो भिन्नम् एव ज्ञानम् उपजनयेयुः | कथं पुनर् अभिन्नां धियम् अभिधानं चादधतीत्य् आशंक्याह -- एवम् [२९.२३] इति | तद् एकं वाहदोहादिकार्यं तत्र प्रतिनियमः | प्रतिनियतत्वम् अवश्यं प्राग्भावित्वं लक्षणं [२९.२३] यस्या सा तथोक्ता | उपकर्तव्यम् अभिव(व्य)क्तव्यं न तु जनयितव्यम् इत्य् अवसे[१७ब्] १यम् | नित्यतया तस्य परेण तथात्वानुभ्युपगमात् | पराभ्युपगमान् अपेक्षायां चास्य दृष्टान्तत्वानुपपत्तेः | तस्माद् विवक्षिताद् अपरं सामान्यं [२९.२४] तदेकसामान्यं व्यंजकत्वाख्यम् | अन्यथा [२९.२४] तदपरसामान्ययोगेन व्यंजकत्वप्रकारेण | तदभिव्यक्तयेपि तदपरं सामान्यं तदेकसामान्याभिव्यंजकाख्यं सामान्याभिव्यञ्जकत्वाख्यम् अपरम् उपेयम् | २तथा तदभिव्यक्तयेप्य् अन्यद् इत्य् अनवस्थाया अपर्यवसानस्य प्रसंगात् [२९.२४] प्राप्तेर् हेतोः | साधयिष्यन्ति विवक्षितसामान्ययोगम् अन्तरेण स्वभावत एवेति प्रकरणाद् अवसेयम् |
SK
ननु किं प्रमाणपरिदृष्टार्थापलापे प्रयतिर् भवतां येनैवम् अभिधीयत इत्य् आह किम् [२९.६] इति | अथ किम् अज्ञायमानप्रमाणकम् असद् अवश्यं भवति येन सर्वथा तदर्थक्रियो३च्छेदः क्रियत इत्य् आह प्रमाणाबाधितेन चे[२९.२६]ति |
SK
प्रमाणाबाधाम् एव मात्रया दर्शयितुं तथाही[२९.२७]त्यादिनोपक्रमते नोपलक्षयाम [२९.२८] इति वदन् दृश्यानुपलम्भं बाधकं दर्शयति | अविभावनं [३०.२] निर्लुठितगर्भवद्विभागेनाप्रतिपत्तिः | रूपरूपिणोर् अनन्यत्वेन भेदे रूपिण एम भेदापत्तेर् इत्य् अभिप्रेत्याह पदार्थ४द्वयोपगमप्रसंगाद् इति [३०.५] | आदि[३०.५]शब्दाच् छब्दज्ञानपरिग्रहः |
SK
ननु भिन्नसामान्ययोगाद् भेदो भावानां, न पुनः प्रतिभासभेदाद् इत्य् आशंक्य यदि अप्य् अत्र शतं दोषाः सम्भवन्ति, तथापि ग्रन्थावस्तिरभयाद् एकम् एव दूषणं दत्ते सामान्यस्येति {प्. २८३} [३०.७] | एवं मन्यते यदि सामान्यभेदाद् भावभेदस् तदा गवाश्वरस्येव गोत्वा५श्वत्वयोर् अपि भेदस् तदपरसामान्यभेदाद् भवेद् इति सामान्यस्याप्य् अपरसामान्यप्रसक्तेर् इति | अस्त्व् एव का क्षितिर् इत्य् आह -- निःसामान्यस्येति [३०.७] | अस्ये[३०.७]ति सामान्यस्य |
SK
एतेनेति [३०.१०] ᳚न तथाविधम् उपलक्षयाम्᳚ इत्यादिनोपदर्शितेन दृश्यानुपलम्भेन | कथं पुनर् दृश्यानुपलम्भः सिद्धो येन तन्निराक्र्टम् ए६तत् स्यात् यत [३०.१५] इति | तदासिद्धम् इ[३०.१५]त्य् अन्व(नु)गमापेक्षत्वं बुद्धेर् इति प्रकरणाद् द्रष्टव्यम् | तत्र [३०.१६] इन्द्रियबुद्धाव् अनुपलक्षणाद् [३०.१६] अप्रतिभासनात् | अस्पष्टनीलाद्याकाराः सा(रा सा)मान्यबुद्धिर् अभिमतं संवेद्यत इति चात्राभिप्रेतम् | व्यक्तिरूपम् अपास्यान्यस्येष्ट(स्पष्ट)म् एव रूपम् उपगतम् | तत्रावभासते तद् एव सामान्य७म् अस्माकम् इत्य् आशंक्य तद् अपि नास्तीत्य् अभिप्रायवान् आह स्पष्टस्यापी[३०.२७]ति | अनुपलक्षणाद् इत्य् अभिसम्बद्ध्यते | संप्रति द्वितीयस्य स्पष्टरूपस्योपलक्षणम् अभ्युपगम्य तस्यानुगाभिरूपत्वं प्रतिषेधयन्न् आह | तद् भावे चे[३०.१७]ति | चो विशेषार्थाभिधानाभ्युपगमे | अनेन किं तद् द्वितीयं स्पष्टं रूपं साबलेयबाहुलेयव्यक्तिद्वयान्तरालं न व्याप्नोति८ किं व्याप्नोतीति विकल्पयोर् बुद्धिस्थीकृतयोर् मध्ये ऽव्यापनपक्षे दोषं दर्शयति | व्यक्तिद्वयस्यान्तरालम् अवकाशम् अव्याप्नुवतः [३०.१७] स्वसत्तयान् अभिसम्बन्ध(ध्न)तः | कथं तदनुगमो [३०.१८] व्यक्त्यन्तरानुगमो व्यक्त्यन्तरव्यापित्वं निष्क्रियत्वेन गत्वा व्यापारासंभवात् तथात्वेपि पूर्वव्यक्तिवियोगानुषङ्गात् | न च तत्साङ्गम् इति च भावः |
SK
द्वितीय [१८अ] १विकल्पेप्य् आह व्याप्तौ चे[३०.१८]ति | तत्र [३०.१९] अन्तराले |
SK
न तस्य तत्र व्यक्तं रूपम् अस्ति व्यञ्जकाभावात् तेनानुपलक्षणम् इत्य् आह नही[३०.१९]ति | अवश्यं हि भूतले तत् कयाचिद् व्यक्तम् इति न तस्याव्यक्तरूपसंभव इति भावः |वार्तिककारस्याप्य् अयम् अर्थो ऽभिप्रेत इति प्रतिपादयन्न् आह -- तथा चे[३०.२०]ति | प्रकृतोपययोगिभाग एव पठितुं युज्यत इतिवार्तिकस्य पादत्र२यम् एवायम् अपठत् | उक्तयोपपत्त्या व्यक्तैकरूपसंभवे चेदम् अन्यदा(त्रा)पीति निदर्शयन्न् आह -- एकत्रापीति [३०.२३] | चो वक्तव्यान्तरसमुच्चये | सर्वसर्वगतवादिनम् अधिकृत्योक्तं सकलेति [३०.२३] | स्वाश्रयसर्वगतवादिनं तु प्रति स्वाश्रये[३०.२४]ति | नाम[३०.२५]शब्दो ऽसम्भावनायाम् | इह एकत्रैवाश्रय इत्य् अने३नाप्य् अंशेनायं न दृष्टान्तः किन्तु यथा क्षणिकत्वस्य निर्विकल्पकबोधेन दृष्टस्यापि न दर्शनावसायस् तथा सकलस्वाश्रयरूपप्रतिभासेपि न दर्शनावसाय इत्य् अनेनैव | अस्तु तर्हि सर्वभुवनवर्तिरूपस्य निश्चयः | सर्वस्वाश्रयवर्तिनो वा का {प्. २८४} क्षतिर् इत्य् आह तत [३०.२७] इति | ततस् तादृशरूपनिश्चयात् | तच्[३१.१]छब्दे४न सामान्यं प्रत्यवमृष्यते | सहचारिशब्देन च संबद्धं विवक्षितम् | तेनायम् अर्थस् तत्सहचारिणः सामान्यसंबद्धस्य तत्समवायविषयस्येति यावद् इति | एतच् चनैयायिकादीन्प्रत्यभिहितम् |
SK
मीमांसकंप्रत्याह -- तदभिन्नस्वभावस्य चे[३१.१]ति |
SK
किम् इन्द्रियबुद्धौ सामान्यस्य प्रतिभास आहोस्विद्विकल्पबुद्धा५व् अनुमानात्मिकायाम् इति विकल्पयोर् अन्तर्निहितयोर् एकं विकल्पं निराकृत्यापरं निराकर्तुम् आह अथे[३१.३]ति | आदिशब्दाद् शब्दबा(शब्दादि)परिग्रहः | प्राक्तनम् एवाभिप्रेत्ये[३०.१५]ति पदम् अत्राभिसंबध्यते | ततः अनुमानादिबुद्धिम् इति द्वितीयया निर्देशः | यथास्पष्टो व्यक्त्याकारो ऽर्थाकारो वा लक्ष्यमाणः सम्वेद्य६मानोस्ति न तथा स्वलक्षणप्रतिभासो व्यक्त्याकारो लक्ष्यमाणोस्तीति योज्यम् | कस्माद् एवम् इत्य् आह -- तदभाव [३१.५] इति तस्य स्वलक्षणस्याभावे तासां [३१.६] सामान्यबुद्धीनाम् | अत्रैवाभ्युच्चयहेतुम् आह आकारान्तरेण चे[३१.६]ति | स्वज्ञाने इन्द्रियजन्मनि ज्ञाने | स्पष्तास्पष्टरूपद्वययोगि स्वलक्षणं तेनेन्द्रि७यज्ञाने स्पष्टेन रूपेण प्रतिभात्य् अन्यत्र पुनर् अस्पष्टेनेत्य् आह अनेके[३१.६]ति | अतिप्रसङ्गादि[३१.७]ति घट प्रतिभासेपि पटप्रतिभासकल्पना स्यात् | घटपटलक्षणरूपद्वय(या)योगित्वात् पटस्येत्यादेर् उत्तरस्यात्रापि सुवचत्वाद् इत्य् अभिसन्धिः | तस्मादि[३१.७]त्यादिनोपसंहरति | इयम् अभिन्नाभासा सामान्याकारा स्वलक्षणाद् उद्भवो ऽस्या इति स्वलक्षणोद्भवा सती भिन्नार्थग्राहिणी व्यावृत्तवस्तुग्राहिणी न प्रतिभाति | किं त्व् अनादी[३१.९]ति |
SK
᳚दृढत्वात् सर्वदा बुद्धेर्᳚ इति ब्रुवता यदि बुद्धेर् दार्ढ्यम् अभिहितं तद् अपि निऋउपयन्न् आह -- दृड्ःअत्वञ् चे[३१.१०]ति | सहेतुकविनाशवादिपक्षे क्षणिकत्वाभ्युपगमाद् इ[३१.१०]त्य् आशुतरविनाशित्वाभ्युपगमाद् इति वेदितव्यम् | अस्याः [३१.११] सामान्यबुद्धेः | तद् [३१.१०] अबाध्यमानत्वम् |
SK
[१८ब्] १स्याच्छब्दो ऽनेकान्तवचनो नियतोस्ति तेन स्याद्वादो[३१.१२]नकान्तवाद यद् वा स्याद् अक्षणिकः स्यात् क्षणिक इत्यादि [३१.१२] स्याद् इति वादः स्याद्वादस् तस्य भंगो निराकरणं तस्माद् एवावधारणीयो बाधक इति प्रकृतत्वात् | स्याद्वादभङ्गम् अधीत्येति कर्मणि ल्यब्लोपे चेयं पञ्चमी द्रष्टव्या |
SK
एवं मन्यत [२९.२२] इत्यादिना यद् उपक्रान्तं तद् उपसंहरन्न् आह २तस्माद् इ[३१.१६]त्यादि | यस् तु [३१.१८] मिथ्यात्वे[५३]दोष [३२.१] इति सम्बन्धः | {प्. २८५} उक्तः [३२.१] परेणेत्य् अर्थात् | किं कृत्वासाव् उक्त इत्याह पूर्वपक्षयित्वेति [३१.१९] | सामान्यम् [३१.२२] इत्यादिर् भविष्यती[३१.२२]त्यन्तः पूर्वपक्षग्रन्थः | अस्यैव पूर्वपक्षस्याकारम् इति[३०.२३]शब्दो दर्शयति | तस्य [३१.१९] सामान्यस्य वृत्ते[३१.१९]र् वर्तनस्य | नियामकं व्यवच्छेदकम् | साबलेयादिषु कर्कादिसाधारणे परस्परं भिन्न३त्वेपि गोत्वम् एव वर्तते नाश्वत्वम् इत्य् एतन् निमित्तम् | यथैकस्मात् साबलेयात् कर्को भिन्नस् तथा बाहुलेयोपि ततस् तुल्येपि भिन्नत्वे [३१.२१] भेदे केषुचित् [३१.२१] साबलेयादिषु वृत्तिर् गोत्वस्य अवृत्तिताविद्यमानवृत्तित्वम् अविद्यमानत्वम् एवाश्वत्वस्यादिशब्दसंगृहीतस्य | कस्य केषुचिद् वृत्त्यवृत्तितेति अपेक्षायाम् उक्तं४ गोत्वादेर् इ[३१.२२]ति | अनिमित्ते[५४]ति काकाक्षिन्यायेनोभयत्रापि वृत्त्यवृत्तितायां बुद्धाव् अपि संबध्यते | तेनायम् अर्थो यथा गोत्वादेः केषुचिद् वृत्त्यावृत्तितानिमित्तापि नियामकसामान्यरहितापि तथा [३१.२२] तद्वद्बुद्धि[३१.२२]र् अभिन्नाभासा धीरनिमित्ता जनकगोत्वसामान्यशून्यानादितथाविधवासनासामर्थ्यात् केषु५चिद् एव भविष्यती[३१.२२]ति | तेन विषयं विना कुतोत्प(विना बुद्ध्युत्प)त्त्यभावेन तत्[३१.२५]सामान्यं ध्रुवं नित्यम् इच्छंति | यद् वा तेन कारणेन तत्सामान्यम् इच्छन्ति ध्रुवं निश्चितम् | तेनाभिन्नेन विषयेण विना अनुगमात्मिकानां बुद्धीनाम् उत्पादे को दोष इत्य् आह | ता हीति [३१.२६] | ता अभिन्नाभासा सामान्यबुद्धयः | अनेन सामान्याभावे तथाभूतबुद्ध्युत्पादे बाधकप्रमाणम् उक्तं परेण | असाव् एव वन्दीकृतम् अर्थं प्रतिकुर्वन्न् आह -- न त्व् इति [३१.२७] | वृत्तिर् नियतेति प्रकरणात् | न दुष्यती[३१.२७]ति ब्रुवतो ऽयं भावस् तदन्तरेण तथाविधबुद्द्युत्पादे मिथ्यात्वदोषोस्ति बाधकः | सामान्यस्य [३१.२७] तु सामान्यान्तरेण केषुचिद् एव वृत्तौ किम् अस्ति बाधकं येन तत्रान्य७सामान्यम् अभ्यनुजानामीति | असौ [३२.१] मिथ्यात्वप्रसक्तिदोषो न तथागतसिद्धान्ततीतिपरिशुद्धबुद्धीन् अ[३२.२]स्मदादीन् बाधते व्यथयति | कस्माद् इत्य् आह सामान्ये[३२.२]ति | यद्य् अपि पूर्ववत् सामान्यबुद्धेर् मिथ्यात्वव्यवस्थानिबन्धनं प्रमाणं मात्रया दर्शितं तथापि बहुमुखम् एवास्या मिथ्यात्वव्यवस्थापकं प्रमाणम् अस्तीति प्रतिपादयितुं तथाही[३२.३]त्यादिनो८पक्रमते | साम्ना [३२.४] गलकम्बलः | आदिशब्दात् ककुदादिपरिग्रहः |[५५]नासाधारणं सामान्यरूपताहानिप्रसङ्गात् | नोदयव्ययप्रसङ्गयोगि नित्यत्वाभावप्रसङ्गभावाद् इति बुद्धिस्थम् | इतिः [३२.८] अनन्तरोक्तं प्रत्यवमृषति | कुतो न युक्तम् इत्य् आह विरुद्धे[३२.९]ति | अमुम् अर्थं सातिरेकं कारिकाभिर् वक्तुं पर {प्. २८६} मुखेनाह ने(-खेनाह आहचे)त्यादि | नाश इति व्यक्ते[१९अ] १र् इतिप्रकरणाद् द्रष्टव्यम् | अजातता [३२.१०] केनेष्ठे[३२.११]ति लिङ्गविपरिणामेन संबन्धनीयम् | केन [३२.११] कारणेन | तद्वद् व्यक्तिवत् | अनन्वयो [३२.११] व्यक्त्यन्तराननुगामित्वम् |
SK
__________NOTES__________
SK
[५३] ᳚मिथ्यात्वप्रसङ्गदोषः᳚ -- S [५४] ᳚अनिमित्ता᳚ -- S [५५] न चासा--- S
SK
ननु च ᳚सामान्यान्य् अपि चैतानि नाशीन्य् आश्रयनाशत᳚ [Śलोकवा. पृ. ३८०] इति वचनान्मीमांसकैर्व्यक्तिनाशे नाश इष्ट एवेति किम् उच्यते व्यक्तिनाशे ऽनाशः | केनेष्ठे(ष्ट इ)ति प्रकृतं मीमांसकमतम् इति | सत्यम् एत२त् | केवलम् एवंवक्तुर् अयम् आशयः यद्य् एकं सामान्यं ततो भिन्नञ्चाभिन्नञ् च संगच्छते तदा व्यक्तिरूपेण व्ययते तद्व्यतिरिक्तेन च रूपेणानुवर्तत इति स्याद् अपि यदि परं मनोमोदकोपयोगमात्रवद् एतद् इति | एतच् चाधस्ताद् यथावसरम् इहैव प्रतिपादयिष्यते | अत एव च कैश्चिन्नैयायिकाइर् नाशीनीत्य् उपलभ्यानीत्य् एतद् अर्थं३कुमारिलेनोक्तं व्याख्यातम् इति |
SK
व्यक्तिजन्मनि जन्मानिष्टौ सामान्यस्य दूषणम् इदम् उपस्थितम् इति दर्शयन्न् आह -- व्यक्ती[३२.१२]त्यादि | जातिर् इति वक्ष्यमाणापेक्षया स्त्रीलिङ्गेन निर्देशः | निष्क्रियत्वाज् जातेर् इत्य् अभिप्रेत्य नागतेत्य् अभ्युपगमयति | प्राग् [३२.१३] व्यक्त्युदयात् पूर्वम् | दृश्याया अनुपलब्धत्वाद् इत्य् अभिप्रायेण च नासीद् इत्य् उ४[३२.१३]पगमयति | चेदि[३२.१२]त्य् अत्रापि संबध्यते | तस्या व्यक्तेर् उत्पद्यमानाया देशो दिश्यते ऽस्मिन्न् इति कृत्वाधार उक्तः | अनेनैतद् दर्शयति | तत्संबब्धोरु(?)बन्धनेन वा प्रकारेण भवेत् स चैकोपि न भवतीति | सा जातिः तया व्यक्त्या सङ्गता संबद्धा कथं [३२.१३] न कथञ्चित् | तज्जन्यजन्मनि सामान्यस्येष्यमाणे५ तादात्म्यं तावद् अतिभवान् न(तावद् भेदान् न) युज्यते | तत्सम्बन्धमात्रम् अपि न संगच्छत इत्य् अभिप्रायो ऽस्यैवं च वदितुर् बोद्धव्यो ऽन्यथामीमांसकमतेतादात्म्याद् अन्यस्य सम्बन्धस्यानिष्टेर् आगताश्रयान्तरादित्यादिद्वारा सम्बन्धमात्रनिषेधो ऽनुपयुक्तः प्रसज्येत प्रस्तुतञ् च तन्मतम् इति | व्यक्तिनाशे ऽविनाशित्वेष्तौ६ च सामान्यस्ये(स्या)यं दोषः स्याद् इति दर्शयन्न् आह व्यक्ति(क्तीति) [३२.१४] | निष्क्रियत्वाद् इत्य् अभिप्रायेण नागते[३२.१४]त्य् आह | तच्छून्ये[३२.१४] नष्तव्यक्तिरहिते दृश्यादर्शनाभिप्रायेण च न स्थितेत्य् आह | क्वेति [३२.१५] काकाक्षि(काक्वा) प्रश्नयुक्तः कथं(कथ)नाशक्यत्वं प्रतिपादयति | जातेर् व्यक्त्यात्मकत्वोपगमे तदुदयव्यययोस् तदन्वय७व्ययौ न स्याताम् | सत्याञ् च तद्विष्ताव् अयम् अयञ् च दोष इति प्रतिपाद्य तत्तदिष्टौ च जातेस् तादात्म्योपगम एव जघन्य इति प्रतिपादयन्न् आह व्यक्ते[३२.१६]र् इत्यादि | सा व्यक्तिर् आत्मा स्वभावो यस्य तद्भावः | अनुपप्लुतं [३२.१७] वाद्यादिभिर् अप्रापितास्वास्थ्यं चेतो {प्. २८७} येषां तेषाम् | कथम् इष्टम् | क्षेपे चायं किमः प्रयोगः | उपप्लुतचेत८साम् एवमीमांसकानामिदम् इष्टम् इति सामर्थ्याद् दर्शितम् | प्रमाणासि(मासि)द्धौ प्रकृष्टं कारकं प्रमाणम् उच्यते ऽविशेषाधायित्वे च साधकतमत्वाभावात् कथम् अस्य तत्त्वं स्याद् इत्य् आशयः |
SK
नैवै[३२.२७]ति व्याचक्षाणश् च[३२.२७]कारम् अवधारणे दर्शयति | लिङ्गग्रहणात् तरकालभाविनो [३२.२८] विकल्पस्येति प्रकरणात् | तस्मिन् विकल्पे [१९ब्] १प्रतिभासनात् तस्य सामान्यम् इति प्रकाशितम् | संबद्धसंबन्धाद् इत्यादि पूर्वोक्तः प्रकारः | व्यक्तिस्वभावत्वे तस्य कथं तदकर्तृत्वम् इत्य् आह तस्येति [३३.३] | कल्पितं विकल्पेन घटितं रूपं [३३.३] स्वभावो यस्य तस्य | तदसंभवाद् [३३.३] रञ्जनाद्यर्थक्रियानुपपत्तेः | सर्वनित्यसाधारणदूषणम् इह समुच्चिन्वन्न् आह | नचे[३३.४]ति | अन्या [५६]चे[३३.५]ति तदेकसाध्यतयोपगताभिन्नज्ञानाभिधानल२क्षणम् अवसेयम् | इति[३३.६]र् एवम् अर्थो मन्यते [३३.६] चेतसि निधत्तेवार्त्तिककार इत्य् एवं ब्रुवाण इति चार्थाद् द्रष्टव्यम् |
SK
__________NOTES__________
SK
[५६] वेति S |
SK
अनधिगतार्थविषयं प्रमाणम् इति प्रमाणलक्षणं परेण कारिकया दर्शितम् इति दर्शयन्न् आह तत्रापूर्वेति [३३.११]. अहम् अहमिकया क्रिया आहोपुरुषिका तया [३३.१६] करणभूतया | तत्स्वलक्षणम् अस्पष्टरूपतया अनुकरोतीति तदनुकारी३ति विवक्षितम् इति प्रकट्यन्न् आह | अस्पष्टनीलस्वलक्षणानुकारी [३३.२७] अस्पष्टनीलस्वलक्षणाभासम् इत्य् अर्थः | सर्व एव हि विकल्पो ऽस्पष्टस्वलक्षणाभः | नीलादि पश्यतस् तु विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः, स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् | यथा चैतत् तथोभे(चे) समीचीनम् आचार्यो ४विनिश्चयम् इति (य इति) तत एवा[व]गन्तव्यम् | कथं पुनर् अस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत् स्पष्टस्वलक्षणानुकारीत्य् आशंक्य योज्यम् -- साक्षाद् [३३.२७] व्यवधानेन अनुत्पत्तेस् ततः स्वलक्षणाद् इति प्रकरणात् | यदि ततस् तन् नोत्पन्नम्, तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्त्य इत्य् आशंक्य योज्यम् -- दर्शने[३३.१७]ति | दर्शने५नामुधेना(नानुभवेना)हितः संस्कारो [३३.२७] वासना तस्या[५७]वेध [३३.२७] आक्षेपस् तद्वशात् | चो[३३.२७] व्यक्तम् एतद् इत्य् आस्मिन्न् अर्थे |
SK
__________NOTES__________
SK
[५७] आधेय S |
SK
ननु यत् तत्रावभासते तत् स्वलक्षणम् | येन स्पष्टनीलस्वलक्षणानुकारीत्य् उच्यत इत्य् आह दृश्ये[३३.२८]ति | दृश्यविकल्प्ययोर् एकीकरणात् | दृश्यविकल्प्याव् अर्थाव् एकीकृत्यास्य प्रवृत्तेर् इत्य् अर्थः | दृश्यविकल्प्यैकीकरणं६ च तस्य तथोत्पत्तेर् एव द्रष्टव्यम् | तदवभासिनो ऽबाह्यत्वाद् एव न परमसावनुकरोतीत्य् आशयः | स [३४.१] विकल्पः | त पो(पा)नालम्बने कथं गृहीतग्राहित्वलक्षणं स्म्र्तित्वम् इत्य् आशंक्याह तथाही[३४.४]ति |
SK
{प्. २८८} स्मृतिरूपत्वम् एवानुमानविकल्पस्य प्रतिपादयन् परः प्राह -- तथाहि[३४.११]त्यादि | अग्नित्वादिना रूपणानवच्छिन्न्७अत्वात् अनग्निव्यवृत्तं वस्तुमात्रम् इत्य् आह महानसस् सूपकारशाला | आदि[३४.१२]शब्दादयस् कारकुट्यादेर् ग्रहणम् | प्राक् [३४.१५] पूर्वं व्याप्तिग्रहणकाल इत्य् आकूतम् | प्रदेशविशेषे पर्वतादौ | तद्वस् [३४.१३] अनुमानविकल्पवत् |
SK
नन्व् अधिगताव् अधिगन्तुर् अप्य् अनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यम् आवेदितम् एवति किम् अनेनोक्ता८नतिशायिनोक्तेनापीत्य् आशंक्याह एवं मन्यत [३४.१४] इति | पूर्वपक्षिणैतस्मिन्न् उक्तेप्य् एवं ब्रुवाणो नियतम् एवं वक्ष्यमाणकं मन्यते [३४.१४] चेतसि निवेशयति | यद् इ[३४.१४]त्यादिना मननीयम् एव दर्शयति | आदि[३४.१५]शब्दात् कालस्य परिग्रहः | साध्यधर्मिग्राहि [३४.१७] पर्वतादिग्राहि | दृष्टान्तधर्मिगाहि [३४.१७] महासादिधर्मिग्राहि | तत्र दृष्टान्तधर्मिग्राहिणा दर्शने[न] नैव [२०अ] पर्वतादिविशिष्टम् अनग्निना व्यावृत्तं वस्तु गृहीतम् | नापि तदाह न पर्व(नापि पर्व)तादिसाध्यधर्मिग्राहिणान्वयाद्यवेदिनो(ना)पि | तथात्र विपत्ति (तथात्वे ऽविप्रतिपत्ति)प्रसंगात् तद्विशिष्टम् अनग्निव्यावृत्तम् वस्तु गृहीतम् इतिदर्शनान्वया(दर्शनद्वया)नधिगतम् उक्तम् | अयोगोव्यवच्छेदेन [३४.१८] संबन्धव्युदा...एन तद्विपरीतत्वाद् [३४.२०] अनुमानविकल्पविपरीतत्वात् | तेन यदा(था) डृ..यत्यैव निश्चयनात् |
SK
ननु वस्त्वधिष्ठानत्वाद् व[३४.२३]स्त्वालम्बनत्वाद् इत्य् अभिप्रेतम् | तथा चानुमानासंग्रहः इत्य् आह वस्त्वधिष्ठानत्वं चे[३४.२३]ति | चकारस् तुशब्दस्यार्थे | प्रमाणस्य व्यापारः प्रापणम् तस्य विषयस् तम् अभिप्रेत्योच्यते | नालम्बनलक्षणं [३४.२५] विषयम् अभिप्रेत्योच्यते इति सम्बन्धनीयम् | आलम्बनलक्षणं ग्राह्यरूपम् | उक्ताद् अन्येन प्रकारेण अन्यथाव्यापिनी सर्वप्रमाणासंग्राहिका | विप्रकृष्टो दे३शकालस्वभावैर् व्यवहितो विषयो यस्याः सा तथोक्ता |
SK
तत्रापी[३५.१]त्यादि प्रतिविधानम् | विकल्परूपस्यैव वस्तुनो धर्मित्वात् | तस्यैव च तत्प्रधानत्वाद्यनुपादानत्वसाध्यत्वात् | तत्रापि प्रमाणव्यवस्थायास् तद् एव विकल्परूपं वस्त्वधिष्ठानम् अस्तीति समुदायार्थ | दर्शनविधिप्रतिषेधविकल्पानां दर्शनस्यैव ४प्रामाण्यं नेतरयोर् इति प्रकृतम् | उक्तञ् च ᳚तत्र तदाद्यम् एव᳚[२५.११] इत्यादिना | तत्कुतो ऽस्य वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनस्यार्थोत्पा(स्योपपा)दनम् इत्याशंक्य संगति दर्शयितुम् इदं चे[३५.१२]त्यादिनोपक्रमते | तस्य अनधिगतवस्तुरूपाधिगन्तृत्वस्य असिद्धता | तस्या उद्भावनं [३५.१६] प्रकाशनं तदर्थम् | {प्. २८९} तस्यैव [३५.२०] स्वलक्षणस्यैव | सामा५न्यस्याप्य् अर्थ्क्रियास(सा)मर्थ्यलक्षणत्वात् तद्विषयोपि विकल्पः प्रामाण्यान्नापैतीति पूर्वपक्षम् उत्पश्यन्न् एवं ब्रुवाणः किं मन्यत इत्य् आह सामान्यस्येति [३५.२१] | तद्विपरीतत्वाद् अ[३५.२१]र्थक्रियासामर्थ्यलक्षणविपरीतत्वात् | यथा च तस्यार्थक्रियाकारित्वसंभवि तथा पुरस्ताद् उक्तम् इति | गूढाभिसन्धिश् चैवं मन्यत [३५.२१] इति द्रष्टव्य६म् | ततोपि [३५.२३] वस्तुन्य् एव [३५.२४] पुरुषस्य प्रवृत्तेर् इ[३५.२३]ति संबन्धः | तत्सामर्थ्यजन्मा विकल्पो न प्रमाणम् इ[३५.२३]ति साध्ये च हेतुपदम् एतत् | कथं प्रवृत्तिर् इत्य् आह तदध्यवसायेने[३५.२४]ति | कस्मात् तदध्यवसायेन प्रवृत्तिः कल्प्यते इत्य् अन्यथे[३५.२५]ति | तत्र [४/३५.२४] स्वलक्षणे पूर्वस्या उपपत्तेर् अस्याश् च तुल्यत्वात् किम् अनेन पुनर् उक्तेने७त्य् आह पूर्वम् इ[३५.२७]ति | एतञ् च शाब्दीं गतिम् आश्रित्य भेदो दर्शितो द्रष्टव्यः | अथार्थाभेदात् किं मुखभेदमात्रेण भेदेनोपदर्शितेनेति निर्बन्धस् तद् एवोच्यत इत्य् अभिप्रायवान् आह यद् वे[३६.१]ति | किम् इती[३६.६]तिनिपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते |
SK
स्याद् एतत् स्वलक्षणे निर्विकल्पकविषये प्रवर्तयन्न् अपि तदनुभवात् प्रमेया८न्तरविषयः सन् प्रामाण्यं प्राप्स्यतीत्य् आशंक्याह अयम् अस्याभिप्राय [३६.१२] इति | तत्रैव [३६.१३] प्रमेयान्तरे स्वविषय एव[५८]प्रवर्तयेद् इ[३६.१४]ति | सम्भावनपदम् एतत् | शक्यार्थं वा | किं कर्तुं प्रवर्तयेद् इत्य् आह -- रूपं [५९]तत्साध्यम् इ[३६.१४]ति | प्रमेयान्तरमात्रं तद्विषयम् अभिप्रेत्य तत्रैव प्रवर्त्तयेत् तत्साध्याम् अर्थक्रियाम् अधिगन्तुम् इ[३६.१४]त्य् उक्तम् अधुना तु यदि सामर्थ्य[२०ब्](सामान्य) १लक्षणं तत्प्रमेयान्तरं तदा नैव वा [३६.१४] इत्य् उक्तम् | नैव वा प्रवर्तयेत् न स्वलक्षणे नापि सामान्ये न क्वचिद् अपीति प्रवृत्तिमात्रप्रतिषेधाद् घ्रियते |
SK
__________NOTES__________
SK
[५८] प्रवर्तयतु S | [५९] तत्साध्याम् अर्थक्रियाम् S |
SK
यद् वा पूर्वं सामान्यसाध्याम् अर्थक्रियामनाकल्य्याभिहितम् तत्रैव [३६.१३] इत्यादि | इदानीं तु तत्साध्याम् अर्थक्रियामाकाल्य्योक्तम् -- नैव वे[३६.१४]ति | कस्माद् एवाम् इत्य् आह -- तद्विषये[३६.१५]ति | तत्सिद्धय एव प्रवर्तयिष्यतीति आह विकल्पे[३६.१६]ति | तत्सि२द्धे[३६.१४]र् अभिन्नज्ञानलक्षणाया अर्थक्रियाया निष्पत्तेः | सामार्थ्याच् चाभिन्नाभिधानलक्षणायाश् चेत्य् आभेदम् (श् चेत्य् अपि वेद्यम्) |
SK
ननु ततः प्रमेयान्तरविषयोपि प्रत्ययस् तद्विषये प्रवर्त्तयन्निष्पादितस्वविषयार्थक्रियो वा क्वचित् प्रवर्त्तयन् प्रामाण्यम् अपि प्राप्स्यतीत्य् आह -- नही[३६.१६]त्यादि | प्रत्यया [३६.१७] इत्य् अत्र बहुवचनेन साकल्यं दर्शयति | साधिता निष्पादिता अर्थक्रिया [३६.१८] | {प्. २९०} स्वविषयार्थक्रि३या येषान्ते तथा, तेषां क्वचिद् अपि [३६.१९] न प्रवर्तयन्तीति पूर्वकेणाभिसम्बन्धः | विशेषेण [३६.१९] विशेषेष्यैव यैर् मीमांसकैर् एवं व्याख्या[य]ते [३६.१९] तेषां मत इति सामार्थ्यात् | द्व्यात्मकस्य [३६.२१] सामान्यविशेषात्मकस्य | विज्ञानाभिन्नहेतुत्वाद् इच्छादेर् विज्ञानात्मकं(कत्वं) सिद्धम् अभिप्रेत्य प्रामाण्यानुषङ्गः कुतो(कृतो) वेदितव्यः | प्रमाणानामियत्ता [३६.२६] व्य४वच्छेदः |कुमारिलमतेन प्रत्यक्षानुमानोपमानार्थापत्तिशाब्दाभावाः षड् एव प्रमाणानीत्य् एवंरूपा विशीर्येत [३६.२७] त्रुट्येत् | धारया प्रवाहेन वहनशीलानि [३७.१] भवनधर्माणि | अनेकान्तस् तदभिन्नयोगक्षेमत्वलक्षणो हेतुर् इति प्रकरणात् | एकस्मिन्न् अर्थे सजातीयानि सजातीयविजातीयानि वा५ प्रमाणानि संप्लवन्ते प्रवर्त्तन्त इति वादी [३७.५] | प्रतिक्षणं [३७.७] भिद्यत [३७.८] इति सम्बन्धः | केषां क्षणिविशेषे(ष)साध्ये ऽर्थे वाञ्छा भवति | यद्य् अस्मदादीनां तथार्थादर्शित्वाद् एव न संभवतीत्य् आह योगिनामि इ[३७.११]ति | योगश् चित्तैकाग्रता स येषाम् अस्ति तेषाम्, नित्ययोगे प्रशंसायां वाय[मि]निर्द्रष्टव्यः | शमथविपश्यने वा योगस् तद्व६ताम् | ननु तेषां स्वार्थासंभवात् किम् अभिप्रेत्यास्मिन् वाञ्छा भवतीत्य् आह -- परे[३७.११]ति | अथ परोपकारिणः परेषाम् एवोपकुर्वन्तु कस्मात् पुनः क्षणविशेषसाध्यम् अर्थं प्राप्तुं परिहर्त्तुं वाभिलषन्तीत्य् आह कस्यचिद् इ[३७.१२]ति | कस्यचित् क्षणविशेषसाध्यस्यार्थस्य कथं चित् साक्षात् पारंपर्येण वोपयोगाद् उप[३७.१२]युज्यमान७त्वात् | क्वचित् [३७.१२] प्राणिनीति प्रकरणाद् अवसेयम् | अनेन परोपकाराङ्गत्वं तस्य दर्शितम् | तदा [३७.१२] नानायोगक्षेमत्वम् इति सम्बन्धनीयम् | तदेत्य् अत्रच्छेदो व्यक्त एव | एतद् एव निदर्शयन्न् आह -- यथे[३७.१२]ति | सामान्योच्छेदस्यार्थस्य विषयोपदर्शने यथैतद्दर्शितम्, तथान्यद् अपि द्रष्टव्यम् इति यथाशब्दस्यार्थः |
SK
भावनामार्गव्युदासेन[६०]दर्शनमार्ग [३७.१२] इत्य् उ८क्तम् | दुःखे धर्मज्ञानक्षांतिः, दुःखे धर्मज्ञानम् | दुःखे ऽन्वयज्ञानक्षांतिः, दुःखे अन्वयज्ञानम् | समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम् | समुदये ऽन्वयज्ञानक्षान्तिः, समुदये ऽन्वयज्ञानम् | निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम् | निरोधे ऽन्वयज्ञानक्षान्तिः, निरोधे ऽन्वयज्ञानम् | मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञान[म्] | मा[२१अ] १र्गे ऽन्वयज्ञानक्षान्तिर् इत्य् एवं पञ्चदशक्सणा दर्शनमार्गः तदुक्तमभिधर्मकोशे ᳚अदृष्टदृष्टेर् दृङ्मार्गस् तत्र पञ्चदशक्षणाः᳚ [AK. ६.२८] इति | तस्मिन् दर्शनमार्गे फलभूताः पञ्चसंक्लेशस्कन्धाः | दुःखाख्यं सत्यम् | {प्. २९१} तस्मिन् दुःखे धर्मज्ञानक्षान्तिः [३७.१३] स्वरूपज्ञानयोग्यता | दुःखसाक्षात्संका(क्षात्का)रिज्ञानोपजननयोग्यः कुशल इति यावत् |
SK
__________NOTES__________
SK
[६०] अत्र विशेषार्थिना विसुद्धिमग्गो ऽनुसतव्यः पृ. ३५९ |
SK
स क्षणः किं करो२तीत्य् आह |[६१]दशानाम् इ[३७.१३]ति | राग-प्रतिध-मान-अविद्या-विचिकित्सा पञ्च, सत्कायदृष्टि-मिथ्यादष्टि-अन्तह्राहदृष्टि-दृष्टिपरामर्ष-व्रतपरामर्षलक्षणा दृष्टयः -- दशानुशयाः एषाम् वासनां निरोधयति [३७.१३] विनाशयति | कथं करोतीत्य् आह | तद्विरुद्धे[३७.१४]त्यादि | तैर् अनुशयैर् विरुद्धो ऽयम् आशयश् चित्तसंतत्यवस्थाविशेषस् तस्यो३त्पादनात् | दुःखे धर्मज्ञानक्षान्तिक्षणस्यार्थक्रियाम् उपदर्श्य दुःखे धर्मज्ञानक्षणस्य ततो भिन्नाम् अर्थक्रियां दर्शयितुम् आह -- दुःख [३७.१४] इति | दुःखे धर्मज्ञानं [३७.१४] दुःखस्वरूपसाक्षात्कारि(र)प्रवृत्तज्ञानम् | निर्वाणं [३७.१५] मोक्षः प्राप्यते अनयेति व्युत्पत्त्या, निर्वाणस्य प्राप्तिर् यस्माद् इति व्युत्पत्त्या वा तावत् क्लेशविविक्तता निर्वाण४प्राप्तिशब्देनोक्ता | दर्शनमार्गप्रहेयाणां द्वात्रिंशतः क्लेषानां मध्ये ऽनेन दशानां एव क्लेषानां वि(नि)रोधाद् दग्ध(द् दश)क्लेशविविक्ततानाततस्यात् पादनात (?) समुदयादिज्ञानादिप्रहातव्यक्लेशप्रहाणिप्रतिरूपा निर्वाणभावस्य दवीया(यः) सिद्ध्यवस्थानाद् अन्यथाइतद् असमंजसं स्याद् इति | अथवा निर्वाणशब्देन नैवार्चटःपरमनिःश्रयसात्मने यद् एवम् ऊचे किंत्ववान्तरनिःश्रेयसं तथाभूतम् इति न किञ्चिद् अवद्यम् | कथं तथाकरोतीत्य् आह अनुशयति [३७.१५] | सति तस्मिन् मनागपि ते पुनर् नोत्पद्यन्ते | अपि तु तद्विविक्त एव क्षणप्रबन्ध इति तदा सुदार्ड्ःयापादनं तस्याधीसयम् (?) | पूर्वकेन च क्षणेन क्लेशा निष्क्लेशिता उत्तरेण तु यथा ते६ पुनर् न प्रविशन्ति, तथा आचरितम् इत्य् अनयोर् व्यापारप्रयोजनम् | अतएवाभिधर्मकोषे ᳚चौरनिष्काशनपाटपिधानवद्᳚ इति (AK ६.२८ Bह्) दर्शितम् | दुःखे धर्मज्ञानक्षान्तिधर्मज्ञाने च कामावचरक्लेशप्रतिपक्षतया ज्ञातव्ये दुःखे धर्मज्ञानक्षान्तिधर्मज्ञानयोर् उदाहरणा(ण)दिङ्मात्रत्वेन अन्येषाम् अपि तथा विवि७क्तत्वाद् एषाम् इ[३७.१६]ति बहुवचनेनाह ग्राहकाण्यालम्बकानि | कानि पुनस् तानि ग्राहकाणीत्य् आह परे[३७.१६]ति | परचित्तविषयाणि ज्ञानानि परचित्तज्ञानानि [३७.१६] |
SK
__________NOTES__________
SK
[६१] दमानां S इति त्व् असम्यक्
SK
एतद् उक्तं भवति | दर्शनमार्गम् अधिगच्छतो दुःखे धर्मज्ञानक्षान्त्यादिक्सणाः | क्रमभाविनः क्रमभाविभिर् ज्ञानैर् योग्यंतरेण यद् आलम्ब्यते परार्थोद्देशेन तथा तद्विषयाणि त८द्योगान्तरज्ञानानि पृथग् एव [३७.१६] पूर्वपूर्वज्ञानाद् भिन्नान्य् एव प्रमाणानीति दर्शनमार्गाधिगन्तृक्षणविषयाणां योगिज्ञानानां पृथग् एव प्रामाण्यम् इति प्रतिपाद्य संप्रति सामान्येनैव योगिज्ञानानि भिन्नार्थक्रियासामर्थ्यक्षणविषयाणि सर्वाण्य् एव प्रमाणानीति प्रतिपादयिष्यन्न् आह -- परहिते[३७.१७]त्यादि | {प्. २९२} भगवताम् [३७.१८] अध्यक्षचेतसां नानायो [२१ब्] १गक्षेमत्वात् [३७.२१] | पृथग् एव प्रामाण्यम् इति शेषः प्रकरणलभ्यं वा | अधिकरणे चेयं षष्ठी | तेन भगवत् सम्बन्धीनि यान्य् अध्यक्षचेतांसि साक्षात्कारप्रवृत्तानि ज्ञानानि तेषाम् इत्य् आर्थः | किंभूतानां भगवताम् इत्य् आह सर्वे[३७.१९]ति | सर्वभावान् भावनाबलजेन ज्ञानेन प्रतिक्षणमी[६२]क्षमाणानां [३७.२०] पश्यताम् | कथं तेषां नानायोगक्षेमत्वम् इत्य् आह तद्विषये[३७.२०]ति | तेषां भगवत् स२म्बन्ध्यध्यक्षचेतसां [३७.२०] ये विषयाभिन्नाः क्षणास् तषां भिन्नास्वर्थक्रियासूपयोगतो [३७.२१] व्यापारात् | अनेन विषयस्य तथात्वाद् विषयिणस् तथात्वम् उक्तम् अवसेयम् | कस्मात् पुनस् ते प्रतिक्षणं भावान् वीक्षन्त इत्य् आह -- कश्चिद् एवे[३७.१८]ति | इतिः [३७.१९] हेतौ | अनुग्राहकविबन्धकानुरूपम् आचरितुम् इत्य् अर्थाद् एव स्थितम् |
SK
__________NOTES__________
SK
[६२] -क्षणं वीक्षमाणानां -- S
SK
ननु तथापि सिद्धार्था भगवन्तः स्वार्थमणी३यांसम् अप्य् अपश्यन्तः कस्यचित् क्षणस्य कस्यचित् प्राणिनो ऽनुग्राहकत्वे विबन्ध[क]त्वेपि कस्माद् भावान् प्रतिक्षणं वीक्षन्त इत्य् आशंक्यतेहे(क्य हे)तु भावेन भगवद् विशेषणपदम् आह परहिते[३७.१७]ति | परस्मै हितमायति पथ्यं तस्याधानं करणम् | तस्य दीक्षा अनुष्ठेयम् एवैतद् इति नियमस् तद्वताम् | नित्ययोगे चायं मतुप्४ | ज्ञानम् एव सदसद्विवेककरणाद् आलोक इवालोकस् तेनावभासित उद्योतितो ऽन्तरात्मा येषान् तेषाम् [३७.१८] अन्तरात्मेति लोकभाव(न)योक्तं परमार्थ(त)स् तु तथाभूतज्ञानाव् अलोकवताम् इत्य् अर्थः |
SK
अशब्दविषये प्रथने वाच्ये वेः परात्स्तृणातेर्घञो ऽभावाद् वस्तुविस्तर इत्य् असाधुर् अयं प्रयोग इति ५चेत् | तत् तु नातिश्लिष्टम् | यतः सूत्रे प्रथनं विस्तीर्णत्वम् अभिप्रेतम् | तद् आहकाशिकाकारः᳚प्रथनं विस्तीर्णता᳚ इति | न चात्र विस्तरशब्देन वस्तूनां विस्तीर्णत्वम् अभिप्रेतम् अपि तु बाहुल्यं यथा तृणस्य विस्तर इत्य् अत्र | अतएव ᳚प्रथन इति किं? तृणविस्तर᳚ इति प्रत्युदाहृतम् | अस्य चार्थंभागवृत्तिकारोपि अञ्जसा६व्य(सा व्या)ञ्जीत् ᳚तृणस्य विस्तरो बाहुल्यम् इत्य् अर्थः᳚ | तत् कथम् अप्रथने वर्त्तमानाद् अस्माद् धातोर् घञ् भवितुम् अर्हतीति | अतएवप्रज्ञाकरगुप्तोपिवार्तिकालङ्कारस्यादौ ᳚प्रायः प्रस्तुतवस्तुविस्तरभृतो नक्षन्त एवोच्चकैर् वक्तारः᳚ इत्य् अवोचद् इति |
SK
किं सर्ववेदिनो ऽधिकृत्य भवतायं हेतुर् अनेकान्त उच्यते, अ७थास्मदादीन् इति विकल्पयोर् बुद्धिस्थीकृतयोः पूर्वस्मिन् विकल्पे प्रतिसमाधायापरस्मिन्न् अपि प्रतिविधातुकामः तद् यदी[३७.२१]त्यादिनोपसंहर्तुम् उपक्रमते | क्षणानां विवेकः पृथक् त्वं तद् द्रष्टुं शीलं येषां तान् अधिकृत्यो[३७.२१]द्दिश्य उच्यते |
SK
{प्. २९३} प्रकरणात् ᳚पूर्वेणाभिन्नयोगक्षेमत्वाद्᳚ इति हेतुर् अनैकान्तिक इत्याख्यायते | तदा ᳚नानेकान्तः स हेतुर्᳚ इति ८प्रकरणात् | विपक्षगमनाभावाद् इति भावः | अथे[३७.२३]ति पक्षान्तरम् उपक्षिपति | संव्यवहारः प्रवृत्तिनिवृत्तिलक्षणम् अनुष्ठानं प्रयोजनं येषां तान् [३७.२३] | परमार्थतो भेदकारणम् उक्तम् अन्यान्यकारणतये[३८.५]ति | तत्राद्य एव प्रमाणम् | न सम्यञ्चो ऽपि पराञ्चः प्रत्यया इति समर्थयितुं तथाही[३८.८]त्यादिनोपक्रमते | तत्साधन[३८.८]म् अर्थक्रियासाध[२२अ] १नं तस्य प्रापणं तत्र समर्थे [३८.९][६३]अक्लीवाविद्यमानविप्लवा धी[३८.१०]र् येषाम् ते तथा तेषां प्रेक्षापूर्वकारिणाम् इत्य् अर्थः अर्थस्य क्रिया निष्पत्तिस् तस्याः साधनं निष्पादकं तस्य भेदोभिन्नत्वात् | संधुक्षण [३८.१६] संदीपनमादिशब्दात् पवनस्वेदनादिपरिग्रहः |
SK
__________NOTES__________
SK
[६३] ᳚अक्लीवधियां᳚ इति आलोकसंमतः पाठः | ᳚अविक्लवधियां᳚ इति S यद्य् एवम् इ[३९.१८]त्यादि यच् चोद्यम् | तथाही[४०६?]त्यादि प्रत्यक्षं प्रमाणम् अभ्रान्तम् इत्य् उक्तं भवतीति वक्त४व्यम् | अनन्तरोक्ताद् एव कारणकलापात् | प्रत्यक्षलक्षणानुक्तौ च प्रत्यक्षस्यैवानभिधाने परोक्षप्रतिपत्तेः सर्वस्या अनुमाने ऽन्तर्भावप्रदर्शनेपि कथं प्रमाणद्वैतमाख्यातं भवति? दर्शनम् एव प्रमाणम् इत्याख्यानाच् च नाज्ञानम् इन्द्रियादि प्रमाणम् इति दर्शितं भवति | भिन्नायास् तु प्रथमायाः कथम् अपाक५रणम्? किं च मुख्यवृत्त्या यद् उद्दिश्य शास्त्रं प्रवर्तते तद् अर्थं तद् उच्यते | न तु सामर्थ्यानुषंगतो वा यद् व्युत्पादयति तद् अर्थं तद् उच्यते | न च प्रत्यक्षव्युत्पादनाभ्युपगमेपि मुख्यवृत्त्या तद्व्युत्पादने प्रवृत्तम् इदम् इति कथं सामान्येन सम्यग्ज्ञानव्युत्पादनार्थम् उच्यते | अन्यथा अनुमानव्युत्पादनार्थत्वेपि तस्य सामर्थ्याद् अनु६मानाभासप्रतिपादनम् अनुषङ्गतो विकल्पस्य धारावाहिनाञ् च पराञ्चा(पराचां)विकल्पज्ञानानां प्रमाणाभासत्वप्रतिपादनम् अस्तीति अनुमानतदाभासव्युत्पादनार्थम् इति प्रमाणाप्रमाणव्युत्पादनार्थम् इति वा किं नोच्यते? यद्य् अ(यद)प्य् अन्यत् सम्यग्ज्ञानव्युत्पादनार्थम् अभिप्रेतम्, तत्रापि कल्पनाप्रवृ(भृ)तोर् मिथ्याज्ञानस्यापि७ प्रसंगतो व्युत्पादनम् अस्तीति तद् अपि सम्यग्ज्ञानव्युत्पादनार्थम् इति किं नोच्यत इति यत् किञ्चिद् एतत् | तथा यद्य् अनुमानतस् तथाभूतस्य निश्चयात् तस्य प्राधान्यम् उच्यते, तदा प्रत्यक्षतो धर्मिग्रहणं व्याप्तिग्रहणञ् चान्तरेण नानुमाने प्रवृत्तिर् अस्तीति तस्यापि किं न प्राधान्यम् उच्यते? न च तस्यापरभावात् प्राधान्यकल्पना ज्यायसी | कि८ञ् च तद् अपि तत्त्वे निश्चायकम् अनुमानं समस्ततत्त्वनिश्चायकसाक्षात्कारप्रवृत्तप्रत्यक्षाङ्गम् उपसर्जनम् | तद् एतभूयेयं (?) प्रधानं भवितुम् अर्हतीति कथं विपर्यस्तास् तत्त्वविदः |
SK
अपि च स्वसंवेदनं प्रत्यक्षाम् अन्तरेण सर्वथा न कस्यचित् तत्त्वव्यवस्थानम् इति तस्याइव प्राधान्यं किं न कल्प्यत इति | स हि मिथ्याज्ञानं प्रत्यक्षस्य विषयो [२२ब्] १यत(त्र) तेनानुरूपो निश्चयो जनितः न च तत्र विवादः संभवति येनानुमानात् तन्निश्चयः पार्थ्यते | {प्. २९४} अथोत्तरकालभाविनः संशयस्यानुमानतो निरासात् तस्य तथात्वम् उच्यते | तर्हि प्रत्यक्षस्यातिशयेन तद्वाच्यम्, तत्संशयोनो(यानु)त्पादस्य प्रत्यक्षनिबन्धनस्य बहुलम् उपलम्भात् | अथ तदा तत्प्रत्यक्षं गृहीतग्राहितया न प्रमाणव्यपदेशयोग्यं सत्सशयं निरस्य२ति अनुमानम् अपि तथैवेति किम् अनेनोक्तेन? न च क्षणिकत्वादि प्रत्यक्षस्य विषयो येनानुमानतस् तन्निश्चयात् प्राधान्यं तस्य कल्प्येतेत्य् अलं बहुना | प्रत्यक्षस्यापि पटुनः प्रवर्तकत्वात् किं न प्राधान्यं? नहि योग्यता योग्याद् वस्तुनो ऽन्या या परोक्षा सती तेन निश्चेतुम् अशक्यान्येन निश्चीयेत तन्निश्चायकं तज्ज्ञानम् अन्यत् प्रमाणं सद् अनुमानं स्यात् | किन्तु ३योग्यम् एव वस्तु योग्यता, यथा च प्रत्यक्षस्यार्थस्यैकप्रकारा प्रतिपत्तिस् तथाचार्येण स्वयम् एवान्यत्र दर्शितम् | अथ यद्य् अपि योग्यता योग्यवस्तुस्वभावा तथापि परोक्षफलसव्यपेक्षा परोक्षेति | ननु फलस्य परोक्षत्वे सा किं परमार्थतः परोक्षा किं वा परोक्षकल्पा? तत्र यदि परोक्षंमते (?) परोक्षैव तदा प्र४त्यक्षपरोक्षयोर् एकात्मतानुपपत्तेर् भिन्नैव स्यात् | यथामीमांसकानांकार्यार्थापत्तिसाधना | अथ परोक्षैव; कथं पुनः प्रत्यक्षस्वभावा परोक्षैव | तन्निश्चयस्य कर्तुम् अशक्यत्वाद् इति चेत् | यदि नामाभ्यासात् पूर्वं निश्चेतुम् अशक्या तथाप्य् अभ्यासदशापन्नेन पटीयसा प्रत्यक्षेण स्वतो ऽपसारितभ्रान्तिनि५मित्तेन किं न निश्चीयते? फलम् अपि तस्य दाहादि नात्यन्तपरोक्षम् अन्यत्र तत्कृतस्य तस्यानेकशो ऽनुभवात् | अत एवाभ्यासेन तत् पटुतरं जातम् | नत्वम् अभ्यु(न तु अभ्यु)दयादि दानचेतनादिकार्यत्वेन निश्चितं केनचिद् येन तत्राप्य् अभ्यासात् तथानिश्चयः स्यात् | यावत् आत्यन्तपरोक्षम् एव | अतस् तदपेक्षया दानचेतना६शक्तेर् अनिश्चयो युक्तः | तद् अयम् अर्थो येनासकृद् वह्न्यादेर् दाहाद्यनुभूतं स तदा फलस्य परोक्षत्वेपि दाहादिजननयोग्यम् एतद् इति प्रत्यक्षेण निश्चिनोत्य् एव | यथा चानभ्यासावस्थायां पूंसः कृत्तिमाकृत्तिममुक्तादिप्रतिपत्तेः परोपदेशापेक्षणात् स्वतो ऽसंभवेपि सत्य् अप्य् अभ्यासे स एव पुरुषः पुरुषा७न्तरनिरपेक्षो मुक्तादेः कृत्तिमादिरूपतां स्वयम् एव प्रतिपद्यते | तथानभ्यासावस्थायां स्वतस् तद्योग्यतानिश्चयेपि अभ्यासादितः पटिमप्रत्यक्षं स्वयम् एव तद्योग्यं निश्चाययिष्यतीति किं नानुमन्यते | आह चात्रभर्तृहरिः᳚मणिरूप्यादिज्ञानं तद्विदां नानुमानिकम्᳚ इति | किञ् च न व्याप्तिस्मरणम् अन्तरेणानुमानं प्रवर्तते | न चाग्न्या८दि वस्तु दृष्ट्वा तत्साध्यार्थक्रियावाञ्छया प्रवृत्तौ यद् यद् एवम् अर्थक्रियाकारि यथा महानसादि दृष्टं तद्वस्त्व् इति प्रवृत्तौ(त्तेः) प्राग्व्याप्तिस्मरणं सत्य् अवादिना वदितुं शक्यत इति कथं तत्रानुमानस्य प्रवर्तकत्वकल्पना न साहसम् | अतश् चैवं यतस् ताद्रूप्यावसाये प्रत्यक्षं नानुमानसापेक्षमनवस्थाप्रसक्तेः | यथा च तस्य पाटवं ताद्रुप्यनिश्चये [२३अ] १चरितार्थम् उपवर्णनीयम्, तथा योग्यतानिश्चये किं न वर्ण्यत इत्य् अलम् अतिविस्तरेण |
SK
यत् तु तच् चानुमेयतां नातिपतति [४०.१९] तत् स्वपरसंतानवर्तिनीर् बुद्धीर् अधिकृत्योक्तम् ᳚अन्यत्रानुभूतविषयेभ्य᳚ इति वचनाद् इति | अत्र च सर्वत्र समाधानं धीमद्भिर् एव विधेयम् |
SK
{प्. २९५} आत्मा (?) साध्यसाधनभावो [४१.२०] गम्यगमकभावः | कृतकत्वादौ पारमार्थिकं [४१.२४] साध्यसाध२नयोर् धर्मिणिश्चभेदं [४१.२४] भिन्नं रूपं नालम्ब[ते] नाश्रयते | कुतो नालम्बत इत्य् आह सम्बन्धे[४१.२५]ति | परमार्थभिन्नानाम् अकार्यकरणभूतानां सम्बन्धाभावे तथात्वाभावप्रसंगात् | एकस्मिन्न् अर्थे द्वयोः समवाय एकार्थसमवायो [४१.२६]त्र विवक्षितः कृतकत्वानित्यत्वे [४१.२६] आदी यस्य तस्य | कृतकत्वम् आदिर् यस्य सावयवत्वादेः साधनधर्मस्य | अनित्यत्वम् आदिर् यस्य३ सावयवत्वादेः साध्यधर्मस्य | तस्ये[४१.२७]ति समवायस्य | अत्रैवापेचयहेतुम् आह समवायाद् इ[४२.२]ति |[६४]आदि[४२.३]शब्दाद् अकाशदिक्कालमनःपरमाणूनां संग्रहः | कथं पुनः कृतकत्वादेः शब्दादौ वृत्ताव् आत्मादिव्र्त्तिर् आसंज्यत इत्य् आह | य एव ही[४२.३]ति | तस्य [४२.५] समवायस्य | ᳚न च संयोगवन्नानात्वं भाववल्लिङ्गाविशेषात् विशेषलिङ्गा४भावाच् च तस्माद् भाववत् सर्वत्रैकः समवाय᳚ [Pरश.Bह्. प्र्. १७२] इति वचनाद् एकत्वेनाभ्युपगमः | अथापि स्यात् न समवायाद् वृत्तिर् अपि तु समवाय एव वृत्तिर् इति तद् अप्य् अवद्यम् | संबन्धाभावेन भावोयं व्र्त्तिर् इति कल्पनाया अयोगात् | संबन्धान्तरकल्पनायाञ् चानवस्थाप्रसंगात् | यदि च समवायस् तस्य व्र्त्तिर् आत्मादिष्व् अपि तस्य भावात्५ कथं न तस्य वृत्तिर् इति तदवस्थो दोष इति | अथ[४२.६]शब्दः पक्षान्तरम् अवद्योतयति | एतस्मिन्न् उपगमे गड्डप्रवेशे ऽक्षितारानिर्गम्वृत्तान्तो जात इति दर्शयन्न् आह सैव तर्ही[४२.८]ति |
SK
__________NOTES__________
SK
[६४] पुर्वत्र शंकाचिह्नितं ᳚आत्मा (?)᳚ इति पदं अत्रत्यम् सम्भवति
SK
अभूत्वा यो न भवति भूत्वा च [न] विनश्यति स तद्विपरीतरूपस् तस्य यः समारोपस् तस्य व्यवच्छेदः स विषयो [४२.९] यस्यास् तस्याः | सा किम् अ६वश्याभ्युपगमनीया येनान्यस्योपगमो निषिध्यत इत्य् आह सैवेति [४२.८] | परमार्थेन भेदो धर्मिणा सहेत्य् अर्थात् तद्वतोः परमार्थभेदवत्त्वञ् च पराभिप्रायेणोक्तं द्रष्टव्यम् | धर्मिणि [४२.११] शब्दादौ | तद्धर्मतानपेक्षायान्तु नित्याभिमतेष्व् अपि तौ वर्तेयाताम् इति भावः | उत्पत्तिविनाशधर्मतायाः कल्पनाबुद्धेश् चान्तराले घाटामस्तकान्तरालवर्तिमांसपिण्डापरनाम गडुर् इव गडु[४२.११]र् निष्फलत्वात् तेन | व्यतिरेको भेदस् तद्वता [४२.१२] |
SK
अयम् अभिसन्धिः | यदि कृतकत्वादयो धर्मा व्यतिरेकिणस्तव धर्मिणि प्रमाणसिद्धाः स्युस् तदा सत्याम् अपि तस्य वस्तुनस् तथातायामजागलस्तनवदनुपयुक्ता अपि केन नाम नाभ्युपगम्येरन् | वस्तुस्वभावाना८म् अपर्यनुयोज्यत्वात् | केवलं तद् एव प्रमाणसिद्धत्वं न संभवति प्रत्यक्षप्रमाणवाधितत्वम् एव लक्ष्यत इति |
SK
{प्. २९६} अथ किं कल्पनानिवेशिनः कृतकत्वादयो धर्माः साध्यधर्मम् अवबोधयन्ति येनावश्याभ्युपगमनीत्याया(नीयाया) उत्पत्तिविनाशधर्मताया एव तथाविधबुद्धिनिबन्धनत्वात् किम् अन्येनेत्य् उच्यत इत्य् आशंकायाम् अभ्युपगम [२३ब्] १एवोत्पत्तिर्(वोत्तर)म् इत्य् अभिप्रायवान् आह तथाही[४२.१२]त्यादि | सत्तामात्रेण [४२.१२] तन्निश्चायकज्ञाननिरपेक्षेण स्वरूपेण वस्तुन उत्पत्तेः प्रभृति सर्वदेति वेदितव्यम् | अनवरतं [४२.१४] सततं तद्धर्मस्य साध्यधर्मस्य प्रतीतिस् तस्याः प्रसङ्गात् [४२.१४] | कथं नाम ते तत्प्रतीतिनिबन्धनं भवतीत्य् आह किंत्व् इ[४२.१४]ति | ननु वस्त्वसंस्पर्शित्वे विकल्पस्य कथं वस्तुनः कृतकत्वादिरूप२ताप्रतीतिर् इत्य् आह स चे[४२.१५]ति | चो यस्माद् अर्थे | तद्रूपस्य [४२.१७] कृतकत्वादिरूपस्य वस्तुनो ऽसंस्पर्शेप्य् अग्रहणेपि | तदग्राहिणः कथं तदध्यवसाय इत्य् आह परम्परये[४२.१७]ति | तदुपादानत्वात् [४२.१८] कृतकत्वात् कृतकत्वादिरूपबाह्योपादानत्वात् | तस्य विकल्पस्येति प्रकरणात् | ननु च न कृतकत्वादयो धर्मास् तथाविधबुद्धिनिबन्धनत्वेनेष्यन्ते किन्त्व् अ३र्थक्रियाकारितया, तत् कथं तथाविधविकल्पः स्याद् यतः प्रसवेत् (विकल्पस्य ततः प्रसवः) | तस्य तस्य धर्मस्य वैयर्थ्यम् इत्य् आह तद्व्यतिरिक्तास् त्व् इ[४२.१८]ति | तु शब्दो यस्माद् अर्थे | तस्माद् अभूत्वाभवनधर्मणो भूत्वा चाभावनधर्मणो धर्मिणो व्यतिरिक्ता अन्ये तस्याः कल्पनाबुद्धेर् उत्पत्तिस् तस्या निमित्तं केवलं निमित्तमात्रम् [४२.१८] तद्भावस्तया | एतद् उक्तं४ भवति यदि कृतकत्वादि(दिः) धर्मिणो ऽन्यो न स्यात् तर्हि कृतकादिबुद्धिर् अनुभवसिद्धा निर्निबन्धना स्यात् | न चैवम् अतो ऽस्त्य् एतद्बुद्धिकारी कृतकत्वाद् इति (दिर् इति) तत्कल्पना | ततश् च तन्मात्रकारित्व(त्वं) परिकल्पनीयं साधीयः | तथापि तथाविधाद् भावाद् अन्ये ते तन्निबन्धनं कल्प्यंताम् इत्य् आह तद्वरम् इ[४२.१९]त्यादि | यस्माद् एवम् अनन्तरोक्तं तत्५ [४२.१९] तस्मात् | तस्य कृतकत्वादेर् या कल्पना | ᳚अत्रैवेदं कृतकत्वादि नात्मादिषु᳚ इत्य् एवंरूपा तस्या यन्निबन्धनम् अभूत्वाभवनधर्मतादि तद् एव तथाविधविकल्पप्रसवनिमित्तं वरम् अस्तु [४२.२०] | हेतुम् अस्यानिष्टेर् आह तस्ये[४२.२०]ति | अस्तु तदभ्युपगमस् तथापि कथं तस्य वैयर्थ्यम् इत्य् आह | तदभ्युपगमे चे[४२.२१]ति | चरितार्था [४२.२१] अन्येन निष्पादितप्रयोजना व्यतिरेकवन्तः [४२.२१] तद्व्यतिरिक्ताः कल्पनानिर्मितास्तु ते संतु | तत्र [न] काचिद् बाधेति चार्थात् सूचितम् |
SK
स्याद् एतत् -- यदि व्यतिरिक्तानित्यतादिधर्मयोगेपि वस्तुन एवावस्थायित्वादिरूपं व्यवहर्तारः प्रतिपादयन्ति, तदा तस्य भूत्वाभवनधर्मताद्युपगमे तदुपगमे च तस्यैतद्बुद्धिनिबन्धनत्वस्य युज्यमानत्वाच् चरितार्था व्यतिरेकिणो धर्मा त भ(धर्मा भ)वेयुर् यावता व्यतिरिक्तानित्यतादिभावे तद् एव व्यवहर्तारः प्रतिपद्यन्ते | तत् कथं यद् एव तत्कल्पनानिबन्धनम् इत्याद्युच्यमानं परभागं पुष्णातीत्य् आशंक्याह अवश्यञ् चे[४२.२२]ति | {प्. २९७} चो यस्माद् अर्थे | व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे वा | अनित्यताग्रहणं चोपलक्षणं तेन कृतकत्वादाव् अपि यथा८योगम् एव तत्प्रत्ययं प्रतिपद्यन्ते [४२.२३] निश्चिन्वन्ति | कृतकत्वाद् अनित्यतामतमन्धन्त(ताम् अनुमिन्वन्त) इति प्रकरणात् | कस्माद् अवस्त्वात्मानं ते तथा प्रतीयन्तीत्य् आह तस्माद् अनवस्थायीस्वभावस्यानुरूपा समीचीनोचिता या अर्थक्रिया तदर्थितया प्रवृत्तेः [४२.२४] प्रवर्तनात् | तेषाम् अनुमातॄणाम् इत्य् अर्थात् | अत्र विपर्यये बाधकम् आह अन्यथे[४२.२४]ति | व्यतिरि[२४अ] १क्तानित्यतायां सत्यां नित्यत्वात् [४२.२५] स्थिरत्वात् तस्य शब्दादिवस्तुनः प्रस्तावात् | नित्यत्वादि[४२.२५]ति ब्रुवाणस्यायम् आशयो भिन्ननित्यतायोगेपि वस्तुनो नान्यथात्वं तस्यास् तत्राकिञ्चित् करत्वात् | किञ्चित्क्रियायां वा भेदाभेदादिदोषानुषङ्गात् | भेदेपि ततो व्यावृत्त(व्यावर्त)मानस्य तस्याकाशादेर् इव नित्यत्वव्यवस्थेति वस्तुनो नित्यत्वाद्धे[४२.२५]तोस् तस्य नित्यत्वस्य २वस्तुनो यो ऽवगमस् तेनार्थि[६५]त्वे न्यायप्राप्ते सति अयम् अनुमाताद् इ(ता अनि)त्य्शब्दादिपदार्थसाध्यार्थक्रियार्थी -- [४२.२५][६६]इतिस् तस्माच् छब्दादिकं नित्यम् आशंकमानः [४२.२६] तद् असंदेहे ऽनुमानायोगात् | तथा सन्दिहानः किं कस्माद् वस्तुनो ऽनित्यताविचारं प्रत्याहितास्थः [४२.२६] कृततात्पर्यार्थः | अनित्यतायास् तद्व्यतिरिक्तत्वाद् तस्य स्थिरात्मतानिश्चयाद् एव३ तत्संशयपूर्वकानित्यताविचारस्यैवायोगाद् इति भावः | [६५] अवगमार्थित्वेन S | [६६] नास्ति S |
SK
व्यतिरिक्तानित्यतयेति क्वचित्पाठः | तत्र नित्यत्वे प्रयोज्ये हेतौ तृतीया प्रत्येया | व्यतिरिक्तायाम् अनित्यतायां वस्तुनस् तथा विचारो न युज्यत इति प्रतिपाद्य दोषान्तरम् अपि तस्यां दर्शयन्न् आह व्यतिरिक्तायां चे[४३.१]ति | तत्रैव प्रतिपन्नायाम् अनित्यतायां न वस्तुन्य् अप्रतिपन्न इत्य् अर्थात् सूचितम् | तद्वारेण [४३.२] व्यतिरिक्तानित्यताद्वारेण | प्रतिपत्ते[४३.२]र् वस्तुनस् तथात्वज्ञानात् | व्यवधीयते वस्त्वनेनानित्यादिनेति व्यवधिस् तेन [४३.४] | व्यवधानं वा व्यवधिस् तेन किम् [४३.३] | अव्यवहितस्यैव भिन्नानित्यतादिव्यवधानशून्यस्यैव वरम् अस्तु प्रतिपत्तिः | विशेष्हे५तुम् आह -- तेनैवे[४३.४]ति | व्यतिरिक्तानित्यताप्रपिपत्ताव् अपि वस्तुनस् तथात्वप्रतीतिः कथं युज्यत इत्यादिदोषशतम् उत्पश्यन् सोत्प्रासम् आह तद् एतद् इ[४३.४]ति | एषो [४३.८]नन्तरोक्तो दोषो न [४३.८] भवति | तत्स्वभावतया [४३.८] हेतुभूतया | कथञ्चि[४३.४]त् केनचिद् रूपेण यो भेदस् तस्योपगमे किञ्चित्कलम् उत्पश्यामो [४३.१०] नोत्प्रे६क्षामहे | यदि कथंचिद् भेदो न स्याद् भेदाधिष्ठानः साध्यसाधनभावः कथम् उपपद्येतोयोनु(द्येतेत्य् आह) साध्ये[४३.१०]ति | अपि [४३.११] न्यायबलायातां संभावनाम् आह |
SK
{प्. २९८} साध्यधर्मस्य साधनधर्मरूपतोपगमे सति भेदोपगमे फलं न किञ्चिद् इति प्रतिपाद्य संप्रत्येकात्मसाध्यसाधनयोर् भेद एव न संभवति | तत् कथं स चे७तनोपगम्येति(गम्य इति) (?) प्रतिपादयन्न् आह न चे[४३.११]ति | कथंचित् केनापि स्वभावेन यो भेदः [४३.१२] कृतकत्वानित्यत्वयोः स न युक्तः | कस्माद् इत्य् आह एकस्माद् इ[४३.१२]ति | येन धर्मिस्वभावेन तयोर् अभेद इष्यते तस्माद् एकस्मात्[६७]स्वभावभेदात् तयो[४३.१२]र् धर्मयोर् इति प्रस्तावात् | येन स्वभावेन तयोर् अ[४३.१३]भेदस् तेनापि [न] भेद एव येनायं दोषः स्यात् | कि८न्तु ततोपि स्वभावात् तयोः कृतकत्वानित्यत्वयोः कथंचिद् भेदाभेदौ न भेद एवाभेद एवे(एव वे)ति | येन स्वभावेनाभिन्नाव् इष्येते तदेकस्वभावाद् अपि भेदवतो[४३.१४]र् भिद्यमानयोः | तेन भेदावधिना स्वभावेन कथञ्चिद् अभेदनिमित्तम् [४३.१४] इति | यद्य् अभेदो नेष्यते तदैकान्तिको भेद एव स्यात् | सति चैवं पूर्वको दोष इति प्रायेणो[२४ब्] १क्तम् || तेनाप्य् अ[४३.१६]भेदनिमित्तेनाभिन्नेन स्वभावेन कथंचिद् भेदनिमित्तम् इति प्रस्तावाद् बोद्धव्यम् | अपरोक्षो ऽभ्यु(रो ऽभ्यु)पगन्तव्यः [४३.२५] | अत्रापि यदि तेन स्वभावेन तयोर् अभेद एव भवेत् तदैकान्तिको ऽभेद एव तदा च कल्पनाव् अभासिभेदनिबन्धनः साध्यसाधनभावः स्यात् तथा चास्मन्मतानुप्रवेशप्रसङ्ग इत्य् आशयो ऽवसेयः | अभेद२निमित्ते भेदनिमित्ते च स्व्भावान्तरे ऽभ्युपगते माभूद् ऐकान्तिको ऽभेदो भेदो वेति पुनस् तथाभूतस्वभावान्तराभ्युपगमो न्यायप्राप्तः | पुनस् तत्राप्य् एवम् इत्य् अभिप्रायवानितिशब्दहेताव् अभिप्रायाह अनन्तैवे[४३.१६]ति (-प्रायवान् आह इत्य् अनन्तैवेति | इति शब्दो हेतौ) | न केवलम् अविकल्पकायां बुद्धावत्य्[६८]आप[४३.१६]शब्दः | परंपरा [४३.१७] परपाटिः | तत्कल्पनया [४३.२८] भिन्नाभिन्नस्वभावकल्पनया विप्रलम्भ३न्ते [४३.१८] विसम्वादयन्ति | दूषान्तरम् अप्य् अत्रोपचिन्वन्न् आह | कथंचिच् चेति [४३.१९] | भेदपक्षभाविना संबन्धाभावेन साध्यसाधनभावायोगाद् इत्यादीनां दोषाणां कथम् अनवसरो [४३.२०]वसरो ऽवकाश एवेत्य् अर्थः | इतोपि भिन्नाभिन्नरूपोभयधर्मासंभव इति संक्षेपेणाह यश् चे[४३.२०]ति | पुरोधाय [४३.२०] पुरस्क्र्त्य विकल्पबुद्ध्या आलम्ब्येति ४यावत् कल्पनाघटितस्य प्रतिषेधात् पारमार्थिक [४३.२४] इत्य् आह | इतिः त्रितयस्याकारं दर्शयति | त्रयो ऽवयवा अस्येति त्रितयम् [४३.२०] |
SK
__________NOTES__________
SK
[६७] स्वभावाद् अभेदात् S | [६८] नास्ति S
SK
प्रकरणम् उपसंहरन्न् आह तस्माद् इ[४३.२४]त्यादि | स चो[४४.१८]क्तरूपो ऽन्वयः | तस्या विरोधाद् अ[४४.२०]नुपपतेः |
SK
{प्. २९९} यथा चायोगस् तथोपरिष्टत् सहकारिपर्वणि निर्णेष्यते |
SK
भवतो ऽस्माद् अभिधानप्रत्ययाव् इति भावः [४५.५] कार्यत्वम् इ[४५.५]त्यादिना तम् एवाभिव्यनक्ति | तद्भदानुविधानम् एव साध्ययन्न् आह चन्दने[४५.२३]त्यादि | ऊर्णा मेषलोम भेदो विशेषः | अनेनैतद् आह -- यद्य् अदृश्यं तस्य करणं स्यात् तत् कथम् अकरणस्येन्धनादेर् भेदम् अनुवि[द]ध्याद् इति | इन्धनभेदानुविधानं धूमस्य प्रतिपाद्य वह्निभेदानुविधानं प्रतिपादयन्न् आह -- अल्पे[४५.२७]ति | अल्पश् च महांश् चाल्पमहान्तौ तौ च ताव् इन्धनविकारौ च तत्कारिणः | प्रातिपदिकग्रहणे न हि तदन्तस्य ग्रहणम् इति | ᳚आन्महतः समानाधिकरण᳚ [Pआ. ६.३.४६] इत्यात्वन्न भवति | तदनुरूपस्या[४५.२७]ल्पमहतो वा धूमस्य दर्शनाद् इति सम्बन्धः | अदृश्यात्मनो ऽग्न्यादिसामग्र्यां नियतं सन्निधान७म् उपेक्ष्याग्न्यादेर् एव कार्यं धूम इति | एतत् साधिकाम् उपपत्तिम् अभिधायाधुना तन्नियतसन्निधानम् एव तस्य न युज्यत इति दर्शयन्न् आह न चे[४५.२८]ति | चो वक्तव्यान्तरसमुच्चये | तस्याग्न्यादेः कार्यं तत्कारणं तद्भावस् तत्ता [४६.१] | तस्यैवादृश्यस्य तदनन्तरं भावान् न धूमः स्याद् इति भावः | चो [४६.३]दृश्यकार्यत्वेन समं धूमादिकार्यस्य तुल्योपायत्वं८ समुच्चिनोति | तस्यादृश्यस्य सत(सतः)तद्भावानुविधानम् | चो ऽवधारणे समान[४६.४]म् इत्य् अस्मात् परोद्रष्टव्यः |[६९]अत्रापि वृक्षेन्धनयोर् अपि तथाभावकल्पनायां तद् एवोत्तर[४६.५]म् इति | तदुपलम्भे प्रगुपलब्धिलक्षणप्राप्तम् उपलब्धम् उपलभ्यत इति | वृक्षादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चिद् इन्धनस्य भाव इति पुनर् अ[४६.६]प्रथमे चोद्ये [२५अ] १परकीय एव[७०]एव वाक्य(वृक्ष)भेदानुविधानाद् इन्धनस्य वृक्षादिसन्निधाने ऽदृश्यात्मनो नियतसन्निधानता युक्ता, प्रतिबन्धाभावात् प्रतिबन्धे [४६.२] चे[७१]त्यादि | वृक्षादिकारणत्वं तस्य वृक्षादेः स्वहेतोर् एव [४६.५] बीजादेर् भावदर्शनाद् इ[४६.५]ति परिहारः | तत्राप्य् अदश्यात्मनो नियतसन्निधेर् इत्यादिचोद्यपरिहारयोर् आभीक्षून्येनानवस्थानात् पर्यवसानं च (नं न) स्यात् | ततश् चै२कस्यापि नियतकार्यत्वं न स्याद् इत्य् आकूतम् | यदि व तस्याप्य् अदृश्यस्य भावे नियतसन्निधान[न]परमदृश्यं कारणं किं न कल्प्यते? न्यायस्य समानत्वात् | तथात्राप्य् एवम् इत्य् अनवस्था न व्यवस्थितः कार्यकारणभवो भवेद् इत्य् अर्थः | अथवा तत्रापि [४६.५] वृक्षादौ तथाभावकल्पनायाम् [४६.५] दृश्यभावकल्पनायां परेण क्रियमाणायां तद् एवोत्तर[३म् इन्धना]देर् वृक्षादिभेदानुविधानात् | न च वृक्षादिसन्निधाने नियतसन्निधानता युक्तेत्यादि | नापि वृक्षादिकारणत्वम् अदृश्यात्मनो वृक्षादेः स्वहेतोर् एव बीजादेर् भावदर्शनद् इति {प्. ३००} च | उत्तीर्यते ऽनिष्टपक्षाद् अनेनेत्य् उत्तरम् एतत् | बीजादिभावे नियतसन्निधेर् इत्यादौ पुनश् चोद्ये [४६.६] च परस्य स एव बीजादिभेदानुवि४धानाद् इत्याद्य् अनंतरोक्तो ऽस्माकं परिहारह् [४६.६] परचोद्यप्रतिविधानम् | अनवस्था [४६.६] चानन्तरं व्याख्यातेति | एतेने [४६.६]न्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनाद् ति वचनसामर्थ्यात्, यस्य यस्माद् भावो दृश्यते तस्य तत्कारणत्वम् इति प्रतिपादितेन | यस्या एव सामग्र्या अग्नीन्धनादेर् उत्पत्तिस् तस्या एव तद्द्र्श्यत्व५म् उपजायत इति | एकसामग्र्यधीनता [४६.७] तयोर् नियतसन्निधाननिमित्तं सापि प्रत्युक्ता प्रत्याख्याता कस्यचिद् भावे विज्ञायमानस्यैव तत्कार्यत्वव्यवस्थासिद्धेः | तद्भावे ऽनुपलभ्यमानस्य तु तत्कार्यत्वकल्पनायाम् अतिप्रसंगाद् इति भावः | अत्रैव वक्तव्यान्तरं समुच्चिवन्न् आह तद् इ[४६.७]ति | तस्यादृ६श्यस्यान्वयव्यतिरेकानुविधानात् [४६.७] | तद् अ[४६.८]दृश्यम् | तच् चा[४६.८]न्वयव्यतिरेकानुविधानम् | निमित्ताभावम् एवावेदयन्न् आह कार्येति [४६.१०] | सत्स्वन्येषु कारणेषु समर्थेषु कार्यम् अभवत्कस्त(वत्त)दुत्पत्तौ कारणान्तरम् अपेक्षणीयं प्रतिपादयति | न तु भवे(व)द् एवेति समुदायार्थः |
SK
__________NOTES__________
SK
[६९] तत्रापि S [७०] स एव S [७१] बन्धे वा S
SK
संप्रति स(त)त्कारणत्वम् उपेत्यापि७ नास्मत्प्रतिज्ञातस्य काचित् क्षतिर् इति प्रतिपादयितुम् आह रूपन्त्व् इति (भवत्व् इति) [४६.१२] |[७२]यतो [४६.१४] वह्न्यादेः कारणत्वहानेः अग्न्यादेर् अन्यस्यापि[७३]भावः [भावे] धूमं प्रति कारणत्वेन कथं न अग्न्यादेः कारणत्वहानिः [४६.१४] | कथञ् च तन्निष्चयेन प्रवृत्तौ न विसम्वाद इत्य् आशंक्याह तस्य (?) | अभ्युपगमनीयदृष्टान्तद्वारेणामुमर्थं द्रढयन्न् आह८ नही[४६.१५]त्यादि | दृष्टस्य कारणस्य हानम् अभावो न ह्य् अकारणत्वेन प्रतीतस्य कारणत्वहानिर् इत्य् अर्थः | तस्य दृष्टकारणस्य कार्यं तद्दर्शनात् [४६.१६] | अतत्प्राप्ति[४६.१६]र् दृष्टकारणाप्राप्तिः प्रसज्यत आपद्यते अनेनेति प्रसङ्गापादनम् अतिशयितः प्रसङ्गो ऽतिप्रसंगस् तेनालं [४६.१६] न किञ्चित् | ननु च तद्भावे भावस् तदभावे ऽभावश् च [२५ब्] १कार्यधर्माव् इमौ तत् कथम् अयम् एव कार्यकारणभाव उत्य् उच्यते | कार्यभाव इति तु युक्तं वक्तुम् इति | सत्यम् एतत् केवलम् एतस्मिन् कार्यधर्मे कथिते कारणधर्मोपि स्वभावे भावो भावनं भावो भावयितृत्वं सत्तयाभिसम्बन्धयितृत्वं स्वाभावे चाभावो ऽभावनम् अभावयितृत्वम् अनुत्पादयितृत्वं यत् तल्लक्षणः सुज्ञानो भवतीत्य् आचार्येणैव२म् उक्तम् अनेनाप्य् एवं व्याख्यातम् | {प्. ३०१} तेनायम् अर्थः -- अर्थान्तरत्वे सति यः प्राग्भावी सो(स्वा)न्वयव्यतिरेकाव् अनुविधापयति तत् कारणम् | यश् च पश्चाद्भाव्यन्वयव्यतिरेकानुविधापनान्व्यव्यतिरेकानुविधानलक्षणः कार्यकारणभाव [४६.२२] इति | यद् वा कार्यकारणभावनिश्चयहेतुत्वाद् अयम् एव तथोक्तः | तथा हि कार्यगताभ्याम् एव तद्भाव३भावतद्(तद)भावाभावाभ्यां तयोः कार्यकारणभावो विभाव्यते | असति कारणत्वे तद्भाव(वा)भावयोस् तद्भावाभावाव् एव न भवेताम् इति | नायम् एवम् अयम् एव कारणभावो नाम अन्य एव द्विष्ठः सम्बन्धो ऽस्तीत्य् आशंक्याह स हीति [४६.२३] | हि यस्माद् अर्थे | ताभ्यां [४६.२३] तद्भावभावतदभावाभावाभ्याम् | स्वरूपे४णास्वीकृतकार्यकारणरूपयोर् अग्निधूमयोः दूषणान्तरम् अन्वचिन्वन्न् आह स्वभावेन चे[४७.१]ति | तस्य [४७.४] अपूर्वस्य रूपस्य तेन निष्पाद्यमानस्य | ततो [४७.४]कार्यकारणरूपाभ्याम् | नहीत्वाय(?)र्थान्तरस्यत्व समर्थनम् (?) | ततस् तस्य ततो [४७.९]र्थान्तरत्वात् | पूर्वके [४७.९] इति कार्यकारणभावसम्बन्धेन क्रियमाणो(माणात्) ५रूपात् प्राग्भाविनी वह्निस् तस्य धूमरूपे (?) तद्भावः [४७.१३] कार्यकारणभावः तयोस् ताद्रूप्येपि कारणबुद्धाव् अस्योपयोगान् न वैयर्थ्यम् इत्य् आह -- कर्ये[४७.१३]ति | अपि [४७.१४] न्यायतः सम्भावनां दर्शयति | कथम् अवसीयते नार्थान्तरनिमित्ते इत्य् आह तस्ये[४७.१४]ति | तस्य तत्सामर्थ्या(तस्य ताभ्याम् अर्था)न्तरस्य तथाविधस्य [४७.१६] तद्विवेकेनाप्रति६भासिनः | अपि [४७.१६] व्यक्तिम् इत्य् एतद् अस्मिन्न् अर्थे | सर्वं सर्वत्र गृहीतम् इतीष्टं धर्मम् अतिक्रान्तः प्रसङ्गो ऽतिप्रसङ्गः [४७.१६] | तस्यानुपलब्धिलक्षणप्राप्तत्वाद् विशेषे(ष)णासिद्धोयं हेतुर् इत्य् आह अनुपलब्धी[४७.१६]ति | किम् अवश्यम् उपलभ्यमानेन तेन तद्बुद्धिहेतुना भाव्यं येनैवम् उच्यत इत्य् आह न ही[४७.१८]ति | तद्बु७द्धी [४७.१८] कार्यकारणबुद्धी | अस्य [४७.१९] अर्थान्तरस्य तयोः [४७.१९] कार्यकारणबुद्ध्योः | न चान्वयव्यतिरेकानुविधानम् अविदुषस् तद्बुद्धी भवत इति बुद्धिस्थम् | उपपत्त्यन्तरम् अत्रैव समुच्चिन्वन्न् आह न चे[४७.१९]ति | स्वविशिष्टप्रत्ययनिबन्धनं [४७.२०] चो(स्वो)परक्तज्ञाननिबन्धनम् | कार्यकारणबुद्ध्यो[४७.२१]र् विकल्पात्मिकयोर् इति प्रकरणाद् द्रष्टव्यम् | तद्बु८द्धिनिबन्धनत्वेपि तस्य कथम् अवश्यम् उपलक्षणम् इत्य् आह नही[४७.२२]त्यादि | चो [४७.२४] वक्तव्यान्तरसमुच्चये | कार्यकारणाभ्याम्
SK
__________NOTES__________
SK
[७२] अत्र ᳚यतो वह्न्यादेः कारणत्वहानेः᳚ एतावान् पाठः अग्रे ᳚विसंवाद इत्य् आशङ्क्याह᳚ एतद् अनन्तरं संगच्छते | प्रमादात् प्रागायातो भाति | [७३] अग्रेतनं ᳚तस्य?᳚ इति शंका चिह्नितं पदं अत्रत्यं भाति | तथा च ᳚तस्य भावे᳚ इति ᳚तद्भावे᳚ [४६.१३] इत्य् अस्य विवरणम् |
SK
अ[४७.२४]ग्निधूमाभ्याम् अर्थान्तरस्य [४७.२४] भिन्नस्य | कार्यकारणभावरूपस्य सत्त्वस्य सबन्धान्तरसद्भावात् कथं न घटत इत्य् आह | सम्बन्धे[४७.२५]ति | तस्मात् कार्यकारणाभावसंबन्धाद् अन्यस्य तेनाप्य् अर्थान्तरेण [२६अ] १सम्बन्धेन सहास्य कथं संबन्ध इति पर्यनुयोगे संबन्धान्तरं कल्पनीयम् | पुनः पर्यनुयोगे पुनस् तथेति अनवस्था[४७.२५]प्रसक्तिस् ततः | न चैवंसम्बन्धान्तरं परिकल्प्यते | किं तर्हि कार्यकारणभूतवस्तुकार्यकारणाख्यसम्बन्धयोर् {प्. ३०२} अकार्यकारणभाव एव सम्बन्ध इत्य् आह कार्ये[४७.२६]ति |[७४]तद्भावस्य [४७.२७] कार्यकारणभावस्य भिन्न२स्य कल्पितस्य ततो ऽसहभावित्वात् | कार्यकारणकाले [४७.२७] कार्यकारणभूतवह्निधूमादिवस्तुकाले | तयोश् चैककालिकत्वं कुतो येनैकजनकत्वं स्याद् इति | अत्र गजनिमीलिकां कृत्वैतद् उक्तं द्रष्टव्यम् | स च [४८.३] कार्यकारणाध्यवसायः | भवत्व् असौ कल्पितविषयस् तथापि भिन्नसम्भवः कथं न भवेद् इत्य् आह -- ३कल्पिते[४८.४]ति | तद्व्यवसायस्य कार्यकारणताव्यवसायस्य | त[७५]स्य भिन्नस्य कार्यकारणभावस्य | माभूत् कल्पितविषयोयं तदवसाय इति हि तस्य कल्पना स चेत् तथाविध ऐषितव्यः किं तेनेति भावः | किं कल्प्यमानोसौ तद्भावः किं कार्यकारणभावाभ्यां सहिताभ्यां जन्यते आहोस्विदे४कैकेनेति पक्षयोर् आद्यं पक्षं क्षपयन्न् आह कार्येति [४८.५] | कार्येण जन्यमानः कार्यभावः स्यात् | कारणेन जन्यमानश् च कारणभाव इत्य् अभिप्रेत्य कथम् इ[४८.६]त्य् आह | प्रत्येकजन्यमानतायाम् अपि कारणम् उद्दिश्य निरूपयन्न् आह -- यदा चे[४८.६]ति | पश्चा[४८.८]च्छब्दापेक्षया तु स्वकार्यस्येति वि५भक्तिविपरिणामेन योज्यम् | अ[७६]तसर्थप्रत्यययोगेनषष्ठी प्राप्तेः | तत् तस्माद् उभयोः [४८.९] कार्यतद्भावयोः |
SK
__________NOTES__________
SK
[७४] सद्भावं S [७५] तस्या S | [७६] षष्ठ्यतसर्थप्रत्ययेन (Pआ. २.३.३०)
SK
नन्व् एकसामग्र्यधीनतैवानयोः सम्बन्ध इति कथं परस्परासम्बन्ध उच्यत इति चेत् | न, कार्येणापि समम् अस्य कार्यकारणभावस्य संबन्धस्य प्रकृतत्वात् सूक्तम् इदम् | एक६सामग्र्यधीनतेष्टौ च तद् उत्पत्तेः पूर्वं कारणं न कारणं स्यात् | त्वन्मते तद्योगात् तदव्यवस्थितेर् योयम् अप्राप्तत्वाद् इति दोषो द्रष्टव्यः | कार्यस्य धूमादेः क्रिया [४८.११] करणं कथं | तदपेक्षं [४८.१३] तद्धूमादिक्रियापेक्षम् | अस्य [४८.१२] वह्न्यादेः असत्त्वान् मा स्म तज्जनयत, का नो हानिर् इत्य् आह तद्भावश् चे[४८.१५]ति७ | तद्भावः कार्यकारणभावः संबन्धः | कारणाभावाद् अनुत्पन्नश् च(न्नाश्व)शशविषाणा यथा नः (न) कथं तद्भावसम्बन्धो भवितुम् अर्हतीत्य् आशयः | संप्रत्यक्षणिकपक्षम् अभ्युपगम्याह -- अक्षणिकत्वेपीति | प्रत्ययहेतुः कार्यकारणबुद्धिहेतुर् वा नातिवर्तते | यदि हि तदाश्रितं स्यात् तदा तत्र तथाविधं बोधं विदध्याद् अ८न्यथासति विप्रकर्षाभावात् सर्वत्र तद्बुद्धिं जनयेन् नो वा क्वचिद् अपीति भावः | इदं पुनर् अत्र साधु दृश्यते | अयं खलु कार्यकारणभावः कार्यकारणयोर् वस्तुनोर् वर्त्तमानो नांशेन वंशदण्डवद् वर्तते अखण्डरूपत्वात् | कार्याभावः कारणा[७७]भाव इति प्राप्तेर् अनेकरूपतापत्तिप्रसक्तेश् च | प्रत्येक[२६ब्] १रूपकार्यत्वेन वर्तमानश् च यथाकार्यकार[ण]योः कार्यकारणबुद्धी जनयति तथा प्रत्येकं जनयेत् | सति चैवं वह्नाव् एव धूमापेक्षयैव कार्यकारणबुद्धी प्रसज्येयातां तथा धूमेपि तद्वह्न्यपेक्षयैव कार्यकारणबुद्धी प्रसङ्ग(सज)तः | मा स्म वा कार्यकारणयोर् अपि {प्. ३०३} भूताम् इति | तदेकप्रका(हा)रनिहते ऽपि सम्बन्धे ऽस्मिन्न् इमाम् ईदृशीं सूक्ष्मेक्षिकां कुर्वताभट्टार्चटेन२कथम् अयं स्थवीयान् दोषो न दर्शित इति न प्रतीमः |
SK
__________NOTES__________
SK
[७७] ᳚कारणभाव᳚ इत्य् अपि पठ्यते |
SK
ननु यः किल कार्यकारणलक्षणसंबन्धान्तरवशात् कयोश्चिद् वस्तुनोः कार्यकारणरूपताम् उपैति तं प्रत्येतद् उच्यमानं शोभेत | अस्माकं तु कार्यसमवायं कारणत्वं कारणसमवाय(यि)त्वं च कार्यत्वम् इच्छताम् इत्य् अनन्तरोक्ताद् दोषान् न(क्ता दोषा न) किंचिद् उपघ्नन्तीतिनैयायिकवचनम् आशंक्य तदभि३मानम् अप्य् उन्मूलयन्न् आह -- समवयीति | समवायिकारणस्यैव कपालादेः | तत्रैव घटादिकार्यस्य समवायात् | चो यस्माद् अर्थे | निमित्तकारणं कुलालादि | असमवायिकारणं कपालसंयोगादिः | तयोर् न कार्यसमवायोस्तीति न कारणं स्यात् ततश् चाव्यापित्वं लक्षणदोष इति सामर्थ्याद् दर्शितम् | कार्यलक्षणे४(ण)स्याप्य् अकार्यस्य वेति वाशब्दो ऽपिशब्दस्यार्थे | तत्समवायः कारणसमवायः | समवायिकारण एव कपालादौ समवायह् कार्यत्वं न निमित्तासमवायिकारणयोर् इति सप्तम्यन्तं स(पद)द्वयम् इह सम्बन्धव्यम्, कपालादिसमवायिन एव घटादेर् उदयोपगमात् | ततश् च निमित्तासमवायिकारणापेक्षया घटादि५कं कार्यं न स्याद् इत्य् अत्रापि अव्यापितैव दर्शिता |
SK
इदानीं साधारणं दूषणम् उपदर्शयन्न् आह तस्य चेति | तस्य समवायस्य चो वक्तव्यान्तरसमुच्चये | अन्यथात्वव्याख्यानम् अत्र साहसम् इति नानूद्यतेपि | व्यक्तिभेदविवक्षयोपयुक्तकार्ये वा सर्वत्रशब्दप्रयोगात् | सर्वत्र कार्यकारणभूते वस्तुनि | अविशेषाद् अ६विशिष्टरूपत्वात् | परस्परम् अन्योन्यं वह्नेर् धूमो धूमस्यापि वह्निः | कार्यं कारणं च स्यात्, समवायस्य कार्यत्वकारणत्वलक्षणस्य विशेषाद् उभयस् ताद्रूप्यमताद् रूप्यं वा न समं स्याद् इत्य् एवं वदितुर् अभिप्रायः | अथवा सर्वत्र काले वस्तुनि अकार्यकारणभूतेपि | सर्वत्र वा अंतशो महासामान्यस्य सत्तायाः७ समवायभावान् न समवायभावो विभावितः | किंत्वविशेष एवानूदित इति द्रष्टव्यम् |
SK
ननु नाविशिष्टः समवायः कार्यत्वकारणत्वलक्षणत्वेनेष्टो ऽस्माकं किंतु पूर्वोत्तरभावाभावैशिष्ट इत्य् आशंक्याह पूर्वेति | पूर्वोत्तरकालावच्छिनौ पदार्थौ पूर्वोत्तराव् उक्तौ | तयोर् यौ भावाभावौ, पूर्वभाव एव यद् उत्तरस्य भावः | तदभा८व एव यो ऽभावो ऽभवितृत्वम्, पुर्वस्यापि यः स्वभाव एव भावो भावनं सत्तयाभिसंबन्धकत्वं स्वाभाव एव च यो ऽभावो ऽभावनं समं (?) [अ]भावयितृत्वं तद्विशेषणः समवायः कार्यकारणलक्षणम् | एतद् उक्तं भवति यो ऽर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति, यश् चार्थान्तरस्यान्वयव्यतिरेकाव् अनुविधत्ते एव अन्वयव्यतिरेकानुविधा[पना] [२७अ] १न्वयव्यतिरेकानुविधायिनी वस्तुनी विशेषणे यस्य समवायस्य स तद्विशेषणः | {प्. ३०४} कार्यकारणत्वलक्षणत्वेनेष्त इति न सर्वत्र तथाभावप्रसङ्ग इति | अन्यथा व्याख्यानं त्व् अभावशब्दस्य दुर्योज्यत्वात् साहसमिती नानूद्यतेपि | एतन् निषेधयन्न् आह | अयुक्तेति | हेतुम् आह तद् इति | तेन भावाभाववता पूर्वोत्तरकालेन वस्तुनासंबन्धाद् अवि२द्यमानसम्बन्धत्वात् | अयम् अर्थो विशेषणं व्यवच्छेदकं भवति | ३तत्र केन संबन्धेन तथाभूते च वस्तुनि समवायम् इमम् अवच्छिन्नो (च्छिन्तो) येन तद्विशेषणं स्यात् | एवम् एव च तथात्वे सर्वं सर्वस्य विशेषणं स्याद् इति |
SK
ननु विशेषणविशेष्यभाव एव ४सम्बन्धः | न च सम्बन्धेन सम्बन्धान्तरानुसरणं श्रेयं इत्य् आशंक्याह निरतिशयस्येति | निष्क्रान्तो ऽतिशयो व्यवस्थितरूपाद् विशेषो यस्मान् निष्क्रान्तो वातिशयात् | तस्य केनचिद् अतिशाययितुम् अशक्यस्येत्य् अर्थः | नित्यत्वाच् च निरतिशयत्वम् इति बुद्धिस्थम् |
SK
एवं ब्रूवाणश् चैवम् अभिप्रैति विशेषणेन तावद् अतिशा५यके नावश्यभाव्यम् अन्यथा सर्वं सर्वस्य विशेषणम् आपद्येत | तत्रानित्यस्य कश्चिद् अतिशयम् आदधत् किञ्चिद् भवेद् अपि विशेषणम् | यदि तत्रापि सो ऽतिशयः किं ततो भिन्न उताभिन्नः, यदि भिन्नस् तस्य किम् आयातम् अथाभिन्नस् तस्यैव तर्हि करणम् आपतितम् इति कश्चिन् न पर्यनुयुञ्जीत, न तु पूर्वापरकालयो रविचलित६तद्रूपस्य नित्यस्येति | संप्रति ते यद्य् अवश्यं विशेषने अस्यैष्टव्ये इति निर्बन्धस् तदैतत् युक्तरूपम् इत्य् उपग...अर्भम् उपदर्शयन्न् आह तयोर् एव वेति | वाशब्दो ऽभ्युपगतं पक्षान्तरं दर्शयति | तयोर् अन्वयव्यतिरेकानुविधापनान्वयव्यतिरेकानुविधायिनोस् तद्विशेषणयोस् तत्समवायविशेषणत्वेना७भिमतयोस् तल्लक्षणता कार्यकारणलक्षणतास्तु | तयोर् एव प्रमाणोपपन्नत्वाद् इतरस्य च तद्बाधितत्वाद् इत्य् आशयः | इतिर् अनन्तरोक्तं प्रत्यवमृषति | एवम् अभिप्रायवता वार्तिककृतेति प्रकरणात् | अग्नीन्धनाद्य् एव सामग्रीत्यन्तर्नीतनियमः समासः कर्तव्यो ऽत एवामूं नियमम् असहमानस्य भिनसामग्रीवादिनो८ मतम् आशंक्य तन्निराकुर्वन्न् आह न चेति | अन्यथा कुतो ऽस्य प्रत्याख्यानग्रन्थस्योत्थानं स्याद् इति | स्वरूपत एवापरसामग्रीनिरपेक्षेणैव रूपेण | कार्ये [४८.२३] जनयितव्ये यतः [४७.२६] शक्तिव्याघातात् | अन्यत्रे[४८.२६]ति | निपातो ऽन्यवचनोस्ति तेनान्यद् इत्य् आर्थः |
SK
सामग्र्य् अपि जनयन्ती किं सामग्र्यन्तरसव्यपेक्षा जनयत्य् अथानपेक्षा | यदि [२१ब्] साम१ग्र्यन्तरसापेक्षा तर्हि सैवान्वयव्यतिरेकाभ्यां जनिका स्याद् आद्यसामग्र्यास्तु जनकत्वं हरीतकिं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्यात् | अ(य)द्यनिरपेक्षा तद्वदभावोपि स्वहेतुलक्षणसामर्थ्यस् तन्निरपेक्ष एव किं न जनयतीत्य् अपि दूषणम् इह द्रष्टव्यम् | न च सामग्री ततो भेदेनोपलभ्यते | न चास्या अनुपलब्धिलक्षणप्राप्तता युक्तेत्या२द्य् अपि पूर्ववद्द्रष्टव्यम् |
SK
{प्. ३०५} अन्वयो ऽन्वेतृत्वम् अन्वीयमानत्वं च व्यतिरेको व्यतिरेचयितृत्वं व्यतिरिच्यमानत्वं च तावात्मानौ यस्य तस्य [४९.११] |
SK
ये [४९.१८] मीमांसकादयः | तम् अ[४९.१८]न्वयनिश्चयम् |
SK
तस्य स्वकारणाव्यभिचारद्वारक [४९.२७] इत्य् आचक्षाणो यस्यार्थान्तरस्य येनान्वयः सकललोकसाक्षिकः सो ऽवश्यं तज्जन्यस् तत्कारणजन्यो वे३ति प्रतिपादयति अतएव ᳚कार्यकारणभावाद् वा᳚ इत्य् अत्रापि तेन समं तत्कारणेन समं वा कार्यकारणभावाद् इति वेदितव्यम् इति | तत्र स्वभावहेत्वादौ विपर्ययेण बाधकप्रमाणवृत्त्याद्य् एव दर्शितं तत् तु कथम् अन्वयनिश्चय उक्त [५१.१] उच्यत इत्य् आशंक्याह स्वभावे[५१.२]ति | विपर्यये [५१.२] साध्यविपर्यये हेतोर् बाधकं४ विपरीतोत्थापकं यत् प्रमाणं तस्य वृत्त्या [५१.२] साध्यसाधनयोः तन्निबन्धनत्वात् | अन्वयनिश्चयस्येति प्रकरणात् | उत्तरत्राप्य् एवं द्रष्टव्यम् | तद्भावसिद्धेः तन्मात्रवृत्तिसिद्धेस् तद्धेतुकत्वात् | असद्व्यवहारस्य हि दृश्यानुपलब्धिमात्रे वृत्तौ सिद्धायां देशकालानवच्छेदेन यत्र यत्रोपलब्धिलक्षणानुपलब्धिस् तत्र तत्रासद्व्यवहारयोग्यतेत्यन्वयनिश्चयप्रवृत्तेर् निमित्तान्तराभाव[७८]साधकप्रमाणतस् तद्[७९]भावसिद्धिहेतुकत्वाच् चे[५१.४-५]ति उक्तम् | ते न (?) कारणव्यापकानुपलब्धी |
SK
__________NOTES__________ [७८] -भावप्रसाधक-S [७९] तदभावसिद्धिहेतुत्वाच् च- S |
SK
तस्ये[५१.१५]ति साध्याभावे हेत्वभावस्य |[८०]तद्भावसिद्धि[५१.१९]स् तत्स्वभावतासिद्धिस् ततः तादात्म्यतद् उत्पत्तिलक्षणे निमित्ते यस्य प्रतिबन्धस्य६ प्रतिबद्धत्वस्य तस्य निश्चयात् [५१.२२] | तस्माद् उत्पत्तिस् तत्कारणाद् वोत्पत्तिस् तदुत्पत्तिर् अभिप्रेता | अनुपलब्ध्योः [५२.२] कारणव्यापकानुपलब्ध्योर् इति प्रकरणात् | कदा पुनस् तद्विशेषणं नोपेक्षितुं शक्यत इत्य् आह यदेति [५२.३] | उपादत्ते [५२.४] निदर्शनीयत्वेन स्वीकरोति प्रतिपादक इति प्रकरणात् | असिद्धत्वाद् इ७[५२.८]ति | संदिग्धासिद्धत्वाद् इति द्रष्तव्यम् | तत् [५२.१२] साध्याभावे ऽभावख्यापनम् | तादात्म्यतदुत्पत्तिसिद्धौ हि प्लवमानाकारायाः साध्याभावे साधनाभावप्रतिपत्तेर् उत्पत्तिर् इत्य् आशयः | अमुम् एवार्थं तथा [५२.१५] हीत्वादिना प्रसाधयति | फलवचनस्य कार्यशब्दस्य नपूंसकलिङ्गत्वाद् असति बहुव्रीहावजहल्लिङ्गत्वाच् च कार्य[५२.२१]म् इति निर्देशोवार्तिककार८स्यावसातव्यः |
SK
__________NOTES__________
SK
[८०] तद्भावता-S
SK
अनुपकारिका [५२.२३] अकिञ्चित्करी | अदर्शनमात्रा[५२.२३]त् प्रतिबन्धविरहिताद् विपक्षे ऽदर्शनात् केवलात् | तदसंभवं [५२.२३] व्यतिरेकासम्भवम् | तम् एव {प्. ३०६} तथाही[५२.२७]त्यादिनोपपादयति | साध्याभावाद् अन्यस्य तदनुपलब्धिकारणस्याभावात् एकत्र स्थितस्यापि तदनुपलब्धिरस्तीत्य् अभाव एव किं न भवतीत्य् आशंक्याह देशेत्यादि१ [२८अ] | आदिशब्दात्कालस्य परिग्रहः | तत्र [५३.३] धर्मिणि सत्य् अपि [५३.३] विद्यमानेपि हेतौ अनुपलम्भमात्रस्य [५३.४] उपलम्भविरहमात्रस्य [|] न तथाविधो व्यतिरेको ऽभिप्रेत इत्य् आह -- तथाविधस्यै[५३.५]वेति |
SK
नन्व् अदर्शनमात्राद् व्यतिरेकम् इच्छताम् उक्तेन न्यायेन तदसंभव एव दर्शितः | प्रतिबन्धम् अन्तरेण दर्शनमात्राद् अन्वयम् इच्छतां तु न तदभावो भावितो ऽव२श्यदर्शयितव्यश् चासौ ᳚अविनाभावनियमो ऽदर्शनान्न न दर्शनात्᳚ [Pर.Vआ. ३.३०] इत्य् अत्राभिधानाद् इत्य् आशंक्यानन्तरोदित एवायम् अर्थ इति दर्शयितुम् आह अन्वयनिश्चयो [५३.७]पीति | तेनापि [५३.८] प्रतिबन्धनिबन्धनान्वयनिश्चयवचनेनापि | दर्शननिबन्धनम्[८१] इति [५३.८] सपक्षे दर्शनमात्रनिबन्धनम् इति प्रकरणात् द्रष्टव्यम् | अस्याप्य् अ[५३.९]न्वयस्यापि | न द३र्शनमात्राद् अन्वयम् इच्छामो येनैवम् अभिधीयते | किंतु भूयोदर्शनाद् इत्य् आशंक्याह न चेति [५३.१२] | एवम् उपलक्षणत्वाद् अस्य नादर्शनमात्राद् व्यतिरेकम् इच्छामो ऽपि तु भूयोदर्शनाद् इत्य् अपि द्रष्टव्यम् एव | ᳚भूयोदर्शनगम्या हि᳚ (Śलो.Vआ. अनु.१२) इत्य् अस्य शेषनिर्देशेनापि गमयितुम् अशक्यत्वाद् व्याप्तिर् अ[५३.१३]न्वयात्मिकेति द्रष्ट४व्यम् | भवतोपि महानसमहाह्रदादौ भुयोदर्शनादर्शनाभ्यां किम् अन्यद् व्याप्तिनिमित्तम् अस्तीत्य् आह असती[५३.१४]ति | प्रतिबन्धनिबन्धनाभ्याम् एव ताभ्यां सा सिद्ध्यति नान्यथेत्य् अनेन दर्शितम् | क्वचिद् देशे बहुलं [५३.१४] प्रचुरं यथा भवति तथा दृष्टानां [५३.१४] साहचर्येणोपलब्धानाम् आमलकत्वकषायरसत्वादीनां | अन्य५थात्वस्यापि [५३.१४] क्सीरावसेकादिना मधुररसत्वादिभावस्यापि सम्भवात् | सम्भावनाया अवकाशं दर्शयितुं तद् असंभवे [५३.१५] इति | तस्यान्यथात्वस्यासंभवे ऽभावे | एवम् उपलक्षणत्वाद् अस्य साध्यभावे भूयोदर्शनेपि न व्यतिरेकात्मिका व्याप्तिः सिद्ध्यति | के(क्व)चिद् बहुलं साध्याभावे ऽभाविनाम् उपलम्भेप्य् अ६न्यथात्वस्य संभवात् | तदसम्भवबाधकप्रमाणाभावाद् इत्य् अपि द्रष्टव्यम् | तथाहि मधुररसत्वाभावे ऽम्भस्त्वस्य साधनधर्मस्याभावः साध्यधर्मिणः सामुद्राद् अम्भसो ऽन्यत्र सर्वत्र दृश्यत इति भूयोदर्शनेपि लवणोदधाव् एवान्यथात्वं दृष्टम् इति | अन्यथाम्भस्त्वम् अपि महार्णवाम्भसो मधुरत्व७साध्ये सम्यग्धेतुर् अभ्यवगन्तव्यः प्रसज्येत | बाधकाभावात् कार्यव्याप्याभावव्यतिरेके सति स्याता(?)र्वाग्दर्शिभिर् अशक्यनिश्चयत्वेनालक्षणत्वाद् अस्य साध्याभावे हीत्य् अलं बहुना |
SK
__________NOTES__________
SK
[८१] -निबन्धनाम -- S
SK
तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धद्वयनिश्चयो य एव स चोपायः [५४.१२] ᳚सा विपर्यये बाधकप्रमाणवृत्तिः᳚ इति वचनात् ᳚प्रत्यक्षानुपलम्भसाधनः᳚ {प्. ३०७} इति वचना८च् च दर्शितः | इति[५४.१३]स् तस्मात् पृथग् नोक्तः [५४.१३] भेदे[न]नोक्त आचार्येणेति प्रकरणात् |
SK
प्रतिबन्धसिद्धाव् अपि कथं कारणव्यापकानुपलब्ध्योर् अन्वयव्येतिरेकौ प्रसिद्ध्यत इत्य् आशंक्य एतद् एवोपपादयन्न् आह तथाहि[५४.१४]त्यादि | कार्यव्याप्याभावव्यतिरेके सति किंरूपे तस्मिन्न् इत्य् आह[८२]तल्लक्षण इति | तत्कार्यस्वभावात्मनि [२८ब्] प्र१तिषेधप्रतिषेधस्य विधिरूपत्वाद् इत्य् अभिप्रायः | व्यतिरिच्यते असंभवति | कथं व्यतिरिच्यत इत्य् आह | कारने[५४.१४]ति | अन्यथे[५४.१६]ति यदि तद्व्यतिरेके न व्यतिरिच्यत इति |
SK
__________NOTES__________
SK
[८२] तद्भावलक्षने -- S
SK
तदनु ᳚तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर्᳚ इति पुरस्ताद् उक्तं कथं पुनर् अधुना तादाम्यतदुत्पत्त्योर् अविनाभावेन व्याप्तयोर् भावाद् इ[५५.२५]त्य् उच्यत इत्य् आशंक्याह कृतकम्[८३]इ[५५.२६]ति | उभय२व्याप्तित्वाद् इत्य् अर्थः | प्राग् एवोक्तम् इ[५५.३०]ति -- ᳚अविनाभाववैकल्यण् चे᳚त्यादिना पूर्वम् उक्तत्वाद् इत्य् उक्तम् | यदि वे[५६.१]त्यादिनोपपत्त्यन्तरम् अपि दर्शयति | कार्यहेतुप्रसङ्गात् कार्याद् अप्य् अन्यद् [५६.१]त्य् उक्तम् | रोहिण्या रोहिणीनक्षत्रस्य आसत्तिर् उदेष्यमाणायाः प्रत्यासन्नता तस्याः क्लृप्तिः [५६.१४] कल्पनाज्ञानम् इति यावत् | सापि [५६.१४] तत्कल्पना उक्तत्वाद् इ[५६.१६]त्य् एतज् जातीयं३ प्रत्युक्तत्वेनोक्तम् अर्थाद् इत्य् अर्थः |
SK
__________NOTES__________
SK
[८३] कृतकत्वा -- S
SK
कथं पुनस् तस्यास् तदुदयानन्तरम् उदयो ऽवश्यंभावी संगच्छत इत्य् आशंक्योपसंहारव्याजेनाह तस्माद् इ[५६.१६]ति | नक्षत्रचक्रस्ये[५६.१६]ति कृत्तिकाख्यसप्ततारावृन्दस्येति प्रकरणाद् अवसेयम् | संक्रान्तिः [५६.१६] पूर्वावस्थानदेशात् संक्रमणम् अभिव्यक्त्यवस्थाप्राप्तिर् वा तस्या हेतुर् ए४व कालव्यवधानेने[५६.१७]ति कियत्कालक्षेपेणेति द्रष्टव्यम् कल्पयितव्य[५६.१७]स् तद्धेतुत्वेनेति प्रकरणात् | अनेन तत्रापि प्रतिबन्धसद्भावो दर्शितः | नीडानुपघाते सत्यनुत्रस्तानां गृहीताण्डानां पिपीलिकानाम् एकदिगभिमुखानां सञ्चरणं दृष्ट्वा यद् वर्षानुमानं तद् अप्य् असति प्रतिबन्धे स घटते तस्मात् तत्रापीयम् एव गतिर् इति दर्शयितुं यथे[५६.१७]तिना दर्शयति | इतरथा विवादाध्यासितसत्त्वाद् अस्य कथं दृष्टान्तरूपतोपपद्येत | भूतानां [५६.१७] पृथिव्यादीनां संक्षोभो [५६.१७]वस्थाविशेषः | य एव तथाभूतपीपिलिकासंक्षोभहेतुः स एव कतिपयकालव्यवधानेन पश्चात्कालभाविनो वर्षस्य हेतुर् इत्य् अ६र्थो ऽर्थाद् द्रष्टव्यः | कारणकारणतया च हेतुर् द्रष्टव्यो ऽन्यथा चिरातीतं कारणम् इष्टं {प्. ३०८} स्याद् एष्तव्यम् वा | इति[५६.१८]स् तस्मात् हेतोः कृत्तिकोदयस्य हेतोर् यो धर्मः [५६.१८] कतिपयकालात्ययेन रोहिण्युदयोपादानकारणशक्तिप्रबोधाधानेनान्यथा वा यज्जनकत्वं तदनुमानेन | इत्थंभूतलक्ष७णाचेयं तृतीया | कल्पयितव्या [५६.१८] रोहिण्यासत्ति कल्पनेत्य् अभिसम्बन्धात् स्त्रीलिङ्गेन निर्देशः | दृश्यत्वविशेषणानवच्छिन्नानुपलब्धिर् अनुपलब्धिमात्रम् [५६.२०] | अभावायोगाद् इ[५६.२२]त्य् अभावविषयत्वायोगाद् इति द्रष्टव्यं तद्द्वारेण [५६.२४] विरुद्धोपलब्धिमुखेन | एवं ब्रुवाणः सैव विरोधग्रहणकालप्रव्र्त्ता दृश्यानुपलब्धिर् इदानीं स्मर्यमा८णाभावसाधनी | तत्स्मारकत्वेन चोपलम्भस्यास्यैकज्ञानसंसर्गिवस्त्वन्तरानवच्छिन्नस्यानुपलब्धिरूपता अत एवोक्तं ᳚प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते (Pर.Vआ.२.९०)᳚ इत्य् अभिप्रैति | अत्र च यथा प्रज्ञाकरगुप्तेन पराक्रान्तं तथास्माभिर्धर्मोत्तरप्रदीपे दर्शितम् इति नेहोच्यते | अन्यथा [५६.२५] यदि तद्द्वारे[२९अ] १णानुपलब्धिप्रयोगो नेष्यते | अनिषिद्धान्यभावे सत्य् अप्रतिषिद्धानिवारितोपलब्धिर् यस्यान्यभावेपि सा तत्त्वत इत्य् अर्थः | अभावासिद्धेर् अ[५६.२५]भावानिश्चयाद् अभावायोगाद् इति यावत् |
SK
समुदायस्य साध्यत्वात् कथम् असौ साध्य इत्य् आह अवयव [५७.५] इति | सम्बन्ध्यन्तरस्यानुपादानात् |
SK
कस्यासौ स्वभावो ऽवसातव्य इत्य् आह साध्ये२ति [५७.६] | तन्मात्राद् अन्वयित्वम् अपि तस्य संभाव्यते | ततो विशिष्यत इत्य् आह यो हीति [५७.१७] | यदि नाम न व्यभिचारस् तथापि कस्माद् विशेषणं नोपपद्यते इत्य् आह संभव [५७.२२] इति | परमतमपेक्षत इति परमतापेक्षम् ईक्षिक्षमिभ्यां चे(Pआ.Vआ ४७०)ति कर्मोपपदे ऽणः | परेपि किम् एवम् एषितरो न भवंति येन तन्मतापेक्षम् इदम् उच्यते इत्या३ह नैयायिके[५७.२५]ति | वेगाख्यसंस्कारवता द्रव्येण मुद्गरादिना यः संयोगा[५८.४]ख्यो गुणस् तस्माद् अवयवेषु घटादिद्रव्यारम्भकेषु कपालादिषु, कर्माणि क्रियाबहुवचनेन व्याप्तिम् उपदर्शयति न तु बहुत्वसंख्याम् एव | संयोगस्यैक्ये क्रियाया अप्य् एकस्या भावात् | यथा वेगवत् सू४च्यादिसंयोगे कुवलयदले आमे वा घटे, तथापि क्रियाप्रणालिकया द्रव्यनाशो ऽस्त्य् एवेति | तेभ्यः [५८.४] कर्मभ्यह् | अवयवा[५८.४]नां तद्द्रव्यारम्भकाणां द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीविभागाख्यो गुण उत्पद्यते | ततो [५८.४] विभागात् संयोगविनाशो द्रव्यारम्भकस्य संयोगस्य विनाशः | ततः सं५योगविनाशात् | तेनावयवसम्योगेनासमवायिकारणेन यद् आरब्धं द्रव्यं तद् विनश्यति | द्वेधा हि द्रव्यस्य नाशो वैशेषिकादिभिर् अभ्युपेयते आश्रयविनाशाद् असमवायिकारणविनाशाच् च | अत्र चासमवायिकारणस्यास्य संयोगस्य विनाशात् | {प्. ३०९} कार्यग्रहणेन तु वास्तवं रूपम् अ६नूदितम् | न तु तदारब्धं चाकार्यञ्चास्ति यद् व्यवच्छिद्यते | यदि चा(वा) कार्यत्वेनैव तन् नश्यति | यत् कार्यं तद् अवश्यं नाशधर्मकम् इति प्रतिपादयितुं कार्य[५८.५]ग्रहणम् | आहेत्य्(भि)सम्बन्धाद् द्वितीयया निर्देशः | समवायबलाद् वृत्तौ तस्यैकरूपत्वाद् विशेषाभावो विवक्षितः | कृतकत्वानित्यत्वयोर् एकत्वे कथं गम्य७गमकभावो भेदे तस्योपपत्तेर् इत्य् आह[८४]दर्शनेति [५८.२३] | कृतकत्वानित्यत्वयोर् धर्मयोर् यो भेदः पृथक्त्वं तस्यावभासः स विद्यते यस्याम् सा च सा कल्पना चेति तथा | धर्मभेदम् अवभासयतीति वा तथा | सा च सा कल्पना चेति तथा | इत्थं पदसंस्कारं कृत्वा पश्चाद् अभूत्वाभवन्धर्मकभूत्वाभवन्धर्मकवस्तुदर्शनबलोत्पन्ना च सा ८कृतकत्वानित्यत्वधर्मभेदावभासिकल्पना चेति विग्रहः कार्यः | सैव द्वारम् उ[५८.२७]पायस् तेन | साधकप्रमाणाभावाद् बाधकसद्भावाच् च न तत्कल्पना युक्तिमतीति भावः | एवं साध्यसाधनभावोपपत्ताव् अपि तत्कल्प्यताम् | यदि तद् एव व्यतिरिक्तम् अनित्यत्वादि तत्साध्याम् अर्थक्रियां प्राप्तुं हातुं वार्थिभिश् चिन्त्यते तद् अपि नास्तीति दर्शयितुम् आह१ [२९ब्] -- कल्पयित्वापीति [५८.२८] वस्त्वात्मन एव [५८.२८] तद्धर्मिस्वरूपस्यैव | हानोपादानविषयतया चिन्त्यत्वाद् [५८.२९] विचार्यत्वात् | कथं तस्यैव चिन्त्यत्वम् इत्य् आह -- अर्थक्रिये[५८.२८]ति | कैश्चिन्तनीयत्वम् इत्य् आह -- तदर्थिभि[५८.२९]र् इति | ताम् अर्थक्रियाम् अर्थयन्तीति तथा तैः | अर्थक्रिया च तदायत्ता अत एवोपेक्सा(पेया)र्थिन उपायम् एवानुसरंतीति | एतद् एवचार्यवचनेन संस्पन्दयन्न् आह -- तद् उ२क्तम् इ[५८.२९]ति | यस्माद् एवम् एवैतन् नान्यथा तत् तस्माद् उक्तम् आचार्येण | सन् हि शब्दार्थो ऽसन्ध्यावृत्तिः (सद्व्यावृत्तिः) शब्दार्थ इति यः पक्षभेद[५९.१]स् तेन तं हेतूकृत्य ये शब्दार्थान्नापहवते(ह्नुवते) तैर् वस्त्व् एव [५९.२] शब्दादिकम् एव | व्यावृत्तिः शब्दार्थ इति वादिभिर् अप्य् अर्थात् व्यावृत्तम् एव वस्तु तथापि प्र(था प्र)तिपाद्यत इति तेषाम् अपि वस्तुचिन्तनम् | अथवा शब्दार्थमनपव३दद्भिः सदापेक्ष्याभे(दादिपक्षभे)देन सत्त्वेनासत्त्वेन च वस्त्व् एव चिन्त्यत इत्य् अर्थः | तस्मा(कस्मा)द् वस्त्व् एव चिन्त्यत इत्य् आहाशं(त्याशं)कायाम् अत्रहीत्य् उक्तम् | हिर् यस्मात् | अत्र [५९.२] वस्तुनि | यद्य् अप्य् अत्र विधौ सामान्यादिरूपे व्यावृत्तौ च प्रसज्यप्रतिषेधान्मति(धात्मनि) फलोदयो न प्रतिबद्ध[५९.२]स् तथा(थापि) किं तथात्वेन चिन्त्यते इत्य् अत आह अर्थेति | षण्ड्ःअस्य४ [५९.४] सुरतमाचरितुम् अक्षमस्य तृतीया(य)प्रकृतेः | रूपं च वैरूप्यं चेति द्वन्द्वैकवद्भावः तत्र कामिन्या वृषस्यन्त्याः किं परीक्षया [५९.४] विमृष्यावधारणेन |
SK
__________NOTES__________
SK
[८४] तद्दर्शन-S
SK
{प्. ३१०} ननु यदि वस्तुतः कृतकत्वानित्यत्वयोस् तादात्म्यम् तर्हि वस्तुनः कृतकत्वनिश्चये ऽनित्यत्वम् अप्य् ऐकात्म्यान् निश्चितम् एवेति कथम् अनुमानावतार इत्य् आशंक्योपसंहारव्याजे५नाह -- तस्माद् इ[५९.६]ति | यस्मात् तस्यैव वस्तुनस् ताप्यमवश्यैषितव्यं तस्मात् | दृष्टा अपि भावाः केनचिद् आत्मना निश्चितास् तदन्येनात्मना अनुमानतो निश्चीयन्त इति {५] संबन्धः | दृष्टाः साक्षात्कृता भावाः शब्दादयो धर्मिणः | केनचि[५८.६]त् कृतकत्वादिना रूपेण, किंभूतेन? तस्मात् कृतकाद् अन्यद् अकृतकं तस्माद् व्यावृत्तेन६ | कथञ्चिद् अभ्यासपाटवादिप्रकारेण तदन्येनानित्यत्वादिना तद्रूपम् अनित्यरूपं यन् न भवति तस्माद् व्यावृत्तेन [५९.७] | अनेन व्यावृत्त्यभेदेन व्याव्र्त्ति(त्ते)र्भेदो दर्शितः | कृतकत्वेनेव यदि तेनाप्य् आत्मना ते तदा निश्चेतुं शक्याः कथम् अनुमानान् निश्चीयन्त इत्य् आह [५९.८] अनिश्चीयमाना इति | अनिश्चय एव कुत इत्य् आह | भ्रा७न्ती[५९.७]ति | भ्रान्तेर् विभ्रमस्य कारणं निरन्तरसदृशापरापरोत्पत्तिर् अविद्या च तस्य सद्भावात् |
SK
अथ यदि तदानीम् अनिश्चितरूपेण समं तस्य निश्चितस्य रूपस्य प्रतिबन्धो नावसितस् तर्हि कथम् असम्बद्धदर्शनात् तन्निश्चयो भवितुम् अर्हतीत्य् आशंकायाम् अनुमानं विशिष्टम् आह निश्चिते[५९.८]ति | प्रमाणान्तरतो [५९.८] विपर्यये बाधकात् प्रमाणात् | प्रति८बन्धावसायः पुरोवर्ती पूरभावी यस्यानुमानस्य तस्मात् [५९.९] इतिस् तस्मात् तस्य [५९.१२] विनाशस्यार्थान्तरनिमित्ततया तन्मात्रानन्वयित्वे |
SK
यस्माद् एवंभूता सत्ता तत्समवायो वा अनित्यता अतएव [५९.१६] कारणात् आत्मादाव् एवंभूतसत्तासमवाययोर् अभावाद् इति भावः |
SK
अथास्त्व् एवम् किं नच्छिन्नम् अनेन तावद्विशेषणेनास्माभिर् अतत्स्वभावता१ [३०अ] विनाशस्याख्याता तावतैव चरितार्थाः स्म इति सौगतमतम् आशंक्य स्वसिद्धान्ताभ्यासव्यामोहापस्मारः परः प्राह -- विनाश इति च [५९.१६] इति | इतिर् विनाशशब्दं प्रत्यवमृषति | तेन विनाशशब्देनेत्य् अर्थः | प्रागभावादिभेदेन भावाभावस्यानेकविधत्वात् विशिनष्ति प्रध्वंसाभावलक्षणम् इ[५९.१७]ति | कृतकत्वम् अ[५९.१७]पि भवद्भिस् तदात्मकम् एव२ मन्यते ततो ऽयुक्तम् अतत्स्वभावताप्रतिपादनम् इति च पुनर् आशंक्य पर एवाह -- कृतकत्वम् इति {२५] तु[५९.१७]र् भिनत्ति मन्यामहे [५९.१७] इत्य् अभिसम्बन्ध्यते | तथाविधस्य [५९.२०] प्रध्वंसाभावलक्षणस्य | हेतुमत् तया [५९.१७] विरोधाद् अनुपपत्तेः | कथं पुनर् विरोध इत्य् आह स्वयम् इ[५९.२०]ति | एवं ब्रुवाणस् तदुपपत्त्यनभिधानकारणं दर्शयति | प्रतिपित्सवो [५९.२३]नुतिष्ठा३सवः | मुद्गरादेः [६०.१] सकाशाद् उदये ऽपि तस्य [६०.२] प्रध्वंसाभावस्य |
SK
{प्. ३११} भावे [६०.२] विनाशो वस्तुनि | अनुपयोगाद् [६०.२] अव्यापारात् | अतादर्थस्थ्यो ऽनि(दवस्थ्यम् अनि)त्यत्वं तस्य च तदवस्थत्वात् कथम् अनित्यत्वम् इत्य् अर्थः | यदि नाम तद्भावे तत्पूर्वावस्थितरूपान् न विचलति तथापि तद्विशेषणौ सत्तासमवायौ तस्यानित्यता व्यवस्थाप्य४त इत्य् आह अविचलितेति [६०.४] | अविचलितमनापन्नान्यथाभावं रूपं यस्य तस्य सत्तायाम् आह -- सामान्यस्य समवायस्य चैकत्वेनात्मादेर् अपि तथाभावो भवेद् इति भावः | ᳚विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामह᳚ इति यत्परेणोक्तं तद् अवद्यं प्रतिपाद्य ᳚कृतकं त्व् इति च᳚ यद् उक्तं तद् अपि ५दूषयन्न् आह स्वकारणे[६०.६]ति | समवायस्यैकत्वेनात्मादेर् अपि तथाभावप्रसङ्गेनैवम् अनिच्छतोपि न सिद्द्यतीत्य् आशयः | अमुम् एवार्थं विधिमुखेन साधयन्न् आह [अ]भूत्वेति [६०.८] वर्ण्यते [६०.८] लोकनेति शेषः | अनेनैतद् दर्शयति वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः | कृतकत्वशब्देन चैवंविध एवार्थो ऽभिधीयते६ वृद्धैर् इति | प्राक्पध्वंसाभावयोस् तद्विशेषणरूपताम् उपेत्य प्राग्दूषणम् उक्तम् | संप्रति तु ताम् अपि विघटयन्न् आह न चे[६०.८]ति | एतच् च पूर्वम् एव व्याख्यातप्रायम् | तद् एव [६०.१०] अभूत्वाभवनं भवितृत्वं कृतकत्वम् अस्तु | एवं तुल्यन्यायतया वा(चा)भवनम् अनिच्छतो ऽनित्यता न सिद्ध्यति | भूत्वाभवनोपगमे वा स्थिरस्वभावतयैवानित्यतास्त्व् इति अभिप्रायवतोक्तम् अस्थिरत्वभावता चे[६०.१०]ति | यदि वा तस्माद् अनेन(ना)स्थिरस्वभावतैव भावस्यानुमातव्येति यद् उत्पत्त्यभिधानपूर्वकम् उपसंहृतिः तदभिप्रायेणैवम् उक्तम् | कृतकत्वस्य व्यभिचारः [६०.१६] साध्यरहिता वृत्तिर् अनैकान्तिकत्वम् इति यावत् | प्रतिषेध्यस्यावश्यंभावित्वस्य यद्विरुद्धं अनवश्यं८भावित्वम् तेन यद्व्याप्त(प्तं) हेत्वन्तरापेक्षित्वं तस्योपलब्धिः विरुद्धव्याप्तोपलब्धिर् {२०] इ[६०.१९]ति च विरुद्धव्याप्त्यो(तो)पलब्ध्यप्रसङ्ग इति द्रष्टव्यम् परोपगमेन पक्षधर्मतासिद्धेः | यत्र हि व्याप्तिर् वास्तवी पक्षधर्मता तु परोपगमसिद्धा स प्रसङ्गहेतुः | यत्र तु त्रितयं प्रमाणसिद्धं स स्वतन्त्रो हेतुर् इत्य् आशय एषः |
SK
तस्य [६०.२०] च परिमितस्य१ [३०ब्] हेतोः तदाश्रयस्य [६०.२१] रङ्गाश्रयस्य वस्त्रादेः | उपधातकः प्रत्ययो विधुरप्रत्ययस् तदुपनिपातेन नावश्यंभावितेत्य् अनवश्यं भावितेत्य् अर्थः | पुनः शब्देन रागाद् विनाशं [६०.२२] भिनत्ति | तद्धेतुसन्निधे[६०.२४]र् विनाशहेतुसन्निधेः प्राक् [६०.२४] | त एवोपधातक(का) विनाशकाः स्युस् ततश् च सहेतुको विनाशः सिद्ध इत्य् अस्याभिप्रायः |
SK
तकारणानां२ च [६०.२७] स्वकारणायत्तसन्निधित्वाद् इत्य् एव संबद्ध्यते | सन्निहितानाम् अपि विनाशहेतूनां संबन्धीनीमानि विरोधीनि {प्. ३१२} शक्तिविबन्धकानि योगिपिशाचादीनि तेषाम् अप्य् आनन्त्यात्[६०.२८] | तद्भावे [६०.२८] तेषां विरोधिनां सद्भावे | तच्छक्तिप्रतिबन्धात् [६०.२८] तस्य नाशहेतोः शक्तेर् उपघातात् | यदि ते तद्धेतवस् तैर् अवश्यं तत्फलैर् भाव्यम् इत्य् आह ३नावश्यम् इ[६०.२८]ति | इतिर् हेतौ सापेक्षो ऽपि [६०.२९] हि निद्रादिर्वते (हरिद्रादिवस्त्रे) द्रव्यापेक्षोपि किं न स्याद् इति प्रश्ने बौद्धीयं वचनं स्याद् [६१.२] यदि तथोपलभ्येते[६१.२]ति | तथा [६०.३] सर्वगतत्वेन | यद्य् एवम् इ[६०.३]ति परः | अन्यथाभाव[६१.४]स्य क्वचिद् अभवनस्य शंका संदेहस् तया नाधातव्यो [६०.४] न करणीयो भवद्भिर् इति च प्रकरणात् | ४अनेनैतद् परो दर्शयति सर्वत्रोपलब्धस्यान्यथाभावशंकैव भवतः प्रेक्षावतो न युक्ता केवलम् अनेन व्याजेन नूनं परसिद्धान्तस्यानवद्यतया मनःखेद एव त्वया क्रियत इति | किं[८५]पुनर् इ[६१.५]ति सिद्धान्ती | सामान्यविशेषाकाराभ्यां प्रश्नः किंपुनःशब्देन निपातानिपातसमुदायेन दर्शि५तः | समस्तवस्तुविस्तरव्यापी [६१.५] सर्ववस्तुबाहुल्यव्यापी ज्ञानालोको [६१.५] यस्य भवतः स तथा | यथा तु वस्तुविस्तरशब्दसिद्धिस् तथा पुरस्ताद् अभिहितम् | तथाभावे [६१.६] सर्ववस्तुदर्शित्वे वा कस्यचिद्धेतुकृतो विनाशो दृष्टः | सर्वस्यैव ताद्रूप्यमनिवारितम् इति आह -- कस्यचिद् इ[६१.६]ति | तुर् अवधारणे हेत्वा६यत्तजन्मनाम् [६१.७] कारणान्तराधीनोत्पत्तीनां वस्त्ररागादीनाम् अन्यथापि दर्शनाद् [६१.८] अपितृते(अपीतत्वे)नाप्य् उपलब्धेर् हेतोः उपजाता[६१.८]न्यथात्व शंका प्रकरणाद् विनाशस्याभावसंदेहो यस्य पुंसस् तथा सन् | अनेनार्थान्तरानुबन्धिनि विनाशो साध्ये कृतकत्वस्य संदिग्धविपक्षव्यावृत्तिकत्वेनानै७कान्तिकम् आह | कृतकम् अपि चायम् [६१.९]इत्यादिना तु साधारणानैकान्तिकं दर्श्यति | भावाभाव[६१.१०]शब्देन प्रध्वंसाभावो विवक्षितः | तस्यैव स्वनिष्पत्ताव् अपेक्षितपरव्यापारत्वेन कृतकत्वात् | तथात्वेनेष्तत्वाच् च | नित्यतोपगमे कारणम् आह तद्विनाश [६१.१०] इति | तस्य भावाभावस्य प्रध्वंसलक्षणस्य विनाशे भावस्य८ प्रध्वस्तस्योन्मज्जनमाविर्भावस् तस्य प्रसंगात् [६१.१०] प्राप्तेः |
SK
__________NOTES__________
SK
[८५] किं वा पुनर् इति S
SK
स्याद् एतन् नित्यं सत्त्वादिप्रसङ्गेन नाहेतुकं वस्तुनाम् उज्जनम् | न च घटादेर् भावस्य तद्विनाशविनाशोन्वयव्यतिरेकाभ्यां कारणत्वेनावगतो ऽपि तु कुलालादिर् एव | तत् कथं विनाशविनाशे तदुन्मज्जनमासंज्यमानमभजमानं न स्याद् इति | तद् ए१[३१अ]तद् अवद्यम् | तथाहि घटाभावव्यावृत्तिर् {प्. ३१३} एव घटो घटविनाशश् च घटा(ट)भावव्यावृत्तिर् इति घटाभावस्याभावे घटरूपोन्मज्जनासंजनं ज्याय एवेति |
SK
अत्रैवोपचयहेतुम् आह न चे[६१.११]ति | स [६१.१४] नाशो ऽहेतुः सन् तस्य [६१.१४] प्रध्वंसाभावस्य कथं[८६]जायेत [६१.१४] जनितुम् अर्हति |
SK
__________NOTES__________
SK
[८६] संजायते S
SK
भाषानां [६१.१७] वस्तूनाम् अयं विनाशाख्यो धर्म ऐकान्तिको ऽ[६१.१७]वश्यंभावी | २अनेनैतद् दर्शयति -- नैव कृतकत्वं निर्विशेषणं साधनम् अस्माभिर् अभिधीयते येनैवं स्यात् किन्तु वस्तुत्वविशेषणानव(णेनाव)विच्छिन्नं ततो वस्तुत्वे सति यत्कृतकत्वं तदवश्यंभाविनाशम् इत्य् आर्थ इति | कुतः पुन[६१.१७]र् इत्यादिना सिद्धान्ती प्रतिविधत्ते क्षेपे किमः प्रयोगान् न कुतश्चिद् इत्य् अर्थः | एतद् इ[६१.१८]ति भावानाम् अवश्यभावी विनाश इति | तेषां ३भावानाम्[८७]अन्यथात्वस्य [६१.१८] अविनाशित्वस्यानुपलब्धेर् एतद् अवसितम् इति प्रकरणात् | भवन्न् अपि [६१.१८] विद्यमानोपि | आत्मादेः [६१.१८] सत्ताया अनिवर्तक [६१.१८] आत्माद्यभावस्यासाधकः कथम् अन्यत्र [६१.१८] वस्तुषु अन्यथाभावम् अविनाशित्वं निवर्तयति [६१.१९] निषेधयति | आत्माद्युपन्यासेन चैतद् दर्शयति | यद्य् अविनाशित्वानुप४लम्भो ऽविनाशाशित्वाभावं साधयति तर्हि विशेषाभावाद् आत्माद्यनुपलम्भोपि तदभावं साधयेत् | न चायम् अपीति दृष्टान्तविघटनं परस्याशंकमान आह तस्ये [६१.१९]ति | तस्य आत्मादेः आत्मनस् तावद् रूपरसादिप्रत्ययानाम् एकानेकत्वसाधकस्याबाधितप्रतिसन्धानविषयत्वादेर् अनुमानात्५ | आदि[६१.१८]शब्दसंगृहीतस्य च दिगादेः पूर्वापरादिप्रत्ययादेर् अनुमानत इति बुद्धिस्थम् | इतिना [६१.१९] वक्तव्यस्याकारः कथितः | तत्राप्य् अनुमाने [६१.२०] तत्सत्त्वसाधके |
SK
__________NOTES__________
SK
[८७] अन्यथाभावस्य S
SK
ननु यस्यानुपलब्धिस् तस्याभाव एवेत्य् अभिधातरि को ऽयम् उपालम्भः | विपक्षेपि हेतोर् वृत्त्यदर्शणे ऽभावसिद्ध्यविरोधात्; आत्मादेस् त्व् अ६नुपलब्धिर् एवासिद्धा ततो नाभावसिद्धिर् इति | साधूक्तं भवता केवलं तत्रापी[६१.२०]त्यादि ब्रुवतो ऽभिप्रायो न सम्यग्व्यज्ञायि | अयं खल्व् अस्याशयः | तावद्धेतोर् विपक्षे ऽनीक्षणं न क्षमते अभावं विभावयितुं, यावद् यद्य् अन्नोपलभ्यते तत् तन् नास्तीति न सिध्यति | सति चैवमात्माद्यनुपलभ्यमानम् असत्सि७द्धम् इति प्रमाणप्रतिक्षिप्तं कथं अनुमानस्य विषयः स्यात्? तद् उक्तं ᳚व्याप्तो हेतोर् अनाश्रय᳚ इति | यदि वानुपलम्भ एव प्रतिबन्धशून्यः केवलो ऽनुपलम्भो देशकालविप्रकृष्टेषु कथं तथाभावम् अवबोधयेत्? यतस् तेन सिद्धिविपक्षा हेतुव्यावृत्तिर् आत्मादेः सत्त्वम् अनुमापयेद् इति | प्रयोगभङ्ग्यैव [६१.२५] प्रयोग८विन्यासेनैव प्रसङ्गेना[६२.१]नुषङ्गेन प्रस्तावेनेति यावत् | {प्. ३१४} साध्यदृष्टान्तधर्मिणोः समानः [६२.३] सदृशो हेतुसद्भावलक्षणो धर्मः [६२.३] प्रतिपाद्यतया यस्य [६२.३] प्रयोगस्यासौ सधर्मा, समानस्येति योगविभागात् समानस्य पक्षादिष्व् इति वक्तव्ये परिग्रहाद् वा स भावस् तस्य भावो [६२.३] भवतो ऽस्माद् अभिधानप्रत्ययाव् इति कृत्वा [३१ब्] १ रूपविशेषः | तयोर् एव विसदृशो [६२.४] हेतुसद्भावासद्भावलक्षणो धर्मः प्रतिपाद्यतया यस्य तस्य भावः [६२.५] अशेषस्य साध्येतरधर्मिणः (साध्यधर्मिणः) साध्यधर्मणोवान्यत्र सर्वत्र साध्ये हेतोर् व्याप्तिर् विवक्षिता | न तु साध्यधर्मणो ऽन्यत्र दृष्टान्तधर्मिणि प्रवृत्तेन सर्वोपसंहारेण गृह्यमाणा व्याप्तिर् बहिर्व्याप्तिः तस्या निरासः [६२.१] |
SK
ननु च सत्त्वलक्षणे २स्वभावहेतौ साध्यधर्मिण्य् अपि विपर्यये बाधकप्रमाणवृत्त्यापि व्याप्तिर् ग्रहीतुं शक्यत इति | नैतद् अपेक्षया हेतोर् अन्यत्र वृत्त्यपेक्षया किंचिद् येनेदम् आसज्येत | किंतु कार्यहेतोः सर्वस्य स्वभावहेतुविषयस्य चावश्यम् अन्यत्र प्र(अ)वृत्तिर् अपेक्षणीया | तदर्थं अन्यत्राअनुवृत्तिर् इत्य् आशङ्कितम् इति किन् न भवान् व्याचष्टे८ | आचार्यस्य च सत्त्व३हेतूपन्यासानन्तरं यथा घटादय [६२.९] इत्य् उदाहरणदर्शनात् तु त्वदीयं व्याख्यानम् अपव्याख्यानं लक्ष्यत इति निर्भर्त्सनामाशङ्क्यास्याचार्यस्यान्यदृशम् अभिप्रायम् उद्घाटयन्न् आह यथा घतादय [६२.९] इति | यस्य [६२.९] पुंसः | किं पुनस् तत्र स्मृत्याधानार्थं दृष्टान्तवचनम्, न तु दृष्टान्तमात्रप्रतिपादनार्थम् इत्य् आह -- दृष्टान्ते[६२.११]ति४ | अनेन पुरुषविशेषं प्रति एतद् आचार्येणेति नास्मद्व्याख्यानस्य किंचिद् अवद्यम् इति दर्शयति |
SK
विभक्तिविपरिणामेन सम्बन्धम् एव सर्वस्मिन्न् इ[६२.१६]त्य् अनेन दर्शयति |
SK
बहिर् एवध्याप्तिर् बहिर्व्याप्तिस् ताम् | ते [६२.२३] निरस्ता भवन्ति [६२.२५] इति सम्बन्धः | यद्य् अपी[६२.२४]ति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे | तावते[६२.२४]ति साधनधर्मस्य साध्यधर्मेणान्वयदर्शनमात्रेणेति | अस्य [६२.२४] साधनधर्मस्य तथाभावस्य साध्येनान्वीयमानत्वस्य अभावात् [६२.२४] | प्रतिबन्धम् अन्तरेण तदभावे ऽपि तदभा(तद्भा)वाविरोधाद् इति भावः | इतिः [६२.२५] हेतौ | तस्य प्रतिबन्धसाधकस्य प्रमाणस्य[८८]स्मरणाय [६३.३] | धर्मविशिष्टः [६३.४] सिषाधैय्षितधर्मविशि६ष्टो धर्मी [६३.५] शब्दादिः | तस्याः [६३.६] साध्यधर्मविशिष्टधर्मिप्रतिपत्तेः | व्याप्तिप्रदर्शनपूर्वके पक्षधर्मप्रदर्शने ऽभिधाय पक्षधर्मप्रदर्शनपूर्वके व्याप्तिप्रदर्शने ऽप्य् आह -- तत्पूर्विकायां चे[६३.८]ति | तत्पूर्विकायां पक्षधर्मप्रदर्शनपूर्विकायां व्याप्तौ [६३.८] {प्. ३१५} प्रदर्श्यमानायाञ् चेति शेषः सर्वोपसंहारेण व्याप्तिग्रह७णे प्लवमानाकारायाः प्रतिपत्तेर् उभयत्राविशेषान्मुखभेदमात्रेणैतद् उक्तम् इत्य् अवसेयम् |
SK
__________NOTES__________
SK
[८८] तत्स्मृतये S |
SK
साध्यनिर्देशः प्रतिज्ञा [६३.२४] तस्याह् प्रयोगः [६३.२४] प्रयुक्तिः स न[८९]दर्शितः [६३.२४] साध्यनिर्देशो न कृत इत्य् अर्थः | प्रत्यक्ष[६४.१२]ग्रहणं प्रमाणोपलक्षणं द्रष्तव्यं तेन तभिस्रायां रात्रौ प्राक्तनादिविप्रकृष्टे देशे कर्पूरोर्णादिगर्थ(गन्ध)विशेषाद्धू८मविशेषम् अनुमानतो निश्चित्याग्निविशेषम् अनुमिन्वतो ऽपि सङ्ग्रहः | प्रतिज्ञाप्रयोगरहिताद् इ[६४.१६]त्य् अवधारणफलप्रदर्शनम् एतत् |
SK
__________NOTES__________
SK
[८९] नोपदर्शितः S |
SK
अत्रार्थितैव कर्णम् आगत्य बुद्धिस्थं प्रकाशयति य पिशाची सा किल कर्णपिशाचिका [६४.१८] |
SK
लिङ्गस्य पक्षधर्मान्वयव्यतिरेकात्मनो गमकस्य अनुसरणं [६५.१२] निश्चयनम् | इतिः [६५.१४] हेतौ | उपहसति [६५.१४] त१[३२अ]त्ताम् अधिरोहति | किम् उपहसतीत्य् आह -- यत् तद् इ[६५.१४]ति लोकोक्तिश् चैषा | कथं तत्स्पर्धास्योच्यत इत्य् आह तत् तुल्यत्वाद् इ[६५.१५]ति | अस्य [६५.१५] अनुमातुः | क्रमस्य [६५.१५] समानाधिकरणषष्ठ्य् एव वा |
SK
᳚तद्वचनस्ये᳚[६५.२३]त्यादिना पूर्वं स्वयं कारणम् अभिधाय आचार्योक्तं कारणं दर्शयितुं परं प्रश्नेनोपक्रमयति कस्माद् इ[६५.१३]ति | यदि प्रतिज्ञाप्रयोगे ऽपि सा शङ्का तर्हि२ किं तेनेत्य् आशङ्क्य पर एवाह अनित्य [६६.१३] इत्यादि | तदा(तुना) [६६.१३] प्रतिज्ञाप्रयोगपक्षं विशिनष्टि ᳚असति साध्यनिर्देश[६६.९]᳚ इत्य् एवाभिसम्बध्यते | हेतुश् च विरुद्धश् च अनैकान्तिकश् च तेषां प्रतीतिः [६६.१४] निश्चयो न स्यात् | इदम् एव दूषणं तेन समुच्चितम् | अत्रैव दूषान्तरम् अपि समुच्चिन्वन्न् आह | हेतोश् चे[६६.१७]ति | स्वपक्षविशेषं दर्शयन्न् आह |[९०]सति त्व् इ[६६.१८]ति | यवते[६६.२७]ति तृती३यान्तप्रतिरूपको निपातः किन्त्व् एतस्यार्थे वर्तमानो अत्रोपपत्तेः | तस्मिन् निबद्धतद् (तस्मिन् इव तद्वत्) विषयः साध्यलक्षण उपस्थाप्यते [६७.३] उपनीयते येने[६७.३]त्य् अर्थकथनम् एतत् | उपस्थाप्यते येन पुरुषेणासौ तथा, विषयस्य तथेति तु विग्रहः | तेनानिर्दिष्तविशेषेण केनचिद् विना [६७.४] कथं पुनस् तान४(तेन) साध्यम् उपस्थाप्यत इत्य् आशंकायां योज्यं --[९१]प्रतिज्ञाद्वारेणेति | [६७.३]
SK
__________NOTES__________
SK
[९०] ᳚तु᳚ नास्ति S | [९१] प्रतिज्ञावचनद्वारेनेति S |
SK
{प्. ३१६} एवं तावद् अनेन व्याख्यातम् | केचित् पुनर् अन्यथाप्य् एतद् व्याचक्षते | उपस्थाप्यते प्रकाश्यते येन [६७.३] वचनेन तेन विना [६७.३] | अयम् अपि ᳚प्रमेयस्योपदर्शनम् अन्तरेण᳚ [६९.२४] इत्य् अत्रोपदर्शनशब्देन वचनम् एव व्याख्यास्य[ति] न तु पुरुषम् | तद् अपि ५अग्निर् अत्राग्निमानयं साग्निर् अयम् इत्यादिरूपेणानिर्दिष्टविशेषं विवक्षितम् इत्य् अतः -- केनचिद् इत्य् उक्तम् इति कार्यिणो [६७.५]र्थिनः | अर्थित्वं चान्वयब्राह्मणाप्राप्त्यादिना द्रष्टव्यम् | मूल्यं [६७.६] निष्क्रयं मृगयते [६७.६] प्रार्थयते | इतस् ततः पार्वणश्राद्धादिभोजी द्विजः पर्वब्राह्मणः [६७.६] | अमुम् एव दृष्टान्तं विवृण्वन्न् आह यथे[६७.६]ति | दक्षिणा [६७.७] अत्र प्रकरणाद् भोजनानन्तरं दानं द्रष्टव्यम् | अन्यदा [६७.७] अर्थविशेषाप्राप्तिकालाद् अन्यस्मिन् काले | प्रार्थनापूर्वकम् इतस् ततो भोजनशीलतौर्ध्वरथ्यिकः[९२]पर्वब्राह्मणसदृशस्य चैतद् विशेषणं चरणम् | श्र(श्रा)द्धादी[६७.८]त्य् अत्रादिग्रहणाद् उपनयनसमावर्तनादिपर्वसङ्ग्रहः | अर्थित्वमा७त्रेपि नैतद् वचनं तस्य सम्भाव्यत इति तं विशेषयन्न् आह -- श्रद्धालु[६७.८]म् इति | श्रद्धालुं श्रद्धावन्तम् | अनेन श्रद्धानुविद्धम् एवार्थित्वं कार्यशब्देन वार्तिककृतो विवक्षितम् इति दर्शयति | घृतपुरः [६७.८] खाद्यविशेषस् तं प्रति | सोपि मह्यं प्रचुरो दातव्य इति विरुक्तेन दर्शयति |[९३]रूप्यं [६७.९] प्रचुरतरताम्नाल्पतररूप्यघटितो द्रव्य८विशेषः | दक्षिणायथादौ (णादौ) च प्रायेण रूपकेण व्यवहारः | ददा[९४]त्य् अभिसम्बन्धाद् द्वितीया | तेन [६७.९] एवंवादिना पर्वब्राह्मणेन |
SK
__________NOTES__________
SK
[९२] और्ध्वरथिकः S | [९३] रूपकं S | [९४] ददासि S |
SK
ननूक्तम् एतद् यथा परार्थे ऽनुमाने लिङ्गं परस्माद् एव प्रत्येयम् इति तत्पुनस् त्वया न अपहस्तितम् इति आशंकायां यद्[९५]अस्मद्वचनाद् अपी[६७.१७]त्य् उक्तम् | तद् व्याख्यातुं किं चे[६७.११]त्यादिनोपक्रमते१ [३२ब्] किं चेति च ब्रुवाणो नियतं वक्तव्यान्तरसमुच्चये | अर्थाद् आचार्यस्याभिप्रेत इति दर्शयति न त्व् अस्यैव वक्तव्यान्तरसमुच्चयार्थः किंच[६७.११]शब्दप्रयोगो घटते | यद् अपि ब्रवीषीत्यादेर् अस्मद्वचनाद् अपीत्याचार्यवचनान्तरव्याख्यानपरत्वस्य व्यक्तत्वात् | अथवायं निपातानिपातसमुदायः किञ्चशब्दो ऽस्य विवक्षितः किन्तु २चकारः अपिशब्दस्यार्थे | तेन किम् अपीत्य् उक्तं भवति | ततो ऽयं वाक्यार्थो यद् अपि किम् अपि ब्रवीषीति | एवं च ब्रुवता लोकोक्तिर् अनुकृतेति | तद्वचनस्य [६७.१८] लिङ्गवचनस्य, अनुसरिष्यति [६७.२०] तद् एव लिङ्गम् इति प्रकृतत्वात | अङ्ग[६८.१]शब्दो ऽत्राध्येषामन्त्रणे | किं[६८.१]शब्दः सामान्यतः प्रश्ने पुनः [६८.१] शब्दस् तु विशेषतः | तेनायम् अर्थो {प्. ३१७} युष्मा३न् एवाध्येष्य सामान्यतो विशेषतश् चैव पृच्छाम इति | उपहासे चेयम् अध्येषणा प्रकरणाद् द्रष्टव्या |
SK
__________NOTES__________
SK
[९५] यतः अस्मद्वचनाद् अपि S |
SK
आदि[६८.४]शब्दाद् वैधर्म्यवत् प्रयोगस्य हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च ग्रहणं | प्राक् प्रतीति[६६.२३]शब्देनाचार्येण साधर्म्यवैधर्म्यवत् प्रयोगयोर् हेतुविरुद्धानैकान्तिकानां हेतोस् त्रैरूप्यस्य च स्वरूपप्रतीतिर् विवक्षितेत्य् अभिप्रेत्य साधर्म्यवत् प्रयोगदेः [६६.२४] प्रतीतिर् इति व्याचष्टे | अतएव क्रमेणैतत् सर्वं दर्शयिष्यते |
SK
ननु किम् अवश्यं प्राप्तिः पक्षधर्मस्य च प्रयोगो येनैवम् उच्यमानं शोभते इत्य् आशंक्याह -- एवं मन्यत [६८.९] इति | तद् अनित्यम् इति उक्तं [६८.१८] इति योजयित्वा किं ५तन्मात्रोक्त्या सो ऽवगम्यत इत्य् अशंकायां पक्षधर्मवचने सती[६८.१८]ति योज्यम् | यत् कचिद् इ[६९.५]त्यादि तु[९६]पूर्वम् एव कृतव्याख्यानम् | अनुमानकाल एवात्र व्यवहारकालो [६९.६]भिप्रेतः | न पक्षादिसङ्केतग्रहणापेक्षा [६९.६] वस्तुगतिर् इत्य् अनुवर्तते | आचार्यपादै[६९.१२]र् इत्य् आचार्यवसुबन्धुम् अभिसन्धा६योक्तम् | नान्तरीयकार्यदर्शनं तद्विदो ऽनुमानम् इ[६९.१२]त्य् आस्यायम् अर्थः | योर्थः किंचिद् अन्तरेण न भवति स नान्तरीयकः | अत्र च सामर्थ्याद्यम् अर्थम् अन्तरेण न भवति तन् नान्तरीयक इति ग्राह्यम् | स चासावर्थश् चेति तदा तस्य दर्शनम् | दर्शनेन च विषयिणा विषयस्य तस्यैव दृश्यमानस्य७ निर्देशः | तेन निश्चीयमान एवासौ परोक्षार्थहेतुर् भवतीति दर्शितम् | तद्विद [६९.१२] इति तन्नान्तरीयकतां यो वेत्ति तस्येत्य् अर्थः | अनुमान[६९.१२]हेतुत्वाच् चानुमानम् उक्तम् | इति[६९.१३]र् गमकरूपमात्रस्य स्वरूपं दर्शयति[९७]वादविधौवादविधिसंज्ञके प्रकरणे | तत्राप्य् आ[६९.१४]चार्यीये लक्षणे | कैश्चि[६९.१४]द् उद्द्योतकरप्रभृति[भिः] | कुतः पुनर् असंत एव दोषास् तैः कीर्त्यन्त ८इत्य् आशंकायां योज्यं स्वप्रज्ञे[६९.१४]ति | स्वप्रज्ञाया अपराधो दोषस् तस्मात् | तु[६९.१४]र् अवधारयति | तथा ह्युद्द्योतकरेण किलानुमानसूत्रवार्तिके ऽपरे तु ब्रुवते नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानम् इति᳚ (Nयायवा. प्. ५४) पठित्वा तस्यार्थं मात्रया विवृत्त्यैव ᳚अत्रार्थग्रहणम् अतिरिच्यत᳚ इति मात्रयैव दूषणम् उक्त्वा पुनर् विपञ्चितम् -- ᳚नान्तरीयकार्य इति समासपदम् एतत् | तत्र यदि षष्ठी१ [३३अ] समासो नान्तरीयकस्यार्थ इति | नान्यन्तरीयकं तावत्कृतकत्वम्, तस्यार्थो धर्मः प्रयोजनम् वा? यदि तावद् धर्मः कृतक[त्व]स्यार्थः, सत्त्वप्रमेयत्वाभिधेयत्वाद्य् अनुमानं प्राप्तम् | अथ प्रयोजनम् अनित्यत्वप्रतिपत्तिर् हेतुः प्राप्तः | अथ बहुव्रीहिर् नान्तरीयको र्थो यस्येति | तत्रापि कृतकत्वं नान्तरीयकं तद् यस्य स हेतुः प्राप्तः | तच् च कृतकत्वं घटादेः {प्. ३१८} २शब्दस्यानित्यत्वस्य वा | यदि घटादेः, घटादिर् हेतुः प्राप्तः | अनित्यः शब्दो घटात् | अथ शब्दस्य, शब्दो हेतुः प्राप्नोति | अनित्यः शब्दः शब्दात् | अ(अथा)नित्यत्वस्य[९८]साध्यसाधनकृतकत्वं धर्मस् तथाप्य् अनित्यः शब्दो ऽनित्यत्वाद् इति प्राप्नोति | अथानित्यत्वस्यार्थः कृतकत्वम् इति | सर्वथा कृतकत्वम् अनित्यत्वे न हेतुः स्यात् | अथ समानाधिक३रणो नान्तरीयकश् चासाव् अर्थश् चेति | तथाप्य् असमर्थः समासो विशेषणविशेष्यनियमाभावात् | उभयपदव्यभिचारे सति समानाधिकरेणा भवति नीलोत्पलवत् नीलशब्दस्यानेकार्थप्रवृत्तत्वाद् उत्पलशब्दस्य च तथाभावात् सामानाधिकरण्यं भवति | न पुनर् इह नान्तरीयकत्वे इत्य् उ(क इत्य् उ)क्ते४स्ति व्यभिचारो ऽर्थो ऽनर्थ इति येनार्थग्रहणं समर्थं स्यात् | एकपदव्यभिचारो ऽपि दृष्टं सामानाधिकरण्यं पृथिवी द्रव्यम्᳚ इति चाशंक्योक्तम् ᳚अन्यथा तं(तत्)पृथिवी द्रव्यम् इति | अत्रोभयपदव्यभिचारः | प्रधानाङ्गभावस्य भेदेन पृथिवीशब्देन द्रव्यम् अप्य् उच्यते पृथ्वीत्वञ् च | द्रव्यशब्देन च प्रधानाङ्गविवक्षया५ द्रव्यं द्रव्यत्वञ् च अत एवोभयपदव्यभिचारात् पृथिवी द्रव्यम् इति युक्तम् उक्तम् | इह पुनर् न युक्तं नान्तरीयकद(कार्थद)र्शनम् इति | कस्माद् अर्थप्रत्यायनार्थत्वाच् छब्दप्रयोगस्य -- अर्थप्रत्यायनार्थं हि शब्दस्य प्रयोगम् इच्छन्ति | नान्तरीयक इति चोक्ते ऽर्थो गम्यते | अतो न युक्तो ऽर्थशब्द इति | तद्विद इति न युक्तम् नैवान्यथानान्तीयक (?) इति | न हि नालिकेर् अद्वीपवासिनो धूमदर्शनान् नान्तरीयक इति ज्ञानम् अस्ति | अतस् तद्विद इत्य् अपि न वक्तव्यम् |᳚ (Nयायवा. प्. ५४-५५) असन्त एव दोष इति ब्रुवाणश् चायम् एवाभि(वम् अभि)प्रैति | समासान्तरपक्षभाविनस् तावद् दोषानभ्युपगममात्रेणैकप्रहारनिहताः | समानाधिकरणसमासस् त्व् एकपद६व्यभिचारेपि दृष्टत्वान् नानुपपन्नः | तथा ह्य् अर्थो नान्तररीयको ऽपि स्याद् अनित्यलक्षणो ऽनान्तरीयको ऽपि स्यात् नित्यलक्षणः | तत एकपदव्यभिचाराद् अपि सामानाधिकरण्यम् अविरुद्धम् | अथ त्वन्मते नित्यो नामास्त्य् एव कल्पविपरिवर्ति तावद् अस्ति, तत एवैतद् उपलप्स्यते | अन्यथायम् अनित्यध्वनिः कं व्यवच्छिंद्यात् |बौद्धाभिमतस्य८ च तथाभूतस्य क्षणिकत्वस्य केनचिद् अनिष्टेः तथाभूतव्यवच्छेदात् नैवाक्षणिकज्ञानवास्त्वित्यादौ प्रयोगे ऽयम् अक्षणिकध्वनिः कं व्यवच्छिंद्यात् | अथ नान्तरीयक इति पूर्वम् उक्ते ऽर्थस्यावगतत्वात् किम् अर्थपदेन येनैवं समासश् चिन्त्येत | हन्ताकाशा[दि]शब्देनैव पूर्वभाविना द्रव्यादिरूपस्यावगतत्वात् किं द्रव्यादिशब्देन ये१[३३ब्]न तत्रापि तथा समासः स्यात् | तद् एवम् आदौ य एव ते परिहारः समाधिर् भ(स मे ऽपि भ)विष्यति इति यत् किञ्चिद् एतत् | यत् तु पृथिवी द्रव्यम् इत्य् अत्रोभयपदव्यभिचारं दर्शयित्वा सर्वत्रोभयपदव्यभिचाराद् एव समानाधिकरणः समासो भवतीति दर्शितं तद् योगः(तत् पापीयः) | आकाशद्रव्यं दिग्द्रव्यं कालद्रव्यम्, {प्. ३१९} सामान्यपदार्थः, विशेषपदार्थः, समवाय२पदार्थः षट्पदार्थः याचकपुरुष इत्यादौ उभयपदव्यभिचारस्य ब्रह्मणापि विभावयितुम् अशक्यत्वात् सामानाधिकरण्यस्य च दर्शनात् | न ह्य् एषाम् आकाशादीनां सामान्यं केनचिद् अप्यते संगच्छते वा येनाकाशादिशब्दानाम् आकाशाकाशत्वाद्यनेकार्थवृत्तित्वाद् उभयपदव्यभिचारे समानाधिकरणः समासः स्यात् | ३नापि षण्णां किञ्चित् सामान्यम् अस्ति यस्याप्य् अभिध्याद् अ(भिधानाद् अ)यम् अप्य् उभयपदव्यभिचारो वर्ण्यते | न च याचकशब्देन कर्मापि तज्जातिर् अपि वाभिधीयते | अत्र चोपपत्तिर् अन्यत्राभिहितेति नोच्यते | न चाकाशद्रव्यं, सामान्यपदार्थः, याचकपुरुष इत्यादि कर्मधारयः समासो न४ दृश्यते | किञ् च यथा पृथिवीशब्देन पृथिवी पृथिवीत्वञ् चोच्यत इत्य् उभयपदव्यभिचारात् पृथिवीद्रव्यम् इति युज्यते वक्तुम्, तथा नान्तरीयकत्वं नान्तरीउअकश् च, अर्थशब्देनाप्य् अर्थत्वम् अर्थश् चोच्यत इत्य् उभयपदव्यभिचाराद्युक्तार्थ एव समासः | अथ त्वन्मते नार्थत्वाद्य् अस्ति | यदि नाम वास्तवं नास्ति तथापि कल्पितं तावद् अस्ति | तावतापि शब्दसिद्ध्युपपत्तेर् उक्तप्रायम् एतद् इति किं बहुना? वस्तुवृत्त्याभावान् नान्तरीयकार्थो धूमो भवति | तस्य दर्शनं [६९.१२] नान्तरीयकार्थदर्शनम् अपि भवति | तत्र यदि तद्विद [६९.१२] इति नोच्येत तदा नालिकेर् अद्वीपायातस्य धूमदर्शनम् अनुमानम् आपद्येत ततस् तद्विद इति वक्तव्यम् एव | न च नान्तरीयको ऽर्थ इति ज्ञानम् ए६व नान्तरीयकार्थज्ञानम् इत्य् उच्यते, येनैवम् उच्येत | किंतु वस्तुतो ऽनान्तरीयको यो न भवत्य् अर्थः, तस्य यद्दर्शनं तद् अपीत्य् अलम् अतिशब्दार्थपर्यवदातमतीनां वचन विधा(चा)रणयेति | प्रतिज्ञावचनं न युक्तम् इ[६९.१६]ति सम्बन्धः | कथम् अयुक्तम् इत्य् आशंकायां पक्षधर्मेत्या[६९.१६]दिकारणवचनम् |
SK
__________NOTES__________
SK
[९६] पृ. २६०. पं. २३ [९७] नास्ति S | [९८] अनित्यत्वस्य साधनभावेन कृतकत्वं धर्मः | Nयायवा. प्. ५४
SK
संशयितादिक[६९.२५]म् इत्य् अत्रादि७ग्रहणेनाप्रतिपन्नस्य जिज्ञासोश् चावबोधः | सामान्यन्यायसिद्धाम् अस्तिक्रियाम् अपेक्ष्य मुक्त्वे[६९.२९]ति पौर्वकालिकः प्रत्ययः प्रत्येयः |
SK
संशयजिज्ञासादिक[७०.९]म् इत्य् अत्रादिशब्दात् प्रयोजनादिपरिग्रहः | तथामुनैवादिग्रहणेन पञ्चम्यन्तस्यापि हेतुप्रयोगस्य संग्रहः कार्यः | असति हि साध्याभिधाने कुत एतद् इति हेत्वा८कांक्षाया एवाभावात् | साध्यसिद्धौ हेतोर् निमित्तत्वं कथयन्तीं पंचमीम् उच्चारयन्तं कथम् इव विचक्षणा तयाच(णा न प्रत्याच)क्षीरन्न् इति | दृष्टान्त एव वचनकर्मतां नीयमान उपसंहरणं तद् अपेक्षः उपसंहारो [७०.११] ढौकनं सत्त्वप्रदर्शनम् | दृष्टान्तदृष्टसामर्थ्यस्य हेतोर् इति च प्रकरणाद् द्रष्टव्यम् | साध्यशब्देनोपचारात् साध्यधर्मीष्टः | [३४अ] १पष्ठीसप्तम्योर् अभेदाच् च साध्यधर्मिणीत्य् अर्थो बोद्धव्यः | इति[७०.१३]र् लक्षणस्य स्वरूपम् आह प्रतिज्ञाया [७०.१४] लक्षणम् इत्य् अनुवर्तते |
SK
{प्. ३२०} तस्य प्रमाणवलायातस्यार्थस्य संप्रत्ययो [७०.२८]न्यथाशंकार्थाव्य(-काव्य)वच्छेदः तदर्थं यथा भवति | यदि प्रमाणानां व्यापारो निगमनेनोपसंह्रियते | तदैतद् युज्यते वक्तुम् | न चास्य तथात्वम् इत्य् आशंक्याह अशषे[७०.२८]ति चो[७०.२९] यस्माद् अर्थे२ | व्यापारशब्देन व्यापारफलम् अभिप्रेतम् | ननु कानि पुनर् अत्र प्रमाणानि सन्ति यद्बलायातार्थोपसंहरणम् अस्य वर्ण्यत इत्य् आशङ्क्य परै एषाम् अवयवानाम् एवं प्रमाणत्वरूपम् आख्यातम् इत्य् आख्यातुं तथाही[७०.२९]त्यादिनोपक्रमते |
SK
उपरी[७१.४]ति प्रकरणाद् अन्यकृतस्य नाम्न इति द्रष्टव्यम् | तथाहि ते कस्यचिद् राजपुत्रस्य महामात्रस्य वा३ योगिनो(ना)न्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा चा(वा) तदु[त्]साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जते ऽत एव नामलेखनम् इ[९९][७१.४]ति णिचा निर्दिष्टम् | अयुक्ततया निष्फलम् अपी[१००][७१.५]ति वास्तवानुवादो ऽप्य् एष प्रकृतोपयोगी | बालप्रतारकञ् च तत्तदुपयोगवर्णनञ् चेति४ तथा तल्लक्षणया [७१.१३] | वैयर्थ्यादि स्याद् इति सम्बन्धात् प्रतिज्ञावचनस्ये[७१.२१]त्य् उक्तम् |
SK
__________NOTES__________
SK
[९९] नामलेखने -- S [१००] ᳚अपि᳚ नास्ति -- S
SK
ननूद्योतकरोपवर्णितम् अस्य प्रयोजनम् अस्तीति कथं वैयर्थ्यम् इत्य् आह यत् तूक्तम् इ[७१.२२]ति | दत्तम् उत्तरम् इ[७१.२३]ति | ᳚तेनैव तावद् दर्शितेने᳚[६६.३]त्यादिनोक्तत्वाद् उक्तम् | यथोक्ते च स्वयम् उत्तरम् आह यश् चे[७१.२३]ति | तदभावे [७१.२७] प्रथमं साध्यल५क्षणकर्मनिरूपपणाभावे | स्वार्थानुमानदृष्टश् चे[७०.२१]त्यादिना च यदुपनयसमर्थनार्थं परेणोक्तं तत्प्रतिविधातुकाम आह यश् चाग्नी[७२.१]त्यादि | चो यस्माद् अर्थे | कदाचिद् इ[७२.४]ति यदा धूमं दृष्ट्वा तस्याग्निना व्याप्तिम् अनुस्मृत्य तं तत्त्वेन प्रत्यवमृश्य प्रत्येतीति | अस्य [७२.४] प्रत्यवमृश्य प्रत्ययार्थस्य | तदे[७२.४]त्याद्य् उ६त्तरम् | अथ तदन्तरेणापि यत् पक्षार्थप्रतीतेर् अविधानान् न तेन किञ्चिद् इति ब्रूयात् | समानम् इदं प्रकृते ऽपीति च बुद्धिस्थम् अस्यैवं ब्रूवतो द्रष्टव्यम् |
SK
प्रमाणव्यापारसमर्थनार्थञ् च यद् उक्तं[१०१]तत्राप्य् आह | यत् पुनर् इ[७२.७]ति | न क्वचिद् आगमे पठ्यत [७२.९] इति ब्रुवता चागमप्रतिज्ञयोर् एकविषयत्वाद् आगमः प्रति७ज्ञेत्य् उच्यत इति ये वर्णयन्ति [ते] निरस्ताः | यो हि प्रतिज्ञयोच्यते ऽर्थः स एव चागमेप्य् उच्यते तदैव तत् स्यात् | न चैवम् अतो निरासः |
SK
__________NOTES__________
SK
[१०१] प्. ७० पं.२९
SK
{प्. ३२१} हेतुशब्देन गमकवचनं वाच्यम् | गमकञ् च त्रैरूप्यवल्लिङ्गम् | न च पञ्चम्यन्तेन तेन शब्देन लिङ्गस्य त्रैरूप्यम् अभिधीयते किन्तु पक्षधर्मत्वमात्रम् [७२.११] निमित्तभाव एव चेत्य् एवं व्८अदितुर् अभिप्रायः | एतेन तद् अपि विनिक्षिप्तम् यत् कैश्चिन् निपुण(णं)मन्यैर्नैयायिकैर् उच्यते, ᳚प्रतिज्ञार्थं साधयितुं समर्थं पक्षधर्मत्वेनोपसंहर्तव्यं लिङ्गं अनुमानं तदभिधायी शब्दो हेतुः सो ऽप्य् अभिधेयस्य नियमहेतुत्वात् बाह्याङ्गं सामानाधिकरण्यं चाभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पाररंपर्ये[३४ब्] १ण चैकचिषयत्वाद् इति | ᳚तावद्धि धूमादिवस्तु न लिङ्गं यावद् वह्न्यादिनान्तरीयकतया न निश्चीयते, धर्मिविशेषे च क्वचिन् नोपलीयते | तन्नान्तरीयकतया निश्चितं क्वचिद् उपसंहृतं च साध्यसाधनसामर्थ्यं भवति नान्यथा | न च पचम्यन्तेन ᳚धूमाद्᳚ इत्यादिना शब्दे[न] तस्य तन्नान्तरीयकत्वं पक्षे च सत्त्वं कथ्यते | उदाहरणोपनययोर् वैयर्थ्यंप्रसङ्गात् | २तत् कथं प्रतिज्ञार्थसाधनसमर्थलिङ्गाभिधायित्वं तस्य शब्दस्य येन ᳚तदभिधायी शब्दो हेतुः᳚ इत्य् उच्यते, स तथा बाह्याङ्गम् इति चोच्यते ᳚हेतुर् अनुमानम्᳚ इति सामानाधिकरण्यं तथा कल्पेतेति |
SK
प्रत्यक्षेण साध्यसाधनयोर् व्याप्तिस् तत्र गृह्यत इति दृष्टान्तः प्रत्यक्षो ऽभिप्रेतः | अत एवायं न सर्वः प्रत्यक्ष [७२.१२] इति | नैव स३र्वत्र दृष्टान्ते प्रत्य्क्षेण साध्यसाधनयोर् व्याप्तिर् गृह्यते | यथा भवन्मत एव नित्य आत्मा सत्तासम्बन्धित्वे सत्यनाश्रितत्वात्, परमाणुवद् इत्य् अत्र दृष्टान्ते नित्यत्वं सत्तासम्बन्धित्वे सत्यनाश्रितत्वं यौ धर्मौ तयोर् व्याप्तिर् अनुमानेन गृह्यत इत्य् अभिसन्धिः | अनेनैतद् अपि प्रत्युक्तं यत् तैर् एवनैयायि४कप्रवरैर् उच्यते -- ᳚साध्यसाधनयोर् व्याप्तितो विषयो दृष्टान्तः | तत्र प्रत्यक्षेण व्याप्तिं गृहीत्वा पश्चाद् उदाहरति | तेन प्रत्यक्षं नियामकम् अस्तीति᳚ | उदाहरणम् अपि वाक्यस्य भागान्तरम् इति प्रत्यक्षेण व्याप्तिग्रहणस्यासर्वविषयत्वात् क्वचिद् भावात् तथाभिधाने च तत एव दृष्टान्तो ऽनुमान५म् इत्य् अभिधीयेतेति |
SK
तस्य तदातिरिक्तार्थग्रहणाभावाद् इत्य् अभिप्रायेण उपमानं तु प्रमाणम् एव न भवती[७२.१३]त्य् आह | एतच् च बहुबाध्य(बहुवाच्य)म् अन्यत्रोक्तम् इति नेहोक्तम्, सिद्धस् त्व् अर्थो ऽनूदितः | अनयैव च द्वारा यद् उच्यते तैर् एव ᳚यथातथेति दृष्टान्तदार्ष्टान्तिकयोः सारूप्यप्रतिपत्तिर् उपमानम् अतिदेशेवाक्य६ता, पक्षधर्मत्वग्राहिप्रमाणवचनम् उपनयः | अत्राप्य् उपमानं नियमहेतुत्व(त्वं) धर्मिणि वा साधनधर्मस्य संभवं बोधयदसंभवं निवर्तयति यत्प्रमाणं तन्नियामकम् अस्तीति उपनयोपि नियमहेतुमत्त्वाद् भागान्तरम्᳚ इति तद् अपि प्रत्याख्येयं द्विविधस्यास्य वर्णितस्योपमानस्याप्रामाण्याद् एव७ कथं नियामकम्? येनोपनयनस्य नियमहेतुकसिद्ध्या {प्. ३२२} भागान्तरत्वं सिद्ध्येत् | धर्मिणि च साधनधर्मस्य सम्भवं परिच्छेद(च्छिद्य) प्रत्यक्षम् अनुमानं वासंभवं निवर्तयतीति अत्रापि प्रत्यक्षं नियामकम् अस्तीति दृष्टान्तवद् उपनयोपि प्रत्यक्षम् इति वक्तव्यः | क्वचिद् अनुमानस्यापि तथात्वाद् अनुमानम् इत्य् अपीत्य् अलम् अतार्किकवचननि८र्बन्धेन | तद्व्यापार [७२.१४] उपमानरूपोपनयव्यापारः | स एवो[७२.१६]पनय एव |
SK
स्याद् एतद् -- अनित्यः शब्द इत्य् उक्ते कुत एतद् इति श्रोतुर् अपेक्षोपजायते | न तु धर्मिणि लिङ्गस्य सत्त्वो(सत्त्वा)पेक्षा | तस्मात् प्रतिज्ञानन्तरं परापेक्षितसाध्यप्रतिपत्तिर् अपि तु प्रति(पत्तिहेतुप्रति)पिपादयिषया पञ्चम्यन्तस्य तदभिधायिनः शब्दस्य प्रयोगो न तु ध[३५अ] १र्मिणि लिङ्गस्य सत्त्वप्रतिपादनार्थः | ततो न तस्य पक्षधर्मताप्रतिपादनं प्रयोजनम् इति कथं पक्षधर्मत्वं स एव दर्शयिष्यतीति न किञ्चित् तेनेत्य् उच्यमानं शोभेतेति | अत्रोच्यते | अनित्यः शब्द इति प्रतिज्ञोपादानेपि तदनन्तरम् एव यद् यद् कृतकं तत् सर्वम् अनित्यम्, यथा घटस् तथा चायं कृतक इत्य् उक्ते साध्यप्रतीतौ किं निमित्ताकांक्षोपश२मो नास्ति? येन पञ्चम्यन्तस्य लिङ्गाभिधायिन एव तदुपशमः प्रयोजनं वर्ण्येत | यदि सत्य् अवादी भवान् नैवं वक्तुम् अर्हतीति | किञ् च यो यस्मिन् किञ्चिद् निमित्तभावम् अपेक्षते न स तत्र शशविषाणायमानस्य तत्त्वम् अपेक्षते | अपि तु तत्र सत एवेति कथं शब्दानित्यत्वसिद्धौ कस्यचिन् निमित्तावमपेक्षितवता सत्त्वं नापेक्षितम् | येन ३परानपेक्षितं सत्त्वं प्रतिपादयितुं न तन्निमित्ताभिधायिनः शब्दस्य सामान्य(म् अर्थ्य)म् अस्तीत्य् उच्येत तस्माच् छब्दादौ धर्मिणि लिङ्गस्य साध्यसिद्धौ निमित्तभूतसत्त्वप्रतिपादनं हेतुप्रयोगस्य प्रयोजनम् अवश्यैषितव्यम् | य(त)च्चोपनयेनापि शक्यं संपादयितुम् इति साधूक्तं किं[१०२]तेने[७२.१७]ति |
SK
__________NOTES__________
SK
[१०२] न किञ्चित् तेन S |
SK
संप्रति निगमने यथाश्रुति ४दूषणम् आह -- यत्र[१०३]प्रतिज्ञाया [७२.१८] इति | अथापि स्यान् नायं पुनः शब्दः [अ]प्रथमे किं तर्हि सादृश्ये, यथा ᳚अचिरप्रभा पुनर् निश्चरति᳚ इत्य् अत्र | सादृश्यञ् च कियद्रूपेणास्त्य् एव | यद् वा यद्य् अपि सिद्धनिर्देशो निगमनं साध्यनिर्देशश् च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वम् आसीत् तस्याइव निगमने सिद्धत्वम् इत्य् अवस्था५वन्तम् एकम् आश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्य् उपचर्यते तथा च पुनर् वचनम् अप्य् उपपन्नम् इति | न चैतन् निगमनं निष्प्रयोजनम् आशंकनीयम्, साध्ये विपरीतप्रसङ्गप्रतिषेधार्थत्वाद् अस्य | तद् उक्तं ᳚साध्यविपरीतशंकाव्यवच्छेदार्थं निगमनम् इति᳚ | यद्य् अपि च लिङ्गम् आश्रयवत्साध्याविनाभावि च६ प्रतिज्ञादिभिर् अवयवैर् आख्यातं तथापि निगमनम् अन्तरेण व्यापकविरुद्धप्रसंगाशंका स्यात् | {प्. ३२३} अन्यद् एव हि दृष्टान्तधर्मिणि साध्यं यत्साधनधर्मस्य व्यापकम् आसीत् | अन्यद् एव च धर्मिण्य् अनित्यत्वं तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्यमानः साध्यविरुद्धम् अब्यापकत्वेन विशेषा७भावान् मूढमतिर् नित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् | तथा च सति साध्यविपर्यये हेतोर् वृत्तिशंकायां बाधकं प्रमाणं तद् एव वाच्यम् यदुदाहरणस्थयोः साध्यसाधनयोः प्रतिबन्धग्राहि | अतएव तस्माद् इत्य् अनेन सर्वनाम्ना प्रतिबद्धं लिङ्गं साध्यविरुद्धशंकां निवर्तयितुं प्रकृतत्वात् प्रत्यवमृष्यते | तस्माद् विपर्ययशंकानिवर्तकप्रमाणोपस्थाप८कं निगमनं साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं भवतीति | तद् एतन्नैयायिकप्रवरस्य प्रकृष्टं प्रज्ञास् स्वलितविलसितम् | तथा हि साध्ये निर्दिष्टे हेतौ चाभिहिते डृष्टान्ते चोदाहृते दृष्टान्तदष्टसामर्थ्ये च हेतौ साध्यधर्मिण्य् उपनीते कः सचेतनो ᳚येन विना यो न भवति धर्मः स भवंस् तदभावम् अप्य् उपस्थापयति᳚ इति निश्चीन्वीत संशयीत वा येन [३५ब्] १विरुद्धप्रसङ्गशंकानिराकरणाय निगमनम् अभिधीयेत | न चायम् अनुन्मत्तो ऽनित्यत्वे द्वे षस्यति(पश्यति) येनान्यद् एव दृष्टान्तधर्मिणि साध्यम् अनित्यत्वम् अन्यद् एव च साद्यधर्मिण्य् अनित्यत्वे तच् च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्येत यतो ()व्यापकत्वेन विशेषाभावात्त् अनित्यत्वम् अपि धर्मिणि प्रसञ्जयेत् | न च विशेषेण व्याप्तिम् असाव् अग्र२ही[द् इ]ति, विशेषेण व्याप्तेर् अवासम्भवात् | तथा चोक्तं -- ᳚व्याप्तिः सामान्यधर्मयोः᳚ इति | अन्यथा सत्य् अपि तस्मिंस् तद् आशंके(का) नापाक्रियेत | एतेन सप्रतिपक्षत्वशंकानिराकरणत्वम् तत्प्रयोजनम् इति यत् कैश्चिद् उपवर्ण्यते तद् अपि परास्तम् अवसेयम् | अथ मोहमाहात्म्याद् एवम् अपि संभाव्यत इति चेत् | अपयातं तर्हि पञ्चावयवत्वं वाक्यस्य | ३सम्भवत्य् अपि कश्चिन् मूढतरमतिर् यः पञ्चावयवे ऽपि वाक्ये प्रयुक्ते नानित्योपीति वचनम् अन्तरेण शब्दस्यानित्यत्वं नियतं न प्रत्येति | अस्ति च दिगम्बराणांविप्रतिपत्तिः -- स्यान् नित्यः शब्दः स्याद् अनित्य इति | तद्भावव्युदासाय नानी(नि)त्योपीत्य् अपि किं नोच्यत इत्य् अलम् अतिविस्तरेण निष्प्रयोजनकत्वेन | निगमनस्य वाक्याङ्गत्वे४ निरस्ते प्रथमम् उपदर्शितं यद् उभयेषां मतं तदरण्यानीरुदिततुल्यं जातम् इति किं तत्रोक्तेनेति | ज्यायान् [७२.२१] श्रेष्ठतरः | प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा यस्य स तथा तदात्मकः [७२.२१] सामस्त्य् अनिषेधश् चैष द्रष्टव्यः | हेतुर् इ[७२.२५]त्य् अभिधानाभिधेययोर् अभेदविवक्षया साक्षात् पारम्पर्येण एकविषयत्वाद् वा५ पक्षधर्मत्वाभिधायी शब्दो द्रष्टव्यः | हेतुश् चैवानुवाद्येनात्मना प्रतिपाद्यमानो व्याप्यरूपः प्रतिपादिनो भवतीति प्रथमान्तेन तदभिधायिना शब्देन प्रतिपाद्यते | अतः प्रथमान्त एव तदभिधायी शब्दो न्याय्यः | हेत्वभिधायिशब्दमात्रापेक्षया तु पूर्वापरनियमखन्डनम् आचार्यस्य द्र६ष्टव्यम् |
SK
__________NOTES__________
SK
[१०३] यत्र च प्रतिज्ञाया S |
SK
{प्. ३२४} साधनधर्मस्य साध्यस्वभावताया एवे[७३.१२]ति स्वभावहेत्वधिकारेण विवृतम् |
SK
कार्यहेतुना व्यभिचारम् आशंक्य कार्यस्ये[७४.६]त्य् आह | तेन [७४.७] प्रतिबन्धेन | तयो[७४.७]र् अन्वयव्यतिरेकयोः |[१०४]तदभावख्यातिः [७५.७] तदभावज्ञानम्, नियतं ख्यापयतश् चायम् अभिसन्धिः | तत्तुल्य एवास्तीत्य् अभिधाने ऽतत्तुल्ये सर्वत्रान्यस्मिन् विरुद्धे ऽसति च ७नास्तित्वं लक्षणान्तरम् इति प्रसङ्गे नियमार्थम् इत्य् एव नास्तित्वं रूपं तृतीयं न पुनर् विरुद्धे अन्यत्र [७५.८] चेति दर्शयितुम् असत्य् एवेत्य् उक्तं सूत्रकारेणेति | विरुद्धत [७५.८] इति सहस्थितलक्षणेनैव विरोधेन विरुद्ध्यत इति | कथं नानुष्नाशीताद् अपी[७५.१६]त्य् आह अन्यतो [७५.१६] विपक्षाद् व्यवच्छेदस्याभावस्य प्रसङ्गाद् इ[७५.१६]ति | इति [७५. १६] दोषस्याकारं दर्शयति | तस्य [७५.१९] तदभाव८स्य | अन्यम् इच्छताम् इ[७५.२१]त्य् अभिसम्बध्यते | तथा परस्परपरिहारस्थितलक्षणेनापि[१०५][७५.१३] विरोधेन विरुद्धम् इत्य् अपि द्रष्टव्यम् |
SK
__________NOTES__________
SK
[१०४] हेतोर् अभावख्यातिः S [१०५] -लक्षणतयापि S
SK
अभिधातो [७३.१५] वेगवद्द्रव्यसंयोगविशेषोभिमतः | अभिधाताग्निसंयोगाद् एव नाशप्रत्ययौ [७६.१५] तयोः सन्निधिः [७६.१६] तं विना विनाशो न घटादिभिः संसर्गतां [७६.१६] याति |
SK
तदनपेक्षालक्षणं बाधकम् [७६.२६] | प्रसङ्गमुखेन [७६.२६] परोपगमसिद्ध [३६अ]१ पक्षधर्मताद्वारेण | विपञ्चयितुम् इ[७७.१]ति ब्रुवाणेन चाधिकप्रतिपादनार्थम् उक्तम् एवोच्यमानम् अनुवाद एव न तु पुनर् उक्तम् इति दर्शितम् | आकाशादिनित्यद्रव्यापेक्षया देशकाल[७७.२]ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् | तेनायम् अर्थो यथा नित्यानाम् अमीषां देशकालनियमो नास्ति तथा शब्दगुणत्वादिस्वभावनियमोपि न युज्यत इति दृष्टान्तार्थम् | देशस्वभा२वनियमायोग[७७.५]स् तु दार्ष्टान्तिकः | एकाङ्गवैकल्यात् [७७.३] सत्त्वलक्षणैकाङ्गहीनत्वात् | तदात्मतां [७७.५] क्षणिकत्वस्य प्रकृतस्याकृतकसदात्मतां प्रति [७७.५] | शास्त्रकार[७७.५]शब्दः प्रकरणात्कीर्तिपादेषु द्रष्टव्यः | सत्त्वस्य क्षणिकस्वभावतां प्रतिपादयिष्यती [७७.९]ति सम्बन्धः | वस्तुस्थित्यैव [७७.७] वस्तुवृत्त्यै न परोपगमबलेनेत्य् अर्थात् | अभावप्रसङ्गेन३ [७७.९] प्रकरणाद् विनाशसद्भावप्रसङ्गेनेत्य् अवसेयम् |
SK
{प्. ३२५} पूर्वाचार्योक्तं [७७.११]दिङ्नागपादोक्तं तं प्रत्यनपेक्षत्वं ख्यापयितुम् उपक्रमत [७७.१२] इति सम्बन्धनीयम् | तं [७७.१२] परेष्टं प्रति |
SK
वस्तुगतौ [७७.२५] वस्तुप्रकारे तदात्मा [७८.१] निर्वृत्तस्थिर् आत्मा | तस्य [७८.१] अन्यथाभावस्य | प्रसङ्गात् [७८.२] हेतोः | तस्यैव [७८.२] स्वहेतुतः स्थिररूपतया निर्वृत्तस्यैव अन्यथात्वायोगा४त् हेतोः | तत्र [७८.३] हेत्वगते स्थिररूपे हेतुव्यापारस्य [७८.३] कल्पयितुम् अशक्यत्वाच् च [७८.३] नान्यथाभावस् तदात्मा शक्यते कर्तुम् [७८.१] |
SK
तस्य विनाशस्य स्वभावस् तत्स्वभावस्[७८.५]तम् एव | लक्षण[७८.११]शब्दो रूपनिबन्धनः | स्वलिङ्गेन चस्यावस्थानं कृतम् | तस्य [७८.१६] भावान्तरशून्यभावान्तररूपस्य | सर्वरूपशून्यस्य ह्य् अभावस्य हे५तुस(म)त्ता विरुध्यते न त्वस्येति भावः |
SK
यदीदं भवताम् अपीष्टं तर्हि कस्माद् अस्मन्मतं नाभ्युपेयत इत्य् आह -- किंत्व् इ[७८.१९]ति |
SK
तदुत्पत्तौ [७८.२४] प्रध्वंसरूपभावान्तरोत्पत्तौ | एतस्मिन् पराभिप्रायेप्य् एवं ब्रुवाणो नियतम् एवं [७८.२६] वक्ष्यमाणकं मन्यते [७८.२३]वार्तिककार इति चार्थात् सर्वस्येन्धनादेः [७८.२६] तथाभावः प्रध्वस्तत्वं ६गवादेस् तथाभावः [७८.२७] प्रध्वंसरूपत्वम् इति द्रष्टव्यम् | द्वयम् अप्य् एतद् यत्रकुर्वन् (?) परः प्राह | तस्मिन् सती[७९.१]ति | अनेन दृश्यमानाङ्गारादिभावेन सर्वम् इन्धनादि निवर्तत इति न सर्वस्य प्रध्वस्तत्वं नापि गवादौ सतीन्धनादि निवर्तत इति न गवादेः प्रध्वंसरूपतेति परेण दर्शितम् | अस्य [७९.७] अङ्गारादेः | ध्वंसंते [७९.१३] ध्वंसम् उपयान्ति विनश्यन्तीति यावत् | दीपापेक्षयाव्यक्तता द्रव्या(बुद्ध्य)पेक्षया आत्मभावः | भावरूपाव्यक्तताभाव [७९.१५] इति ब्रुवाणस् तथात्मकाभावरूपता यावद् व्यवस्थाप्यताम् अभावैकरसत्वात् प्रतिपत्तेः | न तु भावरूपाव्यक्ततापत्तौ प्रमाणम् अस्तीति दर्शयति | एतद् एव दर्शयन्न् आह यदि ही[७९.१६]त्यादि | अत्रापि [७९.१९] उपलब्धियोग्यताविकलरूप८तापत्तौ |
SK
पर्युदासेने[८०.३]त्य् अस्य विवरणं विवक्षिताद् इ[८०.३]ति |
SK
सन् बोधगोचरप्राप्तो ऽवधिज्ञानविषयतापन्नः तद्भावे [८०.१२] वह्न्यादिभावे नश्यन्न् इति | ᳚लक्षणहेत्वो[ः] क्रियायाः᳚ (Pआ. ३.२.१२६) इति हेतौ शतु(?)र् विधानाद्धेतुपदम् एतत् |
SK
{प्. ३२६} ननूक्तया नीत्या नाशस्य तत्कार्यतोपपत्तेः कथम् एतद् आचार्येणोक्तम् इत्य् आशंक्याह अयम् अभिप्राय [८०.१६] इति | स्यान् मतम् प्र[३६ब्] १तीतिविषयोपि न च तत्र प्रतीतिलक्षणार्थक्रियाकारी | यथा साध्याभावे हेत्वभावरूपो व्यतिरेको विकल्पेन प्रतीयमानः न विकल्पस्य | कारकश् च कथम् उच्यते? न ह्य् अकारणं विषयो अतिप्रसङ्गाद् इति | नैतद् अस्ति साक्षात् कारप्रवृत्तज्ञानाभिप्रायेण तद् उक्तेर् न तत्र व्यभिचारो ऽस्ति | अनेनापि च तथाविधज्ञानविषयेणावश्यभाव्य[म् अ]न्यथा २प्रत्यक्षानुपलम्भनिबन्धनः कार्यकारणभावः कथं व्ययस्थाप्येत अत एवाह[१०६]तद्विषयस्य [८०.२४] वा कथं हेतुमत्तावगतिर् इति वा सामर्थ्य[१०७]समंगिता सामर्थ्ययोगिता भावता [८०.२७] वस्तुता, अत्यन्तपरोक्षाणम् [८१.७] असर्वज्ञापेक्षया सर्वदा परोक्षाणाम् | तर्हिशब्दार्थश् चात्र प्रकरणाद् द्रष्टव्यः | ज्ञानहेतुरूपतया [८१.८] अनुमानसिद्धयेति विवक्षितम् | ३अनेन ज्ञातहेतुरूपतया प्रतिभासनये चामीषां प्रतिष्ठितेन रूपेण प्रतिभासनम् इति परेण दर्शितम् | ने[८१.८]त्य् अनेन [अ]भावस्य प्रतिष्ठितरूपावभासनाभावं परेणेष्टं निवर्तयति | भवितृरूपत्वेन प्रतिभासनम् एव शशविषाणाद्यपेक्षयास्यापि [८१.८] प्रतिष्ठितरूपावभासनम् इति सिद्दान्तिनापि दर्शितम् | सर्वसामर्थ्य्शून्यतालक्षणेनाभावे दोषान्तरम् अन्वाचिन्वन्न् आह सर्वरूपविवेकस्य चेति [७१.९] | उन्मज्जनं [८१.१०] प्रकाश्यं यच् च चक्षुरादीनां प्रतिष्ठितरूपावभासनसद्भावावबोधार्थम् तेषां ज्ञानहेतुरूपतया प्रतिभासनाद् इति परेणेरितं तदभावेपि शक्यं५ वक्तुम् इति दर्शयन्न् आह ज्ञानविषयतयेति [८१.११] | पूर्वं त्व् अत्र गजनिमीलिकां कृत्व अन्यद् उक्तम् | अस्याप्य् अ[८१.११]भावस्यापि तद्धेतुरूपतयावभासनस्य तुल्यत्वात् [८१.११] | चक्षुरादि(दे)र् इति प्रकरणात् | यदि नामास्य ज्ञानविषयता तथापि न तद्धेतुता तत् कथं तद्धेतुरूपतयावभासनं तुल्यम् उच्यत इत्य् आह अहेतोश् चे[८१.१२]ति | ६एतच् च पूर्ववद्बोद्धव्यम् | यद्य् अभावो नाम नास्त्य् एव भवन्मते तर्हि अमूरभावबुद्धयः कमालम्बेरन्न् इत्य् आह -- अस्माकं त्व् इ[८१.१२]ति स्ववासनापरिपाकान्वया [८१.१२] इति हेतुभावेन विशेषणम् | तद्व्यतिरेकि [८१.१९] ततो निवृत्तं तदभाववद् इति यावत् | संस्पृश्येत [८१.१९] गृह्येत तत्पर्युदासेन [८१.१९] निवृत्त्यवधिव्युदासेन | सद् इति प्रत्य७याविषयस्य न भावतेति ब्रुवता यद् असदात्मकत्वम् अस्योपगतं तत्र किं स्वरूपेणासन् किं वा पररूपेणेति पक्षयोर् एकं भावं दूषयितुम् आह -- न चास्ये[८१.२४]ति स्वरूपेणा[८१.२४]नपेक्षितभावान्तरसंसर्गेण तुच्छरूपेणाप्य् असतो [८१.२४]किञ्चिद् रूपस्य | न च {प्. ३२७} भावाभावयोर् यौगपद्यम् उपपद्यते कदाचित् | न हि जीवत एव मरणम् इति घता८मण्चतीति भावः | ध्वंसेन विनाशश् च क्रियमाणः किं तदात्मा ततो ऽन्यो मृषा भावान्तररूपो वा तुच्छरूपो वेति तत्र ये विकल्पाः तत्र तृतीयस्मिन् विकय्यं भवतु[१०८]चायं [८१.२६] ततस् तद्भावेपि निमित्तीस्यादि(किम् इतीत्यादि)दूषणपरिहारयोर् आभीक्षण्ये चानवस्थाव् अभि(स्थाभि)प्रायवान् आह ततश् चानवस्थेति [८२.६] | अत इन्धनादेर् निवृत्तेः | कथम् इति सिद्धान्ती | तद्भेदा[८२.८][३७अ] १द्धेतुभेदात् | दृष्टं चैतत् सर्वत्र सहेतुके ऽन्यत्रैति दर्शयन्न् आह शाली[८२.९]त्यादि |[१०९]एकरसस्यै[८२.१३]कस्य भावस्य | संक्षेपेणैतद् अत्रानेन विचारितम् |क्षणभङ्गसिद्धौ तु विस्तरेण ततश् च विस्तररुचिन तत एवावगन्तव्यम् | साप्य् अस्मदीयाक्षणभङ्गसिद्धिर् अपेक्षितव्येति अभिप्रायवान् आह विस्तरतश् चे[८२.१४]ति | स्याद् एतत् ᳚न भवत्य् एव केवलम्᳚ इत्य् अनेन२ किम् अग्न्यादिसंयोगकाले तस्य स्वरूपाभावः प्रतिपाद्यते किम् वा तदनुवृत्तिः | न तावत् तदनुवृत्तिर् अक्षणिकत्वप्रसङ्गाद् अशब्दार्थत्वाच् च | अभावप्रतिपादने च पूर्वोक्ता दोषाः प्रसज्येरन्न् इति | नैष दोषः, अनया हि वचनभङ्ग्या परसंकुचितकालस्थाप्युत्पत्तिकाल एव स द्वितीये क्षणे न किञ्चिद् इति यद्रूपं भावस्य तत्प्रतिपाद्यते३ | न तु किञ्चिद् विधीयते | अत एवाह नास्याभवनम् अन्यद् वा भवतीति [८२.१८] | मा भूद् अग्निसंयोगादिर् नाशस्य कर्ता किं नश्च्छिनं यदि परहेतुर् अस्ति -- इत्य् आह [अ]कर्तुर् अहेतुत्वम् इ[८२.२२]ति | स खलु तस्य कर्त्ता व्ययते(पठ्यते) यः प्राग्भावी सन्नर्थान्तरं स्वान्वयव्यतिरेकाव् अनुविधापयति यथा चक्षुरादि विज्ञानस्य | तथाभूतस्यान्वय४व्यतिरेकानुविधापनम् एव हेतुत्वम्, तद्भावे भावस्य तदभावे चाभावस्य हेतुलक्षणत्वात् | अग्न्यादिभावे च भवनधर्मणः कस्यचिद् भा(चिद् अभा)वात् कर्तृत्वाभावे कथम् इव तल्लक्षणम् हेतुत्वम् एव संगम्यत इति चैवांवदितुर् अभिप्रायः | [१०६] तदविषय S [१०७] सम्बन्धिता [१०८] वायं S [१०९] एकरूपस्य S
SK
सू[११०]च्यग्रेषु स्थातुम् अशक्तः सर्षप [८२.२६] इति योज्यम् | यथायोगं सम्बन्धः ५हेत्वन्तरापेक्षितत्वं तद्विरुद्धं चानपेक्षित्वम् | तेन च प्राप्तं(व्याप्तं) स्/तत्स्वाभाव्यम् इति |
SK
__________NOTES__________
SK
[११०] सूभ्यग्रे-स्था S
SK
अवकाश[८३.१५]शब्देनावकाशवद् वचनं विवक्षितम् | तेनावसरप्राप्तं वचनम् आशङ्क्येत्य् अर्थो बोद्धव्यः | एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयं | दृष्टान्ताद् आगतो दार्ष्टान्तिकः[१११][८३.२१] | कुशूलशब्देन घटादिरचित आधारविशेष उच्यते | तदादाव् अवस्था[८३.२३]वस्थानं यस्य स तथोक्तः |
SK
__________NOTES__________
SK
[१११] कं S
SK
{प्. ३२८} अवस्थानाम् इव [८४.१८] आत्मनः प्रातिस्विकरूपस्य तद्भेदे[८४.१९]वस्थाभेदे | कथंचित् [८४.२४] केनापि प्रकारेणाभेद इत्य् अर्थस्य रखलद्गतिपदम् एवैतत् | तनोर् भेदाद् एव भेदप्रसङ्गो [८४.२६] भिन्नरूपताप्रसङ्गः | तद्वद् अ[८४.२६]भिन्नरूपावस्थातृवत् | अभेदस्य वा [८४.२६] प्रसङ्ग७ इति प्रकृतत्वाद् योज्यम् |
SK
ननु यदि भेदाभेदौ चैकान्तिकौ स्यातां स्याद् अ[न]न्तरोक्तो दोषः | यावता तयोर् अपि केनचिद् रूपेण भेदः केनचिद् अभेद इत्य् आशंकमान आह -- तयोर् अपी[८४.२६]ति | तयोर् भेदाभेदयोः, अवस्था च तद्वानवस्थावांश् च तयोर् आत्मानौ तयोश् च | तस्याप्य् अ[८५.१]भेदनिमित्ततयेष्टस्यापि रूपान्तरस्य | ८ताभ्याम् अ[८५.१]वस्थातद्वद्भ्याम् | [८५.१] अन्यथा यदि ताभ्यां तस्याभेदनिमित्तस्य रूपान्तरस्य कथञ्चिद् भेदो न स्याद् ऐकात्म्यं यदि स्याद् इत्य् अर्थः | स चासाव् अभेदनिमित्तैकस्वभावश् चेति तथा तस्मात् [८५.१] | भेदाभेदाव् इ[८५.२]ति वदितुश् चायम् आशयः -- एकात्म्यपक्षे अभेदनिमित्ते रूपान्तरे वा ताभ्याम् अवस्थातद्वद्भ्याम् अनुप्रवेष्टव्यं तयोर् वा [३७ब्] १तेनाभेदनिमित्तेन रूपान्तरेण | तत्र यदि तयोर् अभेदनिमित्ते रूपान्तरे अनुप्रवेशस् तदाभिन्नरूपमात्रस्य भावाद् अवस्थातद्वतोर् अभेद एवेति भेदस्य वार्तापि न स्यात् | अथ तस्याभेदनिमित्तस्य रूपान्तरस्य तयोर् अनुप्रवेशस् तदावस्थातद्वन्ताव् एवावस्थिताव् इत्य् अपगतम् अभेदेनेति | एवं तर्हि तस्यास्तु ताभ्यां कथञ्चिद् भेद इत्य् आह -- २रूपान्तरस्ये[८५.३]ति | कथञ्चित् त[८५.३]द् एताभ्याम् इति तु प्रकरणात् | तन्निबन्धनं [८५.३] रूपान्तरस्य ताभ्यां किञ्चिद् भेदनिबन्धनम् | यथा पूर्वं तथास्याप्य् अ[८५.४]पररूपस्य | तदन्यत् [८५.४] कथञ्चिद् भेदनिबन्धनम् | अयम् अस्य भावः -- तस्यापरस्य रूपस्य तेभ्यो ऽवस्थातद्वद्भेदनिमित्तरूपान्तरेभ्यः कथञ्चिद् भेदोन्यथा तदपरैकस्वभावाद् अत्यन्त३म् अभेदाद् अवस्थावस्थात्रभेदनिमित्तरूपान्तराणां प्राक्तनेन न्यायेनत्यंतं भेदाभेदौ प्रसज्येयाताम् | अतस् तेभ्यस् तस्य कथञ्चिद्भेदे ऽवश्यैषितव्ये तन्निबन्धनम् अपरस्यापि रूपस्यापरं रूपम् उपैतव्यम् इति | तथा तदन्यत्राप्य् एवम् एवेत्य् अपरिमितरूपतैवैकस्य [८५.४] स्यात् | तस्मा४द् इ[८५.६]त्यादिना प्रकृतम् उपसंहरति | तद्बाधां [८५.१०] प्रत्यक्षबाधाम् | अनेनैतद् दर्शयति | न प्रत्यक्षा सती प्रत्यभिज्ञा बाध्यते किंतु बाध्यमाना प्रत्यक्षाभासा सेति | एतच् चोपरिष्टाद् अभिधास्यते |[११२]अनेकान्तो ऽनिश्चयो भवेत् [८५.१२] | अनिश्चयफलत्वं संशयहेतुत्वं स्याद् इति यावत् |
SK
__________NOTES__________
SK
[११२] अनैकान्तिकता भवेत् S |
SK
एतद् एव [८५.१४] जनकाजन५कत्वम् एव |[११३]धर्म(र्मि)लक्षणस्या[८५.१७]वस्थातुर् इत्य् अर्थः |
SK
__________NOTES__________
SK
[११३] धर्मिलक्षणस्य | S
SK
{प्. ३२९} न चा(चे)यम् अवस्था कार्यविज्ञानातिरिक्तं ज्ञानं जनयति येन ज्ञानलक्षणायाम् अर्थक्रियायाम् अस्योपयोगात् सामर्थ्यं कल्प्येत्य् अभिप्रायेण सर्वसामर्थ्यविरहलक्षणस्ये[८५.२२]त्य् अवोचद् इति | अनुभावाद् इ[८५.२४]ति, हेतौ शतुर्विद्यानाद् बाधानुभवाद् इ६त्य् अर्थः | बाधासद्भावाद् ᳚बाधवर्जितम्᳚ इति सामान्यप्रमाणलक्षणस्याभावं प्रतिपाद्य विशेषलक्षणस्याप्य् अभावं प्रतिपादयितुं तत्प्रतिभासिनिश् चे[८५.२५]त्यादिनोपक्रमते | एकरूपाभावे कथं तत्त्वाध्यवसायः स्यात् सर्वेषाम् इत्य् आशङ्क्यान्यथैवास्योपपत्तिम् उपसंहारव्याजेन दर्शयन्७ आह -- तस्माद् इ[८६.३]त्यादि | सदृश[८६.३]शब्देन निरन्तरसदृशं विवक्षितम् | तेन निरन्तरस्य सदृशस्यापरस्य भाव[८६.३]स् तन्निरन्तरनिबन्धनेत्य् अर्थः | केशादिषु लूनपुनारूढेष्व् इत्य् अर्थाद् अवसेयम् | आकारसाम्यमात्रेणापहृतं प्रकरणात् यथात्वनिश्चयायोग्यीकृतं हृदयं [८६.४] चेतो येषां तेषाम् |
SK
ननु यदि आकारस्य साम्यं८ सादृश्यं नाम त्वन्मते किञ्चित् स्यात् तन्मात्रापहृतहृदयाः प्रत्यभिजानीयुः | न चैतद् अस्ति, तत् कथम् एवम् उक्तम् इत्य् आह न चे[८६.८]ति |
SK
᳚एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने |
SK
भेदे ऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ||᳚ [Pरमाणवा. ३.७२]
SK
इत्यादिना विपञ्चितत्वाद् एवम् उक्तम् |
SK
तेषु [८६.१७] भावेषु |
SK
त्रयाणाम् अपि रूपाणां प्रमाणसिद्धत्वात् [३८अ] १स्वतंत्रहेतुर् इयं व्यापकानुपलब्धिः [८७.७] |
SK
अनेन [८७.९] प्रत्यभिज्ञानेन प्रत्यक्षरूपेण अनिश्चिते[८७.१०]त्यादि प्रतिविधानम् | तावद् अस्य बाधकत्वं न भवति यावत् प्रत्यभिज्ञानस्याप्रामाण्यं न सिद्ध्यति, अन्यथा अनेनैव बाध्यमानविषयत्वाद् अस्य कथं प्रामाण्यं येन बाधकत्वं स्यात्? तावच् च तस्याप्रामाण्यं नोपपद्यते यावद् अनुमानस्यास्य प्रामाण्यसिद्ध्याबोधकत्वं न सि२द्ध्यति | इतरथा बाधवर्जितत्वादिलक्षणसम्भवे प्रामाण्याप्रच्युतिर् इतीतरेतराश्रयत्वं दोष इत्य् आशङ्क्यमानम् आह नापी[८७.१०]ति |
SK
अनुमान[८७.११]शब्देनोपचाराल् लिङ्गम् अभिप्रेत्य स्वसाध्यप्रतिबन्धाद् इ[८७.१२]त्याद्य् उक्तम् | यदि वा लिङ्गस्येत्य् अध्याहार्यम् अवचने च प्रमाणलक्षणयुक्ते बाधसम्भवे तल्लक्षणम् एव दूषितं स्याद् इति सर्वत्रानाश्वास इत्य् आभि३प्रायः |
SK
{प्. ३३०} नैवं ब्रूमहे [८७.१७] किन्तु प्रत्यक्षाभासा सती चार्थाद् अवतिष्ठते | अनुमानस्य विरोधो बाधस् तम् अश्रुवाना [८७.२०] व्याप्नुवती भजमानेति यावत् | आकारस्य [८७.२०] रूपस्य सामान्याद्[११४][८७.२०] एकतां [८७.२०] तत्त्वं[११५]प्रतीयती [८७.२१] निश्चिन्वती | आदि[८७.२१]शब्दात् फलस्य सङ्ग्रहः | सूर्योपराजितशब्देन यस्य रूढिः | आदि[८७.२२]शब्दाद्वन्येतरकर्कोटादिपरिग्रहः | तथा४भावम् एतद् अनुभवति [८७.२३] |
SK
__________NOTES__________
SK
[११४] साम्यात् S | [११५] प्रतियती S
SK
अथ किं ᳚न च स पक्षे क्वचिद् वर्तत [८८.१९]᳚ इत्य् असिद्धत्वे कारणम् इदम् उक्तम्? एवञ् चेत् न तर्हीयन्तं कालं भवान् बुद्धवान् असिद्धलक्षणम्, पक्षवृत्त्यादिना प्रकारेण हेतोस् तथाभावाद् इति | युक्तम् अवादीद् इदं भवान् यदि परं तदायम् असिद्धो हेतुर् इ[८८.१८]ति वदितुर् अभिप्रायं नाज्ञासीत् | अयं खल्व् अस्याभिप्रायः ५प्रत्यभिज्ञा नाम विकल्पविशेष एषः | स च विकल्पस्य विषयो यः शब्दस्य विषयः, शब्दसंसृष्टार्थप्रतिभासित्वाद् विकल्पस्य | स च शब्दस्य विषयो यः संकेतस्य विषयः, वाच्यवाचकभावसम्बन्धस्य वास्तवस्य व्युदस्तत्वात् | न चासामार्थ्यवैयर्थ्याभ्यां स्वलक्षणात्मनि संकेतः कर्तुम् शक्यत इति कथं वस्तु६तो भावाः केचिद् अभि(पि) प्रत्यभिज्ञानविषयात्म(त्मा)नः | तत्र(तन् न) प्रत्यभिज्ञापनत्वं(ज्ञायमानत्वं) सिद्धिम् अध्यासीत | यद् यत् प्रत्यभिज्ञायते तत् तत् पूर्वापरयोः कालयोर् एकस्वभावं यथेदम् इतितथागतान् प्रतिपादयितुम् अशक्यत्वात् व्याप्त्यसिद्ध्यानैकान्तिकश् चायम् इति | प्रौढवादितया सिद्धिम् अभ्युपगम्यापि दूषणान्तराभिधित्सया प्रवृत्त७स्य सिद्धान्तवादिनो न चे[८८.१९]त्यादिवाक्यम् | यद् वा दूषणान्तरम् अन्वाचिन्वन्न् आह -- न चे[८८.१९]ति |
SK
[११६]ज्ञानजनकस्वभावताविरहाद् इ[८८.२७]ति ब्रुवता चेदं दर्शितम् | यदि सर्वेषां जनकस्वभावता तस्यां चान्यापेक्षिता स्यात् स्याद् अदनैकान्तिकत्वम्, न चेद[म् अ]स्तीति | भेद[८८.२८]शब्दो विशेषवचनः |
SK
__________NOTES__________
SK
[११६] ᳚ज्ञान᳚ इतिपदं नास्ति -- S
SK
प्रकृते तव किम् आयातम् इत्य् आह -- तद्वद् इ[८९.१०]ति | तैः [८९.१२] बीजादिभिः अनेकान्त इति मौलस्य हेतोर् इति द्रष्टव्यम् |
SK
सामान्येना[८९.१४]विशेषेण |
SK
{प्. ३३१} न सह[८९.२२]शब्दो युगपदर्थवृत्तिराचार्येणेष्टो ऽपि तु सहोदरवद् एकार्थवृत्तिः | अपि तु एकार्थकरणम् अपि [११४.१९] यद्वर्णम् इति किं सहकारिलक्षणपर्वणि प्रतिपादयिष्यते | न च युगपत्कारित्वाद् एव भावानां परस्परसहकारित्वं घटते | घटपटादीनाम् अपि कदा स्वां स्वा[३८ब्] १म् अर्थक्रियां कुर्वताम् अपि तथाभावप्रसङ्गात् | तत् कथं ᳚सहकारिषु युगपत्करणशीलेषु᳚ [८९.२२] इत्य् एतद्भट्टार्चटो व्याचष्ट इति चेत्, नायं दोषः | न हि सहशब्दस्य एतद् व्याख्यानं युगपद् इत्य् अपि तु भाविकारणानभ्युपगमे अवश्यम् एकार्थकारिणाम् एकदा करणम् इत्य् एकार्थं बुद्धावारोप्य वास्तवं रूपम् इदम् अनूदितम् | तेन युगपद् एकार्थकरणशीलेष्व् इत्य् अव२सेयम् | एकार्थकारित्वम् एव तु लक्षणं न तु युगपत्करणम् अवश्यंभाव्यपि व्यभिचारात् | प्राज्ञाः पुनर् एतद् यथाश्रुति समर्थयन्ति |
SK
ननु लाभो महानयम् इति, न च काचिद् अक्षमा | नैवे[८९.२५]ति व्याचक्षाणो वैशब्दम् अवधारणे दर्शयति | कः पुनस् तत्रेतरेषां व्यापार इत्य् आह -- भवनेति[९०.३] |
SK
व्यापारोपयोगस्यास्य पारमार्थिकत्वं कारकत्वं हीये३ते[९०.८,९]ति संबन्धनीयम् | कुत एतद् इत्य् अपेक्षायां कार्येत्यादियोज्यम् | उपचारात् [९०.८] कारकत्वस्येति प्रकृतत्वात् | तथा [९०.१७] तद्वत् | तत एव [९०.१७] स्वसन्निधिमात्रत एव |
SK
स्वत एव [९१.१] कारणव्यापारनिरपेक्षाद् रूपाद् एव | आत्मन [९१.२] इति कार्यात्मनः | प्राग् अपि [९१.२] जन्मनः पूर्वम् अपि | रूपरूपिणोर् अनन्यत्वाद् इत्य् अभिप्रेत्य रूपभेदलक्षणात्वा४द् इत्य् उ[९१.४]क्तम् | तत् कुतो ऽसत्त्वात् |
SK
यत्र स्थितेन कार्यं जनयितव्यं स कार्यदेशो [९१.१२]भिप्रेतः | यश् चासाव् अभिप्रायश् चेति तथा तद्वता [९२.३] |
SK
ननु सर्वेषां अङ्कुरोत्पादे सामर्थ्याप्रच्युतेरनेकाङ्कुरेण नियतम् उत्पत्तव्यम् एवेति यत् परेण प्रकटितम् तत् कथम् एवंब्रुवतापहस्तितम् इत्य् आशंक्याह अयम् अभिप्राय [९२.४] इति |
SK
युगपत् कर्तृभ्य५ [९२.१६] इति पूर्ववद्बोद्धव्यम् | उक्ते सति किम् नाम प्रतीयताम् इति तत्स्वभावस्य जननाद् इत्य् अस्यानैकान्तिकत्वे मौलस्यापि तथात्वमनिवार्यम् इति परस्याशयः |
SK
न कारणभेदात् कार्यभेदः स्याद् इ[९२.१८]ति प्रसङ्गे कार्याभेदस्य बाधके परेणोक्ते कथम् एतत् तद्बाधकं भवतीत्य् आशंक्याह एवं मन्यत [९२.२९] इति | सामग्रीजन्यस्वभावत्वात् [९३.१] तदवस्थाप्राप्तानेकसमर्थजन्यस्वभावत्वात् | कार्यस्या[९३.१]भिन्नात्मन इति प्रकरणात् | नन्व् इ[९३.२]त्यादि परः | यद्य् एवम् इ[९३.४]ति {प्. ३३२} सिद्धान्ती | यद् अनेकस्माद् भवतानेकेन भवितव्यम् इ[९३.४]ति एकजातीयापेक्षयोक्तम् न तु कार्यमात्रापेक्षया, भिन्नजातीयस्यानेकस्योत्पादाभ्युपगमात् | एकं कर्तृ७तत्कार्यम् इ[९३.६]त्य् अभिन्नरूपकार्यम् | एतत् त[९३.८]द्भावे भवनम् | भवताम् इ[९३.१०]तिसांख्यानभिसंधायाह |
SK
धर्मवचनस्य संकरशब्दस्य भावाद् असंकराद् अ[९३.२३]सांकर्याद् इत्य् अर्थः | अत एवाह परस्परेति [९३.२४] | परोदाहृतकार्यापेक्षया सामग्रीभेदाद् भेदं प्रतिपादयितुं तथाही[९३.२५]त्यादिनोपक्रमते | साद्गुण्यम् आभिमुख्यम् | आदि[९३.२६]शब्दात् वासनाप्रबोधादिसंग्रहः८ | इन्द्रिय[९३.२७]शब्देन तिमिरादिविकृतम् इन्द्रियं विवक्षितमन्यतो भ्रान्तिज्ञानानुदयात् | मात्रग्रहणेन चालम्बनस्यैव निरासो विवक्षितः | न त्व् आलोकादेः तदभावे तदनुत्पत्तेः | तदन्ये[९३.२८]त्य् अत्राप्य् आलोकादि द्रष्टव्यं |
SK
उपयोगविषय[९४.४]स् तद् एकं जन्यं विज्ञानं तथाविधस्यै[९४.४]कात्मतालक्षणस्य | न भिद्यते [९४.६] नानात्वं न भव(ज)ति | किं न्व् इ[९४.८]ति नि[३९अ] १पातानिपातसमुदायः प्रश्ने | यदि वा वितर्के नुशब्दः किंशब्दस् तु प्रश्ने | वै[९४.८]शब्दो निपातो ऽत्र संबोधने |
SK
अनेकस्य भावे तेषाम् अनेन(क)जनकत्वम् इत्य् उपगते हृदयनिहितशङ्करस्वामिचोद्यः कश्चिन् नन्व् इ[९४.१२]त्यादिना चोदयति | स एव स्वातन्त्र्यपरिजिहीर्षयानैयायिकप्रवरवचनेन संस्पन्दयन्न् आह आह चे[९४.१८]ति |शङ्करस्वामीच बुद्धिस्थम् अस्य२ | तत् तस्मात् किं [९४.१९] कस्मात् | विज्ञानाभिन्नहेतुक(ज)म् इ[९४.१९]ति हेतुभावेन विशेषणम् |
SK
तेषाम् अवान्तरसामग्रीभेदाद् भेद इति प्रतिपादयितुं तेषाम् इ[९४.२०]त्यादिनोपक्रमते | विज्ञानोत्पत्तौ विज्ञानम् उपादानकारणम् | चक्षुरादिसहकारिकारणम् | चक्षुःक्षणोत्पत्तौ तु चक्षुर् उपादानकारणम्, विज्ञानादि सहकारिकारणम् एवम् अन्यत्रापीत्य् ए३कम् उपादानकारणम् इतरत् सहकारि कारणं कृत्वा सामग्रीणां वैलक्षण्यम् ईक्षितव्यम् | कार्याणां [९४.२५] विज्ञानचक्षुःक्षणादिरूपाणाम् |
SK
बोधरूपतादेर् इ[९४.२८]त्यादि सिद्धान्ती | अनुकार इति करोतेः णिजन्ताद्ध द्रष्टव्यः | अनुकार[९४.२८]णञ्च स्वसंततिपतितकार्यकर्तृकत्वं वाच्यम् | {प्. ३३३} एतच् चास्यैवोपसंहारे व्यक्तीकरि४ष्यते | तस्यानुकारणम् एवानुकर्तृमुखेन दर्शयन्न् आह तथाही[९५.१]ति | द्वितीयलक्षणं विवृण्वन्न् आह नियमेन चे[९५.३]ति | समनन्तरशब्दः समश् चासौ बोधरूपत्वेनानन्तरश् चाव्यवहितेनेति व्युत्पत्त्यापि प्रकृतत्वान्मनस्कार एव द्रष्टव्यो न त्व् आगमसिद्ध्याश्रयणेनोपादानमात्रे, उपादान५लक्षणस्यैवाभिधानात् शकन्ध्वादिपाठाच् च दीर्घत्वाभावोवसेयः | न चक्षुरादेर् नियमेन व्यापार [९५.४] इत्य् अर्थात् | चक्षुषो [९५.५] नियमेन व्यापार इति प्रकृतत्वात् | जन्यतया यत् स्वविज्ञानं तस्य योग्यतार्थाद् उत्पत्तुर् या योग्यता तद्धेतोह् [९५.५] | ज्ञानोत्पादहेतोर् इत्य् अर्थः | चक्षुर्विशेषणत्वे ऽपीत्थ६म् एवास्यायम् एवार्थः | अत्रापि समनन्तरशब्देपिनमन(ब्देनमन)स्कारो ऽभिप्रेतः | उक्तयोर् लक्षणयोर् आद्यं लक्षणं दुर्बोधत्वाद् उपसंहारव्याजेन स्पष्टयन्न् आह -- तस्माद् इ[९५.६]ति | स्वसंततिव्यवस्थैव कुतो येन तत्पतितकार्यप्रसूतिनिमित्तं [९५.७] ज्ञातव्यम् इत्य् अपेक्षायां योज्यम् | यद् एकाकारे[९५.७]ति | इतिः [९५.११] हेतौ | आ७(अवा)न्तरविशेषकृतत्वात् त[९५.१२]स्या एवोक्तलक्षणावान्तरविशेषकृतत्वाद् इत्य् अर्थः | तस्माद् इ[९५.१५]त्यादिना प्रकृतम् उपसंहरति |
SK
कार्यस्यै[९५.१५]कजातीयस्येति विवक्षितम् | कार्यमात्रापेक्षयानेकत्वस्येष्टत्वात् प्रसङ्गानुपपत्तेः | अन्ये(अथ) तदभुपगमात् सिद्धं भवताम् | ततो नैवं वक्तुम् उचितम् इत्य् आशंक्याह न चे[९५.१६]ति |
SK
एवं तावद्भट्टार्चटेनोपादानसहकारिलक्षणं प्रणीतम् | केचित् पुनर् अत्रैवं ब्रुवते, नैवेदं लक्षणद्वयम् उपपद्यते अव्याप्तेः | तथाहि यदि यद् एकाकारपरामर्षप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यपसूतिनिमित्तं तदुपादानकारणम् इत्य् उच्यते, तदा चन्द्रकान्तादपां प्रसवे ज्योत्स्ना न स्याद् उपादानकारणम् | यदि चन्द्रकान्त[३९ब्]ः १ःमणेरुपयतीनामपां चन्द्रिकया समम् एकाकारपरामर्शप्रत्ययहेतुत्वम् अस्ति येन तथा तया तासां तदेकसांतानव्यवस्थासिद्धौ स्वसन्ततिपतितकार्यजनकत्वेन शशाङ्कवदुपादानकारणं कल्पेरन् | न च तत्रान्यस्य तदुपादानकारणत्वम् उपपद्यते | एवम् वनस्पतिभ्यः फलप्रसूतौ त्वग्भावा[११७]विशेषस्य न स्यात् तदुपादानत्वम् | २कियद् वा शक्यते निदर्शयितुं दिङ्मात्रं तावद् उपदर्शितम् | द्वितीये ऽपि लक्षणे ऽनेनैवाव्याप्तित्वम् उन्नेयम्, न हि चन्द्रिकादेर् अवादिमात्रोत्पत्तौ नियमेन व्यापारः शक्रेणाषि शक्यते दर्शयितुम् | तादृशोत्पादो विद्यत इति चेत् | चक्षुरादेर् अपि तादृग्विज्ञानोत्पादे नियमेन व्यापार इति तस्यापि तथात्वप्रसक्तिर् इति यत् किञ्चिद् एतत् | ३सहकारिलक्षणम् अप्य् अवद्यम् | सिद्धसंतान एव हि वस्तुनि प्रागवस्थापेक्षविशेषहेतुत्वं कस्यचित् कल्प्येत | {प्. ३३४} सन्तानापेक्षकस्य तु प्रथमक्षणस्योत्पादे कथम् एवम् अभिधानं [न] साहसम् इत्य् अलं बहुनेति | अत्र तु समाधानमतद्भि(नं महद्भि)र् एव विधेयम् |
SK
__________NOTES__________
SK
[११७] ᳚भावविशेषस्य᳚ इत्य् अपि दृश्यते |
SK
उभय[९५.२३]म् इत्य् एकसामग्रीमध्यप्रविष्टकारणस्य भेदाद् अनेकत्वा४त् कार्यस्य एकजातीयस्याभेद एकत्वं कारणभेदा[९५.२०]त् सामग्रीलक्षणस्य कारणस्य सामग्र्यन्तरापेक्षया वैलक्षाण्यात् | कार्यस्यापि भेदः [९५.२०] सामग्र्यन्तरकार्याद्वैलक्षण्यम् इति | ताव[९५.२६]च्छशब्दः क्रमे | कुलालः [९५.२७] कुम्भकारः व्यग्रस्वभावानि [९६.१] अन्योन्यासहितस्वभावानि कारणान्तरसहितानि [९६.१] सन्ति यानि कार्याणीष्टकादिरूपाणि [९६.१] साधयन्ति निर्वर्तयन्ति | मृत्पिण्डस्य चर्मकारादिकारणप्रतिलम्भे सतीष्टकादिकार्यं, कुलालस्य दात्रादिप्रत्ययान्तरप्राप्तौ लवण(ना)दिकार्यम् | सूत्रस्य कुविन्दादिहेत्वन्तरसाहित्ये घ(प)टादिकार्यम् | तान्य् अपि किं भूतानि साधयन्तीत्य् आह तदन्ये[९६.१]ति | मृत्पिण्डापेक्षया बीजादिजन्येभ्यो ऽकुरादिभ्यो ६भिन्नस्वभावानि, तेभ्यो [९६.३] व्यग्रावस्थाप्राप्तकारणान्तरसाध्येभ्यो विलक्षणम् एव घटात्मकं कार्यं समग्राणि सन्ति जनयन्ति [९६.३] मृत्पिण्डकुलालसूत्राणीति सामग्र्युपलक्षणम् उक्तं न पुनर् इयन्ति एव घटस्य कारणानि | एवं वक्ष्यमाणेप्य् उपदर्शने द्रष्टव्यम् | उपदर्शितम् एवोपपादयन्न् आह तथाही[९६.४]ति |
SK
नन्य् यदि७ कुलालादिसहितो मृत्पिण्डस् तदन्यसमाग्रीमध्यप्रविष्टमृत्पिण्डकार्याद् अविशिष्टं कार्यं जनयन्ति, न तर्हि सामग्रिवैलक्षण्यात् कार्यवैलक्षण्ये निदर्शनम् इदम् उपपद्यत इत्य् आशंक्याह कुलालादीति [९६.४] | तदात्मकम् एव [९६.६] मृदात्मकम् एव घटादिलक्षणम् एव करोति | मृत्पिण्ड [९६.४] इति प्रागुक्तो ऽभिम्सम्बध्यते कर्ता | कुतो विलक्षणं ८करोतीत्य् आह तत्कार्याद् अपीष्टकादेर् इति [९६.७] | केन कारणेणेत्य् आह केवले[९६.७]ति | केवलमृत्पिण्डाद् भिन्नः स्वभावो यस्य मृत्पिण्डस्य स तथा तस्य भावस् तत्ता तया [९६.७] | केवलशब्देन च कुलालादिरहि[त]तामात्रं विवक्षितम् | न तु कारणान्तरसाहित्यव्यवच्छेदस् तेन तत्कार्याद् इ[९६.७]ति कारणान्तरसहितमृत्पिण्डकार्याद् इत्य् अर्थः | कुतस्त्यस्तस्या [४०अ] १सौ बिन्नः स्वभाव इत्य् आह -- तत्कारेणे[९६.६]ति | तस्य कुलालस्यार्थात् कुलाल[क्षण]लक्षणस्य प्रत्यासीदतो यत्कारणं प्राक्तनक्षणस् तेनाहित उत्पादितो विशेषो [९६.६] विशिष्टं रूपं यस्य स तथोक्तः | अनेनैकसामग्र्यधीनाविशिष्तोत्पत्तिः सूचिता | हेतुभावेन चैतद् विशेषणम् | चो [९६.६] व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे | एवम् उपादानभावे चोभय२त्र व्याप्रियमाणस्यापि मृत्पिण्डस्य सहकार्या(र्य)न्तरप्रतिलम्भादात्मनोपि सतः कार्यस्य तदन्यसहकारिसहितकार्यात् विलक्षणस्यैव {प्. ३३५} जनकत्वं प्रतिपाद्य सहकारणस्याप्य् उभयत्र सहकारिभावेनैव व्याप्रियमाणस्य कुलालादेर् उपादानान्तरप्राप्तौ तदन्यसहितकार्याद् विलक्षणकार्यजनकत्वम् अतिदिशन्न् आह -- एवम् इ३[९६.८]ति तदन्योपादानसहितं [९६.८] मृत्पिण्डलक्षणाद् उपादानाद् यद् अन्यद् उपादानं तेन सहितम् | मृत्पिण्डसहितं [९६.८] तद्विलक्षणम् एव [९६.९] | तस्मात् तदन्योपादानसहितकार्याद् विसदृशम् एव घटादिकं कार्यं जनयति [९६.१०] | इति[९६.१०]र् यथा मृत्पिण्डादीत्यादेर् आचार्यीयवाक्यस्य यः समुदायार्थस् तस्याकारं दर्शयति४ | तत्रे[९६.११]त्यादिनेदानीम् अवयवार्थं व्याचष्टे | वुघ्न[९६.१५]शब्देन मृषय(मृण्मय)पिधानविशेष उच्यते | तस्य पृथु[९६.१५]शब्देन विशेषणसमासं कृत्वा तस्योदरा[९६.१५]दीति तत्पुरुषं विधाय तद् इव तस्येव वाकारो [९६.१५] यस्येति बहुवृईहिः कार्यः | आदिशब्दात् तदवयवान्तरविशेषस्य भिन्नजातीयस्य कम्बुग्रीवादे५र् वा संग्रहः | सूत्रात् त[९६.१७]स्यैव घटस्य [९६.१८] चक्रादेर् विभक्तः स्वभावो भ्वतीति [९६.२१] सम्बन्धः | मृत्संस्थानविशेषात्मतयाइव(तैव) घटस्य कुतस्त्येत्य् आह मृत्पिण्डे[९६.१७]ति | तज्जननस्वभावत्वात् [९६.१९] मृत्संस्थानात्मताजननस्वभावत्वात् कारणात् | घटस्य तद्रूपयोगात् [९६.१९] मृत्संस्थानरूपयोगात् | अन्यद् एव सूत्रसाहि६त्येपि तयोः कथं तज्जननस्वभाव[त्व]म् इत्य् आह तन्निरपेक्षे[९६.२०]ति | तच्छब्देन सूत्रं परामृष्यते,[११८]भिन्नस्वभावत्वाद् विलक्षणस्वभावत्वात् तन्निरपेक्षावस्थातो भिन्नस्वभावतैव तयोः कथम् इत्य् अपेक्षायां सूत्रकारणोपहितविशेषयोर् इ[९६.२०]ति हेतुभावेन विशेषणपदम् इदं योज्यम् | निर्दिष्ट७कारणाभिप्रायेण कारणत्रय[९६.२४]ग्रहणं न तु घटस्य त्रीण्य् एव कारणानि | तदुपयोगैर् भिन्नसामग्रीव्यापारैः कार्यापेक्षस्व(ये स्व)भावविशेषाः कार्याणां विशिष्टाः स्वभावास् तेषाम् असंकरो ऽ[९६.२४]साङ्कर्यम् | तत्र यदि ते कुलालादयह् प्रत्येकं जनकाः स्युस् तदानुक्रान्तकारणत्रयजन्य [९६.२१] इत्य् उच्येत | तथापि कथं सर्वतः समुत्प८द्यमानस्याखण्डात्मनः कार्यस्यायं विशेषो ऽस्माद् अयञ् चास्माद् इति व्यवस्थाप्यत इत्य् आशंक्याह् तस्य चैकैके[९६.२५]त्यादि | इतो ऽस्तु कार्यस्य तत्सामग्रीभूतसकलजन्यत्वं तद्गतस्य तु ततद्विशेषस्य कथं तज्जन्यत्वव्यवस्थेत्य् आह तदेकैकस[जा]तीति [९६.२७] मृत्पिण्डाद्यपेक्षया मृत्पिण्डादेर् अपरस्य तज्जातीयत्वं प्रत्येयम् | [४०ब्] १ अनेनैतद् दर्शयति -- नैकस्याम् एव सामग्र्यां तस्मिन्न् एवाखण्डात्मनि कार्ये तत्तद्विशेषस्य तत्तज्जन्यत्वम् अवधार्यते अपि तु तत्तदुपचये तत् तद् उपचयत्य तत्तदपोधारे तत्तदु(द)पचयस्य दर्शणादेकत्वाध्यवसायतश् चैकाधिकरणत्वेन {प्. ३३६} व्यवस्थापिताद् इति | व्यवहर्तारश् चैवं न विपञ्चि(श्चि)त इति तत्त्वचिन्तकै[९६.२९]र् इत्य् उक्तम् | तेषाम् अप्य् एवं २विवेचनेन किं प्रयोजनम् इत्य् आह यत [९६.२९] इति | यतो ऽनन्तरोक्तविवेचनात् | अनेकम् अपि कारणं कस्मात् स्वीकुर्वन्तीत्य् आह परस्परे[९७.१]ति | क्षेपवत्यां हि सामग्र्याम् अन्योन्योत्पादितातिशयकार्यप्रणालिकया वाञ्च्छिताङ्कुरादिकार्योपजननयोग्यकारणसामग्र्यसद्भावार्थम् | एतच् चोपरिष्तात् प्रदर्शयिष्यते |
SK
__________NOTES__________
SK
[११८] भिन्नात्मकतया S |
SK
᳚यत्र यद्योग्यं रूप३म् उपपद्यते स तस्य विषय᳚ इति तद्विषयस्य [९७.१४] घटस्येत्य् अर्थः | तदन्यावस्थाविषयात् [९७.१५] प्राप्तसहकार्यन्तरावस्थाकार्यात् | अस्ये[९७.१९]ति कार्यस्य | अनेन ᳚तज्जनितविशेषभेदस्ये᳚ति मूलस्य कार्य[९७.१७]पदविशेषणस्य बहुव्रीहौ कर्तव्ये विग्रहो दर्शितः |
SK
ज्ञानं [९७.२७] तद्रूपम् अनुकर्तुं युक्तम् [९७.२८] | ने[९७.२६]त्य् अनुवर्तते४ न युक्तं [९७.२८] नार्हतीति चार्थः | हेतौ शानचो विधानात् तद्रूपविकलार्थसामर्थ्येनो[९७.२८]त्पादाद् इति तद्रूपानुकारी(रा)युक्ततायां हेतुर् उक्तो द्रष्टव्यः | तथापि कस्मान् न युक्तम् इत्य् अपेक्षायाम् आह -- भ्रान्तते[९८.१]ति | ऐकान्तिकी [९८.३] या परेणाइकान्तिकत्वेनाभिमता सा नास्ति, एकत्वाद् एव प्रमाणसिद्धाद् इत्य् अभिप्रायः | यदि५ वा नैकान्तिकी न निश्चयवती | अथवानेकात्मतैवैकान्तिकी नेतिपूर्वेणाभिसंबध्यते |
SK
अथ विज्ञानोपजनने किम् इन्द्रियादीनि स्वलक्षणान्तरान्तराप्रसवधर्माण्यपेतसंतानान्य् एव येनैकस्यैव कार्यस्य करणम् एषाम् उपवर्ण्यते | इत्य् आह एतच् चे[९८.६]ति |
SK
ननु एकसामग्री[९८.६]शब्देन यदि विज्ञानस्य जनकः कारणकलापो ऽभिप्रेतः, तदोक्तम् एव किम् अपेतं(त)संतानता तेषाम् इति |
SK
अथैकम् उपादानम् इतरत्सहकारिकारणम् अभिसन्धाय एकसामग्रीत्य् उक्तं न तद् अपि चतुरस्रम्, तस्या अप्य् अवान्तरसामग्र्याः किं तदुपादानोपादेयस्याइव क्षणस्य प्रसवः | अथोपादेयम् अनेकं न भवतीत्य् अभिप्रे७यते | हंत तद् अपि सर्वं स्वं स्वम् उपादानम् अपेक्ष्योपादेयम् एवेति तद् अवस्थो दोष इति | उत्तर(उक्त) एव एकसामग्रीशब्दार्थः कैवलं बोधे यत्रः करणीयः | एकम् उपादानं सद् एवेतरत्सहकारिकारणसद् एव व्याप्रियते यदा तदा एकस्यैव विज्ञानस्य मनस्कारोपादानस्य चक्षुरादिसहकारिकारणस्यैव सत उत्प८त्तिर् न तु चक्षुःक्षणस्यैवंभूतस्य स[त] उत्पत्तिर् अपि तु चक्षुर् उपादानस्य मनस्कारादिसहकारिकारणस्य सत इति | एवं रूपादिक्षणस्याप्य् उत्पादे द्रष्टव्यम् स्वयम् | अत्र समुदायार्थो मनस्कारोपादानकारणचक्षुरादिसहकारिकारणात्मिका सती सामग्र्येकम् एव कार्यं जनयति | तदैवान्यज्जनयन्ती तु नैवम् आत्मिका सती ज[४१अ] १नयति | किं तर्हि चक्षुर् उपादानकारणमनस्कारादिसहकारिकारणात्मिका | {प्. ३३७} एवं रूपादिक्षणजन्मि(न्म)न्य् अपि प्रत्येयम् | अत एवैषाम् आन्तरसामग्रीभेदः कृतः परस्परतो भेद इत्य् उक्तं पुरस्ताद् इति सर्वम् अवदातम् | कस्मात् पुनर् इष्टैकसामग्र्यपेक्षयैवैतद् उच्यते, न च सामग्रीमात्रापेक्षयापीत्य् आह परमार्थतस् त्व् इ[९८.६]ति | तत्सामर्थ्यन्तर्गताना२म् इ[९८.७]ति सा च सा चक्षुरादिसहकारिकारणात्मिका सामग्री चेति तथा यत्रोपादानभावेनान्तर्गतानाम् अन्तर्भूतानां यत्र सामग्र्यां सहकारित्वेन तेषां व्यापारस् तत्र | तत्सामग्र्यन्तरं तदवयवत्वेन | कार्यान्तरस्ये[९८.८]ति सोपादेयक्षणापेक्षया तद्विज्ञानं चक्षुषः कार्यान्तरम् एवम् अन्यस्याप्य् अन्यत् तस्य कार्यान्तरस्यापि प्रारम्भाद् इत्य् अनुवर्तते ३अनेककार्यकर्तृत्वम् इति र(च) शेषः कार्यः अन्यथा कस्मिन् साध्ये पञ्चमीयं हेतुभावम् अभिदध्यात् | अस्यैवार्थस्य दृढीकरणार्थं दृष्टान्तयन्न् आह यथे[९८.९]ति | तदा [९८.१०] तद्वद् अनेकप्रत्ययजनितम् अपी[९८.९]त्य् एकम् इत्य् अस्यानुवृत्तेस् तथानेकप्रत्ययजनितम् एकम् अपि नास्तीत्य् अर्थः | इति [९८.९] हेतौ | अपि [९८.१०] न्यायतः सम्भावनाम् आह | ४यदि वा परमार्थतः कारणानेकत्वात् कार्यानेकत्वोपगमे ऽपि न काचित् क्षतिर् इ[९८.९]ति सम्बन्धः कार्यः | कस्मान् न क्षतिर् इत्य् आह -- तत्सामग्र्यन्तर्गतानाम् इ[९८.७]ति | यथेत्यादि च पूर्ववद् व्याख्येयम् | इतिस् त्व् अनन्तरोक्तान्योपादानकारणानि सहकारिकारणानि प्रत्यवमृषति, ततोयम् अर्थ उक्तलक्षणकारणानेकत्वाद् इति | संप्रति प्रकृतम् उपसंहरन्न् आह तत [९८.१०] इति | सामान्येन [९८.११] कार्यमात्राश्रयणेन | अथ सिद्धसाधनत्वं हेतोः को दोष इति चेत् | तद् एतद्धर्मोत्तरप्रदीपे ऽस्माभिर् विवेचितं विस्तरतश् च स्वयूथ्यविचार इत्य् आस्तां तावद् इह |
SK
द्रव्य[९८.१६]शब्देन द्रवति पर्यायान् गच्छतीति व्युत्पात्त्या धर्मो परिणामिनित्यो विवक्षितः ६पर्यायशब्देन च परि समन्तादेत्येति द्रव्यम् इति व्युत्पत्त्या धर्माः | आदि[९८.१८]शब्दात् स्पर्शादिसंग्रहः | घटो द्रव्यं रूपादयः [९८.१९] पर्याया इति द्रव्यपर्याययोर् एतद् उदाहरणम् इतिः संख्याभेद[९८.१९]स्याकारं दर्शयति द्वितीयस् तु संज्ञाभेदस्य | इति[९८.२२]ना लक्षणभेदस्याकारो दर्शितः | वस्तुराग [९८.२३] इत्य् उपलक्षणम् एतत् | इति७ना [९८.२३] कार्यभेदस्य स्वरूपम् आह इतिर् अ[९८.२४]नन्तरोक्तभेदाभेदं प्रत्यवमृषति | चक्षुरादीनाम् अभिन्नो य आत्मा एककार्यजनकः सामान्यभूतस् तज्जन्यता तस्य [९८.२६] | एतद् एव द्वयम् इत्यादिनोपसंहरति परः |
SK
सामान्येन पररूपाणां आत्माभेदस्य बो(स्याबा)धकत्वं प्रतिज्ञाय विशेषेणेदानीं दर्शयितुम् आह -- संख्याभेदस् तावद् इ[९९.७]ति | बहुत्वेन८ व्यवहारो बहुवचनान्तस्य प्रयोगः | बहुवचनं च ᳚युष्मदि गुराव् एकपाम्᳚ इत्य् अनेन | अनेन संख्याभेदादित्य् अस्य {प्. ३३८} साधारणानैकान्तिकत्वं दर्शितम् | धर्मधर्मिसमुदायात्मकस्य कार्त्स्न्यस्याप्रतीतिः [९९.१२] प्रसज्येत | तत्प्रतीतौ वावस्थात्रवस्थाविषयपूज्यताप्रत्ययगोचरत्वस्य गौरवस्याप्रतीतिः प्रसज्येत | अत्रैव वक्तव्या[४१ब्] १न्तरम् उच्चिन्वन्न् आह व्रीहय [९९.१२] इति चेत् यत्र बहुवचनं ᳚जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्᳚ [Pआ.१.२.५८] इत्य् अनेन | न च पर्यायरूपेण भिद्यन्त [९९.१६] इति ब्रुवता च यदि संख्याभेदो ऽनेकत्वस्य साधकः स्यात् तदा तदभेदोप्य् एकत्वस्य साधकः स्यात् | अन्यथा तस्यायोगात् | न चैवं तस्मात् संख्याभेदो न समर्थो ऽनेकत्वं साधयितुम् इति दर्शितं द्रष्टव्यम् |
SK
ततः२ [९९.१९] संज्ञाभेदात् | अनेन संज्ञाभेदाद् इत्य् अस्य संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं दर्शितम् | संप्रति साधारणानैकान्तिकत्वम् अपि दर्शयन्न् आह एकस्मिन्न् अपि चेति[९९.१९] अत्र गजनिमीलिकया पूर्वदोषो द्रष्टव्यः | समस्तस्य [९९.२१] शक्तिशक्तिमदात्मकस्य धर्मधर्मिसमुदायस्य | तयो[९९.२३]र् द्धर्मधर्मिणोस् तद्वाधिनां [९९.२४] धर्मवाचिनाम् | मात्रा [९९.२६] लेशः |
SK
३सर्वदैकरूपेणावस्थानं कूटस्थनित्यता तया [९९.२८] तत्तदवस्थारूपेण परिणमतो ऽवस्थानं परिणामनित्यता तदुपगमात् [१००.१] सा च [१००.१] परिणामनित्यता | अस्य [१००.२] परिणामनित्यस्य सुवर्णादेर् द्रव्यस्य | तद्रूपेण [१००.२] पर्यायरूपेण च्छेदो विनाशः | पर्यायाणाम् इवेति वैधर्म्यदृष्टान्तः | इयं परिणामनित्यता |[११९]कूटस्थनित्य४ता द्रव्ये पर्यायातिरिक्ते न संभवति [१००.४] | कुत इत्य् आह पर्याये[१००.५]ति |
SK
__________NOTES__________
SK
[११९] अत्र ᳚कूटस्थनित्यतावत्᳚ इति पाठः टिबेटनानुसारी सम्यग्भाति |
SK
विभक्तपरिणामेष्व् इ[१००.१२]ति पाठे विभक्तः परिणामो येषाम् इति विग्रहः | विभक्तो विशिष्तकार्यकारित्वेन नियुक्त इति चार्थ इति पूर्वे निबन्धकृतो व्याचख्युः | इदानीम् अपि केचित् पण्डितांमन्या अनेनैव पाठेन कथम् अपि व्याचक्षते | तद् एतत् पापीयः ५विभक्ति[क्त]शब्दस्यान्यार्थत्वात्, न ह्य् अयं विभक्तशब्दो विशिष्टकार्यकारित्वेन नियुक्तं वक्ति | अपि तु विभागेन व्यवस्थापितम् | किञ् च किम् अस्य शब्ददारिद्यं येन विशिष्टकार्यकारिपरिणामेष्व् इति वक्तव्यं विहाय इदम् ईदृशम् अवाचकम् आचक्षीत | सर्व एव च परिणामस् तदन्यकार्यापेक्षया विशिष्टकार्यकारीति को ऽन्यस्माद् अ६स्य पटादिपरिणामस्य विशेषः, कश्चास्य नियोक्तेति किम् अस्थानपराक्रमेण | तस्मात् क्वचित् पुस्तके प्रमादपाठ एषः | विभक्तपरिमाणेष्व् इति तु पाठो युक्तरूपः | तत्र परिंआणं मानव्यवहारकारणं {प्. ३३९} गुणविशेषः | परप्रसिद्ध्या चेदम् उच्यते तच् च दीर्घत्वाख्यम् उत्पाद्यम् अत्र विवक्षितम् | तत्र विभक्तं विभागेन७ व्यवस्थापितम् परिमाणम् येषां पटादीनां तेषु विस्तारितेषु दीर्घीकृतेष्व् इति यावत् | विभक्तायाम् आदिकर्पटादयः किञ्चिद् आवृण्वते किञ्चिच् च धारयन्ति किञ्चिद् उपबध्नन्तीति | प्रागविद्यमानं कस्यचिद्(द्)भावे भवदुत्पद्यमानं कार्यम् [१४०.१८] | हेतौ च शतुर्विधानात् पूर्वम् अभावा(भव)त् कस्यचिद् भावे भावा(भव)द् इत्य् अर्थः | भवेत् कार्यम् इति तु पापीयान् पाठः |
SK
यदि८ परस्परोपादानाहितरूपविशेषस् तत्सामग्र्यन्तर्गतः सर्व एव क्षणः प्रत्येकं समर्थ उत्पद्यते | यतो विज्ञानादिप्रसूतिस् तेन तावद् अवश्यं ज्ञानजननस्वभावेनैव भाव्यम्, अविज्ञानजननस्वभावेनैव वा, न तु परस्परविरुद्धतदतज्जननस्वभावेन भेदप्रसङ्गादित्य् अभिप्रायवान् परश्चोदयन्न् आह नन्व् इ[१००.२४]त्यादि | कथं तदन्यकार्य[४२अ]१संभव [१००.२६] इति ब्रुवतश् चायम् अभिप्रायः --
SK
᳚तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः |
SK
तद्रूपादि किम् अज्ञानं विज्ञानाभिन्नहेतुजम् ||᳚ (Pरमाणवा. २.२५१) इति |
SK
अनेककार्यक्रियास्वभावत्वाद् वि[१०१.३]ज्ञानात्मकानेककार्यकारिरूपत्वात् | तेषां [१०१.४] सजातीयेतरक्षणानाम् | तेषां चक्षुरादीनां सत्ता तदा[न]न्तर्येण दर्शनं [१०१.५] तस्मात् | ननु तत्सन्निधौ विज्ञानलक्षणकार्यदर्शनात् विज्ञानस्यैव २जनक इत्य् अवधारणात् तदवस्थे दोष कस्माद् इदम् उच्यत इत्य् आह तत्रे[१०१.५]ति | अनैनैतद् आह धर्ममात्रस्य संदेहाद् अयोगव्यवच्छेद एवात्र न्यायप्राप्तो नान्ययोगव्यवच्छेद इति |
SK
ननु च येन रूपेण विज्ञानं विज्ञानं जनयति यदि तेनैकरूपेणैव रूपं जनयति तदा तेनावश्यं तद्विज्ञानवद्बोधात्मना भाव्यम् | अथ तदन्येन रूपे३ण जनयति तर्हि विरुद्धरूपद्वयानुषङ्ग इत्य् आशङ्क्याह न चात [१०१.७] इति | अतो विज्ञानाविज्ञानजननस्वभावत्वात् | कस्मान् न स्याद् इत्य् आह -- एकस्यैवे[१०१.७]ति | आत्मातिशयस्य [१०१.७] स्वहेतुप्रत्ययसामर्थ्यायातविज्ञानाविज्ञानोपजननयोग्यस्वभावविशेषस्य | अनेनैतद् दर्शयति एकेनैव रूपेण तत्तज्जनयति ४केवलं तद् एकं रूपमीदृग्विज्ञानाविज्ञानजननम् इति | एतद् उक्तं भवति तत्सामग्र्यन्तर्गतानां सर्वेषाम् एव क्षणानां स्वहेतुभिर् इदं रूपम् उपनीतं यदुत यूष्मत्प्राग्भावे ऽनेकेनैव बोधाबोधात्मकेन कार्येण जनितव्यम् इति | एवं तर्हि विज्नानाभिन्नहेतुजत्वेन {प्. ३४०} सुखादीनां बोधात्मकत्वं दुःखसाध[कत्व]मापनीय५(प)न्नम् | तत्रापि हीदं शक्यते वक्तुं प्रोषितागतप्रियपुत्रादिक्षणस्य स्वहेतुसमूहाद् एव तथाभूतं रूपम् उप(द)पादि येन विज्ञानम् अविज्ञानात्मकं च सुखम् अन्यच् च जनयतीति शुद्धाद् रूपे(?) यदिमे(?)तद्विशेषवद्विशेषाख्याने ऽस्माभिह् परिहृतम् इति तत एवनुगन्तव्यम् इति | पूर्वम् अवधीरितावधारणनिरूपेणा६क्ताव् उक्तम् अधुना पुरस्कृतावधारणोक्ताव् इति भेदो द्रष्टव्यः | इदंतया व्यपदेशयोग्यं सनिदर्शनम् | स्वदेशे परोत्पत्तिनि(वि)बन्धकं सप्रतिघम् [१०१.११] | इयं चागमभाषा | भिन्नप्रवृत्तिनिमित्तयोर् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् तेषां तन्निमित्तानां तदयोगाद् एकत्रैव वृत्त्यनुपपत्तेः | अपेक्षायां [१०१.१४] ७तदेकोपकारापेक्षायाम्, उपकारस्योपकार्याभेदान् न्यायप्राप्ताद् इति | उक्तम् एवाधिकाभिधानार्थम् अवतारयन्न् आह -- नापी[१०१.१७]त्यादि | प्रतिबन्धाभाव एव कुत इत्य् आह -- तद्ग्राहकेति तदभावम् एव प्रतिपादयितुम् आह प्रत्यक्षत [१०१.१८] इति | एकात्मतयैव [१०१.२०] ज्योतीरूपाद्यात्मतयैव | प्रत्यक्षेणैवम् उपलम्भान् न तावत् प्रत्यक्षं तत्प्रतिबन्धसाधकम् इत्य् अर्थाद् दर्शितम् | येनानुमानेन कार्यभेदस्य कारणानेकत्वप्रतिबन्धः साध्यते तत्रापि [१०१.२०] एतच् चैकसामग्र्यन्तर्गतविशिष्टैकैककारणापेक्षया द्रष्टव्यम् न तु कारणमात्रापेक्षया कलापात् कलापोत्पत्तेर् इति | अत्रैव दोषान्तरं समुच्चिन्वन्न् आह एकस्ये[१०१.२१]ति | सहकार्य्युपादानभावेनानेकक्रियानभ्युपगमे [१०१.२१] यदि [४२ब्] १एकस्यानेकरूपत्वम् अस्माभिर् अभ्युपेतं स्यात् प्रमाणोपपन्नं तदा धर्मिस्वभावतयैव तदुच्येतेत्य् अभिप्रायेणोक्तम् एकस्यानेकस्वभावताया एव चिन्त्यत्वाद् इ[१०१.२५]ति | तद्वद[१०१.२७]नेकवत् | अन्यथेति यदि येनानेकेनैव(क)स्वभावताम् अनुभवति तद् एव परं भिद्यते | न त्व् असौ धर्मीति इति[१०२.३]र् हेतौ |
SK
एकं कार्यं यस्यानेकस्य तद् एककार्यं तस्य भावस् तत्ता [१०२.४] एक२कार्यकारित्वं न स्याद् इत्य् अर्थः | तस्यैव कार्यस्य यदात्मपुरस्कारेण धर्मिपर्यायव्यवस्था तेन भेदाद् एवैकरूपत्वाभावाद् इति समुदायार्थः |
SK
ननु नैवास्माभिर् एकम् अनेकं करोतीत्य् उच्यते येन त्वयैवम् उच्येत, किन्तु समग्रावस्थायां तदेकैकम् एव तदेकैकम् उपकल्पयतीत्य् आशंक्य न चैके[१०२.६]त्यादि प्रथमतो योज्यम् | कस्मान् न ३जनयतीत्य् अपेक्षायां तु पश्चाद्योज्यम् | नही[१०२.४]त्यादि | सहैव[१२०]युगपद् एव | एतद्दोषभयात् परस्परोपादानकृतोपकारापेक्षत्वे चेष्यमाणे तेषाम् एकैकेन भावतस्तावतः क्षणस्योपकारात् | कथम् एकम् अनेककार्यकृन् न् स्याद् इति चानेन दर्शितम् | ततश् चे [१०२.६]त्य् {प्. ३४१} एकस्यानेककार्यकारित्वासंभवात् | गतार्थम् अप्य् एतत् कण्ठोक्तं कुर्वन्न् आह | अनेकस्ये[१०२.७]त्यादि | यथायोगम् एकानेकशब्दौ सम्बन्धव्यौ | अनभ्युपगमाद् एवैकस्यानेकक्रियाविरहाद् उक्तया नीत्यानेकस्याप्य् एकक्रियाविरहाद् इति चार्थो द्रष्टव्यः |
SK
__________NOTES__________
SK
[१२०] सहैक S
SK
ननु च एकस्यानेककारित्वप्रकाराद् अनेकस्यैवैककारित्वप्रकारात् किलान्यः प्रकारो नास्ती५त्य् अभिमतम् | अस्ति खल्व् अनेकम् एवानेकं करोतीति प्रक्रान्तं तत् कथम् एतत् संगस्यत इति चेन् न | अनेकैकसामग्र्या(य)न्तःपतितेनानेकक्रियोपगमे सर्व्वस्यैवोपादानसहकारिभावेन सजातीजविजातीयविशिष्टक्षणारम्भस्य न्यायप्राप्तस्योपगमाद् एकस्यानेकक्रियोपगमप्राप्तेर् इत्य् अभिप्राया६त् सर्वम् अवदातम् | अहेतुकत्वे च तन्नियमायोगाद् इति भावः | द्रव्यपर्याययोस् तावद् भिन्नं कार्यम् इष्टम् | तौ चैकस्वभावाव् एकं वस्त्व् इति कथम् एकस्यानेककार्यकारित्वम् अनुन्मत्तेन प्रतिक्षिप्यत इत्य् अभिप्रायवान् आह द्रव्ये[१०२.१३]त्यादि | एकस्वभावत्वे ऽपि नैकवस्तुतेत्य् अह -- स्वभावस्यैवे[१०२.१५]ति | अन्यथा यदि ७वस्तुनो ऽन्यः स्वभावः स्यात् तस्य [१०२.१५] वस्तुनः एवं स्वभावस्याप्य् अवस्तुताप्रसङ्गादित्य् अपि द्रष्टव्यम् येनाभिप्रायेण कथं नोन्मत्तः [१०२.१४] इत्य् अवादीत् तम् इदानीं स्फुटयन्न् आह एकस्वभावत्वे चे[१०२.१६]ति | यदा हि तूलपिण्डादिद्रव्यं द्विपिण्डकद्रव्यनिर्माणसमय एव काकतालीयन्यायेन पवनावधूततूलांशुप्रभृतिना स्वल्पपरिमाणेन ८द्रव्यान्तरेण संयुज्यते द्रव्यारम्भकसंयोगाप्रतिद्वंद्वी(द्वि)विभा[ग]ज(भागज)नकक्रियाहेतुं च सहकारिकारणं प्रतिलभते | तदतद्द्रव्यं द्विपिण्डकं तूलद्रव्यम् | गुणं च तथाभूतसंयोगाख्यम् | कर्म च तथाभूतां क्रियाम् एकदैव करोतीति द्रव्यगुणकर्मणां समवायिकारणंवैशेषिकैर् अव्श्यैपितव्यम् इत्य् अभिप्रायो ऽस्यैवं वदितुर् अवसातव्यः | [४३अ] १अन्यथा कार्यद्रव्योदयसमकालं कार्ये [न] शुक्लादिरूपम् उत्पद्यते | किन्तूत्पन्ने कार्ये पश्चात् कारणाद् उत्पद्यते अत एवैकस्मिन् क्षणे द्रव्यम् अरूपम् अस्पर्शम् अरसम् अगन्धम् उपगम्यतेयोगैः| तस्य तु गुणस्योत्पद्यमानस्य समवायिकारणं तद् एवानन्तरोत्पन्नं द्रव्यं न तु तत्कारणं द्रव्यम् | एवं तावद् इदम् अस्माभिर् यथा कथञ्चिद् उपपादितम्, २कर्मणश् चैकस्येति तु संयोगसंस्कारापेक्षयोपपादयितुं शक्यते न पुनः संयोगविभागापेक्षया | न हि कुतश्चिद् अपि कर्मणो युगपत् संयोगविभागाव् उत्पद्येते किन्तु प्रथमं विभागस् ततः प्राच्यसंयोगविनाशस् तदनन्तरम् उ?अरसयोग इति पदार्थविदः प्रजानते | न च युक्त्याया(पा)द्यैतद् वक्तव्यम् |वैशेषिकप्रक्रियायां३ स्थित्वैवैतद् अभिधानस्य प्रकान्तत्वात् | अन्यथा किम् अस्ति कर्म किम् अस्ति संयोगादिर् येनैवम् उच्येत | अतश् चैवं यत्क्र्तान्तकोपेने[१०२.१७]त्याह | अभिन्नकालं च कार्यं विचारयितुं प्रकृतं न तु भिन्नकालम् इति किं बहुना | एतच् चवैशेषिकशैलीमनुपालयन्तो यदि केचन निपुणा मनीषिणो यथाश्रुति समर्थय४न्ति कामं समर्थयन्तु न नो हानिः काचिद् अपि तु महानेव लाभ इति |
SK
{प्. ३४२} अनवय[१२१]वत्वेन [१०२.२४] कार्त्स्न्येन | न तु सजातीया विजातीयाः समस्ता व्यक्रीर्व्यश्नुवीरन्न् इ[१०२.२५]त्य् अर्थः | कथया [१०३.१] विचारेण |
SK
__________NOTES__________
SK
[१२१] अनवयवेन S
SK
देशकालस्वभावभेदानां मध्ये देशकालाभेदस्याभेदसाधने साधारणानैकान्तिकत्वं प्रतिपादयन्न् आह तथाही[१०३.४]त्यादि५ | स्वभावाभेदपि निरूपयन्न् आह -- स्वभावोपी[१०३.५]ति | अपिर् उपगमप्रदर्शने | द्वितीयः पुनर् अपि [१०३.६] अवधारणे रूपतेत्य् अस्मात् परो द्रष्टव्यः | अनुवृत्तिव्यावृत्तिरूपते[१०३.६]ति द्रव्यस्यानुवृत्तिरूपता पर्यायाणां व्यावृत्तिरूपतेति यथाक्रमं योज्यम् | प्रत्येकम् इति प्रतिवस्त्वत्य् अर्थो द्रष्टव्यः न तु प्रत्यात्मेति | ६नहि द्रव्यस्य व्यावृत्तिरूपतापि नापि पर्यायाणाम् अनुवृत्तिरूपतापि | तद् अयम् अर्थो यदि प्रतिवस्तु द्रव्यपर्याययोर् अनुवृत्तिव्यावृत्तिरूपतैवोपगम्यत इत्य् अन्योन्यव्यावृत्तिस्वभावद्वयाविष्टं घटपटवत्पदार्थद्वयं स्यान् न त्व् एकं द्विरूपम् | इति[१०३.८]र् हेतौ | तस्मात् [१०३.८] स्वभावाभेदात् | पदार्थद्वयस्यैव न्याय७प्राप्तत्वात् स्वभावाभेदस्यैवं सिद्धत्वाद् इति भावः | अनुवृत्तिव्यावृत्त्योस् तत्स्वभावत्वम् उपेत्यैतद् उक्तम् एतद् एव तु नास्तीति दर्शयन्न् आह -- न चे[१०३.८]त्यादि अनुवर्तमानव्यावर्तमानाधानत्व[१२२][१०३.९] च भावत्वं निमित्तम् इहाभिप्रेतम् यद् अनन्तरं व्यक्तीकरिष्यते ततस् तयोस् तत्स्वभावत्वायोगात् | तत्स्वाभावत्वम् एवानयोः कथं न युज्य८ते यनैवम् उच्यत इत्य् आह -- भावत्वेने[१०३.११]ति भावत्वेन क्रियात्वेन | भवित्रधीनत्वात् [१०३.११] कर्त्रधीनत्वात् | भावयद्वा(यन् वा) उत्पत्तिमान् धर्मस् तत्त्वेन भविता धर्मी तदधीनत्वात् न तु तत्त्वाद् इति | यद्य् एककार्यकर्तृत्वाद् एकत्वं तर्हि अनेककार्यकर्तृत्वाद् अनेकत्वं स्यात् | अन्यथा तद्यो(तदयो)गात् न चैवम् इष्टं युक्तं वा तस्माद् एतद् अपि विपर्यये बाध[४३ब्] १काभावान् न वक्तुम् उचितम् इत्य् अभिप्रायवान् आह एकस्यापीति [१०३.२२] | एकस्याप्य् अनेके[१०३.२४]त्यादि ब्रुवतः पूर्ववद् अभिप्रायो बोद्धव्यः | कृताकृतानां [१०३.२२] संकेतितासंकेतितानाम् | एकाभिधानाभिधेयत्वासंभवे विश्वस्य तद्योग्यत्वं हेतुः | विषयभेदं प्रकृतत्वात् शब्दानाम् अभिधेयलक्षणविषयभेदं [१०३.२६] ब्रुवाणं [१०३.२६] प्रत्यभिहितम् अ[१०३.२६]नन्तरम् एव | एकत्रापी[१०३.२७]ति ब्रुवतश् च२ पूर्ववदभिप्रायो ज्ञेयः | अनन्तरोक्तया वचनभङ्ग्या संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं सूचयित्वा सम्प्रत्येकविज्ञानविषयत्वाद् इत्य् अस्य साधारणानैकान्तिकत्वं ख्यापयितुम् आह बहूनाञ् चेति [१०४.१] | ननु यद्य् एकं द्विरूपन्नेष्यते कथं तर्हि तद् एकं विज्ञानं बोधरूपं नीलाकारं चोत्पद्यत इत्य् उच्यत इति परस्य वचनम् आशंक्या३ह[१२३]किंत्व् इति | नीलप्रतिच्छायतया [१०४.३] नीलसरूपतया भावतो[१०४.५] वस्तुतः | अनेन व्यावृत्तिभेदम् उपादाय तथोच्यते न तु वास्तवं द्वैरुप्यम् इति दर्शितम् | {प्. ३४३} संमूर्च्छितत्वाद् [१०४.६] भूयोन्योन्यावयवाप्रविष्टत्वात् | शबलरूपत्वे चायं हेतुह् | दृष्टान्तम् एव विघटयन्न् आह स ही[१०४.८]त्यादि | स हिरण्यकशिपुवधार्थनिर्मि४तनरसिंहात्मकः | अवयविनः प्रमाणबाधितत्वाद् इत्य् अभिप्रेत्य परमाणुसंहा(घा)तरूप [१०४.८] इत्य् उक्तम् | प्रत्येकं नरसिंहरूपा न भवन्ति [१०४.९] | सर्वत्र नरसिंहद्रव्य(बुद्ध्य)भावाद् इति भावः | अनेनैव संमूर्च्छितत्वाभावेन शबलरूपत्वासिद्धेः साधनशून्यो दृष्टान्त इति दर्शितम् | तथा चाव्यवस्थितपरमाणुप्रच५याभिप्रयेण भागशब्दप्रवृत्तिर् न तु परप्रसिद्धा तस्यावयवाभिप्रायेण अवयव्यारम्भस्यानभ्युपगमात् | संप्रति भवतु नरसिंहभागाभ्यां नरसिंहावयविनो निर्माणं तथापि तस्य शबलरूपत्वासिद्धेः साधनशून्य एव दृष्टान्त इति दर्शनाद् दर्शयितुम् आह जात्यन्तरं चे[१०४.१०]ति | तासु ता६सु ह्य् अवस्थासु स एवायं नर इत्य् अनुवृत्तिप्रत्ययहेतोर् नरत्वजातेर् ऊर्ध्वतासामान्यशब्दाभिलाप्यायास् तासु चावस्थासु सिंहः सिंह इत्य् अनुगाभिप्रत्ययहेतोः सिंहत्वजातेस् तथाभूताया अन्या तासु तास्ववस्थासु स एवायं नरसिंह इत्य् अनुवृत्तप्रत्ययहेतुभूता तथाभूतैव जातिर् जात्यन्तरम् अवसेयम् | ७स [१०४.१०] इति सामानाधिकरण्येन निर्देशश् च तस्य तद्वतश् चाभेदविवक्षया समुदायविवक्षया वा द्रष्टव्यः |दिगम्बरमतस्य च प्रकृतत्वात् एवं व्याख्यायते तेन हि तिर्यक्सामान्यम् नेष्टम् उपरिष्टाच् च एतद्भट्टार्चटेनापि स्फुटयिष्यते | नापि तिर्यक्सामान्यम् अत्र कल्पयितुं युक्तम्, नरसिंहस्य तथाभूतस्यैकत्वात् अनेकवृ८त्तित्वाच् च सामान्यस्येति | शबलरूपत्वाभावम् एव विचित्रं ही[१०४.११]त्यादिनाप्रतिपादयति | अयम् अस्याशयो यदि संमूर्च्छितत्वं त्यक्त्वा यथा कथञ्चिद् अनेकरूपत्वेनापि शबलरूपतोच्यते तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य (शबलरूपतोच्यते) | तथाप्य् एकत्वाभावस्य न्यायप्राप्तत्वान् नैकस्य[१२४]) शबलरुपत्वं इति [४४अ] १प्रकृतम् एव हीयेतेति | अवश्यं हि शाबल्यम् इच्छता वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह (वैचित्र्यं नानारूपत्वम् एष्तव्यम् इत्य् अभिप्रायेणाह[१२५]) विचित्र्यं ही[१०४.११]ति | यद्य् एकं शबलरूपं चो(नो)पपद्यते कथं तर्हि लोकः शबलम् इदम् इति मन्यत इत्य् आशंक्याह केवलम् इ[१०४.१३]त्यादि | एकप्रत्ययवमर्षाद्येकं कार्यं तस्य दर्शनात् [१०४.१३] | एकव्यवहारे चायं हेतुः |
SK
__________NOTES__________
SK
[१२२] ᳚त्वेन᳚ इत्य् अपि पठितुं शक्यम् | [१२३] विज्ञानं तु S [१२४] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः | [१२५] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः |
SK
इह खलु२ वास्तवधर्मापेक्षो वास्तवो धर्मी | धर्मश् च पूर्वं कृतकविचारेण पारमार्थिको निरस्तस् तदपेक्षो धर्म्य् अपि वास्तवो व्युदस्त इत्य् अभिप्रायेण धर्मधर्मीणोर् निषेधाद् इ[१०४.१८]त्य् उक्तम् |
SK
{प्. ३४४} अनन्तरोक्तम् अर्थजातं सातिरेकं स्वक्र्ताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह -- आह चे [१०४.२०]ति |
SK
वस्तुन [१०४.२१] एकस्येति प्रकरणात् | किल[१०४.२१]शब्दो वक्तुररुचिं ख्यापयति | तयो[१०४.२२]र् द्रव्यपर्याययोः |
SK
तत्र संज्ञाभेदस्य तावद् भेदकत्वं प्रतिबध्नन्न् आह इन्द्रिये[१०४.२३]ति | वस्तुरूपं शब्दानां नैव [१०४.२४] गोचरो विषयः | अपोहस्यापि वस्तुत्वेनाध्यावसायात् विशेषयन्न् आह इन्द्रियज्ञाननिर्भासी[१०४.२४]ति | बहुवचनेन व्याप्तिम् आह तत् तस्मात् केन [१०४.२३] हेतुना | लोकोक्तिश् चैषा द्रष्तव्या | संज्ञा सांकेतिकः शब्दस् तद्भेदा४त् [१०४.२४] | अत एव सामान्येन शब्दाविषयत्वं प्रतिपादितम् | शब्दानां वस्तुगोचरत्वनिषेधद्वारा च संज्ञाभेदस्याभेदकत्वं प्रतिपादयतो ऽयम् आशयो यदि पुनः शब्दा वस्तुवृत्त्या इन्द्रियज्ञानानीव बाह्यविषया अभविष्यन् नियतम् इमे अन्योन्यभिन्नरूपाः सन्तो लोचनादिचेतांसीव रूपादीन्य् अर्थान् स्वस्वविषया५न् अभेत्स्यन्त इति |
SK
वस्तूनां तद्गो(तदगो)चरत्वे कारणम् आह -- परमे[१०४.२५]त्यादि | अभिधानाभिधेययोर् अभेदविवक्षायाम् इत्यादिवचनाद् इ[१०४.२५]त्यादिवचनप्रतिपादिताद् अर्थाद् इत्य् अर्थो ऽवसातव्यः |
SK
तत् त[१०४.२७]स्मात् कल्पितगोचराः [१०४.२७] कल्पनारूढरूपविषयाः | तत् त[१०४.२८]स्माद् यदि संज्ञाभेदाद् भेदः [१०४.२८] कल्पितस्यैव भेदो भवेद् इति यो६ज्यम् |
SK
कल्पितभेदे किं वस्तुभेदो न भवतीत्य् आह व्यावृत्तिभेद [१०५.१] इति | अर्थाक्षिप्तम् एव कंठोक्तं कुर्वन्न् आह न वस्तुन [१०५.१] इति |
SK
ननु किम् एकद्विवचनबहुवचनान्य् एव संख्या येन तद्भेदः संख्याभेदः (संख्याभे[१२६]द) उच्येत | न चैतत् | किंन्त्व् अद्यै(?)वैकत्वादिरूपा संख्या तदभिधायकं तु वचनम् अत एव पाणिनिः७ ᳚बहुषु बहुवचनाम᳚(Pआ. १.४.२१)त्याद्याचख्याव् इति | स्याद् एवैतत् यद्य् एकादिव्यवहारहेतुः संख्या एकद्रव्यानेकद्रव्या वा प्रमाणबाधिता न स्यात् | केवलम् इति एव नास्ति | अस्ति तु तथाभूतसङ्केतानुरोधाद् एकादिवचनम् एवैकादिव्यवहारनिबन्धहम् इत्य् अनेनाभिप्रायेणोक्तम् नैवान्यो मतो वचनभेद [१०५.२] इति |
SK
__________NOTES__________
SK
[१२६] कोष्ठकान्तर्गतः पाठः पुनर् आवर्तितः |
SK
ततो [१०५.३] वचनभेदात्मका८त् संख्याभेदात् कल्पितस्य [१०५.३] कल्पनाविपरिवर्तिनो रूपस्य न तु वस्तुन [१०५.४] इति दूरस्थम् इह संबन्धनीयम् | कथञ्चिद् {प्. ३४५} [१०५.४] द्रव्यपर्यायरुपेणान्यथा वा | अभिन्नते[१२७][१०५.३]ति भेदाध्यवसायो ऽवसयः | कुतः पुनः सिद्धम् एतद् वचनभेदात्मकः संख्याभेदः, स चाभेदक इत्य् आह -- येषाम् इ[१०५.४]ति | अत्रापि वाच्यवाचकयोर् अभेदविवक्षया इत्यादि प्रतिपादि[४४ब्] १त एवेत्यादिशब्देनोक्तो द्रष्टव्यः |
SK
__________NOTES__________
SK
[१२७] विभिन्नता S
SK
अधुना लक्षणभेदम् अधिकृत्याह अविनाश [१०५.५] इति | किं [१०५.६] कस्मात् | तदात्मका [१०५.६] नैव, विरुद्धधर्माध्यासाद् इति भावः | यदि वा तदात्मका इति हेतुभावेन विशेषणं तेन तदात्मकत्वात् किं कस्माद् द्रव्याविनाशे नाशिन [१०५.६] इत्य् अर्थः | अनेनैकस्य एतल् लक्षणद्वयायोगाल् लक्षणभेदो ऽसिद्ध उक्तः |
SK
उक्तदोष(षं) निराचिकीर्षोः प२रस्य वचनमा[शङ्कमा]न आह नष्टा [१०५.७] इति | ते [१०५.७] पर्यायाः | चेदि[१०५.७]ति पराभ्युपगमं दर्शयति | पर्यायरूपेण [१०५.७] न धर्मिरूपेणेत्य् अर्थाद् अवस्थितम् | एतन् निराकुर्वन्न् आह -- द्रव्येति | द्रव्यस्वभावतो ऽन्यस्वभावता तेषां किम् अस्ति? पृच्छतश् चायम् अभिप्रायो यश्.अन्यस्वभावता तेषां भवेत् स्वभावभेदेन स्वभावाभेद एव न भवेद् इति | अत एवायं वैद३र्भपरस्य प्रश्नः | सिद्धान्तवाद्येवैतद् दोषदर्शिनो ऽन्यस्वभावतानिषेधम् आशंकमान आह न चेद् इति [१०५.८] | अत्राप्य् आह नाश [१०५.८] इति | तथा [१०५.८] तेन प्रकारेण | पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेणेत्य् एवम् आत्मना कथं नाशः [१०५.८] | नो चेद् इति तु क्वचित् पाठः | तत्रापि नष्टाः पर्यायरूपेण द्रव्यस्वभावेन नो४ चेत् [१०५.८] न यदि प्रकृताश् च पर्यायाः कर्तृकत्वेनाभिसंबध्यन्ते | एतद् आशंक्य सिद्धान्त्य् एवाह किम् अन्यरूपता तेषां इ[१०५.८]ति | द्रव्यस्वभावस्य श्रुतत्वात्, द्रव्यस्वभावाद् अन्यस्वरूपता तेषां किम् अस्तीत्य् अर्थः | शेषम् समानं पूर्वेण | अनुगामिरूपं द्रव्यम् उदयव्यययोगिनस् तु पर्याया ऐकात्म्यञ् च द्रव्यपर्या५याणाम् अह्रीकैः किं नेष्तं?
SK
तत्र व्ययिनः पर्यायानधिकृत्योक्तम् | इदानीम् उदयिनो ऽधिकृत्याह -- द्रव्यात्मनी[१०५.९]ति | पर्याया इत्य् अनुवर्तते | द्रव्यस्यात्रैव श्रुतत्वात् तत्[१०५.९]शब्देन तस्य परामर्शः | तद् अयं वाक्यार्थो विरुद्धधर्माध्यास(से) भेदनिबन्धनेपि केन कारणेन ते [१०५.१०] पर्यायाः द्रव्यात्मका इति | विरुद्ध्धर्मा६ध्यास एव कुत इत्य् आह -- द्रव्यात्मनि स्थिते पश्चाद्भवन्त [१०५.९] इति | हेतौ शतुर्विधानाच् च पश्चाद् भावाद् इत्य् अर्थः | तन्निष्पत्तावनिष्पत्तिर् एव विरुद्धधर्माध्यास इति भावः |
SK
{प्. ३४६} अनेन च प्रकारद्वयेन तादात्म्यहापनेन भिन्नरूपाणां एषां तेन सह सम्बन्धाभावात् तद्धर्मत्वम् एव च न स्यात् | ततश् च प्रकृतकृतिदर्शितम् अत्रैव वक्तव्यान्तरं समुञ्चिन्वन्न् आह भूत... किम् इति [१०५.१०] तत्र द्रव्ये भूतं जातं किं? द्रव्यपर्याययोर् ऐकात्म्येन द्रव्यस्थितौ पर्यायाणाम् अपि नियता स्थितिर् इति न किञ्चिद् भूतम् इत्य् अभिसन्धिः | यतः [१०५.१०] कस्यचित् तदतिरिक्तस्याभावात् |
SK
अभिप्रायम् अविदुषः परस्य वचनम् आशंकमान आह भेदे[१०५.११]ति | भिद्यन्त इति भेदाः पर्याया एव ८तद्रूपं भूतं यदाष्यते [१०५.११] | एतन्निराचिकीर्षन्न् आह भिन्नम् इ[१०५.१२]ति | हिरवधारणे भिन्नम् इत्य् अस्मात् परो द्रष्टव्यः |
SK
अभेदे [१०५.१३] तयोर् ऐकात्म्ये | एतद् इ[१०५.१४]ति द्रव्याविनाश(शे) पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेण, स्थिते च तस्मिन् भेदरूपं भूतम् इति चेति | असंबद्धत्वम् एवास्य पूर्वसामर्थ्योक्तं कण्ठोक्तं कुर्वन्न् आह[१२८]एवम् इ[१०५.१४]ति नष्टं च तद् अन्[४५अ] १ष्टं चेति तथा | [१२८] एकम् इति S
SK
तदैतत् प्रसज्यत इति पार्श्वस्थस्याविदितप्रस्तावस्य प्रश्नम् आशंक्याह -- द्रव्ये[१०५.१५]त्यादि | यस्माद् उक्तया नीत्या लक्षणभेद एव सिद्धस् ततः [१०५.१६] तस्मात् |
SK
सम्प्रति कार्यभेदं प्रस्तुवन्न् आह -- कार्ये[१०५.१७]ति | कार्यभेदात् तयोः स्वभावस्य भेदो यदि भवेत् [१०५.१७] | तथा सति [१०५.१७] स्वभावभेदे सति अवश्यं हि भेदम् इच्छता स्वभावभेद एवैष्टव्यो ऽन्यथा भेदासिद्धेः |
SK
सति २चैवं किम् अकिञ्चित्करः कार्यभेदो भेदसिद्ध्यर्थम् उच्यत इति परं शिक्षयन्न् आह स्वभावस्यैवे[१०५.१९]ति | ननु कार्यभेदो ऽभिन्नस्य स्वभावस्य भेदक इति किञ्चित्कर एवापि(एवोप)न्यासार्हो ऽपि च तत् किम् एवम् उच्यत इत्यासंक्याह न हि [१०५.२०] इति | हिर् यस्मात् कार्याणां भेदः पश्चात् प्रकरणात् स्वहेत्वागतस्याभिन्नस्वभावस्य पश्चाद्भवनस्वभावस्य तस्यैव स्वहेतुबलायातस्याभिन्नस्य न भेदकः [१०५.२०] हेतौ शतुर्विधानात् पश्चाद् भावाद् इत्य् अर्थः | प्राग्भावी हि कारणं तद्भिन्नं स्वभावं कुर्याद् अपि, न तु पश्चाद् भावीत्य् अभिप्रायः |
SK
पश्चाद् भवन्न् अपि कस्मान् न भेदक इति? आह स्वभावस्येति [१०५.२१] | ननु कार्यभेदः स्वहेतुसमुत्थं स्वभावं मा नाम विकार्षित् तदवस्थे विकारायोगात्, तम् एव तु विनाशयि४ष्यतीत्य् आह नाशेति [१०५.२१] | यदि चायं कार्यभेदस् तयोः स्वभावस्य भेदकः स्यात् तद् अयं दोषः स्याद् इति दर्शयन्न् आह -- एकान्तेने[१०५.२२]ति | {प्. ३४७} ते द्रव्यपर्यायात्मके वस्तुनी [१०५.२२] | स्याद् एतत् -- स्याद् अयं दोषो यदि भेदः पश्चात् प्रकरणात् स्वहेत्वावगे(त्वाग)तस्याभिन्नस्वभावस्य पश्चाद् भवन्स्वभावस्य तस्यैव स्वहेतुबलाया५ तस्याभिन्नस्य न भेदकस् तयोर् अभिन्नोय(यं) स्वभावो न भवेत् | यावतास्त्य् अभिन्नोपि स्वभावस् ततस् तयोर् अभेदोपीत्य् आह स चेति [१०५.२२] | सो ऽभिन्नः स्वभावः |
SK
तयोः [१०५.२३] द्रव्यपर्याययोः, केन कारणेन | कुतः पुनर् असौ तयोर् न स्याद् इत्य् आह -- विभिन्नाभ्याम् इ[१०५.२३]ति परस्परभिन्नाभ्यां द्रव्यपर्यायाभ्यां अभिन्नस्याभि६न्नस्वभावस्य कल्पितस्य तस्य | विभेदतो [१०५.२३] भेदाद् व्यतिरेकात् | भेदे हि कार्यकारणभावः संबन्धः | स चात्र नास्तीति च बुद्धिस्थम् | तेषां [१०५.२३] द्रव्यपर्यायकल्पिताभिन्नस्वभावानाम् |
SK
तस्यापि [१०५.२५] तृतीयस्यापि स्वभावस्य तदभेदप्रसिद्ध्ये [१०५.२५] द्रव्यपर्यायाभिन्नस्वभावाभेदप्रसिद्ध्यर्थम् परश्चतुर्थः कल्पनीयो [१०५.२६]न्यथायः -- ७शलाकाकल्पास्तूयेव(स् त्रय एवा)संबद्धाः प्रसज्येरन्न् इति भावः | एवं पञ्चमादाव् अपि सैव वार्तेत्यादिना भिन्नस्वभावस्यासम्बन्धनिश्चयपरिपन्थिन्य[न]वस्था स्यात् |
SK
ननु किम् अ[न]वस्थाभयाद् दृष्टानेकस्वभावापलापः कर्तव्यः इत्य् आह -- न चेति [१०५.२७] |
SK
स्याद् एतत् स्याद् अयं दोषो यद्य् अभिन्नस्य स्वभावस्य द्रव्यपर्यायाभ्यां भेदो ऽप्य् उपगम्येत | किन्त्व् अभेद८ एवेत्य् आह ऐकान्तिकस् त्व् इ[१०५.२९]ति | भिन्नयोर् द्रव्यपर्याययोर् अभिन्नास्वभावाद् अभेद ऐकान्तिको यदि भवेद् इति योज्यम्, भेद एव तयोर् विशीर्येत [१०५.३०] विलीयेत | कुत इत्य् आह तदेके[१०५.३०]ति | तस्माद् एकस्मात् स्वभावाद् अव्यतिरेकस् तयोर् इत्य् अर्थात् |
SK
अथवा विभिन्नाभ्याम् इत्याद्य् अन्यथा व्याख्येयम् | विभिन्नाभ्यां [१०५.२३] द्रव्यपर्यायाभ्याम् अभिन्नस्या[१०५.२३]व्यतिरिक्तस्य [४५ब्] १विभेदस् तदात्मवद्भेदात् | अयं चाभिप्रायो द्र्व्यपर्या[य]योः कल्पिताभिन्नस्वभावयोस् तादात्म्योपगमे तस्य वा तयोर् अनुप्रवेश एषितव्यस् तयोर् वा तत्रेति | तत्र यदि कल्पितस्य स्वभावस्य द्रव्यपर्याययोर् अनुप्रवेशस् तदा ताव् एव स्वरूपेण व्यवतिष्ठेयातां न त्व् असाव् इति सो ऽसन्कथं तत्सम्बन्धी स्यात् | ननु च नासौ स्वभावस् तयोर् उपलीयमानस् तदभेदा२नुभावी किं तर्हि तेषाम् अभेदसिद्ध्यर्थम् अभिन्नस्वभावो ऽन्यो ऽभ्युपगम्यते इत्य् अभिप्रायस्य परस्य वचनम् आशंकमान आह तेषाम् इ[१०५.२४]ति | अत्रापि दोषान्तरम् उपेक्ष्यैवानवस्थां दर्शयन्न् आह तथे[१०५.२६]ति | अथ द्रव्यपर्याययोस् तस्मिन्न् अभिन्ने स्वभावे ऽनुप्रवेशस् तत्राह ऐकान्तिकस् त्व् इ[१०५.२९]त्यादि इति |
SK
{प्. ३४८} ननु न तयोस् तदाभि(दाभि)न्नस्वभावयोगाद् अभेदो येनैव३म् उच्यते | किन्तु स्वत एवाभेद इत्य् आह अभेदस्ये[१०६.१]ति | अभेदस्य द्रव्यपर्याययोः स्वरससिद्धस्यैकात्म्यस्य अपरित्यागे [१०६.१]ङ्गीकारे | तस्य भेदस्य अवितथाभावे [१०६.२] सत्यत्वे | अभेदे [१०६.२] प्रतिपाद्ये मृषार्थत्वात्(र्थता) तत्प्रतिपादकस्य वचनस्येत्य् अर्थात् |
SK
कस्मात् पुनर् भेदाभेदाव् एकात्मकौ न स्याताम् इत्य् आह अन्योन्ये[१०६.३]ति | अन्योन्या४भावरूपाणाम् अ[१०६.३]न्योन्यव्यवच्छेदेन व्यवस्थितात्मनाम् | एकस्य भावो [१०६.४] विधिर् अपरस्याभावा निषेधो यस् तद्धेतुको यतः [१०६.४] भेदाभेदाभ्यां द्विरूपता नास्ति | यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गः (ङ्गं) स्यान् नैकत्र भेदाभेदौ भवेताम् | स एव तु न भेदव्यवस्थानिमित्तम् इत्य् आशंक्याह अन्योन्याभावरूपाश् चे[१०६.४]ति |
SK
विरोधो [१०६.८] ५विरुद्धधर्माध्यासो ऽभिप्रेतः | भेदशब्देन भेदव्यवस्था विवक्षिता | लक्षण[१०६.८]शब्देन च निमित्तम् | तेनायम् अर्थो यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गं नेष्यते, तदैवं न स्यात् | एवं च कथं स्यात् एवं च कस्मान् नेष्तव्यम् इति |
SK
तद्रूपाः सन्तोपि न भेदिनो [१०६.५] भिन्नाः स्युर् विरोधस्य भेदव्यवस्थाङ्गत्वात् | अन्येन प्रकारेण तद्विनाशे [१०६.६] पर्यायविनाशे | द्रव्यं कथं विनाशि स्यात् | द्रव्यं हि पर्यायरूपेण नश्यति, न तु द्रव्येरूपेणेत्यह्रिकैर् इष्यते | तद्रूपेणापि विनाशः कस्माद् इष्यते | सर्वथैव तस्य विनाशः किन्नेष्यत इत्य् अर्थः |
SK
कथं नाम द्रव्यम् एष्तव्यम् इत्य् आकांक्षायां षिक्षयन्न् आह कूटे[१०६.७]ति | नित्यता [१०६.७] स्थिरता | ᳚नेध्रु(र्ध्रु)व᳚ इत्य् अ७नेन निसस्त्ययो विधानात् | अप्रच्युतानुत्पन्नपूर्वापररूपस्यावस्थानं कूटस्थनित्यता, भेदेषु [१०६.७] पर्यायेषु | परिणामनित्यता द्रव्येषु कस्माद् इष्तेति सामर्थ्याद् आवेदितम् |
SK
अस्तु तर्हीष्ता कूटस्थनित्यतेत्य् आशंक्याह तद् इष्टाव् इ[१०६.९]ति | तस्याः कूटस्थनित्यताया इष्टौ | अत्र दोषान्तरम् उपेक्ष्यैव एतद् आह किन्ने[१०६.९]ति | यथोत्तरोत्तरसर्वपर्या८यानुगामिसुवर्णत्वाद्य् एकं सामान्यम् इष्यते तत्तद्भिन्नदेशादिसर्वव्यक्त्यनुयायिसुवर्णत्वगोत्वाद्य् एकं किं [१०६.१०] कस्मान् नेष्यते | इच्छामस् तर्हीदम् अपीत्य् आह जनन्ये[१०६.१०]ति | जननी माता | प्रथममढा पत्नी जाया | ननु यदि स्त्रीत्वसामान्यम् अभिप्रेत्येदम् उच्यते तदाभ्युपगम एवोत्तरम् इति कोयम् अनुपया(नुयो)गः ? भार्यात्वञ् चोपाधिरूप न [४६अ] १सामान्यम् | अन्यथा संकेतावेदिनोपि गाव इव ता अपि भार्या म[अ]भिमता व्यक्त्यस्तेनरूपेण सामान्यभासां {प्. ३४९} धियमादधीरन् | न चैतद् अस्ति, तस्माद् अयुक्तम् एतद् इति | शोभनम् उक्तं भवता केवलम् एवं वदितुर् अभिप्रायो न सम्यग्ज्ञायि | अयं खल्व् अस्याभिप्रायो येनोपाध्यवच्छिन्नेन केनचिद् रूपेण तत्स्त्रीत्वं तस्यां जायायां वर्तमान२म् एनां तथोपभोगाङ्गं नोपपादयति विनैव तावद् आत्मना जनन्याम् अपि तेन वर्तितव्यमन्यरूपाभावात् | सति चैवं तस्या अपि तथात्वम् आपद्येत; एवम् अत्रापेक्षयाप्य् उच्यमानजायाया अपि तथात्वम् अनिवार्यम् | यद्य् एवं शाबलेयबाहुलेयादीनाम् अप्य् एकगोत्वादियोगाद् एकत्वं किं नापाद्यत इति? प्रियं प्रियेणाचरितम् इति | उदाहरण३दिङ्मात्रं तूक्तम् एतद् उपहासापदेशेनेति सर्वम् अवदातम् |
SK
एवम् उक्तया नित्या भेदाभेदाव् एकाधिकरणौ न युक्ताव् इति प्रतिपाद्याधुना भवेतां तौ तथा, तथाप्य् उक्तदोषान् न मुक्तिर् इति प्रतिपादयन्न् आह भेदाभेदोक्तदोषाश् चे[१०६.११]ति | द्रव्यपर्याययोर् भेदे ह्य् एकान्तेन विभिन्ने ते स्याताम् | न त्व् एकं द्विरूपम्, तथा४ सुवर्णकुण्डलादिपर्याययोर् अपरस्परात्मतया कुण्डलादिसुवर्णविशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गादयो दोषाः | अभेदपक्षे चैकस्याने[क]कार्यकर्तृत्वम् उक्तम् अव्याहतम् आपद्येत | द्रव्यपर्यायरूपत्वेनाभ्युपेतं द्वैरूप्यं हीयेतेत्यादयो दोषाः | सति चैवं विफलो ऽयम् एकस्य भेदाभ्युपग५म इति चार्थाद् दर्शितम् | तयो[१०६.११]र् भेदाभेदयोर् इष्तौ [१०६.११] कथं वा न भवन्ति | प्रत्येकं भावान् न समुदाये भवन्तीत्य् आह -- प्रत्येकम् इति ते [१०६.१२] दोषाः |
SK
ननु च दृष्टम् इदं यत एकैकभाविनो दोषाः समुदायावस्थायां न भवन्तीत्य् अभिप्रायवान् परः प्राह गुडश्चेति [१०६.१३] | केवलो गुडः ष्लेष्मणोर् हेतुर् नागरं शुण्ठी ६केवलं पित्तस्य कारणम् [१०६.१३] | मिलितयोस् त्व् अनयोस् तौ दोषौ कस्मान् न भवत इति प्रकरणाद् द्रष्टव्यमध्याहारो वा कर्तव्यः | अत्र समाधिम् आह तन्मूलम् इ[१०५.१४]ति | परस्परोपसर्पणाश्रयात् प्रत्ययात् तदुपादानसहकारिणो ऽन्यद् एव [१०६.१४] तत् -- कार्यकारिणः केवलाद् गुडात् | केवलाच् च नागराद् भिन्नम् एव विशिष्ता७र्थक्रियाकारि द्रव्यान्तरम् इदं गुडनागरा[१०६.१४]ख्यम् उत्पन्नम् | न तु स एव गुडो नागरञ् च द्वे इमे द्रव्ये | तन्मूलं [१०६.१४] तद्गुडनागरकारणम् | अनेनैतद् आह -- विशिष्टश्लेष्महरणाद्यर्थक्रियाकारिद्रव्यान्तरम् इदम् उदपादि तेन प्रत्येकभावी मम दोषो न भवति | भवतस् तु मिलिताव् अपि भेदाभेदौ द्रव्यपर्यायलक्षणौ ताव् एवेति कथन् नो(कथम् उ?)भयभा८विनो दोषा न भवेयुर् इति |
SK
अथास्तु द्रव्यान्तरम् इदं तथापि मधुरत्वात् कटुकत्वाच् च कथं कफपित्तकृन् न भवतीति पार्श्वस्थस्य चोद्यम् प्रतिक्षिपन्न् आह मधुरम् इ[१०६.१५]ति | सर्वं मधुरं [१०६.१५] कफहेतुर् न संभाव्यते | स्याद् इ[१०६.१५]ति संभावनपदम् एतत्, शक्यार्थम् वा | केन पुनर् निदर्शनेन सर्वं मधुरम् एव(वं) संभावयितुम् अयुक्तम् इत्य् अत आह यथे[१०६.१५]ति | {प्. ३५०} कफना[४६ब्] १शकत्वाद् एव मधुर(न) इत्य् अभिप्रायः | अनेन मधुरत्वाद् इत्य् अयं हेतुः साधारणानैकान्तिको दर्शितः | तीक्ष्णं [१०६.१६] कटुकम् वा सर्वम् इति नेति स्याद् इति चानुवर्तनीयम् | पूर्ववन्निदर्शनं व्याख्येयम् | मागघिका [१०६.१६] पिप्पली शीतवीर्याहित्ये(ते)त्य् आशयः | अनेनापि कटुकत्वाद् इत्य् अस्य साधरणानैकान्तिकत्वं दर्शयतो ऽयम् अभिप्रायः | गुडनागराख्यस्य द्रव्यान्तरस्या२स्यान्यद् एवेत्थं मधुर(न) इव माधुर्यं कटुकत्वम् अपि पिप्पल्या इवान्यद् एव तेन मिलितावस्थायां न दोषद्वयसम्भव इति |
SK
यदि च प्रत्येकभाविनां दोषाणां मिलितावस्थायां गुडनागरादेर् अभावोपदर्शनेनैतत् प्रतिषिध्यते, तदा प्रत्येकभाविनां दोषाणां समुदायावस्थायाम् अपि भावदर्शनात् किम् अस्मद् अभिमतं चानुप(नाभ्युप)पद्यत इति ३दर्शयितुं प्रत्येकम् इ[१०६.१७]त्यादिनोपक्रमते | यदि वा समुदायावस्थायां तेषां दोषाणाम् असद्भावे साध्ये प्रत्येकभावित्वाद् इत्य् अस्य हेतोः साधारणानैकन्तिकत्वं दर्शयितुम् आह -- प्रत्येकम् इ[१०६.१७]ति | यत् प्रत्येत्येकं यस्य कार्यस्य निदानं [१०६.१७] निमित्तं स्वतस् तद् यदि स्वहेतुबलान् मिभ्रम[१०६.१७]न्यसहितम् एवाधिकरणम् उत्पद्यते तदा किं ४तत्कार्यकारि तत्र दृष्टम्? [१०६.१८] क्षेपे किमः प्रयोगाद् दृष्टम् एवेत्य् अर्थः | स्नेहो हि कफहेतुर् ऊष्णत्वं च पित्तकृद्दृष्टं सहितावस्थायाम् अपि ते तत्कार्यकारिणी दृष्टे यथा अमूमाषङ्गते, अत एव यथा माष [१०६.१८] इत्य् उदाहरति | माषो हि स्निग्धत्वाद् ऊष्णवीर्यत्वाच् चोभयात्मक उभयम् एव कार्यं कफपित्तलक्षणं करोतीति |
SK
ननु मधुररसाद् अपि मधुरः(नः) श्लेष्मा कस्मान् न जायते कटुकाया अपि पिप्पल्याः कुतो न पित्तं येनास्मद् उक्तं भवता व्यभिचार्यते | तथाप्य् अभावे वा गुडान्नागराच् च तौ दोषौ मा भूताम् इति परस्य मतम् आशंक्य दृष्टस्योपपत्तिप्रकारं दर्शयितुम् आह शक्त्यपेक्षञ् चे[१०६.१९]ति | यस्मात् तेन कार्येणोत्पत्तव्यम्, तस्य स्वोपादानशक्ति६म् अपेक्षत इति शक्त्यपेक्षम् [१०६.१९] | किं तत्कार्यं माधुर्यादि गुणमात्रं निबन्धनं न भवतीति प्रश्ने ऽभ्युपगम एवोत्तरं कुर्वन्न् आह -- गुणेति [१०६.१९] | आचारविशेषानवच्छिन्नः केवलो माधुर्यादिगुणो गुणमात्रं तद् अनिबन्धनम् [१०६.१९] अकारणं यस्य तत् तथोक्तम् | शक्त्यपेक्षत्वेपि कार्यस्य तस्याः सर्वत्र भावात् तदवस्थो [दोष] ७इत्य् आह सर्वत्रेति [१०६.२०] | तासां [१०६.२०] शक्तीनां किञ्चिद् एव कार्यं कस्यचिद् एव जन्यतया सम्बन्धी भवति | अयम् अर्थो मधुरत्वाविशेषेपि किञ्चिद् एव स्वहेतुसमुद्भूतरूपविशेषं यत् तथाकार्यकारि न तत् सर्वम् | तद्धेतोस् तज्जननः स्वभावः कुतस्त्य इति चेत्, स्वहेतोस् तस्यापि तथेत्य् अपर्यनुयोज्य ए(-ज्यमे)वैतत् | एतद् उक्तं भवति -- एकन्तेन विभ(भि)न्नत्वादि८दोषो हि भेदमात्रे प्रसज्यमानो न भेदस्य शक्तिविशेअम् अपेक्षते | न च भेदस्य {प्. ३५१} विशेष एव संभवति मिलितावस्थायाम् अपि ताद्रूप्याद् एव | एवम् अभेददोषोपि द्रष्टव्यः | तस्माद् गुणमात्रनिबन्धनं यत्कार्यं तद् यथा सति तस्मिन् भवति | तथा भेदाभेदमात्रे संभविनो दोषा ये ते तद्भावे कथं न स्युर् इति |
SK
भेदाभेदाभ्याम् उत्पत्ति[४७अ] १धर्मत्वम् अमीषां दोषाणाम् अभ्युपेत्य सर्वम् इदम् उक्तम् अधुना तु तादात्म्याद् एव तेषाम् अनिवार्यत्वम् आयातम् इति प्रतिपादयितुं गुडनागरादौ परेण दृष्टान्तीकृते जन्यदोषाणाम् अन्यथैवानुपपत्तिम् अभ्युपगच्छन्न् आह विरोधी[१०६.२४]ति | विरोधिनो नागरादेः | सन्निधिस् तस्माद् विरोधिशुन्याद् गुडादेर् जन्म यस्य दोषस्य स तज्जन्मा न भवेद् अ[१०६.२३]पि | तदात्मा [१०६.२४] भेदाभेदात्मा | तु दोषः, स तु तस्मिन्नात्मभूते भेदे अभेदे चानिष्तोपि न निवर्तते [१०६.२४] | अतत्स्वभावत्वप्रसङ्गाद् इति भावः | इदम् अत्रार्थसतत्त्वं भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः | विभिन्ने च ते स्याताम् इत्यादिना च वस्तुतस् तदात्मक एव दोषो दर्शितः | अनेककार्यकारित्वम् अपि अभिन्नरूपात्मकम् एव वस्तुतः | अन्य३द् अपि दूषणं वस्तुतो भेदाभेदात्मकम् एव | व्यावृत्तिकृतस् तु भेदो यदि भवेद् भवतु न तावता प्रकृतक्षतिर् इति |
SK
तन्मते ऽवस्थान्तरावयविनः सत्त्वम् उपेत्यैतद् उक्तम् इदानी तु स एव नास्तीति दर्शयितुम् आह भागा एव चे[१०६.२५]ति | भागा एव भागत्वेनाभिमता एव | परमार्थतस् तु परमाणव एवेत्य् अर्थः | तेन तेन प्रकारेणाधिस्ति४र्यगूर्द्ध्वावस्थानलक्षणेन तत्तदर्थक्रियाकारित्वलक्षणेन च संनिविष्ता [१०६.२५] व्यवस्थिताः | तद्वान् [१०६.२३] भागवान् | निर्विभागः स्वतो निरंशः | अनेन दृश्यानुपलंभो {दर्शितः | तदभावाच् च केन सह तेषां भेदाभेदचिन्ता स्याद् इति चाभिप्रेतम् |
SK
नन्व् असत्य् एकस्मिन्न् अवयविनि धारणाकर्षने कथम् उपपद्येयाताम् इत्य् आह -- अन्यो ऽन्ये[१०६.२७]ति | ते५ [१०६.२७] भागाः | एक सामग्र्यधीनत्वाद् अन्योन्यकारणाधीनापेक्षाः सन्तस् तथावस्थितवपुषो येनैकस्याकर्षने धारने वान्येषाम् अपि ते भवत इति | न केवलं दृष्टहेतुबलात् तेषां तथास्थितिर् अपि त्व् अदृष्टवशाद् अपीति दर्शयन्न् आह -- कर्मणां चे[१०६.२८]ति | लोकस्यासाधारणचेतनात्मकर्मणाम् अपि सामर्थ्यात् ते ऽविनिर्भागवर्ति६नः [१०६.२८] परस्परं विभागेन न वर्तन्ते |
SK
ननु चाकारणस्य कर्मणः सामर्थ्योपवर्णनम् अयुक्तम् इत्य् आशंक्याह सन्निवेशने[१०६.२९]ति | हि[१०६.२१]र् यस्माद् अर्थे |
SK
᳚कर्मजं लोकवैचित्र्यम्᳚ [Aभिध्. ४.१] |
SK
{प्. ३५२} इति वचनात् कर्मभिर् जनिता [१०६.३०] इत्य् आह | तेषाम् एव प्राणिनां साधारणैर् असाधारर्णवौ कर्मभिः | तेभ्यः [१०६.३०] कर्मस्य एव तदाधिपत्याद् एवेति यावत् | अवि७भागिनो [१०६.३०] विभागेन न वर्तन्ते |
SK
अथासत्य् एकस्मिन्न् अवयविनि एकोयं घट इत्यादि व्यपदेशः कथं स्याद् इत्य् आशंक्याह -- ते चे[१०६.३१]ति | ते भागाः कथंचिद् एककार्यकारित्वादिना प्रकारेण | ननु चैको घट इत्यादि शब्दजन्मनि शब्दानुविद्धे ज्ञाने तावत्किञ्चिद् एकत्वेन प्रत्यवभासते तद् एव च स्वलक्षणं स्वलक्षणत्वेनाध्यवसायात् त कथम् अभे८दिनो ऽर्थस्यापलापः क्रियत इत्य् आह न चे[१०६.३२]ति | स्वलक्षणालम्बनं ज्ञानं स्वलक्षणज्ञानं [१०६.३२] तस्मिन् न | अयम् अभिप्रायो यदि शब्दगोचरो ऽर्थः स्वलक्षणं स्यात् तदेन्द्रियप्रभवेपि प्रत्यये तथैव प्रतिभासेत | न चैतद् अस्ति सजातीयविजातीयव्यावृत्तप्रतिभासात् | न चैकम् एव रूपम् उपायभेदे ऽपि भिन्नाकारावभासि युक्तम् | तद् उक्तम्
SK
᳚एकस्यै[४७ब्] १व कुतो रूपं भिन्नाकारावभासि तत्᳚ [Pरमानावा.२.२३५]
SK
एवं तर्हि शब्दप्रत्ययगोचर एव किञ्चिद् एकं तावद् आस्ताम् | ततो न सर्वथैकस्याभावः सिध्यतीत्य् आह अस्पष्ते[१०७.१]ति | त एव [१०७.१] भागा एवं | विजातीयव्यावृत्त्या केवलया प्रतीयमानास्पष्टरूपाः [१०७.१] | अयम् अर्थस् तत्रापि ज्ञाने त एव भागा अ[वि]वेचितभेदाः प्रतीयन्ते न तु तदतिरिक्तं किञ्चिद् एकम् अपि | अध्यवसायानु२रोधेन च त एवेत्य् उक्तं द्रष्टव्यम् | यतौ भागातिरिक्तं निर्भागदृश्यम् अनुपलभ्यमानम् असद्व्यवहारगोचरः तत[१०७.२]स् तस्मात् |[१२९]तेषां भागानां पर्यायशब्दाभिलाप्यानाम् |
SK
__________NOTES__________
SK
[१२९] एषां S
SK
पुनर् अपि निर्भागमङ्गीकृत्य सिंहावलोकितन्यायेन दूषणान्तरम् आह |
SK
नि[१३०]र्भागस्य चे[१०६.३]ति | भिन्नो देषो यस्य स चासाव् अंशश् चेति पदसंस्कारं कृत्वा पश्चाद् अनेकशब्देन सह ३कर्मधारयः कार्यः | तद्योगिता [१०७.३] तद्व्यापिता | अयम् आशयो यदि तत् सांशं स्यात्, तदेकेनांशेनैकं भिन्नदेशम् अंशं व्याप्यापरेणापरं व्याप्नुयात् | न तु निरंशं सत् तथा कर्तुम् उत्सहत इति | ननु प्रतीयते तावद् एकस्यानेकभिन्नदेशांशयोगिता तत्र किं कथम् एतद् इति विमृष्टेन | तथा चोक्तम
SK
__________NOTES__________
SK
[१३०] निर्विभागस्य S
SK
[१३१]᳚तत् तथैवाभ्युपैतव्यम् यद् यथैव प्रतीयत |᳚
SK
__________NOTES__________
SK
[१३१] तुलनाŚलोकवा. अनु. १८६ |
SK
इत्य् अभिप्रायवतः परस्य वचनम् आशङ्कमान आह प्रतीतेश् चेदि[१०७.४]ति यद्य् अप्य् अत्रोक्तम् एव दूषणं न निर्विकल्पे नापि विकल्पे ज्ञाने तदेकमनुभासत इत्यदि | {प्. ३५३} तथापि तदुपेक्ष्यैव दूषणान्तरम् आह[१३२]ध्वंसे[१०७.४]ति |
SK
__________NOTES__________
SK
[१३२] क्षणध्वंसानु-S |
SK
ये पर्यायाः स्थेमानं [१०७.५] स्थैर्यं दधतः प्रतीयन्ते [१०७.५] यत् तदोर्नित्यम् अभिसंबन्धात्ते ५क्षणध्वंसानुभाविनः कुतः कस्मान् मता [१०७.५] इति योज्यम् | अनेनैतद् आह प्रतीतिशरणाश् चेद् भवन्तस् तदा कथम् अन्यथा प्रतीयमाना अन्यथा अनुगम्यन्त इति | पुनः परस्य वचनम् आशंकमान आह -- अन्यत [१०७.६] इति | अन्यतो बाधकात् प्रमाणात् तन्मता इत्य् अभिसम्बन्धव्यम् | इह प्रकृते तद् बाधकं पमाणं समं [१०७.६] तुल्य६म् अत्रापि तद्धित इत्य् अर्थः |
SK
उक्तेपि दृश्यानुपलम्भादौ बाधके ऽन्यद् अपि बाधकं दर्श्यन्न् आह -- ऐकान्तिकाव् इ[१०७.७]ति | अनन्यत्वाद् एकात्मकत्वात् | तयोर् अन्योन्यानुप्रवेशमुखेन भेद एवाभेद एव वेति नियमवन्ताव् ऐकान्तिकाउ स्याताम् | ध्रुवं [१०७.७] निश्चितम् | अथैकात्म्येत्पि पर्याया एव भिद्यन्ते न धर्मी धर्मे (?) च न भिद्य७ते न तु पर्याया इत्य् आशंक्याह -- अन्योन्यं वे[१०७.८]ति | विरुद्धधर्माध्यासस्य एकत्वबाधकस्य भावाद् भेद एव नियतो [१०७.८]वश्यंभावीत्य् अभिप्रायः |
SK
अनन्यत्वेपि नायं दोषो भिन्नरूपस्यापि भावाद् इति परस्य वचनम् आशंकमान आह तयोर् अपी[१०७.९]ति | अपिशब्दो भिन्नकमो भेद इत्य् अस्मात् परो द्रष्टव्यः | न केवलम् अभेद इति चार्थः | अत्रा८प्य् आह येनात्मने[१०७.१०]ति | अपिशब्ददर्शितम् अभेदम् अपि दूषयन्न् आह द्रव्ये[१०७.१२]ति |
SK
स्वभाव [१०७.१३] इत्य् अभिन्नस्वभाव इत्य् अभिप्रेतम् | यन्निमित्ता [१०७.१३] यदभिन्नरूपनिमित्ता | कथं नास्तीत्य् आह तत [१०७.१४] इति | तत एकस्मात् स्वभावात्, अभेदे स्वभावानुप्रवेशे तयोः स्वात्महानिः [१०७.१४] द्रव्यरूपता पर्यायरूपता च हीयेत, तदात्मवद् इति भावः |
SK
त[४८अ] १स्या[१०७.१५]भिन्नस्य स्वभावस्य ताभ्यां [१०७.१५] द्रव्यपर्यायाभ्याम् | त [१०७.१५] इत्य् अनेनोक्तं बहुत्वम् एवाह धर्मी[१०७.१६]त्यादि |
SK
तेभ्यो [१०७.१७] द्रयपर्यायतदन्यस्वभावेभ्यो ऽन्यो ऽभिन्नः स्वभावस् तेषाम् एव त्रयाणाम् अभेदसिद्ध्यर्थं कल्प्यते यदि तत्रापि स एव दोष इति पुनः स्वभावान्तरकल्पने च पूर्व [१०७.१८] इव प्रसङ्गो ऽनवस्थाप्रसङ्गह् स्यात् |
SK
अत्रैव दोषान्तरं समुच्चिन्वन्न् आह २धर्मीत्वम् इ[१०७.१९]ति | कुत एवं स्याद् इत्य् आह तत्तन्त्रत्वाद् इ[१०७.१९]ति | तस्मिन् पारतन्त्र्यं तस्मात् | कयोस् तत्तन्त्रत्वम् इत्य् अपेक्षायाम् {प्. ३५४} आह -- तद् अन्ययोर् इ[१०७.१९]ति | तस्माद् एकस्वभावाद् अन्ययोर् द्रव्यपर्याययोर् भेदस्याभेदस्य च तन्मूलत्वात् तत्तन्त्रत्वं प्रत्येयम् | अस्तु तर्हि तस्य तथात्वम् अनेकात्मकत्वं च वस्तुनः | न च दृष्टस्यानवस्थया अपलापः क३र्तुं शक्य इत्य् आह -- न चैवम् इ[१०७.२०]ति | चो यस्मान् नैवं प्रमाणेन गम्यते | प्रकरणम् उपसंहरन्न् आह तेने[१०७.२०]ति | तेना[न]न्तरोक्तेन कारणकलापेन अयमनेकान्तवादो जाल्मकल्पित उत्पथप्रस्थितकल्पितः |
SK
इति[१०७.२१]र् हेतौ | बहुभाषितया अलं [१०७.२१] न किञ्चित् | एतावतैव सर्वस्य समाहितत्वाद् इति भावः |
SK
अवश्यमो भा४व आवश्यकम् इत्य् अस्य भावप्रत्ययान्तत्वाद् अपृक्करणस्यावश्यकम् इति प्राप्ते योयम् आवश्यकम् अपृथक्करणम् इ[१०८.१]ति प्रयोगे सामानाधिकरण्येन निर्देशः सः कथम् इति तु न जाने महान्त एव प्रष्टव्याः | संयोगविभागेषु [१०८.११] कर्तव्येषु अनपेक्षो [१०८.११] न कारणम् इति रूपादिवर्गाभिप्रायेणानपेक्ष५स्य तत् कारणमात्रं विवक्षितम् | न तु विशेषप्रतिषेधात् सापेक्षस्य कारणत्वम् | अगुणत्वेन च द्रव्यकर्मणोर् व्यवच्छेदः | सामान्यवत्त्वेन च सामान्यविशेषसमवायानाम् | संयोगविभागापेक्षया त्व् अनपेक्षो न कारणं किन्तु सापेक्ष एव कारणम् इति विवक्षितम् | सापेक्षत्वं न चरमभाव्यपे६क्षया द्रष्टव्यम् | न तु कस्यचिद् अन्यानपेक्षस्यैव कारणत्वम् अस्ति येनानपेक्षो ऽकारणम् इत्य् उच्यमानं शोभेत | तदात्वगुणत्वेन द्रव्यस्य व्यवच्छेदो द्रष्टव्यः | तद् यथा तन्तुतुरीसंयोगलक्षणो गुणः पटतुरीसंयोगे कर्तव्ये पटं पश्चाद्भाविनम् अपेक्षते | यथा च वंशादौ पाटनाख्या७वयवकर्मजो ऽवयवान्तराद् विभागः पश्चाद्भाविनं द्रव्यविनाशम् अपेक्ष्य सक्रियस्यावयवस्याकाशादिदेशाद् विभागम् आरभते, यथा चासौ न क्रियाजो विभागः किन्तु विभागज एवेति विभागजं विभागम् अभ्युपगच्छद्भिर्वैशेषिकैर् इष्यते तथा नेहाप्रकृतत्वाद् उच्यते | गुणवद् इत्य् अत्रादि[१०८.१५]ग्रहणात् समवायिकारणत्वस्य संग्रहः |
SK
चो८द्य[१०८.२८]शब्देन प्रकरणाद्बौद्धकृतंचोद्यं द्रष्टव्यम् | तस्य परिहार [१०८.२८] इति विग्रहः |
SK
अस्माकम् अयम् आस्माकीनः [१०९.१६] | ᳚[१३३]युष्मद् अस्मद्भ्याम् अन्यतरस्याम् खञ्᳚ इत्य् अनेन खञ कर्तव्यः | प्राग्व[१०९.६] प्रागुक्तसंस्कारपक्ष इव | निर्बन्धग्रहणेन [१०९.२१] चेत्य् आचष्ट [१०९.२५] इति सम्बन्धः |
SK
__________NOTES__________
SK
[१३३] पाणिनीयं सूत्रं (४.३.१) तु भिन्नम् |
SK
सहकरणशीला [११०.६] एककरणशीलाः |
SK
प्रत्ययान्तरं [१११.२] वासनाप्रबोधकं रसादिकञ् च [४८ब्] १यथायोग्यं वाच्यम्, तत्सापेक्षा [१११.२], ततः [१११.३] सामग्र्यास् तथाभूताया | इतरस्ये[१११.३]ति {प्. ३५५} निर्विकल्पकस्य रसाद्यालम्बनस्य | तदुपादेयत्वेन [१११.३] विज्ञानलक्षणोपादानोपादेयत्वेन | ननु च मनस्कारादिसमुदायजन्यम् इदम् एकम् उपदर्शितम् एतत्सामग्रीमध्यप्रविष्टैकजन्यं तु किं न दर्शितम् इत्य् आह तदन्यद् इ[१११.१३]ति | एकजन्यम् इति तत्सामग्र्यन्तःपतितकारणानपेक्षैकजन्यम् इ२त्य् अवसेयम्, न त्व् एकजन्यं नाम किञ्चित् संभवति | तत्र चक्षुरादिनिरपेक्षमनस्कारजन्यो मनोराज्यादिविकल्पः, विषयादिनिरपेक्षचक्षुर्मनस्कारात्मकद्वयजन्यं द्विचन्द्रादिविज्ञानम्, समनन्तरप्रत्ययाद् विज्ञानाच् चक्षुर्विज्ञानस्योपलम्भामहे(?)त्याद्यभिधानाद् एवैतद् ऊहितुं शक्यम् इत्य् अहिप्रायेण च स्व[१३४]यम् ऊह्यम् इ[१११.१३]त्य् आह | ननु किं भागतो विशेषवृत्तिर् येन३ बहुवचनेन निर्देश इत्य् आह[१३५]तज्जन्यापेक्षया चे[१११.१७]ति | सामग्र्यन्तरस्य स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिः |
SK
__________NOTES__________
SK
[१३४] स्वयम् अभ्यूह्यम् S [१३५] अतज्जन्यापेक्षया S
SK
कुतः स्वभावभेदवत्त्वं तस्येत्य् अपेक्षायां योज्यम् कार्यान्तरे[११२.१]त्यादि | पृथिव्यादीन्य् उपादाय वर्तन्त इत्य् उपादाय रूपं [११२.५] परस्परादि मयूरव्यंसकादित्वात् समासः | आगमापेक्षया वक्तुम् उद्यतेन च४ परेणागमभाषैवानूदिता | स्वभावस्थितं तेनाश्रयः(स्थितेर् आश्रयः) स्वभावस्थित्याश्रयः [११२.१८] | अवश्यं हि प्रतिबन्धकेन किञ्चित्करेण भाव्यम् | किञ्चित्शब्दवाच्येनार्थान्तरेणेत्य् अभिप्रायेणाह स्वभावान्तरोत्पादने यावद् इ[११२.१९]ति |
SK
ननूपकारक आधारो न तु जनकस् तत् कथम् एवम् उच्यत इत्य् आह नही[११२.२७]ति | भूतानां [११३.२] पृथिव्यादी५नाम् | उच्यत इति [११३.२]वैभाषिकमते कथ्यत इति द्रष्टव्यम् | न तुसौत्रान्तिकनये भूतभौतिकविभागोस्ति |
SK
कालक्षेपेण [११३.९] कालविलंबने | तत्सहभाविने[११३.१४]त्य् अनुग्राह्यसहचारिणेत्य् अवसेयम् | अनन्तरं [११३.१४] तदुत्पादनात् | तस्य विशेषस्योत्पादनात् | तस्य [११३.१५] क्रियमाणविशेषस्य | कथं तत्राकिञ्चित्करत्वं तस्य स६हकारिणो ज्ञापितं भवतीत्य् आह -- शक्तिप्रतिबन्धकापनयनेने[११३.१९]ति |
SK
यस्माद् अर्थे ऽयं निपातः ᳚न वै᳚[नै]वेति व्याचक्षाणो वै[११३.२५]शब्दम् अवधारणे दर्शयति | संभावनायां [११४.२] न्यायबलायातायाम् इत्य् अवसेयम् | अत एव व्यनक्ति न्याये[११४.३]ति |
SK
{प्. ३५६} अनेन सहकारीत्य् अत्रैकार्थः सहशब्दोवार्तिककारेण दर्शितः | कथं तर्हि सह युगपत् कुर्वन्त [११४.१२] इत्य् अयं व्याचष्टेति चेत्, उक्तम् अत्र पूर्वम् इति न पुनर् उच्यते | एवंविध [११४.१३] इत्य् एकार्थकारी | वह्न्यादिसहकारीशीतक्षणादिलक्षणे कार्याभिसन्धिनापचीयमान[११४.१७]ग्रहणम् |
SK
यावते[११५.८]ति तृतीयान्तप्रतिरूपको ऽयं निपातो यस्माद् इत्य् अस्मिन्न् अर्थे, किंत्व् एतस्मिन्न् अर्थे वा अनुवर्तते | सहिता अन्येन युक्ताः क्षणमात्रवि८लम्बिनः [११५.९] क्षणमात्रस्थायिनः | तदवस्थाया प्राक् पूर्वं पश्चाद् उत्तरकालं[१३६]पृथक् तद्विकलावस्थायां भावः [११५.१०] सद्भावः |
SK
__________NOTES__________
SK
[१३६] पृथक्त्व S
SK
ननु यदि स्वहेतोः समर्थस्योत्पत्तिस् तर्हि कथम् अनन्तरम् उक्तम् -- ᳚ते समर्थाः स्वभावतः [११५.६]᳚ इत्य् अत आह परमते[११५.१६]ति | भवत्यस्मात् कार्यम् इति भावो हेतुस् तस्माद् इति | तद् अपि त्वया कस्मान् न व्याख्यातम् इति चेत् | न, स[४९अ]१मर्थः कुत उत्पन्न इत्य् अस्य व्याघातप्रसंगात् | सहकारिभ्यः सामर्थ्यम्[१३७]इच्छन्ती[११५.१७]ति चमीमांसकमताश्रयणेनाह न तुनैयायिकाएवम् इच्छन्ति येन तन्मतोपग्रहेणाप्य् एतत् संगच्छेत, सहकारिसाकल्यस्यैव तैः सामर्थ्यरूपत्वेनेष्टेः | तथा चाह --जल्पमहोदघिः᳚सहकारिसाकल्यं तद्वतः सामर्थ्यं वैकल्यं त्व् असामर्थ्यम्᳚ इति |
SK
__________NOTES__________
SK
[१३७] मिच्छति S
SK
समर्थं [११५.२५] विवक्षितकार्यक२रणे शक्तम् | आवश्यकं[१३८]जननम् इ[११६.११]त्य् अस्य शब्दस्य तु सिद्धिः[१३९]पूर्वं न जाने |
SK
__________NOTES__________
SK
[१३८] अवश्यंजनकत्वम् S [१३९] द्रष्टव्यम् -- पृ. ३५४ पं. ८ -- ᳚अवश्यमो भावः इत्यादिना न जाने इत्यन्तेन कृता᳚, एतदर्थकः पाठस्त्रुटितोत्र भाति |
SK
कुशूलञ् च तदपनेतृपुरुषप्रयत्नश् च क्षेत्रनयनं च प्रकिरणं [११६.१४] च प्रकरणात् क्षेत्रे प्रकिरणं चेति द्वन्द्वं कृत्वा पश्चाद् आदिशब्दे[न] बहुव्रीहिः कार्यः | प्रकिरणम् इत्य् अयम् औणादिकः शब्दो न तु किरतिर्ल्युडन्तो द्रष्टव्यस् तदा गुणस्याप्रतिषेधेन प्रकरणम् इति प्राप्तेर् असाधु३त्वप्रसंगात् |
SK
समेत्य [११६.१९] योग्यदेशे स्थित्वा सम्भूय आद्येन सह मिलित्वा प्रत्ययैः सहकार्युपादानरूपैः |
SK
ननु च ᳚अत एव तयोर् अवस्थयोर्᳚ इत्यादिना प्रत्यभिज्ञायाः प्रामाण्यम् अपोदितम् एव तत् कथं न पुनर् उक्ते(क्तम् इ)त्य् आह -- पूर्वञ् चे[११७.९]ति | एतद् अपि [११७.११] {प्. ३५७} सारूप्यविषयप्रत्यभिज्ञाप्रामाण्यनिराकरणम् इति | उक्तम् एव सामर्थ्याद् दर्शित४म् एव | तर्हि किम् अर्थं पुनर् उक्तम् इत्य् आह -- विपञ्चनार्थं त्व् इ[११७.१२]ति तुः पूर्वस्माद् अस्य कथनस्य विशेषं दर्शयति |
SK
आध्यात्मिकेषु [११७.१५] आन्तरेषु | पश्चाद् बाह्येपि दर्शयितव्यत्वात् क्रमे तावच् शब्दम् आह | शक्यपरिच्छेदं [११७.१५] विशिष्टकार्यकारणतया परिच्छेत्तुं शक्यम् |
SK
[१४०]साक्षाद् अव्यवधानेन विज्ञानकार्यकारिणः प्रत्ययाद्धेतोः | ५तस्य जनने -- व्यवधानादिप्रतिपत्तौ व्यवधानादिस्वीकारे, कथं तादृशो न भवतीत्य् आह अन्यादृशाद् इति | अन्यादृशाद्धि भवन्नन्यादृशस्यापि हेतोर् हेतुव्यपदेशसंभवाज् जननहेतुर् इत्य् आह | कथं तद्धेतुर् इत्य् आह तद् इति तत्सहकारिभिः परस्परोपसर्पणाद्याश्रयहेतुसहकारिभिर् इन्द्रियादिभिः | ६समर्थञ् च तद्विज्ञानजनने स्वस्वक्षणान्तरं चेति तथा तस्यारम्भात् | अनेन परस्परोपसर्पणाद्याश्रयप्रत्ययविशेषेन्द्रियादिकलापस्य साक्षाद् विज्ञानहेतोर् हेतुत्वं दर्शितम् | एतच् चानन्तरम् एव स्पष्टयिष्यते | इदं चाक्षेपवतीं सामग्रीम् अभिप्रेत्योक्तं द्रष्टव्यम् | कथम् अन्यथाभावस्या७संभव इति आह परस्परेति | विज्ञाननिर्माणसमर्थाश् च ते हेतवश् च ते च ते इन्द्रियादयश् च तेषाम् उपादानैः | समर्थहेत्विन्द्रियादेर् जननं तस्मात् | अनन्तरोक्तस्पष्टीकरणं चैतद् द्रष्टव्यम् |
SK
__________NOTES__________
SK
[१४०] S प्रतिर् अत्र त्रुटिता |
SK
सुखसंवर्दितत्वाद् इति व्याचक्षाणो मूले सुखैधित इत्य् अस्यानभियोगनिमित्तस्यापि सामर्थ्यात् क्रीडन[११९.१२]शील इत्य् अस्य हेतुभावेन ८विशेषणत्वं दर्शयति | ननु कृतं निष्पादितम् उच्यते ऽत्र च किमाचार्येण निष्पादितम् इत्य् आशंकां निराकुर्वन्न् आह कृतम् इ[११९.१४]ति | न पुनर् ए[११९.१५]वम् आचक्षाणेन द्विर् उक्ताभावो दर्शित इति बोद्धव्यम् | अस्यार्थस्यासकृदुक्तत्वात् एकवारं प्रतिविहिते पुनः प्रतिविधापयितरि अवज्ञासंभवेनोपहासांयोगाच् च कृतं कृतम् इति निर्देशस्य न्या[४९ब्]१यप्राप्तत्वाद् अतिप्रसिद्धत्वाच् चेति | ननु किं कुर्वन्तं कर्तुं प्रयुङ्क्ते पुनः पूर्वपक्षवादी येन पुनः पूर्वपक्षवादी कारयतीत्य् उच्यत इत्य् आह -- पुनर् इत्यादि | निर्लोठितं [११९.१७] निरूपितं निर्णीतम् इति यावत् |
SK
पूर्ववन् मीमांसकाभिप्रायेण सामर्थ्यं सहकारिभ्यो जायत [११९.२५] इत्य् आचष्टे | सामर्थ्यस्यो[१२०.६]त्पत्तिः तद्वतो ऽनुत्पत्तिः [१२०.७] |
SK
{प्. ३५८} सम्प्रति प्रकारान्तरेणापि प्रत्यभिज्ञाया अप्रामाण्यं परमभ्युपगमयितुं भूमिकां रचयन्न् आह -- व्यावस्थितस्यैवे[१२०.१२]ति | अयं चात्राभिप्रायः -- भवतु यावद् बीजादावुच्छूनोच्चूनतरादिविशेषस्य दर्शनात् सामर्थ्योत्पादादिकल्पना न पुनर् इह तथा अदर्शनाद् इति | व्यवस्थितस्यान्यत्वमनापन्नस्य | सामर्थ्यं [१२०.१३] विज्ञानोत्पादादिसामर्थ्यम् |
SK
अप्रतिभासमानो विवेको [१२०.१४] यस्य पुं३सः स तथा |
SK
यद्य् अपि विवेको ऽस्य प्रत्यक्षतो नावगम्यते तथाप्य् एतस्मात् प्रमाणात् तत्स्वभावस्य सामर्थ्यस्योत्पत्तिः कल्प्यत इति दर्शयन्न् आह विज्ञानादी[१२०.१५]ति | अनुत्पत्तिप्रसंगात् प्रागसत्सामर्थ्यं चक्षुरादिसन्निधाव् उत्पद्यत इति निश्चयः | क्रमिणां विज्ञानादिकार्याणां यौगपद्योदयप्रसङ्गात् [१२०.१५] | ४तच् च क्रमवद् इति निश्चयः | यद्य् एवम् इ[१२०.१७]ति सिद्धान्ती | अविकृतम् ए[१२०.१७]करूपम् | अपूर्वसामर्थ्यस्य यः प्रतिभास आकारस् तेन विविक्तो रहितो य उपलादिस् तद्ग्राहि | यत एवैवं तत एवाविकृतम् इति च द्रष्टव्यम् | अनवक्लृप्तिख्यापनार्थो वा[१२०.१९]शब्दः |
SK
अभ्युपगम्यताम् एवं का क्षतिर् इत्य् आह तथेति तद्वत् | ५सामर्थ्यम् इ[१२०.२५]त्य् आगन्तुकं सामर्थ्यम् इत्य् अवसातव्यम् | द्विविधं हि सामर्थ्यं प्रातिस्विकम् आगन्तुकञ् च | प्रातिस्विकी च शक्तिर् अवश्यैषितव्या | अन्यथा शिलाशकलम् अपि क्षित्यादिसान्निध्ये बीजवदंकुरं कस्मान् न निव(र्व)र्तयतीति पर्यनुयोगे किम् उत्तरं वाच्यम् इति हि तेषां मतम् |
SK
ननु सामर्थ्यम् अतिशयलक्षणं सहकार्याधेयं ततो ऽन्यद् एव तत् क६थं ᳚सहकारिप्रत्यय[सान्निध्य]लक्षणस्ये᳚त्य् उच्यत इत्य् आह अत[१४१]एवे[१२१.३]ति | प्रत्यासत्तिलक्षणस्य सान्निधस्य तेभ्यः सन्निहितेभ्यो ऽन्यस्यानपपत्तेः | सान्निध्यशब्दपरित्यागेन सहकारिप्रत्ययलक्षणस्येति ते एवेत्याद्य् अप्य् उक्तं द्रष्टव्यम् | अत एवाभ्युपगमाद् इ[१२१.३]ति उपागताभ्युपगमाद् इ७ति प्रत्येतव्यम् | एवम् इच्छ[१४२]ता [१२१.६] क्षणि[१४३]कतैवेत्य् अभिसंबन्धनीयम् |
SK
__________NOTES__________
SK
[१४१] तत एव S [१४२] इच्छतो S [१४३] क्षणिकतेवै-S
SK
यच् छब्देस्यैतद् व्याख्यानं यस्माद् इ[१२१.२१]ति | इदं शब्दस्य चैतद् इति एतद् दर्शनम् [१२१.२१] | अनुत्तरस्यैवोत्तरीकरणाद् उत्तरीकृतम् इ[१२१.२४]त्य् उक्तम् | एवं नियुञ्जानमहो महासामर्थ्यम् अस्तु का तवाक्षमेत्य् आशंक्य यदि नामेत्य् अवतारयितुं न चात्रे[१२१.२५]त्याद्य् आह | न चात्र मे काचिद् अक्षमा [१२१.२५] किंत्व् इतीयम् अस्माकं चिन्ता चित्तं दुनोती[१२२.३]ति सम्ब८न्धः | न चात्र मे [१२१.२५] इत्य् अनेन टीकाकारवचनेनैकवाक्यीकरणपक्षेत्य् अ(प्य)स्माकं इति ᳚अस्मदो द्वयोश् च᳚ (Pआ. १-२-५९) {प्. ३५९} इत्य् अनेनैकस्मिन्न् एवार्थे बहुवचनेन द्रष्तव्यम् | एवम् असंबद्धवादिन्य् अपूज्य एव पूजावचनम् उपसंहारपरं द्रष्टव्यम् | दैन्योद्भावनम् इ[१२२.१]त्य् अर्थात् संबोध्यमानस्य दैन्यप्रकाशनम् इति | निकृष्टसम्बोधने ऽयं हन्तः [१२२.१] शब्द इति यावत् | ततो ऽप्र[५०अ] १सवधर्मकत्वात् | अपेतो ऽपगतः संतानः [१२२.२] प्रसूतिः परंपरा यस्य तथोक्तम् | इतिना [१२२.३] चिन्तारूपम् उपदर्शितम् |
SK
शिरःकम्पे चास्य सत्यम् इदम् अस्ती[१२२.१०]त्य् अस्य शब्दस्य प्रयोगम् आकलय्य प्रयोक्तुर् अभिप्रायं वर्णयन् पृच्छती[१२२.१३]त्य् आचष्टे | अत एव चेदम् आह -- किं त्वयास्तित्वेन पृच्छ्यत इति पार्श्वस्थं प्रश्नयन्न् आह किं तद् इ[१२२.१३]ति | इति हेतोर् आहार्य इति प्र२करणात् | औदासीन्यापत्तिर् इत्य् अत्रेति शब्देन इदम् आस्तित्वेनाभिप्रेतस्य न्याय्यवचन[१२२.१७]स्याकारो दर्शितः | अत एव न्याय्यवचनस्यास्तित्वेन दर्श्यमानस्य रूपं दर्शयन् सत्य्म् इदम् अप्य् अस्ती[१२२.१६]ति पुनर् आह | यद्य् एवम् अस्य न्याय्यवचनस्य सद्भावादनवद्यम् एवास्मन्मतम् इत्य् आशं३क्याह किंत्व् इ[१२२.१७]ति | केवलम् इदं [१२२.१७] वक्षमाणं प्रष्टव्योसि |
SK
प्रच्युतम् अजनकं रूपम् उत्पन्नं जनकं रूपं द्वन्द्वैकवद्भावम् अभिप्रेत्य प्रच्युतोत्पन्नम् इत्य् आह -- अप्रच्युतो(ता)नुत्पन्नत्वेनैव च स्थिरैकस्वभाव[१२३.८]त्वं ज्ञेयम् |
SK
तद्भेदे ऽपि [१२३.१९] जनकाजनकभेदेपि | तस्य [१२३.२०] भावभेदस्य | अपरापेक्षस्वभावभेदलक्षणत्वाद् इ[१२३.२०]ति परा४पेक्षो यः स्वभावभेदो न भवति स्वत एव यो भावभेदलक्षणत्वाद् इति | भवत इदं भावत्कम् [१२३.२१] | आधीयते [१२३.२६] अधिक्रियते नियुज्यते वा | स्वरूपेण कर्तृत्वे विवक्षितस्यापि ताद्रूप्य प्रसज्येतेत्य् अभिप्रायेणाह ए[१४४]षाम् अपि पररूपेण कर्तृत्व [१२४.१] इति | पररूपेण कर्तृत्वे इति पर एव कर्ता स्यात् | तस्य तु तथात्वं५ हरीतकीं प्राप्य देवता रेचयन्तीत्य् अनेन तुल्यं स्याद् इत्य् अभिप्रेत्याह -- पररूपेणाप्य् अकारकत्वाद् इ[१२४.३]ति | अस्योत्तरस्य [१२४.५] ᳚सहितस् तत्स्वभावो न केवल᳚ इत्य् अस्य | प्रकृतम् उपसंहरन्न् आह -- तस्माद् इ[१२४.१०]ति | कथञ्चित् के[१२४.१०]नापि प्रकारेण न कार्यक्रियाया विरामः | पुरस्ताद् अपि तस्य स्वरूपस्य भावाद् इति भावः |
SK
__________NOTES__________
SK
[१४४] तेषाम् अपि-S
SK
६स्याद् एतज् जनकम् अस्य रूपम् अवस्थितं जनकञ् च तद् उच्यते यस्मिन् सत्य् एव कार्यम् अस्ति न तु यस्मिन् सति कार्यं भवत्य् एव, सति भावस्याक(का)रणसाधारण्णत्वात् | कार्यम् अपि तद्भा(तदभा)वे {प्. ३६०} नोपपद्येत इत्य् एव तस्य कार्यं, तद्भावे तु भवत्य् अवश्यम् इति को(क्वो)पयोगो ऽस्य | तस्मात् कथं तद्रूपभावेपि कार्यक्रिया७ प्रसंजनं ज्याय इति |
SK
अत्रोच्यते अक्षणिकत्वेनाप्रच्युतानुत्पन्नरूपान्तरे सर्वावस्थासमाने ऽपि कारणं यदि कार्यं नोपजायते तर्हि तत्स्वतन्त्रम् आपद्येत | तथा च न तत् तस्य कार्यं स्यात् | तदवादि वार्तिकालंकारे प्रज्ञाकरगुप्तेन --
SK
᳚सर्वावस्थासमाने ऽपि कारणे यद्य् अकार्यता ||
SK
स्वतन्त्रं कार्यम् एव स्यान् न [तत्]कार्यं तथा ८सति ||᳚ इति |
SK
कारणपारतन्त्र्ये च तत्कारणं तत्कार्यं हठाद् एव जनयेत् | तथाप्य् अभावे न तस्य कार्यं स्यात् | तस्माद् अ[कारणात्] कारणस्य विशेषः कार्यस्यावश्यंभाव एवावश्यञ् च वक्तव्यः |
SK
ननु ᳚तद्भा(तदभा)वे न भवति कार्यम्᳚ इत्य् अकारणाद् अस्य विशेषः | न हि तस्याकारणस्याभावे तत्कार्यं न भवतीति, हन्त कुत एतद् अवगम्यते तद[५०ब्]१भावप्रयुक्तो ऽस्याभाव इति | यदि हि तद्भा(तदभा)वस्याभावे तद्भावलक्षणे कार्याभावस्याभावः कार्यभावलक्षणः स्यात् तदा तदभावप्रयुक्तो ऽस्याभावः सिद्ध्येद् इतरथाकारणाभिमताभावप्रयुक्तो ऽपि तदभावः किं न कल्प्यते?[१४५]तदभावेपि कार्याभावस्य भावान् न तदभावप्रयुक्ततास्येति चेत्, समानम् इदं कारणाभिमतेपि | तस्माद् यथा २तदवस्थ एव कारणे स्वयम् एव कार्यं न भवति स्वातन्त्र्यात्, तथा तदभावो ऽपि स्वयम् एव न भविष्यतीति स्वातन्त्र्याद् एव | यश् च स्वयम् एव न भवति नासौ नियम्यत तेन परतन्त्रत्वे तस्य कारणस्य भावे ऽवश्यम् एव भवेत् | तदाहअलङ्कारकारः
SK
__________NOTES__________
SK
[१४५] अकारणाभिमताभावाभावे ऽपि इत्य् अर्थः |
SK
᳚[१४६]तद्भावेपि न भावश् चेद् अभावे भाविता कुतः |
SK
__________NOTES__________
SK
[१४६] Pरमाणवा. Āलं. पृ. ७४.
SK
तदभावप्रयुक्तो ऽस्य सो ऽभाव इति ३तत् कुतः ||᳚ इति |
SK
तस्मात् तद्भावे भावस् तदभावे चाभाव इति विशेषितः कार्यकारणभावो ऽवश्यं भवतीति ज्ञापयति | तथा च कारणे सत्य् अवश्यंभावि कार्यम् आयातम् इति कथं कदाचित् क्रियाविरामः |
SK
किञ् च तथाविधो हि कार्याभावो निर्हेतुकत्वात् स्वयम् एव भवतीति युक्तम् अपि | भावस् तु हेतुपरतन्त्रत्वात् स४मर्थे हेतौ न भवतीति न युक्तम् | तद् उक्तम्
SK
᳚अभावो हि पदार्थानां स्वयम् एव भवेद् अपि |
SK
भावस् तु परतन्त्रत्वात् कथं हेतोर् भवेन् न सः ||᳚ इति |
SK
{प्. ३६१} ननु कार्याभावस्य स्वतन्त्रत्वात् ᳚कारणे सत्य् एव न भवती᳚ति युक्तम् एवैतत् | एवं तर्हि न कारणाभाव प्रयुक्तो ऽभाव कथं भवेत् कार्यस्य(कार्यम्[१४७]अस्य) ततः स्वयम् ए५व न भवति, यश् च स्वयम् एव न भवति नासौ तेन नियन्तुं शक्यः | ततो यथा स्वयं न भवति तथा भवेद् अपि | ततो न तस्य कार्यम् | यदा तु कारणे सति भवेद् एव तदा स्वरसनिरोधेप्य् अपरापरक्षणोत्पत्तेस् तदभाव एव संतानोच्छेदस् तदभाव एव च संतानाक्षेपक्षणानारम्भो वा सु६ज्ञात(न) इति कारणप्रतिबद्धत्वं सिद्ध्यति |
SK
__________NOTES__________ [१४७] ᳚कार्यम् अस्य᳚ Pरमाणवा. Aलं.पृ. ७४.
SK
एतेन तद् अपि निरस्तम्यदाहुर् एके यथोभयाधीननिरूपणा व्याप्तिर् अयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये सति भाव एव व्यापकस्य नाभाव इति; व्याप्यस्य पुनर् अन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति | एवं कार्य७कारणभावो ऽप्य् उभयाधीननिरूपणोपि कारणे ऽयोगव्यवच्छेदेन निरूप्यते, कार्योत्पादस्य पुरस्ताद् भाव एव कारणस्य नाभाव इति; कार्ये पुनर् अन्ययोगव्यवच्छेदेन कारण एव सति भावो नान्यस्मिन्न् इत्य् अनुभवानुसारान्निश्चीयत इति | उक्तया नीत्या तद्भावे ऽभवतस् तत्कार्यताया एवाभावप्रसङ्गात् ८स्वभावे ऽभावमत(?)श् चातत कार्यः का(तत्कार्यका)रणतायाः स तु या (?) अभिसंबन्धयत एव चात्र भवतः (?) कारणस्य मुख्यस्यानुभवो ऽन्यस् तु तादर्थ्याद् उपचरितकारणभावस्यानुभव इति स्वयम् उपचरितकारणानुभवरूपत्व एवेति | अपि च यथा कारणे सत्य् अवश्यं भावम् अनिच्छता कार्यस्य कादाचित् कादन्वयात् तत्कार[५१अ] १णम् इष्यते | तथा कादाचित् कादव्यतिरेकाद् अपि किन् न कारणम् इष्यते युज्यते वा | तस्मात् कार्यकारणभावं नियतम् इच्छता यथा व्याप्तिमान् व्यतिरेक एष्टव्यस् तथा व्याप्तिमान्न् अन्व(मान् अन्व)योप्य् अवश्यैषितव्यो ऽन्यथा तद्यो(तदयो)गाद् इति |
SK
किं च सहितावस्थायां तावद् असौ भावः कार्यं जनयतीतीष्यते | जनयतीति च को ऽर्थः ? किं कार्यं२ सत्तयाभिसम्बध्यते किं वाभिसंत्स्यते? किञ्चातः ? यद्य् उतरः पक्षस् तदा तस्मिञ् जनयति न कदाचित् कार्यं सत्प्रत्ययविषयः स्यात् सत्तया अभिसम्बन्धस्य भावितत्वा(वित्वा)त् | अथान्य(द्य) एवोपगमस् तदा विकल्पद्वयम्, किम् अनेनैव स्वभावेन पूर्वम् अयम् अवस्थितो ऽथान्येन | न तावद् अन्येन, एकस्य रूपद्वयायोगात् | ३अनेनैव स्वभावेनावस्थाने च संप्रतीव तदापि कार्यं सत्तयाभिसम्बध्यत इत्य् उपेतं स्यात् | तथा च प्रकृतकृ(क्ष)तिर् इति किम् अस्थानाभिनिवेशेनेति | अथ भवतो ऽपि किम् इदं कारणत्वं? किं प्राग्भाव एव किं वा प्राग् एव भावः? यदि प्राग्भाव एव, तदा स्थिरस्यापि एवम् एव कारणत्वे सु[१४८]साधितस्य४ निराकरणं प्रसज्येत | अथ प्राग् एव भावः, तद् एतत्क्षणिकत्वे सिद्धे सिद्ध्यति | तद् एव तु न सिद्धम् इति {प्. ३६२} कथम् इदम् उच्यमानं शोभेतेति | आस्तां प्राग्भाव एव कारणत्वं को बाधः? ननूक्तम् एवाक्षणिकस्यापि कारणत्वे साधयितुं शक्ये तदनिराकृतिर् एव महती बाधेति चेति | हन्त किं ५हेतुरूपस्य लक्षणेनाक्षणिकस्य सत्त्वंतथागतैर् निराक्रियते येनेदम् अपि वक्तुम् अध्यवसितास् तर्कविदः कथं नामेति चेत् | उच्यते | प्राग्भाव एवासौ स्थिररूपात् क्रमाक्रमाख्यस्य व्यापकस्य निवृत्त्या निवर्तते | यथा च तस्य ताभ्यां व्याप्तिर् यथा च ततस् तयोर् निवृत्तिस् तथान्यत्र निऋणीतम् इति ने६ह हेतुलक्षणकाले ऽप्रकृतत्वाद् उच्यते | अथ तद् एव न संगच्छते | तर्हि तद् एवोच्यताम् | न तु हेतुलक्षणेन तस्या निराकृतिर् इति | अलम् अतार्किकवचनेनातिनिर्बन्धेनेति |
SK
__________NOTES__________
SK
[१४८] अत्र स्वसाधितस्य इत्य् अपि दृश्यते |
SK
न हि स सामी(ही)[त्य]इत्य् ए[१२३.२१]केन प्रकारेण व्याख्यायापरेणापि प्रकारेण व्याख्यातुम् अथवे[१२४.१०]त्यादिनोपक्रमते |[१४९]अस्या [१२४.१०] अपेक्षा७याः |
SK
__________NOTES__________
SK
[१४९] अस्य S
SK
ननूक्तम् एव प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावो भावस् तत् कथं प्रत्ययान्तरसाहित्यदशायाः पूर्वं कुर्याद् इत्य् आह प्रत्ययान्तरे[१२४.१९]ति | तदतत्कालयोः [१२४.२३] सहकारिसाहित्यासाहित्यकालयोः | केचित् पुनः ᳚स्वहेतुभिर् एवायं प्रत्ययान्तरसापेक्षकार्यजननस्वभावो जनित [१२४.११]᳚ इत्य् अत्रैव विपञ्च्यते | ८यद्य् एवंधर्मो ऽयं स्वहेतुभिर् एव जनितः स्यात् तदा न कदाचिज् जनयेत् | तथा हि यावत् सहकारिप्रत्ययसन्निधिकालस् तावद् अकरणधर्मासौ भावो ऽन्यथास्या पूर्वम् अपि कर्तृत्वं प्रसज्येत | प्रत्ययान्तरसन्निधिकाले च स एव कियत्कालाकरणस्वभावो यः प्रथमे क्षण आसीत् | ततो नैव कुर्यात् कि[५१ब्]१यत्कालाकरणधर्मत्वात् तस्य क्रियायात् (क्रियायांतु) स एव स्वभावो न भवेत् | यद्वा तावत्कालापेक्षजनकस्य स्वभावस्यानुवृत्तेस् तादात्म्यः(म्ये) तावत्कालम् अक्रिय एव | पुनर् अन्ते तथैवेति कथम् इवाक्षणिकः कदाचिद् अपि जनयेत् | तस्मान् न प्रत्ययान्तरापेक्षजनकस्वभावो भावः स्वहेतुभिर् जन्यत इति | तथा चाह --
SK
᳚तत्सहकारिसापेक्ष२जनको यदि हेतुभिः |
SK
भावः स्याज् जनितो नासौ किंचिज् जनयेत् तदा ||
SK
तथाहि सन्निधीयन्ते यावत् ते सहकारिणः |
SK
तावन् नूनम् अकर्तासौ स्वभावस् तस्य वस्तुनः ||
SK
एषितव्यो ऽन्यथा पूर्वं तत्कर्तृत्वप्रसङ्गतः | तत्सन्निधानकाले च स्वभावो ऽस्य (?) वर्तते ||
SK
तन् न कुर्यात् क्रियायाम् वा स्वभावोस्य नो भवेत् (?) |
SK
यद्वा
SK
{प्. ३६३} तावत् समयसापे३क्षजनकस्यानुवृ...त्ततः ||
SK
स्वभावस्य तथाप्य् एष तावत् कालम् असत्क्रियः |
SK
पुनर् अन्ते तथैवेति कुर्याद् अक्षणिकः कथम्? ||᳚ इति |
SK
उपगतो ऽन्त्यो [१२५.९] यस्य स तथोक्तः | प्रस[१५०]ज्येत् [१२६.२२] यस्य निपातस्यार्थकथनं हठाद् इ[१२६.२२]ति |
SK
__________NOTES__________
SK
[१५०] प्रसह्य S |
SK
सुतराम[१२७.१५]तिशयेन |
SK
सन्तानम् अप्य् आश्रित्य कथम् उच्यत इत्य् आह -- पूर्वोत्तरेति [१२८.८] | किं लक्षणं नाम वस्तु४तस् तत्र सहकारित्वम् इत्य् आह -- पूर्व[१५१]क्षणेभ्यस् त्व् इ[१२८.१०]ति | तस्य [१२८.१४] विशेष्य |
SK
__________NOTES__________
SK
[१५१] पूर्वपूर्वक्षणे-S |
SK
तत्समानकाल[१५२]कारणक्षणः [१३०.४] | प्र[१५३]यातुर(?)समानकालकारणक्षणः | एकत्वेनाधिम् उक्तस्य [१३०.६] तद् एवेदम् इति निश्चितस्य |
SK
__________NOTES__________ [१५२] तत्समानकालः S [१५३] प्रदातुर- इत्य् अपि पठ्यते |
SK
उपनिपतन्तीति उपनिपातास् ते च क्षणाः [१३०.१३] तथा क्षणो यतो ऽन्यो नास्ति कालः सोवच्छेदकत्वेनैषां विद्यत ५इति ᳚[१५४]अर्ष आदि᳚त्य् एनद् विधातव्यः | तेनैकक्षणिकस्थायीनि वस्तुरूपाणीत्य् अर्थः | एवम् अन्यत्राप्य् एवंविधे प्रयोगे ज्ञेयम् | स्वरसतः [१३०.१०] स्वानुरागान्नाशो(न्)मुखत्वाद् इति यावत् | प्रकरणात् कार्योत्पादं प्रत्यनुगुणत्वं [१३०.१५] प्रत्येयम् | क्षेपवती [१३०.१९] कालविलम्बवती |
SK
__________NOTES__________
SK
[१५४] पाणिनीयसूत्रं तु ᳚अर्ष आदिभ्यो ऽच् (५.२.१२७) इति वर्तते | किंतु दुर्वेकेन अन्यद् एव किञ्चिद् उद्धत भाति | तथा च अत्र ᳚अर्ष आदिभ्यो ऽदित्यनेनाद् विधातव्यः᳚ इति पाठः सम्यक् सम्भाव्यते |
SK
तदनासादनम् एव कथम् इत्य् आह -- क्षणानाम् इ[१३०.२७]ति६ | अयं निरतिशयो ऽयं च सातिशय इति विवेकस्याभावात् | कार्योत्पादानुगुणमा[१३०.२८]द्यम् इत्य् अर्थात् |
SK
यद् उक्तम् अक्षणिके तत्सर्वं क्षणिकेष्व् अपि ममं यत [१३१.१०] इति | तेषां [१३१.१२] क्षणिकानाम् | यद् वा क्षणानाम् इ[१३१.१३]तीदम् उभयत्रापि सम्बन्धनीयम् | पूर्वं स्वदेशस्थित्या ता(ते) एव परस्परतः समुत्पन्नविशेषाः सन्निधीयन्ते [१३१.१५] प्रत्यासीदन्ति | दूरदेशवर्तिनां कथं हेतुफलभावप्रतिनियम इत्य् आशंकायां न्यायम् उपदर्शयन्न् आह येन यस्याभी[१३१.१६]ति येन दूरस्थितसहकारिकृतेन विशेषेण सविशेषा एव संनिधीयन्त इतीष्यते | तस्य विशेषस्योत्पत्ताव् अपि [१३१.२२] |
SK
{प्. ३६४} नैव कार्योत्पादने योग्यास् ते ऽस्माभिर् इष्यन्ते किं तर्हि कार्योत्पादानुगुणस्योत्पा८दने तत् कथं तदुपायेत्याद्य् उच्यमानं शोभेतेत्य् आशंक्याह यदि हि [१३२.५] इति |
SK
भङ्ग्या [१३२.२०] वक्त्रोक्त्या | किं पुन[१३२.२२]र् हि द्विस्त्रिर् वा ब्रूमः | किं तर्हि शतश एव ब्रूम इत्य् अर्थः | संप्रत्येवम् एव व्याख्यानस्य निरवद्यतयापूर्वटीकाकृतःकटाक्षयन्न् आह -- एवम् इ[१३२.२३]ति | ये [१३२.२५]टीकाकृतः| न विशेषोत्पादनाद् एवेत्यादिग्रन्थस्य पुनर् उक्ततापरि[५२अ]१हारार्थं यतन्ते यत्नं कुर्वन्ति | हन्ते[१३२.२६]ति निपातो नामन्त्रणमात्रे | तदभावा[१३३.२]द् विशेषोत्पादाभावात् |
SK
न सर्वदापरापरयोगोस्य संभवति येनास्य तन्निबन्धनो विशेषः कल्प्यत इत्य् आह नही[१३३.२२]ति | एकम् एवा[१३३.२२]सहायम् एव | छायापि शीताद्यर्थक्रियाकारिणी वस्त्व् एव त्व् अना(न त्व् आ)लोकाभावमात्रमितिच्छा[१५५]योद्वता (?) | न तु प्रतिक्षणम् इत्यादिना एकदैवार्थस्योक्तत्वात् कथं द्विः पुनर् ग्रहणं कृतम् इत्य् आह क्षणिकेष्व् इ[१३३.२९]ति | द्वि[१३४.२]र् द्वौ वारौ ᳚द्वित्रिचतुर्भ्यः सुज्᳚ इति | (Pआ. ५-४-१८) सुचकेनोक्तम् इत्य् आह तत्र स्वरसत [१३४.२] इति | तज्जन्मनिमित्तम् इत्य् आचक्षाणो मूले निमित्तसप्तमीं दर्शयति |
SK
__________NOTES__________
SK
[१५५] योद्धता (?) इत्य् अपि पठ्यते |
SK
परस्परोपसर्पणाद्याश्रयाद् एव प्रत्ययविशेषाद् इ[१३६.२३]ति जन्मन्यपरस्परसंपृक्तलक्षणव्यवधानेनेति द्रष्टव्यम् | ३अन्यथा वक्ष्यमाणविरोधः स्यात् | यस्मिन् कार्ये कर्तव्ये ऽनुकूलो ऽनुगुणः स चासौ विशेषश् चेति तथा आसाद् इतस् तदनुकूलो विशेषो यैस् ते तथा तैः [१३६.२८] |
SK
अथ केन ग्रन्थेन पूर्वम् अनवस्थोक्ता कथं च स्याद् इति पार्श्वस्थवचनम् आशंक्य तं प्रागुक्तं ग्रन्थं तस्य चार्थं दर्शयन्न् आह अथे[१३७.१]त्यादि | कथं ४सा न भवतीत्य् आह तस्ये[१३७.४]ति | कुशूलाद्यवस्थम् अपि बीजं क्षित्यादिना कृतविशेषं क्षित्यादिकम् अपि तेन कृतविशेषम् एवोपतिष्ठत इत्य् अस्य प्रक[१५६]रण(कार)स्यानुभ्युपगमात् [१३७.४] किं नामाभ्युपेतामत्य् आह पुरुष[१३७.५]त्यादि | पुर्ववत्प्रकिरण[१३७.५]शब्दो द्रष्तव्यः | कार्योत्पादानुगुणो ऽयम् आद्यो विशेषः संपर्कक्षणा५नन्तरक्षणरूपस् तज्जनकस्य धर्मशब्दाद् अनिचं विधातुं व्युत्पत्तिं दर्शयन्न् आह अक्षेपेणे[१३७.१४]ति | कार्यताम् अननुभवत [१३७.२७] इति तत्कार्यतां चेति द्रष्टव्यम् इतरथा अन्त्यावस्थाप्राप्तेर् अबी(प्राप्तेन बी)जादिना अनेकान्तः स्यात् |
SK
__________NOTES__________
SK
[१५६] प्रकारस्यानुभ्युपगमात् S
SK
{प्. ३६५} बाहुल्येनेति विवृण्वन् प्रायः[१३७.२८]शब्दं निपातं दर्शयति बाहुल्येनेत्य् अस्यार्थे वर्तमानम् | ६अथ येन न्यायेन क्षणिकस्यैकार्थक्रियया सहकारित्वसंभवस् तेनाक्षणिकस्यापि भविष्यति तत् कथम् एवं विभज्यत इति आह तत्सम्भविन [१३८.२] इति |
SK
स्वभावान्तरोत्पत्तिर् अपि विरुद्धा कस्मात् कल्प्यत इत्य् आह प्रागकारकस्ये[१३८.३]ति | कथं न विरुध्यत इत्य् आह तस्यैव ही[१२८.४]ति | तर्हि पूर्वस्वभावस्य कथम् उ(म)७पनय इत्य् आह -- तत्रे[१३८.६]ति |
SK
[१५७]तत्सभावतैव |
SK
__________NOTES__________
SK
[१५७] इदं ᳚असौ᳚ (१३८.१५) इत्य् अस्य अर्थकथनं भाति |
SK
किम् इती[१३८.१५]ति निपातानिपातसमुदायः कस्माद् इत्य् अस्यार्थे वर्तते | मुघे[१३८.१५]त्य् अयम् अपि निपातो वृथेत्य् अस्यार्थे |
SK
तानि [१३८.१५] प्रत्ययान्तराणि |
SK
सम्प्रति व्याख्यातप्रबन्धस्य संभवप्रस्तुताभिधानसंगतिं दर्शयन्न् आह तद् एवम् इ[१३८.१७]ति | अनेकान्तपरिहारायोक्तम् अस्ये(क्तस्ये)[१३८.२०]ति ᳚तत्स्वभावस्य जननाद्᳚ इत्य् अस्य ८प्रसंगात् प्रस्तावाद् आगतं प्रासंगिकं [१३८.२३] कार्यं यथेष्टम् अविनाशं हेतु(ष्टम् विनाशहेतु)नैव निवृत्तिः क्रियत इत्य् आह विनाशहेतो[१३९.२७]र् इति | मुद्गरादेः [१३९.२८] सकाशात्, वस्त्वन्तरस्य [१३९.२९] प्रध्वंसलक्षणस्य भावे |
SK
व्यवस्थितरूपस्य [१४०.५] प्राच्येनैव रूपेण वर्तमानस्य |
SK
ननु यदि स्वरसनिरुद्धात् ताम्रादेर् उपादानकारणाद् वह्न्यादेश् च सहकारि[५२ब्]१कारणाद् अन्यस्यैव द्रव्यादिरूपस्य ताम्रादेर् उत्पत्तिर् इहाचार्येणोपगम्यते -- तर्हिप्रमाणवार्तिके ऽनेनैव यदवादि --
SK
᳚सहकारात् सहस्थानाशंका अग्निताम्र(स्थानम् अग्निताम्र)द्रवत्ववत्᳚ (Pरमाणवा. १.६.४) इति तद्विरुध्येत | शक्यते हि तत्रापीदं वक्तुम् उपादानात् तस्मात् तस्माच् च सहकारिकारणाद् अन्यद् एव तत् तथोत्पन्नम् | न त्व् अग्निस् ताम्रद्रवत्वं सह तिष्ठत इति चेत् | सत्यम्, यथाश्रुति२ स्याद् विरोधो यथा त्व् अविरोधस् तथास्माभिर्विशेषाख्याने ख्यापितम् इति तत एवानुगन्तव्यम् इति |
SK
{प्. ३६६} अस्थितिस्वभावो ऽ[१४०.१९]स्थितिस्वरूपो धर्मः पराश्रितत्वात् | तस्योत्पत्तिः | ततो [१४०.१२]स्थिररूपाद् धर्माद् विनाशहेतुसमुद्भूतात् | इति[१४०.१९]र् उच्यमानस्याकारं दर्शयति | पर एव प्रश्नयन्न् आह -- कथं ज्ञायत [१४०.२२] इति | अवस्थानात् [१४०.२४] तस्य विनाशस्य काष्ठादेर् इ३ति प्रकरणात् | तथापि तस्य तथात्वम् कथम् इत्य् आशंक्य पर एवाह यदी[१४०.२४]ति | तदसंभवेपि [१४०.२५] विनाशहेत्वग्न्याद्यभावेपि | तर्हि न निवर्तेतैवेत्य् आशंक्य स एवाह तस्य स्वभावेने[१४०.२५]त्यादि | यद् उत [१४०.२६] यद् एतत् | यत् तस्मात् तस्य विनाशो भवतीति ब्रुवता परकार्यत्वं तस्य कथितं भवतीत्य् आशंक्य स एवाह परस्मा४द् इ[१४०.२७]ति | उक्तम् एवार्थम् उपसंहारव्याजेन स्फुटयन्न् आह स्वहेतुभिर् एवायम् इ[१४०.२८]ति | अत्रमीमांसकस्य सहायकं दर्शयन्न् आह -- तद् उक्तम् इ[१४१.२]ति | येन स्वभावेन विरोधिनं [१४१.४] अपेक्ष्य निवर्तत [१४१.३] इति योज्यम् | अन्येषां क्षणिकवादिनां मुद्गरादिकम् अ[१४१.४]पेक्ष्य निवर्तत इति सम्बन्द्धव्यम् |
SK
भावच्युति[१४१.८]र् भावस्याभावः प्रसज्य५प्रतिषेध इत्य् अर्थः, अवधारणेनान्यस्य विरामः | सापि कथम् अहेतुर् इत्य् आह -- तस्याश् चे[१४१.९]ति | यदि सा भवित्री कथम् अहेतुका भवेद् इत्य् आशंक्य स एवाह -- नही[१४१.९]ति | को नामास्य भाषितस्यार्थ इत्य् आह केवलम् इ[१४१.१०]ति |
SK
इदम् अनन्तरोक्तम् उत्तरं कर्तृ विकल्पद्वयं कर्म नातिक्रामति [१४१.१२] | नित्यविकल्पस्यावकाशो [१४१.१४] नास्ती६ति ब्रुवतो ऽयम् आशयः | स हि नित्य उच्यते यो नैव विनश्यति न चायं तथोपगत इति | ने[१४१.१५]ति सिद्धान्ती | तदुपगमेपि [१४१.१५] कालान्तरस्थितिधर्मतोपगमेपि | संवत्सर [१४१.१६] इति ᳚कालाध्वनोर् अत्यन्तसंयोग᳚ (Pआ. २-३-५) इति द्वितीया | सम्वत्सरं व्याप्य स्थित [१४१.१८] इत्य् अर्थः | यद्य् एकदिवसाव् अति(से ऽति)क्रान्ते सत्य् एकदिवसा(स)न्यूनस२म्वत्सरे स्थितिधर्मा स्यात् तदानयोः स्वभावयोर् विरुद्धधर्माध्यासेन भेद एव भवेद् इत्य् अभिप्रायेण स एव तद् अन्तेपी[१४१.१८]त्य् आह | ये(ते)नैव न्यायेन द्वित्रिक्षणस्थितिधर्मोत्पादावगमेपि नित्यतोपगमो ऽवगन्तव्यः | अनेन [१४१.२७] अक्षणिकवादिना | पूर्वोक्तेन [१४२.३] ᳚तदन्तेपि स एवास्य स्वभाव᳚ इत्य् अनेन न्यायेन युक्त्या तदयोगा[१४२.५]न् नाशायोगात् | ने[१४२.९]ति सिद्धान्तवादी | अत एव [१४२.९] विरोधिसन्निधानापेक्षत्वाद् एव विनाशस्य तन्निबन्धनत्वप्रसंगात् [१४२.८] अपेक्षणीयविरोधिकारणत्वप्रसक्तेः | {प्. ३६७} हेतुभावस्य [१४२.१०] [५३अ]१हेतुत्वस्यापेक्षा कार्येणापेक्ष्यमाणधर्मस्यैवापेक्षा सा विवक्षितत्वात् सा लक्षणं [१४२.११] यस्य तद्भावस् तत्त्वं तस्मात् | कः पुनर् इ[१४२.१२]ति सिद्धान्ती | अयं चास्याशयो यदि विनाशो ऽन्यथा नोपपद्यते परतश् च न भवति तं चापेक्षत इति प्रमाणसिद्धं स्यात् कल्प्येत वैतत्, यदि परम् एतद् एव नास्तिईति | पूर्वम् अकिण्चित्करत्वेन विरोधित्वम् उपेत्य तदपेक्षा२यां उक्तम् | संप्रति तु विरोधित्वे ऽकिञ्चित्करत्वम् एव नास्तीति दर्शयन्न् आह कथञ् चे[१४२.१५]ति | नाम[१४२.१६]शब्दो ऽसंभावनायाम् इह |
SK
समयः [१४२.२०] सिद्धान्तः | तद्भाव एव [१४२.२७] मुद्गरादिभाव एव | तेषां [१४२.२७] कपालादीनां भावात् उत्पादात् | यथा तद्भावभावित्वं तेषां तथा दर्शयन्न् आह -- वेगवद् इ[१४२.२८]ति | कस्मात् संजातातिशय इत्य् अपेक्षायां योज्यम् परस्परे[१४२.२८]त्यादि | ३कार्यमुखेनोक्त्वा कारणमुखेनाप्य् आह तस्य चे[१४३.२]ति | तस्य वेगवन्मुद्गरादिसहकारिणो घटक्षणस्य |
SK
परस्परपरिहाररूपत्वात् [१४३.१०] परस्परपरिहारस्थितरूपत्वात् | विनाशः कथं तस्य स्वभावो भवितुम् अर्हति येन एवम् उच्यत इत्य् आह -- विनश्यती[१४३.१४]ति | भावे विहितो घञ् अ(कु)तो वचनात् क४र्तरि भवतीत्य् आशंक्याह -- बहुलम् इ[१४३.१४]ति | ᳚कुत्यल्युटो बहुलम्᳚ (Pआ. ३-३-११३) इत्य् अस्माद् वचनाद् इत्य् अर्थः |
SK
विनाशं प्रत्यनपेक्षां [१४३.२३] प्रतिपाद्ये[१४३.२४]ति योज्यम् | अनपेक्षां विनंष्टुर् इत्य् अर्थात् | कथं प्रतिपाद्येत्य् आह -- तद् इ[१४३.२३]ति | तद्धेत्वयोगेन विनाशहेत्वयोगेन | अयोग एव कुत इत्य् आह -- असामर्थ्ये[१४३.२४]ति | पूर्वाचार्यशब्देनाचार्यदिग्नागो ऽभिप्रेतः |
SK
स्याद् एतत् तत्र खलु विपर्यये बाधकं प्रमाणम् उच्यते यत् साध्यविपर्यये हेतोर् वृत्ति(त्तिं) बाधमानं साध्यसाधनयोः प्रतिबन्धं साधयति | न तु यत् साक्षाद् एव साध्यं साधयति | इयं चानपेक्षा साक्षाद् एव क्षणक्षयितां कृतकानां सतां साधयितुं शक्तेति | ६तथाहि ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियता यथान्त्या कारणसामग्री स्वकार्योत्पादने | विनाशं प्रत्यनपेक्षाश् चोदयान् अन्तरम् इमे कृतका भावा इति -- प्रयोगे कृते कृतकानाम् एषां क्षणिकता किं न प्रतीयते येन कृतकत्वाद्धेतोस् तत्सिद्धिः प्रार्थ्यते | तस्माद् अयं मौलो हेतुर् वैयर्थ्यम् आत्मनः पश्यन् नै(श्यन् ने)वं विपर्यये बाधकं प्रमाणं साध्यसिद्धौ सहायम् अपेक्षयितुं क्षणम् अपि न क्षमत इति | न वयंभट्टार्चटेन कृतकत्वस्य हेतोर् एवंरूपे वुपर्यये बाधकप्रमाणे प्रदर्शिते सति {प्. ३६८} चैवं गडुप्रवेशे ऽक्षितारानिर्गमकल्पिते यथाश्रुति सुश्लिष्टं किञ्चिद् वक्तुमीश्महे, केवलंवार्तिककार८स्य कृतकत्वहेतोर् व्याप्तिं समर्थयितुं पूर्वाचार्यैः कामनपेक्षां ब्रुवतोयम् अभिप्रायं (?) प्रकाशयितुं सहामहे | अनपेक्षशब्देन ह्य् अनपेक्षासूचितं बाधकम् अभिप्रेतम् | न त्व् एतदै(द् ए)व बाधकं प्रमाणम् | तथाहि कृतकत्वस्योदयानन्तरम् अविनाशित्वे सति विनाशं प्रति सापेक्षत्वं स्यात् | अन्यथा विनाशयोगात् | विनाशं [५३ब्] १प्रत्यनपेक्षत्वं तद्धेतुयोगाद् अवगतं तस्य व्यापकम् ततस् तद्व्यापकं स्वविरुद्धविधिना विपक्षात् तद्भावानियतत्वाद् उदयानन्तरम् अविनाशित्वलक्षणात् निर्वतमानं स्वयम् अपि व्याप्यं कृतकत्वम् आदाय निवर्तत इति व्याप्तिसिद्धिः | ततश् च व्यापकविरुधोपलम्भात् कृतकस्य हेतोर् निवृत्तिर् इति व्यापकोपलब्धिवुपर्यये बाधकं प्रमाणम् -- एत२त् सुचनार्थम् अनपेक्षां (?) बाधकं प्रमाणम् अस्याभिमतम् | ये यद्भावं प्रत्यनपेक्षा इत्य् एतद् अपि यद्य् अनन्तरोक्तसूचनाद् बाधकं प्रमाणम् उच्यते, कामम् उच्यतां कः प्रतिकूलो ऽनुकूलम् आचरति | न तु जातु तद् एव बाधकं प्रमाणं वक्तुं युक्तम् स्वातन्त्र्येण क्षणिकत्वस्य तेन साधनात् | तद् उक्यमाचार्यशान्तरक्षितेन --
SK
᳚तत्र ये कृतका भावाः सर्वे ते क्षणभङ्गिनः |
SK
विनाशं प्रति सर्वेषाम् अनपेक्षतयास्थितेः ||
SK
यद्भावं प्रति यन् नैव हेत्वन्तरम् अपेक्षते |
SK
तत् तत्र नियतं ज्ञेयं स्वहेतुभ्यस् तथोदयात् |
SK
निर्विबन्धा हि सामग्री स्वकार्योत्पादने यथा |
SK
विनाशं प्रति सर्वेपि निरपेक्षाश् च जन्मिनः ||᳚ (Tअत्त्वसं. ३५३-३५५) इत्यादि |
SK
ये पुनर् इमं दो४षम् उपदर्शितं प्रतिवद[१५८]न्तो यथाश्रुति बाधकं प्रमाणम् इदं समर्थयितुम् ईशते न तान् वयं[१५९]विद्मः प्रत्युतोपकारिण एव मन्यामह इति | तर्हि पूर्वाचार्यैर् अकृतकसतां क्षणिकत्वम् उक्तम्, तथा च नित्यत्वम् उर्पक्षेत(?)म् इत्य् आशंक्योपसंहारव्याजेनाह -- तद् एवम् इ[१४४.९]त्यादि | अहेतोः स्वभावादिनियमायो५गाद् इत्य् अभिप्रायेणाह कृ[१६०]तकत्वस्य सतो ऽभावाद् इ[१४४.९]ति |
SK
__________NOTES__________
SK
[१५८] ᳚बहन्तो᳚ इत्य् अपि पठ्यते | [१५९] अत्र यदि ᳚द्विष्मः᳚ इति पाठः स्यात् तदा बाढं संगच्छेत् | [१६०] अकृतकस्य S |
SK
सामान्येनेत्य् अस्य स्पष्टीकरणं कृतके[१४४.२५]ति तत्स्वभावसापेक्षत्वाद्धि[१४४.२३]नाशिस्वभावसापेक्षत्वात् | विनाशिस्वभावसापेक्ष[१६१]णाद् इ[१४४.२४]ति हेतुभावेन विशेषणम् | इति[१४४.२५]र् हेतौ | {प्. ३६९} अ[१६२]नपेक्षाया [१४४.२५] हेतुभूतायाः स्वतो नस्वतः स्व(नश्वरस्व)भावता तस्या प्र(अ)सि६द्धेः हेत्वन्तरव्यापारनिषेधमात्राभिप्रायेण स्व[१६३]तो [१४४.२५] ग्रहणं द्रष्टव्यम् | अभिधानीयम् अभिधातुम् उचितम् इति मन्यमान [१४४.२७] आचार्य इति प्रकरणात् | संभावनायां [१४५.४] न्यायबलायातायाम् इति द्रष्टव्यम् |
SK
__________NOTES__________
SK
[१६१] सापेक्षाणाम् S | [१६२] अनपेक्षया S | [१६३] सतो S |
SK
ननु सत्तायोगादितः सत्वम् अक्षणिकस्योपपत्स्यते तत् कथं शक्तिर् हि [१४५.१८] -- इत्याद्य् उच्यमानं शोभत इ७त्य् आशंक्याह एवं मन्यत [१४५.२०] इति | त्रिपदार्थसत्करीति सत्ता तैर् इष्यत इत्य् अभिप्रायेणाह -- सामान्यादी[१४५.२२]ति | आदिशब्दात् विशेषसमवायपरिग्रहः | स्वरूपसत्त्वे च तेषाम् इष्यमाणे तद्वद् अन्येषाम् अपि किं [न] भवेत्? इतरेतराश्रयत्वे चैकासिद्धौ द्वयासिद्धिर् दोषः | तेषां [१४५.२४] वन्ध्यासुतादीनाम् | तस्यैव सत्तायोग इत्य् अर्थसाम८र्थ्यम् एव भावलक्षणम् आयातम् इ[१४६.३]त्य् एष एव पाठः इति[१४६.२]शब्देन हेत्वभिधाने अर्थ्यत इत्य् अर्थो दाहपाकादिस् तत्र सामर्थ्यं तद् एव भावलक्षणम् आयातम् इति संगतत्वात् | तस्यैव सत्तायोग इत्य् अर्थ इति प्रमादपाठः | एवं हि सामर्थ्यम् एव भावलक्षणम् इत्य् अकारणम् उक्तं स्यात् के च(क्व च) तत्सामर्थ्यम् इति च नोक्तं भवेत् तस्मा[५४अ]१द् इत्य् अध्याहृत्य व्याख्याने च क्लिष्टम् इष्टं स्याद् इति | अत्रैवोपपत्त्यन्तरं समुच्चिन्वन्न् आह -- इत्थं चे[१४६.३]ति अनेन वक्ष्यमाणेन प्रकारेण | एवम् अ[१४६.३]र्थसामर्थ्यभावलक्षणम् इति | तम् एव प्रकारं दर्शयन्न् आह अन्यथे[१४६.३]ति | अर्थसामर्थ्याद् अन्येन प्रकारेण |
SK
मीमांसकादीनां सत्त्वलक्षणम् अपास्यदिगम्बरस्यापि दूषयितुम् आह | उत्पादे[१४६.६]ति२ | यद्य् एवम् आहुः:-
SK
᳚घटमौलिसुवर्नार्थीं नाशोत्पादस्थितिष्व् अयम् |
SK
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ||᳚ [Āप्तमी. ५९]
SK
᳚न नाशेन विना शोको नोत्पादेन विना धृतिः |
SK
स्थित्या विना न माध्यस्थ्यं तस्माद् वस्तु त्रयात्मकम् ||᳚ इति |
SK
तथा
SK
᳚प्रयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः |
SK
अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ||᳚ [Āप्तमी. ६०] इति |
SK
कथम् अयु३क्तम् इत्य् आह घ्रौव्येणे[१४६.७]ति | विरोधाद्धेतोर् एकस्मिन् धर्मिण्ययोगात् [१४६.७] | एषाम् इत्य् अर्थात् | अनेनासंभवितां लक्षणदोषम् आह -- यथोक्तं [१४६.१०] यादृशम् उक्तं उत्पाद्व्ययघ्रौव्यात्मकं लक्षणं यस्य तत् तथोक्तम् | उत्पादव्ययघ्रौव्याणाम् {प्. ३७०} असत्त्वप्रसङ्गेनाव्यापितालक्षणदोषो द्रष्टव्यः न चासद्धिस् तैर् अन्यस्य योगो ४युक्त इति | अन्यथा [१४६.१२] स्वज्ञानजननम् अप्य् अयोग्यशक्तत्वोपगमे(म?)प्रकारेण(?) यदि हि सामान्याद् इति स्वज्ञानं जनयेत् तदार्थत्वेन व्यवस्थाप्येत नान्यथेति भावः | आदि[१४६.१२]शब्देन द्रव्याव्यवस्थादिसंग्रहः |
SK
क्षणि[१६४]कत्व [१४६.२७] इति सत् सप्तमीयम् | क्रमयौगपद्याभ्याम् इ[१४६.२८]ति क्रमयौगपद्यकारित्वाभ्याम् इति द्र५ष्टव्यम् इतरथा कार्यधर्माभ्यामाभ्यां कारणधर्मः कार्यकारित्वं कथम् इव व्याप्येत | यथाचामू कार्यधर्मौ तथोपरिष्टाद्भट्टार्चटेन एव स्फुटयिष्यते |
SK
__________NOTES__________
SK
[१६४] अक्षणिकत्वे S |
SK
अर्थक्रियाकारित्वमात्रक्रमाक्रमकारित्वात्मकार्थक्रियाकारित्वविशेषयोश् चोभयव्याप्तिकत्वात्मकं सत्त्वं क्रमाक्रमकारित्वाभ्यां व्याप्तम् इ६त्य् उच्यते | अन्यथा सामान्येन विशेषो व्याप्यते | वृक्षत्वेनेव शिंशपात्वम् | न तु विशेषेण सामान्यं व्याप्यते | वृक्षत्वम् इव शिंशपात्वेनेति | कथम् इदम् उच्यमानं शोभेतेति | ततो [१४६.२९] व्याप्यव्यापकभावात् कार्यकारणशक्तरूपव्यापकयोः क्रमाक्रमकारित्वयोर् निवृत्ते[१४७.१]र् निवृत्तत्वात् | त(क)दा निवृत्तिर् इत्य् अपेक्षायाम् आह अक्षणि७कत्व [१४७.२] इति अक्षणिकत्वे सति | तत्र एवाक्षणिकत्वाद् विपक्षान् निवृत्तेर् इति च सामर्थ्याद् अपादानं द्रष्टव्यम् | कथं तयोस् ततो निवृत्तिर् इत्य् आह -- विरोधाद् इ[१४७.१]ति | विरोधाद् इत्य् अनुपपत्तेर् इत्य् अर्थ, न तु शास्त्रनिर्दिष्टलक्षणयोर् विरोधयोर् अन्यतरविरोधवशाद् इति | ᳚विरोधशब्देनायोगस्य विवक्षितत्वात् ततश् चाक्षणिकस्य क्रमयौगपद्याभ्याम् ८अर्थ्क्रियासिद्धिम् अनुसरतासौगतेन[१६५]विरोध्य् अप्य् अक्षणिकः[१६६]प्रत्येतव्यो विरोधिप्रतिपत्तिनान्तरीयकत्वाद् विरोधसिद्धिर्[१६७]इति यदीरितंशङ्कराचार्येण तदपहस्तितम् | अयोगपक्षे ऽपि यावत् सम्भवं दूषणं प्रतिविधानं चास्माभिर्विशेषाख्यान एव विस्तरेणाभिहितम् इति तत एवापेक्षितव्यम् इति. अनेन च यस्य [न] क्रमाक्रमयोगो न त[५४ब्]१स्य क्वचित् सामर्थ्यम्, यथाकाशकुशेशयस्य. अस्ति चाक्षणिके सति व्यापकानुपलम्भः सत्त्वहेतोः साध्यविपर्यये बाधकं प्रमाणं दर्शितं वेदितयम् | यथा चास्याश्रयासिद्धत्वदोषो न संभवति | अ(त)थास्माभिश्चतुःस(श)त्यांक्षणभङ्गसिद्धौविशेषाख्याने चाख्यातम् इति तत एवावगन्तव्यम् इति. विरुद्धयोः [१४७.३] सत्त्वासत्त्वयोः | ततो ऽक्षणिकत्वात् |
SK
__________NOTES__________
SK
[१६५] सौगतेनएम्.(च्f. Sतेइन्केल्ल्नेर् १९६३: ८ fरग्. ६) : सौगते HBṬĀ [१६६] विरोध्य् अप्य् अक्षणिकःएम्.(च्f. Sतेइन्केल्ल्नेर् १९६३: ८ fरग्. ६) : विरोध्यस्य क्षणिकः HBTĀ [१६७] विरोधसिद्धेरेम्.(च्f. Sतेइन्केल्ल्नेर् १९६३: ८ fरग्. ६) : विरोधसिद्धिर् HBTĀ
SK
२क्रमयौगपद्याभ्याम् एवे[१४७.६]त्य् अत्र क्रमयौगपद्ये कार्यधर्माव् एव विवक्षिते | तेनायम् अर्थः -- कार्यम् अङ्कुरादिकं बीजादिना [१४७.६] केवलं वा क्रियेतान्यसहितं {प्. ३७१} चेति | कार्यजन्मनः[१६८][१४७.८] कार्योत्पत्तेः | विप्रकर्षिणां [१४७.१०] स्वभावादिविप्रकर्षयुक्तानां ने[१४७.१४]ति सिद्धान्ती | उभयथा [१४७.१५] तस्य प्रकारान्तरस्य दृश्यत्वादृश्यत्वप्रकारेण | कार्यान्तरसाहित्यासाहित्यरूपे क्रम३यौगपद्ये विवृण्वता चानेन कार्यधर्मत्वं क्रमयौगपद्वयोर् व्यक्तम् उपदर्शितम् | अत एव क्रमयौगपद्याभ्यां कार्यक्रियाव्याप्तेत्य् अस्माभिर् व्याख्यातं तथा | तदुभयावस्थाविरहेपि [१४७.१७] कार्यान्तरसहितासहितावस्थाभावेप्य् अङ्कुरादेर् इति प्रकरणात् | अन्यथाभवनं [१४७.१८] प्रकारान्तरम् | भवत्व् एवं, ततः किम् आयात४म् इत्य् आह -- तस्य चे[१४७.१८]ति | अनेन दृश्यात्मत्वं तस्य समर्थितम् | अस्तुं दृश्यानुपलम्भात् कस्मिंश्चिद् देशे काले च तस्याभावव्यवहारो ऽन्यस्मिन् पुनर् देशे काले चाप्रतिषेधात् कथं तत्र प्रकारान्तरस्याभावः सिद्ध्यतीति आशंक्याह | तस्य चे[१४७.२३]त्यादि | अङ्कुरादिभावस्य अङ्कुराद्युत्पादस्य अवस्थाद्वयबहिर्भावनिषे५धे कार्यान्तरसहितासहितावस्थाबहिर्भावस् ताभ्यां प्रकारान्तरं तस्य निषेधे दृश्यानुपलम्भकृते सति ह्य् अनि(सति नि)षेध इत्य् आह -- कयोश्चिद् इ[१४७.२४]ति | देशान्तरादौ (१४७.२४) भावेपी[१४७.२५]ति तस्याङ्कुरादेर् इति प्रकरणात् न काचित् क्षतिः [१४७.२५] | किं भूते देशान्तरादाव् इत्य् आह क्रमेणेत्या[१४७.२४]दि | इतरस्मिन् वा [१४७.२४] युगपदङ्कुरादि६भाववति वा | एतच् च हेतुभावेन विशेषणम् | अयं चाशयो देशान्तरादिर् अप्य् एतद् देशान्तरवत् क्रमेन वा तद्भाववान् युगपद् वा भवितुम् अर्हति, तदुभयावस्थाबहिर्भावस्य निषिद्धत्वात् | सति चैवम् अदोष एवेति | न काचित् क्षतिर् इ[१४७.२५]ति ब्रुवतश् चायम् अभिप्रायः -- कार्यस्य चैकत्रैकदावस्थाद्वयबहिर्भावो निषि७द्धो ऽन्यदापि तेन भवता प्रमाणपरिदृष्टात्मनैव भवितव्यम् अन्यथा तत् कथं देशान्तरादौ प्रकारान्तरम् आशंक्येति(क्येतेति) | प्रकरणम् उपसंहरन्न् आह त[त] [१४७.२५] इति |
SK
__________NOTES__________
SK
[१६८] कार्यात्मनः S
SK
ननु संप्रत्येवोक्तः स्वभावानुपलम्भ एवेत्यादि तत् कथम् इदानीम् उच्यते प्रत्यक्ष [१४७.२५] इत्यादीति चेत् | नैष दोषः पूर्वं हि मूढं प्रतिपत्तारं प्रति तथोक्तम् अधुना पुनर् अमूढं प्रती८ति को व्याघातः |
SK
क्रमयौगपद्ययोर् इ[१४८.१]ति क्रमाक्रमयोर् इत्य् अर्थः सकृतप्रत्युपलक्षणेन यौगपद्यशब्देनाक्रमस्यैव विवक्षितत्वात् अन्यथान्यो ऽन्यव्यवच्छेदरूपता दुरुपपादापद्यते ततः सर्वत्रैवाक्रमार्थी(र्थो) यौगपाद्यार्थः | अत एवास्माभिर् अक्रमशब्देन यौगपद्यमनूदितम् इति | तस्य [१४८.३] प्रकारान्तरस्य प्रतिषेधः | [५५अ]१उभयनिषेधात्मकम् एव प्रकारान्तरं किं {प्. ३७२} न भवति येनैकनिषेधनापरविधानात् तस्य निषेधो भवतीत्य् आह -- विधिप्रतिषेधयोर् इ[१४८.४]ति | अयम् अभिप्रायः -- क्रमो न भवतीति अयम् एवाक्रमविधिः | सोपि न भवतीति तदैव तस्य निषेधः अनयोश् चैकाधिकरणयोर् एककालिकयोर् विरोधस् तस्मात् तथाभूतस्या...ं...व इति | तस्याप्रतिषेध [१४८.३] २इति त्व् अपाठ एअ | कारणम् अपि कारणापेक्षया कार्यम् एवेति कारणग्रहणम्, न तु कारणत्वेनास्योपयोगो ऽत्र कश्चित् | कर्य एव प्रकारान्तरासंभवस्य चिन्त्यत्वात्; यद् वा कारणेन क्रियमाणे कार्य इति ज्ञापनार्थं कारणग्रहणं वास्तवं रूप(वरू)पानुबादकं प्रतिषेधस्य यद्विरुद्धं तस्योपलब्धिर् इत्य् आशंका एतद् एवोपपादयन्न् आह व्यवच्छिद्य३माने[१४८.१०]ति | इतरस्य व्यवस्थानम् इ[१४८.१०]ति तथव्यवच्छिद्यमानप्रकाराद् इतरव्यवस्थानम् इति तथा |[१६९]सम्भवं हेतोः [१४८.१५] सद्भावम् इति प्रकरणात् | संभवग्रहनं चोपलक्षणं तेन पूर्वसिद्धां च व्याप्तिं प्रदर्श्येत्य् अपि द्रष्टव्यम् | विरोधसाधनम् एवा[१४८.१५]र्थात् प्राक्प्रवृत्तम् इत्य् अवसेयम् | बाधकम् इत्य् अस्याविरुद्धोपलब्धेः साध्यवि४पर्यये बाधकं [१४८.१५] प्रमाणम् उच्यत इति चाध्याहार्या(र्य)क्रियापेक्षयायं क्त्वाप्रत्ययः कार्यो ऽन्यथा कां क्रियाम् अपेक्ष्येयं पूर्वकाला प्रदर्शनक्रिया प्रदर्शयितव्या यत्रायं भवेत्, यथाश्रुति भिन्नकर्तृकायां च क्रियायाम् अयं प्रसज्येत पुरुषसम्बधित्वात् प्रदर्शनस्येति | विरुद्धमात्राभिप्रायेण शीतोष्णस्पर्शयोर् इ[१४८.१६]त्य् उदाहरति |
SK
__________NOTES__________
SK
[१६९] सद्भावं S
SK
ननु क्रमाक्रमाभ्यां कार्यं कामं व्याप्यतां तथाप्य् अक्षणिकः क्रमेणाक्रमेण वा कार्यं करिष्यति | सति चैवं व्यापकानुपलम्भो ऽसिद्ध इत्य् आशंक्याह -- तत्रेति [१४८.१८] | अविशेषात् [१४८.१८] पूर्वरूपाविशेषात् | एतद् एव दृष्टान्तव्याजेन व्यनक्ति अकारकावस्थायाम् इवे[१४८.१८]ति | अपेक्षितसहकारिप्रत्ययः स६न्करोति नान्यदेत्य् आह -- सहकार्यपेक्षा चे[१४८.१९]ति | अनुपन्यसनीये[१४८.२०]ति च सम्बन्धः; कुत इत्य् आह द्विविधस्यापी[१४८.१९]ति | अथ यथा भिन्नदेशानेककार्यकारित्वम् एकस्य स्वहेतु(तो)स् तथोत्पादाद् उपपद्यते तद्धि(तद्वद्भि)न्नकालानेककार्यकरणम् उपपत्स्यते तत् कुतः क्रमकारित्वानुपपत्तिर् अक्षणिकस्येति चेति(चेत्) | तद् एतच्च७तुःस(श)त्यां क्षणभङ्गसिद्धाव् अस्माभिः सूक्तं प्रत्युक्तम् इति तत एवानुगन्तव्यम् |
SK
ननु कारणलक्षणस्य क्रमस्य क्षणिकपक्षेप्य् अनुपपत्तेः समानो दोष इति चेद् एतद् अपि तत्रैव निर्णितम् इति नेहोच्यत इति | सर्वेषां [१४८.२०] चेति द्वितीयादिक्षणभाविनाम् इत्य् अवसेयम् | एकक्रियाकाल एव [१४८.२०] प्रथम क्षणक्रियाकाल {प्. ३७३} एव | तत्कारण[क]स्य८ [१४८.२१] द्वितीयादिक्षणभावित्वेनाभिमतकार्यकारकस्य तदैकक्रियाकले, एव[१४८.२०]कारो भावाद् इत्य् अस्मात् परो द्रष्टव्यः | अनेन च यद् यदा यज्जनसमर्थं तत् तदा जनयत्य् एव यथा अन्त्या कारणसामग्री | द्वितीयादिक्षणभावित्वेनाभिमतकार्यजनस्वरूपश् चाक्षणिकः प्रथमक्षण इति स्वभावहेतुप्रसङ्गं सूचयति | नापि युगपत् [१४८.२१] | ᳚[५५ब्]१अक्षणिकः कार्याणि करोती᳚[१४८.१८]त्य् अभिसम्बध्यते | येन स्वभावेन तत्कार्यमजीजनत् तस्य स्वरूपस्यानुवृत्तेर् इत्य् अभिप्रेत्य पुनस्[१७०]तत्करणप्रसङ्गाच् चे[१४८.२२]त्य् आह | अनेनापि समुदाये यज्जननसमर्थं तत् तदा त तज्जनयत्य् एव यथान्त्यः कारणकलापः | कृतकत्वेनाभिमतकार्यकरणरूपश् चाक्षणिको द्वितीयादिक्षण इति स्वभावहेतुप्रसङ्गम् ए२व दर्शयति | अनयोश् च प्रसङ्गहेत्वोर् उपदर्शितयोर् अर्थादुन्नीयमानयोश् च प्रसङ्गविपर्यययोर् यावत् संभवं दूषणं तदुद्धरणं चास्माभिर्विशेषख्याने समीचीनं निरूपितम् इति तत एवावगन्तव्यम् इति | अकारकरूपाविशेषाद् [१४८.२३] इदानीं यद् अकारकरूपम् अस्य तस्माद् अविशेषाद् इत्य् अर्थो ऽवसातव्यः | भेदप्रसङ्गः [१४८.२५] शक्ताशक्तयो३रूपयोर् इत्य् अर्थात् | अत्रैवोपपत्त्यन्तरम् उपचिन्वन्न् आह नित्यश् चे[१४८.२५]ति |[१७१](पूर्वोत्तरकालभावा च उपपत्त्योर् भेदो ऽवसेयः पूर्वकालहेतुर् अकाले च) एकदा [१२८.२८] एकस्मिन्न् एव क्षणात्मनि काले सर्वस्य कर्तव्यस्यैकदा [१४८.२९] एव कृतत्वाद् अर्थक्रियाकारित्वाभावाद् असत्त्वं स्यात् | इति[१४९.१]र् हेतौ | प्रकरणम् उपसंहरन्न् आह एव[१४९.२]म् इति |
SK
__________NOTES__________
SK
[१७०] पुनस् तत्क्रियाप्रसङ्गात् S | [१७१] कोष्ठकान्तर्गतः पाठः असम्बद्धो भाति |
SK
आर्य४ज्ञानं तन्वंतीति आयतनानि | चक्षुरादीनि [१४९.३] च तान्य् आयतनानि चेति तथा | अन्तर्व्याप्तिवादिनोप्य् अस्य मते प्रमाणसिद्धस्यैव धर्मित्वं वाच्यम् अन्यथान्तर्व्याप्तिर् असमर्थिता स्यात् | ततश् चक्षुराद्यायतनानाम् अमीषां प्रमाणसिद्धानाम् इति द्रष्टव्यम् |
SK
स्याद् एतद् यत् सत् तत्क्षणिकम् एवेति नियतं क्षणिकत्वं साधयितुं किल स५त्त्वाख्यो हेतुर् उपदीयते | अयं चाखिलं वस्तु नाक्षणिकं नापि क्षणिकम् इति साधयन् साध्यविपर्ययसाधानाद् विरुद्ध एव | तथा चावादीद्वादन्याये स्याद् वादकेशरी-- ᳚अखिलस्य वस्तुनो ऽनेकान्तिकत्वं सत्त्वात् | अन्यथार्थक्रिया कुतः᳚ -- इति | एतच् च व्याचक्षाणेन कुलभूषणेन टीकाकृता एवं व्याख्यातम् उप६पादितञ् च -- ᳚अखिलं चराचरं सूक्ष्मव्यवहितविप्रकृष्टं वस्तु धर्मित्वेनोपात्तम् | अन्तो धर्मो नैको ऽनेको ऽन्त आत्मा स्वरूपं यस्य तद्भावस् तत्त्वम् -- अयं साध्यो धर्मः सत्त्वाद् इति हेतुः | अन्यथानेकात्मकत्वाभावप्रकारेण -- {प्. ३७४} अर्थक्रिया कार्यं सं(र्यसं)पादनं कुतो न कुतश्चित् | अनेनान्यथानुपपत्तेर् विपर्यये बाधकं प्रमाणं समर्थकं दर्शितम् --
SK
᳚अन्यथानुपपन्नत्वं यस्यासौ हेतुर् इष्यते |
SK
दृष्टान्तौ द्वावपिस्तां वा (?) याचातौ हि न कारणम् ||᳚ इति न्यायात् |
SK
तन् न तावद् अक्षणिको भावः कार्यं कऋतुं शक्नोति | तस्य क्रमयौगपद्याभ्याम् अर्थक्रियाविरोतचत(राधात्) नापि क्षणिको भावः कार्यं कर्तुं प्रभवति | तथाहि किं क्षणिको भावः स्वसत्ताकाले कार्यकरणस्व८भावो ऽथान्यदा | यदि प्रथमविकल्पस् तदा तदैव कुर्यात् | स्वसत्ताक्षणे च कार्यकृतौ सर्वं जगदेकक्षणवर्ति प्राप्नोति | तथाहि कारणं स्वसत्ताक्षण एव यत् कार्यम् अकृत तद् अप्य् अन्यस्य कारणम् इति तद् अपि तदैव स्वकार्यं कुर्यात् | तद् अपि कारणम् अन्यस्येति तद् अपि तदैव कुर्याद् एवम् उत्तरेष्व् अप्य् अयम् एव न्याय इति | सत्यम्, का[५६अ]१रणं स्वसत्ताक्षण एव कार्यङ्करोति, तत्करणस्वभावत्वात्, केवलं कार्यम् अन्यदोत्पद्यत इति चेत् | तर्हि कार्यम् अपि तदैवोत्पद्येतान्यद तत्कालं परिहृत्य कार्योत्पत्तिर् विरुध्येत[१७२]उत्पत्ताविष्यमाणां(णायां) वा समनन्तरोत्पादविरोधः | तथाहि तत्करणसमर्थस्यापि कालम् उज्जित्वा जायमानस्य कार्यस्य कारणकृतोपकारपराङ्मुख२स्य यो ऽयं समनन्तरनियम एतद्विनाशानन्तरम् एवेदम् अस्य कार्यम् इति तस्यानुपपत्तिः | सोयं कारणविनाशो विरूपाख्यो ऽकिङ्चित्करस् तथापि यदि तत्समनन्तरनियमः कार्यस्य स्यात् तदा नित्यस्यापि कारणत्वम् अप्रतिहतं स्यात् | तथाहि यथा स्वसत्तालक्षण एव कार्यकरणस्वभावे क्षणिके भावे सत्य् अपि न तदैव ३कार्याण्य् उत्पद्यन्ते अपि तु कालान्तरे, तथा नित्येपि भावे सर्वदा तत्करणसमर्थे ऽपि कार्याण्य् एव विलम्ब्य विलम्ब्योत्पद्यन्त इति किं न समानम् | न च द्वितीये क्षणे निर्व्यापारतया सदसतोर् अक्षणिकक्षनिकयोः कश्चिद् विशेष इति |᳚
SK
__________NOTES__________
SK
[१७२] अत्र प्राक्तनं ᳚अन्यदा᳚ पदं समाकृष्य अन्यदोत्पत्तौ इष्यमाणायाम् इत्य् अर्थः कर्तव्यः |
SK
यदिनामाह्रीकोक्तिर् उपेक्षणीया प्रेक्षावतां तथापि किञ्चिद् उच्यते | ४इह खलु कार्यकारित्वं वस्तूनां न व्यापारसमावेशात् उत्पादातिरोकिणो व्यापारस्यानुपपत्तेः, नापि कार्येण सहोत्पादः, सव्येतरविषाणयोर् इव सहभुवोर् अन्यतरकारित्वानुपपत्तेः |
SK
᳚असतः प्रागसामर्थ्यात् पश्चाच् चानुपयोगतः |᳚
SK
इति न्यायात् | किं तर्हि किञ्चिद् अनन्तरं सत्तयाभि५सम्बध्यमानं प्रति नियतप्राग्भावित्वम् एव, कार्यस्यापि नियमेन तदनन्तरभावित्वम् एव तज्जन्यत्वम् | सति चैवं स्वसत्ताकाले कार्यकरणस्वभावो भाव इति को ऽर्थः? तत्सत्ताकालं पूर्वं कृत्वा कार्यं सत्तयाभिसंबध्यत इति | तथा स्वलक्षण(स्वक्षण) एव करोतीत्य् अस्यापि को ऽर्थः? अनन्तरभाविकार्या६त् पूर्वं सद्भवति {प्. ३७५} कारणम् इति | तद् उक्तं ᳚भूतिर्यैव क्रिया सैव᳚ इत्यादि | इत्थं चैकप्रहारनिय(ह)तम् एव तत्सर्वंदिगम्बरेरितम् | ततश् च क्षणिकस्यैवार्थक्रियोत्पत्तेः सत्त्वं क्षणिकत्वम् एव साधयद् विरुद्धम् आचक्षाणाःक्षपणाअनेकान्तत्वे च साध्ये साधनम् इदम् उपनयन्तः स्फुटमहीकावेति(महीका एवेति) ७उपेक्षाम् एव प्रे...वितामर्हन्तीति |
SK
स्वभावहेतुं व्याख्याय कार्यहेतुं व्याख्यातुकामोवार्तिककारस्य कार्यहेत्वभिधानस्य निमित्तम् दर्शयन् पूर्वापरयोः संगतिं तद् एवम् इ[१५०.३]त्यादिना करोति | तद्गतं [१५०.५] कार्यहेत्वाश्रितम् | कस्मात् पुनः स्वभावहेतुवद् अप्य् अस्यान्वयव्यतिरेकाव् एव न प्रतिपाद्येते, येन तद्गता८ परभ्रान्तिकारणोपादानर्थम् एव कार्यहेतुविषयो[प]दर्शनं वर्ण्येत इति आशंक्य कार्यहेताव् इ[१५०.४]त्यादि योज्यम् | तयोर् अ[१५०.४]न्वयव्यतिरेकयोः | तर्हि कार्यकारणभावसिद्धिर् एतद्दर्शनीया ततश् च तां दर्शयितुम् इति किं नोच्यत इत्य् अपेक्षायां तस्याश् चे[१५०.५]ति योज्यम् | तस्याः कार्यकारणभावसिद्धेः | हेतोः प्रत्यासन्नत्वात् [५६ब्] १हेतोर् व्यतिरिक्त [१५०.७] इत्य् आचष्टे | कार्यं [१५०.७] कार्यम् एवेति विवक्षितं | ᳚त्रिधैव स᳚ इति नियमस्य पूर्वं प्रतिपादितत्वात् अत एव कस्मात् कार्यम् एवे[१५०.८]ति पश्चाच् चोदयिष्यते | अनर्थान्तरे व्यावृत्तिभेदात् परिकल्पितव्यावृत्त्यन्तररूपं धर्मान्तरे | असाधारणं कार्यं [१५०.९] |
SK
दिङ्[१७३]नागेन[१७४](सर्वव्यक्तिष्व् अनुपग(ष्व् अनुग)तप्रत्ययप्रसूतिः?) |
SK
__________NOTES__________
SK
[१७३] ᳚आचार्येण᳚ [१५०.१३] इत्य् अस्य विवरणं दिग्नागेन इति भाति | [१७४] ᳚सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूति?᳚ इदं शंकाचिह्ञितं पदं नात्रत्यं किंतु अग्रेतनं भाति | तच् च ᳚अग्नेर् इति᳚ इत्य् अस्य अनन्तरं यदि स्यात् तदा संगच्चेतापि | तत्रापि सामान्यपदं गच्छितं भाति | तथा च सर्वव्यक्तिष्व् अनुगतप्रत्ययप्रसूतिः सामान्यं इत्य् अर्थः स्यात् |
SK
सर्वथा तद्भावम् एव प्रतिपादयन्न् आह२ -- अग्नेर् इ[१५०.१७]ति | अस्याश्रितत्वाद् अग्नेः अग्नित्वं सर्वाग्निव्यापनाद् अनुगतप्रत्ययहेतुत्वविवक्षयैव सामान्यधर्मा अपि गमकाभिप्रेतास् त इव | तार्णत्वादेः सर्वाग्न्यव्यापनाद् व्यावृत्तप्रत्ययहेतुत्वा(त्व)विवक्षया विशेषधर्मत्वं विवक्षितम्, न तु सर्वथा सामान्यरूपत्वम् अस्य निराचिकीर्षितम् सर्वतार्णादिवह्निष्व् अनुगतप्रत्ययप्रसूति३हेतुत्वात्, सामान्यरूपस्य चात्राव्याघातात्, अन्यथा तार्णवह्न्यादिजन्यरूपतयावधारितात् धूमान्वयता(मान् न वह्निता)र्णाद्यनुमानं स्यात् विशेषरूपस्याव्यापकतया अननुमेयत्वात् | तेपि विशेषधर्मा गम्याः स्युः, इष्यन्ते चाग्नेः सामान्यधर्मा एवाग्नित्वद्रव्यत्वसत्त्वज्ञेयत्वादयो गम्या इति भावः | धूमस्यापि विशेषधर्मवत्सामान्यधर्मा गमकाः स्युः न चेष्यन्ते सत्त्वज्ञेयत्वापार्थिवत्वादयो गमका इति भावः | को ऽसौ धूमाश्रितो विशेषधर्मो {प्. ३७६} दृष्टान्तीकृत इति चेद् एवं धूमत्वपाण्डुत्वादिभिर् इ[१५०.२३]त्य् अत्र धूमत्वादि निरूपयिष्यंतो निर्देक्ष्यामः |
SK
ननु कार्यत्वस्य तद्भावाख्यैकसम्बन्धवशाद् गमकत्वं तत् कथं ᳚सर्वथा ५जन्यजनकभावाद्᳚ इत्य् उच्यत इत्य् आशंक्याह जन्ये[१५०.२०]ति | सर्वथा जन्यजनकभावम् एव प्रतिपादयन्न् आह तथाही[१५०.२१]ति | पूर्वोक्तेन प्रकारेणाग्नित्वादीनां सामान्यधर्मत्वं ज्ञेयम् | सर्वं चैतद्धर्मभेदपरिकल्पनयोच्यते | तृणे भवो वह्निस् तार्णः [१५०.२२] | पर्णे भवः पार्णः [१५०.२३] | भावप्रधानश् चैव निर्देशस् तेन तार्णत्वादिभिर् इत्य् अर्थः |
SK
ननु यथाग्नित्वं सकलाग्निव्यापनेनानुगतप्रत्ययहेतुत्वात् सामान्यधर्म उच्यते तथा धूमत्वम् अपि सामान्यधर्म एव | यथा च द्रव्यत्वादयो ऽग्न्यनग्निसाधारणत्वाद् अनुगतबुद्धिनिबन्धनत्वेन सामान्यधर्मास् तथा पाण्डुत्वम् अपि धूमनीहारादिगमनाद् अनुगतज्ञानकारणत्वाच् च सामान्यधर्म ७एव तत् कथममू विशेषणे धर्मित्वेनोदाहरणीकृते इति | साधूक्तं भवति(ता) केवलं बोधे यत्नः करणीयः | इह खलु सर्वधूमव्यक्तिव्याप्यनुगतप्रत्ययहेतुधूमत्वम् एव सामान्यविशेषो विजातीयाद् व्यावृत्तप्रत्ययपुरस्कारेण विशेषधर्मो विवक्षित इत्यादिचोद्यम् अपोदितम् | एवं सत्य् अग्नित्वम् अपि विशेषधर्म इत्य् अग्ने८र् विशेषधर्मस्यापि गम्यत्वम् आयातम् इति चेत् | तथाविधस्य विशेषधर्मस्य गम्यत्वेनेष्टत्वान् न कश्चिद् दोष इति | अवान्तरविशेषस्य तु तार्णत्वादेर् गम्यत्वम् दूममात्रस्य तदप्रतिबन्धान् निषिध्यत इति किम् अवद्यम् | धूमस्य विजातीयासाधारणधर्मवाचकश् च पाण्डुशब्दो ऽस्ति योनेनोपात्त इति द्वितीयम् अपि चोद्यम् अपोद्यते | स [५७अ]१चैतच्छब्दाभिलाप्यो धर्मो दुर्ज्ञान इत्य् अग्निर् अत्र पाण्डुत्वाद् इति नोच्यत इति सर्वम् अवदातम् |
SK
स्वभावैवध[१५१.८](वैर् ध)र्मैर् इत्य् अर्थः | अपरोर्थ [१५१.१३] इति | यावद्भिर् अविनाभाविकारणस्य बाह्यैकदेशस्यान्यो ऽर्थो न तु समुदायग्रन्थस्यामुमर्थम् अन्तरेण पूर्वार्थमात्रेण वाक्यस्यासंगतत्वात् | संबध्यत [१५१.११] इति तत्कार्यं तेषां हेतुर् इ[१५१.१५]ति सम्बन्धः कार्य इत्य् अर्थो न२ तु पूर्वव्याख्यानोक्तम् अत्रापि व्याख्याने ऽभिसम्बध्यत इति बोद्धव्यम् | पूर्वव्याख्याने तेषां स्वगतानां धूमत्वादीनां हेतुर् इति प्राप्ताव् अर्थां सं(व् अर्थासं)गतेर् एव संबन्धनीयत्वाद् इति | तेषां इति कारणगतानां धर्माणां हेतुस् तत्कार्यम् इति पूर्वोक्तम् अभिसंबध्यते | कैः स्वभावैर् हेतुर् इत्य् अत्र गजनिमीलिकैव कृता एतद् एनुसन्धानेन न ३त्व् अनन्तरं वाक्यं भविष्यति | केचित् पुनर् अत्रैवम् आहुः -- उक्ते सति नियतम् एतद् व्याख्येयं नान्यथा | सति चैवं पूर्वव्याख्यानस्य क्वोपयोगः | तस्माद् यतस् तदुत्पत्तिनियमाभावे सर्वथा जन्यजनका(क)भावो व्यवस्थापयितुम् अयुक्तस् तस्माद् यावद्भिः कारणे {प्. ३७७} व्यवस्थितैर् धर्मैर् विना तत्कार्यं न भवति ताव४तां हेतुर् नान्येषां तत्कार्यत्वनियमाद् इत्य् एवं व्याख्यातुम् उचितम् इति | अत्र तु समाधानम् अत्राभियुक्तैर् एव दातव्यम् इति |
SK
पूर्वव्याख्यानस्य पश्चाद्व्याख्याततया पश्चाद्भवेन पाश्चात् येनार्थेन [१५१.२०] कारणाश्रितानां तावतां हेतुर् इत्य् अनेन कारणगतम् अंशम् इ[१५१.२०]वांशं धर्मं निरूप्य साध्यत्वेन निश्चित्य पश्चाद्५व्याख्याताद् अर्थात् प्राग्व्याख्यातत्वेन प्राग्भवेन प्राक्तनेनार्थेन ᳚यावद्भिर् धूमत्वादिभिः स्वगतैर्᳚ इत्य् अनेन कार्यगतमशं धर्मं निरूपय[१५१.२०]न् प्रकरणाद् गमकतया निश्चिन्वन् | पूर्ववत् पाण्डुत्व[१५१.२३]म् अनयोः विशेषरूपत्वं च प्रत्येयम् | परेषाम् उ[१५२.८]भयत्राविशिष्टरूपसंयोगवशाद् गम्यगमकभावम् इ६च्छताम् इत्य् अभिप्रायः | ग्रहीतुं [१५२.२०] निश्चेतुम् | धूमत्वं विशेषणं यस्य तेन धूमत्वाद् इति विशेषणे तु द्रव्यत्वादौ हेतुतयोपनीयमाने समर्थविशेषत्वेनासाधनाङ्गवचनात् कथम् एव क्ष्मादीनि गृह्यत इतिभट्टार्चटेणापि शङ्कितम् न च परिहृतम् इति किम् अस्माकम् अत्र परिश्रमेणधर्मोत्तरादेर् ए७व तु तदवसेयम् इति |
SK
यथाइव जन्यजनकभावस् तथैव किं न गम्यगमकभाव इत्य् आह नही[१५२.२५]ति | वस्तुवृत्त्यपेक्षयैव कस्मान् न तथात्वम् किं पुनर् निश्चयापेक्ष इत्य् आह -- तथाही[१५२.२६]ति |
SK
ननु भवो भवतो यस्माद् भावशंकायां नान्वयव्यतिरेकाव् इत्य् उक्ते ततो ऽभाव उच्यमानः कथं शोभत इत्य् आशंक्याह एवं मन्यत [१५४.१२] इति | शक्रमूर्द्धा [१५४.२८] वल्मीकः८ इति |
SK
मन्यमान आह -- सर्वः [१५५.१३] तथाविधजन्मे[१५५.१५]ति कुत [१५५.१७] इति द्रष्टव्यम् |
SK
ननु उक्तम् एव तदुत्पन्नम् एव कार्यं कारणम् अपेक्षते न तु तादृशातादृशतायां ततस् तयोर् हेतुनिरपेक्षयोर् इष्टत्वाद् एव किम् अनेनोक्तेनेत्य् आशंक्याहेतुकत्वे सर्वत्रैवोत्पत्तरितयो (?) विशेषेणभावः स्याद् इति इत्यादिदूषणम् उत्पत्स्येव (?) कारणनिरपेक्षत्व[५७ब्]१म् एव तयोर् असहमान आह नही[१५९.४]ति | तदपेक्षा इत्य् अपेक्षा |
SK
अपराजितशब्देन यो लताविशेष उच्यते स सूर्यशब्दाभिधेयो ऽवसेयः | इतर [१६१.२४] शब्देन लताचम्पको वृक्षचम्पकसमानाकारो देशविशेषभवो वक्तव्यो न तु भूमिचम्पक इति यस्य रूढिः तस्य वृक्षचम्पकेन सहाकारसाम्यस्यैवाभात् |
SK
क्षणभेदा(धानं[१७५]कुतश्चिद् रूपात् कथंचित् तेन सहैकप्रत्यवमर्शजनना)श्रयत्वेनैव सूक्ष्मावान्तरजातिभेदे [१६२.१८] | जातिभेदे कथम् एकसंतानव्यवस्थेत्य् आह -- {प्. ३७८} सर्वे[१६२.२०]ति | यद्य् एकाकारप्रत्ययनैवनुनैव्यप्रत्यय(निबन्धनै)कसन्तानव्यवस्था तदान्यस्य सो(स्वो)पादानेन सहैकसंतानव्यवस्था न स्यात् सा चावश्यवाच्यान्यथा स्वसन्ततिपतितकार्यजनकत्वेन या तस्योपादनत्वेनाभिमतस्योपादानव्यवस्था सा न स्याद् इत्य् अ२भिप्रायवान् परश् चोदयति आद्यस्ये[१६२.२२]ति | जात्यनुविधानं कुतचि(श्चि)द् रूपात् कथञ्चित् तेन सहैकप्रत्यवमर्षजननम् | तथाही[१६२.२३]त्यादिनैतद् एव समर्थयते | अगुरुजातिभेदानुकरणं तद्धूमस्यागुरुगन्धसहचारितया प्रत्यवमर्षजनकत्वम् | अनुकुर्वन्त्येवेति वर्तते तद्धूमाः [१६२.२४] तद्वर्तिंधूमाः | ४तद्भेदानुकरणम् एषां कुतो ज्ञायते इत्य् आह -- तद्रू[१७६]पे[१६२.२५]ति | यस्माद् इन्धनेन सह धूमस्य केनचिद् रूपेण एकाकारपरामर्शजनकतयैकसंतति [व्यवस्थानाद् येन (?)] तस्मात् इन्धनम् एवेति स्थूलेनायं व्यपदेशो वस्तुतस् तु तद्गतार्द्रसन्तानविशेषस् तस्योपादानकारणं ज्ञेयं सन्ता५नस् तु तस्याङ्गारादेः | यथा चैतत् तथाधर्मोत्तरेण विनिश्चयटीकायां निर्णीतम् इति तत एवापेक्षितव्यम् | प्रसज्यते प्रतिपाद्यत इति प्रसङ्गो ऽतिशयितः प्रसङ्गो ऽतिप्रसङ्गस् तेनालम् अ[१६३.४]तिविस्तरेणेत्य् अर्थो ऽत्र द्रष्टव्यः |
SK
__________NOTES__________
SK
[१७५] कोष्ठकगतः पाठः प्रत्यन्तरे दृश्यते स च न सम्यग् भाति | [१७६] दुर्वेकानुरोधेन ᳚तद्रूपरसवीर्य᳚ इत्यादि पाठः स्यात् |
SK
तस्य [१६३.६] कार्यभेदस्यातादृशत्वलक्षणस्याभावात् | तस्येति भेदस्य तस्मिन् स६त्य् अजायमानस्यापि कथम् अहेतुत्वम् इति पार्श्वस्थवचनम् आशंक्याह नही[१६३.९]ति | असत्य् अभेदे [१६३.११] प्रकरणाद् असति सामग्र्यभेद इत्य् अर्थः | कुतः पुनर् असत्य् अभेदे जात इत्य् अपेक्षायां योज्यं सामग्र्योर् इ[१६३.११]ति | हेतौ [१६३.१२] सामग्र्योर् भेदे ऽन्यादृशत्वलक्षणे सत्य् अभवतो भेदस्य तथा तद्वत् हेतौ [१६३.१२] सामग्र्यभेदलक्षणे ऽसत्य् अपि भवतो भेदस्येति प्रकरणात् | अभेदस् तादृशत्वम् एकजातीयत्वम् इति यावत् तस्य निबन्धनत्वात् [१६३.१४] शालिकोद्रवादौ भेदस्य भावात् कथं न क्वचित् पदानुबन्ध इत्य् आह शाली[१६३.१५]ति | तद्धेत्वोर् अभेदहतुत्वात् तयोर् अप्य् अभेदेनैव भवितव्यम् इति तद् अपि पक्षीकृतम् एवेति भावः | हेतुभेदे ऽपि ८शालिकोद्रवादेर् न तत्कु(कृ)तो भेदो ऽन्यादृशत्वम् अपि त्व् एवम् एवेत्य् आह -- निमित्तम् अन्तरेणे[१६३.१३]ति | कल्पनायां भेदकल्पनायां विशेषाभावान् निर्मित्तत्वेन विशेषाभावात् [१६३.१६] शाल्यन्तरे ऽपि किं न कल्प्यत इति शेषः प्रकरण लंभ्यम् वा | यद् वा न हेत्वभेदो ऽभेदस्य निबन्धनम् | नापि हेतुभेदः कित्व् एवम् एवाभेदो भविष्यतीत्य् आ[५८अ]१ह -- निमित्तम् इ[१६३.१६]ति | कल्पनायाम् अभेदकल्पनायाम् | विशेषाभावाच् छालिकोद्रवयोर् अपि भे(अभे)दः किं न कल्प्यत इति पूर्ववत् |
SK
स्याद् एतत् प्रतिभासनियमनिबन्धनोयम् अभेदो नान्यनिबन्धनस् तत् किम् एवम् उच्यते इत्य् आह प्रतिभासे[१६३.१६]ति | प्रतिभासस्य भेदस् तादृशत्वम् | तस्य स(भ्रा)न्तिनिमित्ताद् {प्. ३६९} आ[१६३.१७]कारसाम्यादेः परमार्थतो भेदे ऽप्य् अतादृ२शत्वेप्य् उपलक्षणाद् दर्शनानैवम् इति द्रष्तव्यम् | एवम् उपलक्षणत्वाद् अस्य भेदविचारावसरे ऽपि प्रतिभासभेदाद् भेद इति पूर्वपक्षे प्रतिभासभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो ऽभेदेप्य् उपलक्षणाद् इति वक्तव्यम् | उभयत्रापि तु यदि प्रतिभासभेदाभेदाव् अप्य् अपरप्रतिभासभेदाभेदनिबन्धनौ तत्रापि तत्प्रत्यनवस्था तस्माद् आ३द्ययोर् अपि तथात्वं व्यवस्थापयितुं न शक्यत इति दोषो दर्शयितव्यः तयोः [१६३.२१] भेदाभेदयोः | तस्य [१६३.२२] स्वंभावस्य | ताभ्यां [१६३.२२] भेदाभेदाभ्याम् | तेभ्यां भावस्वभावभेदाभेदेभ्यो ऽन्यः स चासौ सम्बन्धश् चेति तथा तस्य कल्पना [१६३.२३] तस्याम् | सोपि तेषां कुत इत्य् आकांक्षायां सम्बन्धाङ्गीकरणं तत्रापि तत्पर्यनुयोगे तद् ए४वोत्तरम् इत्य् अनवस्था | स्वात्मन्य् एवावस्थानाद् इ[१६३.२४]ति ब्रुवतो ऽयं भावो यदि भावस्वभावे तयोर् अनुप्रवेशस् तदा स एवावतिष्ठेत न तु तौ | अथ तयोस् तस्यानुप्रवेशस् तर्हि ताव् अवतिष्ठेयातां न त्व् असाव् इति | पुनर् भेदपक्ष एव दोषान्तरं समुच्चिन्वन्न् आह अनुपकाराच् चे[१६३.२५]ति | यौ भेदाभेदौ तादृशत्वाता५दृशत्वलक्षणाव् असौ प्रतिपद्यते ताव् अपि यदि भिन्नौ [१६४.१] ततो व्यतिरिक्तौ | तादवस्था (तदबस्थः) [१६४.२] न भिन्नं नाप्य् अभिन्नं यत् तदवस्थम्, यदवस्थं भेदाभेदप्रतिपत्तिकाले | तस्य [१६४.२] भावस्वभावस्य | तस्य [१६४.६] स्वरूपान्तरेण क्रियमाणस्य | तत एव हेतुबलायातात् कुतश्चिद् भिन्नाभिन्नाद् रूपाद् विशेषसामान्यात्मनो[१६४.११]र् इत्य् अत्र विशेषशब्देन स्वलक्षणं न वाच्यम् | तस्य भिद्यत इति व्युत्पत्त्या भेदरूपत्वापत्तेर् अयोगासिद्धिप्रसङ्गान् नापि विशेष्पदार्थस् तस्य विनाशारम्भरहितेश्वे वाणवाकाशादिषु प्रवृत्तेः परेण भेदशब्देनाभिप्रेतत्वात् | किंत्व् एकसामान्ययोगेप्यवान्तरसामान्यविशेषः | तयो[१६४.१३]र् भेदाभेदयोः | ७अपेक्षया ही[१६४.१८]त्य् अत्रस्थस्य हिशब्दस्य मौलस्य व्याख्यानम् एतत् यस्माद् इ[१६४.१८]ति | टीकाकृतस् तु ᳚अपेक्षयाहि᳚ इत्य् अत्रस्थहिशब्दो ऽवधारणे, यद् वा हिर् यस्माद् अपेक्षया तस्येति योज्यम् | द्वाव् एतौ शतृप्रत्ययौ हेतौ द्रष्टव्यौ |
SK
साधनानां कारणानां साधनाय [१६५.२] निष्पादनाय कथं नेष्यत इत्य् आह | विलक्षणाद् अपी[१६५.१०]ति | यादृशं दृष्टं यथा दृष्टम् | ८यथादृष्टं कार्यं यथादृष्टाद् एव कारणाद् उत्पद्येतेति वर्तते | विलक्षणयापि विवक्षितसामग्र्या अन्यादृशापि तल्लक्षणं विवक्षितसामग्र्या जायमानकार्यसरूपम् | तत्सामग्रीवैलक्षण्याविशेषाद्यस्याः कस्याश्चित् सामग्र्या जायमानं किं तल्लक्षणं न भवतीति |
SK
तथा च स एव दोष इत्य् आशंक्य पर एवाह कस्याश्चिद् एवे[१६५.२३]ति | अत्रास्मि[५८ब्]१न् पूर्वपक्षे [१६५.२५] यादृशी शक्ति[१६५.२८]र् इति योज्यम् | नामान्तरेण [१६६.३] संज्ञान्तरेण | कथं तद् एव नामान्तरेणोक्तं {प्.३८०} स्याद् इत्य् आह तद्विलक्षणस्ये[१६६.३]ति | तद्विलक्षणस्याग्न्यादिसामग्रीविलक्षणस्य | याग्न्यादिसामग्र्यान्यादृशी सामग्री सा तच्छब्देन प्रत्यवम्रष्टव्या | तस्याविलक्षणस्याग्न्यादिकारणकलापस्य य आत्मातिशयः शक्तिशब्दवाच्यस् तस्यासंभवाद् अ[१६६.४]योगात् | २अनग्न्यादिरूपस्य कारणकलापस्याग्न्यादिसामग्रीशक्तियोगासंभवाद् इति समुदायार्थः | तदात्मातिशययोगे ऽपि कथम् अग्न्यादिरूपत्वं तस्येत्य् आह स एव ही[१६६.४]ति धूमं जनयति सहकारिकारणत्वेन | स्वजातिम् अनुकारयत्य् उ[१६६.५]पादानभावेन जनयतीत्य् अर्थः | यदि चे[१६६.७]त्य् अत्र चशब्दस् तुशब्दस्यर्थे | तां सामग्रीम् अग्न्यादिसंज्ञया वयं३ व्यवहरामो भवन्तस् तु शक्रमूर्धादिसंज्ञया व्यवहरन्ते अतो नाग्नि संज्ञायाम् एव विवादः स्यात् | [१६६.७] कथं पुनर् नाग्न्य् एव विवादो नान्यत्रेत्य् आह अर्थाभेदम् इ[१६६.७]ति | अर्थाभेदं तथा धूमजननशक्तिलक्षणम् अभ्युपगम्य तथाभिधानात् [१६६.७] शक्रमूर्धादीत्य् अभिधानात् | धूमादिकं कार्यं कर्तृ कथं निश्चितम् इत्य् आह -- अतद्रूपे[१६६.९]ति | का४रणम् इन्धनादिकं कर्म न व्यभिचरति | क्षणापेक्षापक्षे तु कारणम् इन्धनादि क्षणरूपम् इत्य् अवसेयम् | अव्यभिचारस्याकारं दर्शयति -- तद्विलक्षणाद् इति | इतिर् हेतौ सिद्ध्यति [१६६.१२] निष्पद्यत इति |
SK
कार्यं हेतुं व्याख्यायाधुनानुपलब्धिं व्याचिख्यासुर्यतस् ततस् तदुत्थानं तदुपदर्शयितुं तद् एवम् इ[१६७.३]त्यादिनोपक्रमते | भवद् उत्पद्यमानं दृष्टं निश्चितं सकृद् इ[१६७.३]ति सकृद् अपीति ज्ञेयम् | प्रत्यक्षानुपलम्भाभ्यां [१६७.३] यथा व्याख्याताभ्याम् | तथाविधाद् एवे[१६७.४]त्य् अवधारयतो ऽनन्तरोक्तैवोपपत्तिः बुद्धिस्था | अवधारणेन प्रतीयमानम् अप्य् अतथाविधाज् जन्मनिषेधं कण्ठोक्तं कुर्वन्न् आह -- ने[१६७.४]ति | व्याप्त्या [१६७.५] सर्वदेशकालपरिग्रहेण | ६तुर् अनुपलब्धिं भेदवतीं दर्शयति | यादृश्युक्ता यथोक्ता [१६७.७] तस्यां दृश्यत्वविशेषणायाम् इत्य् अर्थः | निमित्तान्तराभावोपदर्शनं प्राग् उक्तम् इति भावः | स्वरूप[१६७.८]ग्रहणम् उपलक्षणं तेन व्यापारेपीत्य् अपि प्रत्येयम् | अत एव व्यापारस्य पश्चाद् दर्शयितव्यत्वात् | क्रमे तावच् छब्दं प्रयुञ्जानो ऽनुपलब्धिस्वरूपं ७तावद् दर्शयतीति वक्ष्यति | ए[व]का[१६७.८]रस् त्व् अन्वयव्यतिरेकविषयविप्रतिपत्तिमात्रनिरासार्थः | यथाश्रुति व्याख्याने तु तथेत्यादि वक्ष्यमाणम् असंगतं स्यात् | तथाही[१६७.८]त्यादिना स्वरूपविषयविप्रतिपत्तिं प्रतिपादयति | तथा चेश्वरसेनश्वरकव्याख्याने प्रमाणान्तरत्वेनेमाम् उपदर्शयां बभूव | प्रतिषेध्यविषयज्ञानविषयरूपे८णापरिणाम[१६७.११]स् तद्विषयज्ञानानाधारत्वं तद्ग्राहकत्वेनानवस्थानम् आत्मनो मन्तव्यम् | तज्ज्ञानाधारत्वप्रतिषेधमात्रविवक्षया च पक्षान्तरम् इति प्रमाणान्तरत्वम् एव तदन्यविज्ञानाश्रयेणोपपादयन्न् {प्. ३८१} आह नही[१६७.१३]ति | प्रत्यक्षम् एकम् अनुमानात्मकं यद् वा | तस्य [१६७.१३] प्रत्यक्षस्यानुमानस्य वा | ततो भावांशात् | किं कुर्वत् तर्हि तदभावप्रमाण[५९अ]१व्यपदेशम् अश्नुत इत्य् आह भावांश (अभावांशे) [१६७.१४] जनयद् इति [१६७.१५] हेतावयं शतृप्रत्ययः प्रत्येयः | तद् इत्य् अन्यविषयज्ञानम् | तदिन्द्रियजन्मनि ज्ञाने यदवभासते स तस्य विषयस् तत्प्रतिपत्तिजनकत्वेन लभत इत्य् अभिसंबन्धाद् द्वितीया साधन[१६७.१८]पदसंस्कारवेलायाम् अनुपलब्धिर् नापेक्षितेति तथा निर्देशः | कथं तर्हि स सिध्यतीत्य् आशंकायाम् आचार्यदेशीय२स्यैवाभिप्रायं वर्णयन्न् आह अनुपलब्धेर् इ[१६७.१८]ति | यदि विमृश्यमानम् ᳚अघटम् एतद्भूतलम्᳚ इति प्रतीतिर् नातिशेते ᳚तद्घटो नास्ति᳚ इति ज्ञानम् प्रतियोगिस्मरणसहायेनेन्द्रियेण जन्यमानत्वात् तज्ज्ञाना[न]न्तरभावि संयुक्तविशेषभावलक्षणात् इन्द्रियार्थसन्निकर्षाट् जायमानं प्रत्यक्षं सद् एव प्रमाणान्तरम् अनुमानादेः प्रमाणाद् अन्यत् प्रमा३णम् | यद् वा विशेषवचनो ऽयम् अन्तरशब्दः | किं भूतं सद् एतत् प्रत्यक्षं प्रमाणम् इत्य् आह अभावस्य [१६७.२१] इति | तुच्छरूपस्य [१६७.२१] इति भावरूपशून्यस्येति बोद्धव्यम् न त्व् अवस्था(त्व् अस्त्व् आ)त्मन इति तन्मतेनाभावस्यापि वस्तुत्वात् |
SK
ननु च नेदं प्रत्यक्षं प्रमाणं, अपि तु सन्निकर्षस्य प्रत्यक्षप्रमाणस्य प्रमाणरूपं फलम् एतत् तत् कथ४म् एवम् उक्तम् इति चेत्, सत्यम् एतत् | केवलं हानादिबुद्धिरूपं फलं प्रधानम् इदं प्रमाणम् अभिप्रेतम् | परिच्छेदात्मकम् इ[१६७.२१]ति च परिच्छिद्यते ऽनेनेति परिच्छेदस् तदात्मकम् | परिच्छित्तिस् तूपादानादिधीरेवेति | यदि वा प्रमाणशब्देनोपचारात् फलम् एवाभिप्रेतम् इह एवंभूतं प्रत्यक्षप्रमाणफलान्तरम् आच५क्षाणैश् च सामर्थ्यात् यत एतद् भवति तत् प्रत्यक्षं प्रमाणम् इति दर्शितम् इति सर्वथावदातम् | तेषाम् एव बौद्धं प्रति वक्रोक्तिं दर्शयन्न् आह -- तद् एव [१६७.२१] इति तद् एव प्रमाणम् अनन्तरोक्तं यत् | प्रतिवादिनां तीर्थकानाम् आचार्यदेशीयानां च तन्निरासार्थं [१६७.२४] बुद्धिभेदनिरासार्थं, विप्रतिपत्तिनिरासार्थम् इति याव६त् | उपलब्धिलक्षणप्राप्तिर् यस्यास्ति स खलूपलब्धिलक्षणप्राप्त उच्यते | सैव तु कीदृशी यत्प्राप्तो ऽर्थस् तथोक्तो वार्तिककृतेत्य् आशङ्क्योपलब्धिलक्षणप्राप्तिम् अभिप्रेतां दर्शयन्न् आह उपलब्धी[१६७.२५]ति | उपलब्धिलक्षणप्राप्तिर् एवंरूपा शास्त्रकृता७ अन्यत्र व्याख्याता [१६७.२९] इति सम्बन्धः कार्यः | प्रत्यय[१६७.२६]शब्दः प्रत्येकम् अभिसम्बध्यते |[१७७]हेतुप्रत्यय आलोकादिः, समननतरप्रत्ययः प्राक्तनं विज्ञानम्, अधिपतिप्रत्ययश् च चक्षुरादिः, आलम्ब्यत इति कृत्वा आलम्बनप्रत्ययो नीलादिः स | किम् अर्थम् सा तथारूपा शास्त्रकृता [१६७.२८] {प्. ३८२} अन्यत्र व्याख्यातेत्य् आशङ्कायाम् आह -- नैयायिक [१६८.१] इति | विप्रतिपत्तिम् एव दर्शयन्न् आह -- ते हि [१६८.१] इति | द्र[१७८]व्याणाम् उ[१६८.२]पलम्भकानीति वदता च यत्रैतानि सन्ति तदुपलम्भे निमित्तं द्रव्य एव च सन्तीति द्रव्यस्यैवोलम्भे निमित्तम् अमूनि नोपलम्भमात्र इति दर्शितम्, अन्यथा अभावसमवाययोर् उपलब्धिर् न स्यात् | न च नास्ति संयुक्तसमर्थतया विशेषणभावेन तयोर् उपलम्भस्यनैयायिकैर् इष्टत्वात् | [५९अ]१एवं गुणादीनाम् अपि तथा तथोपलब्धेर् इष्टत्वाद् इति | एवम् एषां अभिधानं कुतो ज्ञायत इति आह महती[१६८.२]ति | एतच् च प्रतितन्त्रसिद्धान्ताश्रयणेन एवं वचनादि[१६८.३]त्य् आचष्ट इति द्रष्टव्यम् अन्यथा असंगतम् उक्तं स्यात्वैशेषिकसूत्रत्वाद् अस्येति | अस्यायम् अर्थो महत्त्वयुक्ते महत्युपलब्धिर् भवति न द्वयणुकादौ | यदि महत्त्वाद् उपलब्धिस् तर्हि परममहत्त्वेप्य् अवकाशादौ सा किं न भवतीति पर्यनुयोगाशंकायां तद्व्यवच्छेदार्थम् उक्तम् अनेकद्रव्यत्वाद् इति | अथवा अनेकद्रव्यावयवास् तद्वत्त्वम् अवयविनो महत एव न द्वयणुकस्येत्य् उत्पत्त्यान्यनिरपेक्षत्वं महत्त्वानेकद्रव्यत्वयोर् इति लक्षणविकल्प एवायं विवक्षितं बोद्धव्यम् | अनेकं द्रव्यम् आरम्भकतया विद्यते यस्य तद्भावस् त३स्मात् | अनेकद्रव्यवत्त्वाद् इति पाठे सर्वधनादेर् आकृतिगणत्वेन गणपाठाद् अस्य बहुव्रीहिप्रतिषेधेन शतुर् विधे द्रष्टव्यः (मतुविधिः दृष्टः) अन्यथा कर्मधारयमत्त्वर्थीयात् बहुव्रीहिर् लाघवेनेष्ट इत्य् अनेकं द्रव्यं [यस्य] स तथा तद्भावस् तस्माद् इति निर्देशः प्राप्नोति अनेकद्रव्यवत्त्वा(व्यत्वा)द् इति पाठे तु न कश्चिद् आयासः | यदि ४महत्त्वाद् अनेकद्रव्यवत्त्वाद् अन्यत[र]स्माद् वा उपलब्धिर् वायाव् अपि सा स्यात् | तन्निवृत्त्यर्थम् उक्तं रूपाद् इ[१६८.३]ति |
SK
__________NOTES__________
SK
[१७७] दुर्वेकानुरोधेन ᳚हेतुसमनन्तरे᳚त्यादि पाठः सम्यग् भाति | [१७८] दुर्वेकानुरोधेन ᳚द्रव्याणाम् उपलम्भकान्य् आह᳚ इति पाठः स्यात् |
SK
ननु चानयोपलब्धिलक्षणप्राप्त्या युक्तस्यानुपलम्भतो ऽभावसिद्धेर् अनुपलब्धिस् तावल् लिङ्गत्वेन तैर् इष्टैवेत्य् आह -- एवं च [१६८.३] इति | अनैकान्तिकीत्य् आचक्षते [१६८.५] त एवनैयायिकाः| कुतो ऽनैकान्तिकीत्य् आशङ्क्य ५तन्मत एव स्थित्वा आह -- सत्य् अपि [१६८.४] इति | एतद् एव तन्मत्यैव निदर्शनेनोपपादयन्न् आह -- नहि [१६८.५] इति |[१७९]न भवन्ति न सन्ति |भाष्यकारःप्रकरणात्न्यायभाष्यकारःपक्षीलस्वामी | अनुमानत उपलब्धिम् एव तदीयां दर्शयितुम् आह -- इन्द्रियत्वात् [१६८.८] इति | प्राप्यकारी [१६८.९] विषयं प्राप्य तेन सह संयुज्य तत्र ज्ञानं जनयतीत्य् अर्थः | ए६तच् चार्थकथनम् अवसेयम् न तु अनुगमानप्रयोग एष | पञ्चावयवस्य वाक्यस्यानुपदर्शनात् | भवबैकान्तिकत्वं कीतन(तदनैकान्तिकत्वकीर्तन)म् एवोपसंहरन्न् आह -- तद् एवम् इ[१६८.११]ति | {प्. ३७३} अनैकान्तिकत्वाभिधानं च तेषां वैशेषिकसूत्रे यथाश्रुति द्रष्टव्यम् | न तु तैर् यथा व्याख्यायते | ते हि रूपाद् इत्य् उद्भूतसमाख्याताद् इति विशेष्य ७नायनरश्म्यवयविन उपलब्धिं निवर्तयन्तीति |[१८०]तन्निरासार्थम् उ[१६८.१२]पलब्धिलक्षणप्राप्तानुपलब्धेर् अनैकान्तिकत्वनिरासार्थम् | कथं तन्निरासार्थम् इत्य् आह -- उपलब्धी[१६८.१२]ति | अभ्यधाद् [१६८.१३] अन्यत्रेति सामर्थ्यात् | तदुपदर्शनेति[पि] यदि व्यभिचारसंभवः कथं तन्निराकृतं भवतीत्य् आह यदाही[१६८.१३]ति | कुतो व्यभिचारावकाश [१६८.१५] इति तयोपलब्धिलक्षण८प्राप्त्या वर्तमानस्यानुपलब्धिर् इति च प्रकरणात् | तस्या [१६८.१५] इत्य् उपलब्धिलक्षणप्राप्तानुपलब्धेः |
SK
__________NOTES__________
SK
[१७९] मूले ᳚भवन्ति᳚ इत्य् एव मुद्रितं किंतु ᳚न भवन्ति᳚ इत्य् एव पाठो ऽनुटीकागतः साधुः | [१८०] तन्निरासं S |
SK
ननुनैयैकैर् यदुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वादिकम् उच्यते तस्याप्य् अनवद्यत्वात् सैवोपलब्धिलक्षणप्राप्तिर् भवतापि कस्मान् नोच्यते किं पुनर् आहोपुरुषिकयान्याभिधीयत इत्य् आशंक्याह महत्त्वादिकं त्व् इ[१६८.१६]ति | तम् एवा[६०अ]१संभवम् आश्रयाभावद्वारेण प्रतिपादयितुम् आह नही[१६८.१७]ति | हिर् यस्मात् | न रूपादिव्यतिरिक्तं द्रव्यं स्वज्ञाने प्रतिभासते | कथं न प्रतीभातीत्य् आह आकारान्तरेणे[१६८.१८]ति | रूपाद्यात्मनो ऽन्येनात्मना | किं भूतेनेति आह तत्प्रतिभासे[१६८.१८]ति तस्य रूपादेः प्रतिभासः प्रतिभासत इति कृत्वा स्वरूपम् एव तस्य विवेकः प्रच्युतिस् तद्वता | अनेनानुपलम्भ२स् तद्भावव्यवहारसाधको दर्शितः | प(घ)टप्रतिभासने ऽपि पटप्रतिभासव्यवस्था स्याद् इत्य् अतिप्रसङ्ग[१६८.१९]स् तस्मात् | इदानीं द्रव्यम् अभ्युपगम्य महत्त्वादेः तदुपलम्भकत्वम् अपाकर्तृकाम आह न चे[१६८.२०]ति | तत्सम्बन्धेपि महत्त्वसंबन्धेपि | स्वहेतुसमुद्भूते ऽपि तत्रामहति द्रव्यात्मनि तस्याकिञ्चित्करत्वाद् इति भावः | स्वरूपेण महतस् तु किम् अर्थान्तरे३ण महत्त्वेन तद्बुद्धेर् अपि तत एवोत्पत्तेर् इति चाभिप्रेत्य न च स्वरूपेणामहत [१६८.२०] इति | एकस्मिन्न् एव पक्षे स दोषो दर्शितो ऽनेनेति द्रष्टव्यम् |
SK
अथ तत्संबन्धे मा भूद् अस्य स्वतो महत्ता किं नश् छिन्नम् अर्थान्तरभूतमहत्त्वरूपेणास्य ग्रहणं भविष्यतीत्य् आह -- [१६८.२१] -- पर[१८१]रूपेणेति | परस्य ततो ऽन्यस्य महत्त्वस्य रूपेण | ४कथम् अभ्रान्तं [१६८.२१] भ्रान्तम् एव | अतस्मिंस् तद्ग्रहरूपत्वाद् भ्रान्तेर् इति भावः | उपलम्भयतीत्य् उपलंभकम् | एतच् च महत्त्वम् उपेत्योक्तं दूषणम् | न तु च महत्वा(त्व)न् नाम किञ्चित् न चात्र स(तत्) कस्याचिद् उपलंभकं नामेत्य् अपि वक्तव्यम् | रूपं वा द्रव्यस्योपलम्भकम् इति वर्तते | कुतस् तस्यानुपलम्भकत्वम् इत्य् आह -- तस्यापी[१६८.२३]ति | तस्य रूप५स्य न तथा ग्राहकत्वम् इ[१६८.२४]ति सम्बन्धनीयम् | ग्राहयतीति {प्. ३८४} ग्राहकं तस्य भावस् तत्त्वम् इति चार्थो द्रष्तव्यः | अपि [१६८.२३] न्यायतः संभावनाम् आह | तुल्योपकत्त्वं(पपत्तिं) वा समुच्चिन्नोति | परेणाकांक्षितहेतुं दर्शयितुम् आह स्वरूपेणे[१६८.२३]ति | स्वरूपेण प्रातिस्विकेन आत्मना ग्रहणे सत्य् अन्यस्योपलब्धौ तस्येति प्रत्यासत्तेः | नान्यस्यापरोक्षीभाव इति द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् | अयम् अस्याशयो रूपं हि गृह्यमाणम् एवोपलम्भकं युक्तं, नान्यथा | न तच् च द्रव्यरूपेण गृह्यते तद्ग्राहिणो ज्ञानस्य भ्रान्तत्वप्रसंगात् | ततः कथं द्रव्यस्योपलंभ इति | तथाप्य् अस्य तथात्वम् उपगच्छामो यदि ततो भेदेन तत्प्रतिभासः ७स्यान् न चैतद् अस्तीति प्रतिपादयन्न् आह द्रव्यरूपस्ये[१६८.२३]ति | द्रव्यरूपस्य द्रव्यस्वरूपस्य | तद्विवेकेन रूपस्वभावविवेकेन अनुपलक्षणाद् अनुपलब्धेः | एतच् च दूषणं महत्त्वेप्य् उपलंभे द्रष्तव्यम् | अत्रैव वक्तव्यान्तरं समुच्चिन्वन्न् आह -- न चे[१६८.२४]ति | हेतुम् आह यत [१६८.२५] इति | प्रतिलब्धात्मकम् एवोत्पन्नम् एव सत् | तथातां [१६८.२५] समवायिकारणताम् | उत्पत्तिक्ष८णे निर्गुणम् अपि द्वितीये क्षणे सगुणं भविष्यतीत्य् आह न चे[१६८.२७]ति |[१८२]स्वस्य द्रव्यस्य | प्राक्तनरूपयोगेपि पूर्वस्वरूपनाशो ऽक्षणिकत्वाद् अस्येत्य् आशयः | यतः [१६८.२८] पूर्वरूपनाशरूपान्तराविर्भावात् |
SK
__________NOTES__________
SK
[१८१] अपररूपेण S | [१८२] अस्य S
SK
ननु च पूर्वरूपनाशे तस्यैव नाशाद् रूपान्तराविर्भावे चान्यस्यैव भावात् कथं यद् एव महत्त्वादिकं प्रति प्रागप्रतिपन्नाधारभावं तद् एवाधा[६०ब्]१रतां यायाद् इति चेद् अयम् अपरो ऽस्तु दोषो ऽस्येत्य् अभिप्रायाद् अदोष एषः | इहापि महत्त्वादिकं प्रति द्रव्यम् आधारो नोपपद्यत इति दर्शयन्न् आह -- न चे[१६९.१]ति | प्रजनकस्यापि तथात्वे ऽतिप्रसंगात् | स्थापकत्वादिना प्रकारान्तरेणाधारभावस्यान्यत्र निषिद्धत्वाच् चेति भावः | अर्थाक्रियाविरोधाद् अ[१६९.२]र्थक्रियाया अनुपपत्तेः | यथा चाक्षणिकः क्रमेणाक्रमेण वार्थक्रियाम् उपकल्पयितुं न कल्प्यते तथोदितं पुरस्तात् | समवायिकारणस्येति प्रकरणात् महत्त्वादिकं प्रति समवायिकारणस्यास्योपलम्भस्य द्रव्यस्येत्य् अर्थो ऽवसेयः | स्याद् एतद् यदि नामानन्तरोदितया नीत्या तं प्रति तस्याधारभावो नोपपद्यते तथापि तदनाधार एव तत्समवयिकारणं किं न भवतीत्य् आह यत [१६९.३] इति | ३स्वोत्कलितं स्वाश्रितं स्वारूढम् इति यावत् | जनयतु तर्हि स्वोत्कलितं कार्यम् | यतस् तथा व्यपदेशम् अश्नत इत्य् आह -- न चे[१६९.४]ति | एतद् इति स्वोत्कलितकार्यजननम् | अयम् अस्याशयो लब्धात्मसत्त्वेनैव हि तथा जनयितव्यं न त्व् आगृहीतमहत्त्वादिरूपेण तेनोत्पत्तव्यम् सहभुवोः कार्यकारणभावाभावेनात४द्धेतुकत्वप्रसंगात् क्षणिक[त]या तु द्वितीयेक्षणे ऽसत्त्वात् न स्वोत्कलितकार्यजननम् इति -- पश्चाद् आधार [१८३]भावो [१६९.५] न चेत्य् अनुवर्तते, स्वहेत्वागतस्य तदाधाररूपस्याविनाशाद् इति भावः |
SK
__________NOTES__________
SK
[१८३] आधाराभावः S
SK
{प्. ३८५} तदभावेपि कथम् असंभवीत्य् आह -- यस्माद् इ[१६९.६]ति | एवम् अनेकद्रव्यवद् इति व्यपदिश्यते | द्रव्याभावश् च न हि रूपादिव्य्५अतिरिक्तम् इत्यादिना अनन्तरम् एवोपपादितः | तयोपलब्धिलक्षणप्राप्त्या [१६९.१०] उपलब्धिलक्षणप्राप्तस्येति तथाभूतोपलब्धिलक्षणप्राप्तिमत इत्य् अर्थः | इति[१६९.११]र् हेतौ शास्त्रकारः प्रकरणात्वार्तिककारः| अभावशब्देन अभावो अभावव्यवहारश् चाभिप्रेत्य(त) इत्य् अभिप्रायेण आह -- अभावव्यवहारहेतुश् चे[१६९.१३]ति | या त्व् इ[१६९.१३]त्यादि ब्रुवतश् चायम् अभिप्रायो -- यदि व्यापकाद्यनुपलब्ध्यभिप्रायेणाभावव्यवहारयेतुर् वेति वक्तुम् अध्यवस्याह -- नैतद् रूपात् अभावशब्देनाप्य् अभावव्यवहारस्य विषयेण विषयिणो निर्देशसम्भवेन वक्तुं शक्यत्वात् ब्रुवन् विशिष्टाम् एवानुपलब्धिम् अबिप्रैतीति उपलब्धिलक्षणप्राप्तानुपलब्धेर् व्यापारम् इमं कथयता च वार्तिककृता सामर्थ्याद् यद् अत्रोपदर्शितं अन्यत्र तु साक्षाद् अभिहितम् तद् अपि दर्शयन्न् आह -- या त्व् अनुपलब्धी[१६९.१५]त्यादि सद्व्यवहारप्रतिषेधहेतुर् इत्य् अवगन्तव्यम् [१६९.१७] | कुतः पुनस् तद् अन्यवस्तुविज्ञानम् एवेच्छन्तीति ज्ञायत इत्य् अपेक्षायां योज्यम् -- विज्ञानं वान्यवस्तुनीति वचनाद् इ[१६९.२१]ति | यदा कर्तृस्थतया ८विवक्ष्यत [१६९.२४] इत्य् अर्थः |
SK
ननु भवन्मते किम् उपधी(म् उपलब्धा) कश्चिद् आत्मास्ति, येनैवम् उच्यते इत्य् आह -- उपलभमानश् चे[१६९.२६]ति | चो व्यक्तम् एतद् इत्य् अस्मिन्न् अर्थे यस्माद् अर्थे वा | अत्रैवाहंकारस्योपपत्तेर् इति भावः |
SK
ननु उपलब्धिक्रियायाः कर्ता उपलभमान उच्यते | तत् किम् उपलब्धिजनकस् तथाविध-उपलभमान उच्यत इत्य् आशंक्याह तथाही[१६९.२८]ति | कामम् एवम् उच(च्य)ताम् [६१अ]१तथापीन्द्रियादेः कथं तत्त्वम् इत्य् आह न चे[१६९.२८]ति | अन्यस्ये[१७०.१]त्य् आत्मनः | जनकत्वम् इति प्रकरणात् उपलब्धिजनकत्वम् इत्य् अर्थः | आत्मन [१७०.७] आत्माख्यस्य नित्यद्रव्यस्य | तदुत्पत्ताव् उपलब्ध्युत्पत्तौ हेतूनां अव(न)स्थितिः इयन्त एव हेतव इति व्यवस्थाभावः | हेत्वनवस्थितौ च कार्यार्थिनो नियतकारणोपादानं न स्याद् इति भावः |
SK
आश्रयत्वात् तर्ह्य् असौ कर्ता २भविष्यतीत्य् आह -- आश्रयत्वम् अपी[१७०.११]ति | तस्य नित्यस्यात्मनो६ जनकत्वानुपपत्तेर् इति भावः | क्षणिकत्वे उत्पत्तिक्षणमात्रसत्त्वे सति स्थितेर् उपादातिरेकिण्या अभावात् [१७०.१२] | न पाताभावस् तस्याः [१७०.१४] पतनस्यैवासंभवाद् इति भावः | कुतो न पतनं तस्या यतो न पाताभावः स्थितिर् इत्य् आह -- तस्याः [१७०.१४] इति | तस्या उपलब्धेर् गुरुत्वाभावात् [१७०.१५] {प्. ३८६} गुरुत्वसंज्ञकगुणा३भावात् | तदभावश् च बुद्धेर् गुणरूपत्वे निर्गुणत्वात्, निर्गुणत्वञ् च गुणानां ᳚अगुणत्वं द्रव्याश्रितत्वं चे᳚ति वचनात्, गुरुत्वं च गुणः ᳚गुरुत्वं जलभूम्योः पतनकारणम्᳚ इति वचनाच् च गुरुत्वाभावः | मा भूद् गुरुत्वं तस्याः पतनं तु किं न भवतीत्य् आह -- सं[१८४]योगाभाव [१७०.१५] इति | यदि गुरुत्वाद् एव पतनं भवेत् न ४तर्हि शाखादौ फलान्यवतिष्ठेतेति संयोगाभावे सतीत्य् उक्तम् संयोगाभावे [१७०.१५] शाखावृन्तादिसंयोगाभावे |
SK
__________NOTES__________
SK
[१८४] संयोगाभावेन S |
SK
कृतान्तः [१७०.१६] सिद्धान्तः समवायात् उपलब्धेस् तत्र समवायाद् इत्य् अर्थः | सो ऽपि [१७०.१६] समवायो ऽपि | कार्यकारणा(ण)भावविशेषः आधार्याधारभावः स चात्मनो नित्यस्य स संभवतीति भावः | यद्य् अप्य् उ५पलब्धेर् न पातः सम्भवी तथाप्य् असौ किम् आधारो न भवतीत्य् आशङ्क्य पूर्वस्मिन् पक्ष एव प्रतिवचनं दर्शयति | न चापतनधर्मिकाया [१७०.१७] इति | अपतनधर्मकत्वं च तस्या गुरुत्वाभावाद् अनन्तरम् एव प्रतिपादितम् | अनेनैतद् दर्शयति -- पतनधर्मणो जलादेः पातप्रतिबन्धकः कश्चिद् आधारो भवतु यावद् य६दि तत्रापि कश्चित् को ऽयं प्रतिबन्धो नामेति न पर्यनुयुञ्जीत | न त्व् अपतनधर्मण इति तद् आहप्रामाणिकचक्रचूडामणिः--
SK
᳚स्याद् आधारो जलादीनां गमनप्रतिबन्धतः |
SK
अगतीनां किम् आधारो गुणसामान्यकर्मणाम् ||᳚ [Pरमाणवा. १.७०] इति |
SK
अन्यस्याप्य् आ[१७०.१८]त्मनोपि | तद्भावप्रसङ्गस् तदाधारत्वप्रसङ्गः | कुत एतद् इत्य् आ७ह तस्ये[१७०.१९]ति | तस्य समवायस्य | समानत्वात् [१७०.१९] एकत्वात् | अत एवाह -- एकत्वेन [१७०.१९] इति | अस्य [१७०.१९] समवायस्य |
SK
प्रकरणे [१७०.२५] चिंतायां प्रस्तावे इति यावत् | विवक्षितात् [१७०.२५] शास्त्रविहिताद् | भक्ष्यात् [१७०.२५] भक्षणार्हात् | अन्यत्वेन ग्राम्यकुक्कुटः [१७०.२६] तदन्यस्य [१७०.२६] ब्राह्मणादेर् अन्यस्य | भक्ष्यो ऽपि सन्नभक्ष्य उच्यत [१७०.२६] इति सम्ब[न्ध]नीयम् | अनेकेन निदर्शनेनोपपद्य८मानो ऽर्थः सुज्ञातो भवतीत्य् निदर्शनान्तरम् आह यथा च [१७०.२७] इति | अधिकारे [१७०.२७] प्रस्तावे | तद्वद् [१७१.१] उपदर्शितद्वयवद् विशिष्ट [१७१.३] उत्तरपदार्थाभावविशिष्टे अर्थे [१७१.३] तत्सदृश इति यावत् | तया नञो भावविषयता [१७१.३] इति {प्. ३८७} योज्यम् | तया [१७१.३] इतीत्थम्भूतलक्षना चेयं तृतीया प्रत्येया | भावविषयभानप्रतिषेधमात्रविषयतेत्य् अर्थात् | किंभूतस्य नञ [६१ब्] १इत्य् अपेक्षायां योज्यम् आगृहीते[१७१.३]ति | तथा विधिसामानयेन समन्तात् स्वीकृऋतोत्तरपदार्थप्रतिषेधस्य कथं पुनर् एतत् ज्ञातव्यम् इत्य् अत्रायं न ...त्तरपदार्थप्रतिषेधमात्रवृत्तिः प्रसह्यवृत्तिर् अत्र तु उत्तरपदार्थाभावविशिष्टसदृशवस्तुवृत्तिः पर्युदासवृत्तिः इत्य् आशङ्कायाम् आह यत्र [१७१.४] इति | यत्रैवम् एवं तत्र पर्युदासवृत्तिता [१७१.६] इति सम्बन्धः | विधेः प्राधा२न्यम् अ[१७१.४]भिधेयतया भावरूपं प्रतिपाद्यत इत्य् अर्थः | प्रतिषेधः [१७१.५] तथाभूतोत्तरपदार्थनिषेधः अर्थगृहीतः सदृशवस्तुविधानसामर्थ्याक्षिप्तः विधिभाग्विधे[१७१.५]र् यो ऽर्थः क्षत्रियादिः स्वपदेनात्मवाचकेन नोच्यते पर्युदासम् अर्थप्रतिपादके वाक्ये इति बोद्धव्यम् न तु ᳚समासनिमित्ते अन्वाख्यानवाक्य᳚ इति नित्यसमासत्वाद् अस्य तदसंभवात् ३इतरथा ᳚रज्ञाः पुरुषमानय᳚ इत्यादिवत् क्षत्रियानयने विवक्षिते न ब्राह्मणमानयेत्यादिर् अपि प्रयोगः प्रसज्येत | यत् तु [न] ब्राह्मणो ऽब्राह्मण इत्य् उच्यते तद् ब्राह्मणो न भवति प्रसज्यप्रतिषेधेन मात्रया अर्थः कथ्यते | पर्युदासे प्रसज्यप्रतिषेधोप्य् अस्तीति कृत्वा, न पुनः समासार्थमन्वाखानवाक्यं ४तत्, कुम्भं करोतीति कुम्भकारः कुम्भस्य समीपम् उपकुंभम् इत्यादिवद् इति | यदि स्वपदेन नोच्यते कथं नामासव् उच्येत इति चेत् | अन्यशब्देनेति ब्रूमः | अन्यशब्दस्यैव तत्र प्रयोगात् एकवाक्यता च तथार्थकथने वाक्ये नञर्थवाचकस्यान्यशब्दस्य सुवन्तेनैअ पदान्तरेणाभिसम्बन्धात् | एतद् एव५ सामान्योपदर्शितं लक्षणं प्रकृते योजयन्न् आह वि[१८५]धिश् चे[१७१.६]ति | वाक्येन [१७१.७] तथाविधेनेति द्रष्टव्यम् | एवं तत्प्रतिषेधः प्रतीयत इत्य् आह -- विवक्षितोपलब्धेर् अनिवर्तन [१७१.८] इति | कथं तर्ह्य् असाव् उच्यत इत्य् आह किं तर्ही[१७१.१०]ति | कथम् अन्यशब्देनोच्यते न तु स्वशब्देनेत्य् आह अन्यशब्दस्यैवे[१७१.११]ति६ | वाक्य इति तत्त्वार्थकथने वाक्य [१७१.११] इति प्रत्येयम् | तत्रापि कथमन्यशब्दप्रयोग इत्य् अपेक्षायां योज्यं पर्युदासाश्रयेणे[१७१.१०]ति | एतद् एव दर्शयति अन्योपलब्धिर् अनुपलब्धिर् इ[१७१.११]ति | इतिर् अ[१७१.१२]शब्देनाभिधानस्याकारं दर्शयति | नञश् च सुबन्तेन समासैकदेशेन | सामर्थ्यं [१७१.१२] व्यपेक्षालक्षणः सम्बन्धः | ७इति[१७१.१२]र् हेतौ | एकवाक्यत्वं न वाक्यभेदं(दः) सामानाधिकरण्यम् इत्य् अर्थः | तद् एव दर्शयन्न् आह -- अन्या[१८६]उपलब्धिर् अनुपलब्धिर् इ[१७१.१२]ति | इतिना एकवाक्यत्वस्याकारो दर्शितः | प्रसज्यप्रतिषेधः [१७१.१३] कंचिद् अर्थं प्रसज्य यः प्रतिषेधः | कस्यचिद् अर्थस्य प्रसङ्गम् उपदर्शनम् अधिकारं कृत्वा यो निषेध उत्तरपदार्थप्रतिषेधमात्रं यत्राभि८धेयम् इत्य् अर्थः मयूरव्यंसकादित्वाच् च {प्. ३८८} समासः |[१८७]तद्विपरीतः [१७१.१३] उपदर्शितपर्युदासविपरीतः | वैपरित्यम् एव सुखप्रतिपत्त्यर्थम् उपदर्शयन्न् अह -- तत्र ही[१७१.१४]त्यादि | तत्र ह्य् अत्तरपदार्थप्रतिषेधस्य समासार्थत्वात् प्राधान्यम् | विधिः कस्यचिद् अर्थस्य विधानं अर्थात् सामर्थ्यात् गम्यते [१७१.१४] यदा विधिप्रतीतिस् तदार्थाद् इति च द्रष्टव्यम् | [६२अ] १तथाहि ᳚अभिहिते न भवन्ति द्वितीयाद्याः विभक्तयः᳚ इत्य् उक्तेर् विशेषप्रतिषेधस्य शेषधीनान्तरीयकत्वाद् इति लक्षणात् सामर्थ्याद् अनभिहिते भवतीति गम्यते | सूर्यं न पश्यन्तीति नात्र प्रदृ(नञो ऽत्रदृ)शिना तिञन्तेन संबद्धो न तु सुबन्तेनेति वाक्यभेदः | प्रतिषेधभाक् [१७१.१५] सूर्यदर्शनादिः स्वपदेन [१७१.१५] स्ववाचकेन सूर्यं न पश्यन्तीति अनेनोच्यते | अत्र तु समास२निमित्ते ऽन्वाख्यानवाक्य इति द्रष्टव्यम् | प्रसज्यवृत्तिनञ्समासे तत्संभवाद् इति सर्वञ् चैतत् प्रकरणादितो ज्ञातुं शक्यम् इति सर्वम् अवदातम् |
SK
__________NOTES__________
SK
[१८५] विधेश् चेति S [१८६] न उपलब्धि-S [१८७] एतद्विपरीतः S
SK
प्रासंगिकं परिसमापय्य संप्रति प्रकृतम् अनुधुन्व(नुबन्ध्न)न्न् आह तद् एवम् इ[१७१.१६]ति |[१८८]भावतो [१७१.२६] वस्तुनः परमार्थत इति यावत् | संबन्धकल्पनायाम् अ[१७१.२७]न्यस्य वास्तवस्य संबन्धस्य कल्पनायाम् | सोप्य् अर्थान्तरभूतः सम्बन्धः३ कथं तयोर् इति पर्यनुयोगे तदन्यकल्पना, तत्राप्य् एवम् इत्य् अनवस्था प्रस्तुतवस्तुव्यवस्थापरिपंथिनी स्यात् | उक्तसदृशं उक्तप्रायम् [१७१.२७] |
SK
__________NOTES__________
SK
[१८८] सम्बन्धाभावतः S इति तु न युक्तं, ᳚सम्बन्धो भावतो᳚ इति तु अनुटीकानुरोधेन सम्यक् पाठः |
SK
तत्र विज्ञाने किं भूतं सद्घटरूपम् तत्र स्वाकारम् अर्पयतीत्य् अपेक्षायां योज्यम् तथाविधम् इ[१७२.१६]ति | यथाविधं प्रदेशरूपं तथाविधं सत् व्यवधानविप्रकर्षादिरहितम् इत्य् अर्थः | स्वाकारद्वारे४ण | [१७२.१९] स्वाकारार्पणद्वारेण | एतद् एव स्फुटयन्न् आह तद् इ[१७२.२०]ति | तयोः संसर्गस्वा(संसर्गमा)त्मनि [१७२.२०] स्वात्मनि दर्शयति | अवधेयवचसः [१७२.२८] आकर्णनीयवचनाः | लघुवृत्तित्वाद् [१७२.२८] अतिशीघ्रप्रचारत्वात् ज्ञानस्य यौगपद्याभिमानो [१७२.२९] युगपद्ग्र्हीतानीत्य् अध्यवसायः | एवं चाचक्षाणेन क्रमेणैव तानि पुरोवर्तीनि तुल्ययोग्यतारूपाणि वस्तूनि गृह्य५न्ते ज्ञानेन तु युगपद् इति सामर्थ्याद् दर्शितम् | सर्वत्र तथाभावप्रसंगात् [१७३.५] भ्रान्तिकल्पनाप्रसंगात् | ज्ञानम् एवात्र क्रियेति मन्यते परः | कथम् इ[१७३.४]ति सिद्धान्ती सन्तमसावस्थितघटादिप्रतिपत्तौ कर्तव्यायां प्रदीपस्यापि करणरूपत्वम् अव्याहतम् इति भावः | कर्तृभेदाद् देवदत्तादिप्रतिपत्तृरूपकत्वनैक(कर्त्रनेक)त्वात् | कर्त्रे६कत्वात् [१७३.५] तर्हि इति सिद्धान्तवादी | अयम् अस्याशयो यदि सत्य् अप्य् एकस्मिन्न् अस्मिन् करणे ऽनेकत्र घटादिके कर्मणि कर्त्रनेकत्वाद् अनेकक्रियोदयो वर्ण्यते तर्हि कर्त्रेकत्वात् क्रियैकत्वम् इति सामर्थ्याद् आयातम् {प्. ३८९} ततश् च न करणैकत्वानुविधानं क्रियैकत्वस्येति किम् अनेनोक्तेनापीति | स्याद् एतत् यथा तत्र कर्तारो७ बहवः प्रतिपत्तारस् तथा करणान्यपीन्द्रियाणि बहून्य् एव ततश् च करणबाहुल्याद् एवानेकत्र कर्मणि क्रियाबाहुल्यम् इति करणैकत्वात् क्रियैकत्वं व्यवस्थितम् इति | तद् एतद् अवद्यम् | यतो ज्वल्यमाने दीपे प्रत्येकम् एकस्मिन्न् एवेन्द्रिये प्रदीपे वा करणे सर्वेषाम् एव प्रतिपतॄणाम् अनेकघटादिकर्मविषयज्ञानक्षणानेकक्रियो८दयात् साधारणनैकान्तिकत्वम् अनिवारितम् एवेति | विशरारुषु [१७३.६] विशरणशीलेष्व् इत्य् अर्थः | अयम् अस्याभिप्रायो यः किल लब्धात्मसत्ताक एव पश्चात् स्वातन्त्र्येण कांचित् क्रियाम् अभिनिवेशयति स कर्ता, यश् च क्रियासिद्धौ साधकतमः स करणम् उच्यते | तथा सत एव कदाचित् क्रियायोगाद् अर्थान्तरभूता क्रिया जायते क्षणमात्रस्थायी च कृत्स्ना(स्नो) भाव [६२ब्] १इति कथं सत्त्वम् आसाद्य तथाकारी तथा प्रतिपत्स्यते क्रियास्वर्था(क्रियाम् अर्था)न्तरभूताम् इति | संप्रति क्षणिकाक्षणिकयोर् असाधारणदूषणम् आह -- न चे[१७३.८]ति | सर्वकारकान्वयव्यतिरेकानुविधायिनीति विशेषणं हेतुभावेन वेदितव्यम् | रूपरसादिवै(रसावि ववै)धर्म्योदाहरणम् |
SK
इदानीम् एकज्ञानसंसर्गाद् इत्य् अत्रैकशब्दार्थं निरूपयितुम् आह तत्रे[१७३.१४]ति | एकायतनसंगृहीत एकरूपा२द्यायतनस्ंगृहीतो ऽनेकत्रापि एकम् एवेन्द्रियज्ञानम् इ[१७३.१५]ति | निराकारपक्षे द्व्यादिसंख्यानिरासार्थ एकः शब्दः साकारपक्षेपिचित्राद्वैतवादिमतेन तथैवैकशब्दः | प्रत्यर्थम् इ[१७३.१६]ति स्थूलेनायं व्यपदेशः कृतः | परमार्थतस् त्व् एकस्मिन्न् एव द्रव्ये परमाणुसमूहात्मके प्रति परमाणु तदाकारधारीण्य३र् वाग्दर्शनं संक्षेपान्य् एव(दर्शनप्रसंगे यान्य् एव) ज्ञानान्य् उत्पद्यन्त इति | अस्मिंश् च पक्षे यच् चोद्यम्, यश् च परिहारस् तद् द्वयम् अपि विशेषाख्याने ऽस्माभिर् अभिहितम् इति नेहोच्यते | योग्यताया [१७३.२३] इति प्रकरणात् प्रतिषेध्यतद्विविक्तप्रदेशयोः स्वज्ञानोपजननयोग्यताया इत्य् अर्थः एकस्मिन् ज्ञाने संस्रष्टुं शीलं ययोस् तौ तथोक्तौ४ | व्याप्तिन्यायसमाश्रयाद् अ[१७३.२३]शेषोपसंहारन्यायस्वीकारात् | प्रत्यासत्तेः [१७४.१] प्रत्यासत्तिन्यायसमाश्रयणाद् इत्य् अर्थः | का पुनर् अत्र तयोः प्रत्यासत्तिः सम्भविनीत्य् आह -- एकज्ञाने[१७४.१]ति |
SK
तस्माद् [१७४.८] घटात् | यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिर् यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा तद्विविक्तज्ञानम् ए५व पर्युदासवृत्त्यानुपलब्धिर् उच्यताम्, न तु तत्स्वभावो वेतिकुमारिलो [१७४.११] मीमांसावार्तिककारो मन्यत इति शेषः | कर्तृकर्मस्थत्वविवक्षयोपलब्धेर् द्वैताद् अनुपलब्धेर् अपि तथैव द्वैतम् आयातं न्यायत इति मन्यते | घटाभावव्यहारे तद्विविक्तप्रदेशज्ञानस्यैवोपयोगाद् अनुपलब्धित्वं ६युक्तं नान्यस्येत्य् {प्. ३९०} आशंक्य द्वयोर् अप्य् उपयोगाविशेषं प्रतिपादयन्न् आह यथे[१७४.१२]ति | प्रतियोगी निषेध्या(ध्यो) विवक्षितस् तत्स्मरणापेक्षम् [१७४.१३] | एतद् एव प्रतिपत्तृव्यवहारेणोपपादयन्न् आह तथाही[१७४.१४]त्यादि | अथैकैकत्रैकैकं नास्तीति कथं द्वयोस् तत्त्वार्थम् इति चेत् | नैतद् अस्ति | एकैकस्मिन्न् एकैकस्य विशेषण७त्वेनावश्यं भावात् | तथाहि यस्मात् केवलप्रदेशाकारं ज्ञानं मया संवेद्यते तस्माद्धटो नास्तीति व्यवहरमाणस्यापि प्रदेशो विज्ञानावच् छेदकत्वेनोपयुज्यत एव | तथा ग(य)तः केवलः प्रदेशोयं दृश्यते ततो नास्ति घट इति व्यवहरतोपि दर्शनं प्रदेशोपाधिभावेन व्याप्रियत एवेति |
SK
आहत्ये[१७४.२]ति निपातस् त८त्क्षणम् इत्य् अस्यार्थे |
SK
तयो[१७४.१६]र् भावाभावांशयोः | उद्भवाभिभवाभ्यां यथासंख्यग्रहणाग्रहणव्यवस्था [१७५.१६] |
SK
धर्मभेदे धर्मिरूपेणाभेदे ऽपि धर्मयोर् भेद इष्टः [१७५.१८] | नो ऽस्माकं स्थानं[१८९]स्थितं व्यवस्थानं मतम् इति यावत् तस्मिन् | उद्भवाभिभवात्मत्वात् [१७५.१८] उद्भूतानुद्भूतरूपत्वात् | ग्रहणं [१७५.१८] चशब्दाद् अग्रहणं चावतिष्ठते तयोर् इति प्रकर[६३अ]१णात् |
SK
__________NOTES__________
SK
[१८९] स्थिते S |
SK
एतस्मिन् व्याख्याने भावप्रधानः साधनशब्दोवार्तिककारस्य विवक्षित उन्नेतव्य इत्य् अभिप्रायेण साधनत्वम् इ[१७६.६]ति व्याचष्टे | सिद्धिहेतुत्वशब्दसामर्थ्याच् च कस्यचिद् इति लब्धम् | तदयोगात् सि[१७६.७]द्धिहेतुत्वायोगात् | दूषणान्तरम् अत्र समुच्चिन्वन्न् आह अभावस्ये[१७६.९]ति च | अभावस्य नास्तीति ज्ञानजनने [१७६.१०] नित्यं तज्जननप्रसङ्ग [१७६.१०] इति योजयित्वा कुत एतद् इत्य् अपेक्षा२याम् अनपेक्षितसहकारिण [१७६.९] इति हेतुभावेन विशेषणपदं योज्यम् | तदनपेक्षत्वम् एव कथम् अस्येत्य् अपेक्षायाम् अनाधेयातिशयं [१७६.१०] तत्प्रति (यतयेति) योज्यम् | साध[१९०]नत्वायोगात् त[१७६.११]स्य प्रतिषेधमात्रस्येति प्रक्र्तत्वात् प्रत्येयम् | तस्य साधनासिद्धेर् इत्य् अस्य एकं(एकां) विधाम् अभिधाय अपराम् उपदर्शयितुम् आह अथवे[१७६.११]ति | साधनम् एव [१७६.१२] साधकम् एव निश्चायकम् एवेति३ यावत् तदुभ(द)यप्रसङ्गात् [१७६.१५] नास्तीति ज्ञानोदयप्रसंगात् |
SK
__________NOTES__________
SK
[१९०] साधकत्व- S |
SK
अन्यथा [१७६.२५] भावरूपसंसृष्टत्वप्रकारेण | तदयोगात् [१७६.२६] तस्याभावांशस्यायोगात् | सा पररूपात् सं(पासं)सृष्टरूपता |
SK
{प्. ३९१} प्रकारान्तरेणाप्य् अभावव्यवहारसिद्धेर् अविबन्धात् किं तवैतत्पक्षाश्रयणप्रयत्नेनेति परपक्ष एवाशंक्यापरस्यैवाभिप्रायं ४वर्णयन्न् आह एवं मन्यत [१७७.९] इति | घटज्ञानाभावप्रतिपत्त्या [१७७.१०] वा घटाभावं प्रतिपद्यत [१७७.११] इति वर्तते | ततो [१७७.११] घटाभावप्रतिपत्तेः | घटाभावव्यवहारम् इति प्रतिपद्यत इत्य् अस्यानुवर्तनाद् उक्तम् केवलप्रदेशाभिप्रायेण साक्षाद् ग्रहणम् [१७७.१५] | तज्ज्ञानाभिप्रायेण पारंपर्यग्रहणम् | स च तथा हानतो(भावतो) घटाभावः | एवं हि लोकप्रतीतिर् अनुकूलिता भवतीति भावः | मध्ये घटाभावप्रतीतेर् भावात् पारंपर्येणापि [१७७.१८] इत्य् आचष्टे परः | इति[१७७.१९]ना मननीयस्याकारो दर्शितः | केवलप्रदेशज्ञानापेक्षया स्वसम्वेदन[१७८.२]प्रत्यक्षेण चेत्युक्तं द्रष्टव्यम् | पर एव विशेषम् आशंक्य परिहरन्न् आह नन्व् अस्त्य् एवे[१७८.८]ति | इतरया [१७८.९] प्रतिषेधमा६त्रया रूपयानुपलब्ध्या तदवगतया अन्यस्ये[१७८.१२]ति व्यवधानाव्यवधानकृतस्य | एवं सति को गुण इत्य् आह --सांख्य(ख्यः) स्वमते गुणं दर्शयन्न् आह तथे[१७८.१८]ति तथा सही(ती)ति योज्यम् | हिर् यस्माद् अर्थे द्रष्टव्यः |
SK
तस्य वस्तुनो लिङ्गं भवति | [१७९.१] तल्लिङ्गम् एवं सति भवतीत्य् अर्थो ऽवसेय इति |
SK
भावाभावयोर् विरोधा[१७९.१०]द् एकात्मत्वानुप७पत्तेः तुच्छरूपत्वं[१७९.१५] न किञ्चिद् रूपत्वम् | तद् अपि पररूपेण न किञ्चिद् इत्य् अभिप्रायेणाह -- पररूपेण [१७९.१६] तस्यापि तुच्छरूपत्वाद् इति शून्यविकल्पप्रतिभासी [१७९.१७] तदभावमात्रविकल्पप्रतिभासी | तद्[१९१]रूप परिहारात् [१७९.१८] प्रतिषेध्यरूपविरहात् | तथा तद्वत् | विरुध्येत [१७९.२०] नोपपद्येत | अन्यथा [१७९.२१] स्वरूपेणापि तुच्छरूपत्वप्रकारेण | कथं पुनस् तथात्वे परस्य तत्राभावो न स्याद् इत्य् आह -- यो ही[१७९.२२]ति रूपान्तरन्तु सदृशरूपान्तरन्तु |
SK
__________NOTES__________
SK
[१९१] तद्रूपविरहात् S
SK
कीदृशं पररूपशून्यं [१७९.२८] निषेध्यरूपरहितम् | विषयेण वामुना विषयिणो विधानस्य विधीयमानधर्मस्य -- निर्देशो द्रष्टव्यः | पर्युदास इति [१७९.२८] कथ्यत इति वर्तते | ततो विवक्षिताद् रूपात् तत्प्रतीतिः [१८०.२] रूपान्तराभावप्रतीतिः | नेति प्रकृतं निषेधयति | प्रतीताव् इत्य् अन्तर्भू[६३ब्]१तो ञिजर्थो द्रष्टव्यस् तेनाकारणस्य प्रत्यायकाजनकस्य प्रतीतौ प्रत्यायने सामर्थ्यासम्भवात् [१८०.२] प्रकरणात् तस्य [१८०.५] विवक्षितस्य रूपस्येति | अर्थान्तरस्य सतो {प्. ३९२} गमकत्वे हि तज्जनितत्वं सामर्थ्यं वाच्यम् | नचार्थान्तरप्रसज्यप्रतिषेधेन सकलशक्तिविकलेन तज्जनितं येनास्य तथाभावो भवेद् इति भावः | अवश्यं किं तेन तत्कारणेन भाव्यं येनाकारणस्येत्य् उ२च्यमानं शोभेतेत्य् आह तादात्म्ये[१८०.३]ति | अन्यस्य [१८०.९] अव्यभिचारनिबन्धनस्य भावाद् इति भावः | तेन[१९२]प्रत्यक्षेण अग्रहणात् [१८०.९] |
SK
__________NOTES__________
SK
[१९२] तेन ग्रहणात् S
SK
स्याद् एतद् यदि तत्त्वव्यवस्थापकाद् एव प्रमाणाद् घटस्याधेयभूतस्याभावः सिद्ध्यति, तर्हि तस्य घटासंसृष्टरूपत्वसिध्यर्थम् अभावप्रमाणम् अभ्युपेयम् | घटासंसृष्टरूपत्वम् अस्य ततः सिद्ध्यति | एवं तर्हि घटं प्रत्याधा३रभावो ऽस्याभावप्रमाणप्रतिषेध्यः प्राप्त इत्य् आशंकायां यथा द्वयम् अप्य् एतत् तत एव प्रसिद्ध्यति तथा प्रदर्शयितुं द्विविधो ही[१८०.९]त्यादिनोपक्रमते | अयम् इ[१८०.१०]ति | इदमात्रे(त्र) देशमात्रं विवक्षितम् | तद् व्यावृत्तरूपतया [१८०.१०] घटव्यावृत्तस्वभावतया | घटसंसृस्तरूपो न घटेन सम्बन्धस्याहैकरूपम् | तद्व्यावृत्तरूप४तयैव च घटवान् अपि घटसहितो ऽपि | ततो घटात् अन्य इति | सर्वथा घटाद् अन्यत्वं तस्यैका विधा | घटवान् इ[१८०.१०]ति तु प्रमादपाठः | द्वितीयां बा(वि)धाम् आह केवलश् चे[१८०.११]ति | केवल इति, घटाद् अन्य एव सानु(सन्) -- तत्संयोगीति विवक्षितम् तद् एव कैवल्यं स्पष्टयन्न् आह -- घटं प्रती[१८०.११]ति | तस्य प्रदेशस्य तद्विवेकेन [१८०.१२] घट५रूपविवेकेन च प्रत्यक्षेण ग्रहणे सति | घटविरहश् च [१८०.१२] संयोगिघटविरहश् च | इतिस् तस्मात् | वस्तूनाम् असङ्करो [१८०.१३]साङ्कर्यम्, मत्सरशब्दवद्धर्मवचनस्यापि संकरशब्दस्या(स्य) भावात्, तत् सिद्ध्यर्थं तन्निश्चयार्थं, परानभ्युपगतापेक्ष(क्ष्य)ते [१८०.२०][१९३]तदेति [१८०.२०] इहैवच्छेदः स्वज्ञान एव | परानभ्युपगतत्वम् एव६ तस्याः प्रतिपादयति अन्यभावाद् इति | अन्यथा [१८०.२१] यदि तस्य तद्भावरूपता परानभ्युपगतानपेक्षते(क्षिता) तेन प्रकारेण | प्रत्यक्षसिद्धता च [१८०.२२] तदभावस्येति प्रकरणात् | तदैवे[१८०.२३]ति तयोस् तादात्म्योपगमकाले | यद् वा प्रत्यक्षसिद्धता तदैव नेति योज्यम् | यद् वा सा परानभ्युपगतापेक्ष्यते किं तदा प्रत्यक्षसिद्धतेत्य् आशंकायां ने[१८०.२३]त्य् उत्तरम् | के(क्व) तर्हि साभिहितेत्य् अपेक्षायाम् उक्तं प[१९४]क्षान्तर [१८०.२३] इति | तादात्म्योपगमपक्ष इत्य् अर्थः | संयोग एव समवायशब्देनोक्त इति व्याचक्षाणश् च धूमो हि संयोगी हेतुर् इत्य् अभिप्रैति | कुतः पुनः स्वशब्देनैव {प्. ३९३} गो नोक्त इत्य् आह -- संयोगे[१८१.२]ति | भेदेने[१८१.३]तरभिन्नेन रूपेण यो व्यपदेशो [१८०.३] व्यपदिश्यमानत्वं तत्रानादरात् | यद् वा भेदेन भिन्नेन वाचकेन यो व्यपदेशम् आ(श आ)ख्यानं तत्रानादराद् इति | किं पुनः समवाय एव नोच्यत इत्य् आह परेषां त्व् इ[१८०.३]ति | एवं तावद्भट्टार्चटोव्याचष्ट अन्ये पुनर् अस्थान एवास्य मतिविभ्रमो जात इत्य् आचक्षते | तथाहि धूमावयविधर्मिणि पर्वते वा धूमत्वे(मवत्त्वे)न धूमत्वेन च हेतुना साग्नि[६४अ]१त्वं साध्यत इत्य् एकार्थसमवाय्येव धूमो हेतुर् इति परे संसचते (संचक्षते) | पुरस्ताच् चायं तस्माद् धूम एवात्र धर्मी कर्तव्यः | साग्निर् अयं धूमो धूमत्वाद् इत्युद्योतकरमतम् अदर्शयद् इदानीं तु तद्विस्मृत्यैवं व्याचक्षाणोवार्तिककारम् अप्य् अवज्ञयात्र(ज्ञापात्र)म् आपादयतीति -- किम् अत्र ब्रूम इति | इतरस्य [१८१.६] धूमस्य |
SK
__________NOTES__________
SK
[१९३] तद् इति S | [१९४] पक्षान्तरेण S
SK
ननु चे[१८१.८]त्यादिना प्रकृतम् आक्षि[प]ता सत्यं [१८१.१०] प्रसङ्गोरनित्या(ङ्गेनेत्या)दिना २च परिहरता अनेन यदीश्वरसेनमतानुप्रवेशेन कश्चिद् अन्यभावतदभावयोर् अमीषाम् अन्यतमं सम्बन्धम् इच्छति तदभावोपदर्शनेन स तावत् कण्ठोक्तेनैव निरस्यते | सामर्थ्याच् च येपिनैयायिका-- ᳚न वयम् अनयोर् गम्यगमकभावं वर्णयामो ऽपि तु संयुक्तविशेषणसन्निकर्षजन्मना प्रत्यक्षेण घटाभावः प्रतीयते᳚ इत्य् अभि३मन्यन्ते तेप्य् अन्यभावतदभावयोः सम्बन्धाभावेन विशेष्यविशेषणभावानुपपत्तेः कथं तज्जन्मनः प्रत्यक्षस्य वार्तापि येन तदवसेयो ऽसत्त्वाद् भवितुम् अर्हतीति निरस्ता भवन्तीत्य् अभिप्रायेणान्यभावतदभावयोः सम्बन्धाभावो विभावित इति वेदितव्यम् | अस्यैवार्थस्य पुनर् उक्ततां परिहर्तुम् आह ४पूर्वं हि [१८१.११] इति | तस्य तदन्यासंसृष्टरूपस्येत्यादिना प्रागभिहितत्वाद् उक्तम् | प्रत्यक्षान्तरम् इ[१८१.१२]ति हानादिबुद्धिव्यपेक्षया बोद्धव्यम् | न च विशेषणविशेष्यभावलक्षण एव संबन्धः | सम्बन्धेन च संबन्धान्तरं मृगणीयम् इति तेन शक्यते वक्तुं षट्सु पदार्थेष्व् अस्यानन्तर्भावेन सप्तमपदार्थोपगमयन्वि५प्र(गमनप्र)सङ्गात् दण्डदण्डिनोर् जातितद्वतोश् च विशेषणविशेष्यभावोपपत्तेः संयोगसमवायसम्बन्धयोर् अस्तंगमनप्रस(सं)गाच् च किं कुर्वच् च तत् तस्य विशेषणम् इत्यादिविचारासहत्वाच् चेति | एवं चास्याक्षेपपरिहारापुनर् उक्तताप्रदर्शनं चानवगतवक्ष्यमाणग्रन्थार्थस्य त्वरया चोदितस्य चोद्ये ६सत्य् आदितो द्रष्टव्यम् इतरथा संबन्धाभावोपदर्शनग्रन्थव्याख्यानानन्तरम् इदं भ्राजेतेति |[१९५]तेन प्रदेशावयवा द्रव्यात्मानो [१८१.२५] द्रव्यस्वभावाः | नवैव [१८१.२६] नवसंख्याव्यवच्छिन्नान्येव पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनोलक्षणानि | तद् आहप्रशस्तकरः᳚तत्र द्रव्याणि -- {प्. ३९४} पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्म७मनांसि सामान्यविशेषसंज्ञोक्तानि नवैवेति | ᳚[Pरश. Bहा. प्. ३] आदि[१८१.१७]शब्दाद् गुणवत्त्वसमवायिकारणत्वावबोधेः(धः) |
SK
__________NOTES__________
SK
[१९५] तेहि S
SK
तत्र [१८१.१७] अभावो[वे] गुणरूपेणैवाभावो द्रव्ये वर्तिष्यत इत्य् आह न चे[१८१.२८]ति | तत्र द्रव्ये रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्[त्व]संयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्म८शब्दाश् चतुर्विशतिगुणाः | न चायम् अभावस् तेषां चतुर्विशतेर् गुणानां रूपादीनाम् अन्यतमः | कर्मरूपतया तर्हि तत्रासौ वर्तिष्यत इत्य् आह -- नापी[१८२.१]ति | कर्मरूपतया [१८२.१] वर्तत इत्य् अनुवर्तते | कस्मान् न वर्तत इत्य् आह पञ्चस्व् इ[१८१.१]ति | उत्क्षेपणापक्षेपणावकुञ्चनप्रसारणगमनलक्षणेषु पञ्चसु कर्मस्वनन्तर्भावात् | कथं तस्य तत्रान[६४ब्]१न्तर्भाव इत्य् आह तल्लक्षणविरहाद् इ[१८२.२]ति | किं पुनः कर्मणो लक्षणं यद्विरहस् तस्योच्यत इत्य् आह एकद्रव्यम् इ[१८२.२]ति | भावप्रधानत्वान् निर्देशस्यैकद्रव्यत्वम् इत्य् अर्थः | आदि[१८२.३]ग्रहणेन कर्मत्वसम्बन्धः क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं गुरुत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वं स्वपराश्रय२समवेतकार्यारम्भकत्वं सगानजातीयानारम्भकत्वं द्रव्यारम्भकत्वं च परिगृहीतम् | सामान्यादिरूपेण तर्हि तत्रासौ वर्त्स्यतीत्य् आह -- नापी[१८२.३]ति | अपि शब्दाद् विशेषसमवायपरिग्रहः | कुतस् तथा न वर्तत इत्य् आह तद्रूपे[१८२.३]ति | एवं ब्रुवतो ऽस्यायम् आशयः -- स्वविषयसर्वगतम् अभेदात्मकम् अनेकवृत्त्यनुवृत्तिबुद्धिकारणं हि सामान्यस्य रूपं न३ चायं तथा | तथान्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वावि(त्वाद् वि)शेषा विनाशारम्भरहितेषु नित्यद्रव्येष्व् अण्वाकाशदिक्कालात्मनःस्व(त्मनःसु) प्रतिद्रव्यम् एकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, न चायं तथा | अयुतसिद्धानाम् आधार्याधारभूतानां च सम्बन्धः इहप्रत्ययहेतुः समवायो न चायं तद्रूप इति | ४तदभ्युपगमात् त[१८२.५]स्य संयोगस्याभ्युपगमात् | पञ्चानां [१८२.९] द्रव्यगुणकर्मसामान्यविशेषाणां समवायित्वं [१८२.९] समवायाश्रयत्वम् | प्रदेशाभावेपि [१८२.१३] विशिष्टोद्देशाभावेपि घटाभावसंभवात् [१८२.१३] | अनेन व्यतिरेकाननुविधानं दर्शितम् | न चास्य प्रतिविषयं भेद [१८२.१८] इति अनेन चेतरकार्यधर्मातिक्रमो दर्शितः | सम्बन्धिभेदात् [१८२.१९] | सम्बन्धिनां घटपटादीना भेदात् नानात्वात् अन्यादृशत्वाद् वा | भेदे [१८२.२०] नानात्वे अन्यादृशत्वे वेष्यमाणे | तत्प्रसङ्गो भयप्र(भेदप्र)सङ्गः | समनन्तरम् एवोक्तं (?) |
SK
ननु च वाच्यवाचकभूताव् इह शब्दार्थौ प्रकृतौ तथा बुद्धिघटिते च शब्दार्थसामान्ये वाच्यवाचकरूपे न तु शब्दार्थस्वलक्षणे, न च तयोः ६शब्दार्थसामान्ययोर् जन्यजनकभावः {प्. ३९५} सम्भवी तत् कथम् एवम् उक्तम् इत्य् आशङ्क्य विशेषाभिधानार्थम् अभ्युपगच्छन्न् आह -- यद्य् अपि चे[१८३.४]ति | शब्दार्थयोर् इ[१८३.५]ति | वाच्यवाचकभूतयोर् इति विवक्षितम् | बुद्धिकल्पितसामान्यरूपते[१८३.५]ति प्रबुद्धसंकेताहितवासनस्य या बुद्धिः ᳚स एवायं यो मया वाचकत्वेन प्रतिपन्नः स ७एवायं यो वाच्यत्वेन प्रतीत᳚ इति संकेतकालोपलब्धशब्दार्थभेदेन स्वाकारं प्रतीयती जायते तया यद्रूपं कल्पितं सामान्यं तद्रूपतेति विशेषविवक्षया न | तथापी[१८३.५]ति उत्प्रेक्षा समाकलनमध्यवसाय इति यावत् तस्या निबन्धनस्य [१८३.६] बीजस्य | शब्दस्वलक्षणानुभावाद् एव हि वाचकशब्दसामान्या(न्यो)त्प्रेक्षा भव८तीति भावः | तन्मुखेन [१८३.७] वाचकशब्दसामान्योत्प्रेक्षाबीजशब्दस्वलक्षणोत्थापनद्वारेण अन्यभावस्य [१८३.१३] केवलप्रदेशादिभावस्य | अनेन च प्राग् अपि [१८३.१५] इत्यादिना सत्य् अपि तदभिप्राय [१८३.१६] इत्यादिना च तदन्वयव्यतिरेकानु(काननु)विधानं तस्य दर्शितम् | भेदे सत्य् असति कार्यकारणभावे अविनाभावानुपपत्तेस् तद्द्वारक [१८३.१६] [६५अ] १इत्य् आह |
SK
ननु यदि यद्य् अस्य सिद्धेर् निबन्धनं तस्य तेन सह कार्यकारणभावादिकः सम्बन्धो ऽवश्यं भावीत्य् उच्यते | न तर्हि चक्षुरादीन्द्रियं स्वविषयस्य रूपादेः प्रतिपत्तिनिबन्धनं स्याद् इत्य् अभिप्रायवान् परः प्राह --[१९६]कथं तर्हि [१८३.२८] इति | सिद्धान्त्य् आह -- परस्परे[१८३.२८]ति | अनेन यदि नाम तयोः समकालिकयोः साक्षात् कार्यकारणभावो ऽस्तीति दर्शयति | अनयोर् अप्य् एवम् एव भवि२ष्यतीत्य् आह -- नैवम् इ[१८४.१]ति | इह अन्यभावे तदभावसाधने | एवं [१८४.१] अनन्तरोक्तं नास्ति | कुत इत्य् आह -- अन्यभावे[१८४.१]ति | तदयोगाद् ए[१८४.१]कसामग्र्युत्पादायोगात् | अयोगश् चाभावस्य कुतश्चिद् उत्पादे भावरूपताप्राप्तेस् ताद्रूप्यहानिप्रसङ्गात् घटाभावेन च विना तत्प्रदेशक्षणसदृशस्य क्षणस्याभावप्रसङ्गाच् च द्रष्तव्यः | प्रौढवादितया तत् तद् उक्तं अयुक्तं प्रतिपाद्य३ सम्प्रत्यप्रस्तुताभिधानम् अस्य दर्शयन्न् आह -- लिङ्गलिङ्गिभावलक्षणस्य च [१८४.२] इति |
SK
__________NOTES__________
SK
[१९६] कथम् इन्द्रिय S |
SK
न तु केवलो [१८४.२४] घटाभाव इति प्रकृतत्वात् | कैवल्यम् एव दर्शयति धर्मिणः कस्यचिद् गुणभावं [१८४.२४] विशेषणत्वम् अनापन्न इति |
SK
तद[१९७]न्यस्य [१८५.२३] धर्मिणो ऽभावाद् इति केवलप्रदेशरूपाद् अन्यस्य | धर्मिणो [१८५.२४] लिङ्गाश्रयस्याभावाद् इति |
SK
__________NOTES__________
SK
[१९७] ततश् चान्यस्य S |
SK
{प्. ३९६} देशकालव[१९८]स्तुनियत [१८६.८] इति ४हेतुभावेन विशेषणम् | प्रतिज्ञा [१८६.१०] साध्यनिर्देशस् तस्याः | कृतकत्वादिपरिजिहीर्षया विशिंसन्न् आह -- व्यावृत्तितो ऽपी[१८६.१२]ति | प्रदेशमात्रम् इ[१८६.१४]ति ब्रुवता परेण प्रदेशत्वसामान्यं हेतुः प्रदेशविशेषो धर्मीति दर्शितम् |
SK
__________NOTES__________
SK
[१९८] देशकालाव् अस्यानियतो S |
SK
यो ऽसौ केवल [१८६.२३] इति | पुरो ऽवस्थितघटजातीय इति द्रष्टव्यम् तस्यैव प्रकृतत्वात् | लिङ्गवज् ज्ञापकत्वाद् अवश्यप्रत्येतव्यम् इत्य् अभिप्रायेणाह -- लिङ्गभूतस्य [१८६.२५] केवलस्य प्रदेशस्य [१८६.२६] प्रतिपत्ताव् इति पूर्ववत् प्रतिज्ञार्थैकदेशताप्य् अत्र द्रष्टव्या | ततः केवलप्रदेशाल् लिङ्गीभूतात् |
SK
विषयविषयिभावेने[१८७.१०]तीत्थंभूतलक्षणा तृतीया | तथाविधा भिप्रायान् अभिज्ञा(ज्ञ)तयेति[१९९]पाठो ऽवदातो यथाभिधानाभिप्रायान् अभ्ज्ञा(ज्ञ)तयेति पाठे तु महान् क्लेशः |
SK
__________NOTES__________
SK
[१९९] अभिप्रायान् अभिज्ञतया S |
SK
प्रमेय६त्वेन [१८७.१९] साध्यत्वेन | आदिशब्दाद् अन्योन्याभावप्रध्वंसाभावयोर् न विरोधोमीमांसकमते ऽत्यन्ताभावस्य च |
SK
एते [१८८.३] प्रागभावादिरूपा भेदाः इतरप्रतीतेश् चा[१८८.६]भावांशप्रतीतेश् च | तत्संयोगे [१८८.६] तेनेन्द्रियेण प्रत्येतव्यस्य सम्बन्धे | इत्थं तु [१८८.५] यत् प्रतीयत [१८८.६] इति प्रकरणात् | तदसंयोगहेतुकम् इ[१८८.७]न्द्रियासम्बन्धहेतुकम् | ७ज्ञानम् इति प्रकृतत्वात् | यद् वा तत् तथाविधं ज्ञानं असंयोगहेतुकं प्रकरणाद् इन्द्रियासंयोगहेतुकं न भवतीति | ननु भावांशयोर् भेदात् कथं ᳚तदन्यभाव एवे᳚त्य् उक्तमाचार्येण इत्य् आशङ्क्याह -- एवं मन्यत [१८८.१५] इति | तद्रूपवैकल्यात् [१८८.१७] घटरूपविरहितत्वात् | तद्रूपवैकल्यं [१८८.१७] घटरूपवैकल्यम् | तदभावे [१८८.१८] घटरूपवैकल्याभावे | तस्य घटाद् अन्यस्य भावस्य प्रदेशादेः | तथा च [१८८.२०] तस्यापि घटरूपत्वप्रकारे सति | अभावांशे ऽपि घटाभावो ऽपि न[२००]सिद्ध्यति घटात्मनिवेति भावः | तत्संयोग एव [१८८.२४] अन्यभावसंयोग एव | विचारयता [१८९.२] मयेति बुद्धिस्थम् | अवधार्यो [१८९.३] ज्ञातव्यः |
SK
__________NOTES__________
SK
[२००] न सिद्ध्येत् S |
SK
सकलत्रैलोक्यविलक्षणं [१८९.११] सर्वपदार्थव्यावृत्तम् | असांकर्येण [१८९.१२] अभिश्रत्वेन | संप्र[२०१]मुग्धाकारं [१८९.५] संदिह्यमानसर्वाकारम् {प्. ३९७} अनिश्चिताकारम् इति | कामलो विद्यते ऽस्येति कामली [१८९.१७] तस्य | तत्परिच्छदाभावः [१८९.२०] तस्य पुरोवर्तिनो भूतलादेर् अप्य् अभावस्य परिच्छेदाभावः |
SK
__________NOTES__________
SK
[२०१] सम्मुग्धाकारं S |
SK
ननु च कस्यचिद् दर्शनाद्योयं क्वचित् प्राप्तिपरिहारार्थो व्यवहार इति प्रकृते अदृष्टस्य च परिहारार्थ [१८९.२३] इति व्याख्यानं कथम् इव न साहसम् न ह्य् अदृष्टस्य दर्शनम् अस्ति | अथ दर्शनम् इत्य् उपलक्षणम् एतत्, ततो ऽदर्शना[६५ब्]१द् इत्य् अपि द्रष्टव्यम् इति चेत् | तद् अवद्यम्, दर्शनस्यैव संकीर्णासंकीर्णरूपावभासितया विचारयितुं प्रकांतत्वात्, यदि चादृष्टपरिहारार्थो व्यवहारो भवेत् तर्हि कण्टकादेः परिहारार्थो व्यवहारो न भवेत् किन्तु प्राप्त्यर्थो एव, सम्यक्ज्ञानपूर्विका च सर्वहानोपादानलक्षणा पुरुषार्थसिद्धिर् न स्याद् इति | स्थाने पराक्रान्तं भवता केवलं विवक्षिते दृष्टादृष्टशब्दार्थे समीचीनं मनो न प्रणिहितम्, दृष्टशब्देन हि सुखम् अत्रविवक्षितम् अदृष्टशब्देन च तद्विपर्ययेण दुःखम्, तते......... -- कस्यचिद् वस्तुनः सुखहेतोर् दर्शनाद्योयं क्वचिद् देशे संवित्सामर्थ्यमाववि(भावि)स्मरणादिना दृष्टस्य सुखस्य प्राप्त्यर्थो व्यवहारः प्रवृत्तिलक्षणो यश् च दुःखहेतोर् दर्शनाद् अदृष्टस्य३ दुःखस्य परिहारार्थो व्यवहारो निवृत्तिलक्षणः स न स्यात्; सर्वत्रैव सुखहेतुदुःखहेतुविषयत्वेन संप्रमुग्धाकारत्वात् सर्वस्यैव दर्शनस्येति | अतश् चैवं यद् विनिश्चयः᳚सुखदुःखसाधने हि ज्ञात्वा यथार्हं प्रतिपित्सवः᳚ इत्य् अलं बहुना | किं भूतस् तदर्थो व्यवहार इत्य् आह प्रवृत्तिनिवृत्तिलक्षण [१८९.२४] ४इति यथासंख्य सम्बन्धः कार्यः | अन्यथा [१८९.२६] संकीर्णरूपाप्रतिभासनप्रकारेणास्य [१८९.२६] प्रत्यक्षस्य |
SK
ज्ञानद्वयेन [१९०.६] प्रत्यक्षानुपलम्भरूपेण | पर[१९०.१६]म् इतिमीमांसकम् इत्य् अवसेयम् | एवम् अभ्युपगमे कारिते ऽपि किं फलम् इत्य् आह तथा चे[१९०.१७]ति | यथाश्रुति ज्ञापरिणामाख्येन धर्मेणे[१९०.१८]त्य् उक्तं द्रष्टव्यम् | भावां[२०२]शस्यैवाभावत्वेनोप५गतत्वाद् इ[१९०.२०]ति | ᳚भावान्तरविनिर्मुक्तो ऽभावोत्रानुपलंभवद्᳚ इत्यादिवचनाद् उक्तं भावान्तरस्याप्य् अतुल्ययोग्यतारूपस्य तथात्वेनेष्टत्वात् | न त्वदुपगतानुपलब्धिरूपत्वम् अभावप्रमाणस्य भविष्यतीत्य् अत आह तुल्ययोग्यतारूप[२०३]स्यै[१९०.२०]वेति | अन्यथा तस्य तदभावरूपत्वानुपपत्तेर् इति भावः | भवत्य् एवं ६तथाप्य् एकज्ञानसंसर्गित्वानपेक्षितया भेदो भविष्यतीत्य् आह तुल्ययोग्यतारूपस्य [१९०.२०][२०४]एतज्ज्ञानसंसर्गिण एव चे[१९०.२०]ति | अन्यथा तुल्ययोग्यतारूपतैव {प्. ३९८} न सिद्ध्येत् | असत्यां च तस्यां न प्रतियोग्यताभावनश्चयः स्याद् इत्य् आशयः | तथोपेयम् अ[१९०.२१]भावप्रमाणतयोपगन्तव्यम् | तज्ज्ञानात् [१९०.२१] तस्य तदतुल्ययोग्य७तारूपस्य तदेकसंसर्गिणश् च वस्तुनो ज्ञानात् | एतद् एव साधयन्न् आह नही[१९०.२२]ति | कथम् अभावः [१९०.२८] प्रसज्यप्रतिषेधयोर् निरूपाख्यानत्वात् कस्यचित् परिच्छेदो [१९१.१] भवति | तद्धेतुभावः [१९१.२] प्ररिच्छेदहेतुत्वम् |
SK
__________NOTES__________
SK
[२०२] भावान्तरस्यैव- S [२०३] स्यैक- S [२०४] एकज्ञान-
SK
तदे[१९१.१०]त्य् एवम् अभ्युपगमकाले | कस्यचिद् अपी[१९१.१०]त्य् अनेन कस्यचिद् अपीति मूलग्रन्थम् अनुभासते | तद् एवाहेति कस्यचिद् इति ग्रहणकपदविवक्षि८तम् एवाहआचार्यः| तस्ये[१९१.१०]त्य् अनेन तस्येति मूलपदमुल्लिङ्गार्थम् आह सलिलोपलम्भाभावस्ये[१९१.१०]ति | तदन्यस्य वे[१९१.१४]ति | मूल(लं) व्याचक्षाण आह --[२०५]ततो ऽपी[१९१.११]ति | कस्मात् पुनस् ततः सलिलाद् अन्यस्यानलादेर् इति व्याख्यायते न तु तत्प्रतिषेधमात्रपुरस्कारेणेत्य् आशंक्याचार्यस्यैतद् द्वयोपन्यासे ऽभिप्रायं वचनभङ्ग्या वर्णयितुम् आह वि[६६अ]१ज्ञान[२०६]ञ् चे[१९१.११]ति | तत्रापि [१९१.१२] ᳚विज्ञानं वान्यवस्तुनि᳚ इति लक्षणे तदङ्गीकरणे ऽपरिणामशब्देनान्यवस्तुज्ञानाभ्युपगमं इति यावत् | तदात्मकत्वाद् अ[१९१.१३]न्यवस्तुज्ञानात्मकत्वात् | तत आत्मनो यः परिणामो मा भूद् भेदेन व्यवस्थाप्येत ᳚विज्ञानं वान्यवस्तुनि᳚ इति लक्षणम् इति प्रकरणात् | कस्यचिद् अपीत्यादेर् मूलग्रन्थस्य समुदायार्थम् इदानीं ततश् च२ कस्यचिद् अपी[१९१.१४]त्यादिना वक्तुम् उपक्रमते | स्थाप[१९१.१५]शब्देन गाढस्वापो ऽभिप्रेतः | प्रगाढनिद्राक्रान्तस्य हि विषयग्रहणवैकल्यं भवति | यदि यत् तदपेक्षेणान्यस्यान्यत्वेन सर्वं सुस्थं स्यात् परस्य तदा व्यवधानाद्यवस्थैव प्रसङ्गार्थमाचार्येण नोपदर्शिता स्याद् इति भावो व्यवधानादिग्रहणेन च एतद् दर्शयती[१९१.१६]ति ब्रुवतो द्रष्टव्यः | प्रकारान्तरेणास्मद् अभिमतात् प्रधानाद् अन्येन प्रकारेण | न तिष्ठेद् इति अस्यार्थकथनं प्रवर्तेते[१९१.२५]ति | तर्हि प्रतिष्ठेतैवार्थक्रियावाप्तये प्रस्थानम् एव कुर्याद् इत्य् आह नापी[१९१.२५]ति | न प्रतिष्ठेतेत्य् अस्यार्थं कथयति न प्रवर्तेतेति [१९१.२५] एतद् एव प्रदर्शयितुम् उपक्रमते | तथाही[१९१.२६]ति |
SK
__________NOTES__________
SK
[२०५] ततो वे- S | [२०६] इज्ञानं वे- S |
SK
तत एकदशनाद् अन्या ४भावे ज्ञानम् उत्पद्यते तथोच्यते [१९२.१९]न्यद् इत्य् उच्यते | तद्रूपतया [१९२.१९] सकलासंकीर्णवस्तुरूपावभासितया | तदन्यद् वस्तु {प्. ३९९} प्रतियद् एवम् अन्याभावं प्रत्येतीति व्यपदिश्य [१९२.२०] तदयोगाद् अ[१९२.२०]न्यभावप्रतिपत्त्ययोगात् | यश् चान्यो विकल्पो पाश्चात् यो [१९३.८] विधिविकल्प इत्य् अर्थात् | अभावाख्यप्रमाणं [१९३.९] नेत्य् अनुवर्तनीयम् | वहनं ५वहित्रं तदारूढैः [१९३.१७] |
SK
तदात्मनो [१९५.५] शेषपदार्थवृत्तात्मनः सकाशात् तत् [१९५.६] प्रत्यक्षम् | तत्प्रामाण्यसमाश्रिता [१९५.७] अभावप्रामाण्यसमाश्रिता |
SK
स्वभावत एव [१९५.१०] स्वहेतुत एव | तस्या(स्य) [१९५.१३] अभावाख्यस्य प्रमाणस्य |
SK
अध्यात्मनः [१९५.२४] परात्मनः सकाशात् | तदन्येभ्यो निवर्तनं [१९६.१] व्यवच्छेदनं तस्य गृह्यमाण६स्येत्य् अर्थात् तत्परिच्छेदप्रसङ्गात् [१९६.७] अन्यात्मपरिच्छेदप्रसङ्गात् |
SK
तदात्मनः [१९६.१०] सकाशाद् अशेषमन्यन् निवर्तयतीति वर्तते | तदात्मनोपलभमानेति कथम् उच्यत इत्य् अपेक्षायां तथाविधस्वभावस्यैवानुकाराद् इ[१९६.१३]ति योज्यम् | उपलभमाने[१९६.१४]ति हेतौ शानयोर् विधानाद्धेतुपदम् इदम् अन(म् अव)वसेयम् | ७अन्यदेशे[१९६.१५]त्यादि तथात्वप्रच्युते[१९६.१४]र् व्याख्यानम् | तथाभूताद् इ[१९६.२४]त्यादेर् मूलग्रन्थस्य अभावात् कार्यम् आह | अभावकल्पनया [१९६.२८] इत्य् अभावप्रमाणकल्पनयेति प्रकरणात् | विषयम् एवा(विषयेणैव) विषयिणो निर्देशात् द्रष्टव्यम् |
SK
[२०७]अन्यच् चैवम् आत्मकं [१९७.१] न भवतीति वर्तते | ततो [१९७.३] निर्विकल्पकात् प्रत्यक्षात विधिप्रतिषेधविकल्पाव् इ[१९७.४]ति यथावासनाप्रबोधं८ विधिविकल्पञ्चेति बोद्धव्यम् | अथ वैकल्यस्य (?) साक्षाद् इतरस्य सामर्थ्याज् ज्ञानाद् विधिप्रतिषेधविकल्पद्वयोपजनन उक्तः |[२०८]तदर्थाद् इति [१९७.२१] तत्त्वान्यत्वाभ्याम् भिन्नतया विकल्पता(ना)द् इत्य् अर्थः | येन निमित्तेन विवक्षितस्य ततो ऽन्यत्वं न व्यवस्थाप्यते, तस्य निमित्तस्य समानत्वात् [१९७.२७] | कथं प्रकारान्तराभावं सूचयतीत्य् अपेक्षायां योज्यम् [६६ब्] १तद्विरुद्धस्येति [१९७.२७] तेन परिच्छिद्यमानेन विरुद्धस्यैतत्परिहारेण व्यवस्थितस्य तदसंकीर्णस्येति यावत् | तद्विरुद्धस्य सर्ववस्तुनो द्वैविध्यसाधनम् {प्. ४००} एव कुत इत्य् अपेक्षायां सर्वस्यान्यतया व्याप्तिसाधनाद् इति [१९८.४] योज्यम् |
SK
__________NOTES__________
SK
[२०७] अन्यथैतदात्मकम् S इति तु न सम्यक् |
SK
[२०८] ततो ऽर्थात् S
SK
एकस्य प्रमाणस्य व्यापार एव [१९८.६] इति ब्रुवतो ऽयं भावः -- तस्यैवैकस्य प्रमाणस्य वृत्तं विमृष्यमान(ण)म् एवम् अवतिष्ठते | यत२ इति तद्रूपत्वात् [१९८.१०] परासंकीर्णरूपत्वात् | वस्त्वनतिक्रमेण यथावस्तु [१९८.१०] इति दृष्टतदन्यत्वेन सर्वस्य व्याप्तिसाधनाद् इत्य् अपि प्रमाणवृत्तविचारेणोच्यत इत्य् अवसातव्यम् |
SK
इतिना [१९८.२७][न]न्तरोक्तस्य न्यायस्याकारो दर्शितः | अनन्यसहायत्वं [१९९.१] च कार्यस्य [१९९.१] एकजातीयकार्यापेक्षया द्रष्टव्यम् | द्वयोर् भावो द्वितैव द्वैतं तत्सिद्धेः [१९९.३] | ह(प्र)तीयत्य् एव [१९९.६] बुद्धिः व्यवस्था[२०९]पककाल एवा[१९९.६]तद्रूपं ततः पृथक् करोतीति अनुवर्तनीयम् | इतरथा शतृप्रत्ययस्यानुपपत्तिः प्रसज्येत | अत्र कथं प्रत्ययान्तराभावः सिद्ध्यतीत्य् अपेक्षायाम् आह -- तद्विपरीते[१९९.६]त्यादि |
SK
__________NOTES__________
SK
[२०९] व्यवस्थापनाकाल एव S
SK
एकप्रमाणनिबन्धनां [१९९.९] इति प्रत्यक्षैकनिबन्धनाम् अनुमानैकनि४बन्धनां वेति विवक्षितम् | न तु परोप्येनाम् अनेकप्रमाणनिबन्धनाम् इच्छति यद् अनेन व्यवच्छिद्येत | अभावप्रमाणमात्रनिबन्धनतया तेनोपगमाद् इति तस्योपलभ्यमानस्य [१९९.११] तदात्मनो [१९९.१२] व्यवच्छेद [१९९.१२] इति सम्बन्धः | ᳚तदन्यात्मन᳚ इति मूले निर्देशात् कथं त्वया तदन्यात्मताया [१९९.१४] इति व्याख्यायत इत्य् अ५नुयोगम् आशङ्क्याह भावप्रधानत्वान् निर्देशस्य [१९९.१४] इति |
SK
अवच्छिद्यते [१९९.१८] व्यवच्छिद्यते | सा तदेकाकारनियता प्रतिपत्तिः |
SK
स च [२००.३] तद्देशकालश् च स्यात् | तद्देशता च लोकप्रसिद्धदेशाभिप्रायेणोक्ता द्रष्टव्या | न तु वस्तुनो मूर्तं वस्तु वस्त्वन्तरेणैकदेशं नामेति | नो चेत् कथम् इति वर्तते | अभावसिद्धिर् इ[२००.९]त्य् अ६भावव्यवहारसिद्धिर् मूढं प्रतीति च द्रष्टव्यम् | अमूढस्य प्रत्यक्षाद् एवाभावव्यवहारसिद्धेः | एतच् चानन्तरम् एव प्रतिपादयिष्यते | यथोक्तम् एवानुपलम्भं दर्शयितुम् आहोपलब्धिलक्षणप्राप्तस्य [२००.९] इति | अनुपलम्भाद् इति चावर्तनीयम् | तेनायं वाक्यार्थः -- उपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् इति | ननु उप७लब्धिलक्षणप्राप्तानुपलम्भ एव कीदृशो यस्मात् तत्सिद्धिर् इत्य् आह तत्तुल्ये[२००.१०]ति | तेन निषेध्येन सह तुल्या स्वज्ञानोपजननं प्रति योग्यता सैव रूपं स्वभावो यस्य {प्. ४०१} स तथा तस्य यदुपलम्भ उपलभ्योपलभमानधर्मः स आत्मा यस्य [२००.१०] तस्मात् | चो [२००.१०] व्यक्तम् एतद् इत्य् अस्यार्थे | यद् वा उपलम्भशब्देन ज्ञानमात्रस्याभिधानं | तेन तु तत्तु८ल्ययोग्यतारूपोपलभ्यमानसेन इति समुच्चीयते इत्य् एवंरूपाद् अनुपलम्भात् | अन्यथा व्याख्याने तूपलब्धिलक्षणप्राप्तस्येत्य् असङ्गतं स्याद् इति | न तु सामान्येन [२००.१०] अनुपलम्भमात्राद् इत्य् अर्थः | किम् एवंवादिनो ऽपि सम्भवति येनैवम् उच्यत इत्य् आह -- यथाहुः पर [२००.११] इति | वस्तुसत्तावबोधार्यं [२००.१३] यत्र वस्तुरूपेण प्रमाणपञ्चकं [६७अ] १न जायते तत्रेति [२००.१२] योज्यम् | पञ्चावयवा यस्येति पञ्चकम् | ᳚संख्यायातिसदत्ताया कन्᳚ इत्य् अनेन कन् | प्रमाणं च तत् पञ्चकं चेति पश्चात् कर्मधारयः कार्यः प्रमाणपञ्चकं [२००.१२] न जायत इति च पञ्चानां प्रमाणानां मध्ये यत्रैकम् अपि न जायत इत्य् अर्थः | सति वस्तुनि तदनुदय एव कथम् इत्य् आह सत्य् अपी[२००.१५]ति |
SK
तद्विषयाया उपलब्धे[२००.१९]र् लिङ्गत्वम् अपि प्रकरणात् | तदभावेन सह सम्बन्धाभावस्य तुल्यत्वाद् इ[२००.२५]ति योज्यम् |[२१०]भावरूपाया उपलब्धिरूपभावरूपायाः |
SK
__________NOTES__________
SK
[२१०] अन्यभावरूपायाः S
SK
कस्मात् सकाशात् प्रमाणान्तरं प्रत्यक्षादिकं नास्तीत्य् आह -- अन्यभावविषयोपलब्धेर् इ[२०१.२७]ति | किम् इति [२०२.६] सामान्यतः पृच्छति | पुनर् इ[२०२.६]ति विशेषतः सो ऽन्यभावो [२०२.६] योसौ केवलप्रदेशलक्षणो ऽन्यभावः प्रत्यक्षलक्षणेने[२०२.७]न्द्रियजप्रत्यक्षलक्षनेन | एतच् च प्रायेण लोको यस्मात् केवलम् इदं भूतलं वे३द्यते तस्माद् घटो ऽत्र नास्तीति प्रत्ययमुखेन प्रतिपद्यत इत्य् अभिप्रायेणोक्तं द्रष्टव्यम् | अनुपलम्भेन सिद्ध [२०२.८] इति च तस्यापि प्रत्यक्षस्य तदनुपलम्भरूपत्वात् वास्तवानुवादो बोद्धव्यो न तु तस्यानुपलम्भरूपताप्रतिपादनम् इदानीं प्रकृतं नाप्य् उपयुक्तम् इति | अभावव्यवहारं साधयेत् [२०२.८] नाभावम् इत्य् अर्थात्, तस्य केवल४प्रदेशोपलब्धिकाल एव सिद्धत्वाद् इति भावः | ननु अनुपलब्ध्या अभावव्यवहारः साधनीयो न चासौ प्रदेशस् तथेत्य् आह कर्मस्थक्रियापेक्षये[२११][२०२.८]ति | उपलब्धेः कर्मस्थत्वापेक्षया तत्पर्युदासेनान्यभावस्य तथात्वम् इत्य् अर्थः | प्रत्यक्षणाभावव्यवहारं प्रवर्तयितुम् अनीशानो ऽस्य मते मूढो वाच्यस् तस्य प्रतिपत्तौ [२०२.१०] प्रतिप५त्तिशब्देन चाभावव्यवहारैकदेशो ज्ञानलक्षणो अनुष्ठानलक्षणो वा वक्तव्यः | तस्यां साध्यायां व्यवहारश् च तद् इतरो द्रष्टव्यः | मूढं प्रतिपत्तारं प्रति तं साधयति नामूढम् इति च समुदायार्थः | अमूढस्य {प्. ४०२} तर्हि किं निबन्धनो ऽसद्व्यवहार इत्य् आह -- यस् त्व् इ[२०२.११]ति | प्रसङ्गेना[२०२.१३]स्यैव प्रस्तावेनालं न किञ्चित् | अत्रधर्मोत्तरःप्रा६ह -- ᳚तदेकाकारनियतं पटीयो ऽपि प्रत्यक्षं नाभावव्यवहारं प्रवर्तयतुम् अलम् अदृष्टानाम् अपि सत्त्वान् नित्यं शंक्यमानानुपलम्भव्यभिचारो ह्य् अभावः᳚ इति | दृश्यत्वविशेषणापेक्षायां चानुपलब्धिर् एवायातेति चाभिप्रैति | अत्र तु यथा प्रतिवक्तव्यं तथास्माभिःस्वयूथ्यविचारे विचारितं विस्तरेणेति तत एवापेक्षितव्यम् इति |
SK
__________NOTES__________
SK
[२११] -पेक्षायाम् S
SK
यद्य् अपि बहुप्रकारानुपलब्धिस् तथापि मूलभूतप्रकारप्रदर्शनार्थं त्रिविधे[२०२.२१]त्य् उक्तं द्रष्तव्यम् | सविशेषणा [२०२.२८] सह विशेषणेन उपलब्धिलक्षणप्राप्तत्वलक्षणेन वर्तत इति |
SK
तथा कारणव्यापकानुपलब्धिलक्षणस्ये[२०३.२६]ति कारणव्यापकयोर् यानुपलब्धिः तद्विविक्तप्रदेशज्ञानात्मिका तल्लक्षणस्येति | सिद्धसम्बन्धयो[२०४.३]र् इति कारणव्यापक८योर् इति मूलग्रन्थस्यापेक्षणात् सङ्गतम् इदम् | तथाभावदर्शने[२०४.१०]ति एकदर्शनेनान्यदर्शने तथैकादर्शनेनान्यदर्शने ऽपि भूयस् त्व् अविशेषणत्वे च क्रियमाणे लोहलेख्यत्वपार्थिवत्वादिना प्रत्ययवत् तल्लब्धी तद्विविक्तपदार्थज्ञानात्मिके तयोः संदेहरूपत्वात् | तदभावस्य च तयोः कारणव्यापकयोर् अभावस्यच संदिग्धलक्षणता वाच्या | एतद् एव विदर्भवचनेन मात्रया दर्शयन्न् आह -- [६७ब्] १पुरुषस्य त्व् इ[२०४.११]ति | यदृच्छासंवाद [२०४.१२] इति ब्रुवतो यथामलककषायरसत्वादिना संस्कारादिना अन्यथाभावसम्भवे ऽपि साहचर्यादर्शनसंवादस् तथा विवक्षिते ऽपि भविष्यतीति भावः |
SK
प्रतिबन्धः [२०४.१६] सम्बन्धो ऽभिधातव्यो न तत्प्रतिबद्धत्वं यथान्यत्र | साध्यसाधनयोर् इ[२०४.१६]त्यादेर् अनुपपत्तिप्रसङ्गात् | प्रतिबन्धे चेष्टौ च सर्वेषां साधनवत्त्वेन२ च साध्यवतां साध्याभाववत्त्वेन च साधनाभाववताम् अर्थतां द्रष्टृम(?) पेक्षत्वेपि व्याप्तिमतोर् अन्वयव्यतिरेकयोर् निश्चयः सञ्जायते | सोयम् उपानटधर्ममात्र (?) पृथिव्याच्छादनं न्यायः प्रायः प्रकारो द्रष्टव्यः |
SK
जरन्नैयायिकाभिप्रायेण नैयायिक[२०५.२३]३ग्रहणम् अस्य बोद्धव्यम् | अधुनतनाः पुनर् अन्वयव्यतिरेकिणं पंचलक्षणम् अन्वयिनं व्यतिरेकिणं चतुर्लक्षणलक्षणम् आचक्षत इति सामान्येननैयायिकग्रहणे व्याख्यायमाने तन्मतावेदनमस्यावेदितं स्याद् इति | संख्याया गुणत्वेन द्रव्याश्रितत्वाद्धेतुद्रव्यस्ये[२०५.२८]त्य् आह | एकसंख्यानवच्छिन्नायाम् इत्य् अस्यैवार्थकथनं {प्. ४०३} प्रतिहेतुरहितायाम् [२०६.३] इति | साध्यप्रतिपक्षसाधको हेतुः प्रतिहेतुः तद्रहितायाम् | सिषा४धयिषितविरुद्धं न व्यभिचरतीति |
SK
तथा ज्ञातत्वं चा[२०६.६]परं रूपम् इति प्रागुक्तम् अनुवर्तते | यथोक्तबाधाप्रमाणेन साध्यधर्मनिराकरणं तस्मिन् [२०६.१७] साध्ये ऽसति [२४६.१७] |
SK
वतेति [२०७.२] निपातो ऽनुविषये | यंत्रद्वय[२०७.३]शब्देन प्रकरणादाकर्षकनिष्काषकलक्षणे यन्त्रे वक्तव्ये |
SK
यथा किल केनचित् कुतूहलिना कश्चित् तपस्वी स्त्रीरूपधारिणी तृतीयां प्रकृतिं परिचरणायोग्यां शब्दवाच्याम् उद्वाह्य पुत्रं तदर्थक्रियां वा व्यपदेशेन प्रार्थ्यते तेन तुल्यम् इदं यदविनाभावविकलं हेतुम् उपदर्श्य धर्मिणि साध्यकथनम् इति मन्वानः परोपहासपूर्वकमाहाचर्यःशण्ढम् उद्वाह्ये[२०७.१५]ति मूलमनूद्यस्यात्वं(र्थं?) प्रकृते योजयन् दर्शयति -- तस्मिन्न् इ[२०७.१५]ति | ६तस्मिन् साध्यधर्मिणि साध्यधर्मसाधनशक्तिविकलं [२०७.१६] साध्यधर्मप्रकाशनशक्तिवियुक्तम् | तद्वैकल्यञ् च तस्य तत्र तदविनाभावितयानिष्टेः | शब्दार्थस्यैतद्व्याख्यानं प्रतिच्छायया द्रष्टव्यम् | उद्वाह्य [२०७.१५] पदार्थं तथैव व्याचक्षाण आह -- परिणाय्ये[२०७.१६]ति | परिणाय्यपदेन च तत्संबन्धत्वोपदर्शनं तल्लक्षितम् | तल्लक्षणं७ पुत्रं मृ[२१२]ग्यते [२०७.१७] प्रार्थ्यते याच्यत इति यावत् | ननु चान्यत्राविनाभाव्यपि हेतुस् तत्र साध्यं विभावयेद् इति को ऽयम् उपहास इत्य् आह नही[२०७.२०]ति | यदम्भस् तल्लवणरसं यथा सामुद्रम् | अम्भश् चेदं नादेयम् इति प्रयोगे चैतद् उच्यत इत्य् अवसेयम् | लवणतया [२०७.२१] लवणरसतया |
SK
__________NOTES__________
SK
[२१२] मृगयते S |
SK
अम्भस् त्व् आदिषु [२०७.२५] हेतुयोपनीतेषु तथा दर्शनात् | अबाधितधर्मा [२०७.२७] ८अबाधितसाध्यधर्मा |
SK
तन्निपतस्य [२०८.१३] बाधकप्रमाणवृत्तिनियतस्य | व्यापकाभावे व्याप्यस्याप्य् अवश्यम् अभाव इति भावः | तद्भावस्य [२०८.२०] साध्यभावस्य | अत एवे[२०८.२१]ति बाधकप्रमाणे सति साध्याभावाद् एव |
SK
तदभावेपि [२०८.२३] बाधकप्रमाणवृत्त्यभावेपि वा भावात् साध्याभावस्येति प्रकरणात् |
SK
हेतोः सामर्थ्यं हेतुसामर्थ्यं तत्प्रतिपादयन्न् आह परः [२०९.२] | कथं [६८अ] १हेतुसामर्थ्यं प्रतिपादयतीत्य् अपेक्षायां योज्यम् -- तत्रान्यथात्वम्[२१३]इ[२०९.१]ति | {प्. ४०४} दर्शयन्न् इति [२०९.२] हेतौ शतुर्विधानात् तत्राबाधाया अन्यथात्वप्रदर्शनाद् इत्य् अर्थः | तत्सिद्धये [२०९.६] साध्यसिद्धये | यत्रासौ तदर्थम् अभिधानीयः स हेतुप्रयोगस्य विषयः [२०९.६] |
SK
__________NOTES__________
SK
[२१३] तत्रान्यथार्थम् इति S
SK
वै[२०९.९]शब्दो ऽक्षमायां बाधानुपलब्धिर् अबाधेत्यादि यद् उच्यते तत्र क्षम्यत इत्य् अर्थः | किंत्व् इ[२०९.९]ति निपातानिपातसमुदायः२ प्रश्ने | तस्या [२०९.१०] इतिर् मात्रार्थानां भयहेतुर् अपादानम् इत्य् अपादानत्वाद् अपादाने पञ्चमीयम् |
SK
काकु[२०९.१६]शब्देनात्र वचनविन्यासो विवक्षितः | प्रश्नार्थस्य किं शब्दस्याप्रयोगेपि काकुर् एव शिरःकम्पसहिता प्रश्नं प्रकाशयतीत्य् अभिप्रायेण पृच्छती[२०९.१६]ति व्याचष्टे | बाधानुपलब्धिर् अबाधेति अभिधानाद् उक्तम् एतद् इ[२०९.१६-१७]त्य् अभिप्रायवान् परः प्राहोक्तम् एवै३तद् इति | किम् अर्थं प्रयुज्यते [२०९.१८] स हेतुर् इति सामर्थ्यात् | अभावनिश्चयं [२०९.२४] परमार्थतो ऽसद्भावनिश्चयं प्रति |
SK
संशयितस्य [२१०.६] बाधां प्रति जातसंदेहस्य | ज्ञान[नि]वृत्त्या[२११.४] बाधकज्ञान[नि]वृत्त्यासौ साध्यबाधा |
SK
आदि[२१२.२१]शब्दाद् अनुमानविरुद्धादेः संग्रहः तेषां [२१२.२३] {१५] प्रत्यक्षविरुद्धादीनाम् उपवर्णनं [२१२.२३] स्वरूप४प्रदर्शनम् |
SK
तद्भावायोगाद् विषयत्वायोगात् साधकप्रमाणस्यानुमानस्यावृत्तेर् यद् उक्तं ᳚व्यस्तोहेतोर् अनाश्रय᳚ इति भावः |[२१४]किं यथा बाधाविनाभावयोर् इ[२१३.९]ति पाठो युक्तरूपः | किंशब्दवियुक्ते तु पाठे सशिरःकम्पयाकांक्षा एवंवदतः प्रश्नो ऽभिप्रायगतो द्रष्टव्यः |
SK
__________NOTES__________
SK
[२१४] कथं -- यथा बाधाविनाभावयोः S
SK
तल्लक्षणं [२१३.१४] तस्य हेतोः लक्षणम् | अन्वयव्यतिरेकात्माविनाभावः [२१३.१४] | लक्षणशब्दस्य चासति बहुव्रीहावजहल्लिङ्गत्वात् स्वलिङ्गेन निर्देशः |
SK
विरुद्धस्यापि विपर्यये सम्यग्धेतुत्वात् तदभिप्रायेण विपर्ययस्य चे[२१३.२३]त्य् उक्तम् |
SK
भावसिद्धि[२१४.१४]स् तत्त्वसिद्धिस् तदयोगात् |
SK
विवक्षितैकसंख्यत्वप्रतिपादित[२१४.१७]म् इति विवक्षितैकसंख्यत्वशब्देन प्रतिपादितम् इत्य् अर्थः | ६पूर्वकस्ये[२१४.२१]त्यलक्षणम् एतद् इत्य् अस्य | अत्रापि बाधितत्वादिरूपान्तरयोगिन्य् अपि पूर्वयोजितुम् उपदर्शितम् |
SK
निष्प्रमाणिके[२१४.५९]त्य् एतद्धेतुभावेन विशेषणम् | स इति [२१५.३] स एवेति विवक्षितं | निरस्तप्रतिपक्षत्वम् एव कुत इत्य् आह -- तथाविधे[२१५.१२] तथा {प्. ४०५} भूतविशेषवति पटू तथाविधे साध्ये क्वचिद् धर्मिणि [२१५.१३] संभवति सति | तद७व्यभिचारिणः [२१६.७] साध्याव्यभिचारिणः |
SK
वेदप्रामाण्यनिराकर्तृष्व् इ[२१७.१४]ति प्रत्यक्षाद्यधिकारोपि तेनासंवादादीत्यादिष्व् इत्य् अभिप्रेतं -- यद् आह --वार्तिके कुमारिलः--
SK
᳚स्वर्गयागादिसम्बन्धविषयाश् चोदना मृषा |
SK
प्रत्यक्षाद्यधिकारोपि तैर् अर्थांसंगतिर् यत[२१५]᳚ [Śलोकवा. २.२६] इत्यादि |
SK
__________NOTES__________
SK
[२१५] Śलोकवार्तिके तु -- ᳚प्रत्यक्षाद्यगताथत्वादीदृग्बुद्धादिवाक्यवत्᳚ इति उत्तराधर्म
SK
सौगतैर् इ[२१७.१४]तिवार्तिककारात् पूर्वैर् इति विवक्षितम् | प्रतिहेतव [२१७.१६] इत्य् अदुष्टकारणजन्य८त्वाद् इत्यादयः | यथाहकुमारिलः--
SK
᳚चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः |
SK
कारणैर् जन्यमानत्वाल् लिङ्गाप्तोक्त्यक्षबुद्धिवद् ||᳚ [Śलोकवा. २.१८४] इत्यादि |
SK
तन्निमित्तसंभवाद् अ(द् आ)[२१७.२०]शंकानिमित्तसंभवात् | आक्रोशमात्रेण [२१७.२०] विपूर्वपक्षे भाषिकामात्रेण | केषां न कश्चिद्धेतुः स्याद् इत्याह एकसंख्यावादिनाम् इ[२१८.१]ति |
SK
सम्यग्ज्ञानविपर्ययहेतुर् इष्ट [२१८.६] इति प्राक्तनेनआचार्यग्रन्थेन | अ[६८ब्]१थाप्रदर्शितहेतुर् इ[२१८.६]त्य् अस्याचार्यग्रन्थस्य सम्बन्धः कार्य इति | न कथञ्चिद् व्यवच्छेदहेतुकं[२१६][२१८.९] केनापि प्रकारेण नित्यानित्यव्यवच्छेदहेतुत्वम् | ताभ्याम् अस्यान्वयव्यतरेकासिद्धेर् अभिप्रायेणैवोक्ते |
SK
__________NOTES__________
SK
[२१६] -हेतुत्वम् -- S
SK
भुजम् उत्क्षिप्य [२१८.१६] बाहुमूद्ध्...वीर्कृत्य फूत्कुर्वन् [२१८.१७] फूत्कारं मुञ्चन्न् इत्य् अर्थः | कैश्चिद् [२१८.१८]ईश्वरसेनजिनेन्द्रबुद्धिप्रभृतिभिः | अप्रच्छादनीयं [२१८.२०] अनावरणीयम् |
SK
मी२मांसकमतेन निरंतरा प्रीतिः स्वर्गे(र्गो) वाच्यः | अपवर्गस् तु मोक्षः | स च दर्शनभेदाद् अनेकविध इष्टः | स्वर्गापवर्गयोजनम् एववैयाकरणमताश्रयेण दर्शयन्न् आह -- तथाही[२१९.१]ति |मीमांसकमताश्रयेणाथवेत्य् अनेन पक्षान्तरम् आह -- वेदान्तनिषेवणात् [२१९.५] आत्मतत्त्वनिषेवणात् | प्रज्ञाजातीयेन [२१९.५] प्रशस्तप्रज्ञेन | उप३हासेप्य् अयं प्रयोगः प्रकरणात् ज्ञातव्यः | यद् अस्य सामर्थ्यम् आसीत् तत् तदुपदर्शनेनोत्कीलितं {प्. ४०६} अपनीतं [२१९.८] इति व्याचक्षाणश् चोत्कीलितम् अपनीतं साधनसामर्थ्यं यस्य श्रावणत्वलक्षणस्य हेतोः स तथोक्तो मूलग्रन्थ इति दर्शयति | ननु तानि वस्तूनि ते च पुरुषाः प्रतिहेतुनैतद्विपरीतरूपोपदर्शनद्वारा तथाभूतायाः संपदः प्रच्याव्यन्ते, न तु तेन हेतुनेति किम् उच्यते तानि वस्तूनि नित्यत्वसंपदः प्रच्याव्य तांश् च पुरुषाण् स्वर्गापवरसम्पद [२१९.८] इति चेत्, सत्यम् एतत् केवलं यस्माद् असौ विद्यमान एव स्वयं प्रापितायास् तथाभूतायाः संपदः प्रच्याव्यमाना न समानजातीयेन परेण ५तानि वस्तूनि तांश् च पुरुषांस् त्रायस्व त्रायस्वेति फूत्कारं विप्लवम् आभाषमाणानीव स्वजीवितम् अपेक्षमाण इवोपेक्षते | तस्मात् प्रच्याव्या वयं तं परं प्रयुक्तं इवेत्य् अभिप्रायाद् अदोषत्रय (?) इति चेत्, सर्वञ्चैतत् किं यो वस्तुतो असंभवात् प्रतिहेतुर् इत्यादिदूषणम् अवाधितविषयत्वे ऽपि लक्षणे प्रतिहेतुप६दम् अपोद्धृत्याबाधपदं प्रक्षिप्य वक्तव्यं | अत एवस्माभिर् एतन्न् इदानम् एव किं वस्तुतो ऽसंभवद्बाधत्वम् अबाधितविषयत्वम् अभिप्रेतमुताप्रतिभासमानबाधत्वम् अपि किं तदैव किं वा अन्येषाम् अपि | तत्रापि किं तदैवाहोस्विद् उभयं वदापि (?) | अन्येषाम् अपि किं तदैवाथ कालान्तरे ऽपीत्यादि विकल्प्य सर्वत्र यथा ७योगं दूषणम् उपनयद्भिर् आत्मनिराकरणे ऽ...आधि[त]त्वम् आत्मसाधनस्य प्रतिसंधानलक्षणस्य हेतोर् विशेषणम् अपहस्तितम् | ततो ऽन्यैर् अपि जिगीषुभिर् अबाधि[त]त्वे विशेषणे सर्वत्रैवानयैव दिशा प्रत्यवस्थेयम् इति |
SK
तल्लक्षणं [२२०.२३] लिङ्गलक्षणम् | ज्ञानस्यैव भावप्रत्ययेन [२२०.२४] त्वत्प्रत्ययेन | एतद् एव साधयन्न् आह तथाही[२२०.२४]ति | स्वतन्त्र८ एव [२२०.२९] वाच्य्वस्तुनिरपेक्ष एव | अनर्थप्रतिलम्भ एव स्यात् [२२१.१] अर्थप्रतिलम्भो न स्याद् एवेत्य् अर्थः | अस्य [२२१.२] विकल्पप्रतिभासिनः सामान्याकारस्य | यद्य् एवं बाह्यस्यैव हेतुत्वम् अस्तु तत्किम् अनेन प्रयासेनेत्य् आह -- साध्ये[२२१.३]ति | कथं तर्हि विकल्पारूढानां सामान्याकाराणां परमार्थतो बाह्याङ्गासंस्पर्शिनां संपादकत्वं साध्यसाधनभावः [६९अ]१कार्यादिरूपत्वं चेत्य् आशङ्क्याह -- तद्धर्मताम् एवे[२२१.४]ति | तस्यैव तद्धर्मतां बाह्यवस्तुधर्मताम् | बाह्यगतं(तां) तद्व्यावृत्तिरूपतां इति यावत् | अनु[२१७]सरंतो [२२१.४] भेदाप्रतिपत्त्या अविद्यमाननिबन्धनयाध्यवस्यन्तो नानैकव्यतिरेकान् [२२१.४] एकस्मिन्न् अप्य् अर्थे नानारूपं कृतकत्वानित्यत्वादि, एकत्वं सामान्यम् अनुगामिरूपं, व्यतिरेकं तयोः परस्पर(रं) धर्मिणश् च भेदं हेतौ २शतुर्विधानात् प्रदर्शनाद् इत्य् अर्थः | साध्यसाधनभावसमर्थनार्थम् एतद् उक्तं द्रष्टव्यम् | {प्. ४०७} संवादकत्वसमर्थनार्थम् आह -- वस्तुनि [२२१.५] इति | वस्तुनि -- साध्ये ऽर्थे | परम्परया [२२१.५] संबद्धसंबद्धतया | कार्यादिव्यपदेशसमर्थन(ना)याह कार्यादी[२२१.५]ति | कार्यादिदर्शनद्वारायातत्वात् तत्त्वेनाध्यवसायाच् च कार्यादि[२१८]व्यपदेशनिबन्धनं [२२१.५] त एव इति प्रकरणात् | तेन व्यपदेश३निबन्धनम् इति च व्यपदेश ᳚इन्द्रियम् अस्थानम् एतद् राजन (?)᳚ इति निर्देशवद् द्रष्तव्यः |
SK
__________NOTES__________
SK
[२१७] अनुस्मरंतो S |
SK
[२१८] कार्यादिलिङ्गव्यपदेशनिबन्धनं S |
SK
ज्ञानस्य बाह्यलिङ्गरूपत्वं निराकृत्य सामान्याकाररूपत्वम् अपि निराकुर्वन्न् आह विकल्पावभासी च [२२१.७] इति | तस्य [२२१.८] विकल्पावभासिनः | सामान्याकारस्य निरूपस्ये[२२१.८]ति च व्याचक्षाणो ऽलीकरूपताम् अपोहस्याभिप्रैति | तद्रूपस्य [२२१.९] अवृक्षव्यावृत्ति४रूपस्य विचारतो ऽसद्रूपस्य विकल्प[२१९]प्रतिबिम्बकस्य [२२१.९] इति | विकल्पाकाराद् भेदेन प्रत्येतुम् अशक्यत्वात् प्रतिबिम्बस्येव प्रतिबिम्बकस्यापोहस्य अथवा अनया वचनभङ्ग्या बुद्धयाकारो ऽपि तथाध्यस्तो ऽपोहो वाच्य इति दर्शितम् अनेन | कथं तस्य सामान्यात्मत्वव्य्वस्थेत्य् आह -- यस्माद् इ[२२१.१०]ति | अनुयायितया [२२१.११]ध्य[२२०]वसित५स्येत्य् अन्तरोक्तम् अनुवर्तते | एवंविधस्यापि किं न विकल्पात्मता | तथा च ज्ञानं किं न रूपं लिङ्गस्येत्य् आह -- तथात्वे च [२२१.११] इति | तथात्वे [२२१.११] अनुयायित्वे | विकल्परूपा[२२१]त्मता [२२१.१२] विकल्पस्वलक्षणात्मता | प्रकृतायां [२२१.१७] प्रस्तुतायाम् | रूप[२२२]म् अभिधीयते [२२१.१७] एवंविधं लिङ्गस्य रूपम् इत्य् अभिधीयते | प्रत्ययात्[२२३][२२१.२१] संप्रत्ययात् |
SK
__________NOTES__________
SK
[२१९] विकल्पप्रतिबिम्बचक्रस्य S | [२२०] व्यवसितस्य S | [२२१] विकल्परूपता S | [२२२] स्वरूपम् अभि- S | [२२३] संप्रत्ययात् S
SK
परमतापेक्षया प्रमातुर् इ[२२१.२८]त्य् उक्त६म् | तथा संयोगसमवायादीनाम् [२२२.१] इति, आलोकमनस्कारादीनाम् [२२२.२] इति, वस्तुवृत्त्यपेक्षयोक्तम् | न हि तेष्व् असत्स्व् इ[२२२.२]ति ब्रुवतो ऽयं भावो यदि तत्र साध्यं न भवेत् तदा तदव्यभिचारिवस्तुदर्शनप्रनाडिकया तत्र ज्ञानम् एव न भवेत् | यदि च लिङ्गे धूमादौ महत्त्वादिसमवायो न स्यात्, यदि च तस्येन्द्रियेण संयोगो न७ भवेत्, तदा तद्विषयं प्रत्यक्षम् एव न भवेत् | असति च तस्मिन् न लिङ्गिनि विज्ञानम् उत्पद्येत तथालोका भावे ऽपि तथैव लिङ्गिज्ञानानुत्पत्तिर् ज्ञातव्या | तथासति मनस्कारे ऽसति | मनस्कारसाद्गुण्य इति बोद्धव्यम् | पूर्ववाल्लिङ्गिज्ञानानुत्पत्तिश् च | निश्चयो ऽपीत्य् एव पाठः यत्र पुस्तके {प्. ४०८} निश्चयो ही[२२२.९]ति पाठः | तत्र हिशब्दो ऽपिशब्दस्य वार्थे८ द्रष्तव्यः | तद्विशेषत्वात् [२२२.१०] ज्ञानविशेषत्वात् | अस्य [२२२.११] निश्चयस्य |
SK
᳚सपक्षे भावेन᳚ [२२२.१९] किं भूतेनेत्य् आह -- विपक्षे [२२२.१९] इति | सर्वत्र विपक्षे यो ऽभावः तद्विशिष्टेन [२२२.२१] किं भूतेन सर्वत्र विपक्षे यो ऽभावेनेत्य् आह -- सपक्ष [२२२.२०] इति | तादात्म्यतदुत्पत्ती लक्षणे निमित्ते यस्य भावस्य स तथा तद्विशिष्टेन [२२२.२१] | ननु च दर्शनादर्शननिबन्धनौ सपक्षासपक्षयो[६९अ]१र् भावाभावाव् अप्य् अन्योन्यविशिष्टाव् एव तत् को ऽतिशयो ऽनेनोक्त इत्य् आशङ्क्याह -- एतद् उक्तं भवती[२२२.२२]ति | प्रतिबन्धसाधकप्रमाणवृत्त्या नि[२२४]श्चितो (तौ) [२२२.२३] न तु दर्शनादर्शनाभ्याम् इत्य् अर्थात् | तथाविधाव् इ[२२३.६]ति व्याप्तिमान्ताव् इत्य् अर्थः |
SK
__________NOTES__________
SK
[२२४] निश्चितौ S
SK
तादात्म्यतदुत्पत्तिसाधनविषयं [२२३.१०] तादात्म्यतदुत्पत्तिसिद्धिविषयम् | तयोर् एव [२२३.१९] भावाभावयोर् एव | आक्षिप्यते [२२३.२०] प्रकाश्यते | उत्पत्त्यतिरेकि२ण्याः सत्ताया अनुत्पत्तेर् या सत्ता उत्पत्ति[२२३.१९]र् इति व्याचष्टे | अभावलक्षणस्य [२२३.२९] प्रतियोग्यपेक्षया तद्विविक्तपदार्थलक्षणस्य परमताश्रयणेन चैवम् अभिधानम् सिद्ध्यन्ति [२२४.१] व्यवहारयोग्यताम् उपयान्ति | सर्वस्य [२२४.१] इति पुंसः | तथा च अयत्नसिद्धः सर्वः सर्वदर्शीत्य् आशयः | नैवम् इ[२२८.१]तीदम् इति सम्बन्ध्यते | लिङ्गस्य प्रकृतत्वात् ज्ञापकस्य [२२४.१३] इत्य् आह३ | आचार्येण [२२४.२१] इतिआचार्यदिग्नागेन |सूत्रकारीयनिश्चितग्रहणसाफल्यम् उपवर्णयतावार्तिककृतास्वानुमतिर् अत्र दर्शितैवेत्य् अभिप्रायेण आचार्यवचनम् इव कृत्वा इह अस्माभिश् च [२२४.२१] इत्यादि |
SK
तथाभावो [२२५.३] व्याप्त्यान्वयः | सर्वत्र तदभावे अवश्यम् अभावो नेति पूर्वकम् अनुवर्तनीयम् | तस्माद् यत [२२५.९] इत्यादिकवस्तु(-कस् तु) मूलस्यादि४ग्रन्थो अनेन सुबोधत्वान् न व्याख्यातः | अयं त्व् अस्यार्थो ऽवसेयो यत एवं तस्माद् [२२४.२०] यतः प्रमाणाद् अनयोर् भावाभावयोर् भवति निश्चयस् तदधीनता तयोर् भावाभावयोः सत्ता व्यवस्थेत्य् अस्यार्थस्य ज्ञापनार्थं निश्चितवचनं कृतम् इति |आचार्यदिग्नागकृतनिश्चितग्रहणार्थे भूयः संह्रियमाणेवर्तिककारेण कथम् अस्मा५भिर् इत्य् उच्यत इत्य् आशंक्याह -- अस्माभिर् इ[२२५.९]ति | आचार्यकृते [२२५.९] सूत्रकाराचार्यकृते | निश्चितग्रहणे [२२५.९] अस्माकम् अभिमतत्वाद् इ[२२५.१०]ति वचनेन चैवंआचार्यस्याभिप्रायं दर्शयति | तच् चेद् अस्माकम् अभिमतम् एव तदास्माभिर् एवोक्तम् इति | एवं तावद् अनेन व्याख्यातं लक्ष्यते पुनर् अयम् अस्यार्थः -- {प्. ४०९} एतद् अर्थं सूत्रकारेणप्रमाणसमुच्चये६ -- मया च विनिश्चयादौ निश्चितग्रहणं कृतम् इत्य् अभिप्रेत्याचार्यवार्तिककारेणावाभ्याम् इत्य् अस्मिन्न् अर्थे ऽस्माभिर् इत्य् अभिधायीति | द्वयोर् अर्थयोर् बहुवचनं केन वचनेनेति ᳚अस्मदोर्द्वयोश् च᳚ इत्य् अनेनेति ब्रूम इति |
SK
अतो ऽपि न्यायात् इति पाठोः अत एव न्यायात् [२२५.१२] इति तु प्रमादपाठः | प्रतिपन्नत्वात् [२२५.१५] ज्ञानस्येति प्रकरणात् | त्रैरूप्यात् ज्ञानं [२२५.१...] ᳚रूपान्तरं न भवती᳚त्य् अनुवर्तते |
SK
सपक्षे भाव उच्यत [२२६. ] इत्य् अनेन च साध्ये सत्य् एव भावो लक्षितस् तथा अभावो ऽसपक्ष [२२६.१] इत्य् अनेन असति साध्ये अभाव एव विवक्षितः | व्यावृत्तिकृतं भेदम् उपादाय [२२६.९] इति तत्राभावव्यावृत्त्या भावो व्यवस्थाप्यते | तत्र भावयावृत्त्याभाव इति | परमार्थतो भेदो नास्ति [२२६.१०] इति ब्रुवतो८यं भावः तस्मिन् सत्य् एव भावो भवितृत्वं तदभावो चाभाव एवाभवितृत्वं एवम् एव हेतोः स्वगत एवायं धर्मो ऽत एव यत्रान्वयस् तत्र व्यतिरेक इति स्वभावहेतुसाध्यम् एतद् अवतिष्ठते | न तत्त्वा(त्व् अर्था)पत्तिगम्यम् इति | ननु च यद्य् अनयोः परस्परान्तर्भावो न भवेत् तर्हि कथम् एकं वाक्यम् उभयं गमयेत् | तथा चैतत् पूर्वोक्तं [७०अ] १किं ...... र्हीति |
SK
भिन्नलक्षणम् एव [२२६.१५] व्यावृत्तितो भिन्नस्वभावम् एव सन्तं ततश् च भिन्नत्वात् अनयोर् लिङ्गरूपत्वाच् च पृथगवयवान्तरत्वं युक्तम् इति भावः | यद्य् एकः स्वभा...............यदुक्तपूर्वं तदवस्थम् एवेत्य् आह परस्पर [२२६.१६] इत्यादि | एकवाक्यात् [२२६.१६] एकवाक्यार्थरूपत्वात् एकवाक्यप्रकाश्यरू२......सपक्षविपक्षयोर् भावाभावयोर् अपरस्पराक्षेपाद् इति सिद्धान्तवादिनाभिहितं किम् अनेन तदप्रतिविधायकेन न त्व् इ[२२६.१७]त्यादिनोक्तेन इत्य् आशङ्क्य पूर्वपक्षवादिमत एव ...............दर्शयितुम् आह -- अयम् अभिप्राय [२२६.१७] इति | तदभावो ऽभावो गम्यते अन्यथा तदर्थैवास्या वाक्यस्य न स्याद् इत्या३.........त इति वर्तते | प्रतिबन्धश् च [२२६.२२] प्रतिबद्धत्वञ् च हेतोर् इत्य् अर्थात् | तादात्म्यतदुत्पत्तिभ्यां [२२५.२२] तादात्म्येन तदुत्पत्त्या वा | तद्भावे भावरूप एवे[२२६.२३]ति विचारत एतद् अवतिष्ठते | यत इत्य् अभिप्रायेणोक्तं एकवाक्येनेति पीनो देवदत्त इत्यादिना तत एवैकवाक्या[२२५]न्तरभावाद् इ[२२७.१७]ति
SK
__________NOTES__________
SK
[२२५] -वाक्यार्थान्तर-S
SK
{प्. ४१०} कदाचित्४ .........पादनकाले दृष्टाद् इत्य् अभिप्रायेणोक्तम् -- एकवाक्यार्थानपेक्षावे[२२७.१८]कवाक्यार्थावतवन्ता(?)व् इत्य् अर्थः | तदन्तर्भावमात्रेण [२२७.१८] एकवाक्यार्थान्तर्भावमात्रेण नियमवद्वाक्यव्यपक्षेया कदाचिद् दृष्टेन तदन्तर्भावात् | एकरूपान्तरर् भावात् तु द्वितीयगति[२२७.२७]र् नेति वर्तते | भिन्नरूपाव् एवे[२२८.६]ति यथा तया क५......त तथा भिन्नरूपाव् एवेति |
SK
ततः [२२८.१९] शास्त्रात् | सर्वदा चात्र ज्ञान[२२८.१५]ग्रहणं ज्ञातत्वोपलक्षणं ज्ञातव्यम् | ज्ञात(न)शब्देन अस्यैव विवक्षित्वात् | एतच् च पुरस्ताद् उपदर्शितम् एव | स्याद् एतत् ये तावत् ज्ञातत्वशब्देन ज्ञानम् एवाभिदधते ते सन्तूक्तया नीत्या निराकृताः | ये तु ज्ञानकर्मत्वं ज्ञातत्वं६ .........निराक्रियन्ते इत्य् आशङ्कायाम् आह तद् अयम् अत्र [२२८.२०] इत्यादि | तदपेक्षो ऽपि [२२८.२५] ज्ञानापेक्षो ऽपि | प्रकरणम् उपसंहरन्न् आह -- तद् एवम् इ[२२८.२८]ति | त्रीणि पक्षधर्मान्वयव्यतिरेकात्मकानि लक्षणानि यस्य स तथोक्त इति सर्वम् अवदातम् |
SK
आचार्यश्रीधर्मकीर्तिविरचितस्यास्यहेतुबिन्दुसं७...............थ तत्त्वप्रकाशिकां टीकां पटीयसीम् ईदृशीं परार्थम् उद्दिश्य प्रणयता नियतं मयापि किम् अपि पुण्यं उपार्जितं तद् अप्य् अहं परार्थम् उपनयाम् इति मन्वानो ऽनेकजन्माभ्यस्तकृपायोगात् सात्मीभूतपरार्थकरणो ऽयं भदन्तधर्माकरदत्त इमम् [२२९.१] इत्यादि परिणामनाश्लोकेनाह | अस्यायं समुदाया[र्थः ८मुनीशराद्द्धा]न्तनयप्रदीपम् [२२९.२] विवृ[२२६]त्य यत् पुण्यम् उपार्जितं तत् जगतो विशुद्धिं विधेयात् [२२९.३] इति | कायवाङ्मनोमौनयोगान् मुनयः प्रत्येकबुद्धादयस् तेषां ईशः शास्ता बुद्धो भगवान् सवासनक्लेशपरिहाणियोगेनात(?)भ्यस् तस्य प्रकर्षप्राप्तया तायित्वात् तस्य नयो नीतिः प्रवचनं तस्य राद्धान्तः सिद्धान्तस् तस्य [७०ब्]१ ............क्षणिकाः सर्वसंस्कारा इत्यादि प्रवचनार्थस्यानेन यथावत्प्रकाशनात् कुत्सितः प्रमाणानुपपन्नार्थप्रकाशनात् तर्को न्यायदर्शनादि[र् इ]ति तथा | अशेषश् चासौ स चेति तथा | तस्य मार्गः [२२९.१] पन्थाः सिद्धान्त इत्य् अर्थः | क्षतः खण्डितः तद्वैरूप्यापादनाद् अशेषः कुतर्कमार्गो येन स तथा | तं विवृ[२२७]त्य व्याख्याय२ ...............र्थात् | तत् पुण्यं [२२९.३] कर्तृ विशुद्धिं [२२९.३] विमलचित्तसंतति परां [२२९.४] प्रकृष्टां सर्वावरणप्रहाणाद् इति सर्वम् अनवद्यम् इति |
SK
__________NOTES__________
SK
[२२६] वितत्य S [२२७] वितत्य S
SK
{प्. ४११} दारिद्र्यदुःखाद् अभियोगमात्राद् विशुद्धबुद्धेर् विरहाद् अबोधात् |
SK
नास्तीह सूक्तं मम यत् पुनः स्यात् गुरोर्जितारेःस खलु प्रसादः ||
SK
कुतूहलेनैव यदृच्छया वा मात्सर्यतो दोषजिघृक्ष३[या वा]
SK
......स्वत एव रूपं विज्ञास्यते ऽस्येति न वर्णयामः ||
SK
कृतो ऽयमर्चटालोको निबन्धो बालबान्धवः |
SK
यत्र मूर्तिर् इवादर्शे दृश्यते स्वपरस्थितिः ||
SK
परार्थम् उद्दिश्य यथार्थमर्चटंविवृण्य पुण्यं यदुपार्जितं मया |
SK
निहन्तु तेनावरणानि विद्विषो जनोन्तरायेण विनैव सर्वथा ||
SK
समाप्तश् चा५ ............... निबन्धः ||
SK
कृतिर् इयं पण्डितदुर्वेकमिश्रस्येति |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Durvekamiśra: Hetubinduṭīkāloka (subcommentary on Arcaṭa's Hetubinduṭīkā on Dharmakīrti's Hetubindu) (sa_durvekamizra-hetubinduTIkAloka.htm).

Source