Moonlight on the Support of the Lingam
Liṅgadhāraṇacandrikā
SKलिङ्गधारणचन्द्रिका श्रीनन्दिकेश्वरशिवाचार्यविरचिता श्रीशिवकुमारशास्त्रिकृत्या शरनामिका व्याख्यया मेदिचल् हल्ल् पुब्लिशेर् Vअरनसि १९०५ प्. १) श्रीगणेशाय नमः श्रीमते विश्वाराध्याय नमः लिङ्गधारणचन्द्रिका नन्दिकेश्वरविरचिता पूर्वभागः आधारादिसमस्तचक्रनिचये यो हंसरूपः शिवो नित्यानन्दगुरुप्रसादविभवाद् भावादिसंज्ञोऽभवत् | आचारादिविभेदतः पुनरसौ षड्लिङ्गरूपोऽभवत् तस्मै श्रीगुरुमूर्तये गिरिसुताभर्त्रे नमस्कुर्महे || १ || वेदाः शास्त्राण्यागमा यत्प्रणीताः पुंसामिष्टप्राप्तयेऽनेकरूपान् | कर्मोपास्तिज्ञानभेदेन भिन्नान् हेतून् लोके ख्यापयन्ते नमोऽस्मै || १ || बाणः कस्य बभूव पद्मनयनः कस्याभवत् पद्मभू- र्यन्ता कस्य महीरथः समभवत् पत्राणि वेदास्तथा | त्रैलोक्यप्रलयाग्निवत् प्रविततं हालाहलं वाऽपिबत् को यः शम्भुमुपेक्ष्य लोककुशलैर्देवः समाश्रीयताम् || २ || श्रौते कर्मणि सन्ति वैदिकगिरो वैतानिके निष्ठिताः स्मार्तेऽपि स्मृतयो महर्षिविहिता भूयस्य एवेक्षिताः | किन्त्वासामवधानतो हृदययुग्भावार्थसंवीक्षणे तात्पर्यं परमेशतोषणविधावेकान्ततः सिद्ध्यति || ३ || आस्तां राज्यमखण्डभूमिवलये स्वातन्त्र्यसौख्याञ्चितं सामन्ताश्च जिता भवन्तु रिपवः कोशे धनेशोपमाः | वेदाः साङ्गरहस्यबोधमहिताः स्युर्वाग्विधेयास्तथा- पीशानस्य पदारविन्दयुगले चित्तं न चेत् किं ततः || ४ || तस्मादीश्वरतोषमेव मनुजो नित्यं विदद्यान्मनो- वाक्कायैरिति संविभाव्य मुनयः प्राग् वामदेवादयः | वैराग्येण निरस्य मानसगताः सांसारिकीर्वासनाः स्वभ्यासेन निगृह्य चित्तमभवंस्तद्ध्यानलीनाशयाः || ५ || यद्यप्यस्ति महेशलाभकृतये ज्ञानं परं कारणं चित्तं शोधयितुं भवन्त्यपि तथा निष्कामकर्माण्यलम् | किन्त्वेतद्द्वयमप्यनन्तकरुणावारांनिधेः पादयो- र्भक्तेर्नार्हति षोडशीमपि कलामित्याहुराद्या बुधाः || ६ ||
SKभक्तिश्चापि पराऽपरेति गदिताऽत्राद्यास्ति मुख्येरिता मुख्यत्वं च फलाभिसन्धिविरहस्तन्मात्रगप्रेमता | यावद्भोगविरागवत्त्वमपि वा प्रेम्णैव चैतत्त्रयं तद्भेदान्नवसंख्यकान् मुनिवरो द्वैपायनः प्रोक्तवान् || ७ || मामके दहराम्भोजे शारभं पादपङ्कजम् | विघ्नान्धकारमार्तण्डमण्डलं सततं भजे || २ || कर्मब्रह्मविचारशास्त्रनिचयप्रोताच्छवाग्वैभवं लिङ्गाङ्गस्थलतत्त्वबोधकगिरामापादने षण्मुखम् | विद्वन्मत्तगजेन्द्रकुम्भदलने कण्ठीरवाडम्बरं विघ्नध्वान्तरविंनमामि शिरसा मल्लेश्वराख्यं गुरुम् || ३ || वेदशास्त्राण्यनालोच्य केचित् पण्डितमानिनः | धारणं शिवलिङ्गस्य नाङ्गीचक्रुरमर्षतः || ४ || गौणी तूक्तविशेषणैर्विरहिता तावद्भिरेवान्विता भेदैः प्रेम तु धर्मिभूतमभवत् सर्वान्वितं सूत्रवत् | तत्प्रेम स्मरणे श्रुतौ प्रणमने संकीर्तने सेवने सर्वस्वात्मनिवेदनादिषु तथा संयोजयत्युत्कटम् || ८ || अत्रैवं सति चिन्त्यतां स्वमनसा प्रेमातिसीमं भवद् देवस्मृत्यवियोगमेव वलयत्तन्नित्ययोगेच्छया | ताद्रूप्येण विभावितस्य सततं लिङ्गस्य संधारणे तीव्रोत्कण्ठितवत्करिष्यति न किं भक्तस्य चित्तं मुहुः || ९ || स्वयंवरे वरं देहि करोमि भवदाज्ञया | तेषां निराससिद्ध्यर्थं लिङ्गधारणचन्द्रिकाम् || ५ || भक्त्यैकताने हृदये हि लोको माहेन्द्रकौबेरपदादि तुच्छम् | मत्वा स्वकीयेष्टपदैकसक्तो नक्तंदिवं ध्यानततिं तनोति || १० || इत्थं भक्तगतीक्षणे च बहुधा युक्त्यैव शम्भोर्महा- ज्योतिर्लिङ्गसमासनं निजतनौ सिद्धं भवत्यञ्जसा | धर्मः केवलशब्दगम्य इति यत्संस्थापनं जैमिनेः तस्माद्वेदगिरोऽपि तत्प्रमितये शैवैः समुद्भाविताः || १० || ते खल्वेवमाहु लिङ्गधारणं तावन्न वैदिकपरिग्राह्यम् अवैदिकत्वात् | वैदिअत्वे हि वेदवेदान्तवाक्यप्रतिपाद्यत्वं नियामकम् | नहि तत्र तदन्यतरं पश्यामः | अथवा न वेदमूलकस्मृत्यादिगम्यत्वम् मन्वादिस्मृतिषु तत्प्रापकवचनादर्शनात् |
SKतासामन्यपरीभाववारणाय कृताऽभवत् | स्वेष्टतात्पर्यलब्ध्यै च लिङ्गधारणचन्द्रिका || ११ || कामिकं वातुलं चैव मुकुटं वीरसंज्ञकम् | आगमं स्कान्दलिङ्गे च प्राधान्येनाश्रयत्ययम् || १२ || साम्बशम्भोः परं तोषं विधातुं शम्भुपादयोः | व्याख्या तस्याः शन्नाम्नी विधायैषा समर्प्यते || १३ || लोकैषणा भवत्येव यद्यप्यत्र प्रवर्तिका | तथापि किञ्चिद् गौरीशस्तुष्येदिति मनोगतम् || १४ || यदि मन्यसे मङ्गलाद्याचारस्येवानुमेयवेदमूलकत्वम् तदप्याशामात्रम् लिङ्गधारणस्य सकलशिष्टानाचरितत्वेन कतिपयजनाचारस्य वेदानुमापकत्वाभावात् | तथा च निखिलप्रमाणबहिर्भूतस्य लिङ्गधारणस्य कथं वैदिकपरिग्राह्यत्वमिति? तन्न वेदशास्त्रपुराणेषु कामिकाद्यागमेषु च | लिङ्गधारणमाख्यातं वीरशैवस्य निश्चयात् || शम्भोः शिरसि बिभ्राजच्चन्द्रमश्चन्द्रिकेव सा | इमां शरदमासाद्य प्रकाशं परमेष्यति || १५ || पतिं गणानामथ सेशगौरीं सारस्वतं चापि महः प्रणम्य | सम्प्रार्थ्य बोधं शिवतत्त्ववेत्त्रीन् व्याख्यानमस्याः समुपक्रमेऽद्य || १६ || इति सिद्धान्तोक्तेः | अस्यार्थः- वेदा ऋगादयः | अनेन भारतस्याप्युपलक्षणम् भारतः पञ्चमो वेदः इत्यभियुक्तोक्तेः | शास्त्राणि स्मृतयः | पुराणानि स्कन्दवायुलैङ्गिकादीनि | आगमाः कामिकादयः | तत्र यजुर्वेदतैत्तिरीय-शाख्यायां ज्योतिर्लिङ्गानुसन्धानरूपान्तर्लिङ्गधारणं विधीयते | तत्र तैत्तिरीयके तु - दहरं विपाप्मम् (तै. आ. १०|१०|३)
SKतत्रादौ लिङ्गधारणस्याऽभ्यन्तरबाह्यलिङ्गधारणात्मकतया द्वैविध्येनोभयविधस्यापि तस्य श्रुतिस्मृतिसिद्धत्वे साम्प्रतं निरूपणीये प्रथममाभ्यन्तरलिङ्गधारणस्य श्रुतिसिद्धत्वं बोधयितुं दहरविद्याया हृत्पुण्डरिकान्तरालवर्तिज्योतिर्लिङ्गविषयकत्वं प्रसाधयति - तैत्तिरीयक इत्यादिना | दहरं विपाप्ममिति | इदमत्रोपनिषन्मन्त्रस्वरूपम् - दहरं विपाप्मं वरवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् | तत्रापि दह्रे गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् || (तै० आ० १०|१०|३) इति | इत्यारभ्य तस्मिन् यदन्तस्तदुपासितव्यम् (तै. आ. १०|१०|३) इत्यन्तेन उपासना विधीयते | तत्किमित्याकाङ्क्षायाम् - अत्र भाष्यम् - यदेतत् पुण्डरीकमष्टदलं हृदयकमलमस्ति | कीदृशम्? दहरम् अल्पम् अङ्गुष्ठमात्रपरिमितत्वात् | विपाप्मं चित्तैकाग्र्यस्थानत्वेन पापरहितम् | वरवेश्मभूतं वरस्य श्रेष्ठस्य परमात्मन उपलब्धिस्थानत्वेनोपास्तिस्थानत्वेन च गृहरूपम् | पुरमध्यसंस्थं हस्तपादादिभिः सर्वैरवयवैः पूर्यत इति पुरम्, तस्य मध्ये कुक्ष्युरसोरन्तरावस्थितम् | तत्रापि तस्मिन्नपि पुण्डरीके दह्रेऽल्पप्रदेशे गगनमाकाशवदमूर्तब्रह्मरूपमस्ति | ब्रह्मणः सर्वगतत्वेऽपि घटाकाशवत् पुण्डरीकस्थानापक्षयाऽल्पत्वमुपचर्यते | तथा च श्रुत्यन्तरम् - अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः (छा० उ० ८|१|१) इति | दहराकाशस्य च ब्रह्मत्वं दहराधिकरणे (ब्र० सू० १|३|५) निर्णीतम् | अत एव विशोकः छान्दसं पुंस्त्वम् शोकरहितं गगनशब्दवाच्यं ब्रह्म | एवं सति तस्मिन् पुण्डरीकेऽन्तः मध्ये यद् ब्रह्मतत्त्वमस्ति तदुपासितव्यं विजातीयप्रत्ययरहितेन सजातीयप्रत्ययप्रवाहेण चिन्तनीयम् (सा० भा० १०|१०| ३) इति | अस्यां श्रुतौ तत्रापि दह्रे गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्
SKयो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः | तस्य प्रकृतिलीनस्य यः परः स महेश्वरः || (तै. आ. १०|१०|३) इत्यनेन शिवः शूली महेश्वरः (अ. को. ९|९|२०) इति इत्युक्त्या गगनस्यापि मध्ये वर्तमानं गगनशब्दवाच्य ब्रह्मतत्त्वातिरिक्तमेव किञ्चिद्वस्तूपासितव्यमिति भ्रमः सम्भाव्यते तन्मा सम्भावीति भाष्यकारेण विशोकान्तं व्याख्याय मध्ये एवं सति इति योजितम् | ततश्च तस्मिन् यदन्तरित्यत्र तत्पदेन गगनं न परामर्शनीयम् अपि तु व्यवहितमपि पुण्डरीकमेव पराम्रष्टव्यम् | ततश्चायमर्थः फलति- यतो हृत्पुण्डरीके ब्रह्मतत्त्वस्य वासस्थानम् अतस्तस्मिन् वर्तमानं ब्रह्मतत्त्वमुपासितव्यमिति | यो वेदादाविति | वेदस्य अध्येतव्यस्य आदौ प्रारम्भे स्वरः स्वरघटितः प्रणवरूपः शब्दः प्रोक्तः - ब्रह्मणः प्रणवं पुर्यादादावन्ते च सर्वदा | स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीयंति || इति मानववाक्ये उच्चारयितव्यत्वेन विहितः वेदान्ते माण्डूक्योपनिषदादौ प्रतिष्ठितः मात्राविभागेन व्याख्यातः तस्य प्रणवस्य प्रकृतौ कारणे मात्रात्मकेऽवयवे लीनस्य संहितयाऽविभागं प्राप्तस्य अ उ म् इति विभक्तावस्थातः ॐ इत्यविभागावस्थां प्राप्तस्येति कोशावगतरूढ्या शिवैकान्तिकमहेश्वरपदावरुद्धवाक्येन उपास्य-
SKयावत् यः परो मुख्यत्वेन प्रतिपाद्यः स महेश्वर इत्यर्थः | प्रणवस्यैकैकमात्रया ब्रह्मविष्णुरुद्रा देवाः ऋग्युजःसामानि वेदाः भूः भुवः स्व इत्येते त्रयो लोकाः एवंरूपेण विशकलिताः पदार्था अभिधीयन्ते | ओमिति समस्तेन तु सर्वसमष्ट्याश्रयरूपं माहेश्वरं तत्त्वमुच्यत इत्याशयः | इदं च माण्डूक्योपनिषदि गौडपादाचार्यकारिकासु च स्पष्टम् | वेदभाष्ये तु - यो वेदादौ स महेश्वरः इति प्रतीकमुपादाय - वेदानाम् अग्निमीले पुरोहितम् (ऋ० १|१|१) इषे त्वोर्जे त्वा (शु० य० १|१) इत्यादीनाम् आदिः उपक्रमः तस्मिन्नुपक्रमे यः स्वरः यो वर्णः प्रणवरूपोऽस्ति स च स्वरः प्रणवः वेदान्ते चोपनिषदि - ओमित्येतदक्षरमिदं सर्वम् इत्यादिकायाम् प्रतिष्ठितः प्रतिपादितः | स च स्वरः प्रणवः ध्यानकाले प्रकृतौ अव्याकृते जगत्कारणे लीनो भवति | अकारोकारमकारेषु विराड्ढिरण्यगर्भाव्याकृतानि ध्यात्वा विराड्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरणगर्भमूलप्रकृतिरूपे मकारे प्रविलापयेत् | तस्य च प्रकृतौ लीनस्य प्रणवस्य यः परः स चतुर्थमात्रारूपेण नादे ध्यातव्य उत्कृष्टोऽस्ति सोऽयं महेश्वरो विज्ञेयः | अनेन मन्त्रेण पूर्वोक्तगगनशब्दवाच्यं वस्तु प्रपञ्चितम् इति व्याख्यातम् | शिवैकान्तिकमहेश्वरपदावरुद्धवाक्येनेति | शिवैकान्तिकं नियमेन शिव एव प्रयुज्यमानं यन्महेश्वर इति पदम् तद्युक्तेन यो वेदादौ स्वरः प्रोक्त इत्यादिवाक्येन | वस्तुविधानात् उपासनाया गुणविषयकत्वेन तत्किंगुणकमित्याकाङ्क्षायाम् ऋतं सत्यं परं ब्रह्म (तै. आ. १०|१२|१) उपास्यवस्तुविधानादिति | तदुपासितव्यमिति विहितामुपासनामनूद्य सा किं विष्णुविषयिणी शिवविषयिणी वेति जिज्ञासायां यो वेदादौ स्वरः प्रोक्तः (तै० आ० १०|१०|३) इत्यनेन महेश्वरविषयिणी सेति निर्णयस्य प्रत्यासत्तिन्यायसहायेन करणादित्यर्थः | तेन विधेयताबोधकलिङादिपदाभावेऽपि न क्षतिः |
SKगुणविषयकत्वेनेति | तं यथा यथोपासते तत्तदेव भवति (श० ब्रा०) इति श्रुतेः उपासनायाः स्वप्रकारीभूतगुणानुरोधेनैव तत्तत्फलप्रयोजकतया निर्विकल्पकातिरिक्तज्ञानस्य सप्रकारकत्वनियमाच्चोपासनाया गुणविषयकत्वमिति भावः | ऋतं सत्यं परं ब्रह्मेति | ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् | ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः || (तै० आ० १०|१२|१) इत्यस्मिन्नेव प्रकरणे पठितमन्त्रेण कृष्णपिङ्गलत्वोर्ध्वरेतस्त्वविरूपाक्षत्वरूपाणां त्रयाणां धर्माणां विरूपाक्षस्त्रिलोचनः (अ० क्० १|१|३२) इति कोशवशात् शिवैकनिष्ठत्वेन निर्णीतानामुपास्यविशेषणतया विधानात् परमशिवविषयिण्येव दहरविद्येति गम्यते | ऋतमित्यादिमन्त्रार्थस्तु भाष्ये एवं दर्शितः - यदेतत्परं ब्रह्म तत्सत्यम् अबाध्यम् | सत्यं च द्विविधम् - व्यावहारिकं पारमार्थिकं च | हिरण्यगर्भादिकं रूपं व्यावहारिकं सत्यम् | तन्निवारणेन पारमार्थिकसत्यं प्रदर्शयितुमृतं सत्यमिति विशेष्यते अत्यन्तं सत्यमित्यर्थः | तादृशं ब्रह्म स्वभक्तानुग्रहायोमामहेश्वरात्मकं पुरुषरूपं भवति | तत्र दक्षिणे महेश्वरभागे कृष्णवर्णः | उमाभागे पिङ्गलवर्णः | स च योगेन स्वकीयं रेतो ब्रह्मरन्ध्रे इति मन्त्रेण परमशिवासाधारणगुणविधानाच्च शिवतत्त्वस्वरूपं तदित्यवगम्यते | धृत्वा ऊर्ध्वरेता भवति | त्रिनेत्रत्वाद्विरूपाक्षः | तादृशं परमेश्वरमनुसृत्येति शेषः | विश्वरूपाय जगत्कारणत्वेन सर्वजगदात्मकाय विरूपाक्षाय पुरुषायैव नमस्कारोऽस्त्विति | नन्वस्यामेवोपनिषदि सहस्रशीर्षं देवम् (तै. आ. १०|११|१) इत्यनुवाकेन सहस्रशीर्षत्वादिगुणकस्य नारायणस्याभिहितत्वेन नन्वस्यामेवोपनिषदि सहस्रशीर्षं देवमित्यनुवाकेनेति | अयमस्ति सोऽनुवाकः - सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् | विश्वं नारायणं देवमक्षरं परमं प्रभुम् || विश्वतः परमं नित्यं विश्वं नारायणं हरिम् | विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ||
SKपतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् | नारायणं महाज्ञेयं विश्वात्मानं परायणम् || नारायणः परो ज्योतिरात्मा नारायणः परः | नारायणपरं ब्रह्म तत्त्वं नारायणः परः || नारायणः परो ध्याता ध्यानं नारायणः परः | परादपि परश्चासु तस्माद्यस्तु परात्परः || यच्च किञ्चिज्जगत् सर्वं दृश्यते श्रूयतेऽपि वा | अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः || अनन्तमव्ययं कविं समुद्रेतं विश्वशम्भुवम् | पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् || अधोनिष्ट्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति | ज्वालामालाकुलं भाति विश्वस्यायतनं महत् || सन्ततं शिराभिस्तु लम्बत्याकोशसन्निभम् | तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् || तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः | सोऽग्रभुग् विभजंस्तिष्ठन्नाहारमजरः कविः || तिर्यगूर्द्ध्वमधःशायी रश्मयस्तस्य सन्तता | सन्तापयति स्वं देहमापादतलमस्तकम् || तस्य मध्ये वह्निशिखा अनीयोर्ध्वा व्यवस्थिता | नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा || नीवारशूकवत् तन्वी पीता भास्वत्यणूपमा | तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः || स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् || (तै० आ० १०| ११|१-२) इति | यद्यपि पूर्वानुवाकः यः परः स महेश्वरः (तै० आ० १०|१०|३) इत्यत्रैव समाप्तः नारायणानुवाकश्च ततो भिन्न एव | एतावन्मात्रेणैव पूर्वोक्तदहरोपासनाया महेश्वरविषयकत्वं तस्यैव दहरोपासनोपास्यत्वं किं न स्यादिति सिद्धम् तथापि हृदयपद्मकोशादीनां चर्चाया अस्मिन्नप्यनुवाके सत्त्वेनैतच्छङ्कोत्थानं बोध्यम् |
SKअत्रैतत्समाधानाय चन्द्रिकाकारः कैवल्योपनिषदथर्वशिरह्कठवल्लीवाक्यानि समानविषयाण्याश्रित्य दहरविद्यायाः परमशिवविषयकत्वं प्रसाध्योक्तोपासनाया अनियतविषयकत्ववारणायोपासनाधिकरणीभूतहृदयप्रतियोगित्वेन नारायणस्योपनिबन्धमुपासकाकाङ्क्षाशान्त्यर्थं वर्णयति नारायणस्य स्वहृदयपुण्डरीकेऽनितरसाधारणज्योतिर्लिङ्गानुसन्धानेन ब्रह्मभावापन्नतया नारायणपरं ब्रह्म तत्त्वं नारायणः परः (तै० आ० १०|११|१) इत्यादिवाक्यान्यपि योजयति नारायणात् परमित् पञ्चमीसमासेऽपि कस्यचिच्छैवस्याशयं दर्शयति परन्तु नारायणोपनिषद्गतानां सर्वेषां वाक्यानां स्वारस्येनैवंप्रकारेण योजयितुमशक्यत्वान्निष्पक्षपातबुद्धिभ्य इदं व्याख्यानं न रोचिष्यत इति नराणां समूहोऽयनं यस्येति व्युत्पतीमाश्रित्य अनुवाकत्रयस्योपक्रमोपसंहारपर्यालोचनेन च परमशिवमेव नारायणपदेन गृहीत्वा प्रकृतोपासनाया अनियतविषयकत्वं वारणीयम् | उपासनाया मानसक्रियारूपतया एकस्मिन्नेव प्रतीकेऽनेकोपासनायाः शास्त्रेषु दृष्टतया दह्रोपासनाया अप्यनियतविषयकत्वे न काचित् क्षतिरित्यपि शक्यते वक्तुम् | तथा सत्याभ्यन्तरलिङ्गधारणं न सिद्ध्येदिति तु न भ्रमितव्यम् प्रथमानुवाकतृतीयानुवाकानुसारेणोपासकानामाभ्यन्तरलिङ्गधारणसिद् धेर्निष्प्रत्यूहत्वात् | देवयोरैक्येन समाधानं तु वीरशैवागमविरुद्धमित्युपेक्षितमिति बोध्यम् | चेन्न हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् | अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ||
SKइतः परं यथालेखं मूलमनुसरामः | नारायणस्येति | तथा च यः परः स महेश्वरः (तै० आ० १०|१०|३) इति महेश्वरपदमेव महांश्चासावीश्वरश्चेति योगमाश्रित्य नारायणपरकत्वेनैव कथञ्चिन्नेयमिति शङ्कितुर्भावः | निराकरोति - नेति | हृत्पुण्डरीकं विरजं विशुद्धम् (कै० उ० ६) इत्यादि हृत्पुण्डरीकं यदस्ति तस्य मध्ये इत्येवमध्याहारेण योजनीयम् | विरजं रागद्वेषादिरजोविकारशून्यम् | विशुद्धं यास्कमहर्षिणा निरुक्तकारेण - जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यति (नि० १|२) इति सूत्रेण दर्शितैः षड्भिर्भौतिकविकारैर्हीनम् | विचिन्त्य ध्यात्वा | मध्ये अर्थात् पुण्डरीकस्य | विशदं निर्मलज्योतिस्वरूपम् | विशोकं नाशादिशङ्काविरहेण स्वात्मारामतयेष्टवियोगाद्यभावेन च चिन्ताशून्यम् | अचिन्त्यं कियत्परिमाणकमिदं वस्त्वस्तीत्येवं चिन्ताया अविषयीभूतम् | कुत इत्याहाव्यक्तं जीवानामज्ञानावृतचित्ततयाऽप्रकाशम् तमेतं ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ० उ० ४|४|२२) इति श्रुतेर्निष्कामयज्ञाद्यनुष्ठानक्षपितकल्मषेतरज्ञानाविषयी- sarvavastvavyāpakatvam | etadubhayavidhāntarahitaṃ rūpaṃ yasya tathābhūtam | śivaṃ kalyāṇasvarūpam śete sarvamasminniti vyutpattyā sarvādhārabhūtaṃ vā | praśāntaṃ nirvātadīpaśikhāvadekākāram | amṛtaṃ nityam | brahmayoniṃ brahmaṇo vedasya viriñceśca tadādimadhyāntavihīnamekaṃ vibhuṃ cidānandamarūpamadbhutam | umāsahāyaṃ parameśvaraṃ prabhuṃ trilocanaṃ nīlakaṇṭhaṃ praśāntam || (6-7) iti kaivalyopaniṣadvākyena bālāgramātraṃ hṛdayasya madhye viśvedevaṃ jātavedaṃ vareṇyam (ba. u. 1)
SKयोनिं कारणं तत् प्रसिद्धम् | आदिमध्यान्तविहीनम् आदिरुत्पत्तिः मध्यं वृद्धाद्यवस्था अन्तः ध्वंसः एतत्त्रितयरहितम् | एकं सजातीयद्वितीयरहितम् | विभुं व्यापकम् | चिदानन्दम् | अत्र नपुंसकनिर्देशेनार्श-आद्यजन्ततया नित्यज्ञानसुखयोराश्रयमित्यर्थः | अरूपम् अनवयवम् | अद्भुतम् अणिमादिभिर्लोकेऽदृश्यमानैरैश्वर्यैराश्चर्यमयम् | उमासहायम् | अत्रोमापदमुकारमकाराकारैः प्रणवघटकैरेव वर्णैर्ब्रह्मविष्णुरुद्रवाचकैः शक्तिप्रधानत्वेन स्त्रीत्वविवक्षायां टाप्प्रत्ययं कृत्वा साधनीयम् | तेन मूर्तित्रयेण जगज्जन्मस्थितिप्रलयकारणीभूता शक्तिः पार्वतीरूपेण परमशिवस्य वामाङ्गस्थोमापदेनोच्यते | सा सहायाऽयोगव्यवच्छेदेन सह अयते वर्तमाना येन तं परमेश्वरम् ईश्वराणामीश्वरं स्वेतरपुरुषनिष्ठेश्वरत्वानिरूपकमित्यर्थः | प्रभुं समर्थम् | त्रिलोचनं सूर्यशशाङ्कवह्निनेत्रम् | नीलकण्ठं ब्रहाण्डानुग्रहपारवश्येन निपीतहालाहलजनितश्यामच्छविकण्ठम् भक्तवात्सल्येन कण्ठासज्जितविष्णुच्छायं वा | प्रशान्तं विक्षेपशून्यम् | कैवल्योपनिषद्वाक्येनोपक्रमोपसंहारमध्यपरामर्शशिवैकान्तिकाथर्वश् इरोवचनेन कण्ठवल्लीमन्त्रेण छान्दोग्यवाक्येनैतत्तृतीयान्तार्थचतुष्टयस्य दहरोपासनोपास्यत्वविधानेनेत्यत्रत्यविधानक्रियायामन्वयः | तदेकवाक्यतापन्नेत्यस्य छान्दोग्यवाक्येनाभेदेनान्वयः | विधानेनेति तृतीयार्थहेतुत्वस्य चानियतविषयकत्वापत्तावन्वयः | बालाग्रमात्रमिति प्रमाणे द्वयसज्द्घ्नञ् मात्र चः (पा० ५|२|३७) इत्युपक्रमोपसंहारमध्यपरामर्शशिवैकान्तिकाथर्वशिरोवचनेन अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः | ईशानो भूतभव्यस्य इति सूत्रेण मात्रचि बालाग्रपरिमाणं बालस्य केशस्य अग्रमिव सूक्ष्ममित्यर्थः | विश्वेदेवं सकलदेवस्वरूपम् | जातवेदं जाता उत्पन्ना वेदा यस्मात् तम् जातं सर्वं वस्तु वेत्ति विन्दते वा यस्तं वा | वरेण्यं वरणीयम् श्रेष्ठमिति यावत् |
SKउपक्रमोपसंहारमध्यपरामर्शशिवैकान्तिकाथर्वशिरोवचनेनेति | उपक्रमः प्रारम्भः उपसंहारः समाप्तिग्रन्थः मध्यः ग्रन्थस्य मध्यभागः एषां त्रयाणां परामर्शेन विचारेण परस्परैकवाक्यतया तात्पर्यपर्यालोचनेन शिवैकान्तिकं शिवमात्रतातपर्यकत्वेन निर्णीतं यदथर्वशिरोवचनम् तेन शिवस्यैव दहरोपासनोपास्यत्वं सिद्ध्यतीति भावः | अङ्गुष्ठमात्रः अङ्गुष्ठपरिमितः | अङ्गुष्ठपदेन सूक्ष्मतां लक्षयित्वा तेन रूपेण हृत्पुण्डरीकान्तर्वर्तिमहेश्वर एवोच्यते | पुरुषः पुंस्त्ववान् | तेन नपुंसकत्वस्त्रीत्वव्यावृत्तिः | यद्वा पृषोदरादित्वेन पुरि शेते इति त्युत्पत्त्याऽन्तर्यामी पुरुषपदार्थः | ज्योतिरिवाधूमकः | ज्योतिष्पदेन प्रज्वलद्वह्निरुच्यते | अत एवाधूमक इति विशेषणं सङ्गच्छते संयोगो विप्रयोगश्च (वा० प० २|३१५) इत्यादिना काव्यप्रकाशे (२|१९) संसर्गवद् विप्रयोगस्यापि अशङ्खचक्रो हरिः इत्यादौ विशेषावगतिहेतुत्वोक्तेः | तथा च धूमरहितप्रज्वलद्वह्निरिव निर्मलप्रकाशस्वरूप इत्यर्थः | ईशानो भूतभव्यस्येति | अत्र भव्यपदेन वर्तमानं भविष्यच्चोच्यते | ततश्च भूतभविष्यद्वर्तमानकालभवानां वस्तूनां स्वामीत्यर्थः | (कठो ४|१३) इति कठवल्लिमन्त्रेण च छागपशुन्यायेन
SKछागपशुन्यायेनेति | अयमाशयः - अग्निषोमीयं पशुमालभेत (तै० स० ६|१|११|६) इति पश्वालम्भविधौ पशुपदेन पशुसामान्यस्यैवोपादानात् पशुचोदनायामनियमोऽविशेषात् (मी० ६|८|३०) इति पूर्वपक्षसूत्रेण पशुसामान्यस्य प्राप्तिमुपन्यस्य छागो वा मन्त्रवर्णात् (मी० ६|८|३१) इति सिद्धान्तसूत्रेण छागस्य हविषो वपाया मेदसः (तै० ब्रा० ३|६|८|१) इति मन्त्रे छागरूपपशुविशेषस्य श्रुतत्वात् पश्वालम्भनविधौ सामान्यरूपेण पशोरुपादानेऽपि मन्त्रविध्योरेकवाक्यत्वानुरोधेन छाग एव पशुर्गृह्यत इति व्यवस्थापितम् | तन्न्यायेन - अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म (छा० उ० ८|१|१) इत्यादिछान्दोग्यवाक्ये यत्तच्छब्दाभ्यामुपास्यस्वरूपस्य विशेषरूपेणाप्रतीतावपि तैत्तिरीयवाक्ये हृत्पुण्डरीकान्तर्वर्त्युपासनाबोधके - यः परः स महेश्वरः (तै० आ० १०|१०|३) इति महेश्वरपदेन तदेकवाक्यतापन्नेन - अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं हृत्पुण्डरीकं विरजं विशुद्धम् (६) इति कैवल्योपनिषद्वाक्ये शिवमुमासहायं परमेश्वरं त्रिलोचनं नीलकण्ठमिति पञ्चभिः पदैः वालाग्रमात्रमित्यथर्वशिरोवाक्ये रुद्रात्मकाग्निरूढजातवेदपदेन अङ्गुष्ठमात्र इति कठवल्लीमन्त्रे ईशानपदेन विशिष्य शिवस्यैवोमापतेर्हृदयमध्ये उपास्यत्वबोधनाच्चतसृणामुपनिषदामनुरोधेन भगवदुमापतेरेव दहरोपासनोपास्यत्वं दृढं भवतीति निष्पक्षपातदृष्ट्या द्रष्टव्यमिति | नारायणस्यास्मिन् प्रकरण उल्लेखप्रयोजनं त्वनुपदमेव स्फुटीभविष्यति |
SKअथ यदिदमिति | पूर्वोक्तविद्योपदेशानन्तरं दहरविद्योपदिश्यत इति शेषः | यदिदं यद् इदं सन्निहितं ब्रह्मपुरम् आत्मस्थानं शरीरं वेश्म गृहम् दहरोऽस्मिन्नन्तराकाश इति दहरः सूक्ष्मः पापदहनक्षमो वा अस्मिन् हृदयपुण्डरीके अन्तराकाशः अन्तः मध्ये आकाशवदपरिच्छिन्नं ब्रह्म अस्तीति शेषः | तैत्तिरीयकव्याख्याने सायणोक्त्यनुसारेणात्रापि एवं सति इति शेषः करणीयः | ततश्च तस्मिन् यदन्त इत्यत्र तत्पदेन पुनरपि हृत्पुण्डरीकमेव गृह्यते | तद्वाव जिज्ञासितव्यम् (छा. उ. ८|१|१) इति छान्दोग्यवाक्येन यत्पदेन च आकाशपदाभिहितं ब्रह्मैव ग्राह्यम् | ततश्च तस्मिन् पुण्डरीक यद् अन्तः अन्तर्गतम् अन्तर्यामिस्वरूपं सदाशिवतत्त्वं तदन्वेष्टव्यमित्यर्थः | अन्वेषणमेव विवृणोति - तद्वाव जिज्ञासितव्यमिति | ज्ञातुमेष्टव्यम् विचारेण निर्णेतव्यमित्याशयः | उपासनायाः स्वरूपनिर्णयपूर्वकत्वाद् हृत्पुण्डरीके पारमेश्वरं तत्त्वं निश्चित्योपासितव्यमिति तात्पर्यम् | छान्दोग्यवाक्येन चेति | यद्यपि छान्दोग्यवाक्ये शिवासाधारणं किञ्चित्पदं नास्ति तथापि देवतान्तररूढपदस्याप्यभावे हृत्पुण्डरीकान्तर्गतोपासनाविषयककैवल्योपनिषदादिगतशिवसाधारणोमास् अहायत्रिलोचननीलकण्ठादिपदैर्हृत्पुण्डरीके शिवस्यैवोपास्यत्वनिर्णयेन तदेकवाक्यतया तस्मिन् यदन्तस्तदन्वेष्टव्यमिति छान्दोग्यवाक्यगतयत्तच्छब्दाभ्यां शिवस्यैव ग्रहीतुमौचित्यमित्यनुपदोक्तमत्रानुसन्धेयम् | च शिवस्य दहरोपासनोपास्यत्वविधानेनात्र देवतान्तरविधानेऽनियतविषयकत्वापत्तेः |
SKअनियतविषयकत्वापत्तेरिति | ननु शालग्रामे जलादौ चैकस्मिन्नेव स्थानेऽनेकदेवानां पूजादिदर्शनेन प्रतीकैक्येऽप्युपासनाभेदेनानियतविषयकत्वं न दोष इति चेन्मैवम् तत्तद्देवतैकान्तिकभिन्नभिन्नपदैरुपासनाभेदस्य निर्णीतत्वेनानियतविषयकत्वस्यादोषत्वेऽपि नियतविषयकैकोपासनाया उपपत्तिसंभवेऽनियतविषयकत्वपक्षस्य हेयत्वावश्यम्भावाद् जलादिप्रतीके भिन्नानामेव वाक्यां तत्तदुपासनाबोधकत्वेन सन्दिग्धार्थकत्वाभावान्निष्प्रत्यूहप्रवृत्तिप्रयोजकत्वोपपत्त्या तथोपगमेऽपि प्रकृते तैत्तिरीयकवाक्यस्यैकस्यैवोपास्यद्वयांशाकृष्यमाणत्वे सन्दिग्धार्थकतया प्रवर्तकत्वमेवोच्छिद्येतेति नानियतविषयकत्वं स्वीकर्तुं शक्यम् अनुवाकत्रयस्यैकोपासनाविषयकत्वाऽभिप्रायेणाऽयं दोषो बोध्यः | किञ्च उपासनाविधिस्थले उपास्योपासनोपासकानां त्रयाणामपि विधेयत्वेनोपासकाकाङ्क्षायाम् - नारायणं महाज्ञेयम् (तै. आ. १०|११|१) इत्याद्यभिधाय पद्मकोशप्रतीकाशम् (तै. आ. १०|११|२) इति दहरपुण्डरीकप्रदर्शनेन अपरिमाणे शिष्टस्य (मो. ६|७|२१) इत्यपरिमिताधिकरणन्यायेन एतावता प्रबन्धेन शिवस्यैव दहरोपासनाविषयत्वमित्युपपाद्य तत्प्रकरणपठितनारायणपदसङ्गतिमुपपादयति - किञ्चेत्यादिना | उपासकाकाङ्क्षायामिति | उपासनाया उपास्योपासकोभयसंबन्धित्वनियमेनोपनिषदन्तरैकवाक्यतयोपास्यस्वरूपन् इर्णये जाते परिशेषान्नारायणपदमुपासकस्वरूपसमर्पकमेव अन्तुमुचितमिति तद्ग्रन्थकृत्तात्पर्यम् | अत्रैव हेत्वन्तरमपि क्रोडी करोति - सन्निधिश्रुतनारायणपरित्यागेनान्यनिरीक्षणायोगात्
SKअपरिमाणे शिष्टस्येत्यादिना | आधाने श्रूयते - एका देया षड्देया द्वादश देया चतुर्विंशतिर्देया शतं देयं सहस्रं देयमपरिमितं देयम् इति | तत्रापरिमितपदे सन्देहः - किमपरिमितपदेन सन्निहितानामेकत्वादिसंख्यानां प्रतिषेधः क्रियते ? आहोस्वित् परिमाणसामान्यस्येति | तत्रेदं पूर्वपक्षसूत्रम् - अपरिमिते शिष्टस्य संख्याप्रतिषेधस्तच्छ्रुतित्वात् (मी० ६|७|२१) इति | अयमर्थः - अपरिमितपदे शिष्टस्यैकत्वादिना विहितस्यैकत्वादिसंख्यारूपपरिमाणस्य प्रतिषेध उच्यते | कुत इत्याह - तच्छ्रुतित्वादिति | तस्या एकत्वादिसंख्यायाः श्रुतित्वात् कर्मणि क्तिना श्रूयमाणत्वादित्यर्थः | प्रत्यासन्नत्वादिति यावत् | एवमेव प्रकृते पद्मकोशप्रतीकाशमित्युपास्याधिकरणे हृदये वर्ण्यमाने कस्य हृदयमिति प्रतियोग्यपेक्षायां नारायणं महाज्ञेयमिति नारायणस्य प्रत्यासन्नत्वात् तत्संबन्ध्येव ग्राह्यमिति भावः | यद्यपीदं पूर्वपक्षसूत्रम् अनियमः (मी० ६|७|२३) इत्याद्युत्तरसूत्रद्वयेनापरिगणितत्वस्यैव सिद्धन्तितत्वात् तथापि तत्रैका देया इत्यादिवाक्यमर्यादामाहात्म्यादपरिमितपदजन्यस्वारसिकप्रत्ययबलाच्च प्रत्यासत्तिन्यायबाधेऽपि तादृशबलवद्विरोधिप्रामाणाभावस्थले तस्यैव दहरपुण्डरीकप्रतियोगित्वापत्त्या स्वीयहृदये स्वस्योपास्यत्वायोगाच्च शिवस्यैव नारायणहृद्युपास्यत्वं सिद्ध्यति | न च वेदान्तविज्ञानसुनिश्चितार्थाः (तै. आ. १०|१०|३) इत्येतद्वाक्यश्रवणेन यतीनामेव हृदयपुण्डरीकप्रतियोगित्वेनान्वयः किं न स्यादिति वाच्यम् दर्शपूर्णमासप्रकरणपठित-
SKप्रकृतपूर्वपक्षसूचितप्रत्यासत्तिन्यायेन नारायणस्य हृत्पुण्डरीकप्रतियोगित्वनिर्णये न किञ्चिद्बाधकमिति भावः | वस्तुतस्त्विदमभ्युच्चयमात्रम् हृदयप्रतियोगित्वेनोपासकमात्रस्यैव ग्रहीतुमौचित्यात् | नारायणपदोत्थितशङ्कासमाधानं तु पूर्वोक्तं नरा अयनमस्येति व्युत्पत्त्या प्रज्ञाद्यणि नराणां समूहोऽयनमस्येति व्युत्पत्त्या वा आपो नारा इति प्रोक्ता आपो वै नरसूनवः | ता यदस्यायनं पूर्वं तेन नारायणः स्मृत || (१|१०) इति मनुस्मृत्युक्तदिशा नारा अयनमस्येति व्युत्पत्त्या वा यौगिकत्वमाश्रित्य शिवभगवत्परत्वमेव प्रकृते नारायणपदस्य वक्तुं शक्यमित्येवोचितम् | वैपरीत्यं तु वक्तुमशक्यम् नीलकण्ठं त्रिलोचनमुमासहायमित्यादिबहूनां पदानां रूढ्यर्थपरित्यागेनान्यार्थकत्वक्लिष्टकल्पनापेक्षया एकस्मिन् नारायणपद एव तथा कल्पनौचित्यात् | न च वेदान्तविज्ञानसुनिश्चितार्था इति | वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः | ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे || (तै० आ० १०|१०|३) समिधो यजति इतिवाक्यविहितप्रयाजानां दर्शपूर्णमासाङ्गत्ववन्नारायणप्रकरणपठितहृदयस्य नारायणसम्बन्धित्वावश्यंभावात् | अपि च ततोऽव्ययात्मा स हरिः स्वहृत्पङ्कजशायिनम् | दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम् (६२|२३) इति वामनपुराणवचनेन नारायणस्य हृदयान्तर्वर्तिप्राणलिङ्गोपासनाप्रदर्शनेन भगवद्गीतासु - तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी (भ. गी. १४|४) इति कृष्णेन स्वप्रपदनीयपुरुषं प्रदर्श्य कोऽसावित्युक्ते - उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः | यो लोकत्रयमाविश्य बिभर्त्यव्यय
SKइति दहरवाक्यादव्यवहितपूर्वमेव पठितमस्ति | यतीनामिति | तेषां विद्यावत्त्वेनोपासकत्वयोग्यतया तत्सम्बन्ध्येव हृदयं ग्राह्यमिति प्रश्नकर्तुराशयः | समिधो यजति इडो यजति बर्हिर्यजति तनूनपातं यजति स्वाहाकारं यजति (तै० सं० २|६|१|१) इति पञ्चवाक्यविहितप्रयाजानां दर्शपूर्णमासाङ्गत्ववत् प्रकरणबलेन नारायणप्रकरणपठितहृदयस्य नारायणसम्बन्धित्वं स्वीकर्तव्यमित्युत्तराशयः | नारायणेन स्वहृदयपुण्डरीके लिङ्गस्वरूपः सदाशिव उपास्यत इत्यर्थं वामनपुराणेन भगवद्गीतावाक्याच्च साधयति - ततोऽव्ययात्मेत्यादिना | यद्यपि गीतायाम् - उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः (१५| १७) इत्युक्त्वा - यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मिंल्लोके ईश्वरः | (भ. गी. १५|१७) ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति (भ. गी. १८|६१) इति स्वोपास्यपुरुषस्य हृदयान्तर्वर्तिनः शिवैकान्तिकेश्वरपदेन निर्णयकरणेन च दहरोपासनाधिकरणहृदयसंबन्धिताया नारायणस्यावश्याभ्युपेयत्वात् | अथैवमुक्तप्रणाल्या परमशिवस्य दहरोपासनोपास्यत्वसिद्धावपि तत्रत्यस्य लिङ्गरूपत्वे प्रमाणाभावान्नान्तर्लिङ्गधारणसिद्धिः? इति चेन्मैवम् हंसोपनिषदाद्यागमेषूदाहृतवामनपुराणेऽपि तस्य तद्रूपत्वावसायात् | वेदे च प्रथितः पुरुषोत्तमः || (१५|१८) इति वाक्येन स्वस्यैवोत्तमपुरुषत्वमुक्तम् तथापि श्रीकृष्णविग्रहान्तर्यामिणः परमेश्वरस्यैव तदुक्तित्वेन न कश्चिद्बिरोधः | लिङ्गरूपत्वे प्रमाणाभावादिति | गीतायामिति शेषः | वामनपुराणे तत्प्रमाणस्य दर्शितत्वात् | हंसोपनिषदिति | मा भूद् गीतायां लिङ्गरूपत्वे प्रमाणम् तथापि प्रमाणान्तरसद्भावे सप्रमाणकत्वे न किञ्चिद्धीयत इत्याशयः |
SKतथाहि - एषोऽसौ परमो हंसो भानुकोटिप्रतीकाशो येनेदं व्याप्तम् | तस्याष्टधा वृत्तिर्भवति - पूर्वदले पुण्यवृत्तिः आग्नेये निद्रालस्यादयो भवन्ति याम्ये क्रौर्यमतिः नैर्-ऋते पापे मनीषा वारुण्यां क्रीडा वायव्ये गमनादौ बुद्धिः सौम्ये रतिप्रीतिः ऐशान्ये द्रव्यादानम् मध्ये वैराग्यम् केसरे जाग्रदवस्था हृत्पुण्डरीकान्तर्वर्तिनः परमेश्वरतत्त्वस्य लिङ्गरूपत्वे वामनपुराणं प्रमाणत्वेनोपन्यस्य हंसोपनिषद्वाक्यमप्युपन्यस्यति - एषोऽसाविति | परमो हंस इति स्वरूपतः स्वच्छनीरक्षीरविवेककर्तृहंसप्रतियोगिकविवेकनिर्मलत्वसाधर्म्यादात्मविद् इ हंसत्वपरमहंसत्वव्यवहारं शास्त्रकाराः कुर्वन्ति | तस्याष्टधा वृत्तिरिति हृदयपुण्डरीकस्य द्वादश भागाः कल्प्यन्ते | अष्टसु दिक्षु अष्टदलानि | मध्यकेसरकर्णिकालिङ्गरूपाश्चत्वारो भागा दलमध्ये कल्प्यन्ते | एतेष्वात्मनस्तत्तदंशाभिमानित्वेन तत्तद्वृत्तिस्तत्तदवस्था च भवतीत्यत्रोच्यते - पूर्वदले पुण्यमतिरित्यादिना | पूर्वदलेऽभिमानलक्षणसम्बन्धे पुण्यमतिः पुण्यकरणेच्छा भवतीत्येवंरूपेणाग्रिममपि व्याख्येयम् | कर्णिकायां स्वप्नः लिङ्गे सुषुप्तिः पद्मत्यागे तुरीयम् | यदा हंसोनादे विलीनो भवति तदा तत्तुरीयातीतमपि (हं उ. २) | अत्र लिङ्गे सुषुप्तिरिति हृदयान्तर्वर्तिनः शिवस्य लिङ्गरूपत्वं स्पष्टम् | अत्रात्मगतत्रयोदशभागप्रदर्शनेऽपि तस्याष्टधा भवतीत्यष्टत्वोक्तिस्तु जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतावस्थानां वृत्तित्वव्यवहाराभावमात्रेण बोध्या | शिवस्य लिङ्गरूपत्वमिति | अन्यथा पद्ममध्ये मध्यकेसरकर्णिकातिरेकेण चतुर्थस्य कस्यचिदभावाल्लिङ्गे सुषुप्तिरिति निर्विषयं स्यादिति भावः | आगमवाक्यानि तु - आधारे कनकप्रख्यं हृदये विद्रुमप्रभम् | भ्रूमध्ये स्फटिकच्छायं लिङ्गं योगी विभावयेत् || ६|३९) इत्यादिसिद्धन्तशिखामण्यादिवचनान्यनुसन्धेयानीति |
SKअथास्यामुपनिषदि दहरोपासनाविषये नारायणस्योपासकत्वं शिवस्योपास्यत्वमिति निर्णयेन सहस्रशीर्षमित्यनुवाकगत- नारायणपरं ब्रह्म तत्त्वं नारायण परः (तै. आ. १०|११|१) इत्यादिवाक्यानि विरुद्ध्येरन्निति तु मा शङ्किष्ठाः तद्भावभावनापन्नस्य नारायणस्यानितरसाधारण- yojayituṃ śakyatvāt | ādhāre kanakaprakhyamiti | ādhāre bāhyapūjāsthāne nābhicakre vā | vidrumaprabhaṃ pravālacchāyam | anitarasādhāraṇeti | itaropāsakāpekṣayā nārāyaṇe śivaliṅgānusandhānasyātyantītkarṣaśālitvena śivabhāvāpattyā tasyāpi parabrahmatvoktirityāśayaḥ | kecit tu nārāyaṇaparaṃ brahmetyasya nārāyaṇāt paraṃ brahmetyarthaḥ | ata eva nārāyaṇaḥ paraṃ brahmetyanuktvā nārāyaṇaparaṃ brahmetyevābhihitam | tathā coktarītyā tatparatvaṃ śivasyaiveti na kaścid virodha iti prāhurityalamati-vistareṇa | evamasyāmupaniṣadi jyotirliṅgānusandhānarūpāntarliṅgadhāraṇaṃ vidhāya iṣṭaliṅgarūpabāhyaliṅgadhāraṇamapi vidhīyate - sarvaliṅgaṃ sthāpayati (tai. ā. 10|16|1) iti | kecittviti | etanmate nārāyaṇaparamityatra pañcamīsamāso mantavyaḥ |
SKसर्वलिङ्गं स्थापयतीति | निधनपतये नमः | निधनपतान्तिकाय नमः | ऊर्ध्वाय नमः | ऊर्ध्वलिङ्गाय नमः | हिरण्याय नमः | हिरण्यलिङ्गाय नमः | सुवर्णाय नमः | सुवर्णलिङ्गाय नमः | दिव्याय नमः | दिव्यलिङ्गाय नमः | भवाय नमः | भवलिङ्गाय नमः | शर्वाय नमः | शर्वलिङ्गाय नमः | शिवाय नमः | शिवलिङ्गाय नमः | ज्वलाय नमः | ज्वललिङ्गाय नमः | आत्मने नमः | आत्मलिङ्गाय नमः | परमाय नमः परमलिङ्गाय नमः | एतत् सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति पाण्मन्त्रं पवित्रम् (तै० आ० १०|१६) इति तैत्तिरीयके षोडशानुवाके पठ्यते | एषं च मन्त्राणां सायणाचार्यकृतव्याख्यानस्यानुपलम्भात् क्व एषां नियोगोऽस्तीति स्पष्टं वक्तुं न शक्यते तथापि मन्त्रलिङ्गपर्यालोचनेन नमोऽन्तानामीश्वरप्रणामेऽङ्गत्वप्राप्तौ - ऐन्द्र्या गार्हपत्यमुपतिष्ठते (मै० सं० १|५|११) इति प्रत्यक्षश्रुतिविहितगार्हपत्योपस्थानाङ्गत्वेन लिङ्गप्राप्तेन्द्रोपस्थानाङ्गत्वबाधवत् एतत्सोमस्य सूर्यस्य इति वाक्यशेषश्रुतौ पूर्वमन्त्रसमुदायपरामर्शकेनैतत्पदेन लुप्ततृतीयान्तेन सूर्यमण्डलान्तर्वर्तिनः सोमस्य उमासहितस्य सर्वस्य सर्वविधस्य सौवर्णमणिमयनार्मदादेर्लिङ्गस्य स्थापने विनियोगलाभाल्लिङ्गप्राप्तप्रणामाङ्गत्वं बाध्यत इति प्रतीयते | नन्वत्र स्थापयतीति लडन्तत्वेन लिङाद्यभावान्न विधिसंभवः? न च व्रीहीन् प्रोक्षति व्रीहीनवहन्ति (आप. श्रौ. १|१९|१) इत्यत्र लिङ्गाद्यभावेऽपि विधिप्रयोजकरूपसत्त्वेन यथा विधिसम्भवस्तद्वदत्र किं च स्यादिति वाच्यम् अत्र विधिप्रयोजकरूपाभावात् | तथाहि - विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति | तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते | (त. वा. १|२|४) इति कारिकयेदमवगम्यते यत्र प्रमाणान्तराप्राप्तस्यानेनैव विधिस्तत्रापूर्वविधिः | यथा व्रीहीन् प्रोक्षतीत्यत्र | लिङाद्यभावादिति | लिङ्लोडादीनामेव विधेयताबोधकत्वादिति भावः | विधिप्रयोजकरूपसत्त्वेनेति | अप्राप्तत्वमेव तद्रूपम् |
SKअत्यन्तमप्राप्त इति | यथा व्रीहीन् प्रोक्षतीति | पाक्षिके सतीति | यथा व्रीहीनवहन्तीति | अत्र तुषविमोकसाधनत्वेन नखदलनयोरिवावघातस्यापि यत्र प्रकृतकार्ये उभयोः पक्षतः प्राप्तावनेनैव कर्तव्यं न तेनेति विधीयते तत्र नियमविधिः | यथा व्रीहीनवहन्तीत्यत्र | तत्र चान्यत्र चेति समुच्चयप्राप्तौ यत्र विधीयते सा परिसंख्या | यथा पञ्च पञ्चनखा भक्ष्याः (वा. रा. कि. १७|३९) इत्यत्र- शशकः शल्यको गोधा खड्गी कूर्मस्तु पञ्चमः इति वचनेनैषामन्येषां च पञ्चनखानां भक्षणप्राप्तौ एते पञ्चैव पञ्चनखा भक्ष्या नेतर इति परिसंख्याविधिरिति | पक्षे प्राप्तेः | तत्र चान्यत्र चेति | यथा पञ्च पञ्चनखा भक्ष्या इत्यत्र | तेषां प्रकृते सर्वलिङ्गं स्थापयतीत्यत्र नापूर्वविधिः लिङ्गधारणस्य सर्वाननशिरोग्रीवः (३|११) इति श्वेताश्वतरोपनिषद्वाक्यप्राप्तत्वेन प्रमाणान्तराप्राप्त्यभावात् | सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः | सर्वव्यापी च भगवांस्तस्मात् सर्वगतः शिवः | इति | अस्यायमर्थः - सर्वेषां लिङ्गधारणयोग्यानाम् विधिप्रकाराणां मध्ये कस्यापि प्रकृते प्राप्तिर्नास्तीत्युपपादयति - प्रकृते सर्वलिङ्गमिति | श्वेताश्वतरोपनिषद्वाक्यप्राप्तत्वेनेति | यद्यप्येकस्यैव सन्ध्यातर्पणादिधर्मस्यानेकासु स्मृतिष्वेकस्यैवाग्निहोत्रधर्मस्यानेकासु शाखासु विधिर्दृश्यते कस्यापि स्मृत्यन्तरशाखान्तरबोधितार्थबोधकत्वेन विधित्वं न व्याहन्यते सर्वेषामेव वाक्यानां पृथक् पृथक् तत्तत्स्मृतितत्तच्छाखाध्येतारं प्रत्यज्ञातज्ञापकत्वेन विधित्वोपगमात् | एवं श्वेताश्वतरोपनिषद्वाक्येन सर्वलिङ्गं स्थापयतीत्यस्य विधित्वव्याघात आशङ्कितुं न शक्यते तथापि सामान्यविशेषभावापन्नार्थबोधकत्वेन परस्परापेक्षितार्थकत्वमेव व्यवस्थापयितुं विधित्वव्याघातशङ्कोत्थापनमिति मन्तव्यम् |
SKआननशिरोग्रीवा अधिकरणं यस्य सः सर्वाननशिरोग्रीवः धार्यमाणः सन् तत्रेष्टलिङ्गरूपेण स्थितः शिव इत्यर्थः | सर्वभूतगुहाशय इत्यस्य सर्वभूतानां गुहायां दहरपुण्डरीके शेते लिङ्गे सुषुप्तिः (हं उ. २) इति पूर्वोदाहृतहंसोपनिषत्प्राप्तलिङ्गरूपः शिवोऽन्तर्लिङ्गरूपेण स्थित इत्यर्थः | सर्वव्यापीति त्रिविधपरिच्छेदरहितः | अत एव सर्वगत इति | नन्वत्र सर्वाननशिरोग्रीवः (श्वे. उ. ३|११) इत्यस्य स्वविशेष्यभूतशिवपदेन समानविभक्तिकत्वात् तस्य चाभेद- आननशिरोग्रीवम् अधिकरणं यस्येति | प्राण्यङ्गत्वादेकवद्भावः | सर्वाननशिरोग्रीवम् अधिकरणत्वेनाऽस्ति यस्येति मत्वर्थीयाच्प्रत्ययान्तत्वाभिप्रायेणेदं व्याख्यानं बोध्यम् | बहुव्रीहिसमासत्वं तु न भ्रमितव्यम् अधिकरणपदस्याभावात् उत्तरपदलोपस्य च शाकपार्थिवादितत्पुरुषे प्रादिभ्यो धातुजस्य वा केवलं विधानात् | हंसोपनिषत्प्राप्तेति | तद्बोधितेत्यर्थः | त्रिविधपरिच्छेदरहित इति | परिच्छेदस्य तिस्रो विधाः - कालपरिच्छेदो देशपरिच्छेदो वस्तुपरिच्छेदश्चेति | कालपरिच्छेदो यथा - शतायुर्वै पुरुषः इति | देशपरिच्छेदः - शतयोजनविस्तीर्णो मकरालयः इति | वस्तुपरिच्छेदो यथा - इदं पार्थिवमिदं जलीयमिति | एतैस्त्रिविधपरिच्छेदै रहितः | एतावत्कालवृत्तिः एतावद्देशवृत्तिः एतद्वस्तुमात्रस्वरूप एवंरूपेणयो वक्तुं न शक्यते अर्थात् सार्वकालिकसर्वदेशवृत्तिसर्ववस्त्वात्मकः | शिव इत्यर्थः | अयमत्र निष्कर्षः - प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वं कालपरिच्छेदशून्यत्वम् अत्यन्ताभावाप्रतियोगित्वं देशपरिच्छेदशून्यत्वम् भेदाप्रतियोगित्वं वस्तुपरिच्छेदरहितत्वमिति | सर्वाननशिरोग्रीव इत्यत्रार्श-आद्यजन्तत्वाद्यजानान आधाराधेयभावसम्बन्धेन शिवपदार्थेऽन्वयादुक्तार्थलाभाभिप्रायं मन्यमानः शङ्कते
SKबोधनियामकत्वेन कथं भेदगर्भीकृताधिकरणताप्रतीतिरिति चेत्? मैवं मंस्थाः समानविभक्तिकयोरप्यधिकरणताप्रत्यायकत्वस्य आनन्दमयोऽभ्यासात् (१|१|१२) इत्यधिकरणे नीलकण्ठाचार्यचरणैरङ्गी-कृतत्वात् | तत्र च मयटः प्राचुर्यार्थ- नन्वत्रेति | कथमित् प्रथमान्तपदयोरभेदातिरिक्तसम्बन्धेनान्वयबोधजन- svanirūpitādheyatāyā bādhitatvād adhikaraṇādheyayorbhedasya niyamenāpekṣakatvamevādhikaraṇatāyā bhedagarbhitatvaṃ bodhyam | bhrāntasya praśnakarturjñānānusāreṇaivottaramāha - maivaṃ maṃsthā ityādinā | vastutastu sarvānanaśirogrīva ityasyārśa- आधाराधेयभावसम्बन्धेनान्वय एव नास्तीति नास्त्येवानयोः शङ्कासमाधानयोरवसरः | अच्प्रत्ययश्च षष्ठ्यर्थे कार्यः आधेयतासम्बन्धस्य वृत्त्यनियामकत्वात् | नीलकण्ठाचार्यचरणैरिति | कत्वस्वीकारेणानन्दब्रह्मणोर्धर्मधर्मिभावप्राप्तौ आनन्दो ब्रह्मेति व्यजानात् (तै. उ. ६|६) विज्ञानमानन्दं ब्रह्म इत्यादिवाक्यगतानन्दब्रह्म-पदयोरेकविभक्तिकत्वेनाभेदबोधनात् कथं धर्मधर्मिभाव इति पूर्वपक्षं प्रापय्य आनन्दो ब्रह्मणो रूपम् इत्यादिभेदबोधकवाक्या-विरोधेन आनन्दाधिकरणं ब्रह्मेति राद्धान्तितम् |
SKअयं भावः - विशिष्टाद्वैतसिद्धान्ते आनन्दमयः आनन्दो ब्रह्मणो रूपम् इत्यादौ मयटः षष्ठ्यादिदर्शनेनानन्दब्रह्मणोर्भेदस्यैवोपगमेनानन्दो ब्रह्मेति व्यजानादित्यत्र समानविभक्तिकविशेष्यविशेषणवाचकपदसमभिव्याहारस्थलेऽपि क्वचिद् भेदः प्रतीयत इत्यभ्युपगन्तव्यं भवति | यद्यपि प्रकृतेऽप्यानन्दपदस्यार्श-आद्यजन्तत्वस्य स्वीकारेण स्वाश्रये लक्षणाया एवोपगमेन वाऽभेदसम्बन्धेनान्वयेऽपि नास्ति बाधः तथापि च्छन्दसि व्यत्ययो बहुलम् इति शास्त्रेण सप्तम्यर्थेऽपि प्रथमाया विधानेनाऽनायासत एव समानविभक्तिकस्थलेऽप्याधाराधेयभावो लभ्यत इति किमर्थमर्श-आद्यजन्तताऽश्रये लक्षणा वा स्वीकरणीयेत्याशयेन नीलकण्ठाचार्यैरेवमुक्तम् | वस्तुतस्तु नीलो घट इत्यादिलोकसाधारणेनोपायेनोपपत्तौ छान्दसत्वेन व्यत्ययकल्पनया समाधानस्यान्याय्यतया तत्र च गुणवचनेभ्यो मतुपो लुगिष्ट इति महाभाष्योक्तप्रक्रियया नैयायिकोक्तलक्षणया वा आश्रयबोध भेदवादिभिरानन्दतीर्थीयादिभिरपि - यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः (मु. उ. १|१|९) इति वाक्यविरोधेन इति सर्वैरेव ग्रन्थकारैः स्वीकृतत्वेनात्रापि मत्वर्थीयाच्प्रत्ययेनाश्रयबोधः स्वीकरणीय इत्येव युक्तम् नीलकण्ठाचार्याणामुक्तिस्तूपायस्योपायान्तरादूषकत्वमात्राभिप्राया | यः सर्वज्ञः सर्वविदिति | यस्य ज्ञानमयं तपः इति वाक्याविरोधाय विज्ञानं ब्रह्म इत्यत्र विज्ञानाधिकरणं ब्रह्मेत्यानन्दतीर्थीयव्याख्यानमप्येवमेव विज्ञानं ब्रह्म (तै. उ. ३|५) इत्यत्र विज्ञानाधिकरणं ब्रह्मेत्युक्तम् | लौकिकेऽपि बहुकपालो घट इत्यादौ तथा दृष्टमिति | न चाननशिरोग्रीव इत्यस्याननशिरोग्रीवमात्राधिकरणकलिङ्गार्थकत्वे तस्मात् सर्वगतः शिव इति वाक्यविरोध इति वाच्यम् भक्तानुग्रहार्थमौपाधिकपरिछिन्नेष्टलिङ्गरूपेणानन-
SKबोध्यमिति सर्वमनवद्यम् | बहुकपालो घट इत्यादाविति | वृक्षे शाखेतिवद् लोकदृष्ट्यनुसारेणावयविन्यवयवनिरूपिताधिकरणत्वमारोप्य बहुकपालाधिकरणो घट इति बोधः | तथा दृष्टमिति | समानविभक्तिकस्थलेऽप्याधाराधेयभावसम्बन्धेनान्वयो दृष्ट इति भावः | यद्यप्यत्र बहुव्रीहिणैव तादृशबोधो निर्वहति तथाप्येकार्थीभावानङ्गीकर्तृमते उत्तरपदेऽन्यपदार्थलक्षणाया एव स्वीकारेण तत्स्थानीयकल्पान्तरस्याप्यवसरोऽस्तीत्याशयेनैवमुक्तम् | वाक्यविरोध इति | परिच्छिन्नत्वमपरिच्छिन्नत्वं चैकस्मिन्न सम्भवतीति तयोरेकत्रोक्तिर्बाधिता भवतीति भावः | भक्तानुग्रहार्थमिति | तथा च शिरोग्रीवासु सूक्ष्मज्योतिर्लिङ्गरूपेण गुहारूपदहराम्भोजे पूर्ववाक्येन स्थितिं प्रदर्श्य वास्तविकापरिच्छिन्नरूपप्रदर्शनपरः सर्वव्यापी च भगवान् इत्युत्तरवाक्यसन्दर्भ इति योजयितुं शक्यत्वात् | अत एव पूर्ववाक्यावगतपरिच्छिन्नरूपसमुच्चयार्थः सर्वव्यापी च भगवान् इत्यत्र चकारः सार्थकः | अथैवमपि - उत्तमाङ्गे गले वापि कुक्षौ वक्षस्थलेऽपि वा | तथा हस्ततले वापि प्राणलिङ्गं धरेत् सुधीः || (६|५१) इति सिद्धान्तशिखामणिवचनेन - कृत्वा निधेहि सततं लिङ्गं वस्त्रेण वेष्टितम् | मस्तके कन्धरे कुक्षौ वक्षस्यथ करस्थले || इति स्कान्दे शङ्करसंहितावचनेन च शिरोग्रीवे वस्तुतोऽपरिच्छिन्न एवेश्वरो भक्तानुग्रहार्थं स्वेच्छया परिच्छिन्नरूपं परिकल्प्याधितिष्ठतीति परिकल्पितरूपगतमेव परिच्छिन्नत्वम् अपरिच्छिन्नत्वं चात्मगतमिति न कश्चिद् विरोध इति भावः | लिङ्गधारणप्रसिद्धावप्यानने तदभावात् कथमेतदित्यनाकलित- mananāt trāyate yasmāt tasmānmantro'yamīritaḥ | vācyavācakarūpeṇa dvidhā mantraḥ prakīrtitaḥ || vācako varṇarūpaḥ syād vācyaśca paramaḥ śivaḥ | manudevatayoraikyaṃ tasmādāhurmaharṣayaḥ || iti vyāsaniruktyā
SKनमः पीठमिति प्रोक्तं शिकारं मध्यमीरितम् | वाकारं गोमुखं वृत्तं यकारं गोलकं स्मृतम् | ओङ्कारं लिङ्गमाख्यातं षड्वर्णं लिङ्गमुच्यते || इति सिद्धान्तसारावलीवचनेन नमः पीठमिति | लिङ्गस्याधारभूतं योनिमण्डलाद्यवयवकं पीठमित्युच्यते | तद्रूपत्वं मन्त्रावयवे नमःशब्दे आरोप्यते | मध्यरूपत्वं मन्त्रावयवे शिशब्दे आरोप्यते | गोमुखपदेन तदन्तर्गतं जलप्रवहणमुच्यते तद्रूपत्वं वाशब्दे आरोप्यते | गोलकपदेन लिङ्गाधारभूतं विवरं कथ्यते तद्रूपत्वेन मन्त्रावयवो यकारः कल्प्यते | ॐकारश्च लिङ्गरूपेण कल्प्यते | एवं लिङ्गमन्त्रयोरेकत्वसिद्धौ मन्त्ररूपेणाऽननवृत्तित्वात् सर्वाननशिरोग्रीवेत्यत्राननस्य शिवधारणस्थानत्वोक्तिर्न विरुद्ध्यत इति भावः | ननु - उत्तमाङ्गे गले वापि कुक्षौ वक्षस्थलेऽपि वा | तथा हस्ततले वापि प्राणलिङ्गं धरेत् सुधीः || इति वाक्येन लिङ्गधारणाधिकरणत्वेन बहूनां च पञ्चाक्षरीमन्त्रलिङ्गयोरैक्येन मन्त्ररूपेणानने लिङ्गरूपेण शिरोग्रीवयोरधिष्ठित इति वक्तुं शक्यत्वात् | अत्र च - व्रीहिभिर्यजेत यवैर्यजेत (आप. श्रौ. ६|३१|१३) इत्यत्र पुरोडाशनिष्पादनप्रयोजनस्यैकत्वेन यथा विकल्पः तद्वत् कदाचिच्छिरसि कदाचिद् ग्रीवादिषु वा धार्यमित्यवगन्तव्यम् | स्थानानामुक्तेः किं सर्वत्र तद्धारणं कर्तव्यमाहोस्वित् क्वचिदेवेत्याशङ्क्य समाधत्ते - अत्र च व्रीहिभिरिति | प्रयोजनस्यैकत्वेनेति | तथा च व्रीहियवयोः पुरोडाशनिष्पादनस्येवोत्तमाङ्गादिषु लिङ्गधारणानां मोक्षरूपस्य प्रयोजनस्यैकत्वमस्तीति भावः | समानफलकत्वादैच्छिको विकल्प एवात्र स्थानानामस्तीत्यवगन्तव्यम् | अपि चास्यामुपनिषदि क्षरं प्रधानममृताक्षरं हरः (श्वे. उ. १|१०) इति परमेश्वरमुपक्रम्य - लिंगधारणमाख्यातं द्विधा सर्वार्थसाधकम् | बाह्यमाभ्यन्तरं चैव मुनिभिर्मोक्षकाङ्क्षिभिः || आधारे हृदये वापि भ्रूमध्ये वा निरन्तरम् | ज्योतिर्लिङ्गानुसन्धानं तदेवान्तरमुच्यते ||
SKक्षरं प्रधानमिति | प्रधानं प्रकृतिपदवाच्यं साम्यावस्थापन्नं गुणत्रयं क्षरं विकारि | अमृताक्षरं हर इति | हरः परमेश्वरः अमृतम् अनश्वरम् अक्षरम् अविकारी प्रणवप्रतिपाद्यो वा | उपक्रम्य प्रस्तूय | आधारे नाभिचक्रे | अन्तर्धारयितुं लिङ्गमशक्तः शक्त एव वा | बाह्यं च धारयेल्लिङ्गं तद्रूपमिति निश्चयात् || (६|२९|३८|४७) इति सिद्धान्तशिखामणिवचनप्राप्तमुभयविधधारणमपि - तस्याभिध्यानाद्योजनात्तत्त्वभावात् (श्वे. उ. १|१०) इत्यनेन तस्याभिध्यानाद् ज्योतिर्लिङ्गरूपेणान्तरमनुध्यानात् योजनादिष्टलिङ्गरूपेण संयोगादिति प्रदर्श्य कुत्र धर्तव्यमित्याकाङ्क्षायां धारणाधिकरणप्रदर्शनार्थं प्रवृत्तमिदं सर्वाननशिरोग्रीवः (श्वे. उ. ३|११) इत्यादिवाक्यम् | तत्र गुहाशय इत्यन्तर्लिङ्गधारणस्थानं प्रदर्श्य बहिर्लिङ्गधारणस्थानाप्रदर्शने सन्दर्भविरोधो वज्रलेपायते | ज्योतिर्लिङ्गानुसन्धानं ज्योतिर्मयस्य लिङ्गस्य अनुसन्धानं स्मरणमेवान्तर्लिङ्गधारणंकथ्यत इत्यर्थः | तद्रूपमिति ज्योतिर्मयशिवस्वरूपमिति निश्चयादेतादृशं निश्चयं प्रगृह्येति ल्यब्लोपे पञ्चमी | सिद्धान्तशिखामणिवचनप्राप्तमिति | एतद्ग्रन्थस्याप्येतन्मतेऽत्यन्तमभ्यर्हितत्वेनैतदीयवचनबलात् कर्तव्यतया प्राप्तमुभयविधलिङ्गधारणं तन्मूलभूतश्रुत्यापि बोधितमस्तीति भावः | अनुध्यानात् चिन्तनात् | एवं श्रुत्या द्विविधलिङ्गधारणं विहितत्वेन व्याख्याय क्व तत् धर्तव्यमिति स्थानापेक्षायां प्रवृत्तं सर्वाननशिरोग्रीव इति वाक्यं गुहाशय इत्यंशेनान्तर्लिङ्गधारणाय बुद्धिरूपां गुहां प्रदर्श्य सर्वाननशिरोग्रीव इत्यंशेन बाह्यलिङ्गधारणस्थानं प्रदर्शयतीति सर्वं समञ्जसं भवति | अन्यथाऽपेक्षितयावदंशाकथनेन प्रकरणस्य न्यूनत्वं सर्वाननेत्यंशस्य वैयर्थ्यं चेत्येतदाशयः |
SKयद्येवं नाङ्गीकरोषि तदा सर्वाननशिरोग्रीव इत्येतन्निरर्थकमेव स्यात् | तथा हि - अनेन वाक्येन शिवस्याननशिरोग्रीवाभेदो विधीयते आहोस्वित् तद्वृत्तित्वम्? नाद्यः सर्वं वाक्यं सावधारणमिति न्यायेन तावन्मात्राभेदसिद्धौ सर्वो ह्येष रुद्र इति श्रुतिविहितसार्वात्म्य- sārthakyamuktameveti | nirarthakameva syāditi | sarvānanaśirogrīva iti viśeṣaṇena sarvānanādyabhedo vā sarvānanādivṛttitvaṃ vā bodhayituṃ na śakyate sarvātmakatvasarvagatatvayoranyatarasyāvaśyaṃ bhaṅgāpattervāmenākṣṇā paśyatītyukterevakāraṃ vināpi vāmenaiva paśyatītyavadhāraṇapratīteretādṛśasthala itaravyāvṛttilābhasyautsargikatvādityāśayaḥ | tadevoktam - sarvaṃ vākyaṃ sāvadhāraṇamiti | evamevāsmin grāme kṣatriyo dhanika ityuktau kṣatriya evātra dhanika ityādipratītirapyudāhartavyā | yadyapi devadattasya catvāraḥ putrāḥ santītyatra devadattasyaiveti na pratīyate tathāpi bādhaniścayopasthityā tadaṃśe'vadhāraṇāpratītāvapi catvāra eva santyevetyaṃśāntare'vadhāraṇapratītirastyeva | spaṣṭaṃ cedam - athedānīṃ gāmabhyāja kṛṣṇāṃ devadatā daṇḍena ityatra sarvaṃ nirdiṣṭam - gāmeva karmaṃ abhyājaiva kriyā devadatta eva kartā ityādigranthena evakāraṃ vināpi tadarthaparatvapratītisthalapradarśakamahābhāṣye | taccetyadhikaraṇatābodhakapadaṃ cetyarthaḥ | āśrayalakṣaṇādikaṃ tu vinā pramāṇamāśrayituṃ na śakyata iti bhāvaḥ | nanu sarvānanaśirogrīva ityatrādhikaraṇatābodhakapadasattve sarvametadevaṃ syāt taccātra nāstīti cenmaivam ānanaśirogrīvā adhikaraṇatvenāsya santīti matvarthīyācpratyayena etadvākyavaiyarthyaparihārāya varaṃ hi vākyavaiyarthyāt padamātrasya lakṣaṇeti nyāyena lakṣaṇayā vā tadbodhāvaśyambhāvāt | abhyupagataṃ ca pūrvatantre - ekādaśapaśoravadānāni tāni dviravadyati (tai. saṃ 6|3|10|3) ityatra pāśuke haviṣi
SKतद्बोधावश्यम्भावादिति | लिङ्गधारणाश्रयप्रतिपादनपरत्वं विना सर्वाननेति वाक्यवैयर्थ्यापत्त्या तद्वाक्यमेवाश्रयलक्षणादौ प्रमाणं भवतीति भावः | वस्तुतः - सहस्रशीर्षा पुरुषः (ऋ० १०|९०|१) इतिवत् सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् (भ०गी० १३|१३) इतिवच्च सर्वेषामाननशिरोग्रीवं यस्येति व्यधिकरणबहुव्रीहिणा सर्वात्मकत्वबोधकमेवेदमपीति बोध्यम् | अभ्युपगतं च पूर्वतन्त्र इति | वाक्यवैयर्थ्यवारणायैकपदस्य लाक्षणिकत्वं पूर्वमीमांसायां स्वीकृतमस्तीत्यर्थः | तदेव दर्शयति - prakṛtivad vikṛtiḥ kartavyeti codakenaiva dviravadānaprāptau tāni dviravadyatītya-vadānadvitvavidhāyakavākyasya vaiyarthyamiti pūrvapakṣīkṛtya yadyapi caturavattī yajamānaḥ pañcāvattaiva vapā kāryā iti vākye vapāpadasya hṛdayādisādhāraṇyena pāśukahavirmātre lakṣaṇāṃ svīkṛtya hṛdayādiṣvapi pañcāvadānasiddhyarthamupastaraṇābhidhārayoḥ satoravadānatritayaprāptau havirdviravadātavyam
SKहविषि श्रूयते - एकादश पशोरवदादानि तानि द्विरवद्यति इति | पाशुकयागे पशोरेकादशाङ्गानि तानि प्रत्येकं द्विरवद्यति तेभ्योऽवदानपूर्वकं वारद्वयं हविरवयवं गृह्णातीत्यर्थः | अस्य च कर्मणः सोमविकृतित्वेन प्रकृतिवद्विकृतिः कर्तव्येति चोदकवाक्येनैवैतदीयहविष्षु द्विरवदानस्य प्राप्ततया द्विरवद्यतीति वाक्यस्य वैयर्थ्यं भवतीति पूर्वपक्षे अस्मिन्नेव प्रकरणे - यद्यपि चतुरवत्ती यजमानः पञ्चावत्तैव वपा कार्या इति वपायाः पञ्चावदानानि विधीयन्ते | पञ्चावदानस्थले च प्रथमावदानमुपस्तरणार्थमाज्यस्य क्रियते अनन्तरावदानत्रयं हविषः क्रियते अन्तिममवदानमभिधारणार्थं पुनराज्यस्यैव क्रियते | एवं पञ्चत्वसंख्या पूर्यते | अत्र तानि द्विरवद्यतीति वाक्यवैयर्थ्यपरिहाराय वपापदस्य पाशुकहविःसामान्ये लक्षणया हृदयादिहविःष्वपि पञ्चावत्त्वं प्राप्नोति | तत्र चोपस्तरणाभिधारणाभ्यां द्वित्वसंख्याया निष्पन्नत्वेन पञ्चत्वसंख्यापूर्तये हृदयादीनां त्रिरवदानं प्राप्नोति | तद्वाधाय तानि द्विरवद्यतीत्युच्यते | तेन हविरवदानेषु पूर्वप्राप्तत्रित्वस्य द्वित्वेन बाधात् पञ्चावत्तैव वपा कार्येति प्राप्तपञ्चत्वसंख्यायाः पूर्तिरुपस्तरणार्थमवदानस्य वारद्वयकरणेनाभिधारणस्य वा वारद्वयकरणेन करणीयेति सिद्धान्तितम् | अत्र यथा तानि द्विरवद्यतीति पञ्चसंख्यापूर्तिस्तूपस्तरणादिवृद्ध्या कर्तव्येति तत्सार्थक्यं साधितमिति सर्वं सुस्थमित्यास्माकीनः पन्थाः | पूर्वाचार्यास्तु सर्वलिङ्गं स्थापयतीत्यत्र नापूर्वविधिः पाणिमन्त्रं पवित्रमिति विशेषणस्य वक्ष्यमाणरीत्या पाण्यधिकरणकपूजाप्रतिपा- traikālikā-prāptyabhāvādityūcuḥ | vākyasya vaiyarthyavāraṇāya vapāpadasya havissāmānye lakṣaṇā svīkriyate tathā sarvānanaśirogrīvetyādivākyasya vaiyarthyavāraṇāya sarvānanaśirogrīvapadasya sarvānanādyadhikaraṇake lakṣaṇā svīkartavyeti tātparyam |
SKपूर्वाचार्यास्त्विति | पाणिमन्त्रं पवित्रमिति पदद्वयं पाणौ मन्त्रः पूजनं यस्येति व्युत्पत्त्या पूयतेऽनेनेति व्युत्पत्त्या च पाण्यधिकरणपूजाकर्मत्वमशुचिकाले धारणेऽपि पवित्रत्वं च लिङ्गस्य बोधयति | प्रतिदिनं तादृशपूजनं च लिङ्गधारणं विना नोपपद्यत इत्यन्यथानुपपत्त्याऽर्थापत्तिप्रमाणेन लिङ्गधारणस्य प्राप्ततया च स्थापयतीत्यस्याऽपूर्वविधित्वं न सम्भवतीति पूर्वाचार्या ऊचुरित्यर्थः | अत्रारुचिबीजं तु पार्थिवादिलिङ्गपूजनेनापि तन्निर्वाहादन्यथानुपपत्त्यभावः | ननु मास्त्वपूर्वविधिः परन्तु - याजनाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमर्जयेत् इत्यादाविव नियमविधिरेव स्यादिति चेत्? तदपि गगनकुसुम-मालिकाधारणमनुकरोति मुक्ते विषये भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः इति शातातपस्मृत्यादिविहितभस्म-रुद्राक्षादिधारणस्येव लिङ्गधारणस्यापि पक्षतः प्राप्तौ लिङ्गधारणमेव कर्तव्यं न भस्मादीति नियमोऽङ्गीकरणीयः | सोऽप्यनिष्ट एव एतावता प्रबन्धेन सर्वलिङ्गं स्थापयतीत्यत्रापूर्वविधित्वं निराकृत्य नियमविधित्वमाशङ्कते - नन्वित्यादिना | याजनाध्यापनप्रतिग्रहैर्ब्राह्मणोधनमर्जयेत् इत्यत्र धनार्जनस्य सुखदुःखाभावहेतुतया रागादेव प्राप्ततया याजनाध्यापनप्रतिग्रहैरेवेति नियमार्थो यथाऽर्जनविधिर्भवति एवमेवायमपि लिङ्गधारणमेव कुर्यादिति नियमार्थोऽस्त्व्त्याशयः | निराकरोति - तदपि गगनकुसुमेत्यादिना | अत्र प्रकरणे नियमपदं परिसंख्यापरम् | मुक्ते विषय इति | मुक्तपुरुषरूपविषय इत्यर्थः | अयं भावः - नियमकल्पे सर्वलिङ्गं स्थापयतीत्यस्य सर्वलिङ्गमेव स्थापयतीति वचनव्यक्तिः स्यात् | तथा च मुक्तपुरुषे भस्मरुद्राक्षादिधारणानां व्यावृत्तिपरोऽयं विधिः स्यात् शरीराधिकरणकस्थापनस्य धारणरूपतायां पर्यवसानात् | तच्चानिष्टमेवापद्येत पिण्डता पिण्डविज्ञानं संसारगुणहेयता | दीक्षालिङ्गधृतिश्चैव विभूतेरपि धारणम् ||
SKरुद्राक्षधारणं चैव पञ्चाक्षरजपस्तथा | भक्तिमार्गक्रिया चैव गुरोर्लिङ्गस्य चार्चनम् || योगिनश्च तथा ह्येषां प्रसादस्वीकृतिस्तथा | एतानि शिवभक्तस्य कर्तव्यानि प्रयत्नतः || (५|२६-२९) इति सिद्धान्तशिखामणौ सर्वेषामप्यावश्यकत्वोक्तेः | विभूतिरुद्राक्षादिधारणस्यात्यन्तावश्यकत्वात् | तदेव दर्शयति - पिण्डता पिण्डविज्ञानमित्यादिना | पिण्डतापदेन पापाभाव उच्यते | पिण्डपदेन तद्वान् शुधात्मा उच्यते | सांसारिकपदार्थस्य पुत्रकलत्रादेर्हेयत्वस्य त्याज्यत्वस्य ज्ञानम् | दीक्षायाः लिङ्गस्य विभूतेः रुद्राक्षाणां धारणम् | पञ्चाक्षरजपः भक्तिमार्गक्रिया श्रवणकीर्तनाऽलयपरिमार्जनादिक्रिया गुरोर्लिङ्गस्य योगिनां चार्चनं पूजनम् एषामेव प्रसादस्वीकारश्चैतानि शिवभक्तस्यावश्यकर्तव्यानीत्यर्थः | अत्र मुक्त इत्यधिकार्युपलक्षणम् | ननु तर्हि लिङ्गधारणाकर्तव्यतानिषेधपूर्वककर्तव्यताफलकपरि- samuccayāsaṃbhave parisaṃkhyāyogāditi pūrvapakṣaḥ || nanu tarhīti | asmin prakaraṇe niyamaparisaṃkhyāpadayoḥ prayogau vaiparītyenānavadhānataḥ kṛtau itaravyāvartakākāropagame pañcaiva pañcanakhā bhakṣyā ityetatsadṛśe niyamapadasya liṅgadhāraṇākartavyatāniṣedhapūrvakakartavyatāphalakākārasvīkāre ca ṛtau bhāryāmupeyādeva (gau0 smṛ0 5|1) ityetatsādṛśyaprāptau parisaṃkhyāpadasya prayogāt | vastutaḥ pūrvatraiva parisaṃkhyāpadasya prayoga ucitaḥ samuccayāsaṃbhave parisaṃkhyāyogāditi | yadyapi parisaṃkhyāyāṃ niyame vā kutrāpi samuccayaprāpterapekṣā nāsti rāgataḥ prāptapañcapañcanakhabhakṣaṇavidhānena kadācit prāptataditarapañcanakhabhakṣaṇasya evaṃ tuṣanivṛttihetutayā svayaṃ prāptāvadhātavidhānena kadācit prāptasyopāyāntarasya nakhavidalanādeśca vyāvṛtterbodhanāt tathāpi - etāni śivabhaktasya kartavyāni prayatnataḥ (si0 śi0 5|29) ityavaśyakartavyatoktāvakartavyatāyāḥ svata eva niṣedhād niyamāderapekṣā nāstīti bhāvaḥ |
SKअत्रोच्यते - सर्वलिङ्गं स्थापयतीत्यत्रापूर्वविधिरेव | न च धारणस्य सर्वाननशिरोग्रीव इति वाक्यविहितत्वेन न त्रैकालिकाप्राप्तिरिति वाच्यम् अस्य स्वप्रतिपाद्याधिकरणप्रतियोगिलिङ्गधारणविधायकसर्वलिङ्गवाक्य- na traikālikāprāptiriti | tathā ca vidhiratyantamaprāptau iti lakṣaṇalakṣitaṃ traikālikāprāptaprāpakatvarūpaṃ vidhitvaṃ na sambhavatīti bhāvaḥ | svapratipādyādhikaraṇeti | svaṃ sarvānaneti vākyam tatpratipādyānyadhikaraṇānyānanaśirogrīvarūpāṇi teṣāṃ pratiyogisaṃbandhitanniṣṭhādhikaraṇatānirūpakaṃ yalliṅgadhāraṇam tadvidhāyakaṃ yat sarvaliṅgaṃ sthāpayatīti vākyam tatsāpekṣatvena tadbodhyādheyajñānanivartyākāṅkṣāvadarthabodhakatvena | ayaṃ bhāvaḥ - ādheyabodhanaṃ vinā kevalādhikaraṇatābodhakavākyaṃ svajanyatvena tātparyaviṣayī na cāsya svasamānādhikaraṇa-tasyābhidhyānādyojanāttattvabhāvāditi vākyavihitadhāraṇādhikaraṇanirūpakatvena na sarvaliṅgavākyasāpekṣateti vaiṣamyāt | atrānitarasādhāraṇaliṅgaśrutisattvena sthāpayatīti dhāraṇa- भूतबोधाय पर्याप्तं न भवतीत्याधेयबोधकं वाक्यान्तरमपेक्षत इति | प्रकृते सर्वाननेति वाक्यस्य सर्वलिङ्गं स्थापयतीत्यस्य च परस्परापेक्षितार्थबोधकत्वेनैकवाक्यतापन्नतया मिलित्वैवोद्देश्यीभूतबोधपर्याप्ततया च नैकेनापरस्य प्राप्तप्रापकत्वं वा वैयर्थ्यं वा नियमत्वं वा शङ्कितुं शक्यत इति भावः |
SKन चास्येति | स्वसमानाधिकरणं यत् तस्याभिध्यानाद् योजनादिति वाक्यम् तद्विहितं यद्धारणं तदधिकरणनिरूपकत्वेन | अत्र निरूपकत्वेनेत्यस्य बोधकत्वेनेत्यर्थः स्वसमानाधिकरणेत्यस्य च स्वप्रकरणस्थेत्यर्थः | इदमेवैतच्छङ्कायां बीजम् | स्वसन्निहितेन स्वोत्थापिताकाङ्क्षपूरणसम्भवे विप्रकृष्टेन तत्पूरणस्यात्यन्तानौचित्यादिति च भावः | वैषम्यादिति | तस्याभिध्यानादिति वाक्यात् सर्वलिङ्गवाक्यस्य वैलक्षण्यादित्यर्थः | वैलक्षण्यमेव दर्शयति - अनितरसाधारणेति | लिङ्गपदं शिवादितरदेवे न प्रयुज्यते एवं स्थापयतीति न च लोकवेदाधिकरणेन व्याकरणादिना गृहीतशक्तिकलौकिकशब्दानामेव वैदिकत्वनिर्णयेन पशुना यजेतेत्यादौ पदं च स्थापनादन्यत्र न प्रयुज्यते | एतत्पदद्वयस्यानितरसाधारणतया विशेषार्थबोधकस्याधेयाकाङ्क्षाशमनार्हस्योपलम्भे तस्याभिध्यानादिति सामान्यवाक्येन विलम्बेनार्थोपस्थापकेन तदपेक्षाशमनमनुचितमिति भावः | लोकवेदाधिकरणेनेति | पूर्वमीमांसायां प्रथमाध्यायस्य तृतीयपादे - laukikavaidikaśabdānāmekārthakatvaṃ siddhāntitam | tatra devā ityatra devāsaḥ bhavatītyatra bhavāti karṇairityatra karṇebhiriti laukikaprayogāpekṣayā vede vilakṣaṇa- paśvādiśabdānāṃ śaktigrahārthaṃ vyākaraṇādisāpekṣatve'pi yathā vidhāyakatvaṃ svīkṛtam tadvadihāpi kiṃ na syāditi vācyam
SKप्रयोगदर्शनेन लोकापेक्षया वैदिकशब्दानामन्यार्थत्वं भविष्यतीति पूर्वपक्षीकृत्य सिद्धान्तबोधनायेदं सूत्रं प्रणीतम् - प्रयोगेति | अयमर्थः - प्रयोगस्य कर्मानुष्ठानस्य चोदनाया विधायकवाक्यस्याभावादर्थाबोधकत्वप्रसङ्गादर्थैकत्वं लौकिकवैदिकशब्दयोरेकार्थत्वम् | हेत्वन्तरमुच्यते - अविभागात् | एकानुपूर्वीकशब्दानां मीमांसकमतेऽभेदात् | शब्दाभेदादप्यर्थाभेद उचित इति तात्पर्यम् | अयं भावः - लोके व्यवहारादिना गृहीतशक्तिकानां पदानां वेदेऽपि सत्त्वोपगमेऽर्थबोधकत्वमुपपद्यते | वैदिकशब्दानां लौकिकशब्देभ्यो भिन्नत्वभिन्नार्थकत्वोपगमे तु शक्तिग्रहाभावादर्थबोध एव तेभ्यो न स्यादिति व्यर्थान्येव वाक्यानि भवेयुरित्यवश्यमेकार्थकत्वं लौकिकवैदिकशब्दानां मन्तव्यम् | शक्तिग्रहार्थं व्याकरणादिसापेक्षत्वेऽपीति | पशुनेत्यत्र तृतीयानिष्ठा यजेतेत्यत्र यजनिष्ठा लिङ्निष्ठा च शक्तिः कर्तृकरणयोस्तृतीया विध्निमन्त्रणामन्त्रेणत्यादिशास्त्रैर्बोध्यत इति तत्सापेक्षत्वमत्र बोध्यम् | तद्व्दिहापि किं न स्यादिति | यथा पशुना यजेतेति वाक्यस्य व्याकरणसापेक्षत्वेऽपि विधित्वं न हीयते एवं सर्वाननशिरोग्रीव इति वाक्यस्य सर्वलिङ्गैः स्थापयतीति वाक्यसापेक्षत्वेऽपि विधित्वं कस्मान्न भविष्यतीत्यर्थः | पशुना यजेतेति वाक्यव्याकरणसूत्रयोरेकवाक्यत्वाभाववत् सर्वाननसर्वलिङ्गवाक्ययोरेकवाक्यत्वाभावात् व्याकरणादीनां शक्तिग्रहमात्रोपयोगित्वेन तथात्वेऽप्यत्र यावद्वाक्यार्थविचारं विना लिङ्गधारणाप्राप्तेस्तत्काल एव सर्वलिङ्गवाक्यस्य विधायकत्वासिद्धेः | किञ्चात्र- सर्वव्यापी च स्वैकवाक्यतानापन्नवाक्यप्रापितमात्रप्रापकत्वेनापूर्वविधित्वं न संभवतीति तात्पर्यम् |
SKशक्तिग्रहमात्रोपयोगित्वेनेति | वाक्यार्थविचारं विनेति | अयं भावः - पशुना यजेतेत्यत्र प्रकृतवाक्यार्थबोधोपयोगिवृत्तिज्ञानाधीनपदजन्योपस्थित्यादिघटितकार णकलापसद्भावे स्वजन्यत्वेन तात्पर्यविषयीभूतबोधे जननीये वाक्यान्तरस्य कस्याप्यपेक्षा नास्ति | सर्वाननशिरोग्रीव इत्यनेन तु स्वघटकपदजन्योपस्थित्यादिघटितकारणसमुदायसत्त्वेऽप्याधेयांशबोधा य सर्वलिङ्गवाक्यस्यापेक्षाऽस्त्येवेति | ततश्च व्याकरणेन पशुविधेः पदैकवाक्यता नास्ति | इह त्वनुष्ठानोपयोगिबोधे उभयोरेकवाक्यताया आवश्यकत्वेन स्वैकवाक्यतानापन्नाप्रापितप्रापकत्वेनापूर्वविधित्वे न किञ्चिद् बाधकमित्याह - विधायकत्वासिद्धेरिति | सर्वाननेत्येकवाक्यतानापन्नस्य सर्वलिङ्गवाक्यस्येत्यर्थः | भगवान् (श्वे. उ. ३|११) इति लिङ्गस्तुतिसमर्पणेनार्थवादत्वनिश्चये सत्यनेन तदन्यथासिद्ध्ययोगाच्च | यच्चोक्तं पाणिमन्त्रमिति विशेषणप्रतिपाद्यार्थान्यथानुपपत्त्या तस्य प्राप्तत्वेन विध्यसम्भव इति तन्न अस्यापि पृथग्भूतस्य विधायकत्वासिद्धौ मिलितस्यैव विधायकत्वमित्यर्थात् सिद्धम् | ततश्चोभयोरेकवाक्यघटकत्वान्नैकभागेनापरभास्यान्यथासिद्धि- pāṇimantramiti | mā bhūt sarvānanetyanena prāptiḥ pāṇimantramityanena tu prāptirastyeveti punarapi vidhitvānupapattistadavasthetyāśayaḥ | kathaṃ pāṇimantramityasya vidheyatāprayojakaliṅādyaghaṭitasya vidhāyakatvamityāśaṅkāyāmāha - anyathānupapattyeti | pāṇimantramityatra mantrapadena liṅgamucyate mantro'syāstīti matvarthīyācpratyayasvīkārāt pāṇau mantramiti vyutpattyā ca pāṇisthaṃ liṅgaṃ pāṇimantrapadenoktaṃ bhavati | pāṇisthatvaṃ ca liṅgasya dhāraṇaṃ vinā
SKसर्वलिङ्गवाक्येन सामान्यतो धारणविधावधिकरणविशेषसमर्पकत्वेन तदुपजीवकेन तदन्यथासिद्ध्ययोगादिति | पाणिमन्त्रमित्यस्य धार्यत्वेन मन्त्रोऽस्यास्तीति मन्त्रमिति मत्वर्थीयाच्प्रत्यये कृते मन्त्रं लिङ्गम् पाणौ मन्त्रं पाणिमन्त्रमित्यर्थः | तस्माद्धार्यं महालिङ्गं पाणिमन्त्रेति मन्त्रतः इति लिङ्गपूराणोक्तेः || नोपपद्यत इत्यर्थापत्तिप्रमाणेन धारणं कल्प्यत इति प्रश्नकर्तुराशयः | अधिकरणविशैषसमर्पकत्वेनेति | तथा च सर्वाननवाक्यवत् पाणिमन्त्रमिति विशेषणमपि पाणिरूपविशेषाधिकरणसमर्पकत्वेन सर्वलिङ्गवाक्यस्याङ्गमेव जातमिति न तेन सर्वलिङ्गवाक्यस्य वैयर्थ्यमिति भावः | तदुपजीवकेनेति | तस्य सर्वलिङ्गवाक्यस्य उपजीवकेन अङ्गभूतेन पाणिमन्त्रमिति विशेषणेन तस्य सर्वलिङ्गवाक्यस्य अन्यथासिद्धेर्वैयर्थ्यस्य अयोगादसम्भवादित्यर्थः | यद्यपि सामान्येन विशेषांश एवोपजीव्यत इति पाणिमन्त्रमिति विशेषणस्योपजीवकत्वकथनमनुचितम् तथापि फलवत्सन्निधावफलमङ्गमिति न्यायेन पाणिमन्त्रमिति विशेषणस्याङ्गत्वे सिद्धे अङ्गेन च स्वसार्थक्यायाऽङ्गिन उपजीवनादियमुपजीवकत्वोक्तिर्द्रष्टव्या | प्रष्टुः सन्तोषाय पूर्वपक्षमभ्युपगम्येदं समाधानं बोध्यम् | वस्तुतस्तु लिङ्गनिष्ठपाणिस्थत्वस्य अत्र च अग्निहोत्रं जुहोति (तै. सं १|५|९|१) इति वाक्यविहितनिरधिकरणाग्निहोत्र- liṅgasānnidhyaṃ vinā'nupapannatvena sānnidhyasya ca gṛhabhṛtyādihastasthitenāpi liṅgenopapannatvena tatsādhāraṇasānnidhyamātrasya kalpayituṃ śakyatve'pi dhāraṇasya viśeṣarūpeṇa kalpayitumaśakyatvāt pūrvapakṣa evāyaṃ nottiṣṭhatīti bodhyam | acpratyayena mantro'syāstītyetāvanmātraṃ labhyate | dhāryatveneti viśeṣāṃśaḥ kuto labhyata ityatra liṅgapurāṇaṃ pramāṇamupanyasyati - tasmāddhāryaṃ mahāliṅgaṃ pāṇimantreti mantrataḥ iti |
SKसर्वलिङ्गं स्थापयतीति वाक्यस्यापूर्वविधित्वं संस्थाप्य पाणिमन्तं पवित्रमित्यंशस्य नियमविधित्वं स्थापयति - अत्र चेत्यादिना | अत्र च पाणिमन्त्रमित्यंश इत्यर्थः | अग्निहोत्रं जुहोति (तै० सं० १|५|९|१) जुहोतीति वाक्यस्थल इव सर्वलिङ्गवाक्यविहितलिङ्गे पीठाद्यधिकरणस्येव पाण्यादेः पक्षतः प्राप्तौ पाण्यादिकमेवेति नियमो विधीयत इति | न चाहवनीयवाक्येऽधिकरणताबोधकसप्तमीविभक्तिसत्त्वेन तथात्वेऽप्यत्र तदभावात् कथमधिकरणविधित्वमिति वाच्यम् लुप्तसप्तमीस्मरणेनात्राप्यधिकरणत्वप्रतीतेः | पवित्रशब्देन यज्ञोपवीतं परमं पवित्रम् इत्यत्रेवाशुचिकालधारणप्रयुक्ताऽपावित्र्य-निरसनद्वारा पावित्र्यं विधीयते | इत्यत्राग्निहोत्रशब्दस्य नामधेयतयाऽग्निहोत्राभिन्नहोमेन स्वर्गं भावयेदित्यर्थकत्वेन निरधिकरणकहोमविधावधिकरणविशेषापेक्षायां सामान्यरूपेणाहवनीयस्यापि पक्षे प्राप्तत्वात् आहवनीये जुहोति इति वाक्येनाहवनीयमात्राधिकरणकत्वेनाग्निहोत्रहोमो नियम्यते एवं सर्वलिङ्गं स्थापयतीत्यनेनापि निरधिकरणकस्थापनैव प्रथमं विधीयते | अधिकरणविशेषापेक्षायां पीठाद्यधिकरणवत् पाण्यादेरपि पक्षतः प्राप्तौ पाणिमन्त्रमिति वाक्येन पाण्यधिकरणकमेव लिङ्गपूजनं कर्तव्यमिति नियमो विधीयत इति भावः | न चानेकविधाने वाक्यभेद इति वाच्यम् आग्नेयोऽष्टाकपालोऽमावास्यायाम् (तै. सं २|६|३|३) इत्यत्रेव अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः (त. वा. २|२|६) इति न्यायेनानेकविधाने दोषाभावादिति | नन्वेवमपि सर्वलिङ्गं स्थापयतीत्यनेन भूम्यामेव लिङ्गस्थापनं विधीयते स्थापयतीति पदस्वारस्येन सकलजनाचार-
SKन चानेकविधान इति | पूज्यमानलिङ्गे पाण्यधिकरणकत्वस्य पावित्र्यस्य चोभयोर्विधावित्यर्थः | आग्नेयोऽष्टाकपाल इति पुरोडाशमुद्दिश्याग्निदेवताकत्वस्याष्टकपालसंस्कृतत्वस्य च विधानेऽवश्यं वाक्यभेदः स्यात् | अग्निदेवताकत्वाष्टकपालसंस्कृतत्वविशिष्टपुरोडाशकरणकामावास्या- pāṇyadhikaraṇakatvaviśiṣṭapavitratvaviśiṣṭaliṅgapūjanavidhau nāsti vākyabhedaḥ | taduktam - prāpte karmaṇi nāneko vidhātuṃ śakyate guṇaḥ | aprāpte tu vidhīyante bahavo'pyekayatnataḥ || (ta0 vā0 2|2|6) iti | nanvevamapīti | vākyabhedaśaṅkāyāḥ parihāre'pītyarthaḥ | bhūmyāmeveti | bhūmiṣṭhatāmrapātrādirūpe pīṭha ityarthaḥ | sthāpayatīti padasvārasyeneti | rājavaṃśāñchataguṇān viṣayatvena ca tasyaivāvaśyakatvāt | tathā ca sati pāṇimantraṃ pavitramiti viśeṣaṇamapi pāṇinā'bhimantritaṃ ṣaḍadhvaśodhanādinā saṃskṛtam ata eva pavitramityarthakaṃ sat sārthakaṃ bhavatīti cet atra vadanti - sthāpayatītyasya bhūmiśarīrasādhāraṇyenaiva liṅgasthāpanavidhāyakatvamityavasīyate śruteḥ saṃkocāsahiṣṇutvād vinigamakābhāvācca | kiñca sandigdhe tu vākyaśeṣāt (mī. 1|4|29) iti nyāyena pāṇimantramiti vākyaśeṣa-
SKस्थापयिष्यति राघवः कलशं स्थाअयति इत्यादौ तथैव प्रतीतेरिति भावः | पाणिनाऽभिमन्त्रितमिति | पाणिस्पर्शपूर्वकमन्त्रपाठेन कृतसंस्कारमित्यर्थः | षडध्वशोधनेति | षड्न्यासात्मका अध्वानः शैवागमप्रसिद्धा वीरशैवदीक्षाविधिपुस्तके द्रष्टव्या विस्तरभयान्नेह लिख्यन्ते | तैः शोधनं मन्त्रैर्देवाश्रयत्वकरणं तेन संस्कृतम् | आदिपदेन पूजनादिर्ग्राह्यः | संकोचासहिष्णुत्वादिति | ततश्च भूम्यामेवेति न सिद्ध्यतीति भावः | तावतापि पाण्यधिकरणकपूजामात्रविषयकत्वं न लभ्यमित्याशङ्कायामाह - किञ्चेति | संदिग्धे तु वाक्यशेषादिति | अक्ताः शर्करा उपदधाति (तै० ब्रा० ३|१२|५|१२) इत्यत्र घृतेन तैलेन वा अक्ता इति सन्देहे तेजो वै घृतम् (तै० ब्रा० ३|१२|५|१२) इति वाक्यशेषे घृतस्तुतिदर्शनेन घृतेनाक्ता इति निर्णयः सिद्ध्यति | एवमिहापि सर्वलिङ्गं स्थापयतीत्यनेन स्थापनार्हाधिकरणमात्रसाधारण्येन स्थापनविधौ भूमावन्यत्र वेत्यधिकरणविशेषजिज्ञासायां पाणिमन्त्रं पवित्रमिति वाक्यशेषात् पाणावेव लिङ्गस्थापनं प्राप्नोति | बलाच्छरीर एव लिङ्गस्थापनविधायकत्वं सिद्ध्यति पुराणादौ मान्य इत्यत्र पूजार्थकत्वेन प्रसिद्धधातुनिष्पन्नस्य मननशब्दस्य पूजार्थकत्वे मननात् पूजनात् त्रायत इति मन्त्रम् पाणौ मन्त्रं पाणिमन्त्रमिति सिद्धे पाण्यधिकरणकपूजायाः स्थावरेऽप्रसक्त्या शरीरधृतलिङ्गपरत्वावसायात् | न च पाणिना मननात् त्रायत इति तृतीयासमासाश्रयणेन स्थावरेऽपि न विरोध इति वाच्यम् तथा सति सापेक्षसमासा-
SKपाणिमन्त्रमिति शब्दस्य षडध्वशोधनादिसंस्कृतार्थकत्वं शक्त्यभावेन न सिद्ध्यति | पाणौ पूजनेन त्राणकर्म इत्यर्थस्य गुरुर्मान्य इत्यादौ पूजार्थकत्वेन मन्धातोः प्रसिद्धतयाऽनायासलभ्यत्वमस्तीत्याह - pāṇyadhikaraṇakatvavaiśiṣṭyalābhavat pāṇyadhikaraṇakatvasya ca pūjāyāḥ sthāvaraliṅge bhādhitatvena śarīraghṛtaliṅgaviṣayakatvaṃ niścīyata ityāśayaḥ | idamatra bodhyam - pāṇyadhikaraṇakatvaviśeṣaṇasya sthāvaraliṅge bhādhāccharīradhṛtaliṅgamātraviṣayakatvaṃ yadyapi siddhyati tathāpi nityaliṅgadhāṇāyāḥ pramāṇāntareṇa sādhanīyatayeha pāṇyadhikaraṇapūjanamātraṃ sādhayatīti na doṣaḥ | punarapi pāṇyadhikaraṇakatvamākṣipati - na ca pāṇinetyādinā | pāṇinā pāṇidhṛtabilvapatrādinā mananāt pūjanāt trāyata ityevaṃ tṛtīyāntasamāsāśrayaṇena sthāvaraliṅge'pi sā pūjā bādhitā na bhavatīti kathaṃ tallābha ityāśayaḥ | śrayaṇena samarthaparibhāṣābhaṅgāpatteḥ | sāpekṣatve'pi gamakatvāt tathāṅgīkriyata iti cenna pāṇipadavaiyarthyāt |
SKपरिहरति - तथा सतीत्यादिना | ऋद्धस्य राज्ञः पुरुष इति विग्रहे राजन् ङस् पुरुष सु इत्यनयोः समासवारणाय सापेक्षमसमर्थवदिति वार्तिकेन सापेक्षेऽसामर्थ्यं बोध्यत इति समर्थः पदविधिरिति परिभाषाबलात् सामर्थ्यमात्रविषयकत्वात् समासविधायकं शास्त्रं तत्र न प्रवर्तते एवमेव पाणिना मननात् त्रयत इति विग्रहेऽपि मननशब्दार्हस्य पाण्यंशे सापेक्षतयाऽसामर्थ्यात् सुप्सुपेति समासो न भवेदित्याशयः | गमकत्वादिति | देवदतास्य गुरुकुलम् चैतस्य दासभार्येत्यादौ गुर्वादिपदार्थस्य देवदत्ताद्यंशे सापेक्षत्वेऽपि विग्रहबोध्यार्थबोधनक्षमत्वात् समासः स्वीक्रियते | यथोक्तं भर्तृहरिणा - सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते | वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते || (वा० प० ३| १४|४७) इति | अथवा नित्यसापेक्षस्थले पूर्वपदार्थघटितसम्बन्धेन समुदायार्थेन सहैव देवदतादिपदार्थस्यान्वयः प्रथमं विवक्षितः | अवयवार्थान्वयबोधस्तु फलतः सिद्ध्यति | अयं प्रकारोऽप्युक्तस्तेनैव यथा - समुदायेन सम्बन्धो येषां गुरुकुलादिना | संस्पृश्यावयवांस्तेनैव यथा - समुदायेन सम्बन्धो येषां गुरुकुलादिना | संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह || (वा० प० ३| १४|४८) इति एवमिहापि मननस्य क्रियारूपतया कारकांशे नित्यसापेक्षत्वान्निष्प्रत्यूहः समासो भविष्यतीत्याशङ्क्य निराकरोति - नेति | पाणिपदवैयर्थ्यादिति | न च मननात् त्रायत इत्युक्ते मानसादीनामपि करणत्वेन प्रसक्त्या तद्व्यवच्छेदार्थं पाणिपदमिति वाच्यम् शिवपूजादिकं कार्यं मनोवाक्कायकर्मभिः इत्यभियुक्तोक्त्या तेषामपि करणत्वप्राप्तेः | किञ्च तृतीयासमासाश्रयणे एकदेशान्वयापत्तिः | न च सप्तमीतत्पुरुषाश्रयणेऽप्येष दोष इति वाच्यम् पाणिपदस्य विशिष्टेनैवान्वयस्वीकारादिति |
SKसप्तम्यन्तत्वेऽधिकरणलाभार्थं तच्चरितार्थमिति भावः | न च तृतीयान्तत्वेऽपि करणलाभाय तदस्त्विति वाच्यम् देवान् यजेत इत्यादाविव पूजामात्रविधानेऽपि हस्तादेः करणत्वस्यौचित्येनैव लाभादिति | तद्व्य्वच्छेदार्थमिति | मानसदीनां व्यवच्छेदार्थमित्यर्थः | कर्ममात्रे मनःसमवधानस्यावश्यकतया पाणिनैवेति नियमेन तद्व्यवच्छेदेऽपसिद्धान्तापत्तिरित्याह - शिवपूजादिकं कार्यं मनोवाक्कायकर्मभिरिति | विशिष्टेनैवेति | न च तृतीयातत्पुरुषेऽप्येतत्समाधानं सुलभमिति वाच्यम् उपासकपाणिनिष्ठकरणतानिरूपकत्वस्य परमेश्वरकर्तृकत्राणक्रियायां बाधेन तृतीयातत्पुरुषे यच्चोक्तं पाणिनाऽभिमन्त्रितमिति | तन्न पुराणप्रसिद्धपूजावाचकस्याभि-मन्त्रितार्थकत्वे गौणार्थस्वीकारापत्तेः | न चेष्टापत्तिः ईक्षत्यधिकरण-विरोधात् | तत्र तत्तेज ऐक्षत | विशिष्टान्वयस्य बाधितत्वात् | उपासकपाण्यधिकरणकत्वं तु उपासकपाणौ पूज्यमानेश्वरकर्तृकत्राणक्रियायामपि सम्भवत्येवेति सप्तमीतत्पुरुषे विशिष्टान्वयस्य वक्तुं शक्यत्वात् | ता आप ऐक्षन्त इत्यादिगौणार्थस्वीकारेण प्रायःपाठानुरोधाद् गौणेक्षितृत्वमादाय प्रधानपरत्वमिति पूर्वपक्षे एकत्र गौणार्थक-शब्ददर्शनेऽपि सर्वत्र तथात्वायोगात् मुख्ये संभवति गौणार्थस्वीकारस्य जघन्यत्वेन च मुख्येक्षितृत्वमादाय ब्रह्मपरत्वमेवेति निर्णयादिति | प्रायःपाठानुरोधादिति | तत्तेज ऐक्षत | ता आप ऐक्षन्त इत्यारोपितेक्षणार्थकेक्षतिबहुलप्रकरणपठितत्वानुरोधादित्यर्थः |
SKअत्र वदन्तीत्यादिना सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रमित्यनेन पृथिव्यादिसाधारण्येन स्थापनं विधीयत इति शङ्कां मतान्तरेण समाधाय स्वयं समाधत्ते - अत्र ब्रूम इत्यादिना | एवमेवेदं व्याख्येयम् अव्यवहितपूर्वग्रन्थेऽसमाहितपूर्वपक्षस्याभावेन स्वारस्येन प्रतीयमानार्थस्य बाधितत्वात् | सर्वोऽयमर्थवाद इति | अनुपदमेव पठ्यमानेन सर्वलिङ्गं स्थापयतीति वाक्येन विहितस्य लिङ्गधारणस्येत्यर्थः | धार्यमाणलिङ्गस्य पूर्वोक्तैर्नमोऽन्तैर्मन्त्रैरुत्कर्षवत्त्वेन बोधनरूपस्तुतिविषयीकृतैः सर्वैरपि लिङ्गैरभेदावसायात् सर्वेषां पूर्वोक्तमन्त्राणां धारणविध्यर्थवादत्वं सिद्ध्यति | एवं विध्यर्थवादत्वसंपत्तावर्थवादभागस्य तद्विष्यकशैवागमपर्यालोचनेन धार्यमाणलिङ्गविष्यकत्वे निर्णीते विधिभागस्य तथात्वानुपगमे विध्यर्थवादयोर्वैयधिकरण्यं स्यात् | तच्चानिष्टम् विहितमेव स्तूयत इति मीमांसकसिद्धान्तादित्याशयः | एवं अत्र ब्रूमः निधनपतये नमः इत्यारभ्य एतत्सोमस्य सूर्यस्य इत्यन्तं सर्वोऽयमर्थवादः | तत्र - अखण्डमेकं लिङ्गं स्यात् तदेव गुरुणा परम् | भावप्राणेष्टभेदेन त्रिधा भूतं नगात्मजे || इष्टलिङ्गप्रकृतिके आचारगुरुलिङ्गके | पार्थिवाप्ये इति प्रोक्ते शैवागमविशारदैः || प्राणलिङ्गप्रकृतिके तेजोवायुमये तथा | शिवलिङ्गचराभिख्ये लिङ्गे द्वे वरवर्णिनि || व्योमप्रकृतिकं लिङ्गं प्रासादाख्यं महत्तरम् | आत्मतत्त्वमयं प्रोक्तं महालिङ्गं महत्तमम् ||
SKतात्पर्ये निरूपितेऽक्षरयोजनामात्रमवशिष्यते | तत् क्रियते | अवधीयताम् - अखण्डमेकं लिङ्गं स्यात्तदेव गुरुणा परमित्यादि | अत्र गुरुणेत्यनन्तरमुक्तमिति शेषः | यद्वा गुरुणा महता भेदेनेति योजनीयम् | अत्रैवं दशविधलिङ्गानि गणयितव्यानि - अखण्डलिङ्गम् १ भावलिङ्गम् २ प्राणलिङ्गम् ३ इष्टलिङ्गम् ४ पार्थिवरूपमाचारलिङ्गम् ५ आप्यरूपं गुरुलिङ्गम् ६ तेजोमयं शिवलिङ्गम् ७ वायुमयं चरलिङ्गम् ८ व्योमप्रकृतिकं प्रासादाख्यं लिङ्गम् ९ आत्मतत्त्वमेव महालिङ्गम् १० | अत्राखण्डलिङ्गं ब्रह्मस्वरूपम् | अन्येषां स्वरूपाण्युत्तरत्र स्पष्टानि | एतेषां सर्वेषां लिङ्गानां नमोऽन्तैर्दशभिर्मन्त्रैः स्तुतिः क्रियते | इति सिद्धान्तशेखरवचनेनोक्तानां दशविधलिङ्गानां नमोऽन्तैः स्तुतिर्दृश्यते | तत्रोर्ध्वलिङ्गाय नम इत्यखण्डलिङ्गमुच्यते तस्य सर्वचक्रोर्ध्वगतैकदलकपश्चिमचक्रस्थितत्वात् | हिरण्यलिङ्गाय नम इत्यनेन प्राणलिङ्गं स्तूयते - तप्तकाञ्चनसंकाशं कन्दस्थानसमाश्रितम् | योगिभिश्च सदा ध्येयं प्राणलिङ्गं विदुर्बुधाः || इति सिद्धान्तसारावलीवचनेन तस्य काञ्चनमयत्वनिश्चयात् | सुवर्णलिङ्गाय नम इतीष्टलिङ्गार्थवादः - नमः पीठमिति प्रोक्तं शिकारं मध्यमीरितम् | वाकारं गोमुखं वृत्तं यकारं गोलकं स्मृतम् || ओङ्कारं लिङ्गमाख्यातं षड्वर्णं लिङ्गमुच्यते | ऊर्ध्वलिङ्गाय नम इत्यादिभिरखण्डलिङ्गम् | तस्य कथमूर्ध्वलिङ्गशब्दबोध्यत्वमित्याशङ्कायामाह - तस्य सर्वेति | सर्वचक्रोर्ध्वगतैकदलकपश्चिमचक्रस्थितत्वेन सर्वचक्रोर्ध्वगतत्वादखण्डलिङ्गस्योर्ध्वलिङ्गत्वमिति भावः | इदं चक्रमितरचक्रेभ्यः सर्वेभ्य ऊर्ध्ववर्त्यैकदलकं च | हिरण्यलिङ्गाय नम इत्यनेन तप्तकाञ्चनसंकाशमित्यादिना वर्णितं तप्तकाञ्चनसादृश्येन विशेषितत्वाद्धिरण्यलिङ्गपदवाच्यत्वार्हं प्राणलिङ्गं स्तूयते | सुवर्णाय नम इत्यनेन च नमः शिवायोमिति मन्त्रघटकनमःशब्दपीठकषडक्षरात्मकमिष्टलिङ्गमुच्यते तस्य
SKइत्यनेन लिङ्गशरीरघटकत्वेनैव सुष्ठुत्वविशिष्टवर्णरूपत्वनिश्चयात् | दिव्यलिङ्गाय नम इत्याकाशतत्त्वाधिष्ठितप्रासादलिङ्गस्तुतिः दिवि भवं दिव्यमिति व्युत्पत्त्या तयोरभेदात् | भवलिङ्गाय नम इत्यनेन गुरुलिङ्गस्तवः क्रियते ज्येष्ठा जलमयी तत्र स्थित्युपादानरूपिणी | भवस्तदीशस्य ज्येष्ठो ज्येष्ठा तच्छक्तिरीरिता || इति जलतत्त्वाधिष्ठितगुरुलिङ्गेन भवलिङ्गाभेदात् | शर्वलिङ्गाय नम इत्याचारलिङ्गस्य- वामात्मपृथिवीतत्त्वभूतवामात्मिका यया | सृष्टिः प्रवर्तते वामा सा शर्वक्षितिमूर्तिप || इति सिद्धान्तसारावलीवाक्येन मन्त्रात्मकलिङ्गशरीरघटकत्वरूपसुष्ठुत्वविशिष्टवर्णरूपत्वात् | दिव्यलिङ्गाय नम इत्यनेन प्रसादलिङ्गस्तुतिः क्रियते तस्याकाशतत्त्वाधिष्ठितत्वेन दिवि भवमिति व्युत्पत्तिजन्यप्रतीत्यर्हत्वात् | भवलिङ्गाय नम इत्यनेन अप एव ससर्जादौ तासु बीजमवासृजत् | तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् || (म० स्मृ० १|८- sthityupādānaśaktiviśiṣṭajalatattvādhiṣṭhitaguruliṅgasya stavaḥ kriyate | bhavapadamantarbhāvitaṇyarthatayā bhāvayatītyarthakaṃ bodhyam | tadāha - jyeṣṭhā jalamayī tatra sthityupādānarūpiṇī | bhavastadīśasya jyeṣṭho jyeṣṭhā tacchaktirīritā || iti | atra jalatattvasya jyeṣṭhatvam apa eva sasarjādau (ma0 smṛ0 1|8) iti pūrvoktasṛṣṭimanusṛtya bodhyam | śarvaliṅgāya nama ityanena pṛthivītattvādhiṣṭhitamācāraliṅgaṃ stūyate | pṛthivītattvābhimānina ācāraliṅgasya śarvaliṅgābhedapratipādanāt | śivaliṅgāya nama iti śivaliṅgasya agneśca rudrarūpatvād raudrāgneyī tadīśvaraḥ | sa vai paśupatī rudro raudrī tacchaktiriṣyate || ityanena tejastvābhimāniśivaliṅgasya śivapadasthānāpannarudrapadavācyā-bhedapratīteḥ | jvalaliṅgāya nama iti caraliṅgasya - prāṇasya kālarūpatvāt kālaśaktistu vāyavī | vāyumūrtipa ugrastu sa kāla iti viśrutaḥ ||
SKइत्यनेन वायुतत्त्वाधिष्ठितचरलिङ्गस्य उग्रपदवाच्यज्वललिङ्गाभेद- ātmaliṅgāya nama iti kāraṇaśarīrādhiṣṭhitabhāva- śivaliṅgāya namaḥ jvalaliṅgāya namaḥ paramaliṅgāya namaḥ ātmaliṅgāya nama ityeṣāmapi mantrāṇāṃ śivaliṅgacaraliṅgamahāliṅgabhāvaliṅgastutirūpatvaṃ siddhāntaśekharavākyopaṣṭambhena mūla eva darśitaṃ draṣṭavyam | dīkṣākāle bāhyaliṅgadhāraṇaṃ pratyakṣam | anyeṣāṃ liṅgānāṃ bhāvanārūpeṇa dhāraṇaṃ gurūktānusāreṇa śiṣyaiḥ kriyata ityetat paddhatau śaivāgame ca spaṣṭam | sarveṣāṃ liṅgānāṃ dhāraṇaṃ sarvaliṅgaṃ sthāpayatītyanena bodhyate | ata eva sarvapadasya svārasyamiti sthādhātordhāraṇārthakatvābhyupagantṛśaivāgamasya liṅgasyeti | tathā cārthavādasya āgamoktācāraupādhikabhedabhinnaśarīra-dhṛtaliṅgaviṣayatvena sarvaliṅga sthāpayatītyasya sthāvaraliṅgavidhāyakatve vidhyarthavādayorvaiyadhikaraṇyāpattiḥ | panthā boddhavyaḥ | evamasmin prakaraṇe ādhyātmikānyeva caraliṅgānyanūdya sarvaliṅgaṃ sthāpayatītyanena sthāpanāvidheravagamyamānatayā vidhyarthavādayoḥ sāmānādhikaraṇyānurodhena śarīradhāryamāṇaliṅgaviṣayakatvameva nyāyyam | kiñca - upakramopasaṃhārāvabhyāso'pūrvatā phalam | arthavādopapattī ca liṅga tātparyanirṇaye || iti ṣaḍvidhatātparyaliṅgānāṃ madhye'saṃjātavirodhina upakramasya - vedo vā prāyadarśanāt (mī. 3|3|2) iti vedopakramādhikaraṇanyāyena balavattvena ūrdhvaliṅgāya nama ityādyupakramasya prāṇaliṅgaparatvaniścaye sarvaliṅgavākyasya śarīradhṛtaliṅgavyatiriktaviṣayatve prakaraṇavirodhaśca |
SKवेदो वा प्रायदर्शनात् (मी० ३|२|२) इति | निषादस्थपतिं योजयेत् इत्यत्र लक्षणानाश्रयणरूपोपक्रमलब्धलाघवानुरोधेन कर्मधारयमेवाश्रित्यानधिकारिण्यपि वेदः कल्प्यते एवमिहाप्युपक्रमे ऊर्ध्वलिङ्गाय नमः हिरण्यलिङ्गाय नम इत्यादिना शरीरान्तर्वर्तिप्राणलिङ्गादीनां प्रस्तूयमानतया सर्वलिङ्गवाक्यस्य स्थावरलिङ्गविषयकत्वे षड्विधलिङ्गेषु प्रबल उपक्रमो विरुध्येत | न चैतत्सोमस्य सूर्यस्येति पूर्वोक्तनमस्कारपरामर्शकैतच्छब्देन सूर्यसोमनमस्काराभिधानात् प्रकरणविभेद इति वाच्यम् उपक्रमोपसंहारयोः शिवपरत्वनिश्चयेन मध्ये न चैतत् सोमस्येति | एतत्पदेन पूर्वोक्ता नमस्कारा गृह्यन्ते | निधनपतये नम इत्यादिमन्त्रैः कृता नमस्काराः सूर्याचन्द्रमसोः सन्तीत्यर्थं भ्रान्त्या प्रतिपद्य प्रकरणविरोधं शङ्कते - न चेत्यादिना | वस्तुतः सोमस्येत्यस्योमया सोमसूर्यनमस्काराभिधाने सन्दर्भविरोधापत्त्या सोम एकेभ्यः पवते घृतमेकमुपासते (ऋ १०|१५४|१) इत्यत्रेव उमया सहितः सोम इति व्युत्पत्त्या सूर्यस्य सूर्यमण्डलान्तर्वर्तिनः सोमस्य लिङ्गरूपशिवस्येत्यर्थावश्यंभावात् | उक्तरीत्या सहितस्येत्यर्थः | सूर्यस्येत्यस्य च सूर्यमण्डलान्तर्वर्तिनः शिवस्वरूपस्य परमात्मन इत्यर्थः | तदुक्तमन्तर्यामिब्राह्मणे - य आदित्ये तिष्ठन्नादित्यमन्तरो यमयति यमादित्यो न वेद यस्यादित्यः शरीरम् (बृ० उ० ३|७|९) इति नास्ति प्रकरणविरोध इति भावः | सर्वलिङ्गवाक्यस्य शरीरधार्यलिङ्गपरत्वे- औदुम्बरो यूपो भवत्यूर्ग्वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जं पशूनाप्नोत्यूर्जोऽवरूद्ध्यै (तै. सं २|१|१|६) इत्यत्रेवार्थवादवैयर्थ्यभीत्या विधिकल्पनमपि संगच्छत इति |
SKऔदुम्बरो यूपो भवतीति | अयमर्थः - उदुम्बरवृक्षसम्बन्धी यूपः क्रियते किमर्थमित्यत आह - ऊर्ग् वै इत्यादि | वै यतः उदुम्बर ऊर्ग् रूपः बलरूपः अन्तःसार इति यावत् | पशवोऽप्यन्तःसारा भवन्ति | सारवद्वस्तुना सारवद्वस्तु प्राप्तेरौचित्याद् औदुम्बररूपेण सारवद्वस्तुना अन्तःसारान् पशून् प्राप्नोति | किमर्थमित्याह - ऊर्जोऽवरुद्ध्यै दुग्धादिद्वारा बलप्राप्त्यर्थमित्यर्थः | एतदर्थवादबलाद् औदुम्बरो यूपो भवतीत्यत्र लट्प्रत्ययसत्त्वेऽपि लिङर्थकर्तव्यतायाः कल्पनं भवति | एवं सर्वलिङ्गं स्थापयतीत्यत्र लिङ्लोटादीनामभावेऽप्युक्तानुवादबलादेव लिङ्गधारणविधिः कल्प्यते | अथैवमप्यस्य न नित्यविधित्वम् बाह्यमाभ्यन्तरं चैव मुनिभिर्मोक्षकाङ्क्षिभिः (६|२९) इति प्रागुदाहृतसिद्धान्तशिखामणिवचनेन फलश्रवणात् इति चेन्मैवम् नित्ये न नित्यविधित्वमिति | मुनिभिर्मोक्षकाङ्क्षिभिरित्यधिकारिविशेषणेन मोक्षाकाङ्क्षारह्तस्य लिङ्गधारणाप्राप्तेः काम्यविधित्वस्यैव सिद्धेरिति भावः | सन्ध्यामुपासते ये तु सततं संशितव्रताः | विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् || इत्यार्थवादिकफलश्रवणेन सन्ध्योपासनस्याऽनित्यतानापत्तेः | यदि तत्र- अनुपास्य त्रिकालेषु सन्ध्यामन्नादिभुग्भवेत् | श्वानयोनिशतं गत्वा चाण्डालः कोटिजन्मसु || इत्यकरणे प्रत्यवायस्मरणान्नित्यत्वमुच्यते प्रकृतेऽपि समानम् | भक्तस्याबिभ्रतो लिङ्गं यावत् प्राणविधारणम् | सन्ध्यामुपासत इति | प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ति इति रात्रिसत्रार्थवादोक्तप्रतिष्ठाफलस्याधिकारिविशेषणत्वेन रात्रिसत्रविधौ काम्यविधित्ववत् सन्ध्यामुपासते ये तु इत्यर्थवादोक्तविधूतपापस्य ब्रह्मलोकप्राप्तिकामस्य सन्ध्याविधावधिकारित्वप्राप्त्या सन्ध्याया अपि नित्यत्वं न सिद्ध्येत् | अनुपास्य त्रिकालेष्वित्यादिनाऽकरणे प्रत्यवायस्मरणान्नित्यत्वमिति चेत् भक्तस्याबिभ्रतो लिङ्गमित्यादिना लिङ्गाधारणेऽपि प्रत्यवायोक्तेस्तस्यापि नित्यत्वं निर्विवादं सिद्ध्यतीत्याह - प्रकृतेऽपि समानमिति |
SKश्वमांसभक्षणं तावदन्नेन रचितं भवेत् || इति वातुलादिवचनैरकरणे प्रत्यवायाभिधानात् | बिभेत्यल्पश्रुताद् वेदो मामयं प्रतरेदिति | इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत् || (म. भा. १|१|२६७- vedārtho'yaṃ svayaṃ jñātastatrājñānaṃ bhavedapi | ṛṣibhirniścite tasmin kā śaṅkā syānmahātmanām || ityuktatvenāsyāḥ śruteruktārthe upabṛṃhaṇamapyasti | tathāhi liṅgapurāṇe- vedeṣu śāstrasaṃgheṣu purāṇeṣvāgameṣu ca | brāhmaṇasya samākhyāta liṅgadhāraṇamuttamam || sarvaliṅgaṃ sthāpayatīti vidhiḥ sthāvaraliṅgasthāpanaviṣyako vā śarīre liṅgadhāraṇaviṣayako veti saṃśaye - itihāsapurāṇābhyāṃ vedārthamupabṛṃhayet (1|1|267) ityādibhāratoktibhiḥ sarvatra vedārthasaṃśaye itihāsapurāṇasahāyena nirṇayakaraṇasyaucityāt | svagṛhītaliṅgadhāraṇapakṣe'nukūlaṃ liṅgapurāṇaṃ darśayati - vedeṣu śāstrasaṃgheṣu purāṇeṣvāgameṣu ca | brāhmaṇasya samākhyātaṃ liṅgadhāraṇamuttamam || ityupakramya yajurapyāha - sarvaṃ vai liṅgaṃ sthāpayati iti ca | tasmāddhāryaṃ mahāliṅgaṃ pāṇimantreti mantrataḥ | pāṇau liṅgaṃ vinikṣipya dīkṣākāle guruḥ śivam | yena stuvati tanmantraṃ pāṇimantraṃ vadanti hi || pavitratvānmaheśasya śivasya pratipādanāt | pavitrakaraṇāt puṃsāṃ pavitramiti kathyate || ataḥ sarveṣu kāleṣu dhārayelliṅgamuttamam | gacchastiṣṭhan svapan jāgrannunmiṣannimiṣannapi || śucirvā'pyaśucirvā'pi liṅgam sarvatra dhārayet |
SKइत्यादिना | अत्र कतिपयैः श्लोकैर्लिङ्गधारणकर्तव्यतामुक्त्वा तत्र प्रमाणरूपेणेदमेव वाक्यं लिङ्गपुराणे दर्शितम् - यजुरप्याह सर्वं वै लिङ्गं स्थापयतीति | अयं लेखोऽत्रत्यलिङ्गपुराणीयवाक्यानां सर्वलिङ्गं स्थापयतीति श्रुतेश्चोपबृंह्योपबृंहणभावे निर्विवादं परमं प्रमाणं सिद्धं भवतीति द्रष्टव्यम् | एवं स्थिते उपबृंहणीभूतात्रत्यपुराणवाक्ये - पाणौ लिङ्गं विनिक्षिप्य दीक्षाकाले गुरुः शिवम् | येन स्तुवति तन्मन्त्रं पाणिमन्त्रं वदन्ति हि || पवित्रत्वान्महेशस्य शिवस्य प्रतिपादनात् | पवित्रकरणात् पुंसां पवित्रमिति कथ्यते || इति पाण्यधिकरणकपूजाकरणत्वेन पाणिमन्त्रशब्दनिर्वचनात् पाणिकरणकपूजाकाले लिङ्गधारी सदा शुद्धो निजलिङ्गं मनोहरम् || अर्चयन् गन्धपुष्पाद्यैः करपीठे समाहितः | नित्यानि कर्मवृन्दानि तथा नैमित्तिकानि च || शिवार्पणधिया कुर्यात् सम्यग्ज्ञानाभिवृद्धये || इति | स्कान्दे शङ्करसंहितायामपि - यो हस्तपीठे निजलिङ्गमिष्टं विन्यस्य तल्लिनमनःप्रचारः | बाह्यक्रियासंकुलनिस्पृहात्मा सम्पूजयत्यङ्ग स वीरशैवः || तदेव हस्ताम्बुजपीठमध्ये निधाय लिङ्गं परमात्मचिह्नम् | प्रपूजयेदैक्यधियोपचारैर्नरस्तु बाह्यान्तरभेदभिन्नैः || बाह्यपीठार्चनादेतत् करपीठार्चनं वरम् | सर्वेषां वीरशैवानां मुमुक्षूणां निरन्तरम् || पठ्यमानत्वादिविषयको विवादः पराहतो वेदितव्यः | एवं लिङ्गपुराणेन श्रुत्या च लिङ्गधारणस्य कर्तव्यत्वं व्यवस्थाप्य स्कान्दीयशङ्करसंहितावाक्येनापि तत् साधयति - यो हस्तेति | निजमिति नियमेन ध्रियमाणलिङ्गमेवेष्टलिङ्गपदेनोच्यते | तल्लीनमनःप्रचारः तस्मिन्निष्टलिङ्गे लीनो मनःप्रचारो मनसः सर्वाः क्रिया यस्य | इत्यादिना पाणिमन्त्रं पवित्रमिति वाक्यविहितपाण्यधिकरणकपूजा- na tasya sūtakaṃ vatsa prāṇaliṅgāṅgasaṃginaḥ | jananotthaṃ mṛtotthaṃ vā vidyate paramārthataḥ || jātake mṛtake vāpi na tyājyaṃ śivapūjanam |
SKइति लिङ्गधारणेन यावज्जीवदीक्षितस्याशुचिकालेऽपि शिवपूजादिकं कर्तव्यमित्युक्तम् | देवार्चनादिकं कर्म कार्यं दीक्षान्वितैः सदा | नास्त्यशौचविधिस्तेषां सूतकं च महात्मनाम् || शैवं देवार्चनं यस्य यस्य चाग्निपरिग्रहः | ब्रह्मचारियतीनां च शरीरे नास्ति सूतकम् || इत्यादित्यपूरणेऽपि तथैवाभिहितमिति | नन्वशुचिकालेऽपि शिवपूजाकरणे कर्मान्तरानुष्ठानस्य तदापत्तिः? क्रियासंकुलं क्रियासमूहः | ऐक्यधिया लिङ्गपरमात्मनोरेकात्मत्वबुद्ध्या प्राणलिङ्गाङ्गसङ्गिनः प्राणलिङ्गस्य सङ्गोऽङ्गे वर्तते यस्येति व्याख्येयम् | कर्मान्तरानुष्ठानेति | स्मार्तकर्मप्रतिबन्धकसूतकस्य शैवेष्वभावे सर्वाण्येव इति चेन्मैवम् नित्यसंकल्पितसंध्यावन्दनादिकालीनसूर्याद्युप- nityopāsanīyavaiśvadevādi-viniyuktamantrapāṭhasya darśapūrṇamāseṣṭiviniyuktavedapāṭhasya ca - nānurodho'styanadhyāye homamantreṣu caiva hi | naityake nāstyanadhyāyo brahmasatraṃ hi tatsmṛtam || (2|105- इति मनुस्मृत्यनुरोधेनाऽनध्ययनकालकर्तव्यत्वेऽपि कर्माणि प्राप्नुवन्तीति प्रश्नाशयः | समाधत्ते - नित्येति | नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् (२|१०६) इति मनुस्मृत्यनुज्ञानात् सन्ध्यावन्दनकालप्राप्तसूर्याद्युपस्थानमन्त्राणां वैश्वदेवादिमन्त्राणां दर्शपूणमासेष्टिहोममन्त्राणां चानध्याये पाठप्रचारेऽपीतरवेदाध्ययनवद् यावज्जीवसङ्कल्पितशिवपूजाया इवाशुचिकाले कर्मान्तरानुष्ठानस्याऽप्राप्तेः | न यावद् वेदाध्ययनस्य कर्तव्यत्वम् तया रीत्या यावज्जीवसंकल्पितशिवपूजाकरणेऽप्यशुचिकाले न कर्मान्तरानुष्ठानापत्तिरिति | एवं च - न तस्य सूतकं वत्स इत्यादिवाक्यमपि शिवपूजामात्रविषयकं मन्तव्यम् महाशङ्कल्पपरिपालनावश्यकत्वमेवैषामशौचनिषेधे बीजमित्याभाति |
SKनन्वास्तां तावन्नित्यत्वं पाण्यधिकरणकशिवपूजायाः तथापि वामहस्तस्यात्यन्तापकृष्टत्वेन तत्र तत्करणमयुक्तमिति चेन्न अञ्जलिना वा पिबेदखर्वेण पात्रेण इति श्रुत्या पानकरणाञ्जलिघटकत्वेन दक्षिणहस्तस्येवास्याप्युपयोगविधानेन सकलवैदिकजनावश्यकाग्नि-मुखविनियुक्ते अञ्जलौ पूर्णपात्रमानयति इति श्रुत्या पूर्णपात्राधाराञ्जलि- urasā śirasā dṛṣṭyā manasā vacasā tathā | tatra tatkaraṇamiti | vāmahastarūpe pīṭhe śivapūjākaraṇamityarthaḥ | cenneti | añjalinā pibet añjalau pūrṇapātramānayati ityādividhibhirbahuṣu padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmo'ṣṭāṅga ucyate || iti baudhāyanena rudranyāse karadvayasya paramaśivanamaskārayogyatva- शिवपूजाकरणे दोषाभावात् | कर्मस्वञ्जलिघटकत्वेन वामहस्तस्य विनियुक्तत्वेन सर्वकर्मानर्हत्वस्य वामहस्ते वक्तुमशक्यतया विहितपूजाधिकरणत्वस्याश्रद्धेयतायां मानाभावादिति भावः | ननु यद्यपि भवदुक्तरीत्या सर्वलिङ्गं स्थापयतीत्यस्य लिङ्गधारणपरत्वं सिद्ध्यति तथापि वेदार्थप्रणेतृभिर्विद्यारण्यै-स्तत्परत्वेनाव्याख्यानात् सन्देह इति चेत् तदेतद्वधिरकर्णजापमनुकरोति तैरव्याख्यातत्वेऽपि कालहस्तिदीक्षितमञ्चण पण्डिताराध्यप्रभृतिभि-स्तत्परत्वेन व्याख्यानात् | विद्यारण्यस्वामिभिस्तु प्रकृतार्थेऽनुपयोगादन्यथा व्याख्याने दोषापाताच्चोपेक्षितम् | इतरथा दुर्गामन्त्राणामपि तैरव्याख्यातत्वेन समयमततत्त्वावेदिनां शङ्कराचार्याणां दुर्गापूजाविनियोगोऽप्यसङ्गत एव स्यात् | किञ्च सकलवेदार्थधुरन्धरभगवद्बादरायणाचार्यैरेवास्याः श्रुतेरुक्तार्थानुसारेण लिङ्गपुराणादावुपबृंहितत्वेन वेदागमप्रमाणेऽत्र परशिवेनापि सिद्धान्तशिखामण्यादावुपबृंहितत्वेन च सन्देहायोगादिति सर्वमनवद्यम् |
SKविद्यारण्यैरिति | सायणाचार्यैरित्यर्थः | बधिरकर्णजापमिति | तद्वत् स्वसाध्यानुपयुक्तं भवतीत्यर्थः | उपदर्शितलिङ्गपुराणादिभिः प्रकृतमन्त्रोपबृंहकैरस्मदभिप्रेतार्थपरत्वसिद्धौ पुरुषान्तरकर्तृकान्यथाव्याख्यानस्याकिञ्चित्करत्वादिति भावः | अत्रैवोपनिषदि मन्त्रान्तरेणापि तत्सिद्धिः - ॐ नमो ब्रह्मणे धारणं मेऽस्त्वनिराकरणम् | धारयिता भूयासम् | कर्णयोः श्रुतम् | मा च्योढ्वम् | ममामुष्य ॐ (तै. आ. १०|९|१) इति | नन्वनेन मन्त्रेण न लिङ्गधारणसिद्धिः मन्त्रान्तरेणेति | ॐ नमो ब्रह्मणे धारणं मेऽस्त्वित्यादिनेत्यर्थः | धारणक्रियायाः सकर्मकत्वेन कर्मविशेषस्यापेक्षायां ब्रह्मणः सन्निहितत्वेन तस्यैव कर्मत्वेन ग्रहीतुमौचित्यात् तस्य च निरवयवतया धारणानर्हतया तदभिन्नत्वेन शास्त्रबोधितलिङ्गधारण एवायं विधिः पर्यवस्यति | धारणमेव विशिनष्टि - अनिराकरणमिति | अनादराभाववदित्यर्थः | नित्योपादेयं ब्रह्मानिराकरणपदार्थ इति स्वयं व्याख्यास्यत्यग्रे | कर्णयोः श्रुतमित्यस्य श्रुतिस्मृतिपुराणैः स्तूयमानत्वेन श्रुतमित्यर्थः | मा च्योढ्वम् | च्युङ् च्यवने | लुङो मध्यमपुरुषस्यैकवचनस्थाने व्यत्ययेन बहुवचनम् | शरीराच्युतं मा भूरित्यर्थः | ममामुष्येति सम्बन्धसामान्ये षष्ठी | परलोकं गतादपि मत्तो मा च्योढ्वमिति पूर्वेणान्वितम् | नन्वनेन मन्त्रेणेति | धारणं मेऽस्त्वित्यत्र सामान्यतः प्रतीताया धारणक्रियायाः कर्मविशेषानुपादानाल्लिङ्गमात्रविषयकत्वं न सम्भवतीति शङ्कितुराशयः | मे धारणमस्तु अहं धारयिता भूयासमिति वाक्यद्वयेऽपि विशेषसमर्पकपदाभावेन धारणमात्रप्रतीतेः | न च देवतान्तरधारणे प्रमाणाभावादाचाराभावाच्च परिशेषाल्लिङ्गधारणसिद्धिरिति वाच्यम् देवतान्तरधारणाप्रसिद्धावपि नारायणप्रतिनिधित्वेन शङ्खचक्रादिधारणस्य रामानुजमतसिद्धत्वेन प्रामाणिकत्वेन च तस्यैव धारणप्रतियोगित्वेनान्वयसम्भवात् |
SKन चानिराकरणमित्यस्योत्पादविनाशशालित्वेन निराकरणं हेयप्रपञ्चम् तन्न भवतीत्यनिराकरणम् उपादेयं ब्रह्मेत्यर्थकत्वेन परिशेषादिति | धारणक्रियायाः किञ्चित्कर्मकत्वावश्यकत्वेनाप्रसिद्ध्यादिना देवतान्तरधारणे निराकृते परिशिष्टतया लिङ्गकर्मकत्वमेव सिद्ध्यतीति भावः | नारायणप्रतिनिधित्वेनेति | नारायणस्थानीयत्वेनेति यावत् | नारायणरूपत्वबुद्ध्या शङ्खचक्रादिधारण कर्तव्यमिति रामानुजाचार्याणां मतम् | प्रामाणिकत्वेनेति प्रामाणिकतया रामानुजैः स्वीकृतत्वेनेत्यर्थः | अत एव - चक्राङ्किततनुर्यत्र न तत्र दिवसं वसेत् इत्युत्तरखण्डनग्रन्थेन न विरोधः | तस्यैव धारणान्वयेऽर्थाल्लिङ्गधारणसिद्धिरिति वाच्यम् एतादृशावयवशक्त्या निराकरणपदोपस्थाप्यत्वस्य मतान्तररीत्या नारायणस्य तद्वर्मणां च वक्तुं शक्यत्वेन तेषामपि धारणान्वयसिद्धावुक्तदोषानपायात् | किञ्च - विभूतिर्यस्य नो भाले कण्ठे रुद्राक्षमालिका | मुखे षडक्षरो मन्त्रस्तं त्यजेदन्त्यजं यथा || उद्धूलनं त्रिपुण्ड्रं च मनसापि न लङ्घयेत् | श्रुत्या विधीयते तस्मात् तत्त्यागी पतितो भवेत् || अर्थाल्लिङ्गधारणसिद्धिरिति | उत्पादविनाशशालित्वाभावरूपानिराकरणपदार्थस्य ब्रह्मण्येव सम्भवेन तदभिन्नस्य लिङ्गस्यैव धारणं प्राप्नोतीति भावः | मतान्तररीत्येति | रामानुजमतादिषु नारायणस्य शङ्खचक्रादीनां च ब्रह्मत्वोपगमेनोक्तयुक्तेः साधारण्यादिति भावः | किञ्चेति | विभूतिरुद्राक्षमालिकाषडक्षरमन्त्राणां च धारणस्य शैवसिद्धान्तेऽपि नित्यतया विहितत्वेन तेषामपि दर्शितमन्त्रोक्तधारणप्रतियोगित्वं इति भूतिरुद्राक्षधारणाकरणे प्रत्यवायश्रवणेन तयोरेव वात्र धारणप्रतियोगित्वेनान्वयः स्वीक्रियते | धारयिता भूयासमित्यत्र विध्यसम्भवश्चाशीर्लिङ्गत्वेन विधायकत्वासम्भवात् | न वा विधिप्रयोजकरूपसत्त्वम् सर्वलिङ्गवाक्येनान्यथासिद्धत्वादिति पूर्वः पक्षः |
SKअत्रोच्यते - अनिराकरणमुपादेयं यल्लिङ्गस्वरूपं ब्रह्म तद्धारयिता भूयासमित्येवार्थः स्वीक्रियते | यत्तु नारायणतद्वर्मणामप्यवयव-शक्त्याऽनिराकरणत्वमिति तदयुक्तम् सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते (म० २) इत्यथर्वशिखादिवाक्यैः - त्रयस्ते कारणात्मानो जाताः साक्षान्महेश्वरात् | पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु || ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे पुनः || (७|१|१३|१३, १५) प्राप्त्नोति | तावतापि लिङ्गधारणं न सिद्ध्यत्येव | भूयासमित्यत्राशीर्लिङ्गप्रदर्शनेन विधित्वमपि न सम्भवतीत्याह - विध्यसम्भवश्चेति | न वा विधिप्रयोजकेति | विधिप्रयोजकरूपं चाप्राप्तत्वरूपं बोध्यम् | तदेवाह - अन्यथासिद्धत्वादिति | अत्रोच्यत इति | ब्रह्मविष्णुरुद्रादीनां सदाशिवादुत्पत्तिश्रवणेन शङ्खचक्रादीनां च - चक्राङ्किततनुर्यत्र न तत्र दिवसं वसेत् इत्यादिना निन्दितत्वेन इत्यादिशिवपुराणवचनैश्च नारायणस्योत्पत्तिश्रवणेन तदीयशङ्खचक्रादेश्च - चक्राङ्किततनुर्यत्र न तत्र दिवसं वसेत् | यदि तिष्ठेन्महापापी सहस्रब्रह्महा भवेत् || अज्ञानादथवा लोभाद् रागतो वा सुदर्शनम् | धत्ते कुलघ्नं तं दृष्ट्वा सचलं स्नानमाचरेत् || इत्यादिना च निराकृतत्वेनानिराकरणपदोपस्थाप्यत्वाभावात् | विवेचयिष्यते चेदमुपरिष्टादस्माभिः | अस्य तु न निराकरणम् कारणं कारणानां धाता ध्याता कारणं तु ध्येयः इत्युत्पत्त्यभावेन नास्ति तेषामनिराकरणपदार्थत्वयोग्यतेत्युत्तरग्रन्थाशयः | इभूत्याद्याश्रितस्य पूर्वपक्षस्य तु समाधानमग्रे करिष्यति | अस्य तु न निराकरणमिति | अस्य सदाशिवस्य पूर्वोक्तनारायणजनकत्वध्येयत्वेत्युत्तरेणान्वयः | कारणानां पूर्वोक्तनारायणादिजनकत्वध्येयत्वादिप्रदर्शनेनानिराकरण- dhāraṇapratiyogitvenānvaya iti |
SKवस्तुतस्तु धारयिता भूयासमिति सामान्यतो धारणं विधाय धार्यं किमित्याकाङ्क्षायां ममामुष्य ॐ इत्योङ्कारवाच्यकेवललिङ्गस्य विधानात् तस्यैव धारणेऽन्वयः | तथा च अनिराकरणमुपादेयं वेदशास्त्रप्रतिपाद्यत्वेन कर्णयोः श्रुतम् ॐ ओङ्कारपदवाच्यं यच्छिवस्वरूपं लिङ्गम् तद्धारयिता भूयासमित्यक्षरार्थः | ननु - ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा | कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ || (ना पु १|५१| १०) ब्रह्मादीनामपि स कारणम् | धाता ब्रह्मा ध्याता ध्यानकर्ता कारणं परमकारणं परमेश्वरो ध्येय इत्यर्थः | न केवलमनिराकरणपदस्वारस्यादेव लिङ्गस्य धारणप्रतियोगित्वम् अपि तु ममामुष्य ओमिति वाक्यशेषे तस्यामेव श्रुतौ स्पष्टमेव तदुक्तमस्तीत्युपपादयति - वस्तुतस्त्वित्यादिना | इति मङ्गलार्थकत्वेन अकारो वै सर्वा वाक् (ऐ आ २|३|६) इत्यकारस्य सर्ववागन्तर्गतौङ्कारप्रकृतित्वसिद्धावकारस्य विष्णुवाचकत्वेन च न लिङ्गार्थकत्वसिद्धिरोङ्कारस्येति चेन्मैवम् अकारं ब्रह्माणं नाभौ उकारं विष्णुं हृदये मकारं शर्वं भ्रूमध्ये ओङ्कारं सर्वेश्वरं द्वादशान्ते (नृ उ ३|४) इति तापनीयोपनिषद्वाक्येन एवं तिसृभिरेवैतन्मात्राभिरखिलं त्रिधा | अभिधाय शिवात्मानं बोधयत्यर्धमात्रया || इति शिवपुराणवचनेन लिङ्गपुराणे विष्णुकृतशिवस्तोत्रे न लिङ्गार्थकत्वसिद्धिरिति | मङ्गलार्थकत्वाद् विष्णुवाचकाकारप्रकृतिकत्वाच्चोङ्कारस्येति शङ्कितुराशयः | अकारं ब्रह्माणमित्यादि तापनीयवाक्यशिवपुराणवचनाभ्यां लिङ्गपुराणविष्णुस्तोत्रादिभिश्च मात्रात्रयाधारभूतार्धमात्राभागेनौङ्कारस्य परमशिववाचकत्वबोधनाल्लिङ्गार्थकत्वं सिद्ध्यतीत्युत्तरग्रन्थाशयः | सर्वज्ञाय नमस्तुभ्यमोङ्काराय नमो नमः इत्यनेन चार्धमात्रास्वरूपौङ्कारस्य परमशिववाचकत्वाभिधानात् |
SKन चाकारप्रकृतिकौङ्कारस्य अकारवाच्यविष्णुवाचकत्वमिति वाच्यम् अशेषवाक्यानामकारप्रकृतिकत्वेन तद्वाच्येनैव वाच्यसिद्धौ शक्तिमात्रोच्छेदापत्तेः अकारो वै सर्वा वाक् (ऐ आ २|३|६) इत्यस्य ओङ्कारेण सर्वा वाक् सन्तृण्णा (छा उ २|२३|३) इतिवत् स्तावकत्वात् | अन्यथा पूर्वपूर्व- vaiparītyāpatteḥ | śaktimātrocchedāpatteriti | viṣṇvatirikte'rthe kasyāpi padasya śaktirna siddhyediti bhāvaḥ | kā tarhyakāro vai sarvā vāgityasya gatirityata āha - stāvakatvāditi | santṛṇṇetyasya vyāptetyarthaḥ | prakṛtitvena layādhiṣṭhānatvena ca tisṛṇāṃ pūrvāsāṃ mātrāṇāmardhamātrāyāṃ līnatvenārdhamātrāvācya- paramātmatattvamātravācakatvaṃ tāsāmapi siddhyedityāha - vaiparītyāpatteriti | ata eva maṅgalārthakatvamapi siddhyati samedhayati śaṃ nityaṃ sarvārthānāmupakrame | śivamicchanmanuṣyāṇāṃ tasmād devaḥ śivaḥ smṛtaḥ || (ma bhā 7| 173|90) samā bhavanti me sarve dānavāśca surāśca ye | śivo'smi sarvabhūtānāṃ śivatvaṃ tena me surāḥ || (ma0 bhā0 8|2|3- इति कर्णपर्वणि शिवपदनिरुक्त्या शिवस्य सर्वमङ्गलप्रदत्वनिश्चयात् | न चौङ्कारस्य शिववाचकत्वेऽपि लिङ्गपरत्वे किमायातमिति वाच्यम् लिङ्गे सुषुप्तिरिति पूर्वोदाहृतहंसोपनिषद्वाक्येन शिवस्यैव लिङ्गरूपत्वावसायात् ओङ्कारं लिङ्गमाख्यातमित्यागमवचनेन साक्षादेव तत्परत्वाच्च | यच्चोक्तं भूतिरुद्राक्षयोरेव धारणेऽन्वय इति तत्र विकल्पयामः - प्राधान्येनान्वयो वा लिङ्गधारणनान्तरीयकत्वेन वा? ओङ्कारश्चाथशब्दश्च (ना० पु० १|५१|१०) इत्युक्तमोङ्कारस्य मङ्गलार्थकत्वं तु शिववाचकत्वेऽत्यन्तमनुकूलमित्याशयेनाह - समेधयति शमित्यादिना | मङ्गलवर्धकत्वात् मङ्गलप्रदत्वात् मङ्गलरूपत्वाच्च शिवस्य तदर्थकौङ्कारे माङ्गलिकत्वस्यात्यन्तमौचित्यात् |
SKकिमायातमिति | ओङ्कारस्य लिङ्गपरत्वं न सिद्ध्यतीति भावः | लिङ्गे सुषुप्तिरिति | हृत्पुण्डरीकावयवदलेषु चरतो जीवस्य लिङ्गप्राप्तौ परमात्मलयापरपर्यायायाः सुषुप्तेः प्रदर्शनाल्लिङ्गस्य परमात्मरूपत्वावसायात् तथा न शङ्क्यमिति भावः | भूतिरुद्राक्षधारणस्य लोकशास्त्रसिद्धतया तयोरेव धारणप्रतियोगित्वं कस्मान्नेति पूर्वमाशङ्कितं तन्निराकरोति - यच्चोक्तमित्यादिना | नाद्यः तदुपस्थापकपदाभावात् | नहि भूतिरूद्राक्षोपस्थापक ओङ्कार इति कुत्रापि प्रसिद्धम् | न द्वितीयः इष्टापत्तेः | केचित् तु - अनिराकरणमित्यनेन भूतिरुद्राक्षयोर्ग्रहणम् ओमिति लिङ्गस्य | तथा च त्रयाणामपि धारणे प्राधान्येनान्वय इत्याहुः | यदप्युक्तम् - भूयासमित्यत्राशीर्लिङ्गत्वेन न विधिसंभव इति तन्मन्दम् मेधावी भूयासम् (ऋ० खि० १०|१५१|६) अहमेकः प्रथममासम् (अ० शिर० १) इत्यत्रेव तत्संभवात् | न च तत्र विधिप्रयोजकरूपसत्त्वेन तत्संभवेऽप्यत्र तदभावान्न विधिसंभव इति वाच्यम् अत्रापि धारयिता भूयासम् (तै० आ० १०|९|१) इति विहित लिङ्गधारणं सर्वलिङ्गं स्थापयति (तै० आ० १०|१६|१) इत्यनेनानूद्य पाणिमन्त्रमित्यधिकरणमात्रविधिरित्यङ्गीकारेऽन्यथा- liṅgavācakamomiti padamasti bhūtirudrākṣavācakaṃ tu kimapi nāstītyāha - padābhāvāditi | iṣṭāpatteriti | aviruddhoktinirākaraṇaprayojanābhāvāditi tātparyam | anyathāsiddhyabhāveneti | sarvaliṅgaṃ sthāpayatītyanena vihitaliṅgadhāraṇasya prāptatvādaprāptatvarūpavidhitvaprayojakarūpaṃ nāstīti bhavadabhiprāyaḥ paraṃ dhārayitā bhūyāmiti vihitaliṅgadhāraṇaṃ sarvaliṅgaṃ sthāpayatītyanenānūdya pāṇau mantramityadhikaraṇamātravidhāne vidhitvaprayojakarūpamastyeveti pareṇocyata ityālocanīyam | medhāvī bhūyāsam (ṛ0 khi0 10|151|6)
SKआस्तां वा तावदयमर्थवादः तथापि न लिङ्गधारणपरत्वं हीयते कर्णयोः श्रुतमनिराकरणम् (तै० आ० १०|९|१) इत्यादिना तस्यैव स्मृतिसमर्पणात् उक्तरीत्या दहरं विपाप्मम् (तै० आ० १०|१०|२३) इत्यस्य सर्वलिङ्गं स्थापयति (तै० आ० १०|१६|१) इत्यस्य च बाह्याभ्यन्तरलिङ्गधारणपरत्वेन तत्प्रकरणगतस्य नमो ब्रह्मणे इत्येतस्य तदन्यपरत्वायोगाच्चेत्यन्यत्र विस्तारः | उपबृंहितं चैतदेवमेव ब्रह्माण्डपुराणे - नमोऽस्तु ब्रह्मणे तुभ्यमाचार्याय महात्मने | तन्निराकरणं विश्वं जन्यत्वान्मृत्यु नैव हि || इति मेधायाः प्रार्थ्यमानत्वेऽपि पदसामर्थ्यरूपलिङ्गेनानेन मन्त्रेणात्मानं मेधाविनं कुर्यादिति विधेः कल्पनवत् अहं धारयिता भूयासम् (तै० आ० १०|९|१) इत्यत्र लिङ्गबलेनैवानेन मन्त्रेण धारणं कुर्यादिति विधेः कल्पनं भविष्यतीति तात्पर्यम् | अहमासमित्यत्र विधित्वशङ्कागन्धोऽपि नास्ति तथा पीश्वर एव सनातनत्वेन चिन्तनीय इति विधिर्यथा कल्प्यते तद्वदिति भावः | वैपरीत्येऽपि नास्ति काचित् क्षतिरित्याह - आस्तां तावदिति | तथापीति | अस्मिन् कल्पेऽनिराकरणत्वप्रणवरूपत्वबोधनेन धृतलिङ्गस्य गुणस्तुत्योर्लाभादर्थवादत्वं गुणविधित्वं च बोध्यम् | तदन्यपरत्वेति | प्रकरणबलान्नमो ब्रह्मण इति नमस्कारोऽपि लिङ्गरूपब्रह्मोद्देश्यक एव | उपबृंहितमिति | विस्तरेण व्याख्यातमित्यर्थः | मृत्युनेति | जातस्य मरणं ध्रुवम् इति नियमाज्जन्यं यावद्विश्वं मृत्युना निराक्रियते | ब्रह्म तु अनिराकरणं ब्रह्म कारणत्वाच्चिरन्तनम् | अनिराकरणं मेऽस्तु धारणं देशिकोत्तम || वेदशास्त्रपुराणेषु प्रसिद्धं कर्णयोः श्रुतम् | अहं धारयिता देवो भूयासं सर्वकारणम् || ब्रह्मविष्ण्वादयो देवाः प्रसिद्धाश्च तथा श्रुताः | ते निराकरणाः सर्वे मृत्युना सर्वशत्रुणा || मे निराकरणास्त्वेते नहि धार्य्याः कदाचन | नाहं धारयिता देवान् भूयासं मज्जतः सुरान् ||
SKन शक्नुवन्ति मां तर्तुं मज्जन्तं मृत्युसागरे | ऊर्ध्वं ममेदम्ॐलिङ्गं मां चामुष्य समाश्रय || इति | कारणत्वादर्थाद् मूलकारणत्वान्न केनापि निराक्रियते | तस्मात् तदेवानिराकरणमित्युच्यते अन्यत् सर्वं निराकरणमित्युच्यते | तेनाहं ब्रह्मण एव धारयिता भूयासं नान्येषां देवानामित्यर्थः | अत्र हेतुमाह - मज्जतः सुरानिति | संसारे स्वयं मग्नाः सुरा अन्योद्धरणं कर्तुं कथं शक्ष्यन्तीति तात्पर्यम् | अत्र देवान् सुरानिति पौनरुक्तिपरिहारः - वारुणीग्रहणात् सुराः (१|४५|३८) इति वाल्मीकिरामायणोक्तेः सुरशब्दस्य यौगिकत्वाश्रयणेन करणीयः | मां चामुष्य समाश्रयेति देशिकं प्रति प्रार्थनेयम् | अमुष्य ओङ्कारलिङ्गात्मकस्य समाश्रयणं मां कारयेत्यर्थः | स्कान्दे कुमारसंहितायां यात्राखण्डे- महातपस्विनां चैव यतीनां योगिनां तथा | शाम्भवानां द्विजातीनां शैवानां लिङ्गधारिणाम् || महापाशुपतानां च मन्नामव्रतधारिणाम् | मृत्युञ्जयरतानां च ब्राह्मणानां महात्मनाम् || पञ्चाक्षररतानां च मत्प्रीत्या द्विजसेविनाम् | सर्वेषामपि सिद्धानां नित्यं देयं गिरीश्वर || लिङ्गधारणकं नाम व्रतं माहेश्वराभिधम् | ये धारणं प्रकुर्वन्ति ते यान्ति शिवमन्दिरम् || व्रतं पाशुपतं नाम शिवलिङ्गार्चनं शुभम् | शाट्कालिकं त्रिकालं वा एककालं महेश्वरम् || ये पूजयन्निविप्रर्षे ते यान्ति शिवमन्दिरम् | इत्यादीन्युक्तार्थोपोद्बलकान्यनुसन्धेयानीति | तैत्तिरीयशाखायामेव - यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्योऽध्यमृतात् संबभूव | स मेन्द्रो मेधयास्तृणोतु अमृतस्य देवधारणो भूयासम् || यश्छन्दसामृषभ इति | यद्यपि पूर्वोऽयं च मन्त्रोऽधीतवेदस्याविस्मरणाय धारणाशक्तिप्रार्थनाभिप्रायकः तथापि पुराणेषु भगवता वेदव्यासेन लिङ्गधारणपरत्वेनापि व्याख्यातत्वात् तत्राप्यस्य तात्पर्यमवश्यं मन्तव्यम् | यश्छन्दसामृषभ इति | वेदानां ऋषभः स्वामी कर्तृत्वेन प्रतिपाद्यत्वेन च शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा |
SKकर्णाभ्यां भूरि विश्रुतम् | ब्रह्मणः कोशोऽपि मेधया पिहितः श्रुतं मे गोपाय (तै० आ० ७|४|१) इति मन्त्रेणापि तदेव सिद्ध्यति | देवधारणो भूयासम् (तै० आ० ७|४|१) विश्वरूपः सर्वान्तर्यामी | छन्दोभ्योऽध्यमृतात् सम्बभूवेति | अमृतात् मोक्षार्थम् फलस्य हेतुत्वविवक्षया पञ्चमी अध्ययनेन वसतीत्यत्र तृतीयावत् | छन्दोभ्योऽधिसम्बभूव | आधिक्येन ज्ञापित इत्यर्थः | स मेन्द्रो मेधया स्तृणोतु | स इन्द्र ऐश्वर्यवान् परमेश्वरः मेधया धारणाख्यया बुद्ध्या मा मां स्तृणोतु आच्छादयतु योजयत्विति यावत् | अमृतस्य देवधारणो भूयासम् | तादर्थ्यस्य सम्बन्धत्वेन विवक्षायां षष्ठी | मोक्षार्थं देवस्य लिङ्गात्मकशिवस्य धारणो धारणकर्ता भूयासं भवानि | शरीरं विचर्षणं दृढं भूयादित्यर्थः | जिह्वा मे मधुमत्तमा प्रियवादिनी भूयात् | कर्णाभ्यां भूरि विश्रुतं बहु विश्रुतं विशेषरूपेण श्रुतं भूयादिति | ब्रह्मणः कोषोऽसि वेदस्याधारोऽसि | मेधया धारणाशक्त्या पिहितो रक्षितो वेदो मम यथा भवेत् इत्यत्र देवशब्दस्य तं देवतानां परमं च दैवतम् (श्वे० उ० ६| ७) इति तस्माद् देवः शिवः स्मृतः (म० भा०) इति च परमशिवे प्रयोगदर्शनाद् देवतान्तरधारणविधायकप्रमाणाभावादाचाराभावाच्च धारणशब्दस्य कर्तरि ल्युडन्तत्वेन देवं धरतीत्यर्थे सत्यमृतस्य मोक्षार्थं देवधारणो यतो भूयासम्
SKएतदर्थं मे श्रुतं गोपाय मदधीतं रक्षेत्यर्थः | यद्वा धारणाशक्त्या पिहित आच्छादितः पुटके स्थापित इत्यर्थः लिङ्गरूपेणेति यावत् एतादृशी भूत्वा मे श्रुतं श्रुतिपुराणादिषु धर्यत्वेन बोधितं तदभिन्नं लिङ्गं गोपाय रक्षेत्यर्थः | मद्देहाद् यावज्जीवं च्युतं यथा न भवेत् तादृशं कुर्वित्यर्थः | देवशब्दस्य मुख्यया वृत्त्या परमशिवस्यैव बोधकत्वमित्यत्र प्रमाणं दर्शयति - तस्माद्देवः शिवः स्मृत इति | कर्तरि ल्युडन्तत्वेनेति कृत्यल्युटो बहुलम् (पा० ३|३|११३) इत्यनेन | अत एव पुल्लिङ्गत्वोपपत्तिः | भावार्थकत्वे तु नपुंसके भावे क्तः ल्युट् च (पा० ३| ३|११४-११५) इत्युक्तेर्नपुंसकत्वं अत इन्द्रो निग्रहानुग्रहसमर्थः स लिङ्गरूपः शिवो मा मां मेधया स्तृणोतु संयोजयत्विति पूर्वाचार्यैर्व्याख्यातम् | स्यात् | इन्द्रशब्दार्थमाह - निग्रहानुग्रहसमर्थ इति | तादृशसामर्थ्यमेव परमैश्वर्यम् | मेधया स्तृणोत्विति | मेधां विना देवधारणेऽवश्यं प्रमादः स्यात् | स मा भूदेतदर्थमिदं मेधाप्रार्थनं बोद्ध्यम् | अत्रेदं विचार्यते - यश्छन्दसामृषभो विश्वरूपः (तै० आ० ७|४| १) इत्ययमनुवाद इत्यभ्युपेतव्यम् यच्छब्दोपबन्धात् | तस्य च पुरोवादसापेक्षत्वेन - तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः (तै० आ० १०|११|१२) इत्येतन्नारायणोपनिषद्वाक्यमिह पुरोवादः | तत्र च पद्मकोशप्रतीकाशम् (तै० आ० १०|११|६) इत्यादिना हृदयं निरूप्य तस्यान्ते सुषिरम् (तै० आ० १०|११|८) इति तदन्तर्वर्ति सुषिरं प्रदर्श्य - तस्य मध्ये महानग्निः (तै० आ० १०|११|९) इत्यारभ्य - परमात्मा व्यवस्थितः (तै० आ० १०|११|१२) इत्यन्तेन तदन्तर्वर्ति सुषिरं प्रदर्श्य परमात्मनः प्रदर्शितत्वेन तथाविधमात्मानं यश्छन्दसामृषभः (तै० आ० ७|४|१) इत्यनेनानूद्य धारणो भूयासम् इति विधीयते | तथा च देवधारणो देवस्य शिखामध्यवर्तिपरमात्मनो धारणोऽन्तर्धारणो भूयासमित्यर्थे सति
SKयच्छब्दोपबन्धादिति | यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणमित्युक्तेरयमाशङ्कितुराशयः - उदेश्यताचिह्नभूतेन यच्छब्देन योगात् छन्दसामृषभ इत्युद्देश्यताप्रयोजकं मन्तव्यम् उद्देश्यतायाश्च सिद्धत्वसापेक्षत्वात् केनचिद्वाक्येन प्राप्तिरत्रापेक्षिता | तच्च वाक्यं नारायणोपनिषदि सन्निहितम् - na liṅgadhāraṇasiddhiḥ | kiñcātra viśvarūpa iti brahmaliṅgapradarśanena - brahmaṇaḥ kośo'sīti nirupapadabrahmapadaprayogeṇa ca paramātmana evāntardhāraṇapratīteśceti cet? maivam tanmate devadhāraṇo bhūyāsamityatra devasya paramātmano dhāraṇamantaranusandhānamupāsanamiti phalitam | tathā ca tasyāḥ śikhāyā madhye paramātmā vyavasthitaḥ (tai0 ā0 10|11|12) ityetatpurovādaprāptasya tasya - daharaṃ vipāpmaṃ paraveśmabhūtam (tai0 ā0 10|10|23) ityādinā purovādaprāptatadupāsanāviṣayatvavidhānena tasyaiva devadhāraṇo bhūyāsamityatra vidheyatvāṅgīkāre purovādāprāptārthasiddhirna syāt nahi purovādaprāptamanūdya tadaprāptaṃ kiñcidvidhātuṃ pravṛttaṃ vākyaṃ tatprāptamevārthaṃ vidhāya sāphalyaṃ labhate | iti etadeva dhartavyam | tadvākyena hṛdayapadmākāśavartī nārāyaṇaḥ pradarśyate | tataścāyamarthaḥ sampannaḥ - yo nārāyaṇo hṛpadmākāśavartī vedānāṃ svāmī tasya devasya dhārayati bhūyāsam antaranusandhānakartā bhūyāsamityādi | na ca tadabhinnatayā'dhyavasitāyāḥ śālagrāmādimūrterapi prāptatayā bahirdhāraṇamapi prāptamiti vācyam taddhāraṇasyācāraviruddhatvāt | tataśca nārāyaṇānusandhānamātramanena vidhīyata iti samādhatte - maivamiti | ayamāśayaḥ - pūrvopadarśitanārāyaṇasya daharaṃ vipāpmaṃ paraveśmabhūtamityādinā'nusandhānarūpopāsanasya pūrvameva vihitatayā tasyaiva devadhāraṇo bhūyāsamityanena punarvidhāne sampūrṇavākyasyaivedānīṃ vaiyarthyāpātānna tathā vaktuṃ śakyata iti |
SKअत एव - यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः (श्वे० उ० ४|१८) इत्यत्र तमःपरे देव एकीभवति (सु० उ० २|२) दिव्यो देव एको नारायणः (सु० उ० ६|१) इति तमःप्रापकवाक्ये तमोऽधिष्ठातृत्वेन नारायणस्य प्राप्तेः शिवपदस्यापि नारायणपरत्वमिति पूर्वपक्षीकृत्य यदा तम इति यदुपबन्धेन तमःप्रापकनिखिलवाक्यान्तरप्राप्तानुवादपुरस्सरं विधातुं प्रवृत्तस्य तन्न दिवा न रात्रिः (श्वे० उ० ४|१८) इत्यादिवाक्यस्थ शिवपदस्य नारायणपरत्वे पुरोवादाप्राप्तविधायकत्वं न स्यादिति पुरोवादगतनारायणपदस्यैव लक्षणादिना शिवपरत्वमिति सिद्धान्तितं कर्णामृतादिष्वप्पय्यदीक्षितैः | न चास्य तस्याः शिखाया मध्ये (तै० आ० १०|११|१२) इति पुरोवादतोऽन्तस्तदुपास्यत्वेन प्राप्तमेव परमात्मानमनूद्यामृतस्येत्यनेन मोक्षरूपं फलं विधीयत इति वाच्यम् तस्यापि - ब्रह्मणः अत एव यदा तम इति | अत एवेत्यस्य यच्छब्दोपनिबद्धवाक्यस्य पूर्ववाक्याप्राप्तविधायकत्वनियमादेवेत्यर्थः | अत्र दिव्यो देव एको नारायण इति पूर्ववाक्यसान्निध्यात् शिव एव केवल इति शिवपदस्य कथञ्चिन्नारायणपरत्वमस्त्विति पूर्वपक्षमुत्थाप्य तथा सति - यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः (श्वे०९ उ० ४|१८) इति वाक्यस्य वैयर्थ्यमेव स्यात् | इदं वाक्यं हि पूर्ववाक्याऽप्राप्तशिवबोधनेनैव चरितार्थम् | शिवपदेन नारायणस्यैव परिग्रहे तु तद्बोधस्य पूर्वमेव गतत्वेन तादृशविधित्वं न स्यादित्यप्पय्यदीक्षितैः सिद्धान्तितम् | न च दर्शिते नारायणपदस्यैव लक्षणादिना शिवपरत्वरूपेऽप्यप्पय्यदीक्षितसिद्धान्तेऽपि तद्दोषतादवस्थ्यम् पूर्वं सायुज्यं सलोकतामाप्नोति (सदा० उ० १६) इति पुरोवादत एव प्राप्तत्वेन तदप्राप्तत्वाभावात् |
SKअथ भवन्मतेऽपि देवधारणो भूयासमित्यत्र स्थूलाङ्गलिङ्गधारण-विधाने पुरोवादविरुद्धार्थविधानं स्यादिति चेत्? मैवम् नहि- यश्छन्दसामृषभो विश्वरूपः (तै० आ० ७|४|१) इत्यस्य तस्याः शिखाया मध्ये (तै० आ० १०|११| १२) इत्ययमेव पुरोवाद इति नियमः परन्तु सर्वलिङ्गं स्थापयतीत्ययमेव पुरोवादः | तत्प्राप्तमेव स्थूलाङ्गलिङ्ग- phalaṃ vidhīyate anyadhā vākyamevedaṃ vyarthaṃ syāt | nārāyaṇasya pūrvoktatvavadidānīṃ śivasya pūrvoktatvāpātāditi vācyam nārāyaṇapadena śivaparigrahe rūḍhyaṃśe cittavṛtterākṛṣyamāṇatayā śivasya spaṣṭapratītyabhāvāt niścayātmakatatpratītyarthaṃ śiva eva keval ityasyāvaśyakatvāt | atratyaśivapadena nārāyaṇaparigrahe tu rūḍhiśaktyā prathamameva nirṇītapratītiviṣayīkṛtasya gauṇyā vṛttyā punarbodhane vaiyarthyāvaśyaṃbhāvāt | yadetyādiśrutyarthastu - yadā sṛṣṭeḥ prāk tamo'jñānātmakaṃ kevalamāsīt na dinaṃ na rātrirna sat paramāṇvādikāraṇaṃna cāsad mahābhūtādikāryamāsīt kintu kevalo nirañjanaḥ śiva eva tadānīmāsīdityarthaḥ | atra tamasaḥ sattāyā anupadamevoktatvāt śiva eva keval iti kaivalyoktirnityābhivyaktacaitanyavattvena sajātīyadvitīyavyāvṛttyabhiprāyā boddhavyā | purovādaviruddhārtheti | tasyāḥ śikhāyā iti purovāde nārāyaṇasya dhyānaṃ vihitam atra bahirliṅgadhāraṇamiti prakaraṇavirodha iti bhāvaḥ | parantviti | sarvaliṅgaṃ sthāpayatītyatra vihitaṃ sadāśivātmakaliṅgadhāraṇamevātrāpi devadhāraṇapadenānūdyāmṛtasyeti mokṣarūpaṃ phalaṃ vidhīyate | na ceṣṭāpattiḥ pūrvatantre dvitvavidhāyakavākyavaiyarthyaparihārāya- pañcāvattaiva vapā kāryā (āpa0 śrau0 7|20|9) ityatra lakṣaṇāṃ svīkṛtya vaiyarthyaparihāraḥ kṛtaḥ iha tu lakṣaṇāṃ vinaiva devadhāraṇo bhūyāsamityatra bahirliṅgadhāraṇe mokṣarūpaphalavidhānena sarvasāmañjasyakaraṇe ko bhāra iti | na ca sarvaliṅgavākyenānyathāsiddhirapi sāmānyena viśeṣaphalavidhāyakasyānyathāsiddhyayogāt |
SKनन्वेवमपि - ज्ञानं महेश्वरादिच्छेन्मुक्तिमिच्छेज्जनार्दनात् इति स्मरणेन जनार्दनस्य मुक्त्युपायत्वेन कथं लिङ्गोद्देश्यमुक्तिविधानमिति चेन्न ज्ञात्वा शिवं शान्तिमत्यन्तमेति (श्वे० उ० ४|१४) ईशं ज्ञात्वाऽमृता भवन्ति (श्वे० उ० ३|७) शिव एको ध्येयः शिवशङ्करः सर्वमन्यत् परित्यज्य न चेष्टापत्तिरिति | वाक्यवैयर्थ्यमिष्टमेवापन्नमिति न वक्तव्यम् द्विरवद्यतीति वाक्यवैयर्थ्यपरिहारस्य पञ्चावत्तैव वपा कार्येत्यत्र वपापदस्य लक्षणावलेशं स्वीकृत्य कृतत्वेन वाक्यवैयर्थ्येष्टतायाः शून्यहृदयेतरेण वक्तुमशक्यत्वात् | (अ शिखो ३) इत्यादिश्रुतिभिरितरव्यवच्छेदपूर्वकं शिवस्य मुक्त्युपायत्वावधारणेन श्रुतिस्मृत्योर्विरोधे विरोधाधिकरणन्यायेन स्मृतेर्दुर्बलत्वात् | विरोधाधिकरणन्यायेनेति | विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् (१|३| ३) इति सूत्रोक्तेनेत्यर्थः | सूत्रार्थस्तु - विरोधे श्रुतिस्मृत्योर्विरोधे अनपेक्षं श्रुतिः प्रमाणमिति शेषः | असति वेदवाक्ये साक्षादनुपलभ्यमाने अनुमानं स्मृतिः प्रमाणं भवतीत्यर्थः | तथा च औदुम्बरीं स्पृशन्नुद्गायेत् इति श्रुतेः औदुम्बरी सर्वा वेष्टयितव्या इति स्मृतेश्च परस्परविरोधे श्रुतिविरोधात् सर्ववेष्टनस्मृतिस्त्यज्यते तद्वदिहापि ज्ञात्वा शिवं शान्तिमत्यन्तमेति (श्वे० उ० ४|१४) ईशं ज्ञात्वा अमृता भवन्ति (श्वे० उ० ३|७) इत्यादिश्रुतिविरोधात् मुक्तिमिच्च्धेज्जनार्दनात् इति स्मृतिर्दुर्बला मन्यत इति भावः | न च - स मेन्द्रो मेधया स्तृणोतु (तै० आ० ७|४|१) इति मेधाजनयितृत्वविधानेन तस्याश्चान्तर्धर्मत्वादन्तरुपासनायां तद्धर्मप्राप्तिरेव साध्वीति वाच्यम् स नो देवः शुभया स्मृत्या संयुनक्तु (तै० आ० १०|१०|१९) इति श्रुत्या- लिङ्गाङ्गसङ्गिनो वत्स पुनर्जन्म न विद्यते | युगपज्ज्ञानसंसिद्धिस्ततो मोक्षमवाप्नुयात् || इति शङ्करसंहितावचनेन च मुक्तिजनकज्ञानस्य लिङ्गरूपशिवाधीनत्वात् तस्यैव धारणान्वयावश्यं भावात् | अन्यथा- कर्मणैव हि संसिद्धिमास्थिता जनकादयः
SKन च स मेन्द्र इति | मेधाया अन्तःकरणपदार्थत्वात् तत्कारणीभूतमीश्वरधारणमपि कार्यकारणयोः सामानाधिकरण्यायोपासनारूपमेव ग्राह्यमिति प्रश्नः | परमेश्वरस्य सर्वसामर्थ्यवत्त्वेन व्यापकत्वेन च लिङ्गरूपेण शरीरे धृतोऽपि सर्वत्र फलं जनयितुं शक्नोतीत्युत्तरमाह - स नो देवः शुभेत्यादि लिङ्गाङ्गसङ्ग इत्यादि च | बाह्यकर्मणामपि मनोयोगेन (भ० गी० ३|२०) इत्यादिना तीर्थयात्रागङ्गास्नानादीनां मुक्त्युपायजनकत्वं न स्यात् लिङ्गधारणस्याऽदृष्टद्वारान्तरङ्गत्वाच्चेति | किञ्चास्य शरीरधृतलिङ्गविधायकत्वे- शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा | कर्णाभ्यां भूरि विश्रुतम् | (तै० आ० ७|४| १) इति बहिःपदार्थेषु विशेषविधानमपि सार्थकं भवति | क्रियमाणत्वाद् मानसातिशयसम्पादकत्वं शास्त्रसम्मतमित्युच्यते - कर्मणैव हि संसिद्धिमिति | तीर्थयात्रागङ्गास्नानादीनामिति लिङ्गधारणस्येति च | शरीरस्य विचर्षणत्वं जिह्वाया मधुमत्तमत्वं च शरीरस्थमपि वस्त्विह प्रार्थितमस्ति तदर्थं बाह्यलिङ्गधारणमेवोचितमित्याह - किञ्चेत्यादिना | रुद्रो भूत्वा यजेद् रुद्रं नारुद्रो रुद्रमर्चयेत् | प्राणलिङ्गाङ्ग सम्बन्धी स रुद्रो नात्र संशयः || इति शङ्करसंहितावचनेन लिङ्गसम्बन्धादेव शिवाभेदसिद्ध्या शरीरस्याप्युत्कर्षसिद्धेः इष्टलिङ्गप्रकृतिकगुरुलिङ्गस्य जलतत्त्वाभिमानिनो जिह्वाग्रवर्तित्वेन मधुमत्तमत्वप्राप्तेः भावलिङ्गप्रकृतिकप्रसाद-लिङ्गस्याकाशतत्त्वाभिमानिनः श्रोत्रवृत्तित्वेन भूरिश्रवणसिद्धेः |
SKरुद्राराधने आराधकस्य रुद्रत्वप्राप्तेरपेक्षितत्वात् तस्याश्च लिङ्गधारणाधीनत्वाल्लिङ्गधारणमवश्यं कर्तव्यमित्युपपादयति - रुद्रो भूत्वा यजेद् रुद्रमिति | रुद्रत्वप्राप्तौ शरीरदार्ढ्यादिकमर्थादुपपन्नं भवतीति श्लिष्यन्ति श्रुत्यक्षराण्यपि | इष्टलिङ्गप्रकृतिकेति | ध्रियमाणलिङ्गे जलतत्त्वाभिमानित्वाकाशतत्त्वाभिमानित्वादीनां धर्माणां मान्त्रिकसंस्कारबलात् सम्पादितत्वेन रसनेन्द्रियश्रोत्रेन्द्रियोः सम्बन्धात् - ityupapannataraṃ bhavatītyato'pi bāhyaliṅgadhāraṇapareyaṃ yaccoktaṃ viśvarūpa iti brahmaliṅgasya nirupapadabrahmapadasya ca paricchinnaliṅgadhāraṇaparatvenupapattiriti tadapyaramaṇīyam bhaktānugrahārthaṃ paricchinnaliṅgasvarūpaśivasyaivātharvaśiraḥprabhṛtiṣu- prāñco'haṃ pratyañco'ham (a0 śira0 1|1) ityādinā sārvātmyopadeśena śivasyaiva viśvarūpatvāvasāyāt liṅgaṃ tad brahmasaṃjñitam ityaparādhastave śaṅkarācāryairliṅge nirupapadabrahmapadaprayogakaraṇenānupapattya-bhāvāditi | śrutirmantavyetyabhiprāyaḥ | prāñco'haṃ prācīno'ham pratyañco'ham arvācīno'ham | bhaktavātsalyena paricchinnavigrahaṃ dhṛtavataḥ parameśvasyoktariyam | ataśca liṅgarūpe parameśvare viśvarūpabrahmapadayoḥ prayogo nānupapanna iti bhāvaḥ | anye tu śrutaṃ me gopāya (tai0 ā0 7|4|1) ityatra gopāyetyananvayāpattyā devadhāraṇo bhūyāsam (tai0 ā0 7|4|1) ityatra deveti padacchedaḥ tasya ca gopāyetyatrānvayaḥ tathā cāmṛtasya dhāraṇo bhūyāsamiti prāptyā na liṅgadhāraṇasiddhiriti pūrvapakṣamavalambya devapadasya sannidhiśruta-dhāraṇānvayaṃ parityajya aparimitādhikaraṇanyāyena gopāyetyatrānvayā-saṃbhavena brahmaṇaḥ kośo'si (tai0 ā0 7|4|1) iti sannidhiśrutabrahmapadasyaiva vibhaktivipariṇāmenānvayaḥ svīkaraṇīyaḥ anyathā dhāraṇapadasya saṃyogārthakatvena tatrāmṛtapada-
SKअन्ये त्विति | गोपायेति मध्यमपुरुषैकवचनदर्शनेन देवेति संबोधनं मन्तव्यम् | धारणेत्यत्र चामृतस्येत्यत्र चास्यान्वयः | ततश्च मोक्षस्य धारणो भूयासमितर्थलाभान्न लिङ्गधारणं सिद्ध्यतीति पूर्वपक्षः | प्रत्यासत्तिरेवापरमिताधिकरणन्यायेनान्वयनियामिका भविष्यति | न्यायस्वरूपं तु पुरस्तान्निरूपितम् | देवपदस्य प्रत्यासत्त्या धारणपदार्थेऽन्वयस्वीकारेऽपि गोपायेत्यत्र सम्बोधनलाभो भविष्यति | ब्रह्मण इति षष्ठ्यन्तस्य सम्बुद्धिविभक्त्यन्तत्वेन विपरिणामे हि ब्रह्मन् गोपायेत्यन्वयसम्भवात् दुःखध्वंस- वाच्यमोक्षस्यान्वयासंभवादिति समाधानमप्याहुः | अस्याः श्रुतेरुक्तार्थे - यूयं श्रद्धान्विता विप्राः प्राणलिङ्गाङ्गसङ्गिनः | स्थापयध्वमिमं मार्गं भुक्तिमुक्तिफलप्रदम् || मङ्गलात्मशिवलिङ्गधारणं संगवर्जिततनुः कुरुते यः | अङ्गजौर्वदहनं भवसिन्धूं संगभङ्गतरलं प्रतरेत् सः || शिवभक्तान् सदाचारनिरतान् धृतलिङ्गकान् | विप्रानाराधय सदा भस्मरुद्राक्षधारिणः || इत्यादिशङ्करसंहितावचनानि पूर्वोक्तान्यपि कानिचिदुपबृंहणच्छायापन्नान्यनुसन्धेयानीति | विद्यासु श्रुतिरुत्कृष्टा रुद्रैकादशिनि श्रुतौ | तत्र पञ्चाक्षरीइ तस्यां शिव इत्यक्षरद्वयम् || इति सकलवेदशिखामणौ रुद्रैकादशिन्याम् - रूपमोक्षस्य तु धारणपदबोध्यसंयोगेऽन्वयस्य बाधात् तथा वक्तुं न शक्यत इत्युत्तरम् | उपबृंहणछायापन्नानीति | मङ्गलात्मकशिवलिङ्गधारणमिति धारणपदश्रवणेन देवधारणेति श्रुतिच्छाया गम्यत इति भावः | विद्यासु श्रुतिरुत्कृष्टेति | ततश्च सर्वविद्याशिरोभूता रुद्रैकादशिनी तस्यामपि या ते रुद्र शिवा तनूरघोराऽपापकाशिनीति मन्त्रेऽपापेषु भक्तेषु
SKया ते रुद्र शिवा तनूरघोरा पापकाशिनी (तै० सं० ४|५|१|१) इति श्रुतिरपि | रुदं रोदनं संसारदुःखजनितं द्रावयतीति रुद्रः रुदमज्ञानं द्रावयतीति वा रुद्रः | हे रुद्र अघोरा शान्ताकारा शिवा सर्वमङ्गलप्रदा या ते तनुः लिङ्गरूपशरीरम् सा अपापकाशिनी | लिङ्गरूपशरीरावच्छिन्नः शिवः शमदमसंपन्नो भक्तपात्रे धार्य इति पर्यवसितार्थः | तत्र जागरूकेत्यनुसन्धेयम् | उपबृंहितं च सिद्धान्तशिखामणौ - अघोरा पापकाशिनी या ते रुद्र शिवा तनुः | या ते तनुः शिवलिङ्गरूपा काशते शोभत इत्यर्थके लिङ्गधारणस्य कर्तव्यत्वं प्रतीयते | सिद्धान्तशिखामणिसम्मतोऽयमर्थ इत्याह - उपबृंहितं चेत्यादिना | यजुषा गीयते यस्मात् तस्माच्छैवोऽघवर्जितः || यो लिङ्गधारी नियतान्तरात्मा नित्यं शिवाराधनबद्धचित्तः (६|६१- darśayitvā yajurvede vidhito liṅgadhāraṇam | ṛgvede'pi tathā kuryāṃ natvā vīreśvaraṃ mudā || samāptamidaṃ prakaraṇaṃ yajurvadena liṅgadhāraṇasya kartavyatābodhakam ṛgvedenāpi tatkartavyatvasādhanaṃ pratijānīte - ṛgvede'pi tathā kuryāmiti | pavitraṃ te vitataṃ brahmaṇaspate prabhurgātrāṇi paryeṣi viśvataḥ | ataptatanurna tadāmo aśnute śṛtāsa idvahaṃ statsamāśate || (ṛ0 9| 83|1) ityatra brahmaśabdena liṅgamucyate līnamarthaṃ gamayatīti vyutpattyā tadadhikaraṇatvāt tadvyapadeśaḥ | talliṅgaṃ brahma śāśvatam (6| 36) liṅgaṃ brahma sanātanam (6|35) iti siddhantaśikhāmaṇau liṅgaṃ pavitraṃ te brahmaṇaspata iti | brahmaśabdena śivaliṅgābhidhāne liṅgapadavyutpattipradarśanaṃ yadyapyanupayuktam brahmapadasya svaniruktyā svaniṣṭharūḍhyādiśaktyā vā pravittimattvāt tathāpi līnamarthaṃ gamayatītyanena śivaliṅgasya tad brahmasaṃjñitam iti śaṅkarācāryakṛtāparādhastave'pi prayāgadarśanācca | tasya patiradhiṣṭhātā taccharīrakaḥ san tatra sthita ityarthaḥ |
SKतदित्यध्याहारः पवित्रपदविततपदयोर्लिङ्गार्थकत्वे कोशाद्यभावेन वृद्धप्रयोगाभावाच्च विशेष्यविशेषणभावासंभवेन विशेषण- tathā ca he brahmaṇaspate liṅgarūpaśarīrāvacchedena śarīribhāvenādhiṣṭhita-paramaśiva te tava tad brahmapadavācyaliṅgarūpaṃ śarīram pavitram uktarītyā śucyaśucikāle'pi dhartu yogyam vitatam iṣṭādibhedena bhaktaśarīrādibhedena vā bahuvidham | prabhuḥ nigrahānugrahasamarthastvaṃ viśvataḥ samastāni sārvavibhaktikastasil nigūḍhatattvapratītihetutvalābhāt sarvato nigūḍhasya brahmaṇaḥ śarīratvapratītyā brahmapadavācyatvārhaṃ tadbhavatotyetadbodhayituṃ līnamarthaṃ gayatīti liṅgapadavyutpattirdarśyata iti bhāvaḥ | tadityadhyāhāra iti | pavitrapadavitatapadayorviśeṣyalābhāyetyarthaḥ | etatpadadvayārthānupapattireva tatpadādhyāhāre pramāṇamityāha - avayānupapattiriti | sūcakatvācceti cakāraḥ pañcamyarthahetutvānuvādakaḥ | samudāyārthamāha - he brahmaṇaspata ityādinā | śarīribhāveneti ātmarūpeṇetyarthaḥ | iṣṭabhedenepi iṣṭaliṅgaprāṇaliṅgādyanekarūpeṇetyarthaḥ | bhaktaśarīrabhedeneti pratiśarīraṃ bhinnabhinnaliṅgasya dhriyamāṇatvena bhaktaśarīrā'nekatvamapi gātrāṇi bhaktaśarīrāṇi paryeṣi vyāpnoṣi dhāryamāṇaḥ san liṅgarūpaśarīradvārā bhaktāṅgasaṃyukto'sītyarthaḥ | nanu brahmaṇaspata ityatra brahmapadena sthāvaraliṅgamucyate tataśca he brahmaṇaspate śarīribhāvena sthāvaraliṅgādhiṣṭhitaparamaśiva te brahmapadavācyaṃ liṅgaṃ pavitram adhvaśodhanādinā saskṛtatvena pariśuddham vitataṃ svayaṃvyaktārṣapuruṣakṛtādibhedena nānāvidha- लिङ्गविततत्वप्रयोजकं बोध्यम् | भक्ताङ्गसंयुक्तोऽसीति | यद्यप्यत्र विधिबोधको लिङादिर्नास्ति तथापि श्रुतिबोधितलिङ्गधारणादिसदाचारेण विध्यनुमानं भविष्यतीति तात्पर्यम् | स्वयंव्यक्तार्षपुरुषकृतभेनेति | स्वयं शरीरधारणासंभवेन प्रागुक्तार्थकस्य गात्राणि पर्येषि विश्वत इत्यस्यानन्वयापत्तेः |
SKन च तस्याप्यपरिच्छिन्नस्वरूपेण भक्तशरीरसंबन्धोऽस्तीति वाच्यम् तर्ह्यपरिच्छिन्नत्वेन ब्रह्मलिङ्गविश्वव्यापित्वस्यैव वक्तव्यत्वेन भक्तगात्रमात्रसम्बन्धकथने प्रयोजनाभावात् | ननु पवित्रम् इत्येतन्मन्त्रस्य सोमे दशापवित्रानुमन्त्रणे विनियुक्तत्वेन कथं लिङ्गधारणपरत्वम्? यद् यत्र व्यक्तानि लिङ्गानि विश्वेश्वरादीनि ज्योतिर्लिङ्गानि आर्षाणि अगस्त्येश्वरादीनि पुरुषकृतानि हरिश्चन्द्रेश्वरादीन्यसंख्यातानि तद्भेदेनेत्यर्थः | न च तस्येति | स्थावरलिङ्गस्यापि परमेश्वराऽभिन्नत्वेन व्यापकतया तस्मिन्नपि गात्राणि पर्येषीत्यंशो बाधितो न भवतीति भावः | प्रयोजनाभावादिति | ब्रह्माण्डमात्रव्यापकस्य भक्तगात्रसम्बन्धित्वोक्तेर्निष्प्रयोजनत्वोक्तिरुचितैव | सोमे सोमयागे | दशापवित्रानुमन्त्रण इति | दशापवित्रं च शुक्लाया अवेरूर्णाभिः सूत्रीकृताभिरोतपीतविशिष्टसोमशोधनाधारभूतो वासोविशेषः | विनियुक्तं तस्य तत्परत्वमेव सन्ध्यावन्दनकालीनतत्तद्देवतोपस्थान- somaprakaraṇapaṭhitasyāsya mantrasya liṅgadhāraṇaparatve prakaraṇavirodhaśceti cet tadapyasāram viniyogamātrasya pūrvodāhṛtaprayogāvagamitabrahmapada- मन्त्राणामन्यत्र विनियोगः अग्निर्मूर्धा दिवः ककुत् (ऋ० ८|४४|१६) इत्यादिमन्त्राणां वाचकश्रुति-बलादग्न्यादिपराणामेव ग्रहयज्ञे भौमादिपूजायां विनियोगदर्शनात् यजेत् पुरुषसूक्तेन धनदं विश्वरूपिणम् | विनियुक्तत्वेनेति | कल्पसूत्रे दशापवित्रानुमत्रणाङ्गतया बोधितत्वेनेत्यर्थः | कथं लिङ्गधारणपरत्वमिति | आर्षवाक्येनान्यपरतया बोधितस्यान्यपरत्वं विश्वासानर्हमिति सोमप्रकरणपठितस्य लिङ्गधारणपरत्वोपगमः कर्तुं न शक्यत इति च प्रश्नाशयः | तदप्यसरमिति | तत्तद्यागस्वरूपसम्पत्यूपयुक्तोपयोगांशबोधनाय प्रवृत्तस्य विनियोगस्य वाक्यशक्त्या प्रतीयमानाङ्गाङ्गिभावाबाधकत्वादिति भावः | तदेव दर्शयति - अग्निर्मूर्धेत्यादि | इति देवतान्तरपरस्यापि पुरुषसूक्तस्य धनदयजने विनियोगदर्शनाच्च |
SKयद्यत्र विनियुक्तमिति नियमस्तु प्रकृतार्थवाचकपदघटितमन्त्रविनियोगस्थल एव | नहि पवित्रशब्दस्य दशापवित्रार्थकत्वे किञ्चिन्नियामकमस्ति | तर्ह्यभिधायकश्रुत्यघटितविनियोगस्थले प्रकृतप्रकाशनं कथमिति चेत् कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे (मै० सं० १|५| ४) इतीन्द्रदेवताकस्य मन्त्रस्य ऐन्द्र्या गार्हपत्यमुपतिष्ठते (मै० सं० १|५|११) इति गार्हपत्योपस्थानविनियोगेऽपि मन्त्रस्याभिधानश्रुतिप्राप्तेन्द्रपरत्वं भौमादिपूजायामिति मङ्गलादिग्रहादिपूजायामित्यर्थः | देवतान्तरेति | सहस्रशीर्षेत्यादिलिङ्गेन विष्णुपरस्यापि कुबेरयागे विनियोगदर्शनान्नैकार्थनिष्ठत्वनियमो मन्त्राणामिति भावः | अभिधायकश्रुत्यघटितेति | देवताकर्मप्रकाशनमात्रे मन्त्राणामुपयोगात् तद्वाचकपदाभावे मन्त्रपाठो व्यर्थः स्यादिति भावः | कदाचनस्तरीरसि नेन्द्रेति मन्त्रस्यैन्द्र्या गार्हपत्यमुपतिष्ठतीति विधिवाक्येन गार्हपत्योपस्थानाङ्गत्वेऽपि स्वघटकपदशक्तिलब्धमिन्द्रविषयकत्वं न हीयते | प्रकृतप्रकाशनं तु लक्षणादिना भवतीत्यैन्द्र्यधिकरणन्यायेनावगन्तव्यमिति | यदुक्तं प्रकरणविरोध इति तदपि न सोमः पवतेर्जनिता मतीनां जनिता दिवो जनिता पृथिव्याः | जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः || (ऋ० ९|९६|५) इत्यत्र जडीभूतसोमलताया नारायणादिजनकत्वासंभवेनोमया सहितः सोम इति सोमपदश्लेषमहिम्ना शिवस्यापि न बाध्यते विधिबलाल्लक्षणादिना गार्हपत्योऽप्युपस्थाप्यत इतिवद् इहापि दशापवित्रानुमन्त्रणाङ्गत्वेऽपि स्वार्थपरता न हीयत इति भावः | पूर्वमापादितं प्रकरणविरोधं समाधत्ते - यदुक्तमित्यादिना सोमः पवतेर्जनितेत्यादिना | सोमः लताविशेषः पवतेः पावनस्य यागस्य मतीनां यागबुद्धीनां स्वरसपरिणामद्वारोत्तमबुद्धीनां दिवो यागफलस्य स्वर्गस्य पृथिवीसूर्येन्द्रविष्णूनां च जनितेत्यर्थ आपाततः प्रतीयते परन्तु लताविशेषे सूर्येन्द्रादिजनकत्वस्य बाधितत्वाद् उमया सहित इति व्युत्पत्त्या शिवो
SKप्रसक्तत्वेन तमादाय तत्सिद्धिरिति सिद्धान्तितत्वेन लिङ्गधारणप्रकरणस्यापि सोमप्रकरणत्वे विरोधाभावात् | किञ्च अयं सोमः कपर्दिने (ऋ० ९|६७|११) इति श्रुत्या सोमयागस्त्योत्पत्तिविशिष्टशिवसम्बन्धबोधनेन रुद्र आहूत इति श्रुत्या सोमपदस्थाने रुद्रपदप्रक्षेपेण सोमयागस्य रुद्रतादात्म्यबोधनेन - अहं हि सर्वहविषां भोक्ता चैव फलप्रदः | सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्थितः || (२|४|८) इति कूर्मपुराणे शिववचनेन च शिवस्य सर्वहविर्भोक्तृत्वकर्मफलदत्व-प्रतिपादनेन सोमयागस्य रुद्रदेवताकत्वनिश्चयात् तत्प्रकरणपठितस्या-प्यस्य मन्त्रस्य लिङ्गधारणपरत्वेन प्रकरणविरोधाभावाच्च | योग्यताबलाद् ग्रहीतुमुचित इति तात्त्विकोऽर्थ इति नास्ति प्रकरणविरोधः | अयं सोमः कपर्दिने (ऋ० ९|६७|११) इति श्रुत्या सोमयागस्य कपर्दिसम्बन्धित्वोक्तेः सोमागमनोत्तरं रुद्र आहूत इत्युक्त्या रुद्रसोमयोरेकात्मत्वबोधनेन च सोमयागस्य रुद्रदेवताकत्वबोधनाच्च सोमप्रकरणपठितस्य रुद्रपरत्वे नास्ति प्रकरणविरोध इति भावः | नन्वास्तां तावदुक्तरीत्या प्रकरणाद्यविरोधः तथापि पवित्रं त इत्येतन्मन्त्रे लिङ्गाद्यभावेन न विधिसंभवः न वा विधिप्रयोजकरूपसंपत्तिः एतन्मन्त्रविहितलिङ्गधारणस्य तत्पावित्रस्य च सर्वलिङ्गं स्थापयतीति विधिप्रप्तत्वेनान्यथासिद्धत्वात् इति चेन्मैवम् तस्मात् पवित्रं तल्लिङ्गं धार्यं शैवमनामयम् इति वक्ष्यमाणोपबृंहणानुरोधेन प्रभुर्गात्राणि पर्येषि विश्वतः (ऋ० ९|८३|१) इति मन्त्रलिङ्गेन च तल्लिङ्गं धार्यमिति कल्पयितुं शक्यत्वात् | लिङ्गाद्यभावेनेति | एतच्च श्रुतिबोधिताचारेण विधिकल्पनायामुपयुक्तत्वेन समाहितम् | तस्मात् पवित्रं तल्लिङ्गं धार्यं शैवमनामयम् इत्येतन्मन्त्रोपबृंहकपुराणवाक्यम् प्रभुर्गात्राणि पर्येषि (ऋ ९|८३| १) इति लिङ्गं च विधिकल्पनायामनुकूलमित्याह - मैवमिति |
SKयदप्यन्यथासिद्धत्वेन विधिप्रयोजकरूपं नास्तीति प्राचीनग्रन्थेनोक्तम् तदप्ययुक्तम् शाखाभेदात् | नहि शाखान्तरविहितकर्मणां शाखान्तरे-ऽन्यथासिद्धिसम्भवः तथा सति यजुःशाखाविहितकर्मणामेव केषाञ्चिद् ऋग्वेदविहितत्वेन तद्विधायकवाक्यानां प्रवर्तकत्वानुपपत्तेः | इत्यलं प्रसक्तानुप्रसक्त्या | एवं पवित्रं त इत्यारभ्य पर्येषि विश्वत इत्यन्तेन लिङ्गधारणं तत्पावित्र्यं च विधायेनकश्रुतिविहितत्वेऽप्यत्यन्ताभ्यर्हितफलाभावाल्लिङ्ग- bhagavatī śrutirevamuktvā upāyāntaravyavacchedasūcanāya śākhābhedāditi | vedabhedādityarthaḥ | sarvaliṅgamiti vākyaṃ kṛṣṇayajuḥ pavitraṃ te vitataṃ brahmaṇaspate (ṛ0 9|83|1) iti mantrastu ṛk | tataśca vākyadvayasya bhinnaśākhāvṛttitvena nāstyekenāparasyānyathāsiddhiriti | śākhābhede'pyanyathāsiddhyaṅgīkāre'gnihotrādikarmaṇāmanekaśākhāsu vihitatvena tadbodhakavākyānāṃ sarveṣāmeva svetarakṛtānyathāsiddhatvāpattyā kasyāpi vākyasya vidhāyakatvaṃ na siddhyediti bhāvaḥ | vyatirekamukhena liṅgadhāraṇasya prayojakatvamabhivadati | ataptatanurna tadāmo aśnute (ṛ0 9|83|1) iti taptā vedhāmanukriyādīkṣātrayeṇa nirdagdhapāpapañjarā tanuryasya sā na bhavatītyataptatanurdīkṣātrayarahitaḥ āmaḥ aparipakvā'ntaḥkaraṇa san tatparaśivasvarūpaṃ nāśunte | evaṃ ca - liṅgāṅgasaṅgino vatsa punarjanma na vidyate iti śaṅkarasaṃhitāvacanānu-rodhena dīkṣātrayameva muktāvasādhāraṇakāraṇamiti phalitārthaḥ | vyatirekamukheneti | liṅgadhāraṇarūpamokṣakāraṇābhāve mokṣarūpakāryasyābhāvo bhavatītyevaṃ mokṣābhāve liṅgadhāraṇābhāvavyāpakatvabodhanamukhena | tataśca liṅgadhāraṇābhāvavyāpakābhāvapratiyogitvarūpavyatirekavyāptirliṅgadhāraṇa sya mokṣe siddhā bhavati | tataśca liṅgadhāraṇarahitānāṃ mokṣo na bhavatītyuktyā liṅgadhāraṇasya mokṣaprayojakatvaṃ labhyate |
SKदीक्षात्रयेणेति वेधादीक्षामनुदीक्षाक्रियादीक्षाभिरित्यर्थः | पापपञ्जरेति | पञ्जरं पक्षिणां नियन्त्रितवासस्थानम् | तद्वदावरकत्वात् पञ्जरत्वं पापेऽप्यारोप्यते | रामानुजमतानुयायिनस्तु - पवित्रं चरणं चक्रम् इति कोशप्रसिद्ध्या पवित्रपदं चक्रार्थकम् ब्रह्मणस्पत इत्यत्र ब्रह्मपदं चतुर्मुख-ब्रह्माभिधायि तस्य पतिः नारायणाद् ब्रह्मा जायते (नारा० अ० १) इति श्रुत्या जनकत्वेनाधीश्वरः | तथा च हे ब्रह्मणस्पते चतुर्मुखाद्युत्पादक ते पवित्रं चक्रं विततम् | प्रभुः निखिलभुवननियामकस्त्वं गात्राणि भक्ताङ्गानि एवं स्वमते पवित्रं ते ब्रह्मणस्पत इति ऋङ्मन्त्रस्य लिङ्गधारणपरत्वं व्यवस्थाप्य रामानुजाचार्याभिमतस्यैव मन्त्रस्य तप्तमुद्राधारणपरत्वं निराकर्तुमुपक्रमते - रामानुजमतानुयायिनस्त्वित्यादिना | कोशप्रसिद्ध्येति | अयं कोशः साम्प्रतिककोशपुस्तकेष्वनुपलभ्यमानतया कल्पित इवाभाति | पर्येषि प्राप्नोषीत्यर्थः | अत एव- अतप्ततनुर्न तदामो अश्नुते (९| ८३|१) इत्यप्यन्वर्थकम् | तप्ता वह्निसन्तप्तचक्रेण पूर्वरूपपरावृत्तिपूर्वकरूपान्तरप्रादुर्भावा तनुर्यस्य तादृशो न भवतीत्यतप्ततनुः दोर्मूलचक्रधारणरहितः तन्नारायणात्मकपरब्रह्मस्वरूपम् आमः अपरिपक्वान्तःकरणो नाश्नुते न प्राप्नोतीत्यर्थ इति व्याचक्रुः तदप्यश्रद्धेयम् | यद्यपि पवित्रं चरणं चक्रम् इति धूर्तवैष्णवकल्पितस्य कोशत्व एव विवादः तथापि तुष्यतु दुर्जन इति न्यायेनाभ्युपेत्य निराक्रियते मन्त्रे चक्रधारणविधायकाभावात् | न च - गात्राणि पर्येषि विश्वतः (ऋ० ९|८३|१) इत्येतद्विधायकम् तस्य विष्णोरेव भक्ताङ्गसम्बन्धविधायकत्वात् | ननु पवित्रं त इति विष्णुसम्बन्धिचक्रमभिधाय गात्राणि पर्येषि विश्वत इत्यनेन धारणविधानान्नारायणस्य धारणा-
SKभक्ताङ्गानि पर्येषीति प्रत्यासत्त्या तप्तचक्रसंयोगजनिताङ्करूपेणेत्यर्थः | अस्मिन् मतेऽतप्ततनुरिति तप्धातुप्रयोगः प्रसिद्धार्थक एव परिगृह्यत इति तेषामभिप्रायः | धूर्तवैष्णवकल्पितस्येति | उपलभ्यमानकोशपुस्तकेष्वनुपलम्भ एव तत्कल्पितत्वचिह्नमिति भावः | चक्रधारणविधायकाभावादिति | लिङाद्यभावादित्यर्थः | गात्राणि पर्येषीति सिद्धवदनुवादेन लिङ्गधारणपक्ष इवात्रापि विधेरनुमानं भविष्यतीति नाशङ्कनीयम् ब्रह्मणस्पते इति सम्बोध्य पर्येषीति मध्यमपुरुषप्रयोगेण नारायणस्य भक्ताङ्गसङ्गित्वलाभेऽपि चक्रस्य तदलाभात् | स्वमते तु शिवलिङ्गस्य शिवाभिन्नत्वेन शिवस्य भक्ताङ्गसङ्गित्वलाभे शिवलिङ्गस्य तल्लब्धं भवति | तप्तमुद्राङ्कने तु विष्ण्वभिन्नत्वं वैष्णवग्रन्थेष्वपि नास्तीति नास्ति निरूढमित्याशयः | प्रसिद्ध्या तदीयचक्रस्यैव तत्सिद्धिरिति चेत्? मैवम् विकल्पासहत्वात् | तथाहि - चक्रस्य तल्लाञ्छनत्वेन धार्यत्वम् उत तत्स्वरूपत्वेन आहोस्विन्नारायणा-श्रयत्वेन? नाद्यः कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः (अ० को० १|१|२८) इति कोशावगमिततल्लाञ्छनानां बहुशः सत्त्वेन तस्यैव धार्यत्वे विनिगमकाभाअवात् | न द्वितीयः तत्स्वरूपत्वे तदभेदसिद्धौ चक्रनारायण-योर्भेदगर्भितलाञ्छनिलाञ्छनभावासम्भवेन तद्बोधककोशविरोधापत्तेः | तृतीयेऽपि- अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (त० आ० १०|११|५) इति श्रुतिबोधितशर्वान्तर्यामिभावेन तदाश्रयत्वमुत शरीरिभावेन? sakalapadārthavṛttitvena sarveṣāmapi dhāraṇīyatāpatteḥ | nottaraḥ pakṣaḥ śarīribhāvena sthityaṅgīkāre śālagrāmavaiṣṇavapūjya-
SKननु तन्मते शालग्रामादेर्धारणाप्रसिद्ध्या पवित्रपदेन चक्रस्य प्रत्यासन्नतया तद्धारणद्वारैव नारायणस्य व्यापकत्वमभिप्रेतम्? इत्याशङ्क्य निराकरोति - मैवमिति | भेदगर्भितेति | शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् (अ० को० १|१|२८) इति कोशे लक्ष्मीपतेरिति षष्ठीबोधितस्वस्वामिभावसम्बन्धाक्षिप्त-भेदगर्भितेत्यर्थः | तृतीयेऽपि नाराणाश्रयत्वेन चक्रस्य धार्यत्वमिति कल्पेऽपि | आश्रयत्वं विचारयति - अन्तरित्यादिना | अयं भावः - अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै० आ० १०|११|५) इति श्रुत्या वर्तमानस्य नारायणस्य चक्रेऽपि वृत्तितालाभान्नारायणाश्रयत्वं चक्रस्य स्वीक्रियते आहोस्विच्चक्रस्य नारायणशरीरतया शरीरेषु जीवानामिव चक्रे नारायणस्यात्मरूपेण स्थिततया नारायणाश्रयत्वं मन्यत इति भावः | नाद्यः पक्ष इत्याह - सर्वेषां धारणीयत्वापत्तेरिति | घटपटादीनामपि तदानीं धारणीयत्वादित्यर्थः | नाप्युत्तरः पक्ष इत्याह - शरीरिभावेनेत्यादि | शालग्रामेति | शालग्राम इव वैष्णवैः पूज्या ये ताम्रादिमयभगवद्विग्रहाः ताम्रादिविग्रहालयप्रतिष्ठिततत्तत्प्रतिमास्विव बाहुमुलधार्यचक्रादावपि नारायणस्य पूजानिवेदनादिकरणापत्तेः | यदुक्तम् - अतप्ततनुर्न तदामो अश्नुते (ऋ० ९|८३|१) इत्यनेन तत्सिद्धिरिति तदपि निर्मुक्तनीरदाकाशे वर्षधाराशामेवानुकरोति | ब्राह्मणस्य तनुर्ज्ञेया सर्वदेवसमाश्रिता | सा चेत् सन्तापिता राजन् किं वक्ष्याम्यस्य पातकम् || गङ्गास्नानरतो वापि ह्यश्वमेधरतोऽपि वा | चक्राङ्किततनुं दृष्ट्वा पश्येत् सूर्यं जपेन्नरः || जपेच्च पौरुषं सूक्तमन्यथा रौरवं व्रजेत् | भुजाग्रे व्यानते विप्रस्तप्तचक्राङ्कितो यदि | वेदाग्नि ज्ञानवान् सोऽपि दहत्या सप्तमं कुलम् ||
SKइत्यादिधर्मशास्त्रवचनैस्तप्तमुद्राधारणस्य निषिद्धत्वेन तत्परत्वेन व्याख्यानासम्भवेऽस्मदुक्तरीत्यैव व्याख्येयत्वात् | किञ्चास्य मन्त्रस्य सोमप्रकरणपठितस्य चक्रधारणपरत्वे प्रकरणविरोधश्च | न चास्मन्मते तदापत्तिः पूर्वमेव निरसितत्वात् | यद्येवमपि अतप्ततनुः (ऋ० ९|८३|१) इत्यस्य ह्यवसानगत्या चक्रसन्तप्तशरी-रार्थकत्वमेवाङ्गीकरोषि तदा- तेषामालयेषु मन्दिरेषु प्रतिष्ठिता यास्तत्तत्प्रतिमाः तासु इव बाहुमूलधृतचक्रादौ गन्धपुष्पादिभिः पूजायाः करणीयत्वापत्तेः | तप्तशरीरस्य ब्राह्मणस्य मोक्षलाभस्तु दूरे तिष्ठतु वर्तमानमपि ब्राह्मणत्वमपैति ब्राह्मणशरीरस्य सर्वदेवमयत्वेन तद्दहनप्रयुक्तं महत्पापमेव प्रत्युतोत्पद्यत इत्याह - ब्राह्मणस्य तनुर्ज्ञेयेत्यादिना | न चास्मन्मते तदापत्तिरिति | लिङ्गधारणपरत्वोपगमकल्पे तस्य सोमप्रकरणपठितत्वप्रयुक्तप्रकरणविरोधस्यापत्तिर्नास्तीत्यर्थः | कथमित्याह - पूर्वमेव निरस्तत्वादित्यर्थः | सोमपदे उमया सह वर्तत इति त्युत्पत्त्याश्रयणेनेत्यर्थः | अवसानगत्येति | अन्ततो गत्वेत्युक्तिवदियमुक्तिर्बोद्धव्या | अतप्ततनुरित्यस्य विष्णवे तप्ता तनुर्यस्येत्यादिव्याख्यानं यद्यप्यत्यन्तक्लिष्टम् तथापि तप्ता चक्रतापितेत्यादिवैष्णवैः कृतस्य व्याख्यानस्यापि क्लिष्टत्वात् अकारो विष्णुवाचकः इति स्मरणेन आय विष्णवे विष्ण्वर्थमिति यावत् | तप्ता तनुर्यस्य सोऽतप्ततनुः | एवंभूतः आमः अपरिपक्वान्तःकरणः सन् सत् परब्रह्मस्वरूपं नाश्नुते परन्तु श्रीञ् पाके (१४७६ क्र्या०) इति धातोः शृताः सन्तप्ताः सन्त इत्तापजन्यं किणं वहन्तस्तत्किणमेव समाशते प्राप्नुवन्तीत्येवार्थः स्यात् प्रागुक्तनिषेधानुरोधात् | अथैवमपि पवित्रपदस्य कोशप्रसिद्ध्या चक्रार्थकत्वमावश्यकम् तथापि न पावित्र्यादिबोधः रूढेर्योगापहारकत्वादिति चेन्न सति बाधके कोशस्य शक्तिग्राहकत्वानङ्गीकारात् | अत् एव नीलो घटः शुक्लः पट इत्यादौ गुणे
SKतपोमूलमिदं सर्वं तपोमध्यं तपोऽन्तकम् | ऋषयः संयतात्मानः फलमूलानिलाशिनह् | तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् || (११|२३४ २३६) इत्यादिमनुस्मृत्यादिभिर्वणितस्य तपस एव अतप्ततनुरित्यत्र तप्धातुना ग्रहीतुमौचित्येन तदनुरोधेनातप्ततनुरित्यादेः कृच्छ्रचान्द्रायणपरमेश्वराराधनादिनाऽक्लेशितशरीरस्तद्ब्रह्मपदं नाश्नुत इत्याञ्जस्येन प्राप्तव्याख्याविरुद्धत्वाच्च यादृशो यक्ष इति न्यायेन तन्निराक्रणायैवं व्याख्यातमिति बोध्यम् | ननु लिङ्गधारणपरतया व्याख्यानेऽपि तपःपरकव्याख्यानविरोधस्तुल्य एवेति चेत् मैवम् यावज्जीवं शिवलिङ्गावियोगरक्षायाः यावज्जीवं प्रत्यहं तत्पूजननिर्वाहस्य च परमतपोरूपत्वात् | तथैवाग्रेऽपि प्रतिद्वन्द्विरूपार्थभावनापत्तियोग्यत्वबोधनाभिप्रायेणैव व्याचष्टे - श्रीञ् पाक इत्यादि | नन्वीदृशार्थे किं मानमित्याह - प्रागुक्तनिषेधानुरोधादिति | चक्राङ्किततनुं दृष्ट्वा पश्येत् सूर्यं जपेन्नरः इत्यादिदोषोक्तिसूचितनिषेधानुरोधादित्यर्थः | रूढेर्योगापहारकत्वादिति | वैष्णवपरिकल्पितकोशसिद्धरूढिशक्त्या पावित्यार्थकत्वस्य बाधो भविष्यतीति भावः | ततश्च चक्रधारणपरतयैवायं मन्त्रो व्याख्यायत इति शङ्कितुराशयः | कल्पितेऽपि कोशे कोशत्वमभ्युपेत्य समाधत्ते - सति भाधक इति | गौरवादिरूपबाधके सति कोशस्य लक्षणादि-
SKशुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ( अ० को० १|५|१७) इति कोशेन नीलादिपदस्य रूपवाचकत्वेऽपि समानविभक्तिकपदस्थले भेदसंसर्गबोधासंभवेन रूपवति शक्त्यङ्गीकारे गौरवेण च निरूढलक्षणैवाङ्गीकृता | रूढेर्योगापहारकत्वमपि रूढ्यर्थाबाधस्थल एव | अन्यथा पङ्कजमानयेत्यादौ पद्मबाधेऽपि योगार्थकुमुदबोधो न स्यात् | प्रकृते तूक्तदिशा चक्रार्थकत्वं बाधितमेवेति | एतेन तप्तं चक्रं द्विभुजे धार्यमिति विधित एव चक्रधारणसिद्धिरित्यप्यपास्तम् पठ्यमान-शाखायामनूचानेन पाठस्यादर्शनात् तस्य श्रुतित्व एव विवादात् | यदि च विप्रकीर्णशाखापाठादिकमभ्युपेत्य तथात्वमङ्गीकरोषि तथापि न तेन तत्सिद्धिः प्रागुक्तविकल्पपराहतत्वात् निषेधशास्त्रानुरोधाच्च | सर्वं वाक्यमिति न्यायेन भुजद्वयोद्देशेन चक्रधारणरूपविधाने शङ्खधारणसिद्ध्या - ग्राहकत्वमङ्गीक्रियत इति भावः | लक्षणैवाङ्गीकृतेति | गुणिलिङ्गास्तु तद्वति (१|५|१७) इत्यमरकोशस्यात्यन्तप्रामाणिकस्यापि गौरवदोषेण शुक्लादिपदानां गुणिनि लक्षणाग्राहकत्वमेवोपगम्यते | कोशपुस्तकेष्वनुपलभ्यमानतया कोशवाक्यत्वमेव यस्मिन् सन्दिग्धं तद्बलात् चक्रधारणनिषेधवाक्यानां विरोधिनां पुरस्तात् कथं शक्तिस्तत्रेष्यत इति तात्पर्यम् | रूढ्यर्थाबाधेति | तद्बाधे तु केवल्योगार्थस्यापि बोधो भवति | अत एव पङ्कजपदात् पद्मबाधे कुमुदबोधोऽपि भवतीत्याशयः | इदं रूढेर्योगापहारकत्वादित्यक्षरखण्डनावेशमात्रेणोच्यते | वस्तुतस्त्वनुपयुक्तं स्वविरुद्धं च प्रकृते चक्रत्वपावित्र्ययोरेकत्राबाधितत्वेनोभयोर्विशेषणभावापन्नयोर्बोधः कस्मान्नेति शङ्काया उत्थापकत्वात् | अत्रोदाहरणमपेक्षितम् | उक्तदिशेति | चक्रधारणनिषेधानुसन्धानेनेत्यर्थः | अनूचानेन साङ्गवेदाध्यायिना |
SKविकल्पपराहतत्वान्निषेधशास्त्रानुरोधाच्चेति | युक्तिविरोधात् प्रत्यक्षवाक्यविरोधाच्च उच्छिन्नशाखास्व्प्युक्तविधिवाक्यसत्त्वसम्भावना निरस्ता भवति | अनुपलभ्यमानशाखासु प्रामाणिकस्मृतिषु चानुपलम्भेनाविगीतशिष्टाचारपरिग्रहाभावविशिष्टेन तादृशविधेरुच्छिन्नशाखावृत्तित्वाभावानुमितौ विपक्षे निषिद्धत्वानुपपत्तिरूपो बाधकस्तर्कोऽस्तीति भावः | सर्वं वाक्यं दक्षिणे तु भुजे विप्रो बिभ्रियाद् वै सुदर्शनम् | सव्ये तु शङ्खं बिभ्रियादिति ब्रह्मविदो विभुः || इति वचनविरोध आचारविरोधश्चेत्यलमसदावेशेन | गुरुचरणास्तु ब्रह्मणस्पत इत्यनेन - विश्वाधिको रुद्रो महर्षिर्हिरण्यगर्भं जनयामास पूर्वम् (श्वे० उ० ३|४) यो ब्रह्माणं विदधाति पूर्वम् (श्वे० उ० ६|१८) इत्यादिश्रुतिभिर्हिरण्यगर्भजनयितृत्वेन प्रसिद्धः परमशिवोऽभिधीयते | पवित्रपदं लिङ्गार्थकम् सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् (तै० आ० १०|१६|१) इत्यत्र लिङ्गपदसामानाधिकरण्यात् | लिङ्गपदसमानाधिकृत- makṣikayā'vakīrṇaṃ iti rāmāyaṇaślokavyākhyāne - vajro vā ājyam iti sāvadhāraṇamiti mahābhāṣyakāradarśitanyāyena taptaṃ cakraṃ dvibhuje dhāryamiti vidhāvapi cakrameva dvibhuja eva ityādyākāralābhāt | dakṣiṇe tu bhuje vipro bibhṛyād vai sudarśanam | savye śaṅkhaṃ ca bibhṛyāditi brahmavido viduḥ || iuti bhavanmatasiddhavacanenaiva tadvidhivākyaṃ viruddhaṃ bhavatīti bhāvaḥ | paramaśivo'bhidhīyata iti | brahmaṇo hiraṇyagarbhasya janayitṛtvāt pālakatvācceti bhāvaḥ | sāmānādhikaraṇyāditi | vajro vā ājyamiti śrutāvājyapadasāmānādhikaraṇyena vajrapadasya saṃskṛtājyaparatvamiti maheśvaratīrthādibhiraṅgīkṛtatvāt | na ca prakṛte pavitrapadasya mantrapadasāmānādhikaraṇye'pi na liṅgapadasāmānādhikaraṇyamiti vācyam mananāt trāyata iti vyutpatyā mantrapadasyāpi liṅgārthakatvāt | vācyavācakarūpeṇa dvidhā mantraḥ prakīrtitaḥ | vācako varṇarūpaḥ syādvācyaśca paramaḥ śivaḥ ||
SKइति व्यासनिरुक्तेश्च | तथा च हे ब्रह्मणस्पते परमशिव ते तव पवित्रं लिङ्गम् विततम् इष्टादिभेदेनानेकविधत्वात् विस्तृतम् प्रभुः अखण्डजगदण्ड-नियामकस्त्वं गात्राणि भक्तशरीराणि विश्वतः समन्तात् पर्येषि | सर्वाङ्गेषु च सर्वत्र सर्वदा सर्वतोमुखम् | लिङ्गं गुरूपदेशेन सुप्रतिष्ठितमात्मनि || (अ० सू० ६|२) इत्यारभ्य - एकमेव परं लिङ्गमङ्गेऽस्मिन् सुप्रतिष्ठितम् | सर्वतोमुखमाभाति नामरूपक्रियात्मना || इष्टलिङ्गं तु बाह्याङ्गे प्राणलिङ्गं तथान्तरे | श्रुतेर्वज्रशब्दस्याज्यार्थकत्वात् पाणिमन्त्रं पवित्रमिति सामानाधिकरण्यात् भावलिङ्ग तथैवास्ति आत्माङ्गे सुप्रतिष्ठितम् || हृदयाङ्गे महालिङ्गं श्रोत्राङ्गे तु प्रसादकम् | त्वगङ्गे चरलिङ्गं च दृगङ्गे शिवलिङ्गकम् || जिह्वाङ्गे गुरुलिङ्गं स्यान्नासिकाङ्गे तथैव च | आचारलिङ्गमश्रान्तं सुप्रतिष्ठितमेव हि || यथा ज्ञानेन्द्रियाङ्गेषु क्रमाल्लिङ्गं प्रतिष्ठितम् | तथा कर्मेन्द्रियाङ्गेषु क्रमाल्लिङ्गं प्रतिष्ठितम् || (अ० सू० ६|४-८) इति वातुलागमोत्तरभागेऽनुभवसूत्रस्थितवचनरीत्या पवित्रशब्दस्य लिङ्गार्थकत्वं भविष्यतीत्याशयः | वातुलागमोत्तरेति | प्राहुरिति | समस्तभक्ताङ्गान्यघटितघटनापटीयांस्त्वमेव व्याप्नोषीत्यर्थ इति प्राहुः | अन्ये तु पवित्रं ते विततमित्यत्र विततशब्दस्तनुशब्दवत् तनु विस्तारे (१४६४ तना०) इति धातुनिष्पन्नत्वेन शरीरार्थकः ब्रह्मपदं लिङ्गार्थकम् | तथा च हे ब्रह्मणस्पते पूर्वस्मिन् कल्पे ब्रह्मणस्पते इत्यस्य लिङ्गशरीराधिष्ठित इत्यर्थः | अस्मिन् व्याख्याने च चतुर्मुखजनक इत्यर्थः | अन्ये त्विति | अस्मिन् मते विततपदस्य शरीरार्थकत्वमुपपादयति - तनु विस्तार इत्यादिना | लिङ्गाधिष्ठानक परमशिव ते विततं लिङ्गरूपशरीरं पवित्रं शुच्यशुचिकालेऽपि धारणयोग्यम् | प्रभुः तादृशलिङ्गशरीरको भुक्तिमुक्तिफलप्रदाता भक्तशरीराणि पर्येषि व्याप्नोषि | लिङ्गशरीरावच्छिन्नः शिवो भक्तगात्रेषु धार्य इत्यक्षरार्थ इत्याहुः |
SKगुरुमते त्वियान् विशेषः - उद्देश्यवचनं पूर्वं विधेयश्च ततः परम् इति मिश्रकारिकानुरोधेन पवित्रं ते विततमित्यत्र पवित्रपदस्य लिङ्गार्थकत्वे विततपदवाच्यविस्तृतत्वस्य विधेयत्वेनोद्देश्यविधेयवाचकशब्दयोः पौर्वापर्यं सिद्ध्यति | विततशब्दस्य लिङ्गार्थकत्वे पावित्र्यस्य विधेयत्वे तु वैपरीत्यमिति | उक्तार्थानुरोधेनैवास्य मन्त्रस्योपबृंहणमप्यस्ति लिङ्गपुराणे - kīṭo bhramarayogena bhramaro bhavati dhruvam | mānavaḥ śivayogena śivo bhavati niścayaḥ || brahmaviṣṇvādayo devā munayo gautamādayaḥ | dhārayanti sadā liṅgamuttamāṅge viśeṣataḥ || ityupakramya - brahmeti liṅgamākhyātaṃ brahmaṇaspatirīśvaraḥ | pavitraṃ taddhi vikhyātaṃ tatsamparkāt tanuḥ śuciḥ || ṛgityāha pavitraṃ te vitataṃ brahmaṇaspate | tasmāt pavitraṃ talliṅgaṃ dhāryaṃ śaivamanāmayam || ataptatanurajño vai āmaḥ saṃskāravarjitaḥ | dīkṣayā rahitaḥ sākṣānnāśnute liṅgamuttamām || yaḥ karoti tapaḥ pūrvaṃ sa taptatanurucyate | paripakvo vimokṣāya so'śnute liṅgadhāraṇam || uddeśyavacanaṃ pūrvamiti | parvato vahnimānityatreveti bhāvaḥ | miśrakāriketi maṇḍana miśrakāriketyarthaḥ | brahmeti liṅgamākhyātamiti | idaṃ prathamavyākhyānānukūlam | na karoti tapaḥ pūrvaṃ so'taptatanurucyate | apakvo'yaṃ vimokṣāya nāśnute liṅgadhāraṇam || iti | atra brahmeti liṅgamākhyātamiti taddhi vikhyātamiti dhāryaṃ śaivamiti coktārthopodbalakamiti spaṣṭam | kiñca - iti sambodhitaḥ śiṣyo guruṇā śāstravidinā | dhārayecchāṅkaraṃ liṅgaṃ śarīre prāṇayogataḥ || liṅgasya dhāraṇaṃ puṇyaṃ sarvapāpapraṇāśanam | ādṛtaṃ munibhiḥ sarvairāgamārthaviśāradaiḥ || (si0 śi0 6|27- इष्टलिङ्गमिदं साक्षादरिष्टपरिहारकम् | धारयेदवधानेन शरीरे सर्वदा बुधः || (सि० शि० ६|५०) धारयेदवधानेन लिङ्गं तद्गुरुणार्पितम् | प्रमादात् पतिते लिङ्गे प्राणानपि परित्यजेत् || इत्यादिशङ्करसंहितासिद्धान्तशिखामण्यादिवचनान्युक्तार्थोपोद्बल-
SKऋग्वेदेऽपि न केवलं पवित्रं त इति मन्त्रेणैव तत्सिद्धिः किन्तु - अयं मे हस्तः (ऋ० १०|६०|१२) इति मन्त्रान्तरेणापि तदेव सिद्ध्यति | अयं मे हस्तो भगवानयं मे भगवत्तरः | अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः || (ऋ० १०|६०|१२) ऋग्वेदस्यैव मन्त्रान्तरं प्रमाणयति - अयं मे हस्त इत्यादिना | अर्थस्तु - अयं भगवान् लिङ्गरूपसदाशिवः मे हस्तः मम हस्तगत अयं माता अयं पिता अयं जीवातुरागमात् | इदं तव प्रसर्पणं सुबन्धवेहि निरीहि || (ऋ० १०|६०|७) इत्यत्र भगवच्छब्देन परमशिव एवोच्यते अथैनं भगवन्तं रुद्रं कुमारः पप्रच्छ अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ (काला० उ० २) इत्यादिश्रुतिषु इति संस्तूयमानस्तु भगवान् वृषभध्वजः इति हरिवंशादिषु च शिवे तत्पदप्रयोगात् | एवं चायं भगवान् लिङ्गरूपः शिवः मे हस्तः हस्तगतः मे मत्सम्बन्धी अयं शिवो भगवत्तर इत्यर्थः || इत्यर्थः | अयमेव सदाशिवो मे भगवत्तरः मम सर्वैश्यर्यवत्तरः | अयं मे विश्वभेषजः विश्वेषां रोगाणां निवर्तकौषधस्वरूपः | अयं शिवाभिमर्शनः सर्वेषां कल्याणानां प्रापकः | अयं माता मातृवद् वात्सल्यवान् | अयं पिता पितृवद्रक्षकः | अयं जीवातुः जीवनसाधनभूतः | आगमात् शास्त्रप्रामाण्यात् | इदं तव प्रसर्पणं सुबन्धवेहि | हे सुबन्धो ! निरुपाधिकविश्वसुहृत् ! एहि आगच्छ | इदं तव प्रसर्पणम् इदं मद्धस्तगतं लिङ्गं तव प्रसर्पणं विहारस्थानम् | निरीहीति निर्गमचेष्टारहितः सन् अस्मिन् शिवलिङ्गे तिष्ठेत्यर्थः | अत्र कतिपयपदानामर्थान्तरं स्वयमग्रे मूलकारो वक्ष्यति | अत्र भगवत्पदेन सदाशिव एवोच्यते - भगवन्तं रुद्रं कुमारः पप्रच्छ अथ कालाग्निरुद्रं ननु हस्तगतो भगवानिति वक्तव्ये हस्त इत्युक्तिः कथमिति चेन्न - आदित्यो भगवान् सूर्यो नीलग्रीवस्त्रिलोचनः | अधीयते सहस्रांशुः सामगाध्वर्युहोतृभिः ||
SKइत्यादित्यपुराणवचने य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्यारभ्य अम्बिकापतय उमापतये पशुपतये नमो नमः इत्यन्तेन तैत्तिरीयवचनेन सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् मण्डलान्तरगतं हिरण्मयं भ्राजमानवपुषं शुचिस्मितम् भगवन्तं सनत्कुमारः पप्रच्छ (काला० उ० २) इत्यादिवेदवाक्येषु भगवान् वृषभध्वजः इति हरिवंशादिषु च सदाशिव एव भगवच्छब्दस्य प्रयोगात् | हस्तगत इत्यनुक्त्वा अयं मे हस्त इति बाधितार्थकं कथमुच्यते? इत्याशङ्क्य समाधत्ते - आदित्यो भगवान् सूर्यो नीलग्रीवस्त्रिलोचन इत्यादिना | य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इति य आदित्ये तिष्ठन्नादित्यमन्तरो यमयति यमादित्यो न वेद यस्यादित्यः शरीरम् (बृ० उ० ३|७|९) इत्यन्तर्यामिब्राह्मणमप्यत्रानुसन्धेयम् | एवम् - सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् इत्यनेनापि मण्डलादिभिन्नत्वं इत्यादिवचनैश्चादित्यगतत्वेन प्रतिपादिते परमशिवे शिवादित्ययोरविभाज्य-सम्बन्धद्योतनायादित्यगतस्त्रिलोचन इत्यनुक्त्वाऽऽदित्यस्त्रिलोचन इत्युक्तिवदयं मे हस्तो भगवानित्यत्रापि हस्तशिवलिङ्गयोरविभाज्यसम्बन्धसूचनाय हस्तगत इत्यनुक्त्वा हस्तो भगवानित्युक्तमिति वक्तुं शक्यत्वात् | मण्डलान्तर्गतत्वं साम्बशिवस्य प्रतीयते तथापि आदित्यस्त्रिलोचनः इत्यभेदोपचारो दृश्यते एवमेवायं मे हस्तो भगवानित्यत्रापि द्रष्टव्यमित्याह - आदित्यस्त्रिलोचन इत्युक्तिवदिति | त्रिलोचनस्यादित्यमण्डलान्तर्गतत्वेऽप्यादित्याभेदोपचारवत् शिवलिङ्गस्य हस्ते पूज्यरूपेण वर्तमानत्वेऽप्ययं मे हस्त इत्यभेदोपचार इति भावः | उपचारफलं तु हस्तशिवलिङ्गयोरविभाज्यसम्बन्धबोधनमेव | सम्बन्धेऽविभाज्यत्वं च जीवनदशावच्छिन्नभक्तशरीरवृत्त्यभावाप्रतियोगित्वम् | तेन च लिङ्गधारणस्य सर्वदा कर्तव्यत्वं सिद्ध्यति | एवं चोभयोरविभाज्यसम्बन्धानुपपत्त्या संस्कृत्य गुरुणा दत्तं षडध्वन्यासपूर्वकम् | वामहस्तगतं लिङ्गं सावधानेन पूजयेत् ||
SKधारयेद् यस्तु हस्तादौ लिङ्गाकार शिवं सदा | तस्य हस्तस्थितं विद्धि मत्पदं संपदाम्पदम् || न च धृतेऽपि लिङ्गेऽवयवान्तरावच्छेदेन वृत्त्यभावप्रतियोगित्वस्य सत्त्वे न बाध इति वाच्यम् अभावे प्रतियोगिव्यधिकरणत्वस्य निवेशनीयत्वात् | न चैवं धारणपूर्वकपरित्यागेऽपि तादृशाप्रतियोगित्वाबाध इति वाच्यम् स्वप्रतियोगिनिष्ठाधेयतावद्भिन्नत्वरूपवैयधिकरण्यस्य प्रवेशनीयत्वात् | आधेयतावैशिष्ट्यं च स्वावच्छेदककालावच्छिन्नत्वस्वनिरूपकशरीरनिरूपितत्वोभयसम्बन्धेन | एतदभिप्रायेण वक्ष्यति | षडध्वन्यासपूर्वकमिति | षडध्वन्यासो दीक्षाविधौ द्रष्टव्यः | अत्रैवेशावास्योपनिषद्वाक्यं प्रमाणत्वे इति वातुलवीरागमाद्युपबृंहणादिवचनानुरोधेन च हस्तादौ धारणं लभ्यते | हस्तशिवलिङ्गसम्बन्धस्याविभाज्यत्वादेव- धारयेदवधानेन लिङ्गं तद् गुरुणार्पितम् | प्रमादात् पतिते लिङ्गं प्राणानपि परित्यजेत् || पतिते प्राणलिङ्गे यः प्राणान् धत्ते नराधमः | स चाण्डाल इति ज्ञेयः शिवद्रोही न संशयः || हस्तसिंहासने लिङ्गमप्रमादेन धारयेत् | प्रमादात् पतिते लिङ्गे सह प्राणान् परित्यजेत् || लिङ्गपातिनमाचारनिन्दकं न हृदि स्मरेत् | भूमौ प्रतिष्ठितं लिङ्गं पुनर्नोत्पाट्यते यथा | देहे प्रतिष्ठितं लिङ्गमन्तेऽपि न विभज्यते || इत्यादि लिङ्गाङ्गविभागे दोषविधायकशङ्करसंहितादिवचनान्यपि सङ्गतानि | तद्वचनानामपि शरीरविभक्तलिङ्गस्य पुनः संग्रहे स्वगृह्योक्तविधानेन वाङ्तरप्रायश्चित्तमेव असंग्रहे तु मरणान्तप्रायश्चित्तमित्यत्र तात्पर्यमिति द्रष्टव्यम् | अत एवोक्तमीशावास्योपनिषदि - तेन त्यक्ते न भुञ्जीथा मा गृधः कस्यस्विद्धनम् (ई० १) इति | नोपन्यस्यति - तेन त्यक्ते न भुञ्जीथा इति | तेन लिङ्गात्मना परमेश्वरेण त्यक्ते त्वच्छरीरेण विभागे जाते न भुञ्जीथा अन्यस्य धनं शिवलिङ्गरूपं मा गृधः न कामयस्वेत्यर्थः |
SKतेन कारणेन त्यक्ते प्रमादादिना लिङ्गत्यागे सति पुनरसंग्रहे च सति न भुञ्जीथाः परन्त्वनशनादिना शरीरमेव विसृजेत् | कस्यस्विद् अन्यदीयं धनं लिङ्गं मा गृधः न स्वीकुरुष्व | धनं वै लिङ्गम् इति कौषीतकी श्रुतिरिति | ननु - नारायणोऽपि भगवान् देवकीतनयो हरिः | ततः स भगवान् जज्ञे ब्रह्मा लोकपितामहः || सनत्कुमारो भगवान् इत्यादिषु देवर्षिसाधारण्येन प्रयुज्यमानस्य भगवच्छब्दस्य कथं शिवलिङ्गपरत्वम्? इति चेन्न हस्तेनावद्यति स्रुवेणावद्यति स्वधितिनाऽवद्यति इत्यत्रावदानमात्रसाधारणस्या- prakṛte'pi devatāntarāṇāṃ hastādidhāraṇāprasiddhyā hastagatatva- devarṣisādhāraṇyeneti | tataścāyaṃ me hasto bhagavānityādau brahmāsanatkumārādīnāṃ bhagavatpadena prāptirastītyāśayaḥ | tattatpuroḍāśeti | avadyatītyekānupūrvokapadaśravaṇe'pi hastasruvasvadhitipadānāṃ bhinnārthakānāṃ samabhivyāhārabalādyogyatābalena hastena puroḍāśasya sruveṇa ghṛtasya svadhitinā māṃsasya pṛthak pṛthagavadānaṃ pratīyate evamihāpi liṅgena bhagavacchabdasya śivaliṅgaparatvāvaśyambhāvāt | kiñca ayaṃ śivābhimarśanaḥ (ṛ0 10|60|12) iti vākyaśeṣeṇāyaṃ maddhastagato bhagavān śiva ityabhimṛśyate parāmṛśyata iti śivābhimarśanaḥ śivapadopasthāpya iti yāvat ityarthakena yavavrīhyadhikaraṇanyāyena bhagavatpadasya śivaliṅgaparatvaniścayācca | bhagavacchabdasya sādhāraṇye'pi hastapadasānnidhyāddhastadhṛtaśivaliṅgaparatvamiti samādhānagranthāśayaḥ | yavavrīhyadhikaraṇanyāyeneti | vrīhibhiryavairvā yajeta (āpa0 śrau0 6|31| 13) ityatra yavaśabdasya mleccheṣu priyaṅgau āryeṣu dīrghaśūke ca prayogadarśanāt kasyārthasya prakṛte grahaṇaṃ kāryamiti jijñāsām - yatrānyā oṣadhayo mlāyante athaite modamānāstiṣṭhanti (śa0 brā0 3|6|1| 10) iti vākyaśeṣeṇa dīrghaśūkasyaiva grahaṇaṃ nirṇīyate |
SKएवं हस्तादौ लिङ्गधारणं विधाय तस्य लिङ्गस्य सृष्ट्यादिकर्तृत्वेनार्थवादः क्रियते | तत्रायं माता अयं पितेति सृष्टिकर्तृत्वमभिधीयते | अयं विश्वभेषजं इत्यनेन विश्वस्य भवस्य भेषजः संसाररोगनाशक इत्यर्थकेन संहारकर्तृत्वं प्रतिपाद्यत इति | एवमिहाप्ययं मे शिवाभिमर्शन इति वाक्यशेषबलाद् भगवच्छब्देन शिव एव गृह्यत इति भावः | संहारकर्तृत्वमिति | मध्ये मध्ये प्रारब्धोपस्थापितनानाविधदुःखात्मकरोगशामकत्वेन पालनकर्तृत्वमपि भेषजत्वोक्त्या बोध्यते | नन्वयं शिवाभिमर्शन इत्यत्रेदंशब्देन प्रागुक्तहस्तः परामृश्यते शिवमभिमृशति चन्दनलेपनादिना स्पृशतीति शिवाभिमर्शनः तथा च दारुपीठादौ बाणमरकतलिङ्गाद्यर्चनाकाले दक्षिणहस्तस्य चन्दनलेप- bhagavānityādinā bhagavattvamātṛtvapitṛtvādinārthavādaḥ kriyata iti nāyaṃ mantro hastādau liṅgadhāraṇavidhāyaka iti cenmaivam hastasyācetanatvena tatra bhagavattva- समवेतगुणसम्बन्ध-बोधकत्वे सम्भवत्यसमवेतगुणसम्बन्धबोधकत्वाङ्गीकारस्य जघन्यत्वात् | अत एव - सोमः पवतेर्जनिता मतीनाम् (ऋ० ९|९६|५) इत्यादौ सोमलताया मन्त्रोक्तगुणसम्बन्धाभावेन असमवेतगुणेति | आरोपितगुणेत्यर्थः | समवेतसम्बन्धबोधनार्थमुमया सहितः सोम इति श्लेषमहिम्ना परमशिवाभिव्यञ्जनमिति ग्रन्थकृतां लेखनमपि सङ्गच्छते | किञ्च निखिलभुवनभवनपालनविलयनलीलाधुरन्धरशिवलिङ्गस्य दारुपीठाद्यर्चनासमये कदाचित् स्पर्शनमात्रवत एव हस्तस्याभ्यर्हितत्वेन स्तुतिविषयत्वेऽस्मदुक्तरीत्याऽविभाज्यसम्बन्धेनानन्तकल्याणगुणमणिगण् अरत्नाकरशिवलिङ्गाधिकरणस्य
SKमन्त्रोक्तगुणसम्बन्धाभावेनेति | कथञ्चित् सम्बन्धोपपादनेऽपि जडरूपस्तुतौ वैयर्थ्येनेत्यपि बोध्यम् | अत एव सोमः पवतेर्जनितेति यद्यपि तत्तधिष्ठातृदेवताप्रसादाभिप्रायेण कुशादीनां जडानामपि - पवित्रे स्थो वैष्णव्यौ (तै० ब्रा० ३|७|४|११) इत्यादिना स्तुतिर्दृश्यते तथापि मातृत्वपितृत्वादीनां तत्र बाधितत्वादुमया सहित इति त्युत्पत्त्या सर्वासां स्तुतीनां जलसमुद्रन्यायेनैकाधारभूतस्य परमेश्वरस्योपस्थितिसम्भवेन तादृशक्लिष्टकल्पनाया अनौचित्यादिति भावः | इदं पूर्वमेव व्याख्यातम् - tasya kaimutikanyāyena stutyatāsiddhestatpakṣe'pi liṅgadhāraṇaparatvānapāyāt | śivamabhimṛśate'vibhājyasambandhena sadā spṛśatīti śivābhimarśanaḥ | evaṃbhūto me hasto bhagavān mātā pitetyādinā stotum śakyatvāditi | na cāsmin mate candanalepanādāvabhyarhitadakṣiṇahastasyavopayogena stutisaṃbhavaḥ bhavanmate tu vāmahastasya dhāraṇādhikaraṇatvena ayaṃ śivetyatra idaṃpadena hastaparāmarśeti | kaimutikanyāyeneti | gandhalepādinā kiñcitsparśavataḥ puruṣasya dakṣahastasya evaṃ stutyatve yāvatpūjākālaṃ sākṣāt śivaliṅgādhikaraṇabhūtasya vāmahastasya prāyaḥ sarvadaiva taddhārakasya kaṇṭhādyavayavasya ca arthāt stutiḥ siddhā bhavatītyāha - kiñcetyādinā | asmin mata iti | idaṃpadena vilepanādidātṛhastaparigrahaṇamate | bhavanmata iti kaimutikanyāyāvatārayitṛmate | na tatsambhava iti vācyam vāmahastābhyarhitatvasya pūrvameva sādhitatvāt - saṃskṛtya guruṇā dattamiṣṭaliṅgamatandritaḥ | nityaṃ svavāmahastāgre sāvadhānena pūjayet || iti śaṅkarasaṃhitāvacanena tatra dhāraṇapūjādiyogyatāyā āvaśyakatvācceti |
SKननु शाखाभेदेन सर्वलिङ्गं स्थापयतीत्यनेनान्यथासिद्ध्यभावे समानशाखापठिते पवित्रं ते विततम् (ऋ० ९|८३|१) इति मन्त्रे विहितस्यैव लिङ्गधारणस्यानेन विधानेऽन्यथासिद्धिर्दुर्वारैवेति चेन्मैवम् पवित्रमिति मन्त्रेण सामान्यतः शरीरे लिङ्गधारणविधाने शरीरेऽपि कुत्र धार्यमित्याकाङ्क्षायाम् अयं मे हस्तो भगवान् इति मन्त्रे हस्तरूपाधिकरणविधानेऽन्यथासिद्ध्यभावादिति | अन्यथासिद्धिरिति | पवित्रं ते विततमिति मन्त्रस्यायं मे हस्त इति मन्त्रस्य चैकशाखापठितत्वेन शाखाभेदोक्त्याऽन्यथासिद्धिर्वारयितुं न शक्यत इति भावः | प्रथममन्त्रेण धारणसामान्यं द्वितीयेन हस्तरूपाधिकरणं विधीयत इति नान्यथासिद्धिरित्युत्तरम् | शिवाभिमर्शनपदे व्यापकत्वार्थकाभिशब्देन स्पर्शे सार्वकालिकत्वबोधनात् सार्वकालिकस्पर्शस्य च धारणं विनाऽनुपपत्त्या श्रुतार्थापत्तिप्रमाणेन लिङ्गधारणं सिद्ध्यतीत्येषामाशयः | पूर्वाचार्यास्तु - अयं हस्तः शिवमभितः सर्वदा स्पृशतीति शिवाभिमर्शनः तथा च सार्वकालिकशिवस्पर्शस्य धारणं विनानुपपद्यमानत्वाद् हस्तादौ तत्सिद्धिः | न चाभित इत्यस्य सर्व- अभिशब्देनाभितः सर्वत इति व्याख्यानानुरोधेन दैशिकव्याप्तेरेव प्रत्यायनम् तथाविधस्पर्शस्य च भूम्यादिप्रतिष्ठितलिङ्गेऽपि सम्भवेन न तद्धारणं सिद्ध्यतीत्याशङ्कते - न चेति | भागावच्छेदेनेत्यर्थात् तथाविधस्पर्शस्य भूम्यादिप्रतिष्ठितलिङ्गस्यापि सम्भवेन न लिङ्गधारणसिद्धिरिति वाच्यम् अभित इत्यस्य देशकालोभयार्थकत्वे हस्तादिधृतलिङ्गस्यैव तथाविधस्पर्शसम्भवेन लिङ्गधारणसिद्धिः | येन कारणेन शिवाभिमर्शनः अत एव जीवातुर्जीवनौषधं मे हस्तः हे सुबन्धो परमशिव तवेदं प्रसर्पणमनुसरणमागमत् प्राप्तः | तेन मे हस्तम् एहि धृतः सन् सर्वदा तिष्ठ | तथा च दक्षिणहस्तस्य शिवपूजाकरणत्वेनेतरहस्तस्य तदधिकरणत्वेन च सार्वकालिकशिवस्पर्शविशिष्टः करोऽभ्यर्हित इति भगवत्त्वमातृत्वपितृत्वादिना
SKहस्तादिधृतलिङ्गस्यैवेति | भूम्यादिप्रतिष्ठिते तु सर्वावयवावच्छेदेन स्पर्शो न सम्भवतीति भावः | अयं चासम्भवोऽभित इत्यस्य कालिकव्याप्त्यर्थकत्वे दैशिकव्याप्त्यर्थकत्वे उभयविधव्याप्त्यर्थकत्वे च भूमिष्ठलिङ्गे द्रष्टव्यः | सुबन्धो इति | स्तुतिरुपपद्यते | सर्वदा शरीरस्य शिवलिङ्गसम्बन्धे शिवस्वरूपत्वं च कैमुतिकन्यायसिद्धम् प्राणलिङ्गाङ्गसम्बन्धी स रुद्रो नात्र संशयः इत्युक्तेः | अहो लिङ्गधारणमाहात्म्यम् हस्तद्वयस्य पूजातदधिकरणत्वविनियुक्तत्वेन सर्वशरीरस्याप्याचारादिलिङ्गस्थानत्वेन च सर्वमपि शरीरं शिवार्थमिति प्रशस्तमित्याहुः | वतुतः परमशिवस्यैव त्रैकालिकसंबन्धित्वात् सुबन्धुत्वम् | कैमुतिकन्यायेति | दण्डापूपन्यायेत्यर्थः | तत्स्वरूपं तु येन हस्तिना दण्डो भक्षितः तेनापूपं किमुत भक्षयितुं न शक्येत ? दण्डभक्षकेणापूपमनायासेन भक्ष्यत इति भावः | एवमिहापि हस्तस्य शिवलिङ्गपूजायां करणत्वमात्रेण भगवद्रूपत्वप्राप्त्युक्तौ सर्वदा शिवलिङ्गसम्बन्धिशरीरे शिवत्वप्राप्तिर्भविष्यत्येवेति भावः | अस्याः श्रुतेरुक्तार्थे - यावज्जिवमिदं दत्तमिष्टलिङ्गं समर्चयन् | कराब्जपीठे विन्यस्य तद्ध्यानासक्तमानसः || हस्तलिङ्गाङ्गसम्बन्धी सदानन्दाह्वयो मुनिः | सर्वोपनिषदर्थज्ञः शिवध्यानपरायणः || एवं षट्स्थलनिर्णयं शिवपदप्राप्त्यैकहेतुं सदा यः सेवेत कराब्जपीठनिहितश्रीकण्ठलिङ्गार्चकः | स ज्ञानी स पुरातनः स च महान् माहेश्वरेषूत्तमो मर्त्यस्तेन जगत्त्रयेऽपि सदृशो विद्येत देवोऽपि वा || लिङ्गमन्त्रोपदेशश्च करपीठार्चनं जपः | मल्लिङ्गधारणं त्वत्र लोकाचारप्रवर्तनम् || इत्यादिशङ्करसंहिताकिरणागमवचनान्युपोद्बलकान्यनुसन्धेयानि | अपि च त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते (बृ० जा० ५|१५)
SKअस्याः शुतेरुक्तार्थ इति | अस्योपोद्बलकानीति दूरस्थेनान्वयः | सदानन्दाह्वयो मुनिरिति | सदानन्दनामकमुनिर्यावज्जीवमिष्टलिङ्गं कराब्जपीठे विन्यस्य समर्चयन् मुक्तो जात इति शेषः | षट्स्थलानि शैवागमे प्रसिद्धानि | इति जाबालोपनिषद्वाक्यमपि तद्विषयकं भवति | तत्र हि - नेक्षेत पुजावेलायां नरं वत्स बहिष्कृतम् || दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः | कलाववतरिष्यन्ति निन्दकास्ते बहिष्कृताः || ब्रह्महत्यासुरापानस्वर्णस्तेयकृतः पुरा | बहिर्नरा भविष्यन्ति कलावीश्वरनिन्दकाः || इति शिवनिन्दकानां पापात्मनां बहिष्कार्यत्वप्रतिपादनेन तन्निन्दायाः पापहेतुत्वमेव तत्सादृश्यं त्रिपुण्ड्रनिन्दायाः प्रतिपादितम् | तत्सादृश्यं त्रिपुण्ड्रनिन्दायाः प्रतिपादितमिति | त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते इत्यनेन त्रिपुण्ड्रनिन्दायाः शिवनिन्दातादात्म्यं बोधयता त्रिपुण्ड्रशिवयोरैक्यबोधनद्वारा - लिङ्गधारणकं नाम व्रतं माहेश्वराभिधम् | ये धारणं प्रकुर्वन्ति ते यान्ति परमां गतिम् || इत्युपबृंहणोक्तस्य मोक्षासाधारणकारणभूतस्य लिङ्गधारणस्य सादृश्यं त्रिपुण्ड्रधारणे बोध्यते | सादृश्यस्य च प्रसिद्धप्रतियोगिकत्वनियमेन तदनुरोधेनापि लिङ्गधारणं सिद्धमित्युपपादयति - अपि चेत्यादिना लिङ्गधारणसिद्धिरित्यन्तेन | लिङ्गधारणकं नाम व्रतं माहेश्वराभिधम् | ये धारणं प्रकुर्वन्ति ते यान्ति परमां गतिम् ||
SKइत्युपबृंहणानुरोधेन लिङ्गधारणस्य मोक्षासाधारणकारणत्वमव-धार्य तदौपम्यं त्रिपुण्ड्रधारणस्याभिहितम् | तत्र सादृश्यं नाम तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् | यथा धैर्येण हिमवानिव इत्यादौ हिमवद्भिन्नत्वे सति तद्गतधैर्यादिधर्मवत्त्वमुपमेये तथा प्रकृते लिङ्गधारणभिन्नत्वे सति तद्गतमुक्तिजनकत्वादिधर्मवत्त्वं त्रिपुण्ड्रधारणे वक्तव्यं | एवं सति सद्भ्यां प्रतियोग्यधिकरणाभ्यामभावो हि निरूप्यते इति न्यायेन प्रतियोगिप्रसिद्धिं विनाऽभावप्रसिद्ध्ययोगेनालङ्कारिकमते उपमालङ्कारस्थले उपमानप्रसिद्धेरावश्यकत्वाच्च लिङ्गधारणसिद्धिः | न च धैर्येण हिमवानिव इत्यादौ सादृश्यवाचकेवशब्दसत्त्वेन तथात्वेऽपि प्रकृते तदभावान्न सादृश्यघटकभेदप्रतियोगितया एवं त्रिपुण्ड्रधारणलिङ्गधारणयोर्व्यञ्जनया तादात्म्ये बोधिते उपमानोपमेयभावस्य फलनादुपमानालङ्कारानुरोधेनापि लिङ्गधारणं सिद्ध्यतीत्याह - आलङ्कारिकमत इति | लिङ्गधारणसिद्धिरिति वाच्यम् इवादिशब्दाभावेऽपि वाक्पटुत्वे बृहस्पतिरित्यादाविव गम्यमानसादृश्यघटकभेदप्रतियोगितया तत्सिद्धेः | यद्वा दृष्टान्तालङ्कारो वात्र स्वीक्रियते | तथापि लिङ्गधारणसिद्धिर्दुर्वारैव चेद् बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृतिः इवशब्दं विनापि सादृश्यं प्रतीयत इत्याह - वाक्पटुत्वे बृहस्पतिरिति | त्रिपुण्ड्रं ये विनिन्दन्तीत्यत्र दृष्टान्तालङ्कारोपगमेऽपि तत्सिद्ध्यतीत्याह - iti lakṣaṇe vastuto bhinnayoḥ parasparasādṛśyādabhinnayoḥ pṛthagupādānaṃ bimbapratibimbabhāva iti tasyāpi bhedagarbhitatvena pratiyogividhayā liṅgadhāraṇaprasiddherāvaśyakatvāt | nanvetāvatā śivasya dhāraṇasiddhāvapyantardhāraṇenaiva caritārthatvānna bāhyadhāraṇasiddhiriti cenmaivam yatprāyaṃ śrūyate
SKतस्यापि भेदगर्भितत्वेनेति | बिम्बप्रतिबिम्बभावस्यापि भेदघटितत्वेनेत्यर्थः | अन्तर्लिङ्गधारणमादाय प्रतियोगिप्रसिद्धौ सन्तोषो नैव कर्तुं शक्यत इत्याह - यत्प्रायमिति | यत्प्रायमित्यस्यार्थस्तु यत्प्रतियोगिकसादृश्यवद् यत् यच्च तत् तादृगवगम्यते इति न्यायेन भस्मनो बहिश्शरीरधार्यत्वेनोपमान-भूतशिवलिङ्गस्यापि तथात्वसिद्धेः | एतत्समानार्थककालाग्निरुद्रोपनिषदा-दिष्वपि तत्सिद्धेः तत्र या चास्य प्रथमा रेखा इत्यादिना त्रिरेखाणां महेश्वररुद्रसदाशिवात्मकत्वं प्रतिपाद्य धारणविधानेन शिवस्वरूपत्वेन तासामेव धारणत्वे साक्षाच्छिवधारणस्य कैमुतिकन्यायसिद्धत्वादिति | श्रूयते तत्प्रतियोगिकसादृश्यवत् तदपि गम्यते | अर्थादुपमेये उपमानस्येवोपमानेऽप्युपमेयस्य सादृश्यं तुल्यवित्तिवेद्यतया प्रतीयत इति भावः | लिङ्गाङ्गसम्बन्धस्वरूपमहावाक्यार्थबोधक- तत्त्वमसि (छा० उ० ६|८|७) अहं ब्रह्मास्मि (बृ० उ० १|४|१०) इति वाक्यद्वयेनापि लिङ्गधारणसिद्धिर्निष्प्रत्यूहैव | ननु तत्त्वमसीत्यत्राविद्योपहितं ब्रह्मैव जीव इति श्रुतिप्रतिपन्नाऽविद्योपाधिकदेहेन्द्रियाद्यवच्छिन्नः सांसारिको जीवस्त्वंपदवाच्यः इति श्रुतीति | इयं श्रुतिराउपूर्वीसम्यगन्वेषणे क्रियमाणे मिलिष्यतीत्यस्माल्लेखादनुमीयते | एवम् एकमेवाद्वितीयं ब्रह्म (छा० उ० ६| २|१) इति श्रुतिसहकृता - द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते | तयोरेकः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति | (श्वे० उ० ४|६) इतीयमपि श्रुतिरत्र द्रष्टव्या | अत्र प्रथमश्रुत्या ब्रह्मात्मैक्ये बोधिते द्वितीयश्रुत्या मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे० उ० ४| १०) इति श्रुत्यवगमितमायोपाधिकनीलकण्ठचन्द्रशेखरत्वादिमाङ्गल्यगुण क-सर्वज्ञतादिषडङ्गविशिष्टः परमशिवस्तत्पदवाच्यः | एवं विरुद्धधर्माध्यस्तयोरुभयोरभेदबोधासम्भवेन तत्त्वंपदयोर्विशेषणविनिर्मुक्तचैतन्यलक्षकत्वमङ्गीकृत्याऽभेदो बोध्यत इत्यभ्युपेतव्यम् | अहं ब्रह्मास्मीत्यत्राप्येवमेव |
SKबोध्यमानस्य जीवब्रह्मणोरभेदस्याविद्योपाधिं विनानुपपत्तेः | अभेदबोधासंभवेनेति | यद्यप्यभेदबोधे प्रकारतावच्छेदकविशेष्यतावच्छेदकयोर्भेदोऽपि तन्त्रम् यथा नीलो घट इत्यत्र नीलत्वघटत्वयोः अत एव घटो घट इत्यादौ नाभेदबोध इति जीवब्रह्मणोरुपाध्योर्भेदे नाभेदबोधस्य प्रतिकूलः अपि तूक्तदिशाऽनुकूल एव भवति तथापि तयोः सर्वज्ञत्वाल्पज्ञत्वयोर्विरुद्धत्वाद् भागत्यायगलक्षणोपादीयते | नीलत्वघटत्वयोर्भिन्नत्वेऽपि विरुद्धत्वाभावान्न तादृशलक्षणापेक्षा | तत्र च न लिङ्गाङ्गसम्बन्धबोध इति चेत् अभिप्रायमनवगतवानसि | अहो लिङ्गाङ्गसामरस्यविधुराणां मौढ्यम् | स्कान्दकामिकादिपुराणागम-तत्त्ववेदिनां नैतच्चोद्यं चमत्कारं करोति | तत्र कोऽहमिति शिष्यस्य प्रश्ने गुरुणा हस्तमस्तकसंयोगरूपवेधादीक्षया योगाङ्गापरनामक- bhogāṅgāparanāmakasūkṣmāṅgāvacchinne manudīkṣayā prāṇaliṅgaṃ saṃyojya tyāgāṅgāparanāmakasthūlāṅgāvacchinne kriyādīkṣayeṣṭaliṅgaṃ yojayitvā tattvamasītyuktam | tacchṛtvā śiṣyastu - līnaṃ gacchati yasmin sā māyā durghaṭakāriṇī | liṅgāṅgasāmarasyeti | sāmarasyamekarasatvam parasparanityasambandhitvamiti yāvat | skāndakāmikādipurāṇāgamatattvavedināmiti | ayametatprakaraṇasārāṃśaḥ - liṅgāṅgasambandha eva tattvamasītivākyenocyate liṅgapadasya tatpadenāṅgapadasya ca tvaṃpadena samānārthakatvāt | līnaṃ gacchati talliṅgamiti sanmātraṃ rūpyate pāramārthikaiḥ || etasmāt kāraṇādeva liṅgarūpatvamīśituḥ | iti śaṅkarasaṃhitāvacanānurodhena māyopādhikaliṅgarūpaśarīrāvacchinno brahmaiva tatpadavācyaḥ amiti brahma sanmātraṃ gacchatīti gamucyate | rūpyate'ṅgamiti prājñairaṅgatattvavicintakaiḥ || tasmādaṅgasvarūpo'sau jīvaḥ saṃsāravṛttibhāk || iti |
SKयस्मिन् सा माया दुर्घटकारिणी इति व्युत्पत्त्या लिङ्गपदेन सन्मात्रं ब्रह्मतत्त्वमुच्यते अम् ब्रह्म गच्छतीति व्युत्पत्त्या अङ्गपदेन जीवात्मा उच्यते | इत्युभयोर्वाक्ययोः समानतात्पर्यकत्वमुपपद्यते | एतदुपादानार्थमेवागमस्थो गुरुशिष्यसंवादो बोधयते | यत्र कोऽहमिति प्रश्ने गुरुणा शरीरत्रये लिङ्गत्रयं योजयित्वा तत्त्वमसीत्युत्तरमुक्तम् ब्रह्मात्मकलिङ्गस्य त्रिषु शरीरेषु योजितत्वात् | ब्रह्मस्वरूपे त्वं सम्पन्नोऽसीत्युत्तरवाक्यस्य तात्पर्यम् | अत्र योगाङ्ग भोगाङ्गत्यागाङ्गशब्दा जीवोपाध्यर्थकाः | तत्राविद्यावच्छिन्नस्य प्राज्ञस्य जीव्स्योपाधिभूताविद्याकारणशरीरं योगाङ्गपदेनोच्यते | तस्मिन् शरीरे हस्तमस्तकसंयोगरूपवेधादीक्षया भावलिङ्गस्य योजनं गुरुणा क्रियते | एवं पञ्चकर्मेन्द्रिय-पञ्चज्ञानेन्द्रिय- ya jīvasyopādhibhūtaṃ liṅgaśarīraṃ bhogāṅgamityucyate | tasmin manudīkṣayā prāṇaliṅgasya saṃyojanaṃ kriyate | evaṃ viśvākhyajīvasyopādhibhūtasthūlaśarīraṃ tyāgāṅgamucyate | tasminniṣṭaliṅgasya yojanaṃ kriyate | evaṃ śarīratraye liṅgatrayayojanottaraṃ tattvamasīti śiṣyamuddiśya gurūktirityam - tasmādaṅgasvarūpo'sau jīvaḥ saṃsāravṛttibhāk | tasmād brahmakarmakaprāpti- vacanānurodhena harādyupāsanāviśeṣairavidyāpaṭaladhvaṃse aṃ brahmāṇaṃ paramaśivaṃ gacchatītyaṅgaṃ tvaṃpadavācyo jīvaḥ | aṅgapadasya śarīravācitve'pi - yasya cātmā śarīram (śa0 brā0 14| 6|7|30) yasyāvyaktaṃ śarīram (su0 u0 7|1) iti śrutyā brahmaṇo jīvaśarīrakatvenāṅgaṃ śarīrabhūtaṃ jīvastvaṃpadavācyaḥ | liṅgāṅgarūpayoryo'sau saṃyogaḥ śivajīvayoḥ | etatsvarūpaṃ sudṛḍhaḥ sambandha iti sa smṛtaḥ || iti vacanena samyag yogaḥ saṃyoga iti vyutpattyā jīvabrahmaikyāparanāmaka-
SKकृतत्वादिति | अङ्गपदस्य शरीरवाचित्वेऽपीति | रूढिशक्त्येति भावः | ततश्चाङ्गपदार्थस्य ब्रह्मणा सहाभेदो बाधित इत्यपि सूचितविरुद्धांशः | यस्य चात्मा शरीरमिति | य एष आत्मनि तिष्ठन्नात्मानमन्तरो यमयति यस्य चात्मा शरीरं यमात्मानं वेद (श० ब्रा० १४|६|७|३०) इत्यन्तर्यामि ब्राह्मणेन पृथिव्यादिजीवात्मपर्यन्तस्य सकलस्य वस्तुजातस्य ब्रह्मशरीरत्वबोधनात् | ब्राह्मणेन शरीरेणात्मनो ब्राह्मणत्वब्राह्मणाभेदव्यवहारवत् ब्रह्मणः शरीरभूतेन जीवात्मना ब्रह्मणोऽपि जीवाभेदव्यवहारो नानुपपन्नो भवतीति विशिष्टाद्वैतसिद्धान्तमाश्रित्यैतत्प्रकरणप्रवृत्तिर्द्रष्टव्या | अथवा - विग्रहं देवदेवस्य जगदेतच्चराचरम् | एतमर्थं न जानन्ति पशवः पाशगौरवात् || इति रीत्या ब्रह्मशरीरभूताङ्गपदवाच्यसकलचराचरप्रपञ्चस्त्वं- tayoravibhājyayogo'si-padārtha iti buddhyā liṅgāṅgapadārthābhinnayostattvaṃpadavācyārtha- तत्त्वंपदलक्ष्यार्थयोरेवाभेद इति विजानाति | तदनन्तरमहं ब्रह्मास्मीत्यखण्डमहावाक्यार्थमनुभवन् जीवन्मुक्तो भविष्यतीति | यावदुक्तार्थबोधकानि तु वचनानि स्कान्दलैङ्गादिपुराणेषु वातुलोत्तरभागेऽनुभवसूत्रे वीरागमादौ च- कोऽहमित्यब्रवीद् देही गुरुं परमकारणम् | गुरुस्तत्त्वमसीत्याह सत्यार्थं करुणानिधिः || (अ० सू० ५|२४) इत्यादीनि बहूनि सन्ति ग्रन्थविस्तरभयान्नेह विलिख्यन्ते |
SKएवं जीवब्रह्मणोः शरीरभावेनाभेदबोधकत्वमुपपाद्य चराचरस्य सम्पूर्णस्य जगतो ब्रह्मणा सहाभेदबोधपरत्वं व्याख्यातुमुपक्रमते - अथवेति | विग्रहं देवदेवस्येति | अस्मिन् पक्षे ब्रह्मशरीरभूतः सकलचराचरप्रपञ्चस्त्वंपदार्थः लिङ्गाधिष्ठितपरमशिवस्तत्पदवाच्यः तयोरविभाज्यसम्बन्धोऽसिपदेनोच्यते | एवं तत्त्वंपदार्थयोरविभाज्यसंयोगेन कीटभ्रमरन्यायेन जीवे शिवत्वप्राप्त्यनन्तरं क्रमेणाद्वैतवेदान्तिनामभिमतो वास्तविकाऽभेदोऽपि सिद्धो भवतीत्याह - तत्त्वंपदलक्ष्यार्थयोरेवाभेद इति | विजानातीति | अत्र विजानातीत्युक्त्या वस्तुतोऽखण्डत्वमिदानीमपि न भवतीति सूच्यते | ततश्च चिदंशस्यैकरसत्वेन स्वात्मनि ब्रह्मरूपतादृष्टिं प्राप्नोतीति लभ्यते | फलं च जीवन्मुक्तत्वलाभ इत्याह - अहं ब्रह्मास्मीत्यखण्डमहावाक्यार्थमनुभवन् जीवन्मुक्तो भविष्यतीति | लिङ्गाङ्गसंयोगपदार्थानां तत्त्वमसीत्यादिपदार्थानां चाभेदबोधकानि कानिचिदुदाह्रियन्ते | तथाहि स्कान्दे शङ्करसंहितायाम् - लिङ्गं किमङ्गमिति किं सम्बन्धः कोऽयमेतयोः | लिङ्गाङ्गसम्बन्धपदान्येवमेव विचिन्तयेत् || लिङ्गरूपो महादेवः सच्चिदानन्दलक्षणः | अङ्गरूपो हि जीवात्मा भवभावनियन्त्रितः || तत्पदेनोच्यते सद्भिर्लिङ्गरूपः सदाशिवः | त्वंपदेनाङ्गरूपो हि जीवः संसारलक्षणः || त्वमर्थोऽङ्गस्वरूपो यः सोऽहं शब्दार्थ एव हि | त्वमहं पदलक्ष्यार्थश्चिद्रूपः परमेश्वरः || लिङ्गाङ्गेति | क्रमेणान्वयोऽत्र द्रष्टव्यः | लिङ्गतत्पदार्थयोरङ्गत्वंपदार्थयोः संयोगाऽसिपदार्थयोश्च यथासंख्यमन्वयो बोद्धव्यः |
SKभवभावनियन्त्रित इति | संसारवासनाबद्ध इत्यर्थः | अस्मिन् प्रकरणे लिङ्गरूपो महादेव इत्यारभ्य लक्ष्यार्थं लक्षयित्वा तमित्यन्तैर्वातुलागमवाक्यैस्तत्त्वमसि सोऽहमस्मीत्येतन्महावाक्यघटकपदार्थानां लिङ्गाङ्गसंयोगपदार्थेष्वेवमुक्तवाक्ययोर्विशिष्टार्थस्य लिङ्गाङ्गसंयोगात्मकविशिष्टवाक्यार्थे वारं वारमभेदभावनं सविलासाऽविद्यानिवृत्तिहेतुभूतं प्रत्येकपदार्थतत्त्वनिशयपूर्वकमुपदिश्यते | एवं प्रकाशिततात्पर्यकस्यास्य प्रकरणस्य कानिचिद्वाक्यानि व्याख्यायन्ते | त्वमर्थोऽङ्गस्वरूपो यः सोऽहंशब्दार्थ एव हि | अय भावः - तत्त्वमसीत्यत्र त्वंपदार्थः लिङ्गाङ्गसंयोग इत्यत्राङ्गपदार्थः सोऽहमस्मीत्यत्राहंशब्दार्थश्चैक एव | त्वमहंपदवाच्यार्थस्यैव देहादिवस्तुनः | न तच्छब्दार्थतास्यैव विरुद्धत्वात् सदैव हि || त्वमहं पदलक्ष्यार्थो जीवात्मा चाङ्गरूपकः | अशिवश्चेत् सदानन्दस्ततो नैव विलोकयेत् || लक्ष्यार्थो दर्श्यते - त्वमहंपदलक्ष्यार्थश्चिद्रूपः परमेश्वर इति | अत्र सोऽहमस्मीत्यहंपदेनाहं गच्छाम्यहं तिष्ठामीत्यादिलौकिकवाक्यस्थाहंशब्दार्थप्रतिपादने विवक्षिते त्वमहंपदलक्ष्यार्थ इत्युत्तरार्धं विरुध्यते लौकिकवाक्यस्थाहंपदस्य लक्ष्यार्थे तात्पर्याभावादिति सोऽहमस्मीति श्रौतवाक्यस्थाहंशब्दमभिप्रेत्य व्याख्यातम् | शक्यार्थस्याभेदः कस्मान्न भवतीति शङ्कामपाकरोति - त्वमहंपदवाच्यार्थस्यैव देहादिवस्तुनः | न तच्छब्दार्थताऽस्यैव विरुद्धत्वात् सदैव हि ||
SKननु त्वमहंपदाभ्यां स्थूलदेहोपलक्षितजीवमात्रं लक्षयितुमुचितम् तस्यैव परमात्मशरीरत्वात् | ततश्च चिद्रूपपरमेश्वरस्य लक्ष्यत्वोक्तिरनुपदोक्ता न संगच्छत इत्यत आह - त्वमहंपदलक्ष्यार्थो जीवात्मा चाङ्गरूपकः | अशिवश्चेत् सदानन्दस्ततो नैव विलोकयेत् || इति | अत्र विलोकयेदित्यत्र कर्मणः कर्तृत्वविवक्षा बोद्धव्या अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति चेतिवत् | अयं भावः - लक्ष्याऽङ्गरूपो जीवोऽशिवश्चेच्छिवभिन्नश्चेत् तदा जीवात्मन आनन्दरूपत्वाभावान्मा न भूवं हि भूयासमित्यात्मविषयकपरप्रेमसूचितात्मन आनन्दरूपता न दृश्येत दृश्यते त्ववश्यम् | यद्वा न विलोकयेद् न चेतयेत् ब्रह्मभिन्नस्य जडत्वादिति तात्पर्यम् | इदं च परमानन्दत्वभानं सामान्यरूपेणैव भवति | तस्मान्न सर्वथा शिवादभिन्नो जीवात्मेति सांसारिकविषयस्पृहाऽप्युपपद्यते | तदुक्तं विद्यारण्यैः - अभाने न परं प्रेम भाने न विषये स्पृहा | तस्मादभानं भानेऽपि प्रतिबन्धेन युज्यते || अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत् | (प०द० १|११-१२) इत्यादि | जगच्चराचरं यत्तत् तत्त्वं पूर्णं चिदात्मकम् | शुद्धं तदङ्गरूपो हि तत्त्वमर्थो न संशयः || तत्त्वंपदार्थे लिङ्गाङ्गरूपेऽन्योन्यविरुद्धकम् | उपाधिकृतवाच्यार्थं त्यक्त्वा सच्चित्सुखात्मकम् || लक्ष्यार्थमविरुद्धं यच्छिवं तदिति या मतिः |
SKजगच्चराचरमिति | चराचरस्य जगतस्तत्त्वमात्मभूतमन्तर्यामीति यावत् शुद्धं पूर्णं चिदात्मकं शिवस्वरूपमिति भावः | शिव एव सर्वेषामात्मेति भावः | तदङ्गरूपो हीति | चराचरं तु तच्छरीरभूतमित्यर्थः | तत्त्वमसीत्यत्र कल्पद्वयं पूर्वमपि दर्शितम् - जीवस्त्वंपदार्थः परमात्मा तत्पदार्थ इत्येकः कल्पः | चराचरं जगत् त्वंपदार्थः परमात्मा पूर्ववदेव तत्पदार्थ इति द्वितीयः कल्पः | तदेव कल्पद्वयं शङ्करसंहितावाक्येन दर्शितम् - उपाधिकृतवाच्यार्थमिति | उपाधिभिर्देवत्वमनुष्यत्वादिभिर्जीवात्मा देवमनुष्यादिरूपः कृतो भवति वस्तुतस्तस्य देवत्वमनुष्यत्वादिकं नास्ति | एवं तादृशोपाधिविशिष्टजीवैस्तत्तदुपाधिप्रापितजीवगतवैलक्षण्यैर्जीवानां देवमनुष्यादिरूपाणामन्तर्यामीन्द्रवरुणादिरूपतां मनुष्यादिरूपतां च प्रापित इव भवति | इदमेवोपाधिकृतं रूपमुभयभागे द्रष्टव्यम् दलद्वयोपाध्योः परित्यागे सच्चित्सुखात्मकशिवांशस्यैवावशेषात् | तावन्मात्रबुद्धिरभेददृष्टिरुच्यते | तस्या एवाऽज्ञानपटलध्वंसद्वारा परमपुरुषार्थसाधकत्वम् न तु वस्तुतो जीवब्रह्मणोरभेदोऽस्मिन् सा सम्बन्ध इति प्रोक्ता वेदान्तागमवेदिभिः || लिङ्गरूपो महादेवः पूर्णश्चैतन्यलक्षणः | भाति यः सोऽङ्गरूपोऽहं जीवात्मास्मि न चापरः || यो भाति चाङ्गरूपोऽहं जीवात्मा परमात्मनः | सोऽयमात्मा महादेवो लिङ्गरूपो महेश्वरः || यो मायोपाधिको देवो लिङ्गरूपी सदाशिवः | सोऽविद्योपाधिको भूत्वा भवत्यङ्गस्वरूपवान् ||
SKमते विवक्षितः भक्तिपक्षस्य शैवशास्त्रसिद्धान्तत्वात् | लिङ्गरूपो महादेव इति | यश्चैतन्यस्वरूपो महादेवो लिङ्गरूपो भाति तद्रूपोऽहमिति स्वस्मिन् परमात्मतादात्म्यभावना प्रथम कर्तव्यत्वेनोपदिश्यते | यो भाति चाङ्गरूपोऽहमिति यः परमात्मनोऽङ्गरूपो जीवो भाति स महेश्वर एवेति लिङ्गरूपे महेश्वरे जीवात्मनो लयभावना पूर्वभावनावैपरीत्येन द्वितीया कर्तव्यत्वेनोपदिश्यते | यो मायोपाधिको देव इति | शुद्धसत्त्वप्रधानाविद्यासमष्टिः परमात्मन उपाधिभूता मलिनसत्त्वप्रधाना व्यष्टिभूताऽविद्या जीवस्योपाधिभूता | यथोक्तं पञ्चदश्याम् - सत्त्वशुद्ध्यविशुद्धिभ्यां मायाविद्ये च ते मते | मायाबिम्बो वशीकृत्य तां स्यात् सर्वज्ञ ईश्वरः | अविद्यावशगस्त्वन्यस्तद्वैचित्यादनेकधा (१|१६-१७) इति | तदेवास्मिन् पद्य उच्यते | एवं मायोपाधिको लिङ्गरूपी सदाशिवः | स एवाऽविद्योपाधिको भूत्वाऽङ्गस्वरूपवान् जीवस्वरूपो भवतीत्यर्थः | इयं तृतीयभावना शिवयोगिभिः कर्तव्यत्वेनोपदिष्टा द्रष्टव्या | पूर्वं शुद्धयोः परमेश्वरजीवयोर्मध्ये जीवे परमेश्वररूपत्वं प्रकारद्वयेन भावनीयत्वेनोक्तम् | परमेश्वर एव जीवो जीवः परमेश्वर एवेति वस्तुत उभयोरपि भावनयोर्भावनीयं वस्त्वेकमेव | केवलमुद्देश्यविधेयभावमात्रं भिद्यते | तृतीयभावनायां तु कार्यकारणरूपेण तादात्म्यं भावनीयत्वेनोपदिश्यते | यो मायोपाधिकः स एवाऽविद्योपाधिको भवतीति | तत्पदेनोच्यते लिङ्गं त्वंपदेनाङ्गमीरितम् | अनयोरैक्यभावोऽयं सम्बन्धोऽसिपदेन च || इति वाक्यानुसन्धानं भासते यस्य सन्ततम् | गुरूपदेशाल्लिङ्गाङ्गसम्बन्धीति स उच्यते || एवं लिङ्गाङ्गसम्बन्धभावना यस्य विद्यते |
SKएवं लिङ्गाङ्गयोस्तादात्म्यभावनात्रयमुपदिश्य श्रौतवाक्यार्थत्वेनापि तच्चिन्तनीयं प्रामाणिकत्वेन ससंरम्भप्रवृत्तिलाभायेत्याह - तत्पदेनोच्यते लिङ्गमित्यादि सम्बन्धोऽसिपदेन चेति | सम्बन्धस्याकाङ्क्षाभास्यतया प्रकृतेऽभेदलक्षणः संसर्गस्तत्पदसम्भिव्याहृतत्वं पदत्वरूपाकाङ्क्षाज्ञानादेव भासते | असिपदस्य विशिष्टसत्ताबोधकत्वेन वैशिष्ट्यबोधेऽप्युपयोगित्वादियमुक्तिः | अथवा कटे चैत्रोऽस्तीत्यादौ सप्तम्यन्तप्रथमान्तसमभिव्याहारे सप्तम्यन्तार्थे प्रथमान्तार्थनिष्ठाधेयतारुपसत्ताया अस्तिपदेन बोधनवत् प्रथमान्तद्वयसमभिव्याहारे उद्देश्ये विधेयस्याभेदरूपसत्ता बोध्यत इति सम्यगुक्तमिदं भवति | स योगी स च सर्वज्ञो जीवन्मुक्तः स उच्यते || लिङ्गाङ्गपदवाच्यार्थं हित्वा सम्यग्धिया पुनः | लक्ष्यार्थं लक्ष्ययित्वा तं सोऽहमेवेति चिन्तयेत् || लिङ्गाङ्गपदसम्भूतसम्यग्धीजन्ममात्रतः | एवं तत्त्वमसि अहं ब्रह्मास्मीति वाक्योत्थभावनात्रयं कर्तव्यत्वेनोपदिश्य तस्य फलमाह - लिङ्गाङ्गसम्बन्धीति स उच्यत इति | ननु संज्ञाविशेषलाभेऽपि वस्तुतो न किञ्चिदभीष्टं सिद्धं भवतीति पर्यनुयोगे आह - स योगी स च सर्वज्ञो जीवन्मुक्तः स उच्यत इति | योगः तज्जन्यैश्वर्यम् सर्वज्ञता जीवन्मुक्तिश्च सिद्धा भवतीति महाफललाभोऽस्य सम्पद्यत इति भावः | नैतावन्मात्रमपि तु परमपुरुषार्थमोक्षमप्यसौ प्राप्नोतीत्याह - liṅgāṅgapadayostattvaṃpadayośca vācyārthaṃ māyārūpopādhiviśiṣṭamavidyārūpopādhiviśiṣṭaṃ ca hitvā tyaktvā lakṣyārthaṃ jahadajahallakṣaṇayopanītaṃ śuddhacaitanyaṃ gṛhītvā sa evāhamiti cintayan tādṛśacintodbhūtayathārthabuddhibalāt avidyā saha kāryeṇa nābhūdasti bhaviṣyati || iti | anubhavasūtre - liṅgaṃ tatpadamākhyātamaṅgaṃ tvaṃpadamīritam | saṃyogo'sipadaṃ proktamanayoraṅgaliṅgayoḥ || (5|27) iti | evaṃ paramāptaparamaśivapraṇītavedavihitatvena liṅgadhāraṇasya vaidikajanaparigrāhyatvamabhihitam |
SKसविलासाऽविद्या नासीत् नाऽस्ति न भविष्यतीत्यभावत्रयप्रतियोगित्वेन ज्ञाता भवतीति निःशेषाविद्योच्छेदेन परममुक्तिमप्ययं प्राप्नोतीति भावः | अनुभवसूत्रमपि प्रमाणयति - लिङ्गं तत्पदमाख्यातमिति | तत्पदेनाख्यातमिति वक्तव्ये छन्दोऽनुरोधादियमुक्तिर्बोध्यबोधकयोरभेदाभिप्रायेण कथञ्चिन्नेतव्या |
SKइदं पुनरत्रावधातव्यम् - सर्वाप्यत्र प्रक्रियाऽद्वैतसिद्धन्तवत् प्रतीयते तेन स एव सिद्धान्तोऽत्राभिमतोऽस्तीति बहूनां भ्रमः संभवति | परं तथा न भ्रमितव्यम् | अद्वैतसिद्धान्ते हि उपाधीनां सर्वेषां मिथ्यात्वमेवास्ति | अत्र तूपाधीनां न मिथ्यात्वम् किन्तूतादविनाशशालित्वेनानित्यत्वमात्रम् | एवं जीवब्रह्मणोरद्वैतसिद्धान्ते सर्वथाऽभेद एवास्ति | एतन्मते तु परमेश्वरस्य जीवान्तर्यामितया जीवानां च तच्छरीरतया अहं मनुष्यऽहं देव इति अहं कृशोऽहं स्थूल इत्याद्यभेदवद् जीवब्रह्मणोरप्यारोपिताभेदो व्यवह्रियते | तर्हि किमर्थं वाच्यार्थपरित्यागेन लक्ष्यार्थमादायाऽभेद उपपाद्यते किमर्थं च जीवब्रह्मणोः स्वरूपत एव भेदसिद्धौ मायाऽविद्यारूपोपाधिद्वयं तयोर्भेदोपपादनाय परिगृह्यत इति चेत् श्रूयताम् - सच्चिदानन्दस्वरूपस्य सर्वशक्तिमतः सर्वज्ञस्य परमेश्वरस्य जडचिदात्मकं सर्वं जगत् तदात्म्येनाभिमानविषयीभूतमिति परमेश्वरः सर्वात्मक उच्यते | जीवानां तु चिद्रूपाणामेव तत्तच्छरीरमात्रं तादात्म्येनाभिमानविषयीभूतमिति जीवास्तत्तच्छरीरात्मकाः पृथग् पृथग् भेदवन्त् उच्यन्ते | परमेश्वरस्य सर्वाभिमानित्वात् सर्वशक्तिमत्त्वाच्च सर्वमेव जगद् यथेच्छति तथा कर्तुं शक्नोति सः | यदुक्तं भगवता - सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति || (भ० गी० १३|१४) इति ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || (भ० गी० १८|६१) इति च | जीवानां तु स्वशरीराभिमानित्वादल्पशक्तिमत्त्वाच्च स्वेच्छाप्रयत्नाभ्यां साक्षात् स्वस्वशरीरमात्रचेष्टने शक्तिर्भवत्यसति बाधके | एवं स्थिते परमेश्वरस्य निरस्तसाम्यातिशयमैऽस्वर्यं सर्वजगन्नियामकत्वं सर्वशक्तिमत्त्वं च दर्शयितुं मायोपाधिकत्वमिदं दर्शितम् न त्वद्वैतवेदान्त इव वास्तविकाऽभेदेऽपि भेदोपपादनार्थं सर्वं जगदेवात्र मायापदेनोच्यते | तस्मिन्
SKतादात्म्याऽभिमाननिमित्तकत्वात् सर्वनियन्तृत्वादिरूपैश्वर्यस्य मायोपाधिकत्वमुच्यत इत्याशयः | शक्तिविशेष एव माया इति वा | उपाधिभूतं वाच्यांऽसं परित्यज्य लक्ष्यार्थदर्शनं तु लक्ष्यभागस्यैव स्वान्तर्यामितया स्वात्मत्वबुद्ध्या सोऽहमिति चिन्ताभ्यासस्यौइचित्यलाभाय | तादृशचिन्ताभ्यासश्च परमात्मशरणकत्वदृढीकरणेन परमेश्वरप्रसादलाभाय | ततश्चाज्ञाननिवृत्त्या सकलक्लेशात्यन्तनिवृत्तिलक्षणो मोक्षः सिद्ध्यति | परमेश्वरस्याभिमानस्तदीयसर्वज्ञताया बाधको न भवतीति तदीयोपाधिः इदानीं वेदार्थप्रतिपादकगौतममन्वादिस्मृतिविहितत्वेनापि तस्य तथात्वं प्रदर्श्यते | गौतमस्मृतौ- मुखे मन्त्रो हृदि ध्यानं मस्तके लिङ्गधारणम् | रुद्राक्षं च शिखा भस्म इति ब्राह्मणलक्षणम् || इति | अत्र हृदि ध्यानम् अन्तर्लिङ्गानुसन्धानम् मस्तके लिङ्गधारणमिति बाह्यलिङ्गधारणं चाभिहितम् | शुद्धसत्त्वप्रधाना मायोच्यते | अस्यैवाभ्यासस्य दार्ढ्याय लिङ्गाङ्गयोगोऽन्तर्बहिर्धारणरूपतया द्विविधे लिङ्गे च ब्रह्मरूपत्वदृष्टिः कर्तव्यत्वेनोच्यते | अविध्यासहकारेण नाभून्नास्ति इत्युक्तिस्त्वभिमाननिवृत्त्या तत्प्रयुक्तप्रवृत्तीनां सकलदुःखस्य च निवृत्त्यभिप्राया द्रष्टव्या न तु सर्वथा स्वप्नपदार्थनिवृत्तिवत् प्रपञ्चनिवृत्त्यभिप्राया जगति तादृशमिथ्यात्वस्यैतन्मतेऽनभ्युपगमादित्यलम् | एवं वेदवाक्यैर्लिङ्गधारणस्य कर्तव्यत्वं साधयित्वा स्मृतिरपि तत्कर्तव्यत्वं दर्शयतीत्याह - मुखे मन्त्र इति | नन्वत्र ब्राह्मणमात्रोद्देशेन मन्त्रध्यानलिङ्गधारणादिषड्विध-धर्मवत्त्वं विधीयते तच्चाचारविरुद्धम् केषुचिल्लिङ्गधारणभस्म-धारणोभयाभावात् केषुचिल्लिङ्गधारणाभावादिति चेन्न मृताहं समतिक्रम्य चाण्डालाः कोटिजन्मसु इति तच्चाचारविरुद्धमिति | श्रौतस्मार्तब्राह्मणेषु बहुषु यावज्जीवमग्निहोत्रानुष्ठानकर्मशालिषु लिङ्गधारणादेरदर्शनादिति भावः | तदेव दर्शयति - केषुचिदित्यादिना | समाधत्ते - मृताहं समतिक्रम्येत्यादिना | मृताहं क्षयदिने
SKब्राह्मणमात्रोद्देशेन मृतिदिनश्राद्धातिक्रमे दोषविधायकवाक्यस्यैकादश्यादि- rātriḥ śivā kācana sannidhatte vilocane jāgṛtamapramatte | dine ekoddiṣṭaśrāddham matabhedena tridaivatapārvaṇaṃ vā samatikramya akṛtvā | atra kṣayaḥ piturmātuśca grāhyaḥ tayoreva sāṃvatsarikasya nityatvāt | ānandatīrthīyeti | tairekādaśyāṃ śrāddhaprāptau vratabhaṅgabhiyā śrāddhaṃ na kriyate | tadā tanniṣedhakavākyānāṃ vaiṣṇavagrantheṣūpalabhyamānānāmanurodhena śrāddhātikramadoṣabodhakavākye ekādaśīmṛtasya pituḥ putrebhyo vaiṣṇavaviśeṣebhyo'tiriktaviṣayakatvenāyaṃ saṅkoco mantavyaḥ | rātiḥ śiveti | kaścicchaivaḥ śivarātrau jāgaraṇāya svakīyanetre protsāhayati - समानधर्मा युवयोः सकाशे सखा भविष्यत्यचिरेण कश्चित् || इति सकलजनलोचनोद्देशेन जागरणविधायकवाक्यस्य रामानुजमतानुयायि-व्यतिरिक्तविषयत्ववच्चास्यापि लिङ्गधारिविप्रविषयत्वात् | किञ्च मस्तके लिङ्गधारणमिति विशेषपर्यवसायिपदसत्त्वेन सामान्यपरस्यापि ब्राह्मणपदस्य लिङ्गाङ्गिब्राह्मणरूपविशेषपर्यवसानाच्च | शिवा कल्याणमयी रातिः शिवरात्रिरिति यावत् सन्निधत्ते सन्निहिताऽस्ति | अस्यां रात्रौ युवामप्रमत्ते सावधाने सती जागृतं प्रमादन्निद्रावती मा भूतमित्यर्थः | किमेतस्य फलमित्यत्राह - समानेति | युवयोः सकाशं समीपं युवयोः समानधर्मा सखा मित्रम् अर्थात् तृतीयं नेत्रमचिरेण कालेन भविष्यति | अस्यां रात्रौ जागरणात् त्रिनेत्रः साक्षाच्छिव एव मनुष्यो भवतीति तात्पर्यम् | तेन च शिवरात्रौ जागरणं शिवत्वप्राप्तये कर्तव्यमिति विधानं लभ्यते | एनमपि विधिं कतिपयवैष्णवसम्प्रदायानुयायिनो नन्वेमपि लिङ्गाङ्गिब्राह्मणोद्देशेन मन्त्रध्यानादिषड्विधधर्म- brāhmaṇalakṣaṇamiti vākyānurodhena brāhmaṇatve na manyante vākyaviśeṣādāgrahād vā | evameva liṅgadhāraṇavidhirapi liṅgadhāribrāhmaṇaviṣayako mantavyaḥ | vastutastvavihitakarmaṇāmasaṅkoce'pi
SKसति षड्विधधर्मवत्त्वं लिङ्गाङ्गिब्राह्मणानां लक्षणमित्यत्र तात्पर्यावसायादिति | श्राद्धादिवैधुर्यादिना कैश्चिदननुष्ठानेऽपि विधीनां काचित् क्षतिर्न भवति | इह सङ्कोचोक्तिस्त्वभ्युपगमवादेन | तत्रैव - अक्षपादादयः सर्वे शक्त(ऋष)यः परया मुदा | धारयन्त्यलिकाग्रेषु शिवलिङ्गमहर्निशम् || इति मनुस्मृतौ- सर्वकर्मविमुक्तस्य ध्यानयोगरतस्य च | न तस्य दहनं कार्यं न च पिण्डोदकक्रिया || ध्यानयोगरतस्य दहनादिकनिषेधतास्मृतिवाक्येनापि लिङ्गधारणं सिद्धं भवतीत्याह - सर्वकर्मविमुक्तस्येत्यादि | कोऽसौ ध्यानयोगरत इत्याकाङ्क्षायां इत्यत्र समुच्चयद्योतकचकारसत्त्वेन ध्यानयोगरतसर्वकर्मविमुक्तयोः प्राधान्येनोद्देश्यत्वात् कोऽसौ ध्यानयोगरत इत्याकाङ्क्षायाम् - शिवध्यानरतो भूत्वा शिवलिङ्गाङ्गसंयुतः | शिवेतरपरित्यागी ध्यानयोगी स उच्यते || यथा बाह्ये शिवं ध्यात्वा पूजां कुर्वन्ति मानवाः | तथा हृदि प्रसन्नश्चेद् ध्यानयोगी स उच्यते || इति तत्रैवोक्तत्वेन सर्वकर्मविमुक्तपदोपस्थाप्ययतीश्वरं ध्यानयोगि-पदोपस्थाप्यलिङ्गधारिणं चोद्दिश्य दहनाभावादिविधानेन लिङ्गधारणसिद्धिः | बोधायनस्मृतौ - सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च | न तस्य दहनं कुर्यान्नाशौचं नोदक क्रिया || स्मृतिस्थमेव ध्यानयोगरतलक्षणं दर्शयति - शिवध्यानरतो भूत्वा शिवलिङ्गाङ्गसंयुतः | शिवेतरपरित्यागी ध्यानयोगी स उच्यते || इति | अनेनैव प्रकारेण - सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च इति बोधायनस्मृतेः इत्यत्रापि ध्यानयोगरत इत्यनेनोक्तदिशा लिङ्गधारणसिद्धिः | शातातपस्मृतौ- वानप्रस्थं योगिनं च लिङ्गैक्यं भिक्षुकं यतिम् | तुर्याश्रमाणां मध्ये च रसायां निक्षिपेन्मृतम् || इत्यत्र लिङ्गधारणमुद्दिश्य खननविधानादुद्देश्यविशेषणत्वेन लिङ्गधारणसिद्धिरिति |
SKनन्वनेनोदाहृतश्रुतिस्मृतिकदम्बेन लिङ्गधारणतत्पूजादेर्नित्यत्वेन स्त्रीबालसाधारण्येन यावज्जिवभावित्वमभिहितम् तदनुपपन्नम् दर्शनस्पर्शनसम्भाषणाद्ययोग्यानां रजस्वलानां सूतिकास्त्रीणां च धारणपूजादेरत्यन्तविरुद्धत्वात् | यदि तत्र वानप्रस्थं योगिनं च लिङ्गैक्यं भिक्षुकं यतिम् इति शातातपस्मृतेश्च तत्साधकत्वं बोध्यम् | लिङ्गैक्यं तीव्रध्यानाभियोगेन लिङ्गमयताप्राप्तिम् | स्त्रीबालादिसाधारण्येन लिङ्गधारणस्य नित्यत्वे रजस्वलानामत्यन्ताशुचित्वप्राप्तानां धारणपूजादिकं क्रियते तदाऽशुचिशरीरसम्बन्धाल्लिङ्गस्याप्यशुचित्व-प्राप्तौ पुनः स्नानानन्तरमपि पूजाद्यकरणतापत्तेः | नहि तदा लिङ्गस्य पुनः संस्कारः क्रियते भवत् सिद्धान्तविरोधादिति | किञ्च - शैवान् पाशुपतांश्चैव लिङ्गिनं व्रतिनं तथा | विडालव्रतिनश्चैव पाषण्डान् परिवर्जयेत् || पाषण्डं पतितं व्रात्यं चक्रिणं लिङ्गधारिणम् | तथा देवलकं दृष्ट्वा सवासा जलमाविशेत् || चक्रिणं लिङ्गिनं दृष्ट्वा सचैलं स्नानमाचरेत् | यस्तु सन्तप्तचक्रादिलिङ्गाङ्किततनुर्द्विजः || नाधिकारी स विज्ञेयः श्रौतस्मार्तादिकर्मसु | कथं कर्तव्यमित्याशङ्काम् शैवान् पाशुपतांश्चैव लिङ्गिनं व्रतिनं तथा मुनेरन्नं न भोक्तव्यं योगिनां लिङ्गिनां तथा || इति शास्त्रनिषिद्धत्वाच्च लिङ्गधारणमकर्तव्यमेवेति पूर्वोदाहृतश्रुतिस्मृत्यादिकमन्तरानुसन्धानपरत्वेन यथाकथञ्चिद् योज्यमिति चेत् मैवम् न कर्मणा प्रजया धनेन त्यागेनैके अमृतत्वमानशुः (तै० आ० १०|१०|३) नान्यत्र कर्मसन्त्यागान्मोक्षं विन्दन्ति मानवाः इत्यादिनाऽत्यन्ताभ्यर्हितमुख्यपुरुषार्थमुक्तिजनकत्वप्रतिपादनेऽपि - na hiṃsyāt sarvā bhūtāni na māṃsamaśnīyāt nocchiṣṭaṃ kasyaciddadyānnādyāccaitattathāntarā | na caivātyaśanaṃ kuryānna cocchiṣṭaḥ kvacid vrajet || (2|56) ityādiśrutimanusmṛtibhyāṃ niṣiddhatve'pi paśuviśasanamāṃsabhakṣaṇa-somapānādeḥ pratyakṣaviruddhatve'pi
SKइत्यादिलिङ्गधारणनिषेधश्च कथं समाधेय इत्याशङ्कां च क्रमेण समाधत्ते - मैवमित्यादिना | न कर्मणा न प्रजया मा हिंस्यात् सर्वा भूतानि न मांसमश्नीयात् (तै० आ० १०|१०|१३) इत्यादिवाक्यैर्हिंसाया निषेधस्याग्नीषोमीयपश्वालम्भवाक्येन सङ्कोचवद् रजस्वलाऽशुचित्वबोधकवाक्यस्यापि च सोमेन यजेत सोमेनोच्छिष्टम् यदग्नीषोमीयं पशुमालभेत इत्यादिविशेषवाक्यविहिततत्तद्धर्मकर्तव्यत्ववत् सर्वलिङ्गं स्थापयतीत्यादि-नित्यविधिना लिङ्गधारणतत्पूजादेर्यावज्जीवकर्तव्यत्वविधाने- गृहे यस्मिन् प्रसुता स्त्री सूतकं नात्र विद्यते (९|४५) लिङार्चनरतायाश्च ऋतौ नार्या न सूतकम् | तथा प्रसूतिकायाश्च सूतकं नैव विद्यते || (९|४४) लिङ्गार्चनरता नारी सूतकी तु रजस्वला || रविरग्निर्यथा वायुः कोटिकोटिगुणः शुचिः | तद्धारणात् प्रमुञ्चन्ति युवतिं सूतकादयः || इति सिद्धान्तशिखामणिवीरागमवचनेन लिङ्गार्चनरतायाश्च ऋतौ नार्या न सूतकम् इत्यादिवाक्यैः संकोचान्न काप्यनुपपत्तिः | अन्येऽपि बहवोऽशौचसङ्कोचा धर्मशास्त्रे सन्तीति यथा ह्यग्निसमावेशान्नायो भवति केवलम् | तथैव मम सान्निध्यान्न ते प्रकृतिमानुषाः || तैलयुक्तं तु कार्पासं ज्योतिस्पर्शात् तथैव तत् | स्नेहयुक्तस्य सद्भक्तेर्लिङ्गस्पर्शेन लिङ्गता || इति पद्मपुराणशिवरहस्यवचनानुरोधेन शैवं लिङ्गार्चनं यस्य यस्य चाग्निपरिग्रहः | वानप्रस्थयतीनां च शरीरे नास्ति सूतकम् || इति पराशरस्मृत्यनुसारेण च रजस्वलादिस्त्रीणां धारणपूजादिकरणे विरोधाभावात् | दृष्टान्तार्थ दर्शयति - पौण्डरीकदीर्घसत्र- sūtakāt prāk samārabdhamidameva vākyam | prakṛtopayogiliṅgadhāraṇavratasya yāvajjīvakartavyatayā saṅkalpitatvena prārabdhatvāt saṅkalpo vratasatrayoḥ ityanena tādṛśasaṅkalpasya prārambharūpatayā bodhitatvāt | nāyo bhavatīti | yathā agnau praveśāllohapiṇḍaṃ
SKकिञ्च पौण्डरीकादिदीर्घसत्रदीक्षितयज्वपत्न्या- jātā'śaucādīnāmapavādakatvābhāvavacca | dravyābhāvena pratibandhakāntaravaśena vā dvādaśavatsaraparyantamavivāhita- प्राप्ते कन्यकायास्तदानीम् ऋतुमतीत्वे दृष्टे वा श्रुते वा याज्ञिकाः किं कुर्वन्तीति केवलं साधारणमयो न भवति अर्थात् तत्कालेऽग्निमयं भवतीत्यर्थः | एवं सदाशिवस्य सान्निध्यात् ते लिङ्गधारिणः प्राकृतमनुष्या न भवन्तीत्यर्थः | तात्पर्येण - विवाहे वितते तन्त्रे होमकाल उपस्थिते | कन्यामृतुमतीं दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः || इति प्रश्ने - हविष्मतीरिमा आपो हविष्मान् देवो अध्वरः (तै० सं० १| ३|१२|१) इति मन्त्रेण कन्यकां स्नापयित्वा नववस्त्राभ्यामलङ्कृत्य युञ्जानः प्रथमं मनः (तै० सं० ४|१|१|१) इति द्वे आहुती जुहुयादिति भट्टीये विवाहखण्डे प्रतिपादितत्वेन तत्र रजस्वलाशौचस्य विवाहदीक्षापवादकत्वाभाववच्च | पैतृकश्राद्धादौ पितृत्वेनावाहितब्राह्मणानां दक्षिणाप्रदानानन्तरजाताऽशौचादि- tanutrayagatānādimalatrayamasau guruḥ | dīkṣātrayeṇa nirdagdhvā liṅgatrayamupādiśat || yāvajjivamidaṃ liṅgaṃ śarīrānna viyojaya || tanutrayagatānāmiti | kāraṇaśarīra-liṅgaśarīra-sthūlaśarīragataṃ malatrayamādhāratritvād trividham | kāyika-vācika- इति गुरुकृतलिङ्गधारणदीक्षायाः नित्यं स्ववामहस्ताग्रे सावधानेन पूजयेत् इति तत्पूजादीक्षायाश्च यावज्जीवभावित्वेन तादृशदीक्षाविषये रजस्वलाद्यशौचानामपवादकत्वाभावस्याभ्युपेतव्यत्वात् | अत एवाशौचनिर्णयार्थं प्रवृत्तषडशीतिस्मृतौ कौशिकादित्येन - प्रेतकार्यनिवृत्तानां पतितानां च पैतृके | भूमिरक्षणकृत्येषु राज्ञस्तत्प्रेषितस्य च || जन्मप्रभृतिपापानां विनाशे विचरिष्यतः | प्रेतकार्याधिकारार्थं कर्मण्यपि च पैतृके || उत्क्रान्तिवैतरण्योश्च दाने प्रेतोदकस्य च | एवं विधानामन्येषां नाशौचं न च सूतकम् || कर्तव्यान्येव कर्माणि यथा पुण्यस्तथैव सः | सूतकात् प्राक् समारब्धमनेकाहं तु यद् व्रतम् ||
SKकायिकं तत्प्रकुर्वीत न तु दानार्चनं जपम् | वानप्रस्थयतिब्रह्मचारिणः शुचयो मताः | इतरेऽपि समारब्धकर्माणः शुचयः सदा || इत्यादिना समारब्धव्रतकर्मणां मध्ये जाताऽशौचादिप्रसक्तावपि तत्तत्कर्माणि कर्तव्यान्येवेत्युक्त्वा कस्य कर्मणः को वा प्रारम्भ इत्यपेक्षायाम् - प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः | नान्दीमुखं विवाहादौ श्राद्धे पाकपरिग्रहः || इत्युक्तम् | प्रेतकार्यनिवृत्तानामित्यादि स्पष्टम् | तस्य चायमर्थः - यज्ञे गृहयज्ञादौ ऋत्विग्वरणं प्रारम्भः व्रते चान्द्रायणतीर्थयात्रालिङ्गधारणपूजादौ सत्रे पौण्डरीकादिदीर्घसत्रे संकल्पः प्रारम्भः नान्दीमुखं विवाहादिकर्मणि श्राद्धे पाकक्रिया प्रारम्भः | तत्तत्कर्मणामेतादृशप्रारम्भानन्तरमशौचेऽपि कर्तव्यत्वमेवेति | एवं च - लिङ्गधारणकं नाम व्रतं माहेश्वराभिधम् | यावज्जीवमिदं दत्तमिष्टलिङ्गं समर्चयेत् || इत्यादिस्कन्दपुराणोक्तरीत्या लिङ्गधारणतत्पूजाव्रतस्यापि गुरुकृतदीक्षासमये यावज्जीवभावित्वेन संकल्पकरणादान्तरालिका- dhāraṇādyaṃśe pariśuddhatve karmāntare'pi pariśuddhiḥ syāditi tulyam | kecit tu dantadhāvanagaṇḍūṣajalādinā pavitrīkṛtamukhasya mantroccāraṇādau śuddhatve'pyanyaśarīraniṣṭhīvanādāvapariśuddhatvavad dhāraṇapūjādiviṣaye pariśuddhatve'pi kāryāntare tadabhāva iti prāhuḥ | yaduktam - aśuciśarīrasambandhālliṅgasyāpyaśucitvamiti tadatyantāramaṇīyam | yadyapyatra pūrvodāhṛtaparāśarasmṛtisiddhāntaśikhāmaṇyādivacanarītyā dhāraṇādyaṃśe śarīrasyāśucitvābhāvena tatsaṃparkālliṅgasya tathātvaṃ dūrāpāstameva tathāpyabhyupetyavādena nirākriyate - tatrā'śuciśarīra- तच्छरीरभूतलिङ्गस्य? नाद्यः निष्कलं निष्क्रियं शान्तं यदुक्तम् - अशुचिशरीरसंबन्धादित्यादि | अयमेतत्समाधानग्रन्थस्याशयः- प्रथमं त्वेतन्मते परवैराग्यप्राप्रसंन्यस्तशरीरवद् वास्तविकशिवमयत्वप्राप्तशरीरस्याशुचित्वमेव नास्ति | मतान्तरालम्बनेन तच्छरीस्याशुचित्वाभ्युपगमेऽपि
SKनिरवद्यं निरञ्जनम् (श्वे० उ० ६|१९) इति तस्मात् सर्वगतः शिवः (श्वे० उ० ३|११) इति च श्रुत्यवगमितनिरस्तसमस्तदोषलवकलङ्कस्य शुच्यशुचिवस्तुसाधारण्येन सर्वान्तर्यामिणः परमेश्वरस्याशुचिशरीरसम्पर्केण दोषापादनासंभवात् | न द्वितीयः अविभाज्यसम्बन्धेन निर्दृष्टपरमेश्वराधिष्ठानभूतलिङ्गस्यापि तदापादनासम्भवात् | यदि मन्यसे क्रियादीक्षासमये पञ्चामृतपञ्चगव्यस्नानतत्तदधिवासषडध्वशोधनकलाह्वानादि ना लिङ्गे गुरुकृतसंस्कारस्याशुचिशरीरसम्बन्धान्नाश इति तर्हि तदपि कूर्मरमणीदुग्धपानमेवानुकरोति | तत्सम्बन्धाल्लिङ्गस्य तदधिष्ठातृशिवतत्त्वस्य चाशुचित्वं न सम्भवति | परमात्मनस्तावदशुद्धित्वोक्तिः पातकायैव भविष्यति | तदधिष्ठितलिङ्गस्याशुचित्वं तथाहि - क्रियेच्छादिस्वरूपस्याशुतरविनाशिनो यागस्य कालान्तरभाविस्वर्गजनकत्वान्यथानुपपत्त्या यज्वतत्पत्न्योर्याग- saṃskṛtya guruṇā dattamiṣṭaliṅgamatandritaḥ | vaktumaśakyam paramātmābhedādhyavasāyāt ṣaḍadhva- nityaṃ svavāmahastāgre sāvadhānena pūjayet || iti vcanasiddhaliṅgasaṃyuktāṅgavidehamuktiparyantaṃ nityasaṅkalpitapūjā-nivedanādiprayojakatvāsambhavena tenāpi liṅge śaktirūpasthāyisaṃskāra-jananena tasyāpyāntarālikāśaucādimaddehasamparkādinā nāśāsambhavāt | yadyato'pi nāśaḥ kalpyate tadā yajvatatpatnīvṛttisaṃskārasya gaṅgāsnānānnadānādijanitatattatsaṃskārāṇāṃ cāntarālikāśaucādinā nāśena śodhanādijanyasaṃskāro'śucitvena naśyati tenāpūjyatvamāyātītyapi vaktumaśakyam sakalakarmaṇāṃ phalābhāvaprasaktau tadbodhakavedaśāstrādyaprāmāṇya-prasaktau baudhamatapraveśāpatteḥ | yati ca - śaivaṃ liṅgārcanaṃ yasya yasya cāgniparigrahaḥ
SKइति पूर्वोदाहृतपराशरस्मृतिपर्यालोचनया यज्वशरीरस्याऽ- liṅgāṅgi-śarīre'pyaśaucābhāvapratipādanena tatsaṃyuktaliṅge'pi saṃskārānivṛtteḥ | kiñca śrībhuvaneśvarapuruṣottamādisthale nivedanamātreṇa pariśuddhaprasādasya - cāṇḍālavāṭikāyāṃ vā matprasādaṃ supāvanam iti vacanānurodhena jātyantarasparśe'pi vaidikaparigrāhyatvāṅgīkāreṇa sākṣānnirastadoṣakalaṅkanityaśuddhaparamaśivādhiṣṭhānabhūtaliṅgasy ā-śuciśarīrasaṃbandhe'pyaśucitvābhāve vivādābhāvācca | yāgajanyāpūrvasya yajamānadampatyorātmagatasyāśaucena nāśādarśanādaśaucasya saṃskāranāśaṃ pratyahetutvāditi | na ca sthāvare'pi jātā'śaucādimajjanasparśe pratiṣṭhākālīnācāryakṛta- यल्लिङ्गं यत्र धार्यम् तस्य तदीययावज्जिवकर्तव्यपूजानिवेदनादिबोधक-शास्त्रबलेन शुच्यशुचिसाधारणकालकर्तव्यपूजादिप्रयोजकसंस्कारस्य स्थायित्वकल्पनेऽपि वैषम्यादिति | स्थावरलिङ्गप्राणलिङ्गयोरित्यर्थः | स्थावरलिङ्गे प्रतिदिनं पूज्यताप्रयोजकसंस्कारेण प्रयुक्तपूजायां कर्तृनियमाभावादेकस्याशुचित्वे पुरुषान्तरेण तत्पूजाया निर्वाहात् | तत्र परमेश्वरेणाऽशुचिस्पर्शनं सह्यते प्राणलिङ्गे तु एकपुरुषस्यैव यावज्जीवं पूजनीयताप्रयोजकसंस्कारस्य दीक्षाकाले गुरुणा विहितत्वादशौचावस्थायां तत्पुरुषस्पर्शे न तन्नाशः | यावज्जीवपूजाया स्थावरे तदभावात् | अत एव तत्र पुनः संप्रोक्षणादिकमपि दृश्यत इत्यलं विस्तरेण | यच्चोक्तं - शैवान् पाशुपतांश्चैवेत्यादिशास्त्रनिषिद्धत्वेन लिङ्गधारणमकर्तव्यमिति तदप्यनाकलितरमणीयम् | तादृशशास्त्रपर्यालोचनया सर्वेषामप्यदर्शनीयत्वप्रतीत्या नास्माकमनिष्टमिति | तत्र शिवसंबन्धिनः शैवा इति बाधापत्त्या व्रतभङ्गभिया च तादृशसंस्कारस्य तेनैतन्मतेऽनाश्यत्वकल्पनादिति | नास्माकमनिष्टमिति | यश्चोभयोः समो दोषः परिहारस्तयोः समः | नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे || इति न्यायादिति भावः | शिवदेवता-
SKव्युत्पत्त्या शैवपदेन भूतिरुद्राक्षधारिणां पूर्वशैवानां स्मार्तानां प्रदोषकालशिववन्दनभस्मधारणवतामानन्द- tasya yogarūḍhyā liṅgadhārakabrāhmaṇabodha iti vācyam viśiṣya tadbodhakaliṅgipadāsattvāt | na ca śaivapadasya liṅgipadaviśeṣaṇatvamiti vācyam pāśupatāṃścaivetyuktasamuccayadyotakacakāravirodhāt | kiñca pāṣaṇḍapadamapi smārtaparameva pāṣaṇḍāḥ sarvaliṅginaḥ (a0 ko0 2|7| 45) iti kośena tripuṇḍrordhvapuṇḍrādicihnānāṃ teṣāmeva sattvāt bhāgavatapraviṣṭānāṃ teṣāṃ satyabhāmārukmiṇīkṛṣṇaveṣādinānā- तत्तद्देवताभिव्यक्तिस्थान-शिलाताम्रादिप्रतिमानां लिङ्गपदवाच्यत्वेन - आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् इति वचनावगततादृशपञ्चलिङ्गपूजायास्तेषां कत्वरूपशैवत्वस्यात्यन्तहठवद्वैष्णवातिरिक्तेषु प्रायः सर्वष्वेव वास्तविकब्राह्मणेषु सद्भावात् सर्वेषामेवास्पृश्यत्वापत्तेः | रूढिशक्तिमाश्रित्य लिङ्गधारिमात्रविषयपरत्वं वक्तुमशक्यम् लिङ्गिपदस्य पृथक् तस्मिन् श्लोके सत्त्वेन पौनरुक्त्यापत्तेः | शैवपदस्येतरविशेषणत्वं न सम्भवति शैवान् पाशुपतांश्चेति चकारेण समुच्चयस्य प्रतीयमानत्वात् | पाषण्डाः सर्वलिङ्गिनः (अ० को० २|७|४५) इति कोशे सर्वलिङ्गिपदे सर्वे च ते लिङ्गिनश्चेति इनन्तेन कर्मधारयवत् | न कर्मधायान्मत्वर्थीयः इत्यस्य प्रायिकत्वेन सर्वाणि प्रसिद्धत्वाच्चेति | न च पाषण्डलिङ्गपदयोर्विशेषणविशेष्यभाव इति वाच्यम् लिङ्गधारिब्राह्मणानामुक्तपाषण्डपदवाच्यसर्वलिङ्गित्वा- smārtaparameva | munerannaṃ na bhoktavyam ityapi nāsmadaniṣṭāpādakam yajamānakṛtaṃ pāpamannamāśritya tiṣṭhati | annaṃ na pratigṛhṇīyāt prāṇaiḥ kaṇṭhagatairapi || iti sarvatrāpyannapratigrahaniṣedhāt | kiñca nāśrotriyahute yajñe grāmayājihute tathā | striyā klībena ca hute bhuñjīta brāhmaṇaḥ kvacit || (4|205) ugrānnaṃ sūtikānnaṃ ca paryācāntamanirdiśam | anarcitaṃ vṛthāmāṃsamavīrāyāśca yoṣitaḥ ||
SKद्विषदन्नं न गृह्यान्नमवधूतमपक्षुतम् | पिशुनाऽनृतयोश्चान्नं कृतविक्रयिणस्तथा || (४|२१२-२१४) गणान्नं गणिकान्नं च विदुषां च विगर्हितम् | विष्ठा वार्धुषिकस्यान्नं शास्त्रविक्रयिणी मलम् || (४|२१९-२२०) इत्यादितत्तदन्ननिषेधमनुस्मृतौ लिङ्गधार्यन्नस्यानिषेधाच्चेति | लिङ्गानि सन्ति येष्विति कर्मधारयोत्तरमत्त्वर्थीयान्तत्वस्यापि संभवात् | लिङ्गपदस्य च लीनमर्थं गमयतीति पूर्वदर्शितव्युत्पत्त्या तत्तद्देवताभिव्यञ्जकप्रतिमामात्रपरत्वेन सर्वप्रतिमाऽराधकत्वस्यैकस्मिन् पुरुषे बाधितत्वेनानेकत्व एव पर्यवसानस्य वक्तव्यतयाऽनेकप्रतिभासु देवाराधकानां सर्वेषामेव पाषण्डत्वं प्राप्नोतीत्येतद्ग्रन्थस्याशयः | मुनेरन्नं न भोक्तव्यम् इति निषेधस्तु न कस्यापि निन्द्यत्वमापादयति अन्नं न प्रतिगृह्णीयात् प्राणैः कण्ठगतैरपि इत्यनेन सर्वेषामेवान्नस्य निषेधात् मनुस्मृतौ - उग्रान्नं च (४|२०५) इत्यादिना निषिद्धान्नानां गणनप्रकरणे लिङ्गधारिणां निषिद्धान्नत्वेनागणनाद् एवंविधनिषेधा द्वेषप्रयुक्ता इवाभान्ति | सवृत्तिमपि विज्ञाय लिङ्गिने चेतराय च | देयमाहुर्महाराज वस्तुतस्तु श्रुतिस्मृत्योर्विरोधे विरोधाधिकरणन्यायेन श्रुतेः प्रबलत्वात् प्रागुदाहृतसर्वलिङ्गं स्थापयतीत्यादिप्रबलानेकश्रुतिविहितलिङ्ग-धारणस्य स्मृत्या निषेधायोगेन वेदतुल्यमहाभारते अनुशासननिकपर्वणि - किमाहुर्भरतश्रेष्ठ विप्राः पात्रं सनातनम् | लिङ्गिनं ब्राह्मणं चैव ब्राह्मणं चाप्यलिङ्गिनम् || १३|२२|१) इति युधिष्ठिरेण पृष्टे - सद्वृत्तिमपि विज्ञाय लिङ्गिने चेतराय च | देयमाहुर्महाराज उभावैतौ तपस्विनौ || (१३|२२|२) उभावेतौ तपस्विनौ || (१३|२२|२) इति महाभारतवाक्येन तपःस्वाध्यायसद्वृत्तिविशिष्टब्राह्मणे लिङ्गिन्यलिङ्गिनि च पात्रत्वमवगम्यते | इति भीष्मवचनेन लिङ्गधारिद्विजानां दानपात्रताविधानात् | तेषामदर्शनीयत्वायोगेन न नानेन लिङ्गधारिणां निन्द्यत्वम् |
SKपरन्तु - यो वै स्वां देवतामतियजते प्र स्वायै देवतायै च्यवते न परां प्राप्नोति पापीयान् भवति इति श्रुत्या श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् (भ० गी० ३|३५) यः स्वधर्मपरित्यागादन्यधर्मं समारभेत् | तं विलोक्य दुरात्मानं कुर्यात् सूर्यावलोकनम् || यो वै स्वां देवतामतियजते इत्यादिश्रुतिस्मृतिभिर्यस्या देवताया दीक्षा येन गृहीता तस्या यावज्जीवं तेन प्राधान्येनाराधनं करणीयमिति शास्त्रसिद्धान्तः प्रतीयते | एवं स्थिते ये किञ्चित्कालं लिङ्गिनः किञ्चित्कालं चक्रिणः एवंरूपेणोभयाराधका भवन्ति तेषामुक्तसिद्धान्तविरुद्धत्वादवश्यं गर्हणीयत्वमनुभवपथमाहोहति | ये तु हृदयतः सत्यभावेन रागद्वेषौ विहायैकदेवनिष्ठास्तन्मात्रलीनाशया भिनत्ति वेदमर्यादां स्वजात्याश्रमगोचराम् | आश्रयत्यन्तधर्मांश्च यः स पाषण्ड उच्यते || इति भगवद्गीतादिवचनैः वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः | परधर्मेण जीवन् हि सद्यः पतति जातितः || (१०|९७) इति मनुस्मृत्या अतियजेत निजां यदि देवतामुभयतश्च्यवते जुषतेऽप्यघम् इत्यभियुक्तोक्त्या च स्वधर्मपरित्यागपूर्वकान्यधर्मस्वीकारिणो निन्द्यत्वेन चक्रिणं लिङ्गिनम् इत्यत्रापि यस्तु प्रथमं लिङ्गीभूत्वा दुष्कर्मवशात् तदुपेक्ष्य चक्रीभवति प्रथमं चक्रीभूत्वा तदुपेक्ष्य लिङ्गी वा भवति तं दृष्ट्वा भवन्ति तेषां निन्दायामवसरो नास्ति | तादृशानेव शिवयोगिनो रात्रिन्दिवं परमशिअध्यानेन शिवमयत्वं प्राप्तान् सचैलं स्नानमाचरेदित्येवार्थः स्वीकरणीयः | यस्तु सन्तप्तचक्रादिलिङ्गा-ङ्किततनुरित्यस्यापि लिङ्गपदस्य लाच्छनपरत्वेन सन्तप्तचक्रादीनि च तानि लिङ्गानि च तैरङ्किततनुर्द्विजः श्रौतस्मार्ताद्यनधिकारीत्यर्थः ब्राह्मणस्य तनुर्ज्ञेयेत्यादिना प्रागेव चक्राङ्कितनिषेधात् शङ्खचक्राङ्किततनुं वैष्णवं शिवदूषकम् | पश्येद् यदि प्रमादाद्वा कुर्यात् सूर्यावलोकनम् ||
SKइत्याद्यनुरोधाच्च यदि लिङ्गपदस्य शिवलिङ्गपरत्वम् तदा प्रथमं तप्तमुद्राङ्कितो भूत्वाऽनन्तरं तदुपेक्ष्य लिङ्गीभवति तद्वैपरीत्येन चक्री वा भवति सोऽपि बहिष्कार्य इत्येवं पूर्ववद् वक्तव्यम् अन्यथा - क्रिमिकीटपतङ्गेभ्यः पशवः प्रज्ञयाऽधिकाः | पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || द्विजातिष्वधिका विप्रा विप्रेषु कृतबुद्धयः | कृतबुद्धिषु कर्तारस्तेभ्यः संन्यासिनोऽधिकाः || तेभ्यो विज्ञानिनः श्रेष्ठास्तेषु शङ्करपूजकाः | तेषु श्रेष्ठा महाभाग मम लिङ्गाङ्गसङ्गिनः || लिङ्गाङ्गसङ्गिष्वधिकः षट्स्थलज्ञानवान् पुमान् | तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वदा || स वन्द्यः सर्वदा पूज्यः संसारविजिगीषुभिः | बहुनोक्तेन किं वत्स स एवाहं न संशयः || सांसारिकतुच्छविषयसुखविमुखानधिकृत्य कृमिकीटपतङ्गेभ्यः द्विजातिषु तेभ्यो विज्ञानिनः लिङ्गाङ्गसङ्गिषु स वन्द्य इमानि वाक्यानि प्रवृत्तानि इति शिरोदेशेऽथवा कण्ठे हस्ते वक्षस्थलेऽपि वा | लिङ्गधारणहीनो यस्तं त्यजेदन्त्यजं यथा || कुण्डं च गोलकं चैव लिङ्गधारणवर्जितम् | तथा देवलकं चैव दृष्ट्वा चान्द्रायणं चरेत् || स्थूलाङ्गे त्विष्टलिङ्गं तु यो न धारयते द्विजः | दृष्ट्वा तं सहसा पुत्र सचैलं स्नानमाचरेत् || मस्तके बाहुदण्डे वा ललाटोर्ध्वप्रदेशके | अलिङ्गधारणं दृष्ट्वा कुर्यात् सूर्यावलोकनम् || यो न पूजयते भक्त्या लिङ्गं त्रिभुवनेश्वरम् | नासौ स्वर्गस्य मोक्षस्य न च राज्यस्य भाजनम् || शिवयोगिशरीरे तु नित्यं सन्निहितः शिवः | योगीन्द्रपूजनात् तस्मात् साक्षात् संपूजितः शिवः || ये योगिनं द्विषन्त्यज्ञाः सर्वपापेष्ववस्थिताः | ये शिवज्ञाननिरतं प्रद्विषन्तीह योगिनम् || विकल्पन्ते महात्मानं ये मूढाः शिवलिङ्गिनम् | ते यान्ति पितृभिः सार्धं नरकेषु न संशयः ||
SKमन्तव्यानि | शिरोदेशे कुण्डं च गोलकं च स्थूलाङ्गे त्विष्टलिङ्गं तु मस्तके बाहुदण्डे वा - एषां चतुर्णां वाक्यानां शैवशिवाराधनविद्वेषस्याकर्तव्यत्वाभिप्रायकत्वम् यो न पूजयते भक्त्या लिङ्गं त्रिभुवनेश्वरम् | नासौ स्वर्गस्य मोक्षस्य न च राज्यस्य भाजनम् || अस्य श्लोकस्य श्रुतिस्मृतिपुराणसिद्धान्तबोधकत्वं बोध्यम् | शिवयोगिशरीरे तु ये योगिनं द्विषन्त्यज्ञाः इति शङ्करसंहितावीरागममुकुटागमशिवधर्मोत्तरादिवचनविरोधा- nanu - nigṛhītāśca ye rājñā cauryadoṣeṇa kutracit | paradārān viśantaśca roṣāt tatpatibhirhatāḥ || asamānaiśca saṅkīrṇāścaṇḍālādyaiśca vigraham | kṛtvā tairnihatā ye ca caṇḍālādisamāśritāḥ | vikalpante mahātmānam eṣāṃ trayāṇāmapi pūrvavat śivayogividveṣasya jaghanyatvabodhakatvaṃ jñeyam | virodhāpatteriti | asya pūrvoktenānyathetyanenānvayaḥ | tatrānyathetyasya cakriṇaṃ liṅginaṃ dṛṣṭvā sacailaṃ sānamācaret ityādiniṣedhānāṃ dīkṣāviṣaye tyāgopādānaśālicalitaliṅgaviṣayakatvābhāva ityarthaḥ | pūrvagranthe ekāṃ dīkṣāṃ gṛhītvā enāṃ parityajyānyāṃ dīkṣāṃ gṛhṇanti anantaraṃ tāmapi paityajya tṛtīyām - evaṃrūpā upāsanāviṣaye'labdhapadāḥ pāṣaṇḍapadārthatvena darśitāḥ | skandapurāṇādau tu - śivoktāṃ jātimaryādāṃ yo'tītya bhuvi vartate | sa pāaṣaṇḍa iti jñeyaḥ sarvakarmabahiṣkṛtaḥ || iti vākyena jātimaryādāparityāgaḥ pāṣaṇḍapadārtha ityucyata iti viruddhyate'yaṃ grantha ityāśaṅkate - nanvityādinā | nigṛhītāśca ye rājñā ityuktistu bandhāgniviṣadāścaiva pāṣaṇḍāḥ krūrabuddhayaḥ || śivoktāṃ jātimaryādāṃ yo'tītya bhuvi vartate | sa pāṣaṇḍa iti jñeyaḥ sarvakarmabahiṣkṛtaḥ || bhraṣṭo yaḥ svāśramācārāt patitaḥ so'bhidhīyate ||
SKइति विष्णुपुराणस्कन्दपुराणादौ चौर्यपरदारादिरतानामेव पाषण्डादिपदार्थनिर्वचनेन - पाषण्डं पतितं व्रात्यम् इत्यत्रापि पाषण्डपदं तत्परमेवेति चेन्मैवम् नहि पाषण्डपदस्य नियतार्थकत्वम् पुराणधर्मशास्त्रकोशादिषु बहुधा तन्निर्वचनात् तत्रापि शक्तिनिश्चायक-कोशेनोक्तदिशा सर्वलिङ्गित्वस्य पाषण्डपदप्रवृत्तिनिमित्तत्वप्रतिपादनात् तस्य चानियतदेवतोपासकस्मार्तेषु पूर्वोपपादितत्वेन तेषां तद्रूपत्वानपायात् अलिङ्गधारिणं दृष्ट्वा कुर्यात् सूर्यावलोकनम् इत्यादिना तेषामदर्शनीयताया वज्रलेपायितत्वाच्चेति | प्रासङ्गिकी द्रष्टव्या | समाधत्ते- नहीत्यादिना | शब्दानामनेकार्थत्वदर्शनान्नायं विरोध इति भावः | एवं पूर्वोदाहृतनिषेधवचनानां निन्दापरत्वमङ्गीकृत्येदमुक्तम् वस्तुस्थितिस्तावदाकर्ण्यतां सावधानेन | तथाहि- यत्याश्रमोक्तप्रकरण-पठितपाषण्डं पतितमित्यादिवाक्यानाम् तिलकं चतुरश्रं वा द्वीपाश्वत्थदलाकृतिम् | ललाटे धारयेद्यस्तु न तं पश्येदनापदि || लिङ्गधारणहीनो यस्तं त्यजेदन्त्यजं यथा | इत्यादिलिङ्गधारणपठितवाक्यानाम् चक्रधारणप्रकरणपठिततदतिरिक्त-निन्दापरवाक्यानां च नहि निन्दा निन्दितुमीष्टे अपि तु स्तुत्यं स्तौतीति न्यायेन तत्तत्प्रकरणविहिततत्तदर्थप्रशंसापरत्वमेव वाच्यम् अन्यथा-
SKएतावता प्रबन्धेन - आततायिनमाहन्यादपि वेदान्तपारगम् इति न्यायेनाभ्युपगमवादेन च स्वविरोधिषु विरोधस्यौचित्येन तैः सह विवादे विचारप्रौढिं प्रदर्श्येदानीं सत्पक्षपातो हि धियां स्वभाव इति स्थित्या निन्दावाक्यानां वास्तविकतात्पर्यमाह - वस्तुस्थितिस्तावदिति | अयमाशयः - अपशवोऽन्ये गोऽश्वेभ्यः पशवो गो अश्वाः इति श्रौतवाक्यस्य पशुत्वविशिष्टानामपि हस्तिमहिषादीनां पशुत्वाभावं ब्रुवाणस्य पशुत्वनिषेधे न तात्पर्यम् किन्वीदृशो गवाश्वयोर्महिमा यदग्रे पशवोऽपि हस्त्यादयोऽपशव उच्यन्ते इत्येवंरूपयोर्गवाश्वयोः प्रशंसायामेव तात्पर्यं मीमांसकैः कल्प्यते | तदेवोच्यते - नहि निन्दा निन्दितुमीष्टे अपि तु स्तुत्यमेव स्तौतीति | अनेनैव न्यायेन तिलकं चतुरस्रं वा लिङ्गधारणहीनो यः शैवान् पाशुपतांश्चैव पाषण्डं पतितं व्रात्यम् चक्रिणं लिङ्गिनं दृष्ट्वा यस्तु संतप्तचक्रादि मुनेरन्नं न भोव्यक्तमित्यादिवाक्यानां स्वस्वमतापेक्षयाऽन्यमतनिन्दकानां तपोयज्ञफलादीनां विक्रेतारो द्विजोत्तमाः | यतयश्च भविष्यन्ति बहवोऽस्मिन् कलौयुगे || शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायधारिणः | शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते || इति लिङ्गपुराणवचनेन दुर्भोजनदुरालापा दुष्प्रतिग्रहतत्पराः | दुर्विहारदुराचारा वृथागर्वविदूषिताः || माठापत्यं च यतयः करिष्यन्ति धनाशया | ग्रामण्यनिरता यन्त्रमन्त्रतन्त्रविशारदाः || रण्डोपदेशनिरतास्तत्सम्भाषणतत्पराः |
SKयथासम्भवं स्वमतस्तुतावेव तात्पर्यं मन्तव्यम् न तु तन्निन्दायाम् | अन्यथा केनापि प्रकारेण सत्यभावेन परमेश्वरनिष्ठावतामुपासकानां कथं निन्द्यत्वमुपपद्येत | दम्भेन धर्ममनुतिष्ठन्तो वञ्चकास्तु सर्वमत एव निन्दिता भवन्तीति तेषां निन्द्यत्वेन तत्तन्मते निन्दावसरो नास्ति | ततश्च स्वस्वतात्पर्यविषयीभूतार्थमादाय नेमानि वाक्यानि परस्परं विरुन्धन्तीति सूपपादितो भवत्यविरोधः | अन्यथा तपोयज्ञफलादीनामिति | तत्रान्यथेत्यस्य शैवान् पाशुपतानित्यादिवाक्यानां वैष्णवादिग्रन्थेषु धृतानां मतान्तरहेयत्वबोधकानां स्वीयमतस्तुतिमात्रतात्पर्यकत्वाङ्गीकार इत्यर्थः | स्वार्थतात्पर्यकत्वाभ्युपगम इति फलितम् | अस्य यतीनामपि निन्द्यत्वापत्तेरित्यनेनान्वयः | एतद्ग्रन्थकारलेखात् - तपोयज्ञफलादीनां विक्रेतारो द्विजोत्तमाः | यतयश्च भविष्यन्ति बहवोऽस्मिन् कलौ युगे || शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायधारिणः | शुद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते || दुर्भोजनदुरालापा दुष्प्रतिग्रहतत्पराः | दुर्विहारदुराचारा वृथागर्वविदूषिताः || माठापत्यं च यतयः करिष्यन्ति धनाशया | ग्रामण्यनिरता यन्त्रमन्त्रतन्त्रविशारदाः || रण्डोपदेशनिरतास्तत्संभाषणतत्पराः | सर्वेषामुपदेष्टरो वैराग्येण विवर्जिताः || सर्वेषामुपदेष्टारो वैराग्येण विवर्जिताः || वञ्चकाश्च भविष्यन्ति यतयः काञ्चनाशया | सर्वत्र विचरिष्यन्ति तृष्णया नगरादिषु || वयसा पयसा दध्ना क्षीरशाल्योदनेन च | यतिरेतैरनुदिनं प्रमत्तः पतितो भवेत् || काषायधारिणः केचिद् लम्पटा विषयेष्विह | एकदण्डास्त्रिदण्डाश्च मुण्डिनो लोकवञ्चकाः || शिश्नोदरपराश्चान्ये वेश्यासक्तास्तथाऽपरे | कपटा नास्तिकाः केचिद् वृथा वै वेषधारिणः || राजसेवां प्रकुर्वन्ति पिबन्ति रुधिरं परे | कादन्ति मांसं राजेन्द्र पिबन्ति मधु गर्विताः || तेषां सन्दर्शनादेव नरः किल्बिषमाप्नुयात् |
SKइत्यादिस्कन्दादित्यपुराणवचनैर्यतीनामपि निन्द्यत्वापत्तेः | एवं च सकलवैदिकर्मानुष्ठातणां दानपात्रत्वादिना प्रसिद्धानां च वैष्णवस्मार्तानन्दतीर्थीयानां बहुजनवन्द्ययतीनां याचकाश्च भविष्यन्ति यतयः काञ्चनाशया | सर्वत्र विचरिष्यन्ति तृष्णया नगरादिषु || वयसा पयसा दध्ना क्षीरशाल्योदनेन च | यतिरेतैरनुदिनं प्रमत्तः पतितो भवेत् || काषायधारिणः केचिद् लम्पटा विषयेष्विह | एकदण्डास्त्रिदण्डाश्च मुण्डिनो लोकवञ्चकाः || शिश्नोदरपराश्चान्ये वेश्यासक्तास्तथापरे | कपटा नास्तिका केचिद् वृथा वै वेषधारिणः || इत्यादिनिषिद्धाचारबोधकवाक्यानां स्वार्थे तात्पर्यं नास्तीति लभ्यते | परमिदमत्यन्तमनुचितम् एषां वाक्यानां स्वार्थे एव तात्पर्यात् | कलियुगोत्पन्नानां बहूनां निन्द्यत्वमापाद्येतेति चेत् का क्षतिः ? सन्त्येव कलियुगभवाः प्रायेण निन्द्या निन्द्याचाराः नहि तेषां परिग्रहमात्रेण पापकर्मणां पुण्यत्वं भविष्यति वस्तुस्थितेरन्यथयितुमशक्यत्वात् | नहि बहूनां वेश्यासक्तत्वेन वेश्यासङ्गोऽपि धर्मत्वं प्राप्स्यति | सर्वेषां चादर्शनीयत्वे प्रपञ्चमर्यादोच्छेदापत्तेः | तेषां च तत्तत्कर्मानुष्ठातृत्वदानपातृत्वविधायकवेदशास्त्रपुराणागमेति हास-विरोधापत्तिश्चेत्यलं मूषकग्रहणार्थं गिरिखननेनेति | ननु मा भून्नामोक्तस्मृतिभिर्लिङ्गधारणस्य निन्द्यत्वम् तथाप्यमरकोशे ब्रह्मवर्गे - धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः (२|७|५४) इति लिङ्गवृत्तिपदस्य निषिद्धनाममध्यपठितत्वेन धर्मस्येव ध्वजं चिह्नं यस्य स धर्मध्वजी | लिङ्गधारणमेव वृत्तिर्जीवनं यस्य स लिङ्गवृत्तिः मिथ्यानुष्ठानलक्षणजीविकावतो नाम | अव व्रतान्तरे कीर्णं स्खलितं रेतो तस्मादसमञ्जस एवायं ग्रन्थः | तथाप्यशेषविधिनिषेधार्थपरिपालनस्याशक्यत्वात् प्रायश्चित्तियत्वादिदानीं प्रायो न कश्चन मुक्तो भवतीति निषिद्धाचारिषूपेक्षयैव वर्तितव्यमिति कथञ्चित् सङ्गमनीयम |
SKधर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः (२|७|५४) इत्यमरकोशे लिङ्गवृत्तिपदेन भक्त्या परमेश्वरतोषणार्थं लिङ्गधारिणां ग्रहणं न प्राप्नोति यस्य सोऽवकीर्णी क्षतं व्रतं यस्य सः क्षतव्रतः | नष्टब्रह्मचर्यस्य नामानीति तद्व्याख्यानभूतलिङ्गाभट्टीये लिङ्गवृत्तिपदस्य मिथ्यानुष्ठानजीविपरत्वेन व्याख्यानाच्च लिङ्गधारणमवद्यमेवेति चेन्न मनुस्मृतौ - धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः | वैडालवृत्तिकश्चैव हिंस्रः सर्वाभिनिन्दकः || (४|१९५) इत्यादिना निन्द्यान् विगणय्य- अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति | स लिङ्गिनां वहत्येनस्तिर्यग्योनौ च जायते || (४|२००) इत्यनन्तरस्मृतौ कञ्चिल्लिङ्गधारिब्राह्मणमपि धार्मिकमन्नस्वर्णादिकं सजातीयानामेव दास्यामीति नियमवन्तं श्रुत्वा कश्चिद् धूर्तः स्मार्तः कपटलिल्ङ्गधारिवेषेण तद्गृहं प्रविश्य अन्नस्वर्णादिकं गृहीत्वा जीवति | मध्याह्नसमयसमागतो ह्यतिथिरन्नं दातृगृहे भुक्त्वा स्वीयसुकृतजालं तस्मै दत्त्वा तदीयपापपञ्जरं परिगृह्य गच्छतीति पुराणगाथानुरोधेनायमपि कपटवेषधारी तदीयपापपञ्जरं प्रतिगृह्य वृत्तिपदस्य जीविकायां प्रसिद्धत्वेन देवताप्रदर्शनद्वारा जीविकार्थमेव ग्रहणस्यान्याय्यत्वादित्याह-मा भूदित्यारभ्य लिङ्गाभट्टकृतं व्याख्यानमपि
SKगच्छति नियमभङ्गकारित्वात् | अनन्तरं तिर्यग्योनौ च जायत इत्युक्तत्वेनामरकोशपठितलिङ्गवृत्तिपदस्यापि तत्परत्वावश्यंभावान्न गुरुकृतदीक्षालब्धलिङ्गधारिब्राह्मणपरम् | अत एव मिथ्यानुष्ठान-लक्षणजीविकावतो नामानीति लिङ्गाभट्टकृतव्याख्यानमपि संगच्छत इति | पुराणवचनानि तु सर्वलिङ्गं स्थापयतीत्यादिश्रुत्युपबृंहणत्वेन स्कान्दलैङ्गिकवचनानि कानिचिदुक्तान्येव | अन्यान्यपि लिङ्गधारणविधायकान्युदाह्रियन्ते | तत्र तावत् पद्मपुराणे शिवगीतासूपनिषत्सु सीतावियोगविह्वलरामचन्द्रान्तिकं गतवति भगवति लोपामुद्रावल्लभे तमभिवन्द्य कान्तावियोगजनितदुःखशान्तिकरतत्- kumbhakarṇādyanujatanujavargaveṣṭitadaśakaṇṭhakaṇṭhaluṇṭhana- परमशिवप्रसादाधीनमित्युक्त्वा तत्प्रसादार्थं वेदसारशिवसहस्रनामभिर्मनुदीक्षां विधायैतैर्नामभिरुपास्यमानो महादेवः साक्षात्कृतो भूत्वा दिव्यास्त्रशस्त्रादिकं दास्यति तेन सङ्गच्छत इत्यन्तग्रन्थेन | वाक्यानि तु स्पष्टार्थकानीति न व्याख्यायन्ते | च रावणं निहत्य सीतां प्राप्स्यसीत्युक्त्वाऽन्तरधादित्यर्थक- मोक्तुमैच्छत्ततः प्राणान् सानुजो रघुनन्दनः | लोपामुद्रापतिर्ज्ञात्वा तस्य सन्निधिमागमत् || इत्यारभ्य- एवमुक्त्वा मुनिश्रेष्ठे गते तस्मिन्निजाश्रमम् इत्यन्तेनाभिधाय अनन्तराध्याये - अथ रामगिरौ रामः पुण्ये गोदावरीतटे | शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि || भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः | अभिषिच्यजलैः पुण्यैर्गौतमीसिन्धुसम्भवैः || अर्चयित्वा वन्यपुष्पैस्तद्वद्वन्यफलैरपि | भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः || नाम्नां सहस्रं प्रजपन् नक्तन्दिवमनन्यधीः || इत्यादिना दाशरथितपःप्रभावमुपवर्ण्य समनन्तरं अथ रामगिरौ रामः पुण्ये गोदावरी तटे | शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि || भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः | अभिषिच्य जलैः पुण्यैर्गौतमीसिन्धुसम्भवैः ||
SKअर्चयित्वा वन्यपुष्पैस्तद्वद् वन्यफलैरपि | भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः | नाम्नां सहस्रं प्रजपन् नक्तंदिवमनन्यधीः || इत्यादिशिवगीताप्रदर्शितरामचन्द्रतपःप्रयोजकागस्त्य- दुष्करतपःप्रभावात् साक्षात्कृतेन परमशिवेन पाशुपतादिदिव्यास्त्र-शस्त्रादिकं दत्त्वा तत्त्वोपदेशः कृत इत्यभिहितम् | ततश्च शिवराघवसंवादे मोक्षासाधारणकारणतया भक्तिमार्गप्रदर्शनानन्तरम् - भक्तियोगो मया प्रोक्त एवं कुरु रघूत्तम | सर्वकामप्रदान्मत्तः किमन्यच्छ्रोतुमिच्छसि || इति परमशिवेनाभिहिते - भगवत्कृतोपदेशानन्तरमधिकारानधिकारनिरूपणावसरे - अज्ञोऽपहासोऽभक्तश्च भूतिरुद्राक्षधारणे | लिङ्गिनो यश्च वा द्वेष्टि ते नैवात्राधिकारिणः || इति लिङ्गधारिद्वेषिणां पाशुपतदीक्षायामनधिकारोक्त्या लिङ्गधारणस्य तत्कर्तणां च माहात्म्यमर्थात् सिद्धं भवति | रामचन्द्रस्य तपोवर्णने तु - शिवलिङ्गं प्रतिष्ठाप्य इत्युक्त्या वालुकावेदिकामध्ये तल्लिङ्गं स्थाप्य रावणः | भगवन्मोक्षमार्गोऽयं त्वया सम्यगुदाहृतः | तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान् || इति रामप्रश्ने - ब्रह्मक्षत्रियविट्शूद्रास्त्रियश्चात्राधिकारिणः | ब्रह्मचारीगृहस्थो वाऽनुपनीतोऽथवा द्विजः | वनस्थो वाऽवनस्थो वा यतिः पाशुपतव्रती || बहुनात्र किमुक्तेन यस्य भक्तिः शिवार्चने | स एवात्राधिकारी स्यान्नान्यचित्तः कथञ्चन || इत्यधिकारिणो विगणय्य अनन्तरम् - जडोऽन्धो बधिरो मूको निश्शौचः कर्मवर्जितः | अर्चयामास गौरीशं पुष्पैराहुतिगन्धिभिः || इत्यादिवाल्मीकि- अज्ञोपहासोऽभक्तश्च भूतिरुद्राक्षधारणे | लिङ्गिनो यश्च वा द्वेष्टि ते नैवात्राधिकारिणः || इत्यपवर्गानधिकारिनिरूपणे लिङ्गाङ्गिदूषकाणां मोक्षानधिकारित्व- liṅgāṅginindakānāmanadhikāritva-pradarśanena liṅgadhāraṇavatāṃ tadāsaktacittānāṃ ca mokṣādhikāritvamarthāt siddhamityavagantavyam |
SKअपि च - महाजनो येन गतः स पन्थाः इति न्यायेन कश्यपात्रिभरद्वाजादि-महर्षिसंघेन हिरण्यगर्भनारायणादि देवतासमाजेन लक्ष्मीसरस्वतीप्रमुखमहाशक्तिभिरन्यैश्चात्यन्ताभ्यर्हितैः शिवलिङ्गधारणस्याचरितत्वेन तस्य वैदिकजनपरिग्राह्यत्वमकामेनापि स्वकरणीयम् | तथाहि लैङ्गे- रामायणप्रदर्शितरावणकर्तृकशिवस्थापनवद् वेदिकादौ स्थापनमेव दर्शितम् | परन्तु लिङ्गिनो यश्च वा द्वेष्टीत्युक्तिर्लिङ्गसत्त्वमवश्यं गमयति | एवम् - कश्यपात्रिभरद्वाजगौतमाद्या महर्षयः | धारयन्ति सदा लिङ्गमुत्तमाङ्गे विशेषतः || इत्यादि लिङ्गं त्रिभुवनेश्वरमित्यन्तं लिङ्गपुराणवाक्यम् तथोरःस्थले हरिर्लिङ्गमित्यादि धृत्वा मूर्ध्नि पितामह इत्यादि कश्यपात्रिभरद्वाजगौतमाद्या महर्षयः | धारयन्ति सदा लिङ्गमुत्तमाङ्गे विशेषतः || नारायणोऽपि भगवान् देवा ब्रह्मादयोऽनघाः | धारयन्त्युत्तमाङ्गेषु शिवलिङ्गमनामयम् || लक्ष्मीसरस्वतीमुख्याः स्वललाटोर्ध्वदेशके | धारयन्त्यप्रमादेन लिङ्गं त्रिभुवनेश्वरम् || इति | स्कान्दे शङ्करसंहितायाम् - उरःस्थले हरिर्लिङ्गं धृत्वा मूर्ध्नि पितामहः | लिङ्गस्थं मां समाराध्य स्वं स्वं पदमवापतुः || मल्लिङ्गं मस्तकाद्यङ्गे धृत्वा शक्रपुरोगमाः | देवा मां लिङ्गमध्यस्थं पूज्य स्वं स्वं पदं ययुः || लक्ष्मीसरस्वतीमुख्या देव्यो मल्लिङ्गमादरात् | धृत्वा निजाङ्गे तल्लीनभावा जग्मुः परं सुखम् || इति | सिधान्तशिखामणौ - ब्रह्मविष्ण्वादयो देवा मुनयो गौतमादयः | शङ्करसहितावाक्यत्रयम् एवम् - ब्रह्मविष्ण्वादयो देवा मुनयो गौतमादयः (६|५५) इत्यादिसिद्धान्तशिखामणिवाक्यद्वयं विधिबोधकपदाभावेऽपि महाजनाचारदर्शनेन लिङ्गधारणस्य कर्तव्यत्वं व्यञ्जयन्ति | रौद्रं समभ्यर्च्य धारयन्ति सदा लिङ्गमुत्तमाङ्गे विशेषतः || लक्ष्म्यादिशक्तयः सर्वाः शिवभक्तिविभाविताः | धारयत्यलिकाग्रेषु शिवलिङ्गमहर्निशम् || (६|५५-५६) इति |
SKअत्र च - उत्तमाङ्गे गले वापि इत्यादिवचनावगमितलिङ्गधारणस्थानविशेष-प्रदर्शनपूर्वकं देवर्षीणां लिङ्गधारणं स्पष्टमेव | ब्रह्मवैवर्ते- रौद्रं समभ्यर्च्य हि लिङ्गमादौ शिलामयं चारु हरिः स्वभक्त्या | सुदुर्लभं वैष्णवमाद्यमग्र्यमवाप्तवानेष परं पदं तत् || आदित्यपुराणे - ब्रह्मा पूजयते नित्यं लिङ्गं शैलमयं शुभम् | यस्य सम्पूजनादेव प्राप्तं ब्रह्मत्वमुत्तमम् || शक्रोऽपि देवराजेन्द्रो लिङ्गं मणिमयं शुभम् | भक्त्या पूजयते नित्यं तेन शक्रत्वमाप्तवान् || इन्द्रनीलमयं लिङ्गं विष्णुः पूजयते सदा | विष्णुत्वं प्राप्तवांस्तेन वैकुण्ठं च सनातनम् || सोमो मुक्तामयं लिङ्गं धनदो हैमलिङ्गकम् | वायुः पित्तलजं लिङ्गं वसवः कांस्यलिङ्गकम् || हि लिङ्गमादौ शिलामयं चारु हरिः स्वभक्त्या इत्यादिब्रह्मवैवर्तादिवाक्यैः शिलामयस्येन्द्रनीलमणिमयस्य च रुद्रलिङ्गस्य पूजनाद् विष्णोः शैलमयस्य पूजनाद् ब्रह्मणो मणिमयस्य पूजनाच्छक्रस्य मुक्तामयस्य पूजनाच्चन्द्रस्य सुवर्णमयस्य पूजनात् कुबेरस्यापि शिलामयस्य शिवलिङ्गस्य पूजनाद् वायोः कांस्यलिङ्गस्य पूजनाद् वसूनां स्फटिकलिङ्गस्य पूजनाद् अश्विनौ मरुतश्चैव स्फाटिकं लिङ्गमादरात् | दिवाकरस्ताम्रमयं पन्नगास्तु प्रवालकम् || असुराः कार्षजं लिङ्गं पिशाचास्त्रपुजं तथा | एवं देवाः सगन्धर्वाः सयक्षोरगराक्षसाः || पूजयन्ति सदा लिङ्गमीशानं सुरनायकम् || इति | पराशरपुराणे - रौद्रं लिङ्गं महाविष्णुर्भक्त्या शुद्धं शिलामयम् | चारुचित्रं समभ्यर्च्य लब्धवानुत्तमं पदम् || भारते द्रोणपर्वणि - देवदेवस्त्वचिन्त्यात्मा ह्यजय्यो विष्णुरव्ययः | सर्वरूपं भवं ज्ञात्वा लिङ्गेऽर्चयति तं प्रभुम् || तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः || इति | कूर्मपूराणे - ब्रह्मणः सृष्टिकर्तृत्वं विष्णोर्दानवमर्दनम् | स्वर्गाधिपत्यमिन्द्रस्य शिवलिङ्गस्य पूजनात् || इति |
SKअश्वमरुतां ताम्रमयस्यार्चनाद् दिवाक्रस्य प्रवाललिङ्गपूजनात् पन्नगानां कार्षजलिङ्गपूजनादसुराणां रङ्गमयलिङ्गपूजनात् पिशाचानां स्वस्वाधिकारप्राप्तिबोधनद्वारा सर्वेषां देवानां तत्तच्छिवलिङ्गे शिवाराधकत्वमिष्टशिवलिङ्गसान्निध्यं च सूचितं भवति | एवं भारते द्रोणपर्वणि वर्तमानं सर्वभूतभवं ज्ञात्वेत्यादिवाक्यमपि व्याख्येयम् | नन्वत्र भारतब्रह्मवैवर्तादित्यपुराणादिवचनैः सर्वदेवानामन्येषां च तत्तत्फलोद्देशेन पीठादावेव शिवलिङ्गपूजनमभिहितमिति कथं शरीरधृतलिङ्गपूजापरत्वं तद्वचनानाम्? इति चेन्मैवम् स्कान्दलैङ्गादि- mastakakandharādi-dhāraṇasthānapradarśanapūrvakaṃ liṅgadhāraṇavidhānena liṅgadhāriṇāṃ karapīṭhapūjāyāḥ sādhitatvena ca bhāratādivacanānāṃ tadviruddhadārupīṭhādyadhikaraṇakaśivaliṅgapūjāparatvāyogena pīṭhādāveveti | vastutastatreṣṭāpattirucitā aṣṭādaśasu purāṇeṣu bhāratādītihāseṣu ca vartamānānāṃ sarveṣāṃ vācyānāmekasninnevārthe upasaṃhārasāhase phalābhāvāt | bahūni vākyāni somanāthamallikārjunakedāreśvarādijyotirliṅgamāhātmyaprakhyāpakāni santi | bahūni vedipratiṣṭhitaśivaliṅgapūjāmāhātmyabodhakāni santi | teṣāṃ sarveṣāmiṣṭaliṅgaviṣayakatvopapādane upapādayituraprāmāṇyāpatteḥ | tasmālliṅgapurāṇakāmikāgamādivākyaireva sveṣṭametad hastādhikaraṇakapūjāvidhāyakatve siddhe nārāyaṇendrādīnāṃ liṅgadhāraṇasiddhervajralepāyitatvāditi | kiñca īśvaraṃ tamahaṃ vande yasya liṅgamaharniśam | yajante saha bhāryābhirindrajyeṣṭhā marudgaṇāḥ || iti brahmāṇḍapurāṇe cidambarasaṃhitāvacanenāpīndrādīnāṃ liṅgadhāraṇaṃ sākṣādeva siddhaṃ bhavati | tatra - yaja devapūjāsaṅgatikaraṇadāneṣu (1002 bhvā) iti sūtreṇa yajadhātoḥ sambandharūpasaṅgatikaraṇārthakatvenendrajyeṣṭhā indrapramukhā marudgaṇā devā yasya śivasya śarīrabhūtaṃ liṅgaṃbhāryābhiḥ sahajayante'vibhājyasambandhena dhārayantītyarthaḥ ||
SKग्रन्थकृद्भिः साधयितुमुचितम् | लिङ्गात्मकशिवविग्रहे शिवपूजाविधयकानि तु परःसहस्राणि वाक्यानि सन्तीति नास्ति तदंऽसे कस्यापि विवादः | एवमेव - ईश्वरं तमहं वन्दे यस्य लिङ्गमहर्निशम् | यजन्ते सह भार्याभिरिन्द्रज्येष्ठा मरुद्गणाः || इति चिदम्बरसंहितावाक्ये यजधातोः यजदेवपूजासङ्गतिकरणदानेषु (१००२ भ्वा०) इति पाणिनीयधातुपाठदर्शितसङ्गत्यर्थकत्वोपपादनक्लेशाऽस्रयणमपि व्यर्थम् यजन्त इत्यस्यात्यन्तप्रसिद्धपूजयन्त इत्यर्थ इव सङ्गच्छन्त इत्यर्थे विचारवतां श्रद्धानुत्पत्तेः बहूनां वाक्यानां स्वार्थसाधकानां सद्भावेन कस्यचिद् वाक्यस्यैतादृशक्लिष्टव्याख्यानेन स्वेष्टोपयोगित्वोपपादने प्रयोजनाभावाच्च | नन्वेवमपीन्द्रादीनां हेमपीठादौ मणिमयादिलिङ्गपूजासमये चन्दनलेपादिकादाचित्कसम्बन्धेनापि यजधात्वर्थसङ्गतिकरणरूपार्थ-सिद्धेरविभाज्यसम्बन्धेन धारयन्तीत्यर्थः कथं सिद्ध्यतीति चेन्न यावदहःकालवाचकाहःशब्दस्य निशाकालमात्रवाच्यनिशाशब्दस्य च यजधात्वन्वये सार्वकालिकधारणसिद्धावविभाज्यसम्बन्धेनैव तत्सिद्धेः | न च यजधातोः सङ्गतिकरणार्थकत्वेऽपि सङ्गतेर्यावदहर्निश-कालीनत्वसिद्धावप्यन्तर्यजन्त एवमेव हेमपीठादौ मणिमयादिशिवलिङ्गस्येन्द्रादिकर्तृकपूजासमये हस्तकरणकचन्दनलेपादिना यजधातुप्रतिपाद्यसङ्गत्यर्थस्य निर्वाहादविभाज्यसम्बन्धस्य न सिद्धिरित्याशङ्क्याह - अहर्निशमिति | तद्घटकस्याहःशब्दस्य यावद्दिनवाचकतया निऽसाशब्दस्य यावद्रात्रिवाचकतया कालाध्वनोरत्यन्तसंयोगे इत्येवार्थः स्वीक्रियते तथा च न तेषां स्थूलाङ्गलिङ्गधारणसिद्धिरिति वाच्यम् अन्तःपदस्य वचनेऽदृष्टत्वेनाध्याहारदोषापत्तेः मल्लिङ्गं मस्तकाद्यङ्गे धृत्वा शक्रपुरोगमाः इत्यधिकरणविशेषणसमर्पण- tā-vacanānurodhācceti | āgamavacanāni tu yāvajjivaliṅgadhāraṇapūjāvidhāyakāni kāniciduktānyeva | anyānyapi kāmikādivātulāntāgameṣvanusandheyānyeva | vistarabhayānneha likhyante |
SKद्वितीया (पा० २|३|५) इति सूत्रविहितात्यन्तसंयोगार्थकद्वितीयायाः प्रापकतार्थकतया भक्तजीवनाधारभूतदिनरातित्वव्यापकत्वस्य नन्वागमानामप्रामाण्यात् कथं तद्बोधितलिङ्गधारणादेः प्रामाण्यमिति चेन्न आगमाप्रामाण्यं वदन् वादी प्रष्टव्यः - किमशेषागमानामप्रामाण्यम् उत- वातुलान्ताः कामिकाद्याः शिवप्रोक्ताः शिवागमाः इत्यनेन परमशिवप्रणीतत्वेन प्रसिद्धानामष्टाविंशतिसंख्याकानां शैवागमानामप्रामाण्यम् नारायणावतारविशेषबुद्धादिप्रणीतयागीयहिंसाया अधर्मसाधनत्व- nādyaḥ na gāyatryāḥ paraṃ mantram aghorānnāparo mantro nāsti tattvaṃ guroḥ param (ma0 sta0 35) ityādinā ca vedamātṛgāyatryādimahāmantranityānuṣṭhāna- सङ्गतिकरणरूपयजने बोधनेनाविभाज्यसम्बन्धः सिद्ध्यतीति समाधानम् अन्तर्लिङ्गधारणेनान्यथासिद्धिशङ्कायामध्याहारदोषेण समाधानं च बोद्धव्यम् | आगमाप्रामाण्यं वदन् वादी प्रष्टव्य इति | अत्र विकल्पत्रयोपन्यासपुरःसरसमाहानग्रन्थस्यायमाशयः - विकल्पितकल्पेषु सर्वेषामागमानामप्रामाण्यमिति जननं जीवनं पश्चात् ताडनं बोधनं तथा | अथाभिषेको विमलीकरणाप्यायने ततः || तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः | नमः स्वाहा वषड्ढुं वौषट्फडन्तं हृदादिकम् || इत्येते मन्त्रपल्लवाः | मन्त्राणां पल्लवः पादः प्रणवः शिर उच्यते | शिरःपल्लवसंयुक्तो मन्त्रोऽभीष्टफलप्रदः || ऋषिं मूर्ध्नि मुखे च्छन्दः देवतां हृदि विन्यसेत् | आधारे बीजशक्तिं च पादयोः कीलकं न्यसेत् || मूकः सुप्तो मृतो नग्नो वीर्यहीनो वृथाफलः | भुजङ्गः कीलितः शून्य ईदृङ्मन्त्रा वृथाफलाः || न्यासं विना भवेन्मूकः सुप्तः स्यादासनं विना | पल्लवेन विना मन्त्रो नग्नस्तु परिकीर्तितः || शिरोहीनो मृतः प्रोक्तो वृथा मन्त्रो गुरुं विना | ऋषिदैवतछन्दोभिर्वर्जितस्तु भुजङ्गमः |
SKकल्पः कामिकादिवातुलान्तागमानामप्रामाण्यमिति कल्पश्च तावत् केनाप्यास्तिकेन स्वीकर्तुं न शक्यते सकलास्तिकगणैः प्रामाण्येन स्वीकृतस्य गायत्र्यादिमन्त्राणां पुरश्चरणविधेस्तान्तिकमन्त्राणां दीक्षाविधेर्मन्त्राङ्गभूतशिरःपल्लवादिपारिभाषिकार्थस्यागमेष्वेव निरूप्यमाणत्वात् | अवशिष्यते मृतो दुष्टाय दत्तो यो निर्वीर्यश्चाधिकाक्षरः || अन्तरं नैकबीजेन व्याप्तः कीलित उच्यते | यस्य जप्यं शृणोत्यन्यः स मन्त्रः शून्य उच्यते || इत्यादिना जननजीवनादिमन्त्रसंस्कारादिनमःस्वाहावषट्कारादिपल्लव- mūkatvasuptatvādimantradoṣatannivartakāsanaśuddhyādipratipādakānā- तत्तदागमान्तर्गतवचनानामप्रामाण्ये गायत्र्यादिमहामन्त्रनित्यानुष्ठानपुनश्चरणादेरसिद्धेः | न द्वितीयः शिवसंस्कारारिणां चैव ज्ञानधर्मवतां सताम् | अष्टाविंशतिभेदेन प्रोक्तं शैवमिति स्मृतम् || कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा | दीप्तं सूक्ष्मं सहस्रं चांशुमत् सुप्रभेदकम् || विजयं चैव निश्वासं स्वायम्भुवमथानलम् | वीरं च रौरवं चैव मकुटं विमलं तथा || चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा | सिद्धं सन्तानशर्वोक्तं पारमेश्वरमेव च || वातुलं किरणं चैवेत्यष्टाविंशतिसंहिताः || इत्यागमेषु वेदेषु वेदान्तोपनिषत्सु च | धर्मस्तु शास्त्रतः प्रोक्तो मुक्तेर्माहेश्वरो महान् || इति वीरागमोक्तरीत्या मुक्त्युपायत्वेन प्रसिद्धशैवागमानामप्रामाण्ये - शिवे शिवागमे शैवे धर्मे शिवपरिग्रहे | जङ्गमे प्राणलिङ्गैक्ये शिवलिङ्गार्चने गुह || शिवस्थानेषु सर्वेषु वाराणस्यादिकेषु च | विपरीता भवेद् बुद्धिर्यस्य स्यात् स बहिर्नरः || शिवनिन्दापरो मूढः शिवशास्त्रविनिन्दकः | तस्य नो निष्कृतिर्दृष्टा क्वापि शास्त्रेऽपि केन च || इति स्कान्दशिवधर्मोत्तरादिवचनैर्मरणान्तप्रायश्चित्तसूचकनिष्कृत्य- nahyaprāmāṇikārthanindāyāṃ doṣodghāṭanaṃ yuktam | kiñca sthāvaraliṅgaprāṇaliṅgapratiṣṭhākālakartavyadvādaśasaṃskāra-
SKकुण्डमण्टपनिर्माणं तत्तत्संस्कारमेव च | वास्तुपूजा च हवनं पालिकासु प्रतिष्ठितम् || इत्यादीनाम् अधःपट्टिकाद्याज्यप्रतारिकान्ततत्स्थानविशेषे भुवन- tadaprāmāṇye tadvihitasaṃskārādyabhāvena sakalavaidikajanāvaśyaka- अपि च श्रीनीलकण्ठशिवाचार्यचरणकृतभाष्ये- अङ्गावयवाद्यनन्तमाङ्गल्यगुणगणमणिजलधेः परमशिवस्य इत्येतद्ग्रन्थेन परमशिवं विशिष्य कानि तान्यङ्गानीत्युक्तेः सर्वत्रता तृप्तिरनादबोधः स्वतन्त्रता नित्यमलुप्तता च | अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य || (वा० पु० १२|३१; कू० पु० २|८|१३) ज्ञानं विरागतैश्वर्यं तपः शक्तिः क्षमा धृतिः | स्रष्टृत्वमात्मसम्बोधो ह्यधिष्ठातृत्वमेव च || अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे || (ब्रह्मा० पु० ३|४|२|२१८-२१९; कू० पु० १|१०|३९-४०) इति शैवागमवचनैरङ्गावयवनिरूपणेन शङ्कराचार्यकृतप्रपञ्चसारादिग्रन्थे त्र्यम्बकषडक्षरी- -nirūpaṇasyāgamavacanaireva kṛtatvena tadvirodhāpatteśca | nahi bhāṣya-kārairaprāmāṇikavacanānyudāhriyante | evaṃ vyāsamanvādi- ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणः विश्वाधिको रुद्रो महर्षि (श्वे० उ० ३|४) इति ब्रह्मर्षित्वेन निरवद्यं निरञ्जनम् (श्वे० उ० ६|१९) इति नित्यत्वेन च प्रसिद्धपरशिवप्रणीतागमप्रामाण्यस्या-परिहार्यत्वाच्चेति | न चरमः पक्षः विष्णोर्जगन्मोहनीवेषधारणसमयेऽशेषजगन्मोहक-त्वस्य रामाद्यवतारे सीतालक्ष्मणवियोगादिजनितव्यामोहस्य स्वतोऽपि सत्त्वेन च परप्रतारकबुद्धावतारप्रणीतवेदविरुद्धागमानामप्रामाण्ये त्विष्टापत्तेः | ननु कूर्मपुराणे - एवं संचोदितो रुद्रो माधवेन मुरारिणा | चकार मोहशास्त्राणि केशवोऽपि शिवेरितः || कपालं लाकुलं शाक्तं भैरवं पूर्वपश्चिमम् | पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः || (१|१५|११२- iti śivakeśavayorubhayorapi mohaśāstrakartṛtvapratipādanena tathānyāni sahasraśa ityanyaśabdena śaivāgamānāmapi grahaṇāt teṣāmapya-
SKनिर्मितं हि मया पूर्वं व्रतं पाशुपतं शुभम् | तृतीयः कल्पः बुद्धजिनादिनास्तिकमण्डलप्रणीतागमानामप्रामाण्यमिति तत्रेष्टापत्तिरेव भवतामिवास्माकमपि बौद्धाद्यागमानामप्रामाण्येऽपि शैवागम- गुह्याद् गुह्यतरं सूक्ष्मं वेदसारं विमुक्तये || एष पाशुपताचारः सेवनीयो मुमुक्षुभिः || (२|३७|१४१, १४३) इति रुद्राक्षलिङ्गधारणरूपपाशुपतव्रतप्रतिपादकागमस्य श्रौतत्वं प्रतिपाद्य अन्यानि शैवशास्त्राणि लोकेऽस्मिन् मोहनानि वै | वेदवादविरुद्धानि मयैव कथितानि तु || (२|३७|१४५) इत्युक्त्वा वामं पाशुपतं सौमं लाकुलं चैव भैरवम् | न सेव्यमेतत् कथितं वेदबाह्यं तथेतरत् || (२|३७|१४६) इति | यानि शास्त्राणि दृश्यन्ते युगेऽस्मिन् विविधानि तु | श्रुतिस्मृतिविरुद्धानि तेषां निष्ठा हि तामसी || कापालं पाञ्चरात्रं च यामलं वाममार्हतम् | एवंविधानि शास्त्राणि मोहनार्थानि तानि तु || (१|११|२७२-२७३) इति श्रुतिस्मृतिविरुद्धानामेवाप्रामाण्यस्वीकारात् किरातवेषधारिपरमेश्वरप्रणीतशाबरतन्त्रबुद्धावतारप्रणीतबौद् धा-द्यागमानामेवान्यपदेन ग्रहणात् | ननु तर्हि शैवागमानां श्रुतिस्मृतिसारमयत्वं कथमिति चेत् - पूर्वोक्त- katvena gautamamanvādyācāraviṣayasthāvaraliṅga- pratiṣṭhāvidhāyakatvena kālāgnirudrarudropaniṣadādisiddhavibhūtirudrākṣa- तत्त्वमसीत्याद्यनेकश्रुतिबोधितजीवब्रह्मैक्य- chāndogyabṛhadāraṇyakādi-śrutivihatānekārthatvācceti | iti śrīmadvedavedāntapurāṇāgametihāsasārabhūtaśrīmadviśiṣṭādvaita- -caṇḍakiraṇādvaitakumbhikumbhadalanaraudrapañcānanaśrīmannandī- प्रामाण्याक्षतेरिति | महामहोपाध्यायपण्डितश्रीशिवकुमारमिऽस्रशास्त्रिविरचित- samāptaḥ || uttarabhāgaḥ
SKनन्वेतावता लिङ्गधारणसिद्धावपि मृतस्य ब्राह्मणस्य दाहक्रिया विधीयते भवदनुष्ठीयमानखननस्य कुत्राप्यविधानात् कुतस्तत्सिद्धिः? इति चेदुच्यते - ऋग्वेदे - कर्दमेन प्रजा भूता मयि संभव कर्दम (ऋ० खि० ५|८७|११) इति मन्त्रेण तत्सिद्धिः | कर्दमेन पृथिव्या प्रजाः तिर्यङ्मनुष्यादिनानाविधजीवकोटयः भूताः संजाताः | सजलमृत्पिण्डवाचककर्दमशब्दप्रयोगेण प्रधानोपादानभूतायां पृथिव्यां जलादेरुपसर्जनविधया लिङ्गधारणस्य कर्तव्यतामारभ्य लिङ्गधारणमूलभूतश्रुतिस्मृतिकामिकाद्यागमानां प्रामाण्यपर्यन्ता बहवोऽर्थाः पूर्वभागे निरूपिताः | इदानीं लिङ्गधारिणां प्रयाणोत्तरं तन्मतेऽनुष्ठीयमानायां तद्देहस्य भूमिखातनिक्षेपात्मकप्रतिपत्तौ प्रमाणमुपन्यस्यते | तत्र - कर्दमेन प्रजा भूता (ऋ० खि० ५|८७| ११) सहकारित्वमित्यवगन्तव्यम् तदभावे घनीभूतपृथिवीमात्रस्य देहनिर्माणोपयोगित्वाभावात् | तादृशीं महीं प्रति मृतपुरुषेण प्रार्थ्यते - मयि सम्भव कर्दम इति | हे सजलमृत्पिण्डात्मकपृथिवि मयि कालपरिपाकतो मरणे प्राप्ते द्वात्रिंशत्पर्वयुक्समाध्यपरनामकत्वद्-गर्भस्थिते मच्छरीरे सम्भव आच्छाद्य विलीनावस्थां गमयित्वा दुरितनिवृत्तिपूर्वकं मामुत्तमलोकप्राप्तिमन्तं कुर्वित्यर्थः | महीं देवीं विष्णुपत्नीमजूर्यां महीं देवीं विष्णुपत्नीम् (तै० ब्रा० ३|१|२|६) इति ऋग्द्वयम्
SKप्रतीचीमेनां हविषा यजामः इति परायते नक्षत्रेष्टिपठितमन्त्रेणापि खननसिद्धिर्भवति | अत्र ज्ञातिबन्धुसमेतकर्त्रा मृतपुरुषशरीरं शिबिकादिना समीपं प्रापय्य तत्र कर्तव्ययावत्संस्कारानन्तरं बिलप्रवेशकरणे विनियुक्तस्यास्यायमर्थः - एनां महीं देवीं प्रति हविषा मृतपुरुषशरीररूपेण यजाम इति | तथा चाग्नौ हूयमानपुरोडाशाज्यादिहविष इव पृथिवीबिलनिक्षिप्तशरीरस्य तत्रैव विलीनताप्रसक्त्या तस्याश्च समाधौ गोपनं विनाऽनुपपन्नत्वात् सिद्धिरिति सङ्केतग्राहकत्वेन श्रुतिस्मृत्यादिनिखिलशब्दप्रमाणापेक्षिततया स्वतःप्रमाणत्वेन च प्रसिद्धनिघण्टुवचनादपि पर्यवसानगत्या तत्सिद्धिः | तथाहि - पाञ्चभौतिकदेहस्य पञ्चताकालधर्म इति पञ्चभूतानां संपुटीकरणेन देहारम्भः तस्य कालपरिपाकवशात् पञ्चत्वप्रसक्तौ पञ्चावयवानां पञ्चभूतेष्वेकीकरणमावश्यकम् | तत्र वाय्वाकाशयोरप्रत्यक्षत्वेन तत्रानुक्रमणं व्यवहारयोग्यं न भवतीति पृथिव्यप्तेजःस्वेव संयोजनं कार्यम् | तत्राप्यग्निजलयोः पृथिव्याधारकत्वेन सर्वाधारपृथिव्यामेव निक्षेपणं कृत्वा तत्त्वसंयोजनमावश्यकम् | अत एवोक्तं पराशरस्मृतौ - शरीरं पञ्चतत्त्वाख्यं तत्त्वं तत्त्वेन योजयेत् | तत्रापि पृथिवीतत्त्वे योजनं मोक्षसाधनम् || इति | अपि च अवसानेऽग्निसंस्कारवतामप्यसृङ्मांसमिलितदेहस्य दहनदह्यमानत्वेऽप्यस्थ्यादिस्वरूपाङ्गशेषस्य पृथिवीं गच्छेति मन्त्रेण महीतले गङ्गाऽभसि वा क्षेपणमावश्यकम् | तथा चैकदेशस्याग्निदाह्यत्वमवशिष्टस्य पृथिवीजलादिनिक्षेप इत्यङ्गीकारेऽऽर्थवैरस्य प्रसङ्गात् सर्वाधारभूतावनिनिक्षेपणमेव कर्तव्यम् | तदुक्तं कूर्मपुराणे - दग्धेऽपि देहे पुनरङ्गशेषो निक्षिप्यतेऽसौ भुवि वा लजे वा | तस्मात् तु निक्षेपविधिर्बलीयान्निःशेषभावादपुनर्विधानात् || इति | शरीरं पञ्चतत्त्वाख्यम् इति पराशरस्मृत्यादि च प्रमाणत्वेनोपन्यस्तम् | पितृमेधप्रकरणपठितश्रुत्यादीनां विरोधमाशङ्क्य च लिङ्गाङ्गसङ्गिब्राह्मणविषयकत्वेन
SKन चोदाहृतश्रुतिस्मृत्यादिभिः सर्वत्र पिधानविधाने दहनविधायक-पितृमेधादिपठितश्रुत्यादीनां निर्विषयत्वप्रसङ्ग इति वाच्यम् पूर्वोदाहृतपद्मपुराणशातातपमन्वादिस्मृतिवचनानुरोधेन सामान्यतोऽपि खननविधायकवाक्यानां छागपशुन्यायेन लिङ्गाङ्गिब्राह्मणविषयत्वमङ्गीकृत्य दहनविधायकवाक्यानां तदतिरिक्तविप्रादिविषयत्वेन सङ्कोचे बाधकाभावात् | अन्यथा कर्मद्वयविधायकवाक्यानां परस्परविरोधेनोभयोरप्यवैदिकत्वापत्तेः | खननवाक्यानां तदितिरिक्तविषयकत्वेन पितृमेधवाक्यानां व्यवस्थापनं क्रियते परस्परविरुद्धार्थवाक्यानां विना व्यवस्थां प्रामाण्यायोगेन व्यवस्थाया आवश्यकत्वात् | अत एव दर्पणे ब्रह्मविद्याविद्वर्यैरुक्तम् - जीवब्रह्मणोरभेदाङ्गीकारे द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते | तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्योऽभिचाकशीति || (श्वे० उ० ४| ६) द्वे ब्रह्मणी वेदितव्ये परं चापरं च (मैत्रा० ६/२२) इति भेदप्रतिपादकवाक्यविरोधेन भेदाङ्गीकारे-
SKअत्रैव प्रसङ्गाद् विशिष्टाद्वैतसिद्धान्तमपि किञ्चिदुपपादयति - अत एव दर्पण इत्यादिना | विरोधाभावादिति | द्वा सुपर्णा सयुजा सखाया इत्यादि | द्वौ सुपर्णावित्यर्थः | सुपां सुलुग् (पा० ७|१|३९) इत्यादिशास्त्रेण द्विचनस्य डादेशः | अत्र - ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुः (भ०गी० १५|१) इत्यादिना शरीरस्य वृक्षत्वेन वर्णानाच्छरीरमेव वृक्षशब्देनोच्यते | लौकिकपक्षिणोरिव शरीररूपवृक्षाश्रितत्वाज्जीवात्मपरमात्मनोः पक्षित्वेन वर्णनं क्रियते | समानं वृक्षं परिषस्वजाते इति | जीवात्मपरमात्मानावुभावपि एकमेव शरीररूपं वृक्षमधिष्ठितवन्तौ | तयोर्जीवात्मपरमात्मनोर्मध्येऽन्योर्थाज्जीवः पिप्पलं कर्मफलं स्वादु उपलक्षणमिदं स्वस्वकर्मानुसारेण स्वादु अस्वादु वा अत्ति भुङ्क्ते | अन्यः परमात्माऽनश्नन् अविद्याया अभावेनालुप्तचैतन्यशक्तितया शरीरधर्मासम्बद्धः | तथा च कर्मबन्धाभावेन कर्मफलं सुखं दुःखं चाभुञ्जान एवाभिचाकशीति देदीप्यते | अस्यां श्रुतौ जीवब्रह्मणोर्भेदः प्रतिपादितो भवति | एवम् - द्वे ब्रह्मणी वेदितव्ये परं चापरं च इत्यत्रापि | नेह नानास्ति किञ्चन (बृ० उ० ४|१४९) एक एव रुद्रो न द्वितीयोऽवतस्थे (श्वे० उ० ३|२) यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा (छा० उ० ७|२४|१) इत्याद्यभेदविधायकवाक्यविरोधेन चोभयोरप्रामाण्यप्रसक्त्या एकमेवाद्वितीयं ब्रह्म (छा० उ० ६|२|१) नेह नानास्ति किञ्चन (बृ० उ० ४|४|१९) नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता (बृ० उ० ३|७| २३) इत्यादौ यत्र नान्यत् पश्यति नान्यच्छृणोति छा० उ० ७|२४|१) इत्यादौ च जीवब्रह्मणोरेकत्वं प्रतिपाद्यत इति परस्परश्रुतिविरोधान्न केवलं द्वैतं नाप्यद्वैतं मन्तुं शक्यते अपि तु विशिष्टाद्वैतपक्ष एव मन्तव्यः | तदर्थस्तु - विशिष्टं च विशिष्टं च विशिष्टे विशिष्टयोरद्वैतं विशिष्टाद्वैतमिति | अत्र सूक्ष्मचिदचित्प्रपञ्चशक्तिविशिष्टं ब्रह्म एकविशिष्टपदेनोच्यते |
SKविशिष्टाद्वैतपक्ष एवाङ्गीकरणीयः | तत्पक्षे तु स्थूलसूक्ष्मचित्- viśeṣaṇaviśeṣyabhedamādāya dvaitavākyānāmapi prāmāṇyasiddhyā virodhābhāvāditi | na ca dahanasya vipraviṣayatvaṃ khananasya jātyantaraviṣayatvamiti vācyam teṣāṃ vedavihitakarmādhikārābhāvāt khananasyaiva vipraviṣyatvaṃ dahanasya jātyantaraviṣayatvamiti vaiparotyāpatteśca ācāravirodhasyobhatrāpi tulyatvādityalam | nanūdāhṛtamantraiḥ idamevāvyākṛtacidacitprapañcaviśiṣṭamapyucyate | sthūlacidacitprapañcaśaktiviśiṣṭaṃ brahmāparaviśiṣṭapadenocyate | tayorekatvamastīti siddhāntasvarūpam | arthāt sthūlāvasthāpannasya sūkṣmāvasthāpannasya cāntaryāmi pradhānabhūtaṃ niyāmakaṃ parameśvaratattvamekameva | tasya cetanānāṃ jīvānāmantaryāmicetanarūpatvāt tadapekṣayā nānyo'to'sti draṣṭetyādi nānyacchṛṇotītyādic a śrutivākyamupapadyate | śarīrendriyādyanekavastuvaiśiṣṭye'pi devadatta eka evedānīṃ svagṛhe'stīti vyavahārasya pravṛttivad ekamevādvitīyaṃ brahmetyupapannam | dvā suparṇā iti tu svarasatayaivopapannamiti na kasyāpi śrutervirodha ityāha - virodhābhāvāditi | itaḥ paraḥ saṃkṣepeṇa granthakārasyāśayaḥ pradarśyate | antyakṛtyaviṣaye pitṛmedhasambandhiśrutismṛtīnāṃ taditaraśaivāgamādivākyānāṃ ca jātibhedena khananasyāpātataḥ prasaktāvapi mṛtapuruṣaṃ khanediti vidhivākyābhāvena na vaidhatvamiti cet? maivam pretaṃ dahediti vidhyabhāve'pi vidhiprayojakarūpa-sampattyā pitṛmedhādipaṭhitatattanmantraliṅgaiḥ pretaṃ dahediti vidhikalpanavat pūrvodāhṛtānekamantraliṅgairvidhiprayojakarūpasampattyā ca mṛtapuruṣaṃ khanediti vidhikalpanaucityāditi | vastutastu sadānandopaniṣadi - śaivaṃ liṅgamurasthale dhāryaṃ vipreṇa (7-8) ityādinā liṅgadhāraṇaṃ vidhāya sākṣādeva vyavasthā na śakyate kartum vinigamanāviraheṇa vaiparītyasyāpi śaṅkanīyatvāt | khanane liṅghaṭitavidhirna dṛśyata iti na śaṅkanīyam |
SKखननमपि विधीयते- शिवा तनूरचित्ताद्विले निक्षिपेत् (१०) इति | शिवा लिङ्गस्वरूपशिवसम्बन्धिन्यो यास्तनवस्तास्तनूरचित्तान्मरणादूर्ध्वं बिले निक्षिपेत् खननक्रियां कुर्यादित्यर्थः | उपनिषदन्तरे- स यावज्जीवो म्रियते अथैनमवनये हरन्ति इत्यनेन खननं विधीयते | शिवभक्तो जीवः यावन्म्रियते मृतो भवति अथ मरणानन्तरमेनं भक्तमवनये भूम्यै हरन्ति पृथिवीगर्भे समाधिक्रियां कृत्वा भक्तदेहहरणं कुर्यादित्यर्थ इति | न चावनये हरन्तीत्यत्राऽवन्यामग्निना हरन्तीत्यर्थः किं न स्यादिति वाच्यम् विप्राय गां दद्याद् अदद्याद् दानं स्वगोत्राय स्मृत्यादिनानुमेयत्वात् | सदानन्दोपनिषदादौ विधिरप्यस्ति | शिवधर्मशास्त्रवचनेषु इत्यादौ विप्रादेर्गोदानादिसंप्रदानत्ववदस्या एव चतुर्थ्याहरण- bhūmau vinikṣiped dehaṃ bhaktānāṃ śivayoginām | ajñātvā dahanaṃ kuryānnarakaṃ vā'dhigacchati || na śarīraṃ daheddhīmān śivabhaktasya kasyacit | pretāśaucaṃ parokṣe ca varjayenmunisattama || śivabhakto mṛto yastu dahanādirna vidyate | dagdhasya dahanaṃ nāsti pakvasya pacanaṃ nahi || jñānāgnidagdhadehānāṃ na ca dāho na ca kriyā || iti śivadharmaśāstravacanairbhaktānāṃ dahananiṣedhapūrvakakhanana- शरीरं पार्थिवं बाह्यं लिङ्गं यत्तद्धि पार्थिवम् | उभयं पार्थिवं यस्माद् गोप्यं रन्ध्रे तु पार्थिवे || इति वातुलागमवचनानुरोधेन शरीरलिङ्गयोः पृथिवीप्रकृतिकत्वेन तत्रैव विलीनतौचित्याच्च | न च शरीरस्य पाञ्चभौतिकत्वेन तेजस्येव शरीरहरणं किं न स्यादिति वाच्यम् सर्वाधारपृथिव्या लिङ्गाङ्गसङ्गियोगिनां खननातिरिक्तकल्पानुष्ठाने महान् दोषोऽप्युक्तोऽस्ति | शरीरारम्भकाणां पञ्चानां भूतानां मध्ये भूमेः
SKअत्यन्ताभ्यर्हितत्वेन प्रथमातिक्रमकारणाभवेन च पृथिवीमत्त्व एवैकीकरणौचित्यादिति | तथा च सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायेन आग्निषोमीयवाक्यस्येव खननविधायकवचनानां बलीयस्त्वेन दहनविधायकवाक्यानां मां हिंस्यात् सर्वा भूतानि इति वाक्यस्याग्नीषोमीयपशुव्यतिरिक्तविषयत्ववद् ब्राह्मणविशेष- prāthamyaṃ prādhānyamastīti tatraiva bhūtāntarāpekṣayā yojanamucitam | mā hiṃsyāt sarvā bhūtāni agnīṣomīyaṃ paśumālabheta iti vākyayoriva sāmānyaviśeṣabhāvaḥ prakṛte ekasmin vākye liṅgāṅgasaṅgipadayogād na codāhṛtaśrutyā bodhitasya khananasya yativiṣayatvamiti vācyam sarvatra śarīramityādau yativācakapadābhāvenobhayatra khananācārānurodhenobhayasādhāraṇyena khananavidhāyakaśrutīnāṃ saṅkocāsahiṣṇutvāt udāhṛtasmṛtyādau liṅgāṅgibrāhmaṇabodhakapadasattvācceti | kiñca bhārate'nuśāsanaparvaṇi gaurīṃ prati śivavacanena dahanakhananobhayorapi vihitatvena vedatulyabhāratabodhitakhananasya liṅgadhāribrāhmaṇaviṣayatvamāvaśyakameva | tathāhi - svabhāvamaraṇaṃ nāma na tadātmecchayā bhavet | tadā mṛtānāṃ yatkāryaṃ tanme śṛṇu yathā tathā || bhūmau saṃveśayed dehaṃ narasya vinaśiṣyataḥ | nirjīvaṃ śṛṇuyāt sadyovāsanāt tu kalevaram || boddhavyaḥ | yativiṣayakatvamapi na sambhavati yatipadābhāvāt | mālyagandhairalaṃkṛtya suvarṇena ca bhāmini | śmaśāne dakṣiṇe deśe citāgnau pradahenmṛtam || athavā nikṣiped bhūmau śarīraṃ jīvavarjitam || iti | na cātra dahanasya brāhmaṇaviṣayatvaṃ khananasya jātyantaraviṣayatvamiti vācyam vinigamakābhāvena vaiparītyāpatteḥ | na ca dahanasya śrautatvena tadeva vinigamakamiti vācyam khananasyāpyanekaśrutismṛtyādibodhitasya pūrvamupapāditatvāt | tasmālliṅgāṅgisaṃyukto yo'pi so'tyāśramī bhavet || prathamaḥ kananopāyo dvitīyo dahanātmakaḥ | tṛtīyo'darśanopāyaḥ svadehaṃ tyaktumicchatām ||
SKअदर्शनमिति श्रेष्ठमवियोगोऽङ्गलिङ्गयोः | तथैव खननं श्रेष्ठं विशुद्धं पृथिवीबिले || तयोरभावे दहनं शिखिकर्पूरयोगवत् || इति वातुलोत्तरतन्त्रानुरोधाच्चेति | अथैवमुक्तप्रणाल्या लिङ्गाङ्गिब्राह्मणानां सर्वेषामपि दहननिषेधे - अर्थी समर्थो विद्वान् जातपुत्रः कृष्णकेशोऽग्नीनादधीत (शा० भा० ६|१|५) इत्यादिवाक्यविहितसाधनसम्पन्नस्य ब्राह्मणमात्रस्य - yajñena dānena tapasā'naśanena (bṛ0 u0 4|4|32) iti śrutyāpāditabrāhmaṇaveda-sādhanībhūtayajñasyāvaśyakartavyatvena - kaśyapā'tribharadvājagautamādyā maharṣayaḥ ityudāhṛtaliṅgapurāṇavacanavihitaliṅgadhāraṇavatāmeva kaśyapādīnāṃ śivapurāṇe vāyavīyasaṃhitāyāṃ jaṭāliṅgadhāraṇanirūpaṇaprastāve āhitāgnitvapratipādanādādhunikānāmapi keśāñcit pūrvaśaivānāmuktasādhanavatāmāhitāgnitvadarśanāt | teṣāmapi dahananiṣedhaprāptau - āhitāgnibhirdahanti yajñapātraiḥ iti kalpasūtravirodhaḥ tena cāhitāgnimātrasyāvasāne vaitānāgnihotrapātraiḥ saha dahanavidhānāditi cet? maivaṃ maṃsthāḥ kaśyapātribharadvājagautamādyā maharṣayaḥ ityādinā liṅgapurāṇe kaśyapādimaharṣīṇāṃ liṅgāṅgasaṅgitvamuktam | śivapurāṇe vāyavīyasaṃhitāyāṃ kaśyapādīnāmāhitāgnitvamuktam | tatra kā prakriyā'śrayitavyeti vicārastu evaṃ mṛtāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm | dāhayedagnihotreṇa yajñapātraiśca dharmavit || bhāryāyai pūrvamāraṇyai datvā'gnīnantyakarmaṇi | punardārakriyāṃ kuryāt punarādhānameva ca || (5|167-168) iti manusmṛtyā yajvapatnyāḥ prathamaṃ maraṇaprasaktau yāgīyāgnihotra-pātraiḥ saha tasyā dahanavidhānena dvītiyavivāhāt pūrvameva yajvano'pi maraṇaprasaktāvagnihotrapātrāṇāṃ pūrvaviniyuktatvena tadviṣaye kalpasūtravihitayāgīyāgnihotrapātrakaraṇakadahanasyānityatvasvīkārāt | na ca kalpasūtre yajñapātrairveti vikalpavidhānādaraṇyādivyatiriktapātrāgni- पुनरग्निमुत्पाद्यारण्यादिना सह दाहः
SKन कर्तव्यः तेषामृषीणां कल्पान्तस्थायित्वेन तद्विचारे फलाभावात् | इतः परमपि संभावितानामाशङ्कानां निराकरणेन खननपक्षः शिवलिङ्गाङ्गिसङ्गिषु स्थापितः | क्रियत इति वाच्यम् यज्ञपात्रैश्च धर्मवित् (५|१६७) इति मनुस्मृत्या किञ्चित्पात्रव्यतिरिक्तपात्रैर्दहनाप्रतीतेः तथापि यागीयाग्निहोत्रेण यज्वनो दहनाभावेन कल्पसूत्रविहितकर्मानित्यत्वस्यापरिहाराच्च | किञ्च प्राजापत्यां निरूप्येष्टिं सर्वस्वेन सदक्षिणाम् | आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् || (६|३८) इति मनुस्मृत्याऽऽहिताग्नेर्विप्रस्य तुर्याश्रमस्वीकारसमयसमवधाने प्राजापत्येष्टिं निर्वर्त्याग्नीनामात्मारोपणं कृत्वा स्वगृहात् प्रव्रजेदिति विधानेन तस्य च - सर्वकर्मनिवृत्तस्य ध्यानयोगरतस्य च इत्यादिपूर्वोदाहृतवचनेन दहननिषेधवत् तद्विषयेऽप्यनित्यत्वाच्च | न च संन्यस्तस्य यज्वनो दहनाभावेऽपि तत्पत्नीदेहावसानपर्यन्तं पात्राणि संगृह्यावसानकाले पात्रैः सह दहनं क्रियत एवेति वाच्यम् आहिताग्निमग्निभिर्दहन्ति इति श्रुतपुल्लिङ्गतानिर्वाहायाहिताग्नि-पदस्य यज्वपरत्वेन तस्य दहनाभावेऽनित्यत्वापरिहारात् | न च लिङ्गव्यत्य-येनाहिताग्निपदस्य तत्पत्नीपरत्वमपि स्वीक्रियत इति वाच्यम् यागीयाग्निहोत्र- kalpasūtravihitakarmaṇo'nitya-tvāvaśyambhāvāt deśakālavaiparītyādinā yajñapātravicchede tatsahabhāve-nāpi dahanābhāvāt saṃnyasyadyajvā'gnihotrātmāropaṇasamakālameva pātrāṇāṃ pṛthagdahanaṃ kṛtvā saṃnyasyatīti pakṣe tatpatnīdehāvasāna-paryantaṃ yajñapātrābhāvācceti | api ca - gṛhasthastu yadā paśyed vapuḥ patitamātmanaḥ | apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet || saṃtyajya grāmyamāhāraṃ sarvaṃ caiva paricchadam | putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā || agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam | grāmādaraṇyaṃ niḥsṛtya nivasenniyatendriyaḥ || smṛ0 6|2-4,9)
SKइति स्मृत्या यज्वनस्तदन्यस्य वा गृहस्थस्य - ब्रह्मचारी गृही भवेद् गृही भूत्वा वनी भवेद् वनी भूत्वा प्रव्रजेत् इत्याश्रमक्रमविधायकवाक्य-विहितवानप्रस्थाश्रमसमयबन्धे स्वयमाहिताग्निश्चेत् प्राजापत्येष्टिं कृत्वात्मन्यग्नीनारोप्य पुत्रादौ भार्यां निवेश्यारण्यप्रवेशं कुर्यात् | यद्वा वानप्रस्थस्याग्निहोत्रादिकर्माधिकारस्य विद्यमानत्वेन वैतानाग्नि- vanyavṛttyaiva jīvannagnihotrādisakalakarmānuṣṭhānamācaranneva nivasedityabhihitatvena vānaprasthasya yajvano dehāvasānaprasaktau - vānaprasthaṃ yoginaṃ ca liṅgaikyaṃ bhikṣukaṃ yatim ityādyutāhṛtaśātātapasmṛtyā tasya khananavidhānena kalpasūtravihitayāgīyāgnihotrapātrakaraṇakadahanasya nityatvābhāvācca | na ca tasya dahanābhāve'pi tatpatnīdehāvasānaparyantaṃ pātrādikaṃ saṃsthāpya taiḥ saha kriyata iti vācyam patnīsahabhāvenai- vāśramasvīkāreṇa tasyā api vānaprasthatvena dahanāyogāt | tarhi vaitānapātrāṇāṃ kā gatiriti cet? agnihotreṇa pātrāṇāṃ pṛthag dahanam vānaprasthapatnīśarīrasya khananameva kāryamiti gṛhāṇa | astu vā vānaprasthapatnyā dahanam tathāpi yajamānātikrame vaitānāgnerabhāvena pātrāṇāṃ deśakālavaiparītyena vicchede laukikāgninā dahane'pi sūtravihitakarmānityatvasya vajralepāyitatvameva | nanu kalpasūtravihitāgnidahanasya śrautatvena balavattvānna śātātapādismṛtyā tasyānityatvakathanaṃ yuktamiti cenna śrutāvapi tasyānityatvabodhanāt | tathā ca- ye'gnidagdhā ye'nagnidagdhā ye vā jātāḥ kule mama | bhūmau dattena piṇḍena tṛptā yāntu parāṃ gatim || iti piṇḍapradāne śrūyate | atra cānagnidagdhakoṭipraviṣṭatvamāhitāgnī- दाहयेत् इति बालानां दहननिषेधात् तेषामेवानग्निदग्धकोटौ प्रवेश इति न सूत्रविहिताग्निदहनानित्यत्वमिति वाच्यम् असंस्कृतप्रमीता ये त्यागिन्यो याः कुलस्त्रियः | दास्यामि तेभ्यो विकिरमन्नं ताभ्यश्च पैतृकम् || इति तेषां पृथक्कॢप्तिविधानात् | नापि यतीश्वराणामनग्निदग्धकोटि-
SKन तस्य दहनं कार्यं न च पिण्डोदकक्रिया | एकोद्दिष्टं न कर्तव्यं संन्यस्तानां कदाचन || इति शौनकस्मृत्या यतीश्वराणां पिण्डप्रदाननिषेधात् | नापि जात्यन्तराणां प्रवेशः शूद्राणां वेदमन्त्रेण विधानायोगेन - यजमानकुले जाता दासा दास्योऽन्नकाङ्क्षिणः इत्यादिपुराणवचनैरेव तृप्तिविधानादिति | अतः परिशेषप्रमाणेन देशान्तरे विजनप्रदेशमृतानामपुत्रकाणां कर्त्राद्यभावेनाग्निसंस्काराभाव-वतां यजमानकुलोद्भवानामाहिताग्नीनामनाहिताग्निनां वा गृहस्थानामरण्यादिप्रविष्टानां देहावसाने खननक्रियायामुक्ता- evaṃ ca kalpasūtrādivihitāgnidahanasyānityatvasiddhau liṅgadhāridvijānāmudāhṛtānekaśrutismṛtyādikadambena khananakriyāvidhānādāhitāgnīnāmapi teṣāṃ dehāvasānapūrvakāle prājāpatyeṣṭiṃ kṛtvātmanyagnīnāropya mṛtānāṃ khananakriyaiva kartavyā tatpatnīnāmapyavasāne pātrāṇāṃ pṛthag dahanaṃ kṛtvā khananameva kartavyamityavagantavyam | kiñca mārgaśaivānāṃ (pūrvaśaivānāṃ) dahanakaraṇe khananākaraṇe ca pratyavāyavidhānādāhitāgnyanāhitāgnisādhāraṇyena tadviṣaye dahanavidhāyakasakalavākyānāmapi saṃkoca evāṅgīkaraṇīyaḥ | taduktaṃ sadānandopaniṣadi - śivaliṅgadharaṃ vipraṃ vipannaṃ tu na dāhayet | yadi vā dāhayet tasya brahmahatyā tadā bhavet || (12) iti | skānde - mṛtaliṅgāṅgino dehamajñānād dahate yadi | śivālayasahasrāṇāṃ dāhadoṣamavāpnuyāt || yadīcched dahanaṃ tatra śivāgnau tannivedayet | tatrāpi liṅgakāyasya dahanaṃ tu vivarjayet || iti | padmapurāṇe - sarvāśramātirekeṇa bhavedatyāśramī dvijaḥ | liṅgāṅgī yadi vā mukto dagdhuṃ nārhati karmaṇā || iti | vāyavīyasaṃhitāyām - ṣaḍadhvaśuddhiṃ vidhivat prāpto vā mriyate yadi | paśūnāmiva tasyeha na kuryādaurdhvadaihikam || śivadharmaśāstre - yaḥ prāṇaliṅgasaṃllagno liṅgaprāṇī viyujyate | śarīradahanāt tasya narake kālamakṣayam || bhasmoddhūlitasarvāṅgamāpādatalamastakam | roma roma bhavelliṅgaṃ taddehaṃ dāhavarjitam ||
SKयोगाग्निप्लुष्टकायस्य त्वात्मलिङ्गेष्टलिङ्गयोः | संयोगान्मोक्षकाले तु मुमुक्षोः सा तनूः शिवा || यदङ्गं तु मृतं दृष्टं निक्षिपेत् तत् तु लिङ्गिनः | तद्देहदहनाद् घोरं रौरवं नरकं व्रजेत् || प्राणलिङ्गवतां पुंसां लिङ्गप्राणवतां तनोः | प्राप्ते मरणकाले तु न कुर्याद् दहनं बुधः || अज्ञानाद् दहनं कृत्वा नरकं वाधिगच्छति || इति | वीरागमे - कोटिशैवालयं दग्धं शिवभक्तं दहेद् यदि | दहन्नज्ञानयोगेन ब्रह्महत्यामवाप्नुयात् || लिङ्गदेहिशरीरस्य लिङ्गसंस्कारवर्जितः | कुर्याच्चेद् वह्निसंस्कारमुभयोर्नरके क्षयः || यः प्राणलिङ्गनिक्षिप्तो निक्षिपेत् तं तु लिङ्गिनम् | तद्देहदहनाद् घोरं रौरवं नरकं व्रजेत् || इति | शिवरहस्यखण्डे - रुद्ररूपः शिवज्ञानी सर्वाङ्गे लिङ्गसङ्गिनः | कर्ममन्त्रेण दहनान्नरकः कालमक्षयम् || लिङ्गं भूतिं च रुद्राक्षं ये देहे धारयन्ति च | सर्वाङ्गलिङ्गसंयुक्तं तद्देहं शिवमुच्यते || तद्देहं दहते कर्मी नरकः कालमक्षयम् || इति | एवं च - यावज्जिवमग्निहोत्रं जुहुयात् अहरहः सन्ध्यामुपासीत स्नानं सन्ध्या जपो होमः स्वाध्यायः पितृतर्पणम् | आतिथ्यं वैश्वदेवं च सत्कर्माणि दिने दिने || दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमाहरन् || इत्यादिवाक्यविहिताकरणे प्रत्यवायजनकयावज्जीवकर्तव्यनित्यनैमित्तिकादि-सकलकर्माणि परित्यज्य - अश्वालम्भं गवालम्भं संन्यासं पलपैतृकम् | देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्जयेत् || इति वैधनिषेधसत्त्वेऽपि लिङ्गधारणरहितब्राह्मणानां यागगङ्गास्नानान्नदानादितत्तत्सत्कर्मानुष्ठानानन्तरं गार्हस्थ्यं परित्यज्य यत्याश्रमस्वीकारे गृहस्थाश्रमकृततत्तत्सत्कर्मजनितापूर्वं
SKतदात्मनि वर्तते न वा? आद्ये आशुतरविनाशिनो यागादेः कालान्तरभाविस्वर्गजनकत्वान्यथानुपपत्त्या कल्पितापूर्वस्य कर्माधीनलोकप्राप्तिहेतुत्वेन संन्यस्तानामपि तदङ्गीकारे सायुज्यमुक्त्यर्थं संन्यास इति सिद्धान्तवाक्यानुपपत्तिः | न च निष्कामनाकृतकर्मानुष्ठानस्य मुक्तिप्रयोजकत्वेन स्वर्गकामो यजेतेत्यत्र स्वर्गपदस्य - यन्न दुःखेन संभिन्नं च न ग्रस्तमनन्तरम् | अभिलाषोपनीतं यत् तत्सुखं स्वःपदास्पदम् || इत्यादिवाक्यबोधितस्वःपदवाच्यसुखस्वरूपमोक्षवाचकत्वेन यत्यात्मनि गार्हस्थ्यकृतकर्मजनितापूर्वसत्त्वेऽपि न मुक्तिहानिरिति वाच्यम् तर्हि निष्कामनाकृतकर्मानुष्ठानेनैव मोक्षसिद्धौ यावज्जिवकर्तव्यतत्तत्-कर्मत्यागपूर्वकमाश्रमस्वीकारे प्रयोजनाभावात् | न च - नान्यत्र कर्मसन्त्यागान्मोक्षं विन्दन्ति मानवाः न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः (तै० आ० १०|१०|३) इत्यादिना कर्मसंत्यागेनैव मोक्षप्रदर्शनेन यत्याश्रमस्वीकार आवश्यक एवेति वाच्यम् तादृशवाक्यानाम् - तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय (श्वे० उ० ३|८) तरति शोकमात्मवित् (छा० उ० ७|१|३) ज्ञानादेव तु कैवल्यम् इत्याद्यनुरोधेन ज्ञानस्य साक्षाद्धेतुत्वबोधनात् तद्द्वारा कर्मणां मुक्तिहेतुत्वं न साक्षादित्यत्र तात्पर्यम् न तु ज्ञानद्वारा तद्धेतुत्वं नास्तीत्यत्रेति | अन्यथा - नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् | ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् || इति | अभ्यासात् तस्य विज्ञानं कैवल्यं लभते नरः | धर्मात् सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते || कर्मणैव हि संसिद्धिमास्थिता जनकादयः (भ० गी० ३|२०) न्यायार्जितधनो विद्वांस्तत्त्वनिष्ठोऽतिथिप्रियः | श्राद्धकृत् सत्यवादी च गृहस्थोऽपि विमुच्यते || काश्यां तु मरणान्मुक्तिः इत्यादिवाक्यविरोधापत्तेः तादृशवाक्यानां ज्ञानद्वारा कर्मणां मुक्तिजनकत्वबोधकत्वात् |
SKद्वितीये तत्तत्कर्मजनितापूर्वस्य फलोदयपर्यन्तावस्थायित्वप्रतिपादक-सिद्धान्तव्याघातापत्तिः | किञ्च वशिष्ठविश्वामित्रादीनां नित्यनैमित्ति- muktyarthaṃ saṃnyāsāśrayaṇāyogāccetyādi yauktikabādhasattve'pi - tattvasya śravaṇaṃ kuryāt vedāntavijñānasuniścitārthāḥ saṃnyāsayogād yatayaḥ śuddhasattvāḥ (tai0 ā0 10|10|3) ityādivākyānurodhena śaṅkarācāryaiḥ kalisandhau śapathaśatasādhitatvena caturthāśramo'ṅgīkriyate | yathā ca brāhmaṇamātrasya pitṛmedhādipaṭhitānekamantrairdahanavidhāne'pi - snātvā gṛhasthaḥ śuddhātmā yateḥ saṃskāramācaret | śiṣyaiśca ciramālokya gandhapuṣpairalaṅkṛtam || nṛtyagītādikaiścāpi kuṅkumādyaiḥ kuśodakaiḥ | poṣitaṃ jayaśabdena dundubhidhvaninā tadā || diśaṃ prācīmudīcīṃ vā gatvā tatra khaned budhaḥ | viśuddhe tu kṣitergarte śarīraṃ nikṣiped yateḥ || ityāṅgirasoktaprakārānurodhena yatīnāṃ maraṇe prāpte spṛṣṭyādirnaiva vidyate | aśaucabuddhyā snātaśced dikṣu yātrāṃ vrajennaraḥ || jñātiputrakalatrāṇāṃ parivrāḍmaraṇam yadi | aśaucaṃ nāsti teṣāṃ vai snānamapyācarenna tu || mṛtau na dahanaṃ kāryaṃ parahaṃsasya sarvadā | kartavyaṃ khananaṃ tasya nāśaucaṃ nodakakriyā || anyeṣāmapi bhikṣūṇāṃ khananaṃ pūrvamācaret || ityādimanusmṛtisūtasaṃhitāvacanānurodhena ca teṣāṃ khananādikamapyaṅgīkriyate tathaiva ca mahāpāśupatānāṃ liṅgāṅgasāmarasyajñānavatāṃ liṅgadhāriṇāmapyavasāne khananasyānekaśrutismṛtipurāṇādivihitatvena pitṛtvādiprāptidvārā bhāvyupayogidahanasya pretakṛtyasya prāguktarītyā teṣāmanapekṣitatvena ca bhūtopayogikhananakriyaiva kartavyeti yuktamutpaśyāmaḥ || iyāṃstu viśeṣaḥ - mārgaśaivānāṃ (pūrvaśaivānāṃ) yāvajjīvaparyanta- प्राजापत्येष्ट्याग्नीनामात्मारोपणं विधाय खननं क्रियते अनाहिताग्निश्चेच्छैवतन्त्रोक्तरीत्या तत् क्रियते | अलिङ्गिब्राह्मणानां तु केषाञ्चिद् यावज्जीवकर्तव्याकरणप्रत्यवाय- ara-svīkāra iti |
SKअत एव महापाशुपतानामाचार्यकृपाकटाक्षलब्धवेधादिदीक्षा- nāṃ liṅgāṅgasthalatattvaikyānusandhānavatāṃ kālaparipākād dehāvasānena sāpiṇḍyādikamakartavyameva pretakṛtyatvāt | idaṃ hi sāpiṇḍyakaraṇe prayojanam - pitrādīnāṃ dehatyāge pretatvanivṛttiṃ vinā teṣāṃ pitṛlokaprāptyabhāvena taddvārā muktyabhāvena ca tannivṛttyartham - caturthasya nivṛttyarthaṃ pretatvasya nivṛttitaḥ | piṇḍasaṃyojanādūrdhvaṃ caturtho vinivartate || iti vacanānurodhena dvādaśe'hani dīrghapretapiṇḍaṃ tredhā vibhajya kḷptadevatātvavati pitāmahādipiṇḍatrayeṇa saṃyojane pretodakasya tadudakena saha saṃyojanena ca pretatvanivṛttirbhavati | tasya ca vṛddhaprapitāmahasthāne praveśāt tannivṛttirapīti | evaṃ sati pūrvatantre - tasmā etāṃ prājāpatyāṃ śatakṛṣṇalāṃ nirvapet prājāpatyāṃ prajāpatidevatākāṃ śatakṛṣṇalāṃ śivaliṅgāṅgasaṅgiṣu dahanakṛtyaṃ nirasya śivasāyujyaṃ prāptavatāṃ teṣāṃ pretatvābhāvābhiprāyeṇa pretatvanivṛttibhūtasāpiṇḍyādikamapi na kartavyamityupapādayatyagrimagranthena | atraiva pūrvatantasya daśamādhyāyasthaṃ kṛṣṇaleṣvavaghātabādhādhikaraṇamupaṣṭambhakatayopanyasyati - evaṃ satīti | vikṛtiprakaraṇe evaṃ śrūyate - tasmā etāṃ prājāpatyāṃ śatakṛṣṇalāṃ nirvapet iti | atra suvarṇaśakalāṃ mahometāṃ caruṃ nirvapatītyatra darśapūrṇamāsaprakṛtikeṣṭiviśeṣe puroḍāśaviśeṣopayogi- दर्शपूर्णमासिकेषु व्रीहिषु व्रीहीनवहन्ति (आप० श्रौ० १|१९|११) इत्यनेनावहननस्य प्राप्तत्वेन - प्रकृतिवद् विकृतिः कर्तव्याः इति चोदकवशात् सुवर्णशकलेष्ववहननं कर्तव्यमेवेति पूर्वपक्षे अवहननस्य तुषनिवृत्तिद्वारा तण्डुलनिष्पत्त्युपयोगित्वेन व्रीहिषु तुषनिवृत्त्यर्थमवहननप्रसक्तावपि सुवर्णशकलेषु द्वारभावेन नावहननप्रसक्तिरिति सिद्धान्तितत्वेन प्रकृते परशिवैक्यप्राप्तिमतां महापाशुपतानां लिङ्गधारिब्राह्मणानाम्-
SKकाश्यां मृतानां सर्वेषां यतीनां लिङ्गधारिणाम् | देवत्वमेव भवति पितृत्वं नैव विद्यते || इति स्कान्दपुराणोक्त्या प्राकृतजनवत् प्रेतत्वाभावेन सुवर्णमयस्तण्डुलः कृष्णपदेनोच्यते | सुवर्णमयश्चरुरस्यामिष्टौ विधीयते | अस्या इष्टेर्दर्शपूर्णमासविकृतितया प्रकृतिवद् विकृतिः कर्तव्येति चोदकवाक्येन दर्शपूर्णमासेतिकर्तव्यताया अतिदेशाद् व्रीहीनवहन्तीति वाक्यविहितस्यावघातस्य कृष्णलेऽपि प्रसक्ताववघातस्य तुषविमोकफलकतया सुवर्णशलाकात्मककृष्णलेषु तुषाभावेन प्रयोजनाभावादवघातो बाध्यते तद्वदिहापि शिवसायुज्यवतां लिङ्गाङ्गसङ्गिनां प्रेतत्वाभावेन प्रयोजनाभावात् सापिण्ड्यादिकं नास्तीति भावः | अत एव स्कन्दपुराणे - काश्यां मृतानां प्रसक्तं हि प्रतिषिध्यते इति न्यायेन प्रत्यवायाभवे तन्निवर्तकप्रायश्चित्तकरणे प्रयोजनाभावात् तत्प्रेतत्वनिवर्तक- nanu liṅgāṅgibrāhmaṇānāṃ dehāvasāne pretatvābhāve'pyavidyā- मृतपुरुषस्येश्वरसदा- sahaikyāsambhavena-vargatrayapraveśābhāvāt tatputrasya vṛddhaprapitāmahanivṛttyabhāvena vargatrayoddeśyakamāsikādiśrāddhakaraṇapravṛttirna syāditi cet? ākarṇyatāṃ sāvadhānena - caturthasya nivṛttyarthaṃ jīvabhāvanivṛttitaḥ | sarveṣāṃ yatīnāṃ liṅgadhāriṇām | devatvameva bhavati pitṛtvaṃ naiva vidyate || iti paṭhyate |
SKवृद्धप्रपितामहनिवृत्त्यभावेनेति | अयमत्राशयः प्रतिभाति - मृतपुरुषस्य प्रेतत्वजीवभावोभयनिवृत्तावपीश्वरसदाशिवपरमशिवस्वरूपतत्पितृपित् आमहप्रपितामहैः सहैक्यप्राप्तौ क्रियाकर्तुः पुत्रस्य पितरमादाय पितृत्रयत्वोपपत्तौ वृद्धप्रपितामहस्तस्माद् वर्गात् पृथग् भवति | ततः प्रभृति च स जीवन् पुरुषः स्वपितृपितामहप्रपितामहानामेव श्राद्धं करोति वृद्धप्रपितामहं तद्दले न प्रवेशयति | तस्य मृतस्य जीवभावानिवृत्तौ त्वीश्वरसदाशिवपरमशिवात्मकपुरुषत्रयैक्यासम्भवेन वृद्धप्रपितामहस्य तस्मात् पृथग्भावाभावेन जीवत्पुरुषस्य स्वपितृपितामहप्रपितामहोद्देशेन श्राद्धप्रवृत्तिर्न स्यात् तादृशवर्गस्यैवासिद्धेरिति समाधत्ते - चतुर्थस्य निवृत्त्यर्थं जीवभावनिवृत्तितः | तत्त्वादियोजनादूर्ध्वं तत्त्वादियोजनादूर्ध्वं चतुर्थोऽपि निवर्तते || इति मकुटागमोक्तप्रकारेणोभयनिवृत्तिः | तथाहि - तत्त्वादियोजनादूर्ध्व-मित्यत्र तत्त्वशब्देन षट्त्रिंशत्तत्त्वानाम् आदिशब्देन अष्टात्रिंशत्कलानां च ग्रहणं भवति | तथा च मृत्पुरुषस्यैकादशेऽहन्येकोद्देशेन षोडशादिकं निर्वर्त्य द्वादशेऽहनि संप्राप्ते मृतपुरुषमेकस्मिन्नावाह्य तत्पितृपितामहप्रपितामहानीश्वरसदाशिवपरशिव- iṣṭhita-ṣaṭtriṃśattattvānyaṣṭātriṃśatkalāśca tatsamasaṃkhyākamāheśvareṣva-bhāvapakṣe keṣucidvā oṃ hāṃ pārthivatattvamāvāhayāmi oṃ hāṃ jalatattvamāvāhayāmi oṃ hāṃ tejastattvamāvāhayāmi oṃ hāṃ vāyutattvamāvāhayāmītyādinā pṛthivītattvamārabhya śivatattvaparyantam īśānaḥ sarvavidyānāṃ śaśinīmāvāhayāmi īśvaraḥ sarva-
SKचतुर्थोऽपि निवर्तते || इति | अयमर्थः - षट्त्रिंशत्तत्त्वानामष्टात्रिंशत्कलानां वक्ष्यमाणप्रकारेण योजनोत्तरं जीवभावनिवृत्तौ सत्यां चतुर्थो वृद्धप्रपितामहोऽपि निवर्तते तस्माद्वर्गात् पृथग्भवति | एतत्प्रकरणार्थस्य वास्तविकं तत्त्वं मकुटागमदर्शनेनैव निर्द्धारयितुं शक्यत इत्युपरम्यतेऽधिकलेखात् | त्रित्वसंख्यातमाहेश्वरेषु ईश्वरसदाशिवपरमशिवतादात्म्येन कल्पितेषु त्रिषु वीरशैवब्राह्मणेष्वित्यर्थः | केषुचिद् वेति श्राद्धकाले वीरशैवानामलाभपक्षे भूतानामङ्गदामावाहयामि ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा- jvalinīmāvāhayāmītyādinā śaśinīkalāmārabhya sthityākhyakalāparyantaṃ sākṣatabilvadalairāvāhayet | tataśca tattvakalāsvarūpamāheśvarāṇāṃ brahmaṇānāṃ viṣṭarapradānādipūrvakaṃ pādārcanādikaṃ kṛtvā me pituḥ sarvajīvabhāvanivṛttidvārā śivamaheśvarasadāśivasvarūpapitṛpitāmaha- करिष्य इति संकल्पं कुर्यात् | अथ च ॐ हां पार्थिवतत्त्वं संयोजयामि ॐ हां जलतत्त्वं संयोजयामि ॐ हां तेजस्तत्त्वं संयोजयामि ॐ हां वायुतत्त्वं संयोजयामि ॐ हां आकाशतत्त्वं संयोजयामीत्यादिना शिवतत्त्वपर्यन्तं षट्त्रिंशत्तत्त्वानाम् ईशानः सर्वविद्यानां शशिनीकलां संयोजयामि ईश्वरः सर्वभूतानाम् अङ्गदां संयोजयामि सामान्यशैवेष्वित्यर्थः | जीवभावनिवृत्तिद्वारेति | अत्र माहेश्वरब्राह्मणेषु प्रदर्शितमन्त्रे पृथिव्यादितत्त्वानां शशिन्यादिकलानां चावाहनं कृत्वा तत्संनिधिस्थापितावाहितमृतपुरुषके शैवपुरुषे तत्त्वानामुक्तकलानां च पुनः प्रदर्शितैः संयोजयामीत्यन्तमन्त्रैः संयोजने कृते जीवभावनिवृत्तिपूर्वकपितृत्वप्राप्तिः
SKब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्माधिष्ठां संयोजयामि शिवो मे अस्तु मरीचिं संयोजयामि सदाशिव्ॐ ज्वलिनीं संयोजयामीत्यादिना पञ्चब्रह्ममन्त्रैः शशिनीकलामारभ्य स्थितिकलापर्यन्तमष्टा- jīvabhāvanivṛttidvārā śivamaheśvarasadāśivasvarūpatatpitṛpitāmahaprapitāmahaikye yajamānasya vṛddhaprapitāmahanivṛttyā vargatrayoddeśyakamāsikādiśrāddhakaraṇa-pravṛttisiddhirbhavatīti | atha mārgaśaivānāṃ gurukṛpālabdhadīkṣāsamaye kriyādīkṣāntargata- शिष्यजननीगर्भजातमांसपिण्डनिवृत्त्यर्थ- prāptiḥ vṛddhaprapitāmahasya tadvargāt pṛthagbhāvaśca bhavatīti śaivāgamaprakriyā | yāvadetattattvāvagamastu kāmikāgamavātulāgamamakuṭāgamānāṃ samyagavalokanenaiva bhaviṣyatīti tata eva karaṇīyaḥ | atha mārgaśaivānāmiti | teṣāṃ gurukṛpālabdhadīkṣāvattvena svata eva śivaikyaprāptatayā kriyādīkṣāntargatasvastikārohaṇākhyadīkṣayā jananīgarbhadoṣanivṛttyarthaṃ mantrapiṇḍotpattyarthaṃ punarutpattikrameṇa ṣaḍadhvanyāsakaraṇāt tatkṛtatattvakalāsaṃyojanādinā śivaikyakaraṇanimittābhāva iti cenmaivam prāgdīkṣitasyāpi bhaktasya bhāvanāmātrapiṇḍasaṃbandhe'pi tasya tāvadeva ciraṃ yāvanna vimokṣye atha saṃpatsye (chā0 u0 6|14|2) ityādiśrutibodhita-jīvanmuktidaśāpannasyeva padmapatrāmbhaḥsambandhavadāvidyakapāñca- तद्धारणप्रयोजकक्षुत्पिपासादिप्रसक्त्या रागद्वेषादिसम्भवेन च नित्यनैमित्तिकादिसकलकर्मानुष्ठानप्रयोजक- kriyādīkṣāpariprāptasyāpi pārthivarūpābhibhūtasuvarṇarūpasyeva prākṛtikajīva- saṃhāropapattikarmabhyāṃ ṣaḍadhvanyāsatattvakalādiyojanānāṃ nimittābhāvād nāstyapekṣeti na mantavyam tasya jīvanmuktadaśāpannatve'pi padmapatrāmbhaḥsambandhavad yathākathañcid dehasambandhasyāvaśyaṃ sadbhāvena tatprayuktakṣutpipāsādeśca bhāvābhibhūtatvenāvyaktatayā dehāvasānānantaraṃ śivamaheśvarasadā- परमकैवल्यापरनामकपरमशिवैक्याभिव्यक्तिसिद्धेरिति |
SKन च मांसपिण्डस्य दीक्षाकाल एव निवृत्तिरिति वाच्यम् मन्त्रपिण्डोत्पत्तेरिव तन्निवृत्तेरपि भावनामात्रगम्यत्वात् | परन्तु वशिष्ठविश्वामित्रदुर्वासादि-जीवन्मुक्तानामिव मार्गशैवानां पाञ्चभौतिकदेहसम्बन्धः पद्मपत्राम्भःसदृश एव न तु प्राकृतजनशरीरसम्बन्धसदृश इति सुधीभिर्विमर्शनीयम् | मुदुक्तार्थोपपादकानि तु वचनानि मकुटचन्द्रज्ञानवीरागमाद्यन्तर्गतपैतृकप्रकरणपठितान्यनु -सन्धेयानि | कानिचिदुदाह्रियन्ते | मकुटागमे - गुरुदीक्षापरिप्राप्तशिवलिङ्गाङ्गयोगतः | द्विरेफकीटन्यायेन शिवैक्यं प्राप्तवान् द्विजः || लिङ्गाङ्गसङ्गिनि मृते सम्प्राप्ते द्वादशेऽहनि | सत्त्वेन शिवमहेश्वरसदाशिवपरशिवनिष्ठतत्त्वकलादियोजनाया जीवभावनिवृत्त्यर्थं शिवैक्यप्राप्त्यर्थं चावश्यकत्वादिति विमर्शनीयेत्यन्तग्रन्थाशयः | एतदन्तर्गतायां वशिष्ठविश्वामित्रेत्यादिपङ्क्तौ वशिष्ठादीनां नित्यसिद्धत्वेन कस्यापि कर्मणोऽपेक्षा नास्तीति सूच्यते | स्वकृतसिद्धान्ते आगमवाक्यानि प्रमाणत्वेनोपन्यस्यति - गुरुदीक्षापरिप्राप्तशिवलिङ्गाङ्गयोगत इत्यादिना | शिवैक्यं जीवभावत इति | ल्यब्लोपे सापिण्ड्यं नैव कर्तव्यं प्रेतत्वाभावतो मुनेः || दीक्षाकालपरिप्राप्तशिवैक्यं जीवभावतः | आविर्भूतमिति प्राहुः शैवागमविशारदाः || सदाशिवाद्यभिन्नेभ्यः पितृभ्यस्तत्त्वसंमिताः | कलाः संगृह्य चान्यत्र समभ्यर्च्य यथाविधि || जीवभावनिवृत्त्यर्थं मृतलिङ्गाङ्गसङ्गिनः | वर्गत्रयैक्यसिद्ध्यर्थं तत्त्वादीन् योजयेत् सुतः || इति | चन्द्रज्ञाने - द्वादशेऽहनि सम्प्राप्ते मृतलिङ्गाङ्गसङ्गिनः | जीवभावनिवृत्त्यर्थं कुर्यात् तत्त्वादियोजनम् || लिङ्गाङ्गसङ्गिनि मृते सापिण्डादि न कारयेत् | तत्त्वसंयोजनादेव जीवभावो निवर्तते || इति | वीरागमे - आत्मविद्याशिवाख्यानि तत्त्वानि च यथाक्रमम् | त्वंपदं चात्मतत्त्वं स्याद् विद्यातत्त्वमसीति च || तत्पदं शिवतत्त्वं स्यादात्मतत्त्वात्मकं पुनः | पञ्चविंशतिसंख्याकं दशतत्त्वात्मकं तथा ||
SKविद्यातत्त्वं शिवाख्यं स्यात् तत्त्वमेकमिति स्मृतम् | तत्त्वानामधिपो ज्ञेयो महेशश्च सदाशिवः || शिवः परात्परश्चैव शिवे परमकारणे | जीवभावं निवर्त्य दीक्षाकाललब्धं शिवैक्यं प्रादुर्भूतं भवतीत्यर्थः | तत्त्वसंमिता इति | चतुर्विंशतिसंख्याका इत्यर्थः | आत्मविद्याशिवाख्यानि तत्त्वानि च यथाक्रममिति तत्त्वानां त्रेधा विभागः क्रियते - आत्मतत्त्वम् विद्यातत्त्वम् शिवतत्त्वमिति | अत्र तत्त्वमसीति वाक्योत्पन्नविद्या विद्यातत्त्वमित्युच्यते | त्वंपदार्थ आत्मतत्त्वमित्युच्यते | तत्पदार्थः शिवतत्त्वमित्युच्यते | अत्रात्मतत्त्वं पञ्चविंशतिसंख्याकम् विद्यातत्त्वं दशसंख्याकम् शिवतत्त्वमेकसंख्याकम् | इमान्येव पूर्वोक्तानि दीक्षात्रयप्रकारेण गुरुणा दीक्षितो यथा || तथैक्यस्य च भक्तस्य सापिण्ड्ये किं प्रयोजनम् | तस्मात् तत्त्वेश्वराः सम्यगर्चनीया यथाक्रमम् || द्वादशेऽहनि सम्प्राप्ते कल्याणे शिवयोगिनः || इति | अत्र तत्त्वेश्वरा इत्यत्र तत्त्वपदं कलानामप्युपलक्षणं | एवं पिण्डतत्त्वकलारूपाणां तदधिष्ठानेश्वरादिरूपपितृणां चार्चनेन तत्त्वादिसंयोजनं कार्यमिति तात्पर्यमुन्नेयम् | पद्मपुराणे - दहराकाशलिङ्गस्य सतो योगादिलिङ्गतः | लिङ्गभावात्मकतया प्रेतकार्यादिकं नहि || इति | मतान्तराणामपि सापिण्ड्यादिकमनित्यमेव पित्रादेराश्रमस्वीकारानन्तर-भाविमरणप्रसक्तौ तेषां च प्रागुदाहृतशौनकमन्वादिस्मृतिभिः पिण्डोदकादिनिषेधेन सापिण्ड्यकरणायोगात् | पितुर्गृहस्थत्वेऽपि पितामहादीनां संन्यस्तत्वे ब्रह्मीभूततया तदुद्देश्यकपिण्डाभावेन तत्र प्रेतपिण्डसंयोजनासम्भवेन च तत्रापि तदभावात् | परन्तु पितृपितामहादीनां सर्वेषां
SKषट्त्रिंशत्तत्त्वान्युच्यन्ते | एषामवान्तरनामानि ग्रन्थान्तरतोऽवसेयानि | तथैक्यस्य च भक्तस्येति | ऐक्यस्य शिवैक्यस्य भक्तस्य श्रद्धयाऽत्मनि तदैक्यं भावयमानस्य | तस्मात् तत्त्वेश्वराः सम्यगर्चनीया इति | तत्त्वेश्वरा इत्यस्य तत्त्वेश्वरसदाशिवतादात्म्येन भाविता वीरशैवब्राह्मणा इत्यर्थः | कल्याणे शिवयोगिन इति | शिवयोगिनः कल्याणे मोक्षप्राप्त्युत्सवकाल इत्यर्थः | यद्वा निमित्तसप्तम्येषा | कल्याणेऽर्थात् कल्याणार्थम् | दहराकाशलि᳚गस्येति हृत्पुण्डरीकान्तर्गतब्रह्मलिङ्गस्य सतः कालत्रयाबाध्यस्य योगादिलिङ्गतः गृहस्थानामेव यत्र मरणप्रसक्तिस्तत्रैव सापिण्ड्यकरणमित्यनित्यत्वं दुर्वारमेव | यद्यपि - न च श्राद्धादिकं कर्म न पिण्डं नोदकक्रिया | न कुर्यात् पार्वणादीनि शिवलिङ्गाङ्गसङ्गिने || प्रत्यब्दं तु तमुद्दिश्य शिवभक्तांश्च भोजयेत् | भक्तेभ्यो दत्तमन्नं यत् तदेव च शिवाय हि || इति श्राद्धमात्रनिषेधवचनम् तत्तु - अत्याश्रमी प्राणलिङ्गसम्बन्धिभस्मघटिकां | कन्थां कमण्डलुं भिक्षापात्रं दण्डं च धारयेत् || इति वचनावगतनित्यनैमित्तिकादि कर्मपरिहारपूर्वकत्यक्तदारपुत्रादि- samādhiprakāraiḥ | liṅgabhāvātmakatayā śivaliṅgarūpatvaṃ prāptatayā | anityatvaṃ durvāramiti | saṃnyāsāśramaṃ gṛhītavatāṃ pitrādīnāṃ sarvamata eva sāpiṇḍyasyākaraṇādevaṃ manyate | nirābhāravīraśaivaparamiti | anyathā tattvakalāyojanākartavyatāparamakuṭāgamavīrāgamasthodāhṛtavākyavirodhāpat teḥ | tasmānnirgata ābhāraḥ sāṃsārikacintārūpo gṛhasthānāṃ śivajñānaikaniṣṭhānāṃ liṅgāṅgināṃ viśeṣavīraśaivānāṃ tu pretakṛtyapiṇḍādyayoge'pi - liṅgāṅgasaṅgini mṛte nikṣipeduttarakriyām | kurvīran śaivatantroktāṃ śiṣyaputrādayo gṛhe || iti śaṅkarasaṃhitāvacanānurodhena svagṛhyoktaprakāreṇa sarvamapyavasānakṛtyaṃ kartavyameveti sarvaṃ samañcasamiti ||
SKयस्मात् तादृशो यो वीरशैवः तत्परमेव श्राद्धमात्रनिषेधवचनं मन्तव्यम् तेषां निरतिशयकल्याणरूपशिवनिष्ठतया बाह्यक्रियानपेक्षणात् | इति शिवम् || शिवेति मङ्गलं नाम यस्य वाचि प्रवर्तते | मङ्गलानि समग्राणि करस्थान्येव तस्य तु || शिवस्वरूपं देवं तं देवीं तां सर्वमङ्गलाम् | ध्यात्वा कथञ्चिन्मनसि प्रणमामि पुनः पुनः || प्राप्ते व्योमरसाङ्कचन्द्रगणिते (१९६०) श्रीवैक्रमे वत्सरे ग्रीष्मर्तौ शुचिशुक्लगाष्टमतिथौ वाणिशितुर्वासरे | काशीजङ्गमवाटिकोन्नतमठे सिंहासनाधिष्ठितः श्रीराजेश्वरविद् व्यधापयदिमां व्याख्यां शरन्नामिकाम् || इति श्रीमद्वेदवेदान्तस्मृतिपुराणागमेतिहाससकलशास्त्रप्रसिद्ध- na-śrīmannandīśvarakṛtaliṅgadhāraṇacandrikāyāṃ dvitīyo bhāgaḥ | basaveśvarapautreṇa maheśācāryasūnunā | nandīśvareṇa racitā liṅgadhāraṇacandrikā || liṅgadhāraṇacandrikā saṃpūrṇā || śaktyā viśiṣṭasya maheśvarasyādvaitaṃ prapañce sakale'sti yattat | acīcakāsaṃstu purā janebhyaḥ kāśmīraśaivāgamatattvavijñāḥ || tadīyasiddhāntanigūḍhatattvaṃ lokopakārāya nivedayiṣyan | prācīnagīrbhiḥ kila nandikeśaḥ cakāra liṅgāśrayacandrikāṃ tām || lagnā divyapadāmbuje bhagavataḥ kāruṇyavārāṃnidheḥ śrīśambhoḥ kamalāsanaprabhṛtibhiḥ saṃpūjyamāne'niśam | vākyaiḥ prītisamudbhavaṃ vitanute lokasya gaurīśvare śaiveṣṭeṣvapi śaṅkitaṃ vidhuvatītyāstetarāmādṛtā || asyā viśveśapādābjaparatvaṃ vīkṣya harṣataḥ | vyākhyāṃ śivakumāro'hamakārṣaṃ tacchubhāstviyam || śubhaḥ śambhuḥ śubhā gaurī śubhaḥ śeṣaḥ śubhaḥ śaśī | śubho gaṇapatistasmād grantho'yaṃ sarvataḥ śubhaḥ || śrīkṣetrakāśīsthamahāmahopādhyāyapaṇḍitaśivakumāramiśraviracitā śarannāmno vyākhyā samāptā || saṃketa-sūcī
SKअ० को० अमरकोशः अभि० अभियुक्तवचनम् अ० शिखो अथर्वशिखोपनिषत् अ० शिर० अथर्वशिर उपनिषत् अ० सू० अनुभवसूत्रम् अ० स्त० अपराधस्तवः आ० पु० आदित्यपुराणम् आ० श्रौ० आपस्तम्बश्रौतसूत्रम् आ० स्मृ० आङ्गिरसस्मृतिः ई० उ० ईशावास्योपनिषत् ऋ० ऋग्वेदः ऋ० खि० ऋग्वेदखिलपाठः ऐ० आ० ऐतरेयारण्यकम् क० सू० कल्पसूत्रम् कठो० कठोपनिषत् का० उ० काठकोपनिषत् कू० पु० कूर्मपुराणम् कै० उ० कैवल्योपनिषत् कौ० श्रु० कौषीतकिश्रुतिः क्रि० पा० क्रियापादः गौ० स्मृ० गौतमस्मृतिः च० ज्ञा० चन्द्रज्ञागमः छा० उ० छान्दोग्योपनिषत् त० वा० तन्त्रवार्त्तिकम् तै० आ० तैत्तिरीयारण्यकम् तै० उ० तैत्तिरीयोपनिषत् तै० सं० तैत्तिरीयसंहिता द० दर्पणः (शिवाद्वैतदर्पणः) धा० धातुपाठः ना० पु० नारदीयपुराणम् नारा० अ० नारायणाथर्वशिखोपनिषत् नृ० उ० नृसिंहतापनीयोपनिषत् प० पु० पद्मपुराणम् प० स्मृ० पराशरस्मृतिः ब० उ० बह्वृचोपनिषत् बृ० उ० बृहदारण्यकोपनिषत् बृ० जा० बृहजाबालोपनिषत् बो० स्मृ० बोधायनस्मृतिः ब्र० पु० ब्रह्माण्डपुराणम् ब्र०पु०चि० ब्रह्माण्डपुराणच्दम्बरसंहिता ब्र०वै०पु० ब्रह्मवैवर्तपुराणम् ब्र०सू० ब्रह्मसूत्रम् भ० गी० भगवद्गीता म० आ० मकुटागमः म० भा० महाभारतम् म०स्तु० महिम्नस्तुतिः म० स्मृ० मनुस्मृतिः मि० का० मिश्रकारिका मी० सू० मीमांसासूत्रम् मु० उ० मुण्डकोपनिषत् मै० उ० मैत्रायण्युपनिषत् मै० सं० मैत्रायणीसंहिता लि० पु० लिङ्गपुराणम् वा० आ० वातुलागमः वा० त० वातुलतन्त्रम् वा० पु० वायुपुराणम् वाम० पु० वामनपुराणम् वा० रा० वाल्मीकिरामायणम् वा० सं० वायवीयसंहिता वि० पु० विष्णुपुराणम् वी० आ० वीरागमः व्या० नि० व्यासनिरुक्तिः श० ब्रा० शतपथब्राह्मणम् श० सं० शङ्करसंहिता (स्कन्द पुराणीया) शा० भा० शाबरभाष्यम् शा० स्मृ० शातातपस्मृतिः शि० ध० शिवधर्मोत्तरम् शि० ध० शा० शिवधर्मशास्त्रम् शि० पु० शिवपुराणम् शि० र० शिवरहस्यम् शौ० स्मृ० शौनकस्मृतिः श्रु० श्रुतिः श्वे० उ० श्वेताश्वतरोपनिषत् ष० स्मृ० षडशीतिस्मृतिः स० उ०
SKसदानन्दोपनिषत् सि० शि० सिद्धन्तशिखामणिः सि० शे० सिद्धान्तशेखरः सि० सा० सिद्धान्तसारावली सु० उ० सुबालोपनिषत् सू० सं० सूतसंहिता स्क० पु० स्कन्दपुराणम् ह० वं० हरिवंशः हं० उ० हंसोपनिषत्