Exposition of the Ten Causes

Daśavidhāhetunirūpaṇa (part of the Vaikhānasasūtratātparyacintāmaṇi) · Dअशविधाहेतुनिरूपण (पर्त् ओf थे Vऐखानससूत्रतात्पर्यचिन्तामणि)

Exposition of the Ten Causes

Daśavidhāhetunirūpaṇa (part of the Vaikhānasasūtratātparyacintāmaṇi)

Dअशविधाहेतुनिरूपण (पर्त् ओf थे Vऐखानससूत्रतात्पर्यचिन्तामणि)

SK
Aब्क्üर्zउन्ग्स्वेर्zएइछ्निस्
SK
Aग्निP: Aग्निपुराणम्. Āपस्तम्बDह्S: Āपस्तम्बीयधर्मसूत्रम्. Āपस्तम्बGऋS: Āपस्तम्बगृह्यसूत्रम्. ĀS: Āनन्दसंहिता. Aष्टध्यायी: Pआनिनिऽस् Aछ्त् Büछेर् ग्रम्मतिस्छेर् Rएगेल्न्. Āश्वलायनGऋS: Āश्वलायनगृह्यसूत्र. AV: Aथर्वसंहिता. BहागवतP: Śरीमद् Bहागवत Mअहापुराणम्. Bऔध्Dह्S: Dअस् Bऔधायन-Dहर्मसूत्र. Bऔध्GऋS: Tहे Bओधायन Gऋह्यसूत्र. Bऔध्GऋŚएष्S: प्प्. १७७-३७६ इन् Bऔध्GऋS. Bह्Gई: Bहगवद्गीता. स्. MBह् (६.२३.१-४०.७८). Bरह्मकैवर्तP: Śरीब्रह्मवैवर्तपुराणम्. Bरह्माण्डP: Bरह्माण्डपुराण ओf Kऋष्ण Dवैपायन Vयास. Bरह्मP: Sअन्स्क्रित् इन्दिचेस् अन्द् तेxत् ओf थे Bरह्मपुराण. Bऋहद्ब्रह्मS: Bऋहद्ब्रह्मसंहिता. Cहान्दोग्यBर्: Cहान्दोग्यब्राह्मण. Cहान्दोग्यU: Kह्âन्दोजोपनिस्हद्. DHN[D]: Dअशविधहेतुनिरूपण ब्य् Śरीनिवास Dईक्षित. DHN[T]: Dअशविधहेतुनिरूपण ब्य् Śरीनिवास Dईक्षित [Tएलुगु छरच्तेर्स्] DHNV: Dअशविधहेतुनिरूपणव्याख्यान Gअर्भU: Gअर्भोपनिषद्. GअरुडP: Śरीगरुडमहापुराणम्. GऔतमDह्S: Tहे Iन्स्तितुतेस् ओf Gऔतम. GओभिलGऋS: Gओभिलीयगृह्यसूत्र. Gऋह्यपरिशिष्टS: Vऐखानसगृह्यपरिशिष्टसूत्र. HअरिV: Tहे Hअरिवंश (Sउप्प्ल्. तो MBह्). Hइर्GऋS: Hइरण्यकेशिगृह्यसूत्रम्. Īश्वरS: Īश्वरसंहिता. Jअयाख्यS: Jअयाख्यसंहिता. Kऐवल्यU: Kऐवल्योपनिषद्. Kअपिञ्जलS: Kअपिञ्जलसंहिता. KआठकGऋS: Tहे Kआठकगृह्यसूत्र. Kह्A: Kहिलाधिकार (Kहिलतन्त्र) KहादिरGऋS: Kहादिरगृह्यसूत्रम्. KJK: Jञानकाण्ड (Kआश्यपसंहिता). Kर्A: Kरियाधिकार. Kऊर्मP: Śरी-Kऊर्ममहापुराणम्. Lइङ्गP: Lइङ्गमहापुराणम्. MअहाU: Mअहोपनिषद्. MअनुDह्Ś: Tहे Mअनु Sमृति. MअनुGऋS: Mआनवगृह्यसूत्र ओf थे Mऐत्रायणीय शाखा. Mअर्कण्डेयP: Śरी-Mआर्कण्डेयमहापुराणम्. Mअत्स्यP: Mअत्स्यमहापुराणम्. MBह्: Mअहाभारत. MOP: Mओक्षोपायप्रदीपिका ब्य् Rअघुपतिभट्टाचार्य. Mउद्गलU: Mउद्गलोपनिषद्. Mउण्डकU: Mउण्डकोपनिषद्. NआरदP: Nआरदपुराण. NअरसिंहP: Nऋसिंहपुराण. Nइरुक्त: [Yआस्क] Tहे Nइघन्तु अन्द् थे Nइरुक्त. NVB: Vऐखानसकल्पसूत्रभाष्य (Vऐखानससूत्रभाष्य; Vऐखानसगृह्यसूत्रभाष्य). Pअद्मP: Śरी Pअद्ममहापुराणम्. Pआद्मS: Pआद्म Sअम्हिता. Pआरमेश्वरS: Pआञ्चरात्रान्तर्गता Pआरमेश्वरसंहिता. PअराशरS: Pअराशर Sअंहिता. Pआर्GऋS: Pआरस्करगृह्यसूत्र. Pऔष्करS: Pआञ्चरात्रागमे रत्नत्रयान्तर्गता Pऔष्करसंहिता. Pर्A: Pरकीर्णाधिकार. PR: Śरी Pआञ्चरात्ररक्षा. Pउरातन्त्र: Pउरातन्त्र. Pऊर्वP: Pऊर्वप्रयोग. Rआम्: Tहे Pआद इन्देx ओf थे Vआल्मिकि Rआमायण. ṚV: Tहे Hय्म्न्स् ओf थे Rइग्-Vएद इन् थे Sअम्हित अन्द् Pअद Tएxत्स्. SA: Sअमूर्तार्चनाधिकरण. Sआम्बP: Sआम्बपुराणम्. Sअम्Mअयू: Sअंस्कारमयूख. Sअनत्क्S: Sअनत्कुमार-Sअंहिता ओf थे Pआञ्चरात्रागम. Śआङ्खायनGऋS: Śआङ्खायनगृह्यसूत्र. SAनुक्र्: Sऊत्रानुक्रमणिका. ŚअतपथBर्: Tहे Śअतपथ Bराह्मण इन् थे Kआण्वीय रेचेन्सिओन्. Sआत्त्वतS: Sआत्वत-Sअंहिता. SD: Sऊत्रदर्पण (Śरीवैखानससूत्रदर्पण). SDC: Śरीनिवासदीक्षितेन्द्रचरित्र. ŚएषS: Śएषसंहिता - श्रीपाञ्चरात्राभिधा भगवच्छास्त्रे सकलसंहितासारभूता शेषसंहिता. Sकन्दP: Tहे Sकन्दपुराण. Śरीप्रश्नS: Śरीप्रश्न Sअम्हिता. SR-Vऋत्ति: Pरयोगवृत्ति. Sउप्रभेद्Ā: [Sउप्रभेदागम] Sउप्रपेताकमम्. Śवेत्U: Śवेताश्वतरोपनिषद्. SY-N: Nइबन्धन. TĀ: Tऐत्तिरीयारण्यकम्. TB: Tहे Tऐत्तिरीय Bराह्मण ओf थे Bलच्क् Yअजुर् Vएद. TPC: Tआत्पर्यचिन्तामणि. TS: Tहे Tऐत्तिरीय Sअंहिता ओf थे ब्लच्क् Yअजुर्वेद. VA: Vआसाधिकार (Vआसनाधिकार). Vऐख्Sम्S: Vऐखानसस्मार्तसूत्र. VअराहP: Śरी Vअराहपुराणम्. Vआसिष्ठDह्Ś: Vआसिष्ठधर्मशास्त्र. Vइष्णुDह्: Vइष्णुधर्मः. Vइष्णुधर्मोत्तरP: Śरीविष्णुधर्मोत्तरपुराणम्. Vइष्णुP: Śरीविष्णुमहापुराणम्. Vइष्णुस्मृति: Vइष्णुस्मृतिः. Vइष्वक्सेनS: Vइष्वक्सेन Sअंहिता. Vइश्वमित्रS: Vइश्वामित्रसंहिता. VइवाहP: Vइवाहप्रयोग. VK: Vइमानार्चनकल्प (Vऐखानसागम, Mअरीचिसंहिता). VMM: Vऐखानसमहिममञ्जरी. VMP: Vऐखानसमन्त्रप्रश्न (Vऐखानससंहिता). Vऋद्धहारीत: Vऋद्धहारीतस्मृति. VY-Vऋत्ति: Vऋत्ति देस् Vअसन्तयाजिन्. YA: Yअज्ञाधिकार Yआज्ञवल्क्यDह्Ś: Yआज्नवल्क्य स्मृति.
SK
Dअशविधहेतुनिरूपण
SK
[मङ्गलाचरणम्]
SK
[१.१] श्रीमद्विखनस महागुरवे नमः / [१.२] श्री श्रीनिवास परब्रह्मणे नमः //
SK
[१.३-४] श्री श्रीनिवासमखिकृते श्रीवैखानसगृह्यसूत्रतात्पर्यचिन्तामणौ दशविधहेतुनिरूपणम् [१.५] वैखानसकुलोद्भूतं वेङ्कटेशार्चनारतम्*{३}* / [१.६] वेदान्तदेशिकं वन्दे श्रीनिवासार्यदीक्षितम् //
SK
[१.७] श्रीवेङ्कटेशम् अखिलेशम् अनन्तम् आद्यं कारुण्यवारिधिम् अशेषसुरैस् सुवन्द्यम् / [१.८] वन्दे समस्तजगतां स्थितिसृष्टिहेतुं मान्यान् गुरूंश् च शतशो*{४}* भृगुकश्यपादीन् //
SK
[१.९] श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसङ्कुलम् / [१.१०] विष्णुभक्त्युदकं शुद्धं वन्दे वैखानसार्णवम्* //{५}*
SK
[१.११] येनान्यकॢप्तसूत्राणां*{६}* नेत्रं निस्तिमिरीकृतम् / [१.१२] सूत्रं वैखानसं ह्य् एतत्*{७}* चतुर्वर्गफलप्रदम् //
SK
[१.१३] श्रुतिस्मृतीतिहासाद्यैः प्रतिपादितवैभवाम् / [१.१४] परमात्मपरां वन्दे सूत्रोपनिषदं पराम् //
SK
[व्याख्यानकर्तृगोत्रनामादि]
SK
[१.१५] श्रीमत्कौशिकवंश्येन*{८}* गोविन्दाचार्यसूनुना / [१.१६] श्रीवेङ्कटेशपादाब्जसपर्यासु रतात्मना //
SK
[१.१७] श्रुतिस्मृतिपुराणादिसिद्धमार्गानुवर्तिना / [१.१८] पूर्वाचार्यपरिक्षुण्णसम्प्रदायानुयायिना //
SK
[१.१९] वेदान्ताचार्यवर्येण श्रीनिवासार्ययज्वना / [१.२०] वैखानसस्य सूत्रस्य व्याख्या सम्यक् प्रकाश्यते //
SK
!{३}! DHN[T] १: वेङ्कटेशार्चनावरम्.
SK
[विखानससूत्रस्य तदनुयायिनां च सर्वोत्कृष्टत्वे दशविधहेतूनां निर्देशः]
SK
[२.१-३] अथ सत्यत्वादिसमस्तकल्याणगुणविशिष्टात् परब्रह्मणः श्रीमन्नारायणाद् उत्पन्नेन विखनश्शब्दवाच्येन चतुर्मुखब्रह्मणा प्रणीतस्य वैखानससूत्रस्य सर्वसूत्रोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातॄणां सर्वोत्कृष्टतमत्वे च दशविधहेतवो निरूप्यन्ते. [२.४] यथा: [२.५-९] अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वात्.*{९}* सर्वसूत्राणाम् आदित्वात्.*{१०}* सर्वकर्मसु श्रुतिमार्गानुसारित्वात्.*{११}* समन्त्रकसर्वक्रियाप्रतिपादकत्वात्.*{१२}* निषेकसंस्कारादिमत्वात्.*{१३}* अष्टादशशारीरसंस्कारप्रतिपादकत्वात्.*{१४}* साङ्गक्रियाकलापवत्त्वात्.*{१५}* मन्वाद्यैः स्वीकृतत्वात्.*{१६}* अखिलजगदेककारणभूतश्रीमन्नारायणैकपरत्वात्.*{१७}* एतत्सूत्रोक्तधर्मानुष्ठानवताम् एव भगवत्प्रियतमत्वोपपत्तेश् च.*{१८}* इति. [२.१०-१२] एभिर् हेतुभिर् अस्य सूत्रस्य सर्वसूत्रोत्तमत्वं एतत्सूत्रोक्तधर्मानुष्ठानाद् एव वैखानसानां सर्वेभ्यः श्रेष्ठतमत्वाञ् च श्रुतिस्मृतिपुराणादिमुखेन प्रतिपाद्यते. तत्रादौ अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वाद् इति हेतुर् निरूप्यते. [२.१३] विखनश्शब्दार्थनिर्णयः
SK
[नारायणस्य विखनो वैखानसादिशब्दवाच्यत्वम्]
SK
[२.१४] विखना नाम कश्चिद् ऋषिः, उत नारायणः? नारायण एव केवलं. [२.१५-१६] मुनिमात्रस्य वैखानसशब्दवाच्यत्वेन प्रतिपादनाभावात्. परमात्मनो नारायणस्य विखनो वैखानसादिशब्दवाच्यत्वं श्रुतिस्मृतिपुराणादिष्व् अवगम्यते. यथा: [२.१७] खिलश्रुतौ: ᳚धेनुर् वहाणाम् अदितिस् सुराणां ब्रह्मा ऋभूणां विखना मुनीनाम्᳚.
SK
[२.१८-१९] इति श्रुयते. अयम् अर्थः. वहानां अतडुदादीनां धेनुः उत्पत्तिकारणम्. सुराणां इन्द्रादीनाम् अदितिः. ऋभूणां: [२.२०] ᳚साध्या विश्वे च वसवो मरुतो ऋभवस् तथा / [२.२१] तथैवाङ्गिरसो रुद्रा आदित्याश् च तथैव च / [२.२२] एते देवगणाश् चाष्टौ मन्वन्तरगणेश्वराः //᳚
SK
[२.२३] इति भृगूक्तानां साध्यादीनां ब्रह्मा. मुनीनां मुनिशब्दवाच्यानां विखनाः.
SK
[२.२४] ब्रह्मणो मुनिशब्दवाच्यत्वं भारते चावगम्यते
SK
[२.२५] ᳚निशां सुप्त्वाथ भगवान् क्षपान्ते प्रत्यबुद्ध्यत* /{१९}* [MBह् १३, Aप्प्. ३.२६५]
SK
[३.१] पश्चाद् बुद्ध्वा ससर्जापः तासु वीर्यम् अवासृजत्* //{२०}* [MBह् १३, Aप्प्. ३.२६६]
SK
[३.२] तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् / [MBह् १३, Aप्प्. ३.२६७]
SK
[३.३] अहङ्कृत्या*{२१}* ततस् तस्मिन् ससर्ज प्रभुर् ईश्वरः / [MBह् १३, Aप्प्. ३.२६८]
SK
[३.४] हिरण्यगर्भं विश्वात्मा ब्रह्माणं जलजं*{२२}* मुनिम् //᳚ इति [MBह् १३, Aप्प्. ३.२६९]
SK
[३.५] अण्डबहुत्वाभिप्रायेण मुनीनाम् इति बहुवचनम्. यथा
SK
[३.६] ᳚अण्डानान् तु सहस्राणां सहस्राण्य् अयुतानि च /
SK
[३.७] ईदृशानाम् अनन्तानां कोटिकोटिशतानि चे//᳚ति स्मरणात्.
SK
[३.८] निशा चात्र प्रलयः, सा एतावतीति कुत्रावगम्यत इति चेत्.
SK
[३.९] महाभारते: ᳚चतुर्युगसहस्राणि चतुर्युगशतानि च*{२३}* / [MBह् १३, Aप्प्. ३.२६१]
SK
[३.१०] प्राहुः कल्पसहस्रन् तु*{२४}* ब्राह्मणास् तत्त्वदर्शिनः / [MBह् १३, Aप्प्. ३.२६२]
SK
[३.११] दशकल्पसहस्राणि अप्य् अयस् सा महानिशा*{२५}* //᳚ इति. [MBह् १३, Aप्प्. ३.२६३]
SK
[३.१२-१३] अनया खिलश्रुत्या भगवतो विखनश्शब्दवाच्यत्वं कथम् अवगम्यत इति चेत् उच्यते.
SK
[इतिहासपुराणाभ्याम् एव वेदार्थस्य निर्णेयत्वम्]
SK
[३.१४] ᳚दुर्बोधा वैदिकाश् शब्दा प्रकीर्णत्वाच् च ये खिलाः / [३.१५] तद्ज्ञैस् त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः //᳚*{२६}* इति
SK
[३.१६] ᳚यदि विद्याच् चतुर्वेदान् साङ्गोपनिषदान् द्विजः / [३.१७] न चेत् पुराणसद्विद्या न वेदार्थविचक्षणः //᳚ इति
SK
[३.१८] ᳚इतिहासपुराणाभ्यां वेदं समुपबृह्मयेत्*{२७}* / [३.१९] बिभेत्य् अल्पश्रुवाद्*{२८}* वेदो माम् अयं प्रतरिष्यति //᳚ इति च [MBह् १.१.२०४]
SK
[३.२०-२१] स्मरणात् इतिहासपुराणाभ्याम् एवार्थनिर्णयः कर्तव्यः. भारते मोक्षधर्मे नारदस्तुतौ:
SK
[३.२२-२३] ᳚नमस् ते देवदेवेश᳚*{२९}* इत्य् आरभ्य स्तोत्रमध्ये ᳚फेनपाचार्य वालखिल्य विखनो विखनस वैखानसाचार्य अभग्नयोग अभग्नपरिसङ्ख्यान᳚*{३०}* इति. [३.२४] तत्रैव: ᳚यत् तस्मिन्न् उपलभ्यं ते तत् तेजस् तत् त्रयीमयम् / [३.२५] तद् वैखानः परं ब्रह्म इति वेदविदो विदुः //᳚ इति चोक्तम्. [MBह् ]
SK
!{२८}! Lइएस् मित् MBह्: अल्पश्रुताद्. !{२९}! MBह् १२.३२५.४A: नमस् ते देवदेव. !{३०}! Bएzउग् औf MBह् १२.३२५.४J-K: प्रथमत्रिसौपर्ण [९१] पञ्चाग्ने [९२] त्रिणाचिकेत [९३] षडङ्गविधान [९४] प्राग्ज्योतिष [९५] ज्येष्ठसामग [९६] सामिकव्रतधर [९७] अथर्वशिरः [९८] पञ्चमहाकल्प [९९] फेनपाचार्य [१००] // वालखिल्य्.अ [१०१] वैखानस [१०२] अभग्नयोग [१०३] अभग्नपरिसंख्यान [१०४] युगादे [१०५] युगमध्य [१०६] युगनिधन [१०७] आखण्डल [१०८] प्राचीनगर्भ [१०९] कौशिक [११०]; स्.उ., DHN[D] १०.१-३.
SK
[विखनश्शब्दनिर्वचनम्]
SK
[४.१-२] तथा नामसहस्राध्याये ᳚वैखानस् सामगायनः᳚*{३१}*᳚ इति स्मर्यते.
SK
[जगत्सृष्टिप्रयोजनम्]
SK
[४.३] पञ्चरात्रे आत्मसंहितायाम्: [४.४] ᳚महाभूतेन भूतेन व्याप्तं विखनसा जगत् / [४.५] तम् एव शरणं गच्छ जगत्कारणम् अच्युतम् //᳚ [Āत्मसंहिता]
SK
[४.६] इति शाण्डिल्येन शतानन्दम् अभिलक्ष्योक्तम्.
SK
[४.७] वैखानसे आनन्दसंहितायां:
SK
[४.८] ᳚वेदान्ततत्त्वमीमांसाखननं कृतवात् हरिः* /{३२}*
SK
[४.९] नाम्ना विखनसं प्राहुर् यञ् च वैखानसं तथा* //{३३}*᳚ इति प्रोक्तम्. [ĀS ]
SK
[४.१०-१२] अत्र खननशब्देन सङ्कल्प उच्यते. ᳚सो ऽकामयत. बहु स्यां प्रजायेयेति स तपो ऽतयत᳚*{३४}* इत्यादि श्रुतिभ्यः. अवाप्तसमस्तकामस्यापि भगवतः सृष्टिकार्ये प्रवृत्तिर् भवति.
SK
[समष्टिसृष्टिलक्षणम्]
SK
[४.१३] ननु सत्यवादिसमस्तकल्याणगुणविशिष्टस्य भगवतः. [४.१४] ᳚ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः / [४.१५] ज्ञानवैराग्ययोश् चैव षण्णां भग इतीरणा //᳚
SK
[४.१६] इति समग्रषाड्गुण्यपरिपूर्णस्य अवाप्तसमस्तकामस्य किमर्थं सृष्ट्यदिकम्*{३५}* इति चेत् उच्यते.
SK
[४.१७] ᳚अप्रमेयो ऽनियोज्यश् च यत्र कामगमो वशी / [MBह् २, Aप्प्. २१.१६०५]
SK
[४.१८] मोदते भगवान् भूतैः बालः कीडनकैर् इव* //{३६}*᳚ [MBह् २, Aप्प्. २१.१६०६]
SK
[४.१९] इत्यादि भारतवचनानुसारेण लीलार्थम् एवेति.
SK
[४.२०] जगद्सृष्ट्यादिलीलानुभवार्थं भगवता समष्टिसृष्टेर् अनन्तरं व्यष्टिसृष्टौ
SK
[४.२१-२२] देवमनुष्यादिविविधविशेषसृष्ट्यर्थं चतुर्मुखसृष्टिं प्रति ध्यानं कृतम्. एषा चिदचिदात्मिका सृष्टिः भगवता क्रियते. व्यष्टिसृष्टिस् तु ब्रह्मणा. समष्टिसृष्टिर् नाम: [४.२३] ᳚भूतैस् तु पञ्चभिः प्राणैः स्वान्तैर् दशभिर् इन्द्रियैः / [४.२४] चतुर्विंशाति तत्त्वानि साङ्ख्यशास्त्रविदो विदुः //
SK
!{३१}! Bएzउग् औf MBह् १३.१३५.११९: आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः / देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः.
SK
[५.१] महान् कालः प्रधानञ् च मायाविद्या च पूरुषः / [५.२] इति पौराणिकाः प्राहुः त्रिंशत्तत्वानि तैस् सह //᳚
SK
[व्यष्टिसृष्टिलक्षणम्]
SK
[५.३-९] इति वचनात् तत्त्वसृष्टिर् इत्य् अवगम्यते. ᳚स्वान्तैर्᳚ इत्य् अनेन ᳚मनो बुद्धिर् अहङ्कारश् चित्तञ् च करणान्य् अमी᳚ इत्य् अन्तःकरणचतुष्टयम् उच्यते. व्यष्टिसृष्टिर् नाम: अण्डान्तर्वर्तिभूतजातसृष्टिः. ᳚अजाम् एकां लोहितशुक्लकृष्णाम्᳚ ᳚नित्यो नित्यानाम् चेतनश् चेतनानाम्᳚. इत्यादि श्रुतिभिः नित्यत्वेन श्रुतानां प्रकृतिपुरुषानां सृष्टिर् नाम प्रलयदशायां सूक्ष्मरूपेण अविभक्तनामरूपेण च परमात्मन्य् एकीभूतानां सृष्टिकाले परमात्मनो ऽनुप्रवेशानन्तरं स्थूलरूपवत्वं विभक्तनामरूपभाक्त्वञ् च. ᳚तत् सृष्ट्वा᳚. ᳚तद् एवानुप्राविशत्. तद् अनुप्रविश्य. सच् च त्यच् चाभवत्᳚ इत्यादि श्रुतेः. [५.१०] विष्णुपुराणे: ᳚तद् एतद् अक्षयं नित्यं जगन्मुनिवराखिलम् / [५.११] अविर्भावतिरोभावजन्मनाशविकल्पवत्* //{३७}* [Vइष्णुP ]
SK
[५.१२] प्रकृतिं पुरुषञ् चैव प्रविश्यात्मेच्छया हरिः / [५.१३] क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाप्ययौ //᳚ इति [Vइष्णुP ]
SK
[५.१४] गीतासु: ᳚प्रकृतिं पुरुषम् चैव विद्ध्य् अनादी उभाव् अपि /᳚ [Bह्Gई = MBह् ६.३५.१९अब्]
SK
[५.१५] मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् / [५.१६] सम्भवस् सर्वभूतानां ततो भवति भारत //᳚ [Bह्Gई = MBह् ६.३६.३]
SK
[अण्डोत्पत्त्यादिप्रकारः]
SK
[५.१७-२१] इति चोक्तरीत्या सृष्टिकाले जगद्योनिभूतं ᳚महब्रह्म᳚ तदीयं प्रकृत्याख्यम् आचिद्वस्तु*{३८}* यत्, तस्मिन् चेतनाख्यं गर्भं योजयति. तत्कृताच् चिदचित्संसर्गात् देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां सम्भवो भवति. एवम् एव परमात्मना पञ्चीकृतानां भूतानां अन्योन्यसंयोगादिना अण्डोप्तत्त्यादिकं*{३९}* श्रीविष्णुपुराणे प्रतिपाद्यते. यथा: [५.२२] ᳚आकाशवायुतेजांसि सलिलं पृथिवी तथा / [५.२३] शब्दादिभिर् गुणैर् बह्म*{४०}*संयुक्तान्य् उत्तरोत्तरैः // [Vइष्णुP १.२.४६]
SK
[५.२४] शान्ता घोराश् च मूढाश् च विशेषास् तेन ते स्मृताः / [५.२५] नानावीर्याः पृथग्भूताः ततः ते संहतिं विना // [Vइष्णुP ]
SK
!{३७}! Lइएस् मित् DHN[T] ७२: आविर्भावतिरोभावजन्मनाशविकल्पवत्.
SK
[६.१] नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः / [६.२] समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः // [Vइष्णु.P ]
SK
[६.३] एकसङ्घातलक्ष्याश् च*{४१}* संप्राप्यैक्यमशेषतः / [Vइष्णुP १.२.४९च्द्]
SK
[६.४] पुरुषाधिष्ठितत्वाच् चाप्य् अव्यक्तानुग्रहेण च* //{४२}* [Vइष्णुP १.२.५०अब्]
SK
[६.५] महदाद्या विशेषान्ता ह्य् अण्डम् उत्पादयन्ति ते /
SK
[६.६] तत्क्रमेण प्रबुद्धं तज्*{४३}* जलबुद्बुदवत्समम् /
SK
[६.७] भूतेभ्यो ऽण्डं महाबुद्धे प्रवृद्धम् उदकेशयम्* /{४४}*
SK
[६.८] प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानम् अनुत्तमम् // [Vइष्णु.P १.२.५१]
SK
[६.९] तत्राव्यक्तस्वरूपो ऽसौ व्यक्तरूपी जगत्पतिः / [६.१०] विष्णुर् ब्रह्मस्वरूपेण स्वयम् एव व्यवस्थितः //᳚ [Vइष्णुP ]
SK
[६.११] इत्य् आरभ्य
SK
[६.१२] ᳚तस्मिन्न् अण्डे ऽभवद् ब्रह्मा*{४५}* सदेवासुरमानुषः //᳚ [Vइष्णुP १.२.५४]
SK
[६.१३-१४] इत्यादिभिः समष्टिसृष्ट्यादिकम्*{४६}* उक्तम्. विशेषेण व्यष्टिसृष्टाव् अपि ब्रह्मणो ऽण्डादिषूत्पत्तिप्रकारः श्रूयते. यथा:
SK
[६.१५-२१] महोपनिषदि: ᳚अथातो महोपनिषदं व्याख्यास्यामः. एको ह वै नारायण आसीद्᳚ इत्य् आरभ्य ᳚तस्य ध्यानान्तस्स्थस्य यज्ञस्तोमम् उच्यते. तस्मिन् चतुर्दशपुरुषा जायन्ते. एका कन्या*{४७}*. दशेन्द्रियाणि मन एकादशं तेजो द्वादशम् अहङ्कारः त्रयोदशः प्रणाश्*{४८}* चतुर्दशः आत्मा पञ्चदशः बुद्धिर् भूतानि पञ्च तन्मात्राणि पञ्च महाभूतानि च स एकः पञ्चविंशः पुरुषः.᳚*{४९}* ᳚अथ पुनर् एव नारायणस् सो ऽन्यत्कामो*{५०}* मनसा ध्यायत तस्य ध्यानान्तस्स्थस्य ललाटात् स्वेदो ऽपतत्, त इमाः प्रतता आपः, तासु तेजः, तत् तेजो*{५१}* हिरण्मयम् अण्डम् तत्र ब्रह्मा चतुर्मुखो ऽजायत.᳚*{५२}* इति.
SK
[ब्रह्मणो ऽण्डादिषूत्पत्तिप्रकारः]
SK
[६.२२] यजुषि: ᳚स प्रजापतिर् एकः पुष्करपर्णे समभवत्᳚ इति च.*{५३}*
SK
[६.२३] *{५४}*मनौ: एवं ᳚अप एव ससर्जादौ तासु वीर्यम् अवासृजत्* //{५५}*᳚ इत्य् आरभ्य [MअनुDह्Ś १.८च्द्]
SK
[६.२४] ᳚तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः //᳚ इति [MअनुDह्Ś १.९च्द्]
SK
!{४१}! Vइष्णुP: एकसङ्घातलक्ष्माश् च.
SK
[७.१] *{५६}*भारते: ᳚स्वपतस् तस्य देवस्य पद्मं सूर्यसमप्रभम् / [७.२] नाभ्यां विनिस्सृतम् अभूत् तत्रोत्पन्नः प्रजापतिः //᳚*{५७}* इति च स्मर्यते.*{५८}* [MBह् ३.१९४.११]
SK
[७.३-४] ननु नाभ्याम् अण्डे चोत्पत्तिर् एकस्य कथम् उपपद्यत*{५९}* इति चेत् - तत् कल्पान्तर इति वक्तयम्. तदुक्तं हयशिर उपाख्याने:
SK
[एकस्य ब्रह्मणः नाभ्याम् अण्डे च उत्पत्तिः]
SK
[७.५] ᳚त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् / [७.६] चाक्षुषं वै द्वितीयं मे आसीज् जन्म पुरातनम् //
SK
[७.७] त्वत्प्रसादाच् च मे जन्म तृतीयं वाचिकं महत् / [७.८] त्वत्तो मे श्रावणञ् चापि चतुर्थं जन्म वै प्रभो //
SK
[७.९] नासिक्यञ् चैव मे जन्म त्वत्तः पञ्चमम् उच्यते / [७.१०] अण्डजञ् चापि मे जन्म त्वत्तः षष्ठं विनिर्मित्तम् //
SK
[७.११] इदन् तु सप्तमं जन्म पद्मजं मे ऽमितप्रभ* /{६०}*᳚ इति.
SK
[चतुर्मुखस्य वैखानसादिशब्दवाच्यत्वम्]
SK
[७.१२-१४] अतस् समस्तजगज्जन्मस्थितिध्वंसमहानन्दैकहेतोः भगवतः परब्रह्मणो नारायणस्य वैखानसादिशब्दवाच्यत्वसम्भवात् तन्नाभिनलिनसञ्जातस्य ब्रह्मणो ऽपि ᳚अङ्गाद् अङ्गाद्᳚*{६१}* इति मन्त्रोक्तप्रकारेण भारतादिप्रतिपादितरीत्या च*{६२}* वैखानसादिशब्दवाच्यत्वम् उपपद्यते. [७.१५] शान्तिपर्वणि: ᳚विशेषेणाखनत्*{६३}* यस्मात् भावनामुनिसृष्टये / [७.१६] तस्माद् विखनसो नाम स आसीद् अण्डजः प्रियः //᳚ इति [MBह् ]
SK
[७.१७] तत्रैव: ᳚स्रष्टुं स तु समुद्युक्तो ब्रह्मयोनिमयः प्रभुः / [७.१८] खनित्वा चात्मनात्मानं धर्मादिगुणसंयुतम् / [७.१९] ध्यानम् आविश्य योगेन ह्य् आसीद् विखनसो मुनिः //᳚ इति [MBह् ]
SK
[७.२०-२१] श्रीभागवते: ᳚न खलु गोपिकानन्दनो भवान् अखिलदेहिनाम् अन्तरात्मदृक् / [७.२२-२३] विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्त्वतां कुले //᳚ इति [BहागवतP १०.३१.४]
SK
[श्रीरङ्गे वैखानसार्चनम्]
SK
[७.२४] गारूडे - श्रीरङ्गमाहात्म्ये: [७.२५] ᳚ब्रह्मापि दिव्यहंसेन सितमेघोपमेन च / [७.२६] पृष्ठतो ऽनुययौ विष्णुं वस्त्रेणोच्छाद्य*{६४}* चाननम् //
SK
!{५६}! DHN[T] ८१ इन्स्. (नाभिपद्मे - भारतम्).
SK
[८.१] तत्रार्चको महाभागो भगवान् विखनास् तदा*{६५}* / [८.२] ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया* //{६६}*᳚ इति [GअरुडP ]
SK
[८.३] श्रीवैखानसे - आनन्दसंहितायाम्: [८.४] ᳚अन्तर्हितानां खननाद् वेदानान् तु विशेषतः / [८.५] स विभुः प्रोच्यते सर्वैः विखना ब्रह्मवादिभिः / [८.६] वैखानसश् च भगवान् प्रोच्यते स पितामहः* //{६७}*᳚ इति [ĀS ]
SK
[८.७] व्यासनिघण्टौ: ᳚विखनसञ् च विधातारं विरिञ्च*{६८}* तं चतुर्मुखम् /᳚ इति
SK
[८.८] ᳚नाभिजन्माण्डजः पूर्वो विखनाः कमलासनः //
SK
[८.९] शतानन्दश् शतधृतिस् सत्यको हंसवाहनः* /{६९}*
SK
[८.१०] पद्मासनो विखनसश् चाहर्मुखः*{७०}* इतीरितः //᳚ इति च प्रतिपादितम्.*{७१}*
SK
[८.११-१२] एवं कार्यकारणयोर् अभेदावगमात्*{७२}* प्रमाणबाहुल्याच् च भगवति नारायणे चतुर्मुखे च वैखानसशब्दप्रयोगप्रकारः*{७३}* प्रतिपादितः.
SK
[८.१३] वैखानसानाम् उत्पत्तिप्रकारः*{७४}*
SK
[श्रुत्युक्तः वैखानसानाम् उत्पत्तिप्रकारः]
SK
[८.१४-२३] वैखानसानाम् उत्पत्तिः विशेषेण श्रूयते. यजुषि आरुणकेतुके इष्टकोपधानकथनानुवाके सृष्टिप्रकरणे*{७५}* - ᳚आपो वा इदम् आसन्*{७६}* सलिलम् एव. स प्रजापतिर् एकः पुष्करपर्णे समभवत्. तस्यान्तर् मनसि कामस् समवर्तत. इदं सृजेयम् इति᳚*{७७}* इत्य् आरभ्य ᳚स तपस् तप्त्वा. शरीरम् अधूनुत. तस्य यन् मांसम् आसीत्. ततो ऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्.*{७८}* ये ऽनखाः ते वैखानसाः. ये वालाः ते वालखिल्याः.᳚*{७९}* इति. अस्यार्थः. समष्टिसृष्टेर् अनन्तरं व्यष्टिसृष्टौ चतुर्मुखः*{८०}* देवमनुष्यादिविविधविशेषसृष्ट्यर्थं मत्स्यादिरूपेणावतरिष्यमाणस्य*{८१}* भगवतो नारायणस्य परमवैदिकत्वेन सम्प्रतिपन्नश्रीवैखानसभगवच्छास्त्रमार्गेण*{८२}* समाराध्दनर्थञ् च स्वात्मतुल्याः प्रजास् सम्भवेयुर् इति स्वान्तर्यामिणं परमात्मानं ध्योनेनानुकृतवान्*{८३}* अयम् एवार्थो ब्राह्माण्डे ऽप्य् उच्यते [८.२४] ᳚ओम् इत्य् एकाक्षरं ब्रह्म व्याहरन् संस्मरन् हरिम् / [८.२५] पद्मासनस्थो भगवान् परमं तप आस्थितः //᳚ [Bरह्माण्डP ]
SK
!{६५}! DHN[D] २६.६ लिएस्त् मित् DHN[T] ८७: तथा.
SK
[सनकादिसृष्टिप्रकारः]
SK
[९.१-५] इत्य् आरभ्य*{८४}* ब्रह्मणा ब्रहुशः*{८५}* कृतं तपश्चरणम् उक्तम्. तपश्चरणकाले साक्षात्कृतभगवत्स्वरूपवैभवानुभवातिशयात् भगवद्दत्तसृष्टिशक्तिलाभात् तदुपजनितविशेषवेगाच् च पुलकितसर्वाङ्गः शरीरम् अधूनुत - कम्पम् अकरोत्. ᳚तस्य यन् मांसम् आसीद्᳚*{८६}* मांसं मानसम् इति यावत्. ᳚अर्थात् प्रकरणाल् लिङ्गाद् औचित्याद् अर्थनिर्णयः᳚ इत्य् अर्थादिभिः*{८७}* समीचीनार्थनिर्णयविधानात् ᳚अक्षरसाम्यान् निर्ब्रूयाद्᳚*{८८}* इति निरुक्तविधानाञ् च.
SK
[९.६-१०] तथा च तस्य मनः परमात्मनि संसक्तम् आसीद् इति यत्, तेन हेतुना तदनुग्रहस् समजनि. तेनानुगृहीतात् ब्रह्मणः ᳚केतवो वातरशनाः ऋषयः उदतिष्ठन्᳚*{८९}*. ᳚अरुणाः᳚ परमात्मनि वसन्तः तदितररविक्ताः ᳚केतवः᳚ उच्छ्रितस्वभावाः परमात्मप्रवणानाम् अग्रेसराः ᳚वातरशना᳚ दिग्वाससः ᳚ऋषयः᳚ सर्वार्थदर्शिनः सनकादयः ᳚उदतिष्ठन्᳚ उत्कृष्य समभवन् इति.*{९०}* [९.११] इदं विष्णुपुराणे ऽपि: ᳚सनन्दनादयो ये च पूर्वं सृष्टास् तु वेधसा / [९.१२] न ते लोकेष्व् असज्जन्त निरपेक्षाः प्रजाविधौ* //{९१}* [Vइष्णुP १.७.९]
SK
[९.१३] सर्वे ते योगिनो जाता*{९२}* वीतरागा विमत्सराः / [९.१४] तेष्व् एवं निरपेक्षेषु लोकसृष्टौ महात्मनः //᳚ इत्यादिना प्रतिपादितम्.*{९३}* [Vइष्णुP १.७.१०]
SK
[९.१५-१९] स प्रजापतिः एवंविधान् स्वकार्यासाधकान् तान् दृष्ट्वा किञ्चिद् विषादम् आपन्नः पुनर् अपि स्वकारणं भगवन्तं ध्यानप्रयायेण खननेनातोषत्. ᳚ये नखा᳚ इत्यादि*{९४}*. भगवदनुग्रहविकसिते प्रजापतेर् मनसि वैखानसा नाम ऋषयस् सम्भूताः अत्र ᳚ये नखा᳚ इत्य् अत्र आद्यन्तवर्णविपर्ययो भवति. ᳚कश्यपः पश्यको भवती᳚तिवत् ᳚खना इत्य् एतत् नखा᳚ इति विपर्यस्तम् इति यावत्.*{९५}* [९.२०] ᳚सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङञ्*{९६}* च / [९.२१] व्यत्ययम् इच्छिति*{९७}* शास्त्रकृद् एषां सो ऽपि च सिद्ध्यति बाहुलकेन //᳚
SK
[९.२२-२४] इति, ᳚बहुलं छन्दसी᳚*{९८}*ति चात्र प्रणामन्*{९९}*. अत्र ᳚अनखा᳚ इति च्छित्त्वा केचिद् एवम् ऊचुः*{१००}*. अनखा इत्य् अनेन सौम्येन्द्रियवत्वं उक्तम् इति*{१०१}*.
SK
!{८४}! DHN[T] ९३ इन्स्. ᳚शूद्रजातिं मनुष्याणां पशूनाम् अश्वम् एव᳚ चेत्यन्तं (एवं?).
SK
[वैखानसानाम् आचार्यपुरुषत्वम्]
SK
[१०.१-३] एवञ् च सति ᳚सौम्यं जितेन्द्रियं᳚*{१०२}* ᳚सुप्रसन्नेन्द्रियं᳚*{१०३}* इत्यादिना भगवच्छास्त्रेष्व् आचार्यलक्षणस्य*{१०४}* प्रतिपादितत्वात् ᳚वैखानस विखनसाचर्य᳚*{१०५}* इति. विष्णोर्*{१०६}* आचार्यत्वेन शान्त्य्पर्वण्य् अभिहितत्वात्.
SK
[१०.४] ᳚विखना इति विष्णुस् तज्जा वैखानसाः स्मृताः* /{१०७}* [Kर्A ३६.२८च्द्]
SK
[१०.५] विष्णोर् एव समुत्पन्ना भृग्वाद्या मुनयस् तथा //᳚
SK
[वैखानसानाम् त्रिशुक्लत्वम्]
SK
[१०.६-७] इति वचनात्, ᳚गुरोस् सानवृत्तिर्*{१०८}* वैखानस᳚*{१०९}* इति बोधायनसूत्रे उक्तत्वाच् च भागवतादिषु*{११०}* प्रतिपादितम् ᳚आचार्यपुंस्त्वम् एतेषां वैखानसानाम्*{१११}* एवे᳚त्य् अवगम्यते.
SK
[१०.८-९] यद्वा ᳚अनघा᳚ इति पाठः. अनेन*{११२}* त्रिशुक्लत्वं सूच्यते. जन्म विद्या कर्म चेति. अद्वारकत्वेन भगवतः चतुर्मुखाच् चोप्तत्तिश्रवणात्*{११३}*, [१०.१०] ᳚तत्कर्म यन् न बन्धाय सा विद्या या विमुक्तये / [१०.११] आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् //᳚
SK
[१०.१२-१३] इत्य् उक्तरीत्या अद्वारकभगवत्स्वरूपज्ञानतदाराधनविधिप्रतिपादकशास्त्रनिष्ठत्वेन च एषां त्रिशुक्लत्वम्.*{११४}* शुक्लवताम् एवाधिक्यं आरण्यपर्वणि प्रथमाध्याये प्रतिपादितम्. यथा: [१०.१४] ᳚येषां त्रीण्य् अवदातानि योनिर्विद्या च कर्म च / [१०.१५] ते सेव्यास् तैस् समास्या हि शास्त्रेभ्यो ऽपि गरीयसी* //{११५}*᳚ ति [MBह् ३.१.२५]
SK
[आनन्दसंहितानुसारेण वैखानसोत्पत्त्यादिकम्]
SK
[१०.१६] श्रीवैखानसे आनन्दसंहितायां विखनसोत्पत्त्यादिकं प्रतिपादितम्: [१०.१७] ᳚अथ सस्मार भगवान् विश्वसृष्ट्यर्थम् अच्युतः / [१०.१८] धातारं विश्वनिर्माणचतुरं चतुराननम्* //{११६}* [ĀS ४.६]
SK
[१०.१९] स्मरणानन्तराद् एव प्रादुर् आसीत् पुरः प्रभोः / [१०.२०] धाता समस्तजगताम् उत्पत्तिकरणक्षमः // [Ā.S ४.७]
SK
[१०.२१] तं प्राह*{११७}* भगवान् विष्णुः प्रणतं पुरतः स्थितम् / [१०.२२] श्रीभगवान् उवाच: ब्रह्मन् त्वया जगत् सर्वं कर्तव्यं सचराचरम् // [ĀS ४.८]
SK
[१०.२३] लोके विहर्तुम् इच्छामि यद् अहं*{११८}* पद्मसम्भव /
SK
[१०.२४] ततस् त्वत्सृष्टजगताम् अविच्छिन्नप्रवृत्तये /
SK
[११.१] धर्मसंरक्षणार्थाय वेदशास्त्रार्थसिद्धये* //{११९}* [ĀS ४.९]
SK
[११.२] अलसा अल्पसत्त्वाश् च मनुष्यास् स्वल्पबुद्धयः / [११.३] ते परव्यूहविभवान् आत्मानाञ् च न मेनिरे* //{१२०}* [ĀS ४.१०]
SK
[आनन्दसंहितानुसारेण सनकादिसृष्टिः]
SK
[११.४] सौलभ्याय तु भक्तानां सर्वलोकानुकम्पया* //{१२१}* [ĀS ४.११च्द्]
SK
[११.५] अर्चावताररूपेण लोके ऽस्मिंश् चतुरानन / [११.६] अवतारं करिष्यामि मह्या*{१२२}* लक्ष्म्या समन्वितः // [Ā.S ४.१२]
SK
[११.७] मदर्चायै सृज ब्रह्मन् सृष्ट्यादौ मुनिसत्तमं* /{१२३}* [ĀS ४.१३अब्]
SK
[११.८] इत्य् आज्ञप्तस् तदा ब्रह्मा मुहूर्तं तत् सिसृक्षया / [११.९] चिन्तयामास तत्कर्मा क्षणम् एकं महामुनिः* //{१२४}* [ĀS ४.१४]
SK
[११.१०] ऊचुः न शक्नुयाम् एवं स्रष्टुम् इच्छन् तथाविधम्* /{१२५}*
SK
[११.११] तस्य तद् वचनं श्रुत्वा देवदेवो हरिस् स्वयम् // [Ā.S ]
SK
[११.१२] चिन्तयामास देवेशः स्वनिर्मलतरात्मनि / [११.१३] वेदान्ततत्त्वमीमांसा खननं कृतवान् हरिः* //{१२६}* [ĀS ४.१५]
SK
[११.१४] नाम्ना विखनसं चक्रे तत्पदान्वर्थयोगतः*{१२७}* / [११.१५] तथा चिन्तयतस् तस्य मनसो द्वौ बभूवतुः* //{१२८}* [ĀS ४.१८]
SK
[११.१६] सङ्कल्पधर्मौ सन्नम्य प्राञ्जलिं पुरतः स्थितम्* /{१२९}* [ĀS ४.१९अब्?]
SK
[११.१७] ब्रह्माणम् अब्रवीद् विष्णुर् भूतसृष्ट्यन्तहेतवे (कारकं) / [११.१८] सङ्कल्पधर्मौ भवतस् तव सृष्ट्यन्तहेतवे* //{१३०}*
SK
[११.१९] शुद्धसत्त्वसमुत्पन्नो निर्मितो ऽयं तवाग्रतः* //{१३१}* [ĀS ४.३५च्द्]
SK
[११.२०] मुनिश्रेष्ठो महातेजा मत्कार्यकरणक्षमः* /{१३२}* [ĀS ४.३६अब्?]
SK
[११.२१] मत्कार्यसाधकान् एव त्वं वै स्रष्टुम् अथार्हसि //
SK
[११.२२] हृषीकेशस्य तद्वाक्यं भ्याधाय कृतञ्जलिः* /{१३३}*
SK
[११.२३] चतुर्मुखश् चापि तथा सनकादिमुनीश्वरान्* /{१३४}*
SK
[११.२४] ध्यायन् मुखैश् चतुर्भिस् तु क्रमाद् असृजद् अब्जभूः* //{१३५}*
SK
!{११९}! ĀS: लोके विहर्तुम् इच्छा मे वर्तते पद्मसम्भव / ततस् स्वसृष्टिर् जगताम् अविच्चिन्ना प्रवर्तते / धर्मसंस्थापनार्थाय वेदशास्त्रार्थसिद्धये//. Vग्ल्. ĀS १५.९/१०अब्: लोके विहर्तुम् इच्छामे वर्तते पद्मसम्भव / ततस् त्वत्सृष्टजगताम् अविच्छिन्नप्रसृत्तये // साधुसंरक्षणार्थय वेदशास्त्रर्थसिद्धये /.
SK
[आनन्दसंहितानुसारेण दक्षादिमुनिदशकसृष्टिः]
SK
[१२.१] सनत्कुमारञ् च तथा सनकञ् च सनातनम् / [१२.२] सनन्दनम् इति ख्यातान् ब्रह्मविद्याविशारदान्* //{१३६}* [ĀS २.२०]
SK
[१२.३] ततस् ते च मुनिश्रेष्ठा*{१३७}* ज्ञानातिशयवैभवात् / [१२.४] विरक्तचित्तास् सञ्जग्मुः कैवल्यं पदम् उत्तमं* //{१३८}* [ĀS ४.२१]
SK
[१२.५] स्वकार्यसाधकान् ब्रह्मा सृष्टवान् पुनर् एव हि* /{१३९}*
SK
[१२.६] प्राणाच् च चक्षुषस् तद्वद् अभिमानाच् च कर्मणः* //{१४०}* [ĀS ४.२२]
SK
[१२.७] हृदयाच् छिरसः*{१४१}* श्रोत्राद् उदानाद् व्यानतस् ततः / [१२.८] समानाच् च तथापानाद् ऋषिश्रेष्ठान् इमान् दश* //{१४२}* [ĀS ४.२३]
SK
[१२.९] दक्षं मरीचिनं*{१४३}* नीललोहितं भृगुम् एव च / [१२.१०] तथाङ्गिरसम् अत्रिं च पुलस्त्यं पुलहं तथा* //{१४४}* [ĀS ४.२४]
SK
[१२.११] वसिष्ठं च क्रतुं चैव क्रमाद् असृजद् अब्जभूः / [१२.१२] नव ब्रह्माण एवैते विना स्युर् नीललोहितं* //{१४५}* [ĀS ४.२५]
SK
[आनन्दसंहितानुसारेण वैखानसस्य मुनिश्रेष्ठत्वम्]
SK
[१२.१३] धर्मसङ्कल्पसहितास् सनकाद्या मुनीश्वराः / [१२.१४] भृग्वादिमुनयश् चैव श्रुतिस्मृत्यादिवेदनात्* //{१४६}* [ĀS ४.२६]
SK
[१२.१५] शिष्या विखनसः प्रोक्तास् सर्वशास्त्रार्थपारगाः / [१२.१६] वैखानसानां भृग्वाद्या वंशकर्तार ईरिताः // [Ā.S ४.२७]
SK
[१२.१७] सर्वेषाम् अग्रजं श्रेष्ठम् आत्मपुत्रं मुनिं तथा / [१२.१८] तं हरेः पुरतः कृत्वा प्रोक्तवान् कमलासनः // [ĀS ४.२८]
SK
[१२.१९] ब्रह्मोवाच: देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारण / [१२.२०] भगवंस् त्वत्प्रभावेन सृष्टो ऽयं मुनिसत्तमः* //{१४७}* [ĀS ४.२९]
SK
[१२.२१] जाताः चिन्तयतो मत्तस् त्वत् सृष्टौ मुनयस् त्व् इमे / [१२.२२] एतैर् अपि कृतं सर्वं जगद् एतच् चराचरं // [ĀS ४.३०]
SK
[१२.२३] मत्पुत्राणां च सर्वेषाम् अग्रजः पुरुषोत्तमः / [१२.२४] वैष्णवेष्व् अग्रजश् श्रेष्ठो मुनीनां प्रथमो मुनिः // [Ā.S ४.३१]
SK
!{१३६}! ĀS: सनत्कुमारश् च तथा सनकश् च सनातनः / सनन्दन इति ख्याता ब्रह्मविद्याविशारदाः; सो लिएस्त् औछ् DHN[T] १०४.
SK
[आनन्दसंहितानुसारेण वैखानस्य गर्भवैष्णवत्वम्]
SK
[१३.१] विशेषखननाज् जातो विष्णोर् वैखानसस् तथा / [१३.२] भृग्वादीन् उपनीयाथ सावित्रीम् उपदेक्ष्यति* //{१४८}* [ĀS ४.३२]
SK
[१३.३] परब्रह्मोपदेष्टासाव् अयम् एव गुरुस् स्मृतः / [१३.४] एतद् उक्तप्रकारेण सर्वे वै मम सूनवः // [ĀS ४.३३]
SK
[१३.५] चरिष्यन्ति यथान्यायं*{१४९}* लौकिकाध्यात्मवैदिकान् / [१३.६] एभिः प्रवर्तिता सृष्टिर् अविच्छिन्ना प्रवर्त्तते* //{१५०}* [ĀS ४.३४]
SK
[१३.७] भवान् अवतरत्व् अत्र मम सृष्टौ जनार्दन* /{१५१}*
SK
[१३.८] शुद्धसत्त्वसमुत्पन्नो निर्मितो ऽयं त्वया विभो* //{१५२}* [ĀS ४.३५]
SK
[१३.९] ऋषिश्रेष्ठो महातेजाः त्वत्कर्मकरणक्षमः / [१३.१०] तथासौ खननाद् विष्णोः ध्यायाद् अन्तश् च गर्भतः* //{१५३}* [ĀS ४.३६]
SK
[१३.११] यस्मात् तव समुत्पन्नो*{१५४}* ज्ञेयो ऽसौ गर्भवैष्णवः / [१३.१२] इत्य् उक्तो भगवान् प्राह मुनिश्रेष्ठं तपोनिधिं // [Ā.S ४.३७]
SK
[१३.१३] श्रीभगवान् उवाच: देवब्रह्म ऋषीणान् तु मदीयाराधनं प्रति / [१३.१४] मया सञ्चोदितो यस्मात् त्वम् एव मुनिसत्तम* //{१५५}* [ĀS ४.३८]
SK
[१३.१५] तपोधनो भवान् एव धन्यो ऽसि भुवनत्रये / [१३.१६] आत्मार्थं वा परार्थं वा नित्यनैमित्तिकादि यत् // [Ā.S ४.३९]
SK
[१३.१७] तत् सर्वं मत्प्रसादेन मदीयाराधनं कुरु* /{१५६}*
SK
[१३.१८] अथाह स ऋषिस् तस्मै प्रणम्य जगदात्मने // [ĀS ४.४०]
SK
[आनन्दसंहितानुसारेण वैखानसानाम् अद्वारकभगवद्यजनेन नित्यकर्मानुष्टानपूर्णता]
SK
[१३.१९] श्रीविखाना उवाच: भवतानुगृहीतो ऽहं धन्यो ऽस्मि पुरुषोत्तम / [१३.२०] नातः परतरं कार्यं किम् अप्य् अन्यद् दिवौकसाम्* //{१५७}* [ĀS ४.४१]
SK
[१३.२१] तथापि देवदेवेश स्वकर्म मुनिभिस् सदा / [१३.२२] उदयाद्यस्तपर्यन्तं क्रियते नियतात्मभिः* //{१५८}* [ĀS ४.४२]
SK
[१३.२३] सर्वेषाञ् च द्विजातीनां श्रुतिस्मृतिसमीरितम् / [१३.२४] कर्तव्यं सततं देव स्वस्वकर्म प्रयत्नतः // [Ā.S ४.४३]
SK
!{१४८}! Lइएस् मित् DHN[T] १०६ उन्द् ĀS: उपदिष्टवान्.
SK
[१४.१] भवदाराधनं विष्णो कथं कारं करोम्य् अहं /
SK
[१४.२] त्वत्कर्म क्रियते चेत् तु कर्मलोपो भवेन् मम* /{१५९}*
SK
[१४.३] इत्य् उक्तो भगवान् आह मुनिना तत्त्ववेदिना // [ĀS ४.४४]
SK
[१४.४] श्रीभगवान् उवाच: विखनस् त्वं मुनिश्रेष्ठ मदाराधनकर्मणि* //{१६०}* [ĀS ४.४५]
SK
[१४.५] स्वकर्मलोपसंत्रासव्याकुलीकृतचेतसः*{१६१}* / [१४.६] तव कर्माण्य् अनूनानि संतु नित्यं मदाज्ञया // [ĀS ४.४६]
SK
[१४.७] त्वद्वंशजानां सर्वेषां काले वै कृतकर्मणाम्* /{१६२}*
SK
[१४.८] निषेकादिश्मशानान्ताः कार्याः मन्त्रसमन्विताः* //{१६३}* [ĀS ४.४७]
SK
[१४.९] अष्टादश च कर्माणि शारीराणि प्रचक्षते / [१४.१०] यज्ञाश् च विंशतिर् द्वौ च धर्मं वैष्णवम् उत्तमं // [Ā.S ४.४८]
SK
[१४.११] वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः / [१४.१२] सर्वैस् स धर्मो ऽनुष्ठेयो नात्र कार्या विचारणा* //{१६४}* [ĀS ४.४९]
SK
[१४.१३] त्वदाज्ञैव भृग्वाद्या नारायणपरायणाः* //{१६५}* [ĀS ४.६७च्द्]
SK
[१४.१४] वदन्ती परमं धर्मं वैष्णवं श्रुतिसम्मतं / [१४.१५] तद्धर्मनिरता ये तु ते वै भागवताः स्मृताः // [Ā.S ४.६८]
SK
[१४.१६] मत्कर्मकारिणां तेषां कर्मलोपो न विद्यते* /{१६६}*
SK
[१४.१७] तिस्रः कोट्यो मुनीनाम् तु कर्म कुर्वन्ति मे सदा* //{१६७}* [ĀS ४.६९]
SK
[१४.१८] ज्ञात्वा यजूंषि साङ्गानि मन्मतास् सर्व एव ते / [१४.१९] मन्मन्त्रकल्पजातानि मत्पुराणान्य् अनुक्रमात् // [Ā.S ४.७०]
SK
[१४.२०] अधीत्य सर्वकर्माणि कुर्वते*{१६८}* ते मदर्चनं / [१४.२१] कृताधिकारिणस् ते तु कृतसम्बन्धिनो मम* //{१६९}* [ĀS ४.७१]
SK
[१४.२२] मत्प्रसादभुजस् सौम्या अतिप्रियतमा मम / [१४.२३] षट्कर्मनिरतास् ते वै सात्त्विकाहारतत्पराः // [Ā.S ४.७२]
SK
[१४.२४] वैखानसेन सूत्रेण निषेकादिक्रियान्विताः /
SK
[१५.१] भवन्ति भावितात्मानो मत्कर्मकरणक्षमाः // [Ā.S ४.७३]
SK
[१५.२] तस्माद् भागवतश्रेष्ठा भवन्त्य् अप्राकृता भुवि / [१५.३] सर्वधा ᳚ये नखास् ते वैखानसा᳚ इति वेदतः* //{१७०}* [ĀS ४.७४]
SK
[१५.४] तस्माद् वैखानसाश् शुद्धास् सर्वकर्मसु पूजिताः / [१५.५] ततः प्राह मुनिश्रेष्ठस् तम् एवं वादिनं हरिम्* //{१७१}* [ĀS ४.७५]
SK
[१५.६] श्रीविखनाः: भगवंस् त्वत्प्रसादेन कर्म साङ्गं यथोदितं / [१५.७] सर्वेषां मत्कुलीनानां भवत्य् एव न संशयः // [Ā.S ४.७६]
SK
[महाभारतोक्तो वैखानसानाम् उत्पत्त्यादिप्रकारः]
SK
[१५.८-९] अतो ऽत्र श्रुत्युक्तमार्गेण वैखानसानां सृष्ट्यादिकं, अद्वारकभगवद्यजनेनैतेषां नित्यकर्मानुष्ठानपूर्णत्वं च प्रतिपादितम्*{१७२}*.
SK
[१५.१०-११] अथ पञ्चमवेदत्वेन प्रसिद्धे महाभारते आनुशासनिकपर्वणि ८५तमे अध्याये भृग्वादिमहर्षीणां वैखानसानाञ् चोत्पत्तिः निरूपिता*{१७३}*. यथा: [१५.१२] वसिष्ठ: ᳚अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् / [१५.१३] पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः // [MBह् १३.८५.१]
SK
[१५.१४] देवस्य महतस् तात वारुणीं बिभ्रतस् तनुम् / [१५.१५] ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभोः*{१७४}* // [MBह् १३.८५.२]
SK
[१५.१६] आजग्मुर् मुनयः सर्वे देवाश् चाग्निपुरोगमाः / [१५.१७] यज्ञाङ्गानि च सर्वाणि वषट्कारश् च मूर्तिमान् // [MBह् १३.८५.३]
SK
[१५.१८] मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः / [१५.१९] ऋग्वेदश् चागमत् तत्र पदक्रमविभूषितः // [MBह् १३.८५.४]
SK
[१५.२०] लक्षणानि सुरास्तोमा निरुक्तं सुरपङ्क्तयः / [१५.२१] ओङ्कारश् छन्दसां नेत्रं निग्रहप्रग्रहौ तथा* //{१७५}* [MBह् १३.८५.५]
SK
[१५.२२] तथा वेदास् सोपनिषदो विद्यास्*{१७६}* सावित्र्य् अथापि च / [१५.२३] भूतं भव्यं भविष्यच् च दधार शिरसा*{१७७}* शिवः / [१५.२४] सञ्जुहावात्मनात्मानं स्वयम् एव तथा प्रभो*{१७८}* // [MBह् १३.८५.६]
SK
[१५.२५] यज्ञञ् च शोभयामास बहुरूपं पिनाकधृत् // [MBह् १३.३९५.१]
SK
[१६.१] द्यैर् नभः पृथिवी*{१७९}* खञ् च तथा चैवैष भूपतिः / [१६.२] सर्वविघ्नेश्वरश्*{१८०}* श्रीमान् एष चापि विभावसुः //
SK
[१६.३] एष ब्रह्मा शिवो रुद्रो वरुणो ऽग्निः प्रजापतिः / [MBह् १३.३९५४]
SK
[१६.४] कीर्त्यते भगवान् देवस् सर्वभूतपतिश् शिवः // [MB.ह् १३.३९५५]
SK
[१६.५] तस्य यज्ञः पशुपतेस् तपः क्रतव एव च / [MBह् १३.३९५६]
SK
[१६.६] दीक्षा दीप्तव्रता देवी दिशश् च सदिगीश्वराः* //{१८१}* [MBह् १३.३९५७]
SK
[१६.७] देवपत्न्यश् च कन्याश् च देवानां चैव मातरः / [१६.८] आजग्मुः सहितास् तत्र तदा भृगुकुलोद्वह // [MBह् १३.८५.७]
SK
[१६.९] यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः /
SK
[१६.१०] स्वयंभुवस् तु ता दृष्ट्वा रेतः समपतद् भुवि / [MBह् १३.८५.८]
SK
[१६.११] तस्य शुक्रस्य निष्ष्यन्दात्*{१८२}* पांसून् संगृह्य भूमितः / [१६.१२] प्रास्यत् पूषा कराभ्यां वै तस्मिन्न् एव हुताशने // [MBह् १३.८५.९]
SK
[१६.१३] ततस् तस्मिन् संप्रवृत्ते सत्रे ज्वलितपावके / [१६.१४] ब्रह्मणो जुह्वतस् तत्र प्रादुर्भावो बभूव ह // [MB.ह् १३.८५.१०]
SK
[१६.१५] स्कन्नमात्रं च तच् छुक्रं स्रुवेण प्रतिगृह्य सः / [१६.१६] आज्यवन् मन्त्रवच्*{१८३}* चापि सो ऽजुहोद् भृगुनन्दन // [MBह् १३.८५.११]
SK
[१६.१७] ततस् तु जनयामास*{१८४}* भूतग्रामं स वीर्यवान् / [१६.१८] ततस् तु तेजसस्*{१८५}* तस्माज् जज्ञे लोकेषु तैजसम् // [MB.ह् १३.८५.१२]
SK
[१६.१९] तमसस् तामसा भावा व्यापि सत्त्वं तथोभयम् / [१६.२०] स गुणस् तेजसो नित्यस् तस्य चाकाशम्*{१८६}* एव च // [MB.ह् १३.८५.१३]
SK
[१६.२१] सर्वभूतेषु च*{१८७}* तथा सत्त्वं तेजस् त्व् अथोत्तमम्*{१८८}* / [१६.२२] शुक्रे हुते ऽग्नौ तस्मिंस् तु प्रादुरासंस् त्रयः प्रभो // [MB.ह् १३.८५.१४]
SK
[१६.२३] पुरुषा वपुषा युक्ता तैस् तैः*{१८९}* प्रसवजैर्*{१९०}* गुणैः / [१६.२४] भर्जनाद् भृगुर् इत्य् एवम् अङ्गारेभ्यो ऽङ्गिराभवत्* //{१९१}* [MBह् १३.८५.१५]
SK
[१७.१] (भृग् इत्य् एव भृगुः पूर्वम् अङ्गारेभ्यो ऽङ्गिराभवत् // [MB.ह् १३.८५.१५च्द्]
SK
[१७.२] अङ्गारसंश्रयाच् चैव कविर् इत्य् अपरो ऽभवत् / [१७.३] सह ज्वालाभिर् उत्पन्नो भृगुस् तस्माद् भृगुः स्मृतः // [MB.ह् १३.८५.१६]
SK
[१७.४] मरीचिभ्यो मरीचिस् तु मारीचः कश्यपो ह्य् अभूत् / [१७.५] अङ्गारेभ्यो ऽङ्गिरास् तात वालखिल्याः शिलोच्चयात्*{१९२}* / [१७.६] अत्रैवात्रेति च विभो जातम् अत्रिं वदन्त्य् अपि // [MBह् १३.८५.१७]
SK
[१७.७] तथाग्नेस् तस्य भस्मभ्यो ब्रह्मर्षिगणसंमताः* /{१९३}*
SK
[१७.८] वैखानसाः समुत्पन्नास् तपःश्रुतगुणेप्सवः* /{१९४}*
SK
[१७.९] अश्रुतो ऽस्य समुत्पन्नाव् अश्विनौ लोकसंमतौ* //{१९५}* [MBह् १३.८५.१८]
SK
[१७.१०] शेषाः प्रजानां पतयः स्रोतोभ्यस् तस्य जज्ञिरे / [१७.११] ऋषयो रोमकूपेभ्यस् स्वेदाच् छन्दो बलान्मनः* //{१९६}* [MBह् १३.८५.१९]
SK
[१७.१२] एतस्मात् कारणाद् आहुर् अग्निः सर्वाश् चअब् हिएर् तेलुगु देवताः*{१९७}* / [१७.१३] ऋषयः श्रुतसंपन्ना वेदप्रामाण्यदर्शनात् // [MB.ह् १३.८५.२०]
SK
[१७.१४] यानि दारूणि ते मासा निर्यासाः पक्षसंज्ञिताः / [१७.१५] अहोरात्रा मुहूर्तास् तु पित्तं ज्योतिश् च वारुणम् // [MBह् १३.८५.२१]
SK
[१७.१६] रौद्रं लोहितम् इत्य् आहुर् लोहितात् कनकं स्मृतम् / [१७.१७] तन् मैत्रम् इति विज्ञेयं धूमाच् च वसवः स्मृताः // [MB.ह् १३.८५.२२]
SK
[१७.१८] अर्चिषो याश् च ते रुद्रास् तथादित्या महाप्रभाः / [१७.१९] उद्दिष्टास् ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः // [MB.ह् १३.८५.२३]
SK
[१७.२०] आदिकर्ता*{१९८}* च लोकस्य तत् परं ब्रह्म तद् ध्रुवम् / [१७.२१] सर्वकामदम् इत्य् आहुस् तद्रहस्यम् उवाच च* //{१९९}* [MBह् १३.८५.२४]
SK
[१७.२२] ततो ऽब्रवीन् महादेवो वरुणः पवनात्मकः*{२००}* / [१७.२३] [वरुण] मम सत्रम् इदं दिव्यम् अहं गृहपतिस् त्व् इह // [MBह् १३.८५.२५]
SK
[१७.२४] त्रीणि पूर्वाण्य् अपत्यानि मम तानि न संशयः /
SK
!{१९२}! DHN[T] ११६: कुशोच्चयात्.
SK
[१८.१] इति जानीत खगमा मम यज्ञफलं हि तत् // [MB.ह् १३.८५.२६]
SK
[१८.२] अग्नि: मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च / [१८.३] ममैव तान्य् अपत्यानि वरुणो ह्य् अवशात्मकः // [MB.ह् १३.८५.२७]
SK
[१८.४] ब्रह्मा:अथाब्रवील् लोकगुरुर् ब्रह्मा लोकपितामहः / [१८.५] ममैव तान्य् अपत्यानि मम शुक्रं हुतं हि तत् // [MB.ह् १३.८५.२८]
SK
[१८.६] ईश्वर: अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव हि*{२०१}* / [१८.७] यस्य बीजं फलं तस्य शुक्रं चेत् कारणं मतम् // [MB.ह् १३.८५.२९]
SK
[१८.८] ततो ऽब्रुवन् देवगणाः पितामहम् उपेत्य वै / [१८.९] कृताञ्जलिपुटाः सर्वे शिरोभिर् प्रणिपत्य वै*{२०२}* // [MB.ह् १३.८५.३०]
SK
[१८.१०] वयं च भगवन् सर्वे जगत् एतच् चराचरम्*{२०३}* / [१८.११] तवैव प्रसवं सर्वं*{२०४}* तस्माद् अग्निर् विभावसुः / [१८.१२] वरुणश् चेश्वरो देवो लभतां कामम् ईप्सितम् // [MB.ह् १३.८५.३१]
SK
[१८.१३] निसर्गाद् वरुणश् चापि ब्रह्मणो यादसां पतिः / [१८.१४] जग्राह वै भृगुं पूर्वम् अपत्यं सूर्यवर्चसम् // [MBह् १३.८५.३२]
SK
[१८.१५] ईश्वरो ऽङ्गिरसं चाग्नेर् अपत्यार्थे ह्य् अकल्पयत्*{२०५}* / [१८.१६] पितामहस् त्व् अपत्यं वै कविं जग्राह धर्मतः*{२०६}* // [MB.ह् १३.८५.३३]
SK
[१८.१७] तदा स वारुणिः*{२०७}* ख्यातो भृगुः प्रसवकर्मकृत् /
SK
[१८.१८] आग्नेयस् त्व् अङ्गिराः श्रीमान् कविर् ब्राह्यो महायाशाः* /{२०८}*
SK
[१८.१९] भार्गवाङ्गिरसौ लोके लोकसंतानलक्षणौ // [MBह् १३.८५.३४]
SK
[१८.२०] एते हि प्रसवास्*{२०९}* सर्वे प्रजानां पतयस् त्रयः / [१८.२१] सर्वं संतानम् एतेषाम् इदम् इत्य् अवधारय* //{२१०}* [MBह् १३.८५.३५]
SK
[१८.२२] इत्यादिना वैखानसानाम् उत्पत्त्यादिकं विशेषेण प्रतिपादितम्.
SK
[१८.२३] पुराणान्तरे: [१८.२४] यज्ञे देवस्य वितते महतो वरुणस्य ह / [१८.२५] ब्रह्मणो ऽप्सरसं दृष्ट्वा रेतश् चस्कन्द कर्हिचित् //
SK
!{२०१}! MBह्: अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह.
SK
[१९.१] तत् प्रतीक्ष्य स पर्णेन संजुहाव विभाव् असौ / [१९.२] ततो ऽर्चिषो ऽभूद् भगवान् भृगुर् अङ्गारतो ऽङ्गिराः //
SK
[१९.३] अत्रैवान्वेषणाद् अत्रिः खननाद् विखना मुनिः / [१९.४] खननं तत्त्वमीमांसेत्य् बिस् हिएर् तेलुगुआहुः केचन सूरयः //
SK
[१९.५] अपरे निगमार्थानां खननाद् इति नश्श्रुतम् / [१९.६] ततस् तद्वंशजा विप्रा वेदवेदाङ्गवेदिनः //᳚ इति.
SK
[१९.७-१०] ᳚ये वालाः ते वालखिल्याः᳚ इत्य् अत्र बकारस्थाने वकार*{२११}*. ज्ञानातिशयवैभवात् कामादिदोषराहित्येन च बाला उच्यन्ते. श्रूयते हि*{२१२}*: ᳚तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्*{२१३}* बाल्यञ् च पाण्दित्यञ् च निर्विद्याथ मुनिः᳚ इति.
SK
[१९.११-१३] अत्र केचिद् एवम् ऊचुः: ब्रह्मणः विधूताच् छरीरात् यन्मांसं विकीर्णम् अभवत् ततो केतवो वातरशना ऋषय उदतिष्ठन्न् इति. तद् असत्. एवम् अर्थस्वीकारे सृष्टिकारणभूतस्य ब्रह्मशरीरस्य शैथिल्यम् उक्तं स्याद् इति.
SK
[१९.१४-२०] किञ् च ᳚तस्यान्तर्मनसि कामस् समवर्तत᳚ इत्यादिना ᳚कामस् तदग्रे समवर्तताधि᳚ इत्य् अन्तेन सोपपत्तिकं वर्तमानं सङ्कल्परूपं मननव्यापारम् उक्त्वा ᳚मनसो रेतः प्रथमं यद् आसीद्᳚ इत्य् अत्र तत्र विद्यमानस्य व्यापारस्य प्रजापतेः सृष्टिकारणत्वं रेतश् शब्देबिस् हिएर् तेलुगुनोक्त्वा ᳚सतो बन्धुम् असति निरविन्दन्न्᳚ इत्य् आरभ्य ᳚य एवं वेद᳚ इत्य् अन्तेन ब्रह्मणस् तत्कालविद्यमानमानसशक्तिमाअब् हिएर् तेलुगुत्रेण व्यष्टिसृष्टेर् अनिष्पन्नत्वम् उक्त्वा मनसो व्यष्टिकारणलाभाय ᳚स तपो ऽतप्यत᳚ इति भगवदुपासनम् अकरोद्᳚ इत्य् उक्तम्. अयम् एवार्थः ᳚ॐ इत्य् एकाक्षरं ब्रह्मे᳚त्यादिना ब्रह्माण्डे ऽप्य् उक्तम्.*{२१४}*
SK
[भ्र्ग्वादीनां भगवन्मानसपुत्रत्वम्]
SK
[१९.२१] भगवन्मानसपुत्रा भृग्वादय इति भगवतैवोक्तम्: [१९.२२] ᳚महर्षयस् सप्त पूर्वे चत्वारो मनवस् तथा / [१९.२३] मद्भावा मानसा जाता येषां लोक इमाः प्रजाः //᳚ [MBह् ६.३२.६]
SK
[भृग्वादीनां वैखानसवंशकर्तृत्वम्]
SK
[१९.२४] भृग्वादय एव वैखानसानां वंशकर्तारः इति भारते ऽप्य् उक्तम्.
SK
!{२११}! DHN[T] १२०: बकारस्य स्थाने वकारः.
SK
[२०.१] यथा शान्तिपर्वणि:
SK
[२०.२] ᳚भृग्वङ्गिरोमरीच्यत्रि पुलस्त्यपुलहाः क्रतुः*{२१५}* / [MBह् १३, Aप्प्. ७.४९]
SK
[२०.३] तथा वसिष्ठो दक्षश् च नव स्वायम्भुवा द्विजाः* //{२१६}*
SK
[२०.४] एते वैखानसानान् तु ऋषीणां भावितात्मनां / [२०.५] वंशकर्तार उच्यन्ते सात्त्विकाहारभोजिनाम् //᳚ इति [MBह् ]
SK
[२०.६-८] तस्माद् भगवता नारायणेन ब्रह्मणा च सृष्टानां भृग्वादीनाम् ऋषीणां तद्वंशजानां च निषेकादिक्रियावताम् अद्वारकभगवद्यजनाधिकारवताम् एव लोके वैखानसा इति प्रसिद्धिः.
SK
[चतुर्मुखसृष्टानां सर्वेषां मनुष्याणां वैखानसत्वं समानम् इत्य् आक्षेपस्य परिहारः]
SK
[२०.९] ननु ब्रह्मणा सृष्टानां सर्वेषाम् अपि मनुष्यानां वैखानसत्वं समानम्. [२०.१०-११] कथम् एतेष्व् एव व्यवह्रियते इति चेत् सत्यम्. नामरूबिस् हिएर् तेलुगुपकृत्यविभागादिकं वेदशब्देभ्य एव ब्रह्मणा कृतम् इति श्रूयते. ᳚वेदेन नामरूपे व्याकरोत् सतासती*{२१७}* प्रजापतिर्᳚ इति. [२०.१२] तथा भारते: ᳚अनादिनिधना ह्य् एषा वागुद्सृष्टा स्वयम्भुवा* //{२१८}* [MBह् १२.२२४.५५च्द्]
SK
[२०.१३] आदौ वेदमयी दिव्या यतस् सर्वाः प्रसूतयः* //{२१९}*᳚ इति [MBह् १२.६७१.१]
SK
[२०.१४] श्रीविष्णुपुराणे: ᳚नाम रुपञ् च भूतानां कृत्यानाञ् च प्रअब् हिएर् तेलुगुपञ्चनम् / [२०.१५] वेदशब्देभ्य एवादौ देवादीनां चकार सः //᳚ इति. [Vइष्णुP १.५.६३]
SK
[२०.१६] मनु: ᳚सर्वेषाञ् च स नामानि कर्माणि च पृथक् पृथक् / [२०.१७] वेदशब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे //᳚ [MअनुDह्Ś १.२१]
SK
[२०.१८-१९] इति च नामरूपविभागस्य श्रुतिस्मृतिषु प्रतिपादितत्वात् ब्रह्मणा तादृशश्रुतिस्मृत्यनुसारेण सृष्टानाम् एव वैखानसत्वव्यवहारः. Nआन्येषाम्.
SK
[२०.२०-२३] किञ्च एकस्मिन् परमपुरुषे मुखादिषु जातानां यथा ब्राह्मणादिव्यवहारः यथा विश्वामित्र भारद्वाजादि गोत्रेषूत्पन्नानाम् एकसूत्रनिष्ठत्वं विना अनेकसूत्रानुसारित्वं, यथा च कुमुदकह्लारादिषु ᳚पङ्के जायत᳚ इति व्युत्पत्त्या पङ्कजत्वे समानो ऽपि योगरूढिभ्यां पङ्कजत्वं तामरस एव वर्तते तथैव वैखानसत्वम् अपि. तथोक्तम्: [२०.२४] ᳚कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः / [२०.२५] श्रुतिस्मृतिसदाचार- निर्णेतारस् तु सर्वदा //
SK
!{२१५}! MBह्: पितामहस्य राजेन्द्र पुलस्त्यपुलहादयः.
SK
[२१.१] न काश्चिद् वेदकर्ता ऽस्ति वेदवक्ता चतुर्मुखः / [२१.२] तथैव धर्मं स्मरति मनुः कल्पान्तरान्तरे //᳚
SK
[तृतीयाश्रमनिष्ठानां न नैसर्गिकं वैखानसत्वम्]
SK
[२१.२-६] ननु: ᳚ब्रह्मचारी गृहस्थश् च भिक्षुर् वैखानसस् तथा᳚*{२२०}* इति तत्र तत्र तृतीयाश्रमनिष्ठानाम् एव वैखानसत्वावगमात् त एव वैखानसशब्दवाच्याः किं न स्युर् इति चेत् न. श्रुतिस्मृतिपुराणादिषु उक्तप्रकारेण ब्रह्मणा सृष्टानाम् एव वैखानसत्वावगमात् तेषाम् एव तत्र तत्रोत्कृष्टत्वप्रतिपादनाच् च.*{२२१}*
SK
[वैखानसानां ब्रह्मसभाप्रवेशः]
SK
[२१.७-८] तथा हि: श्रुताव् एव वैखानसानाम् उत्पत्तिः श्रूयते. ᳚ये नखाः ते वैखानसाः᳚*{२२२}* इति. छन्दोग्यब्राह्मणे: ᳚वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्*{२२३}*᳚
SK
[२१.९-११] ᳚पौरुहन् महं भवति. पुरुहान्नादो वा एतेन वैखानसो ऽञ्जसा स्वर्गं लोकम् अपश्यत्᳚ इति. अत्र इन्द्रशब्देन परमात्मा नारायण उच्यते. ᳚स ब्रह्मा स शिवस्सेन्द्रस्सो ऽक्षरः परमस् स्वराट्᳚ इत्यादि श्रुतिभ्यः.*{२२४}*
SK
[२१.१२] ᳚आश्वत्थः कपिला गावस् तुलसी विखनास् तथा* /{२२५}*
SK
[२१.१३] चत्वारो मत्प्रिया राजंस् तेषां वैखानसो वरः* //{२२६}*᳚ [ĀS १९.१०]
SK
[२१.१४] इत्य् उपब्रह्मणात्. ब्रह्मसूत्रे इन्द्रप्राणाधिकरणे तथा निर्णयाच् च.*{२२७}*
SK
[२१.१५] आनुशासनिके: ᳚तथाग्नेस् तस्य भस्मभ्यो*{२२८}* ब्रह्मर्षिगणसमिम्ताः*{२२९}* /
SK
[२१.१६] वैखानसास् समुत्पन्नास् तपश्श्रुतगुणेप्सवः//*{२३०}*᳚ [MBह् १३.८५.१८]
SK
[२१.१७] इति वैखानसनाम्नैवोत्पत्तिप्रतिपादनात्.*{२३१}* [२१.१८] तथा किष्किन्धाकाण्डे: [२१.१९] ᳚शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् // [Rआ.म् ४.३९.५१च्द्]
SK
[२१.२०] तत्र पूर्वं पदं कृत्वा पुरा विष्णुस् त्रिविक्रमे / [२१.२१] द्वितीयं शिखरे रौद्रं*{२३२}* चकार पुरुषोत्तमः // [Rआ.म् ४.३९.५२]
SK
[२१.२२] तदुत्तरे प्रतिक्रम्य*{२३३}* जम्बूद्वीपं दिवाकरः / [२१.२३] दृश्यो भवति भूयिष्ठं शिखरं तन् महोच्छ्रयम् // [Rआ.म् ४.३९.५३]
SK
[२१.२४] तत्र वैखानसा नाम वालखिल्या महर्षयः / [२१.२५] प्रकाशमाना दृश्यन्ते सूर्यवर्णास् तपस्विनः //᳚ इति [Rआम् ४.३९.५४]
SK
!{२२०}! Dइएसेर् Hअल्ब्वेर्स् इस्त् äह्न्लिछ् इन् DHN[D] ५३.३ zइतिएर्त्.
SK
[२२.१] तत्रैव चत्वारिंशे ऽध्याये: [२२.२] मैनाकश् च*{२३४}* विचेतव्यस् ससानुप्रस्थकन्दरः / [२२.३] स्त्रीणाम् अश्वमुखीनाञ् च निकेतास् तत्र तत्र तु // [Rआ.म् ४.४२.३०]
SK
[२२.४] तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् / [२२.५] सिद्धा वैखानसास् तत्र वालखिल्याश् च तापसाः // [Rआ.म् ४.४२.३१]
SK
[२२.६] वन्द्यास् ते तु तपस्सिद्धास् तपसा वीतकल्मषाः / [२२.७] प्रष्टव्या चापि सीतायाः प्रवृत्तिर् विनायान्वितः*{२३५}* // [Rआ.म् ४.४२.३२]
SK
[२२.८] हेमपुष्करसञ्छन्नं तत्र वैखानसं सरः /᳚ [Rआम् ४.४२.३३अब्]
SK
[२२.९] इति च वानप्रस्थपरत्वं विना ᳚वैखानसा वालखिल्या᳚ इति वालखिल्यसमानतया पृथग् वंशत्वेन कीर्तनात्.
SK
[२२.११] तथा श्रीविष्णुपुराणे - द्वितींयांशे नवमे ऽध्याये: [२२.१२] ᳚ततः प्रयाति भगवान् ब्राह्मणैर् अभिरक्षितः / [२२.१३] वालखिल्यादिभिश् चैव प्रभुर् वैखानसैर् अपि // [Vइष्णुP २.८.५८]
SK
[२२.१४] महात्माभिर् महात्मा वै जगतां पालनोद्यतः //᳚ इति [Vइष्णुP ]
SK
[२२.१५] तथा सभापर्वणि:
SK
[२२.१६] पितामहस्य भवनं जग्मुश् च कृपयान्विताः* //{२३६}* [MBह् १.२०३.२च्द्]
SK
[२२.१७] ततो ददृशुर् आत्मानं सह देवैः पितामहम् / [२२.१८] सिद्धैर् महर्षिभिश् चैव समन्तात् परिवारितम्* //{२३७}* [MBह् १.२०३.३]
SK
[२२.१९] तत्र विष्णुर् महादेवस् तत्राग्निर् वायुना सह / [२२.२०] चन्द्रादित्यौ च धर्मश् च परमेष्ठी तथा बुधाः* //{२३८}* [MBह् १.२०३.४]
SK
[२२.२१] वैखानसा वालखिल्यास् सोमपाश् च मरीचिपाः / [२२.२२] अजाश् चैवाजमीढाश् च तेजोगर्भास् तपस्विनः / [२२.२३] ऋषयस् सर्व एवेति पितामहम् उपासते* //{२३९}*᳚ [MBह् १.२०३.५]
SK
[२२.२४-२५] इति च वैखानसानां ब्रह्मसभाप्रवेशवर्णनात्. तस्य च तृतीयाश्रमनिष्ठेष्व् असम्भवात्.
SK
!{२३४}! Rआम्: मैनाकस् तु.
SK
[वानप्रस्थानां श्रौतकर्मनिषेधः]
SK
[२३.१] आनुशासनिके
SK
[२३.२] ᳚शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः / [MBह् १३.१४०.१५च्द्]
SK
[२३.३] वैखानसविधानेन गङ्गातीरं समाश्रिताः // [MBह् १३.१४०.६४७*.१]
SK
[२३.४] आदित्यास् सत्रमीहन्ति सरो वैखानसं प्रति*{२४०}* //᳚ इति [MBह् १३.१४०.१६]
SK
[२३.५-७] अत्र वानप्रस्थविधौ सत्रयागक्रमविधानाभावात् वानप्रस्थाश्रमप्रविष्ठानां तेन शारीरेण पुनर् अपि देवत्वयोग्यता ऽसम्भवाच् च वैखानसविधानेनेति वैखानसपदेन वानप्रस्थानां गृहीतुम् अशक्यत्वात्.
SK
[२३.८] किञ्च श्रीभागवते एकादशस्कन्धे: [२३.९] ᳚वन्यैश् चरुपुरोडाशैर् निर्वपेत् कालचोदिताम् / [२३.१०] न तु श्रौतेन विधिना मां यजेत वनाश्रमी* //{२४१}*᳚ [BहागवतP ११.१८.७]
SK
[२३.११] इति वानप्रस्थानां शरुतविधिनिषेधप्रतिपादनात्.
SK
[भगवदर्चनक्रमः]
SK
[२३.१२] तथा वृद्धमनौ: ᳚वेदान्तवेदिभिर् विप्रैस् तद्वैखानससूत्रिभिः / [२३.१३] याजयेद् यज्ञपुरुषं विष्णुं राजा जगद्धितः //᳚ इति
SK
[वैखानसपाञ्चरात्रिकयोः चतुर्मूर्तिषु संज्ञायां वैषम्यम्]
SK
[२३.१४] तथा आश्वमेधिके:
SK
[२३.१५] युधिष्ठिरह्: ᳚कथं त्वं अर्चनीयो ऽसि मूर्तयः कीदृशाश् च ते*{२४२}* / [MBह् १४, Aप्प्. ४.१६५२]
SK
[२३.१६] वैखानसाः कथं ब्रूयुः कथं वा पाञ्चरात्रिकाः // [MB.ह् १४, Aप्प्. ४.१६५३]
SK
[२३.१७] श्रीभगवान्: ᳚शृणु पाण्डव तत्सर्वम् अर्चनाक्रमम् आत्मनः / [MBह् १४, Aप्प्. ४.१६५४]
SK
[२३.१८] स्थण्डिले पद्मकं कृत्वा साष्टपत्रं*{२४३}* सकर्णिकम् // [MB.ह् १४, Aप्प्. ४.१६५५]
SK
[२३.१९] अष्टाक्षरविधानेन अथवा द्वादशाक्षरैः*{२४४}* / [MBह् १४, Aप्प्. ४.१६५६]
SK
[२३.२०] वैदिकैर् अथवा मन्त्रैर् मम सूक्तेन वा पुनः // [MB.ह् १४, Aप्प्. ४.१६५७]
SK
[२३.२१] स्थितं मां मन्त्रतस् तस्मिन् अर्चयेत् सुसमहितः*{२४५}* / [MBह् १४, Aप्प्. ४.१६५८]
SK
[२३.२२] विष्णुञ् च पुरुषं सत्यम्*{२४६}* अच्युतञ् च युधिष्ठिर*{२४७}* // [MB.ह् १४, Aप्प्. ४.१६५९]
SK
[२३.२३] अनिरुद्धञ् च मां प्राहुर् वैखानसविदो जनाः / [MBह् १४, Aप्प्. ४.१६६०]
SK
[२३.२४] अन्ये त्व् एवं विजानान्ति मां राजन् पाञ्चरात्रिकाः*{२४८}* // [MB.ह् १४, Aप्प्. ४.१६६१]
SK
!{२४०}! MBह्: आदित्याः सत्रमासन्त सरो वै मानसं प्रति; DHN[D] इस्त् व्.ल्.
SK
[२४.१] वासुदेवञ् च राजेन्द्र सङ्कर्षणम् अथापि वा / [MBह् १४, Aप्प्. ४.१६६२]
SK
[२४.२] प्रद्युम्नञ् चानिरुद्धञ् च चतुर्मूर्तिं प्रचक्षते* //{२४९}* [MBह् १४, Aप्प्. ४.१६६३]
SK
[२४.३] एताश् चान्याश् च राजेन्द्र संज्ञाभेदेन मूर्तयः / [MBह् १४, Aप्प्. ४.१६६४]
SK
[२४.४] विद्ध्य् अनर्थान्तरा एव माम् एवञ् चार्चयेद् बुधः* //{२५०}*᳚ इति [MBह् १४, Aप्प्. ४.१६६५]
SK
[२४.५] तथा पाञ्चरात्रे पौष्करसंहितायाम्:
SK
[२४.६] ᳚विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते* //{२५१}* [Pऔष्करS ३६.२६०च्द्]
SK
[२४.७] एकन्तिनस्*{२५२}* सुसत्त्वस्था देहान्तं नान्ययाजिनः / [२४.८] कर्तव्यम् इति देवेशं संयजन्ते फलं विना //᳚*{२५३}* इति [Pऔष्करS ३६.२६१]
SK
[शुद्ध, वैदिक, तान्त्रिकभेदेन पूजात्रैविध्यम्]
SK
[२४.९] तथा तत्रैव तन्त्रभेदनिर्णये: [२४.१०] ᳚शुद्धञ् च वैदिकञ् चेति तान्त्रिकञ् च त्रिधा भवेत् / [२४.११] पाञ्चरात्रेण पूजा तु शुद्धं विष्णोर् इति स्मृतम् // [Pऔष्करS ]
SK
[वैखानसपूजायाः वैदिकत्वं]
SK
[२४.१२] वैखानसेन सूत्रेण पूजयेद् विष्णुम् अव्ययम् / [२४.१३] वैदिकं तद् इति प्रोक्तं द्विजातीनां प्रशस्यते //᳚ इति [Pऔष्करS ]
SK
[२४.१४] तथा विष्णुस्मृतौ: [२४.१५] ᳚पौरुषं सूक्तम् आस्थाय ये यजन्ति द्विजोत्तमाः / [२४.१६] संहिताजपमास्थाय ते मां प्राप्स्यन्ति वै द्विजाः //
SK
[२४.१७] अलाभे वेदमन्त्राणां पाञ्चरात्रोदितेन वा //᳚ इति
SK
[२४.१८] तथा सङ्कर्षणसंहितायाम्: [२४.१९] ᳚पूजयेत् पञ्चरात्रैस् तु मन्त्रैर् मोक्षफलप्रदैः / [२४.२०] वैखानसोक्तैर् दिव्यैर् वा मन्त्रैस् सर्वार्थसिद्धये //᳚ इति [Sअङ्कर्षणसंहिता]
SK
[२४.२१] तथा शिल्पे हरिहरादीनां स्थाननिर्णये: [२४.२२] ᳚सहस्रविप्रावासेषु शतविप्राधिकेषु च / [२४.२३] पञ्चमूर्तिविधानेन मध्ये विष्णुं समर्चयेत् //
SK
[२४.२४] तद्वास्त्वङ्गालये विष्णुं तान्त्रिकेण न चार्चयेत् / [२४.२५] अर्चयेद् वैदिकोक्तेन वैखानसविधानतः //᳚ इति
SK
!{२४९}! Sओ औछ् zइतिएर्त् इन् DHN[D] ४४.२५-४५.१.
SK
[वैष्णवसमयस्य त्रैविध्यम्]
SK
[२५.१] तथा ज्यौतिषे हयग्रीवसंहितायाम्: [२५.२] ᳚श्रीशास्त्रेणैव कर्तव्यं ग्राममध्यालयार्चनम् / [२५.३] पाञ्चरात्रविधानेन नाचरेद् इति शासनम् //᳚ इति [Hअयग्रीवसंहिता]
SK
[२५.४] तथा शैवे च सुप्रभेदे: [२५.५] ᳚सहस्रभूसुराद् ऊर्ध्वे ग्रामे ब्रह्माङ्कणे ऽपि च / [२५.६] वैखानसेन सूत्रेण निषेकादिसुसंस्कृतैः* //{२५४}* [Sउप्रभेद्Ā ]
SK
[२५.७] भार्गवादिमहातन्त्रमन्त्रभेदविचक्षणैः / [२५.८] अनुद्धृतैर् मन्त्रगणैर् वेदवेदान्तसम्भवैः* //{२५५}* [Sउप्रभेद्Ā ]
SK
[२५.९] क्रमाध्ययनसम्पन्नैस् साङ्गोपाङ्गैश् च संस्कृतैः / [२५.१०] पञ्चमूर्तिप्रकारेण प्रतिष्ठाप्यार्चयेद् धरिम् // [Sउप्रभेद्.Ā ]
SK
[२५.११] वैदिकं तद् इति प्रोक्तं राजराष्ट्रविवर्धनम्* //{२५६}*᳚ इति. [Sउप्रबेध्Ā ]
SK
[२५.१२] तथा कारणे ग्रामविन्यासविधौ: [२५.१३] ᳚ब्रह्मांशं तु चतुर्भागं कृत्वा वायव्यभागतः / [२५.१४] पञ्चमूर्तिक्रमेणैव विष्णुं संस्थाप्य पूजयेत् //᳚ इति [Sउप्रभेद्Ā ]
SK
[२५.१५] तथा भीमसंहितायाम् समयभेदोपन्यासावसरे: [२५.१६] ᳚शैवम् एवं समाख्यातं वैष्णवन् त्व् अधुनोच्यते / [२५.१७] वैष्णवञ् च त्रिधा प्रोक्तं तथा समयभेदवत् // [Bहीमसंहिता]
SK
[२५.१८] पाञ्चरात्रं भागवतं तथा वैखानसं मतम् / [२५.१९] शुद्धं मिश्रं तथा सौम्यं यथा संख्यक्रमेण तु // [Bहीमसंहिता]
SK
[२५.२०] वैदिकाचारबाह्यं यत् तद्रौद्रम् इति कीर्तितम् / [२५.२१] वैदिकाचारसम्बन्धात् सौम्यं श्रेष्ठम् उदाहृतम् // [Bहीमसंहिता]
SK
[२५.२२] ग्रामादीनां समीपे तु मिश्रोक्तं स्थापयेद् बुधः / [२५.२३] अब्धिनद्यादितीरेषु*{२५७}* शुद्धोक्तं स्थापयेत् तथा // [Bहीमसंहिता]
SK
[२५.२४] विप्रावासेषु सर्वेषु सौम्योक्तेनैव कारयेत् //᳚ इति [Bहीमसंहिता]
SK
!{२५४}! DHN[T] १४५: निषेकाद्यादिसंस्कृतैः.
SK
[२६.१] तथा गारुडे: ᳚अध्वर्युभिर् विप्रवरैर् मते विखनसस् स्थितैः / [२६.२] तत्राराधनम् ईहस्व विष्णोर् अमिततेजसः //᳚ इति [GअरुडP ]
SK
[श्रीरङ्गे वैखानसार्चनम्]
SK
[२६.३] तथा तत्रैव श्रीरङ्गमाहात्म्ये: [२६.४] ᳚ब्रह्मा ऽपि दिव्यहंसेन सितमेघोपमेन च / [२६.५] पृष्ठतो ऽनुययौ विष्णुं वस्त्रेणाच्छाद्य*{२५८}* चाननम् // [Gअरुड.P ]
SK
[२६.६] तत्रार्चको महाभागो भगवान् विखनास् तथा*{२५९}* / [२६.७] ददौ प्रसादं देवानां रङ्गनाथाभ्यनुज्ञया* //{२६०}*᳚ इति [GअरुडP ]
SK
[२६.८] तथा उपरिचरवसुचरिते: [२६.९] ᳚वैखानसानां वचनैर् जपहोमार्चनादिभिः / [२६.१०] यजेद् धरिं सुरपतिं भूमेर् विवरगो ऽपि सन् //᳚ इति [GअरुडP ]
SK
[वृषगिरौ वैखानसार्चनम्]
SK
[२६.११] तथा वृषगिरिमाहात्म्ये: [२६.१२] ᳚अन्तःप्रविश्य मुनयस् सह वैखानसैर् द्विजैर् / [२६.१३] प्रणमन्त्य् अन्वहं देवं नारायणम् अनामयम् //᳚ इति [GअरुडP ]
SK
[२६.१४] तथा आग्नेयपुराणे फुल्लारण्यमाहात्म्ये: [२६.१५] ᳚फुल्लशिष्यास् तु यक्षास् ते पूजयन्ति युगे युगे / [२६.१६] वैखानसेन विधिना यथा फुल्लमुखाच् च्युतम् // [Aग्निP ]
SK
[२६.१७] मानुषाः पूजयन्तीह वैखानसमते स्थिताः //᳚ इति [Aग्निP ]
SK
[२६.१८] तथा ब्रह्मकैवर्ते पुष्करतीर्थवैभववर्णने: [२६.१९] ᳚निम्नगानां यथा गङ्गा देवानां भगवान् हरिः / [२६.२०] वर्णानां ब्राह्मणाश् श्रेष्ठा आश्रमाणां यतिर् यथा // [Bरह्मकैवर्तP ]
SK
[२६.२१] श्रुतीनाम् आदिभूतानाम् आदिर् एकायनी यथा / [२६.२२] व्यूहानाम् आदिभूतस् तु वासुदेवो यथा वरः / [२६.२३] त्रिमूर्तीनां यथा विष्णुश् शिवानान् तु सदाशिवः* //{२६१}* [Bरह्मकैवर्तP ]
SK
[विप्रेषु वैखानसानां, सूत्रेषु वैखानससूत्रस्य च श्रेष्ठ्यम्]
SK
[२६.२४] धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः / [२६.२५] विप्राणां वेदविदुषां यथा वैखानसो वरः* //{२६२}* [Bरह्मकैवर्तP ]
SK
!{२५८}! DHN[D] ७.२६: वस्त्रेणोच्छाद्य.
SK
[२७.१] सूत्राणां तत्प्रणीतन् तु यथा श्रेष्ठतमं स्मृतम् / [२७.२] तथैव पुष्करो राजंस् तीर्थानाम् उत्तमोत्तमः* //{२६३}*᳚ [Bरह्मकैवर्तP ]
SK
[२७.३-६] इति च प्रतिपादनात् ईदृशानां वैखानसानाम् एव श्रुतिस्मृतीतिहासपुराणादिषु चतुर्मुखात् सामान्यत्वेन विना सर्वोत्कृष्टत्वेनोत्पत्तिश्रवणात् ब्रह्मसभाप्रवेशसूर्यपथाद्याश्रयणादिप्रतिपादनाच् च वैखानसा न तृतीयाश्रमनिष्ठाः, न वा ब्रह्मणा सामान्यतः सृष्टा भवितुम् अर्हन्ति.
SK
[जम्बुद्वीपे भारतवर्शस्य श्रेष्ठ्यम्]
SK
[२७.७] श्रीविष्णुपुराणे: ᳚अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने / [२७.८] यतो हि कर्मभूर् एषा ह्य् अतो ऽन्या भोगभूमयः // [Vइष्णु.P २.२.२२]
SK
[२७.९] कृतं त्रेता द्वापरञ् च कलिश्चान्यत्र न क्वचित् / [२७.१०] तपस् तप्यन्ति यतयो जुह्वते चात्र यज्वनः // [Vइष्णुP ]
SK
[२७.११] दानानि चात्र दीयन्ते परलोकार्थम् आदरात् / [२७.१२] पुरुषैर् यज्ञपुरुषो जम्बूद्वीपे सदेज्यते // [Vइष्णु.P ]
SK
[२७.१३] यज्ञैर् यज्ञमयो विष्णुर् अन्यद्वीपेषु चान्यथा // [Vइष्णुP ]
SK
[२७.१४] अत्र जन्मसहस्राणां सहस्रैर् अपि सत्तम / [२७.१५] कदाचिल्लभते जन्तुर् मानुष्यं पुण्यसञ्चयात् //᳚ [Vइष्णुP २.२.२३]
SK
[२७.१६-१९] इति भारतखण्डव्यतिरिक्तस्थलेषु ब्रह्मचर्याद्याश्रमादिव्यवस्थाव्यवहाराद्यभवात् पाञ्चरात्रशिल्पज्यौतिषादिषु एषाम् अद्वारकभगवद्यजनाधिकारित्वपरमवैदिकपरमैकान्तित्वादेः प्रतिपादनाङ् च एष्व् एव वैखानसत्वं नैसर्गिकम्. वानप्रस्थेषु वैखानसत्वं न नैसर्गिकम्.
SK
[२७.२०-२२] किन्तु तेषां सूत्रान्तरेष्व् अनुक्तानां वानप्रस्थाश्रमस्वीकारप्रयोगश्रामणकाग्निकुण्डविधानादीनां विखनस् सूत्रे प्रतिपादितानां तत्सूत्रोक्तप्रकारेण वानप्रस्थाश्रमस्वीकारादिनैव वैखानसत्वसिद्धिर् इति.
SK
[२७.२३] इदम् एवाह बौधायनः:
SK
[वानप्रस्थानां मुख्यवृत्त्या वैखानसशब्दवाच्यत्वाभावः]
SK
[२७.२४-२८.२] ᳚वानप्रस्थो वैखानसशास्त्रसमुदाचारो वने मूलफलाशी तपश्शीलस् सवनेषूदकम् उपस्पृशन् श्रामणकेनाग्निम् आधायाग्राम्यभोजी देवपितृमनुष्यभूतर्षिपूजकः सर्वातिथिः प्रतिषिद्धवर्जं भैक्षम् अप्य् उपयुञ्जीत. न फालकृष्टम् अधितिष्ठेत् ग्रामं वा न प्रविशेत्᳚*{२६४}* इति.
SK
!{२६३}! Dइएसेर् Vएर्स् इस्त् औछ् अल्स् ᳚Bरह्मकैवर्तपुराण᳚ zइतिएर्त् इन् DHN[D] ४२.१०-११.
SK
[२८.३] मनुः: ᳚अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रयम् //᳚*{२६५}* इत्य् आरभ्य
SK
[२८.४] ᳚पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा / [२८.५] कालपक्वैस् स्वयं शीर्णैर् वैखानसमते स्थितः //᳚*{२६६}* इति [MअनुDह्Ś ६.२१]
SK
[२८.६-८] हारीत: ᳚वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत्. त्रेताग्नीनां स्थाने श्रामणकं वाग्निम् आधाय वल्कलशाणचर्मकुशमुञ्जादिवल्कलं वा वसानो वैखानसप्रोक्तेन विधिना वानप्रस्थो भवति. अनुज्ञायिको ऽनुप्रस्थायिक᳚ इति.
SK
[२८.९] यम: ᳚श्रामणकेन विधानेन सायं प्रातर् उपस्पृशेद्᳚ इति.
SK
[२८.१०-११] शङ्खलिखितौ: ᳚श्रामणकेनाग्निम् आधाय काले कुरुविन्दवेणुश्यामाकनीवारादिभिर् वर्तयेद्᳚*{२६७}* इति.
SK
[२८.१२] वसिष्ठो ऽपि: ᳚श्रामणकेनाग्निम् आधायाहिताग्निर् वृक्षमूलिक᳚ इति.
SK
[२८.१३] अस्य यज्ञस्वामिव्याख्याने:
SK
[२८.१४] ᳚श्रामणकं नाम वैखानसशास्त्रम्. तदुक्तेन विधिनाग्निम् आधाय᳚ इति.
SK
[२८.१५] शुकानुशासने व्यासो ऽपि:
SK
[२८.१६] ᳚मूलैर् एके फलैर् एके पुष्पैर् एके दृढव्रताः / [MBह् १२.२३६.१३च्द्]
SK
[२८.१७] वर्तयन्ति यथान्यायं वैखानसमते स्थिताः* //{२६८}*᳚ इति [MBह् १२.२३६.१४अब्]
SK
[२८.१८] स्मृत्यन्तरम् अपि: ᳚यस्मिन्न् एव तु सम्प्रोक्तं सूत्रे विखनसा परम् / [२८.१९] वनस्थानान् तु सर्वेषां विधिश्रामणकाभिधः* //{२६९}*
SK
[२८.२०] वानप्रस्थास् ततस् सर्वे ये द्विजास् त्व् अन्यसूत्रिणः / [२८.२१] तत्सूत्रविध्यनुष्ठानात् स्मृता वैखानसास् तु ते* //{२७०}*᳚ इति च वर्णयन्ति.*{२७१}* [ĀS ११.४]
SK
[२८.२२] अतश् च वानप्रस्था मुख्यत्वेन वैखानसशब्दवाच्या न भवन्ति.*{२७२}*
SK
[२८.२३] आनुशासनिके च:
SK
[२८.२४] ᳚तं पतन्तम् अभिप्रेक्ष्य*{२७३}* प्रेक्ष्य च र्षिगणानथ / [MBह् १३, Aप्प्. १A.३१३]
SK
[२८.२५] आसीनान*{२७४}* वसुभिस् सार्धं सत्रेण जगतीपतेः // [MBह् १३, Aप्प्. १A.३१४]
SK
!{२६५}! MअनुDह्Ś ६.१अब् व्.ल्. Dइएसेर् Hअल्ब्वेर्स् इस्त् äह्न्लिछ् अल्स् ᳚Mअनु᳚ zइतिएर्त् इन् DHN[D] ९२.५.
SK
[२९.१] वैखानसानाम् एतेषां*{२७५}* वालखिल्यगणान् अपि / [MBह् १३, Aप्प्. १A.३१५]
SK
[२९.२] तस्य भीराविशत्तत्र पतगेन्द्रस्य भारत // [MB.ह् १३, Aप्प्. १A.३१६]
SK
[२९.३] तुण्डेन गृह्य तां शाखाम् उत्पपात खगेश्वरः //᳚ इति [MBह् १३, Aप्प्. १A.३१८]
SK
[२९.४] तत्रैवोमामहेश्वरसंवादे:
SK
[२९.५] ᳚वैखानसानां वै धर्मं श्रोतुम् इच्छामि धर्मतः* //{२७६}* इत्य् आरभ्य
SK
[२९.६] तेषु वैखानसा नाम वानप्रस्थाश् शुभेक्षणे / [MBह् १३, Aप्प्. १५.७०२]
SK
[२९.७] तीव्रेण तपसा युक्ता*{२७७}* दीप्तिमन्तस् सुतेजसः //᳚ इति [MBह् १३, Aप्प्. १५.७०३]
SK
[२९.८] हरिवंशे च अक्रूरागमनसमये:
SK
[२९.९] ᳚शकपोत्राव्यया? मोदे प्रदोषे ऽभ्याशतस्*{२७८}* करे* /{२७९}* [HअरिV ६८.४]
SK
[२९.१०] किञ्चिद् अभ्युदिते सोमे शातितेषु तमस् सु च* //{२८०}* [Hअरिव् ६८.९]
SK
[२९.११] वन्यैर् वैखानसैर् मन्त्रैः हूयमाने हुताशने //᳚ इति. [HअरिV ६८.५च्द्]
SK
[२९.१२] पाद्मे च: ᳚ब्राह्मणं वृद्धहारीतं वैखानसमते स्थितम् //᳚ इति च वर्णनात्*{२८१}* [Pअद्मP ]
SK
[२९.१३-१५] वानप्रस्थस्य श्रौतविषये पृथक्त्वेन मन्त्रप्रतिपादनाभावाच् च बोधायनादिभिर् उक्तप्रकारेण*{२८२}* वानप्रस्थस्य वैखानसत्वं वैखानससूत्रोक्तवानप्रस्थाश्रमस्वीकाराद् एवेत्य् अवगन्तव्यम्.*{२८३}* एतावता विखनश् शब्दार्थो निर्णीतः.*{२८४}*
SK
[२९.१६] (आद्यहेतुनिरूपणप्रकारः)
SK
[वैखानससूत्रशास्त्रयोर् विखनसा प्रणीतत्वम्]
SK
[२९.१७-१८] *{२८५}*अथ वैखानससूत्रशास्त्रयोः*{२८६}* अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वम् उपपाद्यते. [२९.१९] विष्णुधर्मे: ᳚कथयामि यथापूर्वं मत्पित्रा कथितं मम / [२९.२०] तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः* //{२८७}* [Vइष्णुDह् १.३८]
SK
!{२७५}! MBह्: वैखानसान् नाम यतीन्.
SK
[३०.१] तेनापि भृगुम् आराध्य प्राप्तम्*{२८८}* आराधनं हरेः / [३०.२] सकाशाद् ब्रह्मणः प्राप्तं*{२८९}* भृगुणापि महात्मना // [Vइष्णुD.ह् १.३९]
SK
[३०.३] प्राप्तं सकाशाद् देवस्य ब्रह्मणो ऽव्यक्तजन्मनः //᳚ इति. [Vइष्णुDह् १.४०अब्]
SK
[वैखानसमार्गस्य उपदेशपरमंपरा]
SK
[३०.४] हारीतस्मृतौ: ᳚पूर्वं विखनसो*{२९०}* विष्णुः प्रोक्तवान् स्वयम् अच्युतः / [३०.५] भृगोः प्रोक्तं विखनसा भृगुणा च ममेरितम् //᳚ इति
SK
[पाञ्चरात्रागमोत्पत्त्यादिप्रकारः]
SK
[३०.६] गारुडे: ᳚पुरा चतुर्मुखादेशाच् चत्वारो मुनयो ऽमलाः / [३०.७] प्रणीय वैष्णवं शास्त्रं भूमाव् अभ्यर्चयन् नृप // [GअरुडP ]
SK
[३०.८] मरीचिर् मन्दरे विष्णुं अर्चयमास केशवम् / [३०.९] आदेशाद् ब्रह्मणो विष्णुं श्रीनिवासे ऽत्रिर् अर्चयेत् // [GअरुडP ]
SK
[३०.१०] कश्यपो विष्ण्वधिष्ठाने शुभक्षेत्रे भृगुर् मुनिः / [३०.११] गङ्गाया दक्षिणे तीरे सीम्नि तस्यान्तिके ऽपि च* //{२९१}* [GअरुडP ]
SK
[३०.१२] तत्सन्धौ शुचिषण्णामा*{२९२}* भृगुणा स्थापितो हरिः //᳚ इति चोक्तम् [GअरुडP ]
SK
[३०.१३] पाञ्चरात्रे: ᳚आद्ये कलियुगे प्राप्ते सोमकेन हृता त्रयी / [३०.१४] अवैदिकेषु लोकेषु दैवतेषु मुनिष्व् अपि //
SK
[३०.१५] भगवन्तं समासाद्य नारायणम् अनामयम् / [३०.१६] अनन्तो गरुडश् चैव विष्वक्सेणः पितामहः //
SK
[३०.१७] शङ्करश् चैव पञ्चैते पप्रच्छुः शरणं गताः / [३०.१८] क्षणम् अप्य् अच्युतस्यार्चां त्यक्तुम् एव न शक्नुमः //
SK
[३०.१९] अवैदिकेषु लोकेषु किं कुर्मश् चलमानसाः / [३०.२०] तस्माद् उपायं लक्ष्मीश वदास्माकं चिरन्तन*{२९३}* //
SK
[३०.२१] इत्य् उक्तस् स हरिस् तेभ्यः*{२९४}* पञ्चरात्रविधिं क्रमात् / [३०.२२] एकैकरात्रम् एकस्मै तन्त्रं समुपदिष्टवान् //
SK
[३०.२३] पञ्चलक्षप्रमाणेन पञ्चरात्रं प्रपञ्चितम् //᳚ इत्य् उपक्रम्य
SK
[३०.२४] ᳚प्रथमं ब्रह्मरात्रन् तु द्वितीयं रुद्ररात्रकम् / [३०.२५] तृतीयम् इन्द्ररात्रं यच्*{२९५}* चतुर्थं ग्रहरात्रकम् //
SK
!{२८८}! DHN[T] १६०: प्रोक्त (प्राप्त)म्.
SK
[३१.१] पञ्चमं मुनिरात्रन् तु पञ्चरात्रं विधीयते / [३१.२] रात्रिभिः पञ्चभिः प्रोक्तं श्रुतं शिष्यैश् च पञ्चभिः //
SK
[३१.३] तस्मात् तत् पञ्चरात्राख्यां लब्ध्वा तिष्ठति भूतले //᳚
SK
[३१.४-५] इत्य् अन्तेन*{२९६}* पाञ्चरात्रस्योत्पत्त्यादिकं निरूप्य परमवैदिकस्य श्रीवैखानसस्योत्पत्त्यादिकं प्रतिपाद्यते.*{२९७}*
SK
[वैखानसशास्त्रोत्पत्त्यादिप्रकारः]
SK
[३१.६] अथ मत्स्याकृतिः श्रीशः प्रविश्याम्बुधिमध्यमम् / [३१.७] निर्मथ्य सोमकं वेदान् अदात् पङ्कजयोनये //
SK
[३१.८] तादृशं पुण्डरीकाक्षं स्तोत्रैस् सन्तोष्य पद्मभूः / [३१.९] उवाच वचनं प्रेम्णा दण्डवत् प्रणिपत्य च //
SK
[३१.१०] तान्त्रिकेण त्वया प्रोक्तं मार्गेण भवद् अर्चनम्*{२९८}* / [३१.११] न प्रसीदति तेनास्मन् मनः कमललोचन //
SK
[३१.१२] वैदिकेन त्वद् अर्चां मे यथापूर्वं वदाच्युत / [३१.१३] इत्य् उक्तो भगवान् देवः शास्त्रं श्रुतिपथागतम् //
SK
[३१.१४] सहस्रकोटिभिः श्लोकैस् सङ्ख्यातं बहुविस्तरम् / [३१.१५] सूत्रमूलम् अनाद्यन्तं कल्पे कल्पे समाश्रितम् //
SK
[३१.१६] उवाच जगतां प्रीत्यै यज्ञानां पूरणाय च / [३१.१७] मूलं सर्वागमानाञ् च पुराणानां तथैव च //
SK
[३१.१८] स्मृतीनां सर्वसूत्राणां प्रत्यङ्गोपाङ्गशोभिनाम् / [३१.१९] वेदाश् च विखनश्शास्त्रं प्रमाणम् इति चेरयन् //
SK
[३१.२०] यथा वैखानसं पूर्वे ऽहन् सामभवतीति*{२९९}* च / [३१.२१] ये नखा भुवि सञ्जातास् ते वै वैखानसा इति //
SK
[३१.२२] श्रुत्युक्तं तद् इदं शास्त्रं वैखानसमहार्णवम् / [३१.२३] इत्य् उक्त्वा भगवान् आद्यस् तत्रैवान्तरधीयत //
SK
[३१.२४] ततः परं चतुर्वक्त्रो जटाकाषायदण्डभृत् / [३१.२५] नैमिशारण्यम् आसाद्य द्विजसङ्घनिषेवितम्*{३००}* //
SK
!{२९६}! DHN[T] १६२: (इद्धम्).
SK
[३२.१] तपस् तप्त्वा चिरं कालं ध्यायंस् तेजस् तु वैष्णवम् / [३२.२] पश्चाद् अपश्यद् विष्णूक्तम् आगमं विस्तरात् तदा //
SK
[३२.३] सश्रौतञ् च सगृह्यञ्*{३०१}* च वेदमन्त्रैर् अभिष्टुतम् / [३२.४] संक्षिप्य सारम् आदाय शाणोल्लिखितरत्नवत् //
SK
[३२.५] धाता विखनसो नाम*{३०२}* मरीच्यादिसुतान् मुनीन् / [३२.६] अबोधयद् इदं शास्त्रं सार्धकोटिप्रमाणतः*{३०३}* //
SK
[३२.७] कल्पे कल्पे पुरा विष्णुर् उद्भूतः पूर्ववत् सदा / [३२.८] तस्माद् वैदिकम् आचारं यः कर्तुं भुवि वाञ्छति //
SK
[३२.९] तस्येदं शास्त्रम् इत्य् उक्तं नेतरेषाभितीरितम् //᳚
SK
[वैखानससूत्रस्य तत्सूत्रिणां च माहात्म्यम्]
SK
[३२.१०] पुरातन्त्रे सप्तचत्वारिंशे ऽध्याये: [३२.११] ऋषय ऊचुः: ᳚वैखानसस्य सूत्रस्य किं माहात्म्यं महामुने / [३२.१२] विहाय सर्वसूत्राणि यत् त्वया चानुवर्तितम् // [Pउरातन्त्र.]
SK
[३२.१३] तत्सूत्रिणाञ् च माहात्म्यं श्रोतुम् इच्छामहे वयम् / [३२.१४] समूर्तस्यास्य यज्ञस्य ये योग्याः इति कीर्तिताः // [Pउरातन्त्र.]
SK
[३२.१५] भृगुः: युष्माभिः परिपृष्टं यत् सम्यग् वक्ष्यामि सुव्रताः / [३२.१६] श्रुण्वन्तु मुनयस् सर्वे सूत्रमाहात्म्यम् उत्तमम् // [Pउरातन्त्र]
SK
[३२.१७] सुप्तोत्थितश् चिरं ब्रह्मा स्रष्टुकामः पुराभवत् / [३२.१८] सस्मार वेदान् अखिलान् न सृष्टिस् सम्प्रवर्तते // [Pउरातन्त्र.]
SK
[३२.१९] चिरं सुप्तस्य वै धातुस् तमसाक्रान्तचेतसः / [३२.२०] विस्मृता निखिला वेदा हृदये तस्य संस्थिताः // [Pउरातन्त्र.]
SK
[३२.२१] चिन्तातुरस् तदा ब्रह्मा नालङ्कर्तुं किम् अप्य् अभूत् / [३२.२२] ततश् चिन्तान् तु तां त्यक्त्वा स्वस्थचित्तः प्रजापतिः // [Pउरातन्त्र.]
SK
[३२.२३] हृद्पद्ममध्ये पुरुषं परमेण समाधिना / [३२.२४] अर्चयामास वै विष्णुम् ऋग्यजुस्सामरूपिणम् // [Pउरातन्त्र.]
SK
!{३०१}! DHN[T] १६४: ससूत्रं.
SK
[दक्षादिनवब्रह्मसृष्टिः]
SK
[३३.१] तुष्टाव च तदा ब्रह्मा हरिप्रवणमानासः / [३३.२] ननाम च तदा विष्णुं शङ्खचक्रगदाधरम् // [Pउरातन्त्र.]
SK
[३३.३] ब्रुवतो भगवद्ध्यानात् विनष्टतमसो विधेः / [३३.४] सत्त्वोद्रिक्तस्य तस्याशु नैर्मल्यं हृदये ऽभवत् // [Pउरातन्त्र]
SK
[३३.५] ततस् तु भगवान् ब्रह्मा छन्दोमूलम् अवाप्तवान् / [३३.६] तस्य दक्षिणतो वक्त्रात् तुष्टाव जगतः पतिम् // [Pउरातन्त्र]
SK
[३३.७] सस्मार विविधान् वेदान् साङ्गान् उपनिषद्गणान् / [३३.८] पुराणन्यायमीमांसा धर्मशास्त्राणि सर्वशः // [Pउरातन्त्र.]
SK
[३३.९] अन्तर्हितानां खननाद् वेदानान् तु विशेषतः / [३३.१०] स विभुः प्रोच्यते सर्वैर् विखना ब्रह्मवादिभिः // [Pउरातन्त्र.]
SK
[३३.११] वैखानसश् च भगवान् प्रोच्यते स पितामहः*{३०४}* / [३३.१२] ततस् ससर्ज भगवान् विश्वयोनिः पितामहः // [Pउरातन्त्र]
SK
[३३.१३] जगत् सर्वम् अशेषेण वेददृष्टेन वर्त्मना / [३३.१४] प्राणाच् च चक्षुषस् तद्वद् अभिमानाच् च कर्मणः*{३०५}* // [Pउरातन्त्र]
SK
[३३.१५] हृदयाच् छिरसश् श्रोत्राद् उदानाद् व्यानतस् ततः / [३३.१६] समानाच् च तथापानाद् ऋष्टिश्रेष्ठानिमान् दश* //{३०६}* [Pउरातन्त्र]
SK
[३३.१७] दक्षं मरीचिनं नीललोहितं भृगुम् एव च / [३३.१८] तथाङ्गिरसम् अत्रिञ् च पुलस्त्यं पुलहं तथा* //{३०७}* [Pउरातन्त्र]
SK
[३३.१९] वसिष्ठञ् च क्रतुञ् चैव क्रमाद् असृजद् अब्जभूः / [३३.२०] नव ब्रह्माण एवैते विना स्युर् नीललोहितम्* //{३०८}* [Pउरातन्त्र]
SK
[३३.२१] वेदानां व्यसनाद् अर्वाक् प्राग्रूपं मिलितन् तु यत् / [३३.२२] तान् तु वैखानसीं शाखां आदावध्यापयन् मुनीन्* //{३०९}* [Pउरातन्त्र]
SK
[३३.२३] (नाम्ना विखनसं प्राहुर् यञ् च वैखानसं तथा* //{३१०}* [Pउरातन्त्र]
SK
[३३.२४] भृग्वङ्गिरोमरीच्यत्रिपुलस्त्यपुलहाः क्रतुः /
SK
!{३०४}! Vओन् अन्तर्हितानां बिस् पितामहः औछ् zइतिएर्त् अल्स् ᳚Āनन्दसंहिता᳚ इन् DHN[D] ८.४-६.
SK
[३४.१] तथा वसिष्ठो दक्षश् च नव ब्रह्माण ईरिताः* //{३११}* [Pउरातन्त्र]
SK
[३४.२] नव ब्रह्माण एवैते विना स्युर् नीललोहितम्* //{३१२}* [Pउरातन्त्र]
SK
[दक्षादीनां नवानां विखनश् शिश्यत्वम्]
SK
[३४.३] एते विखनसश् शिष्याः श्रुतिस्मृतिविधानतः / [३४.४] तच्छिष्यास् तु महात्मनो मुनयस् तत्त्वदर्शिनः // [Pउरातन्त्र.]
SK
[३४.५] वेदानुगानि शास्त्राणि चक्रुर् लोकहितैषिणः / [३४.६] केचित् सूत्रणि वै चक्रुः गृह्यश्रौतात्मिकानि तु // [Pउरातन्त्र]
SK
[३४.७] धर्मशास्त्राणि केचित् तु पुराणानि च केचन / [३४.८] इतिहासांस् तथा कल्पान् प्रोचुरन्ये महार्षयः // [Pउरातन्त्र.]
SK
[वैकानसशाखानिष्पत्तिप्रकारः]
SK
[३४.९] तान् तु वैखानसीं शाखां स्वसूत्रे विनियुक्तवान् / [३४.१०] पद्मभूः परमो धाता तस्मिन्न् आराधनत्रयम्*{३१३}* // [Pउरातन्त्र.]
SK
[३४.११] तान् तु वैखानसीं शाखां व्यासस् तु भगवान् मुनिः / [३४.१२] चक्रे ऋगादिभेदैस् तु व्यसित्वा तु पृथक् पृथक् // [Pउरातन्त्र]
SK
[३४.१३] औद्गात्रं सामभिर् यागे ब्राह्मम् आथर्वणेन च / [३४.१४] हौत्रम् ऋग्भिर् यजुर् मन्त्रैर् आध्वर्यवम् अकारयत् // [Pउरातन्त्र.]
SK
[३४.१५] आम्नायस्य विधिर् ब्राह्मः पञ्चकाण्डात्मिका तु सा / [३४.१६] सा च वैखानसी शाखा तैत्तिरीया च कीर्तिता // [Pउरातन्त्र]
SK
[३४.१७] आदिकाले तु भगवान् ब्रह्मा तु विखाना मुनिः / [३४.१८] यजुश् शाखानुसारेण चक्रे सूत्रं महत्तरम् // [Pउरातन्त्र]
SK
[३४.१९] वर्णाश्रमाचारयुतं श्रौतस्मार्तसमन्वितम् / [३४.२०] यस्मिन्न् एव तु सम्प्रोक्तं सूत्रे विखनसा परम् // [Pउरातन्त्र]
SK
[३४.२१] वनस्थानान् तु सर्वेषां विधिश् श्रामणकाभिधः* /{३१४}*
SK
[३४.२२] वानप्रस्थास् ततस् सर्वे ये द्विजाश् चान्यसूत्रिणः / [३४.२३] तत्सूत्रविध्यनुष्ठानात् स्मृता वैखानसास् तु ते* //{३१५}* [Pउरातन्त्र]
SK
[३४.२४] यत्सूत्राद्यन्तमध्येषु भगवान् विष्णुर् अव्ययः /
SK
!{३११}! Dइएसेर् Vएर्स् इस्त् äह्न्लिछ् अल्स् ᳚Mअहाभारत᳚ इन् DHN[D] २०.२-३.
SK
[३५.१] यष्टव्यो गीयते यस्मात् सर्वसूत्रोत्तमन् तु तत् // [Pउरातन्त्र]
SK
[३५.२] वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः / [३५.३] सर्वैस् स धर्मो ऽनुष्ठेयो नात्र कार्या विचारणा*{३१६}* // [Pउरातन्त्र]
SK
[वैखानससूत्रस्य सूत्रान्तरानपेक्षत्वम्]
SK
[३५.४] स्वसूत्रस्य परित्यागाद् अन्यसूत्रस्य संश्रयात् / [३५.५] सद्यः पतति वै विप्रो न वेदस्य समाश्रये* //{३१७}* [Pउरातन्त्र]
SK
[३५.६] एतद् वैखानसं सूत्रम् अन्यशास्त्रानपेक्षितम् // [Pउरातन्त्र]
SK
[३५.७] एतद् वैखानसं सूत्रं सर्ववेदार्थसङ्ग्रहम् / [३५.८] वैष्णवं सर्वविप्राणां सामान्यम् अभिधीयते // [Pउरातन्त्र]
SK
[३५.९] वैखानसस्य सूत्रस्य चाग्नेः श्रामणकस्य च / [३५.१०] नारायणस्य देवस्य माहात्म्यं नावबुद्ध्यते // [Pउरातन्त्र]
SK
[३५.११] यथा वेदेषु सर्वेषु सामवेदः प्रशस्यते / [३५.१२] तथा सूत्रेषु सर्वेषु सूत्रम् एतद् प्रशस्यते // [Pउरातन्त्र]
SK
[३५.१३] अग्निर् वैखानसं शास्त्रं विष्णुर् वेदाश् च शाश्वताः / [३५.१४] गायत्री वैष्णवा विप्रास् सप्तैते ऽतिपवित्रकाः // [Pउरातन्त्र]
SK
[३५.१५] यदधीतेषु वेदेषु साङ्गेषु लभते फलम् / [३५.१६] तत्फलं लभते सद्यः सूत्रम् एतत् पठन् द्विजः // [Pउरातन्त्र]
SK
[३५.१७] अग्नीषोमादयो देवा ये यज्ञांशहविर् भुजः /
SK
[३५.१८] ...... [३५.१९] *{३१८}*शारीराण्य् अन्यसूत्राणि तथा स्वर्गफलानि च / [३५.२०] वैष्णवं सूत्रम् एत्तु*{३१९}* सर्वसिद्धिकरं परम् // [Pउरातन्त्र]
SK
[३५.२१] आद्यत्वात् सर्वसूत्राणां वैष्णवत्वाच् च तत् तु वै / [३५.२२] मयानुवर्तितं तद्वत्कश्यपात्रिमरीचिभिः* //{३२०}* [Pउरातन्त्र]
SK
[३५.२३] गृहे पुरुषपूजाया विधानम् ऋषिसत्तमाः /
SK
!{३१६}! Dइएसेर् Vएर्स् इस्त् अल्स् ᳚Pउरातन्त्र᳚ औछ् इन् DHN[D] ८३.२१-२२ zइतिएर्त्; अल्स् ᳚Āनन्दसंहिता᳚ (ĀS ४.४९) इन् DHN[D] १४.११-१२.
SK
[३६.१] उक्तं सङ्केपतः*{३२१}* सूत्रेनोक्तम् आलयपूजनम् // [Pउरातन्त्र]
SK
[३६.२] प्रोक्तं विखनसा सूत्रे ऋषीणां ब्रह्मवादिनाम् / [३६.३] तेषान् तु हविर् आदत्ते विष्णुस् साक्षात् सनातनः // [Pउरातन्त्र]
SK
[३६.४] शतक्रतूनां यजतो यत्फलं परिकीर्तितम् /
SK
[आलये पञ्चमूर्त्यर्चनस्य श्रैष्ठ्यम्]
SK
[३६.५] आलये पञ्चमूर्तीनाम् अर्चनन् त्व् अधिकं भवेत् // [Pउरातन्त्र]
SK
[३६.६] आलायार्चा गृहार्चेति चोभयं श्रुतिचोदितम् / [३६.७] तेनादौ सकलं नोक्तं ग्रन्थविस्तरभीरुणा // [Pउरातन्त्र]
SK
[३६.८] उक्तशेषम् अनुक्तञ् च विस्तरेण मयोच्यते / [३६.९] विष्णुञ् च पुरुषं सत्यम्*{३२२}* अच्युतञ् चानिरुद्धकम् // [Pउरातन्त्र]
SK
[३६.१०] ᳚एष पुरुषः पञ्चधा पञ्चात्मे᳚ त्य् आह च श्रुतिः / [३६.११] अस्माभिर् अपि तत्सूत्र- मतगामिभिर् एव तु // [Pउरातन्त्र]
SK
[३६.१२] पञ्चमूर्तिविधानेन शास्त्रम् एतद् उदाहृतम् / [३६.१३] तस्माद् अत्र मयोक्तस्य होमस्याग्न्यालयस्य च // [Pउरातन्त्र]
SK
[३६.१४] पुण्याहवास्तुसामान्य- होमादीनाञ् च कर्मणाम् / [३६.१५] ये ऽन्ये च मन्त्रास् ते ग्राह्यास् सूत्रे विखनसा स्मृताः // [Pउरातन्त्र.]
SK
[३६.१६] आलयार्चविधिस् सो ऽयं वैदिकस् सर्वसिद्धिदः / [३६.१७] सर्वलोकहितार्थाय प्रोक्तो ऽस्माभिर् विशेषतः // [Pउरातन्त्र.]
SK
[वैखानसानम् गर्भवैष्णवत्वम्]
SK
[३६.१८] आलयार्चणकर्मेदं वैदिकं भगवत्प्रियं / [३६.१९] अनुष्ठेयं द्विजश्रेष्ठैः तद्वैखानससूत्रिभिः // [Pउरातन्त्र.]
SK
[३६.२०] ये वैखानससूत्रेण संस्कृतास् तु द्विजातयः / [३६.२१] ते विष्णुसदृशा ज्ञेयाः सर्वेषाम् उत्तमोत्तमाः // [Pउरातन्त्र.]
SK
[३६.२२] वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् / [३६.२३] नारायणः स्वयं गर्भे मुद्रां धारयते निजाम्* //{३२३}* [Pउरातन्त्र]
SK
[वैखानसपूजायः भगवत्प्रीतिकरत्वम्]
SK
[३६.२४] विप्रा वैखानसाख्या ये ते स्मृता भगवत्प्रियाः /
SK
!{३२१}! Lइएस्: सङ्क्षेपतः.
SK
[३७.१] एकान्तिनस् सुसत्त्वस्था देहान्तं नान्ययाजिनः* //{३२४}* [Pउरातन्त्र]
SK
[३७.२] विष्णोः प्रियतमा लोके चत्वारः परिकीर्तिताः / [३७.३] अश्वत्थः कपिला गावस् तुलसी विखनास् तथा*{३२५}* // [Pउरातन्त्र.]
SK
[३७.४] द्विजेषु ब्राह्मणाः श्रेष्ठाः ब्राह्मणेषु च वैष्णवाः / [३७.५] वैष्णवेषु द्विजाः श्रेष्ठा ये वैखानससूत्रिणः // [Pउरातन्त्र.]
SK
[३७.६] वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा / [३७.७] गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते* //{३२६}* [Pउरातन्त्र]
SK
[३७.८] तस्माद् वैखानसा विप्रा वैष्णवा मुनिसत्तमाः / [३७.९] आलयार्चनयोग्याश् च योग्या नान्ये द्विजातयः / [३७.१०] पुरा तु पृष्टवान् ब्रह्मा देवदेवं जनार्दनम् // [Pउरातन्त्र]
SK
[३७.११] ᳚कथं केन प्रकारेण पूजनीयो ऽसि कैर् अपि /᳚
SK
[३७.१२] इत्य् एवं भगवान् पृष्टः प्राह वै चतुराननम् // [Pउरातन्त्र]
SK
[३७.१३] ᳚आलये त्य् अर्चनं स्यात् तु परिवारान्वितस्य मे / [३७.१४] वैखानसविधानेन वैदिकेन विशेषतः // [Pउरातन्त्र]
SK
[३७.१५] वैखानसैस् तु विप्रेन्द्रैर् अर्चनंबिस् हिएर् नोछ् Tएलुगु वेर्ग्लेइछेन् मम तुष्टिदम् / [३७.१६] अमूर्तञ् च समूर्तञ् च द्विधा वैदिकम् उच्यते // [Pउरातन्त्र]
SK
[३७.१७] अमूर्तं गार्हपत्याद्यं समूर्तं बेरपूजनम् / [३७.१८] यथा कर्मण एकस्य कल्पिताः पञ्च वह्नयः // [Pउरातन्त्र]
SK
[३७.१९] तथा चैकविमानस्य पञ्चबेराणि कल्पयेत् / [३७.२०] ग्रामादाव् आलये तस्माद् देवदेवो जनार्दनः // [Pउरातन्त्र]
SK
[३७.२१] अनेन विधिना पूज्यो विप्रैर् वैखानसैस् तथा / [३७.२२] पूजा वैखानसैर् विप्रैर् आलये स्याद् विशेषतः // [Pउरातन्त्र]
SK
[३७.२३] सर्वसम्पत्करञ् चैव सर्वाशुभविनाशनम् / [३७.२४] तद्ग्रामवासिनां तद्वद् ऐहिकामुष्मिकप्रदम्* //{३२७}* [Pउरातन्त्र]
SK
!{३२४}! Dइएसेर् Hअल्ब्वेर्स् इस्त् औछ् zइतिएर्त् इन् DHN[D] ४३.१, ४८.१९, ११८.१३.
SK
[अवैखानसपूजने दोषः, तत्प्रायश्चित्तञ् च]
SK
[३८.१] वर्षदं पुष्टिदं श्रेष्ठं राजराष्ट्राभिवृद्धिदम् / [३८.२] कर्षणादिप्रतिष्ठार्चाप्रायश्चित्तावसानकम् / [३८.३] अनुष्ठेयो विधिस् सो ऽयं विप्रैर् वैखानसैस् ततः // [Pउरातन्त्र]
SK
[३८.४] अवैखानससूत्रैस् तु विप्रैर् आराधनं हरेः / [३८.५] वालये सर्वलोकानां विनाशाय भविष्यति // [Pउरातन्त्र]
SK
[३८.६] अज्ञानाद् अर्थलोभाद् वा भयाद् वा ऽप्य् आलयार्चनम् / [३८.७] यद्य् अवैखानसैर् विप्रैर् क्रियते*{३२८}* सर्वनाशनम् // [Pउरातन्त्र]
SK
[३८.८] यद्य् अवैखानसो विप्र आलयार्चनम् आचरेत् / [३८.९] षण्मासात् पतनं याति नरकञ् चैव गच्छति // [Pउरातन्त्र]
SK
[३८.१०] अपि साङ्गचतुर्वेदी यद्य् अवैखानसो द्विजः / [३८.११] आलये त्व् अर्चनं कुर्यात् सद्यः पतति देवलः // [Pउरातन्त्र]
SK
[३८.१२] अवैखानसविप्रो यः पूजयेद् आलये हरिम् / [३८.१३] स वै देवलको नाम सर्वकर्मबहिष्कृतः* //{३२९}* [Pउरातन्त्र]
SK
[३८.१४] आलापं दर्शनञ् चैव स्पर्शनञ् च विशेषतः / [३८.१५] श्राद्धादौ वरणञ् चैव तस्य विप्रस्य वर्जयेत् // [Pउरातन्त्र]
SK
[३८.१६] अवैखानससूत्रेण*{३३०}* स्पृष्टे बिम्बे प्रमादतः / [३८.१७] स्नापयेत् कलशैर् देवं प्रोक्षयेत् पञ्चगव्यकैः // [Pउरातन्त्र]
SK
[३८.१८] एवम् एव तथा कुर्याद् विप्रैर् अन्यैः प्रपूजिते / [३८.१९] कलशैस् स्नापयित्वा तु ध्रुवोक्तां शुद्धिम् आचरेत् // [Pउरातन्त्र]
SK
[३८.२०] त्र्यहन् तु पूजिते तद्वद् वास्तुहोमं समाप्य च* /{३३१}*
SK
[३८.२१] पर्यग्निपञ्चगव्याभ्यां महाशान्तिञ् च कारयेत्* //{३३२}* [Pउरातन्त्र]
SK
[३८.२२] अर्चने*{३३३}* तु महाविष्णोस् सप्ताहन् तु विशेषतः / [३८.२३] महाशान्तिं यजित्वा तु शुद्धिं पूर्ववद् आचरेत् // [Pउरातन्त्र]
SK
[३८.२४] द्वादशाहं समारभ्य मासान्तन् तु विशेषतः /
SK
!{३२८}! DHN[T] १७५: आलये स्तत्त् क्रियते.
SK
[३९.१] अवैखानसपूजायां तन्त्रसङ्कर*{३३४}* एव च // [Pउरातन्त्र]
SK
[अवैखानसपूजने भगवत्सान्निध्यविरहः]
SK
[३९.२] मासत्रयं च षण्मासम् अन्यविप्रैस् तु पूजने / [३९.३] न तत्र बिम्बे सान्निध्यं देवदेवस्य शार्ङ्गिणः // [Pउरातन्त्र]
SK
[३९.४] तस्मात् तद् दोषशान्त्यर्थं महाशान्तेर् अनन्तरम् / [३९.५] अधिवासत्रयं कृत्वा*{३३५}* प्रतिष्ठां पुनर् आचरेत् // [Pउरातन्त्र]
SK
[३९.६] संवत्सरे तु देवस्य विप्रैर् वैखानसेतरैः / [३९.७] पूजाभिचारिकी प्रोक्ता*{३३६}* तत्र सर्वं विनश्यति // [Pउरातन्त्र]
SK
[३९.८] तस्मात् तत्कर्षणाद्यञ् च निष्कृत्यन्तालयार्चनम् /
SK
[तान्त्रिकार्चायाम् अपि तन्त्रदीक्षितानाम् एवाधिकारः]
SK
[३९.९] कारयेद् विधिवद्विद्वान् तद्वैखानससूत्रिभिः / [३९.१०] तान्त्रिकार्चाविधौ चापि तान्त्रिकैर् एव दीक्षितैः // [Pउरातन्त्र.]
SK
[३९.११] पूजनीयो हरिः सम्यक् विप्रैः नान्यैः कदाचन / [३९.१२] अन्येन विधिना मन्त्रैर् अन्यैर् अन्यार्चकेन वा // [Pउरातन्त्र]
SK
[३९.१३] आलये त्वर्चनं स्याच् चेन् महादोषो भवेद् ध्रुवम्*{३३७}* / [३९.१४] तस्मात् तु वैदिके त्व् अस्मिन्न् आलयार्चाविधौ द्विजाः // [Pउरातन्त्र.]
SK
[३९.१५] प्रतिष्ठादिषु सङ्ग्राह्याः प्रोक्ता वैखानसा द्विजाः* /{३३८}*
SK
[३९.१६] ब्रह्मापि भगवान् देवो हरिर् नारायणः स्मृतः // [Pउरातन्त्र]
SK
[३९.१७] नाविष्णुर् जायते विष्णुर् नाविष्णुर् विष्णुम् अर्चयेत्*{३३९}* / [३९.१८] सुप्रीतेनार्चकेनैव यद् उक्तं देवसन्निधौ // [Pउरातन्त्र.]
SK
[३९.१९] तद्देवेनैव सम्प्रोक्तं तथैव च भविष्यति / [३९.२०] अर्चकं तोषयेद् विष्णुं यस् तोषयितुम् इच्छति // [Pउरातन्त्र]
SK
[३९.२१] तुष्टे ऽर्चके जगन्नाथस् तुष्ठ एव न संशयः // [Pउरातन्त्र]
SK
[३९.२२] स्वप्ने स्वरूपं भक्ताय प्रत्यक्षयति माधवः* /{३४०}*
SK
[३९.२३] प्रवक्ति भगवान् विष्णुः सुखदुःखद्वयं नृणाम् //᳚ इति [Pउरातन्त्र]
SK
[अर्चकमहिमा]
SK
[३९.२४] स्कान्दे:
SK
[३९.२५] ᳚वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् /
SK
!{३३४}! DHN[T] १७६: तन्त्रसङ्करं.
SK
[४०.१] पद्मभूः परमो धाता तस्मिन्न् आराधनत्रयम्* //{३४१}* [Sकन्दP ]
SK
[४०.२] उक्तवान् निगमार्थानाम् आचारं प्रविभागशः //᳚*{३४२}* इति [Sकन्दP ]
SK
[एकस्य यजुर्वेदस्य व्यासकतृकं विभजनम्]
SK
[४०.३] ब्रह्मकैवर्तवचनानि पूर्वम् एवोक्तानि.
SK
[४०.४-५] ननु ऋग्यजुस्सामाथर्वाण इति वेदानां लोके प्रसिद्धेः सर्वशाखामूलभूतो यजुर्वेद इति पूर्वोक्तं कथम् उपपद्यते इति चेद् उच्यते.
SK
[४०.६] श्रीविष्णुपुराणे [४०.७] ᳚वेदद्रुमस्य मैत्रेय शाखाभेदास् सहस्रशः*{३४३}* / [४०.८] न शक्या विस्तराद् वक्तुं*{३४४}* सङ्क्षेपेण शृणुष्व तम् // [Vइष्णु.P ३.३.४]
SK
[४०.९] द्वापरे द्वापरे विष्णुर् व्यासरूपी महामुने // [Vइष्णु.P ]
SK
[४०.१०] वेदम् एकं सुबहुधा करोति जगतां हितः*{३४५}* // [Vइष्णु.P ३.३.५]
SK
[४०.११] वीर्यं तेजो बलञ् चाल्पं मनुष्याणाम् अवेक्ष्य च / [४०.१२] हिताय सर्वभूतानां वेदभेदं करोति सः // [Vइष्णु.P ३.३.६]
SK
[४०.१३] इत्य् आरभ्य [४०.१४] ᳚एक आसीद् यजुर्वेदस् तं चतुर्धा ह्य् अकल्पयत् / [४०.१५] चातुर्होत्रम् अभूद् यस्मिंस्*{३४६}* तेन यज्ञम् अथाकरोत् // [Vइष्णु.P ३.४.११]
SK
[४०.१६] आर्ध्वर्यवं यजुर्भिस् तु ऋग्भिर् हौत्रं तथा मुनिः*{३४७}* / [४०.१७] औद्गात्रं सामभिश् चक्रे*{३४८}* ब्रह्मत्वञ् चाप्य् अथर्वभिः // [Vइष्णु.P ३.४.१२]
SK
[४०.१८] ततस् स ऋच उद्धृत्य ऋग्वेदं कृतवान् मुनिः / [४०.१९] यजुर्भिश् च यजुर्वेदं*{३४९}* सामवेदञ् च सामाभिः // [Vइष्णु.P ३.४.१३]
SK
[४०.२०] राज्ञान्त्वथर्ववेदेन*{३५०}* सर्वकर्माणि स प्रभुः /
SK
[४०.२१] कारयामास मैत्रेय ब्रह्मत्वञ् च यथास्थिति /// [Vइष्णुP ३.४.१४]
SK
[४०.२२] सो ऽयम् एको महान् वेदतरुस् तेन पृथक्कृतः*{३५१}* / [४०.२३] चतुर्धा च ततो जातं वेदपादपकाननम् //᳚ [Vइष्णुP ३.४.१५]
SK
[४०.२४-२५] इत्य् अन्तेन स्पष्टं प्रतिपादितत्वात् यजुर्वेद एक एव प्रथमासीतित्य् अवगम्यते.
SK
!{३४१}! Dइएसेर् Vएर्स् इस्त् äह्न्लिछ् अल्स् ᳚Sकन्दपुराण᳚ zइतिएर्त् इन् DHN[D] ७१.१०-११; अल्स् ᳚Pउरातन्त्र᳚ इन् DHN[D] ३४.९-१०.
SK
[यजुर्वेदस्य वैखानसशाखात्वप्रसिद्धिः]
SK
[४१.१-३] स च यजुर्वेदः: ᳚बहुशृङ्गश् चतुस् सानुः पृथुलो वेदपर्वतः᳚ इत्य् आरभ्योक्तरीत्या वेदव्यासरुपिणा भगवता यदा व्यस्तः, ततः पूर्वम् एकरूपेणावस्थितस्य तस्य वेदपर्वतस्य वैखानसशाखात्वप्रसिद्धिर् आसीद् इति पूर्वम् एव प्रतिपादितम्.
SK
[४१.४] वैखानसानां श्रैष्ठ्यम्
SK
[वैखानसानां श्रेष्ठ्यं पञ्चकालपरायणत्वञ् च]
SK
[४१.५-६] *{३५२}*प्रसङ्गात् वैखानसशाखामूलकत्वेन*{३५३}* प्रणीतसूत्रानुष्ठातॄणां श्रेष्ठत्वम् अच्छिद्रपञ्चकालपरायणत्वादिकञ् च प्रतिपाद्यते.
SK
[४१.७] यथा सामब्रह्मणे:
SK
[४१.८] ᳚वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्᳚*{३५४}* इति [Cहान्दोग्यBर् २.२३.१]
SK
[वैखानसानां भगवत्प्रियतमत्वम्]
SK
[४१.९] वाराहे:
SK
[४१.१०] ᳚अश्वत्थः कपिला गावस् तुलसी विखनास् तथा* /{३५५}*
SK
[४१.११] चत्वारो मत्प्रिया राजंस् तेषां वैखानसो वरः* //{३५६}*᳚ इति [VअराहP]
SK
[वैखानसदर्शनफलम्]
SK
[४१.१२] वृद्धयाज्ञवल्क्ये: [४१.१३] ᳚वैखानसो वैदिकेषु ब्रह्मनिर्दिष्टम् आचरेत् / [४१.१४] तं ब्राह्मणन् तु दृष्ट्वैव सर्वं पापं व्यपोहति // [Vऋद्धयाज्ञवल्क्य.]
SK
[४१.१५] वैष्णवीं प्रतिमां लोके विप्रं वैखानसं तथा / [४१.१६] गङ्गां विष्णुपदीं दृष्ट्वा सर्वपापैः प्रमुच्यते* //{३५७}*᳚ इति [Vऋद्धयाज्ञवल्क्य]
SK
[विष्णुभक्तेषु वैखानसस्य श्रैष्ठ्यम्]
SK
[४१.१७] शान्तिपर्वणि: [४१.१८] *{३५८}*मन्त्रिणाञ् च सहस्रेभ्यो ब्रह्मचारी विशिष्यते / [४१.१९] ब्रह्मचारिसहस्रेभ्यो नित्ययाजी विशिष्यते // [MBह् ]
SK
[४१.२०] नित्ययाजिसहस्रेभ्यस् सोमयाजी विशिष्यते / [४१.२१] सोमयाजिसहस्रेभ्यो वेदवेदान्तपारगः // [MBह् ]
SK
[४१.२२] वेदान्तगसहस्रेभ्यो विष्णुभक्तो विशिष्यते / [४१.२३] विष्णुभक्तसहस्रेभ्यो विप्रो वैखानसो वरः //᳚ इति [MBह् ]
SK
!{३५२}! DHN[T] १८० इन्स्. वैखानसानां श्रैष्ठ्यं अच्छिद्रपञ्चकालपरायणत्वञ् च.
SK
[पुष्करतीर्थमाहात्म्यम्]
SK
[वैखानसानाम् एकान्तित्वम्]
SK
[४२.१] ब्रह्मकैवर्ते: ᳚निम्नगानां यथा गङ्गा देवानां भगवान् हरिः / [४२.२] वर्णानां ब्राह्मणं श्रेष्ठः आश्रमाणां यतिर् यथा // [Bरह्मकैवर्त.P ]
SK
[४२.३] श्रुतीनाम् आदिभूतानां श्रुतिर् एकायनी यथा / [४२.४] तस्यां निषद्याथ यस्यां निषण्णो भगवान् हरिः // [Bरह्मकैवर्तP ]
SK
[४२.५] व्यूहानाम् आदिभूतस् तु वासुदेवो यथा परः / [४२.६] त्रिमूर्तीनां यथा विष्णुः शिवानान् तु सदाशिवः // [Bरह्मकैवर्त.P ]
SK
[४२.७] धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः / [४२.८] विप्राणां वेदविदुषां यथा वैखानसो वरः // [Bरह्मकैवर्त.P ]
SK
[४२.९] यथा मुनीनां विखना आदिभूत उदाहृतः* /{३५९}*
SK
[४२.१०] सूत्राणां तत्प्रणीतन् तु यथा श्रेष्ठतमं स्मृतम् // [Bरह्मकैवर्त.P ]
SK
[४२.११] तथैव पुष्करो राजंस् तीर्थानाम् उत्तमोत्तमः //᳚*{३६०}* [Bरह्मकैवर्तP ]
SK
[४२.१२] कौर्मे: [४२.१३] ᳚मच्चित्ता मद्गतप्राणा मयि सङ्गतमानसाः / [४२.१४] अनन्यशरणा राजंस् तस्माद् वैखानसा वराः* //{३६१}*᳚ [Kऊर्मP ]
SK
[वैखानसाधिष्ठतदेशे विष्णुसान्निध्यम्]
SK
[४२.१५] पुराणान्तरे: [४२.१६] ᳚यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः / [४२.१७] यत्र बिल्वाः पलाशाश् च तत्र सन्निहितो हरिः* //{३६२}*᳚
SK
[४२.१८] बृहन्नारदीये: [४२.१९] ᳚जगत्पवित्रास् ते नित्यं विष्णुम् अभ्यर्चयन्ति ये / [४२.२०] दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः //᳚ [Bऋहन्नारदP]
SK
[४२.२१] हारीते:
SK
[४२.२२] तस्मात् ते शुद्धसत्त्वस्थाश् शुद्धा वैखानसाः स्मृताः* /{३६३}*
SK
[४२.२३] यान् लोकान् प्राप्नुवन्त्य् एते तान् शृणुष्व समाहितः //᳚
SK
[४२.२४] पाञ्चरात्रे पौष्करे:
SK
[४२.२५] ᳚विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते* //{३६४}* [Pऔष्करS ३६.२६०च्द्]
SK
[४२.२६] एकान्तिनस् सुसत्त्वस्था देहान्तं नान्ययाजिनः /
SK
!{३५९}! Dइएसे Zएइले fएह्ल्त् इम् Zइतत् इन् DHN[D] २६.१९-२७.२.
SK
[४३.१] कर्तव्यम् इति देवेशं संयजन्ते फलं विना* //{३६५}* [Pऔष्करS ३६.२६१]
SK
[४३.२] प्राप्नुवन्ति च देहान्ते वासुदेवत्वम् अब्जज //᳚ इति*{३६६}* [Pऔष्करS ३६.२६२अब्]
SK
[४३.३] गौतमीये: [४३.४] ᳚वैखानसविधानज्ञस् तत्त्वात्मार्थव्यवस्थितः / [४३.५] सूक्ष्मात् सूक्ष्मम् अवाप्नोति परं ब्रह्माणम् अव्ययम् //᳚ इति
SK
[पुष्करे वैखानसाश्रमः]
SK
[४३.६] आरण्यपर्वणि: रमेशः:*{३६७}*
SK
[४३.७] ᳚ध्यातञ् च सैन्धवारण्यं मुनिबृन्दनिषेवितम्*{३६८}* / [MBह् ३.८७.१२च्द्]
SK
[४३.८] पितामहसरः पुण्यं पुष्करं नाम भारत // [MBह् ३.८७.१२एf]
SK
[४३.९] वैखानसानां सिद्धानाम् ऋषीणाम् आश्रमं प्रियम्* //{३६९}*᳚ इति [MBह् ३.८७.१३]
SK
[४३.१०] अन्यत्र: [४३.११] ᳚सैन्धवारण्यम् आसाद्य कुल्यां तां लोकदर्शनाम्*{३७०}* / [४३.१२] पुष्करेषु महाराज सर्वेषु च जलं स्पृशन् //᳚ इत्य् आरभ्य [MBह् ३.१२५.१२]
SK
[४३.१३] ᳚एतच् चन्द्रसरो नित्यम् अर्पयन्त्य् ऋषयस् तथा* /{३७१}*
SK
[४३.१४] वैखानसप्रभृतयो वालखिल्यास् तथैव च //᳚ इति [MBह् ३.१२५.१४]
SK
[वैखानसानाम् पूजनीयत्वम्]
SK
[४३.१५] अन्यत्र: गालवः: [४३.१६] ᳚सर्वान् लोकान् प्रपश्यामि*{३७२}* प्रसादात् तव सुव्रत / [४३.१७] वैखानसानां जपताम् एष शब्दो महात्मनाम् //᳚ इति [MBह् ३.११४.१५]
SK
[४३.१८] गारुडे: [४३.१९] ᳚कौषीतकीनां होतॄणां ग्रामत्रयम् अकल्पयत् / [४३.२०] अकल्पयच् च त्रीन् ग्रामान् वैखानसमहात्मनाम् //᳚ इति [GअरुडP ]
SK
[४३.२१] परमेश्वरे त्रयोदशाध्याये पवित्रविनियोगावसरे:*{३७३}*
SK
[४३.२२] ᳚पूजयेद् आप्तपूर्वांश् च यतिपूर्वांस् तपस्विनः* //{३७४}* [Pआरमेश्वरS १२.४३७च्द्]
SK
[४३.२३] पञ्चवैखानसांश् चैव विप्रादींश् चतुरस् तथा / [४३.२४] पञ्चयोगरताद्यांस् तु तथान्यान् वैष्णवान् द्विजान्* //{३७५}* [Pआरमेश्वरS १२.४३८]
SK
[४३.२५] एकायनीयशाखोक्तिश्रोतॄणां प्रथमं ततः* //{३७६}*᳚ इति [Pआरमेश्वरS १२.४३९अब्]
SK
!{३६५}! Pऔष्करS: कर्तव्यत्वेन ये विष्णुं संयजन्ति फलं विना; देर् एर्स्ते Hअल्ब्वेर्स् इस्त् औछ् अल्स् ᳚Pऔष्करसंहिता᳚ zइतिएर्त् इन् DHN[D] ४८.१८, äह्न्लिछ् अल्स् ᳚Pउरातन्त्र᳚ इन् DHN[D] ३७.१; देर् गन्zए Vएर्स् अल्स् ᳚Pऔष्करसंहिता᳚ इन् DHN[D] २४.७-८, ४२.२६-४३.१ उन्द् ११८.१३-१४.
SK
[४४.१] नारदीये: ᳚सात्त्विके तु सदाधिक्यं पूजनं मम नारद / [४४.२] विद्धि वैखानसे दत्तं दानं ब्रह्मविदस् तथा //᳚*{३७७}* [NआरदP]
SK
[वैखानसानाम् श्रीरामकृता पूजा]
SK
[४४.३] वासिष्ठरामायणे: ᳚कृताभिषेकस् सन्तुष्टस् सामात्यस् ससुहृज्जनः / [४४.५] पूजयामास धर्मात्मा रामो वैखानसान् मुनीन् //᳚ इति [Vआसिष्ठरामायण]
SK
[४४.६] वैखानसानाम् पञ्चकालपरायणत्वम्
SK
[पञ्चकालपरायणस्य लक्षणम्]
SK
[४४.७] शाण्डिल्यस्मृतौ: ᳚ये पावयन्ति धरणीं चरणैः पाञ्चकालिकाः / [४४.८] दर्शनात् स्पर्शनात् तेषां कृतार्थास् सर्वजन्तवः // [Śआण्डिल्यस्मृति.]
SK
[४४.९] इज्यामध्ये तथा होमे योगे च जपकर्मणि / [४४.१०] आगतं पञ्चकालज्ञं सम्पूज्यैर् वाचयेत् परम् // [Śआण्डिल्यस्मृति.]
SK
[४४.११] ये तोषयन्त्य् अविरतं पञ्चकालपरायणान् / [४४.१२] सकामास् तत्फलं यान्ति निष्कामाः परमं पदम् // [Śआण्डिल्यस्मृति]
SK
[४४.१३] सदाहिताग्नयो ये च शान्ताश् शूद्रान्नवर्जितः / [४४.१४] माम् अर्चयन्ति मद्भक्तास् तेभ्यो दत्तम् इहाक्षयम् // [Śआण्डिल्यस्मृति.]
SK
[४४.१५] द्वादशाक्षरतत्त्वज्ञश् चतुर्व्यूहविभागवित् / [४४.१६] अच्छिद्रपञ्चकालज्ञस् स विप्रस् तारयिष्यति* //{३७८}*᳚ [Śआण्डिल्यस्मृति]
SK
[वैखानसानाम् द्वादशाक्षरतत्त्वज्ञत्वम्]
SK
[४४.१७] यथा:
SK
[४४.१८] द्वादशाक्षरतत्त्वज्ञ इति. द्वादशाक्षरतत्त्वानि. [४४.१९] ᳚चिज्जीवः प्रकृतिर् बुद्धिर् मनस् सत्त्वादयो गुणाः / [४४.२०] व्योमाग्निमरुतश् चापो वर्णानां तत्त्वम् ईरितम्* //{३७९}*᳚ इत्य् उक्तानि. [Pआद्मS चर्यापाद २४.१९]
SK
[वैखानसानाम् चतुर्व्यूहविभागज्ञत्वम्]
SK
[४४.२१] चतुर्व्यूहविभागवित् इति
SK
[वैखानसपाञ्चरात्रयोः व्यूहचतुष्टये संज्ञावैषम्यम्]
SK
[४४.२२] ᳚पुरुषञ् च ततस् सत्यम् अच्युतञ् च युधिष्ठिर / [MBह् १४, Aप्प्. ४.१६५९]
SK
[४४.२३] अनिरुद्धञ् च मां प्राहुर् वैखानसविदो जनाः* //{३८०}* [MBह् १४, Aप्प्. ४.१६६०]
SK
[४४.२४] अन्ये त्व् एवं विजानन्ति मां राजन् पाञ्चरात्रिकाः / [MBह् १४, Aप्प्. ४.१६६१]
SK
[४४.२५] वासुदेवञ् च राजेन्द्र सङ्कर्षणम् अथापि वा* //{३८१}* [MBह् १४, Aप्प्. ४.१६६२]
SK
!{३७७}! Vग्ल्. Jअयाख्यS २२.८१: सात्वताय शतांशोनं दशांशोनं तु नारद / विद्धि वैखानसे दत्तं दानं प्रतिसरावधौ.
SK
[४५.१] प्रद्युम्नञ् चानिरुद्धञ् च*{३८२}* चतुर्मूर्तिं प्रचक्षते / [MBह् १४, Aप्प्. ४.१६६३]
SK
[४५.२] एताश् चान्याश् च राजेन्द्र संज्ञाभेदेन मूर्तयः* //{३८३}* [MBह् १४, Aप्प्. ४.१६६४]
SK
[४५.३] विद्धि मे ऽर्चान्तराण्य् एव माम् एवञ् चार्चयेद् बुधः //᳚*{३८४}* [MBह् १४, Aप्प्. ४.१६६५]
SK
[४५.४] इत्याद्य् उक्तानां चतुर्णां व्यूहानां विभागावित्.
SK
[वासुदेवस्य दैविकमानुषभेदेन द्वैविध्यम्]
SK
[४५.५] एवं वैखानसे दैविकमानुषभेदेन वासुदेवो द्विविधः प्रतिपाद्यते. यथा -
SK
[४५.६-८] खिले: ᳚अथोर्ध्वं वासुदेवस्य मानुषस्य विधिं परं᳚. इत्य् आरभ्य ᳚मानुष्यवपुषं देवं द्विभुजं शङ्खचक्रिणम्᳚ इत्यादिना रुक्मिणीप्रद्युम्नानिरुद्धसाम्बब्रह्मगरुडादियुतं मानुषवासुदेवं निर्वर्ण्य पुनः: [४५.९] ᳚दैविकं वासुदेवं तं प्रवक्ष्याम्य् आनुपूर्व्यशः / [४५.१०] सोमच्छन्दविमानं वा बृहद्वृत्तम् अथापि वा //
SK
[४५.११] चतुर्भुजधरं देवं शङ्खचक्रधरं परम् / [४५.१२] अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् //
SK
[४५.१३] किरीटादिसमस्तैश् च भूषणैर् अपि भूषितम् / [४५.१४] रक्ताम्बरधरं देवं दशातालेन मानतः //
SK
[४५.१५] उभे देव्याव् उभे पार्श्वे पूर्ववत् कारयेद् बुधः / [४५.१६] बलभद्रादिपूर्वोक्तं सायुधं वा निरायुधम् //
SK
[४५.१७] तत्तद् देवीबिस् हिएर् त्नोछ् तेलुगु वेर्ग्लेइछेन्समायुक्तं विना वा सम्यग् आचरेत् / [४५.१८] रेवती रोहिणी चैव रमाचेन्दुकरीति च //
SK
[४५.१९] रक्तं नीलं तथा श्यामं पीतवर्णं समाचरेत् / [४५.२०] किरीटमकुटाद्युक्तास्*{३८५}* सर्वाभरणभूषिताः //
SK
[४५.२१] एवं पुष्पधरं कुर्याद् एकञ् चैव प्रसारितम् / [४५.२२] देव्या युक्तं विना वापि द्विमार्गं सम्यग् आचरेत् //᳚
SK
[४५.२३-२४] इत्य् आरभ्य ᳚एवं दैविकमार्गन् तु स्थापनारम्भम् आचरेद्᳚ इत्यादिना दैविकः वासुदेवः*{३८६}* प्रदर्शितः.
SK
!{३८२}! S.अ. MBह् १६.४.४३च्.
SK
[वैखानसेतरसूत्रिणां पञ्चकालपरायणत्वाभवाः]
SK
[४६.१-५] इत्थं वासुदेवादीनां दैविकमानुषभेदेन द्वैविध्यस्य, ᳚पुरुषं परमपुरुषं परमात्मानं परं ब्रह्माणम्᳚ इत्यादिना प्रतिपादितानां चतुर्णां पुरुषादीनां मूर्तिविभागस्य च श्रीवैखानसशास्त्रे प्रतिपादनात्, एतस् सर्वविभागज्ञ एव चतुर्व्यूहविभागविद् इत्य् अनेनोच्यते. आच्छिद्रपञ्चकालज्ञ इति:*{३८७}* [४६.६] ᳚प्रातःकाले ऽभिगमनम् उपादानं ततः परम् / [४६.७] मध्याह्न इज्यां कुर्वीत स्वाध्यायञ् चापराह्णके / [४६.८] योगं सायाह्नकाले तु पञ्चकाला उदाहृताः //᳚ [VA ]
SK
[४६.९] इति वासाधिकारे प्रतिपादितपञ्चकालपरायणम् अधिकृत्य प्रकृत्तानि*{३८८}* -
SK
[४६.१०-१४] ᳚ये पावयन्ति धरणीं᳚ ᳚इज्यामध्ये तथाहोमे᳚ ᳚ये तोषयन्त्य् अविरतं᳚ इति वचनानि, सामन्येन पञ्चकालपरायणस्य दर्शनस्पर्शनादिभिस् सर्वेषां पावनतां कृतार्थतां, इज्यायोगादिसमयेषु चागतस्य तस्य पूजनान्तरं शेषकर्माचरणञ् च प्रतिपादयन्ति, एतादृशः पञ्चकालपरायणः कीदृशा इत्य् आकङ्क्षायां ᳚द्वादशाक्षरतत्त्वज्ञ᳚ इत्यादिना ᳚अच्छिद्रपञ्चकालज्ञ᳚ इत्य् अन्तेन तल्लक्षणम् उच्यते.
SK
[४६.१५-१७] ईदृशाच्छिद्रपञ्चकालपरायणा वैखानसा एव. वैखानसशास्त्र एव पञ्चकालविभागस्य प्रतिपादितत्वात्. स्वस्वसूत्रे ऽनुक्तत्वाद् आपस्तम्बीयादयस् तु न. पञ्चकालप्रतिपादनरहितसूत्रान्तरनिष्ठानां:*{३८९}*
SK
[४६.१८] ᳚ब्राह्मे मुहूर्ते बुद्ध्येत धर्मार्थाव् अनुचिन्तयन्* /{३९०}*᳚ इत्य् आरभ्य
SK
[४६.१९] ᳚द्वितीये च तथा भागे वेदाभ्यासो विधीयते //
SK
[४६.२०] तृतीये च तथा भागे पोष्यवर्गार्थचिन्तनम् / [४६.२१] भागे चतुर्थे कुर्वीत स्नानम् अम्भस्य् अकृत्रिमे //
SK
[४६.२२] पञ्चमे तु तथा भागे संविभागो यथार्हतः / [४६.२३] इतिहासपुराणाभ्यां षष्टं सप्तमम् अभ्यसेत् / [४६.२४] अष्टमे लोकयात्राञ् च विचार्य च गृही ततः //᳚
SK
!{३८७}! DHN[T] १८८-१८९ स्तत्त् DHN[D] ४६.१-५: इत्थं वासुदेवादीनां व्यूहभूताणां दैविकमानुषभेदेन व्यूहचतुर्मूर्तिप्रतिपादनात् ᳚पुरुषं परमपुरुषं परमात्मानं परं ब्रह्माणम्᳚ इत्यादिना चतुर्णां पुरुषादीनां मूर्तिविभागस्य च श्रीवैखानसशास्त्रे प्रतिपादितत्वात्. ᳚अच्छिद्रपञ्चकालज्ञः᳚.
SK
[४७.१-२] इत्य् अन्तेन दक्षादिस्मृत्यन्तरेषु ब्राह्मणजातेः सामान्येन तत्तत्कालेषु कर्तव्यत्वेन प्रतिपादितकर्माचरण एव यथायोग्यं योग्यतासम्भवात्.*{३९१}*
SK
[४७.३] अन्यथा [४७.४] ᳚विधर्मः परधर्मश् च आभास उप वा च्छलः*{३९२}* / [४७.५] अधर्मशाखाः पञ्चेमा धर्मज्ञो ऽधर्मवत्त्यजेत् //
SK
[४७.६] धर्मबाधो विधर्मस् स्यात् परधर्मो ऽन्यचोदितः / [४७.७] उपधर्मस् तु पाषण्डो दम्भोवांशसुर्भिश्छलः (?)*{३९३}* / [४७.८] यस् त्व् इच्छया कृतं पुम्भिर् आभासो ह्य् आश्रमाद् बहिः //᳚.
SK
[४७.९] इति भागवतवचनोक्तपरधर्माश्रयणदोषप्रसङ्गः*{३९४}*. [४७.१०] ᳚श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् / [४७.११] स्वधर्मे निधनं श्रेयः परधर्मो भयावहः* //{३९५}*᳚ [MBह् ६.२५.३५]
SK
[४७.१२] इति भगवद्वचनविरोधश् च.*{३९६}*
SK
[सूत्रान्तरनुष्ठानां पाञ्चरात्रानुयायिनाञ् च देवलकत्वम्]
SK
[४७.१३-१९] किञ्च तत्सूत्रेषु द्वादशाक्षरतत्त्वादिप्रतिपादनम् अपि नास्ति. एवं ᳚सति कुड्ये चित्रकर्मे᳚ति न्यायेन यज्ञोपवीतधारणसन्ध्योपासनभगवदाराधनादिविधिप्रतिपादनरहितसूत्रान्तरनिष्ठानां, तथा श्रीमन्नारायणस्य समानत्वेन रुद्रादिदेवतान्तराराधनविधिप्रतिपादकसूत्रनिष्ठानाञ् च चतुर्व्यूहविभागज्ञानासम्भवात् भगवदाराधनस्वरूपज्ञानाभावेन पञ्चकालपरायणत्वादिगन्धलेशो ऽपि न सम्भवति. सूत्रान्तरोक्तमार्गेण वा पञ्चरात्रोक्तमार्गेण वा भगवदाराधनं कुर्वतो ऽनधिकारिणो देवलकत्वं प्रतिपाद्यते.*{३९७}*
SK
[पाञ्चरात्रे दुर्गादिदेवतान्तरार्चनप्रतिपादनम्]
SK
[४७.२०] तथा हि - पञ्चरात्रे विष्वक्सेनसंहितायां नारदं प्रति विष्वक्सेनोक्तिः: [४७.२१] ᳚इदन् तु तव वक्ष्यामि गुह्याद् गुह्यतमं मुने / [४७.२२] यो ऽसौ नारयणस्*{३९८}* साक्षात् स हि विघ्नेश उच्यते* //{३९९}* [Vइष्वक्सेनS १०.११४]
SK
[४७.२३] यो वै विघ्नेश इत्य् उक्तस् स वै नारायणः स्मृतः // [Vइष्वक्सेन.S १०.११५अब्]
SK
[४७.२४] नैव भेदं विजानन्ति मुनयस् तत्त्वदर्शिनः* //{४००}*᳚ इत्य् आरभ्य [Vइष्वक्सेनS १०.११६अब्]
SK
!{३९१}! DHN[T] १९१ स्तत्त् DHN[D] ४७.१-२: इत्य् पञ्चकालप्रतिपादनरहित सूत्रान्तरनिष्ठानां ब्राह्मणजाति सामान्यत्वेन दक्षादिस्मृत्यन्तरेषु यथायोग्यं कालान्तरेषु प्रतिपादितकर्माचरण योग्यतासंभवात्.
SK
[४८.१] ᳚कुर्यात् पाशाङ्कुशौ वापि शङ्खचक्राव् अथापि वा* /{४०१}*
SK
[४८.२] आखुं वापि खगेन्द्रं वा तस्य वाहनम् आचरेत्* //{४०२}* [Vइष्वक्सेनS ]
SK
[४८.३] नारायणाशकत्वाच् चाव्यावृत्तत्वान् महामुने* /{४०३}*
SK
[४८.४] वीशस् तद्वाहनं प्रोक्तं आखुं वापि समाचरेत् // [Vइष्वक्सेन.S ]
SK
[४८.५] तस्माच् छ्रियञ् च दुर्गाञ् च वाणीं विघ्नेशम् एव च / [४८.६] स्वतन्त्रेणार्चयेद् धीमान् सर्वकार्यार्थसिद्धये //᳚ इत्यादि च दृश्यते. [Vइष्वक्सेनS ]
SK
[४८.७-१०] देवतान्तराणां अङ्गभावेनार्चनं न निषिद्ध्यते. ᳚स्वतन्त्रबुद्ध्या कुर्वन् वै ब्राह्मणो नरकं व्रजेत्᳚ इत्यादि वचनैः अङ्गत्वेन विना स्वातन्त्र्येणाङ्गिव्यतिरिक्तदेवतान्तराराधनं निषिद्ध्यते. तथाविधनिषिद्धदेवतान्तरार्चनप्रतिपादकशास्त्रनिष्ठस्य पञ्चकालपरायणत्वं न सम्भवति.*{४०४}*
SK
[परमैकान्तिनाम् एव पञ्चकालपरायणत्वम्]
SK
[४८.११] ᳚यैर् इष्टः पञ्चकालज्ञैर् हरिर् एकान्तिभिर् नरैः / [४८.१२] नूनं तत्र मतो देवो यथा तैर् वागुदीरितः //᳚ इत्य् उक्तरीत्या
SK
[वैखानसव्यतिरिक्तानां परमैकान्तित्वाभावः]
SK
[४८.१३-१५] परमैकान्तित्वासम्भवे तद्(पञ्चकालपरायणत्वा)सम्भवात्. परमैकान्तित्वञ् च भगवदेकपरत्वम् एव. तच् च स्वातन्त्र्येणान्यदेवतायाजिनां वैखानसव्यतिरिक्तानां हि न सम्भवति.*{४०५}* [४८.१६-१७] अत्र ᳚यैर् इष्टः पञ्चकालज्ञैर्᳚ इत्य् अनेन पञ्चकालव्यतिरिक्तकालान्तरप्रतिपादकशास्त्रनिष्ठानां*{४०६}* व्यवृत्तिः. ᳚एकान्तिभिर् नरैर्᳚ इत्य् अनेन [४८.१८] ᳚विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते* //{४०७}* [Pऔष्करS ३६.२६०च्द्]
SK
[४८.१९] एकान्तिनस् सुसत्त्वस्था देहान्तं नान्ययाजिनः* //{४०८}* [Pऔष्करS ३६.२६१अब्]
SK
[४८.२०-२३] इत्यादि पौष्करसंहितावचनानुसारेण*{४०९}* स्वातन्त्र्येण दुर्गादिदेवतान्तरार्चनप्रतिपादकपाञ्चरात्रशास्त्रनिष्ठानां*{४१०}* व्यावृत्तिः. ᳚नूनम् अत्र मतो देव᳚ इत्य् अनेन - ᳚यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः / [४८.२४] यत्र बिल्वाः पलाशाश् च तत्र सन्निहितो हरिः* //{४११}*᳚
SK
[४८.२५-२६] इत्य् अस्यार्थो ज्ञाप्यते इति ᳚यैर् इष्ट᳚ इति कृत्स्नम् अपि वचनं वैखानसपरम् इत्य् एवावगम्यते.*{४१२}*
SK
!{४०१}! DHN[T] १९३: चक्रशङ्खाव्; व्ग्ल्. Vइष्वक्सेनS ११.२९४: एवं चक्रादिसंप्रोक्तम् अपरं चाधुना शृणु / दक्षिणे परशुं न्यस्य ह्य् अधः पाशाङ्कुशं न्यसेत्.
SK
[पाञ्चरात्रिणाम् अपि पञ्चकालपरायणत्वम् इत्य् आक्षेपः परिहारश् च]
SK
[४९.१] ननु:
SK
[४९.२] ब्रह्मा: ᳚पञ्चकालविधिज्ञानप्राशस्त्यं भगवन्न् इह* /{४१३}*
SK
[४९.३] कथितं पञ्च के काला विधयश् चापि पञ्च के* //{४१४}* [Pआद्मS चर्यापाद १३.१]
SK
[४९.४] मह्यं जिज्ञासमानाय कथयस्व यथातथम् / [४९.५] न चेद् रहस्यम् अत्यन्तं यद् अहं पृष्टवान् इह* //{४१५}* [Pआद्मS चर्यापाद १३.२]
SK
[४९.६] श्रीभगवान्:
SK
[पाञ्चरात्रोक्तम् अभिगमनम्]
SK
[४९.७] आद्यं कर्माभिगमनम् उपादानं ततः*{४१६}* परम् / [४९.८] इज्या तपश् च स्वाध्यायस् तथा योगः प्रकीर्तितः* //{४१७}* [Pआद्मS चर्यापाद १३.३]
SK
[४९.९] पञ्चैते विधयस् तेषां कालाः पञ्चैव ते क्रमात् / [४९.१०] कल्याणाचरणान्तं यत् कर्मजातं चतुर्मुख // [Pआद्म.S चर्यापाद १३.४]
SK
[४९.११] उत्थानादिक्रमाद् एतद् अभियानम् उदीरितम् / [४९.१२] ब्राह्मे मुहूर्ते बुद्ध्येत ध्यायन् नारायणं परम् // [Pआद्म.S चर्यापाद १३.५]
SK
[४९.१३] उत्थायासीत शयने कीर्तयन् नाम वैष्णवम् / [४९.१४] क्रमेण सृष्ट्वा तत्त्वानि देहम् उत्पाद्य तत्त्ववित् // [Pआद्म.S चर्यापाद १३.६]
SK
[४९.१५] स्वस्य*{४१८}* देहे षडङ्गानि मन्त्रम् उच्चार्य मानसम् //᳚ [Pआद्मS चर्यापाद १३.७]
SK
[४९.१६] इत्यादिना अभिगमनम् उपक्रम्य
SK
[४९.१७] ᳚अञ्जनालेपनैस् स्रग्भिः वासोभिर् भूषणैस् तथा // [Pआद्म.S चर्यापाद १३.२९अब्]
SK
[४९.१८] अलक्तकरसाद्यैश् च ताम्बूलैर् मुखशोधनैः*{४१९}* / [४९.१९] उपेतो मङ्गलैर् अन्यैर् नयेद् अभिगमक्रियाम् //᳚ [Pआद्मS चर्यापाद १३.३०]
SK
[४९.२०] इत्य् अभिगमनम् उक्ता
SK
[पाञ्चरात्रोक्तम् उपादानम्]
SK
[४९.२१] ᳚उपादद्यात् ततः पूजा- साधनानि यथातथम्*{४२०}* / [४९.२२] पुष्पाणि फलमूलानि विविधान्य् ओषधीर् अपि // [Pआद्म.S चर्यापाद १३.३१]
SK
[४९.२३] दध्यादि च हविर्योग्यं तण्डुलादि गुडादि च*{४२१}* / [४९.२४] स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च // [Pआद्म.S चर्यापाद १३.३२]
SK
!{४१३}! Pआद्मS: पञ्चकालविधिज्ञानं प्रशस्तं भगवन्न् इह.
SK
[५०.१] दर्भान् पर्णानि समिधो यथाशक्ति यथावसु / [५०.२] आहृत्य याज्ञियान् दैवान् पूजास्थाने निवेशयेत्* //{४२२}* [Pआद्मS चर्यापाद १३.३३]
SK
[५०.३] नीत्वोपादानसमयम् इत्थं तद् अनुपूजयेत् /᳚
SK
[५०.४] इत्य् उपादानम् उक्तम्.
SK
[पाञ्चरात्रोक्ता इज्या]
SK
[५०.५] ᳚प्राप्ते मध्याह्नसमये स्नानं कुर्याद् यथाविधि //᳚ [Pआद्मS चर्यापाद १३.३४]
SK
[५०.६] इत्य् आरभ्य
SK
[५०.७] ᳚उत्तीर्य कर्म निखिलं मध्याह्नसमयोचितम् / [Pआद्मS चर्यापाद १३.४१च्द्]
SK
[५०.८] कृत्वा यजेत देवेशं होमान्तं कमलासन // [Pआद्म.S चर्यापाद १३.४२अब्]
SK
[५०.९] इज्यायास् समयस् तस्याः कथितः कमलासन //᳚ [Pआद्मS चर्यापाद १३.६६अब्]
SK
[५०.१०] इति भगवद्यजनम् उक्त्वा
SK
[पाञ्चरात्रोक्तः स्वाध्यायः]
SK
[५०.११] ᳚मन्दिरे वा हरेर् नद्यास् तीरे वामरभूमिषु*{४२३}* // [Pआद्म.S चर्यापाद १३.६६च्द्]
SK
[५०.१२] विविक्ते विपिने वापि पर्वते वा गृहे ऽपि वा / [५०.१३] ऋचो यजूंषि सामानि विद्यमानान्य् अनेकधा* //{४२४}* [Pआद्मS चर्यापाद १३.६७]
SK
[५०.१४] शाखाभेदैर् मूलशाखाम् एकायनसमाह्वयाम्*{४२५}* / [५०.१५] त्रयीमयीम् अधीयीत सुखासीनस् समाहितः //᳚ [Pआद्मS चर्यापाद १३.६८]
SK
[५०.१६] स्वाध्यायम् उक्त्वा
SK
[पाञ्चरात्रोक्तः योगः]
SK
[५०.१७] ᳚ततः पश्चिमसन्ध्यायां प्राप्तायां तत्र चोदितम् // [Pआद्मS चर्यापाद १३.७२च्द्]
SK
[५०.१८] जपहोमादिकं सर्वं कृत्वा परमपूरुषम् / [५०.१९] अर्चयित्वा यथान्याय्यं यथापूर्वम् अशेषतः // [Pआद्मS चर्यापाद १३.७३]
SK
[५०.२०] भुक्त्वान्नं विश्य शयने*{४२६}* समुत्थाय महानिशि / [५०.२१] आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् // [Pआद्मS चर्यापाद १३.७४]
SK
[५०.२२] योगासने समासीनो युञ्जीतात्मानम् आत्मना*{४२७}* / [५०.२३] यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख // [Pआद्म.S चर्यापाद १३.७५]
SK
[५०.२४] सहारक्रमम्*{४२८}* आश्रित्य तत्त्वान्य् आत्मनि संहरेत् / [५०.२५] आत्मानञ् चापि हृत्पद्मे परमात्मनि निष्ठिते // [Pआद्म.S चर्यापाद १३.७६]
SK
!{४२२}! Pआद्मS: आहृत्य याज्ञिकार्यैर् वा.
SK
[५१.१] संहरेद् इत्थतो*{४२९}* योगात् स्वापं क्लेशापहं व्रजेत् / [५१.२] इत्य् एष कथितो ब्रह्मन् योगः कालश् च पञ्चमः // [Pआद्म.S चर्यापाद १३.७७]
SK
[५१.३] पञ्चैते समयाः पञ्चविधयस्*{४३०}* तेषु दर्शिताः / [५१.४] इत्थम् एतेषु कालेषु दर्शितैः कर्मभिर् नरः // [Pआद्मS चर्यापाद १३.७८]
SK
[५१.५] आराधनं भगवतः कुर्वन् नैवावसीदति / [५१.६] वर्षेषु द्वादशसु*{४३१}* एवम् अनुतिष्ठन् समाहितः // [Pआद्म.S चर्यापाद १३.७९]
SK
[५१.७] क्रियाकलापम् अखिलं याति सायुज्यसम्पदम् / [५१.८] षट्सु वर्षेषु सारूप्यं सामीप्यं त्रिषु निश्चितम्* //{४३२}* [Pआद्मS चर्यापाद १३.८०]
SK
[५१.९] सालोक्यं फलम् एकस्मिन् वत्सरे नात्र संशयः //᳚ [Pआद्मS चर्यापाद १३.८१अब्]
SK
[५१.१०-११] इति पाद्मे चर्यापादे त्रयोदशे ऽध्याये अविच्छिन्नतया पञ्चकालानां*{४३३}* प्रतिपादितत्वात् तेषाम् अप्य् अच्छिद्रपञ्चकालपरायणत्वं सम्भवतीति चेत्*{४३४}* - तद् असत्.
SK
[पाञ्चरात्रिणाम् अनियतपरिमितच्छिद्रद्रपञ्चकालपरायणत्वम्]
SK
[५१.१२] तत्रैव: [५१.१३] ᳚पूत्यूषम्*{४३५}* अर्धरात्रञ् च प्रातर् मध्यं*{४३६}*दिनानि च / [५१.१४] पञ्चकाला इमे प्रोक्तास् ततः कालचतुष्टये //
SK
[५१.१५] एतेषु हीनाः प्रत्यूषं*{४३७}* (?) विज्ञेयाश् चतुरानन //᳚
SK
[५१.१६-२०] इत्य् अभिगमनादीनाम् एकरूपेण विना न्यूनातिरिक्तकालत्वेनोक्तत्वात् ᳚कालं मध्यन्दिनच्छिद्र*{४३८}*पञ्चकालपरायणैर्᳚ इत्य् आगमसिद्धान्ते ᳚सान्तरालम् अनुष्ठानं पञ्चकालोदितं तथा᳚ इति तन्त्रसिद्धान्ते च छिद्रपञ्चकालपरत्वस्योक्तत्वात्*{४३९}*, कालचतुष्टयप्रतिपादनेन नियतपञ्चकालपरायणत्वाभावात्, द्वादशवर्षम् आरभ्य एकवर्षपर्यन्तं परिमितपञ्चकालपरत्वस्योक्तत्वात्*{४४०}* द्वादशवर्षाद् ऊर्ध्वं पञ्चकालपरत्वाभावाच् च.*{४४१}*
SK
[५१.२१] तथा, मार्कण्डेये [५१.२२] ᳚महानिशा तु विज्ञेया रात्रेर् मध्यं द्वितीययोः*{४४२}* / [५१.२३] तस्यां स्नानं न कुर्वीत सम्यग् आचमनं तथा //᳚ [Mअर्कण्डेयP]
SK
!{४२९}! Pआद्मS: उत्थितो; सो औछ् DHN[T] १९९.
SK
[५२.१] इत्य् आचमनस्य महानिशायां निषेधात्.*{४४३}*
SK
[५२.२] ᳚यामद्वयं शयानस् तु ब्रह्मभूयाय कल्पते //᳚
SK
[५२.३-४] इति धर्मशास्त्रोक्तनिद्राकाले योगस्यायुक्तत्वाच् च. योगकालस्यार्धरात्रिकत्वे स्वाध्यायकालाद् व्यवहितत्वेन छिद्रपाञ्चकालिकत्वापाताच् च.*{४४४}*
SK
[५२.५-६] कालचतुष्त्वास्यैवोक्तत्वेन अभिगमनादिष्व् एकस्य लोपसम्भवेन अनियतपञ्चकालपरस्य पञ्चकालपरायणशब्दाभिलापासम्भवाच् च.*{४४५}*
SK
[५२.७] तथा: [५२.८] ᳚क्लिश्यन्तीह सुषुप्तानाम् इन्द्रियाणि द्रवन्ति च / [५२.९] अङ्गानि समतां यान्ति उत्तमान्य् अधमैस् सह* //{४४६}*᳚
SK
[५२.१०] इति धर्मशास्त्रेषु प्रातर् आरभ्य सायङ्कालपर्यन्तम् एव कर्माचरणकालत्वेन प्रतिपादनात्.
SK
[५२.११] तथा:*{४४७}* [५२.१२] ᳚अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः / [५२.१३] स्रवत्य् एव दिवारात्रं प्रातस् स्नानं विशोधनम् //
SK
[५२.१४] अस्नात्वा नाचरेत् कर्म जपहोमादि किञ्चन / [५२.१५] स्नात्वाधिकारी भवति दैवे पित्र्ये च कर्मणि //᳚
SK
[५२.१६-२०] इति स्मृतेः स्नानात् पूर्वं तत्त्वसृष्टेर् अयुक्तत्वाच् च. प्रेतप्रायस्य संहृततत्त्वस्य स्वापयोग्यतासम्भवाच् च. तस्मात् ᳚अब्भक्षो वायुभक्ष᳚ इत्यादिशब्दवदवधारणगर्भस्य पाञ्चकालिकशब्दस्य अनियतपरिमितपाञ्चकालिकेषु पाञ्चरात्रिकेषु प्रयोगासंभवाद् अनियतपरिमितछिद्रपाञ्चकालिकाः पाञ्चरात्रिणो न नियताछिद्रपञ्चकालपरायणवैखानसतुल्या भवितुम् अहन्तीति*{४४८}* सिद्धम्.*{४४९}*
SK
[देवतापूजकसामानस्य देवलकत्वम् इत्य् आक्षेपपरिहारः]
SK
[५२.२१] ननु: [५२.२२] ᳚यो देवं पूजयेद् विप्रो वित्तार्थी वत्सरत्रयम् / [५२.२३] स वै देवलको नाम हव्यकव्यबहिष्कृतः* //{४५०}*᳚
SK
[५२.२४-५३.२] इति देवतापूजकस्य देवलकत्वं सम्भवतीति चेत् - तद् असत्. सामान्यतः देवताराधनं ये कुर्वन्ति ते देवलका इति वा? उत श्रुतिस्मृतीतिहासपुराणादिषु मुख्याधिकारित्वेन प्रतिपादिता अपीति वा?. सामान्यतः देवताराधनं ये कुर्वन्ति ते इति चेत् - तर्हि गृहदेवतापूजकानाम् अपि देवलकत्वप्रसङ्गः. किञ्च:*{४५१}*
SK
!{४४३}! DHN[T] २०१ ओम्. आचमनस्य महानिशायां निषेधात्.
SK
[वैखानसानाम् देवलकत्वाभावः]
SK
[५३.३] ᳚ब्रह्मचारी गृहस्थश् च विप्रो वैखानसस् तथा* /{४५२}*
SK
[५३.४] कुर्वन्ति*{४५३}* निजकर्माणि विष्णुम् एव यजन्ति ते //᳚
SK
[५३.५-११] इति सन्ध्योपासनादीनां भगवदाराधनरूपत्वोक्त्या*{४५४}* तेषाञ् च त्यागस् सम्भवति. अतस् सामान्यतः इति*{४५५}* वक्तुम् अयुक्तम्. श्रुतिस्मृतिपुराणादिषु*{४५६}* मुख्याधिकारित्वेन प्रतिपादिता देवलकाः*{४५७}* इति चेत् - तद् असत्. ᳚ऽअग्निर् वै देवानाम् अवमो विष्णुः परमस् तदन्तरेण सर्वा अन्या देवताऽ; इति ब्राह्मणम्. तस्माद् गृहे परमं विष्णुं प्रतिष्ठाप्य सायं प्रातर् होमान्ते ऽर्चयति᳚ इति वैखानससूत्रे*{४५८}*, ᳚प्रवः पान्तम् अन्धसो धियायते महेशूराय विष्णवे चार्चत᳚*{४५९}* इति ऋग्ब्राह्मणम् अनुसृत्य*{४६०}* विष्णुप्रधानतया ᳚स वा एष पुरुषः पञ्चधा पञ्चात्मा᳚ इत्यादिश्रुत्युक्तविष्ण्वादिपञ्चमूर्तीनाम्*{४६१}* आराधनस्य प्रतिपादितत्वात्*{४६२}*.
SK
[५३.१२-१३] आश्वमेधिके ᳚कथं त्वम् अर्चनीयो ऽसी᳚*{४६३}*त्यादेः, वृद्धमनौ ᳚वेदान्तवेदिभिर्᳚*{४६४}* इत्यादेश् चोक्तत्वात्.
SK
[५३.१४-१५] एवम् एव पाञ्चरात्रशैवशिल्पज्यौतिषादिषु उत्कृष्टमुख्याधिकारिप्रतिपादकानां वचनानां वैयर्थ्यप्रसङ्गात् तन्मूलभूतश्रुतिस्मृतिपुराणादीनाम् अप्रामाण्यप्रसङ्गो दुष्परिहरः.*{४६५}*
SK
[वैखानसानाम् भगवद्द्रव्योपभोगादौ दोषाभावः]
SK
[५३.१६-१७] एवं च प्रमाणभूतेषु श्रुतिस्मृतिपुराणादिषु प्रतिपादितानाम् आचारादीनां त्यागः प्रसज्येत्, निष्फलत्वात्. ननु परद्रव्योणालयार्चनं*{४६६}* कुर्वतां देवलकत्वम् इति चेत् न.*{४६७}*
SK
[५३.१८-१९] श्रुतिस्मृतिपुराणादिषु तत्तच्छास्त्रेषु च आलयार्चकानां*{४६८}* मुख्याधिकारित्वेन तद्द्रव्योपभोगार्हत्वेन च प्रतिपादनात्.*{४६९}*
SK
[५३.२०] यथा - मरीचिप्रोक्तायाम् आनन्दसंहितायां विखनसोत्पत्त्यादिकं प्रतिपाद्य: [५३.२१] ᳚तथा त्वदनुजीवित्वे त्वद्द्रव्यानुभवे सति / [५३.२२] यद् भवेद् दोष उत्पन्न इति चिन्ताकुलो ऽस्म्य् अहम्* //{४७०}*᳚ [ĀS ४.७७]
SK
[५३.२३] इति भगवद्द्रव्योपजीवनदोषभीरोः विखनसः*{४७१}* भगवन्तं प्रति प्रश्ने -
SK
[५३.२४] ᳚अथोवाच हृषीकेशो भीरुं तं मुनिसत्तमं* /{४७२}* [ĀS ४.७८अब्]
SK
[५३.२५] वैखानसानां तद् दोषो नास्ति मत्कृतकर्मणाम्* //{४७३}* [ĀS ४.८३अब्]
SK
!{४५२}! Dइएसेर् Hअल्ब्वेर्स् इस्त् äह्न्लिछ् इन् DHN[D] २१.२ zइतिएर्त्.
SK
[५४.१] मद्द्रव्यं हव्यकव्यार्थे दानाभ्यागतपूजने / [ĀS ४.८४च्द्]
SK
[५४.२] मुख्यम् एवास्तु भवतां सदा मत्कर्म कुर्वताम् // [Ā.S ४.८५अब्]
SK
[वैखानसानाम् भगवद्विग्रहविक्रये ऽपि दोषाभावः]
SK
[५४.३] किम् एभिर् बहुभिर् वाक्यैर् अन्यत् ते कथयाम्य् अहम्* //{४७४}* [ĀS ४.८५च्द्]
SK
[५४.४] मद्द्रव्यक्षेत्रबिम्बानाम् आलयानां तथापदि* /{४७५}*
SK
[५४.५] विक्रीणनादिकार्येषु नास्ति दोषो मदाज्ञया* //{४७६}* [ĀS ४.८७]
SK
[५४.६] तस्माद् भवान् अभिमतस् सर्वं कर्म सदा कुरु // [ĀS ]
SK
[५४.७] मदीयधनभोगेन मत्क्रियालोपतस् तव / [५४.८] मच्छरीरतया सत्यम् अपचारो न विद्यते* //{४७७}*᳚ [ĀS ४.८६]
SK
[५४.९] इति भगवद्वचनोदाहरणेन भगवद्द्रव्योपभोगादिषु दोषाभावः प्रतिपादितः.*{४७८}*
SK
[५४.१०-१४] अत्र ᳚अहं भक्तपराधीनो ह्य् अस्वतन्त्र इव द्विज᳚ इत्यादिवचनानुसारेणार्चकपराधीनतां दर्शयितुं, भगवत्प्रीतिविषयीकृतानां वैखानसानां तद्द्रव्योपभोगादिषु दोषगन्धो नास्तीति प्रतिपादनावसरे ᳚मद्द्रव्यं क्षेत्रबिम्बादी᳚त्यादिना कैमुतिकन्यायम् अभिप्रेत्य भगवद्विग्रहविक्रये कृते ऽपि दोषो नास्तीत्य् उच्यते. तावता न तद् अभिप्रेतम्.*{४७९}*
SK
[५४.१५-१६] नन्व् एवम् अपि देवद्रव्योपभोगदोषस् सामान्यतः मुख्यामुख्याधिकारिषु सर्वेष्व् आपद्यते एव इति चेत् न.*{४८०}*
SK
[मांसभक्षने नरकपतनम्]
SK
[५४.१७] ᳚ये भक्षयन्ति मांसानि सत्त्वानां*{४८१}* जीवितैषिणाम् / [५४.१८] भक्ष्यन्ते ते ऽपि तैस् सर्वैर् इति ब्रह्माब्रवीत् स्वयम्* //{४८२}* [MBह् १३.११७.३३]
SK
[५४.१९] मां स भक्षयिताम् उत्र यस्य मांसम् इहाद्म्य् अहम् / [५४.२०] एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः* //{४८३}* [MBह् १३.११७.३४]
SK
[५४.२१] न हि मांसं तृणात् कष्ठाद् उपलाद् वापि जयते / [५४.२२] हत्वा जन्तुं भवेन् मांसं तस्मात् तत् परिवर्जयेत्* //{४८४}* [MBह् १३.११६.२६]
SK
[५४.२३] हन्ता चैवानुमन्ता च विशस् ता क्रयविक्रयी / [५४.२४] संस्कर्ता चोपकर्ता च खादकश् चाष्ट घातुकाः* //{४८५}* [MBह् १३.११६.४७]
SK
!{४७४}! Vग्ल्. ĀS १६.४७अब्: किं एभिर् बहुभिर् वाक्यैस् सत्यम् एव वदाम्य् अहं.
SK
[५५.१] धनेन क्रायको हन्ति खादकश् चोपभोगतः / [५५.२] घातुको वधबन्धाभ्याम् इत्य् एष त्रिविधो वधः* //{४८६}* [MBह् १३.११६.३८]
SK
[५५.३] स्वमांसं परमांसेन यो वर्धयितुम् इच्छति / [५५.४] नारदः प्राह धर्मात्मा नरके स विपच्यते* //{४८७}*᳚ [MBह् १३.११७.१०]
SK
[कुत्रचिद् धर्मस्याप्य् अधर्मं, अधर्मस्यापि धर्मत्वञ् च]
SK
[५५.५-६] इत्यादि वचनैः मांसभक्षणेन नरकपतनस्मरणात् भगवत्प्रीत्यर्थं क्रियमाणेषु यज्ञेष्व् अपि मांसभक्षणसत्त्वात् याज्ञिकानाम्*{४८८}* अपि नरकपतनं सम्भवतीति यागस्यापि त्यागप्रसङ्गात्*{४८९}*. [५५.७] ᳚तस्माच् छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ*{४९०}* / [५५.८] ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि //᳚ [MBह् ६.३८.२४]
SK
[५५.९-१२] इति भगवद्वचनात् शास्त्रोक्तानां कर्मणां दोषो नास्तीति चेत्. ᳚मद्द्रव्योपभोगादौ दोषो नास्ती᳚ति भगवता प्रतिपादित्वात् प्रकृते ऽपि दोषो नास्त्य् एव. ᳚वचनात् प्रवृत्तिर् वचनान् निवृत्तिर्᳚ इति खलु शिष्टोक्तिः. एवं कुत्रचिद् धर्मो ऽधर्मः अधर्मश् च धर्मो भवति.*{४९१}*
SK
[५५.१३] यथा [५५.१४] ᳚उक्ते ऽनृते भवेत् किञ्चित् प्राणिनां प्राणरक्षणम् / [५५.१५] अनृतं तत्र सत्यं स्यात् सत्यम् अत्रानृतं भवेत् //
SK
[५५.१६] कामिनीषु विवाहेषु गवां*{४९२}* पीडासु बाधने / [५५.१७] ब्राह्मणाभ्यवपत्तौ च शपथे नास्ति पातकम् //᳚
SK
[५५.१८-१९] ᳚यद्ब्राह्मणश् चाब्राह्मणश् च प्रश्नम् एयातां ब्राह्मणायाधिब्रूयात् यद्ब्राह्मणायाध्यात्मने*{४९३}* ऽध्याह यद् ब्राह्मणं पराहात्मानं पराह तस्माद् ब्राह्मणो न परोच्यः᳚ इत्य् श्रुतिश् च.
SK
[५५.२०-२१] श्रौतसूत्रे च: ᳚सर्व एवम् अभिवादयन्ति नाभिवादयति न जुहोत्य् अन्यत्र सोमाङ्गेभ्यः᳚ इत्यादि प्रतिपाद्यते.*{४९४}* [५५.२२] ᳚सर्वस्वहरणे भार्यावेश्ययोः (?) प्राणसंशये / [५५.२३] गोद्विजार्थे विवादे च शपथे नास्ति पातकम् //᳚
SK
[५५.२४] इत्यादि स्मृतिश् च.*{४९५}*
SK
[५५.२५] एवं च शास्त्रोक्तप्रकारेण भगवदर्चनं कुर्वतां तद्द्रव्योपभोगे*{४९६}* न दोषः.
SK
!{४८६}! MBह्: घातको.
SK
[देवलकत्वलक्षणविचारः]
SK
[५६.१-२] किञ्च - किं देवलकत्वं जातिपरम्, उत कर्मपरम्? जातिपरम् इति वक्तुं न शक्यते. तथानुक्तत्वात्*{४९७}*. इच्छया कल्पितुम् अशक्यत्वाच् च.*{४९८}*
SK
[अविहितकर्मकर्तृत्वम् एव देवलकत्वम्]
SK
[५६.३-४] अथ कर्मपरम् इति चेत्. विहितकर्मपरम्, उत अविहितकर्मपरम्?*{४९९}* विहितकर्मपरम् इति वक्तुम् अशक्यम् - श्रुतिस्मृतीतिहाससूत्रपुराणादीनाम्*{५००}* अप्रमाण्यप्रसङ्गात्.
SK
[५६.५] विहितधर्मपरत्वेनानुक्तत्वात्.*{५०१}* [५६.६] ᳚श्रुतिस्मृती ममैवाज्ञा यस् ताम् उल्लङ्घ्य वर्तते / [५६.७] आज्ञाच् छेदी मम द्रोही मद्भक्तो ऽपि न वैष्णवः* //{५०२}*᳚
SK
[परद्रव्यकृतस्याप्य् आराधनस्य निर्दोषत्वम्]
SK
[५६.८] इति भगवदाज्ञाभङ्गदोषाच् च. एवं च अविहितकर्मपरम् इति हि परिशिष्यते.*{५०३}*
SK
[५६.९-१०] ननु - परद्रव्येण कृतं भगवदाराधनं क्रतुवत् परार्थम् एव भवतीति चेत् मैवम्.*{५०४}* [५६.११] ᳚अन्यधर्मपरो विप्रो भ्रष्टो गच्छत्य् अधोगतिम् / [५६.१२] मत्कर्मनिरतो विप्रो नाधः पतति कुत्रचित् //᳚
SK
[५६.१३] इति भगवद्वचनात्*{५०५}*. [५६.१४] पुराणान्तरे: ᳚स्वस्मिन्न् अर्पितमात्रेण येन केनापि कर्मणा / [५६.१५] तुष्टो ददाति स्वपदम् अहो वत्सलता*{५०६}* हरेः //᳚ इति.
SK
[५६.१६] किञ्च:
SK
[दक्षिणाप्रतिग्रहे दोषाभवः]
SK
[५६.१७] ᳚एकविंशतिनिष्कन्तु दद्याद् आचार्यदक्षिणाम् / [५६.१८] ऋत्विजान् तु तदर्धं स्यात् तदर्धम् इतरस्य च //᳚
SK
[५६.१९] इति दक्षिणादानं प्रतिपाद्यते.*{५०७}*
SK
[५६.२०] ननु - ᳚प्रतिग्रहेण विप्रस्य ब्राह्मं तेजो विनश्यति* //{५०८}*᳚ इति मनुवचनात्*{५०९}* [MअनुDह्Ś ४.१८६च्द्]
SK
[५६.२१-२५] ᳚प्रतिग्रहेण तेजो हि विप्राणां शाम्यते᳚ इत्य् आनुशासनिकवचनाच् च प्रतिग्रहेण ब्रह्मतेजोनाशनं स्मर्यते. श्रूयते प्रतिग्रहे प्रायश्चित्तम् अपि. ᳚यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृह्य वानश्नंस् त्रिस् स्वाध्यायम् अधीयीत त्रिरात्रं सावित्रीं गायत्रीम् अन्वतिरेचयति वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वरः᳚ इति.
SK
[५६.२५] अतः प्रतिग्रहे दोषो ऽस्तीति चेत् - न.*{५१०}*
SK
!{४९७}! DHN[T] २४२: अनुक्तत्वात्.
SK
[हरिस्मरणस्य मोक्षप्रदत्वम्]
SK
[५७.१] ᳚त्रायन्ते खलु नात्यन्तम् अन्यधर्मास् स्वनुष्टिताः / [५७.२] अपि मत्कर्म विगुणं त्रायते महतो भयात् //
SK
[५७.३] मेरुमन्दरमात्रो ऽपि राशिः पापस्य कर्मणः / [५७.४] केशवं वैद्यम् आसाद्य अब् हिएर् नोछ् Tएलुगु वेर्ग्लेइछेन्दुर्व्याधिर् इव नश्यति //
SK
[५७.५] निधिस्थानं खनन् द्वेषात् मृदर्थं वाप्नुयान् निधिम् / [५७.६] अज्ञः कामाच् च दोषाच् च स्मृत्वैवं मोक्षभाक्तथा //
SK
[५७.७] द्वेषिणा वाप्रयत्नेन क्षिप्तो ऽग्निः कक्षमादहेत् / [५७.८] कथम् अभ्यर्चितो विष्णुः न दहेत् सर्वकिल्बिषम् //
SK
[५७.९] यथाज्ञो वज्रकायस् स्यात् स्पर्धन्न् अपि सुधां पिबन् / [५७.१०] एवं विरुद्धभावो ऽपि मुच्यत्य् एव हरिं स्मरन् //᳚ इति
SK
[५७.११] नारदीये: ᳚कृतापि दम्भहास्याद्यैर् यत् सेवा तारयेज् जनान् / [५७.१२] विफला नान्यकर्मेव कृपालुः को ऽन्वतः परम् // [NआरदP.]
SK
[५७.१३] हास्यानादरमायाभिर् अपि भक्तिः कृता त्वयि / [५७.१४] नृणां ददातीन्द्रपदं सात्त्विकानां किम् उच्यते // [NआरदP]
SK
[५७.१५] वस्तुस्वभाव एवैष यन्मोक्षाय हरिस्मृतिः / [५७.१६] पूषेव ध्यान्तनाशाय श्शीतशान्त्यै यथानलः // [NआरदP.]
SK
[५७.१७] सैषा हरिस्मृतिऋ दैत्यं क्रोधाद् अपि कृता सती / [५७.१८] आनयेत् सद्गतिं विप्रं सानुगं किमु वर्ण्यते // [NआरदP.]
SK
[५७.१९] यथामृतार्थं यततां सुराणाम् अब्धिमन्थने / [५७.२०] पारिजातादिकान्य् आसन् फलान्य् अप्रार्थितान्य् अपि // [NआरदP.]
SK
[५७.२१] एवं मोक्षैकचित्तानां यतताम् ईशसंस्मृतौ / [५७.२२] भवन्ति सिद्धयो दिव्याः पुण्य*{५११}* पुण्यानुबन्धि यत् //᳚ इत्यादि [NआरदP]
SK
[५७.२३] तत्रैव: ᳚सुरातिथ्यर्चनकृते गुरुभृत्यर्थम् एव च / [५७.२४] सर्वतः प्रतिगृह्णीयात् न तु दुष्येत् स्वयं ततः //᳚ [NआरदP]
SK
!{५११}! Lइएस्: पुण्यं.
SK
[५८.१-२] इति च स्मरणात्. अतः शास्त्रोक्तमार्गेण भगवद्यजनविधौ प्रवृत्तानां तत्तत्कर्मसु दक्षिणाप्रतिग्रहे कृते ऽपि न दोषः.
SK
[आलयार्चनायाः महाभारतादिसंमतत्वम्]
SK
[५८.३] गृहार्चनाव्यतिरेकेणालयार्चना भारतादिषु प्रतिपादिता दृश्यते. यथा -
SK
[५८.४] महाभारते आश्वमेधिके ᳚कथं त्वम् अर्चनीयो ऽसी᳚त्य् आदि. [MBह् १४ Aप्प्. ४.१६५२प्र्]
SK
[५८.५] विष्णुधर्मोत्तरे षष्ठे ऽध्याये: [५८.६] ᳚यस् तु देवगृहस्यार्थं प्राकारं परिकल्पयेत् / [५८.७] स तु स्वर्गं समासद्य विमानाधिपतिर् भवेत् // [Vइष्णुधर्मोत्तर.P ]
SK
[५८.८] यस् तु देवालयस्याग्रे शिलादारुभिर् एव वा / [५८.९] करोति तोरणं रम्यं स तु स्वर्गाधिपो भवेत् // [Vइष्णुधर्मोत्तर.P ]
SK
[५८.१०] यस् तु देवालयं विष्णोर् दारुशैलमृदा तथा / [५८.११] इष्टकाकल्पितं वापि कुर्यात् तस्य फलं बहु // [Vइष्णुधर्मोत्तर.P ]
SK
[५८.१२] अहन्यहन्य् अश्वमेध- सहस्राणि करोति यः / [५८.१३] प्राप्नोति मण्डपं विष्णोः यः कारयति मानवः // [Vइष्णुधर्मोत्तर.P ]
SK
[५८.१४] केशवस्य स तल्लोकम् अक्षय्यं प्रतिपद्यते / [५८.१५] प्रतिमार्थं महाविष्णोस् साधयेद् उत्तमां शिलाम् // [Vइष्णुधर्मोत्तरP ]
SK
[५८.१६] षष्टिर्वर्षसहस्राणि स्वर्गलोके महीयते //᳚ इति. [Vइष्णुधर्मोत्तरP ]
SK
[५८.१७-१९] एतेषां च प्राकारतोरणमण्डपविग्रहशिलादीणां गृहदेवतास्वसंभवः श्रीवैखानससंहितासु प्रतिपादितः. प्रसङ्गाद् अर्चकमहिमादीह कथ्यते.
SK
[अर्चकमाहात्म्यम्]
SK
[५८.२०] बृहन्नारदीये: ᳚स कदाचिन् महापापो जन्तूनामन्तकोपमः //᳚ [Bऋहन्नारदP]
SK
[५८.२१] इत्य् आरभ्य [५८.२२] ᳚तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् / [५८.२३] छादितं हेमकवचैः दृष्ट्वा व्याधो मुदा ययौ // [Bऋहन्नारदP]
SK
[५८.२४] हराम्य् अत्र सुवर्णानि बहूनीति स निश्चितः / [५८.२५] जगाम विष्णुभवनं कीनाशश् चौर्यलोलुपः // [Bऋहन्नारदP]
SK
[५९.१] तत्रापश्यद् द्विजवरं शान्तं तत्त्वार्थकोविदम् / [५९.२] परिचर्यापरं विष्णोर् उदङ्कं तपसां निधिम् // [Bऋहन्नारदP]
SK
[५९.३] एकान्तिनं दयालुञ् च निस्स्पृहं ध्यानलोलुपम् / [५९.४] दृष्ट्वा तं लुब्धको मेने स्वकार्यस्यान्तरायिनम् // [Bऋहन्नारदP]
SK
[५९.५] देवस्य द्रव्यजातन् तु समादातुमना निशि //᳚ [Bऋहन्नारदP]
SK
[५९.६-७] इत्यादिनापृथगालयार्चकसद्भावादिकं उक्त्वा स्वकार्यान्तराय भूतार्चकहिंसायां प्रवृत्तस्य तस्य मरणम् अपि प्रतिपाद्य.
SK
[विष्णुपादोदकमाहात्म्यम्]
SK
[५९.८] ᳚उदङ्कः पतितं प्रेक्ष्य लुब्धकन्तु दयापरः / [५९.९] विष्णुपादोदकेनैनम् अभ्यषिञ् चन्महामुनिः //
SK
[५९.१०] हरिपादोदकस् पर्शाल् लुब्धको वीतकल्मषः / [५९.११] दिव्यं विमानमारुह्य मुनिम् एनम् अथाब्रवीत् //᳚
SK
[५९.१२] इति भगवत्पादोदकमाहात्म्यं च प्रतिपादितम्.
SK
[५९.१३] तत्रैव - यज्ञध्वजवीतिहोत्रसंवादे:
SK
[आलये दीपस्थापनादेः फलम्]
SK
[५९.१४] ᳚स कदाचित् तु कामान्धो रन्तुकामः परस्त्रियम् / [५९.१५] शून्यं पूजादिभिर् विष्णोर् मन्दिरं प्राप्तवान् निशि //
SK
[५९.१६] तत्र कामोपभोगार्थं शयितुं तेन कामिना / [५९.१७] स्ववस्त्रप्रान्ततो ब्रह्मन् कृतं तद्देशमार्जनम् //
SK
[५९.१८] यावन्तः पांसुकणिकाः तेन सम्मार्जितास् तदा / [५९.१९] तावज् जन्मकृतं पापं तदैव क्षयम् आगतम् //
SK
[५९.२०] प्रदीपः स्थापितस् तत्र सुरतार्थं द्विजोत्तम / [५९.२१] तेनापि तस्य दुष्कर्म निश्शेषं क्षयम् आगतम् //
SK
[५९.२२] अवशेनापि यत्कर्म कृत्वेमां सिद्धिम् आगतः / [५९.२३] भक्तिमद्भिः प्रशान्तैश् च किं पुनस् सम्यगर्चनात् //
SK
[आलयप्रदक्षिणफलम्]
SK
[६०.१] तस्माच् छ्रुणुत विप्रेन्द्राः देवो नारायणो ऽव्ययः / [६०.२] ज्ञानतो ऽज्ञानतो वापि पूजकानां विमुक्तिदः //᳚
SK
[६०.३] तथा तत्रैव - इन्द्रसुधर्मसंवादे: [६०.४] ᳚अहमासं पुरा शक्र गृध्रः पापावशेषतः / [६०.५] स्थितश् च भूमिभागे वै अमेध्यामिषभोजनः //
SK
[६०.६] एकदाहं विष्णुगृहे प्राकारे संस्थितः प्रभोः / [६०.७] पतितो व्याधशस्त्रेण सायं विष्णुगृहं गते //
SK
[६०.८] मयि कण्ठगतप्राणे कश्चित् श्वा मांसलोलुपः / [६०.९] जग्रह मां स्ववक्त्रेण श्वभिर् अन्यैर् अभिद्रुतः //
SK
[६०.१०] गतः प्रदक्षिणाकारं विष्णोस् तन्मन्दिरं प्रभोः / [६०.११] तेनैव तुष्टिम् आपन्नः अन्तरात्मा जगन्मयः //
SK
[६०.१२] मम चापि शुनश् चापि दत्तवान् परमं पदम् / [६०.१३] प्रदक्षिणाकारतबिस् हिएर् नोछ् Tएलुगु वेर्ग्लेइछेन्या गतस्य सदृशं फलम् //
SK
[६०.१४] सम्प्राप्तं तु मया शक्र*{५१२}* किं पुनस् सम्यग् अर्चनात् / [६०.१५] ये ऽर्चयन्ति सदा भक्त्या नारायणम् अनामयम् / [६०.१६] तान् अर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः //᳚*{५१३}* इति
SK
[अमेध्यानि पञ्च]
SK
[६०.१७] एवम् आश्वमेधिके: ᳚लोके त्रीण्य् अपवित्राणि पञ्चामेध्यानि भारत / [MBह् १३, Aप्प्. ४.३२४९]
SK
[६०.१८] श्वा च शूद्रश् श्वपाकश् च त्र्यपवित्राणि पाण्डव* /{५१४}* [MBह् १३, Aप्प्. ४.३२५०]
SK
[६०.१९] देवलः कुक्कुटो यूपः उदक्या वृषलीपतिः //᳚ [MBह् १३, Aप्प्. ४.३२५१]
SK
[६०.२०] पञ्चमेध्यानि*{५१५}* इति.
SK
[भगवत्पूजाद्यनधिकारिणः]
SK
[६०.२१] श्रीवैखानसे: ᳚सूतादिप्रतिलोमाश् च पाषण्डाः पतितास् तथा / [६०.२२] नास्तिका भिन्नमर्यादास् तथा वेदविदूषकाः //
SK
[६०.२३] पापरोगयुताश् चैव तथैव गुरुनिन्दका /
SK
[६०.२४] अर्चनं देवदेवस्य हविर्दानञ् च वीक्षितुम् /
SK
!{५१२}! DHN[T] २५३: सम्प्राप्तं विबुधश्रेष्ठ.
SK
[६१.१] नार्हन्ति तस्मात् कुर्वीत द्वारं यवनिकावृतम् //᳚
SK
[६१.२-३] इति प्रतिपादनात् भगवदर्चनदर्शनादिषु योग्यतारहितानां निकृष्टानां (देवलकानां) औत्कृष्ट्यं न सम्भवति.*{५१६}*
SK
[अद्वारकभगवद्याजिनाम् उत्कृष्टत्वम्]
SK
[६१.४-६] श्रुतिस्मृतिपुराणादिषूक्तप्रकारेण कल्पसूत्रे*{५१७}* येषाम् अद्वारकभगवद्यजनाधिकारो विधीयते ते उत्कृष्टा ज्ञेयाः*{५१८}*. यथा श्रुतिः: ᳚यथा क्रतुर् अस्मिन् लोके भवति तथेतः प्रेत्य भवति᳚*{५१९}* इति. [६१.७] स्मृतिश् च*{५२०}*: ᳚वेदोक्तेनैव भार्गेण*{५२१}* सर्वभूतहृदि स्थितम् / [६१.८] माम् अर्चयन्ति ये भक्तास्*{५२२}* सायुज्यं यान्ति ते मम //
SK
[६१.९] तस्माद् यावज् जनो जीवेत् तावत् सम्पूजयेद् धरिम् / [६१.१०] पापैर् न लिप्यते मर्त्यो*{५२३}* हरिमन्दिरम् आप्नुयात् //
SK
[६१.११] जगत् पवित्रास् ते नित्यं विष्णुम् अभ्यर्चयन्ति ये / [६१.१२] दुर्वृत्ता वा सुवृत्ता वा पूजनीया विशेषतः //᳚
SK
[वैखानसानां भगवत्प्रीतिपात्रत्वम्]
SK
[६१.१३-१६] व्यासेनपि*{५२४}* आनुशासनिके (९०. अध्याये) पात्रकथनावसरे*{५२५}* देवलकानाम् अपात्रतां सत्कर्मनिष्ठानां पात्रताञ् च प्रतिपाद्य स्ववचनदृढीकरणार्थं ᳚वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्᳚*{५२६}* इति भगवत्प्रीतिविषयाणां*{५२७}* वैखानसानां वचनम् अपि श्रूयते इति प्रतिपादितम्. यथा:
SK
[६१.१७] *{५२८}*᳚ऋषीणां समयं नित्यं ये रक्षन्ति युधिष्ठिर* /{५२९}*
SK
[६१.१८] निश्चिताः सर्वधर्मज्ञास् तान् देवा ब्राह्मणान् विदुः // [MB.ह् १३.९.४२]
SK
[६१.१९] स्वाध्यायनिष्ठा ऋषयो*{५३०}* ज्ञाननिष्ठास् तथैव च / [६१.२०] तपोनिष्ठाश् च बोद्धव्याः कर्मनिष्ठाश् च भारत // [MBह् १३.९.४३]
SK
[६१.२१] कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत / [६१.२२] तत्र ये ब्राह्मणान् के चिन् न च निन्दन्ति ते वराः* //{५३१}* [MBह् १३.९.४४]
SK
[६१.२३] ये तु निन्दन्ति जल्पेषु न ताञ् श्राद्धेषु भोजयेत् / [६१.२४] ब्राह्मणा निन्दिता राजन् हन्युस् त्रिपुरुषं कुलम्* //{५३२}* [MBह् १३.९.४५]
SK
!{५१६}! DHN[T] २५४ स्तत्त् DHN[D] ६१.२-३: (इति) भगवद्दर्शनादिषु योग्यतारहितानां निकृष्टानां उत्कृष्टत्वादिकं न सम्भवति. भगवदर्चकानाम् औत्कृष्ट्यं.
SK
[६२.१] वैखानसानां वचनम् ऋषीणां श्रूयते नृप / [६२.२] दूराद् एव परीक्षेत ब्राह्मणान् वेदपारगान् / [६२.३] प्रियो वा यदि वा द्वेष्यः तेषु तच् छ्राद्धम् आवपेत्* //{५३३}* [MBह् १३.९.४६]
SK
[६२.४] यः सहस्रं सहस्राणां भोजयेद् अनृचां नरः / [६२.५] एकस् तान् मन्त्रवित् पूतः सर्वान् अर्हति भारत* //{५३४}*᳚ [MBह् १३.९.४७]
SK
[अष्टाक्षरादिमन्त्रजपनिष्ठानां महिमा]
SK
[६२.६-७] एवं अष्टाक्षर द्वादशाक्षर पुरुषसूक्तादिमन्त्रजपनिष्ठानां दर्शनेन ब्रह्महा ऽपि शुद्ध्यतीति पुराणोक्तम्. यथा*{५३५}*: [६२.८] *{५३६}*पद्मपुराणे: ᳚साङ्गं समन्त्रं सन्यासं सर्षिच्छन्दोधिदैवतम् / [६२.९] सदीक्षाविधि सध्यानं सयन्त्रं द्वादशाक्षरम् // [Pअद्म.P ]
SK
[६२.१०] साष्टाक्षरञ् च मन्त्रेशं ये जपन्ति नरोत्तमाः / [६२.११] तान् दृष्ट्वा ब्रह्महा शुद्ध्येत् किं पुनर् वैष्णवस् स्वयम् //᳚ इति [Pअद्मP ]
SK
[६२.१२-१४] श्रुयते ऽपि. ᳚यो ह वै नारायणस्याष्टाक्षरं पदम् अध्येति अनुपब्रवस् सर्वम् आयुर् एति विन्दते प्राजापत्यं रायस्पोषं गौपत्यं ततो ऽमृतत्वम् अश्नुते ततो ऽमृतत्वम् अश्नुत इति᳚.
SK
[६२.१५] श्रीपाञ्चरात्रे कपिञ्जलसंहितायाम्: [६२.१६] ᳚याजनाध्यापनयुतः शिष्यानुग्रहकारकः / [६२.१७] आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः* //{५३७}* [Kअपिञ्जलS]
SK
[६२.१८] आश्रमे वा वने वा ऽपि स वैखानस उच्यते* /{५३८}*
SK
[६२.१९] ग्राम्यधर्माणि सर्वाणि वर्जयेद् वनवासकः //᳚*{५३९}* इति. [Kअपिञ्जलS]
SK
[६२.२०] यमस्मृतौ: ᳚यो ऽनुचानं*{५४०}* द्विजं मर्त्यो हतवान् अर्थलोभतः / [६२.२१] स वदेत् पौरुषं सूक्तं जलस्थश् चिन्तयेद् धरिम्* //{५४१}*᳚
SK
[६२.२२-२४] इति केवलाष्टाक्षरमन्त्रजपनिष्ठानाम् अप्य् एवं विधाः प्रभावाः श्रूयन्त इति चेत् श्रुतिस्मृतिविहितैस् तैर् एव मन्त्रैः अद्वारकभगवदर्चने मुख्यादिकारिणां वैखानसानां कैमुतिकन्यायसिद्धम् औत्कृष्ट्यं केनापोदितुं शक्यम्.*{५४२}*
SK
!{५३३}! MBह्: प्रियान् वा यदि वा द्वेष्यांस्.
SK
[देवलकनिरूपणम्]
SK
[६३.१-३] किञ्च - यथा वैखानसानाम् उत्पत्त्यादिकं श्रुतिस्मृतिपुराणादिषु विशेषेण प्रतिपादितं तथा इतरेषां विशेषेण प्रतिपादितञ् चेत् तदा वैखानससाम्यम् इतरेषां स्यात्. तथा न दृश्यते हि.
SK
[६३.४] अथ वस्तुतो देवलका निरूप्यन्ते.*{५४३}* [६३.५] वैखानसे: ᳚अवैखानसविप्रो यः पूजयेद् आलये हरिम् / [६३.६] स वै देवलको नाम हव्यकव्यबहिष्कृतः* //{५४४}*
SK
[६३.७] वैखानसकुले जातः पाञ्चरात्रेण दीक्षितः /
SK
[६३.८] न दीक्षितो न सञ्जातो (?) लोभान् मोहान् मदर्चनम्* /{५४५}*
SK
[६३.९] कुर्याच् चेत् तु विशेषेण भवेद् देवलकस् तो सः //᳚*{५४६}*
SK
[देवलकत्रैविद्यम्]
SK
[६३.१०] पाञ्चरात्रे संकर्षणसंहितायाम्: ᳚कर्मदेवलकाः केचित् कल्पदेवलकाः परे / [६३.११] शुद्धदेवलकाश् चान्ये त्रिधा देवलकाः स्मृताः // [Sअङ्कर्षणसंहिता.]
SK
[कर्मदेवलकलक्षणम्]
SK
[६३.१२] अर्थार्थी कालनिर्देशी यो देवं पूजयेत् स हि / [६३.१३] कर्मदेवलको नाम सर्वकर्मबहिष्कृतः // [Sअङ्कर्षणसंहिता.]
SK
[६३.१४] पाञ्चरात्रविधानज्ञो दीक्षाविरहितो ऽर्चकः / [६३.१५] चतुर्वेदाधिकारो ऽपि कल्पदेवलकः स्मृतः // [Sअङ्कर्षणसंहिता.]
SK
[६३.१६] आगमोक्तविधानज्ञो भद्रकाल्युपजीवकः*{५४७}* / [६३.१७] शुद्धदेवलकः प्रोक्तः सर्वकर्मबहिष्कृतः // [Sअङ्कर्षणसंहिता.]
SK
[६३.१८] आर्षोक्तेन विधानेन देवलत्वं न विद्यते / [६३.१९] तस्मात् सर्वप्रयत्नेन वैदिकेनैव पूजयेत् //᳚ इति [Sअङ्कर्षणसंहिता]
SK
[६३.२०] शिवशेखरतन्त्रे - रुद्रः: [६३.२१] ᳚अथ देवलकान् वक्ष्ये शृणु देवि समाहिता / [६३.२२] कर्मदेवलकाः केचित् कल्पदेवलकाः परे // [Śइवशेखरतन्त्र]
SK
[६३.२३] शुद्धदेवलकास् त्व् अन्ये त्रिधा देवलकास्मृताः / [६३.२४] अन्यसूत्रोक्तमार्गेण यस् संवत्सरपूजकः //
SK
!{५४३}! DHN[T] २६३-४ स्तत्त् DHN[D] ६३.१-४: पुनर् देवलकत्वादिविचारः. किञ्च - यथा वैखानसानाम् उत्पत्त्यादिकं श्रुतिस्मृतिपुराणादिषु विशेषेण प्रतिपादितं एवम् इतरेषां ब्राह्मणसामान्यत्वेन विना विशेषेण प्रतिपादितं चेत् तदानीमेतादृगुणविशिष्टा वयम् इति. तैर् वक्तुम् उचितम् अन्यथा असंतं? निन्द्याम् आत्मस्तुतिं मूढेतराः स्वपरगतविशेषज्ञाः के वा ब्रूयः? देवलकलक्षणं निरूप्यते यथा.
SK
[Śइवशेखरतन्त्र]
SK
[कल्पदेवलकलक्षणम्]
SK
[६४.१] अदीक्षितः स्वयं तन्त्रे कर्मदेवलकस् तु सः / [६४.२] अनेनैव प्रकारेण वत्सरत्र्यपूजकः / [६४.३] कल्पदेवलकः प्रोक्तः स वै शैलसुते ध्रुवम् // [Śइवशेखरतन्त्र]
SK
[शुद्धदेवलकलक्षणम्]
SK
[६४.४] अननुज्ञातम् आचार्यात् आगमं शुश्रुवे च यः / [६४.५] शीलतः तस्य शिष्यश् च शुद्धदेवलकाव् उभौ // [Śइवशेखरतन्त्र]
SK
[त्रिविधस्यापि देवलकत्वस्य रुद्रादिविषयकता]
SK
[६४.६] त्रिधा देवलकत्वं तु न विष्णुविषये क्वचित् / [६४.७] रुद्रकाल्यादिविषयम् एतद् आगमसंमतम् //᳚ इति [Śइवशेखरतन्त्र]
SK
[६४.८] स्मृत्यन्तरे: ᳚शर्वं सूर्यं तथा चन्द्रं दुर्गादी रुद्रदेवताः / [६४.९] यो ऽर्चयेत् पणपूर्वं सः सद्यः पतति मानवः //
SK
[६४.१०] दुर्गा च भद्रकाली च बुद्धश् च क्षेत्रपालकः / [६४.११] पञ्चपूजा च इत्य् एते पञ्चदेवलकाः स्मृताः //
SK
[६४.१२] आदित्यम् अम्बिकां विष्णुं गणनाथं महेश्वरम् / [६४.१३] गृहे पूजा च इत्य् एते पञ्चदेवलकाः स्मृताः (?) //᳚ इति*{५४८}*
SK
[६४.१४] *{५४९}*विष्णुधर्मोत्तरे: ᳚चण्डिकायाश् च दुर्गाया ज्येष्टाया भैरवस्य च / [६४.१५] रुद्रस्य पूजका ये वै ते वै देवलकाः स्मृताः //᳚ इति [Vइष्णुधर्मोत्तरP ]
SK
[६४.१६] विष्णु: ᳚देवार्चनपरो यो ऽपि*{५५०}* परार्थं वित्तकाङ्क्षया / [६४.१७] चतुर्वेदधरो विप्रः स चण्डालसमो भवेद्* //{५५१}*᳚ इति [Vइष्णुP ]
SK
[६४.१८-१९] *{५५२}*एवम् एभिर् वचनैः शास्त्राननुमतमार्गेण पूजकानां देवतान्तरपूजकानाम् एव च देवलकत्वं सिद्ध्यतीति स्फुटम् अवगम्यते. [६४.२०] किञ्च: ᳚वृषो धर्मस् समाख्यतः तस्य यः कुरुते लयम् / [६४.२१] वृषलं तं विदुर् देवा निकृष्टं श्वपचाद् अपि //᳚
SK
!{५४८}! DHN[T] २७५ इन्स्. इति किञ्च हारीत: वैखानसास् ति ये विप्रा हरिपूजनतत्पराः. न ते देवलका प्रोक्ता विष्णुपादाब्जसंश्रयाः इति. स्मृतिरत्नाकरे अत्रि: वैदिकेनैव विधिना दंभलोभविवर्जितः पूजयेद् भक्तितो विष्णुं स हि देवलको न वै इति. Zइतिएर्त् अल्स् ᳚Hआरीत᳚ इन् DHN[D] ६५.३-४ उन्द् अल्स् ᳚Sमृत्यर्थसार᳚ इन् DHN[D] ६५.५-६.
SK
[देवलकशब्दनिर्वचनम्]
SK
[६४.२२-६५.२] इति वृषलशब्दो यथा वेदशास्त्रोक्तमार्गलयकारके व्युत्पादितः, तथा देवलक्शब्दो ऽपि ᳚दिव् क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिष्व्᳚ इति धात्वर्थानुसारेण गत्यपरपर्यायमार्गार्थकदिव्धातुघटितस्सन् वेदोक्तमार्गलयप्रापके व्युत्पादयितुं शक्यते इति तत्प्रतीपेषु वेदमार्गप्रतिष्ठापकेषु वैखानसेषु न सर्वात्मना प्रवर्तते. तथा च: [६५.३] हारीतः: ᳚वैखानसास् तु ये विप्रा हरिपूजनतत्पराः / [६५.४] न ते देवलकाः प्रोक्ता विष्णुपादाब्जसंश्रयात्* //{५५३}*᳚ इति [Vऋद्धहारीत ८.७८]
SK
[वैखानसानं देवलकशब्दवाच्यत्वाभावः]
SK
[६५.५] स्मृत्यर्थसारे: अत्रि: ᳚वैदिकेनैव विधिना दम्भलोभविवर्जितः / [६५.६] पूजयेद् भक्तितो विष्णुं स हि देवलको न वै* //{५५४}*᳚ इति
SK
[६५.७-८] *{५५५}*अन्यथा श्रुत्युक्तमार्गेणालयार्चकानाम् अपि देवलकत्वे तादृशालयार्चनप्रतिपादकानां श्रुतिस्मृतिपुराणादिवचनानां व्यर्थता स्यात्.
SK
[६५.९-१०] *{५५६}*ननु - अज्ञानतः कृतम् अपि भगवदाराधनम् अपवर्गप्रदञ् चेत्. विना शास्त्रं अनधिकारिणापि कृतं ततपवर्गप्रदं किं न स्याद् इति चेत्. न. भगवदाज्ञाभङ्गापत्तेः. [६५.११] यथोक्तं भगवता: ᳚यश् शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः / [६५.१२] न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् //᳚ इति [MBह् ६.३८.२३]
SK
[६५.१३] ᳚श्रुतिस्मृती ममैवाज्ञा यस् ताम् उल्लङ्घ्य वर्तते / [६५.१४] आज्ञाच्छेदी मम द्रोही मद्भक्तो ऽपि न वैष्णवः* //{५५७}*᳚ इति
SK
[६५.१५] ᳚मम चापि प्रियं विष्णोर् देवदेवस्य शार्ङ्गिणः / [६५.१६] मानुषो वैदिकाचारं मनसा ऽपि न लङ्घयेत् //᳚ इति
SK
[६५.१७-१८] *{५५८}*अतः अनधिकारिणा कृतं शास्त्रासम्मतम् इति तन्त्रोक्तप्रकारेण कृतम् अपि तत् नापवर्गप्रदम्.*{५५९}* [६५.१९] ननु: ᳚ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्रैश् च कृतलक्षणैः / [६५.२०] अर्चनीयश् च सेव्यश् च पूजनीयश् च माधवः / [६५.२१] सात्त्वतं विधिम् आस्थाय गीतः सङ्गर्षणेन*{५६०}* यः //᳚
SK
[तन्त्रानुसारिपूजायाः अपवर्गप्रदत्वाभावः]
SK
[६५.२२-२४] *{५६१}*इति शूद्रादीनाम् अपि पाञ्चरात्रोक्तमार्गेणार्चने अधिकारे सिद्धे कथं तान्त्रिकोक्तप्रकारेणार्चनं कुर्वतः ब्राह्मणादेः (अनधिकारिणः) तत् अपवर्गप्रदं न भवतीत्य् उच्यत इति चेद् उच्यते.
SK
!{५५३}! Vऋद्धहारीत: न ते देवलकाः ज्ञेया हरिपादाब्जसंश्रयात्.
SK
[चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरे ऽनधिकारः]
SK
[६६.१] ᳚प्रथमं मन्त्रसिद्धान्तं द्वितीयञ् चागमाह्वयम् / [Pआद्मS चर्यापाद १९.११२च्द्]
SK
[६६.२] तृतीयं तन्त्रसिद्धान्तं तन्त्रान्तरमतः परम्* //{५६२}*᳚ [Pआद्मS चर्यापाद १९.११३अब्]
SK
[६६.३] इति चतुर्विधेषु सिद्धान्तेषु
SK
[६६.४] ᳚एकत्र दीक्षितस् तन्त्रे सिद्धान्ते वा द्विजोत्तम* /{५६३}*
SK
[६६.५] क्रियां न कुर्याद् अन्यत्र कर्षणादि चतुर्मुख // [Pआद्म.S चर्यापाद १९.१३१]
SK
[६६.६] आचार्यकम् अथार्त्विज्यं पूजाञ् च मधुविद्विषः / [६६.७] मन्त्रे देवे च सिद्धान्ते तद् एवास्य हि युज्यते* //{५६४}*᳚ [Pआद्मS चर्यापाद १९.१३२]
SK
[६६.८] इति चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरे प्रवेशयोग्यताभावस्य प्रतिपादनात्*{५६५}*.
SK
[६६.९] ᳚एकगोत्रसमुत्पन्नं पञ्चगोत्रं पृथक् पृथक् / इत्य् आरभ्य
SK
[६६.१०] सूत्रं कात्यायनं शाखां याजुषं*{५६६}* शुक्लम् एव च //
SK
[६६.११] औपगायनशाण्डिल्यौ भारद्वाजो ऽथ गौतमः / [६६.१२] मौञ्जायनिस् तु पञ्चैते पाञ्चरात्राधिकारिणः* //{५६७}*᳚
SK
[६६.१३] इत्य् अधिकारिभेदस्य विधीयमानत्वात्.
SK
[आपस्तम्बादिसूत्रसंस्कृतस्य पाञ्चरात्रोक्तसंस्कारयोग्यताभावः]
SK
[६६.१४] ᳚चतुर्णाम् अपि वर्णानाम् इतरेषाञ् च तद्भुवाम् / [६६.१५] दीक्षा समैव सर्वेषाम् आचारस् तन्त्रवर्त्मना //᳚ [Pआद्मS चर्यापाद २१.५५]
SK
[तन्त्रोक्तप्रकारेण दीक्षितानाम् एव तन्त्रोक्तार्चनायाम् अधिकारः]
SK
[६६.१६-१८] इत्यापस्तम्बादिसूत्रैः*{५६८}* संस्कृतस्य पाञ्चरात्रोक्तमार्गेण निषेकादिसंस्कारयोग्यताभवकथनात्.*{५६९}* तान्त्रिकोक्तप्रकारेण दीक्षितानाम् एव तन्त्रोक्तार्चनायाम् अधिकारित्व सम्भवात्.
SK
[परधर्मानुष्ठातुः पतितत्वादि]
SK
[६६.१९] ᳚स्वसूत्रे वर्तमाने तु परसूत्रेण वर्तते / [६६.२०] अप्रमाणम् ऋषिं कृत्वा सो ऽन्धे तमसि मज्जति //᳚
SK
[६६.२१] ᳚स्वकीयधर्मम् उत्सृज्य परधर्मं य आश्रयेत्* /{५७०}*
SK
[६६.२२] पतितस् स भवेद् आशु सद्य एव न संशयः //᳚
SK
[६६.२३] ᳚स्वसूत्रस्य परित्यागात् परसूत्रसमाश्रयात् / [६६.२४] सद्यः पतति वै विप्रो न वेदस्य समाश्रये //᳚*{५७१}*
SK
!{५६२}! Pआद्मS: तुर्यं तन्त्रान्तरं भवेत्.
SK
[६७.१] ᳚शाखां शिखां तथा पुण्ड्रं समयाचारम् एव च / [६७.२] पूर्वैर् आचरितं कुर्याद् अन्यथा पतितो भवेत् //᳚
SK
[६७.३] ᳚यस् स्वशाखां परित्यज्य परशाखासु वर्तते / [६७.४] शाखारण्डस् स विज्ञेयस् सर्वकर्मबहिष्कृतः* //{५७२}*᳚ [ĀS ४.५९]
SK
[६७.५] ᳚यस् स्वधर्मं परित्यज्य परधर्मं निषेवते / [६७.६] पाषण्डिनं तम् आहुर् वै निकृष्टं श्वपचाद् अपि //᳚ इति.
SK
[६७.७] भगवान्: ᳚श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् / [६७.८] स्वधर्मे निधनं श्रेयः परधर्मो भयावहः* //{५७३}*᳚ इति. [MBह् ६.२५.३५]
SK
[६७.९] व्यास: ᳚स्वधर्मं यस् समुत्सृज्य परधर्मं समाश्रयेत् / [६७.१०] अनापदि स विद्वद्भिः पतितः परिकीर्तितः //᳚
SK
[६७.११-१२] *{५७४}*इत्यादिभिश् च वचनैः परधर्मानुष्ठातुः पतितत्वादिस्मरणाच् च अन्यसूत्रोक्तप्रकारेण तान्त्रिकोक्तेन मार्गेण वा बाह्मणादिभिर्*{५७५}* अपि अनधिकारिभिः भगवदाराधनं कर्तुं न शक्यते.
SK
[शूद्रस्य पूजायाम् अनधिकारः]
SK
[६७.१३] तर्हि ᳚ब्राह्मणैः क्षत्रियैर् वैश्यैः᳚ इत्यादि *{५७६}*भारतवचनस्य का गतिर् इति चेत् - उच्यते.
SK
[६७.१४] *{५७७}*माधवाः: मुख्यत्वेन अद्वारकभगवद्यजनाधिकारित्वेन निरूपितैः ब्राह्मणैः पूजनीयः.
SK
[६७.१५-१६] *{५७८}*इतरैः क्षत्रियैर् वैश्यैश् चार्चनीयः. शूद्रैः स्त्रीभिश् च यथार्हम् इज्यस् सेव्यश् च इति तस्य वचनस्यार्थः. [६७.१७] ᳚... शूद्रैः स्त्रीभिस् तथेतरैः / [६७.१८] यथार्हम् इज्यस् सेव्यश् च नित्यं सर्वेश्वरो हरिः //᳚
SK
[६७.१९-२२] इति भारद्वाजवचनात् ᳚अर्घ्यान्तम् अर्चनं प्रोक्तं हविरन्तञ् च पूजनम् //᳚ इत्य् अर्चनपूजनयोः भिन्नार्थकत्वप्रतिपादनात्, सर्वैर् एकरीत्या पूजने ऽभिमते एकपदस्यैव पर्याप्तत्वात् इतरयोः पदयोर् वैयर्थ्यापाताच् च. अन्यथा शूद्रस्यापि पूजार्चनादिष्व् अधिकाराङ्गीकारे श्रुतिस्मृतिसूत्रपुराणादिविरोधो भवेत्.
SK
[६७.२३-२५] शूद्रस्यानधिकारप्रतिपादकानि वचनानि चैतानि. श्रुति ᳚तस्माच् छूद्रो यज्ञे ऽनवकॢप्तः. स हि देवता अन्वसृजत तस्माच् छूद्रो बहुपशुर् अयज्ञीयो दैव᳚ इति.
SK
!{५७२}! ĀS: स्वशाखां सम्परित्यज्य परशाखानुसारतः / शाखारण्डस् स विज्ञेयस् सर्वकर्मबहिष्कृतः //.
SK
[६८.१] स्मृति: ᳚जपस् तपस् तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् / [६८.२] देवताराधनञ् चैव स्त्रीशूद्रपतितानि षट् //᳚ इति
SK
[शूद्रस्यद्विजशुश्रूषैव धर्मः]
SK
[६८.३] श्रीभागवते:*{५७९}* ᳚शुश्रूषणं द्विजगवां देवानाञ् चाप्य् अमायया / [६८.४] तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस् त्व् इमाः* //{५८०}*᳚ इति [BहागवतP ११.१७.१९]
SK
[६८.५] मनौ: ᳚ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् / [६८.६] वैश्यस्य तु तपो वार्ता तपश् शूद्रस्य सेवनम् //᳚ इति [MअनुDह्Ś ११.२३५]
SK
[६८.७] अन्यत्र*{५८१}*: ᳚यदि शूद्रस् तपः कुर्याद् वेददृष्टेन वर्त्मना / [६८.८] इह चास्य परिक्लेशः प्रेत्य चास्याशुभा गतिः //᳚ इति.
SK
[६८.९-११] किमर्थं शूद्रस्य द्विजशुश्रूषा सर्वदा अभिहितेति चेत् - उच्यते. जन्मान्तरीयकर्मवशात् जननकाले ऽपि तमोगुणैर् अभिभूतस्य तस्य शूद्रस्य तमोनिरसनार्थं द्विजशुश्रूषणं ब्रह्मणा प्रयुक्तम्.*{५८२}*
SK
[६८.१२] आश्वमेधिके: ᳚उदिते सवितर् यस्य क्रियायुक्तस्य धीमतः / [MBह् १४, Aप्प्. ४.१६९०]
SK
[६८.१३] चतुर्वेदधरस्यापि देहे षड्वृषलाः स्थिताः* //{५८३}* [MBह् १४, Aप्प्. ४.१६९१]
SK
[६८.१४] क्षत्रिये सप्त विज्ञेया वैश्ये त्व् अष्टौ प्रकीर्तिताः* /{५८४}* [MBह् १४, Aप्प्. ४.१६९२]
SK
[६८.१५] नियताः पाण्डवश्रेष्ठ शूद्रे ऽष्टाविंशतिः खलु* //{५८५}*᳚ इत्य् आरभ्य [MBह् १४, Aप्प्. ४.१६९३]
SK
[६८.१६] ᳚रागद्वेषौ च मोहश् च पारुष्यञ् च नृशंसता* /{५८६}* [MBह् १४, Aप्प्. ४.३३४०]
SK
[६८.१७] शाठ्यञ् च दीर्घवैरञ् च अतिमानमनार्जवम्* //{५८७}* [MBह् १४, Aप्प्. ४.३३४१]
SK
[६८.१८] अनृतञ् चापवादश् च पैशुन्यम् अतिलोभता* /{५८८}* [MBह् १४, Aप्प्. ४.३३४२]
SK
[६८.१९] हिंसा स्तेयं मृषावादो वञ्चना रोषलोभते* //{५८९}* [MBह् १४, Aप्प्. ४.३३४३]
SK
[६८.२०] अबुद्धता च नास्तिक्यं भयम् आलस्यम् एव च* /{५९०}* [MBह् १४, Aप्प्. ४.३३४४]
SK
[६८.२१] अशौचञ् चाकृतज्ञत्वं दम्भता स्तम्भ एव च* //{५९१}* [MBह् १४, Aप्प्. ४.३३४५]
SK
[६८.२२] निष्कृतेश् चाप्य् अविज्ञानं जनने शूद्रम् आविशन्* /{५९२}* [MBह् १४, Aप्प्. ४.३३४६]
SK
[६८.२३] दृष्ट्वा पितामहः शूद्रम् अभिभूतन् तु तामसैः // [MBह् १४, Aप्प्. ४.३३४७]
SK
[६८.२४] द्विजशुश्रूषणं धर्मं शूद्राणान् तु प्रयुक्तवान् / [MBह् १४, Aप्प्. ४.३३४८]
SK
[६८.२५] नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः //᳚ इति. [MBह् १४, Aप्प्. ४.३३४९]
SK
!{५७९}! DHN[T] २८२: शूद्रस्य शुश्रूश: भागवते.
SK
[वैखानसेतरसूत्रिणां भगवदाराधनप्रकारः]
SK
[६९.१] अतः तमोगुणाभिभूतस्य शूद्रस्य भगवद्यजनाधिकारो नास्त्य् एव.*{५९३}*
SK
[६९.२-७] नन्व् एषां*{५९४}* शौनकाद्युक्तप्रकारेण भगवदाराधने ऽधिकारो भवेद् इति चेत्*{५९५}* - तद् असत्. तत्र अधिकारिविशेषप्रतिपादनाभवात्; सामान्येनोक्तत्वे ऽपि श्रुतिस्मृतिसूत्रपुराणमहाभारतवैखानसपाञ्चरात्रशैवशिल्पज्यौतिषादिषु अधिकारिणां विशिष्य प्रतिपादितत्वात्*{५९६}* सर्वशाखाप्रत्ययन्यायेन सामान्यविशेषन्यायेन ᳚मत्प्रकरणाधीतं सर्वं मदर्थम्᳚ इति न्यायेन प्रकरणसाम्येन*{५९७}*, उपास्य देवतैक्यात् गुणोपसंहारन्यायेन च शौनकादिभिर् उक्तार्चनाविधेर् अपि अत्रैव पर्यवसानं युक्तम्.
SK
[६९.८-९] *{५९८}* इतरसूत्रिणाम् कथम् इति चेत् - स्वाश्रमधर्माचरणेनैव भगवदाराधनफलम् सिद्ध्यति. यथोच्यते: [६९.१०] स्मृतिषु: ᳚बह्वल्पं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितम् / [६९.११] तस्य तावति शास्त्रार्थे कृते सर्वं कृतं भवेत् //᳚ इति
SK
[६९.१२] श्रीविष्णुपुराणे: ᳚वर्णाश्रमाचारवता पुरुषेण परः पुमान् / [६९.१३] विष्णुर् आराध्यते पन्था नान्यस् तत्तोषकारकः //᳚ [Vइष्णुP २.८.९]
SK
[६९.१४] तथान्यत्र: ᳚वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम / [६९.१५] तेषु तिष्ठन् नरो विष्णुम् आराधयति नान्यथा* //{५९९}* [Vइष्णुP ३.८.१९.१-२?]
SK
[६९.१६] ये यजन्ति पितॄन् देवान् ब्राह्मणांश् च हुताशनम् / [६९.१७] सर्वभूतान्तरात्मानं विष्णुम् एव यजन्ति ते //᳚ इति
SK
[६९.१८] पुराणान्तरे: ᳚अग्निकार्यं जपं स्नानं तपस् स्वाध्यायम् एव च / [६९.१९] तम् एवोद्दिश्य देवेशं कुरु नित्यम् अतन्द्रितः //
SK
[६९.२०] प्रातर् उत्थाय विधिवत् स्नात्वा नित्यं समाहितः / [६९.२१] यजेत् कर्मभिस् तैस् तैः विष्णुं देवादिसंज्ञितम् //᳚
SK
!{५९३}! DHN[T] २८५: नास्यैव
SK
[७०.१] शाण्डिल्य:᳚प्रकृत्तैश् च निवृत्तैश् च स्वर्गदैर् मोक्षदैर् अपि / [७०.२] आराध्यो भगवान् एव वेदधर्मैस् सनातनैः // [Śआण्डिल्यस्मृति.]
SK
[७०.३] स एव सर्वथोपास्यो नान्यस् संसारतारकः / [७०.४] उभाभ्यां ज्ञानकर्मभ्याम् आराध्यो भगवान् हरिः //᳚ इति [Śआण्डिल्यस्मृति]
SK
[७०.५] शान्तिपर्वणि: ᳚स्वयम्भूविहितो*{६००}* धर्मो यो यस्य हि*{६०१}* नरेश्वर / [MBह् १४, Aप्प्. ४.२२२]
SK
[७०.६] स तेन क्षपयेत् पापं सम्यग् आचरितेन हि //᳚ इति [MBह् १४, Aप्प्. ४.२२३]
SK
[७०.७] पाद्मे: ᳚धर्मान् निजांश् च शास्त्रोक्तान् वर्णधर्मान् अशेषतः / [७०.८] पालयन्तीह ये वैश्या न ते यान्ति यमालयम् //᳚ इति [Pअद्मP ]
SK
[७०.९] स्मृत्यन्तरे: ᳚श्रुतिस्मृतिसदाचारविहितं कर्म यस् सदा / [७०.१०] स्वस्वधर्मं प्रयत्नेन श्रेयो ऽर्थीह समाश्रयेत् //᳚
SK
[७०.११-१२] ᳚नान्यः पन्था विद्यते ऽयनाये᳚ ऽति ᳚ब्राह्मणा विविदशन्ति यज्ञेन दानेन तपसानाशकेन᳚ इति च श्रुतिर् इमम् अर्थं द्रढयन्ति.
SK
[७०.१३-१५] अतः अद्वारकभगवद्यजनाधिकारिभिः श्रीमद्वैखानससूत्रिभिस् साम्यं केषाञ्चिद् अपि नोपपद्यते इति कृतं पल्लवितेन. एतावता ᳚अखिलजगत्कारणभूतेन विखनसा प्रणीतत्वात्᳚ इति प्रथमो हेतुः निरूपितः.
SK
[७०.१६] इति प्रथमहेतुनिरूपणम्
SK
!{६००}! MBह्: स्वयंभुविहितो.
SK
[७१.१] अथ द्वितीयहेतुनिरूपणम्
SK
[७१.२] अथास्य वैखानससूत्रस्य सर्वसूत्राणाम् आदित्वं निरूप्यते. तथा हि:
SK
[वैखानससूत्रस्य सर्वसूत्रापेक्षया आदित्वम्]
SK
[७१.३] ब्रह्मकैवर्ते: ᳚ यथा मुनीनां विखना आदिभूत उदाहृतः / [७१.४] सूत्राणां तत्प्रणीतन् तु तथा श्रेष्टतमं स्मृतम् //᳚*{६०२}* इति [Bरह्मकैवर्तP ]
SK
[७१.५] पुरातन्त्रे भृगु: ᳚वेदानां व्यासनाद् अर्वाक् प्राग्रूपं मिलितन् तु यत् / [७१.६] तान् तु वैखानसीं शाखाम् इति वेदविदो विदुः //᳚*{६०३}* इत्य् आरभ्य [Pउरातन्त्र]
SK
[७१.७] ᳚वैष्णवं सूत्रम् एतद् धि सर्वसिद्धिकरं परम् / [७१.८] आद्यत्वात् सर्वसूत्राणां वैष्णवत्वाच् च तत् तु वै // [Pउरातन्त्र]
SK
[७१.९] मयानुवर्तितं तद्वत् काश्यपात्रिमरीचिभिः //᳚*{६०४}* इति [Pउरातन्त्र]
SK
[७१.१०] स्कान्दे च: ᳚वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् / [७१.११] पद्मभूः परमो धाता तस्मिन्न् आराधनत्रयम्* //{६०५}*
SK
[७१.१२] उक्तवान् निगमार्थानाम् आचारं प्रविभागशः*{६०६}* //᳚ इति [Sकन्दP ]
SK
[आदौ चतुरश्रस्य रविमण्डलस्य कालान्तरे वर्तुलत्वम्]
SK
[७१.१३-१४] सूत्रार्थपर्यालोचनयापि सर्वसूत्रादित्वम् अस्यावगम्यते. यथा -᳚मुख्याद् इन्द्रश् चाग्निश् चे᳚ ति भगवन्मुखाद् अग्निसृष्टिः श्रूयते. तथा:
SK
[७१.१५] आश्वमेधिके - भगवद्वचनम्:
SK
[७१.१६] ᳚प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनः प्रभुः / [MBह् १४, Aप्प्. ४.२५७२]
SK
[७१.१७] सृष्टमात्रो जगत्सर्वम् अत्तुम् ऐच्छत् पुरा खलु* //{६०७}* [MBह् १४, Aप्प्. ४.२५७३]
SK
[७१.१८] ततः प्रशमितस् सो ऽयम् उपासीनो मया पुरा* /{६०८}* [MBह् १४, Aप्प्. ४.२५७४]
SK
[७१.१९] सततोपासनात् सो ऽयम् औपासन इति स्मृतः //᳚ इति [MBह् १४, Aप्प्. ४.२५७५]
SK
[७१.२०-२१] एवं परमपुरुषमुखाज् जातस्यौपासनाग्नेः कुण्डविधानादिकम् अत्रैव सूत्रे प्रतिपादितम्.
SK
[७१.२२-२४] किञ् च नवग्रहमखे सवितृमण्डलस्य चतुरश्रत्वम् उच्यते ᳚चतुरश्रं वृत्तम् इत्यादिना (सूत्रे). आदौ चतुरश्रस्य सतो रविमण्डलस्य कालान्तरे वृत्तत्वकल्पनं प्रमाणैर् अवगम्यते. यथा:
SK
!{६०२}! Dइएसेर् Vएर्स् इस्त् औछ् zइतिएर्त् अल्स् ᳚Bरह्मकैवर्तपुराण᳚ इन् DHN[D] ४२.९-१०.
SK
[७२.१] विष्णुपुराणे: ᳚तेजसश् शमनञ् चास्य विश्वकर्मा चकार ह / [७२.२] भ्रमिमारोप्य सूर्यन् तु तस्य तेजो ऽवशातनम् // [Vइष्णु.P ]
SK
[७२.३] कृतवान् अष्टमं भागं स व्यशातयद् अव्ययम् / [७२.४] यत्सूर्याद् वैष्णवं तेजश् शातितं विश्वकर्मणा // [Vइष्णु.P ]
SK
[७२.५] जाज्ज्वल्यमानम् अपतत् तद्भूमौ मुनिसत्तम //᳚इति [Vइष्णुP ]
SK
[७२.६] एवं च सूर्यसावर्णिकमन्वन्तरमारभ्य रविमण्डलस्य वृत्ताकारप्रतीतिः.
SK
[७२.७-८] तद् अनुसारेण बोधायनादिभिः वृत्ताकारत्वं रविममण्डलस्योक्तम्. ततः पूर्वं चतुरश्रत्वम् व. तद् एवास्मिन् सूत्रे प्रतिपादितम्.
SK
[७२.९-१०] एवं ᳚वानप्रस्थो वैखानशास्त्रसमुदाचारो वैखानस᳚*{६०९}* इति वैखानससूत्रम् अनुस्मृत्य तृतीयाश्रमधर्मान् बोधायनः प्रतिपादयति. [Bऔध्Dह्S २.६.११.१४]
SK
[७२.११-१७] तथा आग्निवैश्यसूत्रे ᳚अथातस् सूत्रगणनां व्याख्यास्यामः. बोधायनम् आपस्तम्बं सत्याषाठं द्राह्यायणम् आगस्त्यं शाकल्यम् आश्वलायनं शाम्भवीयं कात्यायनम् इति नवानि पूर्वसूत्राणि. वैखानसं शौनकीयं भारद्वाजम् आग्निवैश्यं जैमिनीयं *{६१०}* वाधूलं माध्यन्दिनं हिरण्यकेशीयं कौषीतकम् इति नवान्य् अपरसूत्राणि. एवम् अष्टादशसूत्राण्य् अष्टादशसूत्रकाराश् च. एतानि चतुर्वेदमूलानि. पूर्वसूत्राणि शारीराणि सामान्यानि भवन्ति. उत्तरसूत्राणि वैखानसादीनि विष्णुसंबन्धीनि दैविकानी᳚ ति वैखानससूत्रस्यादित्वं वैष्णवत्वञ् चोच्यते.
SK
[७२.१८-१९] अस्य सूत्रस्याधिक्यं च ᳚ये वैखानससूत्रेण संस्कृतास् द्विजातय᳚*{६११}* इत्यादिना पूर्वम् एव प्रतिपादितम्.
SK
[७२.२०-२१] अतः सर्वसूत्राणाम् आदिर् इदं सूत्रम् इति सिद्धम्. ततः सर्वसूत्रोत्तमत्वञ् चास्योपपद्यते इति निरूपितो द्वितीयो हेतुः.
SK
[७२.२२] इति द्वितीयहेतुनितूपणम्.
SK
!{६०९}! Bऔध्Dह्S: वानप्रस्थो वैखानसशास्त्रसमुदाचारः.
SK
[तृतीयहेतुनिरूपणम्]
SK
[वैखानससूत्रस्य श्रुतिमार्गानुसारित्वम्]
SK
[७३.१-३] अथास्य श्रीवैखानससूत्रस्य सूत्रान्तरापेक्षया वैलक्षण्यापादकं प्रत्यक्षश्रुतिमूलकत्वम् अस्तीति ज्ञापयितुं ᳚सर्वकर्मसु श्रुतिमार्गानुसारित्वाद्᳚ इति तृतीयो हेतुर् निरूप्यते. तथा हि:
SK
[शुद्धाचमनविधेः श्रौतत्वम्]
SK
[७३.४-९] शुद्धाचमनविधौ ᳚यत्त्रिर् आचामति तेन ऋचः प्रीणाति᳚ इत्यादि श्रुत्यनुसारेण सूत्रे ᳚ऋग्वेदः प्रीणात्व्᳚ इत्यादिना शुद्धाचमनम् उक्तम्. ननु बोधायनेनापि शुद्धाचमनविधिर् उक्त इति चेत् सत्यम्. ᳚आचमनविधिं व्याख्यास्यामः᳚ इत्य् आरभ्य ᳚गोकर्णबद्धहस्तेन त्रिर् आचमेत्, प्रथमं यत् पिबति तेन ऋग्वेदं प्रीणाति यद् द्वितीयं तेन यजुर्वेदं यत् तृतीयं तेन सामवेदं प्रीणाती᳚त्य् आचमनेन ऋग्वेदादीनां प्रीतिर् भवतीत्य् उक्तम्. न तु मन्त्रः.
SK
[७३.१०-११] श्रुतिस्मृतिसूत्रविहितस्य सन्ध्योपासनस्य प्रधानभूतम् अर्घ्यप्रदानादिकम् अत्रैव प्रतिपादितम्. ᳚प्रातस् सूर्यश् चेत्यादिनाचम्य आपो हिष्ठादिभिस् तिसृभिः प्रोक्ष्य
SK
[७३.१२] गायत्र्या ऽपो ऽभिमन्त्र्य आदित्याभिमुखं विक्षिप्य प्रदक्षिणं करोति᳚ इत्यादि.
SK
[७३.१३-१७] बोधायनेनापि सन्ध्यावन्दनविधिर् उक्तः इति चेत् नैवम्. ᳚अथातस् सन्ध्योपासनविधिं व्याख्यास्यामः. तीरं गत्वाप्रयतो ऽभिषिक्तः प्रयतो वा नाभिषिक्तः*{६१२}* प्रक्षालिपादपाणिर्*{६१३}* अप आचम्य सुरभिमत्या अब्लिङ्गाभिर् वारुणीभिः हिरण्यवर्णाभिः पावमानीभिः व्याहृतिभिर् अन्यैश् च पवित्रैर् आत्मानं प्रोक्ष्य प्रयतो भवति. अथाप्य् उदाहरन्ति.᳚ [Bऔध्Dह्S २.४.७.१-३] [७३.१८] ᳚आपो ऽवगाहनं स्नानं विहितं सार्ववर्णिकम् / [७३.१९] मन्त्रवत्प्रोक्षणञ् चैव द्विजानाम् अवशिष्यते* //{६१४}*᳚ इति [Bऔध्Dह्S २.४.७.३-२]
SK
[७३.२०-७४.३] सर्वकर्मणाञ् चैवारम्भेषु प्राक्सन्ध्योपासनाकालाच् चैतेनैव पवित्रसमूहेनात्मानं प्रोक्ष्य प्रयतो भवति. अथाप्य् उदाहरन्ति. ᳚दर्भेष्व् आसीनो दर्भान् धारयमाणः सोदकपाणिना*{६१५}* प्रत्यङ्मुखः सावित्रीं सहस्रकृत्वः आवर्तयेत्. प्राणायामशो वा शतकृत्वः. त्रिभिश् च प्राणायामैः ततो (तान्तो) ब्रह्महृदयेन. वारुणीभ्यां रात्रिम् उपतिष्ठते.᳚ इत्यादिना मार्जनादिकम् उक्तम्. प्रधानभूतम् अर्घ्यप्रदानादिकम् अनुक्तम्. [Bऔध्Dह्S २.४.७.४-९]
SK
!{६१२}! Bऔध्Dह्S: वानभिषिक्तः.
SK
[श्रुत्युक्तो ब्रह्मयज्ञप्रकारः]
SK
[ब्रह्मवरणपूर्वकसोमवरणम्]
SK
[७४.४-९] ब्रह्मयज्ञः. तलवकारोपनिषदि ᳚तस्या वा एष प्रथमः पादः ॐ भूस् तत्सवितुर् वरेण्यं ॐ भुवः भर्गो देवस्य धीमहि ॐ सुवः धियो यो नः प्रचोदयात् इति पच्छः, ॐ भूर् भुवस् तत्सवितुर् वरेण्यं भर्गो देवस्य धीमहि ॐ सुवः धियो यो नः प्रचोदयात् इत्य् अर्धचशः, ॐ भूर्भुवस्सुवस् तत्सवितुर् वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् इति समस्ताञ् च सावित्रीं जप्त्वेति यथोदिष्टः, तथात्र सूत्रे ऽपि उक्तो ऽस्ति.
SK
[७४.१०-११] आघारादिषु सर्वम् अपि श्रौतवत्. अत्र ब्रह्मवरणानन्तरं सोमवरणम् अप्य् उक्तम् अस्ति. ᳚सोमो ऽस्माकं ब्राह्मणानां राजा - सोमराजानो ब्राह्मणा᳚ इति.
SK
[७४.१२-१३] ᳚विष्णुश् च वै सोमश् च ब्रह्मव् आद्यम् अवदेतां ऽअहं ब्राह्मणानां प्रतिष्ठेऽति विष्णुर् अब्रवीत् ऽअहं प्रतिष्ठेऽति सोमः. तौ प्रजापतिं प्रश्नम् ऐतां सो ऽब्रवीत् प्रजापतिः
SK
[७४.१४] ऽछन्दांसि विष्णुम् अधिगच्छन्ति, नक्षत्राणि सोमं. ताव् उभौ ब्रह्मण्याव्ऽ; इति सो ऽब्रवीत्.
SK
[७४.१५-१७] पूजितौ पूजयन्तौ स्तुतौ स्तुन्वन्तौ प्रियौ प्रियवन्तौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ भवत इति यन् मां ब्रह्मणा वक्ष्यन्ति यज्ञेषु सो ऽहम् इति विष्णुर् अब्रवीत्. तस्माद् विष्णुर् यज्ञो ब्राह्मणानां प्रतिष्ठा इति. विज्ञयते च.
SK
[७४.१८-२२] ᳚ब्राह्मणो वै छन्दांसी᳚त्य् एतस्मात् ब्राह्मणात् यन् मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहम् इति सो ऽब्रवीत्. तस्मात् ब्राह्मणानां सोमो राजेति तस्माद् विज्ञायते च ब्राह्मणे वा अष्टाविंशो नक्षत्राणां तस्य वचः पुण्यम् इति ताव् उभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं ब्राह्मणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्ध्या᳚ इति च श्रुतिप्रसिद्धत्वात्.
SK
[७४.२३-२५] एवम् अत्र शान्तिकपौष्टिकादिषु प्रधानकर्मत्वात् नवग्रहमखस्य पञ्चाग्निकुण्डविधानम् उक्तम्. ᳚अथ ग्रहशान्तिं व्याख्यास्यामः. ग्रह्यायत्ता लोकयात्रा तस्माद् आत्मविरुद्धे प्राप्ते ग्रहान् सम्यक् पूजयती᳚ ति.
SK
[ग्रहशान्तेः प्राधान्यम्]
SK
[७५.१-८] ग्रहशान्तेः कथं प्राधान्यम् इति चेद् उच्यते. ᳚उद्यन्तम् अस्तंयन्तम् आदित्यम् अभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रम् अश्नुते ऽसाव् आदित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्य् एति य एवं वेद᳚ इति ᳚य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते᳚ इति ᳚यो ऽसौ तपन्न् उदेति᳚ इत्यादि ᳚विष्णुशक्तेर् अवस्थानं सदादित्ये करोति च᳚ इति ᳚ध्येयस् सदा सवितृमण्डलमध्यवर्ती᳚ त्यादिभिश् च वचनैः यत् प्रतिपादितं सवितृमण्डलमध्यवर्तिनो भगवतो नारायणस्य यजनं तद् एवेदम् इत्य् अभिप्रायेण सूत्रकारैर् अस्य ग्रहयज्ञस्य प्राधान्यम् उक्तम्. तथान्ते ᳚अन्यथा महत्तरो दोषो भवती᳚त्य् अप्य् उक्तम्.
SK
[७५.९] बोधायनश् च: ᳚अथातो ग्रहातिथ्यबलिकर्मोपहारान् व्याख्यास्यामः᳚
SK
[सवितृहोमः]
SK
[७५.१०] अश्रद्धधानम् अशुचिम् अजपं त्यक्तमङ्गलम् / [७५.११] ग्रहा नयन्ति सुव्यक्तं पुरुषं यमसादनम् //
SK
[७५.१२] ग्रहाणाम् उग्रचेष्टानां नक्षत्रपथचारिणाम् / [७५.१३] उपहारान् प्रवक्ष्यामि शान्त्यर्थन् तु यथाविधि //᳚
SK
[विष्ण्वाराधनस्य श्रौतत्वम्]
SK
[७५.१४-१६] मासि मास्य् ऋताव् ऋतौ चन्द्रग्रहे सूर्यग्रहे विषुवे ऽयने शुभाशुभे जन्मनक्षत्रे तद्ग्रहाणाम् आतिथ्यं संवत्सराद् अपि प्रयुञ्जानः सर्वान् कामान् अवाप्नोति᳚ इति ग्रहशान्तिकालं निरूप्य. [७५.१७] ᳚ग्रहा गावो नरेन्द्राश् च ब्राह्मणाश् च विशेषतः / [७५.१८] पूजिताः पूजयन्त्य् एनं निर्दहन्त्य् अवमानिताः //᳚
SK
[७५.१९] इत्य् अकरणे प्रत्यवायम् अपि दर्शितवान्.
SK
[७५.२०-२२] तस्माद् एव सूत्रकारैः सूर्यचन्द्रौ विना लोकप्रवृत्त्य् असम्भवात् सूर्यप्रधानत्वाच् च ग्रहाणां सर्वकर्मणाम् आदौ ग्रहपुरस्कारम् उक्त्वा तत्र पञ्चाग्निकुण्डविधानम् उपदिश्य प्रधाने सभ्ये विष्णुरूपस्य सवितुः होमः ᳚सभ्ये सवितुर्᳚ इति प्रतिपादितः.
SK
[७५.२३-२४] एवम् - ᳚नारायण परं ब्रह्म᳚ - ᳚ब्रह्मैव भूतानां ज्येष्ठां तेन को ऽर्हति स्पर्धितुम्᳚ - ᳚अग्निर् वै देवानाम् अवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवताः᳚
SK
[श्रुतिमूलकत्वे प्रामाण्यातिशयः]
SK
[७६.१] इत्यादि श्रुत्यनुसारेण ᳚तस्माद् गृहे परमं विष्णुं प्रतिष्ठाप्य सायंप्रातर्होमान्ते ऽर्चयति᳚
SK
[७६.२-३] इति नारायणपरत्वेन सूत्रान्तरेष्व् अनुक्तम् आराधनविधिम् उक्त्वा तत्र ᳚स वा एष पुरुषः पञ्चधा पञ्चात्मा᳚ इत्यादि श्रुत्यनुसारेण पञ्चमूर्तिविधानम् अप्य् उक्तम्.
SK
[७६.४-५] आघारादिषु श्रौतवद् एवेति प्रत्यक्षसिद्धम् इति पूर्वम् एवोक्तम्. एवम् अन्यत्रापि द्रष्टव्यम्.
SK
[७६.६-७] श्रुतिमार्गानुसारित्वे को विशेष इति चेत् - उच्यते. श्रुतिमूलत्वे हि प्रामाण्यातिशयसम्भवः. यथाह [७६.८] मनु: ᳚वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः / [७६.९] एतच् चतुष्टयं प्राहुः*{६१६}* साक्षाद् धर्मस्य लक्षणम् // [MअनुDह्Ś २.१२]
SK
[७६.१०] सर्वं तु समवेक्ष्यैतद् अखिलं ज्ञानचक्षुषा*{६१७}* / [७६.११] श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै //᳚ [MअनुDह्Ś २.८]
SK
[७६.१२] श्रीभारते: ᳚वेदप्रणिहितो धर्मो ह्य् अधर्मस् तद्विपर्ययः / [७६.१३] वेदो नारायणस् साक्षात् स्वयम्भूर् इति शुश्रुमः //᳚ [MBह् ]
SK
[७६.१४] प्रचेता: ᳚अमींआंस्या बहिश्शास्त्रा ये चान्ये वेदबर्जितः / [७६.१५] यत्तद्ब्रूयुर् न तत्कुर्याद् वेदाद् धर्मो विधीयते //᳚
SK
[७६.१६] स्मृत्यन्तरे: ᳚धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः / [MBह् १४ Aप्प्. ४.२४९२]
SK
[७६.१७] द्वितीयं धर्मशास्त्रान् तु*{६१८}* तृतीयं लोकसङ्ग्रहः* //{६१९}*᳚ इति [MBह् १४ Aप्प्. ४.२४९३]
SK
[७६.१८-२०] एतावता सर्वकर्मसु श्रुतिमार्गानुसारित्व रूपः तृतीयो हेतुर् निरूपितो भवति. तथा च श्रुतिमार्गानुसारित्वाद् अस्य सूत्रस्य सर्वसूत्रोत्तमत्वं सिद्ध्यति इति निरूपितस् तृतीयो हेतुः.
SK
[७६.२१] इति तृतीयहेतुनिरूपणम्.
SK
!{६१६}! MअनुDह्Ś: एतच् चतुर्विधं प्राहुः.
SK
[चतुर्थहेतुनिरूपणम्]
SK
[वैखानससूत्रस्य समन्त्रकसर्वक्रियाप्रतिपादकत्वम्]
SK
[७७.१-२] इदानीं तावत् वैखानससूत्रोक्तधर्मानुष्ठानेन अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वं फलभूयस्त्वम् अपि भवतीति ज्ञापयितुं ᳚समन्त्रकसर्वक्रियाप्रतिपादकत्वाद्᳚ इति चतुर्थो हेतु निरूप्यते. तद् यथा:
SK
[७७.४-१०] अत्र सूत्र*{६२०}* नित्यानुष्ठानविधौ ᳚इन्द्रो ऽहम् उभाभ्याम्᳚ इत्य् आरभ्य करप्रक्षालनादीनि समन्त्रकत्वेनोक्तानि. ब्रह्मयज्ञे ᳚ऋतञ् च सत्यञ् चे᳚ त्य् आदि विशेषः. पुण्याहे समन्त्रकत्वं स्पष्टम्. सूत्रान्तरेष्व् अनुक्तम् औपासनाग्निकुण्दविधानं प्रतिपादितम्. आघारविधौ समन्त्रकत्वं सिद्धम्. अन्तहोमे तथैव. नान्दीमुखपूर्वकोपनयनादिषु शारीरेषु संस्कारेषु समन्त्रकत्वं प्रत्यक्षम्. स्थालीपाकादिषु ᳚पूर्ववद्᳚ इत्य् अनेन पूर्वं विस्तरेण प्रतिपादितस्याघारविधेः प्रयोगसौकर्यार्थं संक्षेपेण प्रतिपादनम्.
SK
[अपरक्रियायाम् अपि समन्त्रकत्वम्]
SK
[७७.११-१५] अपरक्रियायाम् अप्य् अस्ति समन्त्रकत्वम्. तत्र क्वचित् ᳚तूष्णीम्᳚ इत्य् उक्त्वत्वात् समन्त्रकत्वं नास्तीति स्वयम् एवाशङ्क्य प्रकारान्तरेण समन्त्रकत्वं प्रत्यपादयत्. तत्र तत्र क्वचित् मन्त्रयोग्यताभावे ऽपि विहितविशये सर्वत्र समन्त्रकत्वम् अस्तीत्य् अवगम्यते. सूत्रान्तरेषु विहितविशयेष्व् अपि समन्त्रकत्वानुक्तेः तेषां समन्त्रकसर्वक्रियात्वं नास्ति. तत्र अपरक्रियायाम् अपि सूत्रान्तरानपेक्षा दृश्यते.
SK
[७७.१६-१९] बोधायनेन अग्निमुखादिषु परिधिपरिस्तरणादिक्षेपणम् तूष्णीम् एवोक्तम्. समन्त्रकत्वेन कर्मणाम् उक्तौ को विशेष इति चेत् - उच्यते. कर्मणां मन्त्रवत्त्वे हि वीर्यवत्तरत्वं कर्माराध्य भगवत्प्रीणनद्वारा अनन्तस्थिरफलप्राप्तिः सत्कुलीनत्वञ् च भवन्तीति स्मृतिपुराणादिष्व् अवगम्यते. यथा
SK
[कर्मणाम् समन्त्रकत्वे वीर्यवत्तरत्वम्]
SK
[७७.२०-२२] छान्दोग्ये: ᳚यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवती᳚ति. तत्रैवं व्याख्यातम्. ᳚मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्र कम् अस्ति कर्मे᳚ति.
SK
!{६२०}! Lइएस्: सूत्रे.
SK
[मन्त्रहीनकर्मनिन्दा]
SK
[७८.१] आथर्वणे: ᳚ऋग्यजुस्सामाख्या (?) मन्त्रेषु कर्माणि कवयो यान्य् अपश्यन्न् इति᳚ [७८.२] आरण्यपर्वणि: ᳚व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः / [७८.३] क्रियामन्त्रैश् च संयुक्तो ब्राह्मणस् स्यान् न संशयः //᳚ [MBह् ३.८१.१३४]
SK
[७८.४] तत्रैव: ᳚गुणाभावे फलं न्यूनं भवत्य् अफलम् एव वा / [७८.५] अनारम्भे तु न फलं न गुणो दृश्यते ह्य् उतः* //{६२१}*᳚ इति [MBह् ३.३३.४८]
SK
[७८.६] बृहन्नारदीये: ᳚अमन्त्रतो हविर् यत् तु हूयते जातवेदसे / [७८.७] अपात्रे दीयते यच् च तद् घोरं भोगसाधनम् // [Bऋहन्नारदP.]
SK
[७८.८] हुतं हविश् चाशुचिना दत्तं यत्कर्म यत्कृतम् / [७८.९] तत्सर्वं तव भागार्हम् अधःपातफलप्रद //᳚ [Bऋहन्नारदP]
SK
[७८.१०] इति बलिचक्रवर्तिनं प्रति भगवता वामनेनोक्तम्. [७८.११] बोधायन: ᳚गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया / [७८.१२] कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः* //{६२२}* [Bऔध्Dह्S १.५.१०.२८]
SK
[७८.१३] मन्त्रतस् सुसमृद्धानि*{६२३}* कुलान्य् अल्पधनान्य् अपि / [७८.१४] कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः* //{६२४}*᳚ [Bऔध्Dह्S १.५.१०.२९]
SK
[७८.१५] मनुर् अपि: ᳚कुविवाहैः क्रियालोपैर् वेदानध्ययनेन च / [७८.१६] कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च // [MअनुDह्Ś ३.६३]
SK
[७८.१७] शिल्पेन व्यवहारेण शुद्धापत्यैश् च केवलैः*{६२५}* / [७८.१८] गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया* //{६२६}* [MअनुDह्Ś ३.६४]
SK
[७८.१९] अयाज्ययाजनाच् चैव नास्तिक्येन च कर्मणा*{६२७}* / [७८.२०] कुलान्य् अकुलतां यान्ति यानि हीनानि मन्त्रतः*{६२८}* // [MअनुDह्Ś ३.६५]
SK
[७८.२१] मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनानि च* /{६२९}*
SK
[७८.२२] कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः* //{६३०}*᳚ [MअनुDह्Ś ३.६६]
SK
!{६२१}! MBह्: न गुणो दृश्यते ऽच्युत.
SK
[७९.१] मन्त्रपूतन् तु यच् छ्राद्धम्᳚ इति सोमोत्पत्तौ स्मर्यते. [७९.२] श्रीगीतायाञ् च: ᳚विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणम् / [७९.३] श्रद्धाविरहितं यज्ञं तामसं परिचक्षते //᳚ इत्य् उक्तम्. [Bह्Gई = MBह् ६.३९.१३]
SK
[७९.४-५] यथोपासनं फलम् इति च श्रुतिसिद्धं ᳚यथा क्रतुर् अस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवती᳚ति.
SK
[७९.६-७] अतः शारीरेषु संस्कारेषु समन्त्रकसर्वक्रियाप्रतिपादनात् पूर्णत्वं, पूर्णत्वाद् एव सर्वसूत्रोत्तमत्वं चास्य सूत्रस्य सिद्धम् इति निरूपितः चतुर्थो हेतुः.
SK
[७९.८] इति चतुर्थहेतुनिरूपणम्.
SK
[पञ्चमहेतुनिरूपणम्; वैखानससूत्रस्य निषेकादिसंस्कारप्रतिपादकत्वम्]
SK
[८०.१] अथ पञ्चमहेतुनिरूपणम्.
SK
[८०.२-५] अथास्य श्रीवैखानससूत्रस्य सर्वोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातॄणाम् अपि सर्वोत्कृष्टत्वे च इतरसूत्रिषु मुख्यत्वेनानुपपन्नं निषेकादिसंस्कारादिमत्त्वम्*{६३१}* अस्य सूत्रस्य मुख्यत एवोपपद्यत इति ज्ञापयितुं निषेकादिसंस्कारादिमत्वाद् इति पञ्चमो हेतुर् निरूप्यते. यथा:
SK
[संस्कारेषु निषेकस्य प्रथमत्वम्]
SK
[८०.६] ᳚अथ निषेकादिसंस्कारान् व्याख्यास्यामः, ऋतुसङ्गमने᳚त्य् उपक्रम्य
SK
[८०.७] ᳚पाणिग्रहणानी᳚*{६३२}*त्य् अन्तेन शारीरसंस्कारा निषेकसंस्कारपूर्वकत्वेन प्रतिपादिताः.
SK
[निषेकम् अन्तरेण प्रजोत्पत्त्यसंभवः]
SK
[८०.८-११] ननु: जातकोपनयनविवाहानान्तरभाविनो*{६३३}* निषेकस्य कथम् आदित्वं प्रतिपाद्यते? तथा ᳚ब्राह्मणो ऽस्य मुखम् आसीत्᳚*{६३४}* ᳚मनसा त्व् एव भूतानि पूर्वं दक्षो ऽसृजत् तदा᳚ इत्यादि श्रुतिस्मृतिषु निषेकेन विना उत्पत्तिदर्शनाच् च निषेकस्य किम् अर्थम् आदित्वं प्रतिपाद्यते? जातकस्यादित्वं श्रीभारते चावगम्यते. [८०.१२] ᳚जातकर्मादिभिर् यैस् तु*{६३५}* संस्कारैः संस्कृतश् शुचिः / [८०.१३] वेदाध्ययनसम्पन्नष् षट्सु कर्मस्व् अवस्थितः // [MB.ह् १२.१८२.२]
SK
[८०.१४] शौचाचाररतस् सम्यक् भिक्षार्थी च गुरुप्रियः*{६३६}* / [८०.१५] नित्यव्रतस्*{६३७}* सत्यपरः स वै ब्राह्मण उच्यते //᳚ इति [MBह् १२.१८२.३]
SK
[८०.१६] एवं हरिवंशे: *{६३८}*᳚क्व दाराः क्व च संसर्गः*{६३९}* क्व च भावविपर्ययः / [८०.१७] यदियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा // [HअरिV ३५.४२]
SK
[८०.१८] यद्य् अस्ति तपसो वीर्यं युष्माकं विदितात्मनां*{६४०}* / [८०.१९] सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा //᳚ [HअरिV ३५.४३]
SK
[८०.२०] इति निषेकं विनापि उत्पत्तिः श्रूयते इति निषेकस्यादित्वं न संभवति इति चेत् -
SK
[८०.२१-२३] तद् असत्. ᳚निषेकविरहे ऽपि उत्पत्तिस् संभवती᳚त्य् एतन् नोपपद्यते. तपोबलाद् योगबलाच् च भगवतो नारायणस्य ब्रह्मणो महर्षीणां वा मानसप्रजासृष्टौ शक्तिस् सम्भवति. नान्येषाम्. यथा:*{६४१}*
SK
!{६३१}! Vग्ल्. DHN[D] २.७: निषेकसंस्कारादिमत्वात्.
SK
[८१.१] श्रीविष्णुपुराणे: ᳚सङ्कल्पाद् दर्शनात् स्पर्शात् पूर्वेषाम् अभवन् प्रजाः᳚ [Vइष्णुP ]
SK
[८१.२] तपोविषेशैर् इद्धानां तदात्यन्ततपस्विनाम्* //{६४२}*᳚ [Vइष्णुP १.१५.७९]
SK
[८१.३] ᳚युगे युगे भवन्त्य् एते दक्षाद्या मुनिसत्तमाः / [८१.४] पुनश् चैव निरुद्ध्यन्ते विद्वांस् तत्र न मुह्यति // [Vइष्णुP १.१५.८३]
SK
[८१.५] कानिष्ठ्यं श्र्यैष्ठ्यम् अप्य् एषां पूर्वं नास्ति द्विजोत्तम* //{६४३}* [Vइष्णुP १.१५.८४अब्]
SK
[८१.६] तप एव गरीयो ऽभूत् प्रभावश् चैव कारणम् //᳚ इति [Vइष्णुP ]
SK
[निषेकेनैव रुद्रस्यापि उत्पत्तिः]
SK
[८१.७] रुद्रोत्पत्तिर् अपि निषेकेनेति श्रूयते. शतपथे: ᳚अभूद् वा इदं सर्वं प्रतिष्ठा᳚
SK
[८१.८-१०] इत्य् आरभ्य ᳚भूतानाञ् च प्रजापतिस् संवत्सरायादिक्षत*{६४४}* भूतानां ग्रहपतिर् आसीद् उषा पत्नी᳚*{६४५}*त्य् आदिकम् उक्त्वा ᳚भूतानां पतिः संवत्सर उषसि रेतो ऽसिञ्चत् संवत्सरे कुमारो ऽजायत तस्य रुद्रस्य नाम करोती᳚*{६४६}*त्य् आदि.
SK
[निषेकक्रियाप्रकारः]
SK
[८१.११-१३] निषेकक्रियाप्रकारो ऽपि श्रूयते हि. ᳚नग्नं कृत्वोरुम् उपप्रवर्तयति यदा हि नग्न ऊरुर् भवत्य् अथ मिथुनीभवतो ऽथ रेतस् सिच्यते ऽथ प्रजाः प्रजायन्ते᳚ इति, ᳚रेतस एव सिक्तस्य बहुशो रूपाणि विकरोति स वै प्रजायते श्वः श्वो*{६४७}* भूयान् भवती᳚ति,
SK
[८१.१४-१८] ᳚रेतो मूत्रं विजहाति योनिं प्रविशद् इन्द्रियं गर्भो जरायुणा वृतः उल्बं जहाति जन्मना᳚*{६४८}* इति. मुण्डोपनिषदि - ᳚पुमान् रेतस् सिञ्चति योषितायां बह्व्यः*{६४९}* प्रजास् सृजमानास् सरूपाः᳚*{६५०}* इति. छान्दोग्ये - ᳚योषा वा व गौतमाग्निर्᳚ इत्य् आरभ्य ᳚तस्य उपस्थ एव समिद्. यद् अन्तः करोति ते ऽर्चिषा.*{६५१}* अभिनन्दा विस्फुलिङ्गास्. तस्मिन्न् अग्नौ*{६५२}* देवा रेतो जुह्वति. तस्या आहुतेर् गर्भस्*{६५३}* सम्भवती᳚*{६५४}*ति च.
SK
[सृष्टिकालाद् आरभ्य निषेकाद् एवोत्पत्तिः]
SK
[८१.१९] श्रीविष्णुपुराणे: ᳚प्रजास् सृजेति व्यादिष्टः पूर्वं दक्षस् स्वयम्भुवा / [८१.२०] यथा ससर्ज भूतानि तथा श्रुणु महामते* //{६५५}* [Vइष्णुP १.१५.८६]
SK
[८१.२१] मनसा त्व् एव भूतानि पूर्वं दक्षो ऽसृजत् तदा / [८१.२२] देवान् ऋषींस् तु गन्धर्वान् असुरान् पन्नगांस् तथा* //{६५६}* [Vइष्णुP १.१५.८७]
SK
[८१.२३] यदा ऽस्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः / [८१.२४] ततस् सञ्चिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः* //{६५७}* [Vइष्णुP १.१५.८८]
SK
!{६४२}! Vइष्णुP १.१५.७९अब्(?): तपोविषेशैः सिद्धानां तदा ऽत्यन्त तपस्विनाम्.
SK
[८२.१] मैथुनेनैव धर्मेण सिसृक्षुर् विविधाः प्रजाः / [८२.२] ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः //᳚ [Vइष्णुP १.१५.७९अब्?]
SK
[८२.३] भारते: ᳚न चैषां मैथुनो धर्मो बभूव भरतर्षभ / [८२.४] सङ्कल्पाद् एव चैतेषां गर्भस् समुपपद्यते* //{६५८}* [MBह् १२.२००.३५]
SK
[८२.५] तत्र त्रेतायुगे काले संस्पर्शाज् जायते प्रजा* /{६५९}*
SK
[८२.६] न ह्य् अभून् मैथुनो धर्मस् तेषाम् अपि नराधिप*{६६०}* // [MB.ह् १२.२००.३६]
SK
[८२.७] द्वापरे मैथुनो धर्मः प्रजानाम् अभवन् नृप / [८२.८] तथा कलियुगे काले*{६६१}* द्वन्द्वम् आपेदिरे जनाः //᳚ इति [MBह् १२.२००.३७]
SK
[८२.९-१०] एवं श्रुतिस्मृतिषु सृष्टिकालाद् आरभ्य निषेकाद् एवोत्पर्*{६६२}* इति श्रवणात् निषेकेन विना उत्पादनसामर्थ्याभावाच् च निषेकादिमत्वाद् इत्य् उक्तम्.*{६६३}*
SK
[निषेकशब्दार्थनिर्णयः]
SK
[८२.११-१३] अत्रापस्तम्बीया एवम् आहुः. ᳚निषेको नाम गर्भाधानम् एव, निषेकगर्भाधानयोः पर्यायत्वात् गर्भाधानातिरेकेण निषेकशब्दस्यार्थान्तरासम्भवाच् च.*{६६४}* गर्भाधानशब्दस्यार्थे विचार्यमाणे ऽगर्भो ऽस्मिन्न् आधीयतेऽ*{६६५}* इति व्युत्पत्त्या ऽइन्द्रियं वै गर्भऽ*{६६६}*
SK
[८२.१४-१५] इति श्रुत्यनुसारेण रेतस्सेचनम् एव गर्भाधानम् इत्य् अवगतेः*{६६७}* निषेकादित्वम् अस्माकम् अप्य् अस्ती᳚ति.
SK
[८२.१६-१९] अत्र बौधायनीयः प्रत्यवतिष्ठन्ते. ᳚यद् उक्तं ऽनिषेको नाम गर्भाधानम् निषेकगर्भाधानयोः पर्यायत्वाद्ऽ; इति - तदसत्. निषेकगर्भाधानयोः पृथक्त्वेन प्रतिपादनात् पर्यायत्वं न घटते. यथा - ऽचतुर्थ्यां स्नातायां निशायाम् अलङ्कृत्य शयने ऽभिमन्त्रयते ऽविष्णुर् योनिम्ऽ; इत्य् उपक्रम्य ऽअथैनाम् उपैतिऽ; - ऽत्वां पूषन्न् ...ऽ*{६६८}* इति.
SK
[८२.२०-२३] एवं निषेक उक्तः. ऽअथ गर्भाधानविधिं व्याख्यास्यामः. पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणान् अन्नेन परिविष्य पुण्याहं*{६६९}* वाचयित्वा अथ देवयजनप्रभृत्याग्निमुखात् कृत्वा पक्वाज् जुहोति - प्रवेधसे कवये मेध्यायेऽ*{६७०}*ति. इति गर्भाधानम् उक्तम्. एवं निषेकगर्भाधानयोः पृथक्त्वेन कीर्तनात्*{६७१}* निषेक एव गर्भाधानम् इति वक्तुम् अयुक्तम्.
SK
[८२.२४-२५] किञ्च आपस्तम्बसूत्रे*{६७२}* निषेकपूर्वकत्वेनानुक्तत्वात् चत्वारिंशत् संस्कारपरिगणने अगृहीतत्वाच् च तेषां निषेकाद्यास् संस्कारा न भवन्तीति.*{६७३}*᳚
SK
!{६५८}! MBह्: अपत्यम् उदपद्यत; दिए Lएसर्त् देस् DHN[D] इस्त् अल्स् व्.ल्. अन्गेगेबेन्; DHN[T] ३९६: गर्भसमुपपद्यते.
SK
[८३.१-६] अत्र आपस्तम्बीया ऊचुः. ᳚यद्य् अस्माकं निषेकाद्याः संस्कारा न भवन्तीत्य् उच्यते तर्हि युष्माकम् अपि तथैव, भवत् सूत्रे ऽपि*{६७४}* >यतो एतद् धुतः प्रहुतः*{६७५}* आहुतः शूलगवो बलिहरणं प्रत्यवरोहणम् अष्टका पार्वणहोम इती
SK
<*{६७६}*त्य् आरभ्य विवाहाद्येवोक्तम् - न तु निषेकादित्वेन. किञ्च सूत्रोपक्रमे*{६७७}* संस्कारगणनायाम् अपि निषेकस् तु संस्कारत्वेन वा शब्दमात्रेण वा न प्रतिपादितः. किञ्च >चतुर्य्यां स्नातायोम्<*{६७८}* इत्यादिना पृथक्त्वेन विधीयमानस्य गर्भाधानस्य लक्षणप्रतिपादनाभावात् विशिष्य कालनिरूपणाभावाच् च.*{६७९}*>
SK
[वैखानसानाम् एव निषेकादिसंस्कारवत्त्वम्]
SK
[८३.७] (वैखानसे सूत्रे एव निषेकादित्वेन उक्तत्वाच् च वैखानसानाम् निषेकादित्वम्),
SK
[८३.८] आवयोः*{६८०}* उभयोर् अपि निषेकाद्यास् संस्कारा न भवन्ति इति. अयम् एव सिद्धान्तः.*{६८१}*
SK
[इतरेषां गर्भधानादिसंस्कारवत्त्वम्]
SK
[८३.९] तथा च: ᳚निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः / [Yआज्ञवल्क्यDह्Ś १.१०च्द्]
SK
[८३.१०] गर्भाधानम् ऋतौ पुंससवनं स्पन्दानात् पुरा* //{६८२}*᳚ [Yआज्ञवल्क्यDह्Ś १.११अब्]
SK
[८३.११-१४] इति याज्ञवल्क्योक्तौ तेषाम् इति शब्देन ᳚मुख्ये सम्भवत्य् अमुख्यकल्पनायोगाद्᳚ इति न्यायेन मुख्यत्वेन श्रीवैखानससूत्रे एव निषेकादित्वस्य विद्यमानत्वात् वैखानसा एव परामृश्यन्ते इति - तेषाम् एव निषेकादित्वम्, इतरेषां निषेकादित्वं न सम्भवति. अपि तु गर्भाधानादित्वम् एव. अयम् एव याज्ञवल्क्याभिप्रायः.*{६८३}*
SK
[८३.१५-२०] अथोच्येते*{६८४}*. गर्भाधानलक्षणम् अनुक्तं विशिष्य कालश् चानुक्त इति यद् उक्तम् तत्रोच्यते - सर्वेषां कारणभूतेन परमाचार्येण विखनसा प्रणीते श्रीवैखानससूत्रे ᳚अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषो भर्तुर् अरुचिर् आहारे लालाप्रकोपः खरता वाचः स्फुरणं योनेर् इति गर्भस्य दैवानुबन्धं ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुभे नक्षत्रे᳚*{६८५}* इत्यादिना गर्भाधानलक्षणकालयोर् अपि वैखानससूत्रे प्रतिपादित्वात्:*{६८६}* [८३.२१] ᳚वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः / [८३.२२] सर्वैः स धर्मो ऽनुष्ठेयो नात्र कार्या विचारणा* //{६८७}*᳚
SK
[८३.२३] इति भृगुणोक्तत्वात् ᳚अनुक्तम्*{६८८}* अन्यतो ग्राह्यम्᳚ इति न्यायात् विखनसः*{६८९}* आचार्यत्वेन
SK
[८३.२४-२५] भारतादिषु प्रतिपादितव्याच् च ᳚अनुक्तांशेषु वैखानसोक्तप्रकारेण अस्माभिर् अपि कर्तुं युक्तम्᳚ इति. एतद् एव युक्ततरम्. Tअथाहि:*{६९०}*
SK
[निषेकगर्भाधानयोर् अपर्यायत्वम्]
SK
[८४.१-१०] आपस्तम्बादीनाम् आचार्येण बोधायनेन स्वशिष्यान् प्रति*{६९१}* ᳚अथात्र पाकयज्ञानां प्रायश्चित्तिर्᳚ इत्य् आरभ्य ᳚व्याहृतीनां प्रयोगे अयथाकृतं यथाकृतं*{६९२}* भवतीत्य् आचार्या ब्रुवते. तत्राप्य् उदाहरन्ति᳚*{६९३}* इति, ᳚चतुर्थीप्रभृत्या षोडशीम् उत्तराम् उत्तराम्*{६९४}* उपैति. प्रजानिःश्रेयसम् ऋतुगमनम् इत्य् आचार्याः. सर्वाण्य् उपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः. यच् चादौ यच् चर्ताव् इति शालीकिर्᳚*{६९५}* इति - ᳚अथास्यातिथयो भवन्ति गुरोस् समानवृत्तिर् वैखानसः स्नातको राजा वा धर्मयुक्तः. तेषाम् अभ्युत्थायासनं पाद्यम् अर्हणम् अर्घ्यं वा प्रजुञ्जीत᳚*{६९६}* इति - ᳚एकम् अग्निहोत्रं सायम् उपक्रमं प्रातर् अपवर्गम् आचार्या ब्रुवते तत्रोदाहरन्ति᳚ इति, ᳚वैखानसानां न द्रुह्येत्᳚ इत्यादि सूत्रेषु ᳚आचार्या ब्रुवते᳚ इति निर्दिष्टः आचार्यः वैखानस एवेति वक्तुं युक्तम्*{६९७}* - मन्वादीनां शारीरसंस्कारवक्तृत्वाभावात्, बोधायनेन प्रतिपादितस्य वैखानससूत्रे विद्यमानत्वात्,
SK
[८४.११] ᳚गुरोः समानवृत्तिर् वैखानसः᳚*{६९८}* इति बोधायनेनैवोक्तत्वात्, ᳚विखनसाचार्ये᳚ति.*{६९९}*
SK
[८४.१२-१३] भारते प्रतिपादित्वाच् च. तथा च सर्वेषां कारणभूतेन विखनसा प्रणीतत्वात् तत्सूत्रोक्तप्रकारेण सर्वैः*{७००}* कर्तुं युक्तम् एव. किञ्च अरण्यादिपात्रलक्षणम् अपि तत्रैव प्रतिपादितम्.
SK
[८४.१४] अन्ये ऽप्य् आहुः. ᳚अस्माकम् अपि निषेकादित्वं*{७०१}* समानम्᳚ इति. तद् अप्य् असत्.
SK
[८४.१५] गर्भाधानशब्दस्यार्थे विचार्यमाणे ᳚योनिं प्रविशद् इन्द्रियं गर्भो जरायुणा वृत᳚*{७०२}* इति
SK
[८४.१६-२०] प्रमाणेन गर्भगोले प्रविष्टस्य रेतस एव गर्भशब्दवाच्यत्वम् अवगम्यते. न त्व् इतरस्य केवल रेतसः. तथा - ᳚आसिञ्चतु प्रजापतिर् धाता गर्भं दधातु᳚ इति निषेकक्रियानन्तरभावित्वात् गर्भाधानस्य, निषेकस्य तु प्रत्यार्तवं कर्तुं व्योग्यतासम्भवात् अधृतरेतसः स्रावदोषप्रसङ्गात् श्रुतिस्मृतिविरोधात् प्रत्यक्षविरोधाङ् च निषेक एव गर्भाधानम् इति वक्तुम् अयुक्तम्.*{७०३}*
SK
[निषेकप्रथमकसंस्कारवतां श्रैष्ठ्यम्]
SK
[८४.२१] अथ निषेकादित्वे को विशेष इति चेत् - उच्यते*{७०४}*. निषेकादिक्रियावताम् एव
SK
[८४.२२] श्रोत्रियत्वं धर्मशास्त्राधिकारित्वं ब्रह्मशरीरित्वञ्*{७०५}* च बोधायनादिभिर् उक्तम्. यथा: [८४.२३] ᳚निषेके गर्भसंस्कारे जातकर्मक्रियासु च / [८४.२४] विधिवत् संस्कृता मन्त्रैः चीर्णा व्रतसमापनात् //
SK
[८४.२५] श्रोत्रिया इति विज्ञेयाः शाखापाराश् च ये द्विजाः / [८४.२६] विधिवत् गृह्यते पाणिम् ऋतौ चीर्णव्रतास् तु ते*{७०६}* //
SK
!{६९१}! DHN[T] ४०७ बोधायनः स्तत्त् आपस्तम्बादीनाम् आचार्येण बोधायनेन स्वशिष्यान् प्रति.
SK
[८५.१] मन्त्रवत्सम्प्रयोगेन*{७०७}* ब्राह्मण्यां गर्भम् आदधुः / [८५.२] निषेकाद्याः श्मशानान्ताः सत्क्रिया ब्राह्मणाश्रिताः //᳚ इति
SK
[८५.३] याज्ञवल्क्य: ᳚निषेकाद्याः*{७०८}* श्मशानान्ताः तेषां वै मन्त्रतः क्रियाः / [Yआज्ञवल्क्यDह्Ś १.१०च्द्]
SK
[८५.४] गर्भाधानम् ऋतौ पुंसस्सवनं स्पन्दनात् पुरा* //{७०९}*᳚ इति [Yआज्ञवल्क्यDह्Ś १.११अब्]
SK
[८५.५] मनु: ᳚निषेकादिश्मशानान्ताः मन्त्रैर् यस्योदिताः क्रियाः*{७१०}* / [८५.६] तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् //᳚ इति [MअनुDह्Ś २.१६]
SK
[८५.७-८] अत्र मनुवाक्ये ᳚यस्य - तस्य - कस्यचित्᳚ इत्यादि शब्दानां वैयर्थ्यप्रसङ्गात् ᳚सर्वेषां निषेकादित्वं समानम्᳚ इति वक्तुम् अयुक्तम्.
SK
[८५.९] आश्वमेधिके भगवान्: ᳚वैदिकैः कर्मभिः पुण्यैः निषेकादिर् द्विजन्मनाम्* /{७११}*
SK
[८५.१०] कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च // [MB.ह् १४, Aप्प्. ४.२५१३]
SK
[८५.११] गार्भैर् होमैर् जातकर्म*{७१२}*नामचौलोपनायनैः / [MBह् १४, Aप्प्. ४.२५१४]
SK
[८५.१२] स्वाध्यायैश् च तपोभिश् च*{७१३}* विवाहस्नातकव्रतैः // [MBह् १४, Aप्प्. ४.२५१५]
SK
[८५.१३] महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः /᳚ इति [MBह् १४, Aप्प्. ४.२५१६]
SK
[८५.१४] एवम् अन्यत्रापि द्रष्टव्यम्.
SK
[८५.१५] बोधायनेन ᳚यतो एतद् धुतम्*{७१४}*᳚ इत्यादिना सूत्रादौ विवाहपूर्वकत्वेनोक्तम्.
SK
[८५.१६-२१] आपस्तम्बेन ᳚अथ कर्माण्य् आचाराद्यानि गृह्यन्ते*{७१५}*᳚ इत्य् आरभ्य ᳚उपनयनं व्याख्यास्याम᳚ इति. भारद्वाजसत्याषाढाभ्याम् आश्वलायनेन च ᳚उक्तानि वैतानिकानी᳚*{७१६}*त्य् आरभ्य वैश्वदेवपूर्वकत्वेन. द्राह्यायणेन*{७१७}* ᳚अथातो गृह्यकर्माणि, उदगयनपूर्वपक्ष᳚*{७१८}* इत्य् आरभ्य आचारादित्वेन. कात्यायनश् च ᳚अथातो गृह्यस्थालीपाकानां कर्मे᳚*{७१९}*त्य् आरभ्य प्रतिपादितवान्. ᳚अथ निषेकादिसंस्कारान् व्याख्यास्याम᳚*{७२०}* इत्य् आरभ्य निषेकपूर्वकत्वेन भगवता विखनसैव*{७२१}* प्रतिपादितम्.
SK
[८५.२२-२४] एवं च निषेकपूर्वकत्वेनोक्तत्वाद्*{७२२}* अस्य सर्वसूत्रोत्तमत्वं एतत्सूत्रोक्तधर्मानुष्ठानेनैव तत्सूत्रिणां सर्वोत्कृष्टत्वञ् चोपपद्यते इति श्रुतिस्मृतिपुराणादिमुखेन प्रतिपादितम् इति निरूपितः पञ्चमो हेतुः.
SK
[८५.२५] इति पञ्चमहेतुनिरूपणम्
SK
!{७०७}! DHN[T] ४१३: मन्त्रवत्सम्प्रयोगे तौ.
SK
[षष्ठहेतुनिरूपणम्]
SK
[वैखानससूत्रस्याष्टादशसंस्कारप्रतिपादकत्वम्]
SK
[८६.१] अथ षष्ठहेतुनिरूपणम्
SK
[८६.२-४] अथेदानीं श्रीवैखानससूत्रोक्तधर्मानुष्ठातॄणाम् एव सर्वेभ्यः श्रेष्ठमत्वं सूत्रान्तरेष्व् अनुक्तं श्रुतिसिद्धाष्टादशसंस्कारवत्वं क्रियाबाहुल्यञ् च सम्भवतीति ज्ञापयितुं ᳚अष्टादशसंस्कारप्रतिपादकत्वाद्᳚ इति षष्ठो हेतुर् निरूप्यते. तथा हि:
SK
[८६.५-८] ᳚अथ निषेकादिसंस्कारान् व्याख्यास्यामः ऋतुसङ्गमन-गर्बाधान-पुंसवन-सीमन्त-विष्णुबलि-जातकर्मोत्थान-नामकरणान्नप्राशन-प्रवासागमन-पिण्डवर्धन-चौलोपनयन-पारायण-व्रतबन्धविसर्गोपाकर्म-समावर्तन-पाणिग्रहणानीत्य् अष्टादश-संस्काराश् शारीराः᳚*{७२३}* इति अष्टादशसंस्काराः सूत्रे प्रतिपादिताः. एते च
SK
[᳚अष्टादशोक्तम् अवरं येषु कर्मे᳚ ति श्रुत्यर्थविचारः]
SK
[८६.९-१०] श्रुतिसिद्धाः. यथा मुण्डोपनिषदि - ᳚प्लवा ह्य् एते अदृढा यज्ञरूपा अष्टादशोक्तम् अवरं येषु कर्म. एतच् छ्रेयो ये ऽभिनन्दन्ति मूढा जरामृत्युं ते पुनर् एवापि यन्ति᳚*{७२४}* इति.
SK
[८६.११] अत्र केचिद् एवम् ऊचुः: ᳚यज्ञस्य र्त्विजष् षोडश सदस्यस्सप्तदशः यजमानो ऽष्टादशः᳚
SK
[८६.१२-१४] इति श्रुत्यनुसारेण ᳚अष्टादशोक्तम् अवरं येषु कर्मे᳚*{७२५}*त्य् अत्र यजमानादय एव विवक्षिता इति. तद् असत्. ᳚अष्टादशोक्तम् अवरं कर्मयेषु᳚ इत्य् उक्तत्वात्. ऋत्विग्यजमानादयो हि यागकर्तारः न तु कर्म. ᳚येषु᳚ इत्य् अस्य पदस्य येषु सूत्रेष्व् इत्य् अर्थः.
SK
[८६.१५-१८] ऽअवरं कर्मऽ; जातकादयः, स्मार्तकर्मत्वात्. आत्मगुणरहिता यागदयः जातकर्मादयश् च. ऽअदृढाः प्लवाःऽ; संसारोत्तारका न भवन्ति. तथा च अत्र अदृढप्लवत्वेन निन्दिता संस्काराः यागादयश् च आत्मगुणरहिता एव विवक्षिताः. तत् सहितानां तेषां मोक्षसाधकत्वम्. यथा:
SK
[आत्मगुणरहितानां संस्काराणां बन्धकत्वम्]
SK
[८६.१९-२१] गौतमधर्मे: ᳚यस्य तु खलु चत्वारिंशत्संस्कारा न चाष्टावात्मगुणाः न स ब्रह्मणस् सायुज्यं सालोक्यञ् च गच्छति. यस्य खलु चत्वारिंशत्संस्काराणाम् एकदेशो प्य् अष्टाव् आत्मणाः अथ स ब्रह्मणस् सायुज्यं सालोक्यञ् च गच्छति गच्छती᳚*{७२६}*ति.
SK
[अष्टानाम् आत्मगुणानां लक्षणानि]
SK
[८६.२२-२३] ऽअष्टाव् आत्मगुणाःऽ: ᳚दया समस्तभूतेषु क्षान्तिर् अनसूया शौचम् अनायासो मङ्गल्यम् अकार्पण्यम् अस्पृहे᳚*{७२७}* ति. तल्लक्षणानि तु:
SK
[तत्र दयालक्षणं]
SK
[८६.२४] ᳚अबन्धौ बन्धुवर्गे वा मित्रे द्वेष्टरि वा तथा / [८६.२५] आपन्ने रक्षणं यत् तु दयैषा परिकीर्तिता //
SK
!{७२३}! Vऐख्Sम्S १.१.
SK
[तत्र क्षमालक्षणम्]
SK
[८७.१] बाह्ये वा ऽभ्यन्तरे वापि दुःख उत्पादिते परैः / [८७.२] न प्रकुप्यति नो हन्ति सा क्षमा परिकीर्तिता //
SK
[तत्र अनसूयालक्षणम्]
SK
[८७.३] सगुणान् गुणि*{७२८}* नो हन्ति (?) स्तौति मन्दगुणान् अपि / [८७.४] नान्यदोषेषु रमते सा ऽनसूया प्रकीर्तिता //
SK
[तत्र शौचलक्षणम्]
SK
[८७.५] अभक्ष्यपरिहारश् च संसर्गश् चाप्य् अनिन्दितैः / [८७.६] स्वधर्मे च व्यवस्थानं शौचम् एतद् उदाहृतम् //
SK
[तत्र अनायासलक्षणम्]
SK
[८७.७] शरीरं पीड्यते येन सुशुभेनापि कर्मणा / [८७.८] अत्यन्तं तन्नकर्तव्यम् अनायासस् स उच्यते //
SK
[तत्र मङ्गल्यलक्षणम्]
SK
[८७.९] प्रशस्ताचरणं नित्यम् अप्रशस्तविसर्जनम् / [८७.१०] एतद् धि मङ्गलं प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः //
SK
[तत्र अकार्पण्यलक्षणम्]
SK
[८७.११] स्तोकाद् अपि प्रदातव्यम् अदीनेनान्तरात्मना / [८७.१२] अहन्यहनि यत्किञ्चिद् अकार्पण्यं तद् उच्यते //
SK
[तत्र अस्पृहालक्षणम्]
SK
[८७.१३] यथोत्पन्नेषु सन्तोषः कर्तव्यस् स्वागतैर् धनैः / [८७.१४] परार्थान् नाभिभाषेत सा ऽस्पृहा परिकीर्तिता //᳚ इति
SK
[८७.१५] प्रसङ्गाद् इदम् उक्तम्. प्रकृतम् अनुसरामः.
SK
[सात्त्विकराजसतामसपुराणानि]
SK
[८७.१६-१७] अथ अष्टादशस्मृत्युक्तानि अष्टादशपुराणेषूक्तानीति वा मुण्डकश्रुत्यर्थो ऽस्तु इति चेत्. तद् अप्य् असत्. स्मृतिपुराणादिषु अष्टादशकर्मेति विशिष्यानुक्तत्वात्.
SK
[८७.१८-२०] अत्र *{७२९}* ᳚अष्टादशोक्तम् अवरं कर्म येष्व्᳚*{७३०}* इति सामान्येनोक्तत्वात् तत्रोक्तानां योगादीनाम् अप्य् अपवर्गप्रापकत्वाभावात् पुनर् अपि जरामृत्युप्रापकत्वाच् च न स्मृतिपुराणेषूक्तानीति वक्तुं युक्तं किञ् च [८७.२१] पाद्मपुराणे: ᳚वैष्णवः*{७३१}* नारदीयञ् च तथा भागवतं शुभं / [८७.२२] गारुडञ् च तथा पाद्मं वाराहं शुभदर्शने // [Pअद्म.P उत्तरभाग २३६.१९]
SK
!{७२८}! Lइएस्: गुणी.
SK
[सात्विकपुराणश्रैष्ठ्यम्]
SK
[८८.१] सात्त्विकानि पुराणानि विज्ञेयानि च षट् पृथक्* /{७३२}*
SK
[८८.२] ब्रह्माण्डं ब्रह्मकैवर्तं*{७३३}* मार्कण्डेयं तथैव च // [Pअद्म.P उत्तरभाग २३६.२०]
SK
[८८.३] भविष्यद् वामनं ब्राह्मं राजसानि च षड्विधाः*{७३४}* / [Pअद्मP उत्तरभाग २३६.२१अब्]
SK
[८८.४] मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च / [८८.५] आग्नेयञ् च षड् एतानि तामसानि निबोध मे //᳚ इति [Pअद्मP उत्तरभाग २३६.१८]
SK
[८८.६] मात्स्ये: ᳚सङ्कीर्णास् तामसाश् चैव राजसास् सात्त्विकास् तथा / [८८.७] कल्पाश् चतुर्विधाः प्रोक्ताः ब्रह्मणो दिवसाश् च ते / [८८.८] यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा // [Mअत्स्यP]
SK
[८८.९] तस्य तस्य तु माहात्म्यं तेन रूपेण वर्तते / [८८.१०] सङ्कीर्णेषु सरस्वत्याः पितॄणाञ् च निगद्यते // [Mअत्स्यP]
SK
[८८.११] अग्नेश् शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते / [८८.१२] राजसेषु तु माहात्म्यम् अधिकं ब्रह्मणो विदुः // [Mअत्स्यP]
SK
[८८.१३] सात्त्विकेष्व् अथ कल्पेषु माहात्म्यम् अधिकं हरेः / [८८.१४] तेष्व् एव योगसंसिद्धा गमिष्यन्ति परां गतिं //᳚ इति [Mअत्स्यP]
SK
[८८.१५] पाद्मे: ᳚वासिष्ठञ् चैव हारीतं व्यासं पाराशरं तथा // [Pअद्मP उत्तरभाग २३६.२३च्द्]
SK
[८८.१६] भारद्वाजं काश्यपीयं स्मृतिषट्कन्तु सात्त्विकम् / [८८.१७] मानवं यज्ञवल्क्यञ् च आत्रेयं दाक्ष्यम् एव च* //{७३५}* [Pअद्मP उत्तरभाग २३६.२४]
SK
[८८.१८] कात्यायनं वैष्णवञ् च स्मृतिषट्कन्तु राजसम् / [८८.१९] गौतमं बार्हस्पत्यञ् च सांवर्तञ् च यमस्मृतिः* //{७३६}* [Pअद्मP उत्तरभाग २३६.२५]
SK
[८८.२०] शाम्भम् औशनसञ् चैव स्मृतिषट्कन्तु तामसम्* //{७३७}*᳚ इति [Pअद्मP उत्तरभाग २३६.२६अब्]
SK
[८८.२१] तथा: ᳚सात्त्विका मोक्षदा ज्ञेया राजसाः स्वर्गदाः स्मृताः* /{७३८}* [Pअद्मP उत्तरभाग २३६.२१च्द्]
SK
[८८.२२] तथैव तामसा देवि निरयप्राप्तिहेतवः //᳚ [Pअद्मP उत्तरभाग २३६.२२अब्]
SK
[८८.२३-२४] इत्यादि वचनसिद्धसात्विकपुराणेषु प्रतिपादितानां भगवदाराधनादीनां मोक्षहेतुत्वस्मरणात्, सामन्येन अष्टादशपुराणोक्तकर्मणां जीर्णप्लवसादृश्यं वक्तुं न शक्यम्.
SK
!{७३२}! Pअद्मP: सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै.
SK
[वैखानसे क्रियाबाहुल्यम्]
SK
[८९.१-२] अन्यथा स्वर्गमोक्षनिरयाणाम् एकरूपत्वाङ्गीकारापातात्. अतः श्रीमद्वैखानससूत्रोक्ताष्टादशसंस्कारा एवेत्य् अवगन्तव्यम्. बोधायनसूत्रे संस्कारसङ्ख्या न कृता.
SK
[८९.३-५] आपस्तम्बादिनापि पञ्चमहायज्ञानां नित्यहोमस्य च पाकयज्ञत्वेनाङ्गीकारात् एते षोडसंस्कारा इति विविच्यानुक्तत्वात् अपरसंस्कारप्रतिपादनाभावाच् च न तत्रोक्ताः गृहीतुं शक्याः.
SK
[८९.६-८] श्रीवैखानसे तु क्रियाबाहुल्यम् अप्य् अस्ति. तथा हि. अष्टादशसंस्काराः पाकयज्ञाश् च पृथक्त्वेनोपपदिताः. वर्षवर्धनाद्यास्तु विशेषाः. पञ्चमहायज्ञसहिता द्वाविंशद्यज्ञाः - पञ्चमहायज्ञानाम् एकत्वम्. अपरश् चाष्टादशव्यतिरिक्त इति.
SK
[८९.९] क्रियाबाहुल्येन किम् आधिक्यम् इति चेत् - उच्यते. मुण्डोपनिषदि -
SK
[८९.१०] ᳚क्रियावान् एष ब्रह्मविदां वरिष्ठः*{७३९}*᳚ इति ᳚क्रियावन्तः श्रोत्रिया ब्रह्मणिष्ठाः स्वयं जुह्वत
SK
[८९.११] एकर्षिं श्रद्धयन्तः. तेषाम् एवैतां ब्रह्मविद्यां वदेत*{७४०}*᳚ इति च श्रूयते.
SK
[८९.१२-१५] बोधायनः: ᳚तस्माद् यः कश्चन क्रियावान् सताम् अनुमताचारस् स श्रोत्रियस् स एव विज्ञेयस् स एव विज्ञेयः᳚ इति. किञ्च - कर्मभूयस्त्वात् फलभूयस्त्वञ् च ᳚यथोपासनं फलम्᳚ इति न्यायात् सिद्ध्यति. अतः: अष्टादशसंस्काराप्रतिपादकत्वाद् अस्य सूत्रस्य श्रेष्ट्ःअत्वं एतस् सूत्रिणां सर्वोत्कृष्टत्वञ् चोपपद्यत इति निरूपितः षष्ठो हेतुः.
SK
[८९.१६] इति षष्ठहेतुनिरूपणम्.
SK
!{७३९}! Bएzउग् औf Mउण्डकU ३.१.४: प्राणो ह्य् एष यः सर्वभूतैर् विभाति विजानन् विद्वान् भवते नातिवादी. आत्मक्रीड आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः.
SK
[सप्तमहेतुनिरूपणम्]
SK
[९०.१-३] अथ श्रीवैखानससूत्रस्य इतरसूत्रापेक्षाभावात् स्वातन्त्र्यम् अस्तीति ज्ञापयितुं साङ्गक्रियाकलापवत्त्वाद् इति सप्तमो हेतुर् निरूप्यते. तथा हि: अत्रसूत्रे अष्टादशसंस्काराः शारीराः प्रसिद्धास् साङ्गाः एव प्रतिपादिताः.
SK
[९०.४-८] ननु - अङ्कुरार्पणशताभिषेकाग्निद्वयसंसर्गपुत्रपरिग्रहब्रह्ममेधवृषोत्सर्जनादिप्रतिपादनाभवात् साङ्गक्रियाकलापवत्त्वं नास्तीति चेत् - तद् असत्. इयं शङ्का श्रीवैखानससूत्रस्वरूपानभिज्ञत्वकृता. इदं सूत्रम् एकादशप्रश्नात्मकम्. अत्र न प्रतिपादितानीति उक्तिः, अतिरिक्तत्वेन गृह्यपरिशिष्टसद्भावाज्ञानात्. गृह्यपरिशिष्टसद्भावः कथम् अवगम्यते इति चेत् - उच्यते.
SK
[९०.९] ᳚अथाङ्कुरार्पणविधिं व्याख्यास्यामः᳚ इत्य् आरभ्य खण्डद्वयेनाङ्कुरार्पणम् उक्तम्. [९०.१०-११] ᳚सायं स्थण्डिले सहस्रं पिष्टेन सोमरूपाणि करोती᳚त्य् अत्र विशेषेण स्थण्डिलादिप्रतिपादनम्. [९०.१२] ᳚शताभिषेकं पूर्वाह्णे पुण्याहं द्विजभोजनम्* //{७४१}*᳚ इत्य् आरभ्य [Gऋह्यपरिशिष्टS]
SK
[९०.१३] ᳚सायं गोमयसंलिप्ते स्थण्डिले प्राग् अनुन्नते / [९०.१४] प्राचीरेखा द्विपञ्चाशत् संख्यया तत्र संलिखेत् // [Gऋह्यपरिशिष्टS.]
SK
[९०.१५] उदीचीश् च तथा रेखा द्वत्रिंशत्संख्यया*{७४२}* लिखेत्*{७४३}* //᳚ [Gऋह्यपरिशिष्टS]
SK
[९०.१६] इत्यादिना शताभिषेकप्रयोगश् च उक्तः.
SK
[९०.१७] तथा ᳚धौतवस्त्रधारिणौ स्याताम्᳚ इत्य् आरभ्य [Gऋह्यपरिशिष्टS] [९०.१८] ᳚दीपाद्यलङ्कृते गेहे व्रीहीन् आस्तीर्य तत्र वै / [९०.१९] चर्माभावे कटं वापि तद् ऊर्ध्वे वस्त्रम् आस्तरेद्*{७४४}* //᳚ इति [Gऋह्यपरिशिष्टS]
SK
[९०.२०] ᳚शेषहोमे ऽन्तहोमान्ते आसीनौ तत्र चर्मणि*{७४५}* / [९०.२१] विसृजामि व्रतञ् चेति तद्व्रतं चर्म सन्त्यजेत् //᳚*{७४६}* [Gऋह्यपरिशिष्टS]
SK
[९०.२२] इत्यादिना अग्निद्वयसंसर्गप्रकारश् च प्रतिपादितः.
SK
!{७४१}! Dइएसेर् Hअल्ब्वेर्स् इस्त् अल्स् ᳚Gऋह्य᳚ एबेन्fअल्ल्स् zइतिएर्त् इन् TPC ४९१.४.
SK
[९१.१] पुत्रपरिग्रहप्रकारश् च
SK
[९१.२] ᳚त्यागविक्रयदानेषु प्रोक्तेष्व् अपि ततस् स्मृतौ* /{७४७}*
SK
[९१.३] एकं न दद्यान् नो गृह्यात् न स्त्री भर्त्रननुज्ञया //᳚*{७४८}* इत्यादिना [Gऋह्यपरिशिष्टS]
SK
[९१.४] ब्रह्ममेधविधिस् तु [९१.५] ᳚संस्कारो ब्रह्मनिष्ठानां सदाचारवताम् अपि / [९१.६] ब्रह्ममेधो ऽतिफलदो न सर्वेषां द्विजन्मनाम् //᳚*{७४९}* इत्यादिना [Gऋह्यपरिशिष्टS]
SK
[९१.७] वृषोत्सर्गविधिस् तु [९१.८] ᳚वृषोत्सर्गविधिं वक्ष्ये येन प्रेतत्वमोचनम् / [९१.९] स्नात्वाथ वास्तुहोमान्ते प्रेतत्वस्य विमुक्तये* //{७५०}*᳚ इत्यादिभिः [Gऋह्यपरिशिष्टS]
SK
[९१.१०] एवं अत्रानुक्तानि सर्वाणि गृह्यपरिशिष्टे प्रोक्तानि इति वेदितव्यम्.
SK
[९१.११-१५] बोधायनादिभिर् अप्य् एते साङ्गा एव प्रतिपादिता इति चेत् - न. ᳚सति कुड्ये चिक्रकर्मे᳚ ति न्यायेन प्रधानकर्माणि प्रतिपादितानि चेत् अङ्गविचारः कर्तव्यः. सन्ध्योपासने अर्घ्यप्रदानादिकम् अनुक्तम्. वानप्रस्थाश्रमस्वीकरणादिकम् अपि न प्रतिपादितम्. वानप्रस्थाश्रमस्वीकरणास्वीकरणारण्याहरणपात्रलक्षणादिषु वैखानससूत्रापेक्षा अस्त्य् एव. देवताप्रतिष्ठादिकम् उक्तं लक्षणम् अनुक्तम्. [९१.१६-१८] आपस्तम्बादिभिः सन्ध्योपासनाङ्कुरप्रतिसरदेवताराधनयज्ञोपवीतधारणादिकम् अप्य् अनुक्तम्. आपस्तम्बादीनाम् अन्योन्यापेक्षा प्रसिद्धा. अन्योन्यापेक्षा नाम अस्वातन्त्र्यम् अङ्गहीनवत्. [९१.१९] मनु: ᳚यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् // [MअनुDह्Ś ४.१५९च्द्]
SK
[९१.२०] सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् / [९१.२१] एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः //᳚ [MअनुDह्Ś ४.१६०]
SK
[९१.२२-२३] अनेन अनन्तस्थिरफलप्राप्तिर् दर्शिता. अतः सूत्रान्तरनैरपेक्ष्यात् सर्वसूत्रोत्तमत्वं स्वातन्त्र्यञ् च घटत इति निरूपितस् सप्तमो हेतुः.
SK
[९१.२४] इति सप्तमहेतुनिरूपणम्
SK
!{७४७}! ᳚Gऋह्य᳚ इन् TPC: त्यागविक्रियदानेषु युक्तौ स्वपितरौ स्मृतौ.
SK
[अथ अष्टमहेतुनिरूपणम्]
SK
[वैखानससूत्रस्य अखिलशिष्टपरिगृहीतत्वम्]
SK
[९२.१-३] इदानीं तावत् श्रुतिस्मृतिपुराणादिभिः सर्वोत्तरत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टपरिगृहीतत्वम् अस्तीति दर्शयितुं मन्वाद्यैः स्वीकृतत्वाद् इति अष्टमो हेतुः निरूप्यते. तथा हि
SK
[९२.५] मनु: ᳚अतः परं प्रवक्ष्यामि धर्मं वैखानसाश्रमम् //᳚*{७५१}* इत्य् आरभ्य
SK
[९२.६] ᳚पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा / [९२.७] कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः* //{७५२}*᳚ इति [MअनुDह्Ś ६.२१]
SK
[९२.८] व्यास: ᳚मूलैर् एके फलैर् एके पुष्पैर् एके दृढव्रताः / [MBह् १२.२३६.१३च्द्]
SK
[९२.९] वर्तयन्ति यथान्यायं वैखानसमते स्थिताः //᳚ इति [MBह् १२.२३६.१४अब्]
SK
[९२.१०] गौतम: श्रामणकेनाग्निम् आधायाग्राम्यभोजी᳚ इति*{७५३}*
SK
[९२.११] यम: श्रामणकेन विधानेन सायं प्रातर् उपस्पृशेत्. इति
SK
[९२.१२-१३] शङ्खलिखितौ: श्रामणकेनाग्निम् आधाय काले कुरुविन्द - वेणु - श्यामाकनीवारादिभिर् वर्तयेत्.*{७५४}* इति.
SK
[९२.१४-१६] हारीत: वानप्रस्थो ग्राम्या ओषधी परिवर्जयेत्. त्रेताग्नीनां स्थाने श्रामणकं वाग्निम् आधाय वल्कलशाणचर्मकुशमुञ्जविदलकं वा वसानो वैखानसप्रोक्तेन विधिना वानप्रस्थो विखना भवति. अनुज्ञायिको ऽनुप्रस्थायिकश्᳚ चेति
SK
[९२.१७] वसिष्ठ: श्रामणकेनाग्निम् आधायाहिताग्निर् वृक्षमूलिकः. इति*{७५५}* [Vआसिष्ठDह्Ś ९.१०]
SK
[९२.१८] बोधायन: ᳚वानप्रस्थो वैखानसशास्त्रसमुदाचारः᳚ [Bऔध्Dह्S १२.६.११.१४]
SK
[९२.१९-२१] आपस्तम्ब: ᳚एकाग्निर् अनिकेतः स्याद्᳚*{७५६}* इति. अस्य धर्मकर्पर्दी ᳚गार्हपत्यादीनां त्रेताग्नीनां स्थाने यस्यैको ऽग्निः औपासन एव - वैखानससूत्रे दृष्टत्वात्, पाणिग्रहणनिमित्वद्वादौपासनस्य.
SK
[९२.२२-२३] जैमिनीयसूत्रे सौमिकचातुर्मास्यप्रकारणे. ᳚भारद्वाजपूर्वं यथा वैखानसपूर्वं पञ्चः᳚ मेति*{७५७}* (?)
SK
!{७५१}! MअनुDह्Ś ६.१अब् व्.ल्. Dइएसेर् Hअल्ब्वेर्स् इस्त् äह्न्लिछ् अल्स् ᳚Mअनु᳚ zइतिएर्त् इन् DHN[D] २८.३.
SK
[अखिलशिष्टपरिग्रहस्य प्रामाण्यातिशयहेतुत्वम्]
SK
[९३.१-२] अत्रोभयत्र आत्रिव्याख्यानम् - षोडशर्त्विजां मध्ये भारद्वाजसूत्रिणं प्रस्तोतारं वैखानससूत्रिणं प्रतिहर्तारं वरयेत्᳚ इति.
SK
[९३.३] कपिञ्जलसंहितायाम्: [९३.४] ᳚याजनाध्यापनयुतः शिष्यानुग्रहकारकः / [९३.५] आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः* //{७५८}* [Kअपिञ्जलS]
SK
[९३.६] आश्रमे वा वने वा ऽपि पुत्रदारसमाहितः / [९३.७] अष्टाक्षरपरो नित्यं स वैखानस उच्यते* //{७५९}* [Kअपिञ्जलS]
SK
[९३.८] ग्राम्यधर्माणि सर्वाणि वर्जयेद् वनवासकः*{७६०}* / [९३.९] वल्कलाजिनसंवीतः स मौनीत्य् अभिधीयते //᳚ इति [Kअपिञ्जलS]
SK
[९३.१०] पाद्मे द्वादशाक्षरप्रकारे [९३.११] ᳚..... पुत्रदारसमन्वितः / [९३.१२] वने वा पत्तने वापि जपेद् वैखानसः शुचिः //
SK
[९३.१३] वियुक्तः पुत्रदाराद्यैः स्वयम् एव वने स्थितः //᳚ [Pअद्मP ]
SK
[९३.१४] अन्यैर् अपि एवम् एवोक्तम्.
SK
[९३.१५-१६] अखिलशिष्टपरिग्रहे को विशेष इति चेत् - अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयो ऽस्तीत्य् अवगम्यते.
SK
[९३.१७] आश्वमेधिके: ᳚धर्मं जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः / [MBह् १४, Aप्प्. ४.२४९२]
SK
[९३.१८] द्वितीयं धर्मशास्त्रं हि*{७६१}* तृतीयं लोकसङ्ग्रहः* //{७६२}*᳚ इति [MBह् १४, Aप्प्. ४.२४९३]
SK
[९३.१९] मनु: ᳚विद्वद्भिस् सेवितं सम्यक्*{७६३}* नित्यम् अद्वेषरागिभिः / [९३.२०] हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत //᳚ इति [MअनुDह्Ś २.१]
SK
[९३.२१] याज्ञवल्क्य: ᳚चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा / [९३.२२] सा ब्रूते ऽयं स धर्मः स्याद् एको वाध्यात्मवित्तमः // [Yआज्ञवल्क्यDह्Ś १.९]
SK
[९३.२३] वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणं / [९३.२४] यस्य प्रमाणं न भवेत् प्रमाणं कस् तस्य कुर्याद् वचनं प्रमाणं //
SK
!{७५८}! Eबेन्fअल्ल्स् zइतिएर्त् अल्स् ᳚Kअपिञ्जलसंहिता᳚ इन् DHN[D] ६२.१६-१७.
SK
[९४.१] न यस्य वेदा न च धर्मशास्त्रं [९४.२] न वृद्धवाक्यं च भवेत् प्रमाणम् / [९४.३] सो ऽधर्मकृद् दुष्टहतो दुरात्मा [९४.४] स्वात्मापि तस्यैव भवेत् प्रमाणम् (?) //᳚ [Yआज्ञवल्क्यDह्Ś ]
SK
[स्मृतेर् वेदमूलत्वे त्रेधा निर्वाहः]
SK
[९४.५-९] स्मृतेर् अपि वेदमूलत्वे त्रेधा निर्वाहः कृतः. नित्यानुमेयश्रुतिमूलत्वम् प्राभाकराः. ᳚तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्त᳚*{७६४}* इत्य् उत्सन्नशाखामूलत्वम् आपस्तम्बाद्याः. तत् प्राभाकराधिभिः दूषितं भाष्यकारानभिमतञ् च. प्राभाकरपक्षे ऽपि नित्यानुमेयश्रुतिमूलत्वे अक्षरशो वा आनुपूर्वीविशेषविशिष्टत्वेन वा. अक्षरश इति यद्य् उच्यते तर्हि कटतपयादीनाम् अपि नित्यानुमेयश्रुतिमूलत्वात् स्मृतित्वं स्यात्.
SK
[९४.१०-१५] आनुपूर्वीविशेषविशिष्टत्वेनेति चेत् नित्यानुमेयत्वं भज्येत् इति. उत्सन्नशाखामूलत्वम् इति पक्षे शाखासु तत्रतत्रोत्सन्ना वा उतैका शाखा उत्सन्ना वा. तत्रतत्रेति चेत् न - पदक्रमादिरूपेणाधीयमानत्वाद् उत्सन्नशाखामूलत्वं न घटते. एकैवोत्सन्नेति चेत् - न. विष्णोर् अंशावतारस्य तपोयोगबलोपेतस्य सर्ववेदसाक्षात् कारवतो व्यासस्य अज्ञाताशासंभवेन एकस्यापि शिष्यस्य तद् अध्यापनसामर्थ्यसम्भवात् तथा वक्तुम् अयुक्तत्वाद् इति. अतो विप्रकीर्णशाखामूलत्वं वक्तव्यम्. तथोक्तम्. [९४.१६] ᳚दुर्बोधा वैदिकाश् शब्दाः प्रकीर्णत्वाच् च ये खिलाः / [९४.१७] तद्ज्ञैस् त एव स्षष्टार्थाः*{७६५}* स्मृतितन्त्रे प्रतिष्ठिताः* //{७६६}*᳚ इति
SK
[९४.१८-२०] अतः श्रुतिस्मृतिपुराणादिभिः प्रामाणत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयो ऽस्तीति ᳚मन्वाद्यैस् स्वीकृतत्वाद्᳚ इति निरूपितो ऽष्टमो हेतुः.
SK
[९४.२१] इत्य् अष्टमहेतुनिरूपणम्
SK
!{७६४}! Bएzउग् औf Āपस्तम्बDह्S १.४.१२.१०: ब्राह्मणोक्ता विधयस् तेषाम् उत्सन्नाः पाठाः प्रयोगाद् अनुमीयन्ते /.
SK
[नवमहेतुनिरूपणम्]
SK
[वैखानससूत्रिणां नारायणैकपरत्वम्]
SK
[९५.१-३] अथेदानीम् आपस्तबादिसूत्रान्तरनिष्ठानां सूत्रकाराद् आरभ्य अविच्छिन्नत्वेन परम्परया एकान्तित्वं नास्तीति ज्ञापयितुं वैखानससूत्रिणाम् एव तत् सम्भवतीति दर्शयितुं. [९५.४] ᳚प्रत्यक्षं अनुमानञ् च शास्त्रञ् च विविधागमम् / [९५.५] त्रयं सुविदितं ज्ञेयं धर्मसिद्धिम् अभीप्सता* //{७६७}*᳚ [MअनुDह्Ś १२.१०५]
SK
[९५.६-७] इति मनुस्मरणानुसारेण प्रत्यक्षादिभिर् अवगमयितुञ् च अखिलजगदेककारणभूतश्रीमन्नारायणैकपरत्वाद् इति नवमो हेतुर् निरूप्यते.
SK
[९५.८] अस्य सूत्रस्य नारायणैकपरत्वे:
SK
[तत्र षड्विधतात्पर्यलिङ्गानि]
SK
[९५.९] ᳚उपक्रमोपसंहाराव् अभ्यासो ऽपूर्वता फलम् / [९५.१०] अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये //᳚
SK
[नारायणस्यैव परब्रह्मशब्दवाच्यत्वम्]
SK
[९५.११-१७] इत्य् उक्तानि षड्विधानि तात्पर्यलिङ्गानि सन्ति. तथा हि आद्यप्रश्ने प्रथमखाण्डे ᳚नारायणपरायण᳚*{७६८}* इत्य् उक्तम्. एवं ᳚सदाध्यात्मरतो ध्यानयोगी नारायणपरं ब्रह्म पश्यन् धारणं धारयेद् अक्षरं परं ब्रह्माप्नोति - ᳚नारायणपरं ब्रह्मेति श्रुतिः᳚ इत्य् उपसंहारे सन्न्यासविधौ प्रतिपादितम्. सन्ध्योपासनादि - पुण्याहाघारान्तहोम - नान्दीमुखोपनयन - पाणिग्रहणपर्यन्तेषु अन्तकर्मणि च अतो देवादिवैष्णवा मन्त्राः विनियुक्ताः. एवं आघारप्रकरणे ᳚शरो ऽङ्गारे ऽग्नौ जुहुयाद्᳚ इति सूत्रेण इध्माधानं तैत्तिरीयब्राह्मणवाक्यानुसारेण परब्रह्माग्नौ विहितम्.
SK
!{७६७}! MअनुDह्Ś: प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् / त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता.
SK
[ब्रह्मरुद्रादीनां यज्ञांशभाक्त्वं भगवत्प्रसादलब्धम्]
SK
[९५.१८-९६.५] परब्रह्मशब्दाभिधेयश् च भगवान् नारायण एवेति वेदान्तेषु निर्णीतम्. तथाहि: ᳚सद् एव सोम्येदमग्र आसीत्, एकम् एवाद्वितीयम्᳚ इत्यादिभिः प्रतिपन्नस्य अभिन्ननिमित्तोपादानकारणस्य ᳚यतो वा इमानि भूतानि जायन्ते - तद्ब्रह्मे᳚त्यादिना जगत्कारणत्वं ब्रह्मशब्दवाच्यत्वञ् च प्रतिपाद्यते. तस्य ᳚सत्यं ज्ञानम् अनन्तं ब्रह्मे᳚ त्यादिना शोधकवाक्येन स्वरूपं निरूप्यते. सत्यत्वादिविशिष्टस्य तस्य ᳚आनन्दो ब्रह्म᳚ इति निरतिशयानन्दरूपत्वं प्रतिपाद्यते. एतादृशब्रह्मरूपं वस्तु ᳚नारायणपरं ब्रह्म᳚ ᳚तत्त्वं नारायणः परः᳚ ᳚एको ह वै नारायण आसीत्᳚ ᳚अपहतपाप्मा दिव्यो देव एको नारायणः᳚ इत्यादि वाक्यैः श्रीमन्नारायण एवेति नियम्यते. एवञ् च ᳚अध्यूहन्ते᳚ इति तैत्तिरीयवाक्यशेषस्थब्रह्मशब्दो ऽपि नारायणपर एवेति प्रकृतसूत्रोक्तेध्माधानम् अपि नारायणपरम् एव.
SK
[९६.६-९] एवम् आधाने - ᳚ध्यायन् नारायणम् उपोष्य᳚ इति, अग्निहोत्रे - भूमानं विष्णुं ध्यायेत्᳚ इति, दर्शपूर्णमासे - ᳚उदित आदित्ये ध्यायन् नारायणं ऽविष्णोर् नु कम्ऽ; इति जपित्वा᳚ इति, सोमे च - ᳚नारायणपरायणस् तूष्णीम् आस्ते᳚ इति च सर्वत्रापि अभ्यासेन नारायणपरत्वेनोक्तत्वात् इदं सूत्रं नारायणपरम् एव. [९६.१०-१४] ननु - अत्र सूत्रे प्रवासागमने आश्वयुज्याञ् च ᳚प्रदक्षिणम् अर्चनं प्रणामो गुहस्य᳚ - ᳚भवं देवम् आवाह्य᳚ इत्य् उक्तत्वात् सर्वत्र नारायणपरत्वम् अस्येति कथं वक्तुं शक्यते इति चेत् - उच्यते. ᳚अङ्गान्य् अन्या देवता᳚ इति अङ्गभूतानां ब्रह्मरुद्रादीनाम् अपि यज्ञांशभाक्त्वं भगवत्प्रसादलब्धम् इति भारतादिनावगम्यते - तथाहि [९६.१५] ᳚ततस् ते सुरास् सर्वे ब्रह्मा ते च महर्षयः* //{७६९}* [MBह् १२.३२७.४८च्द्]
SK
[९६.१६] वेददृष्टेन विधिना वैष्णवं क्रतुम् आरभन् / [९६.१७] तस्मिन् सत्रे तथा ब्रह्मा स्वयं भागम् अकल्पयत् / [९६.१८] देवा महार्षयश् चैव सर्वे भागान् अकल्पयन्* //{७७०}* [MBह् १२.३२७.४९]
SK
[९६.१९] ते कार्तयुगधर्माणो भागाः परमसंस्कृताः / [९६.२०] प्रापुर् आदित्यवर्णं तं पुरुषं तमसः परम्* //{७७१}* [MBह् १२.३२७.५०]
SK
[९६.२१] श्रीभगवान्: येन यः कल्पितो भागः स तथा समुपागतः* /{७७२}*
SK
[९६.२२] प्रीतो ऽहं प्रदिशाम्य् अद्य फलम् आवृत्तिलक्षणम् // [MB.ह् १२.३२७.५२]
SK
[९६.२३] यज्ञीये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः / [९६.२४] कल्पयिष्यन्ति वो भागांस् ते नरा वेदकल्पितान्* //{७७३}* [MBह् १२.३२७.५४]
SK
!{७६९}! MBह्: ततस् ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः.
SK
[रुद्रीदीनां नारायणाङ्गतया पूजार्हत्वम्]
SK
[९७.१] यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ / [९७.२] स महायज्ञभागार्हो वेदसूत्रे मया कृतः //᳚*{७७४}* इति [MBह् १२.३२७.५५]
SK
[९७.३] श्रीभागवते: ᳚अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः / [९७.४] सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्नार्पितं लोकधुरं वहामः //᳚*{७७५}*
SK
[९७.५] एवं च भवादीनाम् अपि नारायणाङ्गत्वेन पूजार्हत्वावगमात्. [९७.६] ᳚अङ्गभावेन देवानाम् अर्चनं न निषिद्ध्यते / [९७.७] स्वतन्त्रबुद्ध्या कुर्वन् हि ब्राह्मणो नरकं व्रजेत् //
SK
[९७.८] ब्रह्माणम् इन्द्रम् अग्निं वा हरेर् आवरणं विना / [९७.९] यस् तु सम्पूजयेद् विप्रः स पाषण्डी भवेद् ध्रुवम् //᳚
SK
[९७.१०] इत्यादिना अङ्गभावेन तेषाम् अर्चनं कुर्वतो दोषाभावस्मरणाच् च सूत्रे तथोक्तिः. [९७.११] तथा: ᳚अन्यत्र त्वां समारोप्य यद्य् उपासा विधींयते*{७७६}* / [९७.१२] सा वृत्तिः प्रच्युता प्रोक्ता तव तत्त्वं तथैव च // [KJ.K ]
SK
[९७.१३] त्वयि सर्वं समारोप्य यद्य् उपासा विधीयते / [९७.१४] सा वृत्तिः सकला ज्ञेया तव तत्त्वं तवैव हि //᳚ [KJK ]
SK
[९७.१५-१८] इति ज्ञानकाण्डे कश्यपेनोपासनस्वरूपभेदप्रदर्शनात् ᳚विष्णोर् नित्यार्चा सर्वदेवार्चा भवती᳚*{७७७}*ति मुख्यत्वेन सूत्रेण प्रतिपादितत्वात् प्रच्युतिफलप्रदत्वाभावाच् च तेषाम् अङ्गभावेन पूजनं युज्यते. आपस्तम्बादिसूत्रेषु सर्वसंस्काराणां सद्वारकत्वेन प्रतिपादनात् नारायणैकपरत्वेन सकृद् अपि स्मरणाभवात् तेषां न नारायणैकपरत्वम्.
SK
[आपस्तम्बादिसूत्राणां नारायणैकपरत्वाभावः]
SK
[९७.१९-२१] ननु बोधायनेनापि ᳚अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यस्यामो द्वादश्याम् एकादश्यां श्रोणायां वा यानि चान्यानि शुभनक्षत्राणि᳚*{७७८}* इत्य् आरभ्य ᳚द्वादशनामभिः अमुष्मै स्वाहा अमुष्मै स्वाहा᳚*{७७९}* इत्यादिना होमादिकम् उक्ता.
SK
[९७.२२] ᳚त्वाम् एकम् आद्यं पुरुषं पुरातनं [९७.२३] नारायणं विश्वसृजं यजामहे / [९७.२४] त्वम् एव यज्ञो विहितो विघ्नेयः [९७.२५] त्वम् आत्मनात्मन् प्रतिगृह्णीष्व हव्यम् //᳚ [Bऔध्GऋŚएष्S २.१३.३६]
SK
!{७७४}! MBह्: यो मे यथा कल्पितवान् भागम् अस्मिन् महाक्रतौ / स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः.
SK
[आपस्तम्बादीनां नानादेवतापरत्वम्]
SK
[९८.१-५] इति नारायणैकपरत्वेन प्रतिपादनात् कथं तेषां नारायणैकपरत्वं नास्तीत्य् उच्यत इति चेत् - सत्यम्. आपस्तम्बादीनाम् आचार्येणानेन बोधायनेन नारायणैकपरत्वेन प्रतिष्ठादिकम् अनुक्तम्. किन्तु. ᳚अथ रुद्रप्रतिष्ठाविधिं*{७८०}* व्याख्यास्यामः. चतुर्थ्याम् अष्टम्याम् आर्द्रायाम् अपभरण्यां वा*{७८१}* यानि चान्यानि शुभनक्षत्राणि᳚ इति प्रकृत्य ᳚भवाय देवाय स्वाहे᳚त्यादिभिः ᳚भवस्य देवस्य पत्न्यै स्वाहे᳚*{७८२}*त्यादिभिश् च होमादिकम् उक्त्वा [Bऔध्GऋŚएष्S २.१६.१-२]
SK
[९८.६] ᳚त्वाम् एकम् आद्यं पुरुषं पुरातनं [९८.७] रुद्रं शिवं विश्वसृजं यजामहे / [९८.८] त्वम् एव यज्ञो विहितो विधेयस् [९८.९] त्वम् आत्मनात्मन् प्रतिगृह्णीष्व हव्यं //᳚ [Bऔध्GऋŚएष्S २.१६.३९]
SK
[९८.१०] इति शिवप्रतिष्ठा, एवं ᳚अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः᳚*{७८३}*
SK
[९८.११-१५] इत्य् आरभ्य ᳚महादेवम् आवाहयेत् - आयातु भगवान् महादेव᳚*{७८४}* इति पृथक्त्वेन रुद्रपूजा च प्रतिपादिता. तथा - अन्यत्र ᳚अथातो ऽर्धमासे ऽर्धमासे ऽष्टम्यां ब्राह्मणाः स्त्रियश् चाहुः᳚ इत्य् आरभ्य ᳚अथ प्रदोषे रुद्रं विरूपाक्षं सपनीकं*{७८५}* ससुतं सपार्षदम्᳚ इत्यादिभिः रुद्रावाहनम् उक्तम्. एवं ᳚आदित्यम् अम्बिकां विष्णुं गणनाथं महेश्वरम्᳚*{७८६}* इति पञ्चपूजा च. अतः बोधायनसूत्रं नारायणैकपरं न भवति.
SK
[९८.१६-१८] अथ आपस्तम्बादयः किं नारायणैकपरः - अत रुद्रपराः आहोस्वित् नानादेवतापराः?. नारायणैकपरा इति चेन् न. जातिकुलाचारादिष्व् आगोत्रप्रथमाद् आरभ्य:
SK
[९८.१९] ᳚श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनस् सौगताः / [९८.२०] माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः / [९८.२१] भ्राता तिष्ठति साङ्ख्ययोगसमये चार्वाकशिष्यस् सखा [९८.२२] मिथ्याचारसमाह्वयस् स्वयम् असौ विप्लाविको वैदिकः //᳚
SK
!{७८०}! Bऔध्GऋŚएष्S: रुद्रप्रतिष्ठाकल्पं.
SK
[९८.२३-९९.४] इत्य् उक्तरीत्या एतेषां शैवपाशुपतवैष्णवाद्याकरिण विद्यमानत्वात् आपस्तम्बादिसूत्राण्य् अपि नारायणैकपराणि न भवन्ति. भगवतो नारायणस्य समाराधनविधिप्रतिपादनाभावाच् च. नारायणैकपरञ् चेद् आपस्तम्बादिसूत्रं तर्हि तत्सूत्रोक्तधर्मानुष्ठातारः सर्वे ऽपि नारायणैकपरा एव स्युः. न च तथा दृश्यते. पाञ्चरात्राद्युक्तमार्गेण वैष्णवसंपादने ᳚स्वसूत्रे विद्यमाने तु᳚ - ᳚स्वसूत्रस्य परित्यागात्᳚ - ᳚यस् स्वधर्मं परित्यज्य᳚ ᳚विधर्मः परधर्मश् च᳚ - श्रेया स्वधर्मो विगुणः᳚ - इत्यादि वचनप्रतिपादितस्वसूत्रपरित्यागपरधर्मस्वीकारशाखारण्डत्वादिदोषाः प्रसज्येरन्.
SK
[९९.५-६] ᳚स्वशास्त्रनिर्णये सत्ये सत्याः स्युर् लोकनिर्णया᳚ इति स्वसूत्रस्य प्रामाण्यबुद्धिश् च तेषाम् अवर्जनीया.
SK
[वैखानसानां अविच्छेदेन नारायणपरत्वम्]
SK
[९९.७-९] वैखानसानां सूत्रकाराद् आरभ्य अविच्छिन्नत्वेन श्रीमन्नारायणैकपरत्वेनाराधनादिकं प्रत्यक्षसिद्धम्. तथा च सूत्रम्, ᳚गृहे देवायतने वा भक्त्या भगवन्तं नारायणम् अर्चयेत् तद् विष्णोः परमं पदं गच्छतीति विज्ञायते᳚ इति*{७८७}*.
SK
[९९.१०-१२] इतरेष्व् आपस्तम्बादिषु पितृ पितामह मातुल मातामह पुत्र पौत्र भ्रातृ सम्बन्धिषु केचिच् छैवाः केचिद् पाशुपताः केचिच् छाक्ताः नानादेवतापराश् चेत्येवमाकारेण दृश्यते. [९९.१३] ᳚जन्मान्तरसहस्रेषु तपोज्ञानसमाधिभिः / [९९.१४] नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते //᳚
SK
[९९.१५-१६] इति केषाञ्चित् स्वकृतपूर्वपुण्यविशेषान् नारायणपरत्वसम्भवे ऽपि स्वसूत्रकारम् आरभ्य स्वपर्यन्तम् अविच्छिन्नत्वेन तद् अस्तीति वक्तुं न शक्यते. अतः - [९९.१७] ᳚नानाकामहतज्ञाना नानादैवतयाजिनः / [९९.१८] नरा भगवत् ऐकन्त्ये न स्थास्यन्ति कलौ युगे // [VआयुP]
SK
[९९.१९] आगमाद् अनुमानाच् च प्रत्यक्षाद् उपपत्तितः / [९९.२०] परीक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता //᳚ [VआयुP]
SK
[९९.२१-२२] इति वायुपुराणादिवचनाद् आगमादिभिर् निपुणं परीक्ष्य निर्णीत एवार्थः विपश्चिद्भिः अनुष्ठेयः.
SK
[नारायणस्य पारम्यम्]
SK
[९९.२३-१००.१०] ननु - किं अर्थं नारायणैकपरत्वेन सूत्रं प्रणीतम् इति चेत् - उच्यते. नारायण*{७८८}* अखिलजगदेककारणत्वात् परंब्रह्मपरमात्मादिशब्दवाच्यत्वात् अपवर्गादिफलप्रदत्वात् समाभ्यधिकरहितत्वाच् च नारायणैकपरत्वेन प्रणीतम्. अत्र - ᳚नारायणाद् रु*{७८९}* जायते. नारायणाद् इन्द्रो जायते. नारायणाद् द्वादशादित्याः रुद्रा वसवस् सर्वाणि च भूतानि. नारायणाद् एव समुद्पद्यन्ते. नारायणात् प्रलीयन्ते᳚ इत्याद्याः ᳚नारायणपरं ब्रह्मे᳚त्य् आरभ्य ᳚अन्तर्बहिश् च तत्सर्वं व्याप्य नारायणः स्थितः᳚ इत्य् आद्याः, ᳚तम् एव विद्वान् अमृत इह भवति. नान्यः पन्था अयनाय विद्यते᳚ ᳚उतामृतत्वस्येशानः᳚ इत्याद्याः, ᳚न तस्य कार्यं करणञ् च विद्यते᳚ ᳚न तत्समश्चाभ्यधिकश् च दृश्यते᳚ ᳚परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च᳚ इत्याद्याः, ᳚एष सर्वभूतान्तरात्मा दिव्यो देव एको नारायणः᳚ इत्याद्याः, ᳚एको ह वै नारायण आसीत्᳚ इत्याद्याः, ᳚यतो वा इमानि भूतानि जायन्ते. येन जातानि जीवन्ति. यत्प्रयन्त्य् अभिसंविशन्ति. तद्विजिज्ञासस्व. तद् ब्रह्मे᳚ति ᳚पतिं विश्वस्यात्मेश्वरम्᳚ इत्याद्याश् च श्रुतयः प्रमाणम्.
SK
!{७८७}! Bएzउग् औf Vऐख्Sम्S ४.१२: द्विजातिर् अतन्द्रितो नित्यं गृहे देवायतने वा भक्त्या भगवन्तं नारायणम् अर्चयेत्. तद् विष्णोः परमं पदं गच्छतीति विज्ञायते.
SK
[श्वेताश्वतरादेः रुद्रपारम्यपरत्वाभावः]
SK
[१००.११-२३] ननु - श्वेताश्वतरे - ᳚एको हि रुद्रो न द्वितीयाय तस्थे - य इमान् लोकान् ईशत ईशनीभिः*{७९०}* - विश्वाधिको रुद्रो महर्षिः*{७९१}* - हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु*{७९२}* - ᳚उमासहायं परमं महेश्वरं त्रियम्बकं नीलकण्ठं प्रशान्तम्. ज्ञात्वा मुनिर् गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्᳚ इत्यादिभिः रुद्रस्यापि जगत्कारणत्वादि प्रतिपाद्यत इति चेत् - उच्यते. आपाततो रुद्रपरत्वेनावगम्यमाने ऽपि विचार्यमाणे नारायणपरत्वम् एव. एक एव रुद्र इत्य् अनुपपन्नम्. ᳚सहस्राणि सहस्रशो ये रुद्रा᳚ इत्यादि श्रुतिभिः ᳚एकादशरुद्रा᳚ इत्यादिभिश् च अनेकरुद्राणां विद्यमानत्वावगमात् क्रूरस्य रुद्रशब्दवाच्यस्य ᳚बृहत्त्वात् बृंहणत्वाच् च तद्ब्रह्मेति प्रकीर्तितम्᳚ इति ब्रह्मशब्दवाच्यत्वासम्भवात्, ᳚तेषाम् असुराणां तिस्रः पुर आसन्न्᳚ इत्य् आरभ्य, ᳚इदम् असिष्यतीति रुद्रम् अब्रुवन् रुद्रो वै क्रूरस् सो ऽस्यत्विति. सो ऽब्रवीद् वरं वृणै अहम् एव पशूनाम् अधिपतिरसाव् इति तस्माद् रुद्रः पशूनाम् अधिपतिर् इति᳚ ᳚रुद्रो वा अकामयत पशुमान् स्याम् इति - ᳚माता रुद्राणां दुहिता वसूनाम्᳚ इति. पशुपतित्वयाचकत्वात्. ᳚नैव देवो न मर्त्यः. न राजा वरुणो विभुः. नाग्निर्नेन्द्रो न पवमानः.
SK
!{७९०}! Śवेत्U ३.२: एको हि रुद्रो न द्वितीयाय ??थुर् य इमां ल्लोकान् ईशत ईशनीभिः.
SK
[ब्रह्मरुद्रादीनां नारायणसाम्याभावः]
SK
[१००.२४-१०१.७] मातृक्कश् च न विद्यते - इत्य् आरभ्य ᳚एतद् रुद्रस्य धनुः. रुद्रस्यत्वेन धनुरार्त्निः. शिर उत्पिपेष. स प्रवर्ग्यो ऽभवत्. तस्माद् यस् सप्रवर्ग्येण यज्ञेन यजते. रुद्रस्य स शिरः प्रतिधाति. नैनं रुद्र आरुको भवति᳚ इत्य् उक्तत्वाच् च रुद्रस्य ब्रह्मशब्दवाच्यत्वं न सम्भवति. रुद्र हर पशुपति नीलग्रीव शितिकण्ठ भव शर्व कपर्दीत्यादीनाम् एकत्वेन श्रुयमाणानाम् एकत्वं न सम्भवति. ईश्वर महेश्वर परममहेश्वर इति परममहेश्वरशब्दश्रवणात्. ᳚शिव एको ध्येयः शिवश्शङ्करः सर्वम् अन्यत्परित्यज्ये᳚ त्यादिना शिवशब्दवाच्याद् अधिकत्वेन शिवतरशिवतमशब्दवाच्यस्य विद्यमानत्वात्. शम्भुशब्दस्य विश्वशम्भुत्वश्रवणात् ईशानस्य जगदीशानत्वश्रवणात् महादेवस्य ᳚तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ् च दैवतम्᳚ इति श्रवणाच् च रुद्रादीनां परंब्रह्मशब्दवाच्यत्वं न सम्भवति.
SK
[१०१.८-१२] ननु - श्वेताश्वतरे - उमासहयविशेषित परममहेश्वरशब्दवाच्यस्य रुद्रत्वसम्भवात् परंब्रह्मशब्दवाच्यत्वं तस्य सम्भवतीति चेत् - न. परममहेश्वरशब्दस्य उमासहायम् इत्य् अत्र रुद्रादिष्व् अनुपपन्नत्वात्. उकारस्त्ववधारणार्थः. उ - मा सहायं लक्ष्मीसहायं परमं महेश्वरम् एव त्रिलोचनत्वादिविशेषणविशिष्ठं लक्ष्मीनरसिंहं ध्यात्वेत्यर्थः. यद्वा. देवमनुष्याद्यपेक्षया परममहेश्वरत्वात्, [१०१.१३] ᳚सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् / [१०१.१४] स संज्ञां याति भगवान् एक एव जनार्दनः //᳚
SK
[१०१.१५-१८] इति भगवच्छरीरभूतत्वाच् च रुद्रस्य परममहेश्वरत्वम्. एवं भूतं रुद्रं ध्यात्वा मुनिर् मननशीलस्सन् भूतयोनिं सर्वकारणकारणं सम्स्तरक्षकं तमसः परस्तात् गच्छति. ᳚आदित्यवर्णं तमसः परस्ताद्᳚ इत्यादिभिः तमसः पारवर्तिनं प्रकृतेः परं परमात्मानं नारायणं गच्छति - प्राप्नोति इत्य् अर्थः.
SK
[१०१.१९] किञ्च - अत्र: सनो देवः शुभया स्मृत्या संयुनक्तु. इत्य् अनेन [१०१.२०] ᳚आरोग्य भास्कराद् इच्छेत् श्रियम् इच्छेद् धूताशनात् / [१०१.२१] शङ्करात् ज्ञानम् अन्विच्छेत् मोक्षम् इच्छेज् जनार्दनात् //᳚
SK
[१०१.२२-२३] इति ज्ञानप्रदत्वात् शङ्करोपासनम् उच्यते. अतो भगवता नारायणेन साम्यं ब्रह्मरुद्रादीनां नोपपद्यते. [१०१.२४] भारते: ᳚ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् / [१०१.२५] ते वै पाषण्डनो ज्ञेयास् सर्वकर्मबहिष्कृताः // [MB.ह् ]
SK
[रुद्रादिसाम्येन नारायणावमन्तॄणाम् अनिष्टम्]
SK
[१०२.१] यस् तु नारायणं देवं सामान्येनाभिमन्यते / [१०२.२] स याति नरकं घोरं यावच् चन्द्रादिवाकरम् // [MB.ह् ]
SK
[१०२.३] यो महाद्विष्णुम्*{७९३}* अन्येन हीनदेवेन दुर्मति / [१०२.४] साधारणं सकृद् ब्रूते सो ऽन्त्यजो नान्त्यज्ॐ ऽत्यजः //᳚ [MBह् ]
SK
[१०२.५] वाराहे: ᳚अन्यदेवसमं ये तु मन्यन्ते मां नराधमाः / [१०२.६] चण्डालतां व्रजन्त्य् आशु जन्मनि नव पञ्च च //᳚ इति [VअराहP]
SK
[१०२.७] श्रीभागवते: ᳚यस् तु नारायणं देवं समत्वेनावमन्यते / [१०२.८] सकृत्तेनावमानेन नरकान्नातिवर्तते // [BहागवतP ]
SK
[१०२.९] अस्माद् अन्यं परत्वेन चिन्तयानो ह्य् अचेतनः / [१०२.१०] स पाषण्डीति विज्ञेयस् सर्वकर्मबहिष्कृतः //᳚ इति [BहागवतP ]
SK
[१०२.११] कौर्मे: ᳚ये ऽन्यं देवं परत्वेन वदन्त्य् अज्ञानमोहिताः / [१०२.१२] नारायणाज् जगन्नाथात् ते वै पाषण्डिनः स्मृताः // [Kऊर्मP ]
SK
[१०२.१३] यस् तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः / [१०२.१४] समत्वेनैव वीक्षेत स पाषण्डी भवेद् द्विजः //᳚ इति [Kऊर्मP ]
SK
[१०२.१५] भारद्वाज: ᳚अशुद्धा ब्रह्मरुद्राद्या जीवा विष्णोर् विभूतयः / [१०२.१६] तान् वै कुदृष्टयस् सम्यक् परत्वेनाप्य् उपासते //᳚ इति
SK
[१०२.१७] वाराहे: अगस्त्यं प्रति रुद्रः: [१०२.१८] ᳚यो यज्ञैर् इज्यते देवो यस्मात् सर्वम् इदं जगत् / [१०२.१९] उत्पन्नं सर्वदा यस्मिन् लीयते*{७९४}* सचराचरम् // [VअराहP]
SK
[१०२.२०] नारायणः परो देवः सत्त्वरूपी जनार्दनः / [१०२.२१] त्रिधात्मानं*{७९५}* स भगवान् ससर्ज परमेश्वरः // [VअराहP]
SK
[१०२.२२] शुद्धसत्त्वस् स्वयं जज्ञे रजस्सत्त्वादिकं विभुः / [१०२.२३] ससर्ज नाभिकमले ब्रह्माणं कमलासनम् // [VअराहP]
SK
[१०२.२४] रजसा तमसा युक्तं सो ऽपि मां ससृजे प्रभुर् //᳚ इति [VअराहP]
SK
!{७९३}! Lइएस्: महाविष्णुम्.
SK
[१०३.१] ननु: ᳚सर्वपापहरञ् चेह पश्चात् संसारनाशनम् / [१०३.२] सुवर्णरौप्यताम्राद्यैः लोहेनापि तथैव च // [VअराहP]
SK
[१०३.३] तथा रयाङ्गम्*{७९६}* अष्टाङ्गं सुनाभञ् च सुवृत्तकम् / [१०३.४] ज्वालाचतुष्कसंयुक्तं कृत्वा चैव विधानतः // [VअराहP]
SK
[१०३.५] अग्नौ प्रताप्य विधिवत् धारयेद् भक्तिसंयुतः //᳚ इति [VअराहP]
SK
[१०३.६] ᳚यज्ञो दानं तपो होमो भोजनं पितृतर्पणम् / [१०३.७] चक्रलाञ्छनहीनस्य विप्रस्य विफलं भवेत् // [VअराहP.]
SK
[१०३.८] श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने / [१०३.९] चक्राङ्कितं विप्रम् एव पूजयेद् अपरं न तु //᳚ [VअराहP]
SK
[१०३.१०-११] इत्यादिवचनैः चक्रादिनानङ्कितस्य*{७९७}* वैष्णवत्वाभावात् वैखानसानां*{७९८}* कथं वा वैष्णवत्वम् इति चेत् - उच्यते.
SK
[चक्राद्यनङ्कितानाम् अपि वैखान्सानां वैष्णवत्वम्]
SK
[१०३.१२-१३] ᳚यस्य मे श्रियम् अमितां दातुं गर्भ एव करे चक्रं धारयामि स चक्रवर्ती भवति᳚ इति श्रुतेः [१०३.१४] ᳚वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् / [१०३.१५] नारायणः स्वयं गर्भे मुद्रां धारयते निजाम्* //{७९९}*᳚ इति
SK
[१०३.१६] ᳚सुदर्शनम् अभीत्य् उक्त्वा दक्षिणे तु सुदर्शनम् / [१०३.१७] रविपाम् इति वामे तु शङ्खञ् च बिभृयात् करे* //{८००}*᳚
SK
[वैखानसानां गर्भतो वैष्णवत्वम्]
SK
[१०३.१८] इति भृगुणोक्तत्वाच् च श्रीविष्णुबलिकर्मणा वैखानसानां गर्भवैष्णवत्वादिकं प्रतिपन्नम्. [१०३.१९] तथा*{८०१}*: ᳚इन्द्रियेभ्यः परा ह्य् अर्था ह्य् अर्थेभ्यश् च परं मनः / [१०३.२०] मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः //
SK
[१०३.२१] महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः / [१०३.२२] पुरुषान् न परं किञ्चित् सा काष्ठा सा परा गतिः //᳚
SK
[गर्भगतस्य प्रपदनोपपत्तिः]
SK
[१०३.२३] इति श्रुतेः परमैकान्तित्वं परमपुरुषवशीकरणद्वारा गर्भगतस्य प्रपत्तिर् अपि सम्भवति.
SK
[१०३.२४] गर्भगतस्य प्रपत्तिर् अपि गर्भोपनिषदि श्रूयते. ᳚ज्ञानाद् ध्यनाद् अक्षरम् ओङ्कारः चिन्तयति.᳚*{८०२}*
SK
!{७९६}! DHN[T] ६०७: रथाङ्गम्.
SK
[१०४.१-२] इत्य् उक्त्वा ᳚अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति. पूर्वजातिं स्मरति. कृताकृतञ् च कर्म भवति. शुभाशुभञ् च कर्म विन्दति.᳚*{८०३}* [१०४.३] ᳚नानायोनिसहस्राणि दृष्टा*{८०४}* चैव ततो मया / [१०४.४] आहारा विविधा भुक्ताः पीताश् च विविधाः स्तनाः // [Gअर्भ.U ४.१]
SK
[१०४.५] जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः / [१०४.६] अहो दुःखो दधौ मग्नो न पश्यामि प्रतिक्रियाम् //᳚ इत्युक्त्वा [Gअर्भU ४.२]
SK
[१०४.७] ᳚यदि योन्याः प्रमुच्ये ऽहं तं प्रपद्ये नारायणाम्*{८०५}* / [१०४.८] अशुभक्षयकर्तारं फलमुक्तिप्रदायकम्* //{८०६}*᳚ इति [Gअर्भU ४.६]
SK
[१०४.९-१४] *{८०७}*पुरुषसूक्तभाष्ये - मुद्गलोपनिषदि - ᳚वामदेवो ऽप्य् आङ्गिरसस् सन् पूर्वपूजां समारात्रिं पत्न्यनसूयागर्भ एव शयानो ब्रह्मैव वेदयाञ् चक्रे स गर्भं पुरो भित्वा ब्रह्मलोकम् उपचक्राम तम् उत्क्रामान्तम् आह मध्ये ऽध्वानम् इन्द्रः उपनिषद उवाच, भगवन् गर्भपञ्जरे एवाभिनिवेशमान अनभिज्ञातोपायो ऽस्मात् किञ्चिद् धादित्या स गर्भस् सर्वो मन्यमानो ऽध्वनः पारम् उपगच्छसी᳚त्यादि. तथा च गर्भगतस्य प्रपदनविचारश्रवणाद्युपपद्यत एव.
SK
[वैदिकतान्त्रिकभेदेन प्रपत्तेर् द्वैविद्यम्]
SK
[१०४.१५-१६] वैदिकतान्त्रिकभेदेन प्रपत्तिर् द्विविधा - प्रणवपूर्वकत्वेन पुरुषाद्यावाहनादिकं वैदिकम्.
SK
[वैदिकप्रपत्तेर् लक्षणम्]
SK
[१०४.१७] श्रुत्यन्तरे: ᳚अकारेणोच्यते विष्णुस् सर्वलोकेश्वरो हरिः / [१०४.१८] उद्धृता विष्णुना लक्ष्मीर् उकारेण तथोच्यते / [१०४.१९] मकारस् तु तयोर् दास इति प्रणवलक्षणम्* //{८०८}*᳚ इति
SK
[१०४.२०] किञ्च. प्रणवोच्चारणमात्रेण शङ्खचक्रादिधारणम् अपि सम्भवतीति श्रुयते*{८०९}*.
SK
[१०४.२१-२४] कैवल्योपनिषदि - ᳚धृतोर्ध्वपुण्ड्रः कृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा. स्वरेण मन्त्रेण सदा हृदिस्थं परात् परं यन्महतो महान्तम्.᳚ इति. सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियः पतये एव स्वाभाविकशेषभूत इति सर्वदानुसन्धानम् एव वैदिकी प्रपत्तिः.
SK
!{८०३}! Bएzउग् औf Gअर्भU ३.१२: अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति. पूर्वजातीः स्मरति. कृताकृतञ् च कर्म भवति. शुभाशुभञ् च कर्म विन्दति.
SK
[१०५.१] ᳚स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि / [१०५.२] आत्मदास्यं हरेः स्वाम्यं स्वभावञ् च सदा स्मर //᳚
SK
[१०५.३] इत्य् एव सूत्रे प्रतिपदितम्. [१०५.४] पाञ्चरात्रे तु [१०५.५] ᳚त्यक्त्वा त्रयीं तन्त्रम् एव प्रपद्य शरणं स्थिताः //᳚ इति [Pआद्मS चर्यापाद २१.५६च्द्]
SK
[१०५.६] ᳚अनन्यसाध्ये स्वाभीष्ठे महाविश्वासपूर्वकम् / [१०५.७] तदेकोपायता याच्ञा प्रपत्तिः शरणागतिः //᳚
SK
[१०५.८-१०] *{८१०}*इति च उपदिश्यते. तस्याः प्रपत्तेः सकृत्करणात् समन्त्रकत्वाभावात् तच्छेषगत्यनुस्मरणाभावाच् च तां तान्त्रिकप्रपत्तिं विहाय ᳚यद् एव विद्यया करोति तद् एव वीर्यवत्तरं भवती᳚ति श्रुत्या वैदिकप्रपत्तिम् एवोक्तवान् सूत्रकारः.
SK
[तप्तचक्राद्यङ्कं न द्विजन्मनाम्]
SK
[१०५.११] स्कान्दे: ᳚विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते / [१०५.१२] शङ्खचक्रगदापूर्वैर् अङ्कनं नान्यदेहिनाम् // [Sकन्दP ]
SK
[१०५.१३] शिवागमादिदीक्षाणां धार्यं तिर्यक् त्रिपुण्ड्रकम् //᳚ इति [Sकन्दP ]
SK
[१०५.१४] विष्णु: ᳚शङ्खचक्राद्यङ्कनञ् च गीतनृत्तादिकं तथा / [१०५.१५] एकजातेर् अयं धर्मः न जातु स्याद् द्विजन्मनाम्* //{८११}*᳚ इति [Vइष्णुP ]
SK
[१०५.१६] श्रीभागवते दशमस्कन्धे: [१०५.१७] ᳚त्रिवक्रायाम् उपश्लोकः पुत्रः कृष्णम् अनुव्रतः / [१०५.१८] शिष्यस् साक्षान् नारदस्य ददौ चित्तम् अखण्डितम् //
SK
[१०५.१९] तेनोक्तं सात्त्वतं तन्त्रं यत् ज्ञात्वा मोक्षभाग् भवेत् / [१०५.२०] यत्र स्त्रीशूद्रदासानां संस्कारो वैष्णवः स्मृतः //᳚ इति [BहागवतP ]
SK
[तान्त्रिकप्रपत्तेर् लक्षणादि]
SK
[१०५.२१] पद्मपुराणे: ᳚वेदज्ञे ब्राह्मणे नित्यं सर्वास् तिष्ठन्ति देवताः / [१०५.२२] इति तित्तिरिशाखायां श्रूयते नृपसत्तम // [Pअद्मP ]
SK
[१०५.२३] दक्षिणे ऽंसे ब्राह्मणस्य शङ्खचक्रगदाधरः / [१०५.२४] हरिस् तिष्ठति वामे तु देवकीसूनुर् आदरात् // [Pअद्मP ]
SK
!{८१०}! DHN[T] ६१४ स्तत्त् DHN[D] १०५.८-१०: इति सकृत्कृतत्वात् मन्त्रकत्वाभावात् तच्छेषगत्यनुस्मरणाभावाच्. (यद् एव विद्यया करोति तद् एव वीर्यवत्तरं भवती᳚ति श्रुत्या तान्त्रिकप्रपत्तिं विहाय वैदिकप्रपत्ति)म् एवोक्तवान्.
SK
[१०६.१] ततो ब्राह्मणदेहो ऽयं देवतागार उच्यते / [१०६.२] तद्दाहे देवतास् सर्वे पलायन्ते दिशो दश // [Pअद्मP ]
SK
[तप्तचक्रङ्कणादिविधीनाम् अधिकारी]
SK
[१०६.३] अगारदाही स भवेत् तद्दाही ब्राह्मणाधमः / [१०६.४] शङ्खं चक्रं मृदा यस् तु कुर्यात् तप्तायसेन वा // [Pअद्मP ]
SK
[१०६.५] स शूद्रवत्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः / [१०६.६] यथा श्मशानजं*{८१२}* काष्ठम् अनर्हं सर्वकर्मसु // [Pअद्मP ]
SK
[१०६.७] तथा चक्राङ्कितो विप्रस् सर्वकर्मसु गर्हितः //᳚ इति. [Pअद्मP ]
SK
[१०६.८] तत्रैव: ᳚मोहाद् वा लोभतो वापि विप्रश् चक्राङ्कितो यदि / [१०६.९] अनर्हस् स हि विज्ञेयः श्रौतस्मार्तेषु कर्मसु // [Pअद्म.P ]
SK
[१०६.१०] क्रियास्व् अनर्हताम् एति यथा काष्ठं श्मशानगम् / [१०६.११] तथा चक्रादिना दग्धाः सर्वकर्मस्व् अनर्हताम् // [Pअद्मP ]
SK
[१०६.१२] दग्धार्धकायो यत्रास्ति ग्रामे जनपदे ऽपि वा / [१०६.१३] श्मशानं तद् धि विज्ञेयं वासानर्हं द्विजन्मनाम् //᳚ [Pअद्मP ]
SK
[१०६.१४-१६] इत्यादिना दूषणम् उक्तम्. एतानि तप्तचक्राङ्कनविधायकानि वचनानि ᳚विष्ण्वागमादितन्त्रेषु दीक्षितानाम्᳚ इत्य् उक्तत्वात् एकजातिविषयत्वेनोक्तत्वात् ᳚नान्यदेहिनाम्᳚ इत्युक्तत्वाच् च तान्त्रिकागमोक्तप्रकारेण दीक्षितविषयाणीत्य्*{८१३}* अवगम्यते.
SK
[१०६.१७-१९] यद्वा विधिनिषेधवचनानां वैयर्थ्यपरिहाराय ᳚वपाश्रपणीभ्याम्*{८१४}* अन्वारभते तन्नैवान्वारब्धं नैवानन्वारब्धं᳚*{८१५}* ᳚अवघ्रेयम् एव तत् नैव प्राशितं नैवाप्राशितम्᳚ इत्यादि श्रुतिन्यायेन समन्त्रकत्वेन भावनारूपेण श्रीवैखानसशास्त्रे प्रतिपादितम्.*{८१६}*. यथा: [१०६.२०] ᳚सुदर्शनम् अभीत्य् उक्त्वा दक्षिणे तु सुदर्शनम् / [१०६.२१] रविपाम् इति वामे च शङ्खञ् च बिभृयात् करे* //{८१७}*᳚ इति
SK
[१०६.२२] महोपनिषदि - ब्रह्मसूक्ते: [१०६.२३] ᳚दक्षिणे तु भुजे विप्रो बिभृयाद् वै सुदर्शनम् / [१०६.२४] सव्ये तु शङ्खं बिभृयाद् इति वेदविदो विदुः* //{८१८}*᳚ इति.
SK
!{८१२}! DHN[T] ६१५: श्मशानगं.
SK
[पाञ्चरात्रोक्ततप्तचक्रधारणस्य सर्वाधिकारिकत्वाभावः]
SK
[पाञ्चरात्रादीनां मोहनशास्त्रत्वम्]
SK
[१०७.१] मोहशास्त्रत्वात् शप्तविषयत्वाच् च पञ्चरात्रे तापविधानं उक्तम् इति केचित् वदन्ति.*{८१९}* [१०७.२] पद्मपुराणे गौतम: ᳚यन् मयि ब्राह्मणाभासाः ऋजौ कैतवम् ईदृशम् / [१०७.३] अनुष्ठितं ततो वेदमार्गभ्रष्ठाश् च पापिनः // [Pअद्म.P ]
SK
[१०७.४] कालमुखे पाञ्चरात्रे*{८२०}* कालपाले शाम्भवे ऽपि च / [१०७.५] शाक्ते च दीक्षिता यूयं भवत ब्राह्मणाधमाः //᳚ इति [Pअद्मP ]
SK
[१०७.६] ब्रह्मा: ᳚बौद्धे भागवते तन्त्रे तृतीये पाञ्चरात्रके / [१०७.७] दीक्षिताश् च द्विजा नित्यं भवेयुर् निर्भया हरे // [Pअद्मP ]
SK
[१०७.८] श्रौतस्मार्तसमाचारे सद्योमुक्तिकरे शुभे / [१०७.९] त्वद्भक्तिविमुखा नित्यं भवेयुः परिमोहिताः // [Pअद्म.P ]
SK
[१०७.१०] शङ्ख्वैखनचक्रगदापूर्ववज्रपाशाङ्कुशादिभिः / [१०७.११] अङ्किताः श्रद्धया यूयं भवत ब्राह्मणाधमाः //᳚ इति [Pअद्मP ]
SK
[१०७.१२] स्कान्दे - ᳚सूतसंहितायाम् सरस्वतीं प्रति रुद्रः:
SK
[१०७.१३] ᳚श्रुतिर् बलीयसीत्य् उक्ता प्रमाणानां सुलोचने᳚ इत्य् आरभ्य [Sकन्दP ] [१०७.१४] ᳚पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिके / [१०७.१५] न हि स्वतन्त्रतस् तेन भ्रान्तिमूलानि रूपिणि // [Sकन्दP ]
SK
[१०७.१६] तथापि यो ऽंशो मार्गेण वैदिकेनाविरुद्ध्यते / [१०७.१७] सो ऽंशः प्रमाणम् इत्य् उक्तं केषाञ्चिद् अधिकारिणाम् // [Sकन्दP ]
SK
[१०७.१८] अत्यन्तस् खलितानान् तु प्राणिणां वेदमार्गतः / [१०७.१९] पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः / [१०७.२०] तान्त्रिकाणां महादेवि न लभ्यो ऽव्यवधानतः //᳚ इति प्रतिपादितम्. [Sकन्दP ]
SK
[१०७.२१] कौर्मे: ᳚पुरा दारुवने पुण्ये मुनयो गृहमेधिनः //᳚ [Kऊर्मP १६.९७अब्]
SK
[१०७.२२] इत्य् आरभ्य मायया गोकल्पनादि शापप्राप्तिपर्यन्तम् उक्त्वा:
SK
[१०७.२३] ᳚का नो वृत्तिर् महादेव शापान्नः त्रातुम् अर्हसि* /{८२१}* [Kऊर्मP १६.११२च्द्]
SK
[१०७.२४] तथा पार्श्वस्थितं विष्णुं सम्प्रेक्ष्य वृषभध्वजः* /{८२२}*
SK
!{८१९}! DHN[T] ६१९: मोहशास्त्रत्वाच् छप्तविषयत्वाच् च पञ्चरात्र उक्तम् इति केचित् वदन्ति. यथा.
SK
[पाञ्चरात्रस्य वेदभ्रष्टानुद्दिश्य प्रवृत्तत्वम्]
SK
[१०८.१] किम् एतेषां भवेत् कार्यं प्राह पुण्यैषिणाम् इति // [Kऊर्म.P १६.११३]
SK
[१०८.२] ततस् स भगवान् विष्णुः शरण्यो भक्तवत्सलः / [१०८.३] गोपतिं प्राह विप्रेन्द्रान् आलोक्य प्रणतान् हरिः // [Kऊर्मP १६.११४]
SK
[१०८.४] न वेदबाह्ये शास्त्रे च*{८२३}* पुण्यलेशो ऽपि शङ्कर / [१०८.५] सङ्गच्छते यतो धर्मो वेदाद् एव हि निर्बभौ* //{८२४}* [Kऊर्मP १६.११५]
SK
[१०८.६] तथापि भक्तवात्सल्यात् रक्षणीया महेश्वर* /{८२५}*
SK
[१०८.७] आवाभ्यां सर्व एवैते विप्रा वै नात्रसंशयः* //{८२६}* [Kऊर्मP १६.११६]
SK
[१०८.८] तस्माद् वै वेदबाह्यानां रक्षणार्थञ् च पापिनाम्* /{८२७}*
SK
[१०८.९] विमोहनाय शास्त्राणि करिष्यामि वृषध्वज* //{८२८}* [Kऊर्मP १६.११७]
SK
[१०८.१०] एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा* /{८२९}*
SK
[१०८.११] चकार मोहशास्त्राणि केशवो ऽपि शिवेरितः // [Kऊर्मP १६.११८]
SK
[१०८.१२] कापालं यामलं वामं*{८३०}* भैरवं पूर्वपश्चिमम् / [१०८.१३] पाञ्चरात्रं पाशुपतं*{८३१}* तथान्यानि सहस्रशः // [Kऊर्मP १६.११९]
SK
[१०८.१४] कृत्वा चार्च्य च तद् देवान् *{८३२}* कुर्वाणास् तत्र चोदितम्* /{८३३}*
SK
[१०८.१५] पतन्ति नरके घोरे बहून् कल्पान् पुनः पुनः //᳚ इत्यादि चोक्तम् [Kऊर्मP १६.१२०]
SK
[१०८.१६] स्कान्दे शङ्करसंहितायाम् [१०८.१७] ᳚नेक्षेत पूजावेलायां नरं वत्स बहिष्कृतम् / [१०८.१८] दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः // [Sकन्दP ]
SK
[१०८.१९] कलाव् अवतरिष्यन्ति निन्दितास्*{८३४}* ते बहिष्कृताः //᳚ इति [Sकन्दP ]
SK
[१०८.२०] साम्बपुराणे: ᳚श्रुतिभ्रष्टः स्मृतिप्रोक्त*{८३५}* प्रायश्चित्ते भयं गतः / [१०८.२१] क्रमेण श्रुतिसिद्ध्यर्थं मनुष्यस् तन्त्रम् आश्रयेत् // [Sआम्बP]
SK
[१०८.२२] धर्मशास्त्रे पुराणे च प्रोक्तं हि मरणान्तिकम् / [१०८.२३] प्रायश्चित्तं मनुष्याणां पापिष्ठानां सुदारुणम् // [Sआम्बP]
SK
!{८२३}! Kऊर्मP: न वेदबाह्ये पुरुषे.
SK
[पाञ्चरात्रमार्गानुसारिणां श्रौतस्मार्तबाह्यत्वम्]
SK
[१०९.१] भयं दुर्बलचित्तानां मरणे जायते भृशम् / [१०९.२] तेषाम् एवाभिरक्षार्थं तद् अहं तन्त्रम् उक्तवान् // [Sआम्बP]
SK
[१०९.३] पाञ्चरात्रं भागवतं तन्त्रं सात्त्वतनामकम् / [१०९.४] वेदभ्रष्टान् समुद्दिश्य कमलापतिर् अब्रवीत्* //{८३६}*᳚ इति [Sआम्बP]
SK
[१०९.५] अन्यत्र: ᳚अथांशोः सात्त्वतो नाम विष्णुभक्तः प्रतापवान् / [१०९.६] महात्मा दाननिरतो धनुर्वेदविदां वरः //
SK
[१०९.७] स नारदस्य वचनाद् वासुदेवार्चने रतः / [१०९.८] शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रितम् //
SK
[१०९.९] तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् / [१०९.१०] प्रवर्तते महच्छास्त्रं कुण्डादीनां हितावहम् //᳚ इति
SK
[१०९.११] वासिष्ठे: ᳚बृद्धशावक निर्गन्धाः पाञ्चरात्रविदो जनाः* /{८३७}*
SK
[१०९.१२] कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः // [Vआसिष्ठDह्Ś ]
SK
[१०९.१३] यस्याश्नन्ति हवींश्य् एते दुरात्मानस् तु तामसाः / [१०९.१४] न तस्य तद् भवेच् छास्त्रं प्रेत्येह च न तत्फलम् //᳚ इति. [Vआसिष्ठDह्Ś ]
SK
[१०९.१५] लैङ्गे - नवमाध्याये युगधर्मे [१०९.१६] ᳚अङ्किताश् च भविष्यन्ति देवतायुधलाञ्छनैः / [१०९.१७] नारायणम् अशृण्वन्ति युगान्ते समुपस्थिते // [Lइङ्गP]
SK
[१०९.१८] अन्यानि यानि कर्माणि श्रौतानि मुनिसत्तम / [१०९.१९] स्मार्तानि नाचरिष्यन्ति कलौ ब्रह्मन्*{८३८}* नरास् सदा // [Lइङ्गP]
SK
[१०९.२०] आम्नायं धर्मशास्त्रञ् च पुराणं भारतं मुने / [१०९.२१] अल्पमात्रम् इति ब्रह्मन्*{८३९}* वदिष्यन्ति कलौ युगे // [Lइङ्गP]
SK
[१०९.२२] न कुर्युः श्रौतकर्माणि श्रद्धया मुनिसत्तम / [१०९.२३] स्वधर्मे रुचिता नास्ति ब्राह्मणानां कलौ युगे // [Lइङ्गP]
SK
[१०९.२४] पाञ्चरात्रं प्रशंसन्ति केचिद् भागवतं मुने / [१०९.२५] केचित् कापालम् इच्छन्ति केचित् पाशुपतं मुने // [Lइङ्गP]
SK
!{८३६}! DHN[T] ६२२: उक्तवान्.
SK
[चक्राङ्कनस्य भावनारूपेणैव कर्तव्यता]
SK
[११०.१] केचिद् बौद्धं प्रशंसन्ति केचिद् दैगम्बरं तथा / [११०.२] केचिल् लोकायतं ब्रह्मन्*{८४०}* केचित् सौमं*{८४१}* महामुने // [Lइङ्गP]
SK
[११०.३] लाकुलं केचिद् इच्छन्ति तथा केचित् तु भैरवम् / [११०.४] केचिद् वामं प्रशंसन्ति केचिच् छाक्तं तथैव च // [Lइङ्गP]
SK
[११०.५] शाम्भवं केचिद् इच्छन्ति यामलं भुवि केचन / [११०.६] अन्यानि यानि शास्त्राणि विरुद्धानि महामुने // [Lइङ्गP]
SK
[११०.७] तीर्थविक्रयिणः केचिद् देवविक्रयिणः परे / [११०.८] क्षीरविक्रयिणः केचिद् आज्यविक्रयिणः परे // [Lइङ्गP]
SK
[११०.९] मांसविक्रयिणः केचित् सुराविक्रयिणः परे / [११०.१०] पुत्रविक्रयिणः केचिद् दारविक्रयिणः परे // [Lइङ्गP]
SK
[११०.११] भर्तृविक्रयिणः केचिद् भविष्यन्ति कलौ नराः //᳚ इति [Lइङ्गP]
SK
[११०.१२] अतः पाञ्चरातोक्तं तप्तचक्रधारणं*{८४२}* सर्वसाधारणं न भवन्तीति सिद्धम्.*{८४३}*
SK
[११०.१३-१६] अथ यद् उक्तं सर्वसाधारणं न भवतीति तन् नोपपद्यते - आथर्वणे ᳚चक्रं बिभर्ति वपुषाभितप्तं बलं देवानाममितस्य विष्णोः. स एति नाकं दुरिता विधूय प्रयान्ति यद्यतयो वीतरागाः, ᳚चरणं पवित्रं विततं पुराणं᳚*{८४४}* इत्यादि श्रुतिभिः सर्वसाधारणत्वेन श्रूयमाणत्वात् इति चेत् - न.
SK
[११०.१७-२०] तप्तचक्रधारणे प्रायश्चित्तविधानात्. अतः यथोक्तमार्गेण भावनारूपेणैव चक्राङ्कनं न तु तप्तरूपेण. सर्वसाधारणश्रुतिस् तु वैखानसेतरविषया*{८४५}*. ᳚यस्य मे श्रियम्᳚ इत्यादि श्रुत्यविरोधेन अर्थव्यवस्थायाः कार्यत्वात्. अतः तप्तचक्राङ्कनं सर्वसाधारणं न भवति. [११०.२१] किञ् च: ᳚यत्र शास्त्रगतिर् भिन्ना सर्वकर्मसु भारत / [११०.२२] उदिते ऽनुदिते चैव होमभेदे यथा भवेत् / [११०.२३] स गरीयान् महाबाहो सर्वशास्त्रोदिताद् अपि //᳚
SK
[११०.२४] इति सुमन्तुस्मरणाच् च व्यवस्थितविकल्पोत्र वक्तव्यः.
SK
!{८४०}! DHN[T] ६२४: ब्रह्मान्.
SK
[विष्णोर् एव संहारकर्तृत्वम्]
SK
[१११.१-२] किञ्च ब्रह्मरुद्रादीनाम् अपि संहारकर्ता हरिर् एवेति श्रूयते. यजुषि - हरिं हरन्तम् अनुयन्ति देवाः विश्वस्येशानं*{८४६}* वृषभं मतीनाम्᳚ इति.अब् हिएर् Tएलुगु üबेर्प्र्üfएन्
SK
[विष्णुकर्तृकरुद्रोपासनस्य कारणम्]
SK
[१११.३] ब्रह्मपुराणे: ᳚ब्रह्माणम् इन्द्रं रुद्रञ् च यमं वरुणम् एव च / [१११.४] निगृह्याहरते यस्मात् तस्माद् धरिर् इहोच्यते // [Bरह्म.P ]
SK
[१११.५] ब्रह्मा शम्भुस् तथैवार्कश् चन्द्रमाश् च शतक्रतुः / [१११.६] एवम् आद्यास् तथैवान्ये युक्ता वैष्णवतेजसा // [Bरह्म.P ]
SK
[१११.७] जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा /
SK
[१११.८] तेजसश् चैव ते सर्वे पञ्चत्वम् उपयान्ति च//᳚ इति [Bरह्मP ]
SK
[१११.९-१४] ननु - ᳚हरिं हरन्तं᳚ इति पूर्वोपात्तयजुषि ईशानशब्दश्रवणात् रुद्र एव संहारकर्तेति श्रूयते इति चेत् - तद् असत्. तत्र ᳚विश्वस्येशान,᳚ इति जगन्नियामकत्वम् उच्यते. बिस् हिएर् तेलुगु नोछ् üबेर्प्र्üfएन्तथा च ᳚पतिं विश्रस्यात्मेश्वर,᳚ इतिवत् नारायण एव अत्र प्रतिपाद्यः. ᳚अस्येशाना जगतो विष्णुपत्नी᳚ स हरिः सुवित्तमः, ᳚पेरुर् इन्द्राय पिन्वत᳚ ᳚विराड् असि᳚, ᳚बृहती श्रवसीन्द्रपत्नी धर्मपत्नी᳚, ᳚स ब्रह्मा स शिवस् सेन्द्रः᳚, इत्यादि श्रुतयोत्र विभावनीयाः. [१११.१५] ननु कौर्मे अष्टमाध्याये - रामायणसंक्षेपे: [१११.१६] ᳚स कृत्वा वानरशतैः लङ्काद्वारं महोदधौ* //{८४७}* [Kऊर्मP २१.४४च्द्]
SK
[१११.१७] सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः //᳚ [Kऊर्मP २१.४५अब्]
SK
[१११.१८] इति रावणवधादिकं प्रतिपाद्य:
SK
[१११.१९] ᳚सेतुमध्ये महादेवम् ईशानं कृत्तिवाससम् // [Kऊर्मP २१.४६च्द्]
SK
[१११.२०] स्थापयामास लिङ्गस्थं पूजयामास राघवः / [१११.२१] तस्य देवो महादेवः पार्वत्या सह शङ्करः // [Kऊर्मP २१.४७]
SK
[१११.२२] प्रत्यक्षम् एव भगवान् दत्तवान् वरम् उत्तमम् /᳚ [Kऊर्मP २१.४८अब्]
SK
!{८४६}! DHN[T] ७०२: विश्वस्येशानिं.
SK
[रुद्रस्य वरदातृत्वं विष्णुप्रसादलब्धम्]
SK
[११२.१-२] इति भगवते रुद्रोपासनम् उच्यते इति चेत् - सत्यम्. रुद्रस्य तद् अपि भगवद्वरप्रसादलब्धम्. एवं हि वाराहे प्रागितिहासे रुद्रगीतासु उच्यते, यथा -
SK
[११२.३] अगस्त्यं प्रति रुद्रः: [११२.४] ᳚ब्रह्मणाहं पुरा सृष्टः प्रोक्तः सृज इति प्रजाः / [११२.५] अविज्ञातासमर्थो ऽहं निमग्नस्सलिले द्विज //᳚ इत्य् आरभ्य [VअराहP]
SK
[११२.६-७] जलमध्ये कालमेधसङ्काशः अतिशोभनः पुण्डरीकाक्षः कश्चित् पुरुषो रुद्रेण दृष्टः कस्त्वम् इति रुद्रेण पृष्टस्य तस्य प्रतिवचनम्: [११२.८] ᳚अहं नारायणो देवो जलशायी सनातनः / [११२.९] दिव्यं चक्षुर् भवतु ते तेन मां पश्य यत्नतः //᳚ इति प्रतिपाद्य [VअराहP]
SK
[११२.१०] ᳚एवम् उक्तस् तदा तेन यावत् पश्याम्म्*{८४८}* अहं तनुम् / [११२.११] तावद् अङ्गुष्ठमात्रन् तु ज्वलद्भास्करतेजसम् // [VअराहP]
SK
[११२.१२] तम् एवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् / [११२.१३] ब्रह्माणं तत्र पश्यामि ह्य् आत्मानञ् च तदङ्कतः // [VअराहP]
SK
[११२.१४] एवं दृष्ट्वा महात्मानं ततो हर्षम् उपागतः / [११२.१५] तं स्तोतुं द्विजशार्दूल मतिर् मे समजायत //᳚ [VअराहP]
SK
[११२.१६-१७] इत्य् उपक्रम्य महत्स्तोत्रम् उक्त्वा अन्ते रुद्रेण भगवन्तं प्रत्यभीष्टनिवेदनं प्रतिपादितम्. यथा: [११२.१८] ᳚इति स्तुतो मे भगवन्ननादे जुषस्व भक्तस्य विशेषतश् च / [११२.१९] सृष्टिं सृजस्वेति तु चोदितस्य सर्वज्ञतां देहि नमो ऽस्तु विष्णो //᳚ इति [VअराहP]
SK
[११२.२०] एवं स्तोत्रे परिसमापिते
SK
[११२.२१] ᳚वरं वरव भद्रं ते देवदेव उमापते //᳚ [VअराहP]
SK
[११२.२२] इति भगवता नियुक्तः रुद्र: [११२.२३] ᳚ब्रह्मणा चाहम् उक्तस् तु प्रजास् सृज इति प्रभो / [११२.२४] तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावन //᳚ इति प्रार्थयामास. [VअराहP]
SK
[विष्णोः शरभरूपरुद्रादिसंहारकत्वम्]
SK
[११३.१] तदा श्रीभगवान्: [११३.२] ᳚सर्वज्ञस् त्वं न सन्देहो ज्ञानराशिसनातनः / [११३.३] देवानाञ् च सदा पूज्यः सर्वदा त्वं भविष्यसि // [VअराहP.]
SK
[११३.४] एवम् उक्ते पुनर्वाक्यम् उवाचोमापतिर् मुदा / [११३.५] अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु // [VअराहP]
SK
[११३.६] मर्त्यो भूत्वा भवान् एव मामाराधय केशव / [११३.७] मां वहस्य च देवेश वरं मत्तो गृहाण च // [VअराहP.]
SK
[११३.८] येनाहं सर्वदेवानां पूज्यात् पूज्यतरो ऽभवत् //᳚ इति पुनः तेन प्रार्थितः [VअराहP]
SK
[११३.९] श्रीभगवान्: ᳚देवकार्यावतारेषु मानुष्यत्वम् उपागतः / [११३.१०] त्वाम् एवाराधयिष्यामि त्वञ् च मे वरदो भव // [VअराहP]
SK
[११३.११] यत्त्वयोक्तं वहस्वेति देवदेव उमापते / [११३.१२] स त्वां वहामि देव त्वां मेघो भूत्वा शतं समाः //᳚ इति वरम् अपि ददौ.
SK
[११३.१३] ᳚एवम् एव हरिर् देवः सर्वेशस् सर्वभावनः / [११३.१४] वरदो ऽभूत् पुरा मह्यं तेनाहं दैवतैर् वृतः // [VअराहP.]
SK
[११३.१५] नारायणात् परो देवो न भूतो न भविष्यति / [११३.१६] एतद् रहस्यं देवानां पुराणानाञ् च सत्तम //᳚ इति [VअराहP]
SK
[११३.१७] किञ्च [११३.१८] श्रीविष्णुपुराणे: ᳚देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका / [११३.१९] लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा // [Vइष्णुP ]
SK
[११३.२०] देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया / [११३.२१] जगताम् उपकाराय न सा कर्मनिमित्तजा //᳚ इति [Vइष्णुP ]
SK
[११३.२२-२३] एवं नृसिंहरूपिणा भगवता शरभरूपेणागतानां ब्रह्मरुद्रादीनाम् अपि संहारादिकं नारसिंहपुराणादिष्व् अवगम्यते. यथा:
SK
[शरभनिर्माणादिप्रकारः]
SK
[११४.१] हिरण्यकवधानन्तरं: तत्र सप्तत्रिंशाध्याये [११४.२] ᳚हिरण्यकशिपोस् त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः / [११४.३] क्षीरोदस्योत्तरं गत्वा स्तूयतां तत्र केशवः // [NअरसिंहP]
SK
[११४.४] युष्माभिस् संस्तुतो विष्णुः प्रसन्नो भवति क्षणात्//᳚ इत्य् आरभ्य [NअरसिंहP]
SK
[११४.५] ᳚युष्मद् आगमनं सर्वं जानाम्य् असुरमर्दनाः / [११४.६] हिरण्यकविनाशार्थं स्तुतो ऽहं शङ्करेण च // इत्य् उक्त्वा [NअरसिंहP]
SK
[११४.७] हिरण्यकवधानन्तरं [११४.८] ᳚तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः / [११४.९] दृष्ट्वा भयानकं रूपं वित्रेसुर् देवदानवाः //᳚ [NअरसिंहP]
SK
[११४.१०] इत्य् आरभ्योक्तस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य: [११४.११] ᳚तस्मिन् भगवति क्रुद्धे नृसिंहे परमात्मनि / [११४.१२] प्रवेपितं जगद् इदं देवेशे कुपिते भृशम् // [NअरसिंहP]
SK
[११४.१३] त्वत्तो हि नान्यश् शरणं देवानाम् इह विद्यते / [११४.१४] नरसिंहसमुद्भूतं भयं नाशय मे हरे //᳚ [NअरसिंहP]
SK
[११४.१५] इत्यादिना रुद्रप्रार्थनादिकम् उक्त्वा [११४.१६] ᳚हतो हिरण्यकशिपुः येन दैत्यो महाबलः / [११४.१७] को नश् शमयिता तस्य कोपस्य हरिमेधसः // [NअरसिंहP.]
SK
[११४.१८] त्वं मे जनयिता देव स ते जनयिता हरिः / [११४.१९] तस्य देवस्य कश् शक्तो विष्णोर् वै निग्रहे भवेत् // [NअरसिंहP]
SK
[११४.२०] यद् भयात् पवते वायुः सूर्यस् तपति यद् भयात् / [११४.२१] यद् भयाद् धरणी धत्ते निग्रहे तस्य कः प्रभुः / [११४.२२] तथाप्य् उपायो दृश्यो मे परमेण समाधिना // [NअरसिंहP]
SK
[११४.२३] कृते तस्मिन् भवेच् छ्रेयः तूष्णीं भावो न रोचते / [११४.२४] अश्वानां महिषः शत्रुः वारणानां मृगाधिपः // [NअरसिंहP.]
SK
[११५.१] वानराणां तथा मेषः फणीनां गरुडः स्मृतः / [११५.२] मूषकानान् तु मार्जारो मृगाणां श्वा प्रकीर्तितः // [NअरसिंहP.]
SK
[११५.३] वायसानां दिवाभीतः सिंहानां शरभस् तथा / [११५.४] ततो निर्मापयिष्यामः शरभं भयशान्तये // [NअरसिंहP.]
SK
[११५.५] शरभो ऽधिष्ठितो ऽस्माभिः नृसिंहं शमयिष्यति / [११५.६] इत्य् एवम् उक्त्वा भगवान् ससर्ज शरभं तथा // [NअरसिंहP.]
SK
[११५.७] यस्य सन्दर्शनाद् एव त्रस्तमासीज् जगत्त्रयम् / [११५.८] ततस् तस्य भवानीशः तुण्डस्थानम् अरोचत // [NअरसिंहP]
SK
[११५.९] पृष्ठभागे चतुर्वक्तं तस्य रुद्रो न्यवेशयत् / [११५.१०] सोमसूर्यौ नयनयोः मारुतं पक्षयोर् द्वयोः // [NअरसिंहP]
SK
[११५.११] पादेषु भूधरान् सर्वान् शिवस् तस्य न्यवेशयत् / [११५.१२] एवं निर्माय शरभं भवः प्रमथनायकः // [NअरसिंहP]
SK
[११५.१३] जगर्ज नरसिंहं तं समुद्दिश्य भयानकम् //᳚ [NअरसिंहP]
SK
[११५.१४] इति शरभनिर्माणादिकं प्रतिपाद्य [११५.१५] ᳚ततः क्षणेन शरभो नादपूरितदिङ्मुखः / [११५.१६] अभ्याशम् अगमद् विष्णोः निनदन् भैरवं स्वनम् // [NअरसिंहP]
SK
[११५.१७] तम् अभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा / [११५.१८] जघान निशितैर् उग्रैः नखैर् नखवरायुधः // [NअरसिंहP]
SK
[११५.१९] निहते शरभे तस्मिन् रौद्रे मधुविघातिना / [११५.२०] तुष्टुबुः पुण्डरीकाक्षं देवा देवर्षयस् तथा //᳚ [NअरसिंहP]
SK
[११५.२१] इति भगवता ब्रह्मरुद्राद्यधिष्ठितशरभहननं प्रतिपादितम्.
SK
[११५.२२] गारुडे अष्टनवतितमाध्याये: [११५.२३] ᳚हन्तुं अभ्यागतं रौद्रं शरभं नरकेसरी / [११५.२४] नखैर् विदारयामास हिरण्यकशिपुं यथा // [GअरुडP ]
SK
[११६.१] निकृत्तबाहूरुशिराः वज्रकल्पमुखैर् नखैः / [११६.२] मेरुपृष्ठे नृसिंहेन शरभस् सहसापतत् //᳚ [GअरुडP ]
SK
[११६.३] पाद्मे: ᳚तौ युध्यमानौ तु चिरं वेगेन बलवत्तरौ / [११६.४] विनाशं जग्मतुर् देवौ नृसिंहशरभाव् इति // [Pअद्म.P ]
SK
[११६.५] ततः क्रुद्धो महाबाहुः नृसिंहो भीमनिस्स्वनः / [११६.६] सहस्रकरपन्नेत्रः*{८४९}* तस्य गात्राण्य् अकर्तयत् // [Pअद्म.P ]
SK
[११६.७] पतितं भीमम् अत्युग्रं गतांसुं द्रष्टुम् आगताः / [११६.८] ऋषयो देवगन्धर्वा यत्र शेते भवो हरः // [Pअद्म.P ]
SK
[११६.९] तं दृष्ट्वा परमं जग्मुः विस्मयन्तु दिवौकसः / [११६.१०] पशशंसुस् तथा कर्म नृसिंहस्य महाद्भुतम् //᳚ इति [Pअद्मP ]
SK
[११६.११] श्रीभागवते: ᳚ततस् त्वरितम् आदाय रुद्रं शरभरूपिणम् / [११६.१२] विददार नखैस् तीक्ष्णैः हिरण्यकशिपुं यथा //᳚ इति [BहागवतP ]
SK
[रुद्रोपासकानां शूद्रतुल्यत्वम्]
SK
[११६.१३-१४] किञ्च आनुशासनिके उमामहेश्वरसंवादे भगवतो ऽङ्गभावेन विना रुद्रोपासनं कुर्वतां शुद्रतुल्यत्वम् उक्तम्. यथा दक्षाध्वरे: [११६.१५] रुद्राणी: अहं ज्येष्ठा विशिष्टा च तस्मात् त्वं मां सुपूजय / [११६.१६] दक्ष: न तु ज्येष्ठा विशिष्टा त्वं मम पूज्या इमास् सुराः*{८५०}* //᳚ [MBह् ]
SK
[११६.१७] इत्यादिना रुद्राणीदूषणम् अध्वरभङ्गादिकं च प्रतिपाद्य रुद्रं प्रति शापोत्सर्गः क्रियते. [११६.१८] ᳚एतद् वंशसमुद्भूतैर् अस्पृश्यस् त्वं भविष्यसि / [११६.१९] नैतद् वंशेषु यः कश्चित् त्वद्भक्तो हि जनिष्यति // [MBह् ]
SK
[११६.२०] अजानात् त्वां हि यः कश्चित् मुनिर् वा ब्राह्मणो ऽपि वा / [११६.२१] अनुजीवति चेत् तस्मात् तुल्यश् शूद्रेण गर्हितः // [MBह् ]
SK
[११६.२२] भवेद् देवलकश् चैव रुद्रकाल्युपजीवकः //᳚ इति [MBह् ]
SK
!{८४९}! Lइएस्: सहस्रकरवन्नेत्रः.
SK
[बोधायनादीनां परमैकान्तित्वाभावे हेतवः]
SK
[कात्यायनसूत्रिणां परमैकान्तित्वाभावः]
SK
[११६.२३-११७.२] अतो नारायणस्य रुद्रेण समानतया बोधायनेन प्रतिपादित्वात् बोधायनापस्तम्बादिसूत्रेषु षद्विधतात्पर्यलिङ्गाभावात् तेषां सृष्टिकालाद् आरभ्य नारायणैकपरत्वाभावात् नानादेवतोपासकत्वदर्शनाच् च परमैकान्तित्वं न सम्भवति. एवं कात्यायनसूत्रिणाम् अपि: [११७.३] ᳚ब्राह्मवैष्णवरौद्रैस् तु सावित्रैर् मैत्रवारुणैः / [११७.४] तल्लिङ्गैर् एव मन्त्रैस् तु अर्चयेत् तु समाहितः //᳚ [Kआत्यायनसूत्र]
SK
[११७.५] इति प्रतिपादनात् न परमैकान्तित्वम्.
SK
[११७.६] द्राह्यायणसूत्रे तु रुद्रविषयत्वेन कर्मारम्भे प्रपदनम् उक्तम्.
SK
[११७.७-९] अतः श्रीमन्नारायणैकपरत्वात् परमैकान्तित्वं श्रीमद्वैखानसानाम् एवेति प्रतिज्ञा कर्तुम् उचिता. एवं ᳚अखिलजगदेककारणश्रीमन्नारायणैकपरत्वात्᳚ इति नवमहेतुर् निरूपितः.
SK
[११७.१०] इति नवमहेतुनिरूपणम्.
SK
[दशमहेतुनिरूपणम्]
SK
[वैखानसानां भगवत्प्रियतमत्वम्]
SK
[११८.१-३] अथास्य श्रीवैखानससूत्रस्य शीमन्नारायणैकपरत्वाद् तत्सूत्रानुष्ठानवताम् एव भगवत्प्रियतमत्वम् उपपद्यत इति प्रतिपादनाय ᳚भगवत्प्रियतमत्वोपपत्तेर्᳚ इति दशमहेतुर् निरूप्यते.
SK
[११८.४-५] छन्दोगब्राह्मणे: ᳚वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन्᳚*{८५१}* इति. अत्र इन्द्रशब्दः परमात्मपर इति पूर्वम् एवोक्तम्.
SK
[११८.६] वाराहे: ᳚अश्वत्थः कपिला गावः तुलसी विखनास् तथा* /{८५२}*
SK
[११८.७] चत्वारो मत्प्रिया राजन् तेषां वैखानसो वरः* //{८५३}* [VअराहP]
SK
[११८.८] यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः / [११८.९] यत्र बिल्वाः पलाशाश् च तत्र सन्निहितो हरिः* //{८५४}*᳚ इति [VअराहP]
SK
[११८.१०] कौर्मे: ᳚मच्चिता मद्गतप्राणा मयि सङ्गतमानसाः / [११८.११] अनन्यशरणा राजन् तस्माद् वैखानसा वराः* //{८५५}*᳚ [Kऊर्मP ]
SK
[११८.१२] पाञ्चरात्रे पौष्करे: ᳚विप्रा वैखानसाख्या ये ते भक्तास् तत्त्वम् उच्यते* //{८५६}* [Pऔष्करS ३६.२६०च्द्]
SK
[११८.१३] एकन्तिनः*{८५७}* सुसत्वस्था देहान्तं नान्ययाजिनः / [११८.१४] कर्तव्यम् इति देवेशं संयजन्ते फलं विना* //{८५८}* [Pऔष्करS ३६.२६१]
SK
[११८.१५] प्राप्नुवन्ति च देहान्ते वासुदेवत्वम् अब्जज* //{८५९}* [Pऔष्करS ३६.२६२अब्]
SK
[देवार्चनपराणां श्रैष्ठ्यम्]
SK
[११८.१६] बृहन्नारदीये: ᳚देवार्चनपरा ये च ये च तत्साधका नराः / [११८.१७] पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः // [Bऋहन्नारदP.]
SK
[११८.१८] यस् तु भोगतया विष्णोः सत्कृत्यं कुरुते सदा / [११८.१९] स भवेत् परमैकान्ती महाभागवतोत्तमः // [Bऋहन्नारदP.]
SK
[११८.२०] य ऐकान्त्यगता विष्णौ भगवत्यात्मभावने / [११८.२१] ते वैष्णवा भागवतास् सन्त इत्य् अपि कीर्तिताः // [Bऋहन्नारदP]
SK
!{८५१}! Cहान्दोग्यBर् २.२३.१; एबेन्fअल्ल्स् zइतिएर्त् इन् DHN[D] २१.८, ४१.८ उन्द् ६१.१३-१५.
SK
[विष्णुनिवेदितान्नादेः भोज्यत्वम्]
SK
[११९.१] मन्मानसाश् च मद्भक्ता मम पूजासु लोलुपाः / [११९.२] मत्कथाश्रवणे सत्तास् ते वै भागवताः स्मृताः //᳚ इति [Bऋहन्नारदP]
SK
[११९.३] ᳚ये ऽर्चयन्ति नरा भक्त्या नारायणम् अनामयम् / [११९.४] तान् अर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः* //{८६०}*
SK
[११९.५] मयि भक्तिपरो यस् तु मद्याजी मत्परायणः / [११९.६] मद्ध्यानी स्वकुलं सर्वं नयत्य् अच्युतरूपताम् //
SK
[११९.७] ये ऽर्चयन्ति सदा विष्णुं न ते प्राकृतमानुषाः / [११९.८] विष्णुलोकात् समुत्पन्नास् ते देवा नात्र संशयः // [ĀS १४.५८]
SK
[११९.९] नाविष्णुर् जयते विष्णुर् नाविष्णुर् विष्णुम् अर्चयेत्*{८६१}* / [११९.१०] रूपद्वयं हरेः प्रोक्तं बिम्बम् अर्चक एव च // [Kर्A ३६.५९च्द्]
SK
[११९.११] बिम्बे त्व् आवाहनाद् ऊर्ध्वं सदा सन्निहितो ऽर्चके / [Kर्A ३६.६०अब्]
SK
[११९.१२] अर्चकस् तु प्रसन्नात्मा हरिर् एव न संशयः //
SK
[११९.१३] कलिः कृतयुगस् तेषां क्लेशाश् चैव सुखावहाः / [११९.१४] येषां शरीरम् अनिशं हरिशुश्रूषणे रतम् //᳚ इति
SK
[११९.१५] भागवते: ᳚सा वाग् अनन्तरस्य*{८६२}* गुणान् गृणीते करौ च तत्कर्मकरौ मनश् च / [११९.१६] स्मरेद् वसन्तं स्थिरजङ्गमेषु श्रुणोति तत्पुण्यकथास् स कर्णः* //{८६३}*
SK
[११९.१७] शिरश् च तस्याङ्घ्रिषु नम्रमाणं तम् एव यः पश्यति तद्धि चक्षुः / [११९.१८] अङ्गानि विष्णोर् अथ तज्जनानां पादोदकं यानि वहन्ति नित्यम्* //{८६४}* [BहागवतP १०.८०.४]
SK
[११९.१९] हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः / [११९.२०] पादोदकञ् च निर्माल्यं यस्य मूर्ध्नि स वैष्णवः //᳚ इति [BहागवतP ]
SK
!{८६०}! Aउछ् zइतिएर्त् इन् DHN[D] ६०.१५-१६.
SK
[११९.२१-१२०.३] श्रुतिर् अपि: ᳚तद् अस्य प्रियम् अभिपाथो अश्याम् नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुर् इत्था विष्णोः पदे परमे मध्व उत्सः᳚ इति. अस्यार्थः: विष्णोः ऽप्रियंऽ; तत्पाथः निवेदितम् अन्नादिकम् ऽअभ्यश्याम्ऽ. ऽदेवयवो नराःऽ; देवाराधकाः ऽयत्र मदन्तिऽ; यस्मिन् निवेदिततीर्थप्रसादादिके स्वीकृते ऽमदन्तिऽ; हृष्टा भवन्ति. यद्वा: ब्रह्मादीन् अपि न गणयन्ति. ऽइत्थाऽ; इत्थं प्रतिदिनं वर्तमानः ऽउरुक्रमस्य विष्णोर् बन्धुःऽ; जात्येकवचनम्. स एवातीवाभिमतः ऽपरमेऽ; सर्वोत्कृष्टे ऽमध्वेऽ; मधुवत् भोग्यतमे विष्णोः पदे ऽउत्सऽ; उत्सुकः. यद्वा उत्कृष्टः.
SK
[१२०.४-५] श्रुत्यन्तरे: ᳚विष्णुनाशितम् अश्नन्ति विष्णुना पीतं पिबन्ति विष्णुन घ्रातं जिघ्रन्ति विष्णुना रसितं रसयन्ति तस्माद् विद्वांसो विष्णूपहृतं भक्षयेयुः᳚ इति. [१२०.७] भागवते: ᳚त्वयोपभुक्तस्रग्गन्ध वासो ऽलङ्कारचर्चिताः / [१२०.८] उच्छिष्टभोजिनो दासास् तव मायां तरेमहि* //{८६५}*᳚ इति [BहागवतP ११.६.४६]
SK
[१२०.९] हारीत: ᳚कृपादत्तं हस्तगतं विष्णुभुक्तोज्झितन्तु यत् / [१२०.१०] उपवासछलान्नात्ति तेन भुक्तं सुरोपमम् //᳚ इति
SK
[१२०.११] भृगु: ᳚हविः कृत्वा चतुर्भागम् ऊर्ध्वभागौ निवेदयेत् / [१२०.१२] अधस्ताद् एकभागेन होम बलिम् अथाचरेत् //
SK
[१२०.१३] यदंशं पात्रसंशिष्टं पूजकायैव निर्मितम् / [१२०.१४] अग्निकार्यावशिष्टञ् च बलिशिष्टञ् च यद् धविः / [१२०.१५] सर्वं तत्पूजकायैव प्रोक्तम् एवं मनीषिभिः //᳚ इति
SK
[१२०.१६] यज्ञाधिकारे भृगु: ᳚आत्मनश् च चतुर्थांशं वैश्वदेवार्थम् अर्चकः / [१२०.१७] आदाय वैश्वदेवान्ते शिष्टान्नं भोजयेत् पुनः // [Y.A ]
SK
[१२०.१८] बलिशेषं होमशेषं वैश्वदेवे विशेषतः / [१२०.१९] गृह्णीयाद् वैश्वदेवार्थं भोजनार्थञ् च ऋत्विजः //᳚ इति [YA ]
SK
[१२०.२०-२३] काश्यप: ᳚सर्वहविः पात्रेषु शिष्टम् अन्नं सर्वं भगवन्निवेदितम् अपूपादिकञ् च पूजका गृह्णीयुः. यथा गुरोर् उच्छिष्टं पुत्रशिष्यभृत्यानां भोज्यं. तथा सर्वस्य रक्षितुः सौम्यमूर्ते सर्वव्यापिनो विष्णोः जगद्गुरोर् निवेदितम् अन्नाद्यं विश्वं चतुर्वर्णानां भक्तिमतां सर्वेषां भोज्यम्, अभक्तिमताम् अभोज्यम्᳚ इति.
SK
[१२०.२४] श्रीपाञ्चरात्रे ईश्वरसंहितायां समाराधनाध्याये [१२०.२५] स्कन्द: ᳚त्वया निषेध आख्यातो मन्त्रदत्तस्य वस्तुनः / [१२०.२६] सर्वस्य पत्रपुष्पान्न पूर्वस्य परमेश्वर // [Īश्वरS ]
SK
!{८६५}! BहागवतP: त्वयोपभुक्तस्रग्गन्धवासो ऽलङ्कारचर्चिताः / उच्छिष्टभोजिनो दासास् तव मायां जयेम हि.
SK
[अर्चावतारस्य सकललोकोज्जीवनार्थता]
SK
[१२१.१] तस्येदानीं प्रदानञ् च प्राशनञ् च प्रशंससि / [१२१.२] किम् एतद् अत्र मे जातस् संशयः परमेश्वर // [Īश्वरS ]
SK
[१२१.३] ईश्वर:प्रदानं प्राशनं पुत्र उपभोग्यत्वम् एव च / [१२१.४] शैवे पाशुपते दृष्टम् अचिराद् एव पापकृत् //
SK
[१२१.५] तत्पुनर् वैष्णवे मार्गे वर्तते व्यत्ययेन तु / [१२१.६] अनन्तफलदं दानात् प्राशानात् कोष्टशुद्धिकृत् //᳚ इति [Īश्वरS ]
SK
[१२१.७] तत्रैव देवतार्चने: ᳚कर्षं नयति पापानि पुण्यवृद्धिं करोति च / [१२१.८] दानैर् धर्मैः तथा पुण्यैस् तपोभिश् च न तत्फलम् // [Īश्वरS ]
SK
[१२१.९] भगवद्भक्तिपूतानां यत्फलं प्रापणादनात् //᳚ इति [Īश्वरS ]
SK
[१२१.१०] अन्यत्र: ᳚सत्सङ्गदेवार्चनसत्कथासु परोपदेशे च रतो मनुष्यः / [१२१.११] स याति विष्णोः परमं पदं यद्देहावसाने ऽच्युततुल्यतेजाः //᳚ इति
SK
[१२१.१२] अन्यत्र: ᳚नारायणैकनिष्ठा ये सात्त्विकास् तान् निबोधत / [१२१.१३] पुरुषा राजसाश् चैव नानादैवतयाजिनः //
SK
[१२१.१४] बाह्या निर्देवताश् चैव तामसाः परिकीर्तिताः / [१२१.१५] रजस्तमो ऽभिभूतानां न तु मोक्षः कथञ्चन //᳚ इति
SK
[१२१.१६] पुराणान्तरे: ᳚यत्रैव पूज्यते विष्णुर् विधिना प्रयतैर् नरैः / [१२१.१७] न तत्र ह्य् आधिदौर्गत्य व्याधिचौरादिकं भयम् //᳚ इति
SK
[१२१.१८] किञ्च: ᳚नित्यमुक्तोपभोग्यत्वात् परव्यूहात्मनो हरेः / [१२१.१९] तत्कालसन्निकृष्टैक लक्ष्यत्वाद् विभवात्मनः // [Ā.S १४.१४]
SK
[१२१.२०] विशुद्धैर् योगसंसिद्धैश् चिन्त्यत्वाद् अन्तरात्मनः / [१२१.२१] अर्चात्मन्य् एव सर्वेषाम् अधिकारो निरङ्कुशः // [Ā.S १४.१५]
SK
[१२१.२२] अर्चावतारविषये ममाप्य् उद्देशतस् तथा*{८६६}* / [१२१.२३] उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैर् अपि // [Ā.S १४.१६]
SK
[१२२.१] एवं पञ्चप्रकारो ऽहम् आत्मनां पततामधः / [१२२.२] पूर्वस्माद् अपि पूर्वस्मात् ज्यायांश् चैवोत्तरोत्तरः // [Ā.S ]
SK
[१२२.३] सौलभ्यतं*{८६७}* जगत्स्वामी सुलभो ह्य् उत्तरोत्तरः //᳚ [ĀS ]
SK
[१२२.४-७] इति प्रतिपादितरित्या भगवतः परत्वादिषु सौलभ्याभावात् अखिललोकसमुज्जीवनार्थम् अर्चावतारः. तदेकपरत्वाद् वैखानसाः तत्प्रियतमाः. एतदृशनारायणायणैकपरत्वाभावाद् बोधायनस्य आपस्तम्बादीनाञ् न कथञ्चद् अपि परमैकान्तित्वं भगवत्प्रियतमत्वञ् च सम्भवति.
SK
[१२२.८-९] एवं च वैखानसानाम् एव परमैकान्तित्वं भगवत्प्रियतमत्वञ् चोपपद्यते इति सर्वं समञ्जसम् इति दशमो हेतुर् निरूपितम्.
SK
[१२२.१०] इति दशमहेतुनिरूपणम्
SK
[१२२.११-१४] इति श्रीरमणवेङ्कटाचलेश्वरपादारविन्दसपर्यानिरतस्य सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमखिवेदान्तदेशिकस्य कृतिषु श्रीवैखानससूत्रतात्पर्यचिन्तामणौ दशविधहतुनिरूपणम् उपोद्घातभागः समाप्तः.
SK
!{८६६}! ĀS: गुरुणोद्दिश्य माम् पुरा.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Srinivasamakhi Vedantadesika: Daśavidhāhetunirūpaṇa (part of the Vaikhānasasūtratātparyacintāmaṇi) (sa_srinivasamakhi-vedantadesika-dazavidhAhetunirUpaNa.htm).

Source