SKNआगार्जुन: Bहवसङ्क्रान्तिपरिकथा
SKनमः कुमारभूताय मञ्जुश्रिये /
SKभावान्न जायते ऽभावो नाभावादपि जायते / भाव उत्पद्द्यते नित्यं भाबो भ्रान्तिः खपुष्पवत्
SKसति धर्मे नभस्तुल्ये खतुल्यं जायते परम् / प्रतीत्य सर्व खसमं भावस्तस्मादभाववान्
SKस्बभावतः कर्म नास्ति हेतुर्नास्ति फलं न च / न विद्द्यत इदं सर्बं लोको नास्ति न भञ्जनम्
SKअनुत्पन्नश्च यो भावः परं (स) जनयेत्कथम् / लोकः प्रथमतो ऽजातः केनापि न हि निर्मितः / सोमसिंहपुरीतुल्यो लोको भ्रम्यत्यनर्थके
SKलोको विकल्पदुत्पन्नो विकल्पश्चित्तसंभवः / चित्तं हि कायाश्रयकं तस्मात्कायो विचार्यते
SKरूपं शून्यं वेदना निःस्वभावा संज्ञा नास्ते नास्ति संस्कारभावः / भूतं हित्वा चित्तचैत्ते च नस्तस्तस्मात्कायः कल्पहीनस्वभावः
SKचित्त नास्ति न धर्मास्ते न कायो नापि धातवः / अद्वयीकरणं हीदं तत्त्वं विद्वद्भिरुच्यते
SKअनालम्बमिदं सर्वमनालम्बं प्रभाषितम् / कृत्वा मतिमनालम्बामनालम्बं समुद्धितं
SKदानशीलक्षमावीर्यध्यानादौ सुनिषेविते / अचिरेणैव कालेन परमां बोधिमाप्स्यति
SKउपायप्रज्ञयोस्थित्वा सत्त्वांश्च करुणापयेत् / सर्वज्ञानं शिघ्रमेव लप्स्यते नहि संशयः
SKनाममात्रमिदं सर्वं संज्ञामात्रे प्रतिष्ठितम् / नाभिधानात्पृथग्भूतमभिधेयं न विद्यते
SKअनामकाः सर्वधर्मा निरात्मानः प्रकीर्तिताः / इमे धर्मा अभूताश्च कल्पनायाः समुद्धिताः / कल्पना सापि शून्येयं यया शून्येति कल्पिताः
SKचक्षु पश्यति रूपाणि तत्त्ववक्त्रा यदुच्यते / मिथ्याभिमानलोकस्य सांवृतं सत्यमीरितम्
SKसामग्र्या दर्शनं यत्र प्रकाशयति नायकः / प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान्
SKन चक्षुः प्रेक्षते रूपं मनो धर्मान्न्वेत्ति च / एतत्तु परं सत्यं लोकस्य विषयो न यत्
SKचक्षुर्नास्ति न रूपञ्च दृश्यं नास्ति न मनस्क्रिया / चित्तं स्वप्नसमं भ्रान्तिः सर्वं न सदसन्न च
SKआचार्य आर्यनागार्जुनकृत भवसङ्क्रान्तिपरिकथा सम्पूर्णा //