Commentary on the Mīmāṃsā Verses with Sucaritamiśra's Commentary

Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā · Mईमांसश्लोकवार्त्तिक wइथ् Sउचरितमिश्रऽस् Kआशिका

Commentary on the Mīmāṃsā Verses with Sucaritamiśra's Commentary

Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā

Mईमांसश्लोकवार्त्तिक wइथ् Sउचरितमिश्रऽस् Kआशिका

SK
REFERENCE SYSTEM:
SK
Mस्व्_५, = Mईमांसाश्लोकवार्त्तिक, Aउत्पत्तिकसूत्र
SK
Mस्व्_५,४. = Aनुमान Mस्व्_५,५. = Śअब्द Mस्व्_५,६. = Uपमान (इन्चोम्प्लेते!) Mस्व्_५,७. = Aर्थापत्ति (इन्चोम्प्लेते!) Mस्व्_५,८. = Aभाव Mस्व्_५,९. = Cइत्रक्षेप
SK
(?) = उन्च्लेअर्
SK
मीमांसाश्लोकवार्त्तिकं सुचरितमिश्रप्रणीतया काशिकाख्यया टीकया समेतम् / (तृतीयो भागऽ)
SK
प्रत्यक्षाव्यभिचारित्वादेवंलक्षणकं च यत् / प्रसिदध्दमनुमानादि न परीक्ष्यं तदप्यतऽ // Mस्व्_५,४.१ //
SK
अत्र भाष्यकारेण विज्ञानवादान्ते᳚अतो न व्यभिचरति प्रत्यक्षम्᳚इति प्रत्यक्षाव्यभिचारित्वमुपसंहृत्य ऽअनुमानं ज्ञातसम्बन्धस्येऽ त्यादिनानुमानलक्षणं प्रणीतम् / तस्य तात्पर्य दर्शयति-प्रत्यक्षेति / अयमर्थऽ / वृत्तिकारग्रन्थे हि ऽतेन व्यभिचरति प्रत्यक्षम् / तत्पूर्ववकत्वाच्चानुमानाद्यपिऽ इति प्रत्यक्षव्यभिचारपूर्वकमनुमानादीनामपि व्यभिचारात परीक्ष्यत्वमुक्तम् / तत्र प्रत्यक्षाव्यभिचारित्वे प्रतिपादिते व्यभिचारिकरणप्रभवत्वेन तावद् व्यभिचारशङ्का प्रयुक्ता / यदि परं स्वरूपाश्रयो व्यभिचारऽ सम्भवति / सो ऽपि वक्ष्यमाणलक्षणकेषु नाशङ्कनीय एव / न हि प्रतिबुद्धदृशऽ प्रतिबन्धकसंविद्विदितव्यभिचारऽ / सकलव्यवहारोच्छेदप्रसङ्गात् / एवमितरेष्वपि यथास्वमवसरे वक्ष्यामऽ / तस्मादनुमानाद्यपि लोकप्रसिद्धं न परीक्षितव्यमिति||
SK
इयं च सर्ववक्ष्यमाणप्रमाणलक्षणभाष्यतात्पर्यव्याख्या साधारणी वार्तिककारेण कृता / सर्ववक्ष्यमाणप्रमाणप्रपञ्चस्य हीदमेव साधारणं स्थानम् / अनेन च श्लोकेन समर्थितारम्भावसरऽ प्रपञ्चो विशेषतो व्याख्यास्यत इति / तदेतदुक्तं भवति / नात्र नैयायिकादिवदलोकिकं प्रमाणानां स्वरूपमुपदर्शयितुं लक्षणानि प्रणीतानि / लोकप्रसिद्धप्रमा(णा) व्यभिचारित्वान्मीमांसकानाम् / किन्तु शङ्कितव्यभिचारापादितपरीक्षाप्रत्याख्यावनार्थं लोकप्रसिद्धमेव स्वरूपमुपदर्श्यते / अतो नप्रमाणलक्षणे सङ्गतिऽ प्रत्यक्षादिलक्षणस्याशङ्कितव्येति ||१ || इदानीं लक्षणभाष्यव्याख्यानावसरे प्राथम्यादनुमानलक्षणमनुसन्धास्यति / तत्र च ऽज्ञातसम्बन्धस्येऽत्युच्यते / तत्र न विद्मऽ को ज्ञातसम्बन्धसमासार्थ इति / न तावत पुरुषऽ सम्बन्धी समुदायो वा / अनुपादानात् / न ह्यनुपात्तान्यपदार्थको बहुव्रीहिर्भवति / ननु बुद्धिसम्बन्धोपस्थापितऽ पुरुषऽ समुदायिद्वयाक्षिप्तऽ समुदायो वा विशेष्यते / बुद्धिर्हि स्वशब्दादवगता तद्वन्तमन्तरेणात्मानमलभमानोपस्थापयति स्वाश्रयमिति नानुपादानदोषऽ / नैतदेवम् / गम्यमानस्याविशेषात् / न खलु धूमशब्दार्थाविनाभावादवगतो ऽग्निर्ज्वलतीति विशेष्यते / वक्ष्यति च- गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् / इति / स्यान्मतम् / सत्यम् / अनुपात्तं न विशेष्यते / उपात्त एव त्विह सम्बन्धी / तथाहि अयमत्र पदान्वयऽ / अनुमानमेकदेशदर्शनादेकदेशान्तरे बुद्धिरिति / अतऽ कस्यैगदेशस्येत्याकाङ्क्षायां स एवैकदेशो ज्ञातसम्बन्धस्येति विशेष्यते / ननु दर्शनोपसर्जनत्वादेकदेशो न विशेषणमर्हति / न ह्युपसर्जनं पदं पदान्तरेण सम्बध्यते / न हि भवति पुरुषं प्रत्युपसर्जनीभुतस्य राज्ञऽ ऋद्धस्य राजपुरष इति विशेषणम् / उच्यते / कनोपसर्जनत्वदसम्बन्धऽ / क आकाङ्क्षितं हि पूरणसमर्थमुपसर्जनेनापि सम्बध्यत एव / अत्रैकदेशदर्शनादित्युक्ते ऽस्ति कस्यैकदेशस्येत्याकाङ्क्षा / अर्थसम्बन्धे ऽप्याकाङ्क्षैव हेतुऽ / उपसर्जनसंज्ञा तु᳚उपसर्जनं पूर्वम्(२-२-३०) इति / पूर्वेप्रयोगसिद्ध्यर्थैव / अत एव हि कस्य गुरुकुलमिति व्यवहारोपपत्तिऽ / तत्र हि कुलोपसर्जनस्यैव गुरोऽ कस्येति विशेषणम् / अपि च दर्शनक्रियाकर्मणो दृश्यस्यैकदेशस्य प्राधान्यमप्राधनस्य सापेक्षस्यापि पदान्तरेण सम्बन्धो दृष्टऽ, यथा राजपुरुषऽशोभन इति / अत उपपन्नं ज्ञातसम्बन्धस्यैकदेशदर्शनादिति / नोपपन्नम् / उक्तं हि गुरुणैव-᳚नोपसर्जनं पदं पदान्तरेण समबध्यते ऋद्धस्य राजपुरुष इतिवत्᳚इति / न च परिहृतम् उपसर्जन /
SK
प्रमाता ज्ञातसम्बन्ध एकदश्यथवोच्यते / कर्मधारयपक्षो वा सम्बन्धिन्येकदेशता // Mस्व्_५,४.२ //
SK
विशेषणे हि ऋद्धी राजानं विशिष्यात् / यत्तूक्तम्- आकाङ्क्षा सम्बन्धे हेतुऽऽ इति तदयुक्तम् / आकाङ्क्षावतो ऽप्ययोग्यत्वमुक्तम् / अथोच्येत एकवाक्यतायामयं दोषऽ एकदेशदर्शनाद एकदेशान्तरे बुद्धिरनुमानम् / अतऽ पर्यवसिते वाक्ये कस्यैकदेशस्येत्याकाङ्क्षायां वाक्यगतमेकदेशस्येति पदं ज्ञातसम्बन्धस्येति विशेष्यत इति / तन्न / आकाङ्क्षावाक्यस्याश्रवणात् / स एवानुपात्तान्यपदार्थदोषऽ / यत्र तूपादानं तत्रोपसर्जनत्वादयोग्यत्वमुक्तम् / अपि च वाक्यभेद एवात्र दोषऽ / यच्च दर्शनं दृश्यप्रधानमित्युक्तं तदप्ययुक्तम् / उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्य / न च वास्तवं गुणप्रधानभावमाश्रित्य पदान्तरसम्बन्धो दृष्टऽ / राजपुरुषे ऽदर्शनात् / ननु शाब्दमेवैकदेशस्य प्राधान्यं गम्यते / कृद्योगलक्षणा हीयं कर्मणि षष्ठी / न / अश्रवणात् / नहि समासे षष्ठी श्रूयते / न चाश्रूयमाणा स्वार्थमभिधत्ते / किन्तु निषादस्थपतिवल्लक्षणया तदर्थो ऽवगम्यते / श्रुत्या तु दृश्यावच्छिन्नं दर्शनमेव प्रधानतयावगम्यते / उत्तरपदार्थप्रधानानुशासनमप्यत एव / समासात् तथैवावगतेऽ / नच वास्तवं प्राधान्यमुपसर्जनस्य पदान्तरसम्बन्धे सापेक्षसमासे वा हेतुऽ / कस्य गुरुकुलमिति नित्यसापेक्षत्वाद् गुरुशब्दस्य नासामर्थ्यं दोषऽ न ह्यनन्तर्भाव्य प्रतिसम्बन्धिनं गुर्वर्थो ऽवगम्यते / सम्बन्धिशब्दत्वात् तस्य / अतो ऽपेक्षितार्थान्तर एवासौ वृत्तावनुप्रविशतीति न दोषऽ / न त्वेवमेकदेशशब्द इति वैषम्यम् / अतो दुरधिगमो ज्ञातसम्बन्धसमासार्थऽ / अत आह-प्रमातेति / अयमभिप्रायऽ- सत्यम् / एकदेशो नान्यपदार्थऽ / किन्तु प्रमातैव बुद्धिसम्बन्धोपस्थापितो ज्ञातसम्बन्ध इति निर्दिश्यते / गम्यमानमपि चाव्यभिचारिणा चिह्नेनोपस्थापितं विशेष्यत एव / न हि नमऽ पिनाकपाणय इत्यनयपदार्थानुपादानं दोषाय / अपि च ऐन्द्रवायवं गृह्णातीति बहुव्रीहिसमासार्थो देवतातद्धितऽ कथमाहृत्यानुपात्ते सोमरसे वर्तते / अथ सोमं क्रीणाति अभिषुणोति पावयतिधारया गृह्णातीति प्रकरणवगतऽ सोमरसो ऽन्यपदार्थ इत्युच्यते / इहापि बुद्ध्यविनामावावगतस्य प्रमातुर्बहुव्रीह्यर्थत्वं नानुपपन्नम् / पूर्वपक्षस्थितेन वार्तिककृता गम्यमानं न विशेष्यत इति यदुक्तं तदेव दुर्लभलब्धमिवमन्वानैऽ कैश्चिद्वल्गितमित्युपेक्षणीयमेव / सिद्धान्ते हि गम्यमानाया एव व्यक्तेर्गावौ गावऽ शुक्लो गौरिति च विभक्त्या शब्दान्तरेण च विशेषणं भविष्यति / मञ्चाऽ क्रोशन्तीति च / आह च- जातेरस्तित्वनास्तित्वे न हि कश्चिद विवक्षति / नित्यत्वाल्लक्ष्यमाणाया व्यक्तेस्ते हि विशेषणे||
SK
इति / धूमो ऽयं ज्वलतीति न भवति / अनभिधानात् / न हि लोकऽ पर्यनुयोक्तुमर्हति / यस्तु वैयात्याद् धूमशब्देनाग्निं लक्षयित्वा तथा प्रयुयुङ्क्षति न तं निवारयामऽ / नन्वेवं प्रमातरि ज्ञातसम्बन्धे सति नैकदेशो विशेषित इति व्यापककैकदेशदृशो व्याप्यस्मृतिरनुमानमापद्येत / न त्वेतदिष्टम् / व्याप्याद्धि व्यापकज्ञानमनुमानम् / ज्ञातसम्बन्धस्यैकदेशस्येति सम्बन्धे स्यादपि विशिष्टैकदेशलाभऽ / तत्र हि ज्ञातसम्बन्धस्यैकदेशस्येति षष्ठ्या व्याप्य एव सम्बन्धी प्रतिपाद्यते / सर्वत्र हि व्याप्य एव हि षष्ठी दृष्टा / उच्यते / उक्तमस्माभिर्नेदमलोकिकं किञ्चित् प्रमाणानां स्वरूपमुपवर्ण्यते / लोकप्रसिद्धमेव त्वपरीक्षाप्रतिपादनार्थं स्वरूपमनूद्यते लोके हि नियाम्यैकदेशदर्शन एव नियामकैकदेशज्ञानमनुमानमिति प्रसिद्धमिति / असत्यपि हि विशेषणे विशिष्टैकदेशो लभ्यते / अपि चासन्निकृष्टेर्ऽथ इति वदति / न चव्यापकदृशऽ साहचर्यमात्रात् व्याप्यस्म-तिरसन्निकृष्टविषया / पूर्वप्रमाणानधिकार्थाविषयत्वात् स्मतेऽ / व्याप्यादेव त्वनुभूतपूर्वनियमाद् व्यापकविशिष्टऽ पर्वतादिरवगम्यते / अत उपपन्नो विशिष्टैकदेशलाभ इति / यत्तु ज्ञातसम्बन्धस्यैकदेशस्येत्यत्र षष्ठ्या विशेषप्रतिपादनमुक्तम् / तदयुक्तं व्यापकादपि षष्ठ्युत्पत्तेऽ / भवति हि कृतकत्वमनित्यताया हेतुरिति व्यवहारऽ / व्यापिका चानित्यता कृतकत्वस्य / तस्मादविशेषितोपादाने ऽपि व्याख्यानतऽ सम्बन्धविशेषा(देक)देशविशेषलाभो नानुपपन्नऽ / भवति हि ऽव्याख्यानतो विशेषप्रतिपत्तिर्न तु सन्देहादलक्षणम्ऽ इति सूक्तं प्रमाता ज्ञातसम्बन्ध इति /
SK
द्वयं वा ज्ञातसम्बन्धमुपलब्धं परस्परम् / तस्यैकदेशशब्दाभ्यामुच्येते समुदायिनौ // Mस्व्_५,४.३ //
SK
व्याख्यानान्तरमाह- एकदेशीति / एकदेशौ हि नैकदेशिनमन्तरेण स्यातामिति आक्षिप्तस्यैकदेशिनो युक्तमन्यपदार्थत्वम् / नन्वेवं ज्ञातसम्बन्धस्यैकदेशिनो य एकदेशस्तस्यैकद्देशस्य दर्शनादित्युच्यमाने स एव दर्शनोपसर्जनत्वादेकदेशस्यैकदेशिनऽ सम्बन्धऽ सम्बन्धिविशेषापेक्षस्य वा समासदोषऽ प्रसज्यते / भवेदेतदेवम् / यद्येकतदपि परम्परया वाजपेयस्य यूप इतिवदेकदेशिनो भवत्येव / कऽ पुनरत्रैककदेशी ज्ञातसम्बन्धऽ पक्षऽ सपक्षो वा / न तावत् पक्षऽ ज्ञायमानसम्बन्धसकृद्दर्शननिर्ग्राह्या / भूयोभिस्तु दर्शनैऽ पूर्वपूर्वावगतसकलदेशकालविविक्तधूमवन्मात्रस्याग्निमत्तया व्याप्तिवधारिता / न पुनरत्रायामिदानीं वा धूमवानग्निमानिति / अतऽ पक्षैकदेशिनो ऽपि सामान्यतो धूमवत्तौपाधिकसम्बन्धो ज्ञात इति स एव ज्ञातसंबन्धऽ / सामान्यतो गृहीते ऽपि देशादि एकदेश्यैकदेशौ चाश्रयाश्रयिणावभिमतौ / न पुनवयवावयविनाविति द्रष्टव्यमिति
SK
कर्मधारयसमासो वायमित्याह- कर्मधारयेति / अयमर्थऽ- ज्ञातश्चासौ संबन्धश्चेति कर्मधारयो ऽयम् / अत्र च पक्षे संबन्धिनि गम्ये गमके चैकदेशता / कथं सम्बन्ध्याधारस्य सम्बन्धस्य सम्बन्धिनावेकदेशौ / न हि भूधराधारस्य धूमस्यैकदेशो गिरिऽ / आधेयमेव तु धूमस्तदेकदेशतया मन्यते / उच्यते / भवत्याधारांशे ऽप्येकदेशवाचोयुक्तिऽ / यथा अवयव्याधारेष्ववयवेषु च समूहिष्विति निवद्यम्
SK
द्वयं वान्यपदार्थ इत्याह- द्वयं वेति / सम्बन्धग्रहणकाले परस्परसम्बन्धमुपलब्धं व्याप्यव्यापकद्वयं ज्ञातसम्बन्धमुच्यते, तस्य च समुदायिनावेकदेशौ / यथा चैतदेवं तथा प्रगेवोक्तमिति / किं पुनऽ कर्मधारयपक्षे द्वयान्यपदार्थ्वे वा प्रमेयम् / न तावत् सम्बन्धसमुदायावेव / तयोऽ पूर्वमेवावगतत्वात् / अधुना च धर्मधर्मिविभागेनानवगमात् / न चान्य एकदेशी / तस्यानुपादानात् / न चैकदेशाभ्यामाक्षेपऽ / सम्बन्धसमुदायनिराकाङ्क्षत्वात् / न च स्वतन्त्रैकदेशदर्शनात् स्वतन्त्रैकदेशान्तरे ज्ञानमनुमानं, सिद्धत्वात् / वक्ष्यति हि न धर्ममात्रं, सिद्धत्वादिति / अत्राभिधीयते- अयमत्रार्थो ज्ञातस्य सम्बन्धस्य ज्ञातसम्बन्धस्य वा द्वयस्य क्वचिदेकदेशदर्शनात् तत्रैवैकदेशान्तरे बुद्धिरनुमानमिति / कुत एतत् / असन्निकृष्टग्रहणात् / न हि स्वतन्त्रैकदेशो ऽसन्निकृष्टऽ / क्वचिदेव पर्वतादावेकदेशो ऽसन्निकृष्टो भवति / तत्रानवगतपूर्वत्वादिति किमनुपपन्नमिति / कऽ पुनरत्र सम्बन्धो ऽनुमानाङ्गमिष्यते / अविनाभावस्तादात्म्यतदुत्पत्तिनिमित्तक इति केचित् / एवं हि तैरुक्तम् / ᳚कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् / अविनाभावनियमो ऽदर्शनान्न न दर्शनात् ||᳚
SK
यथाहु- ᳚एकसामग्र्यधीनस्य रूपादे रसतो गतिऽ / हेतुधर्मनुमानेन धूमेन्धनविकारवत् ||᳚
SK
उक्तं हि तैऽ- ᳚नित्यं सत्त्वमसत्त्वं हेतोरन्यानपेक्षणात् / अपेक्षातो हि भावानां कादाचित्कत्वसम्भवऽ ||᳚
SK
रूपं सहकारीत्यपि नानिर्णीतरूपरसाविनाभावो ऽनुभवितुमुत्सहते / प्रागेव तु तन्निर्णये वृथा रूपतद्धेत्वोऽ सहकारित्वकल्पना / सम्बन्धो व्याप्तिरिष्टात्र लिङ्गधर्मस्य लिङ्गिना
SK
अपि चानुभवविरुद्धमेवेदम् / न खलु रसमुपलभ्य तद्धेत्वनुमानमुखेन रूपावगतिर्लौकिकानाम् / अपि तर्हि रूपरसयोऽ साहित्यनियमात् सहसैव रसाद् रूपमनुमीयते / अपि च कार्यकारणभूतयोरेव बहुलमनुमानव्यवहारो दृश्यते इत्यनादृत्यं कार्यत्वमव्यभचारे / तादात्म्यमपि मेयाभावप्रसङ्गाद्धेयमेव / किं हि वृक्षात्मनि शिंशपात्वे विदिते मेयमवशिष्यते / निर्भागं वस्तु, भागावग्रहाणां देशादिभेदे ऽप्यबाधितानां सम्यक्त्वात् / काल्पनिकभेदाश्रयत्वाच्चनुमानस्य वास्तवमैकात्म्यमनङ्गम् / वृक्षव्यवहारो ऽनुमीयत इति चेद् कथमनात्मव्यवहारऽशिंशपात्वादनुमीयते / तादात्म्ये वृक्षवदननुमानप्रसङ्गात् / व्यवहारयोग्यतायामप्येवमेविति यत् किञ्चिदेतत् / एवमेव वैशिषिकादिसमयसिद्धा अपि कार्यकारणभावादयऽ सम्बन्धप्रकाराऽ प्रयुक्ता वेदितव्याऽ / ते ऽपि ह्यनियताननुमानोत्पत्तिकारणम् / अस्तु तर्हि नियमो वानुमानाङ्गम् / न / प्रमाणाभावादनवगतेऽ / न तावदापातजं प्रत्यक्षमस्यावधारणक्षमम् / ईक्षते खल्वयं विस्फारिताक्षऽ सहसा महानसे धूममग्निना सहितम् / न तु जानाति नियतो ऽयमनेनेति / दुरधिगमो हि सर्वभावानां स्वभावनियमऽ / न तमुन्नेतुमुत्सहन्ते झटिति महान्तो ऽपि / न हि निर्विकल्पकागोचरे विकल्पऽ प्रमाणम् / तत्पुरऽ सरत्वात् तस्य / स्यादेतत् / देशादिभेदेष्वव्यभिचारात् स्वभावनियमो ऽवधार्यत इति / केनावधार्यते सर्वदर्शनानामन्वयमात्रे व्यापारात् / अथ पूर्वपूर्वज्ञानजनितभावनासचिवमन्तिममनेनायं नियत इति भवत्यालोचनाज्ञानम् / ततो विकल्पाऽ प्रवर्तिष्यन्त इति / नैतदेवम् / इन्द्रियव्यापारसापेक्षं हि प्रत्यक्षम् / न च सहभावदर्शनादन्यत्र बहिरिदन्द्रियव्यापारऽ / न च बहिर्विषयवेदने तन्निरपेक्षमन्तऽकरणं प्रवर्तते / अपि च निरूपितरूपा अपि भावा देशादिभेदेष्वन्यथाभवन्तो ऽनूभूयन्त इति न स्वभावनियमं प्रत्याश्रयितुमुचितं प्रामाणिकानाम् / तदाहु- ᳚देशकालादिरूपाणां भेदाद् भिन्नासु शक्तिषु / भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ||᳚
SK
व्याप्यस्य गमकत्वं च व्यापकं गम्यमिष्यते // Mस्व्_५,४.४ //
SK
यो यस्य देशकालाभ्यां समोन्यूनो ऽपि वा भवेत् / स व्यापोव्यापकस्तस्य समोवाभ्यधिको ऽपि वा // Mस्व्_५,४.५ //
SK
तेन व्याप्ये गृहीतेर्ऽथे व्यापकस्तस्य गृह्यते / न ह्यन्यथा भवत्येषा व्याप्यव्यापकता तयोऽ // Mस्व्_५,४.६ //
SK
इति तस्माद् वक्तव्यो ऽनुमानाङ्गभूतऽ सम्बन्धऽ / अत आह-सम्बन्धैति / व्याप्तिर्हि साहित्यनियममपदिशति / तद्दर्शिनो ह्मेकदेशदेर्शनादेकदेशान्तरे बुद्धिरुत्पद्यते, अतऽ सामान्यवचनो ऽपि सम्बन्धशब्द उपरितनसमभिव्याहारादत्रानुमानलक्षणग्रन्थे विशेषपरो भवति / उपरि चास्यावधारणे प्रमाणं वक्ष्यत इत
SK
यदि ज्ञातसम्बन्धस्यानुमानं स तर्हि सम्बन्धो सम्बनधे द्व्याश्रय इत्युभयानु माने लिङ्गं स्यादत आह-व्याप्येति
SK
अत्र कारणमाह-यो यस्येति द्वयेन / सऽ- समन्यूनदेशकालो हि व्याप्यो भवति / पुर्वं तावद् यत्रोभयोरपि धर्मयोर्व्याप्यव्यापकत्वम् / यथा परस्तादुदाहरिष्यते / उत्तरस्तु यथा धूमादिऽ, स हि प्रायेणाग्निदेशकालवर्ती भवति / सकलतदीयदेशकालाव्याप्तेऽ / व्यापकस्तु समाधिकदेशकालऽ / अत्रापि पूर्वोक्त एव पूर्वऽ / उत्तरस्तु यथाग्निरेव धूमस्य / स हि तस्य देशकालौ तावद् व्याप्नोत्येव / असत्यपि धूमे भवन् देशकालाभ्यामधिको ऽप्यभिधीयते / यतश्चानयोरीदृशं स्वरूपं नान्यथा व्याप्यव्यापकतात्मकता,तेन कारणेन व्याप्य एव गृहीते व्यापकस्य ग्रहणं भवति यदसौ तं विनापि न भवत्येव / न ह्यसावग्निरिव धूमस्याग्नेर्देशकालावतिक्रम्यापि भवति / येन तं विनापि भवस्तं न गमयेत् / अग्निस्त्ववंविध इति नासौ धूमस्य गमको भवति / ननु चायं विशेषोज्ञातसम्बन्धशब्दान्नावगम्यते /
SK
व्यापकत्वगृहीतस्तु व्याप्यो यद्यपि वस्तुतऽ / आधिक्ये ऽप्यविरुद्धत्वात् व्याप्यं न प्रतिपादयेत् // Mस्व्_५,४.७ //
SK
विस्पष्टं दृष्टमेतच्च गोविषाणित्वयोर्मितौ / व्याप्यत्वाद् गमिका गावो व्यापिका न विषाणिता // Mस्व्_५,४.८ //
SK
स हि सम्बन्धज्ञानमात्रमङ्गतया दर्शयति, न व्याप्यतामिति कुतो विशेषलाभऽ / उक्तमत्र लौकिकलक्षणानुवादेनापरीक्षाप्रतिपादनार्थमिदं भाष्यम् / लोके च व्याप्यैकदेशदर्शिन एव व्यापकज्ञानमनुमानमिति सिद्धम् / नह्यन्यथेति चापकृष्य पूर्वेण योजयित्वा तेनेति तदुपजीवनेन व्याख्येयमिति
SK
ननु व्यापकादपि व्यापसंवित्तिर्दृष्टा / अनित्यत्वादिव कृतकत्वस्य / भवति हि भावानामानत्यत्वात् कृतकत्वानुमानम् / व्यापकं चानित्यत्वं कृतकत्वस्य / अतो व्यापकं गम्यं व्याप्यं गमकमित्यव्यापकमत आह-व्यापकत्वेति / अययमभिप्रायऽ / सत्यं व्यापकस्य गमकत्वम् / न तु व्यापकत्वगृहीतस्य / तेन हि रूपेण गृहीतो ऽसौ व्यापाद् देशकालाधिक्ये ऽपि न विरूध्यते / ननु व्याप्यतापि तस्याति / अस्तु नामवस्तुततस्तत्तु रूपं न गृहीतमिति कथं गमकत्वम् / अवगते तु ताद्रूप्ये तेनैवगमकत्वं न व्यापकतया / अतो व्याप्यतैवानुमानाङ्गं न व्यापकतेति सूक्तमिति
SK
व्याप्यत्वमङ्गं न व्यापकत्वमित्येतदेवासङ्कीर्णोदाहरणेन दर्शयतिदुपलक्षितम् / यथा व्याप्यं गमकं व्यापकं गम्यमिति / गोविषाणित्वयोर्हि व्यापिका हि सा / मितौ- अनुमाने / गोविषाणित्वयोरयं गम्यगमकविवेको दृष्ट इत्यर्थऽ
SK
तेन यत्राप्युभौ धर्मौ व्याप्यव्यापकसंमतौ / तत्रापि व्याप्यतैव स्यादङ्गं न व्यापिता मितेऽ // Mस्व्_५,४.९ //
SK
तेन धर्म्यन्तरेष्वेषा यस्य येनैव यादृशी / देशे यावति काले वा व्यापता प्राङनिरूपिता // Mस्व्_५,४.१० //
SK
एवमसङ्करे गम्यकगमकविवेकाद् यत्रापि व्याप्तिसङ्करो भवति तत्रापि व्याप्यत्वमेव गमकत्वे कारणमिति निष्कृष्यत इत्याह- तेनेति
SK
ननु व्याप्तिरनुमानाङ्गमित्युक्तम् / कस्य पुनरियं संयोगिनऽ समवायिनऽ सम्बन्धिसम्बन्धिनो वा / न ह्यत्र व्यवस्थामुपलभामहे / सर्वेषामप्यनुमापकत्वात् / तद् यदि संयोगी व्याप्यऽ / रसाद्रूपानुमानं न स्यात् / अथ समवायी धूमादग्न्यनुमानम्, सम्बन्धिसम्बन्धिनश्च पित्रोर्ब्राह्मणत्वात् पुत्रस्य ब्राह्मणत्वानुमानमित्यादि दर्शयितव्यम् / अपि च व्याप्तिरित्यन्वयो ऽभिधीयते / उपश्लेष इति यावत् / न चासौ भूमौ प्रतिष्ठितेनाग्निनागगनगतस्य धूमाग्रस्य सम्भवति / नच भूमिष्ठां शङ्कुच्छायां दिवि वर्तमानऽ ऋक्षोदयो ऽवेति / व्याप्तिश्च कस्यचित् केनचिद् भवन्ती देशतो वा स्यात् कालतो वा / पूर्वस्मिन् कल्पे भाविऽ सवितुरुदयस्याद्यतनार्कस्यैवोदयात् अष्टौ यामानतिक्रम्यानुमानं न स्यात् / परस्मिन् धूमादग्न्यनुमानमित्यादि पर्यनुयोक्तव्यम् / अत आह-तेनेति द्वयेन / येन कारणेन यस्यैव संयोगादीनामन्यतमस्य, येनैव-तेषामन्यतमेन, यादृशी-उपश्लिष्टेनेतरेण वा व्याप्यता प्रागवगता, सैवानुमाने कारणं भवति / नह्युश्लेषो व्याप्तिऽ / उक्तं हि-᳚सम्बन्धनियमो ऽसाव्᳚ इति / स चानुपश्लिष्टेनापि भवति / यो हि यस्मिन् सति भवति, असति च न भवति, तेन नियम्यत इत्युच्यते / किमत्रोपश्लेषेण / न चात्र देशादीनामन्यतमविवक्षा / यावति हि देशे काले वा वर्तमानस्य यस्य वाप्यता निरूपितपूर्वा, यावद्देशकालभाविना व्यापकेन तस्य व्यापकांशस्य तावत्येव देशादौ वर्तमानस्य स व्याप्यांशस्तादृगेव, गगनादिवर्तिधर्म्यन्तरे दृष्टान्तधधर्म्यपेक्षया साध्यधर्मिणि दृष्टऽ सन् प्रतिपादको भवति /
SK
तस्य तावति तादृक् स दृष्टो धर्म्यन्तरे पुनऽ / व्याप्यांशो व्यापकांशस्य तथैव प्रतिपादकऽ // Mस्व्_५,४.११ //
SK
भूयोदर्शनगम्या च व्याप्तिऽ सामान्यधर्मयोऽ / ज्ञायते भेदहानेन क्वचिञ्चापि विशेषयोऽ // Mस्व्_५,४.१२ //
SK
नियमो ह्यनुमानाङ्गम् / स च सर्वेषामविशिष्ट एव किमवान्तरविभागेन / देशे यावतीत्यनतिदूरमधिरूढस्य धूमादेर्दूरतरवर्तिनो ऽपि नदीपूरस्य व्याप्तिं दर्शयति / शङ्कुच्छायायाश्च नितान्त(दूर)वर्तिना ऋक्षोदयेन / यावति काल इति च भाविनऽ सवितुरुदयानुमानादावपि व्याप्तिं दर्शयतीति
SK
नन्वस्यां व्याप्तौ न किञ्चित् प्रमाणमस्तीत्युक्तमत आह-भूयोदर्शनेति / कथं पुनर्भूयोदर्शनगम्या व्याप्तिऽ / किं हि तत्र प्रत्येकमेव भूयांसि दर्शनानि प्रमाणमाहोस्विद् दर्शनप्रभवम् / तत्र न तावत् प्रत्येकसन्दर्शनसमधिगम्या व्याप्तिरित्यवसितमेव / नो खल्वस्य सहसाग्नधूमावग्निशरणे विलोकयमानस्याग्निना व्याप्तो धूम इति मतिराविरस्ति / न चाननुभूतमविकल्पकेन सविकल्पकेनापि विषयीक्रियते / न चानेकर्शनारब्धो दर्शनसमुदायऽ कश्चिदस्ति, तस्य दर्शनातिरेकेणाभावात् / निरुद्धानागतप्रत्युत्पन्नानां चासंहन्यमानत्वात् / पुरस्तनानेकदर्शनाहितसंस्कारसहायमन्तिमं तु दर्शनं कतरत् प्रमाणमिति चिन्तनीयम् / न तावत् प्रत्यक्षम् / तद्धि द्वेधा विभक्तम् / आलोचनाज्ञानं तत्प्रभवं च विकल्पसम्भिन्नम् / न तावत् पूर्वं व्याप्तेरवधारणे समर्थम् अप्रतिसन्धानात् / व्याप्तेश्चायमनेन प्रतिबद्ध इति प्रतिसन्धानात्मकत्वात् / नच तदनपेक्षमुत्तरमात्मानं लभते / यञ्चेदं संस्काराणां साचिन्यम्, इदमपि न चतुरश्रम् / संस्काराऽ खलु यद्वस्तुरूपोपलम्भसम्भावितात्मानो भवन्ति, तत्रैव स्मृतिमात्रमादधति / न पुनरर्थान्तरग्रहणाय कल्पन्ते / प्रत्यक्षे च व्याप्तिप्रमाणे कथमतफलेभ्यऽ पुंविशेषेषु वैदिककर्मानुमानम् / न च तत्तत्कर्मनियमस्तस्य तस्य पश्वादेऽ फलस्यापरोक्षमीक्ष्यते अतीन्द्रियत्वात् / यञ्चेदमध्वरेवितते वैदिकादङ्गात् प्रधानाञ्चापूर्वानुमानम्, तदपि न स्यात् / व्याप्त्यवधारणे प्रमाणाभावात् / मेघाभावाच्च वृष्ट्यभावानुमानमित्यादि दर्शयितव्यम् / अतो न तावत् प्रत्यक्षा व्याप्तिऽ / न चानुमानिकी / प्रमाणाभावादेव तदधीनात्मलाभस्य तस्यानुपपत्तेऽ / शब्दस्त्वनागतोत्पाद्यभावविषयो न सिद्धव्याप्तिकॢप्तये प्रभवति / उपमानमपि प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयं न वस्तुनऽ सतां प्रमिणोति / अर्थापत्तिरप्यन्यथानुपपद्यमानार्थविषया दर्शनप्रभवा / न च सहितावधारितयोरसत्यां व्याप्तौ किञ्चिदनुपपन्नं नाम||
SK
ननु कार्यता नोपपद्यते / कथं हि कार्यमसति कारणे भवति / भूयोदर्शनसमधिगम्यं च कार्यत्वमिति भूयोदर्शनप्रसूतकार्यत्वावगमान्यथानुपपत्तिप्रमाणिका कारणव्याप्तिसिद्धिऽ / कथमिदानीमकार्यकारणभूतेषु व्याप्तिऽ सेत्स्यति / भूयांसि दर्शनान्येवासत्यां व्याप्तौ नोपपद्यन्त इति चेत्, किं हि तेषां व्याप्तिमन्तरेण न सम्भवति स्वरूपं, तावच्च कारणसामग्रीकं हि वऽ सिद्धम् / स्वगोचरप्रकाशनमपि स्वत एव विषस्यापि स्वप्रमाणपरिच्छन्नस्य न किञ्चिदनपपन्नं पश्यामऽ / न चासौ प्रमाणान्तरेण प्रतिहन्यते / यन्नोपपद्येत / न च भावस्वरूपा व्याप्तिरभावेन प्रमीयत इति साम्प्रतम् / तत्रासावभावप्रमाणिका न स्यादेव||
SK
स्यान्मतम्-केयमन्या धूमस्याग्निना व्याप्तिरनग्निनिवृत्तेऽ / सा चाभावरूपत्वादभावेन प्रमीयत इति युक्तमेव / तन्न / वस्तुरूपत्वात् / वस्तुरूपो हि स्वभावो धूमादेऽ केनचिन्नियतऽ / इतरया व्यावर्तते खल्वयं शशविषाणाभावादपीति शशविषाणेनापि नियम्येत / कथमसता नियम्यत इति चेत् / को दोषऽ / व्यावृत्तिर्हि नियमऽ, साचास्तीति किं शशविषाषस्य सत्त्वासत्त्वाभ्याम् / यदि मतं विपक्षव्यावृतत्परिपन्थी विपक्षऽ / व्याप्यते च शशविषाणेन तदभावान्निवृत्तो धूमैत्यनग्निरिव तदभावो ऽपि विपक्ष एव / अपि चाशेषविपक्षाणामुपलब्ध्ययोग्यत्वान्न तेभ्यो निवृत्तिरभावेन शक्यते ऽवगन्तुम् / योग्यप्रमाणाभावो ह्यभावे प्रमाणमिति वक्ष्यते / अतो न किञ्चिद् व्याप्तौ प्रमाणम् / मानसमिति चेत् / न / बहिरस्वातन्त्र्यात् / तत्रैतत् स्याद्-यद्यपि बहिरिन्द्रियाण्यतीतानागतादिभिर्भावभेदैर्व्याप्तिं ग्रहीतुमसमर्थानि, मनस्तु सकलातीतादिविषयपरिच्छेदसाधारणं प्रतिबद्धसामर्थ्यं क्वचिदिति तदबलभाविना प्रत्यक्षेण व्याप्तिर्ग्रहीष्यत इति / तञ्च नैवं, बहिरस्वातन्त्र्यान्मनसऽ / नो खल्वपि बहिर्विषयबोधे मनऽ स्वतन्त्रमिति वर्णितम् / तथाहि मनसऽ सार्थमित्यत्र / स्वतन्त्रे हि बहिरिष्यमाणे मनसि सर्वऽ सर्वदर्शी स्यात् / संस्कारतो व्यवस्थेति चेत् / न / स्मृतिहेतुत्वात् / तत्रैतत् स्यात्-यद्यपि कवलमस्वतन्त्रं मनो बहिर्विषयावधारणे,तथापि पूर्वपूर्वांनुभवजनितसंस्कारसनाथं बहिरपि वर्तिष्यते चक्षुराद्यनुगृहीतमिव रूपादौ / अतो नाव्यवस्था / तञ्च नैवम् / स्मृतिहेतुत्वात् / स्मृतिमात्रहेतवो हि पूर्वानुभवप्रभाविताऽ संस्कारानत्सहन्ते मनसो बहिरवग्रहे ऽनुग्रहमाधातुम् / स्मृतिविषयान्तराणामपि ग्रहणप्रसङ्गात् / अस्ति हि तत्रापि स्मृतिहेतुऽ संस्कारऽ / स चेद् ग्रहणे क्वचिन्मनसऽ सहायी भवतीति किं न स्मृतिविषयान्तराण्यपि ग्राह्यतीति यत् किञ्चिदेतत् / यस्तु वदति- साहित्यमग्निधूमयोऽ सम्बन्धऽ / स च प्रथमसमधिगमसमय एव संविदितऽ / अनवच्छिन्नदेशकालश्चाग्निधूमयोऽ सम्बन्धो भासते / न हीदानीमत्र वा तयोऽ सम्बन्ध इति भवति मतिऽ / अपि तर्हि सन्निहितवर्तमानयोरेवेदन्तया प्रतिभासमानयोर्देशकालौ सम्बन्धश्च तयोर्विशेषणमिमौ सम्बद्धाविति / नेदानीमत्र वा सम्बन्ध इति / तदेवमनवच्छिन्नरूपऽ स्वाभाविक एव संबन्धऽ सिद्धो भवति / स्वाभाविकत्वे च न व्यभिचाराशङ्कोपपत्तिमती / किमिदानिमनङ्गभूतमेव भूयोदर्शनम् / नानङ्गम् / अङ्गं त्वौपाधिकाशङ्कानिराकरणेन / वह्निर्हि धूमेन संयुक्तऽ संवेदितो ऽपि कदाचिद्विधूमो दृश्यते / तत्रार्द्रेन्धनादिरूपाधिरनुप्रविशति / न तु स्वाभाविको ऽग्नेर्धूमेन संबन्ध इति निश्चीयते / तद्दर्शनाच्च धूमे ऽपि भवति शङ्का / कदाचिदौपाधिकऽ पावकेनास्यापि संबन्ध इति / सा भूयोदर्शनेन निवर्त्यते / बहुशो ऽपि दृश्यमानस्य धूमस्य नाग्निसंबन्धे कश्चिदुपाधिरूपलभ्यते / प्रयत्नेनापि चान्विष्टो न दृष्ट उपाधिर्नास्तीति निश्चीयते / तदेवं धूममात्रानुबन्धग्निरिति सिद्धं भवति / ततश्चानौपाधिकस्य न व्यभिचाराशङ्केति / स वक्तव्यऽ किमिदानीं साहित्यमात्रमनुमानाङ्गं तन्नियमो वा / यदि साहित्यमात्रं तत्तर्हि प्रथमदर्शन एव समधिगतमिति पुनर्धूमदर्शिनो ऽविदितव्याप्तेरप्यनुमानं स्यात् / अथ तन्नियमऽ तस्यैवेदं प्रमाणमनुस्रियते कुतऽ सिध्यतीति / न हि प्रथमदर्शिनो ऽयमनेन नियत इति मतिराविर्भवन्ती दृश्यते / अनवच्छिन्नदेशकालतयावगतऽ संबन्धऽ स्वाभाविको भवति, ततो नियम इति चेत् / स तर्हि तथाविधऽ प्रथममेवावगत इति भूयोदर्शनं नापेक्षेत / तथा दृष्टस्याप्यग्नेर्धूमसंबन्धो व्यभिचरति / तद्दर्शनाञ्च धूमे ऽपि व्यभिचाराशङ्का जायते / तन्निराकरणायासकृद्दर्शनापेक्षेति चेत्, यद्यनवच्छिन्नस्यापि देशतऽ कालतो वा कदाचित् कस्यचित् कस्यचिद् वियोगो दृश्यते / कस्तर्हि इतरत्रापि समाश्वासऽ / नन्वियमाशङ्का भूयोदर्शनेन निराक्रियत इत्युक्तम् / कथं निराक्रियते / यदा शतशो ऽपि धूमवानग्रिरवगतो विधूमो दृश्यते / न चात्र प्रतिनियमऽ इयदभिर्दर्शनैरव्यभिचारऽ सिध्यति इति / ननु धूमस्याप्यग्निसबन्धे न कश्चिदुपाधिरुपलभ्यते अग्नेरिव धूमसंबन्धे / अतऽ कथमसौ सत्यपि धूमे न भविष्यति / न / देशादेरेवोपाधित्वेन शङ्क्यमानत्वात् / अग्नौ धूमसंबन्धव्यभिचारमुपलभ्याशङ्कते- कदाचिद् धूमस्याप्यग्निसम्बन्धे देशकालाद्युपाधिऽ स्यादिति / दृष्टं हि क्वचिद् देशे खर्जूराणां पिण्डखर्जूरफलत्वम् / वृश्चकदंशनस्य च मरणकारणत्वम् / तद्देशान्तरे न भवति / तद्वत् धूमो ऽपि जातु जायेतान्तरेणापि हुताशनं क्वचिदिति शङ्कमाना न तस्य नियममग्निनाध्यवस्यन्ति शतांशेनापि / विपक्षाद् व्यावृत्तिऽशङ्कमाना अनुमानोदयं प्रतिबन्धातीति कतरञ्चेदं प्रमाणम्, अनौपाधिको ऽग्निर्धूममात्रानुबन्धीति / न तावत् प्रत्यक्षम् / साहित्यमात्रोपक्षीणत्वात् / नानुमानम् / तस्यासत्यां व्याप्तावसम्भवात् / व्याप्तिसिद्ध्यर्तं चापरापरानुमानकल्पनायामनवस्थापातात् / प्रमाणान्तराणि निराकृतपूर्वाण्येव / अतो व्याख्येयमुनुमानाङ्गसम्बन्धावधारणे प्रमाणम्, तद् व्याख्यायते / इदं तावत् प्रमाणाभाववादी वक्तव्यऽ / किं खलु व्याप्तिगोचरं ज्ञानं न जायत एव, सन्दिग्धं वा जायते, विपर्येति वा / त्रेधा हि परीक्षकैरप्रामाण्यं विभक्तम् / प्रकारान्तरासम्भवात् / न तावदाद्यऽ पक्षऽ / संविदव्यवहारविरोधात् / दृश्यते हि बहुलं धूममग्नावुपलमानो ऽयमनेन नियत इत्यवधारणपुरऽ सरं ततो ऽग्निमनुमाय तदनुरूपं व्यवहरमाणऽ / तन्नासत्यां व्याप्तिसंवित्तावुपपद्येत / व्यवहारदर्शनादेव संशयविपर्ययौ निराकार्यौ / ताभ्यामेवंविधव्यवहारासम्भवात् / अतो न तावदप्रामाण्यम् / प्रामाण्यं तु षोढा विभज्यते / तद् यथायोग्यं कस्यचित् कस्याञ्चित् व्याप्तसंवित्तौ व्यवस्थापयामऽ / यथैव तावद् धूमस्याग्निना व्याप्तौ प्रत्यक्षस्य / न हीह प्रमाणान्तराणि सम्भवन्तीति वर्णितमेव / ननु प्रथमदर्शने ऽनवगमात्प्रत्यक्षासम्भवो ऽप्युक्त एव / अत एव भूयोदर्शनावगम्यत्वम् / ननु तान्यपि विकल्प्य दूषितानि प्रत्येकसाहित्ययोरसम्भवात् / सत्यम् / न प्रत्येकं व्याप्तिरवगम्यते / न च दर्शनानि संहन्यन्ते / प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि चकास्ति धूमस्य वह्निनियतस्वभावत्वं, रत्नवत्त्वमिव परीक्षमाणस्य, शब्दतत्त्वमिव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणत्वमिव मातापितृसम्बन्धस्मरणसहकृतस्य, तैलाद् विविक्तमिव विलीनाज्यं रसगन्धसहकृतेन्द्रियस्य / न ह्येतत् सर्वमापातान्न प्रतिभातमिति परस्तादपि भासमानमन्यथा भवति / न च प्रमाणान्तरत्वमापादयति / ननूक्तं न स्मृतेरन्यत्र संस्कारा व्याप्रियन्त इति / केन वा संस्काराणां स्मृतेरन्यत्र व्यापार उपेयते / स्मारयन्त एव तु ते पूर्वपूर्वावगतमग्निसम्बन्धं धूमस्य व्याप्तिसंविदं जनयितुमभिप्रवृत्तचस्येन्द्रियस्य सहायीभवन्ति / आन्तरालिकस्मृतिव्यवहितमपि चेन्द्रियसम्बन्धानुसारि प्रत्यक्षमिति वर्णितम् / इन्द्रियसम्बन्धफलापरोक्षावभासानुसारात् / न च यत् सहसा न प्रतिभाति तत्पश्चादपि प्रतिभासमानं प्रत्यक्षतां जहाति / यथोदाहृत्येष्वेव ब्राह्मणम् / ननु न तावदापातजं प्रत्यक्षं व्याप्तौ प्रमाणमिति भणितम् / ततपूर्वकं च सविकल्पकमिति कथं तस्यापि प्रामाण्यम् / अस्ति वा ब्राह्मणादिप्रत्यक्षे निर्विकल्पकावस्थायां वृद्धादाविव् नरान्तरविविक्ताकारप्रतिभासऽ / येन परस्तात् सविकल्पकं प्रवर्तते / यथा तु तत्र पिण्डमात्रदर्शिनऽ स्मृतयोनिसम्बन्धस्य ब्राह्मणो ऽयमिति प्रत्यक्षं जायते, एवमिहापि बहुशो ऽग्निधूमदर्शिनो ऽन्तिमे दर्शने निर्विकल्पवृत्तधूमस्वलक्षणस्याग्निना नियतो ऽयमिति धूस्वभावगोचरं प्रत्यक्षम्, एतावदेव स्वविकल्पस्य निर्विकल्पकपूर्वत्वम्, यत्तज्जन्मपूर्विका प्रवृत्तिऽ, संज्ञादिस्मरणार्थं हि तत् प्रथममर्थ्यते / तच्चेह व्यक्तिदर्शन एव पूर्वसंस्कारोदबोधात् सिद्धमिति नावश्यमनयोऽ समानविषयता / अत एव तैलविविक्तविलीनाज्यबोधे तैलमिदमिति विपर्यस्यतो गन्धसहकृतेन्द्रियस्य (स)विकल्पप्रत्यक्षत्वसिद्धिऽ / न हि तत्रासङ्कीर्णा घृताकारा संविदासीत् / तैलमिदमिति विपर्ययात् / अतऽ परस्तादेव सहकारिवशात् निर्विकल्पकोपदर्शितव्यक्तिविषयं घृतमिदमिति सविकल्पकं प्रत्यक्षमीविरस्ति / एवमिहापीति न दोषऽ / किं पुनरिह सविकल्पकेन विषयीक्रियते / नियतो ऽयमनेनेति नियमऽ / अस्य हि बहुलं धूममग्नावुपलभमानस्यानग्नौ च व्यतिरेकमन्ते भवति विमर्शऽ- अपि स्याद् व्याप्तो ऽयमनेनेति / कथमपरथा जाङ्गलादिभेदभिन्नानेकदेशपरित्यागेन सायमादिभेदभिन्नानेककालपरिहारेण च तृमदारुगोमयेन्धनादिसमवधानविशेषं प्रत्यनादृतो ऽग्निमेवानुधावत्यनग्नौ च न भवति / ततऽ परं च यथाग्निरधूमभास्वरत्वादिपरित्यागेनापि (दु?कु) कूलालातादौ वर्तमानोष्णत्वमजहत् तन्नियतो भवति / एवमग्निना धूम इत्यपरोक्षनिश्चयो जायते / यत्तु देशान्तरादौ व्यभिचार इति, तन्न तावद् दृष्टपूर्वं नापि श्रुतमिति नाशङ्कामधिरोहति / एवमपि तु शङ्कमानस्य सर्वप्रमाणेष्वनाश्वासऽ क्वचिद् व्यभिचारदर्शनात् / यत्त्ववधारितो ऽपि स्वभावनियमो देशान्तरादावन्यथा भवति वृश्चिकादेरिति / तन्न अवान्तरजातिभेदात् / न हि यद् येन नियतमवगतमबाधितं च तदन्यथा भवति / अवान्तरजातिभेदात्तु शक्तिसदसद्भावकृता कार्यव्यवस्थेति न क्वचिद् व्यभिचारऽ / ननु अनुमानमेव किं नेष्यते / यदौपाधिकं तद् व्यभिचरति / अग्निरिव धूमम् / न च तथा धूमो ऽग्निमित्यनौपाधिक इति / भवत्वेवम् / अव्यवस्था तूपस्थिता / अर्थापत्तिस्तर्हि भवतु / इदमेव् चाग्नौ दर्शनमनग्नौ चादर्शनमनुपपद्यमानमग्निना नियमं प्रतिपादयति / किमत्र नोपपद्यते / दर्शनं तावत् तत्र भवतीत्येतावतैवोपपन्नम्, न हि यदेकत्र भवति तेनान्यत्र न भवितव्यम् / अन्यत्र भवतो ऽदरशनमनुपपन्नमिति चेत् / न / विप्रकृष्टानामन्येषामप्यसन्निकर्षाददरशनोपपत्तेऽ / सन्निहितेष्वनग्निष्वदर्शनमनुपपन्नमिति चेद् अभावादुपपत्तेऽ / तेषु ह्यसौ नास्त्येव्, कथमुपल(भ्यते?भ्येत) / तत्र सताप्यन्यत्रापि न भवितव्यमेवेति किमत्र प्रमाणम् / अतो दर्शनादर्शनसहकृतेन्द्रियस्यैव वस्तुस्वभावावधारणमपरोक्षं जायत इत्येवं समर्थनीयम् / नन्वेतदेव न विद्मऽ / कीदृशो ऽसौ वस्तुनऽ स्वभावो ऽवधार्यत इति / उक्तमसकृद् धूमो ऽग्निना नियत इति / एतदुक्तं भवति- यदा यत्र धूमस्तदा तत्राग्निरिति / ननु सन्निहितवर्तमानदेशकालमात्रसम्बन्धो ऽस्तु प्रत्यक्षऽ / अनागतादिसम्बन्धस्तु कथम्, अतिप्रसङ्गो हि तथा (सति) स्यात् / न / सन्निहितरूपमात्रोपलम्भात् / रूपमेव तु तादृशं धूमादीनां यदेवमुन्नीयते, स्थिरमिव रूपं कुड्यादीनाम् / अस्ति हि तेषु विद्युदादिविलक्षणकालान्तरस्थायिरूपप्रकाशऽ / सन्निहितावान्तरसम्बन्धो न प्रत्यक्ष इति तद्रूपमप्रत्यक्षं भवति / अप्रत्यक्षे हि तस्मिन् नेदं रजतमिति सूर्वानुभूतरजतबाधो न स्याद्, भिन्नविषयत्वात् / स्वकाले हि पूर्वविज्ञानेन रजतं विषयीकृतं न भविष्यद्वाधकज्ञानक्षण इति कथं तत्राप्रसक्तं बाध्यते / कालान्तरसम्ब्धो ऽपि तेन रूपेण पूर्वज्ञानावधारितं भविष्यज्ज्ञानकालमपि व्याप्तोतीति भवति समानविषयतामासाद्य बाधऽ / ननु यद् वस्तुनो रूपं तत्परानपेक्षमवगम्यते, अग्नेरिवोष्णत्वम् / न च धूमस्यागृहीतप्रतिसम्बन्धिना तद्रूपमवगम्यत इति कथं वस्तुरूपत्वम् / मैवम् / सम्बन्धो ह्यसौ, कथमनवगते प्रतिसम्ब्धिन्यवसीयते / यथाह- ऽनियमो नाम सम्बन्धऽ स्वमतेनोच्यते ऽधुनाऽ इति / अतो यदेतदग्निना धूमस्य नियत्वं भावात्मकमिदं तत्प्रत्यक्षेणावगम्यत इति किमनुपपन्नम् / यथा चानग्निनिवृत्तिर्न नियमऽ तथा वर्णितमेव / विपक्षव्यावृत्त्या तु विधिरूप एव नियमऽ परीक्षकैर्व्याख्याय परेभ्यऽ प्रतिपाद्यते /
SK
कृत्तिकोदयमालक्ष्य रोहिण्यासत्तिकॢप्तिवत् /
SK
ननु नियम्यत्वमपि कर्मकारकत्वं तच्च शक्तिरूपं कथं प्रत्यक्षम् / न / कारकान्तरप्रत्यक्षवदुपपत्तेऽ / कारकान्तरशक्तयो ऽपि हि न प्रत्यक्षाऽ, अतो ऽसत्येव शक्तिप्रत्यक्षत्वे कारकं प्रत्यक्षमेषितव्यम् / एवमिहापि नियम्यऽ प्रत्यक्षो भविष्यतीति किमनुपपन्नम् / अतऽ सिद्धं तावत् प्रत्यक्षत्वम् / आगमिकेषु चार्थेषु तस्य तस्य फलस्य तेन तेन वेदवेद्येन् कर्मणा समन्वयात्, कर्मान्तरान्वयस्य चानवगमाद् अनेनैव कर्मणेदं फलं व्याप्तमिति शास्त्राददगम्यते / नियतसाध्यत्वावगमात् / मेघाभाववृष्ट्यभावयोश्च स्वतन्त्राभावप्रतीकाशमाकाशस्य वपुऽ संलक्ष्यते / वृष्ट्यभाव इति च पृथिव्या एव निबिडकठोरपाण्डुरादिभावऽ / तच्च रूपमुभयस्यापि प्रत्यक्षसमधिगम्यमेवेति तदेव तत्र व्याप्तिप्रमाणम् / एवमन्यत्रापि दर्शयितव्यमिति / भवतु तावदन्यद् व्याख्यास्याम इति समधिगतं तावद् व्याप्तेऽ स्वरूपं प्रमाणं च / इदं तु चिन्तनीयम् / कस्य केन व्याप्तिरिति / न ह्येकत्र विदितावग्निधूमविशेषौ प्रदेशान्तरे दृश्येते / यत् तयोरकस्यैकेनान्वयव्यतिरेकसमधिगम्या व्याप्तिर्भवेत्, अतो वाच्यं व्याप्तेरधिकरणम् / अत आह- सामान्येति / सत्यं न विशेषयोर्व्याप्तिऽ, सामान्यात्मनोरेव धूमाकृतिरग्नयाकृत्या नियतेति / अतो न कश्चिद् दोष इति / इदं तु प्रायिकम्, स्थायिनोस्तु विशेषयोरपि क्वचिद् व्याप्तिर्भवत्येवेत्याह- क्वचिदिति
SK
अत्रैवोदाहरणमाह-कृत्तिकोदयमिति / यत्र हि कृत्तिकोदयं दृष्ट्वा रोहिण्यासत्तिऽ कथ्यते- अनन्तरमुदेष्यति रोहिणीति, तस्मिन्ननुमाने विशेषस्यैव विशेषेण व्याप्तिऽ / न हि तयोऽ सामान्यमस्ति / व्यक्तिभेदे प्रमाणाभावात् / प्रत्यभिज्ञायते हि सैवेयं कृत्तिका, सैवेयं रोहिणीति / कथमन्या भविष्यति / अतऽ सिद्धं विशेषयोरेवात्र व्याप्तिरिति / यदि तर्हि व्याप्तिरनुमानाम्, अस्ति खल्वसौ हिंसात्वस्याधर्मत्वेन बाह्यहिंसास्वित्यतऽ क्रतावपि हिंसात्वादधर्मत्वमनुमीयते / तत्र च
SK
व्याप्तेश्च दृश्यमानायाऽ कश्चिद् धर्मऽ प्रयोजकऽ // Mस्व्_५,४.१३ //
SK
अस्मिन् सत्यमुना भाव्यमिति शक्त्या निरूप्यते / अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाऽ // Mस्व्_५,४.१४ //
SK
तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा / ये तु तानपि विस्रब्धं साध्यसिद्धै प्रयुञ्जते // Mस्व्_५,४.१५ //
SK
दैक्षपशुहिंसादीनामधर्मत्वं प्रसज्येतेत्यत आह-व्याप्तेश्चेति द्वयेन / अयमभिप्रायऽ--- सत्यामापाताद् भवति भ्रमऽ, यथा किल हिंसात्वमात्रानुबन्ध्यधर्मत्वमिति / नत्वेतदेवम् / निर्ज्ञातेन ह्यधर्मत्वेन हिंसात्वं व्याप्यते / न च शास्त्रादृते तज्ज्ञानोपायऽ सम्भवति / नच हिंसात्वमात्रमनर्थसाधनमिति शास्त्रमस्ति / विशेषहिंसाया विहितत्वात् / विध्यवरूद्धविषये च प्रतिषेधानवकाशात् / प्रतिषेधमन्तरेण चानर्थसाधनत्वज्ञानोपायाभावात् / अतऽ परिहृत्यापवादविषयमुत्सर्गौऽभिनिविशत इति हिंसान्तराणि ऽन हिंस्यादिऽति प्रतिषेधो ऽवलम्बते / एवं च यद्यपि बाह्यहिंसासु हिंसात्वाधर्मत्वयोऽ साहित्यमवगतं, तथापि न हिंसात्वमधर्मत्वप्रयोजकम् / किन्तु निषिद्धत्वम् / असत्यपि हिंसात्वे निषिद्धत्वमात्रेण सुरापानादावधर्मत्वसिद्धेऽ / अतो य एवास्मिन् सत्येवास्य भवितुं शक्तिरस्ति इत्यनेन रूपेण निरूप्यते / व्याप्यतयावगम्यत इति यावत् / स एव धर्मऽ प्रयोजक इत्युच्यते / परप्रयुक्तव्याप्त्युजीविनस्तु हिंसात्वादयऽ, न तैरधर्मत्वादिव्यापककांशो ऽवधारयितुं क्वचिद्विहितानां दैक्षपश्वादिहिंसानामधर्मत्वमिति
SK
ये त्वेवञ्जातीयकानप्यप्रयोजकान् हेतून् प्रयुञ्जते, ते सुलभैऽ प्रतिहेत्वादिदौषौश्चिरं भ्राम्यन्ति / शक्यते हि प्रतिहेतुर्दर्शयितुं, दैक्षपशुहिंसाधर्मऽ विहितत्वादग्निहौत्रादिवदिति / प्रयोजके हि हेतावेवञ्जातीयका दोषा नास्पदं लभन्ते / अप्रयोजके तु सुलभा एव / तदेतदाह-येत्विति / विस्रब्धमिति क्रियाविशेषणम् / यथा विश्वासो भवति तथा प्रयुञ्जत इत्यर्थऽ
SK
सुलभैऽ प्रतिहेत्वादिदौषैर्भ्राम्यन्ति ते चिरम् / तेष्वागमविरुद्धत्वं स्वयं चेष्टविघातिता // Mस्व्_५,४.१६ //
SK
अलौकिकविवादाश्च वर्ज्यास्ते हैतुकैस्ततऽ / निषिद्धत्वेन हिंसानामधर्मत्वं प्रयुज्यते // Mस्व्_५,४.१७ //
SK
तदभावे न तत्सिद्धिर्हिंसात्वादप्रयोजकात् / हेतुद्वयप्रयुक्ते च मिथ्यात्वे सर्वबुद्धिषु // Mस्व्_५,४.१८ //
SK
ज्ञानत्त्वोत्पत्तिमत्त्वादिसाधको / न प्रयोजकऽ / त्रैवर्णिकप्रयुक्ता च यागादेऽ स्वर्गहेतुता // Mस्व्_५,४.१९ //
SK
प्रतिहेत्वादिदोषैर्भ्राम्यन्तीत्युक्तम् तानेव दोषानुपन्यस्यति-तेष्विति / प्रतिहेतुस्तावदस्माभिरुक्त एव / आगमविरोधो ऽप्येवंवादिनामापद्यत एव, आगमैकप्रमाणत्वाद् धर्माधर्मयोऽ / क्वचिदिष्टविघातऽ क्वचिदलौकिकविवाद इति
SK
आगमविरोधोदाहरणं तावदाह- निषिद्धत्वेनेति / इदं चानागतावेक्षणन्यायेन प्रगेवास्माभिर्व्याख्यातमिति
SK
इष्टविरोधोदाहरणमाह-हेतुद्वयेति / बाधकारणदोषाधीनं हि सर्वत्र मिथ्याबुद्धीनां मिथ्यात्वम्, न च ज्ञानत्वेनोत्पत्तित्त्वेन वा प्रयुज्यते, सत्यमिथ्यात्वसाधारणत्वादनयोऽ / ज्ञानत्वादेव तन्मिथ्यात्वं साधयतो बौद्धस्येष्टविघातकारी हेतुऽ, धर्मधर्मिस्वरूपस्वविशेषयोरपि प्रतिक्षेपात् / सर्वलोकप्रसिद्धपृथिव्याद्यपलापाच्चालोकिकविवादो ऽप्यत्रैव दर्शयितव्यऽ, न हि सर्वविज्ञानानि मिथ्येत्येवंविधं विवादं लोकिकाऽ सहन्ते / सहसैव ह्येवंविधविवादश्राविणामुद्वेगो जायते / यथा--- अचन्द्रऽ शशीत्यादौ / अतो ऽयमलोकिको विवादऽ / तथा चोक्तम्--- ᳚सर्वलोकप्रसिद्ध्या च पक्षबाधो ऽत्र ते ध्रुवम्᳚ इति
SK
अपरमप्यागमविरोधस्योदाहरणं दर्शयति-त्रैवर्णकेति / सन्ति खलु स्वर्गकामो यजेतेत्येवं विहितानि सोमादीनि कर्माणि / तेषु किं
SK
न मनुष्यत्वमात्रेण शूद्रस्थेन प्रयुज्यते / कृतसायवयवत्वादिप्रयुक्ता च विनाशिता // Mस्व्_५,४.२० //
SK
प्रयत्नानन्तरज्ञानसदृशैर्न प्रयुज्यते /
SK
चतुर्णां वर्णानामधिकारऽ, उतापशूद्राणां त्रयाणामिति संशये चतुर्णामिति प्राप्तम्, चत्वारो ऽपि हि वर्णाऽ स्वर्गं कामयन्तर इति स्वर्गकामपदेनाभिधीयन्ते / स्वर्गकामश्चात्राधिकारितया ज्ञायत इति प्राप्ते उक्तम्-- अपशूद्राणामधिकार इति / विद्याग्निसाध्या हि ते क्रतवऽ / अनग्निरविद्वांश्चान्तिमो वर्णऽ / कथमसौ वैतानिके कर्मण्यधिक्रियते / ननु श्रुत्यर्थावगताधिकारसामर्थ्यादेव शूद्रस्याग्निविद्ययोरक्षेपो भविष्यति / न / अविधानात् / त्रैवर्णकस्यैव ऽअष्टवर्षं ब्राह्मणमवुपनयीतऽ ऽवसन्ते ब्राह्मणो ऽग्नीनादधीतऽ इत्येवमादिभिरग्निविद्ये विहिते / न चानियमेनैव ते शूद्रस्यापि भविष्यतऽ इति शक्यते वक्तुम् / को हि प्रतिलब्धविद्याग्निसम्बन्धस्त्रैवर्णिकाधिकारसम्पादितासु कामश्रुतिषु नियतकालयोवस्थमुपनयनमाधानं वा जघन्यवर्णस्योपकल्पयितुमुत्सहते / अतस्त्रैवर्णिकत्वप्रयुक्तमेव यागादीनां स्वर्गहेतुत्वम् / न मनुष्यत्वमात्रेण शूद्रमवायिना प्रयुज्यते / तद् यदि कश्चदनुमानकुशलऽ प्रयुङ्क्ते शूद्रकृतो यागऽ स्वर्गहेतुऽ मनुष्यकृतत्वात् त्रैवर्णिकाचरितयागवदिति / तस्यागमविरोधऽ / नन्वागमविरोध उदाहृत एव, किं पुनस्तदुदाहरणेन / उच्यते / पूर्वमधर्मत्वानुमानस्य वैदिकहिंसाविषयस्य साक्षादागमविरोधो वर्णितऽ, व्यक्तमेव दैक्षपशुहिंसा विधीयमानत्वाद् अर्थसाधनमित्येतदवगम्यते, कथमसावधर्मो भविष्यतीति, चोदनालक्षणस्यार्थस्य धर्मत्वात् / इह तु शूद्रकृतस्य यागादेऽ स्वर्गहेतुता न साक्षादागमेन प्रतिक्षिप्यते / किन्तु त्रैवर्णिकाधिकारलाभादर्थादितरनिरास इति विशेषऽ
SK
अप्रयोजकोदाहरणच्छलेनेदानीं परोपालम्भानार्थमुदाहरणान्तराणि दर्शयति---कृतेतिद्वयेन / प्रयत्नानन्तरज्ञानसदृशाऽ प्रत्ययानवस्थानादयो ऽभिमताऽ तैऽ शब्दगोचरैस्तस्य विनाशिता न प्रयुज्यते / कृतकत्वादिप्रयुक्ता ह्यसौ / न च कृतकत्वमेव प्रयत्नानन्तरदर्शनेन साधयितुं शक्यम् / आकाशादिभिर्व्यभिचारात् / यदि तर्हि सावयवत्वप्रयुक्ता विनाशिता,
SK
जातिमत्त्वेन्द्रियत्वादि वस्तुसन्मात्रबन्धनम् // Mस्व्_५,४.२१ //
SK
शब्दानित्यत्वसिद्ध्यर्थं को वदेद् यो न तार्किकऽ / तस्माद् य एव यस्यार्थो दृष्टऽ साधनशक्तितऽ // Mस्व्_५,४.२२ //
SK
स एव गमकस्तस्य न प्रसङ्गान्वितो ऽपि यऽ / उपात्तश्चैकदेशाभ्यां धर्म्यप्यत्रैकदेशवान् // Mस्व्_५,४.२३ //
SK
किमिदानीं नश्वराणि भुवनानि भुवनसन्निवेशाश्च महीमहीधरोदधिप्रभृतयऽ / सत्यम् / सर्वमेव सावयवं विनाशधर्मकम्, महीमहीधरादयो ऽपि समासादितस्वावयवसंयोगाविभागाविशेषा भागशो नश्यन्त्येव / निरन्वयं तु विनाशं न कस्यचिदभ्युपगच्छामऽ / एवं महाभूमेरप्यावापोद्वापभेदान्नाशो दर्शयितव्यऽ / तथा यदपि वैशेषिकैर्जातिमत्त्वादैन्द्रियकत्वाच्च शब्दानित्यत्वमनुमितं, तदप्ययुक्तम् / एतद्धि जातिमत्त्वादि वस्तुसन्मात्रनिबन्धनमेव नित्यानित्यसाधारणम्, नानेनानित्यता साध्यते / किमिदं वस्तुसन्मात्रनिबन्धनमिति, परमार्थसन्निबन्धनमित्युक्तं भवति / परमार्थसन्त एव घटाकाशात्मादय इन्द्रियविषया जातिमन्तश्च, न भ्रान्तिसंविदिताऽ शशविषाणादय इवेति
SK
एवमप्रयोजकस्यासाधकत्वमुक्तमुपसंहरति---तस्मादिति / अयमर्थऽ--- य एव निषिद्धत्वादिरर्थो यस्याधर्मत्वदेऽ साधनशक्तियुक्तत्वेनावगतऽ / अस्मिन् सत्यमुना भवितव्यमितीदृश्या शक्त्यावधार्यत इति यावत् / नियम्यशक्तिरेव हि साधनशक्तिरित्याख्यायते, नियतावगतो हि नियामकं शन्कोति (गमयितुं) नान्य इति, (स) नियम्य एव गमको न प्रसङ्गान्वितो हिंसात्वादिऽ / निषिद्धत्वेनान्वेतुमभिप्रवृत्तेनाधर्मत्वेन प्रसङ्गाद्धि हिंसात्वमप्यन्वितमिति प्रसङ्गान्वितं हिंसात्वं नाधर्मत्वस्य गमकं भवतीति
SK
एवं तावत् सर्वप्रकारो ऽनुमानाङ्गभूतऽ सम्बन्धपदार्थो व्याख्यातऽ / इदानीमेकदेशदर्शनादेकदेशान्तरे बुद्धिरिति व्याख्येयम् / तत्र चैतदेव तावद् वक्तव्यम् / स्वतन्त्रैकदेशदर्शनात्तथावैधेकदेशान्तरे ज्ञानमनुमानमित्यापद्येति / तच्चयुक्तम् / स्मरणं हि तत्, कथमनुमानं भवेत् / अथैक
SK
अपरार्थे हि धूमादेऽ स्वरूपैर्नैकदेशता / स एव चोभयात्मायं गम्यो गमक एव वा // Mस्व्_५,४.२४ //
SK
देशदर्शनादेकदेशान्तरविशिष्ट एकदेश्यनुमानस्य विषय इष्यते / तन्न / अनुपात्त्तत्वात् / न ह्यत्रैकदेशी केनचिच्छब्देनोपात्तऽ / अतस्तदनुपादानान्न्यूनं लक्षणमित्याशङ्क्याह---उपात्तैति / यद्यपि स्वशब्देन नैकदेश्युपात्तस्तथाप्येकदेशशब्दाभ्यामेवार्थादाक्षिप्यत इति न न्यूनत्वदोष इति
SK
अर्थाक्षेपे कारणमाह---अपरार्थैति / न हि धूमादिस्वरूपमात्रपरार्थीभूतमेकदेशपदास्पदं भवति / न च परस्परापेक्षयैकदेशवाचोयुक्तिरुपपद्यते / न ह्यग्न्यैकदेशो धूम इति कस्यचित् प्रतिपत्तिरस्ति / न चागृहीते ऽग्नौ तदेकदेशतया धूमो ऽवगन्तुं शक्यते / गृहीते च तस्मिन्ननुमेयाभावऽ / अत एकदेशत्वानुपपत्त्यैव तदाश्रयऽ कश्चिदेकदेश्यवगम्यत इति सिद्धमिति
SK
नन्वाक्षिप्यतामेकदेशशब्दाभ्यामेकदेशी / तदेकत्वं तु कुतो ऽवगम्यते / अतऽ क्वचिदेव् धूमं दृष्ट्वा क्वचिदेकदेश्यन्तरे ऽनुमानं न स्यात् / ऐकाधिकरण्यं त्वेकदेशयोर्न सिध्यति, अनुपादानादित्यत आह--स एवेति / पूर्वप्रकृतमेकदेशवानिति विवक्षितैकसङ्ख्यमेकदेशिनं प्रत्यवमृशति स एवेति / स खल्वेक एवैकदेशी गम्यगमकरूपऽ उभयात्मकत्वात् / तस्य हि तौ नाम वक्ष्यमाणात्मानौ स्तऽ, यद्द्विरूपत्वमर्हति / नन्वेकत्वं नैकदेशिनौऽनुपात्तं लभ्यत इत्युक्तम् / न / ज्ञातसम्बन्धस्येत्येकवचनेनैवोपादानात् / एकदेशिनि ह्यन्यपदार्(थैकस्यैर्?थे ए) कत्वमेकवचनेनोपात्तं , प्रमातृपक्षे ऽपि पब्रथमोच्चरितेनैकदेशशब्देन स्वाश्रय एकदेशिन्याक्षिप्ते द्वितीयापेक्षाक्षणे ऽपि स एव बुद्धौ विपरिवर्तमानस्तदाश्रयत्वेनावगम्यते नान्यऽ / तत्परित्यागे कारणाभावात्, तथा व्युत्पत्तिदर्शनाच्च / यथा देवदत्तस्यैककत्र करे कङ्कणमङ्गुलीयकं करान्तर इति न भिन्नऽ कराश्रहयो ऽवगम्यते / अपि तर्हि देवदत्त एक एव / अतऽ सिद्धमेक एवैकदेशी गम्यगमकरूप इति
SK
असिद्धेनैकदेशेन गम्यऽ सिद्धेन बोधकऽ / आत्तऽ पृथगभिन्नो वा प्रयोक्तॄणां विवक्षया // Mस्व्_५,४.२५ //
SK
अनित्य कृतको यस्माद् धूमवानग्निमानिति / धर्म्यभिन्नमुपादानं भेदो ऽत्राग्निरितीदृशऽ१ // Mस्व्_५,४.२६ //
SK
उभयात्मा सन् गम्यगमक इत्युक्तम् / तावेवोभयात्मानौ दर्शयति--असिद्धेनेति / यदि ह्यसावेकदेश्यसिद्ध एव स्यात सिद्धो वा, तदा न द्विरूपतां लभते / स तु धूमवदादिना रूपेण प्रत्यक्षसिद्धो ऽग्निमदादिना चासिद्ध इति द्व्यात्मकत्वादुभयोपपत्तिरिति / आह--- अस्त्वर्थादुपात्त एकदेशी / स चैको गम्यो गमक इति / स तु कथं प्रमातृभिरूपादातव्य इति / न च तदुपादानप्रकारऽ कश्चिद्भाष्यकारेणोपात्तऽ / अतऽ पुनरपि न्यूनत्वमित्यत आह--- आत्त इति / तत्र नाम विशेषोपादानमाश्रीयते, यत्र विशेषविवक्ष / नत्विह विशेषो विवक्षितऽ / स ह्येकदेशीप्रमातृविवक्षावशेन पृथगभिन्नो वैकदेशशब्दाभ्यामुपात्तो भवतु / उभयाथानुमानव्यवहारदर्शनादिति
SK
तमेवोभयथा व्यवहारं दर्शयति---अनित्यैति / निगदव्यख्यातो ग्रन्थऽ
SK
एकदेशी गम्यो गमको भेदाभेदाभ्यामुपात्तो इति दर्शितम् / कियति पुनरनुमानस्य व्यापार इति भवति संशयऽ / भवति हि विशिष्टार्थप्रतीतावपि विशेषणमात्रपर्यवसायि प्रमाणम् / यथा शब्दऽ / स खल्वाकृतिविशिष्टायां व्यक्तौ धियमादधाति, अथ चान्वयव्यतिरेकाभ्यामाकृतिमात्रपर्यवसायीति निश्चीयते / तदिहापि यदि तद्वदेव विशेषणमात्रपर्यवसायि प्रमाणमिष्यते, ततऽ सिद्धसाध्यत्वम् / सिद्धं हि सम्बन्धज्ञानकाले ऽग्निमात्रम् / किं तदनुमानेन / यदि तु द्विखण्डदण्ड्यादिशब्दवद्विशिष्टमेवानुमानं गोचरयतीतीष्यते / तत्र सम्बन्धग्रहणाभावाद(न)नुमेयत्वम् / न ह्यग्निमद्विशेषेण पर्वादिनान्वितो धूमो दृष्टऽ / न च समस्ताग्निमत्साधारणं
SK
एकदेशविशिष्टश्च धर्म्येवात्रानुमीयते / नहि तन्निरपेक्षत्वे सम्भवत्यनुमेयता // Mस्व्_५,४.२७ //
SK
न धर्ममात्रं सिद्धत्वात् तथा धर्मी तथोभयम् / व्यस्तं वापि समस्तं वा स्वातन्त्र्येणानुमीयते // Mस्व्_५,४.२८ //
SK
एकदेशस्य लिङ्गत्वं साध्येनानुगमो ऽस्य च / द्वयं च न स्यादिष्टं सत् पक्षेष्वेषु यथाक्रमम् // Mस्व्_५,४.२९ //
SK
सामान्यं किञ्चित्समस्ति / तभ्दावे ऽपि पुनरपि सिद्धसाध्यतैव / अत एवाहुऽ- ᳚अनुमामङ्गपङ्के ऽस्मिन् निमग्ना वादिदन्तिनऽ / विशेषे ऽनुगमाभावऽ सामान्ये सिद्धसाध्यता᳚||
SK
इत्यत आह--एकदेशेति / अयमभिप्रायऽ--- दण्ड्यदिशब्दवद् विशिष्टविषयमेवानुमानम् / न च सम्बन्धग्रहणाभावऽ / सकलोपाधिपरत्यागेन धूमवन्मात्रस्याग्निमत्तया सम्बन्धावगमादित्युक्तमस्माभिऽ / असत्यपि सामान्ये केनचिदेकेनोपाधिनानन्तानामपि भावानां सम्बन्धो गृह्यत एव / यद्यपि भूमवानग्निमानिति सामान्यतो ऽवगतम्, तथाप्ययमसाविति विशेषरूपेण प्रत्यभिज्ञानात्प्रमाणविषयत्वमप्युपपन्नमित्युक्तमेवेति / कस्मात् पुनर्विशेषणमात्रपर्यवसाय्येव प्रमाणं नेष्यते, अत आह--- नहीति
SK
असम्भवमेव दर्शयति----न धर्मेति / धर्ममात्रं हि सम्बन्धग्रहणकाले सिद्धमिति भवतैवोक्तमिति / एवमेव धर्मिमात्रानुमाने स्वतन्त्रोभयानुमाने वा सिद्धसाध्यता दर्शयितव्येत्याह--- तथेति
SK
धर्मधर्म्युभयेष्वेवानुमेयेषु यथासङ्ख्यं दूषणान्तराण्याह---एकदेशस्येति
SK
अनित्यत्वादयो धर्माऽ कृतकत्वादयो नहि / ध्वनिनानुगमो नैषां नोभयस्योभयेनि वा // Mस्व्_५,४.३० //
SK
सम्बन्धो ऽप्यनुपादानान्नाम्ना षष्ठ्यपि वा मितौ / न चाप्यनुगमस्तेन लिङ्गस्येह निदर्श्यते // Mस्व्_५,४.३१ //
SK
एतदेव विवृणोति---अनित्यत्वादयैति / पक्षैकदेशो हि लिङ्गं भवति / न चानित्यत्वाख्यस्य धर्मस्य स्वतन्त्रपक्षीकृतस्य कृतकत्वं धर्म इति कथमपक्षधर्मो लिङ्गं भविष्यति / एवं ध्वनिमात्रे ऽपि स्वतन्त्रे कृतकत्वं तत्र तत्र ध्वनिरिति नियमऽ सम्भवति / तथोभयस्य ध्वन्यनितयत्वात्मकस्योभयेन पक्षधर्मत्वानुगमात्मकेन न सम्बन्ध इत्यनागतं सम्बन्धशब्दं पूर्वापराभ्यां सम्बन्ध्य तन्त्रेण व्याख्या कर्तव्येति / समधिगतं तावद् धर्मधर्म्युभयेषां व्यस्तसमस्तानां न साध्यत्वमिति
SK
अथ कस्माद् धर्मधर्मिसम्बन्ध एव साध्यो न भवतीत्यत आह--सम्बन्धैति / मितावति साधनवाक्यमपदिशति / न खलु परीक्षकऽ साधनवाक्ये सम्नब्धवाचिना केनचिन्नाम्ना षष्ठ्या वा सम्बन्ध उपादीयते / न ह्येवं प्रयुज्यते, अग्निपर्वतयोरस्ति सम्बन्धऽ धूमवत्त्वादिति / नापि पर्वतस्याग्निरिति / देशमेव त्वग्न्यादिना विशिष्टमनुमिमाना दृश्यन्ते / यदेवं प्रयञ्जते, अग्निमान् पर्वत इति / सम्बन्धो ऽपि नानुमीयत इत्यतीतेन सम्बन्ध इति / न परं प्रतिज्ञायां नोपादीयते, उदाहरणे ऽपि न तेनानुगमो लिङ्गस्य निर्दिश्यते / नहि भवति दर्शनं, यत्र यत्र धूमस्तत्र तत्राग्निसम्बन्ध इति / भवति तु यो यो धूमवान् स सो ऽग्निमानिति देश एव निदर्शनं, तदेतदाह---न चापीति / इहेति मितिं प्रत्यवमृशति / एतदुक्तं भवति-- न साधनवाक्ये सम्बन्धऽ साध्यतयोपादीयते नापि दृष्टान्ततया दिर्दिश्यते न चायथाप्रतिभासं परीक्षकाणां वक्तुमुचितमिति
SK
न चाकारद्वयं तस्य साध्यसाधनभाग् भवेत् / तस्मादर्थगृहीतत्वान्मतुबर्थस्य गम्यता // Mस्व्_५,४.३२ //
SK
न स्वातन्त्र्येण मन्तव्या यथा दण्ड्यादिशब्दतऽ / विशिष्टार्थप्रतीतौ स्यात् सम्बन्धोनान्तरीयकऽ // Mस्व्_५,४.३३ //
SK
अपि चायं सम्बन्धऽ साध्यमानऽ सन्मात्रतया वा साध्यते, केनचिद् वा धर्मेण विशिष्टऽ / न तावद् वस्तुसत्तामात्रमनुमानस्य विषयऽ / न च पर्वतादिवत्सिद्धसाध्यरूपमाकारद्वयं सम्बन्धो वहति, येनानुमानस्य विषयो भवेत् / तस्मान्न कथञ्चित् सम्बन्धऽ साध्य इत्याह---नचेति / कनन्वसति सम्बन्धे विशिष्ट एव साधयितुं न शक्यते / नास्ति नाम स प्रकारऽ, यदसम्बन्ध्यमान एवाग्निना पर्वतस्तद्विशिष्टो भवतीत्यत आह---- तस्मादिति व्यान्तेन / न(नु) सत्यमसति सम्बन्धे विशिष्टो न भवति, न त्वेतावता सम्बन्धसाध्यता सिध्यति, विशिष्टसाध्यत्वान्यथानुपपत्त्यैव त्वर्थगृहीता मतुबर्थस्य सम्बन्धस्य साध्यता न पुनऽ स्वतन्त्रस्येति / अत्रैव दृष्टान्तमाह---यथेति / दण्ड्यादिशब्दा हि दण्डादिविशिष्टमेवाभिदधानाऽ सम्बन्धमप्यर्थादुपाददते, नत्वभिदधति / तद्वदिहापि पर्वतो ऽग्निमानिति साध्यमानेर्ऽथगृहीतो ऽग्निसम्बन्धऽ, न पुनऽ स एव साध्यते / यथा दण्ड्यादिशब्दतो विशिष्टार्थप्रतीतौ सत्यां सम्बन्धो नान्तरीयको भवति, एवमत्रापि विशिष्टे साध्यमाने ऽनुनिष्पादी भवतीत्यर्थऽ / इदं तु चिन्तनीयम् / कथं दण्ड्यादिशब्दा विशिष्टवचना इति / मत्वर्थीयप्रत्ययान्ता हिते / स चास्यास्मिन्नस्तीति सम्बन्धे स्मर्यते, अतऽ सम्बन्ध एवात्र प्रत्ययार्थऽ / स च प्रधानऽ / ऽप्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतऽ प्राधान्येनऽ इति स्मृतेऽ / इदं हि भेदेनैवोभयरभिधाने प्राधान्यप्रतिपादनार्थं वचनम् / प्रधानं च शब्दार्थऽ / अतऽ सम्बन्धवचना एव दण्ड्यादिशब्दा इति युक्तम् / अपि च ऽनागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यतऽ इति विशिष्टाभिधित्सायामवश्यम्भावि प्रथमतरं विशेषणाभिधानमापतति तत एव विशिष्टावगाहसिद्धेर्न तद्यावच्छब्दस्याभिधानशक्तिरुपकल्पयितुं शक्यते / अत एवाकृतिविशिष्टव्यक्त्यभिधानमाकृत्यधिकरणे निराकरिष्यते / किञ्च--- ऽकृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम्ऽ इति स्मरति / कथं च ताभ्यां तद्धितवृत्तौ सम्बन्धो ऽभिधीयते / यदि तद्धिताभिधेयो न स्यात् / अभिधेयनिष्कर्षे हि तयोऽ स्मरणं, ऽयस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशेऽ, तदभिधाने त्वतलाविऽति / तद् यदि दण्डपुरुषसम्बन्धो दण्डिशब्दस्याभिधेयऽ, तथा सति तन्निष्कर्षे दण्डित्वं दण्डितेति त्वतलोरनुशासनमुपपद्यते / यथा गोशब्दाभिधेयं सामान्यं गोत्वमिति त्वप्रत्ययेन निष्कृष्यते / अतऽ सम्बन्ध एव दण्ड्यादिशब्दानामभिधेय इति साम्प्रतं कथमुच्यते नान्तरीयकऽ सम्बन्ध इति / अत्राभिधीयते--- न तावत् स्मृत्यनुसारेण सम्बन्धवाच्यत्वमध्यवसातुं शक्यते / शब्दानुशासनमात्रं हि ऽतदस्यास्त्यस्मिन्नि(५-२-९४)ति, न पुनरर्थानुशासनम् / अपि च वृत्तिविग्रहयोरन्यथान्यथा गुणप्रधानभावो दृश्यते / यथा चित्रगुरिति चित्राभिर्गोभिर्विशिष्टो देवदत्तादिरेव वृत्तौ प्रधानतयावगम्यते / विग्रहे तु चित्रा गावो यस्येति गवामेव देवदत्तादिर्विशेषणतया गुणभूतऽ / ताश्च प्रधानम् / वेदे ऽपि ऽरथन्तरसामा सोमऽ इति / तद् यद्यपि स्मृतिकारेण त(द्द)स्येति विग्रहे सम्बन्धऽ प्रधानतया षष्ठ्या निर्दिष्टऽ, तथापि गोमदादितद्धितवृत्तौ तद्वानेव प्रधानं भवति, तथा प्रतीतेऽ / गोमच्छब्दो हि पुरुषप्रधानो भासते न सम्बन्धप्रधानऽ / पाणिनेरपि भगवतऽ सम्बन्धाभिधानद्वारेण विशिष्टवाच्यतैव प्रतिपादयितुमभिमता / वृत्तौ विगृह्यमाणायामवर्जनीय एव षष्ठीप्रयोगऽ / तावता च तदर्थऽ प्रधानतया वाच्यत्वेन निर्दिष्ट इति भ्रान्तिरुपजायते / अतो न तावत् स्मृत्यनुसारेण सम्बन्धस्य वाच्यता / यत्तु प्रथमतरं विशेषणमभिधेयमिति / सत्यम् / न त्विह सम्बन्धो विशेषणम् / दण्डो हि दण्डिनो विशेषणं न सम्बन्धऽ / स च प्रकृत्या प्रथममभिहित एव / अत एव नानेकाभिधानशक्तिकल्पनादोषऽ / निर्भागशब्देषु हि गवादिषु विशिष्टप्रतीतावपि विशेषणमात्रमभिधीयत इति युक्तम् / तत्र ह्येकस्यैवोभयाभिधानशक्तिकल्पनादोषो भवति / दण्ड्यादिशब्दास्तु भागवन्तऽ / तेषु भिन्नाभ्यां प्रकृतिप्रत्ययाभ्यां भिन्नौ विशेषण
SK
विशेषणविशेष्यत्वमापन्नौ द्वाविमावतऽ / गम्यावङ्गाङ्गिभावस्तु कैश्चिदिष्टो विकल्पतऽ // Mस्व्_५,४.३४ //
SK
सर्वथा धर्मिणो धर्मो धर्मेण त्ववगम्यते / विशेषणविशेष्यत्वे न विशेषो ऽवधार्यते // Mस्व्_५,४.३५ //
SK
विशेष्यावभिधीयते इति किमनुपपन्नम् / अतऽ प्रकृत्यभिहितप्रथमतरावगतदण्डविशिष्टऽ पुरुषो दण्डिशब्देनाभिधीयते / नन्वसति सम्बन्धे दण्डोविशेष्टुमेव नरं न शक्नोति / सत्यम् / न त्वेतावता सम्बन्धो वाच्यो भवति / न हि पृथिव्यामनवस्थिता गावो न तद्वन्तं विशिषन्तीति पृथिव्यप्यभिधीयत इति युक्तमभिधातुम् / यत एव त्वसति सम्बन्धे विशिष्टावगतिरनपपन्ना, अत एव सम्बन्धो ऽप्यर्थादन्तर्भाव्यते / न त्वभिधीयते / यत्तु सम्बन्धाभिधाने त्वतलोरनुशासनमसति सम्बन्धवाच्यत्वे ऽनुपपन्नमिति, तदयुक्तम् / न ह्यभिधेयनिष्कर्षे गोमदादिषु भावप्रत्ययानुशासनम्, अपि तर्हि अभिधेयनिष्कर्षे हि ऽयस्य गुणस्य हि भावादिऽति त्वभिधेयानिष्कर्षार्थमेव स्मरणम् / इतरथा त्वनेनैव गतार्थत्वात् कृत्तद्धितसमासेष्वत्यवचनीयमापद्येत / अतऽ प्राक् प्रतीते एकनिमित्तसम्बन्धिविशिष्टे ऽपरस्मिन् सम्बन्धिन्यभिहितेर्ऽथगृहीतऽ सम्बन्धो नाभिधेयपक्षे निक्षिप्यते / सर्वयौगिकानामपि चैषैव दिग् दर्शयितव्या / आह च-- सर्वत्र यौगिकैऽ शब्दैर्द्रव्यमेवाभिधीयते / न हि सम्बन्धवाच्यत्वं सम्भवत्यतिगौरवात्||
SK
इति / अतो ऽनुमेयान्तरासम्भवाद् विशेषणविशेष्यभूतौ धर्मधर्मिणावेवानुमानसमधिगम्याविति ||३२-३३||
SK
उपसंहरति---- विशेषणेति गम्यावित्यन्तेन / स चायमङ्गाङ्गिभावऽ कैश्चिद् विकल्पेनाश्रितऽ / एवं हि मन्यन्ते / सर्वथा हि धर्ममात्रे धर्मणि वा स्वतन्त्रे प्रमीयमाणे सिद्धसाध्यतादिदोषो भवति कन विशिष्टप्रमायाम् / विशिष्टता तु कदाचित् कस्यचिद् यथाभिप्रायं भवतु नाम, न किञ्चिद् दुष्यति / सर्वथा तावत् धर्मिण एव पर्वतादेरग्न्यादिधर्मस्तद्धर्मेणैव धूमादिनावगन्तव्यऽ / स तु धर्मो विशेषणभूतो विशेष्यभूतो
SK
अत्रोत्तरं वदन्त्यन्ये यदि धर्मी विशेषणम् / हेतुधर्मेण सम्बन्धस्तस्याप्राधान्यतो ऽस्फुटऽ१ // Mस्व्_५,४.३६ //
SK
प्रधानत्वाद्धि धर्मेण सम्बन्धो वाक्यतो भवेत् / तत्रासम्भवतऽ पश्चात् कल्प्यो ऽसौ धर्मिणा सह // Mस्व्_५,४.३७ //
SK
वावगन्तव्य इति न कश्चिद् विशेषऽ / उभयथापि स्वतन्त्रानुमानाभावादित्याह--- अङ्गेत्यवधार्यते ऽन्तेन ||३४-३५||
SK
अत्र दूषणमाह---अत्रेति / अयमभिप्रायऽ--- लौकिकानि हि प्रमाणानि लक्षणकारैरपि यथालोकमेवानुगन्तव्यानि / न तु विपरीतम् / नह्यग्निऽ पर्वतविशिष्ट इति लोको बुध्यते / अपि तु पर्वतो ऽग्निमानिति / तथा स्वयमनुमानेन प्रतिपन्निमर्थं तेनैव परं प्रतिपादयन्तो लौकिका धर्मणा विशिष्टमेव हेतुं प्रयुञ्जाना दृश्यन्ते, यथाग्नयनुमानि एव धूमवत्त्वादग्निमानिति / तच्चेदमग्नौ देशेन विशिष्टे ऽनुमीयमाने नोपपद्यते / विशेषणतया हि पर्वतविशिष्टो ऽग्निरिति धर्मिण्युपात्ते धूमवत्त्वादिति हेतुधर्मेण तस्य सम्बन्धो न स्फुटं प्रकाशते / धर्मधर्मितयावगतस्य हेतुत्वम् / न च गुणभावोपात्तो धर्मी हेतुधर्मसम्बन्धमर्हति, गुणानां परस्परासम्बनधात् / अतो ऽस्मात् परार्थहेतुप्रयोगविशेषादेव लौकिकानामीदृशी प्रतिपत्तिरुन्नीयते / यत् स्वयमपि धर्मविशिष्टमेव धर्मिणं बुध्यते न विपरीतमिति ||३६ || यदि तर्हि धर्मिणो हेतुधर्मेण सम्बन्धो न स्फुटऽ केन तर्हि प्रसज्यत इत्यत आह--प्रधानत्वदिति / ध्वनिविशिष्टमनित्यत्वं कृतकत्वादित्युच्यमाने ऽनित्यत्वाख्येन धर्मेणैव साध्यतया प्रधानभूतेन कृतकत्वादिहेतुऽ सम्बध्येत न ध्वनिना गुणभूतेन / सर्वस्य ह्येकवाक्यगतस्य प्रधानान्वय एव युक्तऽ / प्रधानसम्बन्धे च हेतोरपक्षधर्मत्वम् / नहि कृतकत्वम
SK
ध्वनेरित्यथवा वाच्यमनवयस्य तु दर्शने / भेदोपात्तस्य धर्मस्य गुणभावो न दुष्यति // Mस्व्_५,४.३८ //
SK
नित्यत्वस्य धर्मऽ, किं तर्हि ध्वनेऽ / अतो धर्म्येव धर्मविशिष्टऽ स्वयं प्रमातृभिरवगम्यते / तथैव परस्मै प्रतिपाद्यत इति युक्तमिति / यदि तूच्यते, सत्यं प्रधानतया धर्मेण हेतोऽ सम्बन्धो वाक्यादवगम्यते, लिङ्गबलीयस्त्वेन तु वाक्यं बाधित्वा धर्मिणैव सम्बन्धऽ कल्पयिष्यते / हेतुधर्मस्य हि धर्मिणैव सम्बन्धयोग्यता न धर्मेण, अतो धर्मसम्बन्धाभावाद् धर्मिणैव सम्बन्धो भविष्यतीत्यत आह--- तत्रेति / अयमभिप्रायऽ-- सत्यमेवं धर्मणा सम्बन्धऽ सिध्यति / किं त्वयमेव क्लेशो यद्वाक्यस्वरसभङ्गो नाम / अत एवाह-- कल्प्यो ऽसाविति / अन्यथाप्रतिपन्नस्यान्यथाकल्पनैव दोष इति कभावऽ
SK
ध्वनेऽ कृतकत्वादिति वा पुनर्धर्म्युपादानेन हेतुर्विशेषणीयऽ, न चैवं प्रयोक्तारऽ प्रयुञ्जाना दृश्यन्त इत्यभिप्रायेणाह---ध्वनेरिति / यस्तु वदति धर्मिण्यपि विशेष्टे साध्ये ऽन्वयोपदर्शनवेलायां यत्र यत्र कृतकत्वमित्युक्ते ध्वनिरेव प्रधानतया सम्बध्येत नानित्यत्वं गुणभूतत्वादितितं प्रत्याह---अन्वयस्येति / अन्वयोपदर्शनकाले हि भेदेनैव धर्ममुपाददते / यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वमिति न तत्र प्रधानसम्बन्धाशङ्का / अतऽ प्रतिज्ञावस्थायां धर्मविशिष्टे धर्मिणि साध्यमाने योगुणभाव आसीत् नासौ दृष्टान्तवाक्ये दुष्यति / हेतुस्त्वविशिष्ट एव तार्किकैऽ प्रयुज्यत इत्युक्तम् / तत्राविशेषित एव प्रयुक्ते भवति प्रधानभूतधर्मसम्बन्धाशङ्केति / यस्तु वदति षष्ठ्यन्तेन ध्वनिनानित्यत्वं विशेष्यते ध्वनेरनित्यत्वमिति / एवं च कृतकत्वादित्यस्याविपरिणतविभक्तिकेन ध्वनिनैव सम्बन्धऽ स्फुटो भवति / धर्मसम्बन्ध एव यथावद् विभक्तिविपरिणामेन स्यात् / स चान्याय्य इति स वक्तव्यऽ / निराकृतो ऽयं पक्षो वार्तिककृतैव--- ᳚सम्बन्धो ऽप्यनुपादानान्नाम्ना षष्ठ्यपि वा मितौ᳚ इति / षष्ठीनिर्देशे हि सम्बन्ध एव साध्यो भवेत् / तस्य च साध्यता निराकृतैव / विशिष्टसाध्यपक्ष एव स्थित्वा धर्मिविशिष्टता धर्मस्येदानीं
SK
अग्नेर्देशविशिष्टत्वे न चैतत् पक्षलक्षणम् / विशिष्टतास्य देशेन भवेदेवंप्रकारिका // Mस्व्_५,४.३९ //
SK
यो ऽग्निऽ सो ऽस्ति क्वचिद्देशे यो दृष्टो यत्र तत्र वा / अग्निऽ पूर्वानुभूतो वा देशमात्रेण सङ्गतऽ // Mस्व्_५,४.४० //
SK
यो ऽग्निऽ सो ऽनेन युक्तो वा यो दृष्टो ऽनेन सो ऽथवा / यो ऽयं स देशमात्रेण युक्तऽ पूर्वेण वाप्ययम् // Mस्व्_५,४.४१ //
SK
एतददेशविशिष्टो वा यो ऽयमग्निरितीह तु / पूर्वयोऽ सिद्धसाध्यत्वं परेषु स्याद् विरुद्धता // Mस्व्_५,४.४२ //
SK
व्याप्तिरेतेन देशेन सर्वाग्नीनां न युज्यते / नापि पूर्वस्य नाप्येष वह्निऽ सर्वैर्विशेष्यते // Mस्व्_५,४.४३ //
SK
निराक्रियते / किमत्र सम्बन्धसाध्यत्वं पुनरुपक्षिप्यते / तदलमनेन बालभाषितेनेति
SK
अपि च अग्नेर्देशविशिष्टत्वे साध्यमाने वक्ष्यमाणसमस्तपक्षप्रकाराणामसम्भवो ऽपीत्याह---अग्नेरिति / दूषणान्तरसमुञ्चये चकारऽ / एतदिति वक्ष्यमाणलक्षणप्रतिनिर्देश इति / तानेव पक्षप्रकारान् वक्तुं संक्षिप्य प्रतिजानीते
SK
इदानीं विभज्य तानेव दर्शयति---यो ऽग्निरितीतीत्यन्तेन / निगदव्याख्यातो ग्रन्थऽ / विवेकस्तु पक्षाणां प्रणिहितैरवगम्यत इति / इहचाद्ययोर्द्वयोऽ पक्षयोऽ सिद्धसाध्यता दोषऽ / सिद्धो हि क्वचिदग्निऽ, दृष्टपूर्वो ऽपि पूर्वदेशाधिकरणऽ सिद्ध एव किं तत् प्र(सा)धानेन / परेषु तु पञ्चसु पक्षेषु प्रमाणान्तरविरोध इत्याह--- इह त्विति / सिद्धसाध्यता सुप्रकाशैव ||४०-४२||
SK
विरोधं प्रपञ्चयति--- व्याप्तिरित / यत्तावत् यो ऽग्निऽ सो ऽनेन युक्त इत्युक्तं तदयुक्तम् / नह्यनेन देशेन सर्वाग्नयो व्याप्यन्ते देशस्यावैभवात् सर्वाग्नीनां चात्रासन्निधानात्, तद्भावो ह्यत्राभावेन विरुध्यत इति
SK
देशैऽ पूर्वेण वाप्यस्य न देशेन विशेष्यता / एतददेशविशिष्टो ऽयमित्येतत् कथ्यते कथम् // Mस्व्_५,४.४४ //
SK
यदा देशानपेक्षो ऽग्निर्नायमित्यवधार्यते / अग्नेऽ पूर्वतरं चात्र देश एवावधार्यते // Mस्व्_५,४.४५ //
SK
तज्ज्ञानकालबुद्धश्च न देशऽ स्याद् विशेषणम् / देशस्य पर्वतादेस्तु स्वरुपे पावकादृते // Mस्व्_५,४.४६ //
SK
यो दृष्टो ऽनेन सो ऽथवेति यदुक्तं दूषयति---नापि पूर्वस्येति / दृष्टस्याप्यग्नेरनेन देशेन व्याप्तिर्न विद्यत इत्यर्थऽ / यो ऽयंस देशमात्रेणेत्यत्र दूषणमाह---नापीति देशैरन्तेन / न ह्येष पुरऽस्थितो वह्निऽ सर्वैर्देशैर्विशेष्यते सर्वत्र तस्याभावादिति / पूर्वेण वाप्ययमित्यत्र विरोधमाह-- पूर्वेणेति / पूर्वेण देशेनास्याग्नेर्विशेष्यता नास्त्येव, पूर्वदेशस्यात्राभावात्, अस्य च तत्र / पूर्वानुभूतस्य त्वग्नेर्देशमात्रेण सम्बन्धऽ पुरऽस्थितवह्नेऽ सर्वदेशसम्बन्धनिराकरणेनैव तुल्यन्यायतया निराकृत इति न पृथगुपन्यस्य दूषित इति
SK
एवं सप्तसु पक्षेषु निराकृतेष्वष्टमऽ पक्षो ऽवशिष्यते एतद्देशविशिष्टो वा यो ऽयमग्निरिति तन्निराकरोति--- एतदिति / अयं पुरऽस्थितो ऽग्निरनेन देशेन विशिष्टऽ साध्यत इति स वक्तव्यऽ / स्वदेशकालवर्त्येव स्मरणेन विषयीकृतऽ कथमसावनेन देशेन विशेष्टुं शक्यऽ / तदेवंवादिना नापि पूर्वस्येत्यपि नालोचितम् / अनवच्छिन्नस्मृतावपि च धर्मो धर्मिणो विशेषणमिति नेदं युक्तिसाध्यम् / धर्माणां धर्मिविशेषणतयैव सर्वदावगतेरित्यलमनेनेति / देश एव तु पूर्वावगतो विशेष्यतामर्हतीत्यभिप्रायेणाह--- अग्नेरिति ||४४-४५||
SK
यदि चाग्निर्विशेष्यो भवेत् ततस्तस्यैवायमाद्यो ज्ञानकालो भवेत्, प्रसिद्धस्याप्रसिद्धेन विशेषणात् / इह त्वादौ पर्वत एव ज्ञायते / कथमसौ पश्चात् प्रत्येष्यमाणस्याग्नेर्विशेषणं भवतीत्याह---तज्ज्ञानेति / तदवृत्तेनाग्निं निर्दिशति / अग्नेर्ज्ञानकाले हि स एव देशो बुद्धऽ,नाग्निऽ, अतऽ कस्य
SK
गृहीते ऽग्निविशिष्टस्य पुनर्ज्ञानं न दुष्यति / तस्मात् धर्मविशिष्टस्य धर्मिणऽ स्यात् प्रमेयता // Mस्व्_५,४.४७ //
SK
सा देशस्याग्नियुक्तस्य धूमस्यान्यैश्च कल्पिता / ननु शब्दवदेव स्यात् लिङ्गगम्यं विशेषणम् // Mस्व्_५,४.४८ //
SK
नैवं न ह्यत्र लिङ्गस्य शक्त्यनेकत्वकल्पना / न च तस्यानुमेयत्वं विशेष्यश्चावधारितऽ // Mस्व्_५,४.४९ //
SK
देशो विशेषणं भवति / प्रमितं हि वस्त्वप्रमितेन धर्मेण प्रमित्सितं भवति ककीदृग्धर्मो ऽयमिति / तथा चदेश इति स एव प्रमित्स्यते, प्रमीयते च, न पुनरग्निरिति / ननु देशो ऽपि प्रत्यक्षावगत एवेति ककथमसावनुमानस्यविषयो भविष्यतीत्यत आह--- देशस्येति / स्वरूपमात्रमेव हि देशस्य प्रत्यक्षेणावगतम्, अनुमानेन तु पावकादिविशिष्टता तस्यानुमीयत इति न गृहीतग्राहित्वमिति / अतो धर्म्येव धर्मविशिष्टऽ प्रमेयऽ न धर्मो धर्मिविशिष्ट इत्याह---तस्मादिति ||४६-४७||
SK
एवं च देश एवाग्निविशिष्टऽ प्रमेयो ऽवतिष्ठते / स हि धर्मी, तदाश्रयत्वादग्नेऽ / न त्वग्निऽ, अतदाश्रयत्वाद् देशस्येत्याह---सा देशस्येति / अन्ये तु पूर्वावगतधूममप्यग्निविशिष्टमनुमानस्य प्रमेयं मन्यन्ते / तदपि साध्वेवेत्यभिप्रायेणाह---धूमस्यान्यैश्च कल्पितेति / सा प्रमेयतेति सम्बन्धऽ / अत्र चोदयति--- नन्विति / विशिष्टो ऽनुमानस्य विषय इत्युक्तम् / नागृहीतविशेषणन्यायेन लिङ्गमपि शब्दवद् विशेषणमात्रपर्यवसाय्येव युक्तम् / शब्दो हि विशेषणमात्र एव वर्तत इत्याकृत्यधिकरणे वक्ष्यत इति
SK
परिहरति---नैवमिति / कारणमाह---नहीति / अनेकशक्तिकल्पनाभयेन हि शब्दस्य विशेषणमात्रपर्यवसानमिष्टम् / लिङ्गं तु पूर्वावगतप्रतिबन्धवलेन प्रतिबन्धकधियमुपकल्पयति / तद् यावतैव प्रतिबद्धमवगतं धूमवत्त्वं प्रतिबद्धमवगतमित्यग्निमत्त्वमेवानुमापयतीति न कश्चित् दोष इति / न च विशेषणमात्रमनुमेयं सिद्धसाध्यत्वादित्युक्तमित्याभिप्रायेणाह---
SK
विशिष्टत्वेन चाज्ञानात् तन्मात्रस्यानुमेयता / ननु धूमविशेष्यत्वे हेतोऽ पक्षैकदेशता // Mस्व्_५,४.५० //
SK
नैतदस्तिविशेषे हि साध्ये सामान्यहेतुना / धूमतज्ज्ञानसम्बन्धस्मृतिप्रामाण्यकल्पने // Mस्व्_५,४.५१ //
SK
फलेन विषयैकत्वं तद्वयापारात् पुरोदितम् / प्रमेयधीऽ प्रमाणं हि भाष्यकारस्तु मन्यते // Mस्व्_५,४.५२ //
SK
न चेति विशेष्यो ऽपि पर्वातदिस्वरूपेणावधारितऽ सो ऽपि नानुमेय इत्याहविशेष्य इति
SK
अतो विशिष्टत्वेनैव रूपेणाज्ञानात् तस्यैवानुमेयत्वमित्याह---विशिष्टत्वेनेति / अत्र चोदयति--- नन्विति / धूमो ऽप्यग्निविशिष्टो ऽनुमीयत इत्युक्तं, तदयुक्तम् / प्रतिज्ञार्थैकदेशत्वादिति / परिहरति---नैतदिति / सामान्यविशेष्यतात्मा हि धूमऽ, तत्र विशिषात्मना पक्षीकृतस्य सामान्यत्मना हेतुत्वमिति न पक्षैकदेशतेति / समधिगतं तावदनुमानस्य विशिष्टो विषय इति, स्वरूपमेव किमस्येति न ज्ञायते / तद् यदि धूमतज्ज्ञानादीनामनुमानत्वमिष्यते, ततऽ प्रमाणफलयोर्विषयभेदऽ स चायुक्तऽ / अत एव भिक्षुणा एकमेव ज्ञानं प्रमाणफलरूपमिति प्रत्यक्षमुक्त्वा तदेवानुमाने ऽप्यतिदिष्टं पूर्ववत् फलमस्येति / यदित्वनुमेयज्ञानमेव प्रमाणमिष्यते ततो ऽप्यतिरिक्तफलाभावऽ / अतो वक्तव्यमनुमानस्य स्वरूपमित्यत आह--- धूमतज्ज्ञानेति / यत्तावत् भिक्षुणा प्रमाण(फल?)मेव फलमित्येकविषयत्वलाभावदाश्रितं, तत् प्रत्यक्षवदिहापि प्रतिषेद्धव्यम् / न हि साध्यरसाधनयोरभेदं लौकिका मन्यन्ते / को हि वृक्षाच्छिदया सार्धं परशोरेकत्वमातिष्ठते / विषयभेदपरिहारस्तु प्रत्यक्षोक्त एवेहाप्यनुसन्धातव्यऽ / यथा हीन्द्रियादिप्रमाणपक्षे यत्र फलं निष्पद्यते तद्विषयव्यापारात् समानविषयत्वमुपपादितम् / एवमिहापि धूमादिप्रमाणपक्षे तद्व्यापारादेव पुरोदितं विषयैकत्वमितदेष्टव्यम् / अतो धूमस्तज्ज्ञानं वा सम्बन्धस्तत्स्मरणं वा प्रमाणमस्तु, विवक्षाधीनत्वात् प्रमाणफलभावस्येति / यत्तु बुद्धेऽ प्रमाण
SK
प्रत्यक्षानियमोक्तिश्च सर्वत्रैवानुषज्यते / अनुमानगृहीतस्य तेनैव प्रतिपादनात् // Mस्व्_५,४.५३ //
SK
परेभ्यो वाञ्छता वाच्यऽपूर्वं पक्षो यथोदितऽ / तत्र धर्मिणमुद्दिश्य साध्यधर्मो विधीयते // Mस्व्_५,४.५४ //
SK
(फल?)त्वे फलाभाव इत्युक्तम् / भाष्यकारो हि बुद्धिरेव प्रमाणमिति दर्शयति यत् कारणमसन्निकृष्टेर्ऽथे बुद्धिरिति वदति / न च फलाभावऽ, हानादेरेव फलत्वात् / नच सजातीयमेव फलमिति राजाज्ञा / उपयोगाद्धि रकसजातीयमसजातीयं वा फलं भवत्येव / अस्तु वा सजातीयमेव फलं हानादिबुद्धिऽ फलं भविष्यति / उपकारादिस्मृतिर्वेस्यभिप्रायेणाह---प्रमेयधीरिति
SK
यदि भाष्यकारऽ प्रमयधियऽ प्रामाण्यं मन्यते, कथं तर्हि धूमादिप्रमाणत्वाभ्युपगमऽ अत आह---प्रत्यक्षेति / उक्तमस्माभिर्विवक्षाधीनं प्रमाणत्वमिति / तद् यदा धूमादीनामेव प्रकृष्टसाधनत्वमवगम्यते, तदा तदेव प्रमाणम् / भाष्यकारेणापि बुद्धिर्वा जन्म वेत्यादिना प्रत्यक्षनियमं दर्शयता सर्वत्रैवानियमस्तुल्यया दर्शित एव / अतो न धूमादिप्रामाण्याभ्युपगमे भाष्यविरोध इति
SK
तञ्चेदमनुमानं द्वेधा बौद्धा विभजन्ते स्वार्थं परार्थञ्चेति / यदाहुऽ---- अनुमानं द्विधा स्वार्थं त्रिरूपाल्लिङ्गतोर्ऽथदृक् परार्थमनुमानं तु स्वदृष्टार्थप्रकाशकम्||
SK
इति / तदिदं द्वैविध्यमनुपपन्नमित्यभिप्रायेणाह---अनुमानेति / अस्यार्थऽ--- गुरुशिष्यसहाध्यायिविरोधिप्रतिवादिभ्यऽ परेभ्यो ऽनुमानगृहीतस्यार्थस्य तेनैवानुमानेन प्रतिपादनं वाञ्छता यथा पूर्वमस्माभिऽ प्रतिपादितऽ पक्षो विशिष्टो धर्मी प्रमीयत इति स वक्तव्यऽ / इदमत्राकूतम् / स्वयमनुमानेन गृहीतमर्थं परं प्रतिपादयितुं साधनवाक्यमेव प्रयुज्यते / परस्तु ततो वाक्यात् त्रिरूपं लिङ्गमनुसन्धाय स्वयमेव साध्यं वस्तु बुध्यते, तदस्य स्वार्तमेवानुमानम् / वक्तुरपि स्वयमर्थं प्रतिपन्नवतऽ स्वार्थानुमानमेव, कतरदत्र परार्थानुमानमिति न विद्मऽ / वचनं परार्थमिति चेत् / न / अननुमानत्वात् / वचनं परार्थमिति तु मृष्यामहे / यद्वदति दर्शनस्य परार्थत्वादिति, न तु तदनुमानम्, अत्रिरूपलिङ्गजनितत्वादनर्थदृक् च / त्रिरूपाल्लिङ्गतोर्ऽथादृगनुमानमिति वऽ सिद्धान्तऽ, अतऽ कथं वचनमनुमानम् / अथानमुमानगोचरीकृतार्थप्रतिपादनसमर्थवचनपारार्थ्यादनुमानं परार्थमित्युपचर्यते, ततऽ प्रत्यक्षप्रतिपन्नमप्यर्थं बोदयद् वचऽ परार्थमिति प्रत्यक्षमपि परार्थमापद्येत / यदि तु स्वलक्षणविषयत्वात् प्रत्यक्षस्य तस्य चाशब्दगोचरत्वान्न प्रत्यक्षं परार्थामित्युच्यते / तदयुक्तम् / एवं हि प्रत्यक्षगृहीतार्थविपरीताभिधायिनां तद्विरोधोद्भावनवचनं न युज्यते || यो हि प्रत्यक्षविरूद्धमर्थं प्रतिजानीते नाग्निरूपष्ण इति, स वचनेन तं प्रत्यक्षविषयमर्थं प्रतिपाद्य निराक्रियते / प्रत्यक्षविषये तु शब्दागोचरे तन्नोपपद्येत,अतऽ प्रत्यक्षविषयमपि शब्दो वदतीत्यभ्युपगन्तव्यम् / एवं च प्रत्यक्षविषयवचनपरार्थतया कऽ प्रत्यक्षपरार्थतां वारयतीति द्वैविध्यानुपपत्तिऽ / अतो यथोदितऽ पक्ष एव वाच्य इत्युक्तवान् / इदं तु वक्तव्यम्---- को ऽयं पक्षो नाम, तदुच्यते, प्रतिज्ञार्थऽ पक्षऽ / का प्रतिज्ञा / साध्यसमर्पकं वचनम् / यदाहुऽ--- ऽसाध्यनिर्देशऽ प्रतिज्ञेऽति / अतऽ साध्यऽ पक्ष इत्याचक्ष्मह इति वाच्यऽ पक्ष इत्युक्तम् / तद्वचनमिदानीमुपन्यस्यति---तत्रेति / तत्र पक्षे धर्मिणं प्रथंमुपद्दिश्य साध्यधर्मो ऽग्न्यादिर्विधीयते / यो ऽयं पर्वतऽ सो ऽग्निमानित्युक्तं भवति / इदं तु पक्षवचनं प्रतिज्ञापरनामानमेके नानुमन्यन्ते / वदन्ति च किमनेनानर्थकेन, अन्तरेणापि पक्षवचनमपेक्षितं सिध्यत्येव / हेतुर्हि साध्यसाधकऽ / न पक्षस्य वचनम् / नह्ययमागमिकोर्ऽथऽ, हेतुवचनानर्थक्यप्रसङ्गात् / आप्तानुसारेण पक्षवचनाद्रथनिश्चये हेत्वभिधानमनर्थकं स्यात् / वक्तृगुणदोषावधारणप्रवण एव प्रतिवादी भवेत् / हेत्वधीने तु निर्णये तच्छ्क्तिरेव निरूपयितुमुचिता, किं प्रतिज्ञावचनेन् / हेतोश्च सामर्थ्यं साध्यान्वयप्रदर्शनेनैव सिद्धम् / अतो यत् कृतकं तदनित्यं शब्दश्च कृतक इत्युदाहरणोपनयमात्रादेव साध्यसिद्धेरनर्थिका प्रतिज्ञा / हेतोरेव तु त्रैरूप्यं दर्शयितव्यम् / तच्च दृष्टान्तद्वयेनोपनयेन च कथ्यत इति कृतमतिविस्तरेण / यदि तु विवादमावेदयितुं प्रतिज्ञावचनमित्युच्यते / तन्न / अव्यापकत्वात् / यो हि मन्यते--- यदा खल्वयं शब्दो नित्य इति प्रतिजानीते तदेतरो ऽनित्यवादी व्युत्थितो भवति ततो जल्पऽ प्रवर्तत इति / तच्च नैवम्, अव्यापकत्वात् / यो हि मन्यते---यदा खल्वयं शब्दो नित्य इति प्रतिजानिते तदेतरो ऽनित्यवादी व्युत्थितो भवति ततो जल्पऽ प्रवर्तत इति / तच्च नैवम्, अव्यापकत्वात् / नेदं प्रतिज्ञावचनस्य व्यापकं प्रयोजनम् / वादे असम्भवात् / शिष्यविषयो हि सऽ / स च तत्त्वमेव बोधयितव्यऽ , अतो हेतुशक्तिमेव प्रतिपाद्य तत्त्वं बोध्यत इति युक्तम्, किं विवाद आद्रियते, न हि तेन सह विवदितव्यम् / जल्पे स्यादिति चेद्, न / अन्यथा सिद्धेऽ / तत्रैतत् स्यात्--- जल्पे खलु विवादमाजिहीर्षुऽ प्रतिज्ञां प्रणयतीति, तच्च नैवम् / अन्यथासिद्धेऽ, असत्यपि हि पक्षवचने लक्ष्यत एव यथा ध्वनिमनित्यमनुमिनोतीति, यत् कारणं यत्कृतकं तदनित्यं यथा घट इत्युक्त्वा कृतकत्वं ध्वनेरुपनयति शब्दश्च कृतक इति / ततो जल्पऽ प्रवर्तिष्यत एव / वितण्डा तु यथा तथा वादे दर्शिते प्रवर्तत एव / न हि वैतण्डिकस्य किञ्चित् परनिग्रहादन्यद् साध्यमस्ति / यदसौ प्रतिज्ञावचनेन क्वचिदर्थे साध्यमाने स्वविपरीतसिद्धिं मन्वानो जातोद्वेगो विवदेत् / अतऽ प्रतिज्ञावचनं कथात्रये ऽप्यनुपयुज्यमानमुपेक्षणीयमित्याक्षिपन्ति || अत्राभिधीयते--- स्वदृष्टार्थप्रकाशनं परार्थमनुमानमिति भवद्भिरेवोक्तम् / स्वयं च कुतश्चिद्धेतुविशेषात् किञ्चित् केनचिद् धर्मेण विशिष्टमवगतमिति परस्मा अपि तथैव कथ्यत इति युक्तम् / असत्यां तु प्रतिज्ञायामनाश्रयहेत्वादय आकाशपतिता इव भवेयुऽ / ननु नायं पक्षवचनपुरऽसरमज्ञासीत्साध्यमिति कथं परस्मै तथा कथयति / मैवम् / यद्यपि शब्दो ऽनित्य इति स्वप्रतिपत्तौ नोच्चारितं तथापि सविकल्पकत्वादस्या बुद्धेरस्त्येवात्र प्रमातुर्विशिष्टो विकल्पऽ, उच्चारणं तु परार्थमिति तन्मात्रं स्वप्रतिपत्तौ नासीत् / परस्तु नानुच्चारितेन शब्देन प्रतिपादयितुं शक्यत इत्युच्चार्य प्रतिपाद्यत इति शब्दोच्चारणमात्रमधिकम् / यत्तु वादे ऽनुपयोग इत्युक्तम्, तन्न, सुतरामुपयोगात् / जल्पवितण्डे हि विजिगीषमाणयोर्द्वयोऽ प्रवर्तत इति परं भ्रामयितुं प्रतिज्ञावचनं न प्रयुज्येत / अविवादे तु शिष्यो न व्यामोहनीय इति विशदतरमेव प्रतिज्ञा
SK
नियमस्तद्विरुद्धाच्च कल्प्यते नाविरोधिनऽ / असन्निकृष्टवाचा च द्वयमत्र जिहासितम् // Mस्व्_५,४.५५ //
SK
वचनेन साध्यत इति युक्तम् / न हि न शब्ददारिद्रयं, यदेनं तत्त्वं बुभुत्समानमुपसन्नमविशदवचनेन परिक्लेशयाम / न चैव जल्पे ऽनुपयोग इति / उक्तमिदमसति हि प्रतिज्ञावचने ऽनाश्रया हेत्वादयो न प्रवर्तेरन्निति / गुणभूता हि ते प्रधानभूतसाध्यपेक्षायां सम्बध्यन्ते / तच्च नासित साध्यनिर्देश उपपद्यते / निर्दिष्टे हि साध्ये कुत इत्यपेक्षायां हेतुऽ सम्बध्यते / ततऽ कथमयमव्याप्तो ऽस्य साधक इत्यपेक्षिते व्याप्तिवचनम् / इतरथा त्वैकार्थ्याभावादेकवाक्यतैव न सवर्तेत / तथाहि-- यत् कृतकं तदनित्यमित्युक्ते कृतकत्वमनित्यतया सम्बद्धमित्यनूदितम् / पुनश्च शब्दऽ कृतक इति शब्दस्य कृतकतया सम्बन्धो ऽनूदितऽ / परस्परसम्बन्धे तु न प्रमाणम् / असम्बद्धमिदं वाक्यद्वयमित्याशङ्क्येत्, कृतकं तावदनित्यं शब्दो ऽपि कृतक इति स्वरूपनुवादमात्रमुभयोरिति शङ्का जायेत, अर्थान्तरं वापद्येत / यथा चानित्यत्वधर्मा कृतकस्तथा शब्दात्मको ऽपीति, तदत्र सर्वे कृतकाऽ शब्दात्मान इति साधुसम्पादितमापद्येत / अतऽ प्रधानवाक्यावयवप्रतिज्ञा यदपहनुयते तन्नास्तिकानामेव सर्वापलापवादिनां शोभते नेतरेषाम् / सा हि सर्वव्यवहाराणां सारऽ / यदाहु--- ᳚सारं तु व्यवहाराणां प्रतिज्ञा समुदाहृता / तद्धानौ हीयते वादी तसंस्तामुत्तरो भवेत् ||᳚
SK
नन्वेवं साध्यविशिष्टे धर्मिणि विधीयमाने केवलसाध्यान्वयावगमाद् धर्मान्तरव्युदासो भवेत् / ततश्चानित्यऽ शब्द इत्युक्ते नित्य एवेत्यवधारणादम्बरगुणत्वादयो ऽपि तद्धर्मा न भवेयुऽ / एवं च हेतोरपि प्रतिक्षेपात् साध्यसिद्धिरपि दुर्लभैव / असत्यवधारणे नित्यो ऽपि स्यादिति नेष्टसिद्धिऽ / अथ कथमेको नित्यो ऽनित्यश्चेत्यर्थात् प्रतिपक्षप्रतिक्षेपऽ / सत्यम्, अत एव तन्निवृत्त्यर्थमवधारणे क्रियमाणे इतरनिवृत्तिरपि भवेदत आह--- नियम इति / साध्यधर्मविवक्षापेक्षयैव नियमऽ कल्प्यते, न पुनरविरोधिनो ऽपि धर्मान्तरात् / अतो ऽग्निमानिति साध्यमाने ऽग्न्यभावमात्रमेव निराकृतं भवति, न पुनऽ धर्मान्तरम् / यथा शुक्लऽ पट इत्युक्ते तद्विरोधिनस्तदभावस्यैव निवृत्तिर्भवति,नाविरोधिनां सूक्ष्मत्वादिधर्माणामिति / अत्र चासन्निकृष्टेर्ऽथ इत्युच्यते तस्य कोर्ऽथऽ / यद्यनवगतपूर्वमेवार्थमनुमानं गोचरयतीति, तन्न / सम्बन्धज्ञानकाल एव हि यावद्धूमादिभावितयाग्न्यादिसम्बन्धो ऽवगत एव / अन्यथा नियम एवावधारितौ न स्यात् / न चात्र देशकालसम्बन्धो ऽधिक इति वक्तव्यम् / धूमस्य हि देशादिसम्बन्धो भासते नाग्नेऽ / धूमोपलक्षिताशेषदेशसम्बन्धस्य सम्बन्धसमधिगम एवावसायात् / अत एव कैश्चित् स्मरणाभिमाननिरासार्थमसन्निकृष्चपदं व्याख्यातम् / स्मरणं हि सन्निकृष्टावमर्शोल्लिखितमेव प्रायशो भवति,स इति हि तत् प्रवर्तते / न चैवमनुमानम् / अतो नेदं स्मरणम् / नन्वसत्यपि तदुल्लेखे स्मरणमुत्पद्यत एव / यथा प्रमोषे / मैवम् / ग्रहणकारणाभावाद्धि तत्रानुभवाकारप्रवृत्तमपि ज्ञानं स्मतिरित्यास्थितम् / न ह्यसन्निहितरजताद्यवभासकारणत्वमिन्द्रिययाणां प्राप्यकारिणां सम्भवति / स्मृतिहेतुस्तु प्राचीनामुभवप्रभाविता भावना समस्तीति स्मृतिरेव प्रमुषिततदवमर्शा सेत्याश्रितम् / इदं तु प्रत्युत्पन्नलिङ्गादिकारणबलादुत्पद्यमानं लैङ्गिकज्ञानमनुभवाकारप्रवृतं न तद्भावादुतारयितुं शक्यम् / अनुभूतिश्च नऽ प्रमाणम् / अतऽ प्रमाणमनुमानमित्याख्यायते / यद्येवमस्तु तर्हीदमेवासन्निकृष्टपदस्य प्रयोजनम् / न / फलाभावेनाप्रामाण्यप्रसङ्गात् / अधिकपरिच्छेदफलं प्रमाणं भवति / परिच्छेदमात्रस्य तु फलत्वे स्मृतावपि प्रसङ्गऽ / सापि हि स्वगोचरपरिच्छेदात्मिकैव जायते / स्यान्मतम्---अनपेक्षं हि नऽ प्रमाणम् / अपेक्षते च स्मरणं ग्रहणम् / अतो न प्रमाणमिति / तन्न / लैङ्गिके प्रसङ्गात् / तदपि ह्येकदेशदर्शनादिसापेक्षमेव / स्वविषयग्रहणापेक्षं स्मरणं नेदमिति चेन्न / इहापि तदपेक्षणात् / लैङ्गिकमपि हि प्राचीनाग्निज्ञानसापेक्षमेव / न ह्यनवगताग्नेरविदितसम्बन्धस्याग्निरत्रेति मतिराविरस्ति / न च ग्रहणं प्रमाणमेवेति राजाज्ञा / भ्रान्तावपि प्रसङ्गात् / विपरीतावग्रहो ऽपि ग्रहणमेव / न च प्रमाणम् / न चासौ नास्तीति यथार्थायथार्थज्ञानविभागं व्याचक्षाणैरस्माभिरुक्तमेव / अपि च ऽअर्थे ऽनुपलब्धऽ इति सूत्रयता सूत्रकारेण
SK
ताद्रूप्येण गृहीतत्वं तद्विपर्ययतो ऽपि च / प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनऽ // Mस्व्_५,४.५६ //
SK
ताद्रूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् /
SK
सर्वमनुपलब्धार्थविषयमेव प्रमाणमिति सूत्रितम् / एतदपि तद्व्याख्यानावसरे वर्णितमेव / अतो व्याख्येयमसन्निकृष्टार्थग्रहणमत आह--- असन्निकृष्टेति / अस्यार्थऽ--- द्वेधा हि सन्निकृष्टं भवति तद्रूपप्रमितं विपरीतनिरूपितं वा / तदुभयजिहासयेयमसन्निकृष्टवागिति / किं पुनस्तन्निराकरणमत आह--- प्रमितस्येति / व्यवहारार्थं ह्यप्रमितपरिच्छेदाय प्रमाणमपेक्ष्यते न व्यसनेन / स च सकृत्प्रमाणव्यापारादेव सिद्ध इति न प्रमाणान्तरापेक्षेति ||५५,५६||
SK
किं पुनऽ प्रमितस्य प्रमाणान्तरापेक्षा न जायेत / अत आह---ताद्रूप्येणेति / वर्णितमिदं ---द्वेधा हि प्रमितं भवति ताद्रूप्येण वैपरीत्येनेति / तत्र तावत् ताद्रूप्यपरिच्छेदे न परं प्रमाणं फलवत् / पूर्वपिरच्छेदादेव तदर्थसिद्धेऽ / वैपरीत्यपरिच्छेदे तु प्रमाणान्तरमनवकाशमेवेति तदुभयनिराकरणार्थमसन्निकृष्टग्रहणमर्थवत् / नन्वेवमप्रमाणमेवानुमानं सन्निकृष्टविषयत्वादित्युक्तमेव / न / अधिकारविषयत्वात् / यद्यपि पूर्वावगतो धर्मऽ स्मृतिविषयऽ / धर्मी च गिरिरनुभवसिद्धऽ, तथापि विशिष्टमनुमानेन विषयीक्रयत इति वर्णितमसकृत् / नन्वग्निविशिष्टो ऽपि सम्बन्धसमय एव संविदितऽ / एवं ह्यनेन व्याप्तिग्रहणकाले ऽवगतं धूमवन्मात्रमग्निमदिति / तदस्य धूमवन्मात्र एवापेक्षा / विदिते तु तस्मिन्नग्निमत्ता प्रमितपूर्वैवानुभूयते / सत्यम् / किन्तु धूमवानग्निमत्तया प्रितपूर्वो ऽपि समप्रत्यनुमानेन प्रत्यभिज्ञायते / प्रत्यभिज्ञानं चेदं प्रमाणमेव प्रत्यक्षप्रत्यभिज्ञानवत् / पूर्वं हि धूमवत्त्वोपलक्षितेन रूपेणाग्निमत्तया देशो निर्ज्ञातऽ / समप्रत्ययमसावग्निमानिति विशेषतो ऽनुमानेन प्रत्यभिज्ञायत इति किमनुपपन्नम् / अवश्यं चैवमभ्युपगन्तव्यम्, अन्यथा कथमग्निमानिति विदित्वा व्यवहाराय घटते / एष हि पक्तुकामो ऽग्निमत्तामनुमायाग्नये धावतीति पश्यामऽ /
SK
वैपरीत्यपरिच्छिन्ने नावकाशऽ परस्य तु // Mस्व्_५,४.५७ //
SK
मूले तस्य ह्यनुत्पन्ने पूर्वेण विषयो हृतऽ / प्रत्यक्षादेश्च षटकस्य नैवार्था ह्यवधारितऽ // Mस्व्_५,४.५८ //
SK
तेनैवोत्तरबाधऽ स्याद् विकल्पादेरसम्भवात् / अग्राह्यता तु शब्दादेऽ प्रत्यक्षेण विरिध्यते // Mस्व्_५,४.५९ //
SK
तत् कस्य हेतोऽ, न यदि पूर्वानुभवादद्य विशेषऽ, अवागमत् खल्वयं धूमवानग्निमानिति, न चाग्नये धावतीति / कथमनाश्रयप्रतिपन्ने ऽग्नौ व्यवहरतीति चेत् / न / प्रागपि धूमवदाश्रयत्वनावगमात् / पर्वतमधुना प्रत्यक्षेण विशेषतो ऽवगम्याग्न्ये व्यवहरतीति चेत् / किमस्याग्न्यर्थिनऽ पर्वतप्रत्यक्षेण / तदयमग्निमत्तया बोध एव पूर्वबोधाद् विलक्षणो ऽभ्युपगन्तव्यऽ / यत्कृतो व्यवहारविशेष इत्यगृहीतविषयत्वादनुमानं प्रमाणमिति वक्तव्यम् / तदिदमसन्निकृष्टग्रहणेनोक्तम् / ये तु स्मृत्याशङ्कानिराकरणमऽ सय प्रयोजनमाहुऽ, तेषां बाधितविषयमप्यनुमानमापद्येत / न हि तन्निराकरणमवयवान्तरेण लक्षणग्रन्थे कृतमुपलभ्यते / अतो ऽसन्निकृष्टग्रहणमेवोभयविधसन्निकृष्टार्थनिराकरणार्थमिति साध्वी व्याख्येति
SK
वैपरीत्यपरिच्छिन्ने परमनवकाशमित्युक्तम् / तत्र कारणमाह--- मूल इति / व्याप्तिस्मरणादि ह्यनुमानस्य मूलम्, तद्यावदुत्तरं तत्तद्व्यापारव्यग्रतया विलम्बते तावच्छीघ्रभाविना पूर्वेण विषयापहाराद् विप्रकृष्टसाधनस्योत्पत्तिरेव निरुध्यत इत्यनन्तरमेव वक्ष्यत इति कथं पुनरनुमानं बाध्यते / तदपि हि प्रमाणं कथं प्रमाणान्तरेण बाधितुं शक्यते / बाधे वा न क्वचिदाश्वासो भवेत् / आभासो बाध्यत इति चेत्, कथमाभासत्वम् / यदि बाधादेवेतराश्रयं तर्ह्यस्तु वा ज्येष्ठप्रमाणेन प्रत्यक्षेणानुमानबाधऽ / नतु ततो ऽपि जघन्यैरपरैर्बाध्यते, तत् कस्य हेतोऽ अत आह---प्रत्यक्षादेरिति स्यादन्तेन / अयमभिप्रायऽ---न प्रमाणं नाम क्वचित् बाध्यते / अवधारणात्मकं ह्येवैतदिति ज्ञानं प्रमाणम् / तद् यत्र कस्यचिदर्थस्य केनचिदात्मनावधारणं भवति तत्र तेनोत्पन्नस्योत्पत्स्यमानस्य वा ज्ञानस्य बाधो ऽभिधीयेत / तद्द्विविधो हि बाधऽ प्राप्तबाधश्चाप्रताप्तबाधश्चेति / प्राप्तबाधो हि यथा--- शुक्तिकारजतज्ञाने / तत्र हि पूर्वोपमर्दनेनैवोत्तरमात्मानं लभत इति तत् तस्य बाधकम् / उत्तरं च देशादिभेदे ऽप्यबाधितं स्वभावतश्च प्रमाणं पूर्वमाभासीकरोति / तदेवं प्राप्तबाधे तावद् येनोत्तरेणार्थो ऽवधारितऽ / त्रिविधमप्यप्रामाण्यमवधारितपदेन व्युदस्यति / न ह्यज्ञातऽ सन्दिग्धो विपर्यस्तो वार्थो ऽवधारितो भवतीति त्रिविधिमप्यप्रामाण्यं यस्य नास्तीत्युक्तं भवति / तदेवमात्मना ज्ञानेन पूर्वमाभासीकृतमिति तत्राभास एव बाध्यत इति नातिप्रसङ्गऽ / अप्राप्तबाधे तु यावत् क्लिष्टसाधनमनुमानं स्वगोचरे सामान्यशास्त्रं वा क्वचिद् विशेषविषये प्रवर्तितुमारभते तावत् प्रत्यक्षेणानुमानेन वा सिद्धसर्वाङ्गकेनागमेन वा विशेषविषयेण शीघ्रजन्मना येनैवार्थो ऽवधारितो भवति तेनैवोत्तरस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति / न हि बलवता शीघ्रभाविना प्रमाणेन निरुद्धमुखमुत्पत्तुमर्हति / तदेवमप्राप्तबाधे परमनुत्पन्नमेव प्राप्तिसम्भावनया तु बाध्यत इत्युच्यते श्रुत्येव लिङ्गमिति न क्वचित् प्रमाणबाधऽ / यत्तु जघन्येन मुख्यबाधो न युक्त इति / तन्न / न हि प्रत्यक्षादीनां विनियोगप्रमाणानामिव पारदैर्बल्यनियमऽ / यदेव तु शीघ्रभावि पूर्वोपमर्देन वात्मानं लभते तदेव बाधकमभिदध्महे / इतरञ्च बाध्यमत एव तेनैव तस्य बाधं ब्रूमऽ / प्राप्तबाध इव प्रत्यक्षस्य तेनैवानुमानेन च सिद्धाङ्गकेन साध्याङ्गकस्य विशेषशास्त्रेण सामान्यशास्त्रस्य / अतऽ सर्वप्रमाणाविरुद्धमेव पक्षमभिधास्यामऽ / न चानाश्वासऽ / आभासबाधात् / स्वतऽ प्रमाणेन चावधारणात्मना ज्ञानेनेतराभासीकरणात् / तदिदमवधारितपदेनोक्तमिति / ननु च बलवतापि नावश्यं दुर्बलं बाध्यते / असति हि सम्भवे बाधऽ सम्भवति / अतो विषयव्यवस्थाया विकल्पेन समुच्चयेन वोभयमुपपादयिष्यते विनात्यन्तिकबोधाश्रयणेन (?), अत आह---विकल्पादेरिति / नात्रोक्ता विकल्पादयऽ सम्भवन्ति / न तावत्परस्परविरुद्धं रूपद्वयमेकत्र समुच्चीयते / न हि श्रावणो ऽश्रावणश्च नित्योनित्यश्चेति सम्भवति / न च विकल्पऽ / विधिनिषेधविषयत्वात् तस्य सिद्धे वस्तुन्यसम्भवात् / न च विषयव्यवस्था, वर्णात्मनामेव नित्यानित्यत्वसाधनात् / अतो ऽसम्भवादेव बाधमभिदध्मह इति / एवमुपपादितो बाध उदाहरणैर्दर्शयितव्यऽ / तत्र प्रत्यक्षबाधमेव तावद् दर्शयति अग्राह्यतेति / इमं तु प्रत्यक्षबाधं न बुध्यामहे / स्वगोचरविपरीतार्थं हि प्रमाणं
SK
तेषामश्रावणत्वादि विरुद्धमनुमानतऽ / नहि श्रावणता नाम प्रत्यक्षेणावगम्यते // Mस्व्_५,४.६० //
SK
सान्वयव्यतिरेकाभ्यां गम्यते बधिरादिषु / त्रिधा शब्दविरोधऽ स्यात्प्रतिज्ञादिविभागतऽ // Mस्व्_५,४.६१ //
SK
प्रत्यक्षेण बाध्यत इति युक्तम् / न चग्राह्यता प्रत्यक्षविषया ग्राह्यग्रहणसम्बन्धविषयत्वात्तलऽ / तस्य च प्रत्यक्षगोचरत्वात् / शब्दो हि प्रत्यक्षऽ न ग्राह्यता / अत एव ह्यश्रावणतापक्षो ऽपि न प्रत्यक्षेण विरुध्यत इति वक्ष्यते / अत्रोच्यते / सत्यम्, नेन्द्रियविषयो ग्राह्यता, ग्राह्यस्तु तद्विषयऽ / तदिह ग्राह्यपलापस्यैव प्रत्यक्षविरोधो दर्शितऽ / निरालम्बनानुमानस्येति यावत् / प्रत्ययस्त्वग्राह्यपरदादुपपन्नस्तस्यैवाभावमभिधत्ते / कश्च ग्राह्यस्य भावो ऽन्यदतो भावात् / इयं हि शशविषाणस्याग्राह्यता यन्न भवति / तदभावादेव तत्राग्राह्यताभिदानप्रत्ययौ / तदनेन प्रकारेण शब्दाभावपक्षस्यैव प्रत्यक्षविरोध उपदिष्ट इति न किञ्चिदनुपपन्नमिति ||५८,५९||
SK
अनुमानविरोधोदाहरणमाह---तेषामिति / तेषामेव शब्दादीनामश्रावणत्वाद्यनुमानविरुद्धं यो ह्यश्राणमनित्यं वा शब्दं पक्षमिच्छति तस्यासौ शीघ्रभाविना विपर्ययानुमानेन बाध्यत इति / इदं तु प्रत्यक्षवरोधमन्ये मन्यन्ते / तान् निरोकरोति--- नहीति / शब्दो हि प्रत्यक्षऽ न तच्छ्रावणता ग्राह्यग्राहकसम्बन्धो हि शब्दस्य श्रावणस्य च त्वतल्भ्यामुच्यते / ᳚कृतद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम्᳚इति स्मृतेऽ / स च न प्रत्यक्षेण समधिगम्यऽ / अपि च अतीन्द्रियं श्रोत्रं,कथं तत्सम्बन्धऽ शब्दस्य प्रत्यक्षो भविष्यति / न ह्यैन्द्रियानैन्द्रियाधारऽ सम्बन्धऽ प्रत्यक्षो भवति वायुवनस्पत्योरिव / अतोनायं प्रत्यक्षविरोध इति
SK
किंप्रमाणिका तर्हि श्रावणता / अत आह---सेति / अबधिरादिषु शब्दोपलब्धेर्बधिरादिषु चानुपलब्धेरन्वयव्यतिरेकौ दृश्येते / तथाहि श्रोत्रोपघातमात्रेण चक्षुरादिमतो बधिरस्य शब्दबुद्धिर्न दृश्यते / श्रोत्रे च दृढे चक्षुरादिष्वसम्भवे ऽपि शब्दग्रहणं दृष्टम्, अत आभ्यामन्वयव्यतिरेकाभ्यामिदं श्रावणत्वं गम्यत इति / नन्वेवं कथमनुमानविरोधऽ, न ह्यन्वयव्यतिरेकावनुमानम्, तत्प्रभवसमतु मानसऽ श्रावणत्वविकल्पऽ, अतो मानसप्रत्यक्ष एवायमिति कश्चित् भ्राम्यति स वक्तव्यऽ / न बहिर्विषयबोधे मनऽ स्वतन्त्रमिति वर्णितमसकृत् / यद् यदीयान्वयव्यतिरेकावनुविधत्ते तत्तकारणकमिति सर्वकार्येषु समधिगतम्, अनुविधत्ते च शब्दज्ञानं श्रवणमिति तत्तत्कारणकमिति / इदमेव च शब्दस्य श्रावणत्वम् / यत्तु ज्ञानस्य श्रवणजन्यत्वमतो ऽनुमानमेवेदम् / नन्वन्यत्राप्यन्वयव्यतिरेकानुविधायिनऽ कथं तत्कारणकत्वमवगन्तव्यम्, यन्न मानसं प्रत्यक्षमाश्रीयते, श्रूयताम् / पश्यामो हि वयं कुम्भकारव्यापारानन्तरं कुम्भसम्भवमुदीक्षमाणाऽ कार्यकारणभावं चक्षुषैव / इदं हि कुम्भस्य तत्कार्यत्वं या तदनन्तरसम्भूतिऽ / स च कुम्भस्तत्सम्भवश्चोभयं चाक्षुषमेवेति किमत्र मनसा / अतो यद् यस्मिन् सति भवति, असति च न भवति, तत्तत्कारणकमिति प्रत्यक्षतो विदितव्याप्तेरनुमामुपपन्नमेव / एवं च प्रयोगऽ--- श्रवणप्रमाणप्रकाश्यऽ शब्दऽ तस्मिन् सत्येवोपलभ्यमानत्वात् / यदेवं तत्ततप्रकाश्यं सन्तमस इव घटऽ प्रदीपप्रकाश्य इति / इदं च प्रत्यक्षपूर्वकार्थापत्तिपूर्वकमनुमानं तया श्रावणत्वसिद्धेऽ / इदं च सिद्धसर्वागत्वादश्रावणत्वानुमानाद् बलवत् / यावद्धि गुणत्वस्याश्रावणत्वेन व्याप्तिर्ग्रहीतुमिष्यते, तावच्छीघ्रजनमना श्रावणत्वानुमानेन व्याप्तिसंविदं प्रतिबन्धता तस्योत्पत्तिरेव निरुध्यते / एवमेवानित्यत्वानुमानमपि / यत् कृतकत्वादिहेतुकं तदप्यसिद्धिव्यभिचारादिदोषान्न शीघर्मुपजायत इति सिद्धावयवैऽ शीघ्रजन्मभिर्नित्यत्वानुमानैर्बाध्यते / यथा देशकालादिभिन्ना गोशब्दबुद्धयऽ समानविषयाऽ गौरित्यत्पद्यमानत्वात् सम्प्रत्युत्पन्नगोशब्दबुद्धिवद् ह्यस्तनोच्चारितो वा गोशब्दो ऽद्याप्यस्ति गोशब्दत्वाद्, अद्योच्चरितगोशब्दवदित्यादिभिरिति
SK
शब्दविरोधप्रकारमिदानीं प्रतिजानाति---त्रिधेति / प्रतिज्ञाविरोधादयो हि शब्दविरोधतया प्रसिद्धा इति ते तथाभिधीयन्ते / न त्वेते शब्दविरोधाऽ / यत्र हि क्वचिदर्थे प्रतिष्ठितेन शब्देन प्रतिज्ञान्तरं बाध्यते, तत्र शब्दविरोधो भवति / न च स्ववाग्विरोधे शब्दस्य क्वचिदर्थे प्रतिष्ठास्ति व्याहताभिधानात् / पूर्वसञ्जल्पविरोधे ऽपि पूर्वापरन्यायबलाबलानुसार्येव निर्णय
SK
प्रतिज्ञापूर्वसञ्जल्पसर्वलोकप्रसिद्धितऽ / यावज्जीवमहं मौनीत्युक्तिमात्रेण बाध्यते // Mस्व्_५,४.६२ //
SK
सर्ववाक्यमृषात्वेन धर्मोक्तयैवात्मबाधनम् / धर्म्युक्त्याहं यतो जातऽ सा वन्ध्या जननी मम // Mस्व्_५,४.६३ //
SK
इति न शब्दविरोधऽ / न हि तत्र शब्दप्रमाणतोर्ऽथऽ न्यायगम्यत्वात् / लोकं प्रसिद्धिस्तु न शब्दो न प्रमाणान्तरम् / अपि तु प्रत्यक्षाद्यन्तर्गतैवेति तद्विरुद्धपक्षप्रदर्शनेनैव प्रदर्शितेति न शब्दविरोधे ऽन्तरभावयितुमुचिता / नह्यचन्द्रऽ शशीति पक्षऽ शब्देन विरुध्यते / न हि चन्द्रशब्दशशाङ्कयोऽ सम्बन्धं शब्दो वदति येनातद्वाच्यपक्षस्य शब्दविरोधो भवति सम्बन्धवाच्यत्वे हीतरेतराश्रयं भवेत् / अभिधानात् सम्बन्धऽ सम्बन्धाच्चाभिधानमिति / तस्मान्नैते शब्दविरोधाऽ / पूर्वोत्तरशब्दसामर्थ्यपरामर्शेन त्वेकपरित्यागेनतरपरिग्रहाच्छब्दविरोधतया प्रसिद्धा इति तन्त्रान्तरप्रसिद्धिविबागस्त्रिधाशब्दविरोथ इत्युच्यते / परमार्थेन तु वेदार्थवचनविपरीतार्थप्रतिज्ञैव शब्देन वारयितुम् / तच्चानन्तरमिहैव वक्ष्याम इति
SK
तानेव त्रीन् प्रकारान् दर्शयति---प्रतिज्ञेति / तत्र प्रतिज्ञाविरोध एवैकस्त्रिधा भिद्यत इत्याह--- यावदिति सार्धेन / अयमर्थऽ---प्रतिज्ञाविरोधो हि स्ववाग्विरोधऽ / स च त्रेधा भिद्यते / उच्चारणधर्मधर्मिभेदात् / यावज्जीवमहं मौनीति पक्षऽ प्रतिज्ञयैव बाध्यते / न ह्यनुक्ता सदी प्रतिज्ञा भवति / उक्तिमात्रेण बाधाद भवति प्रतिज्ञया बाधऽ / सर्ववाक्यमृषात्वपक्षस्तु धर्मोक्त्या बाध्यते / सर्वमृषात्वे हि प्रतिज्ञावचनमपि मृषेति नेतरन्मृषा भवेत् / तदमृषात्वे हि प्रतिज्ञावचनमपि मृषेति धर्मसंसर्गासम्भवपरामर्शात् पक्षबाध इति धर्मोक्तिविरोधाभिधानम् / पूर्वत्र त्वविशिष्टमुक्तिमात्रमेव मौनं बाधते इत्युक्तिमात्रेणेत्युक्तम् / आत्मबाधनमिति / धर्मबाधनमित्यर्थऽ / धर्म एवायमुक्त आत्मानं बाधत इति यावत् / वन्ध्या मे जननीति पक्षो धर्म्युक्त्या बाध्यते / जननीत्वे ह्युद्दिष्टमात्रे न
SK
बौद्धस्य शब्दनत्यत्वं पूर्वोपेतेन बाध्यते / चन्द्रशब्दाभिधेयत्वं शशिनो यो निषेधति // Mस्व्_५,४.६४ //
SK
स सर्वलोकसिद्धेन चन्द्रज्ञानेन बाध्यते / ज्ञातगोगवयाकारं प्रति यऽ साधयेदिदम् // Mस्व्_५,४.६५ //
SK
न गोर्गवयसादृश्यं तस्य बाधोपमानतऽ / गेहावगतनास्तित्वो जीवंश्चैत्रो यदा बहिऽ // Mस्व्_५,४.६६ //
SK
वन्ध्यात्वमास्पदं लभते / न च गौणो जननीशब्द इत्यपि वक्तव्यम् / अहं यतो जात इति विशेषणात् / एवं विशेषिते पक्षे धर्म्युक्तिविरोध इत्युक्तं भवति / एतच्चाभ्युपगमवादेनोक्तम् / न तु श्रुतिस्मृत्यतिरेकीणि जल्पाकवचनानि गौणत्वादिभिऽ समीकर्तुं शक्यन्ते / सर्वदूषणोच्छेदप्रसङ्गात् / प्रमादाज्ञानजान्येव हि दूषणानि भवन्ति / तेषु कथञ्चित्समाधीयमानेषु न किञ्चिद् दूषणं नाम भवेदिति ||६२,६३||
SK
पूर्वसञ्जल्पविरोधमुदाहरतिबौद्धस्येति / अनित्यऽ शब्द इति बौद्धेनोक्ते कथं क्षणिकादगृहीतसम्बन्धादर्थप्रत्यय इत्यनुयुक्तेन तेनैव यदा पुनरुच्यते नित्यस्तर्हीति तदा तस्य पूर्वाभ्युपगमविरोधऽ / यद्यपि चात्र न्यायबलाबलानुसारी बाध्यबाधकभावऽ, तथाप्येवंविधा पूर्वापरविरुद्धा प्रतिज्ञैवात्मानं न लभत इति न न्यायावतारमपेक्षते / सम्भावितो हि प्रतिज्ञायामर्थो न्यायेन साध्यते / असम्भाविते तु न्यायापेक्षा नास्त्येव,स्वरसभङ्गुरत्वात् / अतऽ शब्दविरोध एवैनमन्तर्भावयति / शब्दसन्दर्भ एव हि तादृशऽ पूर्वापरविरुद्धऽ पक्षं विनाशयतीति तेषामभिप्राय इति / सर्वलोक प्रसिद्धिविरोधस्योदाहरणमाह---चन्द्रेति / अत्रापि महाजनविपरीतार्थऽ शब्दसंसर्गऽ स्वरसादेव भज्यते न प्रमाणं यावदपेक्षत इति शब्दबाध उदाहृत इति
SK
उपमानविरोधोदाहरणमाह---ज्ञातेति / येन हि नगरे गवाकारो दृष्टऽ सम्प्रति चारण्ये गवयाकारऽ, तं प्रति गौर्गवयसदृशो न भवतीति पक्ष उपमानेन विरुध्यत इति /
SK
नास्तीति साध्यते बाधस्तत्रार्थापत्तितो भवेत् / अग्नावदाहके साध्ये शब्दे रचानभिधायके // Mस्व्_५,४.६७ //
SK
श्रोत्रादिनास्तितायां च शब्दानित्यत्वसाधने / श्रुतार्थापत्तिबाधो ऽत्र यदाप्तोक्तिनिवारिते // Mस्व्_५,४.६८ //
SK
दिवाभुजो निषिध्येत हेतुना रात्रिभोजनम् /
SK
परोक्षे गवि सादृश्यमुपेमयम् / प्रत्यक्षे तु प्रत्यक्षमेव / अत एव ऽज्ञातगोगवयाकारऽमिति क्रमो विवक्षित इति
SK
अर्थापत्तिविरोधमिदानीं विवनक्षन् भाष्यकारानुसारेणाभावपूर्विकायास्तावदुदाहरणमाह---गेहेति
SK
प्रत्यक्षपूर्विकामुदाहरति---अग्नाविति / अदाहक इति / अतच्छक्तियुक्त इत्यर्थऽ / अनुमानपूर्विकामुदाहरति---शब्दे चानभिधायक इति / शब्दश्रवणानन्तरमर्थप्रतीतिं चेष्टयानुमाय तत्र शब्दऽ कारणित्युन्नीयते / अतऽ सर्वकारकाणां क्रियाविनाभावादभिधाभिधानो व्यापारऽ,तदनुपपत्त्या चार्थापत्त्या तच्छक्तिसिद्धिरिति
SK
तथेन्द्रियापलापपक्षो ऽपि प्रत्यक्षपूर्विकयार्थापत्त्या विरुध्यत इत्याह---श्रोत्रेति / यद्यपि प्रत्यक्षपूर्विकोदाहृतैव तथापि पक्षदोषोद्भावनच्छलेनेन्द्रियापलापपक्षस्याप्ययं दोष इति विवक्षता पुनस्तद्विरोधो ऽभिहितऽ / अत्रैवादिशब्देनोपमानपूर्विकया विरोधो दर्शयितव्यऽ--- यथा गवयोपमिताया गोस्तजज्ञानग्राह्यशक्त्यपह्नव इति / अर्थापत्तिपूर्विकया विरोथमुदाहरति--- शब्देति / अर्थाभिधानान्यथानुपपत्त्या हि वाचकशक्तिमर्थापत्त्या प्रमाय पुनस्तदनुपपत्त्यार्थपत्त्यन्तरेण शब्दनित्यत्वमवगम्यत इति
SK
शब्दपूर्विकार्थापत्तिविरोधमुदाहरति---श्रुतार्थापत्तिबाधैति / किं पुनरर्थापत्तिऽ प्रपञ्चेनोदाह्रियते, तद्विरोधप्रतिपादन हि ययाकयाचिदेकयापि सिध्यत्येव / तथा च प्रमाणान्तरविरोधेषु प्रपञ्चो न दर्शितऽ / अर्थापत्तिवद्वा प्रमाणान्तरविरोधो ऽपि प्रपञ्चेन वाच्यऽ / सत्यम् / षोढा भिन्नेरेव षडभिरत्र विरोधो वार्तिककारस्य विवक्षितऽ, तत्प्रदर्शनार्थमेव षटप्रमाणप्रसूतार्थापत्तिरुदाहृता / तेनैव मार्गेण प्रमाणान्तरेष्वपि प्रपञ्चो दर्शयितव्यऽ / यथा तावत् प्रत्यक्षबाध एवानुभूतिस्मृत्यनुमानादिभिऽ षष्ठवर्जं षोढा भिद्यते / स्वेद्यमानस्य वादिनो ऽनुष्णो वह्निरिति प्रतिज्ञा अनुभवस्थेनैव प्रत्यक्षेण विरुध्यते / अनासन्नग्निस्तु सैव प्रतिज्ञा स्मृतिस्थेन प्रत्यक्षेण विरुध्यते, यदा खल्वयं वादकाले ऽनुष्णो वह्निरिति प्रतिजानाति तदैनमितरऽ स्मारयति किं न स्मरसि पूर्वानुभूतमग्नेरुष्णत्वं यदेवमात्थेति, स तत् स्मृत्वा ततऽ प्रत्यक्षान्निवर्तत इति भवति स्मृतप्रत्यक्षबाधऽ / अनुमितप्रत्यक्षबाधस्तु कयत्राप्तमुखे चेष्टाविशेषादर्शनेन तदवगततिक्कतादिरसनिवारणं प्रतिज्ञायते, मुखवैरूप्येण हि तस्य तिक्तानुभवो ऽनुमीयते अतस्तद्विपरीतपक्षस्यानुमितप्रत्यक्षबाधऽ / श्रुतप्रत्यक्षबाधस्तु यत्र केनचिदर्थे कस्मिश्चिदपहनुते साक्षिभिर्दृष्टो ऽयमर्थ इति साक्षिप्रत्यक्षेण बाधो ऽभिधीयते / न चैष शब्दबाधऽ / न ह्यत्र तैरर्थो ऽभिधीयते / किन्तु दर्शनम् / अतस्तद्दर्शनानुसार्येव निर्णयऽ / दर्शनं तु तैऽ स्वशब्देन प्रत्याय्यत इति शब्दावगतप्रत्यक्षविरोध एवायम् / उपमानं तु प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयमित्यन्यतऽ सिद्धस्य सादृश्यं गोचरयति / यथा दात्रादिप्रत्यभिज्ञायां यादृशी स्वात्मनिचेष्टा दृष्टा तां परत्रापि दृष्टवोपमिनोति ममेवास्यापि दात्रादिप्रत्यभिज्ञा प्रत्यक्षमुत्पन्ना, कथमन्यथा पूर्वेद्युरर्धकृतकर्मसमापने परेद्युऽ प्रवर्तते / इह च चेष्टया तदनुरूपं परगोचरमनुमाय स्वज्ञानसादृश्यं तत्रोपमीयते / यद्यपि चात्रानुमानावगतप्रतय्क्षबाध एव शक्यो दर्शयितुम्, तथापि स्वज्ञानसादृश्यपरिच्छेदे शक्यं दर्शयितुमिति तदवगतप्रत्यक्षबाधो ऽभिधीते / प्रत्यक्षसत्तैवोपमानेन प्रमीयते / अर्थापत्त्यवगतप्रत्यक्षबाधस्त्वेवं दर्शयितव्यऽ / यदा हि बहुषु गच्छत्सु तोयार्थिषु तटाकमेकस्तदाहरणाय प्रस्थितो विलम्बते तदा तद्विलम्बनान्यथानुपपत्त्या तदीयं तोयप्रत्यक्षमर्थापत्त्या प्रमीयते / तत्र तद्विपरीतो निस्तोयतटाकपक्षोर्ऽथापत्तिसिद्धेन प्रत्यक्षेण बाध्यते / अभावेन तु भावरूपं प्रत्यक्षं नावगम्यत इति तदनवगतप्रतय्क्षविरोधो नेहोदाह्रियते / षोढा विभक्तमनुमानबाधमतऽ परमनुसन्धास्यामऽ---धूमावगतवहनिप्रतिषेधे तावत् प्रत्यक्षपूर्वानुमाबाधऽ / धूमानुमितादेव वहनेरुष्णत्वे ऽनुमिते तद्विपरीतपक्षो ऽनुमितानुमानेन बाध्यते / यत्र तु ऽदेवस्य त्वेति निर्वपतिऽ इति प्रतीतविनियोगान्मन्त्रशेषे ऽनुमिते तद्विपरीतऽ पक्षो गृह्यते, तत्रागमानुमानबाधऽ / नित्ये तु कर्मणि प्रवृत्ते व्रीहीणामपचारे तत्सदृशेषु नीवारेषूपमितेषु ऽव्रीहिभिर्यजेतेऽति चोदना नीवारविषयत्वेनानुमीयते / व्रीह्यवयवा हि तद्विपयतया ज्ञातसम्बन्धास्तामनुमापयन्ति / न हि तस्याऽ स्वरूपेण व्रीहयो विषयभूताऽ, तदवयवास्तु चूर्णीभूता व्रीहिशास्त्रार्थऽ / ते च नीवारेष्वपि सन्तीति व्रीह्यवयवसामान्योपमितनीवारगामिनी व्रीहिचोदनानुमीयते / तदिहातद्गोचरत्वपक्षस्योपमानपूर्वकानुमानबाधऽ / अर्थापत्तिपूर्वकानुमानबाधस्तु श्रावणत्वपक्षे ऽभिहित एव / यत्र दूराद् वृक्षाभावं विदित्वा तच्छायाभावो ऽनुमीयते तत्राभावपूर्वकानुमानेन छायासद्भावपक्षो बाध्यते / प्रत्यक्षशब्दबाधस्तु त्रिधा दर्शित एव / अन्यो ऽपि श्रुतिस्मृतिभ्यां दर्शयितव्यऽ / अष्टकादीनामधर्मत्वपक्षस्तु कर्तृसामान्यानुमतिशब्दविरुद्धऽ स्मृत्यधिकरणे दर्शितऽ / शक्यं ह्यष्टकादयऽ शब्दमूलाशास्त्रस्थार्यावर्तनिवासिकर्तृकत्वादग्निहोत्रादिवदित्यनुमातुम् / आगमिकशब्दबाधस्तु यत्र शाखान्तरगतश्रुतिविषयविवादे स्मृतिनिब्नधनकाराणां वचनेन श्रुतिसद्भावो निश्चीयते, तत्र ह्याप्तागमावगतनित्यागमविरोधो विपरीतपक्षस्य सम्भवति / उपमितशब्दविरोधस्तु मन्वादिस्मृतिभ्योर्ऽयापत्त्या वैदिकं किमपि मूलमस्तीति कल्पिते स्मार्तवाक्यसदृश एव मूल उपमितेर्ऽथवादमूलत्वपक्ष उपमितशब्देन बाध्यते / विश्वजिदफलत्वपक्षस्तु श्रुतार्थपत्तिसिद्धवधारणे तस्य व्यापारऽ तत्राभावावधारितविधिकात्स्नर्ये ज्योतिष्टामेप्राकृतेतिकर्तव्यताप्राप्तिक्षो बाध्यते / यथा वक्ष्यति---ऽकृत्स्नविधानादपूर्वऽ सोमऽइति / व्रीह्यभावे तु नीवाराणामग्राह्यतापक्षऽ प्रत्यक्षजोपमानविरुद्धऽ / अनुमानपूर्व कोपमानबाधस्तु यदा ह्यादित्यस्य देशान्तरप्राप्त्या गतिमनुमायतन्मध्ये वान्ते वा सूर्यगतिऽ तादृशी वत्सरान्तेष्विति तत्र गितवैसादृश्यपक्षो ऽनुमानपूर्वकोपमानेन बाध्यते / पूतीका न सोमसदृशा इति तु पक्षऽ शब्दपूर्वकोपमानविरुद्धऽ / सामपूतीकयोर्हि सादृश्यं न प्रत्यक्षम् / न
SK
शशशृङ्गादिसम्भावविरोधो ऽनुपलब्धितऽ // Mस्व्_५,४.६९ //
SK
एवं च धर्मसम्बन्धबाधस्तावदुदाहृतऽ / धर्मधर्म्युभयेषां च स्वरूपस्वविशेषयोऽ // Mस्व्_५,४.७० //
SK
चानुमयेम् / शब्देनैव तु सोमांशुजातत्वं पूतीकानां प्रतिपादयता कार्यकारणयोरौचित्येन सारूप्यंप्रतिपादितमिति शब्दावगतकार्यकारमप्रभवत्वात् पूतीकानां सोमसादृश्योपमानस्य तद्विपर्ययऽ शब्दपूर्वकोपमानविरुद्धो भवति / ज्योतिष्टोमिका हि धर्माऽ सत्राहीनेषु न भवन्तीति पक्ष उपमानोपमानेन बाध्यते / ज्योतिष्टामोपमानेन हि ते द्वादशाहं गच्छन्ति द्वादशाहोपमानेन च सत्राहीनाविति / यदा त्वात्मेन्द्रियसादृश्यविशिष्टानि परेन्द्रियाण्युपमीयन्ते तत्र तन्निषेधोर्ऽथापत्त्युपमानेन बाध्यते / वेदकारनास्तिता शशशृङ्गाद्यभावसदृशी न भवतीति पक्षो ऽभावपूर्वाकोपमानेन बाध्यते / द्वयोरप्यभावेनाभावे ऽवगते सादृश्यमुपमीयते / अर्थापत्तिविरोधस्तु षडविधो वर्णित एव / अभावविरोधं त्वनन्तरमेव वक्ष्यामऽ
SK
अभावविरोधमिदानीमुदाहरति---शशशृङ्गादिति / अयं च प्रत्यक्षाभावविरोधऽ / यदा त्वमुं राशिं सूर्यो गचो न वेति चिन्त्यमाने गणितकुशलेन गणितानुमानाभावान्न गत इत्यवगते भ्रान्तो गत इति वदति / तत्रानुमानाभावविरोधऽ / चैत्यवन्दनादिधर्मत्वपक्षस्तु श्रुत्याद्यागमाभावविरुद्धऽ / पूर्ववन्तो दर्वीहोमा इति तूपमानाभावेन विरुध्यते / तथा शब्दे श्रोत्रदेशमनागच्छति श्रोत्रे च शब्देशं ध्वनायागमनमात्रेणैव शब्दश्वणोपपत्तेर्योर्ऽथापत्या शब्दऽ शब्दान्तरमारमते ततऽ क्रमेणान्त्यऽ श्रोत्रेण गृह्यते इत्यन्यथानुपपत्त्या प्रतिजानाति तत्प्रतिज्ञा अर्थापत्त्यभावेन बाध्यते / अभावाभावस्त्येवं दर्शयितव्यऽ--- यदा हि कर्त्रभावेन वेदानां दोषाभावो ऽवगतो भवति तदा दोषवत्पक्षस्याभावाभावेन बाध इति
SK
एवं तावद् धर्मसम्बन्धबाधऽ षोढा प्रपञ्चितऽ / धर्मधर्म्युभयस्वरूपस्वविशेषबाधमतऽ परं वक्ष्याम इति संक्षिप्य सुखग्रहणार्थं श्रोतृबुद्धिसमाधानार्थं
SK
श्रुत्यर्थाक्षिप्तयोर्वाक्ये वाच्यऽ सर्वप्रमाणकऽ / तृणादिवक्रियाहेतोरग्निमद्धिमसाधने // Mस्व्_५,४.७१ //
SK
प्रत्यक्षावगताच्छैत्यात् तद्विशेषोत्थबाधनम् / अधर्मो विहितो दुऽखं कोरत्यल्पमितीह तु // Mस्व्_५,४.७२ //
SK
विहितत्वादधर्मस्य स्वरूपस्यैव बाधनम् / तथा दुऽखनिमित्तत्वं विशेषस्तस्य बाध्यते // Mस्व्_५,४.७३ //
SK
च वृत्तवर्तिष्यमाणयोऽ सङ्कीर्तनं करोति---एवमितिसार्धेन / श्रुत्यर्थाक्षिप्तयोरिति / स्वरूपं तावत् सर्वत्र श्रुत्यर्थ एव / तद्विशेषो ऽप्यर्थाक्षिप्तऽ / धर्मधर्मिणोर्हि स्वरूपं येन विशेषेण व्याप्तं तमाक्षिपति / तच्चानन्तरमेव वक्ष्यत इति / श्रुत्यर्थश्चाक्षिप्तश्चेति विग्रह इति
SK
तत्र धर्मस्वरूपबाधो वर्णित एवेति तमकृत्वैव तद्विविशेषणबाधमुदाहरति---तृणादीति / यो हि तृणादिविकारदर्शनादग्निमद्धिमं साधयति तस्याभावेन तावद्धर्मस्वरूपबाधो भवत्येव / तद्विशेषणमप्युष्ण्तवमर्थाक्षिप्तं प्रत्यक्षावगतेन शैत्येन बाध्यते / न च वाच्यमनुष्णो ऽपि वह्निऽ प्रभासु दृष्ट इति कथमर्थाक्षिप्तो विशेष इति / प्रभास्वप्येवं वहनिरुष्ण एव, अभिभूतत्वात्तु स्पर्शो न गृह्यते, न पुनरुष्णतां जातु जहाति, स्वाभाविकी हि सा तस्य / न च हिमे ऽप्यभिभूतत्वादग्रहणमिति वाच्यम् / तद्विपरीतशैत्योपलम्भात् / हेतूपन्यासस्तु पक्षदोषाभिधानावसरे तदबीजमात्रप्रदर्शनार्थं सो ऽयमभावेन धर्मविशेषबाध इति
SK
धर्मिणस्तु द्वप्रकारो ऽपि बाधो ऽनुक्त एवेति उभयथा तद्बाधोदाहरणमाह---अधर्मैति सार्धेन / हिंसा किलाधर्म इति सामान्यतो ऽवगतम् / तद् यदा विहितो ऽधर्मो दैक्षपशुहिंसदारयिद् दुऽखं करोतीत्यनूद्यतदल्पमिति साध्यते, तदापि विहितत्वेनाधर्मतैव बाध्यते तद्विशेषो ऽपि दुऽखनिमित्तत्वं यदर्थाक्षिप्तं तदपि तेनैव बाध्यते / न हि विहितं नाम किमपि दुऽखस्य निदानं भवति / पुरुषार्थैकसाधनत्वाद् विधेऽ / सो ऽय
SK
अयथार्था धियऽ सर्वा इत्युक्ते द्वयबाधनम् / स्वरूपस्वाविशेषाभ्यां तद्धीमिथ्यात्वसाधनात् // Mस्व्_५,४.७४ //
SK
क्षणिकात्यन्तमिथ्यात्वे विशेषौ च द्वयोरिह / दर्शनादेकदेशस्येत्यनेनैतद् व्युदस्यते // Mस्व्_५,४.७५ //
SK
यत्रैकस्योभयोर्वापि संशयाधीविपर्ययाऽ / शैत्यान्न दाहको वह्निश्चाक्षुषत्वादनित्यता // Mस्व्_५,४.७६ //
SK
शब्दस्येत्येवमादौ तु द्वयोऽ सिद्धो विपर्ययऽ /
SK
मागमेन धर्मिस्वरूपविशेषबाधऽ / न चात्र श्रुत्युपात्त एव स्वविशेष इति चोदनीयम् / अर्थाक्षिप्तस्याल्पतया विधानार्थमनुवादादिति
SK
उभयस्योभयविरोधमुदाहरति---अयथार्थेति / यदा हि सर्वज्ञानानि मिथ्येति साध्यते तदा धर्मधर्मिग्राहिणोरपि ज्ञानयोर्मिथ्यात्वात् तद्विशेषणग्राहिणोश्च मिथ्यात्वाद् भवत्युभयस्यैवोभयबाध इति / अयं च धर्मोक्त्योभयबाध इति शब्दबाध एव निवेशनीय इति समधिगतं तावदुभयोऽ स्वरूपबाध इति
SK
कौ पुनस्तद्विसेषावपर्थाक्षिप्तौ बाध्येते / अत आह---क्षणिकेति / बाध्येते इति विपरिणम्य सम्बन्धो दर्शयितव्य इति / तत्र चैकदेशदर्शनादित्युच्यते / तत्र च दर्शनग्रहणमतिरिच्यते / एकदेशादित्येव वक्तव्यम् / तद्धि लिङ्गं न पुनर्दर्शनमतो व्याख्येयमेकदेशदर्शनादित्यत आह---- दर्शनादिति / अयमर्थऽ / नैकदेशऽ सत्तामात्रेण लिङ्गम् / किन्तु स्वग्रहणम् / शन्कोति चोभयमुपादातुम्, णिज्भावाभावयोरपि निर्देशसाधारण्यात् / स्वप्रतिपत्तौ तावदेकदेशे दृष्टे बुद्धिरनुमानमित्यर्थऽ / परार्थप्रयोगे तु णिजन्तदर्शनपदमेकदेशं दर्शयित्वा या बुद्धिर्जायते सानुमानमित्युक्तं भवति / तदिदं तत्रोञ्चरितदर्शनपदमर्थद्वये व्याख्येयम् / अनेन च यत्रैकदेशे वादिप्रतिवादिनोरेकस्योभयोर्वा संशयो ऽधीर्विपर्ययो वा भवति सो ऽसिद्धाभिधानो हेत्वाभासो व्युदस्यते / न ह्यसौ तादृशऽ परस्मै दरशयितुं शक्यते /
SK
कृतकत्वगुणत्वादौ परोक्ते याज्ञिकं प्रति // Mस्व्_५,४.७७ //
SK
स्वोक्ते चैवप्रकारे स्यादसिद्धो ऽन्यतरस्य तु / बाष्पादिभावसन्दिग्धो द्वयोरन्यतरस्य वा // Mस्व्_५,४.७८ //
SK
धूमस्त्रिधाप्यसिद्धऽ स्यादेवं तावत्स्वरूपतऽ / एत एव प्रकाराऽ स्युराश्रयासिद्धकल्पने // Mस्व्_५,४.७९ //
SK
ज्ञाते ऽपि हि स्वरूपेण नातद्धर्मे ऽस्ति हेतुता /
SK
स्वयं वा दृष्टो भवति / अधीरज्ञानमित्यर्थऽ / तत्र द्वयविपर्यस्तोदाहरणमाह---शैत्यादिति / वह्निशब्दयोर्द्वयोरपि शैत्यचाक्षुषत्वे वादिप्रतिवादिनोर्विपर्ययादसिद्ध इति ||७५-७६||
SK
अन्यतरासिद्धोदाहरणमाह---कृतकत्वेति / यदा वैशिषिको याज्ञिकं प्रति शब्दो ऽनित्यऽ कृतकत्वात् गुणत्वाद्वेति हेतुं प्रयुङ्क्ते,तदासौ स्वरूपेण तस्यासिद्धो भवति / यदा तु स्वयमेवंप्रकारं हेतुं परं प्रति वदति तदा तस्यासिद्धिऽ / यथा नित्यऽ शब्दऽ द्रव्यत्वादाकाशवदिति / न हि वैशिषिकाऽ शब्दं द्रव्यमभ्युपगच्छन्ति गुणत्वाभ्युपगमात् / एवंप्रकार इति परासिद्धप्रकार इत्यर्थऽ
SK
सन्दिग्धासिद्धमुदाहरति---बाष्पादीतिस्यादन्तेन / यदा हि धूमो बाष्पादिभावेन सन्दिह्यते द्वाभ्यामेकेन वा किंस्विदयं रजसामुद्गमो बाष्पो वा धूमो वेति तदा द्वयोरप्यन्ततरस्य वा सन्दिग्धासिद्धो भवति / एवं तावत् सन्देहविपर्ययाभायमसिद्धतोदाहृता / अज्ञानेन त्वप्रसिद्धार्थपदप्रयोगे दर्शयितव्या / त्रिधेति / वादिप्रतिवाद्युभयैस्त्रयऽ प्रकारा इति / एवं तावत् स्वरूपतो हेतुरसिद्धो भवतीत्युक्तमित्याह--- एवमिति
SK
आश्रयासिद्धताप्येतैरेव ज्ञानादिभिर्वादिप्रतिवाद्युभयापेक्षैस्त्रिधा भिद्यत इत्याह---एत एवेति
SK
ननु स्वरूपासिद्ध्याहेतुर्दुष्येत् आश्रयासिद्ध्या तु कस्तस्य दोषऽ अत आह---ज्ञाते ऽपीति / अयमभिप्राय---न स्वरूपेण हेतुर्गमकऽ,अपितु
SK
सर्वत्र दृष्टकार्यत्वादात्मा सर्वगतस्त्विति // Mस्व्_५,४.८० //
SK
बौद्धं प्रत्याश्रयासिद्धो लौकिकादेस्तु संशयऽ / वाङ्मात्रासिद्धिमात्रेण व्यवहाराप्रकल्पनात् // Mस्व्_५,४.८१ //
SK
द्वाभ्यां यो ऽसत्वतो ज्ञातस्तद्वचो दूषणं मतम् / इतरत् साधनं तु स्यात् वादिना यदि साध्यते // Mस्व्_५,४.८२ //
SK
पक्षधर्मतया ज्ञातऽ / न चाप्रसिद्धाश्रयस्तद्धर्मतया ज्ञातुं शक्यते / शैत्यचाक्षुषत्वयोरपि पक्षधर्मत्वासिद्धयैवाहेतुत्वम् / सिद्धं हि स्वरूपेण जले शैत्यं रूपरूपिरूपपैकार्थसमवायिषु च चाक्षुषत्वम् / शब्दा(दौ) हि पक्षधर्मतया तु तयोरसिद्धत्वमिति तद्धर्मरूपासिद्धवचनम् / अत आश्रयासिद्धावपि पक्षधर्मत्वासिद्धेरहेतुत्वं युक्तमेवेति
SK
तामिदानीमाश्रयासिद्धिमुदाहरति---सर्वत्रेति असिद्धान्तेन / यदा हि बोद्धं प्रति सर्वत्र कार्योपलम्भादात्मनऽ सर्वगतत्वं मीमांसकाऽ साधयन्ति, तदान्यतरासिद्धाश्रयो हेतुर्भवति / बौद्धस्यात्मननो ऽसिद्धेरिति / यस्तु प्रमाणगतिमजानानो लौकिकऽ कश्चिदात्मनि संशेते तस्मिन्नेव हेतावुच्यमाने सद्निग्धाश्रयो हेतुरित्याह--- लौकिकादेरिति / आत्मनि संशय इत्यर्थऽ / आदिशब्देन सतीर्थिकानामपि येषामात्मनि संशयऽ त उपाद्रियन्ते / एवं संशयविपर्ययाभ्यामाश्रयासिद्धिरुक्ता / अज्ञानेनाप्याश्रयासिद्घिप्रसिद्धपदप्रयोगे दर्शयितव्या / यस्य हि पक्षवचनऽ शब्दो न प्रसिद्धस्तं प्रत्येवञ्जातीयके हेतावुच्यमाने ऽज्ञानेनाश्रयासिद्धिरिति
SK
ननु यद्यन्यतरासिद्ध्या हेतुर्दुष्यति, एवं तर्ह्यमूर्तत्वादात्मा निष्क्रिय इत्येवमादेरपि हेतुत्वं न स्यात् दिगम्बराणामात्मनो ऽमूर्तत्वासिद्धेऽ / मूर्तं हि ते शरीरपरिणाममात्माने मन्यन्ते / अकर्तृकत्वान्नित्यो वेद इति च बौद्धानां तदसिद्धेरहेतुऽ / शब्दो ऽनित्यऽ कृतकत्वादिति मीमांसकानामसिद्धेऽ / तदेव हेतुर्नाम न कश्चित् व्यवतिष्ठते / अत आह---वाङ्मात्रेति / अयमर्थऽ--नासिद्धो ममेति वाङ्मात्राद्धेतुरसिद्धो भवति / तथा सति न कश्चिदनुमानव्यवहारऽ प्रकल्पेत / द्वाभ्यां तु वादिप्रतिवादिभ्यामसत्त्वेना
SK
निराकरणसिद्धौ वा दूषणं प्रतिवादिनऽ / सन्देहविपरीतत्वहेतू चात्र निराकृतौ // Mस्व्_५,४.८३ //
SK
ज्ञातसम्बन्धवचनात् त्रयऽ संशयहेतवऽ /
SK
वधारितो ऽसिद्धोभवति, तस्यैव तथाविषयस्यासिद्धतावचनं वादिनो दूषणं भवति नासिद्ध इति वाक्प्रवृत्तिमात्रादिति ||८१ ||ननु किमिदं द्वयोरसिद्धो ऽसिद्ध इति, न हि विवदमानयोरेकत्रार्थे सम्प्रतिपत्तिर्भवति,न हि जन्मसहस्रेणापि बौद्धो वेदानामकर्तृकत्वमन्यते, मीमांसको वापि कण्ठगतप्राणो ऽपि कृतकतां शब्दस्य / तदेवमादावुभयसम्प्रतिपत्तेरभावान्न हेतुभावऽवतिष्ठते / अत आह---इतरदिति, अयमभिप्रायऽ--- न द्वयोरसंप्रतिपत्तिरित्येतावतैव साधनदूषणयोरनवकॢप्तिऽ / यदि वादिना प्रयुङ्क्ते साधने प्रतिवादिना चासिद्धत्व उद्भाविते वादिना तत्साधनं साध्यते, ततो भवति साधनम् / यदि तुपरमार्थोपपत्त्याभिधानेन प्रतिवादिना निराक्रियते ततस्तस्य दूषणं सिध्यति / तत्प्रमाणतऽ सिद्धिरेवात्रोपयुज्यते नोभयाभ्युपगमऽ / द्वाभ्यां यो ऽसत्त्वतो ज्ञात इत्यपि प्रमाणसिद्ध्यभिप्रायेणोक्तम्, नाभ्युपगममात्रापेक्षया / यद्धि प्रमाणेन साध्यते बाध्यते वा तत्र प्रायेणोभयसम्प्रतिपत्तिर्दृष्टेति / असत्त्वतो ज्ञातापेक्षयेतरच्छब्दऽ / यद्वादिना सत्त्वेन ज्ञातं भवति प्रतिवादिना च वैपरित्येन, तद्वादिना साध्यमानं साधनं भवति / एतच्च जल्पन्याये स्थित्वोक्तम् / वादे तु द्वयोरपि सम्प्रतिपत्तिर्भवत्येवेति / न चैवमन्यतरासिद्धिरदूषणम्, यावत्तु वादी न साधनं साधयति, तावदन्यतरासिद्ध्या निगृह्यते, साधिते तु तस्मिन् दूषणं परिहृतं भवतीति ||८२ १/२||
SK
दर्शितं तावदसन्निकृष्टैकदेशशब्दयोर्व्यावर्त्य, ज्ञातसम्बन्धपदस्येदानी व्यावर्त्यं दर्शयतिसन्देहेतिवचनान्तेन / सन्देहविपरीतहेत्वोर्हि न सम्बन्धो ज्ञातो भवति, न हि साधारणऽ संशयहेतुऽ प्रमेयत्वं नित्यत्वेन ज्ञातसम्बन्धमिति शक्यते वक्तुम्, घटादिष्वनित्यतयापि ज्ञातसम्बन्धत्वात् नापि कृतकत्वं नित्यतया, तेष्वेवानित्यतया सम्बन्धसवित्तेऽ / अतस्तज्जातीयतुभयं न ज्ञातसंबन्धमिति ज्ञातसम्बन्धपदेन व्युदस्यति / अत्र चासन्निकृष्टपदात्, प्रभृति प्रातिलोभ्येन वार्तिककृता लक्षणग्रन्थे विशेषणोपदानफलमुक्तम्,
SK
सत् साध्ये तदभावे च द्वाभ्यां व्यावृत्त एव च // Mस्व्_५,४.८४ //
SK
द्वौ विरुद्धार्थसम्बद्धौ यावेकत्रैकदेशिनि / प्रमेयानित्यतामूर्तिधर्माऽ साधारणा द्वयोऽ // Mस्व्_५,४.८५ //
SK
तत् कस्य हेतोऽ / प्रतीतिक्रमानुसारेण / प्रमाता हि प्रथमं पक्ष प्रत्येति, ततो हेतुमपेक्षते,ततो दृष्टान्तवचनम् अतो ऽसत्पक्षनिराकरणार्थं प्रयुक्तमसन्निकृष्टपदमेव तावदुपवर्णितम् / ततो हेतुपदमेकदेशदर्शनादिति, ततो ज्ञातसम्बन्धस्येति दृष्टान्तदोषा अपि साध्यहेतुविकलत्वादयो ऽनेन निराक्रियन्ते / तद्वैकल्ये ऽपि स्वयं सम्बन्धो ज्ञातुं परस्मै प्रतिपादयितुं शक्यत इति / कियन्तऽ पुनऽ संशयहेतवऽ, आत आह---त्रय इति ||८३ १/२||
SK
तानेव त्रीन् प्रकारान् दर्शयति---सन्निति / साध्यतदभावयोऽ सन् साधारणो ऽभिधीयते / यथा प्रमेयत्वं नित्यानित्यत्वयोऽ / द्वाभ्यां साध्यतदभावाभ्यां व्यावृत्तो ऽसाधारणऽ क्षितरेव गन्धवत्त्वम् / व्यावृतं हि तत् सकलसजातीयविजातीयद्रव्यान्तरगुणकर्मभ्यऽ / द्वौ विरुद्धार्थसम्बन्धाविति / यौ विरुद्धाव्यभिचारीति परैरभिहितौ, तौ चानन्तरमेवोदाहार्याविति नेह व्याख्यायेते इति ||८४ १/२||
SK
तत्र साधारणं तावदुदाहरणैऽ प्रपञ्चयति---प्रमेयेति / एते च धर्माऽ साध्यतदभावयोऽ साधारणा इत्यर्थऽ
SK
केषु पुनऽ साध्येषु तेषां साधारण्यमत आह---नित्येति नित्येष्वन्तेन / कथं पुनर्वैषम्ये यथासङ्ख्यमत आह--- द्विरनित्यतेति / अनित्यता स्वस्थाने द्विऽ पठितव्या / अतो यथासङ्ख्योपपत्तिऽ / तदयमर्थऽ--- योर्दृष्टमिति साधारणत्वादन्नैकान्ताय प्रभवति / अतो नैकान्तरिकमित्युच्यते / अत एव च संशयहेतुऽ / संशयो हि सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च भवति / यथा स्थाणुपुरुषयोरारोहपरिणाहसामान्यदर्शनाद् भेदक
SK
नित्या भूर्गन्धवत्त्वेन स्यादसाधारणस्त्वयम् // Mस्व्_५,४.८६ //
SK
निश्चयैकाङ्गवैकल्यादेष संशयकारणम् /
SK
धर्मानवधारणाच्च विशेषस्मृत्यपेक्षऽ / किंस्विदयं स्थाणुराहोस्वित् पुरुष इत्यनवधारणज्ञानात्मकऽ संशयो जायते / एवं प्रमेयत्वमपि नित्यानित्ययोऽ सामान्यं विदितवतस्तद्विशेषमस्मरणापेक्षस्तयोरेवानिर्धारणात्मकऽ प्रत्ययऽ संशयापरनामा जायत इति प्रमेयत्वं संशयहेतुऽ / अयं च कृत्स्नोभयव्यापी संशयहेतुऽ / तथा यत्नोत्थऽ शब्दऽ अनित्यत्वादित्ययमपि साधारण एव / अयत्नोत्थेषु केषुचिद्विद्युदादिषु गतत्वाद्यत्नोत्थेषु च सर्वेषु घटादिषु वृत्तेऽ / तदय सकलविपक्षव्यापती सपक्षैकदेशगत इति वेदितव्यम् / तथा यत्नोत्थऽ शब्दऽ अनित्यत्वादिति, यत्नोत्थेषु सर्वेष्वेवानित्यता दृष्टा / तदभावे ऽपि क्वचिन्मेघादौ दृष्टा, न व्योमादौ इति, सकलसपक्षव्यापी विपक्षैकदेशवर्ती चायं साधारण इत्यवसातव्यम् / उभयैकदेशगतस्तु यथा नितय्ऽ शब्दऽ अमूर्तत्वादिति / अमूर्तता हि न सर्वनित्यव्यापिनी व्योमादिषु भावादणुषु चाभावादनित्यमपि न स्वं व्याप्नोति घटकुड्यादिष्वभावात् कर्मादिषु भावात् / सर्वत्र चात्र द्वयवृत्तित्वमेव हेतोऽ संशये कारणवृत्त्यंशस्तु सन्नपि न कारणमित्यतन्त्रम् / अत एव साधारणस्य चतुर्धाविभागं वदन्ति ये तेषामसावनुपयोग्येव साधनदूषणयोरित्युपेक्षयोरवृत्त्यंशऽ क्वचिदुपयुज्यते / अण्वापि हि मात्रया विपक्षे वर्तमानो हेतुस्त्याज्य एव / दूषणवादिनो ऽपि विपक्षवृत्तिमात्रं वचनीयमिति किं तदवान्तरविशेषाश्रयणेन / वार्तिककारेणापि सर्वसाधारणेषु द्वयवृत्तित्वमेव संशयकारणमिति दर्शयितुमुदाहरणप्रपञ्चो दर्शितऽ, न पुनश्चातुर्विध्यमभमेत्य / यथाह--- ᳚न त्वेकस्योपयोगो ऽस्ति दूषणोद्भावनं प्रति / त्यज्यते साधने चैवं साधारण्याद् विशेषतऽ ||इति ८५ १/२||
SK
प्रपञ्चतऽ साधारणऽ, असाधारणमिदानीं संशयहेतुमुदाहरति---नित्या भूरिति / गन्धो हि पृथिव्याऽ स्वासाधारणो गुणऽ, न तां विहाय नित्यमनित्यं वा भावान्तरमाश्रययतीत्यसाधारण इति गीयत /
SK
साधारणो यथा दृष्टो बुद्धिद्वयनिमित्तकऽ // Mस्व्_५,४.८७ //
SK
विरुद्धैकानवाप्तेश्च संशये कारणं मतऽ / यत्रासाधारणो नास्ति तदवभावमुखेन तु // Mस्व्_५,४.८८ //
SK
द्वयासत्त्वविरोधाञ्च मतऽ संशयकारणम् /
SK
आह--- अस्त्वसाधारणं गन्धवत्त्वं, कथं तु संशयहेतुऽ, युक्तं हि पक्षद्वयावलम्बी साधारणो द्वयोरनवस्थाधियमादधानो यत्संशयहेतुरिति, असाधारणस्तु द्वाभ्यां व्यावृत्तो नैकत्रापि धियमुपजनयितुमलामिति कथमस्य संशयहेतुभावऽ, अत आह---निश्चयेति / हेतोर्हि निश्चयजनने ऽन्वयव्यतिरेकावङ्गमन्यतरापाये ऽपि न निश्चयाय हेतुऽ पर्याप्तो भवति / तद् यथा साधरणो ऽन्वयसनाथो ऽपि विनाकृतो व्यतिरेकेण न निश्चयाय प्रभवति, एवमेवासाधरणो ऽपि निश्चयस्यैकेनान्वयनाम्नाङ्गेन विलस्तमकुर्वन् संशयहेतुतां प्रतिपद्यत इति ||८६ १/२||
SK
ननूक्तं साधारणो द्वयगामी द्वये बुद्धिं जनयन् संशये हेतुरिति / असाधारणस्तु न किञ्चिद् ज्ञापयतीति नासावेकाङ्गविकलतामात्रेण संशयहेतुरिति युक्तमत आह---साधारणैति द्वयेन / अयमभिप्रायऽ---साधारणो ऽपि नोभयत्र बुद्धिजननात् संशयहेतुऽ, किन्तु विरुद्धोभयप्रतिपादनमुखेन, विरुद्धे द्युभयस्मिन् प्रतिपादिते तयोरेकत्र समवायसम्भवाद् व्याघातादेव संशयो भवति / तञ्चासाधारणे ऽप्यविशिष्टम्, असाधारणो ऽपि द्युभयस्माद् व्यावृत्तेस्तदभावं गमयन् द्वयाभावासम्भवादेव संशयं जनयति / न हि सम्भवति नित्यमनित्यं च वस्तु न भवतीति, धर्मद्वन्द्वैरेव हि नित्यानित्यत्वादिभिऽ सर्वं जनगदवस्थितम् / अत उभयाभावो विरुध्यते / न चोभयभावऽ, विरोधादेव / न चान्यतरपरिग्रहो ऽविशेषात् / तमिमं सङ्कटमासाद्य प्रामाणिकऽ संशेते / अयं चात्रावयवार्थऽ---यथा प्रमेयत्वादिऽ साधारणो दृष्टऽ सन् बुद्धिद्वयनिमित्तकऽ / बुद्धिद्वयं संशयेनिमित्तमस्थातीति बहुव्रीहिऽ, निमित्तशब्देन च बुद्धिद्वयस्य निमित्तमात्रतां कथयति / साध्यतदभावविषयं हि बुद्धिद्वयं निमित्तीकृत्य विरुद्धैकानवाप्तेरेव साधारणेन संशयो जन्यते / न हि परस्परविरुद्धाभ्यां नित्यानित्यत्वाभावेकऽ शब्दो व्याप्यते, धर्मिभेदनिबन्धनोहि विरुद्धधर्माभ्यासो दृष्टऽ / यथा नित्यं व्योम अनित्यं कार्यद्रव्यमिति / अतो ऽस्मात् प्रतीतिव्याघातादेव साधारणेन संशयो मन्यते / स चायमसाधारणस्यापि समानऽ / सो ऽपि हि यत्र नित्ये ऽनित्ये वा नास्ति तदभावं प्रतिपाद्य तन्मुखेन द्वयसत्त्वविरोधमापादयन् संशयकारणं भवतीति / इदं चासाधारणस्य संशयहेतुत्वं नामुमन्यन्ते / अव्यवस्थया ह्युभयस्मिन् मनसि विपरिवर्तमाने संशयो भवति / न चासाधारणेन किञ्चिद् बुद्धावाधीयते, तस्य केनचिदन्वयाभावात् / अपि च परिमितेष्वेव भावेषु संशयो दृष्टऽ / निवृत्तिमुखेन तु संशयजनने सर्वतो निवृत्तेनासाधारणेन सर्वतोमुखऽ संशयो जन्येत / न च सर्वविषयऽ संशयो दृष्टचरऽ / तस्य बुद्धावनारोहात् / नच क्वचिन्निवृत्तिमात्रेण सर्वत्राभावऽ शक्यते ऽवगन्तुम्, यन्मुखेन संशयो भवेत् / न ह्यनुवृत्तावदृष्टायां व्यावृत्तिऽ सिध्यति / अग्नावनुवर्तमानो हि धूमो दृष्टव्यतिरेको ऽग्निनियतस्वभावत्वेनावगतोर्ऽथाददृश्यमानेभ्यो ऽवग्निभ्यो व्यतिरिच्यत इत्यवगम्यते / यस्तु न केनचिदन्वितस्तस्य कथमनुपलब्धियोग्यात् सर्वतो व्यतिरेकऽ प्रतीयेत / ततो नानेन प्रकारेणासाधारणस्य संशयहेतुत्वम् / यदि त्वसाधारणधर्माणोभावा नित्यानित्यभावभाजो दृष्टा इति क्षितिमपि तद्धरिमिकामुपलभ्य नित्या वा स्यादनित्या वेति संशयो भवतीत्युच्यते / एवं तर्ह्यसाधारणधर्मत्वादेव बहुसाधारणात् संशयो नासाधारणात्, अन्यो ह्यसाधारणधर्मऽ अन्या च बहुसाधारणी तद्वत्ता / तद् यद्यसौ संशयकारणं जाता किं जातमसाधारणस्य / हन्तैवं साधारण एव संशयहेतुरभ्युपगतो भवतीति सिद्धम् / नासाधारणस्य संशयहेतुत्वम् / अन्यन्मतम्--- अनध्यवसायहेतुरेवायमिति / अस्ति किलानध्यवसायो नाम ज्ञानस्य प्रकारऽ / सो ऽसेन जन्यते / भवति हि तादृगधर्मदृशऽ किम्भूततस्यास्य धर्मो ऽयमित्यनध्यवसितावभासव्रत्ययऽ / नचैव प्रामाणम्, अनिश्चयात्मकत्वात् / न च संशयऽ पक्षद्वयासंस्पर्शात् / सो ऽयमेवंविधानध्यवसायो ऽसाधारणेन जन्यत इति / न त्वेतद घटते / न ह्यनव्यवसायो नाम कश्चिद् ज्ञानस्य प्रकारऽ, यमयं जनयेत् / अध्यवसायाभावो ऽनध्यवसायऽ / स च प्रागभावरूपत्वान्न जन्यऽ / अथान्यमात्रवचनो नञ् अब्राह्मणादिवदिष्यते ततो ऽध्यवसायादन्यऽ संशय
SK
सन्दिग्धहेतुता चैषां विषयापेक्षयोच्यते // Mस्व्_५,४.८९ //
SK
निर्णयस्यापि हेतुत्वं दृष्टं साध्यान्तरे यतऽ / व्यवच्छेदान्वयौ लब्ध्वा निष्क्रियादावमूर्तिवत् // Mस्व्_५,४.९० //
SK
एव तच्छब्दवाच्यो भवेत् / न च तद्धेतुरसाधारण इति फणितमेव / अथाधर्मादिवद् विपपरीतवचनो नञ्, एवं सति विपर्यवाच्यो ऽनध्यवसायशब्दो भवेत्, न च विपरीतावग्रहो ऽसाधारणेन जन्यत इति / यदि तु न मे ऽस्मिन् वस्तुन्यध्यवसायो ऽस्तीत्यध्यवसायाभावावधारणमेवानध्यवसायऽ, स तर्हि प्रमाणाभावेनैवाध्यवसायाभावो ऽवगम्यते / तत्र हेतोर्न व्यापारऽ / अतो जिज्ञासामात्रहेतुरसाधारण इति समर्थनीयम् / भवति हि तद्दर्शिनऽ कीदृग्धर्मो ऽयमितो धर्माद् भावो भवेदिति जिज्ञासा / यद्यपि चासौ शुद्धधर्मिदर्शनादपि कदाचिद् भवत्येव तथापि धर्मद्वारेणापि तावद् भवत्येवेति न तद्धेतुत्वमनुपपन्नम् / आह च--- तेनाज्ञानमसिद्धेभ्यो जिज्ञासानन्यगामिनऽ / सामान्यात्संशयो युक्तस्तथा स प्रतिसाधनात् || इति / यत्त्विहासाधारणस्य संशयहेतुत्वमुक्तं तत्परमतम् / ज्ञातसम्बन्धपदस्य हि व्यावर्तनीयमत्र दर्शयितुमभिप्रेतम्, तत् संशयहेतुत्वे ऽप्यसाधारणस्य घटत एव / भवतु तावदयं यस्य कस्यचिद्धेतुऽ / सर्वथा ज्ञातसम्बन्धपदेन व्युदस्यत इति तात्पर्यम् / शाक्यास्तु संशयहेतुमसाधारणं मन्यन्ते, उदाहरन्ति च शब्दानित्यत्वे साध्ये श्रावणत्वम् / यथोक्तम्--- अनैकान्तिकमेनैवनं शाक्याऽ प्रायेण मन्वते / उभयस्मान्निवृत्तत्वादुभयत्रानुवृत्तिवत्||
SK
इति / इदं च वार्त्तिककृतैव प्रदेशान्तरे स्वयमुपन्यस्य यथोक्तदूषणैर्दूषि तमेवेति
SK
किं पुनरुदाहृतानां स्वाभाविकमेव संशयदेतुत्वं नेत्याह---सन्दिग्धेति
SK
कारणमाह---निर्णयस्येति लब्ध्वान्तेन / क्व दृष्टमत आह---निष्क्रियेति / अमूर्तता हि नित्यत्वे साध्ये नित्यानित्यव्योमकर्मसाधारणी संशयहेतुरासीदत्, सैव तु निष्क्रियत्वे साध्ये लब्ध्वान्वयव्यतिरेकौ हेतुतां
SK
क्षित्येकदेशसिद्धत्वे गन्धवत्त्वस्य हेतुता / यत्राप्रत्यक्षता वायोररूपतित्वेन साध्यते // Mस्व्_५,४.९१ //
SK
स्पर्शात् प्रत्यक्षता वासौ विरुद्धाव्यभिचारिता /
SK
प्रतिपाद्यते / व्याप्तं ह्यमूर्तत्वं निष्क्रियत्वेन / न ह्यमूर्तं गगनमात्मा वा परिसस्पन्दते / न चैवं तद्वतां रथादीनाममूर्तत्वं दृष्टमिति
SK
असाधारणस्य निर्णये हेतुत्वं दर्शयति---क्षित्येकदेशेति / गन्धविशेषदर्शिनो हि विदितव्याप्तेऽ क्षित्येकदेशसिद्धत्वे भवत्यानुमानिको निर्णय इति ||९० १/२||
SK
द्वौ विरुद्धार्थसम्बन्धावेकदेशिनि संशये हेतुरित्युक्तम् / तत्रोदाहरणमाह---यत्रेति / यत्र हि न साक्षात्कारिज्ञानविषयो वायुऽ अरूपत्वादित्येकऽ साधयति / अपरो ऽपि स्पर्शात् तद्विपर्ययम् / तत्रासौ विरुद्धाव्यभिचारिता भवतीति शाक्यैरभिहितम् / तत्र तुल्यबलोभयहेतुसन्निपातात् संशयऽ / द्वयोरपि साधनयोऽ प्रसिद्धावयवत्वाविशेषात् / अरूपं ह्यरूपिसमवेतमप्रत्यक्षमिति काणादा मन्यन्ते / तथा च वायुऽ / अतो न प्रत्यक्षऽ / कर्मस्वरूपमपि रूपैकार्थसमवायाञ्चाक्षुषमाचक्षते / एवं स्पर्शो ऽपि वायोऽ प्रसिद्ध एव / प्रसिद्धव्याप्तिकश्चापरोक्षत्वेन / अतस्तुल्यबलत्वम् / ततश्च संशयऽ, विरुद्धयोरेकत्रोपानपातासम्भवात्, समुञ्चयानुपपत्तेऽ, सिद्धे च वस्तुनि विकल्पासम्भवात् बाध्यबाधकभावस्यापि तुल्यकक्ष्यत्वात् / अतो ऽनवस्थयोभयस्मिन् परिप्लवमाने भवति संशयऽ / तादात्म्यात् / तस्य बलाबलविशेषे त्वनुमानविरोधो वर्णित एव / यथा सर्वज्ञो ऽस्तीति बुद्धवचनं सम्यक् तदुक्तत्वाद् क्षणभङ्गादिवाक्यवदित्येकेनोक्ते ऽपरऽ प्रब्रवीति बुद्धो ऽसर्वज्ञ इति मद्वचनं सम्यक् मदुक्तत्वात् यथा ज्योतिरुष्णमापो द्रवा इति / अत्र मदुक्तत्वमुभयोरपि सिद्धम् / बुद्धोक्तता तु न नऽ प्रसिद्धा, अतो ऽप्रसिद्धाङ्गकत्वात् पूर्व साधनं बलवता प्रसिद्धाङ्गकेन बाध्यते / यत्तु विरुद्धाव्यभिचारी संशये हेतुरिति शाक्या वदन्ति / न चैकस्य संशयहेतुत्वम् अन्यतरपरिच्छेदात् / न च समुदायाभिप्रायमेकवचनम् / तस्य विरुद्धत्वाव्यभिचारिपदानास्पदत्वात् / स ह्यंशाभ्यां व्यभिचार्येव / द्वौ तु विरुद्धाव्यभिचारिणाविति वक्तव्यम् / न त्वेकवचनेन / यदि प्रतिहेतु
SK
केचिज्जात्यन्तरं चैनां वर्णयन्त्यपरे पुनऽ // Mस्व्_५,४.९२ //
SK
साधारणत्वमंशेन समस्तं वाप्यनन्वयम् /
SK
विरुद्धमर्थमेकैको न व्यभिचरतीति विरुद्धाव्यभिचारीत्युच्यते / तदस्तु / न त्वेकऽ संशये हेतुरित्युक्तम् / अत एव वार्तिककारेण द्वौ / विरुद्धार्थसम्बन्धौ संशयहेतू इति द्विवचनान्तेनैव नाम्ना संशयहेतुभावो दर्शितऽ / इहापि विरुद्धाव्यभिचारितेत्येतावदेवोक्तम् / न तु विरुद्धाव्यभिचारी संशयहेतुरिति / तदत्र योग्यतयानयोर्विरुद्धाव्यभिचारितेनति व्याख्येयम् / द्वौ विरुद्धाव्यभिचारिणाविति यादविति ||९१ १/२||
SK
इमां च विरुद्धाव्यभिचारितां संशयहेतुं साधारणासाधारणाभ्यां जात्यन्तरमेके वर्णयन्ति / अपरे पुनऽ समुदायस्यांशाभ्यां साधारमपनिक्षेपम् / अन्ये तु समस्तमिदं मिलितमुभयं नैकत्राप्यनुगतमित्यनन्वयमसाधारणमेवास्थिषत इत्याह---केचिदिति / अत्र च प्रदेशान्तरे वार्तिककृता साधारण्य एवास्था दर्शिता / यदाह--- ᳚साधारण्याञ्च नैतस्य बेदऽ कश्चन विद्यते / अंशाभ्यां समुदायो हि साधारणपदे स्थितऽ ||᳚
SK
प्रतिज्ञा यत्र बाध्येत पूर्वोक्तैर्यस्य साधनैऽ // Mस्व्_५,४.९३ //
SK
तत्पराजयतऽ कार्यो निर्णयो बाधवर्जनात् / क्वचित् संशयहेतू यौ प्रत्येकत्वेन लक्षितौ // Mस्व्_५,४.९४ //
SK
कथं पुनरेवञ्जातीयके विषये निर्णयऽ, अत आह---प्रतिज्ञेतिनिर्णयान्तेन / पक्षबाधोक्तैऽ प्रत्यक्षादिभिऽ प्रमाणैर्यस्य साधनवाक्यावयवप्रतिज्ञा बाध्यते तत्पराजयेनेतरस्य निर्णयऽ कार्यऽ / यथेहैव तावत् उदाहरणे त्वगिन्द्रियव्यापारेण वायावपरोक्षमनुभूयमाने तेनैवानुभवेन परोक्षतापक्षो बाध्यते / न हि नस्त्वगिन्द्रियभुवस्तोयप्रत्यक्षाद्वायुप्रत्यक्षं विशिष्यते / न हीहानधिष्ठानं स्पर्शनमात्रमनुभयते / अपि तु तदधिकरणं द्रव्यमपि / न हि प्रबलेन मरुताभिहन्यमानस्य जलं वा श्लिष्यतऽ संविद विशिष्यते / अतो ऽक्षसम्बन्धफलानुसारात् प्रत्यक्षो वायुरिति निश्चीयते / क्वचिञ्चागमेन विषयापहारो भवति / यथा शुचि नरशिरऽकपालं, प्राण्यङ्गत्वात्, शङ्खशुक्तिशकलवादिति पाशुपतेनोक्ते ऽन्यो ऽशुचीति साधयति, प्राण्युद्भूतत्वादुञ्चारादिवदिति / तत्र पूर्वप्रतिज्ञाया आगमेन विषयापहारादुत्तरेणार्थनिर्णयो भवति / शुचीतरविवेके ह्यागम एव शरणम् / तस्मिन् परिपन्थिनि न शुचित्वानुमानमात्मानं लभते / स्मरन्ति हि--- ᳚नारं स्पृष्टवास्थि सस्नेहं सवासा जलमाविशेत्᳚ इति / ऽरुद्रो हि महाव्रतं चचार स एतच्छवशीर्षमुपदधारेऽति त्वर्थवादमात्रं न शवशिरोधारणविधिऽ / अत्र च प्रत्यक्षादीन्येव यथास्वमर्थं साधयन्तीति साधनपदेनोच्यन्त इति / कथं पुनऽ प्रत्यक्षादीन्येव प्रतिज्ञाबाधनायोत्सहन्ते / तेष्वपि सामान्यतो दर्शनेन बाधस्य शङ्क्यमानत्वादत आह--- बाधवर्जनादिति / न तावत् तेषु बाधो दृश्यते, कदाचिद् बाधसम्भावना तु न तेषां प्रामाण्यमुत्सारयीति ||९३ १/२||
SK
अत्र भिक्षुणा ऽपक्षधर्मस्तदंशेन व्याप्तो हेतुरित्येकवचनेन विवक्षितैकसङ्ख्य एक एव हेतुरिति दर्शितम् / अत एव विरुद्धाव्यभिचारिणोर्न हेतत्वमनेकत्वात् तयोरिति / न चैतत् घटते / न हि प्रतिहेतु विरुद्धयो
SK
सङ्घाते निर्णयस्ताभ्यामूर्ध्वताकाकवत्त्ववत् / प्रत्येकं संहतौ वापि गमकावविरोधिनौ // Mस्व्_५,४.९५ //
SK
तस्माद्भिनौ विरिद्धार्थौ हेतू चात्र निदर्शितौ / षोढा विरुद्धतामाहुश्चतुर्धा वैकधापि वा // Mस्व्_५,४.९६ //
SK
रनेकत्वं संशयहेतुत्वे हेतुऽ, अपि तर्हिपरस्परविरुद्धार्थोपप्लावकत्वमेव / विरुद्धौ हि द्वाभ्यां द्वावर्थावेकत्रोपप्लाविताविति तत्र संशेरते / न तु हेत्वनेकत्वात् / संशयहेत्वोरपि प्रत्येकमवगतयोरुभयसमावेशादेव क्वचिन्निर्णयो दृष्टऽ / यथा- ऊर्ध्वताकाकवत्त्वयोऽ / केवला ह्यूर्ध्वता स्थाणुपुरुषसाधारणी नान्यतरनिर्णयाय प्रभवति / काकनिलयनसहकृता तु सैवन स्थाणुरयमिति निश्चाययति / तदत्रैकस्यैव संशयहेतुत्वं द्वाभ्यामेव तु निर्णय इत्यप्रयोजकं संशयहेतुत्वे द्वित्वं, विरुद्धानेकसाध्यत्वमेव संशयहेतुऽ / यथा खल्वेक एव साधारमऽ सपक्षविपक्षयोर्वर्तमानऽ संशयहेतुर्भवति / एवं विरुद्धार्थस्यापि हेतुद्वयस्यांशाभ्यामुभयवृत्तिरेव संशये कारणमिति न तद्द्वित्वेन हेतुत्वनिराकरणं युक्तमित्याह---क्वचिदिति / ननु युक्तं तावदूर्ध्वतया स्थाणुपुरुषसन्देहो भवतीति, काकवत्तामात्रेण न संशयो दृष्टपूर्वऽ / सत्यम् / यस्तु काकवत्तामात्रेण स्थाणुं सिषाधयिषति तस्यासौ केवला संशयहेतुऽ, ऊर्ध्वतासनाथा तु निर्णायिकेत्येतावदेव विवक्षितमित्यदोष इति / अपि च अविरोधिनोऽ प्रत्येकं संहतयोरपि क्वचिदर्थे साध्ये हेतुभावो दृश्यते / यथैकस्मिन्नेव शाब्दस्य ज्ञानस्यानुमात्वे ऽन्वयव्यतिरेकजत्वप्रत्यक्षान्यप्रमाणत्वयोऽ, शक्यते हि ताभ्यामैकैकश्येन समस्ताभ्यां चानुमानत्वं साधयितुम् / द्वित्वे च हेत्वाभासत्वकारणे नैकस्मिन् साध्ये ऽनेकहेतवऽ प्रयुज्येरन् / प्रयोक्तारस्त्वेकमेव साध्यं किञ्चान्यदितश्चेति नानासाधनैऽ साधयन्तो दृश्यन्ते / तस्माद् विरोधनिबन्धन एवप संशयऽ, न तु नानात्वनिबन्धन इत्यभिप्रायेणाह--- प्रत्येकमिति / पूर्वं तु प्रत्येकं संशयहेत्वोरेव मिलितयोर्निर्णयहेतुत्वमुक्तम् / ग अत्र तु प्रत्येकं गमकावपि संहतौ च गमकाविति प्रतिपादितमिति
SK
तस्माद् विरुद्धार्थावेव भिन्नौ संशयहेतुत्वेन दर्शनीयौ / यथास्माभिरुक्तं न तु भिन्नतामात्रेणेत्याह---तस्मादिति / व्याख्यातस्त्रिप्रकारो
SK
श्रुत्यर्थोक्तस्य बाधायां प्रतिज्ञार्थस्य हेतुना / नित्यत्वे कृतकत्वस्य धर्मबाधाद् विरुद्धता // Mस्व्_५,४.९७ //
SK
बाधो धर्मविशेषस्य यदा त्वेवं विशिष्यते / अर्थवच्छब्दरूपं स्यात् प्राक् सम्बन्धावधारणात् // Mस्व्_५,४.९८ //
SK
ऽपिसंशयहेतुऽ विपरीतप्रकारान् प्रतिजानाति---षोढा विरुद्धतामाहुरिति / धर्मधर्मिस्वरूपस्वविशेषोभयस्वरूपस्वविशेषैऽ षट्प्रकारां विरुद्धतामेके ब्रुवत इत्यर्थऽ / अन्ये तूभयविरोथयोऽ प्रत्येकपक्षानतिरेकात् चातुर्विध्यं प्रतिपन्ना इत्याह--- चतुर्धा वेति / वयं तु इष्टविघातमात्रेणैकमेव प्रकारं सङ्गिरामह इत्याह--- एकधापि वेति / पूर्वोक्तपक्षपक्षद्वयनिवृत्तावपि वा शब्दऽ / अपि वा शेषभाजां स्यादिति पक्षबाध एव विरुद्धत्वे कारणं किमवान्तरभेदोपन्यासेनेति / त्रिष्वपि च प्रकारेषु श्रुत्यर्थोपात्तस्य प्रतिज्ञातार्थस्य बाधायां विरुद्धतामाहुरित्याह--- श्रुत्यार्थोक्तस्येति / धर्मधर्म्युभयस्वरूपं श्रुत्युक्तं, तद्विशेषास्तु प्रायेणार्थोक्ताऽ / ते च स्वरूपस्वविशेषाऽ प्रतिज्ञार्थशब्देनोपादीयन्ते / सर्वे हि ते वक्तुरभिप्रेताऽ / न तु धर्मादिविशेषाऽ साक्षात् प्रतिज्ञायामन्तर्गताऽ / तदस्मिन् प्रतिज्ञार्थे हेतुना बाध्यमाने हेतोर्विरुद्धता भवतीति / तत्पुनरिदं विप्रतिषिद्धमिव मनयामहे / कथं हि प्रतिज्ञार्थे हेतुना बाध्यमाने हेतुर्विरुद्धो भवति / स हि प्रतिज्ञार्थं प्रतिज्ञार्थेन बाध्यते यद्विरुद्धो भवेत् प्रसिद्धत्वादस्य / प्रसिद्धं हि घटस्य कृतकत्वं, न तदप्रसिद्धया नित्यतया बाधितुं शक्यम् / अतो बाधक इत्येवायं वक्तव्यऽ / वार्तिककृता तु परप्रसिद्धिमात्रेण विरुद्ध इत्युक्तामिति वेदितव्यमिति / तत्र धर्मस्वरूपबाधेन तावद् विरुद्धतामुदाहरति---नित्यत्वे इति
SK
धर्मविशेषबाधस्त्वेवं प्रयुक्ते भवतीत्याह---बाधैति / तमेव प्रयोगं दर्शयति--- अर्थवदिति पादत्रयेण / स्वरूपाभिधानवादिनो ह्याहुऽ--- गौरयमिति शब्दाकारविशिष्टोर्ऽथो ऽवगम्यते / न च विशेषणमनभिधाय विशिष्टो ऽभिधातुं शक्यत इति स्वरूपमेव तावदादौ शब्दो
SK
विभक्तिमत्त्वात्पश्चाद्वत् स्वरूपेणेति चाश्रिते / अस्वरूपार्थयोगस्तु पश्चाच्छब्दस्य दृश्यते // Mस्व्_५,४.९९ //
SK
तेन प्रागपि सम्बन्धादस्वरूपार्थता भवेत् / इहप्रत्ययहेतुत्वाद् द्रव्यादेर्व्यतिरिच्यते // Mस्व्_५,४.१०० //
SK
समवायो यथेहायं घट इत्यादिसङ्गतिऽ /
SK
ऽभिधत्ते ततो विशिष्टम् / अपि चार्थशब्दो व्यभिचरति, अज्ञातसम्बन्धस्य तदनवगतेऽ / स्वरूपं तु न कदाचिद् व्यभिचरति सम्बन्धावधारणात्प्रागपि तदवगमात्, अव्यभिचारी च शब्दार्थ इति युक्तम् / अतऽ स्वरूपं तावदवश्याभिधेयं शब्दानां, तदभिधोत्तरकालं तु विशिष्टाभिधानमपि भवतु नामेति / एवं प्रसाध्यान्ते प्रयोगमाहुऽ--- शब्दस्वरूपं सम्बन्धावधारणात् प्रागर्थवद् विभक्तिसम्बन्धात्, अगृहीतसम्बन्धो ऽपि हि स्वादिविभक्तियुक्तान् शब्दानवगच्छति / यदा च विभक्तियोगऽ तदार्थवत्त्वं दृष्टं यथा सम्बन्धग्रहणात् पश्चादिति / कथं पुनरेवं प्रयुज्यमाने धर्मविशेषबाधो भवत्यत आह--- स्वरूपेणेति चाश्रित इति / यदा हि स्वरूपेणार्थनार्थवत्त्वं प्रथममाश्रित्यार्थवत्तामात्रविशिष्टं साध्यते, तदार्थादिदमवगम्यते--- स्वरूपार्थवत्त्वमस्य सिषाधयिषितमिति / एवं च भवत्यर्थाक्षिप्तस्य धर्मविशेषस्य बाध इति / कथं पुनऽ स्वरूपेणेति चाश्रिते धर्मविशेषो बाध्यते / अत आह--- अस्वरूपेति / विभक्तिमत्त्वं हि स्वरूपातिरेकेणार्थान्तरेणार्थवत्त्वमविनाभावबलेन शब्दस्यावगमयति, सम्बन्धग्रहणात्पश्चादर्थान्तरस्य दर्शात् / अतो व्याप्तिबलेन तदेव विभक्तिमत्तया साध्यते / अतोर्ऽथवत्ताया विशेषं स्वस्वरूपार्थवत्त्वं हेतुरयं विरुणद्धीति भवति धर्मविशेषबाध इति ||९९ १/२||
SK
धर्मिस्वरूपबाधोदाहरणमाह---इहप्रत्ययेति / यदा हिसमवायधर्मिणं कृत्वा तस्य द्रव्यादिव्यतिरेकऽ साध्यते, इहप्रत्यहेतुत्वं च हेतुरुच्यते इहायं घट इति, संयोगो दृष्टान्तऽ, तदा धर्मिस्वरूपबाध इत्यभिप्रायऽ
SK
अत्राप्यसमवायत्वं संयोगस्येव सिध्यति // Mस्व्_५,४.१०१ //
SK
तेन धर्मिस्वरूपस्य वैपरीत्याद् विरुद्धता / यञ्च सत्तावदेकत्वं समवायस्य कल्पितम् // Mस्व्_५,४.१०२ //
SK
तत्र संयोगवद्भेदात् सायद्विशेषविरुद्धता / नित्यमात्मास्तिता कैश्चिद् यदा सौत्रान्तिकं प्रति // Mस्व्_५,४.१०३ //
SK
साध्यते ऽवयवाभावाद् व्योमवद् द्वयबाधनम् / तदोभयविशेषस्य बाधो ऽयं साध्यते यदा // Mस्व्_५,४.१०४ //
SK
पारार्थ्यं चक्षुरादीनां सङ्घाताच्छयनादिवत् / शयने सङ्घपारार्थ्यं भौतिकव्याप्तहेतुके // Mस्व्_५,४.१०५ //
SK
कथं पुनरत्रोदाहरणे धर्मिस्वरूपबाधऽ, अत आह--- अत्रापीति / अत्राप्युदाहरणे धर्मिस्वरूपस्य समवायात्मनो वैपरीत्यापादनाद्धेतोर्विरुद्धता भवति / इहप्रत्ययहेतुत्वं ह्यसमवायात्मन एव दृष्टमिति ताद्रूप्यं विरुन्ध्यादिति धर्मिस्वरूपबाध इति ||१०१ १/२||
SK
अस्मिन्नेव च धर्मिविशेषबाधो ऽपि दर्शयितव्य इत्याह---यञ्चेति / समवायो हि सत्तासामान्यवदेकरूप इति काणादा मन्यन्ते / सो ऽप्यस्य विशेषऽ संयोगवद्भेदापत्तेर्बाध्यत इति भवति धर्मिविशेषविरुद्धो हेतुरिति ||१०२ १/२||
SK
उभयस्वरूपबाधायामुदाहरणमाह---नित्यमात्मास्तितेति / यदा कश्चित् सौत्रान्तिकं प्रत्येवं साधयति--- आत्मा नित्यऽ निरवयत्वात् व्योमवदिति, तदा धर्मधर्मिद्वयस्य बाधनं भवति / सौत्रान्तिकस्य ह्यवयवाभावो व्योम्न्यभावेनैव सम्बद्धो ऽभिमत इत्यात्मनो ऽपि तद्वदभावं गमयेत, आवरणाभावमात्रं हि नभऽ, न पुनस्तत्त्वान्तरमिति बौद्धा मन्यन्ते / अतो ऽनवयवत्वादात्मनऽ स्वरूपस्य तद्धर्मस्य च नित्यत्वस्य बाधादुभयबाध इति ||१०३ १/२||
SK
उभयविशेषबाधस्त्वेवं साध्यमाने भवतीत्याह---तदेति / यदा हि परार्थाश्चक्षुरादयऽ सङ्घातत्वात् शयनादिवदिति साध्यते, तदोभयविशेषबाध इत्यर्थऽ / कथं पुनरत्रोभयविशेषबाधऽ, अत आह--- शयन इति / शयनीये
SK
आत्मानं प्रति पारार्थ्यमसिद्धमिति बाधनम् / असंहतपरार्थत्वे / दृष्टे संहततापि च // Mस्व्_५,४.१०६ //
SK
अनाहङ्कारिकत्वं च चक्षुरादेऽ प्रसज्यते /
SK
हिखट्वादौ महाभूतसंहतशरीरपारार्थ्येन सङ्घातत्वादिति हेतुर्व्याप्तो दृष्ट इति संहतपारार्थ्यमेव साधयेत् / आत्मानं च प्रति पारार्थ्यं साधयितुमभिमतम्, तन्न सिध्येत् / सो ऽयं तावत् पारार्थ्यस्य धर्मस्य यो विशेषो ऽभिमत आत्मपारार्थ्यं स तावद् बाध्यते / चक्षुरादेरपि धर्मिणो यो विशेष आहङ्कारिकत्वं नाम सो ऽप्यनेनैव हेतुना बाध्यते / संहतात्मकत्वं हि शयनादावनाहङ्कारिकत्वेन व्याप्तं दृष्टम्, भौतिका हि ते, अतस्तन्निदर्शनेन चक्षुरादयो ऽपि भौतिका भवेयुऽ / आहङ्कारिकाणीन्द्रियाणीति कापिलाऽ सङ्गिरन्ते, तेषां चायं प्रयोगऽ / तदयमर्थऽ--- संहतपारार्थ्यभौतिकत्वाभ्यां व्याप्तो हेतुर्यस्मिन् शयने तत्रात्मपारार्थ्यमसिद्धमिति धर्मविशेषबाधनं तावद् भवति / धर्मिविशेषबाधो ऽपि भौतिकवयाप्त्या सूत्रितो ऽनन्तरमेव विवरिष्यत इति न केवलमात्मपारार्थ्यं न सिध्यति, असंहतरूपात्मपारार्थ्ये चेष्टे व्याप्तिबलेनात्मनो ऽपि संहतता प्राप्नोतीत्याह--- असंहतेति / नानेन हेतुनासंहतरूपात्मार्थता सिध्यति / प्रत्युत संहततैवात्नो भवेदिति
SK
धर्मिविशेषबाधं विवृणोति---अनाहङ्कारिकत्वमिति / व्याख्यातचरं चेदम् ||१०६ १/२||
SK
एवं तावद् ज्ञातसम्बन्धपदव्यावर्तनीयो विरुद्धऽ प्रपञ्चितऽ / इदानीं तद्व्यावर्त्या एव दृष्टान्ताभासा दर्शयितव्याऽ / तैर्हि नानुमानाङ्गसम्बन्धो ज्ञापयितुं शक्यते / अतस्ते ऽपि ज्ञातसम्बन्धपदेनैव व्यावर्त्यन्ते / इदं चास्माभिऽ प्रागेवोक्तम् / अन्यत्राप्याह--- ᳚ज्ञातसम्बन्धवाचा च त्रयो ऽत्रानियतादयऽ / हेतुदृष्टान्तयोर्देषा भाष्यकारेण वारिताऽ ||᳚
SK
गमकस्यैकदेशस्य व्याप्तिर्गम्येति भाषितुम् // Mस्व्_५,४.१०७ //
SK
साध्यसाधर्म्यवैधर्म्यदृष्टान्तऽ प्रतिपाद्यते / तत्र हेत्वर्थमुद्दिश्य साध्योपादानमिष्यते // Mस्व्_५,४.१०८ //
SK
उद्देश्यो व्याप्यते धर्मो व्यापकश्चेतरो मतऽ / यद्वृत्तयोगऽ प्राथम्यमित्याद्युद्देश्यलक्षणम् // Mस्व्_५,४.१०९ //
SK
तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् /
SK
इति / अतस्तन्निराकरणार्थं दृष्टान्तवचनमेव तावदवतारयति---गमकस्येति / व्याप्तिप्रदर्शनाय द्विविधो दृष्टान्तस्तावद् साधनवाक्ये दर्शयितव्यऽ / साध्यऽ पक्षऽ तत्साधर्म्यवैधर्म्याभ्यां यो दृष्टान्तऽ स प्रतिपाद्यत इत्यर्थऽ ||१०७ १/२||
SK
तत्र साधर्यदृष्टान्तप्रकारमाह---तत्रेति / अस्यार्थऽ--- उदाहरणसाधर्म्याल्लिङ्गस्य प्रसाधकत्ववचनं हेतुऽ यदाहुऽ--- ᳚उदाहरणसाधर्म्यात् साध्यसाधनं हेतुऽ᳚ इति / साध्यस्य प्रज्ञापनवचनमिति यावत् / तस्य चार्थो लिङ्गमेव / तञ्चोद्दिश्य साध्योपादानं साधर्म्यदृष्टान्त इष्यते / यो यो धूमवान् स सो ऽग्निमानिति यावदिति / किमेवमुपादीयमाने सिध्यत्यत आह--- उद्देश्य इति / उकतं व्याप्तिप्रदर्शनाय दृष्टान्तवचनमिति / एवं चोपादीयमान उद्देश्यो धूमादिर्व्याप्ततया कथितो भवति, इतरश्चोपादेयो ऽग्न्यादिर्व्यापकत्वं भवतीत्युक्तम् ||१०८ १/२||
SK
कीदृशं तु तयोऽ स्वरूपमत आह---यद्वृत्तेति / यद्वृत्ततद्वृत्ताभ्यां यत्तत्परिनिष्पन्नानां यो य इत्यादिशब्दानामुपादानम्, तदयमर्थो भवति / यद्यद् यद्वृत्तेन संयुक्तं प्रथमं प्रयुज्यते प्रधानं च तदुद्देश्यं, तत्तद्वृत्तुयक्तं च पश्चात् प्रयुज्यमानं स सो ऽग्निमानेवेति चैवकारेण युक्तं तदुपादेयम् / सर्वेष्वेव च ग्रहव्रीह्यादिसंमार्गावघातादिषूद्देश्योपादेयेष्वयमेव विवेक इति वेदितव्यमिति ||१०९ १/२||
SK
वदत्यर्थं स्वशक्त्या च शब्दो वक्त्रनपेक्षया // Mस्व्_५,४.११० //
SK
साध्यहेतुत्वमर्थानां व्याप्तिशक्त्यनुरोधतऽ / तत्राज्ञानाद् यदा वक्ता सहभावविवक्षया // Mस्व्_५,४.१११ //
SK
विपर्ययेण वा हेतौ न प्याप्तत्वं विवक्षति / विवक्षन्नपि वा शब्दं तद्योगं न वदेद् यदि // Mस्व्_५,४.११२ //
SK
घटे कृतकनाशित्वे नाशि व्याप्तं कृतेन वा / न तदेष्टस्य हेतुत्वं स्यादनिष्टस्य चैव तत् // Mस्व्_५,४.११३ //
SK
किं पुनरेवं प्रयोगनियमे प्रयोजनम्, विवक्षापरतन्त्रा हि शब्दाऽ, ते यथा तथा वा प्रयुक्ता यथाभिप्रायं वर्तिष्यन्त एव / अत आह---वदतीति / न वक्त्रभिप्रायपरतन्त्राऽ शब्दाऽ, स्वाभाविक्यैव तु शक्त्या केचिदेव क्वचिदेवार्थे वर्तन्ते, अतो न विवक्षानुसारेणेष्टसिद्धिर्भवतीति वाच्य एव दृष्टान्तवचनविन्यासप्रकार इति
SK
यदि तर्हि स्वतन्त्राऽ शब्दाऽ अतथास्थिते ऽप्यर्थे शब्दानुसारिणीष्टसिद्धिर्भवेदत आह---साध्यहेतुत्वमिति / अयमभिप्रायऽ---- नार्थशक्तिऽ शब्दशक्तिमनुरुध्य प्रवर्तते, न च शब्दशक्तिरर्थशक्तिम्, अतो न यता वक्त्रभिप्रेतार्थानुसारिणी शब्दशक्तिऽ, एवं न शब्दानुसारिण्यर्थव्यवस्थेति, अर्थादीनां कृतकत्वानित्यत्वादीनां व्याप्तिशक्त्यनुरोधादेव साध्यहेतुभावो भवति न शब्दानुरोधादिति ||११० १/२||
SK
वक्त्रनपेक्षया स्वशक्त्यैव शब्देर्ऽथमाचक्षाणे यत्तावदापद्यते तद् दर्शयति---तत्राज्ञानादिति सार्धद्वयेन / यदा हि दृष्टान्त वक्तुमनभिज्ञो वक्ता साध्यहेत्वोऽ सहभावमात्रं विवक्षति / यथा--- शब्दो ऽनित्यऽ कृतकत्वादिति प्रयोगे,यथा घटे कृतकत्वनाशित्वे स्त इति / विपरीतावग्रहेण वा न हेतोर्व्याप्यतां विवक्षति / सत्यामपि विवक्षायां कुतश्चिद् भ्रमनिमित्तात् न व्याप्तियोग्यं शब्दं वदति / सहबावमात्रमेव तु पूर्ववद् वदेत्, विपरीतं वा भ्रान्तऽ यता नासिता कृतकत्वेन व्याप्तेति, तदा तावन्न केवलमिष्टं न सिध्यति अनिष्टमेव तु व्याप्तिविपर्ययादापद्यते / इष्टस्य
SK
तस्माद् व्याप्यत्वरूपेण वाच्यो हेतुत्वसंमतऽ / यदा सम्यक् प्रयुक्ते ऽपि वाक्येर्ऽथो न तथा भवेत् // Mस्व्_५,४.११४ //
SK
साध्यहेतूभयव्याप्तिशून्यत्वात् परमार्थतऽ / नित्यो ध्वनिरमूर्तत्वात् कर्मवत् परमाणुवत् // Mस्व्_५,४.११५ //
SK
घटवद्व्योमवच्चापि तदसद्वादिनं प्रति / धर्म्यसिद्धावपि ह्येवं दृष्टान्ताभासता भवेत् // Mस्व्_५,४.११६ //
SK
तत्सद्भावे ऽपि च व्योम्नि द्वययुक्ते ऽपि कीर्तिते / कर्माद्यालोचनाद् व्याप्तिर्हेतोर्नास्तीति वर्जनम् // Mस्व्_५,४.११७ //
SK
कृतकत्वस्य हेतुत्वं न स्यात् / अनिष्टस्यैव तु नाशित्वस्य भवेदित्येवञ्जातीयकानिष्टप्रयोगनिवारणाय युक्तो दृष्टान्तप्रयोगनियम इति / एतदेवोपसंहरति---तस्मादिति / हेतुत्वसंमतऽ कृतकत्वादिव्याप्यत्वरूपेण वाच्य इत्यर्थऽ ||११३ १/२||
SK
अर्थानां शब्दतन्त्रत्वे यद् भवति तद् दर्शयति---यदेतिपादरहितद्वयेन / अस्यार्थऽ--- यदा हि व्याप्तिशक्त्यनुसारेणैवार्थानां साध्यहेतुत्वं तदा यद्यपि वक्त्रा न सहबावमात्रं दर्शितं,किन्तु सम्यगेव दृष्टान्तवचनम्, अर्थास्तु न तदनुरूपव्याप्यव्यापकभावनावस्थिता इति दृष्टान्ताभासता भवेदिति वक्ष्यमाणेन सम्बन्ध इति / यथा नित्यो ध्वनिरमूर्तत्वादिति प्रयोगे कर्मवत् परमाणुवद् घटवद् व्योमवदिति दृष्टान्तेषु यथासङ्ख्यं परमार्थतऽ साध्यहेतूभयव्याप्तिशून्यतया / कर्म खल्वनित्यमिति तत् साध्यभूतया नित्यतया शून्यं, हेतुस्त्वमूर्तवादिति तत्र विद्यत एव / परमाणवस्तु भूर्ता इति तेषु हेतुशून्यता, साध्यं तु नित्यत्वं तेषु विद्यत एव / घटे तु न साध्यं नित्यत्वं नाप्यमूर्तत्वं हेतुरित्युभयशून्यता / व्योम्नि तु दृष्टान्ते व्याप्तिशून्यतामुत्तरत्र स्वयमेव विवरिष्यति / अत्रैव च व्योमवदिति दृष्टान्ते तदसद्वादिनं सौत्रान्तिकं प्रति प्रयुज्यमाने धर्म्यसिद्ध्या दृष्टान्ताभासता भवतीत्याह--- तदसद्वादिनमिति
SK
व्याप्तिशून्यतां विवृणोति--- तत्सद्बावे ऽपीति / यद्यपि च
SK
व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यमपेक्ष्यते / सहभावित्वदृष्ट्या तु यदा व्याप्तिं न लक्षयेत् // Mस्व्_५,४.११८ //
SK
परऽ साधर्म्यदृष्टान्तात् तं वा नापेक्षते यदा / वक्ता वा सहबावित्वं शुद्धं तेन वदेद् यदा // Mस्व्_५,४.११९ //
SK
वपरीतान्वयं वापि तत्समाधित्सया तदा /
SK
व्योम्नऽ सद्भावो भवेत्, तच्च हेतुसाध्यद्वययुक्तं नित्यत्वादमूर्तत्वाच्च / तथापि कर्मादिष्वमूर्तेषु अनित्येष्वालोच्यमानेषु हेतोर्व्याप्तिर्नास्तीति ईदृशस्यापि दृष्टान्तस्य वर्जनमेव / अयमपि न साध्यसिद्ध्ये समर्थो यत इति
SK
व्याख्यातऽ साभासऽ साधर्म्यदृष्टान्तऽ / वैधर्म्यदृष्टान्तमतऽ परं व्याख्यास्यति / तत्रैतदेव तावत् प्रथमं वक्तव्यम् / किं सर्वदैव साधर्म्यवद् वैधर्म्यवचनं कार्यं न वेति / तत्र तावद् व्यतिरेकप्रधानवादिनऽ सर्वदा वाच्यमिति ये वदन्ति तान् प्रत्याह---व्याप्त्या साधर्म्य उक्त इति / एवं हि मन्यते--- व्याप्तिप्रज्ञापनाय हि दृष्टान्तवचनम्, सा चेत् साधर्म्यवचनेन ज्ञापिता किं वैधर्म्यवचनेन / साधर्म्यं चावश्यमेव वचनीयमन्वयप्रज्ञापनाय, तत्प्रधानत्वादनुमानस्य / व्यतिरेकस्यापि तन्मुखेनैव सिद्धेऽ / इतरथा दुरधिगमत्वात् / अतो यदि व्याप्त्या सहितं साधर्म्यमुक्तम्, अलं वैधर्म्यवचनेनेति / कदा तर्हि वैधर्म्यं वाच्यमत आह--- सहभावित्वदृष्ट्येति पादत्रयेण / यदा हि वक्त्रा सम्यगेव दृष्टान्त उक्ते परऽ श्रोता जानाति--- यथा हेतुसाध्ययोऽ साहित्यमात्रनेनोक्तं न व्याप्तिरिति, तदा साध्याभावे हेत्वभावं ज्ञापयितुं ऽवैधर्म्येणेष्टसाधनऽमिति वक्ष्यमाणेन सम्बन्ध इति / यदा खल्वभ्यस्तवैधर्म्यस्तमेवापेक्षते न साधर्म्यदृष्टान्तं तदा च वैधर्म्येणेष्टसाधनमित्याह--- तं वा नापेक्षते यदेति / यदा वा वक्ता सुशिक्षितवैधर्म्यऽ साधर्म्यं वक्तुमजानानस्तेन साधर्म्यदृष्टान्तेन सहभावमात्रमेव शुद्धं व्याप्तिहीनं कथयति, तदापि पर्यनुयुक्तेन तेनैव वैधर्म्येणेष्टसाधनं कार्यमित्याह--- वक्ता वेति
SK
यदा वा भ्रान्तो विपरीतमन्वयं दर्शयति, तदापि तत्समाधानेच्छगया पूर्वविपरीतज्ञानोपमर्दनेन वैधर्म्येणेष्टसाधनमित्याह---विपरीतान्वयमिति /
SK
पूर्वज्ञानोपमर्देन वैधर्म्येणेष्टसाधनम् // Mस्व्_५,४.१२० //
SK
साहित्यमात्रं पूर्वोक्तं हेतोस्तत्रोपयुज्यते / व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते // Mस्व्_५,४.१२१ //
SK
तयोरभावयोस्तस्माद् विपरीतऽ प्रतीयते / धूमभावे ऽग्निभावेन व्याप्ते ऽनग्निस्ततश्च्युतऽ // Mस्व्_५,४.१२२ //
SK
अधूम एव विद्येतेत्येवं व्याप्यत्वमश्नुते / तथानग्नावधूमेन व्याप्ते धुमस्ततश्च्युतऽ // Mस्व्_५,४.१२३ //
SK
अन्यत्रानवकाशत्वाद् व्याप्यते ध्रुवमग्निना /
SK
नन्वन्वयवैपीत्ये स एव यथावत् प्रतिपाद्यतां किं वैधर्म्यवचनेन / सत्यमेवमपीष्टं सिध्यत्येव, किन्तु भ्रान्तैरिदमस्माभिरुक्तं साध्याभावे हेत्वभावो विवक्षित इति वैधर्म्येणापि तावदिष्टसाधनं भवेत्येवेति / यत्तु तत्पूर्वं साहित्यमात्रमुक्तं तद्वैधर्म्य एवोपयुज्यते तस्यैवेष्टं साधयतो ऽनुग्रहे वर्तते इत्याह--- साहित्यमात्रमिति ||१२० १/२||
SK
एवं तावद् वैधर्म्यवचनस्यावसरो दर्शितऽ, तद्ववचनप्रकारमिदानीं दर्शयति---व्याप्यव्यापकभावो हीति ||१२१ १/२||
SK
वैपरीत्ये कारणमाह--- धूमभाव इति / यदा हि धूमभावो ऽग्निभावेन व्याप्तो भवति तदानग्निरग्न्यभावस्ततो धूमात् प्रच्युतऽ सन्नधूमे धमाभाव एव भवतीत्येवं तावद् व्याप्तो भवति / यो हि यस्मिन् सति भवति असति च न भवति स तन्नियतस्तद्व्याप्त इत्युच्यते / यथा धूमो ऽग्नावेव भवन्नग्निना व्याप्त इति सिद्धो ऽभावयोर्व्याप्तिविपर्यय इति ||१२२ १/२||
SK
यत एव चाभावयोरीदृशो व्यापव्यापकभावऽ अत एव भावयोरभिमतव्याप्तिसिद्धिरित्याह---तथानग्नाविति / अनग्नावग्न्यभावे धूमाभावेन व्याप्ते धूमस्तत्र विरोधिव्याप्तेरलब्धावकाशो ऽग्नावेव भवतीत्येवं तद्व्याप्यता तस्य सिध्यति / तथेति / यथा भावव्याप्त्यपेक्षयाभावव्याप्तिऽ एवमभावव्याप्त्यपेक्षया भावव्याप्तिरित्यर्थऽ / न चैवमितरेतराश्रयता, बीजाङ्कुरवदनादितयोपपत्तेरिति ||१२३ १/२||
SK
व्यापकौ तु यदोच्येते भावाभावौ तदा ततऽ // Mस्व्_५,४.१२४ //
SK
नैव व्याप्याद्विपक्षस्य प्रच्युतिऽ कथिता भवेत् / तस्माद् धूमेन साध्यत्वमग्नेऽ प्रार्थयते यदा // Mस्व्_५,४.१२५ //
SK
तदानग्निरधूमेन व्याप्तो वाच्यो न चान्यथा / अनग्न्यधूमसाहित्ये व्याप्तेर्वापि विपर्यये // Mस्व्_५,४.१२६ //
SK
न प्रस्तुतोपकारऽ स्यादन्यद्वापि प्रसाध्यते / यत्राप्यर्थस्य शून्य्तवं द्वाभ्यामेकेन वा भवेत् // Mस्व्_५,४.१२७ //
SK
किं पुनरभावयोर्व्याप्तिविपर्ययाश्रयणे प्रयोजनमत आह---व्यापकौत्विति / यदा हि य एव भावो व्यापकस्तदभाव एव व्यापकतया वैधर्म्यदृष्टान्त उच्यते तदा ततो व्याप्याद् धूमादेर्नैव विपक्षस्यानग्न्यादेऽ प्रच्युतिऽ कथिता भवेत् / ततकथनार्थं च व वैधर्म्यवचनं(स) प्रयोजनं भवेत् / न हि यत्र धूमस्तत्राग्निरितिवत् यत्र धूमाभावस्तत्राग्न्यभाव इति कथ्यमाने व्याप्याद् धूमादनग्नेर्विपक्षस्य निवृत्तिर्दर्शिता भवतीति / अतो धूमेनाग्निं सिषाधयिषता वैधर्म्यदृष्टान्तेनाग्निधूमाभावयोर्व्याप्तिविपर्ययो वाच्य इत्याह--- तस्मादिति वाच्यो ऽन्तेन / यत्राग्निर्नास्ति तत्र धूमो नास्तीत्येवं यदवृत्ततदवृत्ताभ्यामुद्देश्योपादेयभावो दर्शयितव्य इत्यर्थऽ / स चानग्निरधूमेन् व्याप्त उच्यमानो नान्यथा वाच्यऽ, किन्तु साधर्म्योक्तेनैवोद्देश्योपादेयप्रकारेणेत्याह--- न चान्यथेति / प्रकारश्चानन्तरमेवोक्त इति ||१२४,१२५ १/२||
SK
अन्यथावचने दोषमाह---अनग्नियधूमसाहित्यैति / यथैव साधर्म्यदृष्टान्ते स्वशक्त्या शब्दोर्ऽथं वदति नार्थशक्तिमनुरुध्यत इति साहित्यमात्रवचने व्याप्तिविपर्यये वा नेष्टं सिध्यतीत्युक्तम्, एवमिहापि भवतीति भावऽ ||१२६ १/२||
SK
एवं (तद्व?ताव) दिहाप्यर्थो न शब्दवशवर्तीति यत्रार्थो दृष्टान्तरूपो द्वाभ्यां हेतुसाध्याभावाभ्यामेकेन वा तयोऽ शून्यो भवति तत्रापि न प्रस्तुतोपकारो भवति अन्यद्वानिष्टं प्रसज्यत इत्याह---यत्रापीति / सम्यक् प्रयुक्ते ऽपि वाक्येर्ऽथस्यातदायत्तत्वान्नेष्टसिद्धिरिति भावऽ / अत्रोदाहरणमाह
SK
यदनित्यं तु तन्मूर्तमणुवद् बुद्धिवत् खवत् / साध्येन व्याप्तिसिद्ध्यै हि व्यातिरेको ऽत्र कथ्यते // Mस्व्_५,४.१२८ //
SK
यस्यायं नास्त्यसौ हेतुस्तेन साध्येन नाप्यते / तेन दृष्टे ऽपि साहित्ये न सर्वो गम्य इष्यते // Mस्व्_५,४.१२९ //
SK
सहदृष्टिर्न सम्बन्धो व्याप्तिर्नैव च तावता / मूर्तानित्यत्वयुक्ते ऽपि तस्मादङ्गीकृते घटे // Mस्व्_५,४.१३० //
SK
यदिति / नित्यो ध्वनिरमूर्तत्वादित्यत्रैव प्रयोगे यदैवं वैधर्म्यमुच्यते यन्नित्यं न भवति तदमूर्तमपि न भवति यथा परमाणुरिति तदा साध्याभावशून्यो दृष्टान्तऽ / परमाणोर्नित्यतया तदभावस्य तत्र दर्शयितुमशक्यत्वात् / बुद्धिवदिति तु दृष्टान्ते हेत्वभावशून्यता / बुद्धेरमूर्ततया तदभावस्य वक्तुमशक्यत्वात् / खवदिति तूभयाभावशून्यता, नित्यामूर्ते तस्मिन्नुभयाभावो दुरधिगमो यत इति ||१२७ १/२||
SK
एवं साधर्म्यदृष्टान्तवद्व्याप्तिवैकल्ये ऽप्यभासता दर्शयितव्या / तत्सिदध्यर्थं हि विपक्षाद्धेतोर्व्यतिरेकऽ कथ्यते / यस्य तु विपक्षैकदेशादपि व्यातिरेको नास्ति, नासौ साध्येन व्याप्तो भवतीत्यसत्यां व्याप्तावनर्थकं तादृशस्य वैधर्म्यस्य वचनमित्यभिप्रायेणाह--- साध्येनेति ||१२८ १/२||
SK
यतश्चैवञ्जातीयको न साध्येन व्याप्यते तेन क्वचिदभावयोऽ साहित्ये दृष्टे ऽपि न सर्वत्र गम्यगमकभावो भवतीत्याह---तेनेति / यद्यपि यन्नित्यं न भवति तदमूर्तमपि न भवति, यथा घटऽ कुड्यं वेति, क्वचिदभावयोऽ साहित्यं शक्यते दर्शयितुम् / तथापि न सर्व(ऽ) शब्दादि(ऽ) नित्यतया विशिष्टो ऽनेन हेतुना गम्य इष्यते / किञ्चिद्ध्यमूर्तं नित्यमाकाशादि,किञ्चिदनित्यं कर्मादीति भावऽ
SK
किमिति नेष्यते अत आह--- सहदृष्टिरिति / विपक्षैकदेशनिवृत्त्या हि सहभावमात्रं हेतोऽ सिध्यति / न च तन्मात्रसम्बन्धो ऽनुमानाङ्गम् / किं तर्हि, व्याप्तिऽ / न चासावेतावता साहित्यमात्रेण सिध्यतीति / एतदेवोदाहरणेन दर्शयति--- मूर्तानित्यत्वचयुक्ते ऽपीति / इदं प्रागेव व्याख्यातमिति ||१३० १/२||
SK
अत्र बौद्धा वदन्ति---किमिदं---
SK
कर्मादौ व्याप्त्यभावेन न दृष्टान्तत्वमिष्यते / अशेषापेक्षितत्वाच्च सौकर्याञ्चाप्यदर्शनात् // Mस्व्_५,४.१३१ //
SK
साधनं यद्यपीष्टो ऽत्र व्यतिरेको ऽनुमां प्रति / तावता न ह्यनङ्गत्वं युक्तिऽ शाब्दे ऽभिधास्यते // Mस्व्_५,४.१३२ //
SK
ऽव्याप्त्या साधर्म्य उक्ते च न वैधर्म्यपेक्ष्यतेऽ इत्युच्यते, न हि शतांशेनापि हेतोर्विपक्षाद् व्यतिरेके शङ्क्यमाने गमकत्वमस्तीत्यशेषविपक्षो ऽनुमातुर्व्यतिरेकं ग्रहीतुमपेक्षितऽ / न चासौ दुरधिगमऽ, एकदेशस्थस्यापि सर्वादर्शनसौकर्यात् / दर्शनं हि सर्वविपक्षाणां दुष्करम्, तदभावस्तु सौकर्यप्राप्त एव / न चायोग्यानुपलम्भान्नेदमदर्शनं हेतोर्व्यतिरेकाय प्रभवतीति वाच्यम् / न हि नो विपक्षादर्शनादविनाभावनियमऽ / किन्तु तादात्म्यतदुत्पत्तिनिबन्धनऽ / विपक्षदर्शने तु हेतोऽ परिपन्थिन्यविनाभावो ग्रहीतुमशक्यो भवति / तच्चैकदेशस्थस्यापि तावन्नास्त्येवेति परिपन्थिनि वृत्तिमात्रे दर्शनं व्याप्रियते / अतो यदैवाग्निकार्यो धूम इत्यवगतं तदैव तदायत्तात्मलाभो नासति तस्मिन् भवतीति ज्ञायते / न चान्वयज्ञानमेव व्यतिरेकबुद्धौ निबन्धनम्, असाधारणेषु तदसम्भवात् / न हि महानसपरिदृष्टयोरग्निधूमस्वलक्षणयोस्तत्रैव निरुद्धयोरन्यत्र दर्शनमस्ति, येनान्वयो ऽनुभूयेत / तत् कुतो ऽन्वयऽ कुतस्तरां च तन्निबन्धनो व्यतिरेकऽ / न च विशेषेषु सामान्यं नाम किञ्चिदनुगतं स्वरूपमस्ति, यन्नियम्यनियामकतयावसीयेत, विकल्पाकारत्वात् तस्य / अतो विशेषा एव केचित् कयाचिद् व्यावृत्त्योपलक्षिताऽ कञ्चिद् विशेषं विपक्षव्यावृत्तिमुखेन गमयन्तीति तत्प्रदर्शनार्थं वैधर्म्यवचनमेव न्याय्यमिति / तान् प्रत्याह---अशेषेति युक्तिरन्तेन / अयमभिप्रायऽ--- यद्यपि व्यतिरेको ऽनुमानाङ्गम् / स तु नादर्शनमात्रात् सिध्यति / तद्देशागमनादपि च तस्योपपत्तेऽ / न च कार्यत्वावधारणादसति कारणे ऽभावऽ, तस्यैवासति व्यतिरेके दुरधिगमत्वात् / यद्धि यस्मिन् सति भवति असति च न भवति तत्तत्कार्यम् / अतो ऽसत्यभावो ऽव
SK
बोधप्रसङ्गो भेदानां न चाव्याप्तेर्भविष्यति / अस्ति सामान्यवस्त्वेषु व्यापिता तत्र गम्यताम् // Mस्व्_५,४.१३३ //
SK
गन्तव्यऽ / ततऽ कार्यता तदधीने(ति) तु तस्मिन्नितरेतराश्रयता / अस्तु वा दर्शनमात्राद् व्यतिरेकऽ, तस्य च सौकर्यं, नैतावतानुमां प्रति युक्तिरनङ्गम् / युक्तिर्योगऽ सम्बन्धो ऽन्वय इत्यनर्थान्तरम् / नान्वयो ऽनङ्गमिति यावत् / तन्मुखेनैव सर्वप्रमातॄणामनुमानोत्पत्तेऽ / अतस्तत्कथनार्थं साधर्म्यदृष्टान्तो ऽपि वाच्य एव / नासावेकान्तेन प्रत्याख्यातुं शक्यते / इदं चान्वारुह्य वचनम् / यथोक्त एव सिद्धान्तऽ सम्यक् साधर्म्यप्रयोगे न वैधर्म्यमपेक्षणीयमिति / अन्वयस्यैव प्राधान्यात् तमन्तरेण व्यतिरेकासिद्धेऽ / अवगते हि धूमस्याग्निना सम्बन्धेर्ऽथादनग्निनिवृत्तिऽ सिध्यति / अतऽ स तावद् विधिमुखेन प्रथमं दर्शयितव्यऽ, अवसरे तु वैधर्म्यमपि कदाचिदुच्यते / अनङ्गत्वमिति तु पठतामियं व्याख्या---इदं हि लिङ्गस्यानुमायामङ्गत्वम् यदन्वयव्यतिरेकौ,ताभ्यां हि तदङ्गं भवति / अतो यथा व्यतिरेको ऽङ्गत्वम्, क एवमन्वयापरनामा युक्तिरपीति / ननु लिङ्गे ऽपि शब्दात्मके प्रतीत्युत्तरकालभाव्यन्वयो ऽनङ्गमेवात आह--- शाब्दे ऽभिधास्यत इति / शाब्दे ह्यनुमानाद् भिन्ने प्रतीत्युत्तरकालभाविनी युक्तिरनङ्गमिति वक्ष्यते / यथा वक्ष्यति--- नाङ्गमर्थधियामेषा भवेदन्वयकल्पना / इति / अनुमाने तु सर्वत्रैवान्वयऽ प्रतीत्यङ्गमिति / ये तु तावता नानङ्गत्वमन्वयस्येत्यध्याहृत्यात्रैवार्थे शाब्दे युक्तिर्वक्ष्यते इति व्याचक्षते, तेषामश्रुतान्वयाध्याहार एव तावदुपालम्भऽ / न चान्वयस्यानुमानाङ्गत्वे शाब्दे युक्तिर्वक्ष्यते / अत्रैव ज्ञातसम्बन्धपदेन तस्योक्तत्वात् / अत एवान्वयाधीनत्वमनुमानस्य च स्थितमिति वक्ष्यति / तस्माद् यथोक्तैव व्याख्येति
SK
यत्तु भेदानामेवानुमाने गम्यगमकत्वं तेषां चान्वयो न सम्भवतीत्युक्तम्, तत्राह---बोधप्रसङ्गैति / न भेदानामनुमानबोधे गम्यगमकतायाऽ प्रसङ्गऽ / तेषां सर्वदेशकालाव्याप्तेरेकैकत्र निरुद्धत्वात् / न चाप्यविना
SK
केचित् साधर्म्यदृष्टान्ते व्याप्त्यापि कथिते पुनऽ||
SK
वैधर्म्योक्तिमपीच्छन्ति व्यावृत्तिनियमेच्छया // Mस्व्_५,४.१३४ //
SK
हेतौ साधर्म्यदृष्टान्तात् साध्येनैवावधारिते /
SK
भावेनापरस्य तथाविधस्यैव नियमऽ शक्यते ऽनुभवितुम् / न चासति तस्मिन्नानुमानाङ्गं सम्भवतीति तेषामन्वयाभावो न दोषायेति / यदि न भेदानां बोधप्रसङ्गऽ, कस्य तर्हि दर्शितमिदं, न भेदानुगतमेकं किमपि पारमार्थिकं रूपमस्ति / तस्य विकल्पाकारत्वात् / यद्यपि च व्याप्तिसमयसंविदितरूपारोपेणैवाधुनानुमानमुपजायते / तथाहि तस्य निपुणतो निरूप्यणाणस्या-- सम्भवाद् विभ्रम एवायम् / यद्येवमसद्रूपारोपप्रवृत्तमनुमानमप्रमाणमेव / सत्यम् / प्रतिबन्धबलेन तु किञ्चिदेव स्वलक्षणं केनापि विकल्पाकारेण सामान्यात्मना समधिगतं यदपरं विकल्पाकारोल्लिखितमेव स्वलक्षणं प्रतिलम्भयति तत्प्रमाणमित्याख्यायते / अविंसवादो हि नऽ प्रामाण्ये कारणमर्थक्रियास्थितिश्चाविंवादऽ / यदाहुऽ--- ऽप्रमाणमविंसवादि ज्ञानमर्थक्रियास्थितिऽ / अविंसवादऽ इति / भवति चानुमानेर्ऽथक्रियासमर्थवस्तुलाभो वस्तुनिर्भासपुरऽ सरो ऽपीति प्रमाणमनुमानम् / यथोक्तम्--- ᳚अतस्मितंस्तग्रहाद् भ्रान्तिरविंसवादतऽ प्रमा᳚इति / अतो भेदानामेव गम्यगमकत्वम् / ते च न भाजनमन्वयस्येति युक्तमेवोक्तमत आह--- अस्तीति / अस्यार्थऽ / भवेदेवं यदि न भेदातिरिक्तं किञ्चित् सामान्यं वस्तु भवेत् / अस्ति तु तदित्याकृतिग्रन्थे सकलपरोक्तदोषपरिहारेणोपपादयिष्यते / तस्य चानेकदेशकालव्यापिता गम्यत इति नाभाजनमन्वयस्य / न चातस्मिंस्तदग्रहऽ, पारमार्थिकत्वात् तस्य / एवं च यदनुमानुप्रामाण्यसिद्ध्यर्थं परैऽ किमपि काशं कुशमवलम्ब्यते, तदपि मन्दप्रोयजनमेवेति
SK
अन्यन्मतं व्याप्त्यापि साधर्म्यदृष्टान्त उक्ते वैधर्म्यमपि वाच्यमिति, तत्तावदुपन्यस्यति---केचिदिति पादत्रयेण / किं पुस्तदिच्छायां कारणमत आह--- व्यावृत्तिनियमेच्छयेति
SK
एतदेव विवृणोति---हेताविति / एवं हि मन्यन्ते / यदा हि
SK
व्यावृत्तिऽ सर्वतऽ प्राप्ता साध्याभावे नियम्यते // Mस्व्_५,४.१३५ //
SK
तत्तु मन्दफलं यस्मात् पक्षे ऽप्येवं निरूपितम् / व्यापकाभावमात्रं हि व्याप्यान्नित्यं निवर्तते // Mस्व्_५,४.१३६ //
SK
तस्माद् यथैव शुक्लत्वे पटस्योक्ते विरोधिनाम् / निवृत्तिर्नतु दैर्ध्यादेस्तथात्रापि भविष्यति // Mस्व्_५,४.१३७ //
SK
द्वैविध्यं नोपपन्नं तु यथैव ह्यग्निधूमयोऽ /
SK
साधर्म्यदृष्टान्तेयत्र धूम इत्युद्दिश्य तत्राग्निरेवति सैवकारमुपादीयते, तदा हेतो साध्येनैवाग्निनावधारिते सर्वतो ऽग्नोरन्यमात्राद् व्यावृत्तिऽ प्राप्नोति, न चैतत् सम्भवति / साध्यधर्माधिकरणादेरप्यभावप्रसङ्गादपक्षधर्मत्वापत्तेऽ / पक्षाभावप्रसङ्गाच्च / अतऽ साध्याभाव एव व्यावृत्तिं नियन्तुं सर्वदैव वैधर्म्यवचनमर्थवत् / सति हि तस्मिन्नग्न्यभावे धूमो न भवतीत्यावेदितं, भवतीति
SK
एतदपि दूषयति---तत्तु मन्दफलमिति / तदिदं वैधर्म्यवचनमेवं क्रियमाणं मन्दफलमित्यर्थऽ / कथं मन्दफलमत आह--- यस्मादिति / किं निरूपितमत आह--- व्यापाकभावमात्रं हीति / अग्निमान् पर्वत इति पक्षवचने निरूपितमिदम्,--- यथा ऽनियमस्तद्विपक्षाच्च कल्प्यते नाविरोधिनऽ इति / अतऽ साधर्म्यदृष्टान्ते ऽपि व्याप्या धूमादेर्व्यापकाभावनिवृत्ति मात्रेमेव दर्शयितव्यम्, नान्यमात्रनिवृत्तिरिति
SK
एतदेव दृष्टान्तवचनेनोपपादयन्नुपसंहरति---तस्मादिति / तदिह--- प्रतिज्ञाहेतुसाधर्म्यदृष्टान्ताख्यास्त्रयो मताऽ / वाक्यस्यावयवाऽ प्रायो मीमांसकमते सताम्||
SK
एतच्च भाष्यकारेण स्वयमेवोपदर्शितम् / दृष्टान्तहेतुसाध्यार्थपदत्रयनिबन्धनात्||
SK
इति
SK
अत्र भाष्यम्--- ऽतत्तु द्विविधं प्रत्यक्षतो दृष्टसम्बन्धं सामान्यतो दृष्टसम्बन्धं च / तत्र प्रत्यक्षतो दृष्टसम्बन्धं यथा--- धूमाकृतिदर्शनादग्न्याकृतिविज्ञानं, सामान्यतो दृष्टसम्बन्धं च यथा--- देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्यादित्ये ऽपि गतिस्मरणम्ऽ इति / अनेन प्रमेयद्वैविध्यादनुमानद्वैविध्यमुक्तमिति / अत्र केचिन्नीतिज्ञंमन्या अवधृतस्वलश्रणमेव क्वचिदनुमानेन सामान्यतो गृह्यत इति मन्यन्ते / तदभ्रमापनयाय भाष्यकारेणेदमुक्तम्--- ऽतत्तु द्विविधम्, अदृष्टस्वलक्षणविषयमप्यनुमानमस्ति क्रियादिष्विऽति / कथं पुनरदृष्टस्वलक्षणेन सम्बन्धदर्शनम्, उत्पत्तिमतऽ फलस्य दर्शनात् / यद्यप्यनवधृतस्वलक्षणेन वस्तुना विशेषतऽ सम्बन्धो ऽनवगतऽ, सामान्यतस्तु दृश्यते / सर्वं हि कादाचित्कं फलं कुतश्चिदागन्तुकादुत्पत्तिमतो जायमानं दृष्टम्, तन्तुसंयोगेभ्य इव पटऽ / अतो देवदत्तस्य भूतपूर्वोत्तरदेशविभागसंयोगौ कदाचिदुपलभ्यागन्तुकऽ को ऽपि हेतुरनुमीयते / तदिदं सामान्यतो दृष्टसम्बन्धमनुमानमाचक्षते प्रत्यक्षानुपलक्षितपूर्वस्वलक्षणविषयत्वात् / अग्न्यादिषु तु प्रत्यक्षतऽ स्वलक्ष आवधारणात् प्राक् प्रत्यक्षतो दृष्टसम्बन्धमनुमानमाहुऽ / न च द्रव्यमेव संयोगविभागयोऽ कारणमिति वक्तव्यम् / सत्यपि तस्मिन्नभावात् / न च द्रव्यान्तरागम एव शक्येत कल्पयितुं, तस्य पूर्वद्रव्यप्रत्यभिज्ञया बाधितत्वात् / न च सदृशापरापरोत्पत्तिविप्रलब्धा भेदं न बुध्यन्त इति साम्प्रतम्, देशादिभेदे ऽपि तदबुद्धेरविपर्ययात् / उक्तं च विवरणकारेण --- ऽक्षमभङ्गस्तु प्रत्यभिज्ञानाग्निराक्रियत एव / अतो दृष्टकारणसम्भवाददृष्टं किमपि संयोगविभागयोऽ कारणमनुमीयते / तच्च कर्मेत्याख्यायते / अत एव प्रदेशान्तरेष्वपि कर्माप्रत्यक्षमेवेऽति / भाष्यकारो दर्शयति--- यथा वक्ष्यति᳚न हि ते प्रत्यक्षे᳚इति / ऽयदाश्रयं देशान्तरं प्रापयति तत्कर्मेत्युच्यतऽ इति च / व्यक्तमेव देशान्तरप्राप्तिफलोन्नीयमानत्वमेव कर्मणो दर्शयतीति सिद्धं क्रियादीनां सामान्यतो दृष्टानुमानैकविषयत्वम् / एवं च प्रमेयद्वैविध्यादनुमानद्वैविध्योपपत्तिरिति ये वदन्ति तान् प्रत्याह---द्वैविध्यं नोपपन्नमिति / इदमुक्तप्रकारं द्वैविध्यमनुपपन्नमिति भावऽ / कथमनुपपन्नमत आह--- यथैवेति पादत्रयेण / यथा खल्वग्निधूमाकृत्योऽ प्रत्यक्षयोऽ प्रत्यक्षदृष्टऽ सम्बन्धो, भवति एवं गितप्राप्त्याकृत्योऽ, तयोरपि प्रत्यक्षत्वात् /
SK
प्रत्यक्षदृष्टऽ सम्बन्धऽ गतिप्राप्त्योस्तथैव हि // Mस्व्_५,४.१३८ //
SK
प्रत्यक्षमेव हि वयं देशान्तरं प्राप्नुवन्तं देवदत्तं गच्छतीति मन्यामहे / नेयं जात्यादिविकल्पनाभ्यऽ कर्मकल्पना विशिष्यते / तद्वदेवेन्द्रियान्वयव्यतिरेकानुविधायित्वादपरोक्षनिर्भासाच्च / ननु देवदत्ते देशसंयोगविभागातिरिक्तमपरं कर्मणऽ किमपि रूपमपरोक्षमीक्षमहे / फलदर्शनेनैव तदनुमीयते / जातेर्वा व्यक्तितो व्य(तिरिक्ता) याऽ किं रूपमनुभूयते, यदसौ प्रत्यक्षविषयतयावसीयते / रूपमेव सा व्यक्तेऽ, किमस्या रूपान्तरेणेति चेत्, कर्म वा किमरूपम् / इदमपि हि ततो न भिद्यत एव / आगन्तुकं तु केवलम् / अतो जातिकल्पनावत् कर्मकल्पनामपि प्रत्यक्षपक्ष एव निक्षिपन्तऽ पञ्चधा सविकल्पकं प्रत्यक्षं विभजामहे / आह च--- ᳚न हि दृष्टिपथं प्राप्तं देवदत्तं निरूपयन् / पठन काव्यं स्वसंज्ञोक्तं परोक्षमिव बुध्यते ||᳚
SK
आदित्ये ऽनुपलब्धिश्चेन्न देशे ऽप्यधुनातने / क्वचित् तत्रोपलब्धिश्चेद् देवदत्ते ऽपि दृश्यताम् // Mस्व्_५,४.१३९ //
SK
यदि धर्म्यन्तरापेक्षा तत्र सामान्यदृष्टता / स्यादग्निधूमचयोऽ सैव तस्मादेवं प्रचक्षते // Mस्व्_५,४.१४० //
SK
प्रत्यक्षदृष्टसम्बन्धं ययोरेव विशषयोऽ /
SK
प्रत्यक्षदृष्टसम्बन्धस्य प्रतियोगितयोपात्तं सामान्यतो दृष्टसम्बन्धं तत्रापि गतिप्राप्त्याकृत्योऽ प्रत्यक्षदृष्ट एव सम्बन्ध इति न प्रतियोगिनोरसङ्कर इति
SK
यदि तु दृष्टान्ते प्रत्यक्षतायामपि पक्षीकृतादित्यगतेरप्रत्यक्षत्वात् न प्रत्यक्षदृष्टऽ सम्बन्ध इत्युच्यते / तदेतदाशङ्कते तावत्---आदित्ये ऽनुपलब्धिश्चेदिति / इदानीं दूषयति--- नेति / कारणमाह---देशे ऽप्यधुनातन इति / देशे ऽप्यधुनातने--- सम्प्रति प्रमीयमाणे, अप्रत्यक्षतोपलब्धिरेवेत्यर्थऽ / यदि त्वग्निधूमाकृत्योऽ क्वचिन्महानसादौ अप्रत्यक्षोपलबन्धिरिष्यते सा तर्हि देवदत्ते ऽपि गतेऽ प्रत्यक्षत्वादस्तीत्याह---क्वचिदिति
SK
एवं तावत् प्रत्यक्षतो दृष्टता सामान्यतो दृष्टतया सङ्कीर्यते इत्युक्तम् / इदानीं सामान्यतो दृष्टतापि प्रत्यक्षतो दृष्टाभिमताग्न्याकृत्यनुमाने सङ्कीर्यत इत्याह--- यदीति पादत्रयेण / यदि हि देवदत्तादिधर्म्यन्तरापेक्षैवादित्ये गत्यनुमानस्य सामान्यतो दृष्टष्यते, सा तर्हि महानसादिधर्म्यन्तरापेक्षयाग्निधूमयोरपि गम्यगमकत्वेनावस्थितयोऽ प्राप्नोत्येव / सामान्यतो ह्यविवक्षितदेशादिभेदमिदमवगतं धूमवानग्निमानिति, यथा देशान्तरप्राप्त्यधिकरणं गत्यधिकरणमिति / अतऽ प्रतियोगित्वरहितमेवेदतस्मादेवं प्रचक्षत इति / यथोक्तद्वैविध्यासम्भवादेवं वक्ष्यमाणप्रकारेण द्वैविध्यं वर्णनीयमिति भावऽ
SK
तत्र प्रत्यक्षसम्बन्धं तावदुदाहरति--- प्रत्यक्षेति बुध्यते ऽन्तेन / यदा हि ययोरेवग्निधूमविशेषयोऽ, गोमयेन्धनो ऽयमग्निऽ--- गोमयमिन्धनमस्येति
SK
गोमयेन्धनतज्जन्यविशेषादिमतिऽ कृता // Mस्व्_५,४.१४१ //
SK
तद्देशस्थेन तेनैव गत्वा कालान्तरे ऽपि तम् / यदाग्निर्बुध्यते तस्य पर्वबोधाकत् पुनऽ पुनऽ // Mस्व्_५,४.१४२ //
SK
सन्दिह्यमानसभ्दाववस्तुबोधात् प्रमाणता / विशेषदृष्टमेतच्च लिखितं विन्ध्यवासिना // Mस्व्_५,४.१४३ //
SK
आकृत्योरेव चैषेष्टा व्यवच्छेदेन केनचित् / हेतुसाध्यव्यवस्थेति विशेषो नोपदर्शितऽ // Mस्व्_५,४.१४४ //
SK
बहुव्रीहिऽ, तज्जन्यो ऽयं धूमविशेष् इति च प्राक् प्रत्यक्षेण मतिं कृत्वा पुनश्च कियता विलम्बनेनान्यत्र क्वचिद् कत्वा गतऽ सन् तद्देशस्थेन तेनैव धूमविशेषेण तमेवाग्निविशेषं बुध्यते, तदा तत्प्रत्यक्षदृष्टसम्बन्धमनुमानं भवतीत्यर्थऽ / अनेन च विशेषदृष्टमेव प्रत्यक्षदृष्टशब्देनोच्यत इति व्याख्यातम् / प्रत्यक्षशब्देन हि विशेषो लक्ष्यते / प्रत्यक्षेण ह्ययमेवंविधो ऽवान्तरविशेषो गोमेयन्धनतज्जन्यत्वादिरूपऽ शक्यते ऽवगन्तुम् / न प्रमाणान्तरेण / तदद्वारेण त्वनुमानस्यापि तादृशो विशेषो विषयो भवतीति युक्तैव प्रत्यक्षशब्देन विशेषलक्षणा / विशेषदृष्टं च सामान्यतो दृष्टस्य भवति प्रतियोगीति द्वैविध्योपपत्तिरिति भावऽ / ननु विशेषदृष्टं नाम(न) प्रमाणभेदऽओ / न चेदं प्रमाणम्,गृहीतविषयत्वात् / तद्देशस्थितेनैव हि धूमेन तस्मिन्नेव देशे स एव गोमयेन्धनजन्याग्निरनुमीयते / अतो देशभेदाभावादप्रामाण्यमेव, अत आह---तस्येति पादत्रयेण / तस्यैवंविधस्य प्रत्यक्षदृष्टस्य सन्दिह्यमानसद्भाववस्तुबोधात् प्रमाणता भवति / यद्यपि देशभेदो नास्ति / कालभेदात्तु संशयानस्य संशयोच्छेदद्वारेण प्रामाण्यमविहतमिति / एतच्च विन्ध्यवासिनापि विशेषदृष्टत्वेनोदाहृतमित्याह--- विशेषदृष्टमिति
SK
यदि विशेषदृष्टोदाहरणमिदं कथं तर्हि भाष्ये आकृतिग्रहणम् / एवं हि विशेष एव दर्शयितव्यो भवेत् / अत आह---आकृत्योरेवेति / अयमर्थऽ---केनचिद्गोमयोन्धनत्वादिनावान्तरविशेषेणोपदर्शितयोराकृत्यो
SK
अग्निधूमान्तरत्वे च वाच्ये सामान्यतो मितौ / सामान्यदृष्टमेकान्तादत्रेत्यादित्य उच्यते // Mस्व्_५,४.१४५ //
SK
प्रत्यक्षविषयत्वं च सामान्यस्य प्रसाधितम् / वस्तुत्वं चात्र हेतुर्वा द्वयस्याप्यभिधीयते // Mस्व्_५,४.१४६ //
SK
रेवात्र हेतुसाध्यत्वम् / एवं ह्यत्र प्रत्ययऽ / स एवायमद्य यावदनुवर्तमानो गोमयेन्धनविकारस्य धूमस्याकारो दृश्यते / अत एव तदिन्धनयोनिरग्निरनुवर्तत इत्यतो नानुपपन्नमाकृतिग्रहणमिति
SK
यद्येवमविवक्षितावान्तरविशेषमग्निधूमान्तरमेव सामान्यतो दृष्टोदाहरणतया वाच्यम् / किमादित्योदाहरणेन / अत आह---अग्निधूमान्तरत्वे चेति / यथा ह्यग्निधूमाकृत्योस्तुणदारुगोमयेन्थनादिजन्मा सुव्यक्तो विशेषऽ सर्वप्रमातृस्यसंवेद्यो भवति, नैवं गतिप्राप्त्याकृत्योऽ / अतऽ प्राप्त्याकृतिमात्राद् गत्याकृतिमात्रानुमानमादित्य एकान्ततऽ सामान्यतो दृष्टसम्बन्थमिति युक्तमेवादित्योदाहरणमिति
SK
किं पुनऽ सामान्यतऽ सम्बन्धग्रहणे प्रमाणम् / न ह्यगृहीतयोऽ सम्बन्धिनोऽ सम्बन्धग्रहणमस्ति / न च सामान्ययोऽ प्रत्यक्षग्रहणं सम्भवति / तस्य स्वलक्षणैकविषयत्वात् / नानुमानमनवस्थापातात् / अत आह---प्रत्यक्षविषयत्वमिति / भवेदनवस्था,वद्यनुमानेन सामान्यग्रहणमिष्यते / तस्य तु सविकल्पकसिद्धौ प्रत्यक्षविषयत्वमुपपाद्यान्त उपसंहृतं ऽप्रत्यक्षत्वमतऽ सिद्धं सामान्यस्येऽति / ननु यस्त्वेव न सामान्यं किञ्चिदस्ति नाम / तस्य भिन्नाभिन्नस्यानिरूपणादत आह--- वस्तुत्वं चेति / वस्तुत्वमप्याकृतिग्रन्थे विस्तरेण प्रतिपाददयिष्यते / प्रत्यक्षविषयताप्रतिपादनेन च प्रत्यक्षे ऽपि प्रसाधितप्रायमेव / अत्र च ऽअस्ति सामान्यवस्तुष्विऽत्यन्वयोपपादनाय सामान्यस्य वस्तुत्वमुपन्यश्रस्तमेव / अयं तु हेतुकथनार्थऽ पुनरुपन्यास इति / यस्तु हैतुको न हेतुमन्तरेण प्रमाणान्तरसिद्धावाद्रियते / तं प्रति हेतुनैवोभयमुपपादयिष्याम इत्याह---अत्रेति
SK
धुमादग्न्यनुमानस्य वस्त्वालम्बनता भवेत् / अभावान्यप्रमाणत्वात् स्वार्थे श्रोत्रादिबुध्दिवत् // Mस्व्_५,४.१४७ //
SK
सामान्यस्य च वस्तुत्वं प्रत्यक्षग्नाह्यतापि च / अभावान्यप्रमेयत्वादसाधारणवस्तुवत् // Mस्व्_५,४.१४८ //
SK
तत्र वस्तुत्वप्रसाधनार्थं तावद् हेतुमाह---धूमादग्न्यनुमानस्येति / बौद्धा ह्यवस्तुसामान्यालम्बनमनुमानमाचक्षते / सामान्यस्य विकल्पाकारमात्राभ्युपगमात् / अत एव भ्रान्तिरेवानुमानं, सम्बन्धबलेन स्वलक्षणरूपमुपस्थापयतीति प्रमाणित्याहुऽ / तानेव प्रतीदमुच्यते--- वस्त्वालम्बनमनुमानभभावान्यप्रमामत्वात् यथा स्वार्थे श्रोत्रादिबुद्धिऽ / या हि स्वविषये श्रोत्रादिभिरिन्द्रियैर्बुद्धिर्जन्यते, सा वस्त्वालम्बनैवप / येन च यदिन्द्रियं सन्निकृष्यते स तस्य स्वार्थऽ प्राप्यकारित्वादिन्द्रियाणाम् / तदिह मृगतृष्णादिज्ञाननिराकरणार्थं स्वार्थविशेषणम् / अविशेषेणोपादाने तु नाबावान्यप्रमाणत्वस्य वस्त्वालम्बनतया व्याप्तिऽ कथिता भवेत् / भ्रान्तीनामुभयविकलत्वात् / न हि ताऽ प्रमाणम् / न च वस्त्वालम्बनाऽ / अन्यसम्प्रयुक्तेन्द्रियस्यहि ता अन्यविषया जायन्ते / ऊदृशमेव ज्ञानमवस्त्वालम्बनं, न पुनरत्यन्तासदर्थम् / एवं वस्त्वालम्बन्त्वे ऽनुमानस्य साधिते अर्थात् सामान्यं वस्त्वित्युक्तं भवति / इदं चावस्त्वालम्बत्वमनुमानस्यार्थपदं प्रयुञ्जानेन भाष्यकारेण निराकृतम् / अनर्थविषयमनुमानमिति बौद्धा मन्यन्ते / यद्वदिति(?) स्वप्रतिभासे ऽनर्थेर्ऽथाध्यवसायेन प्रवर्तमाना भ्रान्तिरप्यर्थसम्बन्धेन प्रवृत्तेस्तदव्यभिचारात् प्रमाणमनुमानमिति, तेषामिदमुत्तरम् अर्थऽ सामान्यमनुमानस्य विषयो बाह्य एव / न विकल्पाकारमात्रमित्याकृतिग्रन्थे विस्तरेण प्रतिपादयिष्यत इति
SK
एवमर्थाद् वस्तुत्वं प्रसाध्याह्रत्य प्रसाधयति---सामान्यस्य च वस्तुत्वमिति / सामान्यं वस्तु अभावान्यप्रमेयत्वादसाधारणवस्तुवदिति वक्ष्यमाणेन सम्बन्ध इति / प्रत्यक्षविषयतामिदानीं प्रयोगेण दर्शयति--- प्रत्यक्षेति पादत्रयेण / यदभावान्यप्रमेयं तत् प्रत्यक्षेण गृह्यत एव / यथा सौगतानामेवासाधारणं वस्त्विति
SK
सामान्यं नानुमानेन विना यस्य प्रतीयते / न च लिङ्गविनिर्मुक्तमनुमानं प्रवर्तते // Mस्व्_५,४.१४९ //
SK
असामान्यस्य लिङ्गत्वं न च केनचिदिष्यते / न चानवगतं लिङ्गं किञ्चिदस्ति प्रकाशकम् // Mस्व्_५,४.१५० //
SK
तस्य वाप्यनुमानेन स्यादन्येन गतिऽ पुनऽ / तदुत्पत्तिश्च लिङ्गात् स्यात् सामान्यज्ञानसंहतात् // Mस्व्_५,४.१५१ //
SK
तस्य चाप्यनुमानत्वाद् भवेल्लिङ्गेन चोद्भवऽ / अनुमानान्तरादेव ज्ञानेनैवं च कल्पने // Mस्व्_५,४.१५२ //
SK
लिङ्गलिङ्ग्यनुमानानामानन्त्यादेकलिङ्गिनि / कतिर्युगसहस्रेषु बहुष्वपि न विद्यते // Mस्व्_५,४.१५३ //
SK
अथ सामान्यभूते ऽपि लिङ्गे ऽन्यस्माद् गितर्भवेत् / प्रमाणादप्रमाणाद् वा तथा लिङ्गिगतिर्भवेत् // Mस्व्_५,४.१५४ //
SK
बौद्धानामेव तु सामान्यमनुमानैकविषयं मन्वानानामनवस्था प्रसज्यत इत्याह--- सामान्यमिति पञ्चभिऽ / निगदव्याख्यातो ग्रन्थऽ ||१४९--१५३||
SK
यदि तूच्यते लिङ्गभूतसामान्यग्रहणार्थमनुमानापेक्षायामनवस्था भवति, न तदग्रहणार्थमनुमानमपेक्ष्यते, धूमादिस्वलक्षणदर्शनप्रभवविकल्पवेद्यत्वात्तस्य / न चासावप्रमाणम्, अर्थक्रियासमर्थवस्तुप्रतिलभात् / न च प्रमाणमनर्थविषयत्वात् / अतो ऽनिर्वचनीयविकल्पसिद्धत्वात् लिङ्गस्य नानवस्था भवतीत्याशङ्क्याह---अथेति / अयमभिप्रायऽ--- न तावत् प्रमाणमप्रमाणं च ज्ञानं सम्भवति / विरुद्धस्वभावयोरेकत्र प्रतिषेधे ऽन्यतरापत्तेरपरिहार्यत्वात् / अप्रमाणस्य च प्रमेयव्यवस्थापनाशक्तेरवश्यं प्रमाणमेव तज्ज्ञानमभ्युपगन्तव्यम् / प्रत्यक्षानुमानानभ्युपगमाच्च प्रमाणान्तरमेवापद्येत /
SK
एवमप्यनुमानस्य नित्योच्छेदऽ प्रसज्यते / प्रमाणान्तरमेव स्यात् सामान्यस्यावबोधकम् // Mस्व्_५,४.१५५ //
SK
अप्रमाणावबुद्धाद्वा लिङ्गाल्लिङ्गिनि या मतिऽ / सापि मिथ्या भवेन्नित्यं बाष्पजाताग्निबुद्धिवत् // Mस्व्_५,४.१५६ //
SK
नन्वप्रमाणभूतापि सम्बन्धस्मृतिरिष्यते / यथा लिङ्गिगतौ हेतुस्तथा लिङ्गगतिर्भवेत् // Mस्व्_५,४.१५७ //
SK
तत्र यत्पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते / तदुस्थानमात्रेण स्मृतेऽ स्याच्चरितार्थता // Mस्व्_५,४.१५८ //
SK
प्रमाणान्तरं च सद्यथा तल्लिङ्गंवेदने प्रमाणमिष्यते, एवं लिङ्गिन्यपि प्राप्नोति / एवं च वक्ष्यमाणप्रसङ्गो भवेत् / प्रमाणादप्रमाणाद्वेति वदन्ननिर्धारितोभयरूपतां विकल्पस्य दर्शयति
SK
अस्तु तर्हि लिङ्गिनो ऽपि तथैवावगमऽ, को दोषऽ, अत आह---एवमपीति / अयमभिप्रायऽ--- अनवस्तामपि प्रसञ्जयतामस्माकमनुमानोच्छेदापादनमभिमतम् / प्रमाणान्तराभ्युपगमे ऽपि चानुमानोच्छेदो भवत्येव / तदेव हि प्रमाणं तदा सर्वस्य लिङ्गलिङ्गिसामान्यस्यावबोधकं भवेदिति
SK
यदि त्वेकरूपाभ्युपगमे ऽप्रमाणत्वमेव लिङ्गज्ञानस्येष्यते,ततो ऽप्रमाणावगताल्लिङ्गाल्लिङ्गिज्ञानमपि मिथ्या भवेत् / बाष्पादिव धूमसंविदितादग्निज्ञानम् / एवं च नानुमानमिति / स एवानुमानस्य नित्योच्छेद इत्यभिप्रायेणाह--- अप्रमाणावबुद्धादिति
SK
अत्र चोदयति---नन्विति / यथा ह्यप्रमाणमेव सम्बन्धस्मरणं प्रमाणकारणमिष्यते तथा लिङ्गज्ञानमपि भविष्यतीत्यर्थऽ
SK
परिहरति---तत्रेति / स्मतिर्हि पूर्वज्ञानाद् भवन्तीतदुपस्थापनद्वारेणानुमायामुपयुज्यते / तच्च प्रमाणमेवेति तदनुसारी निर्णयो युक्त इति
SK
न तु लिङ्गगतौ किञ्चित् प्रमाणमुपपद्यते / तदभावात् स्मृतिश्चात्र न कथञ्चित् प्रवर्तते // Mस्व्_५,४.१५९ //
SK
स्मार्थमेतदभेदेन विज्ञानमिति यो वदेत् / तस्य वन्ध्यासुते ऽप्यस्ति नूनं स्मरणशक्तता // Mस्व्_५,४.१६० //
SK
न चासाधारणोर्ऽथात्मा सामान्यज्ञानकारणम् / यस्मान्नास्याविनाभावस्तेन दृष्टऽ कथञ्चन // Mस्व्_५,४.१६१ //
SK
न चैष प्रकारो लिङ्गगतौ सम्भवतीत्याह---न त्विति / न ह्यत्र प्रागपि लिङ्गावगमे प्रमाणं किञ्चिदुपपद्यते, यत् प्रमाणज्ञानेनोपस्थाप्यत इति / न च लिङ्गज्ञानमपि स्मृतिरेवेति वाच्यम् / पूर्वप्रमाणाभावादेवेत्याह--- तदभावादिति
SK
ननु निर्वकल्पगृहीतधूमादिस्वलक्षणपरिप्रापकतया लिङ्गज्ञानमपि स्मृतिरेव / अतो ऽत्रापि निर्विकल्पप्रमाणान्तरतो निर्णयो युक्त एव / अत आह---स्मार्तमिति / यथा सम्प्रति सम्बन्धज्ञानं गृहीतप्रापकतया समरणम्, एवमेतदपि लिङ्गज्ञानं निर्वकल्पकगृहीतप्रापकतया तदभेदेन स्मार्तमिति यो वदति तस्य वन्ध्यासुत्रे ऽपि स्मरणशक्तिरनिवारिता / गृहीतविषया हि स्मृतिरिति स्थितिऽ / न च लिङ्गसामान्यज्ञानं निर्वकल्पकगृहीतस्वलक्षणालम्बनमिति कथं स्मृतिऽ / यदत्र प्रकाशते तन्न गृहीतं, यच्च गृहीतं सन्न प्रकाशत इति न स्मृतित्वम् / अगृहीतगोचरायां तु स्मृतौ वन्ध्यासुते ऽपि स्मरणप्रसङ्ग इति
SK
नन्वनुमानेन लिङ्गसामान्यज्ञाने ऽनवस्था भवति, यदि सामान्यात्मकमेव लिङ्गं तदग्रहणार्थमिष्यते, तस्यानुमानवेद्यत्वात् / असाधारण एवार्थात्मा सामान्यज्ञाने लिङ्गं भविष्यति, स च प्रत्यक्ष एवेति नानवस्था / अत आह---न चेति / किं न कारणमत आह---यस्मादिति / दृष्टाविनाभावं लिङ्गं भवति / न चास्य तेन सामान्येनाविनाभावऽ कथञ्चिद्देशतऽ कालतो वा दृष्टऽ / असाधारणस्य भावान्तरेष्वनुस्यूत्यसम्भवादेकत्र दृष्टस्य च तत्रैव निरुद्धत्वादिति
SK
स्याद्वा सम्बन्धदृष्ट्यासौ सामान्यं कृतकत्ववत् / नह्यसाधारणं वस्तु पूर्वत्रेह च विद्यते // Mस्व्_५,४.१६२ //
SK
न चाप्यव्यपदेश्यस्य विकल्परहितस्य च / विना पूर्वानुसन्धानाल्लिङ्गत्वमुपपद्यते // Mस्व्_५,४.१६३ //
SK
कल्प्यन्ते च विशेषा ये ते ऽप्यलिङ्गमनन्वयात् / एतस्मादेव हेतोऽ स्यात् तज्ज्ञानस्याप्यलिङ्गता // Mस्व्_५,४.१६४ //
SK
सामान्यरूपतायां वा तथैवानवधारणम् /
SK
सम्बन्धदर्शनाभ्युपगमे व कृतकत्वादिवत् सामान्यरूपतापत्तिरित्याह---स्याद्वेति / अत्र कारणमाह---नहीति
SK
इतश्चासाधारणोर्ऽथात्मा न लिङ्गमित्याह---न चेति / धूमादर्हिधूमो ऽयमित्यादिविकल्पास्पदीकृतो ऽग्नयादेर्लिङ्गमिति दृष्टम् / असाधारमस्तु केनचिद्रूपेणाप्यव्यपदेश्यऽ कथं लिङ्गं भवेदिति / लिङ्गत्वं नोपपद्यत इति वक्ष्यमाणेन सम्बन्ध इति / ननु तिरश्चामसत्येव शब्दोल्लेखे ऽसाधारणरूपदर्शिनामेवानुमानं दृष्टमतो नाव्यपदेश्यत्वादलिङ्गत्वमत आह---विकल्पेति पादत्रयेण / अयमभिप्रायऽ---- मा नाम तिरश्चां शब्दोल्लेखो भवेत्, अर्थविकल्पस्तु तेषामपि पूर्वापरानुसन्धानात्मको ऽस्त्येव / अतो युक्तमेव तेषामनुमाने ऽव्यपदेश्यस्यापि कथं लिङ्गम् / न हि सो ऽयमित्यानारूढो बुद्धौ धूमो ऽग्नेर्लिङ्गं भवति / न चैवमसाधारणे सम्भवति, पूर्वापरानुसन्धानागोचरत्वात् तस्येति
SK
अस्मन्मते ऽपि ये ऽसाधारणात्मानो धूमादयो विशेषा विकल्प्यन्ते ते ऽप्यन्वयाबावादलिङ्गं, किमङ्ग पुनर्निर्विकल्पकैकगोचरो ऽसाधारणोर्ऽथात्मा इत्याह---कल्प्यन्तैति / अन्वयाभावादेवासाधारणज्ञानमपि लिङ्गिसामान्यज्ञाने न लिङ्गमित्याह--- एतस्मादेवेति
SK
यदि त्वन्वयसिद्ध्यर्थमसाधारणस्य सामान्यरूपतेष्यते, ततो लिङ्गसामान्यग्रहण इवानवस्थाप्रसङ्गात् तस्याप्यनवधारणमित्याह---
SK
क्वचिद्वा दृष्टसम्बन्धे सर्वऽ प्रत्यायको भवेत् // Mस्व्_५,४.१६५ //
SK
सम्बन्धानुभवो ऽवश्यमेषितव्यश्च लिङ्गिनऽ / अनुमानप्रवृत्तेस्तु प्राङ्मानं तत्र नास्ति ते // Mस्व्_५,४.१६६ //
SK
नचापि वासनामात्राल्लिङ्गज्ञानस्य सम्भवऽ / लिङ्गिज्ञानं च तद्वत् स्यात् त्रिरूपाल्लिङ्गतो न तत् // Mस्व्_५,४.१६७ //
SK
सामान्येति / यदि तु कस्मिंश्चिदेवासाधारणे सामान्येन ज्ञातसम्बन्धे ऽन्यदर्शिनापि सामान्यमनुमीयते / एवं तर्हि सर्व एव सर्वस्य प्रत्यायको भवेत् / अविशेषादित्याह---क्वचिदेति
SK
एवं तावन्न लिङ्गावधारणे प्रमाणमस्तीत्युक्तम् / इदानीमन्वयमग्रहणकाले लिङ्गिज्ञाने ऽपि न किञ्चित् प्रमाणमस्तीत्याह--- सम्बन्धानुभवैति / नागृहीते लिङ्गिनि तत्सम्बद्धं लिङ्गं शक्यते ऽवगन्तुम् / न चानुमानप्रवृत्तेऽ प्राक् तस्मिन् सामान्यात्मनि भवतऽ किञ्चित् प्रमाणमस्त्यस्माकमिव प्रत्यक्षम्, अतो ल्लिङ्गिन्यप्यवगम्यमाने ऽनवस्थाप्रसङ्ग इत्यभिप्रायऽ
SK
नन्वनादिकालीनवासनामात्रनिबन्धन एवायं लिङ्गलिङ्गिसंव्यवहारऽ, किमिहातिनिर्बन्धेन / काचिदेव हि वासनोद्भूता किञ्चिल्लिङ्गाकारं विक्पमाविर्भावयन्ती किञ्चिदेवानुमासंव्यवहारं प्रवर्तयति / यथाहुऽ---ऽस एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन , न बहिऽ सदसत्त्वमपेक्षतऽ इति, अत आह---न चापीति / न वासनामात्रनिर्मितं लिङ्गज्ञानम् / वासना हि पूर्वानुभवाहितऽ संस्कारऽ / नासौ लिह्गसामान्यस्य शशविषाणादिवदत्यन्तासतऽ सम्भवतीति कथं वासनामात्राल्लिङ्गज्ञानस्य सम्भव इति / तन्निबन्धने लिङ्गज्ञान इष्यमाणे तद्वदेव लिङ्गिज्ञानोपपत्तरेनर्थकं त्रिरूपालिङ्गतोर्ऽथदृगनुमानमित्यनुमानप्रामाण्याश्रयणमित्याह---लिङ्गिज्ञानं चेति
SK
यत्राबावस्य लिङ्गत्वं न चासावानुमानिकऽ / प्रमाणान्तरगम्यत्वात् तत्र दोषो न जायते // Mस्व्_५,४.१६८ //
SK
प्रत्यक्षावगताल्लिङ्गाद् यस्य लिङ्गिगतिर्भवेत् / तस्य नातो ऽधिकं किञ्चित् प्रार्थनीयं प्रसज्यते // Mस्व्_५,४.१६९ //
SK
यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् / तत्रापि मौलिकं लिङ्गं प्रत्यक्षादेव गम्यते // Mस्व्_५,४.१७० //
SK
लिङ्गत्वं ककृतकत्वादौ क्रियायाऽ कारकस्य वा / प्रत्यक्षत्वं च तस्येष्टमिति दूरं न गम्यते // Mस्व्_५,४.१७१ //
SK
नन्वियमनवस्था मेघाभावेन वृष्ठ्यभावानुमाने भवतो ऽपि समानैव, अभावस्यानुपलब्धिलिङ्गत्वात् / सातीयलिङ्गान्तरापेक्षायामनवस्थापद्यते / अत आह---यत्रेति / यत्र हि वृष्ट्यभावे मेघाभावो लिङ्गं नासावनुमेयऽ, अभावाख्यप्रमाणान्तरगम्यत्वात् / अतो नात्र तुल्यजातीयापेक्षानिबन्धनो ऽनवस्थादोषो जायत इति
SK
प्रत्यक्षसामानय्वादिनां तु न नऽ काचिदनवस्थेत्याह---प्रत्यक्षावगतादिति / अतऽ प्रत्यक्षादित्यर्थऽ
SK
अनुमितानुमाने तर्ह्यनवस्था, अत आह--- यत्रापीति / प्रत्यक्षा हि देशान्तरप्राप्तिर्मौलिकं मूले भवं लिङ्गं, तेन गतिमनुमायादित्ये गतिसाधने ऽनुमीयमाने नावस्थेत्यभिप्रायऽ
SK
नन्वनित्यऽ शब्दऽ कृतकत्वात्, कृतकत्वं चतत्र दर्शनादित्येवं कर्मानन्तरभावितया कृतकत्वे साध्यमाने कर्मणो ऽपि हेत्वन्तरादनुमाने ऽनवस्था भवेदत आह--- लिङ्गत्वमिति / ᳚कृतकत्वानुमाने हि कर्मैके तत्र दर्शनाद्᳚ / इति कारकव्यापारान्तरभावित्वं लिङ्गमुक्तम् / तत्र च कारकाविशिष्टा क्रिया तद्विशिष्टं वा कारकमन्तरभावितां विशिषल्लिङ्गमापतति / उभयं
SK
एवं शब्दौपमानादौ सामान्यश्रयता यतऽ / तद्दौस्थित्येन दौस्थित्यं सर्वत्रातऽ प्रसज्यते // Mस्व्_५,४.१७२ //
SK
तस्मात्प्रत्यक्षपूर्वत्वं प्रमाणान्तर इष्यते / प्रत्यक्षत्वं च सामान्ये नान्यता हि गतिर्भवेत् // Mस्व्_५,४.१७३ //
SK
प्रत्यक्षालम्बनत्वं च विशेषस्य कथं भवेत् / यदा वस्त्वम्तरापेक्षऽ सामान्यांशऽ स कीर्त्यते // Mस्व्_५,४.१७४ //
SK
रूपादयो हि सामान्यं सर्वे नीलाद्यपेक्षया / स्वविशेषानपेक्ष्याथ नीलादीनां समानता // Mस्व्_५,४.१७५ //
SK
च तत्प्रत्यक्षम् / क्रियायास्तावत् प्रत्यक्षत्वमनन्तरमेव साधितम् / कारकमपि तद्वत् प्रत्यक्षमेव / शक्तिस्तु परोक्षा / सा च न तावदिह लिङ्गम् / न चानुमेया / अतऽ क्रियाकारकयोरुभयोरपि प्रत्यक्षत्वान्न दूरगमनम् / अनुमेयकर्मवादिनामपि हि फलावध्यवस्थानान्नानवस्था, नितरामस्माकमिति
SK
एवं तावदनुमास्यासति सामान्यस्य वस्तुत्वे प्रत्यक्षत्वे च दौस्थित्यमुक्तम् इदानीं सर्वमेव प्रमाणजातं सामान्यस्य दौस्थित्ये दुस्थितमापद्येत तेषामपि सामान्यश्रयत्वात् / न च तदप्रमाणं वक्ष्यमाणनयायादित्यभिप्रायेणाह--- एवमिति
SK
अतो ऽवश्यं प्रमाणान्तराणां प्रत्यक्षपूर्वकत्वमेष्टव्यं सामान्यस्य च प्रत्यत्वम्, इतरथा त्वनवस्था प्राप्नोतीत्युपसंहरति---तस्मादिति
SK
एवं तावत् सामान्यस्य प्रत्यक्षत्वं वस्तुता चोपपादिता इदानीं विशेषा एव प्रत्यक्षेण गृह्यन्त इति ये वदन्ति तान् प्रत्याह---प्रत्यक्षेति / विशेषो हि यदि तावदवयवी द्रव्यमभिमतऽ, चावयववस्त्वन्तरापेक्षऽ सामान्यांशो ऽस्माभिऽ कीर्त्यत इति कथं प्रत्यक्ष इति
SK
यदि त्ववयविरूपादय एव विशेषा इष्यन्ते, तदप्ययुक्तम् / ते ऽपि हि स्वविशेषनीलाद्यपेक्षया सामानयमेवेत्याह---रूपादयो हीति /
SK
ते चापि तावत् सामान्यं यावत् स्युऽ परमाणवऽ / द्व्यणुकस्यापि यदरूपं तद्धि साधारणं द्वयोऽ // Mस्व्_५,४.१७६ //
SK
न चान्त्येन विशेषेण व्यवहारो ऽस्ति कस्यचित् / न च प्रत्यक्षतात्सय सङ्घाते केवलस्य वा // Mस्व्_५,४.१७७ //
SK
भेदेनागृह्यमाणस्य नाभेदो ग्राह्यतां व्रजेत् / न च भिन्नेष्वभिन्नत्वबुद्धेर्ग्राह्यत्वसम्भवऽ // Mस्व्_५,४.१७८ //
SK
यदि तु नीलादय एव विशेषा इति मतम् / तन्न / तेषामप्यवान्तरनीलाद्यपेक्षया सामान्यरूपत्वादित्याह---स्वविशेषानिति
SK
यदि त्वेकभ्रमरादिद्रवयनीलिमैव विशेष इष्यते, तन्न / तस्यापि पक्षादिस्वावयवाश्रितनीलविशेषापेक्षया सामान्यरूपत्वात् / पक्षनीलिमापि तदवयवनीलापेक्षया सामान्यमेव / एवं च अपरमाणुभ्यऽ प्रसङ्गो दर्शयितन्य इत्याह---ते चापीति / निर्भागा हि परमाणव इति तदरूपमसाधारणमेवेति || तेभ्यस्तु प्राक् द्व्यणुकरूपमपि द्वयोऽ साधारणमित्याह--- द्व्यणुकस्यापीति
SK
नन्वस्तु परमाणुरूपमेव विशेषऽ, स एव नऽ प्रत्यक्षो भविष्यत्यत आह---न चान्त्येनेति / व्यवहारार्थं हि प्रमाणमनुस्त्रियते, न व्यसनितया / न चान्त्येन विशेषेण व्यवहारऽ कस्यचिदस्तीति किं तत्प्रत्यक्षतयेति / ननूपेक्षाफलमपि प्रमाणं भवत्येव, अत आह---न चेति / न नऽ कपरमाणूनां रूपं स्थूले वर्तमानानां तन्तूनामिव पटे प्रत्यक्षं विभक्तानां वेति न कथञ्चिद् विशेषविषयता प्रत्यक्षस्येति
SK
ननु परमाणव एव भिन्नाऽ सञ्चिता गृह्यन्ते न कार्यद्रव्यमेकम् / अतऽ कथं तत्सावयवेषु सामान्यमित्युच्यते / सञ्चिता एव चानन्यवृत्तितया विशेषासाधारणादिपदवाच्या इति ते प्रत्यक्षा भविष्यन्ति / मा नामैकैकतऽ परमाणुरक्षगोचरो भवेदत आह--- भेदेनेति / एको हि सर्वदा सर्वेषां च बावऽ प्रकाशते न परमाणुभेदाऽ / न च भेदेनागृह्यमाणो ऽभेदो गृह्यत इति साम्प्रतम् / संविद्विरोधादिति भावऽ / नन्वयमेव भेदा
SK
समुदायो न वाप्यस्ति भवतां न च सर्वदा / सर्वेषामसतार्थेन प्रत्ययोत्पत्तिसम्भवऽ // Mस्व्_५,४.१७९ //
SK
न चैकजातियोगेन विनास्ति समुदायता / समुदाये ऽपि चाणुत्वं नैतेषामपगच्छति // Mस्व्_५,४.१८० //
SK
सामान्यमित्यदृश्ये ऽपि तेन सामान्य एव नऽ / व्यासङ्गिनी भवत्येषा धीर्विनाप्येककल्पनात् // Mस्व्_५,४.१८१ //
SK
वग्रहो यो ऽयमभिन्नप्रकाशऽ,किं भेदग्रहणेनात आह---न च भिन्नेति / नाभिन्नाकारबुद्धिबोध्यो भेदऽ, भदाभेदविवेकानुपपत्तेरिति भावऽ
SK
नन्वसत्यप्येकस्मिन् समुदायालम्बनो / अयमभिन्नावसभासो भविष्यतीत्यत आह--- समुदाय इति / ये हि सामान्यमेव सर्वजगत्संविदितमपलपन्ति कुतस्तेषां समुदायो नामार्थान्तरं, यदालम्बनो ऽभिन्नप्रतिभासो भविष्यति / अपि च सर्वदा सर्वे चैकं द्रव्यमवबुध्यत्नते कथं तदन्यथा भविष्यतीत्याह--- न च सर्वदेति
SK
किञ्चायं समुदायो ऽपि नैकजात्या विनोपपद्येत / न हि नानाजातीयेषु वृक्षघटलोष्टेषु कस्यचित् समुदायबुद्धिरस्ति / अतऽ समुदाये ऽपीष्यमाणे ऽणुत्वसामानयमभ्युपगन्तव्यमापद्येत भवतामित्याह--- न चेति / हेतौ चऽ
SK
ननु नानेकावयववृत्त्यनुसन्धानेन विना तत्सामान्यरूपं द्रव्यमभ्युपगन्तुं शक्यम् / न चैन्द्रियकं ज्ञानमेता(वि?व) ति समर्थमविकल्पकत्वात् तस्य / अत आह---सामान्यमितीति / यद्यप्येकानुगमकॢप्तेस्तन्नानावयवव्यासङ्गि द्रव्यं सामान्यमित्येवं विकल्प्य न गृह्यते / तथापि तदेकरूपं तावन्निर्विकल्पकेनापि गृह्यत एवेति नापह्नोतुं शक्यत इति व्यासज्यवृत्त्यवयविसामान्यन्यायेन प्रतिव्यक्तिवर्तिनो ऽपि गोत्वादिसामान्यस्यैकन्द्रियकत्वं दर्शयितव्यम् / तदपि सामान्यमित्येन रूपेणाग्राह्यं वस्तुतऽ सामान्यमेव गृह्यते / शब्दादिस्मरणोत्तरकालं त्वनेकानुगमावमर्शात् सामान्यमिति विकल्प्य गृह्यते / इदं च सविकल्पकसिद्धावुक्तमेव / अतो नैवं वाच्यम्--- अस्त्ववयविसामान्य्सय स्वलक्षणापरनाम्न इन्द्रियैर्ग्रहणम्, न तु प्रतिव्यक्तिनिवेशिन इति
SK
व्यासज्य वर्तमानस्य सामान्यस्य यथेन्द्रियैऽ / ग्रहणं तद्वदेव स्यात् प्रतिव्यक्तिनिवेशिनऽ // Mस्व्_५,४.१८२ //
SK
मीमांसकैश्च नावश्यमिष्यन्ते परमाणवऽ / यदबलेनोपलब्धस्य मिथ्यात्वं कल्पयेद् भवान् // Mस्व्_५,४.१८३ //
SK
समूहरूपं प्रत्यक्षमदृश्यैऽ परमाणुभिऽ / यो ऽपहनुते शशस्यापि सो ऽभावं शृङ्गतो वदेत् // Mस्व्_५,४.१८४ //
SK
उभयत्रापि प्रत्ययाविशेषादित्याह---व्यासज्येति / तदनेनैतदापादितम्-किमिदं मुधैव सामान्यस्य प्रत्यक्षता नेष्यते, विशेषमपि हि प्रत्यक्षमिच्छद्भिर्बलात्सामान्यमेव प्रत्यक्षमाश्रयणीयम्, सर्वस्य हि सुनिपुणं निरूप्यमाणस्य रूपादेऽ सामान्यरूपत्वाद्, द्रव्यस्य च नानावयवसाधारमस्य ताद्रूप्यात्, स्वत्त्रं परमाणुसञ्चयमात्रस्य चानुपलम्भाद् द्रव्यापलापे च प्रत्यक्षविरोधात् / अतो ऽवयविसामान्यं तत्समवेतानि च गोत्वादिसामान्यानि सर्वाण्येव प्रत्यक्षाणि न विशेषा एवेति तात्पर्यम् / एवम्परत्वादेव च प्रदेशान्तरसिद्धसामान्यावयविसामान्यप्रत्यक्षताप्रतिपादनेन न पुनरुक्तता चोदनीयेती
SK
ननु भवद्भिर्मीमांसकैस्तावदवस्यमभ्युपगन्तव्याऽ परमाणवऽ / अतस्तेषामेवोभयसिद्धानां परमेकाकारबुद्धिजननशक्तिमात्रमेवोपकल्पितम् / किं धर्मिकल्पनया / लघीयसी हि तत्कल्पनातो धर्मकल्पना / अत आह---मीमांसकैश्चेति / अयमभिप्रायऽ / यद्धि प्रमाणेनोपनीयते, तदस्माभिरिष्यते, न च स्थूलं हित्वा परमाणव एवाक्षजायां बुद्धौ भासन्ते, यत्तानुपेत्य स्थूलमवजानीमहे / तदानुगुण्येन तु यद्यणवो व्या(प?पा) द्यन्ते, भवन्तु, न तद्वलेन मूलभूतं स्थूलमपलपितुमुत्सहामह इति
SK
प्रत्यक्षं तु स्थूलमदृश्यैऽ परमाणुभिऽ निहनुवानस्य शशो ऽपि तद्विषाणधिया निह्नोतव्यऽ प्राप्त इत्याह---समूहरूपमिति
SK
समूहपरमार्थत्वे स्थिते तत्सिद्धिहेतुका / यदि नामावगम्येत परमाण्वस्तिता पुनऽ // Mस्व्_५,४.१८५ //
SK
तस्माद् यद् गृह्यते वस्तु येन रूपेण सर्वदा / तत्तथेवाभ्युपेतव्यं सामान्यमथवेतरत् // Mस्व्_५,४.१८६ //
SK
सत्तादिसामान्यमपेक्ष्य सर्वं गोत्वाद्यसाधारणतामुपैति / तस्मादसाधारणम् अक्षगम्यं वदन् न सामान्यमपहनुवीत // Mस्व्_५,४.१८७ //
SK
सामान्यरूपेण न गृह्यते चेत् किं वास्त्यसाधारणबुद्धिरत्र /
SK
किमिदानीं शशविषाणकल्पऽ परमाणवऽ / नेत्याह--समूहेति / न ह्यत्र कल्पनालाघवेन प्रत्यक्षसिद्धो धर्मी परत्यागमर्हति / सिद्धे च तस्मिस्तदनुगुणाऽ परमाणव इति केन नेष्यते / सिद्ध्युपायस्तु तेषामन्यो नास्तीति परमाणवो नावश्यमिष्यन्त इत्युक्तं भवति
SK
अतो यदेव वस्तु सामान्यविशेषयोरपरोक्षं गृह्यते, तत् तथैवापरोक्षमपह्नोतुं शक्यते / गोत्वादिसामान्यानामपि सत्तादिपरसामान्यापेक्षयासाधारणत्वात् / अतो यद्यसाधारणं प्रत्यक्षमित्याग्रहो भवतामेवमपि न गोत्वादिसामान्यमप्रत्यक्षमिति प्रत्यक्षसामर्थ्यसिद्धत्वान्न शक्यमपह्नोतुमित्याह--- सत्तादिति
SK
यदि तूच्यते प्रत्यक्षेण गृह्यमाणमपि सामान्यं न सामान्योल्लेखेन गृह्यत इति(न) प्रत्यक्षमिति, तदेतदाशङ्कते---सामान्येति / परिहरति किं वेति / एवं ह्यसाधारणमपि न प्रत्यक्षं भवेत् / तत्रापि निर्विकल्पका
SK
यद्वस्तु लोकऽ प्रतिपद्यते ऽस्मिन् द्विधापि तच्छक्यत एव वक्तुम् // Mस्व्_५,४.१८८ //
SK
इति अनुमानवार्त्तिकम्||
SK
अथ शब्दपरिच्छेदऽ /
SK
प्रत्यक्षादिषु वक्तव्यं शब्दमात्रस्य लक्षणस्य / तदतित्वरितेनेह किं१ शास्त्रादभिधीयते // Mस्व्_५,५.१ //
SK
वस्थायां परव्यावृत्त्यकल्पनादसाधारणोल्लेखो नास्त्येवेति / यदि तु ताद्रूप्येणाविकल्पितमपि स्वरूपेण विकल्पको ऽवबुध्यत इति तत्प्रत्यक्षम् / एवं तर्हि द्व्याकारमेव संमुग्धं वस्तु लोकऽ प्रतिपद्यत इति परीक्षकैरुभयथापि तत् शक्यत एव वक्तुमिति सिद्धं द्व्याकारेमेव वस्तु प्रत्यक्षेण गृह्यत इति / सिद्धं च सामान्यतऽ सम्बन्धदर्शनमित्यभिप्रायेणाह--- यद्वस्तु लोकऽ प्रतिपद्यते ऽस्मिन् द्विधापि तत् शक्यत एव वक्तुमिति / अस्मिन्निति प्रत्यक्षज्ञान इत्यर्थऽ
SK
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायामनुमानपरिच्छेदऽ समाप्तऽ||
SK
अथ शब्दपरिच्छेदऽ / अत्र प्रत्यक्षानुमानयोरपरीक्ष्य्तव उक्ते शास्त्रस्याप्यपरीक्ष्यताप्रतिपादनार्थं भाष्यम्---᳚शास्त्रं शब्दविज्ञानादसन्निकृष्टेर्ऽथे विज्ञानम्᳚इति / ननु वृत्तिकारमते न परीक्षिव्यं निमित्तमिति प्रतिज्ञायप्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रमित्युक्तेऽ प्रत्यक्षव्यभिचारेण परीक्षामाशङ्क्य तदव्यभिचार उक्ते ऽनन्तरमेव शास्त्रस्यापरीक्षा प्रतिपाद्यत इति युक्तम्, तद्धि प्रकृतम्, किमनुमानेन व्यवधीयते / सत्यमेवम् / अयं तु तन्त्रान्तरानुसारेण क्रम आश्रितऽ / तथा हि नाप्रत्यक्षं प्रमाणमिति लोकायतिका मन्यन्ते / ते हि वैशिषिकाद्याश्रितप्रत्यक्षानन्तरानुमानप्रामाण्यप्रतिपादनेन प्रतिबोध्यन्त / एवं हिवैशिषिकाऽपठन्ति--- द्विविधं प्रमाणमालोचिताध्यवसानमनालोचितानुगमनं चेति / तथान्ये ऽपि प्रत्यक्षमनुमानं वर्णितम् / ततो महाविषयतया प्रकृत्वेन पुरुषार्थोपयिकत्वेन च शास्त्रम् / तदनन्तरं च यत्र क्वचन वाच्ये बहूनां प्रसिद्धमित्युपमानमुक्तम् / न्यायविस्तरे हि प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमित्युक्तम् / ततऽ पाराशर्यमतेनार्थापत्तिरुक्ता / तदुत्तरकालमेव तन्मतानुसारिणा कृतकोटिनोक्त्तवात् / अभावप्रमाणस्य तु भावप्रमाणाभाव एवात्मेति तदुत्तरऽ प्रस्तावऽ / कि पुनस्तन्त्रान्तरेष्वेवमिमानि प्रमाणानि प्रसिद्धानीति प्रसिद्धिप्राबल्यं कथितं भवति / व्युत्थिताश्च तेन तेन साक्षिणा प्रतिपादिता भवन्ति / अत्र च शब्दविज्ञानादित्युच्यते, तत् कथं विगृह्यते / किं शब्दाद् विज्ञानं शब्दस्य वा विज्ञानमिति / पूर्वत्र समासानुपपत्तिऽ / भयेन हि पञ्चमी समस्यते / उत्तरत्र तु सविकल्पकप्रत्यक्षे ऽपि शास्त्रत्वप्रसङ्गऽ, शब्दविज्ञानादेव हि गौरित्येवमादयो ऽसन्निकृष्टार्थविकल्पा भवन्ति / अत्रोच्यते / षष्ठीसमास एवायम् / न च सविकल्पके प्रसङ्गऽ, न हि तच्छब्दप्रमाणादुत्पद्यते, अपि तु शब्दसहायादिन्द्रियात् / यथैव हि गन्धसहकृतमिदन्द्रियं तैलाद् विलीनं घृतं विविनक्ति / एवं शब्दसहकृतं जात्यादीन् / तथा चाक्षसम्बन्धफलपरोक्षावभासिता / त(त्र?च्च) सविकल्पके ऽस्तीत्यक्तं प्रत्यक्षान्ते / अतो यदेव शब्दशक्तिविमर्शोत्थं विज्ञानमसन्निकृष्टार्थ्गोचरं तच्छाब्दम् / अत एव न पदार्थमात्रज्ञानं शाब्दम् / न हि तदसन्निकृष्टार्थगोच
SK
सामान्यलक्षणं त्यक्त्वा विशेषस्यैव लक्षणम् / न शक्यं केवलं वक्तुमितो ऽप्यस्य न वाच्यता // Mस्व्_५,५.२ //
SK
यञ्चोक्तं शब्दविज्ञानादर्थे ज्ञानमितीदृशम् / अविशिष्टं विशिष्टस्य न तत् शास्त्रस्य लक्षणम् // Mस्व्_५,५.३ //
SK
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा / पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते // Mस्व्_५,५.४ //
SK
चरम् / वक्ष्यति हि--- ऽस्मारकान्न विमृश्यतऽ इति / किं नाम तर्हि शाब्दम्, वाक्यार्थज्ञानमिति वदामऽ / न(नु) तत्पदार्थज्ञानादुत्पद्यते, न शब्दज्ञानात् / न / अवान्तरव्यापारत्वात्पदार्थप्रतिपादनस्य शब्दानाम्, पाक इव काष्ठानां ज्वलनस्य / वक्ष्यति हि--- पाके ज्वालेन काष्ठानां पदार्थप्रतिपादनम् / इति / अतो न किञ्चिदनुपपन्नमिति / इदं तु वक्तव्यं किमिदं सामान्यलक्षणवसरे विशेषलक्षमं प्रणीयते / शब्दविशेषो हि शास्त्रम् / तद् यदि वक्तव्यम्, एवमपि सामान्यलक्षणमुक्त्वा( वक्ष्यते?लक्ष्येत) / यत् पुनरतित्वरितेनैव सामान्यलक्षणवसरे विशेषो लक्ष्यते तदसाम्प्रतम् / न हीह प्रत्यक्षादीनां चाक्षुषत्वादयो विशेषा लक्ष्यन्ते / ततऽ प्रत्यक्षादिषु सामान्यतो वक्तुमारब्धेषु मध्ये शब्दमात्रस्यैव लक्षणं वक्तुं युक्तम्, न शास्त्रस्येति / तदेतदाह---प्रत्यक्षादिष्विति
SK
दूषणान्तरमाह--- सामान्येति / निर्ज्ञातसामान्यलक्षणो हि तद्विशेषं बोधयितुं शक्यो नेतरऽ / न ह्यलक्षिते द्रव्ये तद्विशेषाऽ पृथिव्यादयो लक्षयितुं इति
SK
एवं तावत् शास्त्रमिति लक्ष्यनिर्देशो ऽनुपपन्न इत्युक्तम् / शब्दविज्ञानादित्यादि लक्षणमपि लक्ष्यविशेषे न सङ्गच्छत इत्याह---यच्चोक्तमिति
SK
कीदृक् तर्हि शास्त्रलक्षममत आह---प्रवृत्तिरिति / प्रवृत्तिनिवृ
SK
स्वरूपकथनं यत्तु कस्यचित् तत्र दृश्यते / तदङ्गत्वेन तस्यापि शास्त्रत्वमवगम्यते // Mस्व्_५,५.५ //
SK
भावनायां समस्तायां वाक्यादेवोपजायते / प्रवृत्तिर्वा निवृत्तिर्वा तच्छास्त्रं न पदाद्यतऽ // Mस्व्_५,५.६ //
SK
इत्युपदेशकं हि नित्यं वेदवाक्यमनित्यं थर्मशास्त्रादिकं शास्त्रमुच्यते न शब्दमाक्षमिति
SK
ननु स्वरूपमात्राभिधायिनामपि क्षेपिष्ठादिवाक्यानां शास्त्रत्वमिष्यते, किमुच्यते प्रवृत्तिनिवृत्त्यङ्गं शास्त्रमिति / अत आह---स्वरूपेति / तदङ्गत्वेनेति / विधायकवाक्यैकदेशत्वेनेत्यर्थऽ / अस्ति हि तत्रापि᳚वायव्यं श्वेतमालभेत भूतिकाम᳚इति विध्युद्देशऽ / तेनैकवाक्यभूतो᳚वायुर्वै क्षेपिष्ठे᳚त्येवमादिऽ / अतो युक्तं तस्यापि शास्त्रत्वमिति
SK
नन्वर्थवादा न तावत् साक्षात् क्रियां प्रतिपादयन्ति / नापि तदशम् / त्रयो ऽपि हि तदंशाऽ साध्यं साधनमितिकर्तव्यता चेति / न चैषामन्यतमममीभिरभीधीयते / अतो ऽक्रियार्थानामेकवाक्यतामेव न मन्यामहे / अत आह---भावनायामिति शास्त्रमित्यन्तेन / अयमभिप्रायऽ--- यद्यपि न क्रियां गमयति, न च क्रियासम्बद्धं किञ्चित् साधनादि, तथापि विधिना शब्दभावनापरनामधेयेन सहैषामेकवाक्यता / विधिर्हि पुरुषं प्रवर्तयितुं विषयप्रशस्त्यज्ञानमपेक्षते / तच्चार्थवादाऽ शक्नुवन्ति कर्तुमिति तत् कुर्वतामेषामस्ति प्रवृत्तिनिवृत्त्योरुपयोगऽ / अतऽ समस्तायां त्र्यंशपूर्णायामेव भावनायां महावाक्यादेवसार्थवादकात् पुरुषऽ प्रवर्तते निवर्तते वा न विध्युद्देशमात्रादिति सार्थवादकमेव वाक्यं शास्त्रमिति / एतच्चार्थवादाधिकरणे प्रपञ्चयिष्यामऽ / दर्शितं च किञ्चिद विधिविवरणे इत्यलमनेनातिपरिस्पन्देतेति / यत एव सार्थवादकात् प्रवृत्तिनिवृत्तिज्ञानम्, अत एव विधिनाचिनऽ प्रत्ययमात्रस्यपदमात्रस्य वा यजेतेत्येवमादिकस्य विधिश्रुतावपि कन शास्त्रत्वम् / यत्र हि त्र्यंशभावनावचनमप्यवान्तरवाक्यमनपेक्षितार्थवादकं न प्रवृत्तौ समर्थं, कथमिव तत्र पदप्रत्यययोऽ शक्तिर्भविष्यतीति दुरधिगममित्याह--- न पदाद्यत इति
SK
अपरीक्षामिषेणापि लक्षणानि वदन्नयम् / न स्वतन्त्रोपयोगित्वनिरपेक्षाणि जल्पति // Mस्व्_५,५.७ //
SK
तत्र यल्लोकवाक्यस्थं कथयेच्छब्दलक्षण् / वेदं व्याख्यातुकामस्य तन्नातीवोपयुज्यते // Mस्व्_५,५.८ //
SK
प्रत्यक्षाद्युपयोगं तु वर्णमात्रादितऽ पुरऽ / शास्त्रार्थज्ञानवेलायां मत्वा तल्लक्षणं कृतम् // Mस्व्_५,५.९ //
SK
एवं लक्ष्यलक्षमानुपपत्त्या दूषितं भाष्यमुपपादयति---अपरीक्षेति / अयमभिप्रायऽ--- वेदव्याख्या हि प्रकृता, अतो यदेव तदुपयोगि तदेव वाच्यमित्यतिक्रम्यापि सामान्यप्रक्रमं विशेषमेवं लक्षितवान् / न हीह लक्षणकरणमेव स्वरूपेण विवक्षितम् / अपरीक्षाच्छलेन हि लक्षणानि प्रणीयन्ते / तत्रापि यदेव प्रकृतोपयोगिशास्त्र्लक्षणं तदेव कृतम / स्वतन्त्रो वेदऽ अपुरुषतन्त्रत्वादिति
SK
यदि स्वतन्त्रोपयोगित्वनिरपेक्षाणि न जल्पति, ततऽ किमत आह---तत्रेति / यदा ह्ययं जल्पाक इव नानुपयुक्तं भाषत इति स्थितम्, तत्र यदि लोकवाक्यस्थितं शब्दलक्षणं कथयेत् तदस्य वेदं व्याचिख्यासारेनुपयुक्तं स्यादिति
SK
ननु यद्यनुपयुक्तं न लक्षणीयं, किमिति तर्हि प्रत्यक्षादि लक्ष्यते न हि तेषां वेदोपयोगो दृश्यते अत आह---प्रत्यक्षादीति / अयमभिप्रायऽ--- वेदस्वरूपावधारण एव तावन्महानुपकारऽ प्रत्यक्षस्य, न हि तदन्तरेण पुरऽ--- पर्थममेव स्वाध्यायग्रहणकाले वर्णमात्राद्यवधारयितुं शक्यते, तदा चानवधृतं शास्त्रार्थज्ञानवेलायामस्मृतत्वान्नोपयुज्येतैव / अतऽ पुरस्तात् परस्ताच्च वर्णमात्रादितऽ कृते प्रत्यक्षाद्युपयोगं मत्वा तल्लक्षणं कृतम् / अनुमानमपि प्रतीकविनियुक्तमन्त्रशेषानुमान उपयुज्यते / यथा देवस्य त्वेति निर्वपतीति / उपमानमपि सौर्यादिकर्मणां प्रकृतिविशेषोपमाने / अर्थापत्तिरप्यश्रुतवाक्यैकदेशकल्पनायाम् / अभावो ऽपि पदवाक्ये यत्तावधारणे द्रव्यदेवताद्यभावे च कर्मणामव्यक्तचोदनात्वावधारण उपयुज्यत इति द्वयोरादिशब्दयोरर्थ इति
SK
यत्तु गामानयेत्यादिवाक्यस्थं शाब्दलक्षणम् / तस्य नेहोपयोगो ऽस्ति तस्माच्छास्त्रगतं कृतम् // Mस्व्_५,५.१० //
SK
विशेषश्च न सामान्यमन्तरेणास्ति कश्चन / तस्मात् तम्पयुदाह्रत्य सामान्यं लक्षयेत् सुखम् // Mस्व्_५,५.११ //
SK
सामान्यरूपमप्येतदधिकाराद् विशिष्यते / चोदना चोपदेशश्च शास्त्रमेवत्युदाहृतम् // Mस्व्_५,५.१२ //
SK
यथा च चोदनाशब्दो वैदिक्यामेव वर्तते /
SK
न चैवञ्जातीयकऽ कश्चिदुपयोगो गामानयेत्यादिवाक्यस्थस्य शाब्दलक्षमस्यास्तीति तदुपेक्ष्यैव शास्त्रगतमेव लक्षणं प्रणीतमित्याह---यत्विति
SK
यत्पुनरलक्षिते सामान्ये न विशेषो लक्षयितुं शक्यत इत्युक्तं तत्परिहरति---विशेषश्चेति / सामान्यलक्षणे हि विशेषो न सिध्यति, व्यभिचारात् / विशेषस्तु सामान्याव्यभिचारीति तस्मिन् लक्षिते तदन्तर्गतं सामान्यं सुखमेव लक्षितं भवेत् / यदा हि विधायकविज्ञानादसन्निकृष्टेर्ऽथे विज्ञानं शास्त्रमित्युक्तं तदार्ताद् विधायकविशेषरहिताच्छब्दमात्रज्ञानाच्छाब्दमिति शक्यमवगन्तुमिति न पृथगुच्यत इति
SK
ननु नेदं विशेषलक्षणं विशेषोपादानाभावादित्युक्तम् / अत आह---सामान्येति / नावश्यमुपात्तमेव विशेषणं भवति, किन्तु अधिकारलभ्यमपि, यथाग्नेयादिषु वक्ष्यते, त(द्व)दिहापि चोदनालक्षणाधिकाराच्छब्दविज्ञानादित्युक्ते ऽपि विधायकविशेषणं प्रत्येष्यत इति / ननु यदि प्रकृतोपयोगि चोदनेति / पर्याया एत इति भावऽ
SK
अयं चाधिकारतो विशेषलाभो जैमिनेरष्यनुमतश्चोदनाशब्दमविशेषितं द्वितीये सूत्रे प्रयुञ्जानस्येत्याह---यथा चेति / एवं हि मन्यते--- यद्यपि चोदनाशब्दऽ प्रवर्तकवाक्यमात्रवचनऽ, तथापि प्रथमसूत्रे ऽथशब्देन वेदा
SK
शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथा स्थितौ // Mस्व्_५,५.१३ //
SK
प्रत्यक्षाद्यपीक्ष्यत्वे तदन्तर्भावहेतुकम् / शास्त्रस्याप्यपरीक्ष्यत्वमनयैव धियोदितम् // Mस्व्_५,५.१४ //
SK
ध्ययनानन्तर्यस्योपात्तत्वात् तदधिकारादेव चोदनाशब्दो वैदिक्यामेव चोदनायामवतिष्ठते,एवमिहापि शास्त्रलक्षमे चोदनाप्रामाण्याधिकारात् शब्दविज्ञानार्थज्ञानशब्दौ विशिष्टशब्दार्थपरौ,विधायके शब्दशब्दो विधेये चार्थशब्द इति
SK
यद्यपि वृत्तिकारमतोपन्यासावसरेऽप्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं शास्त्रम्ऽ इति भाष्यकारेणोक्तं तत्रापि विशेषशास्त्रापरीक्षाप्रतिज्ञानं प्रकृतोपयोगित्वाभिप्रायेणैवेति दर्शयति---प्रत्यक्षादीति / इदं तु चिन्तनीयम् / यदि विधायकशब्दजनितं विज्ञानं शास्त्रम्, किमिदानीमङ्गानि मीमांसा कर्मानुशासनानि च न सास्त्राणि, लौकिकानि च गामानयेत्यादिवाक्यानि शास्त्राणि / यद्येवं महान् लोकविरोधऽ / न हि लौकिका गामानयेत्यादिषु शास्त्रशब्दमुपचरन्ति / स्ववचनविरोधश्व / यतो गामानयेत्यादिवाक्यस्थं शाब्दलक्षममिति हि वदन्ति / मीमांसादिषु वेदवत् ततो ऽपि वा सातिशयं शास्त्रशब्दोपचारमुपलभामहे / अपि चायं शास्त्रशब्दो रूढो वा स्याद् यौगिको वा, सर्वथा, सर्वथा च वैदाङ्गादिषु वर्तितुमर्हति, अस्ति हि तेषु यथायथमर्थानुसासनं, रूढिश्च सातिशेयति वर्णितम् / अत्राभिधीयते / योगरूढिरियं पङ्कजादिवत्, अतो न तावद्नामानयेत्यादिष्वतिप्रसज्यते / सत्यपि योगे लौकिकानां तेष्वप्रयोगात् / पुरुषार्थोपदेशानेव लौकिकाऽ शात्र्समिति मन्यन्ते / तथा चाङ्गानीति तेषां शास्त्रत्वम् / ननु विधायकं शास्त्रमिति शास्त्रलक्षमम्,न च तानि कञ्चिद् विदधति / मैवम् / सर्वेषामेवानुष्ठानोपदेशपरत्वात् / व्याकरणे हि यत्साधुभिर्भाषेत तदेभिरित्युपदिशयते / मीमांसायामपि प्रत्यधिकरणं न्यायव्युत्पादनेनानुष्ठानोपदेश एव सर्वत्र / अतो यच्छास्त्रं तत्प्रवृत्तिनुवृत्त्युपदेशकमेवेति नियमऽ, न पुनस्तदुपदेशकं शास्त्रमेवेति लौकिकी प्रसिद्धिरिह भाष्यकारेणानूदिता, नपुनस्तन्निरपेक्षं शास्त्रलक्षणं प्रणीतम् / अतो यदसन्निकृष्टार्थ
SK
तत्रानुमानमवेदं बौद्धैर्वैशिषिकैऽ श्रितम् / भेदऽ साङ्ख्यादिभिस्त्विष्टो नतूक्तं भेदकारणम् // Mस्व्_५,५.१५ //
SK
पूर्वसंस्कारयुक्तान्त्यवर्णवाक्यादिकल्पना / विवक्षादि च धूमादौ नास्तीत्येतेन भिन्नता // Mस्व्_५,५.१६ //
SK
गोचरं पुरुषश्रेयोविधायकं लोके शास्त्रमिति प्रसिद्धं तच्छास्त्रम् / यत्पुनरसन्निकृष्टार्थगोचरं विधायकमविधायकं वा तच्छाब्दमिति विवेकऽ / प्रत्यक्षवच्चात्रापि शब्दतज्ज्ञानादिषु विवक्षातऽ प्रमाणविकल्पा दर्शयितव्याऽ / नावश्यं ज्ञानमेव प्रमाणित्यभिनिवेष्टव्यम / पूर्वप्रमाणे चोत्तरं वाक्यार्थज्ञानं फलं तत्प्रामाण्ये च हानादिबुद्धिरिति विवेक इति
SK
इदं चशास्त्रमनुमानादभिन्नमिति प्रमाणद्वयवादिनो मन्यन्ते, तान्निराकर्तृकामस्तेषां मतमुपन्यसति---तत्रेति / इदं च प्रतिज्ञामात्रमेव तेषामुक्तम, तदीयाभेदहेतूपन्यासस्तु परोक्तभेदहेतुनिरासावसरे करिष्यत इति / किं पुनरभेदोपन्यासनिरासयोऽ प्रयस्यते, नन्वयं साङ्ख्यादिभिरेव भेदवादिभिरभेदो निराकृत एव, अत आह--- भेद इति / न तैरसम्यग्भेदकारणमुक्तमित्यर्थऽ
SK
तानेव तदुक्तान् भेदहेतून्निराकर्तृमुपन्यस्यति--- पूर्वसंस्कारेत्युक्तान्तेन / एवं हि तैरुक्तम्--- शाब्दे हि पूरवसंस्कारयुक्तो ऽन्त्यो वर्णो, वाक्यं, आद्यो ऽपि वा वर्णऽ, सर्वे वा प्रत्येकं, सहिता वा, तेषामेव क्रमऽ पदानां वा वाक्यत्वजातिरेव वावयवी वा निर्धूतनिखिलवर्णादिविभागऽ स्फोटो वा पदान्यव वा संहत्यार्थमभिदधति / एते च पदेष्वपि विकल्पा दर्शयितव्याऽ / तथा विवक्षाप्रयत्नादयश्च शब्दनिष्पत्तिहेतव इति / सर्वमिदं धूमादौ न दृष्टमिति तद्वैधर्म्याद(न) नुमानत्वमिति / अत्र दूषणमाह--- तत्रेति / बौद्धेन शाब्दमनुमानादभिन्नमन्वयव्यतिरेकाभ्यामुत्पत्तेऽ, धूमादग्न्यनुमानवदित्युक्ते, यदेतद् धूमादिवैरधर्म्येण प्रत्यवस्थानम्,इयं वैधर्म्यसमा नाम जातिऽ, विकल्पासमा वा / का पुनर्जातिऽ / साधर्म्यवैधर्म्याभ्यां प्रतय्वस्थानं जातिऽ / वादिना हि प्रुयक्ते प्रयोगे प्रसङ्गो जायते, स जायत इति जातिरित्युच्यते, स च प्रसङ्ग साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम् /
SK
यैरुक्ता तत्र वैधर्म्यविकल्पसमजातिता / धूमानित्याविषाण्यादिविशेषान्न हि भिन्नता // Mस्व्_५,५.१७ //
SK
यत्रोदाहरणसाधर्म्येण वादिना हेतुरुक्तऽ, तत्र यदा प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति / यथा--- क्रियावानात्मा क्रियाहेतुगुणयोगात् लोष्टवदिति वादिनोक्ते, प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति--- यथा क्रियावद् द्रव्यमविभु दष्टम्, यथा लोष्टम्,न तथात्मा, तस्मान्निष्क्रिय इति / सेयं वैधर्म्यसमा जातिरुत्युच्यते / तथा धर्मान्तरविकल्पात् / यदा प्रितवादिना साध्य(वार्)मस्यापि विकल्प आपाद्यते, असौ विकल्पसमा नाम जातिरुच्यते / यथास्मिन्नेव प्रयोगे प्रतिवादी वदति, क्रियाहेतुगुणयुक्तं किञ्चिदविभु दृष्टं यथा लोष्टम्, किञ्चिद् विभु यथात्मा, एवं किञ्चित् क्रियावद् भविष्यति किञ्चिदक्रियावदिति / एवमिहापि परेणाबेदसाधने उक्ते धुमादिवैधर्म्यमात्रेण प्रत्यवस्थाने वैधर्म्यसमा नाम जातिरापाद्यते / धूमादग्न्यनुमानं हि वाक्यविकल्पादिरहितम् / न च तथा शाब्दम् / अतो नानुमानमिति / तथा विकल्पसमाप्येवं दर्शयितव्या / अन्वयव्यतिरेकजमेव किञ्चिद् वाक्यविकल्पादिमद् दृष्टं यथा शाब्दम्, किञ्चिच्च न, धूमादिनाग्निज्ञानम् / एवं किञ्चिदनुमानं भविष्यति, किञ्चिदननुमानमिति / जातिद्वयप्र(तिपादनात्प्र)त्युत्तरं च साधकमिति न वचनीयमिति ||१६ १/२||
SK
कथं पुनरियं जातिऽ, एवं हि साधनमिदम्--- शाब्दमनुमानाद् भिन्नं तद्वैधर्म्यातं प्रत्यक्षवदिति,अत आह---धूमेति / न तावत् त्रैलक्षण्यप(रित्यागेन) वैधर्म्य तैरुक्तम् / किञ्चिद् विशेषणमात्रेण तु वैधर्म्यमविशिष्टमर्थात्मकानानुमानानामिति तेषामप्यनुमानाद् भेदो भवेत् न चासावास्ति, न हि धूमादीनां-------------------------------------------------------- वैलक्षण्यमित्यननुमान्ता भवति / त्रैलक्षण्यपरित्यामादनित्यत्वं कृतकत्वे हेतुरिति / त्रैलक्षण्य्परित्यागप्रतिपादने (प्य?ह्य) नुमानाद् भेदऽ सिध्यतीति
SK
त्रैलक्षण्युपरित्यागो यावन्न प्रतिपाद्यते / तावद्विशेषमात्रेण वदतो जातिता भवेत् // Mस्व्_५,५.१८ //
SK
यथेष्टविनियोगेन प्रतीतिर्यापि शब्दतऽ / न धूमादेरितीहापि व्यभिचारो ऽङ्गवृत्तिभिऽ // Mस्व्_५,५.१९ //
SK
वैलक्षण्यमात्रेण तु भेदं वदतो वैलक्षण्यवचनस्य जाततैवापद्येतेत्याह---त्रैलक्षण्येति
SK
यदपि चदमपरं शाब्दानुमानयोर्वैलक्षण्यमुक्तम्--- धूमादयो हि सावाभाविकेनैव प्रतिबन्धेन प्रतिबन्धकबुद्धिमनुमाने जनयतन्ति, शब्दात्तु यथेष्टविनियुक्तादेवार्थप्रत्ययो दृश्यते, अतो भेद इति, तत्राप्याह---यथेति / अयमभिप्रायऽ--- अत्रापि यदि किञ्चिद्वैधर्म्यमात्रेण भेद उच्यते, अतो जातिरेव / अथायं प्रयोगऽ--- शाब्दमनुमानाद् भिन्नं यतेष्टविनियोगेनार्थपादयतीति / तदयुक्तम् / तत्रापि स्वाभाविक्यैवात्मशक्त्या रूपादिप्रतिपादनात् / अथ स्वगोचरे यथेष्टविनियोगेन प्रतिपादनं हेतुरुच्यते, अतो लिङ्गमपि परार्थप्रयोगे यमेव प्रति प्रयुज्यते तमेव प्रतिपादयतीति सामनम् / अथ यथेष्टविनियोगऽ सङ्केतो ऽभिधीयते, ततो ऽयमर्थो भवति, यत्रैव सङ्केत्यते तमेव गमयतीति, ततो दृष्टान्ताभावऽ, न हि शब्दादन्यत् सङ्केतानुविधानेनार्थं बोधयति / अथावीतमहेतुरम् / अनुमानं हि यथेष्टविनियोगाननुविधायिप्रतिपादनम्, न चेदं तथा, अतो भिन्नमिति / तन्न / व्यतिरकमात्रस्यागमकत्वादन्वयव्यतिरेकी हि हेतुरिष्यते / न चायं हेतुरनुमानादबेदेन व्याप्तऽ क्वचिदवगतऽ, शब्दातिरेकिणऽ कस्यचिद् यथेष्टविनियोगेनाप्रतिपादनात् / अथास्ति हस्तसङ्केतादीनां यथासमयं प्रतिपादनमित्युच्यते / तत् तर्हि प्रमाणान्तरमनुमानं वा / न तावत् प्रमाणान्तरम्, तल्ल्क्षमाभावात् / अतो व्याप्तिबलेन ज्ञायमानमनुमानमेव तत् / एवं च सति तेनैव व्यभिचार इति नानुमानाद् व्यावृत्तिर्हेतोऽ सिध्यति / तदिदमुक्तं व्यभिचरो ऽङ्गवृत्तिभिरिति / अङ्गानां हस्तादीनांमाकुञ्चनप्रसारणाद्या वृत्तयो ऽङ्गवृत्तय इति
SK
ह्सतसंज्ञादयो ये ऽपि यदर्थप्रतिपादने / भवेयुऽ कृतसङ्केतास्ते तल्लिङ्गमिति स्थितिऽ // Mस्व्_५,५.२० //
SK
पुरुषाक्षिप्ततायां च तथैव व्यभिचारिता / पदवैदिकवाक्यानां न सत्यव्यापिता भवेत् // Mस्व्_५,५.२१ //
SK
एतदेव विवृणोति--- हस्तेति / हस्ताद्यङ्गाश्रितवृत्तय एवार्थविशेज्ञानाङ्गतया हस्तसंज्ञेत्युच्यन्ते / कथं पुनरिदमनुमाम्, न हि हस्तादिसन्निवेशाऽ सङ्ख्याविशेषादिभिरर्थैर्व्याप्ताऽ / तैर्विनापि कदाचिद् भावात् / किन्तु अङ्गुल्यादिसन्निवेशात्सङ्केतकालभाविशब्दस्मरणेनार्थं प्रतिपद्यमानाऽ शब्दादेव प्रतिपद्यन्ते / तन्न / अन्तरेणापि शब्दसङ्के(त?तं) व्यवहार एवाव्युत्पन्नस्याङ्गुल्यादिसन्निवेशदर्शिनसत्दर्थावगतेऽ / न चात्र व्यभिचारऽ / न हि यादृशे सन्निवेशे व्याप्तिरवगता तादृशस्य व्यभिचारो दृश्यते / तदिदं ऽतेन धर्म्यन्तरेष्वेषेऽत्यत्र वर्णितम् / अतो ऽनुमानमेवेदम् / तदिदमुक्तं--- ते तल्लिङ्गमिति स्थितिरिति / सर्वं चेदमन्वारुह्य वार्त्तिककारेण दूषणं दत्तम् / न हि यतेष्टविनियोगेन शब्दादर्थप्रतीतिर्भवति / गवादिशब्दा हि निजशक्त्यनुसारेणैव स्वार्थं प्रतिवेदयन्ति / यदृच्छाशब्दास्तु हस्तसंज्ञादितुल्यास्ते सङ्केतानुसारेणार्थं बोधयन्तो ऽनुमानमेवेति किं तद्भेदप्रतिपादनेनेति
SK
इदमपरं भेदकारणं, शब्दाद्धि पुरुषापेक्षोर्ऽथनिश्चयऽ, न च तथा शब्द इत्यतो भिद्यत इति / एतदपि दूषयति---पुरुषेति / व्यतिरेकहेतुर्व्यतिरेकपुरस्कारेणैवार्थं साधयति, प्राणादय इवानात्मकाद् देहाद् व्यावृत्तमात्मानम् / पुरुषापेक्षिता त्वनुमाने ऽप्यर्थनिश्चयाङ्गमङ्गवृत्तिषु दृष्टा / यादृशो हि सङ्केतो यदर्थप्रतिपादने पुरुषैऽ कृतऽ, तमेव परपुरषापेक्षया बुध्यन्ते / अतो ऽत्रापि व्यभिचारितेति / अपि चाव्यापकत्वादसिद्धो हेतुरित्याह--- पदेति / पदानि हि स्वमहिम्नैवार्थं प्रतिपादयन्ति न पुरुषापेक्षया /
SK
सम्बन्धानुभवश्चायं सो ऽन्यत्रापि विलक्षणऽ / एतस्मिन् पुरुषापेक्षो देशापेक्षो ऽग्निधूमयोऽ // Mस्व्_५,५.२२ //
SK
कालाद्यपेक्षया चान्य उक्ता चान्यैरभिन्नता / आप्तवादविसंवादसामान्यादनुमानतऽ // Mस्व्_५,५.२३ //
SK
वेदवाक्यान्यपि न स्वार्थप्रतिपादयनाय पुरुषमपेक्षन्ते, स्वरूपावधारणमात्र एव तेषामाप्तापेक्षेति
SK
ननु नागृहीतसम्बन्धं पदं प्रत्यायकं भवति / न च पुरुषानपेक्षा सम्बन्धावगतिरस्ति / वेदवाक्यान्यपि नागृहीते पदपदार्थसम्बन्धे स्वार्थं प्रतिपादयन्ति / अतो ऽयं पदपदार्थसम्बन्धऽ पुरुषापेक्ष एवेति नाव्यापकत्वम् / अत आह---सम्बन्धेति / अयमभिप्रायऽ--- अर्थप्रतिपादने तावदनपेक्षमेव पदं वैदिकानि च वाक्यानि / सम्बन्धानुभवश्च यथेह पुरुषापेक्षस्तथान्यत्राप्यनुमाने ऽसौ विलक्षणो दृस्यत एवेति / वैलक्षण्यमेव दर्शयति--- एतस्मिन्निति अन्यो ऽन्तेन / एतस्मिन्निति / हस्तसंज्ञादौ पुरुषापेक्षऽ, पौरुषेयो हि समयऽ / अग्निधूमयोस्तु देशापेक्षऽ / चन्द्रोदयसमुद्रवृद्ध्योस्तु कालापेक्षऽ / आदिशब्देनावस्थापेक्षितां दर्शयति / तदनेनैतदुक्तं भवति---अनुमाने ऽप्यनेकप्रकारऽ सम्बन्धावगमो देशाद्यपेक्षया भेदात् / एवमिहापि पुरुषापेक्षो भविष्यति / अनुमाने ऽपि तदपेक्षऽ सम्बन्धबोधो दृष्ट इति / अपि च परोक्ताभेदहेतुनिरासो ऽपि तैर्न कृत इत्याह--- उक्ता चेति ||२२ १/२||
SK
तमेवाभेदहेतुमुपन्यस्यति---आप्तवादेति / अयमर्थऽ--- यथा धुमादिषु भेदहानेन सामान्यधर्मयोर्व्याप्तिरवधार्यते, एवं शाब्दे ऽप्याप्तवादाविसंवादसामान्ययोर्व्याप्तिरवगता / (आप्तवादाविसंवादेति?) एवं च विदित्वा वेदे ऽपीश्वराप्तवादत्वादविसंवादो ऽनुमीयते,अतो ऽनुमानमेवेदम् / यावत्वविसंवादो नानुमीयते तावदर्थगोचरं ज्ञानमुत्पन्नमप्यनिश्चायकत्वादप्रमाणमेव / सामान्यशब्दऽ प्रत्येकमभिसम्बध्यते / ल्यब्लोपे पञ्चमी /
SK
न चापूर्वादिशब्दानां भेदात् सर्वत्र भिन्नता / न चेहाश्वादिशब्दभ्यो भेदस्तेषां प्रतीयते // Mस्व्_५,५.२४ //
SK
नचाप्यज्ञातसम्बन्धं पदं किञ्चित् प्रकाशकमो / सम्बन्धाननुभूत्यातो न स्यादननुमानता // Mस्व्_५,५.२५ //
SK
तुल्याकारतयाप्यत्र शब्दज्ञानार्थतद्धियाम् / अग्निधूमेष्वदृष्टत्वान्न भेदस्तन्निवारणात् // Mस्व्_५,५.२६ //
SK
तदयमन्वयो भवति--- यद्यप्याप्तवादविसंवादविशेषाणां भेदान्न सम्बन्धो ऽवगन्तुं शक्यते, तथापि तयोऽ सामान्यप्रतीत्यानुमानता शक्यते वक्तुम्, सामान्ययोर्व्याप्तसम्भवादिति
SK
नन्विदमस्ति भेदकारणम्, अनुमानं सम्बन्धावधारणाधीनम्, शब्दास्त्वपूर्वादयऽ सम्बन्धज्ञानानपेक्षा एव स्वार्थं प्रतिपादयन्तीति, अतो भिद्यते इत्यत आह--- न चेति / गवादयस्तावत् विदितसम्बन्धा एवार्थं प्रतिपादयन्तीति तेषां दुर्वारमनुमानत्वम्, यदि त्वपूर्वादिदृष्टान्तेन तेषामपि भेदो ऽभिधीयते / तन्न / शक्नोति हि वक्तुमितरो ऽपि तेषामनुमानत्वं सम्बन्धावधीनबोधकत्वाद् धूमादिवदिति / अपि चापूर्वशब्दा अपि नाश्वादिशब्देब्यो विशिष्यन्ते, पदत्वेनाभेदादित्याह--- न चेति
SK
किमतो यद्येवमत आह--- न चेति / यतऽ खल्वेतानि पदानि, न च पदमज्ञातसम्बन्धं प्रकाशकमस्ति / अतो ऽमीभिरपि विदितसम्बन्धैरेवार्थो वेदनीयऽ, पदत्वात् / कथं पुनऽ प्रमाणान्तरादृष्टपूर्वेणापूर्वस्वर्गादिना सम्बन्धो ऽनुभवितुं शक्यते / न शक्येतापि, यदि प्रमाणान्तरागोचरता भवेत् / अपूर्वं तु श्रुतकर्मफलसम्बन्धाद्यन्यथानुपपत्तिप्रमाणकम् / स्वर्गश्च निरतिशयानन्दस्वभावो वैदिकवाक्यशेषेभ्यो ऽवगम्यत इति तथावगतयोऽ सम्बन्धग्रहणोपपत्तिरिति / अतो यत् परैरुक्तं शब्दो नानुमानं सम्बन्धानपेक्षत्वादक्षवदिति तद्धेतोरसिद्ध्या दूषितमित्याह--- सम्बन्धेति
SK
भेदकारणान्तरमुपन्यस्य दूषयति---तुल्येति / शब्द प्रत्यासत्त्या तज्ज्ञान्मर्थश्च तद्धीश्चेति विगर्हऽ / अयमप्यवीतहेतुर्दर्शयितव्यऽ / तन्निराकरणं चाध्यासनिराकणोनुसन्धातव्यम् / अतस्तुल्याकारत्वमसिद्धमिति
SK
प्रतिबिम्बेष्वनेकान्तो बिम्बं यादृग्धि दर्पणे / तादृङ्मुखादि बुध्यन्ते न चात्राननुमानता // Mस्व्_५,५.२७ //
SK
प्रत्यक्षता(त?य) दाप्यत्र तदान्यैरन्यभिचारिता / यत्र पादादि बिम्बेन गतानामनुमीयते // Mस्व्_५,५.२८ //
SK
एकवाक्यात् सकृच्चोक्तान्नाप्यनेकस्य तत्क्षणम् / स्याद्विरुद्धाविरुद्धस्य बोधादेतस्य भिन्नता // Mस्व्_५,५.२९ //
SK
अपि च विवक्षानिवृत्तेरनैकान्तिको हेतुरित्याह---प्रतिबिम्बेष्विति / एकान्तो निर्णयऽ, सो ऽस्य कार्यं, तन्नास्तीत्यनेकान्त इति / कथमनेकान्तऽ, अत आह--- बिम्बमिति / यादृशं हि दर्पणे बिम्बमुपलभ्यते तादृशमेव मुखादि बुध्यते, अतो ऽस्त्यत्रापि गम्यगमकयोऽ सादृश्यमिति प्रतिबिम्बेषु वर्तमानो हेतुरनैकान्तिको भवतीति / ननु नैदमनुमानम्, आदर्शतेजसा हि प्रतिहतेन नायनेन तेजसा प्रकाशितं प्रत्यक्षमेव मुखमवगम्यत इति शब्दाधिकरणे वक्ष्यते / अत आह--- न चेति / अयमभिप्रायऽ--- यदा ह्ययं परत्यक्षेष्वङ्गुल्यादिष्वादर्शवर्तिना प्रतिबिम्बेन तादृक्त्वे विदितव्याप्तिर्भवति, तदा मुखमप्यादर्शगतं बिम्बानुरूपमनुमिनोति / इतरथा त्वङ्गुलिसन्निकर्षो ऽप्यन्यरूपमन्यादृक्तया बोधयतीति / सम्भावयेत् / अतो न तादृक्त्वं निश्चिनुयादिति
SK
अस्तु वेदं प्रत्यक्षं, किमिति सूक्ष्मेक्षिकया, विशदतरमेवानुमानमुपदर्शयामऽ, यत्र गम्यगमकयोऽ सादृश्यमवगम्यत इत्याह---प्रत्यक्षतेति / गतानामित्यनुमानविषयसिद्द्यर्थमप्रत्यक्षतां दर्शयतीति
SK
यदपीदमुक्तम्--- शाब्दे हि सकृदुक्तमेव वाक्यं सहसा नानार्थान् प्रतिभासयति विरुद्धानविरुद्धांश्च, चोदनालक्षणोर्ऽथो धर्मऽ, श्वेतो धावतीति च यथा, नैवमनुमाने / धूमो हि येनैव विदितव्याप्तिस्तत्रैकत्रैव धियमादधाति / अतऽ शब्दानुमानयोर्भेदऽ / प्रयोगश्च भवति--- शब्दो ऽनुमानाद् भिन्नऽ एकदा नानार्थप्रतिभासादक्षवदिति / अनीतहेतुर्वा, लिङ्गमेकमेव
SK
लिङ्गस्यापि हि ताद्रूप्यं दृश्टं हेतुविरुद्धयोऽ / विरोधान्नानुमानं चेत् स्यादनागमतापि ते // Mस्व्_५,५.३० //
SK
यत्र चैकार्थता वाक्ये तत्र स्यादनुमानता / सकृदुच्चरिते चास्मिन् विवक्षैकैव दृश्यते // Mस्व्_५,५.३१ //
SK
यस्त्वनिर्धारितार्थानामनेकप्रतिभोद्भवऽ||
SK
स लिङ्गे ऽप्यस्फुटे दृष्टस्तस्मान्नैतेन भिद्यते // Mस्व्_५,५.३२ //
SK
प्रकाशयति, यथा धूमादि,न च तथा शब्दऽ,अतो भिद्यत इति / तदुपन्यस्य दूषयति---एकवाक्यादिति / अनेनापि प्रकारेण न भिन्नतेत्यर्थ इति
SK
किमिति न भिन्नता, अत आह---लिङ्गस्यापीति / अनैकान्तिको हेतिरिति भावऽ / हेतुर्हि धूमो ऽग्नित्वमुष्णत्वं दाहकत्वमिन्धनविकारत्वं च एकदैव प्रतिपादयति / तथा विरुद्धऽ- नित्यऽ शब्दऽ कृतकत्वादिति, विवक्षानुसारेण तावन्नित्यतां प्रतिपादयति, व्याप्तिबलेन चानित्यत्वमतो ऽनैकान्तिको हेतुरिति / ननु न विरुद्धो ऽनैकमर्थ प्रतिपादयति, व्याप्तिबलेन हि लिङ्गं प्रतिपादकं भवति / अतऽ कृतकत्वमनित्यत्वेन व्याप्तमिति तदेव गमयति, विरुद्धार्थव्याप्तिस्त्वेकस्य विरोधादेव न सम्भवतीति / तत्तावदाशङ्कते--- विरोधादिति / उत्तरमाह--- स्यादिति / विवक्षितार्थप्रतिपादने हि शब्दस्य शक्तिरवगता, अतऽ सो ऽप्येकदैकमर्थं प्रतिपादयति, अर्थान्तरे त्वसावपि विरोधादनागमक एवेति
SK
भूयसां चैकार्थानां वाक्यानां नानेन हेतुना भेदऽ सिध्यतीत्याह---यत्रचेति / न केवलं विरुद्धमनेकं शब्दो न प्रतिपादयति, किन्तु अविरुद्धमपि / उक्तमिदं--- विवक्षिते शब्दऽ प्रमाणमिति / सकृदुच्चरिताञ्च बुद्धो भवति / अतो न क्वचिदनेकार्थप्रतिपादनमित्यसिद्धो हेतुरित्याह--- सकृदिति
SK
नन्वस्ति तावदनेकार्थप्रतिभानं शब्दात, प्रमाणं त्वेकत्र भवतु नाम, एतावता च सिद्धमनुमानाद् वैधर्म्यमत आह---यस्त्विति / यथा हि
SK
दृष्टान्तानभिधानं धूमादौ व्यभिचारितम् / प्रसिद्धत्वाद्धि तत्रापि न दृष्टान्तो ऽभिधीयते // Mस्व्_५,५.३३ //
SK
अनभ्यस्ते त्वपेक्ष्नते शब्दे सम्बन्धिनऽ स्मृतिम् / अत्र प्रयुक्त इत्येवं बुध्यन्ते हि चिरात् क्वचित् // Mस्व्_५,५.३४ //
SK
परोक्ता हेतवश्चात्र नाभेदस्य निवारिताऽ / शब्दानुमानयोरैक्यं धूमादग्न्यनुमानवत् // Mस्व्_५,५.३५ //
SK
अन्वयव्यिरेकाब्यामेकप्रत्यक्षदर्शनात् / सम्बन्धपूर्वकत्वाच्च प्रतिपत्तिरितो यतऽ // Mस्व्_५,५.३६ //
SK
न्याय्यवचनव्यक्तिपरिचयात् पूर्वं शब्दादनेकार्थाऽ परिप्लवन्ते,तथा लिङ्गे ऽपि धूमादावस्फुटविदिते ऽनेकार्थप्रतिभानन्दष्टमेव / भवति हि दूराद् धूमो ऽयमाहोस्विद् धूलिसन्तान इति संशयानस्याग्निवातावर्तयोरनवस्थितो वितर्क इति
SK
तथा शब्दे दृष्टान्तानभिधानमपि धूमादौ व्यभिचारान्न भेदहेतुरित्याह---दृष्टान्तेति / कथं व्यभिचारऽ, अत आह---प्रसिद्धत्वादिति
SK
नन्वप्रसिद्धे तावदस्ति दृष्टान्तापेक्षा, शब्दे तु तदपि नास्तीत्यत आह---अनभ्यस्तैति / अपेक्षामेव दर्शयति--- अत्रेति / यत्र ह्यप्रसिद्धपदार्थगोचरऽ संशयो भवति, तत्र यावदयं शब्दो ऽमुष्मिन्नर्थे वृद्धैराचरित इति चिरेण प्रणिधाय न बुध्यते, न तावत् तमर्थं निश्चिनुयादिति / तदेवं तावद् भेदवादिभिर्न भेदहेतवऽ सम्यगुक्ता इति दर्शितम्
SK
बौद्धोक्ताभेदहेतुनिरासो ऽपि तैर्न कृत इत्याह--- परोक्ता इति / तानेवाभेदहेतूनुपन्यस्यति--- शब्दानुमानयोरिति सार्दद्वयेन / अस्यार्थऽ--- यथा धूमादग्न्यनुमानमन्वयव्यतिरेकजम्, एकस्य च धूमस्य प्रत्यक्षदर्शनात्,
SK
प्रत्यक्षान्यप्रमाणत्वात् तददृष्टार्थबोधनात् / सामान्यविषयत्वाच्च् त्रैकाल्यविषयाश्रयात् // Mस्व्_५,५.३७ //
SK
कैश्चिन्मीमांसकैरुक्तो भेदो ऽत्र विषयान्तरात् / पूर्वाभ्यां ह्यपिरच्छिन्ने शास्त्रमर्थे प्रवर्तते // Mस्व्_५,५.३८ //
SK
सम्बन्धपूर्वकं च भवति, एवं शब्दादपि ज्ञानं जायमानमेवं जायते / प्रत्यक्षाच्च तदन्यत् प्रमाणं, प्रत्यक्षादृष्टं चार्थं बोधयति, सामान्यविषयं च शाब्दं, त्रैकाल्याश्रयं च / अतो न भिद्यते / इदं च साधनवाक्यस्यार्थकथनम् / साधनप्रयोगास्त्वेवं दर्शयितव्याऽ---- शाब्दं ज्ञानमनुमानमन्वयव्यतिरेकजत्वात् अग्न्यनुमानवदिति / एकप्रत्यक्षदर्शनोत्पत्तेऽ, तद्वदेव सम्बन्धपूर्वकत्वं(वा?च) हेतुऽ / तावेव साध्यदृष्टान्तौ / न च कतवाच्यमन्वयव्यतिरेकजत्वात् सम्बन्धपूर्वकत्वं न भिद्यते, अन्वयव्यतिरेकात्मकत्वादनुमानसम्बन्धस्येति / पूर्वं हि सम्बन्धविशेषजत्वं हेतुरुक्तऽ इदानीं त्वविवक्षितविशेषं सम्बन्धसामान्यपूर्वकत्वमिति / एवमुत्तरेष्वपि त्रिषु पूर्ववत्साध्यदृष्टान्तयोजना कार्या / चतुर्थे त्वग्न्यनुमानं प्रदर्शनमात्रम् / भविष्यदवृत्तवृ(त्त्य?ष्ट्य) नुमाने अपि दर्शयितव्ये इति ||३५-३७||
SK
मीमांसकैकदेशिनां भेदहेतुमिदानीं दूषयितुमुपन्यस्यति---कैश्चिदिति / विषयान्तरमेव दर्शयति--- पूर्वाभ्यामिति / अयमभिप्रायऽ--- यदयदपरिच्छिन्ने पवर्तते तत् ततो भिद्यते, अनुमानमिव प्रत्यक्षात् / शास्त्रं च पूर्वद्वयापरिच्छिन्नेर्ऽथे प्रवर्तते / ततस्ताभ्यां भिद्यते / किं पुनऽ प्रत्यक्षाद् भेदप्रतिपादनेन प्रयोजनम्, न हि तदभेदऽ कैश्चिदाश्रितऽ, यन्निराक्रियते / उच्यते / अस्त्येव केषाञ्चिद् विभ्रमऽ, श्रोत्रव्यापाराश्रयाज्जायमानमिदं शाब्दं श्रोत्रप्रत्यक्षमेव,तदन्वयव्यतिरेकानुविधानात् / अत एव बधिरस्य न भवतीति / तदनेन प्रत्यक्षतो भेदप्रतिपादनेन निराक्रियते / एवं हि मन्यते--- विद्यमानोपलम्भनं प्रत्यक्षमिति दर्शितम् / इदं तु शाब्दं त्रिकालार्थविषयमतऽ कथं प्रत्यक्षे ऽन्तर्भविष्यति / बधिरस्तु शब्दाश्रवणादर्थं न जानाति, नार्थाश्रवणात् / प्रयोगश्च भवति--- शाब्दं प्रत्यक्षाद् भिन्नं तदपरिच्छिन्नविषयत्वाद् अनुमानवदिति
SK
तत्रापि नागमत्वं स्यात्पुरुषोक्तेस्तथास्तु चेत् / प्रत्ययऽ किन्निमित्तोर्ऽथे वक्तृबुद्धेऽ कुतो वसौ // Mस्व्_५,५.३९ //
SK
तदिमं प्रत्यक्षतो भेदमभ्युपेत्यानुमानाद् भेदकारणं निराकरोति---तत्रापीति / एवं हि मन्यते--- यद्यनुमानापरिच्छिन्नविषतया भेदो ऽभिधीयते, तर्हि पुंवाक्यानामनागमत्वम्, प्रमाणान्तरपरिच्छिन्नविषयवात्, वेदवाक्यान्येव तु मानान्तराविषयार्थानि भिद्यन्ते इत्यव्यापको हेतुरिति / किं पुनरिदमनिष्टमापादितम्, नन्विष्यत एव पुंवचसामनागमत्वम्, आगमो हि शास्त्रम्,अप्राप्ते शास्त्रमर्थवदिति / वक्ष्यति / इमानि पुनऽ प्रमाणान्तरप्राप्तविषयप्रतिपादकानीत्यनुवादवाक्यान्येव / अत एव शास्त्रमेव वेदवाक्यं भिन्नतया पक्षीकृतं ऽशास्त्रमर्थे प्रवर्ततऽइति / तद्भेदस्थैवोपयोगादिति भावऽ / तदेतदाह--- यथेति / अत्र दूषणमाह--- प्रत्यय इति / एवमयं पंवचनाप्रामाण्यावादी वक्तव्यऽ / किमस्ति तेभ्योर्ऽथप्रत्ययो न वा, न तावन्नास्ति, सर्वलोकव्यवहारोच्छेदप्रसङ्गात् / सतस्तु नानिमित्तोत्पत्तिऽ सम्भवतीति निमित्तं वाच्यम् / न च शब्दादन्यन्निमित्तमस्योपपद्यत इति जातमसन्दग्धमबाधितं च ज्ञानान्तरेण प्रमाणमेव पुंवचनजनितं ज्ञानमिति नास्यानागमत्वाब्युपगमो युक्त इति / इतरस्त्वनुमानान्तर्भावाभिप्रायेणाह--- वक्तृबुद्धेरिति / अयमभिप्रायऽ--- विसंवादभूयिष्टानि हि पुंवचनानि, तन्नैतानि श्रुतमात्राण्येवार्थं निश्चाययन्ति / न चानिश्चितोर्ऽथो ज्ञातो भवति, निश्चयस्यैव ज्ञानत्वात् / अतऽ प्रङ्(?) निश्चयोत्पत्तेर्ज्ञानाभाव एवन्ति किं निमित्तप्रयत्नेन / यदा तु वक्तैवमवधारितव्याप्तिर्भवति--- ऽन चायमनवगतं ब्रवीतीऽति, तदा तद्वाक्यादेव ज्ञानकार्यात् कारणभूतं ज्ञायमनुमाय ज्ञानस्यार्थाव्यभिचारेणार्थो निश्चीयते / तस्यां चावस्थायां ज्ञानलिङ्गावगतत्वादर्थस्य वाक्यमनुवादकमेव / अतो नागम इति / सिद्धान्तवादी त्वाह--- कुतो न्वसाविति / अयमभिप्रायऽ--- अवगता हि बुद्धिरर्थं निश्चाययति / न चास्याऽ किञ्चिदवगमे कारणस्तीति वक्ष्याम इति
SK
न शब्दार्थस्य सा लिङ्गं न शब्दो ऽस्याऽ कथञ्चन / विशेषो गम्यते ताभ्यां न चैतस्यानुमेयता // Mस्व्_५,५.४० //
SK
तेन वक्तुरभिप्राये प्रत्यक्षाद्यनिरुपिते / पुरुषोक्तिरपि श्रोतुरागमत्वं प्रपद्यते // Mस्व्_५,५.४१ //
SK
अतऽ स्वयमेवानवगता नार्थस्य लिङ्गमित्याह--- नेति / ननूक्तं कार्यात् शब्दादनुमास्यते, अत आह--- न शब्द इति / यता नोभयमुभयत्र लिङ्गं, तथा दर्शयति--- विशेष इति / अनुमानं हि व्याप्तिबलेन भवति, इह च वाक्यसामान्यं ज्ञानसामान्येन व्याप्तमवगतमिति ततस्तत् सिध्येद्, ज्ञानमात्राच्चार्थमात्रम्, न चेह तथा, ज्ञानार्थविशेषयोरनुमित्सितत्वात् / तयोश्च सम्ब्नधग्रहणाभावेनाननुमेयत्वात् / ननु यत्राप्तो वाक्यं प्रयुङ्क्ते तदेव ज्ञात्वा प्रयुङ्क्त इति विज्ञानविशेषेणैव सम्बन्धो ऽवगतऽ / अतऽ स एवानुमास्यते / यद्येवम्, अवगतस्तर्हि प्रागेव वाक्यादर्थऽ, न ह्यन्यथा यत्र प्रयुङ्क्त इति शक्यते प्रतिनिर्देष्टुम् / न चार्थोपरागमन्तरेण ज्ञानस्य विशेषऽ सम्भवति यो ऽनुमीयते / न चाकर्मकं ज्ञानमात्रमनुमीयते / न च ततोर्ऽथविशेषस्तिध्यति / न चानिश्चितं ज्ञानं, संशयात्मनो विज्ञानविधाया दर्शितत्वात् / न चैवं पुंवाक्येभ्यऽ सन्देहऽ / या तु क्वचिद् व्यभिचारादप्रामाण्याशङ्का सा आप्तत्वादिना निराक्रियत इत्युक्तम् / यदि त्वेव ज्ञानविशेषावगतिरुच्यते, य एवमवधारितो भवति--- नायमनन्वितार्थानि पदानि प्रयुङ्क्ते, न चानवगतान्वयानि, तन्नूनममीषामनेनान्वयो ज्ञात इति / किमिदानीं विदितपदपदार्थसङ्गतिऽ श्रोता पुंवाक्यादर्थं न बुध्यत एव / यद्येवमनुत्तरा गुरवऽ / जाता तु बुद्धिरसन्दिग्धाविपर्यस्ता च न वैदवाक्यजनिताया धियो विशिष्येत / शङ्कामात्रं तु कथञ्चिद् वेदे ऽपि वाक्यत्वादिना भवतीति न तावता तदप्रामाण्यम् / ताभ्यामिति / बुद्धिशब्दाभ्यामित्यर्थऽ
SK
अतो वक्त्रभिप्रायावगतौ प्रत्यक्षादिप्रमाणासम्भवात् तदनवगमे
SK
न चाप्यननुमेयत्वमागमार्थस्य शक्यते / लिङ्गं हि शब्द एवास्य धूमो ऽग्नेरिव कल्पते // Mस्व्_५,५.४२ //
SK
न चाप्यननुमेयत्वात् प्रमाणान्तरगम्यता / रूपस्याश्रावणत्वेन न ह्यप्रत्यक्षतेष्यते // Mस्व्_५,५.४३ //
SK
एवं स्थिते स्वयूथ्या नऽ केचिन्नातिप्रयत्नतऽ / अनुमानविशेषो ऽयमीदृग्धर्मस्य बोधकऽ // Mस्व्_५,५.४४ //
SK
भविष्यत्यर्थरूपं तु लिङ्गं धर्मे निराकृतम् /
SK
चार्थानुमानानुपपत्तेऽ श्रोतुरप्राप्तपूर्वमर्थं प्रापयन्ती पुरुषोक्तिर्वेदवदागम एवेत्याह---तेनेति
SK
यदपि चेदमुच्यते / वेदस्तावद् भिन्नविषयतया प्रमाणान्तरमेवेति, तदपि मनोरथमात्रमेवेत्याह---न चापीती / न शक्यते वक्तुमित्यभिप्रायऽ / किमिति न शक्यते / अत आहऽ--- लिङ्गमिति / यदा पूर्वोक्तैर्हेतुभिरविशेषेण सर्वमेव शाब्दमनुमानादभिन्नमित्युकं, तदा कथं तद्गोचरस्याननुमेयत्वं भविष्यतीति भावऽ
SK
नन्वर्थात्मना तावदल्लिङ्गेनाननुमितपूर्वमर्थं वेदो बोधयतीति प्रमाणान्तरं भविष्यतीत्यत आह---न चेति / धूमत्त्वकृतकत्वादीनां हि सत्यप्यवान्तरभेदे यथैव त्रैलक्षण्यापरित्यागेनानुमानत्वमेवमिहापि स्यात् / यदि तु तदेव नास्तीत्युच्यते, तत् तर्हि वचनीयम्, किमवान्तरभेदोपन्यासेनेति
SK
अन्ये तु प्रक्षीणशक्तयो ऽभेदमेवाश्रित्यैकदेशिनऽ प्रत्यवस्थिताऽ, तद् दर्शयति---एवं स्थितैति / अयं हि तेषामभिप्रायऽ--- चोदनाप्रामाण्यं हि प्रतिज्ञातं, तच्चानुमानत्वे ऽपि वेदवचऽ सिध्यत्येव / यथैव हि शब्दमध्याद् वेदऽ प्रमाणम् / एवमनुमानेभ्यो वेदानुमानमिति किमतिप्रयत्नतो बेदप्रतिपादनेनेति / ननु᳚भविष्यत्वाद् धर्मो नानुमीयते᳚इत्युक्तं भाष्यकारेण / अतो ऽनुमानत्वाभ्युपगमे तद्वरोधो भवेद् अत,आह--- भविष्यतीति / अर्थरूपलिङ्गाभिप्रायेण तन्निराकृतमित्यर्थऽ ||४४ १/२||
SK
संज्ञानुमानतेच्छा तु न दुष्येदागमे ऽपिनऽ // Mस्व्_५,५.४५ //
SK
लक्षणेन त्वभिन्नत्वं यदि शब्दानुमानयोऽ / वेदज्ञानाप्रमाणत्वं स्यादतल्लक्षमत्वतऽ // Mस्व्_५,५.४६ //
SK
आप्तवादाविसंवादसामान्यान्नृवचऽ सु हि / लक्षणेनानुमानत्वात् प्रामाण्यं सिद्धिमृच्छति // Mस्व्_५,५.४७ //
SK
वेदे त्वाप्तनराभावात् सम्बन्धानुभवादृते / लक्षणं नानुमानस्येत्यप्रामाण्यचं प्रसज्यते // Mस्व्_५,५.४८ //
SK
नन्वेकदेशसत्यत्वे तस्य स्यादनुमानता / वेदत्वादग्निहोत्रादौ वायुक्षेपिष्ठवाक्यवत् // Mस्व्_५,५.४९ //
SK
एतदपि दूषयति---संज्ञेति / यदि पश्चान्मानसामान्यादनुमानत्वं तदस्तु, न च तदभ्युपगमे दोष इत्यर्थऽ / लक्षणैकत्वेन त्वभेद इष्टे ऽनुमानलक्षणाभावात् प्रमाणान्तरानब्युपगमाच्चाप्रामाण्यमेव वेदवचसामापद्यत इत्याह--- लक्षणेनेति
SK
ननूक्तं लक्षणैकत्वमाप्तवादाविसंवादसामान्यादित्यत्राह---आप्तवादेति / पुंवाक्यानामनेन प्रकारेणानुमानत्वात् प्रामाण्यं सिद्ध्यति न वेदवचसामिति भावऽ
SK
किमिति न सिद्ध्यति / अत आह---वेदे त्विति / आप्तनराभावात् तावन्नाप्तवादत्वेनाविसंवाददनुमानम् / न चातीन्द्रिययैरर्थैर्वेदानां सम्बन्धानुभवऽ सिध्यतीत्यप्रमाणमेव भवेयुऽ / नाप्तसन्दृब्धा वेदा इति वेदाधिकरणे वक्ष्यतीति
SK
ननु प्रमाणान्तरकसङ्गतार्थानि वेदैकदेशभूतानि क्षेपिष्ठादिवाक्यानि दृष्ट्वा इतराण्यप्यग्निहोत्रादिवाक्यानि वेदत्वात् सत्यार्थान्यनुमास्यन्ते / अतो ऽस्ति लक्षणेनानुमानत्वमित्याह---नन्विति
SK
नादित्ययूपे ऽनैकान्त्यात् तद्वद्वा गौणता भवेत् / नातऽ प्रत्यनुमाननामेवं पूर्वोक्तया दिशा // Mस्व्_५,५.५० //
SK
तस्माल्लक्षणभेदेन यदि शब्दप्रमाणता / समा लोके च वेदे च सिद्धा वेदप्रमाणता // Mस्व्_५,५.५१ //
SK
तेन चाप्तोपदेशत्वं न स्यादागमलक्षणम् / नाप्तस्य सम्भवो वेदे लोके नास्मात् प्रमाणता // Mस्व्_५,५.५२ //
SK
पुरस्ताद् वर्णितं ह्येतत् तस्मात् शब्देन या मतिऽ / तस्याऽ स्वतऽ प्रमाणत्वं न चेत् स्याद्दोषदर्शनम् // Mस्व्_५,५.५३ //
SK
एतदपि दूषयति---नादित्येति / आदित्ययूपवाक्ये वर्तमानो वेदत्वहेतुरनैकान्तिक इति / ननु नेदं वाक्यमसत्यार्थम्, आदित्यशब्दो हि सारुप्याद् गौणो यूपे वर्तत इति तत्सिद्धिसूत्रे वक्ष्यते, अत आह--- तद्वदिति / कर्मफलसम्बन्धवाक्यान्यपि तद्वदेव गौणानि भुवेयुरिति / अपि च प्राक् स्वमहिम्ना वेदप्रामाण्यबलेनाप्रामाण्यानुमानानि प्रत्युक्तानि / अनुमात्वाभ्युपगमे तुल्यबलतया दुर्वारप्रसरणानीत्याह--- नात इति
SK
अतो लक्षणभेदेनैव शब्दस्य प्रमाणान्तरत्वे इष्यमाणे वेदाऽ प्रमाणं भवन्ति / लोकवेदयोश्च सममेव प्रमाणता सिद्धेत्याह---तस्मादिति
SK
लक्षममपि यथा परैराश्रितम्--- ऽआप्तोपदेशऽ शब्दऽ इति, तथाप्यचाप्ताभावान्न प्रामाण्यं वेद्सयेति तन्नाश्रयणीयमित्याह---तेनेति वेदान्तेन / लोके ऽपि नाप्तत्वं प्रामाण्ये कारणमित्याह--- लोक इति
SK
कारणमाह---पुरस्तादिति / आप्तत्वेन ह्यपवादाशङ्कानिराकरणमात्रम् / प्रामाण्यं तु सर्वसंविदां सहजमेवेति स्वतऽप्रामाण्येवादे वर्णितमिति / किं तर्ह्यागमलक्षणमत आह--- तस्मादिति / निर्देषशब्दजनितं विज्ञानं प्रमाणमिति
SK
अनुमानेन चैतस्य प्रामाण्यं केवलं समम् / पदे तावत्कृतो यत्नऽ परैरित्यत्र वर्ण्यते // Mस्व्_५,५.५४ //
SK
विषयो ऽन्यादृशस्तावद् दृश्यते लिङ्गशब्दयोऽ / सामान्यविषयत्वं च पदस्य स्थापयिष्यति // Mस्व्_५,५.५५ //
SK
धर्मी धर्मविशिष्टश्च लिङ्गीत्येतञ्च साधितम् / न तावदनुमानं हि यावत् तद्विषयं न तत् // Mस्व्_५,५.५६ //
SK
सामान्यादतिरिक्तं तु शाब्दे वाक्यस्य गोचरऽ / सामर्थ्यादनुमेयत्वादश्रुते ऽपि पदान्तरे // Mस्व्_५,५.५७ //
SK
एवञ्जातीयकस्य शब्दस्य चानुमानेन प्रामाण्यमेव समं, न लक्षणमित्याह---अनुमानेनेति ||५३ १/२||
SK
स्वमतेनेदानीं पदस्यानुमानाद् भेदं वदिष्यस्तत्प्रतिपादने कारणमाह---पदैति / यद्यपि पदस्य पदार्थे प्रमाणत्वान्न तद्भेदप्रतिपादनमुपयुज्यते, तथापि परैऽ पदान्युदाहृत्य विचारऽ कृत इति तद्भेदमेव प्रतिपादयामऽ / अत्रेति / पद इत्यर्थऽ
SK
तदिदानीं भेदकारणमाह---विषयैति / विषयभेदमेव दर्शयति--- सामान्येति / आकृत्यधिकरणे हि पदस्य सामान्यविषयत्वं स्थापयिष्यत इति
SK
अनुमानं तु धर्मविशिष्टधर्मिविषयमित्यनुमानपिरच्छेदे साधितमित्याह---धर्मीति / लिङ्गमस्यास्तीति लिङ्गी / तस्य विशिष्टस्य प्रसाधकं लिङ्गमस्तीति / नन्वनुमाने व्याप्तिबलेन धर्मसामान्यमनुमीयत इत्यत आह--- न तावदिति / यावत् तदनुमानं तद्विषयं विशिष्टविषयं न भवति तावदनुमानमेव न भवति, न धर्ममा(त्रं?त्रविषयं) सिद्धत्वादित्युक्तमिति
SK
ननु पदमपि विशिष्टगोचरं दृष्टं यथा--- को राजा यातीति पृष्टे परऽ प्रतिब्रवीति , पाञ्चालराज इति / तदा केवलादेव पाञ्चालराजपदात् क्रियाविशिष्टऽ पुरुषो ऽवगम्यते, अत आह---सामान्यादिति / यदेव
SK
सङ्ख्यादिमान् पदार्थश्चेन्न तावत् सो ऽव्ययादिषु / यत्रापि ते प्रतीयन्ते तत्र व्यक्तेर्विशेषणम् // Mस्व्_५,५.५८ //
SK
पदान्तराभिधेयस्य तादर्थ्याच्च क्रियात्मनऽ / वाक्यार्थे ऽपि पदं यत्र गोमदादि प्रयुज्यते // Mस्व्_५,५.५९ //
SK
सत्यप्यत्र विशिष्टत्वे सिद्धत्वान्नैव पक्षता / तावानेव हि तत्राप्थो यऽ पूर्वमवधारितऽ // Mस्व्_५,५.६० //
SK
किञ्चित् शाब्दे सामान्यादतिरिक्तमवगम्यते स वाक्यस्यैव विषयऽ / वाक्यमेव हि तदनुषक्तयातिपदं पाञ्चालराजो यातीति / नन्वस्तु श्रुतस्यानुषङ्गऽ , अश्रुते ऽपि पदान्तरे पदादेकस्माद् विशिष्टबोधो दृष्टऽ, यथा--- द्वारमित्युक्ते विव्रियतामिति, अत्र कथमत आह--- सामर्थ्यादिति / कारकं हि क्रियया विदितव्याप्तिकम्, व्याप्तिसामर्थ्यादेव क्रियापदमनुमापयति / अनुमितक्रियापदाद् वाक्यादेव तत्रापि विशिष्टार्थप्रत्ययऽ इति
SK
अत्रचोदयति ---सङ्ख्येति / परिहरति--- न तावदिति / यत्र हि सङ्ख्यादयो ऽवगम्यन्ते तत्र कथमत आह--- यत्रापीति / सम्भवव्यभिचाराभ्यां हि विशेषणमर्थवद् भवति / आकृतिस्तु न तावदेकत्वं व्यभिचरति, द्वित्वादयस्त्वेकत्वान्न सम्भवन्तीति तदाक्षिप्ताया व्यक्तेरेव विशेषणं सङ्ख्यादय इति
SK
तदेवं तावदनुरञ्जनेन व्यक्तेर्विशेषणमित्युक्तम्, तादर्थ्येन तु क्रियां भावनां सङ्ख्यादयो विशिषन्ति / तत्र हि श्रुत्यादिभिर्विनियुज्यन्ते / यथा पशोरेकत्वे ऽरुणादिषु च वक्ष्यत इत्याह--- पदन्तरेति / पदान्तरेति / पदान्तरत्वेनात्यन्तविप्रकृष्टाविशेषणतां दर्शयतीति ||५८ १/२||
SK
यत्तर्हि वाक्यार्थवृत्तिविशिष्टविषयं गोमदादिपदं तदनुमानं भविष्यत्यत आह--- वाक्यार्थ इति / यद्यपि तावदिदं विशिष्टार्थगोचरम्, तथापि नानुमानत्वम् / सिद्धो हि धर्मी केनचिद् धर्मेणासिद्धेन विशिष्टऽ साध्यमानऽ पक्षो भवति / इह तु पदोञ्चारणात् प्राङ् न किञ्चित् प्रतिपन्नम् / उच्चरिते तु पदे विशिष्टऽ प्रतिपन्न एवेति किं साध्यमिति / सिद्धत्वमेव
SK
भेदबुद्धेश्च वैषम्यं प्रकृतिप्रत्ययार्थयोऽ / विशेषणविशेष्यार्थस्वातन्त्र्यग्रहमं न च // Mस्व्_५,५.६१ //
SK
विशेष्यपूर्विका तत्र बुद्धिश्चात्र विपर्ययऽ / अथ शब्दोर्ऽथवत्त्वेन पक्षऽ कस्मान्न कल्प्यते // Mस्व्_५,५.६२ //
SK
प्रतिज्ञार्थैकदेशो हि हेतुस्तत्र प्रसज्यते / पक्षे धूमविशेषे च सामान्यं हेतुरिष्यते // Mस्व्_५,५.६३ //
SK
दर्शयति--- तावानिति / न तावदगृहीतसम्बन्धऽ शब्दाद् विशिष्टं प्रत्येति / गृहीतसम्बन्धस्तु प्रतिपद्यमानो व्युत्पत्तिकालावगतानन किञ्चिदधिकं प्रत्येतीति कथमनुमानं भवतीति
SK
अपि चात्र भिन्नयोरेव प्रकृतिप्रत्ययात्मनोऽ पदभागयोर्भिन्नावेवार्थोप्रतिपन्नौ विशेषणविशेष्यबावमनुभवत इति सिद्धं वैषम्यमित्याह---भेदबुद्धेरिति / इदं तु पाचकादिशब्देषु युक्तं वक्तुम्, तत्र हि (धातुना) पाकऽ प्रत्ययेन चकर्तृमात्रमुपात्तम् / आर्थस्तु विशिष्टप्रत्ययऽ / गोमदादौ तु तदस्यास्तीति विशिष्ट एवार्थे तद्धितऽ स्मर्यत इति कुतो वैषम्यम्, उक्तमत्र ऽतावानेव हीऽति व्युत्पत्तिकालावगतादनधिकविषयत्वम्, इदं तु पाचकादिशब्दार्थ(मे?ए)वोक्तमिति / किञ्चानुमाने स्वतन्त्रगृहीत एव पर्वतादिर्विशेष्यऽ स्वतन्त्रस्मृतेनाग्न्यादिना विशेषणेन विशिष्टो ऽवगम्यते / शब्देनोभयोऽ स्वतन्त्रग्रहणमस्तीत्याह--- विशेषणेति / ग्रहणमुपलक्षणार्थं, स्मरणं चेत्यर्थऽ
SK
वैषम्यान्तरमाह--- विशेष्येति ||६१ १/२||
SK
अत्र चोदयति--- अथेति / अत्रापि शब्दस्यैव प्रन्थमावगतस्यार्थविशिष्टत्वेन साध्यत्वान्न क्रमव्यतिक्रमो भविष्यतीति
SK
अत्र दूषणमाह--- प्रतिज्ञार्थेति / प्रतिज्ञार्थऽ पक्षऽ स च धर्मविशिष्टो धर्मी, विशिष्टापेक्षया धर्म्येकदेश उच्यते / स एव हेतुऽ प्रसज्यते / शब्दो हि धर्मितयोपात्तऽ स एव हेतुरिति / ननु यदा दूराद् धूस्याधारविशेषो न लक्ष्यते तदा धूमो ऽग्निमत्तया साध्यते, हेतुश्च भवति / तद्वदिहापि भविष्यत्यत आह--- पक्ष इति / धूमविशेषो हि सम्प्रति
SK
शब्दत्वं गमकं नात्र गोशब्दत्वं निषेत्स्यते / व्यक्तिरेव विशेष्यातो हेतुश्चेका प्रसज्यते // Mस्व्_५,५.६४ //
SK
भवेत् व्यञ्जकभेदाच्चेन्न त्वेवं प्रत्ययो ऽस्तीति नऽ / कथं वास्य विशिष्टत्वं न तावद् देशकालतऽ // Mस्व्_५,५.६५ //
SK
तत्प्रतीतिविशिष्टश्चेत् परं किमनुमीयते / न प्रत्यायनशक्तिश्च विशेष्यस्यानुमीयते // Mस्व्_५,५.६६ //
SK
दृश्यमानऽ पक्षऽ पूर्वावगतऽ सपक्षऽ तदनुगतं च सामान्यं हेतुरिति पक्षसपक्षहेतुविभागोपपत्तिरिति
SK
नन्विहापि शब्दविशेषं पक्षीकृत्य शब्दत्वं हेतुं वक्ष्यामऽ, अत आह--- शब्दत्वमिति / अर्थविशेषो ह्यनुमित्सितऽ, न चास्य शब्दत्वं गमकमनैकान्तिकत्वादिति / नन्ववान्तरसामान्यं तर्हि गोशब्दत्वं हेतुर्भविष्यत्यत आह--- गोशब्दत्वमिति / अतो ऽत्रैकैव व्यक्तिरर्थेन विशेष्याहेतुतया चाभिधातव्येति दुष्परिहरं प्रतिज्ञार्थैकदेशत्वमित्याभिप्रायेणाह--- व्यक्तिरिति
SK
ननु व्यञ्जकभेदभिन्नैकैव व्यक्तिऽ पक्षीकरिष्यते इत्याह--- भवेदिति / परिहरति--- न त्विति / नौपाधिको भेदो वस्तु भिनत्ति, तत्प्रत्ययानपायादिति भावऽ / अपि च विशिष्टता सम्बन्धे सति भवति, तदिह कीदृशोर्ऽथशब्दयोशब्दयोऽ सम्बन्ध इत्याह--- कथं वेति / न तावत् शब्ददेशेर्ऽथो दृश्यते,मुखे हि शब्दऽ भूमावर्थऽ / नापि शब्दकाले, कलौ कृतयुगार्थस्याभावादित्याह--- न तावदिति
SK
अर्थार्थप्रतीत्या विशिष्टऽ शब्दऽ साध्यते, अस्ति हि सा शब्दकाल इति तदेतदाशङ्कते--- तत्प्रतीतिरिति / एतदपि दूषयतीति--- परमिति / प्रतीत्या विशिष्टे ऽनुमीयमाने सा तावत् पूर्वसिद्धा ग्रहीतव्या / सा चेत् ज्ञाता किमपरमनुमीयत इति / ननु सम्प्रत्युपलभ्यमानं दुतादिविशेषं पक्षीकृत्य तस्य प्रत्यायनशक्तिविशिष्टता साध्यते सपक्षं च व्युत्पत्तिकाला
SK
विशेषाणां न शक्तिर्हि सैकदेशे ऽग्निजातिवत् / सामान्यस्यैव शक्त्वे पक्षो हेतुस्तथैव च // Mस्व्_५,५.६७ //
SK
तस्मादर्थविशिष्टस्य न शब्दस्यानुमेयता / कथं च पक्षधर्मत्वं शब्दस्येह निरुप्यते // Mस्व्_५,५.६८ //
SK
न क्रियाकर्तृसम्बन्धादृते सम्बन्धनं क्वचित् / राजा भर्ता मनुष्यस्य तेन राज्ञऽ स उच्यते // Mस्व्_५,५.६९ //
SK
वगतविशेषम्,उभयानुगतं गोशब्दसामान्यं हेतुं करिष्यामऽ, न प्रतिज्ञार्थैकदेशता भविष्यत्यत आह --- न प्रत्यायनेति अयमभिप्रायऽ न द्रुतादिविशेषाणां देशादिनिबन्धनोर्ऽथेन सम्बन्धो विद्यते / प्रत्यायनशक्तिविशिष्टता चापि तेषां न सम्भवतीति
SK
किमिति न सम्भवत्यत आह---विशेषाणामिति / यथा पक्षीकृतस्य महतो धूमस्यैकदेशे ऽधस्तादग्निरस्तीति तद्विशिष्टो धूमऽ साध्यो भवति / नैवं द्रुतादिविशेषाणां प्रत्यायनशक्तियोगऽ / तेषां व्यभिचारेणाप्रत्यायक्तवादिति / यत्तु तेषां सामान्यं गोशब्दऽ सप्रत्यायनशक्तिविशिष्टऽ तत्र च पक्षे स एव पक्षो हेतुश्चेत्युक्तमेवेत्याह सामान्यस्येति
SK
अतोर्ऽथविशिष्टऽ शब्दो नानुमेय इत्युपसंहरन्नाह---तस्मादिति ||६७ १/२||
SK
एवं तावत् शब्दो न पक्ष इत्युक्तम् / यदि त्वर्तं पक्षीकृत्य शब्दो हेतुरित्युच्यते / तदप्ययुक्तम् / अपक्षधर्मत्वादित्याह---कथं चेति / कथं च निरूप्यत इति भावऽ
SK
किमिति न निरूप्यते ऽत आह---न क्रियेति / कस्याञ्चित् क्रियायां कर्तृतया सम्बद्धं किञ्चित् कस्यचित् सम्बन्धी भवति, क्रियाकारकसम्बन्धपूर्वकत्वात् शेषसम्बन्धानां स्वस्वाम्यादीनामिति / तत्र स्वस्वामिसम्बन्धस्तावत् क्रियाकारकसम्बन्धपूर्वक इत्याह--- राजेति / प्रतमं हि भरणक्रियायां कर्तृकर्मभावमापन्नौ राजपुरुषौ स्वस्वामिसम्बन्धमनुभवत इति
SK
वृक्षस्तिष्ठति शाखासु ता वा तत्रेति तस्य ताऽ / देशे ऽग्निमति धूमस्य कर्तृत्वं भवनं प्रति // Mस्व्_५,५.७० //
SK
कार्यकारणभावादौ क्रिया सर्वत्र विद्यते / न चानवगताकारऽ सम्बन्धो ऽस्तीति गम्यते // Mस्व्_५,५.७१ //
SK
न चास्त्यसति सम्बन्धे षष्ठीतत्पुरुषो ऽपि वा / तस्मान्न पक्षधर्मो ऽयमिति शक्या निरूपणा // Mस्व्_५,५.७२ //
SK
निवृत्ते ऽन्यत्र सम्बन्धे ये ऽपि तद्विषयात्मना / वदेयुऽ पक्षधर्मत्वं शब्दस्यानुपलब्धिवत् // Mस्व्_५,५.७३ //
SK
एवमवयवावयविसम्बन्धो ऽपि क्रियागर्भ इत्याह---वृक्षैति / वृक्षो ऽवयवी ह्यवयवेषु तिष्ठतीति प्रतीतिऽ / कदाचित्त्ववयवा एव शाखादयस्तस्मिन्निति प्रतीतिऽ / तदेवं स्थितिक्रियाकर्तृभावनिबन्धनो ऽवयवावयविसमम्बन्ध इति / एवं संयोगो ऽपि क्रियागर्भ एवेत्याह--- देश इति / अग्निमद्देशे भवने कर्ता भवन् धूमो ऽग्निमतो देशस्य संयोगी भवतीति||
SK
एवं कार्यकारणभावादयो ऽपि सम्बन्धाऽ क्रियाकारकसम्बन्धपूर्वका इत्याह---कार्येति / किण्वं हि सुराया बीजं सुरात्मके परिणामे कर्तृभवत्सुरायाऽ कारणमित्युच्यते / तथा समूहसमूहिसम्बन्धो ऽपि / सेनाकार्यं प्रतिपक्षजयमंशेन कुर्वन् हस्ती सेनायाऽ सम्बन्धितयोच्यत इति / शब्दार्थयोस्तु न कश्चिदेवबाकारऽ सम्बन्धस्यावगम्यते / न चानिरूपिताकारऽ सम्बन्धो ऽस्तीति शक्यते वक्तुमित्याह--- न चेति / न च सम्बन्धमन्तरेण पक्षस्य धर्म इति विग्रहगता षष्ठी पक्षधर्म इति च तत्पुरुषसमासो वा घटत इत्याह---न चास्तीति / वृत्तिविग्रहावपि नोपपन्नाविति / उपसंहरति--- तस्मादिति
SK
अन्ये तु शब्दोर्ऽथविषय इत्येवं तद्धर्मतामाहुऽ / यथानुपलब्धिरभावे प्रमेय वक्ष्यते / तदेतदुपन्यस्यति---निवृत्तैति
SK
तैरप्येतन्निरूप्यं तु शब्दस्तद्विषयऽ कथम् / न तद्देशादिसद्भावो नाभिमुख्यादि तस्य वा // Mस्व्_५,५.७४ //
SK
तस्मादुत्पादयत्येष यतोर्ऽथविषयां मतिम् / तेन तद्विषयऽ शब्द इति धर्मत्वकल्पना // Mस्व्_५,५.७५ //
SK
तत्र वाचकतायां च सिद्धायां पक्षधर्मता / न प्रतीत्यङ्गतां गच्छेन्न चैवमनुमानता // Mस्व्_५,५.७६ //
SK
गमकत्वाच्च धर्मत्वं धर्मत्वाद् गमको यदि / स्यादन्योन्याश्रयत्वं हि तस्मान्नैषापि कल्पना // Mस्व्_५,५.७७ //
SK
न चागृहीतसम्बन्धाऽ स्वरूपव्यतिरेकतऽ / शब्दं जानन्ति येनात्र पक्षधर्ममतिर्भवेत् // Mस्व्_५,५.७८ //
SK
एतदपि नोपपन्नमित्याह--- तैरपीति / न केनापि प्रकारेण विषयविषयिभावो घटत इत्यर्थऽ / यथा न घटते तदेतदाह--- न तदिति
SK
सर्वप्रकारासम्भवात् पारिशेष्येण तद्विषयबुद्धिजनकतया तद्विषयता वक्तव्या, एवं च तद्विषयबुद्धिजनकत्वस्य वाच्यवाचकभावमन्तरेणानुपपत्तेस्तदभ्युपमगऽ कारऽ / तत्सिद्धौ च न प्रतीत्यङ्गं पक्षधर्मता / न चापक्षधर्मजनिता प्रतीतिरनुमानमित्याह--- तस्मादिति द्वयेन ||७५,७६||
SK
यदि तु पक्षधर्मतैव तद्विषयबुद्धिजजने हेतुरिष्यते / ततस्तव्यतिरेकेण पक्षधर्मताया एवपानुपपत्तेरितरेतराश्रयत्वमतो नेयमपि कल्पना घटत इत्याह---गमकत्वादिति
SK
इतश्च न पक्षधर्मतेत्याह---न चेति / अनवगतवाच्यवाचकसम्बन्धाऽ स्वरूपातिरेकेण न शब्दं कस्यचिद् धर्मतया जानन्ति / येन पक्षधर्मबुद्धिऽ शब्दे भवेदिति
SK
न च स्वरूपमात्रेण धूमादेऽ पक्षधर्मता / न चापि पूर्वसम्बन्धमपेक्ष्यैषा प्रसज्यते // Mस्व्_५,५.७९ //
SK
धूमवानयमित्येवमपूर्वस्यापि जायते / पक्षधर्ममतिस्तेन भिद्येतोत्तरलक्षणात् // Mस्व्_५,५.८० //
SK
न त्वत्र पूर्वसम्बन्धादधिका पक्षधर्मता / न चार्थप्रत्ययात् पूर्वमित्यनङ्गमियं भवेत् // Mस्व्_५,५.८१ //
SK
न च धर्मी गृहीतो ऽत्र येन तद्धर्मता भवेत् / पर्वतादिर्यथा देशऽ प्राग्धर्मत्ववधारणात् // Mस्व्_५,५.८२ //
SK
यश्चात्र कथ्यते धर्मी प्रमेयो ऽस्य स एव नऽ / न चानवधृते तस्मिन् तद्धर्मत्वावधारणात् // Mस्व्_५,५.८३ //
SK
स्वरूपमात्रविज्ञानं तु न धूमादौ पक्षधर्मतायां हेतुऽ, अपि तु धर्मिसम्बन्धऽ / न चासावस्तीत्यभिप्रायेणाह---नचेति / नन्वत्राप्यर्थेन धर्मिणा प्रतमं व्युत्पत्तिकाले सम्बन्धो ऽवगत एव, आह--- न चापीति
SK
पूर्वसम्बन्धनिरपेक्ष एवायमव्युत्पन्नसम्बन्धस्यापि पक्षधर्मसम्बन्धो मासते, न चात्र तथेत्याह---धूमवानितिमतिरन्तेन / यत एव तन्निरपेक्षो ऽयं पक्षधर्मसम्बन्धऽ, अत एव तदुत्तरस्मात् सपक्षसत्त्वलक्षणाद् भिद्यते, अन्यथा तदभेद एव स्यादित्याह--- तेनेति / त्रीणि हेतोर्लक्षणानि पक्षधर्मता सपक्षे सत्ता विपक्षाद् व्यावृत्तिऽ / तत्र च पक्षधर्मताया उत्तरं सपक्षसम्बन्धमुत्तरलक्षममपदिशतीति
SK
शब्दे त्वेवं नास्तीत्याह--- न त्वत्रेति / पूर्वसम्बन्धापेक्षया चेयमवगम्यमानार्थप्रतीत्युत्तरकालमवगम्यते / अतो न तदङ्गमित्याह--- नचेति||
SK
इतश्च न पक्षधर्मतेत्याह---न च धर्मीति / अर्थादन्यस्तावद् धर्मी न प्रमीयत इति भावऽ
SK
यस्त्वसावर्थो धर्मितया कल्पनीयऽ, यद्धर्मतयावगतऽ शब्दऽ पक्ष
SK
प्राक् स चेत् पक्षधर्मत्वाद् गृहीतऽ किं ततऽ परम् / पक्षधर्मादिभिर्ज्ञातैर्येन स्यादनुमानिता // Mस्व्_५,५.८४ //
SK
अन्वयो न च शब्दस् प्रमेयेन निरूप्यते / व्यापारेण हि सर्वेषामन्वितत्वं प्रतीयते // Mस्व्_५,५.८५ //
SK
यत्र धूमो ऽस्ति तत्रापग्नेरस्तित्वेनान्वयऽ स्फुटऽ / न त्वेवं यत्र शब्दो ऽस्ति तत्रार्थो ऽस्तीति निश्चयऽ // Mस्व्_५,५.८६ //
SK
न तावदत्र देशे ऽसौ तत्काले वावगम्यते / भवेन्नित्यविभुत्वाच्चेत् सर्वार्थेषु च तत्समम् // Mस्व्_५,५.८७ //
SK
तेन सर्वत्र दृष्टत्वात् व्यतिरेकस्य चागतेऽ / सर्वशब्दैरशेषार्थप्रतिपत्तिऽ प्रसज्यते // Mस्व्_५,५.८८ //
SK
अथैवं देशकालाभ्यामसत्यत्वप्रकल्पने / वाचकप्रत्ययं कश्चिद् ब्रूयादर्थधियान्वितम् // Mस्व्_५,५.८९ //
SK
धर्मो भवति, परस्तादपि स तावानेव प्रमातव्यऽ / तद् यदि पक्षधर्मत्वमवगन्तुमसौ प्रथममेवावगम्यते, ततो गृहीते तस्मिन् किं परभाविना पक्षधर्मादिज्ञानेन अतो नानुमानतेत्याह---यश्चेतिद्वयेन ||८३,८४||
SK
अन्वयमिदानीं दूषयति--- अन्वय इति / कथं न निरूप्यते, अत आह---व्यापारेणेति
SK
एतदेव दर्शयति---यत्रेति / इह त्वेवं नास्तीत्याह---न त्विति
SK
कथं नेत्यत आह--- न तावदिति / इदं च पूर्वमेवोक्तमिति / ननु वैभवाच्छब्दस्य नित्यत्वाच्चार्थस्य शब्दार्थयोऽ शक्यते ऽन्वयो दर्शयितुमित्याह--- भवेदिति / परिहरति---सर्वार्थोष्विति
SK
किमतो यद्येवमत आह---तेनेति
SK
प्रकारान्तरेण सम्बन्धमाशङ्कते---अथैवामिति
SK
नैवमप्यस्ति दृष्टो हि विनाप्यर्थधिया क्वचित् / वाचकप्रत्ययो ऽस्माभिरव्युत्पन्ननरान् प्रति // Mस्व्_५,५.९० //
SK
द्वितीयादिप्रयोगे च भवेदन्वयकल्पना / शतकृत्वऽ प्रयुक्ते ऽपि न च दृष्टार्थधीऽ क्वचित् // Mस्व्_५,५.९१ //
SK
ननु ये ज्ञातसम्बन्धास्तेषां दृष्टो ऽन्वयऽ स्फुटऽ / यद्येवमन्वयात्पूर्वं सम्बन्धऽ को ऽपि कल्पितऽ // Mस्व्_५,५.९२ //
SK
नाङ्गमर्थधियामेषा भवेदन्वयकल्पना / अन्वयाधीनजन्मत्वमनुमानस्य च स्थितम् // Mस्व्_५,५.९३ //
SK
ज्ञाते प्रतीतिसामर्थ्ये त्दवशादेव जायते / पश्चादन्वय इत्येष कारणं कथमुच्यते // Mस्व्_५,५.९४ //
SK
एतदपि दूषयति---नैवमिति / कारणमाह--- दृष्टो हीति (अस्मा)भिरन्तेन / क्व दृष्टऽ अत आह--- अव्युत्पन्नेति
SK
ननु द्वितीयादिप्रयोगे शब्दार्थप्रत्यययोरन्वयो ग्रहीष्यत इत्याशङ्कते---द्वितीयादीति / एतदपि दूषयति--- शतकृत्व इति / शतकृत्वऽ प्रयोगे ऽप्यजिज्ञासासुर्न सम्बन्धं बुध्यते / अविदितसम्बन्धश्च नार्थं प्रत्येतीति
SK
ननु ज्ञातसम्बन्धस्य तावन्न शब्दज्ञानमर्थज्ञानं व्यभिचरति / तस्यैव चानुमानत्वमिष्यत इत्याह---नन्विति / परिहरति--- यद्येवमिति / यदि ज्ञातसम्बन्धस्यान्वयऽ, अन्य एव तर्हि सम्बन्धऽ शब्दार्थयोरभ्युपगम्यत इति
SK
ततऽ किमत आह---नाङ्गमिति / यदि नाङ्गं , किं जातमत आह---अन्वयेति / असत्यन्वये ज्ञानं नानुमानमिति भावऽ
SK
अन्वयस्तु पूर्वावगतप्रतीतिसामर्थ्यानुसारेणैव जायमानो नार्थग्रहीतौ कारणमित्याह--- ज्ञात इति
SK
त्समात्तन्निरपेक्षैव शब्दशक्तिऽ प्रतीयते / न च धूमान्वयत्पूर्वं शक्तत्वमवगम्यते // Mस्व्_५,५.९५ //
SK
व्यतिरेको ऽप्यविज्ञातादर्थात् शब्दधियो यदि / सो ऽपि पश्चाच् स्थितत्वेन नार्थप्रत्ययसाधनम् // Mस्व्_५,५.९६ //
SK
सम्बन्धं यं तु वक्ष्यामस्तस्य निर्णयकारणम् / स्यादन्वयो ऽतिरेकश्च न त्वर्थाधिगमस्य तौ // Mस्व्_५,५.९७ //
SK
तस्मादननुमानत्वं शब्दे प्रत्यक्षवद् भवेत् / त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् // Mस्व्_५,५.९८ //
SK
सति चास्य प्रमाणत्वे भेदाबेदनिरूपणा / युक्ता न तु पदज्ञानात् पदार्थो ऽत्र प्रमायते // Mस्व्_५,५.९९ //
SK
उपसंहरति---तस्मादिति / अनुमाने तु नान्वयात्पूर्वं गमकत्वसिद्धिरित्याह---न चेति
SK
व्यतिरेकमिदानीं दूषयति--- व्यतिरेक इति / न ह्यनवगतेर्ऽथे तज्ज्ञानेन विना शब्दज्ञानं भवतीति व्यतिरेकऽ शक्यते ऽवगन्तुम् / अवगतश्चेदर्थऽ किं व्यतिरेकाश्रणेनेति
SK
किमिदानीमनुपयोगिनावन्वयव्यतिरेकौ शब्दे नेत्याह--- सम्बन्धमिति / शक्तिनि (ष्कर्षे) योर्व्यापारो वाच्यवाचकरूपऽ शब्दार्थयोऽ सम्बन्ध इति
SK
एवं च त्रैलक्षण्यपरित्यागेनाननुमानत्वं प्रसाध्य प्रयोगेण दर्शयति---तस्मादिति / शब्दो नानुमानं त्रैरूप्यरहितत्वात् प्रत्यक्षवत् / तादृग्विषयवर्जनात् / तद्वदेव तादृक् / विषयवर्जनं च ऽसामान्यविषयत्वं हीऽत्यादिना वर्णितमेवेति
SK
इदं च पदस्यानुमानाद् भेदप्रतिपादनं प्रौढिप्रदर्शनार्थमस्माभिऽ कृतम् / न तुपदं प्रमाणमित्याह--- सतीति
SK
पदं प्रयुज्यमानं हि चतुर्धार्थे प्रयुज्यते / प्रत्यक्षे च परोक्षे च ज्ञाते ऽज्ञाते ऽपि वा पुरा // Mस्व्_५,५.१०० //
SK
तत्र यत्पूर्वविज्ञाते प्रत्यक्षे च प्रयुज्यते / प्रमिते च प्रयुक्तत्वादनुवादो ऽधिकाद् विना // Mस्व्_५,५.१०१ //
SK
अदृष्टपूर्वे त्वज्ञानं सम्बन्धप्रत्ययो ऽपि वा / सम्बन्धो न च तस्यार्थो योर्ऽथऽ स त्वक्षगोचरऽ // Mस्व्_५,५.१०२ //
SK
परोक्षे ऽननुभूते च नाभिधेये मतिर्भवेत् / परोक्षश्चानुभूतश्च यस्तत्र स्मृतिरिष्यते // Mस्व्_५,५.१०३ //
SK
प्रमिते च प्रवृत्तत्वात् स्मृतेर्नास्ति प्रमाणता / परिच्छेदफलत्वाद्धि प्रामाण्यमुपजायते // Mस्व्_५,५.१०४ //
SK
यथा न प्रमाणं तथा दर्शयति--- पदमिति / तानेव चतुरऽ प्रकारानाह--- प्रत्यक्ष इति
SK
एष्वर्थेषु प्रयुक्तस्य यथा न प्रामाण्यं तथाह--- तत्रेति
SK
अदृष्टपूर्वे तु सम्प्रति प्रत्यक्षे ऽनुत्पत्तिलक्षममेवाप्रामाण्यमित्याह---अदृष्टपूर्वैति / सम्बन्धज्ञानमेव वा तदा जायत इत्याह--- सम्बन्धेति / न च सम्बन्ध एव पदस्य प्रमेय इति वाच्यम्, तस्यार्थापत्तिप्रमेयत्वादित्यभिप्रायेणाह--- सम्बन्ध इति / तदर्थस्तु प्रत्यक्षादवगत इत्याह--- योर्ऽथ इति
SK
णननुभूतपूर्वे परोक्षे च ज्ञानानुत्पत्तिरेवेत्याह---परोक्षैति / अनुभूते तु परोक्षे स्मृतिरित्याह--- परोक्ष इति
SK
ननु स्मृतिमेव जनयत् प्रमाणं भविष्यत्यत आह--- प्रमित इति / प्रमितविषया हि स्मृतिऽ, सन्निकृष्टार्थगोचरं च प्रमाणमिति स्थितिरिति / कथं पुनऽ प्रमितविषयं न प्रमाणमत आह--- परिच्छेदेति / परिच्छेदफलं हि प्रमाणम् / न च स्मृत्या किञ्चित् परिच्छिद्यते, पूर्वविज्ञानमात्रोपस्थापकत्वादिति
SK
तादात्विकपरिच्छेदफलत्वेन प्रमाणता / प्रत्यभिज्ञानवत् कस्मात् स्मृते ऽपि न कल्प्यते // Mस्व्_५,५.१०५ //
SK
यावान् पूर्वपरिच्छिन्नस्तावानेवाधार्यते / स्मृत्या तदनुसारेण तदा सत्त्वे ऽस्य नैव धीऽ // Mस्व्_५,५.१०६ //
SK
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते / यदाधिक्यं भवेत् किञ्चित् तत्पदस्य न गोचरऽ // Mस्व्_५,५.१०७ //
SK
प्रमाणमनुमानं वा यद्यपि स्यात्पदान्मितिऽ / वाक्यार्थस्यागमार्थत्वाद् दोषो नागमवादिनाम् // Mस्व्_५,५.१०८ //
SK
अत्र चोदयति---तादात्विकेति / यद्यपि पूर्वमसावर्थो ऽवगतऽ, तथापि तदानीं सत्तां बोधयन्ती प्रत्यभिज्ञानवत् स्मृतिऽ प्रमाणं किमिति न भवतीति
SK
परिहरति---यावानिति / उत्पद्यते स्मृतिरन्यदा, न तु प्रत्यभिज्ञानवत् तदनीं वस्तुऽ सत्तां निश्चाययति, पूर्वज्ञानानुसारित्वादिति
SK
ननु पूर्वसंस्कारमात्रजा हि स्मृतिऽ, इदं तु प्रत्युत्पन्नकारणकं पदात् पदार्थज्ञानं ग्रहणमेव, कथं स्मृतिरुच्यते / अत आह---पदमिति / मा भूत् स्मरणं, ग्रहमपीदमनधिकविषयमेवाधिकप्रतिभासाभावात्, अतो न पदं स्मारकेभ्यऽ सदृशादृष्टादिभ्यो विशिष्यत इत्यप्रमाणमिति / ननु क्रियाकारकयोरन्यतरोच्चारणे ऽवश्यमन्यतरस्यान्यतरव्यतिषङ्गो बुद्धौ भवति / अतऽ कथमुच्यते नाधिक्यमवगतम्यत इत्यत आह--- यदाधिक्यमिति / पदान्तरस्यैवासौ प्रसादौ न पदस्यैकस्यैवेत्यर्थऽ
SK
इदं चास्माभिऽ सौहृदमात्रेण शिष्येभ्यऽ कथ्यते न पदं प्रमाणमिति / न तु तत्प्रमाणत्वे वाक्यार्थो नागमार्थो भवति / तेन हि प्रमाणेनापि भवतावश्यं पदार्थे भवितव्यम् / अतऽ प्रमाणान्तरानधिगतमर्थ गमयद्वाक्यं प्रमाणमेव / एवमनुमानान्तर्गतत्वे ऽपि पदस्य न काचित् क्षतिऽ, वाक्यार्थस्याननुमेयत्वादित्याह्--- प्रमाणमिति
SK
वाक्यार्थे तु पदार्थेभ्यऽ सम्बन्धानुभवादृते / बुद्धिरुत्पद्यते तेन भिन्नासावक्षबुद्धिवत् // Mस्व्_५,५.१०९ //
SK
वाक्याधिकरणे चास्य हेतोऽ सिद्धिर्भविष्यति / सर्वेषां च परोक्तानां वाक्याद् बुद्धावसिद्धता // Mस्व्_५,५.११० //
SK
आह वाक्यार्थज्ञानस्यैव कथमननुमानत्वं, तदप्यालोचितानुगमनमनुमानमेवात आह---वाक्यार्थैति / अगृहीतसम्बन्धा एव पदार्थाऽ वाक्यार्थं गमयन्ति / अतो न वाक्यार्थज्ञानमनुमानम् / एवञ्च दर्शयितव्यं वाक्यार्थबुद्धरनुमानाद् भिन्ना सम्बन्धनुभवादृते जायमानत्वाद् अक्षबुद्धिवदिति
SK
कथं पुनरप्रतिबद्धमर्थान्तरस्य प्रतिपादकम्, एवं ह्यतिप्रसङ्गऽ / अतोसिद्धो हेतुरत आह---वाक्येति / ये च परैऽ पदार्थबुद्धेरनुमानादभेदहेतव उक्ताऽ, ते तावद् बहवो वाक्यार्थबुद्धावसिद्धा इत्याह--- सर्वेषामिति / वाक्यार्थबुद्धिर्हि न तावदन्वयव्यतिरेकजा / नाप सम्बन्धत्वात् / सामान्यविषयत्वमप्यसिद्धं विशिष्टविषयत्वात् / प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधने तूपमानादीनि प्रसाध्य नैकान्तिकीकार्ये / तददृष्टार्थबोधनं चानुमानाभासैरप्यनैकान्तिकम् / एवं त्रिकालविषयमप्यनुमानाभासेतत्राप्यसिद्धमेव / उक्तं हि शब्दशक्तिनिर्धारणे ऽतयोर्व्यापारो न बुद्धिजन्मनीऽति / सम्बन्धपूर्वकत्वं तु यद्यविशेषितं तत् प्रत्यक्षेणैवानैकान्तिकम्, तदपि हीन्द्रियार्थसम्बन्धपूर्वकमेव / अथानुमानाङ्गसम्बन्धपूर्वकत्वं, तदसिद्धम्, व्याप्तिर्हि तदङ्गम् / न च पदात् पदार्थज्ञाने व्याप्तिऽ कारणम् / सामान्यनिषयत्वं चाभासेनैवानैकान्तिकमेव प्रत्यक्षदर्शन(प्रभवत्व) प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधननानि तूपमानादिभिरपीति
SK
यत एवैवं वाक्यार्थबुद्धऽ सहार्थैरदृष्टेष्वपि वाक्येषु पदार्थमात्रविदो जायते / अतो ऽस्याऽ स्फटतरमनुमानाद् भेदं पश्यन्तऽ सौगतास्ततो ऽवतीर्यागमस्यामानव्यतिरेकात् विभ्यतऽ पदाबेदविचारणायामेव क्लिष्टाऽ / एवं हि
SK
वाक्येष्वदृष्टेष्वपि सार्थकेषु पदार्थविन्मात्रतया प्रतीतिम् / दृष्ट्वानुमानव्यतिरेकभीताऽ क्लिष्टाऽ पदाभेदविचारणायाम् // Mस्व्_५,५.१११ //
SK
इति शब्दवार्तिकम् /
SK
अथोपमानपरिच्छेदऽ /
SK
कीदृग्गवय इत्येवं पृष्टो नागरिकैर्यदि / ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा // Mस्व्_५,६.१ //
SK
मन्यते / अस्तु तावत्पदमप्यनुमानादभिन्नम् / एतावतापीह शब्दानुमानयोरैक्यमिति वाक्य प्रवर्तत सोपहासमाह --- वाक्येष्विति
SK
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां शब्दपरिच्छेदऽ समाप्तऽ||
SK
अथोपमानपरिच्छेदऽ / ऽउपमानमपि सादृश्यमसन्निकृष्टेर्ऽथे बुद्धिमुत्पादयति / यथा गवयदर्शनं गोस्मरमस्येऽकि भाष्यम् / अस्यायं तात्पर्यार्थऽ--- उपामानमपि न परीक्षणीयम्, एवं लक्षमकत्वेनाव्यभिचारादिति / अवयवार्थस्त्वेकत्र दृश्यमानं सादृश्यं प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयासन्निकृष्टेर्ऽथे यां बुद्धिमुत्पादयति ऽएतत्सादृश्यविशिष्टो ऽसाऽविति, सोपमानमिति, सोपमानमिति च यत्तदोरध्याहारऽ / न च वाच्यं विषयविशेषानुपादानात् कथं सादृश्यविशिष्टविषया बुद्धिरवगम्यत इति, प्रसिद्धप्रमाणानुवादेन ह्यत्रापरीक्षा प्रतिपाद्यते / लोके च सादृश्यविशिष्टविषयैव
SK
एतस्मिन्नुपमानत्वं प्रसिद्धं शावरे पुनऽ / तस्यागमाबहिर्भावादन्यथैवोपवर्णितम् // Mस्व्_५,६.२ //
SK
पुरुषप्रत्ययेनैव तत्रार्थऽ सम्प्रतीयते / बुद्धिरुपमानमिति प्रसिद्धम् / अतो न दोषऽ // Mस्व्_५,६.३ //
SK
दृश्यमानविशेषमेकदेशदर्शनादितिवदनुपात्तमिति चेद् न / उदाहरणे उपादानात् / एवं ह्याह--- ऽयथा गवयदर्शनं गोस्मरणस्येऽति / अस्यार्थऽ--- दृश्यते ऽस्मिन्निति दर्शनं, अधिकरणे ल्युट् / गवयो दर्शनमस्येति गवयदर्शनम् / सादृश्यमन्यपदार्थऽ / एतदुक्तं भवति--- गवये दृश्यमानं सादृश्यमिति / अत्रोदाहरमानुसारेण लक्षमवाक्ये ऽपि दृश्यमानमेव सादृश्यमानमेव सादृश्यमभिमतमिति गमय्ते / गोस्मरणस्येति च ऽनन्दिग्रहीऽ (पा-३-१-१३४) त्यादिना कर्तरि ल्युऽ / गां स्मरतऽ प्रमातुऽ / यथा गवये दृश्यमानं सादृश्यमेतत्सदृशागौरिति बुद्धिमुत्पादयतीति / सङ्गतिस्तु प्रसिद्धिबाहुल्यात् शाब्दानन्तरमुपमानमिति प्रगेवोक्तम् / अत्र चोदयति--- प्रसिद्धप्रमाणानुवादेनात्रापरीक्षा प्रतिपाद्यते / अतो यथा नैयायिकोक्तमुपमानं प्रमाणमाश्रीयते, एवं तदुक्तमेवोपमानलक्षणमाश्रयितुमुचितम् / एवं हि तैरुक्तं--- ऽप्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमिऽति / अस्यार्थऽ--- प्रसिद्धेन गवादिना साधर्म्यात् साध्यस्याप्रसिद्धस्य गवयादेऽ कञ्चिदनभिज्ञं प्रति साधनं प्रज्ञापनं यादृशो गौस्तादृशो गवय इचि वाक्यं, तज्जनिता वा बुद्धिरुपमानमिति / तदेतत्परिहारेण लक्षणान्तरप्रणयने कारणं वाच्यमित्यत आह--- कीदृगिति द्वयेन / सत्यं नैयायिकैरिदमुक्तम् / न तु युक्तम् / अनन्तरोक्तागमाबहिर्भावात् / शब्दविज्ञानाद्धीदमसन्निकृष्टेर्ऽथे विज्ञानम् / अतो ऽन्यथैव शाबरे तन्त्रे उपमानं वर्णितमिति ||१,२||
SK
नैयायिकागमलक्षणानुसारेणाप्यस्यागमत्वमवगम्यत इत्याह--- पुरुषेति / एवं हि नैयायिकानां शाब्दलक्षणम् ऽआप्तोपदेशऽ शब्दऽ इति / अत्रापि चाप्तपुरुषप्रत्येनैवापरिदृष्टे गवयादौ सादृश्येन सम्प्रत्ययो भवति / नानाप्ता(द्धि?द्वि) संवादात् / अत आप्तस्यैवेदं वचनमव्यभिचाररीति मत्वा तदबलभावी निश्चयो जायते, तेषामप्यागम एवेति
SK
तदीयवचनत्वेन तस्मादागम एव सऽ
SK
सदृशादुपजायेत या मतिऽ सदृशान्तरे / ध्यानादिस्मृतितुल्यत्वात् सा प्रमाणं कथं भवेत् // Mस्व्_५,६.४ //
SK
देशकालादिभेदेन यथान्यत्र विशिष्यते / प्रमेयं नैवमस्त्यत्र नगरस्थानुसारतऽ // Mस्व्_५,६.५ //
SK
श्रुततिदेशवाक्यानामारण्ये गवये मतिऽ / या सोपमानं केषाञ्चिद् गोसादृश्यानुरञ्जिता // Mस्व्_५,६.६ //
SK
ननु शाबरे ऽपि ह्यदृशदर्शनात् सदृशान्तरे ज्ञानमुपमानमिति वर्णितम् / एतदपि स्मरणाबहिर्भावादप्रमाणमेव / यथा हि किञ्चिद् ध्यायतऽ स्मरणं भवति, एवं सदृशदर्शिनो ऽपि सदृशान्तरे स्मरणम्, अतो न ध्यानादिजन्मना स्मृत्या सहास्याऽ कश्चिद् विशेषऽ / अतो ऽप्रमाणमित्याह--- सदृशादिति / नैयायिकलक्षणं तावदागमाबहिर्भावि / शाबरं त्वप्रमाणमेव क्षङ्गृह्णातीति
SK
ननु स्मृतिसम्भिन्नमपि देशादिभेदेन जायमानं प्रत्यभिज्ञानं प्रमाणं दृष्टम् / एवमिहापि गां नगरे दृष्टवतो वने गवयदर्शनस्तद्भानं प्रमाणं भवत्यत आह---देशकालादीति / न खलु देशादिभेदऽ सन्मात्रतया प्रामाण्ये कारणम्, अपि तर्हि प्रमेयतया, न चेह देशान्तरादिविशिष्टो गौऽ प्रमीयते, अपि तु नगरावगतऽ सम्प्रत्यपि तत्स्थ एव स्मर्यत इति
SK
नैयायिकैकदेशिनां मतमुपन्यस्यति---श्रुतेति / येन किलातिदेशवाक्यं श्रुतं यादृशो गौस्तादृशो गवय इति, तस्य श्रुतादिदेशवाक्यस्य वनं प्राप्तस्य यत् स्वयमसौ गोसदृशो गवय इति सादृश्यानुरञ्जितं गवयज्ञानमिदमुपमानमिति
SK
प्रत्यक्षो गवयस्तावत् सादृश्यस्मृतिरत्र तु / ननु सादृश्ययुक्तेर्ऽथे न स्मृतिर्नैन्द्रियाद् गतिऽ // Mस्व्_५,६.७ //
SK
पूर्ववाक्यार्थविज्ञानान्नाधिक्यं गवये यदि / स्मरणादविशिष्टत्वात् सङ्गतेर्न प्रमाणता // Mस्व्_५,६.८ //
SK
अथ त्वधिकता काचित् प्रत्यक्षादिवशाद् भवेत् / यावद्धीन्द्रियसम्बद्धे१ तत्प्रत्यक्षमिति स्मृतम् // Mस्व्_५,६.९ //
SK
एतदपि दूषयति---प्रत्यक्ष इति / गवयस्तावदिन्द्रियसन्निकर्षात् प्रत्यक्षेण प्रतीयते / गोसादृश्यमप्यतिदेशवाक्यादवगतं स्मर्यत इति नोपमेयमस्तीति / अत्र चोदयति--- नन्विति / अयमभिप्रायऽ--- गोसादृश्यविशिष्टो ह्यत्र गवयो ऽवगम्यते / न च तत्प्रत्यक्षं, गोरप्रत्यक्षत्वात् / तद्विशिष्टो गवय उपमानस्य विषयऽ / न ह्यसौ प्रत्यक्षेणावसीयते, गवयमात्रविषयत्वात् तस्य / न चागमादवगतऽ स्मर्यते, सामान्यविषयत्वादागमस्य / इह चायमसाविति विशेषप्रतिभानादिति
SK
एतदपि विकल्प्य दूषयति---पूर्वेतिसार्धेन / इदमत्र विकल्पनीयम्---- अतिदेशवाक्यादवगतात् किञ्चिदधिकमवगम्यते न वा, यदि नेत्याह, ततऽ स्मरणादविशिष्टा सङ्गतिरियमप्रमाणम् / यथा पदात् पदार्थज्ञानं प्रत्युत्पन्नकारणजत्वेनास्मरणमप्यनधिकवि,यत्वादप्रमाणम्, एवमिहाप्यतिदेशवाक्यावगतगोसादृश्यविशिष्टवगयज्ञानम् / यदि तर्हि प्रत्यक्षादेव लभ्यत इति न प्रमाणान्तरावकाश इति ||८ १/२||
SK
ननुक्तमसन्निहिते गवितत्सादृश्यस्याप्रत्यक्षात्वान्न तद्विशिष्टो गवयऽ प्रत्यक्षेणावगन्तुं शक्यत इति सावकाशं प्रमाणान्तरमित्यत आह--- यावद्धीति / यावदिन्द्रियव्यापारानन्तरमपरोक्षं भासते तन्नऽ प्रत्यक्षम् / तथा च सादृश्यविशिष्टो गवय इति कथमप्रत्यक्षो भविष्यति / प्रतिजाति कृत्स्नपरिसमाप्तमेव जातिवत् सादृश्यमित्यप्रत्यक्षे ऽपि गवि तत्सादृश्यविशिष्टगवयप्रत्यक्षमुपपद्यत एवेति भावऽ
SK
स्मर्यमाण्स्य चांशस्य विवेके नाप्रमाणता / श्रुतातिदेशवाक्यत्वं न चातीवोपयुज्यते // Mस्व्_५,६.१० //
SK
ये ऽपि ह्यश्रुततद्वाक्यास्तेषामपि भवत्ययम् / प्रत्यक्षदृष्टगोत्वानां वने गवयदर्शिनाम् // Mस्व्_५,६.११ //
SK
अथ संज्ञानुसन्धानं तेषां नास्तीति वर्ण्यते / न नाम्, वस्तु तत्तावत् सर्वथा तैऽ प्रतीयते // Mस्व्_५,६.१२ //
SK
न च शब्दार्थसम्बन्धऽ प्रमेयो ऽत्र तदेष्यते / सादृश्यावधृते वाक्ये वाक्यादवगतो ह्यसौ // Mस्व्_५,६.१३ //
SK
न चशब्दादिस्मरणसम्बेदादप्रमाणता, गृह्यमाणस्मर्यमाणयोर्विवेकस्य सविकल्पकसिद्धौ फणितत्वादित्याह---स्मर्यमाणस्येति / विवेके सति नाप्रमाणतेत्यर्थऽ / श्रुतातिदेशवाक्यविशेषणोपादानस्यापि न फलमुपलभ्यत इत्याह--- श्रुतेति
SK
कथं नोपयुज्यते---ये ऽपीति / गोसादृश्यविशिष्टगवयदर्शनं चेदुपमानमभिमतं तदाश्रुततद्वाक्यानामपि नगरे गां दृष्टवतां वने गवयं पश्यतामस्त्येवेति मन्दं विशेषणफलमिति
SK
नन्वश्रुतातिदेशवाक्यानामयमसौ गवय इति संज्ञानुसन्धानं नास्ति, इतरेषामस्तीत्ययमस्ति विशेष इत्याह---अथति / परिहरति--- न नामेति / यदुपमानस्य प्रमेयमभिमतं तत्तावत्ते ऽपि जानन्ति / संज्ञित्वं मा नामानुसन्धीयतामिति
SK
स्यान्मतम्--- संज्ञासज्ञिसम्बन्ध एवोपमानस्य विषयऽ / यथोक्तं न्यायविस्तरे---᳚समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ᳚इति / विवृतं च---᳚यथा गौरिव गवय इत्युक्ते गवा समानार्थमिन्द्रियसन्निकर्षादुपलभमानो ऽस्य गवयशब्दऽ संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यतऽ इति / न चाश्रुतातिदेशवाक्यस्य शब्दमविदुषऽ समाख्यासम्बन्धप्रतिपत्तिऽ सम्भवतीति फल
SK
न चास्य प्रत्यभिज्ञानं पुनरुत्पद्यते वने / शक्त्योरतीन्द्रियत्वेन स्मृतिरेव हि सेष्यते // Mस्व्_५,६.१४ //
SK
शब्दानुविद्धबोधे ऽपि प्रत्यक्षमुपपादितम् / तस्मात् सादृश्ययुक्तार्थऽ प्रमेयो ऽपूर्व उच्यताम् // Mस्व्_५,६.१५ //
SK
वद्विशेषणमत आह--- न चेति / कारणमाह--- सादृश्येति / अति देशवाक्यादेव गोसादृश्येन गवयशब्दवाच्येर्ऽथेवधारिते व्यक्तिरूपेणानवगतो ऽपि शब्दार्थसम्बन्धो ऽवगत एव / एतद्धि तदावगतं गोसदृशं वस्तु गवयशब्दवाच्यमिति / एतावच्च सम्बन्धस्य स्वरूपम्, अतऽ सूक्तं विशेषणानर्थक्यमिति
SK
ननु ज्ञातस्यापि सम्बन्धस्य प्रत्यभिज्ञाने प्रामाण्यमविहतमेवात आह---न चेति / अत्र कारणमाह--- शक्त्योरिति / वाच्यवाचकशक्तिनियमो हि शब्दार्थयोऽ सम्बन्धऽ / स चातीन्द्रियत्वान्नेह प्रत्यभिज्ञायते / पूर्वावगत एवान्यूनानतिरिक्तऽ स्मर्यते / किमिदानीमतीन्द्रिये नैव प्रत्यभिज्ञानमस्ति, यद्येवमनुमानेन कथं पूर्वानुभूतमग्न्यादि प्रत्यभिज्ञायते / आह च--- ऽगृहीते ऽपि देशादिभेदभिन्ने पुनऽ प्रमाप्रत्यभिज्ञानुमानात्सात् प्रत्यक्षवदवधारिते ऽपीऽति / इहापि च वक्ष्यति--- ऽयेन नाम प्रमाणेन ग्रहणं बुद्धिकर्मणोऽऽ / इति / सत्यम् / न ब्रूमऽ परोक्षं न प्रत्यभिज्ञायत इति, यदेतदयमसौ गोसादृश्यविशिष्टो गवय इतीन्द्रियजमपरोक्षावभासं प्रत्यभिज्ञानम्--- अस्य शब्दार्थसम्बन्धऽ शक्तिरूपो न गोचरऽ / गोसादृश्येन विज्ञानतपूर्वो गवय एव तु||
SK
इति / अत एव ऽन चास्येऽति सम्बन्धस्य प्रत्यभिज्ञानविषयत्वं निराकरोति / गवयस्त्विह गोसादृश्येनावगत पूर्वऽ प्रत्यभिज्ञायत इति न किञ्चिदनुपपन्नमिति
SK
अथोच्येत (वृ?प्रत्य) क्षाद् व्यवर्तयितुं विशेषणोपादानम् / श्रुतशब्दोल्लिस्वतमिदं गवयज्ञानमतो न प्रत्यक्षस्य विषय इस्युपमानस्य भविष्यतीत्यत आह---शब्देति / शब्दानुविद्धबोधे ऽपि हीन्द्रियसम्बन्धा
SK
व्यवसायात्मकत्वं तु प्रत्यक्षस्य यदेष्यते / जात्यादिवत् तदा तेन सादृश्यं किं न मीयते // Mस्व्_५,६.१६ //
SK
प्रत्यक्षाभासमेतत्तु निर्वकल्पकवादिनाम् / प्रमेयवस्त्वभावाञ्च नाभिप्रेता प्रमाणता // Mस्व्_५,६.१७ //
SK
नुसारि ज्ञानं शब्दशक्तिपरामर्शजमेवेति प्रत्यक्षमेवेति वर्णितमित्यतो नैकत्रापि लक्षणे उपमानस्य प्रमेयमधिकं पश्याम इति वाच्यमस्यापूर्वं प्रमेयमित्युपसंहरति--- तस्मादिति
SK
यदि तूच्यते--- प्रतियोगिसापेक्षं सादृश्यग्रहणम् अतो न प्रत्यक्षम्, अर्थेन्द्रियसामर्थ्यमात्रजं हि प्रत्यक्षं ज्ञानं, न तत्पूर्वमपरं वानुसन्धत्ते / अतऽ प्रत्यक्षे ऽपि धर्मिणि परोक्षमेव सादृश्यमिति न तद्विशिष्टस्य प्रत्यक्षत्वमिति सावकाशमुपमानमित्यत आह---व्यवसायेति / बौद्धानामयं सिद्धान्तऽ--- यदविकल्पकमापातजं प्रत्यक्षमिति / नैयायिकास्तु व्यवसायात्मकप्रत्यक्षवादिनऽ / अतो जात्यादिवत्सादृश्यमपि तेषां किं न प्रत्यक्षेम प्रमीयत इति
SK
निर्विकल्पकवादिनामपि नेदं प्रमाणान्तरं,प्रत्यक्षाभासत्वादित्याह--- प्रत्यक्षेति / एवं तावत् सादृश्यस्य वस्त्वन्तरत्वमङ्गीकृत्य तत्प्रत्यक्षतयोपमानस्य विषयाभावेनाप्रामाण्यमुक्तम् / इदानीं बौद्धमतेन सादृश्यापलापमाह---प्रमेयेति / निर्विकल्पकप्रत्यक्षवादिनामपि सादृस्यप्रमेयाभावादपमानस्य प्रमाणता नाभिप्रेता / अतस्तेषु स्पर्धमानेषु कथमुपमानं प्रमाणम् / अयं च तेषामभिप्रायऽ--- सादृश्यं हि न तावदाश्रयेभ्यो भिन्नमुपलम्भात् / अभेदे चाश्रयात् तन्मात्रापातात् / कथं चाश्रयेषु वर्तते / न तावत् कार्त्स्न्येन वृत्तमन्यत्रापि तथैव वर्तत इति साम्प्रतम् / न च भागशऽ, तदभावात् / किञ्चेदं सादृश्यं न तावद् द्रव्यगुणकर्मणामन्यतमम्, पदार्थपण्डितैस्तेष्वनुपसंख्यातत्वात् / न हि नवसु द्रव्येषु चतुर्विशत्यां गुणेषु पञ्चसु वा कर्मसु सादृश्यमन्तर्गतं पश्यामऽ / न च सामान्यमेव सादृश्यं, तद्धि तद्बुद्धौ करणं, तद्वद्बुद्धिवेद्यं च सादृश्यं, तत्सादृश्ये च गोत्वादावपि तथात्वप्रसनङ्गऽ / अवयवसामान्यानि सादृश्यमिति चेद् / न / तेष्वप्यैकैकश्येनसादृश्यबुद्धेरुपजननात् / भूयांसि सादृश्यमिति चेद् / न / भूयऽ स्वप्येकत्र समाहृतेषु प्रतियोग्य(न्यतरा?) नपेक्षेषु सादृस्यबुद्धेरुपजननात् / सन्ति खलु तान्येकत्र समाहृतानि वस्तूनि, न च सादृश्यबुद्ध्या गृह्यन्ते, न ह्यनपेक्षितप्रतियोगिभेदं सदृशो ऽयमिति गां जानाति / प्रयोग्यपेक्षया सामान्यानि सादृश्यमिति चेति / किमिदानीमापेक्षिकं सादृश्यम् / बाडम् / यद्येवमपेक्षया तदभिव्यज्यते जन्यते वा / न तावज्जन्यते / द्वित्वमिवापेक्षाबुद्ध्या, सहजसिद्धत्वात् / अभिव्यञ्जकानि त्वालोकेन्द्रियादीनि सन्तीति किमन्यदपेक्षते / यदि चावयवसामान्यानि सादृश्यं, यमयोस्तु तदभावादभावप्रसङ्गऽ / तत्रापि तदभ्युपगमे तन्नाशे सामान्यनाशात् सिद्धान्तहानिऽ / चिक्षादौ च पारिणामिकानामवयवानां करशिरऽ प्रभृतीनामभावात् / सामान्याभावे सादृश्याभावऽ / एवमेव गन्धदिष्वपि प्रसङ्गो दर्शनयितव्यऽ / अवयवानां कर्णादीनामवयवान्ताभावादसादृश्यम् / अथ मतम्, सत्यं नावयवसामान्यानि सादृश्यम् / किन्तु तत्त्वान्तरमेवेदं द्रव्यजातिगुणकर्मभ्यो व्यतिरिक्तं गुणभेदो वा / यथाह गुरुऽ--- ऽन सामान्यं सादृश्यम् / किं तर्हि?तदेव तत्, गोत्वादेरकत्वाऽदिति / एवं चोपपन्नो भवति सदृशसम्भावनमेव तत्र विध्यर्थऽ श्येनचिञ्चोदनार्थऽ / श्येनव्यक्तिजात्योऽ स्वभावनिर्मितपक्षत्वग्रसमांसलोहितास्थिशिरऽ पृष्ठपादोदराद्यवयवारब्धावयविसमवायित्वेनेष्टकाभिरशक्यसम्पादनत्वात् / यदि चावयवसामान्यानि सादृश्यमिष्यन्ते ततस्तेषामिहाभावात् सादृश्यमपि दुऽ सम्पादनमिति सो ऽनारभ्योर्ऽथऽ प्रतिज्ञातो भवेत् ऽश्येनचितं चिन्वीतेऽति / एवं चानवयवेष्वपि गन्धादिषु सादृश्यसंविदुपपत्स्यत इति / तच्च नैवम् / तत्त्वान्तरे हि सादृश्ये गामनपेक्ष्यापि गवयं सदृशमिति जानीयुऽ / तत्र हि तन्निरवशेषमेव सादृश्यं परिसमाप्तमिति किमन्यदपेक्षते / कथमनपेक्षिते गवि तत्सादृश्यविशिष्टो ऽवगम्यत इति चेत् कसत्स्य गवा सम्बन्धऽ / समवाय इति चेत्, सो ऽपि तर्हि गवयवद् गोसदृशतया ज्ञातव्यऽ / अपि च समवेतं नाम तत्सादृश्यं गवयगतसादृश्यग्रहणे ऽपि किमित्यपेक्ष्यते / न हि गोत्वं शाबलेये समवेतमिति
SK
सादृश्यस्यापि वस्तुत्वं न शक्यमपबाधितुम् / भूयोवयवसामान्ययोगो जात्यन्तरस्य तत् // Mस्व्_५,६.१८ //
SK
बाहुलेये तदबोधे ऽपि तदपेक्षा दृष्टा / तथेदं गवि गवयसादृश्यमिति न तदपेक्षाहेतुरुपलभ्यत इति / अपि चापेक्षतां नाम गौऽ, दूराद् गामुपलब्धवतो(ऽ)विदितावयवसामान्यविभागस्यापि गोसदृश्यगवयज्ञानं भवेत् / अवयवसामान्यान्यपि तद्बोधे ऽप्यपेक्ष्यन्त इति चेत् / वक्तव्यो ऽपेक्षार्थऽ / यदि मतम्, अभिव्यञ्जकानि तस्यावयवसामान्यानीति, तानि तर्हि गवयवर्तीनि तस्याभिव्यञ्जकानि, सन्ति च तानि गवे(?वि) इति किं गोगतद्वेदनेन, अतो गव्यवगते ऽनवगतेषु चावयवसामान्येषु गोसादृश्यज्ञानं जायेत / जात्योर्हि तत्सादृश्यम्, अवगते च ते इति किमन्यदपेक्ष्यते / यञ्चेदमवयवसामान्यानां बाहुल्ये सदृशत्वम्, इदं च न स्यादर्थान्तरत्वे सादृश्यस्य सर्वत्र तावत्त्वात् / स्यान्मतम्, व्यञ्जकानि तानि तस्य / भवति चाभिव्यञ्जकप्रकर्षे ऽभिव्यङ्ग्यबुद्धिप्रकर्षऽ / यथा घटादौ तद्वदिहापि भविष्यतीति / तन्न / न हि बुद्धिमात्रमत्र प्रकृष्यते / अपि तर्हि वस्त्वेव सातिशयमुपालभामहे / अत एव मुख्यापचारे सदृशोपादित्सयासुसदृशं प्रतिनिधीयते / न मन्दसदृशमित्येतदपि यत्किञ्चित् / अतऽ कल्पनामात्रकल्पितं द्विचन्द्रालातचक्रादिवद् भ्रान्तिकरणं सादृश्यं न प्रामाणिकमिति / प्रमेयाभावादपि नोपमानाङ्गमन्यद् वा सदृश्ये प्रमाणमित्यापेक्ष इति
SK
अत्र समाधिमाह---सादृश्यस्येति / अयमभिप्रायऽ--- नेदं कल्पनामात्रकल्पितं, मिथ्यात्वहेतुद्वयासम्भवात् / द्विचन्द्रादिप्रत्यया हि कुतश्चिद्दोषादुत्पन्नाऽ कालादिभेदेषु बाध्यन्ते / सादृश्यं तु जात्यादिवतत्सत्यमेवं सादृश्यमपीति किमपह्नूयते / तदिदमवगतमसंशयितमवाधितं च देशान्तरादिष्वपीत्यस्ति तावत् सादृश्यं, प्रमाणबलेन यथा तदुपपद्यते तथा कल्पनीयम् / न हि दृष्टे ऽनुपपन्नं नाम किञ्चिदस्तीति||
SK
तत्र यत्तावदुक्तं किमस्य स्वरूपमिति / तत्रोत्तरमाह---भूयोवयवेति / अस्यार्थऽ--- भूयोभिरवयवसामान्यैर्यो जात्यन्तरस्य योगऽ तत् सादृश्यम् / जात्यन्तरावयवसामान्यग्रहममुपलक्षणार्थम्, व्यक्तिसादृश्यमपि यमादिषु दृष्टमेव / एवमवयवसामान्यैर्विनापि गुणकर्मादिसामान्ययोगेनापि सादृश्यं दृष्टमेव,यथा चित्रादिषु / एतेन यदुक्तं चित्रादौ कथं सादृश्यमिति तत् परिहृतम् / एवमग्नावपि संस्थानपरिमाणसामान्यं दर्शयितव्यम् / यमयोस्त्ववयवसामान्याभ्युपगमे यानुपपत्तिरुक्ता, असौ परिहरिष्यत एव / गुणानां त्वसत्यप्यवयवसामान्ये ऽवयवगुणसामान्यमेवावयविगुणानां सादृश्यम्,अवयवसामान्यस्योपलक्षणार्थत्वादिति / तत्त्वान्तरवादिनां चेदमाश्रयपारतन्त्र्याद् गुणान्तर्गतमेवास्थेयम् / न पञ्चममलौकिकत्वात् / जातिद्रव्यगुणक्रियाऽ पदार्था इति लोकसिद्धम् / अतो ऽस्य गुणस्य सतो गुमकर्मणोरनुपपन्न एव समवायऽ / अथ द्रव्यसमवेतमेव गुणकर्मणी अपि सदृशतया बोधयति, एकार्थसमवायात् / यति, एकार्थसमवेतसमवायादित्युच्यते / न / द्रव्यसमवाये प्रमाणाभावात्, अवयवसामान्यानि हि कर्णादीनि व्यक्तिसमवेतानि प्रत्यक्षाणि / सादृश्यं तु सदृशबुद्ध्या ग्रहीतव्यम् / न च गन्धादिसदृशं द्रव्यमिति अतो ऽवयवसामान्यमेव सादृश्यमिति / नन्वेकत्रैव भूयसामवयवसामान्यानामुपलम्भात् सादृश्यबोधप्रसक्तिरित्युक्तम्, परिहृतमिदं जात्यन्तरस्येति वदता / जात्यन्तरसमवायिनां जात्यन्तरे समवायात् सादृश्यम्, न स्वरूपमात्रम्, न च भूयस्त्वम् / एतञ्चोपरिष्टाद् विवरिष्यत एव / अतो जात्यन्तरग्रहणमपेक्षितव्यम् / यत्तु न तेन तज्जन्यत इति / सत्यम् / अभिव्यज्यते तु तत् / यथोक्तम्--- सामान्यानि च भूयांसि गुणावयवकर्मणाम् / भिन्नप्रधानसामान्यव्यक्तं सादृश्यमुच्यते||
SK
इति / यद्धि यस्योपलब्धौ निमित्तं, तत्तदभिव्यञ्जकम् / अत एकैकत्रापि स्वरूपमात्रेण सामान्यानि गम्यन्त एव / जात्यन्तरसमवायात्मना
SK
सदृशावयवत्वं तु यत्र पद्मदलाक्षिवत् / तत् स्वावयवसामान्यभूम्ना तेषां भविष्यति // Mस्व्_५,६.१९ //
SK
एवं जातिगुणद्रव्यक्रियाशक्तिस्वधर्मतऽ / तु तानि सादृश्यम्, समवायात्मा च नाप्रतिसंहिते जात्यन्तरे ऽभिव्यक्तो भवतीति युक्तैव तदपेक्षा / न च यदर्थान्तरापेक्षप्रतिभासं तदवस्तु भवति / न हि देवदत्तस्य पितृत्वं पुत्रापेक्षा प्रतीयत इति, तदवस्तु / अतऽ आपेक्षिकाण्येवञ्जातीयकानि न चालयितुं शक्यन्ते / अत एवावयवसामान्यप्रचयाप्रचययोऽ सुसदृशादिबोधोपपत्तिऽ / अतऽ सिद्धं जातिव्यक्त्यन्तरावच्छिन्नानि गुणावयवादिसामान्यानि सादृश्यमिति
SK
ननु पद्मदलाक्षीयमङ्गनेति पद्मावयवेन दलेनाङ्गनायाश्चक्षुरुपमीयते, यदि चावयवसामान्यं सादृश्यं, न तदिह सम्भवति, स्वयमेवावयवत्वात्, न हि चक्षुषश्चक्षुराद्यवयवान्तरमस्ति / अत आह---सदृशेति / नावश्यं महावयविनो यो ऽवयवस्तत्सामान्यं सादृश्यम् / अवयवसामान्यानि तु सादृश्यमित्युक्तम् / तञ्चावयवानामपि चक्षुरादीनां स्वावयवसामान्यभूम्ना सम्भवत्येवेति युक्तो ऽङ्गनादीनां सदृशावयवबोध इत्याह
SK
अस्तु तावदवयवेष्ववान्तरावयवसामान्ययोगात् सादृश्यम्, विनापि तु तानि तत्र तत्र सदृशबोधो दृष्टऽ / स कथमुपपद्यते अत आह---एवमिति / नेदमवयवसामान्यग्रहणं तन्त्रम् / यदेव तु किञ्चिद् गुणादिसामान्यं सदृशधियमुपजनयति तदेव सादृश्यमतो नात्रैकरूप्यमेव / विचित्रता तु सादृश्यस्य यथादर्शनमङ्गीकर्तव्यम् / तद् यथा--- जातिसादृश्यम् ऽअग्निर्वै ब्राह्मणऽ इति, अग्निसदृश इत्यर्थऽ / किमनयोऽ सादृश्यम्, एकस्माद् ब्रह्मणो मुखाज्जातीरुत्पत्तिरित्यर्थऽ / इदं च तत्सिद्धिसूत्रे वक्ष्यते / कुतऽ पुनरनयोऽ समानाभिजननत्वमवगम्यते / श्रुतेऽ / एवं ह्याह--- ऽप्रजापतिर्मुखतस्त्रिवृतं छन्दसां निरमिमीत अग्निं देवतानां ब्राह्मणं मनुष्याणामिऽति / लोके च समानाभिजननयोर्दर्शयितव्यम् / गुणसामान्यं तु चित्रादौ सुप्रकाशमेव लोके, वेदे च ऽआदित्यो यूपऽ इति /
SK
एकैकद्वित्रिसामस्त्यभेदादेतस्य चित्रता // Mस्व्_५,६.२० //
SK
न धर्मा एव सादृश्यं भूयस्ता वा तदाश्रया / भूयस्त्ववद्धि जात्यादि सदृशत्वेन दृश्यते // Mस्व्_५,६.२१ //
SK
द्रव्यसादृश्यं समालङ्कारधारिणोर्लोके, वेदे च ᳚लोहितोप्णीषा ऋत्विजऽ प्रचरन्तीति᳚ / क्रियासादृश्यमध्ययनादिसामान्याल्लोके, वेदे च यज्ञविहङ्गमयोर्निपत्यादानसामान्यात् / एवं ह्याह---᳚यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते᳚इति / शक्तिसादृश्यं तु भीमो मल्ल इति लोके, वेदे च सोमपूतीकयोऽ / अवगम्यते हि पूतीकानां सामशक्तिरर्थवादात् / तत्कार्यत्वेनावगमात् / कार्यस्य चकारणानुविधायिशक्तिकत्वात् / उक्तं च---᳚सोमस्य य्ॐऽशऽ परापतत् स पूतीको ऽभवद्᳚ इति / स्वधर्मसादृश्यं केचित् त्रिशिखाऽ केचित् पञ्चशिखा इति लोके त्रिशिखादीनामन्योन्यसादृश्यं, वेदे च वसिष्ठात्र्यादीनां नराशंसो द्वितीयऽ प्रयाज इति / धर्मनियम एव हि तत्र सादृश्यम्, प्रकृतिविकृतिकर्मणोश्च धर्मसामान्यमेव सादृश्यमित्युक्तमेव / एते च जात्यादय एकैकशो द्विशस्त्रिशऽ समस्तशश्च समाना भवन्तऽ सादृश्यस्य विचित्रतामापादयन्तीति
SK
ननु यत्र सादृश्यं समवैति तत्सदृशबुद्ध्या गृह्यते / यदि चावयवसामान्यानि सादृश्यं, तानि तर्ह्यवयवेषु समवयन्तीति तेष्वेव सदृशधियं जनयेयुऽ / अथ तेषां भूयसस्ता, सा चावयवसामान्येष्विति तान्येव सदृशानि स्युऽ / कथं जात्यन्तरे सदृशबुद्धिरत आह---न धर्मा इति / सत्यम् / अत एव हेतोर्न ध्माख्यावयवसामान्यानि तदभूयस्ता वा सादृश्यं, तेषु सादृस्यबुद्ध्यनुत्पत्तेऽ / यदेव हि तेषां भूयस्तया युक्तं जात्यन्तरं गवयादि व्यक्त्यन्तरं वाग्नेयसौर्यादि, तदेव सदृशबुद्ध्या गृह्यते / अतो जात्यन्तरसमवाय एव तेषां सादृश्यम् / स्वरूपतस्त्वेकैकशस्तानि सामान्यानि प्रदानसामान्यवदेकत्वबुद्धिनिबन्धनमेव / पिण्डितानि तु जात्यन्तरसमवायोपहितानि सादृश्यम्, अयं च भूयो ऽवयवसामान्येत्यस्यैव / प्रपञ्च इति
SK
यमयोऽ कथमेतञ्चेद् दृष्टत्वात् किमिहोच्यते / क्वचिद्धि भूयसामेतत् क्वचिदल्पीयसामपि // Mस्व्_५,६.२२ //
SK
नैतावता विशेषेण वस्तुत्वं तस्य हीयते / सामान्यान्यपि चैतानि नाशीन्याश्रयनाशतऽ // Mस्व्_५,६.२३ //
SK
अनन्ताश्रययोगाच्च न नाशो ऽन्यत्र विद्यते / तेन सर्वं न सामान्यं नित्यत्वेन प्रकल्प्यते // Mस्व्_५,६.२४ //
SK
अत्र चोदयति--- यमयोरिति / जात्यन्तरस्येति यावच्छ्रुतग्राहिणऽ परिचोदनमिदम्--- यदि जात्यन्तरस्य भूयो ऽवयवसामान्ययोगतऽ सादृश्यं कतं यमयोर्व्यक्तिसादृश्यमिति / इतरस्तु--- प्रदर्शनमात्रं जात्यन्तस्येति केयमत्रैवास्था, तदयमर्भको बराक इत्यपहसति--- दृष्टत्वादिति / यत्रैवं सादृश्यं दृश्यते जातौ व्यक्तौ वा, तत्रैव तदाश्रयणीयम् / किमेकत्रैवालस्थां बध्नासीति / स्यादेतत् / एकस्वभावा हि भावा जात्यादयऽ / तदिदं सादृश्यमपि तथैव युक्तम् / यदि तावदल्पवृत्तिस्वभावं व्यक्त्योरेव युक्तम्, अथ बहुवृत्तिस्वभावं ततो जात्योरेव / अर्धवैशसं त्ववस्तुतामापादयतीति, अत आह--- क्वचिद्धीति / प्रतीत्यविसंवादादुभयोपपत्तिरिति भावऽ
SK
ननु सामान्यानि सादृश्यं, तानि च व्यक्तिनाशेन नश्येयुऽ / अतो नित्यं सामान्यमिति सिद्धान्तहानिरत आह---सामान्यानीति / एतानि तावन्नाशीनि भवन्तु , सामान्यान्तराणि गोत्वादीनि नित्यान्येवेति न कश्चिल्लोकविरोध इति
SK
कऽ पुनऽ सामान्यान्तरेषु विशेषऽ,अत आह---अनन्तेति / अनन्तो हि गोत्वादीनामाश्रयऽ / तदेकस्य नाशे ऽप्याश्रयान्तरे प्रत्यभिज्ञानान्नैकान्तिको नाश इति / नित्यसामान्यवादो ऽपि न नऽ सार्वत्रिक इत्याह---तेनेति /
SK
सामान्यस्य न वा नाशऽ क्वचिदभ्युपगम्यते / सर्वस्य ह्याश्रयऽ कश्चिदस्ति देशान्तरादिषु // Mस्व्_५,६.२५ //
SK
तेषां भूयस्तया चेदं सादृश्यमतिरिच्येत / तानि व्यस्तानि सन्त्येवं प्रत्यक्षे ऽपि क्वचित् क्वचित् // Mस्व्_५,६.२६ //
SK
सादृशावयवत्वं तु यत्र नाम प्रतीयते / तदप्यवयवानां स्यात् समानावयवान्तरैऽ // Mस्व्_५,६.२७ //
SK
एवं तावद् यतो नास्ति पराभेदप्रकल्पना / ततऽ परं तु सामान्यं भवेत् सादृश्यवर्जितम् // Mस्व्_५,६.२८ //
SK
प्रधानानां तु सामान्यं यत्रैकं सम्प्रतीयते /
SK
अथवावयवसामान्यानामपि नात्यन्तिको नाशो ऽस्तीत्याहि--- सामान्यस्येति / कारणमाह---सर्वस्येति
SK
यद्यस्ति तत्रापि साहश्ययधिया भवितव्यमत आह---तेषामिति / भूयस्तया तेषां साहश्यमतिरिक्तं भवति, न त्वेकैकशो न सन्तीति / न केवलं सामान्यमनश्ररमितिदेशान्तरादिष्वाश्रयसद्भावऽ कल्प्यते / अपि तु प्रत्यक्षे ऽपि क्वचिदर्थे तान्युपलभ्यन्त एवेत्याह---तानीति
SK
नन्वक्ष्यादीनां स्वावयवसामान्यभूम्ना साबश्यमुक्तं, तदवयवानां तु कथं साहश्यं भविष्यत्यत आह---अन्यथेति / द्वेधा ह्यनुपपन्नम्--- किञ्चिदनुपपन्नमेव यन्न कथञ्चिदुपपादयितुं शक्यम्, किञ्चिच्चासति कल्पने ऽनुपपन्नम् / तत्र यदेकान्तमनुपपन्नं तदुपेक्ष्यत एव / यत्तु कल्पिते क्स्मिंश्चिदुपपद्यते अन्यथा नोपपद्यते तदुपपत्तिरन्यकल्पमनयावसीयते / एवमेव हि सर्वलौकिकपरीक्षका बुध्यन्ते / न च विपर्ययो देशान्तरादिषु दृष्टऽ / अतऽ प्रमाणमेवेदम् / यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्, एवमिहापि केनचित्प्रमाणेनावगतं प्रमाणान्तरेणोत्थापितवितर्कमम् / न चात्रान्यतरत्रापि प्रामाण्ये संशयऽ, किन्तु निश्चितप्रामाण्योरेव द्वयोऽ समर्थनापेक्षामात्रं कथमिदमुभयमुपपद्यतामिति / षोडशिन इव ग्रहणाग्रहमसास्त्रयोऽ / न तत्रैकपरित्यागेनेतरदुपपादयितुं शक्यते / अतो यथा तत्र कथमिदमुभयमुपपद्यतामित्यपेक्षिते प्रयोगभेदेनोभयमुपपाद्यते, एवमिहापि प्रमाणप्रतिपन्नमुभयं निश्चितसद्भावमर्थान्तरपरिकल्पनया सम
SK
... Mस्व् ५,६.२९च्द् - Mस्व् ५,७.२९च्द् मिस्सिन्ग्!
SK
अविनाभाविता चात्र तदैव परिकल्प्यते / न प्रागवधृतेत्येवमन्यथैषा न कारणम् // Mस्व्_५,७.३० //
SK
गृहाभावबहिर्भाव.उ न च दृष्टौ नियोगतऽ / साहित्ये तु प्रमाणं च तयोरन्यन्न विद्यते // Mस्व्_५,७.३१ //
SK
अन्यथानुपपत्त्यैव ह्येकेनान्यत् प्रतीयते / तथा न कल्प्यते तच्चेत् साहित्यं न प्रतीयते // Mस्व्_५,७.३२ //
SK
अर्थ्यते / ताद्रूप्येणैव प्रतिभानात् / विलक्षणानि हि प्रमाणानि विलक्षणसामग्रीकाणि / अत एव परस्परतो भिद्यन्ते / अप्रामाण्यकारणानि च संशयविपर्ययावज्ञानं वा, तच्चार्थापत्तावपि नास्तीति कथमप्रमाणता / कथमज्ञातसम्बन्धात् प्रतीतिऽ प्रमाममिति चेत् / न सम्बन्धऽ प्रामाण्ये कारणम्, अपि तु बाधविरहऽ / स चेहाप्यविशिष्ट इति न कश्चिद् दोषोर्ऽथापत्तावस्माकं प्रतिभातीति
SK
ननु गृहाभावो नान्तरेण बहिर्भावमुपपद्यते अतो नान्तरीयकऽ, नान्तरीयकाच्च यदर्थान्तरज्ञानं तदनुमानम्, अतो ऽनुमानमेवेदं बहिर्भावज्ञानमत आह----अविनेति / अयमभिप्रायऽ--- नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानमिति केचित् पठन्ति, तेषामपि तद्विदो नान्तरीयकताविद एव नान्तरीयकदर्शनमनुमानमभिप्रेतम्, न चेह नान्तरेण बहिर्भावं गृहाभावो भवतीति प्रागवगतम्, तदैव ह्यर्थापत्त्या बहिर्भावं परिकल्प्यायमनेन विना न भवतीत्यविनाभाविता कल्प्यते / अतऽ सा स्वरूपसत्यपि न पूर्वमवगतेति न ज्ञानोत्पत्तौ कारणमिति
SK
नन्ववगतसम्बन्धस्य तर्ह्यनुमानं स्यादत आह---गृहाभावेतितान्तेन / न तावदन्नियमेन सर्वैरेव द्वयोऽ साहित्यमवगतम्, अविदितसाहित्यस्य तावत् सिद्धं प्रमाणान्तरमित्यभिप्रायऽ / येनापि तयोऽ साहित्यमवगतं तस्यापि नागृहीतयोस्तयोऽ साहित्यग्रहऽ सम्भवति, न च तयोरेकग्रहणे ऽपरदर्शनमर्थापत्त्या विना सम्भवति / अन्यथानुपपपत्त्यैव त्वेकेन गृहाभावेन
SK
तेन सम्बन्धवेलायां सम्बन्ध्यन्यतरो ध्रुवम् / अर्थापत्त्यावगन्तव्यऽ पश्चाद(स्त्य?स्त्व) नुमानता // Mस्व्_५,७.३३ //
SK
गृहद्वारि स्थितो यस्तु बहिर्भावं प्रकल्पयेत् / यदैकस्मिन्नयं देशे न तदान्यत्र विद्यते // Mस्व्_५,७.३४ //
SK
तदाप्यविद्यमानत्वं न सर्वत्र प्रतीयते / न चैकदेशे नास्तित्वाद् व्याप्तिर्हेतोर्भविष्यति // Mस्व्_५,७.३५ //
SK
नन्वत्राविद्यमानत्वं गम्यते ऽनुपलब्धितऽ / सा चाप्रयत्नसाध्यत्वादेकस्थस्यैव सिध्यति // Mस्व्_५,७.३६ //
SK
बहिर्भावेन वा तयोरेकऽ प्रत्येतव्यऽ / एवं चाकल्प्य्माने ऽन्यतरस्य सम्ब्नधिनो ऽगृहीतत्वात् साहित्यप्रतीतिरेव न स्यात्, अतऽ साहित्यार्थमर्थापत्तिरर्थनीयेति सिद्धं प्रमाणान्तरमित्यभिप्रायेणाह--- प्रमाणं चेति प्रतीयते ऽन्तेन / अभिप्रायं विवृणोति--- तेनेति ||३१-३२||
SK
ननु च नावश्यमर्थापत्त्यैवान्यतरऽ सम्बन्धी ग्रहीतव्यऽ, शक्यते हि गृहद्वारावस्थितेनाभावप्रत्यक्षाभ्यामुभयं विदित्वा सम्बन्धो ऽनुभवितुम्, तथा विदितसम्बन्धाच्च गृहाभावाद् बहिर्भावानुमानमित्याशङ्कते तावत्--- गृहद्वारीति ||३४ ||अत्रोत्तरमाह--- तदापीति / अयमभिप्रायऽ--- सिध्यत्येवं गृहाभावाद् बहिर्भावानुमानम्, न पुनरेवमेव सर्वेषामवगतिऽ, अगृहीतसम्बन्धानामपि प्रतीतिभावात् / एषो ऽपि च प्रकारो नैकत्र भावेन सर्वत्राभावावगमे सम्भवति, न हि जगदभावेनैकत्र भावो ऽन्वितऽ शक्यो ऽवगन्तुम् / जगदभावस्य प्रत्येतुशक्यत्वादित्यभिप्रायऽ / नन्वेवं तदावगतं यदायमेकत्र भवति तदा परत्र तत्समीपे न भवतीति / एवं च विदितव्याप्तेरेकदेशभाने सर्वत्राबावानुमानं भविष्यति / अत आह--- न चेति / न ह्येकदेशनास्तितया त्रैलोक्याभावेन हेतोर्व्याप्तिऽ सिध्यतीति
SK
किंपुनर्जगदभावेन सम्बन्धो नावगम्यते, तस्यानवगतेरिति चेद्, नन्वनुपलब्धिरभावावगमे कारणम्, यथा चैकत्र सन् देवदत्तो देशान्तरे
SK
नैतयानुपलब्ध्यात्र वस्त्वभावऽ प्रतीयते / तद्देशागमनात् सा हि दूरस्थेष्वस्ति सत्स्वपि // Mस्व्_५,७.३७ //
SK
गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते / ततो ऽन्यकारणाभावादसन्नित्यवगम्यते // Mस्व्_५,७.३८ //
SK
ननु चाग्न्याद्यभावे ऽपि धूमादिव्यतिरेकिणाम् / तद्देशागमनात् स्पष्टो व्यतिरेको न सिध्यति // Mस्व्_५,७.३९ //
SK
ऽनुपलभ्यमानो नास्तीति निश्चीयते / एवमेकत्र सन् सर्वत्र नोपलभ्यत इति सर्वत्रैव नास्तीति शक्यमवगन्तुम् / न हि दर्शनवददर्शनमपि प्रयत्नमपेक्षते, दर्शनं हि कार्यं स्वकारणर्थेन्द्रियसन्निकर्षाद्यपेक्षमाणमेकत्र सतो न सर्वत्र सम्भवति, दर्शनाभावस्तु न किञ्चिदपेक्षत इति चोदयति---नन्वत्रेति / अत्रेत्येकदेशं परामृशति / अत्र खल्वेकदेशे ऽनुपलब्धितो ऽविद्यमानत्वमवगम्यते / तच्च सर्वत्रापि समानमिति
SK
अत्र परिहारमाह----नैतयेति / किमिति न प्रतीयते अत आह--- तद्देशेति / उपलब्धियोग्यस्य ह्यनुपलब्धिरभावं व्यवस्थापयति, दूरस्थेषु त्वयोग्यत्वादेव सत्स्वप्यनुपलब्धिऽ सम्भवतीति नाभावनिश्चय इति
SK
यदितु सर्वग्रामनगरसरित्कान्तारादिदेशाऽ प्राप्ताऽ भवेयुऽ, एवं चैत्रस्य तेष्वभावऽ शक्यावगमऽ, न चेदं शक्यकरणमित्यभिप्रायेणाह---गत्वा गत्वेति
SK
अत्र चोदयति---ननु चेति / अयमभिप्रायऽ--- न तावद् विपक्षादव्यावृत्तो हेतुर्गमकऽ, न च सर्वे विपक्षा गत्वोपलब्धुं शक्यन्ते, अतो ऽवश्यमेकदेशस्थस्यैवानुपलब्ध्या विपक्षाद् हेतोर्व्यतिरेको ग्रहीतव्यऽ / तद्वदिहापि भविष्यतीति / धूमादयश्च ते व्यतिरेकिणश्चेति धूमादिव्यतिरेकिणऽ / अग्न्याद्यभावे ये व्यतिरेकिणो धूमादयस्तेषामग्न्याद्यभावदेशागमनाद् व्यतिरेको न सिध्यतीति
SK
यस्य वस्त्वन्तराभावऽ प्रमेयस्तस्य दुष्यति / मम त्वदृष्टमात्रेण गमकऽ सहचारिणऽ // Mस्व्_५,७.४० //
SK
नन्वेवमितरत्रापि सम्बन्धो ऽनुपलब्धितऽ / चैत्राभावस्य भावेन दृष्टत्वादुपपद्यते // Mस्व्_५,७.४१ //
SK
साहित्ये मितदेशत्वात् प्रसिद्धे चाग्निधूमयोऽ / व्यतिरेकस्य चादृष्टेर्गमगत्वं प्रकल्प्यते // Mस्व्_५,७.४२ //
SK
परिहरति---यस्येति / व्यतिरकेप्रधानवादिनो हि बौद्धस्यासति विपक्षाद् व्यतिरेकग्रहणे न हेतुर्गमको भवति, वस्त्वन्तराभावो हि तस्य प्रमेयऽ, अग्न्यादेर्वस्तुनो / अन्यस्यानग्न्यादेरभाव इति यावत् / स हि सर्वानग्निव्यतिरेकमन्तरेण न सम्भवति, मम तु सहचारिणो हेतुर्गमकऽ, अन्वयमात्रनियमेन / स च विपक्षादर्शनमात्रेण द्वित्रैरेव दर्शनैऽ सिध्यतीति ||४० ||नन्वन्वयवादिनो ऽप्यजातातिवृत्तकप्रत्युत्पन्नानन्तदेशवर्तिवह्निसहचरितधूमदर्शनं दुर्लभमेव / अथ कतिपयाग्निसाहित्यदर्शनादेवासहितावगता अपि वह्नयो ऽनुमीयन्ते, एवं तर्हीहापि चैत्राभावस्य जगदवर्तिन एकदेशभावेन सम्बन्ध उपपद्यत एव / अत्रापि ह्येकत्र चैत्रे भवति कतिपयेषु तदभावो दृष्ट एव, तावता च सर्वत्राभावो ऽवुमास्यत इत्याह--- नन्वेवमिति
SK
अत्र परिहारमाह---साहित्यैति / अयमभिप्रायऽ--- न हि नो व्यक्तिविषयमनुमानम्, अपि तर्ह्याकृतिविषयम्, आकृत्योश्च प्रतिव्यक्तिकृत्स्नसमवायात्सुलभमेव साहित्यदर्शनम्, सकृद्दर्शनेनैव ह्याकृत्योऽ साहित्यमवगम्यते / अत एव द्वित्रादिदर्शनमपि व्यभिचाराशङ्कायां नियमार्थमभ्यर्थ्यते / अवगते हि साहित्ये भवति शङ्का--- किमयमौपाधिकऽ संसर्गो धूमस्याग्निना सह आहोस्वित् सहज एवेति, तत्रासकृद्दर्शने ऽन्वयाव्यभिचारादुपाध्यन्तरप्रवेशकारणाभावात्स्वाभाविको ऽस्याग्निनान्वय इति भवति मतिऽ / अग्नेस्तु प्रथममवगतसम्बन्धस्यापि धूमेन दर्शनान्तरे व्यभिचारदर्शनादार्द्रेन्धनादिरुपाधिरनुप्रविशति / नच देशादिभेदे व्यभिचारा शङ्का, सकृद्दर्शनावधारितसाहचर्ययोर्हि द्वयोरप्यग्नेस्तावद् व्यभिचारो दृष्टो
SK
इह साहित्यमेवेदमेकस्य सहभाविनऽ / अनन्तदेशवर्तित्वान्न तावदुपपद्यते // Mस्व्_५,७.४३ //
SK
ननु देशान्तरं शून्यं चैत्रेणैवं प्रतीयते / तद्देशव्यतिरिक्तत्वात्समीपस्थितदेशवत् // Mस्व्_५,७.४४ //
SK
विरुद्धाव्यभिचारित्वं तद्वदेव हि गम्यते / समीपदेशभिन्नत्वाच्चैत्राधिष्ठितदेशवत् // Mस्व्_५,७.४५ //
SK
पुरुषस्य तु कार्त्स्न्येन यदेकत्रोपलम्भनम् /
SK
द्वित्रादिदर्शनेनैव,तद् यदिधूमो ऽप्यग्निं व्यभिचरेत्, अस्यापि हि द्वित्रिचतुरैरेव दर्शनैर्व्यभिचारो दृश्येत, न च दृश्यते / अतो ऽग्न्यन्वितस्वभावो ऽयमिति निश्चीयते / यस्य त्वेवमप्यनाश्वासऽ / तस्य सर्वप्रमाणेष्वेव क्वचिद् व्यभिचारदर्शनादनाश्वासऽ स्यात् / विपक्षव्यतिरेको ऽपि चैवमर्थादेव सिद्धो भवति / स हि प्रथममन्विच्छतो विपक्षदेशानामनन्तत्वाद् दुर्लभो भवति / स्वभावनियमे तु ज्ञाते स्वभावस्याव्यभिचारात् सुलभो व्यतिरेकऽ / न हि स्वाभाविकमुष्णत्वमन्तरेण क्वचित् कदाचिदग्निर्भवतीति कश्चिदाशङ्कते / मितदेशत्वादिति / परिमितदेशत्वादित्यर्थऽ
SK
एकदेशभावजगदभावयोस्तु नैवं साहित्यज्ञानं भवतीत्याह--- इहेति / एको ह्यत्र सर्वत्राभावऽ सहभावयनन्तदेशवर्ती, न त्वग्निधूमाकृतिवत् परिमितदेशऽ, अतो ऽत्र दुर्ग्रहं साहित्यमिति
SK
अत्र चोदयति---नन्विति / अनुमानेन देशान्तराभावश्चैत्रस्य प्रतीयते / एवं ह्यनुमास्यते / परोक्षाऽ सर्वभूमयश्चैत्राभावसम्बन्धाऽ, तदाक्रान्तदेशव्यतिरेकित्वात् स्थितचैत्रदेशममीपवदिति
SK
परिहरति---विरुद्धेति / कथं हि विरुद्धाव्यभिचारित्वमत आह--- तद्वदिति / तद्वच्चैत्रवद्देशान्तरमिति / अतोर्ऽथापत्त्यैव सर्वत्राभावो ऽवगन्तव्यऽ, नान्या गतिरस्ति
SK
तथातु तं गृहीत्वासाहित्यग्रहणपुरऽ सरं यद्यनुमानमिष्यते तदर्थापत्तिपूर्वकम्, एतावता च सिद्धमर्थापत्तेऽ प्रामाण्यमित्यभिप्रायेणाह--- पुरुष
SK
तस्यान्यथा न सिद्धिऽ स्यादित्यन्येष्वस्य नास्तिता // Mस्व्_५,७.४६ //
SK
तेनार्थापत्तिपूर्वत्वमत्र यत्र च कारणे / कार्यदर्शनतऽ शक्तेरस्तित्वं सम्प्रतीयते // Mस्व्_५,७.४७ //
SK
स्येत्यत्रान्तेन / यस्तु वदति--- स्वात्मनस्तावदेकत्र सतऽ सर्वत्राभावेन सम्बन्धो दृष्टऽ अतो ऽन्यस्याप्यनुमिनोतीति / स वक्तव्यऽ स्वात्मन एव सर्वत्रासत्ता कथमवगम्यते, यद्यभावेन, कस्येति वक्तव्यम्, न तावत्प्रत्यक्षस्य निवृत्त्या दूरदेशेष्वभावऽ शक्यते ऽवगन्तुम्, दूरत्वादेव तेषामनुपलब्धियोग्यत्वान्न स्वात्मनो ऽभावस्तेषु शक्यते ऽवगन्तुम् / अथ तत्र सतो दूरस्थत्वमेव न स्यात्, अतऽ सहैव देशान्तरे स्वशरीरमुपलब्धियोग्यं भवति, योग्यत्वाच्चोपलभ्येत्, यो हि यत्र भवति तस्य सहैवाधारेणात्मोपलब्धियोग्यो भवति, न चेह तथा, अतो न देशान्तरेषवस्तीति / एवं चानुमानेन देशान्तराभावो ग्रहीतव्यऽ / न प्रत्यक्षाभावेन / तत्र च विरुद्धाव्यभिचारितोक्तैव--- देशान्तराणि विमतिपदानि चैत्रवन्ति चैत्रवद्देशसमीपव्यतिरिक्तदेशत्वाच्चैत्रवद्देशवदिति / यत्र च प्रतिहेतुना सन्देहऽ क्रियते तत्र बलवतान्येन सर्वत्राभावेन समर्थम् / सा ह्येवं प्रवर्तते, यदेतदेकत्र कार्त्स्न्येन चैत्रस्योपलम्भनं तन्नोपपद्यते, यदि देशान्तरे चैत्रो भवेत्, द्वेधा हि भावाऽ प्रादेशिका विभवश्च, विभवो ऽपि द्वेधा, सर्वव्यापिनऽ स्वाश्रयव्यापिनश्च / पूर्वे गगनादयऽ / उत्तरे जात्यादयऽ / यद्धि सर्वसंयोगिभिरनागतैरगतं सम्बध्यते, तद्विभुतया प्रसिद्धम्, तया चात्माकाशादय इति विभव इत्युच्यन्ते / न तावदाकाशवच्चैत्रऽ, एकत्र परिसमाप्तो हि परिमण्डलऽ सो ऽवगम्यते / न च यथावयवी स्वावयवेषु वर्तते तथा देशान्तरे वर्तितुमर्हति / यदि हि तस्यान्यत्र भागाऽ भवेयुऽ इह कृत्स्नो नोपलभ्येत / भवन्वान्तराले विच्छेदादन्यो भवेत् / न च जातिवद् वर्तितुमर्हति / जातिर्ह्यमूर्ता, सैकत्र नहीदं सामान्यम् / संयोगो ऽस्य देशान्तरेण सम्बन्धऽ / स च नागतस्य सम्भवति / गत्वा ह्यवं देशान्तरैऽ संयुज्यमानो दृश्यते / अत एव न विभुऽ /
SK
कार्यस्य ननु लिङ्गत्वं न सम्बन्धानपेक्षणात् / दृष्ट्वा सम्बन्धितां चैषा शक्तिर्गम्येत नान्यथा // Mस्व्_५,७.४८ //
SK
तद्दर्शने तदानीं च प्रत्यक्षादेरसम्भवात् / अर्थापत्तेऽ प्रमाणत्वं त्रैलक्षण्याद् विना भवेत् // Mस्व्_५,७.४९ //
SK
अतो ऽस्यन कथञ्चिदेकत्र सतो ऽन्यत्र सत्त्वमुपपद्यत इत्यन्यत्राभावमन्तर्भाव्य कृत्स्नबोधऽ समर्थ्यते, का पुनरत्रानुपपत्तिऽ, नात्र कृत्स्नबोधस्य केनचित् प्रतिघातो दश्यते / भावानुमानेनैव केवलं तु दुर्बले प्रतिघातहेतौ तदबाधेनैवार्थापत्तिरात्मानं लभते / दुर्बलं चेह भावानुमानं प्रतिहेतुविरुद्धत्वात् / यत्र तु तुल्यबलमुभयमेकत्रोपनिपतितं भवति, तत्रार्थान्तरकल्पनयोपपत्तिरिति न किञ्चिदनुपपन्नमिति / एवं तावदभावपूर्विकाया अर्थापत्तेरनुमानाद् भेद उक्तऽ, प्रत्यक्षपूर्विकाया भेदमिदानीं दर्शयितुं तत्प्रतिज्ञानं तावदाह--- यत्र चेति / यत्रापि दाहादिकार्यदर्शनादग्न्यादेऽ कारणस्य शक्तिरस्तीति कल्प्यते तत्राप्यर्थापत्तिरेव प्रथमा / यदि तु पश्चादनुमानं भवति भवतु / भाष्योदाहृतत्वाच्चाभावपूर्विकाया एव प्रथममनुमानाद् भेदो वर्णित इति ||४६,४७||
SK
अत्रानुमानवादिनां लिङ्गमुपन्यस्यति---कार्यस्येति / एवं हि मन्यन्ते--- द्विविधमनुमानं दृष्टस्वलक्षणविषयमदृष्टस्वलक्षमविषयं च संयोगविभागादिभ्य इव क्रियाद्यनुमानम् / कार्यं हि कारणेन सामान्यतो ज्ञातसम्बन्धमिति ततस्तत्प्रतीतिरनुमानभेवेदमिति / एतदपि दूषयति--- न सम्बन्धेति / येन ह्येकदा बीजादङ्कुरो दृष्टऽ सो ऽन्यदा तथाविधादेव पुनरनुपलभमानऽ स्वभावानुमानेन जनयितव्यो ऽनेनाङ्कुर इत्यनुमिमान एवात्रा शङ्कते कथमङ्कुरो न जायत इति, ततऽ कल्पयति--- अस्ति कश्चिद् बीजसमवायी शक्तिभेदो यद्वशात् प्राक् कार्यमासीदद्य च नास्तीति / तच्चेदमनपेक्षितसम्बन्धस्यैव पुरातनेदानीन्तनाङ्कुरदर्शनादर्शनविचारादेव ज्ञानं जायमानं कथमनुमानमिति / अपि च सम्बन्धग्रहणाधीनमेव सर्वमनुमानं न तदगृहीतयोऽ सम्बन्धिनोऽ सम्भवति / न चेह तयोरतीन्द्रिया शक्तिऽ
SK
अनुमानादभिन्नत्वान्नोक्तौ जयपराजयौ / वघ्यघातकभावेन यौ सर्पनकुलादिषु // Mस्व्_५,७.५० //
SK
पीनो दिवा न भुङ्क्ते चेत्येवमादिवचऽ श्रुतौ // Mस्व्_५,७.५१ //
SK
तामर्थगोचरां केचिदपरे शब्दगोचराम् / कल्पयन्त्यागमाच्चैनामभिन्नां प्रतिजानते // Mस्व्_५,७.५२ //
SK
प्रमाणान्तरेण शक्यते ऽनुभवितुम्, अत एव च न तद्वतो ऽपि ग्रहणं सम्भवति, अतऽ कथमगृहीतसम्बन्धात् कार्याच्छक्तितद्वतोऽ सिद्धिरिति / तदेतदाह--- दृष्टवेति / नन्ववगतं तावत् कार्यसामान्यं कारणसामान्येन व्याप्तमिति, अतस्तदनुमास्यते / सत्यम्, किन्तु शक्तिककल्पनया विना कारणाख्यैव न निवर्तते / अङ्कुरो हि बीजभावभावी व्यभिचरितभावान्तरश्च बीजकारणक इत्यवगतऽ सत्यपि तु बीजे ऽजायमानस्तदपि व्यभिचरतीति कारणावगतिरेवावसीदति, तां शक्तिकल्पनयोत्तभ्नाति / कॢप्तायां च शक्तौ कारणसम्बन्धिन्यामर्थापत्त्या यदि सम्बन्धो ऽवगम्यते तदस्तु सिद्धान्तवच्छक्तिसिद्धावर्थापत्तिऽ प्रमाणमिति / अनुमानलक्षणाद् विनार्ऽथापत्तिर्जायमाना प्रमाणान्तरमित्युपसंहरति--- अर्थापत्तेरिति
SK
वृत्त्यन्तरोदाहृतमुदाहरण दूषयति---अनुमानादिति / जयो हि पराजयेन विदितव्याप्तिरिति तमेकत्र घातके नकुले दृष्ट्वा प्रतिपक्षस्य पराजयो ऽवगम्यते / पराजयदर्शनेन प्रतिपक्षस्य जय इति / नेदमर्थापत्तावुदाहार्यमिति
SK
श्रुतार्थपत्तिरभिधास्यत इत्युक्तम्, तामिदानीमुदाहरति--- पीन इति
SK
अस्याश्च विषयं प्रत्यस्ति विवादऽ / तमेकनिर्धारणार्थमुपन्यस्यति---तामर्थेतिकल्पयन्त्यन्तेन / सर्वे चागमाबहिर्भूतामातिष्ठन्त इत्याह--- आगमाच्चेति
SK
प्रायशश्चानया वेदे व्यवाहारो व्यवस्थितऽ / सो ऽवैदिकऽ प्रसज्येत यद्येषा भिद्यते ततऽ // Mस्व्_५,७.५३ //
SK
वचनस्य श्रुतस्यैव सो ऽप्यर्थऽ कैश्चिदाश्रितऽ / तदर्थोपप्लुतस्यान्यैरिष्टो वाक्यान्तरस्य तु // Mस्व्_५,७.५४ //
SK
न तावच्छ्रूयमाणस्य वचसोर्ऽथो ऽयमिष्यते / न ह्यनेकार्थता युक्ता वाक्ये वाचकता तथा // Mस्व्_५,७.५५ //
SK
पदार्थान्वयरूपेण वाक्यार्थो हि प्रतीयते / न रात्र्यादिपदार्थश्च दिवावाक्येन गम्यते // Mस्व्_५,७.५६ //
SK
न दिवादिपदार्थानां संसर्गो रात्रिभोजनम् / न भेदो येन तद्वाक्यं तस्य स्यात् प्रतिपादकम् // Mस्व्_५,७.५७ //
SK
आगमाभेदाभ्युपगमे ऽभिप्रायमाह---प्रायशैति / फलापूर्वविध्यन्तादिसिद्धौ भूयानस्या वेदे उपयोगऽ, सर्वो ऽनागमत्वेवैदिकऽ स्यादिति
SK
आगमिकत्वे ऽप्यवान्तरविप्रतिपत्तिमुपन्यस्यति---वचनस्येति / अत्र निष्कर्षं दर्शयति---न तावदिति / कारणमाह--- न हीति / वाक्यं तावदवाचकम्, प्रगेवानेकेषामर्थानामिति
SK
यद्यवाचकं कथं वाक्यादर्थप्रतीतिरत आह---पदार्थेति / एतच्च तदभूताधिकरणे वक्ष्यत इति / ननु रात्र्यादिवाक्यार्थो यदि दिवावाक्येनानभिहितऽ पदार्थान्वयरूपेणैव स्वार्थवद् गमयिष्यते / अत आह--- न रात्र्यादीति / न हि दिवावाक्ये रात्र्यादिपदार्थाऽ सन्ति, कुतस्तत्र तेषामन्वय इति
SK
ननु दिवादिपदार्थान्वयादेव रात्र्यादिवाक्यार्थऽ प्रत्येष्यते, अत आह---न दिवादीति
SK
अन्यार्थव्यापृतत्वाच्च न द्वितीयार्थकल्पना / तस्माद् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते // Mस्व्_५,७.५८ //
SK
तस्य चागमिकत्वे ऽपि यत्तद् वाक्यं प्रतीयते / प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद् भवेत् // Mस्व्_५,७.५९ //
SK
न ह्यनुच्चारिते वाक्ये प्रत्यक्षं तावदिष्यते / नानुमानं न चेदं हि दृष्टं तेन सह क्वचित् // Mस्व्_५,७.६० //
SK
यदि त्वनुपलब्धे ऽपि सम्बन्धे लिङ्गतेष्यते / तदुच्चारणमात्रेण सर्ववाक्यमितिर्भवेत् // Mस्व्_५,७.६१ //
SK
न चार्थापत्तिगम्यानि सर्वैऽ सर्ववचांसि हि / सम्बद्धान्युपलब्धानि येन तेष्वनुमा भवेत् // Mस्व्_५,७.६२ //
SK
न ह्यनेकार्थतेति यदुक्तं तद् विवृणाति---अन्यार्थेति / अतो वाक्यान्तरस्यैवायमर्थो न दिनावाक्यस्येत्याह--- तस्मादिति
SK
एवं तावन्न मूलागमस्यायमर्थऽ, येन तु वाक्यान्तरेण बुद्धिस्थेनायमर्थो ऽवगम्यते, तस्यैव प्रत्यक्षादिषु मध्ये प्रमाणं निर्धारणीयमित्याह--- तस्येति
SK
तत्र प्रत्यक्षं तावन्न तत्सिद्धौ प्रमाणमित्याह---न हीति / अनुमानमपि तेन सम्बद्धस्य दिवावाक्यस्यादर्शनान्न सम्भवतीत्याह--- नानुमानमिति
SK
अविदितसम्बन्धे तु दिवावाक्ये लिङ्ग इष्यमाणे ऽव्यवस्थेत्याह---यदि त्विति
SK
यदि तूच्यते सम्बन्धमेवदिवावाक्यस्य रात्रिवाक्येनगृहीत्वा ततस्तदनुमास्यत इति, सिध्यत्येवम्, न तुश्रुतार्थापत्तिवेद्यानि सर्वाणि लोकवेदवाक्यानि सर्वैऽ प्रतिपादकवाक्यैऽ सम्बद्धान्यवगतानि / अतऽ कथं तेभ्यस्तान्यनुमीयन्त इत्याह---न चेति
SK
न च सत्तानुमानेन विशेषो वानुमीयते / इह वाक्यविशेषस्य सत्तैव त्ववगम्यते // Mस्व्_५,७.६३ //
SK
पूर्वसिद्धऽ स्वतन्त्रोर्ऽथऽ स्वतन्त्रेण विशेषितऽ / धर्मी धर्मविशिष्टो ऽत्र नानुमेयऽ प्रतीयते // Mस्व्_५,७.६४ //
SK
अथ श्रुतस्य वाक्यस्य मीयते तद्विशिष्टता / ततऽ पक्षो ऽभ्युपेतऽ स्यादप्रसिद्धविशेषणऽ // Mस्व्_५,७.६५ //
SK
किञ्च लिङ्गान्तराभावादेतस्य यदि लिङ्गता / प्रतिज्ञार्थैकदेशत्वं पदवत् तै प्रसज्यते // Mस्व्_५,७.६६ //
SK
तद्वदेव निराकार्या वचसोर्धर्मधर्मिता / नागृहीते हि तद्धर्मो गृहीते नानुमेयता // Mस्व्_५,७.६७ //
SK
इतश्च नानुमानमित्याह--- न चेति / केनचिद्धि सामान्यात्मना ज्ञातसम्बन्धेन विशिष्टं किञ्चिदनुमीयते न वस्तुसत्तामात्रम् / न च विशिष्टऽ, अज्ञातसम्बन्धत्वात् इह तु तदुभयं विपरीतमिति
SK
यतश्चात्र वाक्यास्वरूपमेव प्रमेयमतऽ पर्वतादिरिव पूर्वसिद्धऽ स्वतन्त्रो ऽसम्बद्धऽ केनचिदग्न्यादिनेव स्वतन्त्रेण केनचिद् विशेषितो धर्मी धर्मविशिष्टो नास्तीत्याह--- पूर्वसिद्ध इति
SK
अथ श्रुतमेव वाक्यं धर्मितयोपादायाश्रुतवाक्यविशिष्टता साध्यते ततस्तदप्रसिद्धेरप्रसिद्धविशेषणऽ पक्ष इत्याह--- अथेति
SK
अपि च श्रुते वाक्ये ऽश्रुतवाक्यविशिष्टे साध्यमाने न तावत् किञ्चिल्लिङ्गमुपलभ्यते, न चालिङ्गकनुमानं भवति, तद् यदि तदेव पुनर्लिङ्गमिष्यते ततऽ प्रतिज्ञार्थैकदेशित्वम्, यथा पदे पक्षीकृतेर्ऽथविशिष्टे साध्यमाने ऽभिहितमित्याह---किञ्चेति
SK
धर्मधर्मिभावो ऽपि दिवावाक्यरात्रिवाक्यदयोऽ शब्दार्थयोरिव निराकार्य इत्याह--- तद्वदेवेति / यथा तत्रार्थे धर्मिण्यप्रतिपन्ने न पदं तद्धर्म इत्युक्तम्, एवमिहापि नाप्रतिपन्ने रात्रिवाक्ये तद्धधर्मतया दिवा
SK
क्रियाकारकसम्बन्धादृते नास्ति तु धर्मता / अवाचकतया चैतन्न धर्मो विषयात्मना // Mस्व्_५,७.६८ //
SK
प्रतीतेर्वाचकत्वं चेत् प्रसक्तानेकशक्तिता / अनुमाविषयोत्थं तु धर्मत्वं निष्फलं भवेत् // Mस्व्_५,७.६९ //
SK
पदार्थैरपि तद्वाक्यं नासम्बन्धात् प्रतीयते / सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि // Mस्व्_५,७.७० //
SK
वाक्यं प्रतीयते / अथ तु पक्षधर्मताप्रतिपत्त्यर्थं तत् प्रथममवगतमित्युच्यते ततो ऽनुमेयाभाव इत्यभिप्रायऽ / अभिप्रायं विवृणोति--- नागृहीत इति
SK
अपि च तत्रैव पदे वर्णितम्--- न क्रियाकारकसम्बन्धादृते सम्बन्धो भवतीति / अतो यथा पदस्य न कश्चित् क्रियानिवन्धनोर्ऽथसम्बन्धो ऽस्तीति न तद्धर्म इत्युक्तम्, एवं दिवावाक्यस्यापि रात्रिवाक्यधर्मत निराकार्येत्याह---क्रियेति / न चात्र विषयविषयिभावरूपापि द्वयार्वाक्ययोऽ शब्दार्थयोरिव सम्बन्धो भवति उच्यते हि शब्देनार्थऽ, न तु वाक्यं वाक्यान्तरस्य वाचकमित्याह--- अवाचकेति / पदे त्वर्थप्रतीतिजनकत्वेन तद्विषयतामङ्गीकृत्यानुमेयाभावो दर्शितऽ / इह तु वाक्यस्यावाचकत्वात् तद्विषयत्वमेव प्रत्येतुं न शक्यते इति विशेषऽ
SK
यदि तूच्यते प्रतीयते तावद् दिवावाक्याद् रात्रिवाक्यम्, अतस्तस्यापि तद्वाचकत्वमित्यस्ति विषयविषयिलक्षणऽ सम्बन्ध इति, तत्रैकं वाक्यमनेकार्थमभ्युपगतं भवेत्, स्वार्थं हि तत्प्रतिपादयति रात्रिवाक्यमपि, न चैवं न्याय्यमित्यभिप्रायेणाह---प्रतीतेरिति / अथोच्येत--- माभूदवाचकतया त्दविषयत्वम्,तेन तु तद्वाक्यमनुमीयते, अतस्तल्लिङ्गमनुमानविषयतया लिङ्गमेव दिवावाक्यं तद्धर्मतयाभिधीयत इति / यत्तावदनुमानविषयभावादुत्थितं तद्धर्मत्वं तदनुमानस्य पूर्वसिद्धत्वान्निष्फलमित्याह--- अनुमेति
SK
एवं तावद् दिवावाक्यमलिङ्गमित्युक्तम्, तद्गतपदार्थानामप्येवमेव लिङ्गता निराकार्येत्याह---पदार्थैरिति / नन्वगृहीतसम्बन्धा एव पदार्था
SK
न तु वाक्यान्तरेणैषां विना किञ्चिन्न सिध्यति / न चाप्यन्यऽ प्रकारो ऽस्ति तेन वाक्येन सङ्गतौ // Mस्व्_५,७.७१ //
SK
अथैतद्वाचि कल्प्येत वाक्यमन्यत् तथैव च / प्रसङ्गात् तत्र दूरे ऽपि नासम्बन्धात् प्रमुच्यते // Mस्व्_५,७.७२ //
SK
ततश्च प्रथमादेव वरं ज्ञातुमसङ्गतात् / अन्वयव्यतिरेकौ च प्रतिषेध्यौ पदे यथा // Mस्व्_५,७.७३ //
SK
यथा वाक्यार्थं गमयन्ति, एवं रात्रिवाक्यमपि किं न गमयन्ति, अत आह--सामान्येति / क्रियासामान्यं कारकसामान्यं वा प्रतिपन्नमलब्धेतरेतरव्यतिषङ्गमन्यथा न सिध्यतीति तं विशेषं गमयति, यश्चासौ विशेषऽ स एव तु वाक्यार्थ इत्युच्यते इति
SK
न चैष प्रकारो रात्रिवाक्यप्रतिपादने सम्भवतीत्याह---न त्विति / यद्यपि दिवावाक्यं न रात्रिवाक्यस्य वाचकम्, तथापि कल्पयिष्यामऽ, ततश्च तत्प्रत्येष्यत इति / तदिदमाशङ्केते तावत् --- अथैतद्वाचीत्यन्यदन्तेन / अत्र दूषणमाह--- तथैवेति / अत्र तावदेवं वाक्यान्तरकल्पनायां प्रमाणमेव नास्तीति तदनादृत्य तावदनवस्थामापादयति, यदपि कल्पितं वाक्यं तदपि न रात्रिवाकय्मवगमयितुं शक्तम् / न च तदसम्बद्धमेव तस्य गमकमिति युक्तम् / पुनरपि वाक्यान्तरकल्पनायां स एव दोषऽ / एवं यदेव किञ्चिद् वाक्यं कल्पयितुमिष्यते तदेव नासम्बद्धं गमकमित्यनवस्थापत इति
SK
अथ त्वन्तिममसम्बद्धमेव गमकमिति कल्प्यते, तद् वरं प्रथमस्यैव तथाविधस्य गमक्तवं कल्पतुम्, किं वाक्यान्तरककल्पनया / नच तद्युक्तमित्यभिप्रायेणाह--- ततश्चेति / एवं तावत् पक्षधर्मत्वाद्यसम्भवेन राक्षिवाक्यस्यानुमेयत्वं निरस्तम्, अन्वयव्यतिरेकयोरपि पदवत् प्रतिषेधो दर्शयितव्य इत्याह--- अन्वयेति / नहि सत्येव रात्रिवाक्ये दिवावाक्यं
SK
श्रुतवाक्येन सादृश्यं नाश्रुतस्यास्ति किञ्चन / तस्मादनुपमानत्वमर्थस्याप्यनया दिशा // Mस्व्_५,७.७४ //
SK
उपमानत्वलिङ्गेन वाक्यं प्रति निवारिते / अर्थे ऽपि चैवमेव स्यात् तस्मात् पूर्वेष्वसम्भवऽ // Mस्व्_५,७.७५ //
SK
अतऽ श्रुतस्य वाक्यस्य यदर्थप्रतिपादनम् / तदात्मलाभ एव स्याद् विना नेत्येतदिष्यते // Mस्व्_५,७.७६ //
SK
एतदर्थाद् विना नायमित्यर्थऽ किं न कल्प्यते / वाक्यार्थवच्च किं नायमागमार्थऽ प्रतीयते // Mस्व्_५,७.७७ //
SK
नासतीत्यन्वयव्यतिरेकौ स्तऽ, तद्देशतत्कालादिसम्बन्धस्याभावात् / न च ज्ञानान्वयो ऽसत्यपि रात्रिवाक्यज्ञाने व्युत्पन्नस्य दिवावाक्यज्ञानाद्, विज्ञानोत्तरकालभाविनोश्चान्वयव्यतिरेकयोस्तदनुपयोगादित्यादिपदवद्दर्शयितव्यमित्यभिप्रायऽ
SK
एवं तावत् प्रत्यक्षानुमानागमैर्न रात्रिवाक्यं प्रतीयत इत्युक्तम्, उपमानमपि तत्र न प्रमाणमिति दर्शयति---श्रुतवाक्येति त्वमन्तेन / दिवावाक्यवच्च तदर्थेनापि न रात्रिवाक्यमुपमीयत इत्याह--- अर्थस्येति
SK
यथा च रात्रिवाक्यस्य दिवावाक्यततदर्थाभ्यामुपमानं निरस्तमेवं रात्रिवाक्यार्थस्यापि ताभ्यां निरसनीयमित्याह--- उपमानत्वेति स्यादन्तेन / उपसंहरति--- तस्मादिति
SK
अतऽ प्रमाणान्तरराभावादर्थापत्तिरेव रात्रिवाक्यावगमे शरणमित्याह---अतैति / प्रत्यक्षदृष्टं पीनत्वं भोजनप्रतिषेधेन प्रतिहन्यते, पीनत्वेन दिवाभोजनम्, अतऽ परस्परप्रतिघाताद् दिवावाक्यस्य स्वार्थप्रतिपादनमेवानुपपद्यमानं रात्रिवाक्यमनुप्रवेशयति, अतऽ तद्रात्रिवाक्यं कल्प्यत इति
SK
तामर्थविषयामिति यद्क्तं तदिदानीं दूषयितुमुपन्यस्यति---एतदर्थाद्विनेति / अयमभिप्रायऽ--- पीन्तवं हि भोजनप्रतिषेधो वा परस्परेण प्रतिहन्यते तयोश्चार्थकल्पनयैवात्मलाभऽ / पीनस्य हि दिवा निषिद्धे
SK
सविकल्पविज्ञानैऽ शब्दऽ पूर्वं प्रतीयते / लब्धप्रयोजने वाक्ये परं नागमिकं च नऽ // Mस्व्_५,७.७८ //
SK
भोजने, रात्रिभोजनेनैव पीनत्वमुपपद्यते, न रात्रिवाक्येनातोर्ऽथकल्पनैव युक्तेति / अपि च, यथा परैरभिधीयमानो ऽपि पदार्थानुपपत्त्या गम्यमानो वाक्यार्थ आगमार्थो भवति / एवं वाक्यार्थानुपपत्तिगम्यो ऽप्यर्थऽ किं नागमे ऽन्तर्भवतीत्याह--- वाक्यार्थेति
SK
प्रथमपरिचोदनां तावत् परिहरति---सविकल्पकेति / सविकल्पको हि श्रुतार्थापत्तिबोधऽ सविकल्पज्ञानानि च शब्दपुरऽ सराणि / अतऽ शब्दपर्यवसितायामर्थापत्तौ शब्दादेव सिध्यन्नर्थो नार्थापत्तेर्विषय इति / नन्वेवं सर्वप्रमाणविकल्पेषु समानमिदम्, इन्द्रियलिङ्गाभ्यामपि शब्दपुरऽ सरमेवाग्निऽ प्रतीयते, ततस्तयोरपि शब्दपर्यवसायितैव भवेत् अतस्तत्र स्मृतिस्थ एव शब्दो ऽप्रत्यायकऽ, तदिहापि समानम् / यथा हि कर्मेन्द्रियमर्थेनैव सन्निकृष्टमिति तमेव प्रकाशयति लिङ्गं चार्थेन सम्बद्धमिति त गमयति, न शब्दम्, एवमिहाप्यनुपपद्यमानोर्ऽथेनैवोपपद्यते न शब्देन / तथा च दृष्टार्थापत्तयोर्ऽथविषया एव / अत्रोच्यते / सत्यमर्थद्वारिकेव वाक्यान्तरमेवाकाङ्क्षति, यथा पदं पदान्तरम् / न हि पचतीत्युक्ते ओदनप्रत्यक्षेणाकाङ्क्षा निवर्तते, किं तर्हि ओदनमिति पदेन, एवं वाक्यमप्यनुपपद्यमानतयावगतं वाक्यान्तरमेवाकाङ्क्षति, न तु तमर्थं स्वरूपेण / अत एव निर्वापमन्त्रे ऽतिदेशाद् विकृतिं गते प्राकृतदेवताया अभावात् तत्पदनिवृत्तौ तस्य स्थाने सूर्यायेति पदमूह्यते / छेदनमन्त्रे त्विषेत्वेत्यत्र छिनद्मीति पदमध्याह्रियते / हृदयस्याग्ने ऽवद्यति अथ जिह्वाया अथ वक्षस इत्यत्रापद्यतिपदानुषङ्गऽ / न चार्थ एवानुषज्यते ऽअनुषङ्गो वाक्यसमाप्तिऽ सर्वेषु पेक्ष्यते शब्दोल्लेखेनापि गृह्यमाणऽ, किन्न्वर्थरूपेणैव, तमर्थं विकल्पयनि शब्दन्त्वस्तु नाम सन्मात्रतया / यदि तु तत्रापि शब्दो ऽपेक्ष्यते तिरश्चामर्थविकल्पो न स्यात्, स च नास्ति दृश्येत हि तेषामपि हिताहितप्राप्तिपरिहारार्थऽ प्रयत्नऽ / तृषिता हि गावस्तटाकानि गच्छन्ति, वर्षातपाभि
SK
ननु चासति सम्बन्धे सति वानवधारिते / गम्यज्ञानमिदं वाक्यं प्रसज्येताप्रमाणकम् // Mस्व्_५,७.७९ //
SK
भूताश्च तत्प्रतीकारक्षमं देशम् / अतो ऽशब्दज्ञानामप्यनुमानादिविकल्पदर्शनान्न तत्र शब्दापेक्षास्तीति निश्चीयते / श्रुतार्थापत्तिबोधस्तु तिरश्चां नास्त्येव, शब्दव्युत्पत्तिजो ह्यसौ, न च तेषामसावस्तीति प्रत्यक्षे ऽपि वर्णितम् / अन्येषामप्यव्युत्पन्नमशब्दानां श्रुतार्थापत्तिबोधो न दृश्यते / किं पुनस्तिरश्चाम् / अथो ऽन्वयव्यतिरेकाभ्यामगम्यते ऽस्ति शब्दापेक्षा श्रुतार्थापत्तौऽ / अनुमानादिषु तु संस्कारोदबोधेनावर्जनीयतयास्तु नाम शब्दस्मृतिऽ, न तु शब्दापेक्षा / अतो ऽत्र वाक्यस्यानुपपन्नस्य वाक्यान्तरमेवार्थवदुपपादकं न त्वर्थमात्रं शब्दमात्रं वा / अत एवागृहीतसम्बन्धस्यार्थमविदुषऽ श्रुते ऽप्युपपादके वाक्ये नानुपपन्नवाक्यार्थज्ञाने ऽनुपपत्तिऽ शाम्यति, प्रतिपन्नार्थस्याप्याशयकल्पना / अतो न श्रुतवाक्यस्य न्यूनताबुद्धिर्निवलब्धप्रयोजन इति / यावद्धयकृतार्थऽ शब्दस्तावद् बोधो ऽवगम्यते, स तदर्थो भवति / प्रयोजनवचनो ह्यर्थशब्दऽ / अत एव वाक्यार्थ आगमार्थो भवति / तु क्रियाकारकसंसर्गे लब्धप्रयोजनं वाक्यमिति ततऽ परमर्थान्तरमवगम्यमानं नागमिकं भवति / न हि प्रयोजनत्वावगतार्थानुपपत्त्या यदवगम्यते नासाद्यत इति युक्तं वाक्यार्थस्य पूर्वावगतस्यागमार्थात्वम् / कऽ पुनर्विशेषऽ, उच्यते / श्रुतागमार्थत्वे यदि प्रमादात् तन्नाशो भवति ततो यजुर्वेदादिविहितनाशनिमित्तं प्रायश्चितम्, इतरथा त्वविज्ञातनाशनिमित्तमिति यद्यविज्ञातो भूर्भुवऽ स्वऽ स्वाहेति महाव्याहृतीऽ समाहृत्य प्रायश्चितं समुपदिशति / श्रुतार्थापत्तिवेद्य एव हि वेदो ऽविज्ञात इत्युच्यते, स ह्यृगादीनां नान्यतमत्वेन ज्ञायत इति
SK
अत्र चोदयति---ननु चेति / न तावद् दिवावाक्यरात्रिवाक्ययोऽ सम्बन्धो ऽस्ति, सन्नपि वा न विदितऽ, न चाविदितसम्बन्धान्यदर्श
SK
सम्बन्धस्य प्रमाणत्वं स्थितं किं चेश्वराज्ञया / प्रत्यक्षस्य प्रमाणत्वं कथं वा सङ्गतेर्विना // Mस्व्_५,७.८० //
SK
अस्तीन्द्रियार्थसम्बन्धस्तत्र चेन्नानपेक्षणात् / न हि प्रत्यक्षवेलायां सर्वेणासौ निरूप्यते // Mस्व्_५,७.८१ //
SK
येनापि तु निरूप्येत पश्चादनुभवादसौ / न स्यादेव प्रमाणाङ्गमसता तुल्य एव सऽ // Mस्व्_५,७.८२ //
SK
अप्राप्यकारिणी येषां चक्षुऽ श्रोत्रे च ते यथा / तज्ज्ञानस्य प्रमाणत्वमिच्छन्त्येवं भविष्यति // Mस्व्_५,७.८३ //
SK
तस्मादसत्त्वे सत्त्वे वा सम्बन्धस्य यदेव नऽ / जायेताभङ्गुरं ज्ञान तस्यैव स्यात् प्रमाणता // Mस्व्_५,७.८४ //
SK
ने ऽन्यकल्पना युक्ता, अतिपप्रसङ्गात् / प्रतिबद्धस्वभावं हि प्रतिबन्धबलादेव प्रतिबन्धकमुपस्थापयति, अप्रतिबनधेन त्वन्यकल्पनायां न प्रतिनियमे कारणमस्ति / अतो ऽप्रमाणमेवेदं रात्रिवाक्यज्ञानमिति
SK
परिहरति---सम्बन्धस्येति / प्रभाणत्वं प्रमाकरणत्वमित्यर्थऽ / करणसाधनश्च प्रमाणशब्द इति / अकारणत्वमेव प्रामाण्ये सम्बन्धस्य दर्शयति--- प्रत्यक्षस्येति
SK
नन्विन्द्रियार्तसन्निकर्षजमेव प्रत्यक्षमतो नाकारणं प्रामाण्ये सम्बन्ध इति चोदयति---अस्तीतिचेदन्तेन / परिहरति--- नानपेक्षणादिति / अनपेक्षत्वमेव दर्शयति--- न हीति / निरूपितो हि सम्बन्धऽ प्रमाणोत्पत्तौ कारणमनुमाने, न चेह तथेति
SK
प्रत्यक्षोत्तरकालं तु निरूपणं न प्रमाणाङ्गनमित्याह---येनापीति
SK
अपि चाप्राप्यकारीन्द्रियवादिपक्षे स्वरूपसत्त्वमपि सम्बन्धस्य नास्त्येव, अतो यथा ते प्रत्यक्षज्ञानस्य प्रमाणतामिच्छन्ति, एवमिहापि भविष्यतीत्यत आह---अप्राप्येति
SK
तेनानादृत्यैव सम्बद्धमुत्पन्नमसन्दिग्धमविपरीतं च देशादिभेदे ऽपि ज्ञानं प्रमाणमितयाश्रयणीयमित्याह---तस्मादिति / जायत इत्त्यनुत्पत्तिलक्षणमप्रामाण्यं निरस्यति, अभङ्गुरमिति संशयविपर्ययाविति
SK
न चाप्यस्याऽ प्रमाणत्वे कश्चिद् विप्रतिपद्यते / भेदाभेदे विसंवादऽ कृतस्तत्र च निर्णयऽ // Mस्व्_५,७.८५ //
SK
ऋते यत्र च सम्बन्धाद् बुद्धरेव न जायते / तत्र किं क्रियतां सो ऽपि प्रामाण्ये नैव कारणम् // Mस्व्_५,७.८६ //
SK
स्मृत्या श्रुतिर्या परिकल्प्यते ऽस्मिन् लिङ्गादिभिर्या विनियोजिका च / फलादिभिर्यत् परिपूरणं च सम्बन्धदृक् तत्र न काचिदस्ति // Mस्व्_५,७.८७ //
SK
अपि चार्थापत्तिरप्रमाणित्यलौकिको विवाद इति / न हि तया प्रवर्तमानानां प्रवृत्तिऽ प्रतिहन्यते / प्रवृत्तिसामर्थ्यं च प्रामाण्यम् / अनुमानाद् भेदाभेदयोरस्ति विवादऽ, तत्र चास्माभिऽ कृतो निर्णय इत्याह---न चापीति
SK
यद्येवमनुमाने ऽपि सम्बन्धो नाङ्गमेवापद्येतात आह---ऋतैति / तत्र हि बुद्धिरेवासति सम्बन्धज्ञाने न जायत इति तदुत्पत्तौ कारणमाश्रीयत एव / प्रामाण्यं तु तत्रापि बाधविरहीदेवेति
SK
वेदोपयोगमर्थापत्तेर्दर्शयति---स्मृत्येति / भूयान् खलु वेदभागऽ श्रुतार्थापत्तिप्रमाणकऽ स तामन्तरेण न सिध्येत, यथैव हि पाठेनाभिव्यक्ता श्रुतिरात्मानं लभते, एवं श्रुतार्थापत्तिप्रमाणका हि / यदाह--- ऽयथैव पाठऽ प्रतिपत्त्युपायस्तथैव सामर्थ्यमपि श्रुतीनाम् / तेनैव चैकां न समामनन्ति सहस्रभागं तु समामनेयुऽ ||ऽ इति / यथा तावदष्टकादिविषयां मन्वादिस्मृतिमुपलभ्य तन्मूलकारणान्विच्छायामसम्भ्भवत्सु भ्रमविप्रलिप्सानुभवपुंवाक्यान्तरेषु स्मृतेऽ स्वमूलकारणमन्तरेणानुपपत्त्या श्रुतिरेव मूलतया कल्प्यते / तथा लिङ्गादिभिऽ स्वविनियोजिका श्रुतिरुपकल्प्यते---- यथा तावत् प्रकरणाम्नाते मन्त्रे स्वाध्यायविध्यध्यापिते प्रयोजनमन्तरेणानुपपद्यमाने क्रत्वपेक्षया कच सामान्यतऽ क्रतूपकारावगतौ विशेषापेक्षायां मन्त्रशक्तिनिरीक्षया यच्छक्नुयादित्युपबन्धेन शक्यार्थ
SK
तत्सर्वमित्याद्यसमञ्जसं स्यात् न चेदियं स्यादनुमानतो ऽन्या / एवंस्वभावाप्यनुमानशब्दं लभेत चेदस्ति यथेप्सितं नऽ // Mस्व्_५,७.८८ //
SK
इति अर्थापत्तिवार्त्तिकम् / विषया मन्त्रस्य विनियोजिका श्रुतिरुकल्प्यते / यथा बर्हिर्मन्त्रे ऽनेन लुनीयादिति सो ऽयं लैङ्गिको विनियोगऽ / वाक्येन तु यथा --- तस्मिन्नेव मन्त्रे दामीत्येतत् पदं लवने शक्तमिति तदेव लिङ्गे विनियुज्यते, पदान्तराणि तु तत्समभिव्याहारात्मना वाक्येनैव / प्रकरणविनोयगस्तु कदर्शपूर्णमासप्रकरणान्मातानां समिदादीनाम्, ते हि प्रयोजनाकाङ्क्षाऽ, क्रतुश्चोपकारसाकाङ्क्षऽ, तदेवमुभयाकाङ्क्षायामेभिऽ क्रतुमुपकुर्यादिति श्रुतिऽ कल्प्यत इति / स्थानविनोयोगस्तु यथा--- दर्शपूर्णमासयोरेवोपांशुयाजक्रमाधीतस्य दब्धिर्नामासीति मन्त्रस्य / तस्य चानेनोपांशायाजमुपकुर्यादिति श्रुतऽ, अध्वर्युरेतान् कुर्यादिति / अश्रुतफलेतिकर्तव्यताकेषु च कर्मसु विश्वजित्सौर्यादिषु पूरणसमर्था श्रुतिऽ कल्प्यते ऽविश्वजिता यजेत स्वर्गकामऽइति, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चमसकाम इति, आग्नेयवदितिकर्तव्येतेति / भूयानेवञ्जातीयकऽ श्रुतार्थापत्तेर्वेदोपयोगऽ / न चायमनुमानादेव सिध्यति / न ह्यत्रानुपपद्यमानस्य कल्पनीयेन सम्बन्धऽ केनचिद् दृष्टऽ / न चानपेक्षितसम्बन्धमनुमानं भवति, अतोर्ऽथापत्तरेवात्र शरणम् / सम्बन्धदृगिति / बुद्धावौपचारिको दृग्भाव इति / यदि नार्थापत्तिऽ प्रमाणमाश्रीयते सर्वमिदसमञ्जसं स्यादित्याह---तत्सर्वमिति / यदि तु लक्षणतो भिन्नापि पश्चादनुमानसामान्यादनुमानशब्देन वक्तुमिष्यते तदस्तु, सिद्धं नऽ प्रमाणान्तरमित्याह--- एवमिति||
SK
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां अर्थापत्तिपिरच्छेदऽ समाप्तऽ /
SK
अथाभावपरिच्छेदऽ / अत्र भाष्यम्--- ऽअभावे ऽपि प्रमाणभावो नास्तीत्यस्यार्थस्यासन्निकृष्टस्येऽति / किं पुनरनेन लक्ष्यते / न तावत् प्रमाणम् / नहि प्रमाणाभावेन प्रमाणं लक्ष्यत इति युक्तम् / पूर्वोक्तप्रमाणाभावो लक्षणमिति चेत् / एवं तर्हि सर्वेषां प्रमाणानां समानमिदम्, सर्वाण्यपि हि प्रमाणानीतरेतराभावरूपाणि शक्यन्ते प्रमाणाभाव इति वदितुम् / न च सर्वप्रमाणसाधारणं किञ्चिदेकं लक्षणमस्ति, यदभावेन षष्ठं लक्ष्यते / अपि च--- प्रमाणं नाम कस्यचित्प्रमेयस्य व्यवस्थापकं भवति / तदनेन किं व्यवस्थाप्यत इति न विद्मऽ / ननूक्तं नास्तीत्यस्यार्थस्यासन्निकृष्टस्येति / किमुक्तं भवति / प्रत्यक्षाद्यविषो नास्तीत्ययमर्थो ऽभावस्य प्रमेयमिति / तदयुक्तम् / नास्तीति नेदमिह प्रमीयत इत्यर्थऽ / न चाप्रमीयमाणस्य प्रमेयतेति शक्यते ऽवगन्तुम् / कस्य च प्रमाणस्य प्रमेयमिदम्, यदि प्रमाणाभावस्य / तन्न / प्रमाणाभावो हि प्रमितेरनुत्पत्तिऽ / सा च प्रमाणमित्यलौकिकमिव प्रतिभाति / यदि मतम्--- अस्ति तावन्नास्तीति बुद्धिऽ सर्वलौकिकपरीक्षकाणामविवादसिद्धा, न च बुद्धेरनालम्बनत्वं स्वांशालम्बनत्वं वेति विज्ञानवादे वर्णितमेव / अतो ऽस्या एव बुद्धेर्द्रढिम्नऽ प्रमेयमुपकल्प्यते / सो ऽभावस्य विषयऽ / तदिदं नास्तीति विज्ञानं प्रमाणं घटाद्यभावऽ प्रमेयमिति मन्यन्ते / अत एव प्रागभावादिभेदेन चतुर्धाभावं विभजन्ते / न ह्यवस्तुनो विभागऽ सम्भवति / यदि तु नाभावस्तत्त्वान्तरमिष्यते, कस्तर्हि क्षीरे दध्यभावऽ / यं प्रागभाव इत्युचक्षते / अतश्चैष दघ्नि क्षीराभावऽ, यऽ किमालम्बनमिति वक्तव्यम् / यदि भूतलमेव, तन्न / घटवत्यपि प्रसङ्गाकत् / केवलमेव भूतलमालम्बनमिति चेत् / कऽ तर्हि तत्त्वान्तरमिति सिद्धऽ प्रमेयभेदऽ, तद्भेदाच्च प्रमाणभेदऽ / न हि तत् रूपाणां भावेनैव सन्निकर्षऽ, नाभावेन / असत्यपि च तद्व्यापारे नास्तीति बुद्धेरुत्पत्तिर्दृष्टा,यथा स्वरूपमात्रदृष्टे गृहादौ देशान्तरगमने कस्यचिदभावं प्रत्यनुयुक्तेन तदैव तदभावो ऽवसीयते / तदेवमसत्यपीन्द्रियसन्निकर्षे जायमानं नास्तीति विज्ञानं नैन्द्रियकम् / न चास्य किञ्चिल्लिङ्गं जनकमस्ति / अनुपलब्धिर्लिङ्गमिति चेत् / न / अविज्ञानात् / न ह्यविज्ञातरूपं लिङ्गं लिङ्गिनमनुमापयति / न चाज्ञातसम्बन्धम् / न च तथानुपलब्धिर्ज्ञाता सत्यभावं प्रकाशयति / तस्या अप्यभावरुपत्वेनापरसजातीयपेक्षायामनवस्थापातात् / अतऽ प्रमाणान्तरमेवेदं भावानामसङ्करसिध्यर्थस्थेयम् / अस्ति च मीमांसकानां प्रसिद्धिऽ--- षष्ठं किलेदं प्रमाणमिति / अतस्तल्लक्षमार्थो ऽयं ग्रन्थ इति / तदयुक्तम् / न ह्यनेन प्रमाणं(व?ल) / ग्रन्थतो हि प्रमाणाभाव एवावसीयते न प्रमाणम्, नास्तीत्यप्युक्ते प्रमेयाभावमेव लौकिकाऽ प्रतिबुध्यन्ते न प्रमेय किञ्चित् / अतो न तावत् ग्रन्थानुगुणं प्रमाणान्तरम्, न च युक्त्या सङ्गच्छते,सिद्धस्य हि ज्ञानस्य प्रमाणमप्रमाणं वेति विचारणा युक्ता / न च भूतलोपलभ्भादन्यन्नास्तीति विज्ञानमस्ति / तदेव हि द्वेधा प्रकाशते / अनयसहितमसहितं च तत् / यदा घटादिसहितं तदुपलभ्यते तदा घटो ऽस्तीति व्यवहारऽ प्रवर्तते / तन्मात्रबोधे तु नास्तीति / न च वाच्यं सत्स्वपि सूक्ष्मेषु भावेषु तन्मात्रबोधो दृष्टऽ / अतस्तत्रापि नास्तीति प्रकाशत इति / तदेव हि द्वेधा प्रकाशते / द्वेधा हि तन्मात्रबोधऽ, दृश्ये प्रतियोगिन्यदृश्ये वा / तत्र या दृश्ये प्रतियोगिनि तन्मात्रबुद्धिऽ सैव घटादेर्नास्तित्वम् / येषामप्यभावऽ प्रमेयस्तेषामपि दृश्यादर्शनादेव नास्तीत्यभावो निश्चीयते / अतो येयं सर्ववादिसिद्धा तन्मात्रबुद्धिऽ सैव नास्तीति व्यपदिश्यते / यच्चाभावस्य कारणमिष्यते तत्तन्मात्रबुद्धेरवोभयवादिसिद्धायाऽ कारणमाश्रीयताम् / अतो यत्रैव प्राक् संसृष्टबुद्धरासीत् तत्रैव विलक्षणकारणोपनिपाते तन्मात्रबुद्धिरेव जायते न पुनर्घटाद्यभावऽ / (अवस्यं) चैतदेवाभ्युपगन्तव्यम् / अन्यथा हि नाभावो गृहीतुं शक्यते, प्रमाणाभावो हि तत्र प्रमाणम्, न चागृहीतेनं स प्रतिपादयितुं शक्यते / अस्ति हि सुषुप्तस्यापि प्रमाणा....(तऽ?भावऽ) / न च नास्तीति निश्चयऽ / अतो नागृहीतमदर्शनमभावं निश्चाययति, तदग्रहीतिरपि चाभावरूपत्वादपरेणादर्शनेनेत्येवमनवस्थापातऽ / यदि च सन्मात्रमेवादर्शनं निश्चाययति, ततो निवृत्ते ऽप्यदर्शने प्राक् देवदत्तो
SK
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते /
SK
नासीदिति प्रितपत्तिर्न स्यात् / भवति हि कदाचिदेतत् / यो यत्र न दृष्टस्तस्मिन् पुनदृश्यमान एवासत्यप्यदर्शने प्रचीनाभावज्ञानं तदसत्यदर्शने न स्यात् / अतऽ प्रचीनादर्शनविमर्शजमेव तज्ज्ञानमिति वाच्यम् / एवं च गृह्यमाणमेव तदभावं प्रकाशयति / ग्रहणे चानवस्थाप्रसङ्गऽ / तन्मात्रसंविदेव त्वदर्शनमित्याश्रीयमाणे न किञ्चिद् दुष्यति / स्वप्रकाशा हि सा फलभूता न प्रकाशान्तरमपेक्षते / अतस्तन्मात्रानुभव एव तदभावुत्वेनापदिश्यते / अतो न प्रमेयान्तरमभावऽ / न च नास्तीति ज्ञानं प्रमाणम्, भ्रमवदिति न विद्मऽ किमत्र लक्ष्यते इति / अत्राह--- किमत्र न ज्ञायते,यथोक्तं भवता ग्रन्थतस्तावत् प्रमाणाभाव एवावसीयते, केचित्किलाभावं नाम प्रमाणमातिष्ठन्ते, तन्निराकरणार्थ एवायं भाष्यकारस्य प्रयत्नऽ / कथमनेन निराक्रियते / श्रूयताम् / यदेके वदन्ति--- नास्तीत्यस्यार्थस्य असन्निकृष्टस्येति, प्रत्यक्षाद्यविषयस्याभावऽ प्रमाणमिति, तन्न, प्रमाणाभावो ह्यसौ--- प्रमाणं न भवतीत्यर्थऽ / अप्रमाणत्वे चोक्तो हेतुऽ / एतदपि नोपपद्यते / यदि ग्रन्थानुगुण्येनायमर्थो व्याख्यास्यते ततो विस्पष्टऽ प्रदेशान्तरे भाष्यविरोधऽ, एवं हि प्रमाणगता संख्या व्यवहारं भिनत्तीति प्रतिज्ञामात्रेण प्रतिपक्षनिराकरणं भवतीति साम्प्रतम् / तस्माद् व्याख्येयमेतत् / अत्राह---प्रमाणेति / अयमर्थऽ / प्रमाणलक्षणमेवेदम् / यत्तूक्तं तदभावेन कथं तल्लक्ष्यते इति / सत्यम् / न प्रमाणमात्रविवक्षया प्रमाणशब्दऽ अपि तु किमुक्तं भवति, पूर्वोक्तप्रमाणपञ्चकाभाव इति / अस्ति च पञ्चानां भावोपधानमेकम्, सर्वाणि हि भावप्रमाणानि, अतो भावप्रमाणा
SK
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता // Mस्व्_५,८.१ //
SK
भावो ऽभावप्रमाणमिति / स चोपरिष्ठाद् द्वेधा व्याकरिष्यते--- आत्मनो ऽपरिणामो वा नास्तीति वा भावज्ञानमिति / अस्ति वा भूतलमात्रोपलम्भादन्यन्नास्तीति विज्ञानम् / बाढम् / को ऽस्य विषयऽ / चतुर्धा व्यूढऽ प्रमेयाभावऽ / असति हि तस्मिन् पादविहारादिव्यवहारऽ कण्टकाद्यभावावधारण पुरऽ सरऽ सो ऽप्यभावस्यासति प्रमेयत्वे न स्यात् / यदि भूतलमात्रमत्रोपलभ्यते न कण्टकादिविवेकऽ, सत्स्वपि तेषूपलभ्यत इति नास्तीति धिया गृह्येत / बुध्यपलास्तु संविद्विरुद्ध एव / न हि भावाभावयोऽ प्रकाशो विशिष्यते / यत्तूक्तं तन्मात्रधीरेव घटो नास्तीति व्यपदिश्यत इति / तत्र न विद्मऽ किं मात्रशब्देन व्यवच्छिद्यत इति / यदि न किञ्चिद् व्यावर्तयति, अनर्थकस्तर्हि / अथ व्यावर्तयति / अस्ति तर्हि व्यावृत्तिर्विषयऽ, इतरथा सदात्व एव व्यावर्तयतीति व्यवहारो भवेत् / अयमेव संसृष्टधियस्तन्मात्रधियो विशेषऽ / यदसौ विविक्तविषया / विषयान्तरविवेकश्चाभावऽ / बुद्धिरेव विषयऽ न ततो ऽन्य इति चेत् / सा तर्हि संसर्गोपलम्भे ऽप्यस्तीति नास्तीति प्रकाशेत / अपि च यद्यत्र प्रतिषिध्यते तत्तत्र नास्तीत्युच्यते / न चेह घटो नास्तीति बुद्धिऽ प्रतिषिध्यते तत्तत्र नास्तीत्युच्यते / न चेह घटो नास्तीति बुद्धिऽ प्रतिषिध्यते, बुद्धिगोचरे हि नास्तीति शपब्दे बुद्धेरेवाभावऽ स्यात् / अथोच्यते घटो नासतीत्ययमर्थऽ--- भूतलमात्रमुपलभ्यत इति / न तावदेवं लौकिका बुध्यन्ते / अपि चैवं सूक्ष्मस्य वस्तुनऽ सदसद्भावौ प्रति जिज्ञासा न स्यात्, यद्यभावो नाम न कश्चिदस्ति, तर्हि वस्तुन्युपलब्धे को ऽयमपरऽ संशयऽ सूक्ष्मेषु केशकाटादिषु, तन्मात्रोपलम्भो हि भावान्तराणामभावऽ, स च ज्ञात एवासंशयितव्यश्च, संविदऽ स्वप्रकाशत्वात् किमपरमन्विष्यते / दृश्ये प्रतियोगिनि तन्मात्रबोधो ऽभावो नादृश्य इति चेत्, किं पु(न)रदृश्यतया, यदा बुद्धेरभावो नातिरिच्यते / यदि तत्त्वान्तरमभावो भवेत्, तदा तदवधारणे दृश्यादर्शनमुपयुज्यते / आत्मेन्द्रियमनोर्ऽथसन्निकर्षो हि ज्ञानजननकारणम्, तद् यदा सत्स्वप्यविगुणेष्विन्द्रियादिषु जिज्ञासितो ऽप्यर्थऽ प्रयत्नेनान्विष्टो न दृश्यते तदा तदभावाददर्शनमिति कल्प्यते / तदेवं दृश्यत्वसिद्ध्यर्था युक्ता सूक्षजिज्ञासा / तन्मात्रोपलम्भे त्वभावे ऽदृष्टार्थमेव दृश्यविशेषणमापद्येत / यच्चोक्तम्--- यदभावस्य कारणं तत्तन्मात्रधिम एव कल्पनालाघवादस्त्विति / तदयुक्तम् / न हि कल्पनालाघवं भवतीति प्रमाणावगतमुपेक्षितुं शक्यम् / न च यदभावस्य कारणं तत्तन्मात्रधिय इति युक्तम् / मुद्गरप्रहारादिर्ह्यभावस्य कारणम् / न च तेन तन्मात्रबोधो जन्यते / भूतलादिवस्तुरूपप्रकाशो हीन्द्रियादिकारणकऽ, नासौ घटादेरुत्सारणं प्रहरमं वापेक्षते / यत्तु नानिरूपतिमदर्शनमभावं निश्चाययति, सुषुप्ते प्रसङ्गादिति / तदयुक्तम् / न ह्यगृहीते वस्तुनि निराश्रयो ऽभावऽ प्रकाशते, क्वचिद्धि कस्यचिदभावऽ प्रतिभाति न स्वतन्त्रऽ / अत एवाह--- वस्तुरूपे न जायत इति / न च सुषुप्तस्य किञ्चित् प्रकाशते / क्व चाभावऽ परिच्छिन्द्यात् / अपि च योग्यप्रमाणानुत्पत्तिरभावं निश्चाययति, न च सुषुप्तस्य प्रमाणयोग्योर्ऽथऽ, यो न प्रकाशत इति कथमभावनिश्चयो जायते, अतो नादर्शनमगृहीतमिति सुषुप्तस्याभावो न प्राकशते, किन्तु योग्यादर्शनमेतन्न भवतीति / यच्चापि निवृत्ते ऽप्यदर्शने प्राङ्नास्तित्वं व्यपदिश्यते सम्प्रति दृश्यमानस्यापीति / तन्न / तत्र हि समानोपलम्भयोग्येषु बहुषु स्मर्यमाणेषु यदेको न स्मर्यते, तेन स्मृतिनिवृत्त्या फलतऽ प्रत्यक्षनिवृत्त्या तदबावऽ प्रतीयते स्मृत्येव भावान्तराणाम् / तदानीन्तनो ऽभावऽ स्मृतिनिवृत्तिश्च तदानीमस्त्येव / न चावगम्यते / वसत्वभावमेव तु प्राचीनमवगमयतीति नानवस्था / अतो नास्तीति ज्ञानं प्रमाणम्, अभावश्च प्रागभावादिभेदभिन्नऽ प्रमेयमिति साम्प्रतम् / तदयमर्थो भवति / यत्र पञ्च प्रमाणानि सम्भवत्प्रतिपत्तीनि यथायथं पटादेर्वस्तुनऽ सत्तां बोधयितुं न जायन्ते, तस्मिन् विषये ऽभावस्य प्रमाणता सम्भवति, तदनेन प्रमाणशब्दो ऽधिकारात् प्रमाणपञ्चके प्रयुक्त इति दर्शितम् / वस्तुरूपे न जायत इति च स्वतन्त्राभावमात्रज्ञानं न प्रमाणमिति दर्शयति / लौकिकप्रमाणलक्षणकथनाच्च यत्रैव प्रमाणानां शक्तिसम्भवस्तत्रैव तेषामनुत्पादऽ प्रमाणमभावो ऽभावावधारणे / तादृशेनैव हि लौकिका नास्तीति बुध्यन्त इति / भाष्यस्याप्ययमर्थऽ--अभावो ऽपि न लौकिका नास्तीति बुध्यन्त इति / अव्यभिचारात् / प्रमाणाभावो ह्यसन्निकृष्टेर्ऽथे ऽभावाख्ये नास्तीत्यनेन रूपेण प्रकाशमाने यां बुद्धिमुत्पादयति साभावप्रमा(णऽ?) /
SK
वस्त्त्वसङ्करसिद्धिश्च तत्प्रामाम्यसमाश्रया / क्षीरे दध्यादि यन्नास्ति प्रागभावऽ स उच्यते // Mस्व्_५,८.२ //
SK
नास्तिता पयसो दध्नि प्रध्वंसाबाव इष्यते / गवि यो ऽश्वाद्यभावस्तु सो ऽन्योन्याभाव उच्यते // Mस्व्_५,८.३ //
SK
शिरसो ऽवयवा निन्मा वृद्धिकाठिन्यवर्जिताऽ / शशशृङ्गादिरूपेण सो ऽत्यन्ताभाव उच्यते // Mस्व्_५,८.४ //
SK
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटऽ / शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तरात्मनि // Mस्व्_५,८.५ //
SK
न चैवञ्जातीयकस्य व्यभिचारऽ सम्भवतीति / व्यवहितमपि चाकाङ्क्षावशात् यां बुद्धिमुत्पादयतीति सम्बन्धनीयम् / ऽयेन यस्याभिसम्बन्धो दूरस्थेनापि तेन तत्ऽ / इति न्यायात्
SK
यत्र वस्तुसद्भावबोधार्थं योग्यप्रमाणानुदयस्तत्राभावऽ प्रमाणमित्युक्तम्,किं पुनस्तत्रानेन प्रमीयते, अभावस्तावत् स्वप्रमाणैरेव यथास्वमवगम्यते, अत आह---वस्त्वशङ्करैति ||१ १/२||
SK
वस्त्वसङ्करमेव विवृणोति--- क्षीरे दधीति सार्धद्वयेन / यो ऽयं कार्यकारणादिना परस्परविवेकश्चतुर्धा दर्शितऽ स वस्त्वङ्कर इत्याख्यायते / सो ऽभावेन प्रमीयते / शशशृङ्गादिरूपेणेति / तेन रूपेणालोच्यमानाऽ शशमूर्ध्न्यवयवा अभावऽ, स्वरूपेण तु भावा एवेति ||२-४||
SK
असति त्वभावप्रामाण्ये सर्वऽ सर्वेण सङ्कीर्यत इत्याह--- क्षीर इति द्वयेन / एवमिति / यथा क्षीरे दधि एवं दध्नि क्षीरमित्यर्थऽ / शशे शृङ्गमित्यतऽ प्रभ्तयत्यन्ताभावासिद्धौ दोषप्रसञ्जनम् / अभावप्रमाणानाश्रयमे हि (?) न शशादिषु शृङ्गादीनामात्यन्तिको ऽभावऽ सिध्यति / परिपन्थिनश्च भूतचैतन्यवादिनो न निराकर्तुं शक्यन्ते / महाभूतानां च वाय्वादीना
SK
अप्सु गन्धो रसश्चग्नौ वायौ रूपेण तौ सह / व्योम्नि संस्पर्शिता ते च न देचस्य प्रमाणता // Mस्व्_५,८.६ //
SK
न च स्याद व्यवहारो ऽयं कारणादिविभागतऽ / प्रागभावादिभेदेन नाभावो विद्यते यदि // Mस्व्_५,८.७ //
SK
न टचावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता / कार्यादीनामभावऽ को यो भावऽ कारणादिना // Mस्व्_५,८.८ //
SK
मात्यन्तिको गन्धाद्यभावो न सिध्येत् / यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिरिति ||५,६||
SK
सर्वत्र सङ्करे दोषमाह---न चेति / यो ऽयं कारणादिविभागेन लौकिकानां व्यवहारो दृश्यते, सर्वसङ्करे न स्यात्, क्षीरमानयेति नियुक्तो यत् क्षीरमेवानयति न दधि, दध्यानयने क्षीरम्, इदमसति कार्यकारणादीनामतिरेतरविवेके न सिध्यतीति
SK
ननु नाभावो नाम तत्त्वान्तरमुपलभ्यते, भूतलं हि स्वप्रमाणादवगच्छामऽ, घटं चासति प्रमाणे न पश्यामऽ, न तु घटाभावो नामापरऽ कश्चित् बुद्धौ भवति / घटो नास्तीत्यपि घटो न प्रमीयत इत्यर्थऽ, न तु घटाबावऽ प्रमीयत इति / अतऽ सर्वोपाख्याविरहलक्षण एवाभावो न किञ्चित् तत्त्वान्तरमत आह---न चेति / यत्तावत् भावप्रमाणैर्नोपलभ्यत इति / सत्यम् / अत एवाभावऽ प्रमाणान्तरम् / घटो नास्तीत्यपि नायमर्थऽ घटो न प्रमीयते इति, सन्नपि हि घटो न प्रमीयत इत्युच्यते / अत एव घटो ऽस्ति न वेति पृष्टो ऽनिर्णीताबावो नास्तीति व्यपदिशति, किन्तु अनुपलब्धिमात्रम् / अतो ऽभावप्रमितिरेवायं घटो नास्तीति / यश्चायं चतुर्धा भेदो वर्णितऽ सो ऽपि सर्वोपाख्याविरहलक्षणे ऽभावे न सिध्यति / प्रयोगश्च भवति--- वस्तु अभाविऽ(?), चतुर्धा भेदाद्, द्रव्यादिवदिति / यदप्याहुऽ--- नाभावो नाम किञ्चित् तत्त्वम्, प्रत्यर्थनियतेन ह्यात्मना नीलादयऽ परस्परं भिद्यन्ते, नैवमभावस्य भावात् किञ्चिद् भेदकम् / अतो न व्यावृत्तमुपलभामह इति कथं तत्त्वान्तरमवस्थापमयामऽ / तद्व्यवहारस्तु नास्तीति विकल्पशब्दप्रयोगात्मा भावाश्र एव कथञ्चिदुपपादनीयऽ, न त्वेकाकारप्रतिनियतादन्यासंसर्गिणो(र?)भावादन्यो ऽभाव इति / तदप्येकदेशिनिराकरणेनैव निराकृतम् / अपि च, अविषयो नास्तीति विकल्पऽ कथं संवेद्यत इति वक्तव्यम् / शब्दसंस्पृष्टं हि रूपं विकल्पस्य विषयऽ, न चेह तदस्ति / न चात्मा विकल्पस्याभिलापसंसर्गयोग्यऽ, असाधारणत्वात् / अत एवात्मनि निर्वकल्पत्वात् कल्पना स्वसंवित्ति प्रत्यक्षामाह / यदाह ऽनैनमियमाभिलापेन संसृजति / तथा वृत्तेरात्मनि विरोधात्ऽ इति / यदि मतं--- जात्यादिवदभावविकल्पा अपि समारोपितविषया एव, नानेनाभावविकल्पो दुष्यतीति / तन्न / समारोपितं हि यत्किञ्चिज्जातयीकं तत्प्रतिविकल्पमन्यदन्यच्च, कथमेकशब्दालम्बनं भवेत् / कल्पिताकारभेदानामेकऽ कश्चिदस्ति प्रतिसन्धाता, यऽ पूर्वापरयोरारोपितैकत्वाध्यवसायादेकशब्दं प्रयुञ्जीत / विकल्पास्तुक्षणिकाऽ स्वविषये नियता नान्योन्यस्य विषयमभिनिविशन्त इति कथं प्रतिसान्दधीरन् / असति च विपर्यये समारोपितविषयत्वाभिधानमलीकमेव / तदवश्यं नास्तीत्येकशब्दोपश्लिष्टमुपेतयाश्रयणीयं भाववदभावाख्यमपि किञ्चिदस्थितं रूपम् / अत एव किं पुनस्तत्त्वमित्यपेक्षिते सतस्तु सद्भावो ऽसतसत्वसद्भाव इति द्वेधैव तत्त्वविद्भिस्तत्त्वमाश्रितम् / अपि च--- असत्यभावे कस्य हेतोराहतस्य घटस्यानुपलम्भऽ, विनष्टत्वादिति चेत् / को विनाशऽ / यदि न किञ्चित्, प्राग्वदुपलम्भप्रसङ्ग / न ह्यप्रच्युतप्राच्यार्थक्रियारूपस्यानुपलम्भे घटस्य किञ्चित्कारणमधुना पश्यामो यद्यस्य विनाशो नाम किमपि तत्त्वान्तरं नाश्रीयत इति सिद्धं तत्त्वान्तरमिति / एतच्चानुपाख्येयत्वमभावस्य निराकर्तुमुक्तम्--- न त्वबावो वस्तु, लोकविरोधात् / यथाह्यचन्द्रऽ शशीति लोकविरुद्धम्, एवमभावो वस्त्विति / सत्ता हि वस्तुत्वम्, न चासावभावे वस्तुत्ववादऽ न मुख्यतया / अभावो ह्यर्थक्रियासमर्थ एव, ज्ञानजनन दर्शनात् / विहिताकरणे च प्रागभावस्यैव क्रियान्तरविशेषणतया प्रत्यवायहेतुत्वात् / एवमुत्तरत्रापि वस्तुताप्रसाधनं वेदितव्यमिति / इतश्चभावो
SK
यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् / तस्माद् गवादिवद् वस्तु प्रमेयत्वाच्च गम्यते // Mस्व्_५,८.९ //
SK
न चौपचारिकत्वं वा भ्रान्तिर्वापि यदृच्छया / भवत्यतो न सामान्यविशेषात्मकता मृषा // Mस्व्_५,८.१० //
SK
वस्त्वित्याहो---- कायादीनमिति / वस्त्वेव सदसदात्मकमिति सिद्धान्तऽ / तत्र कथं वस्तुरूपस्यैवाभावस्य निऽ स्वभावत्वम् / किमिदानीं भावाभावयोरभेद एव, नेति वदामऽ, भेदो ऽपि ह्यनयोर्धर्मधर्मितया कियानप्यस्त्येव रूपादीनामिव / कऽ पुनरनयोऽ सम्बन्धऽ, संयोगऽ समवायो वा, न तावत्संयोगऽ, द्रव्यधर्मत्वात् तस्य / न च समवायऽ, भावाभावप्रसङ्गात् / अभावसमवाये हि भावो न स्यादेव / नाभावसमवायादसत्त्वम्, न हि घटो ऽभावसमवायादसन् भवति / असति समवायानुपपत्तेऽ / किन्तु प्रहारादेव घटस्याभावऽ / यत्त्वनाहतमनपसारं च भावान्तरमभावरूपेणावगम्यते तत् कथमसद् भविष्यति / अतऽ स्वहेतोरेव जायमानो नित्यो वा सर्वो ऽसङ्कीर्णस्वभाव एव जायत इति सिद्धमस्य जात्यादिवद् भावधर्मत्वम् / ततश्च वस्तुत्वमिति
SK
इतश्च वस्तु अभाव इत्याह---यद्वेतिवस्त्वन्तेन / अभाव इति सामान्यात्मना प्रागभावादिबेदेन च व्यावृत्त्यात्मना गृह्यमाणो ऽभावऽ सामान्यविशेषात्मकऽ, ततश्च वस्तुविषयप्रयोगार्थऽ--- अभावो व्सतु, सामान्यविशेषात्मकत्वात् गवादिवदिति / तस्मिन्नेव साध्ये हेत्वन्तरमाह--- प्रमेयत्वादिति
SK
नन्वयमसिद्धो हेतुऽ,औपचारिको हि सामान्यविशेषभावो ऽभावे / एकशब्दवाच्यं सामान्यरूपं दृष्टं गवादि, नानाशब्दवाच्यं च विशेषरूपं शाबलेयादि / अतो ऽत्राप्यौपचारिकऽ सामान्यविशेषभावो विवेकज्ञस्य / असति तु विवेके एकशब्दनिबन्धनभ्रम एवायम्--- अभावऽ सामान्यविशेवात्मेति / अत आह--- न चेति / सति हि बाधके भ्रान्तिरुपचारो वा कल्प्यते, न चेह तथेति भाव इति
SK
प्रत्यक्षादेरनुत्पत्तिऽ प्रमाणाभाव उच्यते / सात्मनो ऽपरिणमो वा विज्ञानं वान्यवस्तुनि // Mस्व्_५,८.११ //
SK
स्वरूपपररूपाभ्यां नित्यं सदसदात्मके / वस्तुनि ज्ञायते कैश्चिद्रूपं किञ्चित् कदाचन // Mस्व्_५,८.१२ //
SK
यस्य यत्र यदोदभूतिर्जिधृक्षा वोपाजायते / चेत्यते ऽनुभवस्तस्य तेन च व्यपदिश्यते // Mस्व्_५,८.१३ //
SK
एवं तावत् ऽवास्तीत्यस्यार्थस्यासन्निकृष्टस्यऽ इति यदुतक्तं भाष्ये तद् विवृतम् / इदानीं प्रमाणाबावशब्दं व्याचष्टे---प्रत्यक्षादेरनुत्पत्तिरिति / अनुत्पत्तिरेव केति चेदत आह--- सात्मन इति / आत्मनो हि ज्ञानात्मकऽ परिणामऽ / तद् यदा आत्मा भूतलादौ न घटादिज्ञानात्मना पिरणमति सा तस्य प्रत्यक्षाद्यनुत्पत्तिऽ स्वरूपावस्थानं प्रमाणाभाव इत्याख्यायते, तत्प्रामाण्ये च नास्तीति ज्ञानं फलम् / नास्तीत्येव वा भावज्ञानं प्रत्यक्षाद्यनुत्पत्तिरित्युच्यते, अतस्तदेव प्रमाणम्, (ना?हा) नादिबुद्धिऽ फलमिति विवेकऽ
SK
ननु यदि द्व्यात्मकं वस्तु, तर्हि सकृदेव तथा प्रतिभातगिति किं प्रमाणान्तरेणात आह--- स्वरूपेति / स्वरूपेण तद्वस्तु गवादि सद्रूपमश्वादिरूपेण चासद्रूपम् / तदस्मिन्नेव द्विरूपे किञ्चिदेव कदाचित् प्रतीयते न तु सर्वात्मकमेव गृहीतव्यमिति नियम इति
SK
किं पुनऽ कारणं द्व्यात्मकस्यैकमेव रूपं गृह्यते नापरं किञ्चिदत आह---यस्य यत्रेति / उद्भूतं हि गृह्यते नानुदभूतम्, अग्नेरिव रात्रौ रूपं न स्पर्शऽ, जिधृक्षितं वा प्रायेण / अतो यदेव सदसतोरुद्भूतं भवति तेनैव बुद्धिव्यपदेशौ भवतऽ / चेत्यते ऽनुभव इति किमिदम्, न ह्यनुभवश्चेत्यते, स एव चेतना, विषयस्तु चेत्यते / सत्यम् / विषयप्राप्त्यन्यथानुपपत्त्यानुभवो ऽपि चेत्यत एव / तदनेन प्रकारेण विषयप्रकाशमेव दर्शयतीत्यदोष इति
SK
तस्योपकारकत्वेन वर्ततेंऽशस्तदेतरऽ / उभयोरपि संवित्तावुभयानुगमो ऽस्ति हि // Mस्व्_५,८.१४ //
SK
अयमेवेति यो ह्येष भावे भवति निर्णयऽ / नैष वस्त्वन्तरंराभावसंवित्त्यनुगमादृते // Mस्व्_५,८.१५ //
SK
नास्तीत्यपि च संवित्तिर्न वस्त्वनुगमादृते / ज्ञानं न जायते किञ्चिदुपष्टम्भनवर्जितम् // Mस्व्_५,८.१६ //
SK
प्रत्यक्षाद्यवतारस्तु भावांशो गृह्यते यदा / व्यापारस्तदनुत्पत्तिरभावांशे जिघृक्षिते // Mस्व्_५,८.१७ //
SK
न तावदिन्द्रियैरेषा नास्तीत्युत्पद्यते मतिऽ / भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि // Mस्व्_५,८.१८ //
SK
उद्भूतजिघृक्षितैकग्रहणे चेतरस्तनुगुणतयैव लीनो भूत्वावतिष्ठते / सामान्यविशेषयोरिवैकग्रहणे ऽन्यतर इत्याह---तस्येति / इदं चान्वारुह्यवचनेनास्माभिरुक्तम् / अस्त्येव तु भावाभावप्रतीतावन्यतरानुगम इत्याह---उभयोरिति
SK
उभायनुगममेव दर्शयति---अयमेवेति द्वयेन / अयमेवेति / भावान्तरेणासङ्कीर्ण इत्यर्थऽ / न ह्यप्रतिसंहिते भावान्तराबावे सङ्कीर्णस्वभावो न निश्चेतुं शक्यते / नास्तीत्यपि प्रतिषेध्यप्रतिषेधारभावोपष्ठम्भनवर्जितं न किञ्चित् ज्ञानं जायते / किञ्चिच्छब्देन भावस्याभावानुगमशून्यमपि ज्ञानमस्त्येव, न त्वेवभावस्येति दर्शयति ||१५,१६||
SK
दर्शितं तावत् सदसदात्मकं वस्त्विति / कदाचित् किञ्चिदनुभूयत इति च / उभयोरंशयोरिदानीं प्रमाणविभागं दर्शयति---प्रत्यक्षादीति
SK
कथं पुनरिदमवगम्यते, विस्फारिताक्षस्य हि सहसा नेह घटो ऽस्ति, अघटं वा भूतलमित्यभावविशिष्टं भूतलज्ञानं जायमानमुपलभ्यते?दण्डिप्रत्यक्षवत्, तदभावस्याप्रत्यक्षत्वे नावकल्पते / न ह्यप्रत्यक्ष एव विशेषणे विशिष्टऽ प्रत्यक्षो भवति, दण्ड इव दण्डी / न च नास्त्येव विशिष्टा धीरिति वक्तव्यम्, अनाश्रयाभावसंवित्त्यभावात् / अपि चात्मा भावस्याभावऽ, स कथं स्वतन्त्रो ऽनुभूयते / न हि रूपादयो भावधर्माऽ स्वतन्त्रा एवावसीयन्ते / स्वतन्त्राभाववादस्तु स्वातन्त्र्यमेव, सदसदात्मके वस्तुनीति हि दर्शयति / भावांशो ऽभावांश इति च विस्पष्टं तदभावविशिष्टं ग्रहणमित्याह / किञ्चास्य स्वातन्त्र्ये प्रमाणम्, न ह्यं कदाचिदपि तथावसीयते / किमिदानीमभावो नावसीयत एव, स्वतन्त्रो वावसीयते / न तावत् पूर्वऽ कल्पऽ,तदवगमे प्रमाणान्तराभावात् नित्यासंवित्तिसङ्गात् / न च संयोगप्रतिषेधे स्वतन्त्राभावावसायो ऽस्ति, प्रतियोगिसंयोग्परतिषेधात्मै व ह्यभावऽ, स चाधारतन्त्र एवेति संयुक्तविशेषणत्वलक्षणया प्रत्यासत्त्या सतीन्द्रियसन्निकर्षे ऐन्द्रियज्ञानगोचर एव / एकं हीदं विशिष्टं ज्ञानम् / तदस्याभावऽ प्रमाणमिन्द्रियं वा, यद्यभावऽ स तर्हि भावमपि गोचरयेत् / न चैतदिष्टम् / अतऽ सत्युपलभ्यमाने तदैव यन्नोपलभ्यते तन्नास्तीति सत एव प्रकाशकमसतो ऽपीति न प्रमाणविभागं पश्यामऽ / अत आह--- न तावदिति / तावच्छदोलिङ्गापेक्षया / तच्चोपरिष्ठान्निराकरिष्यत इति / अत्र कारणमाह--- भावांशेति / योग्यता हि कार्यदर्शनसमधिगम्या, सा चेन्द्रियाणां भावात्मकग्रहण एवोपलभ्यते नाभावे ऽपि / विनापि तु तेन तद्ग्रहणादिति वक्ष्यामऽ / अत्र तु योग्यतासहिता प्राप्तिरिन्द्रियार्थयोऽ सम्बन्ध इत्यभिप्रायऽ / यत्त्वेकज्ञानसंसर्गिणोरेकप्रमाणत्वमिति / तन्न / एकस्या अपि बुद्धेर्नानाकारणत्वदर्शनात् / एकं हीदं भावनेन्द्रियसमाहारजं प्रत्यभिज्ञानमिति वक्ष्यामऽ / एकज्ञानप्रतिभासिनोरपि च गृह्यमाणस्मर्यमाणयोर्विवेक उक्तऽ / विविक्ता एव ते ह्यर्था इति / न हि स्मृत्युपस्थापितनामविशिष्टो डित्थो न प्रत्यक्षो भवति / नाम चाप्रत्यक्षं स्मर्यमाणत्वात्, तस्यागृहीते हि विशेषणे विशिष्टो नावगम्यते नाप्रत्यक्षे / एवमिहापि प्रमाणाभावोपनीताभावविशिष्टे सत्युपलभ्यमाने न किञ्चिदनुपपन्नम् / दण्डिन्यपि शाब्दे तावद् दण्डपदोपनीतविशेषणविशिष्ट एव प्रत्ययार्थो न दण्डो ऽपि / प्रत्यक्षं तु योग्यतयोभयत्र प्रवर्ततां नाम, न चैवमुभयत्राक्षाणां योग्यता / अभावज्ञाने तदनपेक्षाया
SK
ननु भावादभिन्नत्वात्सम्प्रयोगो ऽस्ति तेन च / न ह्यत्यन्तमभेदो ऽस्ति रूपादिवदिहापि नऽ // Mस्व्_५,८.१९ //
SK
धर्मयोर्भेद इष्टो हि धर्म्यभेदे ऽपि नऽ स्थिते / उद्भवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते // Mस्व्_५,८.२० //
SK
वक्ष्यमाणत्वात् / किमिदानीमनुमाने ऽपि प्रत्यक्षानुमानसमाहारजो विशिष्टबोधऽ / न / अनुमानस्यान्वयाधीनजंमत्वात् / विशिष्टेनैव चान्वयानुगमात् / धूमवानग्निमानिति हि व्याप्तिरवगता / उक्तं च--- ᳚नैवं न ह्यत्र लिङ्गस्य शक्त्यनन्तत्वकल्पना᳚ इति / अत्रापि चायमग्निमानिति विशेषबोधे ऽस्त्येव प्रत्यक्षापेक्षा / अयमेवाभावस्य प्रतीतिप्रकारऽ, यत्प्रमाणान्तरप्रापिताश्रयं विशिनष्टीति न किञ्चिदनुपपमन्नम् / यच्च संयुक्तविशेषणतया इन्द्रियसन्निकर्षो ऽभावस्येत्युक्तम्, तदयुक्तम् / असम्बद्धस्य विशेषणत्वानुपपत्तेरतिप्रसक्तेऽ / इतरथा विसेषणार्थमर्थितेनैव सन्निकर्षोपपत्तौ वृथैव संयुक्तविशेषणार्थत्वाश्रयणमित्यलमेनेनेति
SK
अभिप्रायमजानानश्चोदयति---नन्विति / प्राप्तिमात्रं ह्यर्थेन्द्रिययोऽ सन्निकर्षऽ / अस्ति च भावादभिन्नस्याभावस्य भाववदेवेन्द्रियप्राप्तिरिति / अत्र च योग्यताया उद्धाटनेनैवोत्तरं देयम्, तदुपेक्ष्यैव तावदत्यन्ताभेदमेवायमाह, तदेतमेव तावन्निराकरो(षी?मी)त्यभिप्रायेणाह--- नहीति / यदि भावाभावयोरेकान्तरमभेद एव स्यात् ततो भावेन्द्रियसन्निकर्षे तदभिन्नस्याभावस्यापि स्यात्, न त्वेवमस्ति / अभावस्यापि रूपादिवदत्यन्ताभेदाभावादिति
SK
रूपादितुल्यतामेवाभावस्य दर्शयति---धर्मयोरिति / भावाभावात्मनोर्धर्मयोर्धर्म्यभेदे ऽपि स्थिते भेदो ऽपीष्ट इत्यर्थऽ / भेदे कारणमाह--- उद्भवेति / भावाभावयोरप्यु(द्भवा?चद्भूता)भिभूतयोर्गहणाग्रहणव्यवस्था दृश्यते / न चैतदेकत्वे कल्पिते / न ह्येकमेव तत्त्वमुद्भूतमभिभूतं चेति प्रतीयत इति
SK
इदमेव निमित्तं च विवेकस्य प्रतीयते / भावाभावधियोरक्षैऽ सम्बन्धो ऽक्षानपेक्षणम् // Mस्व्_५,८.२१ //
SK
रूपादेरपि भेदं च केचिद् ग्राहकभेदतऽ / वर्णयन्ति यथैकस्य पुंसऽ पुत्रादिरूपताम् // Mस्व्_५,८.२२ //
SK
बुद्धिमात्रकृतो भेदो रूपादौ नित्यमेव हि / न च देशाद्यभिन्नानां समुदायावकल्पना // Mस्व्_५,८.२३ //
SK
इदं चानयोर्विवेककारणमित्याह---इदमेवेति / अक्षानपेक्षता चाभावधियो वक्ष्यत इति
SK
अयं च ग्राहकभेदनिबन्धनो भेदो रूपादीनामिति कैश्चिदिष्यते / सो ऽनयोरपि शक्यते ऽवगन्तुमित्याह---रूपादेरिति / एवं हि केचिद् वदन्ति--- यथा ह्येकमेव मुखं मरतकपद्मरागाद्युपाधिभेदाद् भिन्नमिव प्रतिभाति, यथा चैक एव पुरुषो ऽपेक्षाभेदात् भिन्नमिव प्रतिभाति, एवमिहापि भावाभावयोरौपाधिको भेदो भविष्यतीति / नन्वेवमौपाधिके भेदे तात्त्विकमेकत्वं प्राप्नाति / भवत्वस्मिन्मते,तथापि रूपादिव्यवस्था सिध्यत्येवेति
SK
इदं चान्वारुद्यवचनेनास्माभिरुक्तम्, न हि रूपादीनां ग्राहकभेदनिबन्धनो भेदऽ, किन्तु बुद्धिभेदनिबन्धन एव, मुखं हि प्रमाणान्तरादेकरूपमवगतं तदुपाधिभेदाद् भिद्यत इति युक्तम् / न त्वेकत्वे रूपादीनां भेदहेतुर्भावाभावयोरपि समान एवेत्यभिप्रायेणाह---बुद्धिमात्रेति / कऽ पुनरयं भावाभावात्मको धर्मी, यद्धर्मौ भावाभावौ, नैकं रूपादिसमुदायाद् भिन्नमुपलभ्यते, वृत्त्यादिविकल्पाक्षमत्वात् / अतो देशाद्यभिन्नानां रूपादीनां समुदायो धर्मी, न तत्त्वान्तरमत आह--- न चेति / नात्र वन इव बाधिका बुद्धिरस्तीति भावऽ / इदं च सविकल्पकसिद्धावुक्तमप्यभावाश्रयसमर्थनार्थमत्रोक्तमित्यपुनरुक्ततेति
SK
सद्गुणद्रव्यरूपेण रूपादेरेकतेष्यते / स्वरूपापेक्षया चैषां परस्परविभिन्नता // Mस्व्_५,८.२४ //
SK
यदि तद्वदपेक्षात्र न स्याद् भेदो ऽत्र नैव हि / सदसद्रूपता बुद्धेर्भवेदन्यतरत्र नऽ // Mस्व्_५,८.२५ //
SK
सत्सम्बन्धे सदित्येवं सद्रूपत्वं प्रतीयते / नास्त्यत्रेदमितीदं तु तदसंयोगहेतुकम् // Mस्व्_५,८.२६ //
SK
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतीयोगिनम् / मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षया // Mस्व्_५,८.२७ //
SK
एवं तावदभावस्य भावाद् भेदाभेदौ दर्शितौ / तावेव रूपादिदृष्टान्तेन द्रढयति--सद्गुणद्रव्येति / न हि रूपादयऽ सदादिरूपेण न भिद्यन्त इति स्वरूपापेक्षयापि तेषां भेदऽ शक्यते वारयितुम्, तया वा भेद इति न सदाद्यात्मनाभेदऽ प्रतिक्षिप्यते / एवमभावो ऽपि भावधर्मतया ततो भिन्नो ऽपि स्वरूपापेक्षयाभिन्न इष्यते / द्रव्यरूपेणेति / रूपादयो द्रव्यादभिन्नाऽ, तच्चाभिन्नमिति तद्रूपेणैषामभेद इत्यर्थऽ
SK
स्वरूपापेक्षया रूपादिवद् भेदानाश्रयणे भावाभावयोरन्यतरत्र न बुद्धेऽ सदसद्रूपता भवेदित्याह---यदिति
SK
अस्ति त्वसाविन्द्रियसम्बन्धासम्बन्धहेतुको बुद्धिभेद इत्याह---तत्सम्बन्धैति / एतेन, यदाहुऽ--- न भावाद् भेदकमभावस्य रूपमुपलभामह इति, तन्निराकृतम् / सदसद्रूपविवेकादिति / यदिन्द्रियेण संयुज्यते भूतलं तदस्तीति प्रतीयते, यन्न सम्बध्यते घटादि तन्नास्तीति प्रतीयत इति
SK
नन्विन्द्रियव्यापारनन्तरमेवेह घटो नास्तीति ज्ञानमुत्पद्यते , तत् कुतो ऽयं विवेको नेन्द्रियेणाभावबुद्घिर्जन्यत इति / न ह्यसति तद्व्यापारे भावबुद्धिवदभावबुद्धिरपि जायमाना दृश्यते / यद्यपि भावादभावो भिद्यते, तथापि तस्य रूपादिवत्संयुक्तसमवायेन वा तद्विशेषणतया वेन्द्रिय
SK
स्वरूपमात्रं दृष्ट्वापि पश्चात् किञ्चित् स्मरन्नपि / तत्रान्यनास्तितां पृष्टस्तदैव प्रतिपद्यते // Mस्व्_५,८.२८ //
SK
सन्निकर्षो ऽस्त्येव / अतस्तज्ज्ञानमैन्द्रियकं भवेदत आह---गृहीतत्वेति / अयमभिप्रायऽ--- नानाश्रयो ऽभावऽ शक्यते ग्रहीतुमित्याश्रयग्रहणार्थमेवात्रेन्द्रियापेक्षा नाभावग्रहणाय, यथा नास्मृते प्रतियोगिन्यभावो गृह्यत इति तत्स्मरणार्थं प्राचीनज्ञानजन्मनऽ संस्कारस्योदबोधाप्यपेक्षितऽ, एवमाश्रयग्रहणार्थमिन्द्रियम् / न च प्राप्तिमात्रमैन्द्रियकज्ञानजन्मनि कारणम् / अपि तु योग्यतासहिता प्राप्तिरिति प्रत्यक्षे वर्णितम् / न चेन्द्रियाणामभावज्ञानजननयोग्यता, तेष्वसत्स्वपि तद्भावादिति वक्ष्यते / मानसमिति कोर्ऽथऽ / किं सुखादिज्ञानवन्मनसा जन्यत इति / यद्येवं तथापि प्रत्यक्षतैव / न चानन्तरिव बहिर्मनसऽ स्वातन्त्र्यमस्ति / सत्यम् / सर्वप्रमाणसाधारणस्तु मनसो व्यापारो ऽत्र कथितऽ / केवलात्ममनऽ सन्निकर्षादेव बाह्येन्द्रियानपेक्षं प्रमाणाभावेनाभावज्ञानं जन्यत इत्युक्तं भवति / गृहीत्वा स्मृत्वेति च धर्मधर्मिणोरभेदात् समानकर्तृकत्वाभिधानमिति
SK
कथं पुनरिदमवगम्यते भावग्रहणमिदन्द्रियापेक्षं नाभावग्रहणमिति / समानो हि तद्भावभावऽ / अत आह---स्वरूपेति / यो हि गृहस्वरूपेमेवावधार्य क्वचिद्गतऽ पृच्छ्यते--- तत्र चैत्रो ऽस्ति न वेति, तदासौ पृष्टस्तत्र नास्तीतां तदैव प्रतिपद्यते / यदि त्विन्द्रियाधीनमबावज्ञानं भवेत् ना सति तद्व्यापारे जायते / न च पूर्वावगताभावस्मरणमेवेति वाच्यम् / न ह्यसति प्रतियोगिस्मरणे भावो दृश्यते / न चाश्रयग्रहणकाले प्रतियोगिस्मरणमस्ति / बहूनामेव हि पृष्टेनाभावऽ कथ्यते / न च तावातां स्मरणं सम्प्रति विशेषेण स्मर्यत इति, तदयुक्तम् / न ह्यभावत्वं नाम सामान्यन्यतो ऽवगतो विशेषेण स्मर्यत इति, युक्तम् / पूर्वानुभवाहितभावनाबीजा हि सा स्मृतिऽ,नाल्पमव्यतिरेकं गोचरयितुमुत्सहते / तस्तदानीमेव प्रतियोगिस्मरणपुरऽ सरमिन्द्रियानपेक्षमभावज्ञानं जायत इति मनोहरमिदम् / तदिदमुक्तं तदैव प्रतिपद्यत इति / इदं च प्रतय्क्षफलस्मृतिनिवृत्त्या फलतऽ प्रत्यक्षानवृत्तिरित्युक्तमेवेति
SK
न चाप्यत्रानुमानत्वं लिङ्गाभावात् प्रतीयते / भावांशो ननु लिङ्गं स्यात् तदानीं नाजिघृणात् // Mस्व्_५,८.२९ //
SK
अभावावगतेर्जन्म भावांशे ह्यजिघृक्षिते / तस्मिन् प्रतीयमाने तु नाभावे जायते मतिऽ // Mस्व्_५,८.३० //
SK
न चैष पक्षधर्मत्वं पदवत् प्रतिपद्यते / सह सर्वैरभावैश्च भावो ऽनैकान्तिको मतऽ // Mस्व्_५,८.३१ //
SK
क्वचिद् भावे ऽपि सद्भावो ज्ञातो यस्य कदाचन / तस्याभावो ऽपि तत्रैव कदाचिदवगम्यते // Mस्व्_५,८.३२ //
SK
एवं तावदक्षजत्वमभावधियो निराकृत्तम् / इदानीं लैङ्गिकत्वं निराकरोति---न चाप्यत्रेति / अत्र चोदयति--- भावांशेति / परिहरति--- तदानीमिति मतिरन्तेन / द्वावत्र भावौ प्रतिषेध्यऽ प्रतिषेधाधारश्च, तत्र न तावत् प्रतिषेध्यो लिङ्गम्, अवगतं हि लिङ्गं भवति / न च तदा घटो गृह्यते, न हि तस्मिन् गृह्यमाणे तदभावो ग्रहीतुं शक्यते / सत्यां तु प्रतिज्ञायां नासतो ऽदृष्टसय् लिङ्गत्वम् / अतो नाभावो जिघृक्षितेजिघृक्षितप्रतिषेध्यभावो लिङ्गमिति ||२९,३०||
SK
अस्तु तर्हि प्रतिषेधाधारभावो लिङ्गमत आह---न चैषैति / एष इति परोपस्थितमपरोक्षं भावं निर्दिशति / यथार्थे पक्षीकृते पदमतद्धर्मतया न हेतुरित्युक्तम्, एवमेषो ऽपि भूतलभावो न घटाद्यभावधर्म इति / अपि चान्वयाधीनात्मलाभमनुमानज्ञानम्, न च भूतलभावस्य सर्वैरभावैऽ सम्ब्नधो ज्ञायते / तत् कथं ततस्ते प्रत्येष्यन्त इत्याह--- सहेति
SK
अस्तु तावदभावान्वयऽ क्वचिद् भूतलादौ भावे, सद्भावो ऽपि यस्य घटादेऽ कदाचित् ज्ञातऽ तस्यापि तत्राभावो ऽवगम्यत इत्याह---क्वचिदिति
SK
यत्रापय्दृष्टपूर्वत्वं यदभावस्य तत्र च / तदभावमतिर्दृष्टा सम्बन्धे ऽक्षानपेक्षया // Mस्व्_५,८.३३ //
SK
कस्यचिद् यदि भावस्य स्यादभावेन केनचित् / सम्बन्धदर्शनं तत्र सर्वमानं प्रसज्यते // Mस्व्_५,८.३४ //
SK
गृहीते ऽपि च भावांशे नैवाभावे ऽनयवस्तु नऽ / सर्वस्य मतिरित्येवं व्यभिचारादलिङ्गता // Mस्व्_५,८.३५ //
SK
सम्बन्धे गृह्यमाणे च सम्बन्धिग्रहणं ध्रुवम् / तत्राभावमतिऽ केन प्रमाणेनोपजायते // Mस्व्_५,८.३६ //
SK
तदानीं नहि लिङ्गेन सम्बन्धिग्रहणं भवेत् / तत्रावश्यमभावस्य प्रमाणान्तरतो गतिऽ // Mस्व्_५,८.३७ //
SK
न केवलं यद्यत्र कदाचिद् दृष्टं तन्मात्रस्य तत्राभावो ऽवगम्यते, यस्यापि तु यत्राभावो न दृष्टपूर्वस्तस्यापि तत्राभावो ऽवगम्यत इत्याह---यत्रेति
SK
यदि तु येन केनचिदेकेनाभावेनगृहीतसम्बन्धाद् भावादभावान्तरानुमानमिष्यते, ततो ऽतिप्रसक्तिरित्याह---कस्यचिदिति
SK
न चैवमस्तीति व्यतिरेकेण दर्शयति---गृहीते ऽपि च भावांशे नैचाभावे ऽन्यवस्तुनऽ / सर्वस्यमतिरित्यन्तेन / अनैकान्तिकश्चायं भावो ऽभावान्तरैरपि सम्बन्धात् / अतो ऽनैकान्तिकत्वादस्य घटादेरभावं गमयितुमलिङ्गत्वमित्याह--- एवं व्यभिचारादलिङ्गतेति
SK
अपि च सम्बन्धग्रहणं सम्बन्धिग्रहणाधीनम् / तदिहाभावाख्ये सम्बन्धिनि ग्रहीतव्ये किं प्रमाणमिति वक्तव्यमित्याह--- सम्बन्ध इति
SK
न तावल्लिङ्गगविदितसम्बन्धं तदवधारणे प्रमाणम्, इतरेतराश्रयं हि तथा स्यादित्यभिप्रायेणाह---तदानीमिति / अतो ऽवश्यं तद्ग्रहणे प्रमाणान्तरमर्थनीयमित्याह--- तत्रेति
SK
प्रत्यादेरनुत्पत्तिर्न तु लिङ्गं भविष्यति / न विशेषणसम्बन्धस्तस्याऽ सामान्यतो भवेत् // Mस्व्_५,८.३८ //
SK
अत्रेदानीमनुपलब्धिलिङ्गवादिनो बौद्धस्य प्रत्यवस्थानमाह--- प्रत्यक्षादेरिति / द्वेधा हि हेतवो बौद्धैर्विभज्यन्ते--- कार्यं स्वभाव इति, अनुपलब्धिश्चेकज्ञानसंसर्गिणोरेकोपलब्धिरेव, तस्याश्च स्वरूपं ज्ञेयरूपं च प्रकाशते इति ज्ञानज्ञेयस्वभावा / न ह्यसौ स्वरूपमिव ज्ञेयसत्तामपि व्यभिचरति / तस्याश्च स्वसाध्येन नास्तीति विकल्पशब्दात्मकव्यवहारेण तद्योग्यतया वा तादात्म्यमेव प्रतिबन्धऽ / न ह्यसौ नास्तीति व्यवहारं व्यभिचरति शिंशपेव वृक्षताम् / तदेवं ज्ञातप्रतिबन्धानुपलब्धिऽ यो नाम भ्राम्यन् विविक्तदेशोपलब्धावपि घटाय घटते तं प्रति नास्तीति व्यवहारं तद्योग्यतां वानुमापयति / एवं च घटाद्यभावानुपलब्धिप्रयोगऽ--- यद् दृश्यं हि सद्यत्र नोपलभ्यते तत्तत्र नास्ति / नोपलभ्यते चोपलभ्यमाने देशे दृश्यो घट इति / एतदपि दूषयति--- न विशेषणसम्बन्धस्तस्या इति / य एवानुपलब्ध्यानुमातुमिष्यते घटाभावो नास्तीति व्यवहारस्तद्योग्यता वा नैकेनापि विशेषेणानुपलब्धेऽ सम्बन्धो ऽवगतऽ, कथं ततो विशेषानुमानम् / भूतलोपलब्धिर्हि सा, तस्याश्च नानाविधानेकघटपटादिविषया नास्तीति व्यवहारा दृश्यन्त इति कथं विशेषेण घटो नास्तीति व्यवहारयेत् / घटानुपलब्धिरसौ, अतो घटाभावं तद्व्यवहारं वा प्रसाधयतीति चेत् / कस्तस्या घटेन सम्बन्धऽ / देशोपलब्धिर्हि सा, तावदेव तस्या घटानुपलब्धित्वम् / तच्च सर्वान् प्रत्यविशिष्टमिति कथमेकेनैव व्यपदिश्यते चेद् घटाभावो नाम कश्चित्_ / कस्माच्च सत्यपि घटे घटो नास्तीति व्यवहारो न प्रवर्तते / सद्व्यवहारविरोधादिति चेत् / कथं घटानुपलब्धौ सद्व्यवहारऽ / अस्ति हि तदानीमपि देशोपलब्धिऽ / विविक्तोपलब्धिर्हि घटानुपलब्धिऽ, नासौ घटे सतीति चेत्, को विवेकार्थ इति / नन्वयमभाव एव / तदभावे ऽनर्थकं विविक्तवचनम्, अतो ऽनुपलब्धेरयमपि विशेषो दुऽ साध एव, यदसति घटे नास्तीति व्यवहारो न सतीति / यच्चेदं घटाभावमतिलङ्घ्य नास्तीति व्यवहारानुमानमवस्थितं तदपि केन विशेषेणेति न विद्मऽ / सो ऽपि भावातिरेकी न कश्चिदुपलभ्यते / योग्यता तदनतिरेकिणी तस्मिन् बुद्धे बुद्धैवेति न किञ्चिदनुमेयं पश्यामऽ / वार्तिककारेण त्विदमुपेक्ष्यैव तावद् दूषणान्तरमुक्तमिति
SK
न चाप्यभावसामान्ये प्रमाणमुपजायते / व्यभिचारादा विशेषास्तु प्रतीयेरन् कथं तया // Mस्व्_५,८.३९ //
SK
न चानवगतं लिङ्गं गृह्यते चेदसावपि / अभावत्वादभावेन गृह्येतान्येन हेतुना // Mस्व्_५,८.४० //
SK
स चान्येन ग्रहीतव्यो नागृहीते हि लिङ्गता / तद्गृहीतिर्हि लिङ्गेन स्यादन्येनेत्यनन्तता // Mस्व्_५,८.४१ //
SK
लिङ्गाभावे तथैव स्यादनवस्थेयमित्यतऽ / क्वाप्यस्य स्यात् प्रमाणत्वं लिङ्गत्वेन विना ध्रुवम् // Mस्व्_५,८.४२ //
SK
नास्तीति धीऽ फलं चैषा प्रत्यक्षादेरजन्मनऽ / तस्यैव च प्रमाणत्वमानन्तर्यात् प्रतीयते // Mस्व्_५,८.४३ //
SK
अभावसामान्येन त्वनुपब्धेऽ सम्बन्धऽ सिध्यत्येव, न त्वभावसामान्ये प्रमाणमुपजायत इत्याह--- सामान्येति / विशेषास्त्वनैकान्तिकतया नानुपलब्ध्या बोधयितुं शक्यन्त इत्याह--- व्यभिचारादिति
SK
अपि च--- नानवगतरूपं लिङ्गमनुमाने लिङ्गं भवति, तदियं प्रत्यक्षाद्यनुत्पत्तिरभावत्वादपरेण लिङ्गेनावगन्तव्या / एवं हि वदन्ति,यावान् कश्चित् प्रतिषेधऽ स सर्वो ऽपलब्धेरेवेति / एवं च तत्र तत्र सदृशापरापरलिङ्गानुसारेणानवस्थापात इत्याह--- न चेति द्वयेन / एतच्चोपलब्ध्यभावो ऽनुपलब्धिरित्यापाद्योक्तम्, विविक्तेतरपदार्थो ऽनुपलब्धिरिति तु प्रत्युक्तमिति ||४०,४१||
SK
एवं यो ऽप्यसौ लिङ्गिरूपाभावऽ सो ऽपि सम्बन्धग्रहणार्थमवश्यं प्रथमवगन्तव्यऽ / तदवगमे ऽपि तद्रूपापरलिङ्गाभ्युपगमादनवस्थैव / अतऽ क्वचिदवश्यमनुमानाभावात् प्रमाणान्तरमभ्युपगन्तव्यमित्याह---लिङ्गेति
SK
यदि तु नास्तीति बुद्धिरेव लिङ्गमित्युच्यते तन्न / फलं हि सा, प्रत्यक्षाद्यनुत्पादस्य कथं तल्लिङ्गम्, तत्सिद्ध्यर्थमेव हि लिङ्गमिष्यते /
SK
त्रिलक्षणेन या बुद्धिर्जन्यते सानुमेष्यते / न चानुत्पत्तिरूपस्य कारणापेक्षिता क्वचित् // Mस्व्_५,८.४४ //
SK
मानं कथमभावश्चेत् प्रमेयं चास्य कीदृशम् / मेयो यद्वदभावो हि मानमप्येवमिष्यताम् // Mस्व्_५,८.४५ //
SK
भावात्मके तथा मेये नाभावस्य प्रमाणता / तथाभावप्रमेये ऽपि न भावस्य प्रमाणता // Mस्व्_५,८.४६ //
SK
सिद्धायां तु बुद्धौ किं लिङ्गेन / तदेतदाह---नेति / यदि सा फलं किं तर्हि प्रमाणत आह--- तस्यैवेति / यस्यैव सा फलं तदेव प्रत्यक्षाद्यनुत्पत्तेऽ फलानन्तर्यात्प्रमाणमिति
SK
किञ्च सौगतसमयसिद्धानुमानलक्षणग्रन्थानुसारेणापि न प्रत्यक्षाद्यजन्मनो ऽनुमानत्वमित्याह---त्रिलक्षणेति / एवं हि ते पठन्ति / ऽत्रिरूपाल्लिङ्गतोर्ऽथदृगनुमानऽमिति / न चानुत्पत्तिरुत्पत्तेऽ प्रागभावो बुद्धेऽ केनचिज्जन्यते, प्रागेव त्रिलक्षणेन हेतुनेति / ननु च हेतुतयानुपलब्धिरनुमानमिष्यते,न त्वनुमितिरनुमानमिति भावसाधनतया / अतऽ किं तन्निरासेन / सत्यम्, अहेतुतया तावदनुमानत्वं निराकृतमेव / अनेन तु लक्षणानन्तऽपातो वर्ण्यत इति
SK
अत्र चोदयति--- (मानमिति) प्रमाणता हि भावात्मना व्याप्ता प्रत्यक्षादिष्ववगता, तन्निवृत्त्या निवर्त्यत इति भावऽ / इतरस्तु--- वर्णितो ऽस्माभिऽ प्राग्भावनामसङ्करश्चतुर्धा / न च तब्दोधस्य भावबोधवैलक्षण्यमुपलभ्यते, बाधविरहसामान्यात् / स च प्रामाण्ये कारणं न भावस्वरूपता / सा तु प्रामाण्यं प्रत्यप्रयोजिकैव कथञ्चित्तेषु सङ्गता, अतो नाभावत्वेनाप्रामाण्यं भवति / भावे तु प्रमेये तदप्रमाणमेवेत्यभिप्रायेणाह--- प्रमेयमिति / अनुरूपमेवेदं यदभावे ऽभावऽ प्रमाणमित्याह---मेय इति
SK
यथा भावात्मके मेये ऽभावऽ प्रमाणं नानुरूपं तथा तदभावे भाव इत्याह--- भावात्मक इति
SK
भावात्मकस्य मानत्वं न च राजाज्ञया स्थितम् / परिच्छेदफलत्वाद्धि प्रामाण्यं स्याद् द्वयोरपि // Mस्व्_५,८.४७ //
SK
यदि चास्य प्रमाणत्वमभावत्वेन नेष्यते / वस्तुनऽ कारणत्वं हि दृष्टमित्यभिमानिता // Mस्व्_५,८.४८ //
SK
न लिङ्गत्वप्रमेयत्वे भवेतां तद्वदेव हि / तथा सति च पूर्वोक्तो व्यवहारो न सिध्यति // Mस्व्_५,८.४९ //
SK
प्रमाणानामनुत्पत्तेर्नाभावस्य च धर्मता / यत्राभावो ऽस्ति तेनास्याऽ सम्बन्धो नैव विद्यते // Mस्व्_५,८.५० //
SK
यो न सन्निहितस्तत्र तस्य धर्मो भवेदियम् / न च तस्य प्रमेयत्वं धर्मधर्मित्ववर्जनात् // Mस्व्_५,८.५१ //
SK
न भावत्मकमेव प्रमाणमिति राजाज्ञा, यदेव तु परिच्छेदफलं तदेव तु प्रमाणम्, तच्च प्रत्यक्षाद्यजन्मनो ऽपि समानमित्याह---भावात्मकस्येति||
SK
स्यादेतत्--- वस्तुन एव प्रामाण्यदर्शनान्नावस्तुनो ऽनुपलब्धेऽ प्रमाणत्वमिति / तथा च सति बौद्धानामपि लिङ्ग प्रमेयत्वे न स्याताम्, ते ऽपि हि नावस्तुनो दृष्टे इत्याह-- यदीति सार्धेन / अनुज्ञाने दोषमाह--- तथा सतीति / न च स्याद् व्यवहारो ऽयमिति कारणादिविभागेनोक्तो व्यवहार इत्यर्थऽ ||४८,४९||
SK
अपक्षधर्मत्वादपि प्रत्यक्षाद्यनुत्पत्तिर्न लिङ्गमित्याह---प्रमाणानामिति / नाभावे पक्षीकृते प्रत्यक्षाद्यनुत्पत्तिस्तद्धर्मतयावगम्यते / अभावेन सम्बन्धाभावदित्यभिप्राय इति / नन्वभावविशिष्टं भूतलं साधयिष्यामऽ, तच्च पूर्ववगतमिति तद्धर्मो भविष्यतीत्यत आह--- यत्रेति / न हि भूतले प्रत्यक्षानुत्पत्तिऽ, ज्ञायमानत्वात् तस्येति
SK
घटस्य तर्हि धर्मो भविष्यति तद्गोचरे प्रत्यक्षादीनामनुत्पत्तेरत आह---यैति / सत्यम् / यत्र प्रत्यक्षादीनि नोत्पद्यन्ते तद्धर्मता कथञ्चिद् भवेदपि, न त्वसाविह प्रमीयते / धर्मधर्मित्वयोरभावात् / न हि
SK
अभावेन तु सम्बन्धो भवेत्तद्विषयत्वतऽ / तज्ज्ञानाद् विषय्तवं च ज्ञाने मेयं न विद्यते // Mस्व्_५,८.५२ //
SK
संयोगसमवयादिसम्बन्धो नैव विद्यते / नागृहीते हि धर्मत्वं गृहीते सिद्धसाधनम् // Mस्व्_५,८.५३ //
SK
अभावशब्दवाच्यत्वाप्रत्यक्षादेश्च भिद्यते / प्रमाणानामभावो हि प्रमेयानामभावावत् // Mस्व्_५,८.५४ //
SK
अभावो ऽपि प्रमाणेन स्वानुरूपेण मीयते / प्रमेयत्वाद् यथा भावस्तस्माद् भावात्मकात् पृथक् // Mस्व्_५,८.५५ //
SK
कर्माणि सर्वाणि फलैऽ समस्तैऽ सर्वैर्यथावच्च यदङ्गकारण्डैऽ / न सङ्गतानीह परस्परं हि नाङ्गं तदेतत्प्रभवं क्रतूनाम् // Mस्व्_५,८.५६ //
SK
तद्धर्मिणं कृत्वाभावविशिष्टता साध्यते तस्याप्रतीतेऽ / नापि तद्विशिष्टं भूतलादि, तदानीं तस्य तत्राभावादिति
SK
अभावस्य तु साधर्मो भविष्यति तद्विषयत्वात् तस्याऽ / अभावे हि प्रमेये सा लिङ्गं भवत्येव / किन्तु नास्रञ्चेतितो भावो विषयो भविष्यति, ज्ञाते च प्रमेयाभाव इत्याह---अभावेनेति
SK
अन्यस्तु न कश्चिदभावेनानुत्पत्तेऽ सम्बन्धप्रकारो विद्यते, येन तद्धर्मतामनुगम्यानुमानं भविष्यतीत्याह---संयोगैति / इतश्चापक्षधर्मत्वमित्याह--- नागृहीत इति / न ह्यगृहीते पर्वते धूस्तद्धर्मतयावगम्यते / अथ तद्वदभावो ऽपि प्राक् प्रतीयत इत्युच्यते, सिद्धं तर्हि साध्यत इति
SK
एवं प्रत्यक्षानुमानाभ्यां प्रसाधितं भेदं प्रयोगेण दर्शयति---अभावशब्देति
SK
प्रयोगान्तरमाह---अभावो ऽपीतिभावान्तेन / अतऽ सिद्धं भावात्मकात् प्रमाणादन्यत्वमभावस्येत्युपसंहरति---तस्मादिति
SK
वेदोपयोगमभावस्य दर्शयति---कर्माणीति / यो ऽयं सर्वकर्मणां फलासङ्करऽ परस्परासङ्करश्च परस्पमङ्गाङ्गिभावाभावऽ, नासावभावप्रामा
SK
युक्त्यागमाभ्यामिह तर्कितो ऽयं प्रमाणषटकं प्रविभज्य भाष्ये / ततो ऽधिकं यद् द्वयमिष्टमन्यैर्भेदो न तस्येत्यपि सिद्धमेतत् // Mस्व्_५,८.५७ //
SK
इह भवति शतादौ सम्भवाद्या सहस्रान्मतिरवियुतबावात् सानुमानादभिन्ना / जगति बहु न तथ्यं नित्यमैतिह्यमुक्तं भवति तु यदि सत्यं नागमाद् भिद्यते तत् // Mस्व्_५,८.५८ //
SK
ण्यादृते सिध्यतीति / (यथेति / यावत् तावद् यथावदिति?) इहेति / वेदं प्रतिनिर्देश इति
SK
ननु च व्यासमतानुसारिणोपमानातिरिक्तं प्रमाणद्वयमुपवर्णितम्, ऋषिणा च सम्भवैतिह्ययोरपि प्रमाणत्वमाश्रितम्, तत्परित्यागे कारणं वक्तव्यमत आह----युक्तीति / प्रमाणषटकमेव हि युक्त्या सङ्गच्छते / आगमानुगतश्च / आगमश्च मीमांसातन्त्रम्, अतो युक्त्यागमाभ्यामिह शाबरे भाष्ये प्रमाणषट्कमेव प्रविविच्य तर्कितम् / यत्तु द्वयमधिकमिष्टं तदत्रैवान्तर्गतमिति
SK
(कऽ?क्व) पुनस्तस्यान्तर्गतिरत आह---इह भवतीति / या तावत् सहस्राच्छते मतिऽ सम्भवाख्यं प्रमाणमिष्यते सानुमानान्न भिद्यते / सहस्राच्छतमवियुतिभावादविनाभावादवगम्यते / अतस्तावदनुमानान्न भिद्यते / ऐतिह्यप्रमाणमुक्तं तावदसत्यमेव / निधिप्राप्त्यसुरकन्यावशीकरणादि, द्रौपदीपञ्चभर्तृकेत्यादि , यदि तत् सत्यं तदागमाद् (न) भिद्यते / आप्तागमो ह्यसौ / उक्तं च--- ऽपुरुषोक्तिरपि श्रोतुरागमत्वं प्रपद्यतेऽ इति / अतो ऽनुमानागमयोरन्तर्भावान्न सम्भवैतिह्ययोऽ पृथगुपन्यासऽ सिद्धऽ||
SK
इत्युपाध्यायसुचरितमिश्रकृतौ काशिका- टीकायामभावपरिच्छेदऽ समाप्तऽ /
SK
अथ चित्राक्षेपऽ /
SK
परलोकफलाऽ पूर्वमाक्षिप्ताश्चोदनाऽ परैऽ / इदानीमैहिकाक्षेपऽ सूत्रकारेण वोच्यते // Mस्व्_५,९.१ //
SK
भाष्यपाठो विचार्यऽ,अत्र भाष्यम्--- ऽननु भवन्त्वन्यानि प्रमाणानि, शब्दस्तु न प्रमाणम्, कुतऽ? अनिमित्तं विद्यमानोपलम्भनत्वात्ऽ इति / अस्यार्थऽ--- यद्यपि सर्वप्रमाणाव्यभिचारान्न प्रमाणसामानयभाविना धर्मेण शब्दो ऽपि न प्रमाणम्, विशेषेण त्वात्मभाविना धर्मेणाप्रमाणम् / तथा हि चित्रया पशवो भाव्यन्त इति चित्रया यजेतेत्यस्यारथऽ / कृतचित्रस्यापि यजमानस्यानन्तरमविकलसकलेन्द्रियैरपि पशवो न दृश्यन्ते / तन्न नूनमिष्टिऽ पशुफलेति भवति मतिऽ / तदिदमुक्तम् ऽअनिमित्तं विद्यमानोपलम्भनत्वात्ऽ इति / किमुक्तं भवति--- उपलम्भनानि हि चक्षुरादीनि पशूनां विद्यन्ते / न च पशुकामेष्ट्यमन्तरं पशव उपलभ्यन्ते / तस्मादुक्तविसंवादादप्रमाणं चित्राचोदनेति / स पुनरयमाक्षेपो गतार्थ उपलक्ष्यते / चोदनासूत्रे हि ऽनन्वतथाभूतम्ऽ इत्यादिना भाष्यकारेणाक्षेपपरिहारावुक्तौ / अतऽ पुनरुक्तमिदमित्याशङ्क्याह---- परलोक इति / अस्यार्थऽ परलोकफला हि तत्र स्वर्गकामो यजेतेत्येवमादिचोदना वेदबाह्यबोद्धादिपरमतेनाक्षिप्ताऽ / इदानीमैहिकफलाश्चित्रादिचोदना आक्षिप्यन्ते / ननूभयीमपि चोदनामाक्षेप्तुं शक्यत एव वाक्यत्वादयो हेतवऽ / त एव तत्र भाष्यकारेण ऽयत् किञ्चन लौकिकं वनचम्ऽ इति दर्शयतान्तर्णीताऽ / वार्तिककृतापि---ऽयदि वा पुरुषाधीनप्रामाण्याऽ सर्वचोदनाऽ इति विवृताऽ / तस्मादसदेतत् परलोकफला एव तत्राक्षिप्ता इति / यदपि चेदनीमैहिकाक्षेप इत्युक्तं तदयुक्तम्, इहापि च---ऽएवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं नास्तीति मन्यामहऽ इति सर्वाक्षेपऽ कृतऽ / वार्तिककारेणापि च ऽएवं सत्यग्निहोत्रादिवाक्येष्वपि मृषार्थताऽ इति वदता / तस्मादुभयत्राप्युभयाक्षेपमेव न्याय्यं मन्यन्ते / केयं व्यवस्था / अत्रोच्यते / सत्यमुभयत्राप्यभयाक्षेपऽ, तथापि हेतुभेदादपौनरुक्त्यम् / तथाहि--- तत्र वाक्यत्वादयऽ परैरुक्ता आक्षेपहेतवऽ,
SK
चित्रापशुफलत्वादिविषयाश्चोदना मृषा / प्रत्यक्षाद्यधिकारे ऽपितैरर्थासङ्गतिर्यतऽ // Mस्व्_५,९.२ //
SK
इदानीं तुशब्दशक्तिपरामर्शद्वारेणाभ्यन्तरा एव हेतव उपपत्स्यन्ते / तथा चोक्तम्--- आनन्तर्यमनुक्तं चेन्न सामर्थ्यावबोधनात् / इति / सामर्थ्यं हि सर्वाख्यातानामर्थं ब्रुवतां सहकारि / तद् यद्यपि नेष्टिरनन्तफलेति श्रुतिऽ, तथाप्यर्थसामर्थ्यातदवगम्यते, कथमपरथाऽयदासौ विद्यमानासीत् तदा पलं न दत्तवती, कालान्तरे पुनरसती कथं दास्यतिऽ इति न च पशवो ऽनन्तसमभवद्भावनाऽ, स्वर्गो हि नानाक्षिप्तविशिष्टदेहेन्द्रियादिपरिग्रहो भवितुमुत्सहते, अतो माभूदनन्तरम्, अमी पुनऽ पशवऽ सम्भवन्ति यजमानस्यात्रैवेति स्वहेतुसमनन्तरमनुपलभ्यमाना दृष्टप्रतिग्रहादिहेत्वन्तराऽ श्रुतचित्रादिफलतया न शक्यन्ते ऽवगन्तुम् / अयमेव तु शब्दशक्तिपरामर्शो वार्तिककृता तार्किकप्रक्रियामनुविदधानेन ऽन वा पशुफलेऽत्यादिना साधनप्रयोगैरुपदर्शितऽ / तदेवमैहिकफलासु चित्राचोदनास्वाक्षिप्तासु तत्सामान्यादितरासु तथात्वमिति पुनरप्यग्निहोत्रादिचोदनाक्षेपे ऽवतिष्ठते / स चायमैहिकाक्षेपद्वारेणापिनोच्यते / अत एव चैहिकाक्षेप इत्युक्तम् / एतदुक्तं भवति--- ऐहिकफलानामामुष्मिकफलानां चायमैहिकाक्षेपपुरस्कारेणैवाक्षेपऽ, यदामुष्मिकस्वर्गादि तन्मा नाम कर्मानन्तरमुपलभ्यतामैहिकफलं तु पश्वादि किं नोपलभ्यते, न चेदमुपलभ्यते, तन्न नूनं तत् फलमिति ऐहिकफलकर्मचोदनाव्यभिचारेणान्यासामपि परलोकफलानां तत्सामान्यादाक्षेपऽ / पूर्वं तु ताऽ परतऽ प्रामाण्यमाश्रित्य परोक्तैरैव वाक्यत्वादिभिर्हेतुभिराक्षिप्ताऽ / तदुक्तं परैरिति / परिहारान्तरमाह--- सूत्रेति / अयमभिप्रायऽ--- चोदनासूत्रे भाष्यकृता सूत्रकारेण वक्ष्यमाणाक्षेपपरिहारावनागतावेक्षणेन प्रतिज्ञासमर्थनार्थभुपवर्णितौ / इदानीं तु सूत्रकारेण स्वयमेवोच्यत इति तेनेदमेव सर्वचोदनाक्षेपक्षेत्रमित्युक्तमिति
SK
अत्र परिहारे पूर्वोक्त एवाक्षेपहेतुरिति, तमुपन्यस्यति--- चित्रेति फलानीत्यन्तेन / अयमर्थऽ--- चित्रापशुफलत्वादिविषयाश्चोदना धर्मिण्यऽ
SK
यदीदृक्तन्मृषा दृष्टं विप्रलिप्सोर्यथा वचऽ / नदीतीरे फलानीति तत्रादृस्यानि तानि चेत् // Mस्व्_५,९.३ //
SK
न वा पशुफला चित्रा स्वकाले तददानतऽ / स्नानभुज्यादिवत् ते ऽपि तत्साध्या न भवन्ति वा // Mस्व्_५,९.४ //
SK
तदुत्पत्तावसद्भावात् स्वर्गतृप्तिसुखादिवत् / वैधर्म्येणोभयत्रापि भवेतां सुखमर्दने // Mस्व्_५,९.५ //
SK
आनन्तर्यमनुक्तं चेन्न सामर्थ्यावबोधनात् /
SK
मृषेति साध्यो धर्मऽ / अधिकृतैऽ प्रवृत्तियोग्यैरपि प्रत्यक्षादिभिरर्थानवगतेऽ / यदीदृशं तन्मृषा--- यथा विप्रलिप्सोर्वचऽ / आदिशब्देनाग्निहोत्रादिविषया अपि चोदनाऽ पक्षीकरोति / ननु विप्रलिप्सुवाक्यमत्र दृष्टान्तऽ / न च तन्नियमेन प्रत्यक्षाद्यसङ्गतार्थमसत्यं च / तस्मादुभयविकलो दृष्टान्तऽ / अत आह--- तत्रेति / असत्यर्थे प्रयुक्तमेव नदतीरादिवाक्यमिह दृष्टान्तऽ / प्रायेण चैत्रञ्जातीयकं विप्रलिप्सुरेव प्रयुङ्क्त इति विप्रलिप्सोरित्युक्तमिति ||२,३||
SK
इदानीमैहिकाक्षेप इत्युक्तं विवृणोति--- न वेति वदन्तेन / चित्रेष्टिर्धर्मिणी, न पशुफलेति साध्यम्, स्वकाले पश्वदानात्, स्नानादिवदिति / प्रयोगान्तरमाह--- ते ऽपीति / ते पशवो न चित्रासाध्याऽ , चित्रोत्पत्तावसद्भावात् स्वर्गतृप्तिसुखादिवत् / आदिशब्देनात्र भोजनजन्या तृप्तिरभिप्रेता / एतौ च प्रयोगौ ऽनेष्टिऽ पशुफला,कर्मकाले च कर्मफलेन भवितव्यम्ऽ इति भाष्योक्तौ वेदितव्याविति / अत्रानन्तरं ऽयत्कालं हि मर्दनं तत्कालमेव मर्दनसुखम्ऽ इति भाष्यकारेणोक्तम्, तद् वैधर्म्यदृष्टान्ततया प्रयोगद्वये योजयति--- वैधर्म्येणेति / चित्रा न पशुफला पशवो न तत्साध्या इत्युभयत्रापि प्रयोगे वैधर्म्येण सुखमर्दने भवेताम्, ईदृशी चात्र वैधर्म्यरचना, यद्यत्साध्यं तत्तत्सकाले प्रसूते, मर्दनमिव सुखम् / यच्च यत्साध्यं तत् तदुत्पत्तौ भवत्येव सुखमिव मर्दनोत्पत्ताविति ||४,५||
SK
ननूक्तिविसंवादादप्रामाण्यमुक्तम् / न च किञ्चिदिह विसंवादऽ, न हि कृते कर्मणि तावत्येव फलेन भवितव्यमिति शब्दो ब्रूते, किन्तु अस्येदं
SK
शब्दैकदेशभूतेन तेन तत्प्रतिपादितम् // Mस्व्_५,९.६ //
SK
कालान्तरानुपादानात् कर्मस्वाभाव्यतो ऽपि च / चोद्यमानस्य चित्रादेरानन्तर्यं विशेषणम् // Mस्व्_५,९.७ //
SK
अत्र तावदसंवादो विरोधश्चोत्तरत्र तु / स्वर्गयानविरुद्धो हि भस्मीभावो ऽत्र दृश्यते // Mस्व्_५,९.८ //
SK
फलमिति / एतावति च पर्यवसानात् / अतऽ कालान्तरे फलं दास्यति / तदेतदुक्तम्--- ऽकालान्तरे फलं दास्यतीति चेत्ऽइति, तदेतदाह---आनन्तर्यमिति / परिहरति--- नसामर्थ्येति / साक्षादनुक्त्सयानन्तर्यस्याप्यत्र सामर्थ्येनावबोधनं कृतम्,यैव ह्यस्येदं फलमित्युक्तं तदैवमर्थादेवावगम्यते अनन्तरमनेन भवितव्यमिति / कथं नामान्यथासत्कालान्तरे फलं दास्यतीति / नन्वेवमपि सामर्थ्यलभ्यमानन्तर्यमनन्तरफलानुपलम्भनेन बाध्यताम्, अविशेषप्रवृत्ता तु चोदना कतं बाध्यते अत आह--- शब्देति / न हि सामर्थ्यं नाम पृथक् प्रमाणम्, अपि तर्हि सर्वाख्यातानामर्थं ब्रुवतां शक्तिऽ सहकारिणीति शब्दैकदेश एव / अतऽ स्रुवावदानमिवाप्यद्रव्येष्वर्थादनन्तरमेव फलं निश्चीयत इति तद्बोधे ऽपि शाब्दबोधो भवत्येवेति
SK
इतश्चानन्तर्यमवगम्यत इत्याह---कालान्तरेति / यदि ह्यत्र फलं दास्यतीति ऌङ्श्रोष्यत् तदा तत्सामर्थ्येन कल्पना काचिदप्यभविष्यत् / अद्य पुनरस्येदं कर्मणऽ फलमिति पर्यवसिते वचसि सर्वकर्मणामनन्तरफलोपलम्भाद् वैदिकस्यापि चित्रादेश्चोद्यमानस्यापि कर्मणस्तत्स्वाभाव्यादानन्तर्यं विशेषणतयावतिष्ठत इति
SK
अत्रानन्तरमपरं भाष्यम्--- ऽदृष्टविरुद्धमपि किञ्चित् वैदिकं वचनं ऽस एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीऽति / तद् येन विशेषेणोक्तं तमाह---अत्रेति / अत्र हि चित्रादिवाक्येषूक्तिविसंवादादप्रामाण्युक्तम् / उत्तरत्र यज्ञायुधिवाक्ये प्रत्यक्षादिविरोध इति विरोधमभिद्योतयति--- स्वर्गयान इति / यजमानस्य निरतिशयानन्दात्मनऽ स्वर्गादतिदूरमपभ्रष्टो भस्मीभावऽ प्रत्यक्षमुपलभ्यते, चित्रादिचोदना
SK
यज्ञायुधिवचो मिथ्या प्रत्यक्षेण विरोधतऽ / साधर्म्येण शिलावाक्यं वैधर्म्येणाप्तभाषितम् // Mस्व्_५,९.९ //
SK
शरीदाद् यदि चान्यऽ स्यान्नासौ यज्ञायुधी भवेत् / न चास्य यजमानत्वं सद्भावो ऽपि च दुर्लभऽ // Mस्व्_५,९.१० //
SK
सु त्वनन्तरफलानुपलम्भमात्रं न तु विरुद्धोपलम्भऽ कश्चिदस्तीति स्यादपि कालान्तरे फलकल्पना, भस्मीभूतं तु शरीरं कालान्तरे ऽपि स्वर्गं लोकं यास्यतीति न सम्भवतीति पूर्वस्माद् विशेषऽ
SK
अपरमपि च ऽएवञ्जातीयकं प्रमाणविरुद्धं वचनमप्रमाणम्--- अम्बुनि मज्जन्त्यलाबूनि, ग्रावाणऽ प्लवन्त इति यथा ऽ इति भाष्यम्, तद् व्याचष्टेयज्ञेति वाक्यमन्तेन / यज्ञायुधवचो धर्मी, मृषेति साध्यो धर्मऽ, प्रत्यक्षविरोधात्, यत्प्रत्यक्षविरुद्धं तन्मिथ्या, यथा ग्रावाणऽ प्लवन्त इति शिला वाक्यं साधर्म्येण यथेति दर्शयितव्यमिति / वैधर्म्यदृष्टान्तमाह--- वैधर्म्येणेति / यदमिथ्या न तत्प्रत्यक्षविरुद्धं यथाप्तभाषितमिति / पूर्वं तु मर्दनसुखयोर्वैधर्म्ये दृष्टान्तरतयोपन्यासाच्छिलावाक्यमपि वैधर्म्येण भाष्यकृतोक्तमिति भ्रान्तिमपनेतुं साधर्म्यवैधर्म्यविवेको वार्तिककृता दर्शितऽ
SK
ननु प्रत्यक्षविरोधादिति हेतुसिद्ध एव, अस्ति हि परलोकफलभोक्ता चेतनऽ कर्मणां कर्ता, स स्वर्गं लोकं यास्यतीति / तमेवाभिप्रेत्य स्वर्गं लोकं यास्यतीत्युक्तम् / अतऽ को विरोधो ऽत आह---शरीरादिति / यदि हि शरीरादन्यश्चेतनो भवेत्, भवेदपि न तस्य यज्ञायुधैरस्ति कश्चित् सम्बन्धप्रकारऽ, शरीरस्यैव तु स्रुक्कपालादियज्ञायुधैऽ सम्बन्धऽ, यद्यज्ञायुधी यजमान इति तदभिप्रायेण मत्वर्थसंयोगो घटते / अपि च ऽस एषऽ इत्यपरोक्षप्रतिनिर्देशऽ, सो ऽपि शरीरस्यैव प्रत्यक्षत्वादुपपन्नो नात्मनऽ / तदेतदपि भाष्यकारेणोक्तं हि --- ऽशरीरकं व्यपदिशतिऽइति / किञ्च यजमानशब्दो ह्यात्मन्यसमञ्जसऽ, यागस्य हि कर्ता यजमान इत्युच्यते, न च यथाचोदितविततपूर्वापरीभूतानेककर्भक्षणात्मकक्रतुक्रियाकर्तृत्वमात्मनऽ सम्भवति, विभोऽ पूर्वापरदेशविभागसंयोगयोगफलकर्मणामसमवायात् / तदेतदाह--- न
SK
यदि स्याद् विधिशब्दो ऽत्र नैवादर्शनतो भवेत् / विशेषो ऽस्येति भेदेन नोपात्तं स्यादिदं ततऽ // Mस्व्_५,९.११ //
SK
विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य हि / विरोधपरिहारऽ स्याद् वर्तमाने ऽपि नास्त्यसौ // Mस्व्_५,९.१२ //
SK
फलं च न भवेदेवं भस्मीभावाद् विधावपि / तत्सामर्थ्येन यान्यपि कल्पना तां निषेधति // Mस्व्_५,९.१३ //
SK
चेति / अभ्युपगम्य चात्मनऽ सद्भावमिदमस्माभिरुक्तम्, परमार्थेन तु देहेन्द्रियव्यतिरिक्तात्मसद्भावो ऽपि प्रमाणाभावाद् दुर्लभ इत्याह--- सद्भाव इति / प्रपञ्चयिष्यते चैतदात्मवाद इतीह न प्रतन्यत इति
SK
अपरं च--- ऽन चैष यातीति विधिशब्दऽऽइति भाष्यम् / तस्याभिप्रायमाह--- यदीति / अस्यार्थऽ--- यदि ह्यत्र यज्ञायुधिवाक्ये विधिशब्दो भवेत्, तदा चित्रादीनामनन्तरफलादर्शनाद् भेदेन विरोधोपन्यासार्थं यज्ञायुधिवाक्योपादानं नोपपद्यते / अतऽ स्वकृतभेदोपादानसमर्थनार्थं विधिशब्दनिराकरणमिति
SK
विधिशब्दे को विशेषऽ, अत आह--- विधीति / विधिशब्दे हि कालविशेषानुपादानाद् विधिसामर्थ्यादेव कालान्तरभावितां फलस्य परिकल्प्य स्यादपि चित्रादिचोदनास्विवाभावविरोधपरिहारऽ / इह तु यातीति वर्तमानापदेशान्न प्रत्यक्षविरोधऽ शक्यते परिहर्तुमित्यदर्शनाद् विशेष इति
SK
चित्रादिवाक्याभिप्रायेण चेदमस्माभिरुक्तम्--- विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य विरोधऽ शक्यते परिहर्तुमिति / इह तु प्रत्यक्षेण भस्मीभावोपलम्भान्न कालालन्तरफलभावितया स्वर्गगमनं फलमिति शक्यते कल्पयितुम् / न हि विधिसहस्रेणाप्याशङ्कनीयोर्ऽथऽ शक्यऽ प्रत्याययितुम् / तदेतदाह--- फलं चेति / तकिं तर्हि विधिशब्दतानिराकरणस्य फलमत आह--- तत्सामर्थ्येनेति / चेतनप्रवर्तनात्मको हि विधिरन्तरेण परलोकफलोपभोक्तार
SK
प्रायश्चैवंप्रकारत्वमर्थवादेषु दृश्यते / मन्त्रेषु चेति ते सर्वे पक्षीकार्याऽ प्रयत्नतऽ // Mस्व्_५,९.१४ //
SK
एवं सत्यग्निहोत्रादिवाक्येष्वपि मृषार्थता / वेदवाक्यैकदेशत्वाच्चित्रादिदवचनेष्विव // Mस्व्_५,९.१५ //
SK
इति चित्राक्षेपवादऽ /
SK
मनुपपद्यमानऽ कल्पयेदपि कायकरणसङ्घातातिरिक्तमात्मानम्, तस्य च स्वर्गलोकगमनमुपचर्येतापि शरीरे, तस्य वा प्रत्यक्षत्वमात्मनि भाक्तमित्येवमादिकल्पनानिषेधार्थं विधिशब्दनिराकरणमिति
SK
भूयांश्चायं प्रमाणान्तरविरुद्धो मन्त्रार्थवादात्मको वेदभागऽ / यथा ऽअदितिर्द्येरदितिरन्तरीक्षंऽ ऽयजमान एककपालऽऽ इत्येवमादिऽ / स च सर्व एवात्र प्रयत्नतो मुख्यतया मिथ्यात्वेन ऐहिकाक्षेपे पक्षीकार्यऽ, तन्मिथ्यात्वेन चानुषङ्गिकं पेरषां मिथ्यात्वं भविष्यतीत्यभिप्रायेणाह---प्रायैति / ऽतत्सामान्यादग्निहोत्रादिचोदनास्वप्यनाश्वासऽ इति भाष्यम्, तस्याभिप्रायमाह--- एवं सतीति / यदा हि चित्रादिवाक्यादिष्वप्रामाण्यं समर्थितं भवति, तदा वेदवाक्यैकदेशतयाग्निहोत्रादिवाक्येष्वपि मृषार्थता शक्यते ऽनुमातुम्, अतऽ कृत्स्नस्यैव वेदस्याप्रामाण्यान्न चोजनालक्षणार्थो धर्म इत्याक्षेपऽ||
SK
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां चित्राक्षेपवादऽ समाप्तऽ /
SK
अथ सम्बन्धाक्षेपवादऽ /
SK
स्वपक्षसाधनं तावदमृषा वैदिकं वचऽ / स्वार्थे वक्त्रनपेक्षत्वात् पदार्थे पदबुद्धिवत्
SK
अत्रानन्तरम्᳚औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानम्᳚इति भाष्यकारेण सम्बन्धनित्यताद्वारेणाक्षेपपरिहारो ऽवतारितऽ, सो ऽयुक्तऽ, परोक्ताक्षेपहेत्वनन्तरं हि तस्यैव विरुद्धासिद्ध्यादिदोषोद्भावनमुचितम् / यत्तु तमदूषयित्वैवान्यदुच्यते तदसङ्गतमेवात आह--- स्वपक्ष इति / अयमभिप्रायऽ--- यावद्धि सम्बन्धौत्पत्तिकत्वेनानपेक्षालक्षणं चोदनायाऽ स्वतऽ प्रामाण्यं न प्रतिपाद्यते तावद् दूषिते ऽपि साधने न ऽचनोदनालक्षणो धर्मऽ इति प्रतिज्ञा सिध्यति / भूयांश्चानेन क्रमेणार्थो वक्तुमभिप्रेतऽ शब्दार्थसम्बन्धनिरूपणादिऽ / अन्यथा क्रियमामं (?) तदाकाशपतितमिवापद्येत / तच्चैतत् शब्दस्वरूपनिरूपणावसरे वक्ष्यते / न चेदमाक्षेपेण न सङ्गच्छते, द्वेधापि प्रत्यवस्थानदर्शनात् / यथोक्तम्--- ऽद्वेधापि प्रत्यवस्थानं परहेत्ववबाधनात् / आत्मीयसाधनोक्त्या वा तत्रात्मीयमिहोतच्यतेऽ इति / न चात्र परसाधनदूषणं न करिष्यते ऽतत्र हेतोरसिद्धत्वम्ऽ इति चित्रापरिहारे वक्ष्यते / अनेन तु क्रमेण तत् कर्तव्यमिति तावदित्युक्तमिति / तच्च स्वपक्षसाधनं तार्किकाणां चित्तमनुरञ्ज यितुं प्रयोगद्वारेणाह---अमृषेति / वैदिकवचो धर्मी, स्वार्थे सत्यमिति साध्यो (?) धर्मऽ, स्वार्थे वक्त्रनपेक्षत्वात्, यत् स्वार्थे वक्तारं नापेक्षते तत् सत्यम्, यथा पदात् पदार्थगता बुद्धिऽ / पदं हि स्वभावादेव स्वार्थेन सम्बद्धं तत्प्रतिपादनाय वक्तारं नापेक्षत इति सम्बन्धपरिहारे वक्ष्यते / स्वार्थ इति तन्त्रेमोभयविशेषणतया योजनीयम् / यदि ह्यमृष वैदिकं वचनमित्येतावदुच्यते पूर्वपक्षार्थसम्यक्त्वापातादनिकष्टार्थताप्रसाधनप्रसङ्गऽ / न हि स्वर्गकामो यागं कुर्यादित्याद्यर्थे स्वर्गकामो यजेतेति वाक्यं सम्यगिष्यते, षष्ठाद्यसिद्धान्तविरोधात् / यागेन स्वर्गं कुर्यादिति हि तत्र स्थास्यति / वक्त्रनपेक्षत्वादिति चाविशिष्टो हेतुरुपात्तो ऽसिद्ध एव स्यात् / अस्ति हि वैदिकवाक्यानामपि स्वरूपामि तत्कृतऽ प्रत्ययऽ सम्यङ्नित्यवाक्योद्भवत्वतऽ / वाक्यबुद्धिवेदवात्र पूर्वोक्ताश्वापि हेतवऽ
SK
नित्यान् शब्दार्थसम्बन्धानाश्रित्योक्तेन हेतुना / असम्बन्धोद्भवत्वेन परो मिथ्यात्वमब्रवीत् / सम्बन्धो ऽस्ती च नित्यश्चेत्युक्तममौत्पत्तिकादिना ||४
SK
व्यक्तये वक्त्रपेक्षा, स्वार्थे तु प्रत्याययितव्ये न वक्तारमपेक्षन्ते, अपौरुषेयत्वात् / शब्दार्थसम्बन्धनित्यत्वाच्च / पौरुषेयं प्रमाणान्तरप्रमितगोचरमाप्तवचनमपि वक्तुऽ प्रमाणमपेक्षते / यथोक्तम्, ऽआप्तोक्तिषु नरापेक्षेऽति
SK
प्रयोगान्तरमाह---- तत्कृत इत्येवान्तेन / वैदिकवाक्यकृतऽ प्रत्ययऽ सम्यगिति साध्यम्, नित्यवाक्योद्भवत्वात्, यथा तद्वाक्यस्वरूपविषया बुद्धिऽ / सापि हि वाक्यादुद्भवति, निर्विषयबुध्यनुत्पत्तेऽ / वेदवाक्यनित्यता च वेदाधिकरणे स्थापयिष्यत इति / अत्रैव साध्ये पूर्वोक्ताऽ--- ऽनान्यत्वात्ऽ इति भाष्यव्याख्यानावसर उक्ताऽ--- दोषवर्जितैऽ कारणैऽ जन्यमानत्वात्, अनाप्ताप्रणीतोक्तिजन्यत्वात्, देशादिभेदे ऽपि देशादिभेदे ऽपि बाधवर्जनात् इति हेतवो दर्शयितव्या इत्याह--- अत्रेति
SK
अत्र भाष्यम्--- ऽस्यादेतत्, नैव शब्दस्यार्थेन सम्बन्धऽ, कुतो ऽस्य पौरुषेयता अपौरुषेता वाऽइति / तस्याभिप्रायमाह--- नित्यानित्यब्रवीदन्तेन / अस्यार्थऽ--- शब्दार्थसम्बन्धानां नित्यत्वमाश्रित्यानपेक्षत्वादिति सूत्रकारेण यो हेतुऽ स्वतऽ प्रामाण्यसिध्यर्थमुक्तऽ, तेन चोदनानामप्रामाण्ये निराकृते ऽधुना सम्बन्धोद्भवत्वाभावेन परो बौद्धादिर्मिथ्यात्वमुक्तवान् / एवं च तदा वार्तिककारेण वृत्तिकारमतेनात्रैव स्वतऽ प्रामाण्यं व्युत्पाद्यमिति दर्शितम् / तथा च ऽसूत्रकारेण चोच्यतऽ इति पुनरुक्तिपरिहारे परतऽ पप्रामाण्योक्तैरेवाक्षेपहेतुभिऽ पूर्वपक्षो ऽभिहितऽ / इहापि च भाष्यकारेण ऽब्रूतऽ इत्युच्यते--- अवबोधयति बुध्यमानस्य निमित्तं भवति, इत्यादि चोदनासूत्रोक्तमेव स्वतऽ प्रामाण्यकारणमुक्तमिति ||३ १/२||
SK
मिथ्यात्वस्य निरासार्थं तत्परैर्नेष्यते द्वयम् / नैव वास्त्यत्र सम्बन्धऽ कृतको वेति वक्ष्यते
SK
असम्भवेन शेषाणां संश्लेषऽ परिशिप्यते / तस्मिन्नेव च सम्बन्धे प्रतीतिर्लौलिकी ध्रुवम्
SK
एतदेव विवृणोति --- सम्बन्ध इति वक्ष्यते ऽन्तेन / चोदनामिथ्यार्थनिरासार्थं हि सम्बमन्धसद्भावो नित्यता च हेतुरुक्तऽ / तच्च द्वयमपि परैर्नेष्यते / तत्र सम्बन्धाभावस्तावदनेनैव भाष्येणोक्तऽ / कृतकत्वं तु ऽयदि प्रथममश्रुतो न प्रत्याययति, कृतकस्तर्हिऽ इत्यनेन वक्ष्यते / तदत्र सम्बन्धाभावेनानपेक्षत्वादिति हेतोरसिद्धिरुक्ता / न चासति सम्बन्धे परोक्तार्थप्रतीतिरुत्पद्यत इति दर्शितम् / प्रतिबन्धबले ह्यर्थान्तरदर्शिनो ऽप्यर्थान्तरे ज्ञानमुत्पद्यते / अनादृतप्रतिबन्धस्तु यत्किञ्चिद् विद्वान् स सर्वं जानीयादित्यतिप्रसज्यत इति ||४,५||
SK
अत्र भाष्यकारेण कार्यकारणभावादयऽ सम्बन्धाऽ शब्दस्यानुपपन्ना इत्युक्त्वा संश्लेषसम्बन्धभाव एव दर्शितऽ, तदेतद्वार्तिककारो दर्शयति--- असम्भवेनेति / निमित्तनैमित्तिकाश्रयाश्रयिभावादयऽ सम्बन्धाऽ शब्दार्थयोरत्यन्तासम्भाव् इता एव, कार्यकारणभावस्तु बोद्धगन्धिवैयाकरणैरभ्युपगत एव / ते ऽप्याहुऽ---- ऽअर्थाऽ शब्दाश्च दृश्यन्ते प्रत्यक्षा यद्यपि स्फुटम् / अभिधानाभिधेयौ तु ज्ञानाकारौ तथापि नऽऽ||
SK
इति / एवं हि मन्यन्ते--- न तावद् वर्णाऽ शब्दऽ, प्रत्येकमवचाकत्वात् / अयुगपद्वर्तिनां चावयविसमुदायासरम्भानुपपत्तेऽ / अत एव गोशब्दत्वादिजात्यसम्भवात् भूतादिविशेषाणां च प्रतिप्रयोगमन्यत्वेनावाचकत्वाद् वर्णबुद्धिस्मृतिसंस्काराणां चाक्षरवत् प्रत्याख्यानात् पूर्ववर्णजनितसंस्कारसहितान्त्यवर्णस्यापि वर्णत्वेनापूर्ववर्णवदवाचकत्वात् पूर्वपूर्वनिखिलवर्णपदोपसहारक्रमेण चरमस्य कस्यचित् स्फोटात्मनो ऽनवग्रहाद् युगपदवस्थितानेकवर्णाकारज्ञानात्मैव शब्दऽ / अर्थो ऽपि जातिव्यक्त्यवयवावयविगुणगुणिव्यतिरेकाव्यतिरेकादिविकल्पदूरीकृतनि रूपणो न बाह्यऽ सम्भवतीति ज्ञानात्मकशब्दवेदनानन्तरोत्पद्यमानबाह्यजात्यादिनिर्भास्परत्ययमात्रात्मैव / तन्निषेधमतऽ प्राह न शब्दोर्ऽथेन सङ्गतऽ / तद्देशानन्तरादृष्टेर्विन्ध्यो हिमवता यथा
SK
एवमर्थो द्वयं वापि साधनीयमसङ्गतम् / क्षुरेत्यादि च सिद्ध्यर्थं हेतोरुक्तमथापरऽ
SK
शक्तिरूपं गृहीत्वाह संश्लेषो यदि वार्यते / सम्ब(न्धा?न्धऽ) सिद्धसाध्यत्वमथ सम्बन्धमात्रकम्
SK
स चायमेवम्भूतोर्ऽथऽ शब्देन जन्यत एवेति कार्यकारणभावमेव शब्दार्थयोऽ सम्बन्धमातिष्ठन्ते / तच्चेदमतिदूरमपभ्रष्टम्, एवं च सत्यविदितस्वरूपशक्तीनामप्यर्थसंविदुपजायेत / दृष्टा हि खलु मृत्सलिलप्रच्छन्ना अपि व्रीहयो ऽङ्कुरादिकार्यमारभमाणा अविदितस्वरूपशक्तयो ऽपीति सूक्तम्--- असम्भवेन शेषाणामिति / कथं तु संश्लेषऽ परिशिष्यत इति, प्रतीतेरभ्युपगमाच्च / गौरयमिति हि सामानाधिकरण्येन शब्दोपश्लिष्टमर्थमवयन्तो लौकिका दृश्यन्ते / अभ्युपगतश्च कैश्चिच्छब्दार्थयोऽ संश्लेष एव सम्बन्धऽ / प्रपञ्चितश्चासावध्यासवाद इति / लौकिकाश्च प्रायेण संश्लेषमेव संबन्धं मन्यन्ते इति स एव सम्बन्धऽ प्रसक्को निराकार्य इत्याह--- तस्मिन्निति प्राहायेन भवति स तद्देश एव दृश्यते रञ्जुरिव घटे, तदनन्तरदेशे वा प्रदेशिनीवमध्यमायाऽ / नच च शब्दार्थयोरन्यतरदेशे वान्यतरो दृश्यते / अतोहिमवद्विन्ध्ययोरिव नानयोऽ सम्बन्ध इति ||६,७||
SK
अर्थो वा पक्षीकार्य इत्याह---एवमिति / द्वयं वा परस्परमसम्बद्धमितरेतरदेशे तदनन्तरदेशे वादृष्टेऽ साध्यमित्याह--- द्वयमिति / अत्र भाष्यकारेण ऽस्याच्चेदर्थेन सम्बन्धऽ क्षुरमोदकशब्दोच्चारणे मुख्यस्य पाटनपूरणे स्याताम्ऽ, इत्युक्तम् / तस्याभिप्रायमाह--- क्षुरेत्युक्तमन्तेन / अस्यार्थऽ--- अत्र भाष्यकारेण शब्दार्थयोऽ सम्ब्नधसिद्ध्यर्थं तद्देशानन्तरादृष्टेरिति हेतुरन्तर्णीतऽ, तं च गौरयमिति सामानाधिकरण्यप्रतीतिभ्रमाद् यो नामासिद्धं मन्यते, स एवं प्रतीबोध्यते--- यदि शब्दार्थयोरुपश्लेष पितापुत्रादिसम्बन्धैरनैकान्तऽ प्रसज्यते / एकभूम्यादिसम्बन्धाद् दृष्टान्ते साध्यहीनता
SK
वाच्यवाचकसम्बन्धनिषेधे लोकबाधनम् / विरोधश्च स्ववाक्येन न हि सम्बन्धवर्जितैऽ
SK
लक्षणऽ सम्बन्धो भवेत्, अर्थो ऽपि शब्ददेश एव स्यात्, मुखं च तस्य देश इति क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, न च ते स्तऽष तस्मान्मोदकाद्यर्थक्रियानुपलम्भाच्छब्ददेशे तद्देशानन्तरादृष्टेरिति सिद्धो हेतुऽ / सामानाधिकरण्यबुद्धिस्तु शब्दार्थयोर्नास्त्येव / न हि नीलिम्नेवानुरक्तमुत्पलं शब्दानुरक्तमर्थमुपलभामहे / गादिसास्नादिमद्रूपा हि तयोर्बुद्धरुदेति / अत्र सिद्धान्तभाष्यं ऽयो ऽत्र व्यपदेश्यऽ सम्बन्धऽ तदेत(तमेकं)न्न व्यपदिशति भवान्ऽ इत्यादि / तस्याभिप्रायमाह--- अथेति हीनतान्तेन / अत्रायमभिप्रायऽ---- प्रत्याय्यप्रत्यायकशक्तिरूपो हि नऽ शब्दार्थयोऽ सम्बन्धो ऽभिप्रेतऽ, तद् यदि संश्लेषलक्षणसम्बन्धाभावऽ साध्यते, तदा सिद्धसाध्यतादोषऽ / सम्बन्धाभावमात्रे तु यौनादिसम्बन्धैरनैकान्तिकत्वम् / हिमवद्विन्ध्योरपि चैकभूम्यादिसम्बन्धात् साध्यहीनो दृष्टान्त इति ||८.१०||
SK
यदि तु वाच्यवाचकसम्बन्धमेवाभिप्रेत्य न शब्दार्ऽथेन सङ्गत इति साध्यते ततो लौकिकविरोध इत्याह---वाच्येति / दूषणान्तरमाह--- विरोध इति / अत्र कारणमाह--- न हीति परान्तेन / अयमभिप्रायऽ--- चतुर्विधो हि पुरुषऽ, प्रतिपन्नो ऽप्रतिपन्नऽ सन्दिग्धो विपर्यस्तश्चेति / तत्र प्रतिपन्नऽ प्रतिपादयिता, इतरे सापेक्षाऽ प्रतिपाद्याऽ, तत्प्रतिपादनार्था च प्रतिज्ञा, तद्य एव तेषामन्यतमऽ परऽ प्रतिपादयितुमभिप्रेतो भवति स एव वाच्यवाचकसम्बन्धवर्जितैऽ प्रतिज्ञार्थगौचरैऽ पदैऽ प्रतिपादयितुमशक्यऽ, अतऽ प्रतिज्ञां प्रयुञ्जानैराश्रितऽ शबादर्थयोर्वाच्यवाचकलक्षणसम्बन्ध इति तन्निनिराकरणे स्ववाग्विरोध इति / स चायमभिधया स्ववाग्विरोधऽ / पञ्चधा हि तद्विरोधऽ / उच्चारणाभिधाधर्मधर्म्युभयोक्तिभिरिति ||११ १/२||
SK
प्रतिज्ञार्थं पदैऽ शक्यऽ प्रतिपादयितुं परऽ / अभिधानक्रियायां हि कर्मत्वं वाच्यसंश्रितम्
SK
शब्दानां करणत्वं वा कर्तृत्वं वा निरूपितऽ / प्रतिपत्तावुपादानात् साहित्ये च विवक्षिते
SK
वाच्यवाचकसम्बन्धस्वरूपमिदानीमभिद्योतयति---अभिधानेति / अस्यार्थऽ--- एकस्यामभिधानक्रियायां शब्दऽ करणं कर्ता वा, विवक्षातऽ कारकप्रवृत्तेऽ / अर्थस्तु कर्मैव / अतो(यद्?अ) नयोऽ कर्मकरणत्वं (कर्म) कर्तृत्वं वा / निरूपितऽ--- सम्बन्ध इति वक्ष्यमाणेन सम्बन्ध इति / यद्वा--- एकस्यां गवाद्यर्थप्रतिपत्तौ साध्यमानायामेकेन वक्त्रोपादीयमानावरुणैकहानीवद्विवक्षितसाहित्यौ शब्दार्थो यन्नियम्येते सो ऽनयोऽ सम्बन्ध इत्याह--- प्रतिपत्ताविति / उपादानादित्युपादीयमानतया विशेषणविवक्षां दर्शयति / उपादेयस्य हि विशेषणं विवक्षितं भवति शोरिवैकत्वं--- पशुना यजेतेति / उद्देश्यविशेषणं त्वविवक्षितं भवति, यथा ग्रहविशेषणमेकत्वम्, उद्देश्या हि ग्रहाऽ, तेषु संमार्जनविधानात् / इह चार्थप्रतिपत्तावेकस्यामुपादेयौ शब्दार्थौ, पशुरिव योगे / अतो विवक्षिततमनयोऽ साहित्यं विशेषणमित्यरुणैकहायन्योरिवानयोर्नियमऽ सम्बन्ध इति / (नत्वे?न्वे)वमरुणैकहायन्योऽ श्रूयमाणयोऽ साहित्यविवक्षा युक्ता / समुदाये हि तत्र वाक्यं समाप्यते / (शब्दार्थौ तु) नैव प्रतीतिक्रिया(यां विशेष)णतयाश्रुतौ, कथमनयोऽ साहित्यविवक्षा / न श्रूयमाणता विशेषणविवक्षाहेतुऽ / अपि तु अर्थसंव्यवहारो ऽपि हि / पाकादौ यदौदनादिस्थाल्यादि...(क्रिया) व्यवहारदर्शनात् अनभिहितमप्यर्थं जानाति तदा स्थाल्यादीनां विवक्षितं साहित्यं मन्यते, कतथा मन्वानऽ स्वयमपि पक्तुकामस्तत्सर्वमाहरति / एवमिहापि बालऽ प्रयोज्यवृद्धस्य विविष्टार्थव्यवहारदर्शनेन तद्विषयां बुद्धिमनुमाय शब्दानन्तरभावितया शब्दकारणतां तादववधारयति / वक्तुश्चास्यां प्रयोज्यवृद्धप्रतिपत्तौ दर्शनपारार्थ्यात् प्रधानभूताया(मुपा)दीयमानयोऽ शब्दार्तयोऽ साहित्यं विवक्षितमिति / एवं च विदित्वा स्वयमपि परार्थप्रयोगे सहितौ शब्दार्थौ हृदयमावेशितावुपादाय शब्दं चोच्चार्य परप्रतिपत्तिं भावयतीति सूक्तं साहित्यविवक्षा वर्णसाहित्यविवक्षावदिति ||१२-१३ १/२||
SK
नियम्येते तदेकस्यां सम्बन्धऽ सोर्ऽथशब्दयोऽ / तत्र यद्यप्यसम्बन्धऽ कारकाणां परस्परम्
SK
तथापि यत्क्रिया तस्यामुपकार्योपकारिता / तत्क्रियासङ्गतेऽ पश्चात् सम्बन्धऽ कीर्त्यते तयोऽ
SK
नन्वेवं वदता शब्दार्थयोऽ क्रियासम्बन्ध एव दर्शितऽ, न परस्परम्, गुणप्रधानभावमन्तरेण सम्बन्धायोगात् / वक्ष्यति हि--- ऽगुणानां च परार्थत्वादसम्बन्धऽ समत्वात्ऽ इति / स्यादेतत् / क्रियाकारकसम्बन्धपूर्वकत्वात् सर्वसम्बन्धानां क्रियाकारकसम्बन्ध एव दर्शित इति / अस्तु तावत्, तदुत्तरकालभावी तु को ऽनयोऽ सम्बन्ध इति वाच्यमेव / तदेतत् सर्वमनुभाष्य परिहरति---तत्रेति तयारेन्तने / अस्यार्थऽ---- यद्यपि कारकाणां प्रधानार्थत्वान्न परस्परसम्बन्धऽ / तथापि प्रतिपत्त्यभिधानयोर्या काचित् क्रिया गृह्यते, तस्यां च क्रियाकारकसम्बन्धोत्तरकालभावी परस्परोपकार्योपकारकलक्षणऽ शब्दार्थयोरस्ति सम्बन्धऽ||
SK
तत्पुनरिदं पूर्वापरविरुद्धं प्रदेशान्तरविरुद्धं च / तथाहि --- अत्र तावदेकस्यां क्रियायामुपकार्योपकारकत्वं शब्दार्थयोऽ सम्बन्ध इत्युक्तम्, ऽप्रतिपत्तावुपादानात्ऽ इति क्रियानुमानाङ्गत्वमेव परस्परनियमात्मको सम्बन्ध इत्युक्तम् / प्रदेशान्तरे शक्तिरेव सम्बन्ध इति वक्ष्यति / क्वचिच्च शब्दशक्तिनियममेव सम्बन्धमाह--- ऽवाच्यवाचकशक्त्योश्च नियमऽ फललक्षणऽऽ इति ब्रुवाणऽ / अन्यत्राप्युक्तम्--- ऽएकाभिधानिमित्त्वं कर्मकर्तृत्वयोश्च यत् / यो वा करणक्रमत्वनियमो ऽभिधयैकया||
SK
स नोर्ऽथशब्दसम्बन्धऽऽ इति / अतो विवेचनीयमिदम्--- को ऽत्र सम्बन्धऽ शब्दार्थयोर्वार्त्तिककारस्याभिमत इति / अत्रोच्यते--- यथैकेन क्रयकर्मणा परिगृहीतयोर्द्रव्यगुणयोरितरेतराकाङ्क्षापरिपूरणेन परस्परोपकार्योपकारकलक्षणऽ सम्बन्धऽ न ह्यनाश्रितऽ क्रयक्रियामभिनिर्वर्तयति / न द्रव्यं गुणविशेषानवच्छिन्नमुत्सहते क्रयक्रियां निर्वर्तयितुम् / न च गुणेन स्वमहिम्ना आश्रयभूतद्रव्यमात्रमुपादीयमानमपि क्रये गृह्यते, (स्वकीयगो) द्रव्यावरोधात् / द्रव्ये (गुणमात्रा) वच्छेदात् तद् गुणमात्रमुपादीयमानमपि क्रयक्रिया न प्रतीच्छति स्वकीयारुणिमगुणावरोधात् / सो ऽयमर्थो नियमऽ सम्पद्यते / तदेवमिहाप्येकार्थप्रतिपत्त्यभिधानक्रियासिद्ध्यर्थमुपादीयमानयोर्विवक्षितसाहित्ययोऽ शब्दार्थयोऽ क्रियाकारकसम्बन्धोत्तरकालभावी यो ऽयमुपाकार्योपकारकभावऽ, स एव सम्बन्धऽ / कऽ पुनरनयोऽ परस्परोपकारऽ / श्रूयताम्--- अर्थो हि न प्रतिपादकमन्तरेण प्रतिपाद्यो भवति, शब्दो न प्रतिपाद्यमन्तेरण प्रतिपादकऽ / अतऽ प्रतिपाद्यप्रतिपादकतयावतिष्ठमानावन्योन्यस्योपकार्योपकारकौ भवतऽ / तच्चेदं रूपमनयोर्नियतमित्यत्यन्तसन्निकर्षमात्रेण नियमे सम्बन्धाभिधानम्, न तु नियम एव सम्बन्धऽ / शक्तिसम्बन्धवादो ऽपि चात एव / वाच्यवाचकशक्त्योरेव हि सत्योरुपकार्योपकारकभावो भवति / न तु शक्तिरेव सम्बन्धऽ, तदत्र प्रत्यासत्तेरभेदोपचारेण शक्तिऽ सम्बन्धऽ, नियमऽ सम्बन्धऽ, कर्तृत्वं करणत्वं वा सम्बन्ध इत्येवमादयऽ समुल्लापाऽ / वस्तुतस्तूपकार्योपकारकत्वमेव सम्बन्धऽ / कथं पुनस्तद्रूपमनयोर्नियतमित्युच्यते / न ह्यनुच्चरिते शबेद परस्परोपकार्योपकारकभावऽ शब्दार्थयोरस्ति / न च सदानीं तौ न स्तऽ, नित्यत्वात् / तस्मादसदेतत् / तन्न / शक्त्यात्मना विद्यमानत्वात्
SK
न चाप्यत्राविनाभाव उपयोगीति साधितम् / संज्ञेति गमकत्वं चेन्न तदङ्गमियं भवेत् // Mस्व्_५,९.१६ //
SK
गमयन्ती श्रुतिं दृष्ट्वा कल्प्यते व्यवहारतऽ / न चैषा गमयत्यर्थं सम्बन्धे ऽनवधारिते // Mस्व्_५,९.१७ //
SK
अनुच्चरिते ऽपि हि शब्दे ऽस्ति प्रतिपादकशक्तिऽ,अर्थे च प्रतिपाद्यशक्तिऽ अत एव सम्बन्धो नित्य इत्युच्यते / नन्वेमपि करहस्तादिभिरनेकैऽ शब्दैरेकत्रार्थे प्रतिपाद्ये अनेकार्थवचने चैकस्मिन् गवादिशब्दे कथमव्यभिचारऽ शक्यते ऽवगन्तुम् / अतऽ प्रकरणादीनामपि पदार्थावधारणापोयत्वाद् वृद्धव्यवहारे हि बालेन केवलपदाप्रयोगादावापोद्धारभेदेनैतदवधारितम्--- यदा यदर्थविवक्षया शब्दऽ प्रयुज्यते स तस्यार्थ इति / विवक्षा चार्थप्रकरणादिवशोन्नेया / गामानयदोग्धुमित्युक्ते अर्थादेतदवगम्यते सास्नादिमत्यस्य विवक्षेति / योत्स्यामीत्युक्ते अर्थादि(मु?) षौ प्रतीतिरुदेति / तदेवमर्थप्रकरणादिभेदभिन्नमन्ययान्यया च शक्त्योपहितमन्यदन्यच्च पदमन्यस्यान्यस्य वाचकमिति न पदव्यभिचारऽ / अर्थो ऽपि चोद्भूततत्पदाभिधानयोग्यावस्थाभेदभिन्नो हस्तादिरन्यो ऽन्यशच् करादिपदानां वाच्य इति न पदं व्यभिचरति / अपि चैकस्यां क्रियायामयं नियम इत्युक्तऽ / न चैकस्यां प्रतिपत्तावभिधाने वोपादीयमानयोऽ शब्दार्थयोरन्योन्यव्यभिचारो ऽस्ति / तदिदमुक्तं हि ऽनियम्येते यदेकस्याम्ऽ इति ||१४,१५||
SK
नन्वेवमेक्रियानिमित्तको नियमऽ शब्दार्थयोऽ सम्बन्ध इत्युच्यमाने ऽनुमानाङ्गमविनाभाव एवाश्रितो भवेत्, अतस्तदबलेन धूमादिवाग्निज्ञानं शब्दादर्थज्ञानमुपजायमानमनुमानं स्यादत आह---न चापीति / इदं च शाब्दे प्रसाधितमित्याह--- साधितमिति / ननु यद्यविनाभावो नोपयुज्यते, कस्तर्ह्युपयुज्यते / उक्तं भाष्यकारेण--- ऽसंज्ञासंज्ञिसम्बन्धऽऽइति / ननु चायमपि सम्बन्धो ऽनुपयोग्येव / तदेतदाशङ्कते--- संज्ञेति / तदङ्गं गमकत्वाङ्गमित्यर्थऽ
SK
कथमनङ्गमत आह---गमयन्तीति / व्यवहारदर्शनेन गम
SK
तस्माद् गमकता पश्चाद् धूमादेरिव जायते / सानङ्गं तद्वदेव स्यान्नेयं धूमादिभिऽ समा // Mस्व्_५,९.१८ //
SK
निरूपिते ऽविनाभावे तत्र तत्कारिता ह्यसौ / गमकत्वेन पूर्वं च तत्र नोत्पद्यते मतिऽ // Mस्व्_५,९.१९ //
SK
इह वाचकतायाऽ प्राङ् नाविनाभावितामतिऽ / यदैव चेह सम्बन्धं वृद्धेभ्यऽ प्रतिपाद्यते // Mस्व्_५,९.२० //
SK
तदैव गमको ऽस्यायमिति नान्यस्वरूपतऽ / कथयन्ति क्वचित्तावद् बोद्धव्यो ऽस्मादयं त्विति // Mस्व्_५,९.२१ //
SK
क्वचिद् वाचक इत्येवं वाच्यो ऽयमिति चोच्यते / क्वचिदुच्चारिताच्छब्दाद् दृष्ट्वार्थविषयां क्रियाम् // Mस्व्_५,९.२२ //
SK
यन्ती एषा संज्ञा कल्प्यत इति / किमतो यद्येवमत आह--- न चैषेति / एतदुक्तं भवति / गमकत्वमेव संज्ञात्वं न तत्सम्बन्धान्तरमन्तेरेणेति
SK
यतश्चैवमतो धूमादेरिव गमकत्वं सम्बन्धान्तरपूर्वकमेव पश्चादापतितमित्याह---तस्मादिति / तत्तुल्यत्वे दोषमाह--- सानङ्गमिति / यथैवाविननाभाव एव धूमादौ प्रतीत्यङ्गं न तदुत्तरकालभावि गमकत्वम्, एवं तत्रापि स्यादिति / धूमादिवैषम्येणेदानीं परिहारमाह--- नेयमिति
SK
वेषम्येमेव दर्शयति--- निरूपित इति / तत्र हि धूमादौ महानसादिदेशे ऽग्न्यविनाभावनिरूपणोत्तरकालं तत्कृतैवासौ गमकतेति / अपि च धूमे प्रथमं गमकत्वं नावगम्यत इत्याह -- गमकत्वेनेति
SK
शब्दे तु विपरीतमित्याह--- इहेति सार्धेन ||२० १/२||
SK
गमकत्वेनैव शब्दे प्रथमं व्युत्पत्तिरित्युक्तं तद् विवृणोति---कथयन्तीतित्रयेण / अयमर्थऽ--- त्रेधा हि शब्दे व्युत्पत्तिऽ, वृद्धोपदेशात् तदव्यवहारात् पदान्तरसमभिव्याहाराद्वा / सर्वत्र चात्र गमकतैवादाववगम्यते / तथाह--- वृद्धोपदेशे तावदयमस्य वाच्यऽ अयमस्य वाचक
SK
केषाञ्चित् तत्र बोद्धृत्वमनुमानात् प्रतीयते / एतेनास्माद् यतऽ शब्दादर्थो ऽयमवधारितऽ // Mस्व्_५,९.२३ //
SK
तेन नूनमिमौ लोके सिद्धौ वाचकशक्तिकौ / इत्थं वाचकता सिद्धा सङ्कीर्णापि ततऽ परम् // Mस्व्_५,९.२४ //
SK
अन्वयव्यतिरेकाभ्यां निष्कृष्टेर्थे ऽवधारिते / बहुजातिगुण्द्रव्यकर्मभेदावलम्बिनऽ // Mस्व्_५,९.२५ //
SK
प्रत्ययान् सहसा जातान् श्रौतलाक्षणिकात्मकान् / न लोकऽ कारणाभावान्निर्धारयितुमिच्छति // Mस्व्_५,९.२६ //
SK
इति गम्यगमकभाव एवावगम्यते / यत्रापि क्वचिदुच्चरिताद् वाक्यात् प्रयोज्यवृद्धस्यार्थाविषयां क्रियां दृष्ट्वा चेष्टानुमानेन गवाद्यर्थबोद्धृत्वमुपकल्प्यते तत्रापि यस्मादतऽ शब्दादनेनायमर्थो ऽवगतऽ, तस्मादयमस्यार्थ इति गमकतैव शब्दस्यादाववगम्यते / प्रसिद्धपदान्तरसमभिव्याहारे ऽपि इह सहकारतरौ मधुरं पिको रौतीत्येवमादौ विदितसहाकरादाद्यर्थो ऽविदितपिकाद्यर्थश्च यो ऽयं सहकारतरौ रौति तस्य पिकशब्दो गमक इति गमकत्वमेवावगच्छतीति सिद्धं सर्वत्र गमकत्वं न व्युत्पत्तिरिति ||२१-२३ १/२||
SK
नन्वाकृतिऽ शब्दार्थ इति वऽ सिद्धान्तऽ / न च तद्वाच्यत्वमन्वयव्यतिरेकावन्तरेण शक्यते ऽवगन्तुम् / अतस्तत्प्रधानैव शब्दप्रतीतिरापद्येत / अत आह---इत्थमिति / अयमर्थऽ--- अन्वयव्यतिरेकयोरत्र निष्कृष्टार्थनियममात्रे व्यापारऽ, वाचकता तु नानाजात्यादिसङ्कीर्णार्थविषया सिद्धैवेति ||२४ १/२||
SK
नन्वागोपालं शब्दार्थव्यवहारो दृश्यते / न च ते ऽन्वयव्यतिरेकाभ्यामर्थनिष्कर्षं कुर्वन्ति / न च तान् प्रत्यवचाकाऽ शब्दा इति युक्तं वक्तुम् / तुल्यवत् प्रतीतेऽ / पिकाद्यर्थनिर्णयस्य च म्लेच्छादिनिबन्धनस्य
SK
बलाबलादिसिद्ध्यर्थं वाक्यज्ञास्तु विविञ्चते / कक्ष्यान्तरितसामान्यविशेषेषु हि दुर्बलऽ // Mस्व्_५,९.२७ //
SK
सामान्यवचनऽ शब्दो जायते लक्षणाबलात् / तेनावश्यं विवेक्तव्य शब्देन कियदुच्यते // Mस्व्_५,९.२८ //
SK
वक्ष्यमाणत्वादत आह---बहुजातीतिसार्धेन / अयमभिप्रायऽ--- लौकिका हि हानोपादानादिव्यवहारमात्रार्थिनऽ, न च तेषां व्यवहारऽ शब्दौच्चारणक्षणोपजातसङ्कीर्णार्थबोधसाध्य एवेति, श्रौतलाक्षणिकादिविवेकं प्रत्यनादृता इति ||२५,२६||
SK
तेन तर्हि किमर्थं विवञ्चते अत आह--बलाबलादीति / शास्त्रस्था ह्यनिरूपितशक्तयो न शास्त्रार्थमनुष्ठातुं शक्नुवन्तीति तेषां हानोपादानोपयोगी शब्दशक्तिविवेक इति ते विविञ्चत इति ||२६ १/२||
SK
एतदेव प्रपञ्चयतिकक्ष्यान्तरितेतिद्वयेन / अस्यार्थऽ-- द्विविधं सामान्यं परमपरं च / परं सत्ताख्यम्, अपराणि द्रव्यत्वादीनि / तानि सामान्यान्यपि सन्ति / व्यावृत्तिबुद्धेरपि हेतुत्वात् विशेषसंज्ञामपि लभन्त इति, तानि सामान्यविशेषशब्देनापदिशन्ति, तत्र च सामान्यविशेषाऽ सामान्यशब्दस्य स्वार्थेन कक्ष्ययान्तरिता भवन्ति / यथा सच्छब्दस्य सत्तामाचक्षाणस्य तदन्तरिता द्रव्यत्वादयऽ सामान्यविशेषाऽ, तेषु चासौ लक्षणाबलेन प्रवर्तमानो दुर्बलो जायते / स्वर्थे तु श्रुत्या वर्तते इति स तत्र बलवान् / का पुनरियं लक्षणा नाम--- अभिधेयविनाभावेन प्रतीतिऽ / यथोक्तम्---- ᳚अभिधेयाविनाभावप्रतीतिर्लक्षणेष्यते᳚ इति / क्रिया कियद्वाभिधेयाविनाभावेन लक्ष्यते कियत् स्वमहिम्ना शब्देनोच्यत इति शास्त्रस्थानामनुष्ठानविशेषार्थं विवेको युक्तऽ / सा च लक्षणा प्रायेण नित्यसम्बन्धाद् भवतीति नित्यसम्बन्धादित्युक्तम् / सम्बन्धमात्रमेव तु लक्षणाया बीजम् / आह--- कऽ पुनरनुष्ठाने श्रौतलाक्षणिकविवेकस्योपयोगऽ / श्रूयताम्--- लोके तावद् ब्राह्म
SK
कियद्वा नित्यसम्बन्धादभिधेयेन लक्ष्यते / तत्र प्रयोगबाहुल्यात् तद्विशेषेष्वसत्स्वपि // Mस्व्_५,९.२९ //
SK
णेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति ब्राह्मणसामान्यस्था ब्राह्मणश्रुतिर्लक्षमया तद्विशेषं कौण्डिन्यमवतरन्ती दुर्बला भवति इत्यव्यवहितविशेषस्थया कौण्डिन्यश्रुत्या बाध्यते / वेदे ऽप्येमेव / यजुऽ सामान्यस्था ऽउपांशुयजुषाऽइति श्रुतिस्तद्विशेषस्थया ऽउच्चैर्निगदेनऽ इति श्रुत्या बाध्यत इत्येवमादि दर्शयितव्यमिति / सामान्यशब्देनात्र विशेषान् विशिंषन्न सामान्यतिरिक्ताऽ केचन विशेषा विद्यन्त इति दर्शयति / असति हि केषाञ्चिद् दर्शनं-- नित्यद्रव्यवृत्तयो ऽन्त्या विशेषाऽ / ते च व्यावृत्तिबुद्धेरेव हेतुत्वाद् विशेषा एवेति / परमाणुकारयमकं हि काणादा द्व्यणुकादिक्रमेण जगतो निर्माणमातिष्ठन्ते / न चाणुत्वेन परस्परमनतिशयानैरणुभिरसङ्कीर्णाकारजगदुत्पादयितुं शक्यते / अतऽ सन्ति केचनाणुसमवायिनो विशेषा नाम ये तानितरेतरतो व्यावर्तयन्तीति सङ्गिरन्ते / ते च निर्धूतनिखिलकालुष्यैरपरोक्षमीक्षन्त एवेति / तान् प्रत्युच्यते / न तावदक्षाधीनेषु भावेष्ववान्तरसामान्यातिरिक्तान् विशेषानीक्षामहे / द्रव्यत्वेन हि पृथिव्यादयो गुणकर्मभ्यो विशिष्यन्ते(द्रव्य?पृथिवी)त्वेन पृथिवी अबादिभ्यो द्रव्यान्तरेभ्यऽ, वृक्षत्वेन वृक्षाऽ पार्थिवान्तरेभ्यऽ, शिंशपात्वेन शिंशपा वृक्षान्तरेभ्य इत्येवमणून् यावदिय विशेषकथा वर्तयितव्या / किमत्र विशेषान्तरेण / अणुषु त्वेकजातीयेष्वपि कार्यविभागाद् रूपमेव विभक्तमनुमास्यामहे / नो खल्वविभक्ताकारं पूर्वव्सतु विभक्ताकारकार्यघटनायोत्सहत इति / पृथक्त्वाख्यो वा गुणस्तेषामन्योन्यस्य विशेषकत्वाद् विशेषो भविष्यति / स एवानपेक्षितविशेषान्तरो न सिध्यतीति चेत् / विशेषा वा कथमनपेक्षितविशेषान्तराऽ सेत्स्यन्ति / अक्षणे वा तदानन्त्यम्, अतो मन्द एवायं विशेषान्तराभ्युपगमऽ / योगिनस्तु तान् पश्यन्तीति श्रद्धधाना बुध्यन्ते वयमश्रद्धधानाऽ स्मऽ,ये युक्तिं प्रार्थयामह इति सूक्तं सामान्यविशेषेष्विति ||२७-२८ १/२||
SK
प्रयोगात् परसामान्ये सति चाप्यप्रयोगतऽ / सास्नाद्येकार्थसम्बन्धिगोत्वमात्रस्य वाचकऽ // Mस्व्_५,९.३० //
SK
गोशब्द इति विज्ञानमन्वयव्यतिरेकजम् / तस्माद् गमकतैवादावभिधायकता पुनऽ // Mस्व्_५,९.३१ //
SK
तन्निमित्तेति सम्बन्धऽ संज्ञासंज्ञित्वलक्षणऽ / सम्बन्धनियमो ऽयं तु याविनाभावितोच्यते // Mस्व्_५,९.३२ //
SK
सम्बन्धग्रहणात्पूर्वं यस्मान्न गमयत्यतऽ / गवादेर्नाभिधाशक्तिर्देवदत्तपदे यथा // Mस्व्_५,९.३३ //
SK
ऽअन्वयव्यतिरेकाभायं वाक्यज्ञास्तु विविञ्चतेऽ इत्युक्तम् / तावन्वयव्यतिरेकौ दर्शयति--- तत्रेति द्वयेन / तत्र सामान्ये गवादौ गोशब्दस्य बहुलं प्रयोगात् तद्विशेषेषु च शाबलेयादिषु असत्स्वपि बाहुलेयादिषु प्रोय(गा?ग)दर्शनात् परसामान्ये च सत्तादौ सत्यपि भावान्तरे ऽप्रयोगात् सास्नादिभिऽ सहैकावयविरूपार्थसम्नब्धिगोत्वमात्रस्य गोशब्दो वाचक इत्यन्वयव्यतिरेकाभ्यां ज्ञानं जन्यते सास्नाद्येकार्थसम्बन्धीति चाविनाभाविना चिह्नेन गोत्वमुपलक्षयतीति / अतऽ सिद्धं गम्यगमकभाव एव शब्दार्थयोऽ सम्बन्धऽ प्रथममवगम्यते न पुनरविनाभाव इति ||२९-३० १/२||
SK
उपसंहरति---तस्मादिति / ननु--- संज्ञासंज्ञिसम्बन्धो भाष्यकारेणोक्तऽ, न च गमकं संज्ञेति लौकिका मन्यन्ते, न ह्यग्नेर्धूमऽ संज्ञेत्युच्यते, अत आह--- अभिधायकतेति / अयमभिप्रायऽ--- अस्यार्थंस्यायं गमक इति ज्ञाते नाव्याप्रियमाणस्यावगतौ कारणत्वमुपपद्यत इति तद्व्यापारो ऽवसीयते, शब्दव्यापारश्चाभिधेत्युच्यते / अतो ऽत्राभिधानक्रियासम्बन्धाद् गमकत्वस्यैव विशेषो ऽभिधायकता शब्दे ज्ञायते / अभिधायकतैव संज्ञात्वमित्युपपन्नऽ संज्ञासंज्ञिसम्बन्ध इति / अविनाभाविता तु सम्बन्धनियमऽ, न सम्बन्ध इत्याह--- सम्बन्धेति / इदं च ऽनिष्कृष्टेर्ऽथे नियम्यतेऽ इत्यत्रोक्तमस्माभिऽ / तस्मादिति पदानुषङ्गेणोपसंहृतमिति वेदि
SK
यथैव गमकऽ शब्दो व्यवहारात् प्रतीयते / तथैव शक्तिविज्ञानं तस्योपायो ऽवगम्यते // Mस्व्_५,९.३४ //
SK
स्वरूपग्रहणं चास्य यथा व्याप्रियते फले / तथा सम्बन्धविज्ञानं नाशक्तित्कृता भवेत् // Mस्व्_५,९.३५ //
SK
तव्यम् / अन्वयव्यतिरेकाभावशब्दौ पर्यायविति नार्थभेदऽ शङ्कितव्य इति ||३१,३२||
SK
ऽयदि प्रत्यायकऽऽ इति भाष्यकारेण प्रयोगो ऽन्तर्णीतऽ, तमाह---सम्बन्धेति / देवदत्तादयो हि यदृच्छाशब्दा यत्रैव सङ्केत्यते तमेव प्रतीपादयन्ति / न चैषां क्वचिदपि स्वाभाविकी शक्तिऽ / तदयं प्रयोगार्थऽ--- गवादिशब्दो धर्मी, नाभिधाशक्त इति साध्यम्, उपायान्तरापेक्षत्वादिति हेतुऽ / यदुपायान्तरापेक्षं तन्न स्वरूपतऽ शक्तम्, देवदत्तादिपदमिव सङ्केतग्रहणापेक्षमिति
SK
अत्र भाष्यकारेण ऽयदि प्रत्यायकऽ शब्दऽ प्रथमश्रुतऽ किं न प्रत्याययतिऽ इति परिचोद्य ऽसर्वत्र नो दर्शनं प्रमाणम्ऽ इत्यादिना दर्शनबलेन गृहीतशक्तिकऽ प्रत्याययतीति परिहार उक्तऽ, तद्दर्शयति---यथैवेति / असार्थऽ--- गमकत्वमेव तावत् शब्दस्य किमभ्युपगम्यते, व्यवहारदर्शनबलेनेति चेत्, समानमिदं श्कतिसंवेदने ऽपि / न ह्यविदितशक्तयऽ शब्दादर्थमवयन्तो दृश्यन्त इति
SK
स्यादेतत्--- प्रकाशकाऽ प्रदीपादयो ऽविदितसम्बन्धा अपि स्वार्थं प्रकाशयन्तो दृश्यन्ते, तद्विधर्मा च शब्दऽ, अतो न प्रकाशक इति / तच्च नैवम्, शक्तिवैलक्षण्यात् / विचित्रशक्तयो ऽपि हि भावाऽ / तत्प्रदीपऽ प्रत्यक्षपिरकरतयागृहीतसम्बन्धो ऽपि प्रकाशयतु नाम / नैतावता शब्देनापि तद्धर्मेण भवितव्यम् / अतो ऽयमपर्यनुयोगऽ / अपि च व्रीह्यादयो ऽगृगीतस्वरूपा अपि कार्यमारभन्त एवेति शब्दे तद्धर्मऽ किं नारोप्यते / कारकहेतवो हि व्रीह्यादयऽ, शब्दस्तु ज्ञापकहेतुऽ / अतो ऽपेक्षते स्वरूपग्रहणमिति चेत् / केन वेदमाज्ञापितं ज्ञापकेन स्वरूपग्रहणमपेक्षितव्यं न सम्बन्धग्रहणमिति, दर्शनबलेनेति चेत्, समानमिदं सम्बन्धग्रहणापे
SK
यत्साधकतमत्वेन कस्यचित् किञ्चिदुच्यते / तस्यानुग्राहकापेक्षा न स्वशक्तिविघातिनी // Mस्व्_५,९.३६ //
SK
न हि तत्काणं लोके वेदे वा किञ्चिदीदृशम् / इतिकर्तव्यतासाध्ये यस्य नानुग्रहे ऽर्थिता // Mस्व्_५,९.३७ //
SK
प्रत्यात्मनियतत्वाच्च यथैव करणं भवेत् / बाह्यान्तरविभागेन क्वचित् स्याद् वा विवक्षया // Mस्व्_५,९.३८ //
SK
उद्विग्नो ह्यन्धकारेण कश्चिदेवं ब्रवीत्यपि / किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया // Mस्व्_५,९.३९ //
SK
क्षायामपि, दर्शनबलादेव हि लिङ्गशब्दादयो ज्ञापकविशेषाऽ सम्बन्धग्रहणमपेक्षन्ते / न चक्षुरादयऽ / सर्वत्र हि नो दर्शनं प्रमाणम् / कारकाश्चक्षुरादय इति नानुमन्यामहे, ज्ञानकारणस्यैव ज्ञापकत्वात्, तदेतदाह---स्वरूपेति
SK
ननु च सम्बन्धग्रहणात् प्रागप्यभिधाने शब्दऽ शक्तो न वा / यदि शक्तऽ किं सम्बन्धग्रहणापेक्षया / न चेत् सम्बन्धग्रहणमेव हि सदागमन्यायेन कारणमापद्येत,अत आह---यत्साधकतमेति / न तावत् सम्बन्धग्रहणात्पूर्वमशक्तमेव शब्दमवगच्छामऽ / न च शक्तस्यानुग्राहकापेक्षा स्वशक्तिं विह(रती?न्ती)ति
SK
किं पुनर्न विहन्त्यत आह----न हीति / यदि ह्यनुग्राहकापेक्षा स्वशक्तिं विहन्यात् सर्वमेव लौकिकं वैदिकं करणं करणतां जह्यात् / अपेक्षते हि सर्वमेव करणमितिकर्तव्यताजनितमनुग्रहमिति
SK
किञ्च--- अस्तु तावदितिकर्तव्यतापेक्षा करणभावं न विहन्तीति, प्रत्युत तयापि नैव करणत्वं नास्ति, प्रतिकरणस्वरूपं तदपेक्षानियमादित्याह---प्रत्यात्मेति / नन्वेवमुभयसमवधानमेवान्तरेण कार्यानिष्पत्तेऽ कथं करणेतिकर्तव्यताविभागो दर्शयितव्यऽ, अत आह--- बाह्यान्तरेति बाह्यमपि क्वचिद् विवक्षातऽ कारकप्रवृत्तेऽ करणतया विवक्ष्यत इत्याह--- क्वचित्स्याद्वेति
SK
नित्यवृत्तौ तु नान्धानां दृष्टिर्दीपशतैरपि / रूपादिदर्शने यस्मात् तस्माच्चक्षुऽ प्रकाशकम् // Mस्व्_५,९.४० //
SK
शरीरात्ममनोयोगादसाधरणताबलात् / विज्ञानासत्तिभावाच्च चक्षुऽ करणमिष्यते // Mस्व्_५,९.४१ //
SK
तथैवेहापि सम्बन्धज्ञानमङ्गं प्रसिद्धितऽ / गौरवात् करणत्वेन मतं चेत् केन वार्यते // Mस्व्_५,९.४२ //
SK
यथा चक्षुरितीदं तु व्यभिचारित्वमुच्यते / देवदत्ते ऽपि चाव्यक्तां शक्तिमिच्छन्ति युक्तितऽ // Mस्व्_५,९.४३ //
SK
एतदेव दर्शयति--- उद्विग्न इति / ज्ञानोत्पत्तावन्तरङ्गमपि चक्षुर्न करणतया मन्यते, किन्तु कितश्चित्तारतम्यविशेषाद् बाह्यमेव प्रदीपं करणतया विवक्षतीति
SK
स चायं विवक्षानिबन्धऽ करणभावऽ कादाचित्कऽ / नित्यवृत्तौ नित्यं तु कार्यसिद्धौ आन्तरस्य तक्षुषऽ करणत्वमवगम्यत इत्याह---नित्यवृत्ताविति / अन्धानां दृष्टिर्दर्शनं नास्तीत्यर्थऽ
SK
नन्वस्तु विज्ञानकार्यासत्तिविशेषणात् प्रदीपाद्यपेक्षया चक्षुषऽ करणभावऽ, आत्ममनऽ संयोगस्तु ज्ञानोत्पत्तावत्यन्तमासन्नऽ, अतऽ कथं तदपेक्षया चक्षुषऽ करणत्वं भविष्यतीत्यत आह---शरीरेति / अयमभिप्रायऽ-- नासत्तिविशेष एव करणत्वे कारणम्, अपि तर्हि बाह्यप्रदीपाद्यपेक्षयासत्तिऽ, आभ्यन्तरात्ममनऽ संयोगापेक्षया त्वसाधारण्यम्, आत्ममनऽ संयोगो हि रसादिज्ञानसाधारणो नाव्यभिचारितया रूपदर्शनकारणमिति शक्यते ऽवगन्तुम्ष चक्षुषऽ पुनरसाधरणतयैव रूपज्ञाने कारणत्वमिति ऽचक्षूरूपादिभेदस्तुऽ इत्यत्रोक्तमिति
SK
तदेवं दृष्टान्ते विवक्षासननिकर्षविशेषकृतकरणेतिकर्तव्यताविभागं दर्शयित्वा प्रकृते योजयति---तथैवेति / अनेन यत्तदागमन्यायेन सम्बन्धग्रहणमेव कारणमापद्येतेत्युक्तं तदपि विवक्षाविशेषवशेनास्त्विति दर्शितमिति
SK
अपरमपि--- ऽयथा चक्षुर्द्रष्ट्टन बाह्येन प्रकाशेन विनाऽ इत्यादि परिहारभाष्यं, तस्याभिप्रायमाह---यथेति / चक्षुर्हि प्रदीपाद्युपायान्तरा
SK
प्रकाशे ऽस्थिते बाह्ये नान्धै रूपं प्रतीयते / फलानन्तर्यतश्चापि चक्षुऽ करणमिष्यते // Mस्व्_५,९.४४ //
SK
पुरुषाधीनविज्ञानस्तेभ्यऽ प्रागनिरूपितऽ / यऽ संज्ञासंज्ञिसम्बन्धऽ स चेष्टश्चेद् ध्रुवं कृतऽ // Mस्व्_५,९.४५ //
SK
भिन्नदेशाद्यधिष्ठानाद् यथा रज्जुघटादिषु / समं नास्त्यनयोऽ किञ्चित् तेनासङ्गतता स्वतऽ // Mस्व्_५,९.४६ //
SK
पेक्षमपि रूपप्रकाशने स्वभावतऽ शक्तमित्यनैकान्तिको हेतुऽ / दृष्टान्तो ऽपि साध्यविकल इत्याह--- देवदत्तेति
SK
यदृच्छाशब्दानामपि ज्ञानसामर्थ्यं विद्यमानमेव नियोगेनाभिव्यज्यत इत्यध्यासवादे वर्णितम् / अत्र च यथा चक्षुरिति भाष्ये चक्षुषऽ करणत्वमित्यत्रोपपत्तिमाह---प्रकाशैति / इदं च ऽनित्यवृत्तौऽ इत्यत्रोक्तमप्यधुना भाष्यसमर्थनार्थमुक्तमित्यपौनरुक्त्यमिति
SK
तदेवमुपपादितऽ संज्ञासंज्ञिसम्बन्धऽ कृतकत्वेन भाष्यकृताक्षिप्तऽ--- ऽयदि प्रथमश्रुतो न प्रत्याययति कृतकस्तर्हिऽ इति, तदेतद्वार्तिककारो दर्शयति---पुरुषेति / एवं चात्र प्रयोगऽ--- यऽ संज्ञासंज्ञिसम्बन्धऽ स कृतकऽ, पुरुषापेक्षत्वात्, रज्जुघटसंयोगवदिति
SK
अपरमपि ऽस्वभावतो ह्यस्बन्धावेतौ शब्दार्थौऽ इत्यादि भाष्यं, तस्याभिप्रायमाह---भिन्नेति / अयमर्थऽ--- यथा रज्जुसर्पादिषु भिन्नदेशकालाधिष्ठानेषु किञ्चिद् देशादि समं नास्ति, एवं तयोऽ शब्दार्थयोऽ / अतस्तद्वदेव तावपि स्वभावतो ऽसम्बन्धाविति / ईदृशी चात्र प्रयोगरचनाशब्दार्थौ स्वभावतो ऽसङ्गतौ, असमदेशकालत्वात्, रज्ज्वादिवत् / तावेव न समदेशकालौ, भिन्नदेशाद्यधिष्ठानोपलम्भात्, तद्वदेवेति
SK
इत्युपाध्यायसुचरितमिश्रकृतौ संबन्धाक्षेपऽ समाप्तऽ /

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kumārila: Mīmāṃsaślokavārttika with Sucaritamiśra's Kāśikā (sa_kumArila-mImAMsazlokavArttika-comm.htm).

Source