The Wish-Fulfilling Tree of Bodhisattvas 93, The Tale of Sumāgadha

Bodhisattvāvadānakalpalatā 93, Sumāgadhāvadāna · Bओधिसत्त्वावदानकल्पलता ९३, Sउमागधावदान

The Wish-Fulfilling Tree of Bodhisattvas 93, The Tale of Sumāgadha

Bodhisattvāvadānakalpalatā 93, Sumāgadhāvadāna

Bओधिसत्त्वावदानकल्पलता ९३, Sउमागधावदान

SK
श्लाघ्या जयन्ति जिनभक्तिविशेषभाजां श्रद्धासुधाप्रसरनिर्झरशीकरास् ते / निश्चेतनो ऽप्य् उचितचेतनताम् इवैति यः पूज्यपूजनविधौ कुसुमादिवर्गः // KAव्क्_९३.१ //
SK
श्रावस्त्यां विजनासीनं जिनं जेतवने पुरा / अनाथपिण्डदो ऽभ्येत्य भगवन्तम् अभाषत // KAव्क्_९३.२ //
SK
त्वद्भक्तिर् इव सर्वत्र महार्हगुणविश्रुता / भगवन् प्रौढिम् आयाता कन्या मम सुमागधा // KAव्क्_९३.३ //
SK
श्रीमतः सार्थनाथस्य नगरे पुण्ड्रवर्धने / सूनुर् वृषभदत्ताख्यस् तत्पाणिग्रहम् इष्यते // KAव्क्_९३.४ //
SK
कन्यां ददामि तां तस्मै भगवन् यदि मन्यसे / त्वदधीनधनप्राणस् त्वदाज्ञाशरणो ह्य् अहम् // KAव्क्_९३.५ //
SK
इत्य् उक्ते तेन भगवान् वात्सल्यविमलाशयः / को दोषस् तनया तस्मै दीयताम् इत्य् अभाषत // KAव्क्_९३.६ //
SK
शास्तुः शासनम् आदाय सादरं प्रनिपत्य तम् / अनाथपिण्डदः श्रीमान् प्रययौ निजमन्दिरम् // KAव्क्_९३.७ //
SK
ततः सुमागधां कन्यां विभवेन महीयसा / अर्हायं स ददौ तस्मै भूरिरत्नाम्बरप्रदः // KAव्क्_९३.८ //
SK
दत्ता दूरतरं देशम् अथ यान्ती सुमागधा / भगवच्चरणस्मृत्या सबाष्पनयनाभवत् // KAव्क्_९३.९ //
SK
चिरेण सा समासाद्य नगरं पुण्ड्रवर्धनम् / शुश्रूषाभिरता पत्युः सदा भर्तृगृहे ऽवसत् // KAव्क्_९३.१० //
SK
कदाचिद् अथ तां श्वश्रूर् भोज्यसंभारकारिणी / उवाच धनवत्याख्या संख्यातीतव्ययोद्यता // KAव्क्_९३.ल्ल् //
SK
पूज्योपकरणं सज्जं कुरु सर्वं सुमागधे / गृहान् नः प्रातर् आगन्ता जगत्पूज्यगुणो जिनः // KAव्क्_९३.१२ //
SK
गुरवो गौरवपदं पूज्याः सर्वजनस्य ते / समेष्यन्ति क्षपणकाः संमोहक्षपणोद्यताः // KAव्क्_९३.ल्३ //
SK
इत्य् उक्ता सा तया तत्र बभूवारम्भतत्परा / ज्ञात्वा भिक्षुगणायेव तां पूजां परिकल्पिताम् // KAव्क्_९३.१४ //
SK
अथापरे ऽह्नि विविशुर् नग्नाः क्षपणका गृहम् / उल्लुञ्चितकचश्मश्रुसंक्लेशनिशितव्रताः // KAव्क्_९३.१५ //
SK
तान् अलज्जान् अवसनान् अवलोक्य सुमागधा / माषशष्पाशनाभ्यासपीवरान् महिषान् इव // KAव्क्_९३.१६ //
SK
लज्जिता वाससाच्छाद्य वदनं गुरुसंनिधौ / खेदनिर्वेदविनता श्वश्रूजनम् अभाषत // KAव्क्_९३.१७ //
SK
अहो वतायम् आचारः सुचिराद् अवलोकितः / दिगम्बराणाम् अप्य् अग्रे यद् इहास्ते वधूजनः // KAव्क्_९३.१८ //
SK
एते भवद्गृहे ऽदान्ता भुञ्जन्ते शृङ्गवर्जिताः / अमानुषत्वान् नैतेषां लज्जन्ते नूनम् अङ्गनाः // KAव्क्_९३.१९ //
SK
अस्थाने भवतां भक्तिः को ऽयम् उच्छृङ्खलः क्रमः / न त्यक्तम् अशनं येन स कथं वस्त्रम् उज्झति // KAव्क्_९३.२० //
SK
केशोन्मूलनकर्मणैव निशितं नैर्घृण्यम् आवेदितं कौपीनांशुकवर्जनेन सुजने शीलस्य वार्तैव का / दम्भारम्भभयंकरे च वदने क्रोधः स्वयं लक्ष्यते नग्नानाम् अशनैषिणां नियमिनाम् एषां पशूनाम् इव // KAव्क्_९३.२१ //
SK
यत्रैते पशवः पूज्यास् तत्रोत्सार्या भवन्ति के / अथवा देशदोषो ऽयं गतानुगतिका स्थितिः // KAव्क्_९३.२२ //
SK
इति ब्रुवाणां तां श्वश्रूर् विषण्णा प्रत्यभाषत / पितुस् ते भवने भद्रे पूज्यते वद कीदृशः // KAव्क्_९३.२३ //
SK
सावदन् मत्पितुर् गेहे पूज्यते भगवान् जिनः / कारुण्यात् सर्वजगतां कुशलातिशयोद्यतः // KAव्क्_९३.२४ //
SK
ध्यानाधीनः स्तिमितनयनः पूर्णलावणसिन्धुर् नासावंशं विपुलसरलं सेतुभूतं दधानः / भूषाशून्यप्रसृतरुचिमत्कर्णपाशाभिरामः कान्त्यैवासौ किम् अपि विदुषां शान्तिम् अन्तस् तनोति // KAव्क्_९३.२५ //
SK
शिरसि सहजप्राज्यालोकप्रसेकमयं मणिं करिपतिकराकारौ बाहूकवत् कनकद्युतिः / करतलगताम् लेखां शङ्खध्वजाम्बुजमालिकां शममयमहासांराज्यार्हं बिभर्ति स लक्षणम् // KAव्क्_९३.२६ //
SK
तस्याभिलाषजनकस्य महामुनीनां सर्वाभिलाषकलनारहितः स्वभावः / निःशेषितस्मृतिभुवः प्रमदाश्रयस्य रागोज्झितस्य सुतराम् अधरः सरागः // KAव्क्_९३.२७ //
SK
मूर्तिर् निर्भरसंगमप्रणयिनी मैत्री मनःशायिनी क्षान्तिस् तन्मयकारिणी हृदि दया गाढं समाश्लेषिणी / सर्वाशाभरणस्य भूरिदयितासक्तस्य संलक्ष्यते तस्यापूर्वमणेर् अनन्यमहिमा वैराग्यगर्भः शमः // KAव्क्_९३.२८ //
SK
पूज्यः स भवने ऽस्माकं यस्य प्रव्रज्यया सताम् / धत्ते शीलदुकूलानाम् निरावरणतां मनः // KAव्क्_९३.२९ //
SK
विश्वरक्षामणेर् यस्य स्मृत्यापि भवभोगिना / रागद्वेषोग्रदंष्ट्रेण बाध्यते न पुनर् जनः // KAव्क्_९३.३० //
SK
इति तस्या वचः श्वश्रूः श्रुत्वा श्रोत्ररसायनम् / सद्यः प्रसादविशदा तां जगाद प्रमोदिनी // KAव्क्_९३.३१ //
SK
अपि तद्दर्शनोपायः कश्चिद् अस्ति वरानने / अपि त्वत्पुण्यसंबन्धाद् वयम् अप्य् अमृतास्पदम् // KAव्क्_९३.३२ //
SK
इति सानुनयं श्वश्र्वा सा सादरधियार्थिता / तं वः संदर्शयामीति बभाषे भक्तिमानिनी // KAव्क्_९३.३३ //
SK
महाप्रतिज्ञासंभारभरनिर्वहणैषिणी / सा संशयतुलारुढा क्षणं ध्यानपराभवत् // KAव्क्_९३.३४ //
SK
ततः प्रासादम् आरुह्य भगवत्सेवितां दिशम् / प्रणिपत्यासृजत् पूज्यपूजार्हकुसुमाञ्जलिम् // KAव्क्_९३.३५ //
SK
पुष्पधूपोदकैर् अर्चां सा कृत्वा तत्पदोन्मुखी / आनन्दबाष्पसंरुद्धविस्तीर्णनयनावदत् // KAव्क्_९३.३६ //
SK
अनुकम्प्यैव भगवन् रत्नत्रयविवर्जिता / तवाश्रममृगीवाहं दूरं देशम् इमम् गता // KAव्क्_९३.३७ //
SK
त्वत्पादपद्मयुगलं शरणम् प्रपन्नां दूरस्थिताम् अपि दृशा स्पृश मां दयालो / वात्सल्यपेशलधियां महतां प्रवासदुरीकृतेषु करुणा न तनुत्वम् एति // KAव्क्_९३.३८ //
SK
भगवन् दाससुतया त्वं मयाद्य निमन्त्रितः / प्रातर् आगमनेनैव मानं वितर मे विभो // KAव्क्_९३.३९ //
SK
इत्य् उदीर्य तयोत्स्र्ष्टा विचित्रकुसुमावली / सजीवितेव प्रययौ नभसा भक्तिदूतिका // KAव्क्_९३.४० //
SK
सा श्वेतरक्तहरितासितपुष्पपाली खे धूपधूमशबला शनकैः प्रयान्ती / बालाम्बुदप्रणयिनी सुचिरं चकाशे संचालिचापलतिकेव शचीधवस्य // KAव्क्_९३.४१ //
SK
अथ जेतवनं प्राप्य क्षणेन कुसुमावली / सा भक्तिशालिनी शास्तुः पपात चरणाब्जयोः // KAव्क्_९३.४२ //
SK
भगवान् अपि सर्वज्ञः सर्वं ज्ञात्वा समीहितम् / सुमागधायाः कारुण्याद् आनन्दम् अवदत् पुरः // KAव्क्_९३.४३ //
SK
प्रातर् गन्तव्यम् अस्माभिर् नगरं पुण्ड्रवर्धनम् / सुमागधा प्रार्थयते ससंघस्य ममार्चनम् // KAव्क्_९३.४४ //
SK
शतषष्ट्यधिकं तत्र योजनानाम् इतः परम् / एकेनाह्ना च गन्तव्यं न विलम्बो ऽत्र युज्यते // KAव्क्_९३.४५ //
SK
व्योम्ना महर्द्ध्या शक्नोति गन्तुं यो यः प्रभाववान् / निमन्त्रणशलाकां त्वं तस्मै तस्मै समर्पय // KAव्क्_९३.४६ //
SK
प्रेरितः सुगतेनेति स भिक्षुभ्यो न्यवेदयत् / एकाहगमनप्राप्यं शलाकाभिर् निमन्त्रणम् // KAव्क्_९३.४७ //
SK
शलाकासु गृहीतासु तत्र सर्वैर् महर्द्धिभिः / पूर्णः कुम्भोपधानीयः स्थविरो ऽप्य् अग्रहीत् क्रमात् // KAव्क्_९३.४८ //
SK
तेन प्राप्तप्रभावेन शलाकायां प्रसारिते / पाणौ प्राह तम् आनन्दः किंचित् स्मितसिताननः // KAव्क्_९३.४९ //
SK
अनाथपिण्डदगृहं न गन्तव्यं पदद्वयम् / सषष्टियोजनशतं दिनार्धेनैव लङ्घ्यते // KAव्क्_९३.५० //
SK
इत्य् उक्तः स्थविरस् तेन वैलक्ष्यविनताननः / अचिन्तयत् स्ववर्गाग्रे न्यूनभावो हि दुःसहः // KAव्क्_९३.५ल् //
SK
अनादिकालोपचिताः क्लेशजन्मजरादयः / हन्तुं सपत्नैः शक्यन्ते प्राप्तुम् ऋद्धिपदं कियत् // KAव्क्_९३.५२ //
SK
इति चिन्तयतस् तस्य तीव्रसंवेगया धिया / प्रादुर् आसीत् क्षणेनैव महर्द्धिः शुद्धचेतसः // KAव्क्_९३.५३ //
SK
अथ रात्र्यां व्यतीतायां प्रभाते सर्वभिक्षवः / नानात्रिदशवेशेण विमानैर् नभसा ययुः // KAव्क्_९३.५४ //
SK
अत्रान्तरे महारम्भसम्भारपरिपूरिते / सुमागधा भर्तृगृहे भगवद्दर्शनोत्सुका // KAव्क्_९३.५५ //
SK
सह प्रासादम् आरुह्य श्वश्रूश्वशुरभर्तृभिः / तस्थौ कुसुमधूपार्ध्यारचनासंग्रहोन्मुखी // KAव्क्_९३.५६ //
SK
भिक्षुर् आज्ञातकौण्डिन्यस् ततो ऽश्वरथम् आस्थितः / दिव्यर्द्धिविविधाश्चर्यः प्रथमं प्रत्यदृश्यत // KAव्क्_९३.५७ //
SK
तं दृष्ट्वा सूर्यसंकाशं विस्मिताः श्वशुरादयः / ऊचुः सुमागधां प्रीत्या किम् एष भगवान् इति // KAव्क्_९३.५८ //
SK
सावदद् भगवान् नायं दृश्यते तरणिप्रभः / अयम् आज्ञातकौण्डिन्यो भिक्षुर् अक्षुण्णदीधितिः // KAव्क्_९३.५९ //
SK
आपतत्सु क्रमेणाथ रथेषु श्वशुरादयः / किम् अयं किम् अयं भद्रे भगवान् इति तां जगुः // KAव्क्_९३.६० //
SK
साब्रवीन् नैव शास्तायम् एते तच्छासनोचिताः / भिक्षवः प्रशमश्लाघ्यास् तपोदीप्ततरत्विषः // KAव्क्_९३.६ल् //
SK
यः कान्तहेमद्रुमरम्यशैलश्र्ङ्गाधिरूढः परतो ऽभ्युपैति / आश्चर्यकृन् मूर्त इव प्रभावः श्रीमान् महाकाश्यप एष भिक्षुः // KAव्क्_९३.६२ //
SK
पञ्चाननस्यन्दनम् आस्थितो यः सतोयजीमूतगभीरघोषम् / व्योम्ना समभ्येति गुनैः प्रगीतः स एष भिक्षुर् भुवि शारिपुत्रः // KAव्क्_९३.६३ //
SK
आरुह्य कैलासम् इवातिशुभ्रं द्विपम् चतुर्दन्तम् अनन्तकान्तिः / आयाति यः पुण्यवतां जगत्सु मौद्गल्यनामा च स एष भिक्षुः // KAव्क्_९३.६४ //
SK
वैदूर्यनालं कनकारविन्दम् आरुह्य रत्नाङ्कुरकेशराढ्यम् / उपैति यः सौरभपूरिताशः स एष भिक्षुः प्रथितो ऽनिरुद्धः // KAव्क्_९३.६५ //
SK
यश् चाम्बराग्रं गरुडाधिरूढः पक्षानिलोत्सारितवारिवाहः / विगाहते स्फितवनेन भिक्षुर् मैत्रायणीसूनुर् अयं स पूर्णः // KAव्क्_९३.६६ //
SK
अनन्तम् आस्थाय नितान्तशान्तम् ईर्ष्यापथं सत्त्वमहोदधिर् यः / प्रभामृतैः सर्पति तर्पिताशः प्रभाववान् एष्यजिद् एष भिक्षुः // KAव्क्_९३.६७ //
SK
विलोलवल्लीवलयाभिरामं विशालम् आरुह्य सुवर्णतालम् / यः पुण्यपूर्णद्युतिर् अभ्युपैति स एष भिक्षुर् मतिमान् उपाली // KAव्क्_९३.६८ //
SK
आरुह्य वैडूर्यविमानशृङ्गं सुवर्णरत्नोज्ज्वलपत्रलेखम् / लिम्पन्न् इवागच्छति यः प्रभाभिः कात्यायनो नाम स एष भिक्षुः // KAव्क्_९३.६९ //
SK
शरीरिणं धर्मम् इवाधिरुह्य विगाहते खं वृषवाहनो यः / पृष्ठः प्रतिष्ठापरिनिष्ठितानां गरिष्ठधीः कौष्ठिल एष भिक्षुः // KAव्क्_९३.७० //
SK
विमानहंसद्युतिभिर् मुहूर्तं स्मितोर्मिरम्यं मुहुर् अन्तरीक्षम् / कुर्वन् समभ्येति तपोनिधिर् यः पिलिन्दवत्साह्वय एष भिक्षुः // KAव्क्_९३.७ल् //
SK
यो ऽयं समुत्फुल्ललतावितानवनान्तराले विहरन्न् उपैति / स श्रोणकोटिः श्रुत एष भिक्षुर् अक्षुण्णलक्ष्मीर् गृहनिर्व्यपेक्षः // KAव्क्_९३.७२ //
SK
यश् चक्रवर्ती दिवि भाति सो ऽयं शास्तुः सुतो राहुलकाभिधानः / हेमप्रभाभूषितदिग्विभागः संलक्ष्यते मेरुर् इवान्यरूपः // KAव्क्_९३.७३ //
SK
एते गिरिभ्यो ऽथ दिगन्तरेभ्यः क्ष्मामण्डलाद् व्योमतटान्तराच् च / आयान्त्य् असंख्याद्भुतभिक्षुसंघा विचित्ररत्नासनवाहनस्थाः // KAव्क्_९३.७४ //
SK
तया क्रमेणेति निवेद्यमानं ते भिक्षुसंघं विमुखं विलोक्य / ययुः प्रहर्षाद्भुतसंभ्रमाणां विधेयतां तुल्यम् अनन्यलक्ष्म्याः // KAव्क्_९३.७५ //
SK
अथ ज्वलत्काञ्चनचूर्णवर्णं जगद् बभूवार्कशतप्रकाशम् / अशेषसंतापविशेषशान्त्या शीतांशुमालाशतशीतलं च // KAव्क्_९३.७६ //
SK
अथ धनपतिशक्रब्रह्ममुख्यैर् अमर्त्यैर् विपुलगगनयात्रादत्तसेवानुयात्रः / अमरपुरपुरस्त्रीकीर्णपुष्पप्रभावान् नयनपथम् अयासीत् पुण्यभाजां जिनेन्द्रः // KAव्क्_९३.७७ //
SK
अष्टादशद्वारपथा पुरं तत् स तुल्यम् अष्टादशमूर्तिर् एव / प्रविश्य चक्रे शशिकान्तरत्नशिखामयं वेश्म सुमागधायाः // KAव्क्_९३.७८ //
SK
अभ्यर्चितस् तत्र बहुप्रकारैः पूर्णोपचारैः प्रणिपत्य सर्वैः / अपूजयत् पौरजनः समन्ताद् बहिश् च भित्तिप्रतिबिम्बितं तम् // KAव्क्_९३.७९ //
SK
सुमागधाया दयया दयालुः पूजां गृहीत्वा भगवान् ससंघः / अनुग्रहालोकनसंविभागैः सर्वान्ववाया विदधे प्रसादम् // KAव्क्_९३.८० //
SK
सुमागधा सश्वशुरादिवर्गा सहापरैः पौरजनैश् च सर्वाः / शास्तुस् तया देशनया बभूवुः शुद्धाशयास् तत्क्षणदृष्टसत्याः // KAव्क्_९३.८१ //
SK
सुमागधायाः कुशलानुबन्धं पुण्यं प्रभावं विपुलं विलोक्य / ते भिक्षवस् तत्र कुतूहलेन पप्रच्छू रम्यं जिनम् आदिवृत्तम् // KAव्क्_९३.८२ //
SK
पृष्टः स तैः संसदि सर्वदर्शी सुमागधायाः कुशलस्य हेतुम् / दन्तप्रभाभिः ककुभां मुखेषु दिशन् प्रकाशम् भगवान् बभाषे // KAव्क्_९३.८३ //
SK
वाराणस्याम् अभूत् पूर्वं कृकेः कन्तस्य भूपतेः / सुता काञ्चनमालाख्या कुचकाञ्चनमालिका // KAव्क्_९३.८४ //
SK
काश्यपाख्यस्य शास्तुः सा सततं भक्तिशालिनी / परिचर्यां व्यधात् सार्धं सखीनां पञ्चभिः शतैः // KAव्क्_९३.८५ //
SK
स कदाचिन् नरपतिर् विकृतस्वप्नदर्शनात् / भयसंशयसंभ्रान्तः पप्रच्छ फलकोविदान् // KAव्क्_९३.८६ //
SK
ते तं राजसुताद्वेषान् निमित्तज्ञा बभाषिरे / अतिप्रियस्य हृदयं हुत्वाग्नौ लभ्यते शिवम् // KAव्क्_९३.८७ //
SK
इति तेषाम् अनादृत्य वचः क्रूरतरं नृपः / भगवन्तं ययौ द्रष्टुं काश्यपं दुहितुर् गिरा // KAव्क्_९३.८८ //
SK
स तम् एत्यावदत् स्वप्नः सविकारः परं मया / दृष्टो ऽद्य सर्वं सर्वज्ञ तत्फलं वक्तुम् अर्हसि // KAव्क्_९३.८९ //
SK
वातायनेन निर्गच्छन् रुद्धपुच्छो मया गजः / तृषितस्य तथा पश्चात् कुपो धावन् विलोकितः // KAव्क्_९३.९० //
SK
तृप्तश् च शक्तुप्रस्थेन मौक्तिप्रस्थविक्रयः / समीकृतानि दृष्टानि कुदारूणि च चन्दनैः // KAव्क्_९३.९ल् //
SK
कलभेन महाहस्ती समाहूतस् तथाहवे / परान् अशुचिलिप्ताङ्गः प्रलिम्पन् विप्लुतः कपिः // KAव्क्_९३.९२ //
SK
स्फीतराज्याम् अभिषिक्तश् च कुचापलनिधिः कपिः / पटो ऽष्टादशभिः कृष्टः पुरुषैर् अप्य् असंक्षयः // KAव्क्_९३.९३ //
SK
रम्यपुष्पफलारामश् चौरैर् अपि विलुण्ठितः / द्वेषोपहासकलहासक्तश् च विपुलो जनः // KAव्क्_९३.९४ //
SK
स्वप्नाद्भुतानाम् एतेषां मन्ये घोरतरं फलम् / इति पृष्टः क्षितिभुजा भगवान् काश्यपो ऽब्रवीत् // KAव्क्_९३.९५ //
SK
शतायुषि जने शास्ता शान्तः शाक्यमुनिर् जिनः / भविष्यत्य् अमृताम्भोधिः स द्र्ष्टः कुञ्जरस् त्वया // KAव्क्_९३.९६ //
SK
तस्यापि पश्चिमे काले श्रावकाः कलिसंश्रयात् / त्यक्तशीलगुणाचारा भविष्यन्ति सविप्लवाः // KAव्क्_९३.९७ //
SK
अपक्वाल्पविवेकानां बलात् ते गृहवासिनाम् / स्वयं सेवां समालम्ब्य करिष्यन्त्य् एव देशनाम् // KAव्क्_९३.९८ //
SK
अर्थनीयो ऽर्थिभावेन यस्मात् सेवासु धावति / तृषितस्य व्रजन् पश्चात् कूपस् तस्माद् विलोकितः // KAव्क्_९३.९९ //
SK
ते करिष्यन्ति लोभान्धः संमोहोपहताः परम् / बोध्यङ्गमुक्ताप्रस्थस्य शक्तुप्रस्थेन विक्रयम् // KAव्क्_९३.ल्OO //
SK
तीर्थवाक्यकुदारूणि बुद्धभाषितचन्दनैः / साम्यम् आपादयिष्यन्ति ते मौग्ध्याद् अविशेषिणः // KAव्क्_९३.१०१ //
SK
क्वचिद् भद्रं समासाद्य विनीतं भिक्षुकुञ्जरम् / दुःशीलकलभो भिक्षुः स्पर्धया धिक् करिष्यति // KAव्क्_९३.१०२ //
SK
चापलाशुचिलिप्ताङ्गः सुशीलान् भिक्षुमर्कटः / अनुलिम्पन् स्वदोषेण करिष्यत्य् आत्मसन्निभान् // KAव्क्_९३.१०३ //
SK
षण्डकस्याभिषेकश् च भविष्यति कपेर् इव / संबुद्धशासनपटं कृष्यमाणं न नंक्ष्यति // KAव्क्_९३.१०४ //
SK
संघद्रव्यफलारामेष्व् अपि यास्यन्ति चौरताम् / मिथः कलहशीलाश् च भविष्यन्त्य् अपवादिनः // KAव्क्_९३.१०५ //
SK
तव स्वप्नविपाकान्ते फलान्य् एतानि भूतले / इति शास्तुर् वचः श्रुत्वा विस्मितो ऽभून् महीपतिः // KAव्क्_९३.१०६ //
SK
सानुगस्याथ नृपतेः स शास्ता धर्मदेशनाम् / कृत्वा काञ्चनमालाया दिदेश कुशलार्हताम् // KAव्क्_९३.ल्०७ //
SK
जन्मान्तले चकारार्चां स्तूपे नारङ्गमालया / सा तेन सुकृतेनैव जाता हेमस्रजाङ्किता // KAव्क्_९३.१०८ //
SK
सेयं सुमागधा पुण्यप्रभावेण महीयसा / प्राप्ताद्य जनकायस्य सम्यक् कुशलसेतुताम् // KAव्क्_९३.१०९ //
SK
अधिधायेति भगवान् नभसा भिक्षुभिः सह / रुचा संपूरयन्न् आशां ययौ जेतवनं जिनः // KAव्क्_९३.ल्ल्० //
SK
पुंसां सत्कुलभूतये बलवती मिथ्यैव पुत्रस्पृहा सूनुश् चेद् अगुणस् तद् एव विफलं तत् किं न सर्वं कुलम् / सा कन्या किल जायते गुणवती पुण्यप्रभावाद् यया संसारोरुसरित्पतौ कुलयुगम् नाव् एव संतार्यते // KAव्क्_९३.१११ //
SK
इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सुमागधावदानं त्रिनवतितमः पल्लवह्.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kṣemendra: Bodhisattvāvadānakalpalatā 93, Sumāgadhāvadāna (sa_kSemendra-bodhisattvAvadAnakalpalatA-93sumAgadhAvadAna.htm).

Source