Introduction to the Bodhisattva's Way of Life
Bodhicaryāvatāra
Bओधिचर्यावतार
SKसुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतो ऽखिलांश्च वन्द्यान् सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् //
SKन हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति अतएव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं ममेदं //
SKमम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः अथ मत्समधातुरेव पश्येद् अपरो ऽप्येनमतो ऽपि सार्थको ऽयं //
SKक्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः //
SKरात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशं बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिः क्षणं स्यात् //
SKतस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरं तज्जीयते ऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् //
SKकल्पाननल्पान् प्रविचिन्तयद्भिर् दृष्टं मुनीन्द्रैर्हितमेतदेव यतः सुखेनैव सुखं प्रवृद्धम् उत्प्लावयत्यप्रमिताञ्जनौघान् //
SKभवदुःखशतानि तर्तुकामैर् अपि सत्त्वव्यसनानि हर्तुकामैः बहुसौख्यशतानि भोक्तुकामैर् न विमोच्यं हि सदैव बोधिचित्तं //
SKभवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन् न नरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते //
SKअशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घां रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञं //
SKसुपरीक्षितमप्रमेयधीभिर् बहुमूल्यं जगदेकसार्थवाहैः गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नं //
SKकदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः //
SKकृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः //
SKयुगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् //
SKतद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च //
SKगन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते तथा भेदो ऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः //
SKबोधिप्रणिधिचित्तस्य संसारे ऽपि फलं महत् न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः //
SKयतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे समाददाति तच्चित्तम् अनिवर्त्येन चेतसा //
SKततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः //
SKइदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः //
SKशिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः //
SKकिमुताप्रमितं शूलम् एकैकस्य जिहीर्षतः अप्रमेयगुणं सत्त्वम् एकैकं च चिकीर्षतः //
SKकस्य मातुः पितुर्वापि हिताशंसेयमीदृशी देवतानामृषीणां वा ब्रह्मणां वा भविष्यति //
SKतेषामेव च सत्त्वानां स्वार्थे ऽप्येष मनोरथः नोत्पन्नपूर्वः स्वप्ने ऽपि परार्थे संभवः कुतः //
SKसत्त्वरत्नविशेषो ऽयम् अपूर्वो जायते कथं यत्परार्थाशयो ऽन्येषां न स्वार्थे ऽप्युपजायते //
SKजगदानन्दबीजस्य जगद्दुःखौषधस्य च चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयतां //
SKहिताशंसनमात्रेण बुद्धपूजा विशिष्यते किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् //
SKदुःखमेवाभिधावन्ति दुःखनिःसरणाशया सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत् //
SKयस्तेषां सुखरङ्काणां पीडितानामनेकशः तृप्तिं पूर्वसुखैः कुर्यात् सर्वाः पीडाश्छिनत्ति च //
SKनाशयत्यपि संमोहं साधुस्तेन समः कुतः कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः //
SKकृते यः प्रतिकुर्वीत सो ऽपि तावत्प्रशस्यते अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यतां //
SKकतिपयजनसत्रदायकः कुशलकृदित्यभिपूज्यते जनैः क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् //
SKकिमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणं //
SKइति सत्त्रपतौ जिनस्य पुत्त्रे कलुषं स्वे हृदये करोति यश्च कलुषोदयसंख्यया स कल्पान् नरकेष्वावसतीति नाथ आह //
SKअथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततो ऽधिकं फलं महता हि बलेन पापकर्म जिनपुत्त्रेषु शुभं त्वयत्नतः //
SKतेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नं यत्रापकारो ऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि //
SKबोधिचर्यावतारे बोधिचित्तानुशंसा नाम प्रथमः परिच्छेदः ||
SKतच्चित्तरत्नग्रहणाय सम्यक् पूजां करोम्येष तथागतानां सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनां //
SKयावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि //
SKमहीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः //
SKदेवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि //
SKअकृष्टजातानि च शस्यजातान्य् अन्यानि वा पूज्यविभूषणानि आकाशधातुप्रसराविधीनि सर्वाण्यपीमान्यपरिग्रहाणि //
SKआदाय बुद्ध्या मुनिपुङ्गवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः //
SKअपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् अतो ममार्थाय परार्थचिन्ता गृह्णन्तु नाथा इदमात्मशक्त्या //
SKददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः परिग्रहं मे कुरुताग्रसत्त्वाः युष्मासु दासत्वमुपैमि भक्त्या //
SKपरिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः //
SKरत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु //
SKमनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमयैरनेकैः स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतवाद्यं //
SKप्रधूपितैर्धौतमलैरतुल्यैर् वर्स्त्रैश्च तेषां तनुमुन्मृशामि ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि //
SKदिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर् वस्त्रैरलङ्कारवरैश्च तैस्तैः समन्तभद्राजितमञ्जुघोषलोकेश्वरादीनपि मण्डयामि //
SKसर्वत्रिसाहस्रविसारिगन्धैर् गन्धोत्तमैस्ताननुलेपयामि सूत्तप्तसून्मृष्टसुधौतहेमप्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् //
SKमन्दारवेन्दीवरमल्लिकाद्यैः सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः अभ्यर्चयाम्यर्च्यतमान्मुनीन्द्रान् स्रग्भिश्च संस्थानमनोरमाभिः //
SKस्फीतस्फुरद्गन्धमनोरमैश्च तान्धूपमेघैरुपधूपयामि भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस् तेभ्यो निविद्यं च निवेदयामि //
SKरत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्वीन् गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान्मनोज्ञान् //
SKप्रलम्बमुक्तामणिहारशोभान् आभास्वरान्दिग्मुखमण्डनांस्तान् विमानमेघान् स्तुतिगीतरम्यान् मैत्रीमयेभ्यो ऽपि निवेदयामि //
SKसुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि //
SKअतः परं प्रितष्ठन्तां पूजामेघा मनोरमाः तूर्यसङ्गीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः //
SKसर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च पुष्परत्नादिवर्षाश्च प्रवर्त्तन्तां निरन्तरम् //
SKमञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान् तथा तथागतान्नाथान् सपुत्रान्पूजयाम्यहम् //
SKस्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन् स्तुतिसङ्गीतिमेघाश्च संभवन्त्वेष्वनन्यथा //
SKसर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं सर्वत्राध्वगतान्बुद्धान् सहधर्मगणोत्तमान् //
SKसर्चचैत्यानि वन्दे ऽहं बोधिसत्त्वाश्रयांस्तथा नमः करोम्युपाध्यायान् अभिवन्द्यान्यतींस्तथा //
SKबुद्धं गच्छामि शरणं यावदाबोधिमण्डतः धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा //
SKविज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् महाकारुणिकांश्चापि बोधिसत्त्वान्कृताञ्जलिः //
SKअनादिमति संसारे जन्मन्यत्रैव वा पुनः यन्मया पशुना पापं कृतं कारितमेव वा //
SKयच्चानुमोदितं किंचिद् आत्मघाताय मोहतः तदत्ययं देशयामि पश्चात्तापेन तापितः //
SKरत्नत्रये ऽपकारो यो मातापितृषु वा मया गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः //
SKअनेकदोषदुष्टेन मया पापेन नायकाः यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् //
SKकथं च निःसराम्यस्मान् नित्योद्वेगो ऽस्मि नायकाः मा भून्मे मृत्युरचिराद् अक्षीणे पापसंचये //
SKकथं च निःसराम्यस्मात् परित्रायत सत्वरं मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति //
SKकृताकृतापरीक्षो ऽयं मृत्युर्विश्रम्भघातकः स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः //
SKप्रियाप्रियनिमित्तेन पापं कृतमनेकधा सर्वमुत्सृज्य गन्तव्यम् इति न ज्ञातमीदृशम् //
SKतत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते //
SKअप्रिया न भविष्यन्ति प्रियो मे न भविष्यति अहं च न भविष्यामि सर्वं च न भविष्यति //
SKइहैव तिष्ठतस्तावद् गता नैके प्रियाप्रियाः तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः //
SKएवमागन्तुको ऽस्मीति न मया प्रत्यवेक्षितं मोहानुनयविद्वैषैः कृतं पापमनेकधा //
SKरात्रिन्दिवमविश्रामम् आयुषो वर्धते व्ययः आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम् //
SKइह शय्यागतेनापि बन्धुमध्ये ऽपि तिष्ठता मयैवैकेन सोढव्या मर्मच्छेदादिवेदना //
SKयमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत् पुण्यमेकं तदा त्राणं मया तच्च न सेवितम् //
SKअनित्यजीवितासङ्गाद् इदं भयमजानता प्रमत्तेन मया नाथा बहु पापमुपार्जितम् //
SKअङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति पिपासितो दीनदृष्टिर् अन्यदेवेक्षते जगत् //
SKकिं पुनर्भैरवाकारैर् यमदूतैरधिष्ठितः महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः //
SKकातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशं को मे महाभयादस्मात् साधुस्त्राणं भविष्यति //
SKत्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः तदाहं किं करिष्यामि तस्मिन्स्थाने महाभये //
SKअद्यैव शरणं यामि जगन्नाथान्महाबलान् जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरांजिनान् //
SKतैश्चाप्यधिगतं धर्मं संसारभयनाशनं शरणं यामि भावेन बोधिसत्त्वगणं तथा //
SKसमस्तभद्रायात्मानं ददामि भयविह्वलः पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना //
SKतं चावलोकितं नाथं कृपाव्याकुलचारिणं विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम् //
SKआर्यमाकाशगर्भं च क्षितिगर्भं च भावतः सर्वान्महाकृपांश्चापि त्राणान्वेषी विरौम्यहम् //
SKयं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशं यमदूतादयो दुष्टास् तं नमस्यामि वज्रिणम् //
SKअतीत्य युष्मद्वचनं साम्प्रतं भयदर्शनात् शरणं यामि वो भीतो भयं नाशयत द्रुतम् //
SKइत्वरव्याधिभीतो ऽपि वैद्यवाक्यं न लङ्घयेत् किमु व्याधिशतैर्ग्रस्तश् चतुर्भिश्चतुरुत्तरैः //
SKएकेनापि यतः सर्वे जम्बुद्वीपगता नराः नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते //
SKतत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः वाक्यमुल्लङ्घयामीति धिङ्मामत्यन्तमोहितम् //
SKअत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि किमु योजनसाहस्त्रे प्रपाते दीर्घकालिके //
SKअद्यैव मरणं नेति न युक्ता मे सुखासिका अवश्यमेति सा वेला न भविष्याम्यहं यदा //
SKअभयं केन मे दत्तं निःसरिष्यामि वा कथं अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः //
SKपूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितं येषु मे ऽभिनिविष्टेन गुरूणां लङ्घितं वचः //
SKजीवलोकमिमं त्यक्त्वा बन्धून्परिचितांस्तथा एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः //
SKइयमेव तु मे चिन्ता युक्ता रात्रिन्दिवं सदा अशुभान्नियतं दुःखं निःसरेयं ततः कथम् //
SKमया बालेन मूढेन यत्किंचित्पापमाचितं प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च //
SKतत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः //
SKअत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः न भद्रकमिदं नाथा न कर्त्तव्यं पुनर्मया //
SKइति द्वितीयः परिच्छेदः ||
SKअपायदुःखविश्रामं सर्वसत्त्वैः कृतंशुभं अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः //
SKसंसारदुःखनिर्मोक्षम् अनुमोदे शरीरिणां बोधिसत्त्वत्वबुद्धत्वम् अनुमोदे च तायिनाम् //
SKचित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् सर्वसत्त्वहिताधानान् अनुमोदे च शासिनाम् //
SKसर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् //
SKनिर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत् //
SKएवं सर्वमिदं कृत्वा यन्मयासादितं शुभं तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् //
SKग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च तदुपस्थायकश्चैव यावद्रोगापुनर्भवः //
SKक्षुत्पिपासाव्यथां हन्याम् अन्नपानप्रवर्षणैः दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् //
SKदरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः नानोपकरणाकारैर् उपतिष्ठेयमग्रतः //
SKआत्मभावांस्तथा भोगान् सर्वत्राध्वगतं शुभं निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये //
SKसर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयतां //
SKयथासुखीकृतश्चात्मा मयायं सर्वदेहिनां घ्नन्तु निन्दन्तु वा नित्यम् आकिरन्तु च पांसुभिः //
SKक्रीडन्तु मम कायेन हसन्तु विलसन्तु च दत्तस्तेभ्यो मया कायश् चिन्तया किं मयानया //
SKकारयन्तु च कर्माणि यानि तेषां सुखावहं अनर्थः कस्यचिन्मा भून् मामालम्ब्य कदाचन //
SKयेषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् तेषां स एव हेतुः स्यान् नित्यं सर्वार्थसिद्धये //
SKअभ्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः उत्प्रासकास्तथान्ये ऽपि सर्वे स्युर्बोधिभागिनः //
SKअनाथानामहं नाथः सार्थवाहश्च यायिनां पारेप्सूनां च नौभूतः सेतुः सङ्क्रम एव च //
SKदीपार्थिनामहं दीपः शय्या शय्यार्थिनामहं दासार्थिनामहं दासो भवेयं सर्वदेहिनां //
SKचिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनां //
SKपृथिव्यादीनि भूतानि निःशेषाकाशवासिनां सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा //
SKएवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः //
SKयथा गृहीतं सुगतैर् बोधिचित्तं पुरातनैः ते बोधिसत्त्वशिक्षायाम् आनुपूर्व्या यथा स्थिताः //
SKतद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमं //
SKएवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः पुनः पृष्ठस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत् //
SKअद्य मे सफलं जन्म सुलब्धो मानुषो भवः अद्य बुद्धकुले जातो बुद्धपुत्रो ऽस्मि साम्प्रतं //
SKतथाधुना मया कार्यं स्वकुलोचितकारिणां निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा //
SKअन्धः सङ्करकूटेभ्यो यथा रत्नमवाप्नुयात् तथा कथंचिदप्येतद् बोधिचित्तं ममोदितं //
SKजगन्मृत्युविनाशाय जातमेतद्रसायनं जगद्दारिद्र्यशमनं निधानमिदमक्षयं //
SKजगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमं भवाध्वभ्रमणश्रान्तो जगद्विश्रामपादपः //
SKदुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनां जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः //
SKजगदज्ञानतिमिरप्रोत्सारणमहारविः सद्धर्मक्षीरमथनान् नवनीतं समुत्थितं //
SKसुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणं //
SKजगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा पुरतः खलु सर्वतायिनाम् अभिनन्दन्तु सुरासुरादयः //
SKबोधिचर्यावतारे बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ||
SKएवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः //
SKसहसा यत्समारब्धं सम्यग् यदविचारितं तत्र कुर्यान्नवेत्येवं प्रतिज्ञायापि युज्यते //
SKविचारितं तु यद्बुद्धैर् महाप्राज्ञैश्च तत्सुतैः मयापि च यथाशक्ति तत्र किं परिलम्ब्यते //
SKयदिचैवं प्रतिज्ञाय साधयेयं न कर्मणा एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति //
SKमनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः स प्रेतो भवतीत्युक्तम् अल्पमात्रे ऽपि वस्तुनि //
SKकिमुतानुत्तरं सौख्यम् उच्चैरुद्धुष्य भावतः जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति //
SKवेत्ति सर्वज्ञ एवैताम् अचिन्त्यां कर्मणो गतिं यद्बोधिचित्तत्यागे ऽपि मोचयत्येव तान्नरान् //
SKबोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी यस्मादापद्यमानो ऽसौ सर्व सत्त्वार्थहानिकृत् //
SKयो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थधातिनः //
SKएकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् अशेषाकाशपर्यन्तवासिनां किमु देहिनां //
SKएवमापत्तिबलतो बोधिचित्तबलेन च दोलायमानः संसारे भूमिप्राप्तश्चिरायते //
SKतस्माद्यथा प्रतिज्ञातं साधनीयं मयादरात् नाद्य चेत्क्रियते यत्नस् तलेनास्मि तलं गतः //
SKअप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः नैषामहं स्वदोषेण चिकित्सागोचरं गतः //
SKअद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयां //
SKकदा तथागतोत्पादं श्रद्धां मानुष्यमेव वा कुशलाभ्यासयोग्यत्वम् एवं लप्स्ये ऽति दुर्लभं //
SKआरोग्यदिवसं चेदं सभक्तं निरुपद्रवं आयुः क्षणं विसंवादि कायो याचितकोपमः //
SKनहीदृशैर्मच्चरितैर् मानुष्यं लभ्यते पुनः अलभ्यमाने मानुष्ये पापमेव कुतः शुभं //
SKयदा कुशलयोग्यो ऽपि कुशलं न करोम्यहं अपायदुःखैः संमूढः किं करिष्याम्यहं तदा //
SKअकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः हतः सुगतशब्दो ऽपि कल्पकोटिशतैरपि //
SKअत एवाह भगवान् मानुषमतिदुर्लभं महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमं //
SKएकक्षणात्कृतात्पापाद् अवीचौ कल्पमाप्स्यते अनादिकालोपचितात् पापात्का सुगतौ कथा //
SKन च तन्मात्रमेवासौ वेदयित्वा विमुच्यते यस्यात्तद्वेदयन्नेव पापमन्यत्प्रसूयते //
SKनातःपरा वञ्चनास्ति न च मोहो ऽस्त्यतःपरः यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया //
SKयदि चैवं विमृष्यामि पुनः सीदामि मोहितः शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः //
SKचिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः पश्चात्तापानलश्चित्तं चिरं धक्ष्यतिनिश्चितं //
SKकथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभां जानन्नपि च नीयो ऽहं तानेव नरकान्पुनः //
SKअत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः न जाने केन मुह्यामि को ऽत्रान्तर्मम तिष्ठति //
SKहस्तपादादिरहितास् तृष्णाद्वेषादिशत्रवः न शुरा न च ते प्राज्ञाः कथं दासीकृतो ऽस्मि तैः //
SKमच्चित्तावस्थिता एव ध्नन्ति मामेव सुस्थिताः तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुतां //
SKसर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः //
SKमेरोरपि यदासङ्गान् न भस्माप्युपलभ्यते क्षणात्क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः //
SKनहि सर्वान्यशत्रूणां दीर्घमायुरपीदृशं अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणां //
SKसर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः //
SKइतिसततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् //
SKभवचारकपालका इमे नरकादिष्वपि वध्यघातकाः मतिवेश्मनि लोभपञ्जरे यदि तिष्ठति कुतः सुखं मम //
SKतस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षं खल्पे ऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्रां //
SKप्रकृतिमरणदुःखितान्धकारान् रणशिरसि प्रसमं निहन्तुमुग्राः अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा //
SKकिमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै //
SKअकारणेनैव रिपुक्षतानि गात्रेष्वलण्कारवदुद्वहन्ति महार्हसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि //
SKस्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहे ऽहम् //
SKदशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे प्रतिज्ञाय महात्मापि न क्लेशेभ्यो विमोचितः //
SKआत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा अनिवर्त्ती भविष्यामि तस्मात्क्लेशवधे सदा //
SKअत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः //
SKगलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् //
SKनिर्वासितस्यापि तु नाम शत्रोर् देशान्तरे स्थानपरिग्रहः स्यात् यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु //
SKक्वासौ यायान्मनःस्थो निरस्तः स्थित्वा यस्मिन्मद्वधार्थं यतेत नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः //
SKन क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता नातो ऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत् मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे //
SKएवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् //
SKबोधिचर्यावतारे बोधिसत्त्वशिक्षा चतुर्थः परिच्छेदः ||
SKशिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता //
SKअदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः //
SKबद्धश्चेच्चितमातङ्गः स्मृतिरज्ज्वा समन्ततः भयमस्तं गतं सर्वं कृत्स्नं कल्याणमागतम् //
SKब्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा //
SKसर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च //
SKयस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च चित्तादेव भवन्तीति कथितं तत्त्ववादिना //
SKशस्त्राणि केन नरके घटितानि प्रयत्नतः तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः //
SKपापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः तस्मान्न कश्चित्रैलोक्ये चित्तादन्यो भयानकः //
SKअदरिद्रं जगत्कृत्वा दानपारमिता यदि जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् //
SKफलेन सह सर्वस्वत्यागचित्ताज्जने ऽखिले दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव तु //
SKमत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान् लब्धे विरतिचित्ते तु शीलपारमिता मता //
SKकियतो मारयिष्यामि दुर्जनान् गगनोपमान् मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः //
SKभूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति उपानच्चर्ममात्रेण छन्ना भवति मेदिनी //
SKबाह्या भावा मया तद्वच् छक्या वारयितुं न हि स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः //
SKसहापि वाक्छरीराभ्यां मन्दवृत्तेर्न तत्फलम् यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् //
SKजपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् //
SKदुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् //
SKतस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम् चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः //
SKयथा चपलमध्यस्थो रक्षति व्रणमादरात् एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा //
SKव्रणदुःखलवाद्भीतो रक्षति व्रणमादरात् संघातपर्वताघाताद् भीतश्चित्तव्रणं न किम् //
SKअनेन हि विहारेण विहरन् दुर्जनेष्वपि प्रमदाजनमध्ये ऽपि यतिर्धीरो न खण्ड्यते //
SKलाभा नश्यन्तु मे कामं सत्कारः कायजीवितम् नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन //
SKचित्तं रक्षितुकामानां मयैष क्रियते ऽञ्जलिः स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत //
SKव्याध्याकुलो नरो यद्वन् न क्षमः सर्वकर्मसु तथाभ्यां व्याकुलं चित्तं न क्षमं सर्वकर्मसु //
SKअसंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् सच्छिद्रकुम्भजलवन् न स्मृताववतिष्ठते //
SKअनेके श्रुतवन्तो ऽपि श्राद्धा यत्नपरा अपि असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः //
SKअसंप्रजन्यचौरेण स्मृतिमोषानुसारिणा उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् //
SKक्लेशतस्करसङ्घो ऽयम् अवतारगवेषकः प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीबितम् //
SKतस्मात्स्मृतिर्मनोद्वारान् नापनेया कदाचन गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम् //
SKउपाध्यायानुशासिन्या भीत्याप्यादरकारिणाम् धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः //
SKबुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः //
SKइति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः //
SKसंप्रजन्यं तदायाति न च यात्यागतं पुनः स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते //
SKपूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा //
SKनिष्फला नेत्रविक्षेपा न कर्त्तव्याः कदाचन निध्यायन्तीव सततं कार्या दृष्टिरधोगता //
SKदृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् //
SKमार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् दिशो विश्रम्य वीक्षेत परावृत्येव पृष्ठतः //
SKसरेदपसरेद्वापि पुरः पश्चान्निरूप्य च एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् //
SKकायेनैवमवस्थेयम् इत्याक्षिप्य क्रियां पुनः कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा //
SKनिरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते //
SKकुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा //
SKभयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम् दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् //
SKयद्बुद्ध्वा कर्तुमारब्धं ततो ऽन्यन्न विचिन्तयेत् तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना //
SKएवं हि सुकृतं सर्वम् अन्यथा नोभयं भवेत् असंप्रजन्यक्लेशो ऽपि वृद्धिं चैवं गमिष्यति //
SKनानाविधप्रलापेषु वर्तमानेष्वनेकधा कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् //
SKमृन्मर्दनतृणच्छेदरेखाद्यफलमागतम् स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् //
SKयदा चलितुकामः स्याद् वक्तुकामो ऽपि वा भवेत् स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् //
SKअनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा //
SKउद्धतं सोपहासं वा यदा मानमदान्वितम् सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् //
SKयदात्मोत्कर्षणाभासं परपंसनमेव च साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा //
SKलाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत् //
SKपरार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत् //
SKअसहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा स्वपक्षाभिनिविष्टं वा तस्मात्तिष्ठामि काष्ठवत् //
SKएवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा //
SKसुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् सलज्जं सभयं शान्तं पराराधनतत्परम् //
SKपरस्परविरुद्धाभिर् बालेच्छाभिरखेदितम् क्लेशोत्पादादिदं ह्येतद् एषामिति दयान्वितम् //
SKआत्मसत्त्ववशं नित्यम् अनवद्येषु वस्तुषु निर्माणमिव निर्मानं धारयाम्येष मानसम् //
SKचिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः धारयामीदृशं चित्तम् अप्रकम्प्यं सुमेरुवत् //
SKगृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् //
SKरक्षसीमं मनः कस्माद् आत्मीकृत्य समुच्छ्रयम् त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः //
SKन स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम् अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम् //
SKइमं चर्मपुटं तावत् स्वबुद्ध्यैव पृथक् कुरु अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय //
SKअस्थीन्यपि पृथक् कृत्वा पश्य मज्जानमन्ततः किमत्र सारमस्तीति स्वयमेव विचारय //
SKएवमन्विष्य यत्नेन न दृष्टं सारमत्र ते अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि //
SKन खादितव्यमशुचि त्वया पेयं न शोणितम् नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि //
SKयुक्तं गृध्रशृगालादेर् आहारार्थं तु रक्षितुम् कर्मोपकरणं त्वेतन् मनुष्याणां शरीरकम् //
SKएवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः कायं दास्यति गृध्रेभ्यस् तदा त्वं किं करिष्यसि //
SKन स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् //
SKदत्त्वास्मै वेतनं तस्मात् स्वार्थं कुरु मनो ऽधुना नहि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते //
SKकाये नौबुद्धिमाधाय गत्यागमननिश्चयात् यथाकामङ्गमं कायं कुरु सत्त्वार्थसिद्धये //
SKएवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् त्यजेद् भृकुटिसङ्कोचं पूर्वाभाषी जगत्सुहृत् //
SKसशब्दपातं सहसा न पीठादीन् विनिक्षिपेत् नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा //
SKबको बिडालश्चौरश्च निःशब्दो निभृतश्चरन् प्राप्नोत्यभिमतं कार्यम् एवं नित्यं यतिश्चरेत् //
SKपरचोदनदक्षाणाम् अनधीष्टोपकारिणाम् प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् //
SKसुभाषितेषु सर्वेषु साधुकारमुदीरयेत् पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् //
SKपरोक्षं च गुणान् ब्रूयाद् अनुब्रूयाच्च तोषतः स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् //
SKसर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा भोक्ष्ये तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः //
SKन चात्र मे व्ययः कश्चित् परत्र च महत्सुखम् अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च //
SKविश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् //
SKऋजु पश्येत्सदा सत्त्वांश् चक्षुषा संपिबन्निव एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति //
SKसातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम् //
SKदक्ष उत्थानसंपन्नः स्वयङ्कारी सदा भवेत् नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु //
SKउत्तरोत्तरतः श्रेष्ठा दानपारमितादयः नेतरार्थं त्यजेच्छ्रेष्ठाम् अन्यत्राचारसेतुतः //
SKएवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः //
SKविनिपातगतानाथब्रतस्थान् संविभज्य च भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् //
SKसद्धर्मसेबकं कायम् इतरार्थे न पीडयेत् एवमेव हि सत्त्वानाम् आशामाशु प्रपूरयेत् //
SKत्यजेन्न जीवितं तस्माद् अशुद्धे करुणाशये तुल्याशये तु तत्त्याज्यम् इत्थं न परिहीयते //
SKधर्मं निर्गौरवे स्वस्थे न शिरोवेष्ठिते वदेत् सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके //
SKगम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् //
SKनोदारधर्मपात्रं च हीने धर्मे नियोजयेत् न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् //
SKदन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् //
SKमुखपूरं न भुञ्जीत सशब्दं प्रसृताननम् प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् //
SKनैकयाऽन्यस्त्रिया कुर्याद् यानं शयनमासनम् लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् //
SKनाङ्गुल्या कारयेत्किंचिद् दक्षिणेन तु सादरम् समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् //
SKन बाहूत्क्षेपकं कंचिच् छब्दयेदल्पसंभ्रमे अच्छटादि तु कर्तव्यम् अन्यथा स्यादसंवृतः //
SKनाथनिर्वाणशय्यावच् छयीतेप्सितया दिशा संप्रजान/ल्लघूत्थानः प्रागवश्यं नियोगतः //
SKआचारो बोधिसत्त्वानाम् अप्रमेय उदाहृतः चित्तशोधनमाचारं नियतं तावदाचरेत् //
SKरात्रिन्दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् //
SKया अवस्थाः प्रपद्येत स्वयं परवशो ऽपि वा तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः //
SKन हि तद्विद्यते किंचिद् यन्न शिक्ष्यं जिनात्मजैः न तदस्ति न यत्पुण्यम् एवं विहरतः सतः //
SKपारम्पर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत् सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् //
SKसदा कल्याणमित्रं च जीवितार्थे ऽपि न त्यजेत् बोधिसत्त्वव्रतधरं महायानार्थकोविदम् //
SKश्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम् एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् //
SKशिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत् आकाशगर्भे सूत्रे च मूलापत्तीर्निरूपयेत् //
SKशिक्षासमुच्चयो ऽवश्यं द्रष्टव्यश्च पुनः पुनः विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः //
SKसङ्क्षेपेणाथवा तावत् पश्येत्सूत्रसमुच्चयम् आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः //
SKयतो निवार्यते यत्र यदेव च नियुज्यते तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् //
SKएतदेव समासेन संप्रजन्यस्य लक्षणम् यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः //
SKकायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत् चिकित्सापाठमात्रेण रोगिणः किं भविष्यति //
SKइति बोधिचर्यावतारे संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः ||
SKसर्वमेतत्सुचरितं दानं सुगतपूजनम् कृतं कल्पसहस्रैर्यत् प्रतिघः प्रतिहन्ति तत् //
SKन च द्वेषसमं पापं न च क्षान्तिसमं तपः तस्मात् क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः //
SKमनः शमं न गृह्णाति न प्रीतिसुखमश्नुते न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते //
SKपूजयत्यर्थमानैर्यान् ये ऽपि चैनं समाश्रिताः ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् //
SKसुहृदो ऽप्युद्विजन्ते ऽस्माद् ददाति न च सेव्यते सङ्क्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः //
SKएवमादीनि दुःखानि करोतीत्यरिसंज्ञया यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च //
SKअनिष्टकरणाज्जातम् इष्टस्य च विघातनात् दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम् //
SKतस्माद्विघातयिष्यामि तस्याशनमहं रिपोः यस्मान्न मद्वधादन्यत् कृत्यमस्यास्ति वैरिणः //
SKअत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया दौर्मनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते //
SKयद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् //
SKदुःखं न्यक्कारपारुष्यम् अयशश्चेत्यनीप्सितम् प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात् //
SKकथंचिल्लभ्यते सौख्यं दुःखं स्थितमयन्ततः दुःखेनैव च निःसारश् चेतस्तस्माद्दृढीभव //
SKदुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम् वृथा सहन्ते मुक्त्यर्थम् अहं कस्मात्तु कातरः //
SKन किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा //
SKउद्दंशदंशमशकक्षुत्पिपासादिवेदनाम् महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि //
SKशीतोष्णवृष्टिवाताधिव्याधिबन्धनताडनैः सौकुमार्यं न कर्तव्यम् अन्यथा वर्धते व्यथा //
SKकेचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत् //
SKतच्चित्तस्य दृढत्वेन कातरत्वेन चागतम् दुःखदुर्योधनस्तस्माद् भवेदभिभवेद्व्यथाम् //
SKदुःखे ऽपि नैव चित्तस्य प्रसादं क्षोभयेद्बुधः सङ्ग्रामो हि सह क्लेशैर् युद्धे च सुलभा व्यथा //
SKउरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन् ते ते विजयिनः शूराः शेषास्तु मृतमारकाः //
SKगुणो ऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा //
SKपित्तादिषु न मे कोपो महादुःखकरेष्वपि सचेतनेषु किं कोपः ते ऽपि प्रत्ययकोपिताः //
SKअनिष्यमाणमप्येतच् छूलमुत्पद्यते यथा अनिष्यमाणो ऽपि बलात् क्रोध उत्पद्यते तथा //
SKकुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च //
SKये केचिदपराधास्तु पापानि विविधानि च सर्वं यत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते //
SKन च प्रत्ययसामग्र्या जनयामीति चेतना न चापि जनितस्यास्ति जनितो ऽस्मीति चेतना //
SKयत्प्रधानं किलाभीष्टं यत्तदात्मेति कल्पितम् तदेव हि भवामीति न संचिन्त्योपजायते //
SKअनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते //
SKनित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः प्रत्ययान्तरसङ्गे ऽपि निर्विकारस्य का क्रिया //
SKयः पूर्ववत्क्रियाकाले क्रियायास्तेन किं कृतम् तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम् //
SKएवं परवशं सर्वं यद्वशं सो ऽपि चावशः निर्माणवदचेष्टेषु भावेष्वेवं क्व कुप्यते //
SKवारणापि न युक्तैवं कः किं वारयतीति चेत् युक्ता प्रतीत्यता यस्माद् दुःखस्योपरतिर्मता //
SKतस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम् ईदृशाः प्रत्यया अस्येत्य् एवं मत्वा सुखी भवेत् //
SKयदि तु खेच्छया सिद्धिः सर्वेषामेव देहिनाम् न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति //
SKप्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः भक्तच्छेदादिभिः कोपाद् दुरापस्त्र्यादिलिप्सया //
SKउद्वन्धनप्रपातैश्च विषापथ्यादिभक्षणैः निघ्नन्ति केचिदात्मानम् अपुण्याचरणेन च //
SKयदैवं क्लेशवश्यत्वाद् घ्नन्त्यात्मानमपि प्रियम् तदैषां परकायेषु परिहारः कथं भवेत् //
SKक्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने न केवलं दया नास्ति क्रोध उत्पद्यते कथम् //
SKयदि स्वभावो बालानां परोपद्रवकारिता तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके //
SKअथ दोषो ऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः यथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे //
SKमुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषो ऽस्तु मे वरम् //
SKमयापि पूर्वं सत्त्वानाम् ईदृश्येव व्यथा कृता तस्मान्मे युक्तमेवैतत् सत्त्वोपद्रवकारिणः //
SKतच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम् तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते //
SKगण्डो ऽयं प्रतिमाकारो गृहीतो घट्टनासहः तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते //
SKदुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते //
SKअसिपत्रवनं यद्वद् यथा नारकपक्षिणः मत्कर्मजनिता एव तथेदं कुत्र कुप्यते //
SKमत्कर्मचोदिता एव जाता मय्यपकारिणः येन यास्यन्ति नरकान् मयैवामी हता ननु //
SKएतानाश्रित्य मे पापं क्षीयते क्षमतो बहु मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान् //
SKअहमेवापकार्येषां ममैते चोपकारिणः कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि //
SKभवेन्ममाशयगुणो न यामि नरकान्यदि एषामत्र किमायातं यद्यात्मा रक्षितो मया //
SKअथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः //
SKमनो हन्तुममूर्तत्वान् न शक्यं केनचित् क्वचित् शरीराभिनिवेशात्तु कायदुःखेन बाध्यते //
SKन्यक्वारः परुषं वाक्यम् अयशश्चेत्ययं गणः कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि //
SKमय्यप्रसादो यो ऽन्येषां स किं मां भक्षयिष्यति इह जन्मान्तरे वापि येनासौ मे ऽनभीप्सितः //
SKलाभान्तरायकारित्वाद् यद्यसौ मे ऽनभीप्सितः नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम् //
SKवरमद्यैव मे मृत्युर् न मिथ्याजीवितं चिरम् यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदैव मे //
SKस्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते //
SKननु निवर्तते सौख्यं द्वयोरपि बिबुद्धयोः सैवोपमा मृत्युकाले चिरजीब्यल्पजीविनोः //
SKलब्ध्वापि च बहू/ल्लाभान् चिरं भुक्त्वा सुखान्यपि रिक्तहस्तश्च नग्नश्च यास्यामि मुषितो यथा //
SKपापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत् पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु //
SKयदर्थमेव जीवामि तदेव यदि नश्यति किं तेन जीवितेनापि केवलाशुभकारिणा //
SKअवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत् परायशस्करे ऽप्येवं कोपस्ते किं न जायते //
SKपरायत्ताप्रसादत्वाद् अप्रसादिषु ते क्षमा क्लेशोत्पादपरायत्ते क्षमा नावर्णवादिनि //
SKप्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च न युज्यते मम द्वेषो बुद्धादीनां न हि ब्यथा //
SKगुरुसालोहितादीनां प्रियाणां चापकारिषु पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत् //
SKचेतनाचेतनकृता देहिनां नियता व्यथा सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः //
SKमोहादेके ऽपराध्यन्ति कुप्यन्त्यन्ये ऽपि मोहिताः ब्रूमः कमेषु निर्दोषं कं वा ब्रूमो ऽपराधिनम् //
SKकस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः सर्वे कर्मपरायत्तः को ऽहमत्रान्यथाकृतौ //
SKएवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम् येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् //
SKदह्यमाने गृहे यद्वद् अग्निर्गत्वा गृहान्तरम् तृणादौ यत्र सज्येत तदाकृष्यापनीयते //
SKएवं चित्तं यदासङ्गाद् दह्यते द्वेषवह्निना तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया //
SKमारणीयः कथं छित्त्वा मुक्तश्चेत्किमभद्रकम् मनुष्यदुःखैर्नरकान् मुक्तश्चेत्किमभद्रकम् //
SKयद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते //
SKकोपार्थमेवमेवाहं नरकेषु सहस्रशः कारितो ऽस्मि न चात्मार्थः परार्थो वा कृतो मया //
SKन चेदं तादृशं दुःखं महार्थं च करिष्यति जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते //
SKयदि प्रीतिसुखं प्राप्तम् अन्यैः स्तुत्वा गुणोर्जितम् मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि //
SKइदं च ते हृष्टिसुखं निरवद्यं सुखोदयम् न वारितं च गुणिभिः परावर्जनमुत्तमम् //
SKतस्यैव सुखमित्येवं तवेदं यदि न प्रियम् भृतिदानादिविरतेर् दृष्टादृष्टं हतं भवेत् //
SKस्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि //
SKबोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि //
SKत्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किन्न वाञ्छसि सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे //
SKपुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः कुटुम्बजीविनं लव्ध्वा न हृष्यसि प्रकुप्यसि //
SKस किं नेच्छति सत्त्वानां यस्तेषां बोधिमिच्छति बोधिचित्तं कुतस्तस्य यो ऽन्यसंपदि कुप्यति //
SKयदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे सर्वथापि न तत्ते ऽस्ति दत्तादत्तेन तेन किम् //
SKकिं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ लभमानो न गृह्णातु वद केन न कुप्यसि //
SKन केवलं त्वमात्मानं कृतपापं न शोचसि कृतपुण्यैः सह स्पर्धाम् अपरैः कर्तुमिच्छसि //
SKजातं चेदप्रियं शत्रोस् त्वत्तुष्ठ्या किं पुनर्भवेत् त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति //
SKअत त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव अथाप्यर्थो भवेदेवम् अनर्थः कोन्वतः परः //
SKएतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम् यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु //
SKस्तुतिर्यशो ऽथ सत्कारो न पुण्याय न चायुषे न बलार्थं न चारोग्ये न च कायसुखाय मे //
SKएतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः मद्यद्यूतादि सेव्यं स्यान् मानसं सुखमिच्छता //
SKयशो ऽर्थं हारयन्त्यर्थम् आत्मानं मारयन्त्यपि किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम् //
SKयथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे //
SKशब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः परः किल मयि प्रीत इत्येतत्प्रीतिकारणम् //
SKअन्यत्र मयि वा प्रीत्या किं हि मे परकीयया तस्यैव तत्प्रीतिसुखं भागो नाल्पो ऽपि मे ततः //
SKतत्सुखेन सुखित्वं चेत् सर्वत्रैव ममास्तु तत् कस्मादन्यप्रसादेन सुखितेषु न मे सुखम् //
SKतस्मादहं स्तुतो ऽस्मीति प्रीतिरात्मनि जायते तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम् //
SKस्तुत्यादयश्च मे क्षोभं संवेगं नाशयन्त्यमी गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते //
SKतस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः अपायपातरक्षार्थं प्रवृत्ता ननु ते मम //
SKमुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम् ये मोचयन्ति मां बन्धाद् द्वेषस्तेषु कथं मम //
SKदुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम //
SKपुण्यविघ्नः कृतो ऽनेनेत्य् अत्र कोपो न युज्यते क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम् //
SKअथाहमात्मदोषेण न करोमि क्षमामिह मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते //
SKयो हि येन विना नास्ति यस्मिंश्च सति विद्यते स एव कारणं तस्य स कथं विघ्न उच्यते //
SKन हि कालोपपन्नेन दानविघ्नः कृतो ऽर्थिना न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते //
SKसुलभा याचका लोके दुर्लभास्त्वपकारिणः यतो मे ऽनपराधस्य न कश्चिदपराध्यति //
SKअश्रमोपार्जितस्तस्माद् नृहे निधिरिवोत्थितः बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम //
SKमया चानेन चोपात्तं तस्मादेतत्क्षमाफलम् एतस्मै प्रथमं देयम् एतत्पूर्वा क्षमा यतः //
SKक्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः सिद्धिहेतुरुचितो ऽपि सद्धर्मः पूज्यते कथम् //
SKअपकाराशयो ऽस्येति शत्रुर्यदि न पूज्यते अन्यथा मे कथं क्षान्तिर् भिषजीव हितोद्यते //
SKतद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया //
SKसत्त्वक्षेत्रं जिनक्षेत्रम् इत्यतो मुनिनोदितम् एतानाराध्य बहवः संपत्पारं यतो गताः //
SKसत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे जिनेषु गौरवं यद्वन् न सत्त्वेष्विति कः क्रमः //
SKआशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः //
SKमैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत् बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत् //
SKबुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः न तु बुद्धैः समाः केचिद् अनन्तांशैर्गुणार्णवैः //
SKगुणसारैकराशीनां गुणो ऽणुरपि चेत्क्वचित् दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् //
SKबुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत् //
SKकिं च निश्छद्मबन्धूनाम् अप्रमेयोपकारिणाम् सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत् //
SKभिन्दन्ति देहं प्रविशन्त्यवीचीं येषां कृते तत्र कृते कृतं स्यात् महापकारिष्वपि तेन सर्वकल्याणमेवाचरणीयमेषु //
SKस्वयं मम स्वामिन एव तावत् तदर्थमात्मन्यपि निर्व्यपेक्षाः अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् //
SKयेषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां प्रविशन्ति मन्युम् तत्तोषणात्सर्वमुनीन्द्रतुष्टिस् तत्रापकारे ऽपकृतं मुनीनाम् //
SKआदीप्तकायस्य यथा समन्तान् न सर्वकामैरपि सौमनस्यम् सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायो ऽस्ति दयामयानाम् //
SKतस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम् तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् //
SKआराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके कुर्वन्तु मे मूर्ध्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः //
SKआत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयो ऽस्ति दृश्यन्त एते ननु सत्त्वरूपास् त एव नाथाः किमनादरो ऽत्र //
SKतथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव कोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव //
SKयथैको राजपुरुषः प्रमथ्नाति महाजनम् विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः //
SKयस्मान्नैव स एकाकी तस्य राजबलं बलम् तथा न दुर्बलं कंचिद् अपराद्धं विमानयेत् //
SKयस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा //
SKकुपितः किं नृपः कुर्याद् येन स्यान्नरकव्यथा यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते //
SKतुष्टः किं नृपतिर्दद्याद् यद्बुद्धत्वसमं भवेत् यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते //
SKआस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम् इहैव सौभाग्ययशः सौस्थित्यं किं न पश्यसि //
SKप्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् //
SKबोधिचर्यावतारे क्षान्तिपारमिता षष्ठः परिच्छेदः ||
SKएवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः //
SKकिं वीर्यं कुशलोत्साहस् तद्विपक्षः क उच्यते आलस्यं कुत्सितासक्तिर् विषादात्मावमन्यना //
SKअव्यापारसुखास्वादनिद्रापाश्रयतृष्णया संसारदुःखानुद्वेगाद् आलस्यमुपजायते //
SKक्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम् किमद्यापि न जानासि मृत्योर्वदनमागतः //
SKस्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि तथापि निद्रां यास्येव चण्डालमहिषो यथा //
SKयमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः //
SKयावत्संभृतसंभारं मरणं शीघ्रमेष्यति संत्यज्यापि तदालस्यम् अकाले किं करिष्यसि //
SKइदं न प्राप्तमारब्धम् इदमर्धकृतं स्थितम् अकस्मान्मृत्युरायातो हा हतो ऽस्मीति चिन्तयन् //
SKशोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान् बन्धून् निराशान् संपश्यन् यमदूतमुखानि च //
SKस्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान् त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि //
SKजीवमत्स्य इवास्मीति युक्तं भयमिहैव ते किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः //
SKस्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते //
SKनिरुद्यमफलाकाङ्क्षिन् सुकुमार बहुव्यथ मृत्युग्रस्तो ऽमराकार हा दुःखित विहन्यसे //
SKमानुष्यं नावमासाद्य तर दुःखमहानदीम् मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः //
SKमुक्त्वा धर्मरतिं श्रेष्ठाम् अनन्तरतिसंततिम् रतिरौद्धत्यहासादौ दुःखहेतौ कथं तव //
SKअविषादबलव्यूहतात्पर्यात्मविधेयता परात्मसमता चैव परात्मपरिवर्तनम् //
SKनैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान् //
SKते ऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा //
SKकिमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम् सर्वज्ञनीत्यनुत्सर्गाद् बोधिं किं नाप्नुयामहम् //
SKअथापि हस्तपादादि दातव्यमिति मे भयम् गुरुलाघवमूढत्वं तन्मे स्यादविचारतः //
SKछेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्यो ऽप्यनेकशः कल्पकोटीरसंख्येया न च बोधिर्भविष्यति //
SKइदं तु मे परिमितं दुःखं संबोधिसाधनम् नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत् //
SKसर्वे ऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम् तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम् //
SKक्रियामिमामप्युचितां वरवैद्यो न दत्तवान् मधुरेणोपचारेण चिकित्सति महातुरान् //
SKआदौ शाकादिदाने ऽपि नियोजयति नायकः तत्करोति क्रमात्पश्चाद् यत्स्वमांसान्यपि त्यजेत् //
SKयदा शाकेष्विव प्रज्ञा स्वमांसे ऽप्युपजायते मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम् //
SKन दुःखी त्यक्तपापत्वात् पण्डितत्वान्न दुर्मनाः मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा //
SKपुण्येन कायः सुखितः पाण्डित्येन मनः सुखि तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते //
SKक्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् बोधिचित्तबलादेव श्रावकेभ्यो ऽपि शीघ्रगः //
SKएवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् //
SKछन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये छन्दं दुःखभयात्कुर्याद् अनुशंसांश्च भावयन् //
SKएवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये छन्दमानरतित्यागतात्पर्यवशिताबलैः //
SKअप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः //
SKतत्र दोषक्षयारम्भे लेशो ऽपि मम नेक्ष्यते अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम् //
SKगुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा //
SKगुणलेशे ऽपि नाभ्यासो मम जातः कदाचन वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम् //
SKन प्राप्तं भगवत्पूजामहोत्सवसुखं मया न कृता शासने कारा दरिद्राशा न पूरिता //
SKभीतेभ्यो नाभयं दत्तम् आर्ता न सुखिनः कृताः दुःखाय केवलं मातुर् गतो ऽस्मि गर्भशल्यताम् //
SKधर्मच्छन्दवियोगेन पौर्विकेण ममाधुना विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत् //
SKकुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ तस्यापि मूलं सततं विपाकफलभावना //
SKदुःखानि दौर्मनस्यानि भयानि विविधानि च अभिलाषविघाताश्च जायन्ते पापकारिणाम् //
SKमनोरथः शुभकृतां यत्र यत्रैव गच्छति तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते //
SKपापकारिसुखेच्छा तु यत्र यत्रैव गच्छति तत्र तत्रैव तत्पापैर् दुःखशस्त्रैर्विहन्यते //
SKविपुलसुगन्धिशीतलसरोरुहगर्भगता मधुरजिनस्वराशनकृतोपचितद्युतयः मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः //
SKयमपुरुषापनीतसकलच्छविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः //
SKतस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात् वज्रध्वजस्य विधिना मानं त्वारभ्य भावयेत् //
SKपूर्वं निरूप्य सामग्रीम् आरभेन्नारभेत वा अनारम्भो वरं नाम न त्वारभ्य निवर्तनम् //
SKजन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं च वर्धते अन्यच्च कार्यकालं च हीनं तच्च न साधितम् //
SKत्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु मयैवैकेन कर्तव्यम् इत्येषा कर्ममानिता //
SKक्लेशस्वतन्त्रो लोको ऽयं न क्षमः स्वार्थसाधने तस्मान्मयैषां कर्तव्यं नाशक्तो ऽहं यथा जनः //
SKनीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति मानाच्चेन्न करोम्येतन् मानो नश्यतु मे वरम् //
SKमृतं दुण्डुभमासाद्य काको ऽपि गरुडायते आपदाबाधते ऽल्पापि मनो मे यदि दुर्बलम् //
SKविषादकृतनिश्चेष्ट आपदः सुकरा ननु व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः //
SKतस्माद्दृढेन चित्तेन करोम्यापदमापदः त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे //
SKमया हि सर्वं जेतव्यम् अहं जेयो न केनचित् मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम् //
SKये सत्त्वा मानविजिता वराकास्ते न मानिनः मानी शत्रुवशं नैति मानशत्रुवशाश्च ते //
SKमानेन दुर्गतिं नीता मानुष्ये ऽपि हतोत्सवाः परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशाः //
SKसर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः ते ऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः //
SKते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम् ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति //
SKसंक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव //
SKमहत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत् //
SKयदेवापद्यते कर्म तत्कर्मव्यसनी भवेत् तत्कर्मशौण्डो ऽतृप्तात्मा क्रीडाफलसुखेप्सुवत् //
SKसुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम् कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम् //
SKकामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः पुण्यामृतैः कथं तृप्तिर् विपाकमधुरैः शिवैः //
SKतस्मात्कर्मावसाने ऽपि निमज्जेत्तत्र कर्मणि यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी //
SKबलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत् सुसमाप्तं च तन्मुञ्चेद् उत्तरोत्तरतृष्णया //
SKक्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम् खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह //
SKतत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरम् स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन् //
SKविषं रुधिरमासाद्य प्रसर्पति यथा तनौ तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति //
SKतैलपात्रधरो यद्वद् असिहस्तैरधिष्ठितः स्खलिते मरणत्रासात् तत्परः स्यात्तथा व्रती //
SKतस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम् निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम् //
SKएकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत् कथं करोमि येनेदं पुनर्मे न भवेदिति //
SKसंसर्गं कर्म वा प्राप्तम् इच्छेदेतेन हेतुना कथं नामास्ववस्थासु स्मृत्यभ्यासो भवेदिति //
SKलघुं कुर्यात्तथात्मानम् अप्रमादकथां स्मरन् कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते //
SKयथैव तूलकं वायोर् गमनागमने वशम् तथोत्साहवशं यायाद् ऋद्धिश्चैवं समृध्यति //
SKबोधिचर्यावतारे वीर्यपारमिता नाम सप्तमः परिच्छेदः ||
SKवर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः //
SKकायचित्तविवेकेन विक्षेपस्य न संभवः तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत् //
SKस्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया तस्मादेतत्परित्यागे विद्वानेवं विभावयेत् //
SKशमथेन विपश्यनासुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या //
SKकस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः //
SKअपश्यन्नरतिं याति समाधौ न च तिष्ठति न च तृप्यति दृष्ट्वापि पूर्ववद् बाध्यते तृषा //
SKन पश्यति यथाभूतं संवेगादवहीयते दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया //
SKतच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः अशाश्वतेन मित्रेन धर्मो भ्रश्यति शाश्वतः //
SKबालैः सभागचरितो नियतं याति दुर्गतिम् नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् //
SKक्षणाद् भवन्ति सुहृदो भवन्ति रिपवः क्षणात् तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः //
SKहितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात् अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् //
SKईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनान्मानः स्तुतेर्मदः अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत् //
SKआत्मोत्कर्षः परावर्णः संसाररतिसंकथा इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः //
SKएवं तस्यापि तत्सङ्गात् तेनानर्थसमागमः एकाकी विहरिष्यामि सुखमक्लिष्टमानसः //
SKबालाद्दूरं पलायेत प्राप्तमाराधयेत् प्रियैः न संस्तवानुबन्धेन किंतूदासीनसाधुवत् //
SKधर्मार्थमात्रमादाय भृङ्गवत् कुसुमान्मधु अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः //
SKलाभी च सत्कृतश्चाहम् इच्छन्ति बहवश्च माम् इति मर्त्यस्य संप्राप्तान् मरणाज्जायते भयम् //
SKयत्र तत्र रतिं याति मनः सुखाभिमोहितम् तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति //
SKतस्मात् प्राज्ञो न तमिच्छेद् इच्छातो जायते भयम् स्वयमेव च यात्येतद् धैर्यं कृत्वा प्रतीक्षताम् //
SKबहवो लाभिनो ऽभूवन् बहवश्च यशस्विनः सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति //
SKमामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः //
SKनानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः किं पुनर्मादृशैरज्ञैस् तस्मात् किं कोकचिन्तया //
SKनिन्दन्त्यलाभिनं सत्त्वम् अवध्यायन्ति लाभिनम् प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः //
SKन बालः कस्यचिन्मित्रम् इति चोक्तं तथागतैः न स्वार्थेन विना प्रीतिर् यस्माद्बालस्य जायते //
SKस्वार्थद्वारेण या प्रीतिर् आत्मार्थं प्रीतिरेव सा द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः //
SKनावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः कदा तैः सुखसंवासैः सह वासो भवेन्मम //
SKशून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा कदानपेक्षो यास्यामि पृष्ठतो ऽनवलोकयन् //
SKअममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा //
SKमृत्पात्रमात्रविभवश् चौरासंभोगचीवरः निर्भयो विहरिष्यामि कदा कायमगोपयन् //
SKकायभूमिं निजां गत्वा कङ्कालैरपरैः सह स्वकायं तुलयिष्यामि कदा शतनधर्मिणम् //
SKअयमेव हि कायो मे एवं पूतिर्भविष्यति शृगाला अपि यद्गन्धान् नोपसर्पेयुरन्तिकम् //
SKअस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः पृथक् पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः //
SKएक उत्पद्यते जन्तुर् म्रियते चैक एव हि नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः //
SKअध्वानं प्रतिपन्नस्य यथावासपरिग्रहः तथा भवाध्वगस्यापि जन्मावासपरिग्रहः //
SKचतुर्भिः पुरुषैर्यावत् स न निर्धार्यते ततः आशोच्यमानो लोकेन तावदेव वनं व्रजेत् //
SKअसंस्तवाविरोधाभ्याम् एक एव शरीरकः पूर्वमेव मृतो लोके म्रियमाणो न शोचति //
SKन चान्तिकचराः केचिच् छोचन्तः कुर्वते व्यथाम् बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन //
SKतस्मादेकाकिता रम्या निरायासा शिवोदया सर्वविक्षेपशमनी सेवितव्या मया सदा //
SKसर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः समाधानाय चित्तस्य प्रयतिष्ये दमाय च //
SKकामा ह्यनर्थजनका इह लोके परत्र च इह बन्धवधच्छेदैर् नरकादौ परत्र च //
SKयदर्थं दूतदूतीनां कृताञ्जलिरनेकधा न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा //
SKप्रक्षिप्तश्च भये ऽप्यात्मा द्रविणं च व्ययीकृतम् यान्येव च परिष्वज्य वभूवोत्तमनिर्वृताः //
SKतान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम् //
SKउन्नाम्यमानं यत्नाद् यन् नीयमानमधो ह्रिया पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम् //
SKतन्मुखं तूत्परिक्लेशम् असहद्भिरिवाधुना गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे //
SKपरचक्षुर्निपातेभ्यो ऽप्यासीद्यत्परिरक्षितम् तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि //
SKमांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम् आहारः पूज्यते ऽन्येषां स्रक्चन्दनविभूषणैः //
SKनिश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात् वेताडेनेव केनापि चाल्यमानाद् भयं न किम् //
SKएकस्मादशनादेषां लालामेध्यं च जायते तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम् //
SKतूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः दुर्गन्धं न स्रवन्तीति कामिनो ऽमेध्यमोहिताः //
SKयत्र च्छन्ने ऽप्ययं रागस् तदच्छन्नं किमप्रियम् न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते //
SKयदि ते नाशुचौ रागः कस्मादालिङ्गसे ऽपरम् मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् //
SKस्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर अमेध्यभस्त्रामपरां गूथघस्मर विस्मर //
SKमांसप्रियो ऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि //
SKयदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा //
SKनामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम् स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः //
SKविघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम् अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे //
SKमृदाद्यमेध्यलिप्तत्वाद् यदि न स्प्रष्टुमिच्छसि यतस्तन्निर्गतं कायात् तं स्प्रष्टुं कथमिच्छसि //
SKयदि ते नाशुचौ रागः कस्मादालिङ्गसे परम् अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम् //
SKअमेध्यभवमल्पत्वान् न वाञ्छस्यशुचिं कृमिम् बह्वमेध्यमयं कायम् अमेध्यजमपीच्छसि //
SKन केवलममेध्यत्वम् आत्मीयं न जुगुप्ससि अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि //
SKकर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता //
SKयदि प्रत्यक्षमप्येतद् अमेध्यं नाधिमुच्यसे श्मशाने पतितान् घोरान् कायान् पश्यापरानपि //
SKचर्मण्युत्पाटिते यस्माद् भयमुत्पद्यते महत् कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः //
SKकाये न्यस्तो ऽप्यसौ गन्धश् चन्दनादेव नान्यतः अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते //
SKयदि स्वभावदौर्गन्ध्याद् रागो नात्र शिवं ननु किमनर्थरुचिर्लोकस् तं गन्धेनानुलिम्पति //
SKकायस्यात्र किमायातं सुगन्धि यदि चन्दनम् अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते //
SKयदि केशनखैर्दीर्घैर् दन्तैः समलपाण्डुरैः मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः //
SKस किं संस्क्रियते यत्नाद् आत्मघाताय शस्त्रवत् आत्मव्यामोहनोद्युक्तैर् उन्मत्तैराकुला मही //
SKकङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले //
SKएवं चामेध्यमप्येतद् विना मूल्यं न लभ्यते तदर्थमर्जनायासो नरकादिषु च व्यथा //
SKशिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम् //
SKकेचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः गृहमागत्य सायाह्ने शेरते स्म मृता इव //
SKदण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः वत्सरैरपि नेक्षन्ते पुत्रदारांस्तदर्थिनः //
SKयदर्थमिव विक्रीत आत्मा कामविमोहितैः तन्न प्राप्तं मुधैवायुर् नीतं तु परकर्मणा //
SKविक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम् प्रसूयन्ते स्त्रियो ऽन्येषाम् अटवीविटपादिषु //
SKरणं जीवितसंदेहं विशन्ति किल जीवितम् मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः //
SKछिद्यन्ते कामिनः केचिद् अन्ये शूलसमर्पिताः दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः //
SKअर्जनरक्षणनाशविषादैर् अर्थमनर्थमनन्तमवैहि व्यग्रतया धनसक्तमतीनां नावसरो भवदुःखविमुक्तेः //
SKएवमादीनवो भूयान् अल्पास्वादस्तु कामिनाम् शकटं वहतो यद्वत् पशोर्घासलवग्रहः //
SKतस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा //
SKअवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः कायस्यार्थे कृतो यो ऽयं सर्वकालं परिश्रमः //
SKततः कोटिशतेनापि श्रमभागेन बुद्धता चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम् //
SKन शस्त्रं न विषं नाग्निर् न प्रपातो न वैरिणः कामानामुपमां यान्ति नरकादिव्यथास्मृतेः //
SKएवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम् कलहायासशून्यासु शान्तासु वनभूमिषु //
SKधन्यैः शशाङ्ककरचन्दनशीतलेषु रम्येषु हर्म्यविपुलेषु शिलातलेषु निःशब्दसौम्यवनमारुतवीज्यमानैः चंक्रम्यते परहिताय विचिन्त्यते च //
SKविहृत्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु परिग्रहरक्षणखेदमुक्तः चरत्यपेक्षाविरतो यथेष्टम् //
SKस्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित् यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम् //
SKएवमादिभिराकारैर् विवेकगुणभावनात् उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत् //
SKपरात्मसमतामादौ भावयेदेवमादरात् समदुःखसुखाः सर्वे पालनीया मयात्मवत् //
SKहस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः तथा जगद्भिन्नमभिन्नदुःखसुखात्मकं सर्वमिदं तथैव //
SKयद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् //
SKतथा यद्यप्यसंवेद्यम् अन्यद्दुःखं मयात्मना तथापि तस्य तद्दुःखम् आत्मस्नेहेन दुःसहम् //
SKमयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत् अनुग्राह्या मयान्ये ऽपि सत्त्वत्वादात्मसत्त्ववत् //
SKयदा मम परेषां च तुल्यमेव सुखं प्रियम् तदात्मनः को विशेषो येनात्रैव सुखोद्यमः //
SKयदा मम परेषां च भयं दुःखं च न प्रियम् तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् //
SKतद्दुःखेन न मे बाधेत्य् अतो यदि न रक्ष्यते नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते //
SKअहमेव तदापीति मिथ्येयं प्रतिकल्पना अन्य एव मृतो यस्माद् अन्य एव प्रजायते //
SKयदि यस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम् पाददुःखं न हस्तस्य कस्मात् तत्तेन रक्ष्यते //
SKअयुक्तमपि चेदेतद् अहंकारात्प्रवर्तते यदयुक्तं निवर्त्यं तत् स्वमन्यच्च यथाबलम् //
SKसंतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा यस्य दुःखं स नास्त्यस्मात् कस्य तत् स्वं भविष्यति //
SKअस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः //
SKदुःखं कस्मान्निवार्यं चेत् सर्वेषामविवादतः वार्यं चेत्सर्वमप्येवं न चेदात्मनि सर्ववत् //
SKकृपया बहु दुःखं चेत् कस्मादुत्पद्यते बलात् जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु //
SKबहूनामेकदुःखेन यदि दुःखं विगच्छति उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः //
SKअतः सुपुष्पचन्द्रेण जानतापि नृपापदम् आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात् //
SKएवं भावितसंतानाः परदुःखसमप्रियाः अवीचिमवगाहन्ते हंसाः पद्मवनं यथा //
SKमुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् //
SKअतः परार्थं कृत्वापि न मदो न च विस्मयः न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया //
SKतस्माद्यथान्तशो ऽवर्णाद् आत्मानं गोपयाम्यहम् रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि //
SKअभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु भवत्यहमिति ज्ञानम् असत्यपि हि वस्तुनि //
SKतथाकायो ऽन्यदीयो ऽपि किमात्मेति न गृह्यते परत्वं तु स्वकायस्य स्थितमेव न दुष्करम् //
SKज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन् आत्मभावपरित्यागं परादानं च भावयेत् //
SKकायस्यावयवत्वेन यथाभीष्टाः करादयः जगतो ऽवयवत्वेन तथा कस्मान्न देहिनः //
SKयथात्मबुद्धिरभ्यासात् स्वकाये ऽस्मिन् निरात्मके परेष्वपि तथात्मत्वं किमभ्यासान्न जायते //
SKएवं परार्थं कृत्वापि न मदो न च विस्मयः आत्मानं भोजयित्वैव फलाशा न च जायते //
SKतस्माद्यथार्तिशोकादेर् आत्मानं गोप्तुमिच्छसि रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा //
SKअध्यतिष्ठदथो नाथः स्चनामाप्यवलोकितः पर्षच्छारद्यभयमप्य् अपनेतुं जनस्य हि //
SKदुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः यस्यैव श्रवणात्त्रासस् तेनैव न विना रतिः //
SKआत्मानं च परांश्चैव यः शीघ्रं त्रातुमिच्छति स चरेत्परमं गुह्यं परात्मपरिवर्तनम् //
SKयस्मिन्नात्मन्यतिस्नेहाद् अल्पादपि भयाद्भयम् न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः //
SKयो मन्द्य क्षुत्पिपासादिप्रतीकारचिकीर्षया पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति //
SKयो लाभसत्क्रियाहेतोः पितरावपि मारयेत् रत्नत्रयस्वमादद्याद् येनावीचीन्धनो भवेत् //
SKकः पण्डितस्तमात्मानम् इच्छेद्रक्षेत् प्रपूजयेत् न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत् //
SKयदि दास्यामि किं भोक्ष्य इत्यात्मार्थे पिशाचता यदि भोक्ष्ये किं ददामीति परार्थे देवराजता //
SKआत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः //
SKदुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः //
SKआत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते //
SKये केचिद् दुःखिता लोके सर्वे ते स्वसुखेच्छया ये केचित् सुखिता लोके सर्वे ते ऽन्यसुखेच्छया //
SKबहुना वा किमुक्तेन दृश्यतामिदमन्तरम् स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः //
SKन नाम साध्यं बुद्धत्वं संसारे ऽपि कुतः सुखम् स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः //
SKआस्तां तावत्परो लोको दृष्टो ऽप्यर्थो न सिध्यति भृत्यस्याकुर्वतः कर्म स्वामिनो ऽददतो भृतिम् //
SKत्यक्त्वान्यो ऽन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम् अन्यो ऽन्यदुःखनाद्घोरं दुःखं गृह्णन्ति मोहिताः //
SKउपद्रवा ये च भवन्ति कोके यावन्ति दुःखानि भयानि चैव सर्वाणि तान्यात्मपरिग्रहेण तत्किं ममानेन परिग्रहेण //
SKआत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते //
SKतस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत् //
SKअन्यसंबद्धमस्मीति निश्चयं कुरु मे मनः सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना //
SKन युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः न युक्तं स्यन्दितुं स्वार्थम् अन्यदीयैः करादिभिः //
SKतेन सत्त्वपरो भूत्वा काये ऽस्मिन्यद्यदीक्षसे तत्तदेवापहृत्यास्मात् परेभ्यो हितमाचर //
SKहीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि भावयेर्ष्यां च मानं च निर्विकल्प्येन चेतसा //
SKएष सत्क्रियते नाहं लाभी नाहमयं यथा स्तूयते ऽयमहं निन्द्यो दुःखितो ऽहमयं सुखी //
SKअहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः अयं किल महा/ल्लोके नीचो ऽहं किल निर्गुणः //
SKकिं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः //
SKशीलदृष्टिविपत्त्यादिक्लेशशक्त्या न मद्वशात् चिकित्स्यो ऽहं यथाशक्ति पीडाप्यङ्गीकृता मया //
SKअथाहमचिकित्स्यो ऽस्य कस्मान्मामवमन्यते किं ममैतद्गुणैः कृत्यम् आत्मा तु गुणवानयम् //
SKदुर्गतिव्याडवक्त्रस्थे-नैवास्य करुणा जने अपरान् गुणमानेन पण्डितान् विजिगीषते //
SKसममात्मानमालोक्य यतः स्वाधिक्यवृद्धये कलहेनापि संसाध्यं लाभसत्कारमात्मनः //
SKअपि सर्वत्र मे लोके भवेयुः प्रकटाः गुणाः अपि नाम गुणा ये ऽस्य न श्रोष्यन्त्यपि केचन //
SKछाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत् सुलब्धा अद्य मे लाभाः पूजितो ऽहमयं न तु //
SKपश्यामो मुदितास्तावच् चिरादेनं खलीकृतम् हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः //
SKअस्यापि हि वराकस्य स्पर्धा किल मया सह किमस्य श्रुतमेतावत् प्रज्ञारूपं कुलं धनम् //
SKएवमात्मगुणाञ्श्रुत्वा कीर्त्यमानानितस्ततः संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम् //
SKयद्यप्यस्य भवेल्लाभो ग्राह्यो ऽस्माभिरसौ बलात् दत्वास्मै यापनामात्रम् अस्मत्कर्म करोति चेत् //
SKसुखाच्च च्यावनीयो ऽयं योज्यो ऽस्मद्व्यथया सदा अनेन शतशः सर्वे संसारव्यथिता वयम् //
SKअप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव श्रमेण महतानेन दुःखमेव त्वयार्जितम् //
SKमद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः द्रक्ष्यस्येतद्गुणान् पश्चाद् भूतं हि वचनं मुनेः //
SKअभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा //
SKतस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु चकर्थ त्वमहंकारं तथान्येष्वपि भावय //
SKअन्यदीयश्चरो भूत्वा काये ऽस्मिन् यद्यदीक्षसे तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर //
SKअयं सुस्थः परो दुःस्थो नीचैरन्यो ऽयमुच्चकैः परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि //
SKसुखाच्च च्यावयात्मानं परदुःखे नियोजय कदायं किं करोतीति छलमस्य निरूपय //
SKअन्येनापि कृतं दोषं पातयास्यैव मस्तके अल्पमप्यस्य दोषं च प्रकाशय महामुनेः //
SKअन्याधिकयशोवादैर् यशो ऽस्य मलिनीकुरु निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय //
SKनागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम् यथा कश्चिन्न जानीयाद् गुणमस्य तथा कुरु //
SKसंक्षेपाद् यद्यदात्मार्थे परेष्वपकृतं त्वया तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय //
SKनैवोत्साहो ऽस्य दातव्यो येनायं मुखरो भवेत् स्थाप्यो नवबधूवृत्तौ ह्रीतो भीतो ऽथ संवृतः //
SKएवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया एवमेषः वशः कार्यो निग्राह्यस्तदतिक्रमे //
SKअथैवमुच्यमाने ऽपि चित्तं नेदं करिष्यसि त्वामेव निग्रहीष्यामि सर्वदोषास्तदाश्रिताः //
SKक्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते अन्यो ऽसौ पूर्वकः कालस् त्वया यत्रास्मि नाशितः //
SKअद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम् त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन् //
SKत्वां सत्त्वेषु न दास्यामि यदि नाम प्रमादतः त्वं मां नरकपालेषु प्रदास्यसि न संशयः //
SKएवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम् निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन् //
SKन कर्तव्यात्मनि प्रीतिर् यद्यात्मप्रीतिरस्ति ते यद्यात्मा रक्षितव्यो ऽयं रक्षितव्यो न युज्यते //
SKयथा यथास्य कायस्य क्रियते परिपालनम् सुकुमारतरो भूत्वा पतत्येव तथा तथा //
SKअस्यैवं पतितस्यापि सर्वापीयं वसुन्धरा नालं पूरयितुं वाञ्छां तत्को ऽस्येच्छां करिष्यति //
SKअशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका //
SKतस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते //
SKभस्मनिष्ठावसानो ऽयं निश्चेष्टान्येन चाल्यते अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः //
SKकिं ममानेन यन्त्रेण जीविना वा मृतेन वा लोष्ट्रादेः को विशेषो ऽस्य हाहंकारं न नश्यसि //
SKशरीरपक्षपातेन वृथा दुःखमुपार्ज्यते किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा //
SKमया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा न च स्नेहो न च द्वेषस् तस्मात् स्नेहं करोमि किम् //
SKरोषो यस्य खलीकारात् तोषो यस्य च पूजया स एव चेन्न जानाति श्रमः कस्य कृतेन मे //
SKइमं ये कायमिच्छन्ति ते ऽपि मे सुहृदः किल सर्वे स्वकायमिच्छन्ति ते ऽपि कस्मान्न मे प्रियाः //
SKतस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते अतो ऽयं बहुदोषो ऽपि धार्यते कर्मभाण्डवत् //
SKतेनालं लोकचरितैः पण्डिताननुयाम्यहम् अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् //
SKतस्मादावरणं हन्तुं समाधानं करोम्यहम् विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् //
SKबोधिचर्यावतारे ध्यानपारमिता अष्टमः परिच्छेदः ||
SKइमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ तस्मादुत्पादयेत् प्रज्ञां दुःखनिवृत्तिकाङ्क्षया //
SKसंवृतिः परमार्थश्च सत्यद्वयमिदं मतं बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते //
SKतत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा तत्र प्राकृतको लोको योगिलोकेन बाध्यते //
SKबाध्यन्ते धीविशेषेण योगिनो ऽप्युत्तरोत्तरैः दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः //
SKलोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः न तु मायावदित्यत्र विवादो योगिलोकयोः //
SKप्रत्यक्षमपि रूपादि प्रसिद्ध्या न प्रमाणतः अशुच्यादिषु शुच्यादिप्रसिद्धिरिव सा मृषा //
SKलोकावतारणार्थं च भावा नाथेन देशिताः तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते //
SKन दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः अन्यथा लोकबाधा स्याद् अशुचिस्त्रीनिरूपणे //
SKमायोपमाज्जिनात् पुण्यं सद्भावे ऽपि कथं यथा यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः //
SKयावत्प्रत्ययसामग्री तावन्मायापि वर्तते दीर्घसंतानमात्रेण कथं सत्त्वो ऽस्ति सत्यतः //
SKमायापुरुषघातादौ चित्ताभावान्न पापकं चित्तमायासमेते तु पापपुण्यसमुद्भवः //
SKमन्त्रादीनामसामर्थ्यान् न मायाचित्तसंभवः सापि नानाविधा माया नानाप्रत्ययसंभवा //
SKनैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित् निर्वृतः परमार्थेन संवृत्या यदि संसरेत् //
SKबुद्धो ऽपि संसरेदेवं ततः किं बोधिचर्यया प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि //
SKप्रत्ययानां तु विच्छेदात् संवृत्यापि न संभवः यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते //
SKयदा मायैव ते नास्ति तदा किमुपलभ्यते चित्तस्यैव स आकारो यद्यप्यन्यो ऽस्ति तत्त्वतः //
SKचित्तमेव यदा माया तदा किं केन दृश्यते उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति //
SKन च्छिनत्ति यथात्मानम् असिधारा तथा मनः आत्मभावं यथा दीपः संप्रकाशयतीति चेत् //
SKनैव प्रकाश्यते दीपो यस्मान्न तमसावृतः न हि स्फटिकवन्नीलं नीलत्वे ऽन्यमपेक्षते //
SKतथा किंचित् परापेक्षम् अनपेक्षं च दृश्यते अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना //
SKनीलमेव हि को नीलं कुर्यादात्मानमात्मना अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना //
SKदीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते //
SKप्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित् वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा //
SKयदि नास्ति स्वसंवित्तिर् विज्ञानं स्मर्यते कथम् अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा //
SKप्रत्ययान्तरयुक्तस्य दर्शनात् स्वं प्रकाशते सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत् //
SKयथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते //
SKचित्तादन्या न माया चेन् नाप्यनन्येति कल्प्यते वस्तु चेत् सा कथं नान्यान् अन्या चेन्नास्ति वस्तुतः //
SKअसत्यपि यथा माया दृश्या द्रष्टृ तथा मनः वस्त्वाश्रयश्चेत् संसारः सो ऽन्यथाकाशवद्भवेत् //
SKवस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत् असत्सहायमेकं हि चित्तमापद्यते तव //
SKग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः एवं च को गुणो लब्धश् चित्तमात्रे ऽपि कल्पिते //
SKमायोपमत्वे ऽपि ज्ञाते कथं क्लेशो निवर्तते यदा मायास्त्रियां रागस् तत्कर्तुरपि जायते //
SKअप्रहीणा हि तत्कर्तुर् ज्ञेयसंक्लेशवासना तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना //
SKशून्यतावासनाधानाद् धीयते भाववासना किंचिन्नास्तीति चाभ्यासात् सापि पश्चात् प्रहीयते //
SKयदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते तदा निराश्रयो ऽभावः कथं तिष्ठेन्मतेः पुरः //
SKयदा न भावो नाभावो मतेः संतिष्ठते पुरः तदान्यगत्यभावेन निरालम्बा प्रशाम्यते //
SKचिन्तामणिः कल्पतरुर् यथेच्छापरिपूरणः विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते //
SKयथा गारुडिकः स्तम्भं साधयित्वा विनश्यति स तस्मिंश्चिरनष्टे ऽपि विषादीनुपशामयेत् //
SKबोधिचर्यानुरूप्येण जिनस्तम्भो ऽपि साधितः करोति सर्वकार्याणि बोधिसत्त्वे ऽपि निर्वृते //
SKअचित्तके कृता पूजा कथं फलवती भवेत् तुल्यैव पठ्यते यस्मात् तिष्ठतो निर्वृतस्य च //
SKआगमाच्च फलं तत्र संवृत्या तत्त्वतो ऽपि वा सत्यबुद्धे कृता पूजा सफलेति कथं यथा //
SKसत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम् न विनानेन मार्गेण बोधिरित्यागमो यतः //
SKनन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः यस्मादुभयसिद्धो ऽसौ न सिद्धो ऽसौ तवादितः //
SKयत्प्रत्यया च तत्रास्था महायाने ऽपि तां कुरु अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता //
SKसविवादं महायानम् इति चेदागमं त्यज तीर्थिकैः सविवादत्वात् स्वैः परैश्चागमान्तरम् //
SKशासनं भिक्षुतामूलं भिक्षुतैव च दुःखिता सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम् //
SKक्लेशप्रहाणान्मुक्तिश्चेत् तदनन्तरमस्तु सा दृष्टं च तेषु सामर्थ्यं निःक्लेशस्यापि कर्मणः //
SKतृष्णा तावदुपादानं नास्ति चेत् संप्रधार्यते किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती //
SKवेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा //
SKविना शून्यतया चित्तं बद्धमुत्पद्यते पुनः यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम् //
SKयत्सूत्रे ऽवतरेद्वाक्यं तच्चेद्बुद्धोक्तमिष्यते महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम् //
SKएकेनागम्यमानेन सकलं यदि दोषवत् एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम् //
SKमहाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते तत्त्वयानवबुद्धत्वाद् अग्राह्यं कः करिष्यति //
SKसक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः मोहेन दुःखिनामर्थे शून्यताया इदं फलम् //
SKतदेवं शून्यतापक्षे दूषणं नोपपद्यते तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता //
SKक्लेशज्ञेयावृतितमः प्रतिपक्षो हि शून्यता शीघ्रं सर्वज्ञताकामो न भावयति तां कथम् //
SKयद्दुःखजननं वस्तु त्रासस्तस्मात् प्रजायताम् शून्यता दुःखशमनी ततः किं जायते भयम् //
SKयतस्ततो वास्तु भयं यद्यहं नाम किंचन अहमेव न किंचिच्चेद् भयं कस्य भविष्यति //
SKदन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम् न शिंघानं न च श्लेष्मा न पूयं लसिकापि वा //
SKनाहं वसा न च स्वेदो न मेदो ऽन्त्राणि नाप्यहम् न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च //
SKनाहं मांसं न च स्नायुर् नोष्मा वायुरहं न च न च छिद्राण्यहं नापि षड्विज्ञानानि सर्वथा //
SKशब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते //
SKअजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः //
SKतदेव रूपं जानाति तदा किं न शृणोत्यपि शब्दस्यासंनिधानाच्चेत् ततस्तज्ज्ञानमप्यसत् //
SKशब्दग्रहणरूपं यत् तद्रूपग्रहणं कथम् एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः //
SKसत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते //
SKतदेवान्येन रूपेण नटवत्सो ऽप्यशाश्वतः स एवान्यस्वभावश्चेद् अपूर्वेयं तदेकता //
SKअन्यद्रूपमसत्यं चेन् निजं तद्रूपमुच्यताम् ज्ञानता चेत्ततः सर्वपुंसामैक्यं प्रसज्यते //
SKचेतनाचेतने चैक्यं तयोर्येनास्तिता समा विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा //
SKअचेतनश्च नैवाहम् अचैतन्यात्पटादिवत् अथ ज्ञश्चेतनायोगाद् अज्ञो नष्टः प्रसज्यते //
SKअथाविकृत एवात्मा चैतन्येनास्य किं कृतम् अज्ञस्य निष्क्रियस्यैवम् आकाशस्यात्मता मता //
SKन कर्मफलसंबन्धो युक्तश्चेदात्मना विना कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति //
SKद्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले निर्व्यापारश्च तत्रात्मेत्य् अत्र वादो वृथा ननु //
SKहेतुमान् फलयोगीति दृश्यते नैष संभवः संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम् //
SKअतीतानागतं चित्तं नाहं तद्धि न विद्यते अथोत्पन्नमहं चित्तं नष्टे ऽस्मिन्नास्त्यहं पुनः //
SKयथैव कदलीस्तम्भो न कश्चिद् भागशः कृतः तथाहमप्यसद्भूतो मृग्यमाणो विचारतः //
SKयदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः //
SKकार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते //
SKदुःखहेतुरहंकार आत्ममोहात्तु वर्धते ततो ऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना //
SKकायो न पादौ न जङ्घा नोरू कायः कटिर्न च नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः //
SKन हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः न ग्रीवा न शिरः कायः कायो ऽत्र कतरः पुनः //
SKयदि सर्वेषु कायो ऽथम् एकदेशेन वर्तते अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः //
SKसर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु कायास्तावन्त एव स्युर् यावन्तस्ते करादयः //
SKनैवान्तर्न बहिः कायः कथं कायः करादिषु करादिभ्यः पृथग् नास्ति कथं नु खलु विद्यते //
SKतन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु संनिवेशविशेषेण स्थानौ पुरुषबुद्धिवत् //
SKयावत्प्रत्ययसामग्री तावत्कायः पुमानिव एवं करादौ सा यावत् तावत्कायो ऽत्र दृश्यते //
SKएवमङ्गुलिपुञ्जत्वात् पादो ऽपि कतरो भवेत् सो ऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः //
SKअंशा अप्यणुभेदेन सो ऽप्यणुर्दिग्विभागतः दिग्विभागो निरंशत्वाद् आकाशं तेन नास्त्यणुः //
SKएवं स्वप्नोपमे रूपे को रज्येत विचारकः कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः //
SKयद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते //
SKबलीयसाभिभूतत्वाद् यदि तन्नानुभूयते वेदनात्वं कथं तस्य यस्य नानुभवात्मता //
SKअस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु तुष्टिमात्राऽपरा चेत्स्यात् तस्मात्साप्यस्य सूक्ष्मता //
SKविरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु //
SKअत एव विचारो ऽयं प्रतिपक्षो ऽस्य भाव्यते विकल्पक्षेत्रसंभूतध्यानाहारा हि योगिनः //
SKसान्तराविन्द्रियार्थौ चेत् संसर्गः कुत एतयोः निरन्तरत्वे ऽप्येकत्वं कस्य केनास्तु संगतिः //
SKनाणोरणौ प्रवेशो ऽस्ति निराकाशः समश्च सः अप्रवेशे न मिश्रत्वम् अमिश्रत्वे न संगतिः //
SKनिरंशस्य च संसर्गः कथं नामोपपद्यते संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय //
SKविज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते समूहस्याप्यवस्तुत्वाद् यथा पूर्वं विचारितम् //
SKतदेवं स्पर्शनाभावे वेदनासंभवः कुतः किमर्थमयमायासः बाधा कस्य कुतो भवेत् //
SKयदा न वेदकः कश्चिद् वेदना च न विद्यते तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे //
SKदृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना चित्तेन सहजातत्वाद् वेदना तेन नेक्ष्यते //
SKपूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते स्वात्मानं नानुभवति न चान्येनानुभूयते //
SKन चास्ति वेदकः कश्चिद् वेदनातो न तत्त्वतः निरात्मके कलापे ऽस्मिन् क एव बाध्यते ऽनया //
SKनेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम् नाप्यन्तर्न बहिश्चित्तम् अन्यत्रापि न लभ्यते //
SKयन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित् तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः //
SKज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः //
SKअथ ज्ञेयाद्भवेत्पश्चात् तदा ज्ञानं कुतो भवेत् एवं च सर्वधर्माणाम् उत्पत्तिर्नावसीयते //
SKयद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः //
SKपरचित्तविकल्पो ऽसौ स्वसंवृत्या तु नास्ति सः स पश्चान्नियतः सो ऽस्ति न चेन्नास्त्येव संवृतिः //
SKकल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम् यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते //
SKविचारितेन तु यदा विचारेण विचार्यते तदानवस्था तस्यापि विचारस्य विचारणात् //
SKविचारिते विचार्ये तु विचारस्यास्ति नाश्रयः निराश्रयत्वान्नोदेति तच्च निर्वाणमुच्यते //
SKयस्य त्वेतद्द्वयं सत्यं स एवात्यन्तदुःस्थितः यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः //
SKअथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः अथान्योन्यवशात्सत्त्वम् अभावः स्याद्द्वयोरपि //
SKपिता चेन्न विना पुत्रात् कुतः पुत्रस्य संभवः पुत्राभावे पिता नास्ति तथा सत्त्वं तयोर्द्वयोः //
SKअङ्कुरो जायते बीजाद् बीजं तेनैव सूच्यते ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते //
SKअङ्कुरादन्यतो ज्ञानाद् बीजमस्तीति गम्यते ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते //
SKलोकः प्रत्यक्षतस्तावत् सर्वं हेतुमुदीक्षते पद्मनालादिभेदो हि हेतुभेदेन जायते //
SKकिंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः //
SKईश्वरो जगतो हेतुः वद कस्तावदीश्वरः भूतानि चेद्भवत्वेवं नाममात्रे ऽपि किं श्रमः //
SKअपि त्वनेके ऽनित्याश्च निश्चेष्टा न च देवताः लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः //
SKनाकाशमीशो ऽचेष्टत्वात् नात्मा पूर्वनिषेधतः अचिन्त्यस्य च कर्तृत्वम् अप्यचिन्त्यं किमुच्यते //
SKतेन किं स्रष्टुमिष्टं च आत्मा चेत् नन्वसौ ध्रुवः क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च //
SKकर्मणः सुखदुःखे च वद किं तेन विर्मितम् हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत् //
SKकस्मात्सदा न कुरुते न हि सो ऽन्यमपेक्षते तेनाकृतो ऽन्यो नास्त्येव तेनासौ किमपेक्षताम् //
SKअपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः नाकर्तुमीशः सामग्र्यां न कर्तुं तदभावतः //
SKकरोत्यनिच्छन्नीशश्चेत् परायत्तः प्रसज्यते इच्छन्नपीच्छायत्तः स्यात् कुर्वतः कुत ईशता //
SKये ऽपि नित्यानणूनाहुस् ते ऽपि पूर्वं निवारिताः सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम् //
SKसत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते //
SKएकस्य त्रिस्वभावत्वम् अयुक्तं तेन नास्ति तत् एवं गुणा न विद्यन्ते प्रत्येकं ते ऽपि हि त्रिधा //
SKगुणाभावे च शब्दादेर् अस्तित्वमतिदूरतः अचेतने च वस्त्रादौ सुखादेरप्यसंभवः //
SKतद्धेतुरूपा भावाश्चेन् ननु भावा विचारिताः सुखाद्येव च ते हेतुः न च तस्मात्पटादयः //
SKपटादेस्तु सुखादि स्यात् तदभावात्सुखाद्यसत् सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते //
SKसत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम् //
SKस्थौल्यं त्यक्त्वा भवेत्सूक्ष्मम् अनित्ये स्थौल्यसूक्ष्मते सर्वस्य वस्तुनस्तद्वत् किं नानित्यत्वमिष्यते //
SKन स्थौल्यं चेत्सुखादन्यत् सुखस्यानित्यता स्फुटम् नासदुत्पद्यते किंचिद् असत्त्वादिति चेन्मतम् //
SKव्यक्तस्यासत उत्पत्तिर् अकामस्यापि ते स्थिता अन्नादो ऽमेध्यभक्षः स्यात् फलं हेतौ यदि स्थितम् //
SKपटार्घेणैव कर्पासबीजं क्रीत्वा निवस्यताम् मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः //
SKलोकस्यापि च तज्ज्ञानम् अस्ति कस्मान्न पश्यति लोकाप्रमाणतायां चेत् व्यक्तदर्शनमप्यसत् //
SKप्रमाणमप्रमाणं चेन् ननु तत्प्रमितं मृषा तत्त्वतः शून्यता तस्माद् भावानां नोपपद्यते //
SKकल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा //
SKतस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा //
SKतस्मादेवं विचारेण नास्ति किंचिदहेतुतः न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम् //
SKअन्यतो नापि चायातं न तिष्ठति न गच्छति मायातः को विशेषो ऽस्य यन्मूढैः सत्यतः कृतम् //
SKमायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम् आयाति तत्कुतः कुत्र याति चेति निरूप्यताम् //
SKयदन्यसंनिधानेन दृष्टं न तदभावतः प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् //
SKविद्यमानस्य भावस्य हेतुना किं प्रयोजनम् अथाप्यविद्यमानो ऽसौ हेतुना किं प्रयोजनम् //
SKनाभावस्य विकारो ऽस्ति हेतुकोटिशतैरपि तदवस्थः कथं भावः को वान्यो भावतां गतः //
SKनाभावकाले भावश्चेत् कदा भावो भविष्यति नाजातेन हि भावेन सो ऽभावो ऽपगमिष्यति //
SKन चानपगते ऽभावे भावावसरसंभवः भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः //
SKएवं च न विरोधो ऽस्ति न च भावो ऽस्ति सर्वदा अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् //
SKस्वप्नोपमास्तु गतयो विचारे कदलीसमाः निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः //
SKएवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत् सत्कृतः परिभूतो वा केन कः संभविष्यति //
SKकुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः //
SKविचारे जीवलोकः कः को नामात्र मरिष्यति को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् //
SKसर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः //
SKशोकायासैर्विषादैश्च मिथश्छेदनभेदनैः यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः //
SKमृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः //
SKभवे बहुप्रपातश्च तत्र चासत्त्वमीदृशम् तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम् //
SKतत्र चानुपमास्तीव्रा अनन्तदुःखसागराः तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः //
SKतत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः निद्रयोपद्रवैर्बालसंसर्गैर्निष्फलैस्तथा //
SKवृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः //
SKतत्रापि मारो यतते महापायप्रपातने तत्रासन्मार्गबाहुल्याद् विचिकित्सा च दुर्जया //
SKपुनश्च क्षणदौर्लम्यं बुद्धोत्पादो ऽतिदुर्लभः क्लेशौघो दुर्निवारश्चेत्य् अहो दुःखपरम्परा //
SKअहो बतातिशोच्यत्वम् एषां दुःखौघवर्तिनाम् ये नेक्षन्ते स्वदौःस्थित्यम् एवमप्यतिदुःस्थिताः //
SKस्नात्वा स्नात्वा यथा कश्चिद् विशेद्वह्निं मुहुर्मुहुः स्वसौस्थित्यं च मन्यन्त एवमप्यतिदुःस्थिताः //
SKअजरामरलीलानाम् एवं विहरतां सताम् आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः //
SKएवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः //
SKकदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम् संवृत्यानुपलम्भेन पुण्यसंभारमादरात् //
SKबोधिचर्यावतारे प्रज्ञापारमिता नाम नवमः परिच्छेदः |
SKबोधिचर्यावतारं मे यद्विचिन्तयतः शुभम् तेन सर्वं जनाः सन्तु बोधिचर्या विभूषणाः //
SKसर्वासु दिक्षु यावन्तः कायचित्तव्यथातुराः ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रामोद्यसागरान् //
SKआसंसारं सुखज्यानिर् माभूत्तेषां कदाचन बोधिसत्त्वसुखं प्राप्तुं भवत्यविरतं जगत् //
SKयावन्तो नारकाः केचिद् विद्यन्ते लोकधातुषु सुखावती सुखामोदैर् मोदन्तां तेषु देहिनः //
SKशीतार्ताः प्राप्नुवन्तूष्णम् उष्णार्ताः सन्तु शीतलाः बोधिसत्त्वमहामेघसंभवैर्जलसागरैः //
SKअसिपत्रवनं तेषां स्यान्नन्दनवनद्युतिः कूटशाल्मलीवृक्षाश्च जायन्तां कल्पपादपाः //
SKदात्यूहकारण्डवचक्रवाकहंसादिकोलाहलरम्यशोभैः सरोभिरुद्यामसरोजगन्धैर् भवन्तु हृद्याः नरकप्रदेशाः //
SKसो ऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात् भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः //
SKअङ्गारतप्तोपलशस्त्रवृष्टिर् अद्यप्रभृत्यस्तु च पुष्पवृष्टिः तच्छस्त्रयुद्धं च परस्परेण कीडार्थमद्यास्तु च पुष्पयुद्धम् //
SKपतितसकलमांसाः कुन्दवर्णास्थिदेहा दहनसमजलायां वैतरण्यां निमग्नाः मम कुशलबलेन प्राप्तदिव्यात्मभावाः सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः //
SKत्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोराः ध्वान्तं ध्वस्तं समन्तात् सुखरतिजननी कस्य सौम्या प्रभेयम् इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं दृष्ट्वा प्रामोद्यवेगाद् व्यपगतदुरिता यांतु तेनैव सार्धम् //
SKपततु कमलवृष्टिर्गन्धपानीयमिश्राच् छमिति नरकवह्निं दृश्यते नाशयन्ती किमिदमिति सुखेनाह्लादितं नाम कस्माद् भवतु कमलपाणेर्दर्शनं नारकाणाम् //
SKआयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरी कुमारः सर्वं यस्यानुभावाद् व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च //
SKपश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर् दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् //
SKइति मत्कुशलैः समन्तभद्रप्रमुखानावृतबोधिसत्त्वमेघान् सुखशीतसुगन्धवातवृष्टीन् अभिनन्दन्तु विलोक्य नारकास्ते //
SKशाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः //
SKअन्योन्यभक्षणभयं तिरश्चामपगच्छतु भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः //
SKसंतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा / आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः //
SKअन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः //
SKवस्त्रभोजनपानीयं स्रक्चन्दनविभूषणम् मनो ऽभिलषितं सर्वं लभन्तां हितसंहितम् //
SKभीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः उद्विग्नाश्च निरुद्वेगा धृतिमन्तो भवन्तु च //
SKआरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात् दुर्बला बलिनः सन्तु स्निग्धचित्ताः परस्परम् //
SKसर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम् येन कार्येण गच्छन्ति तदुपायेन सिध्यतु //
SKनौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः //
SKकान्तारोन्मार्गपतिता लभन्तां सार्थसंहतिम् अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः //
SKसुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः //
SKसर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा //
SKभवन्त्वक्षयकोशाश्च यावद् नगनगञ्जवत् निर्द्वन्द्वा निरुपायास्ताः सन्तु स्वाधीनवृत्तयः //
SKअल्पौजसश्च ये सत्त्वास् ते भवन्तु महौजसः भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः //
SKयाः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः प्राप्नुवन्तु च तां नीचा हतमाना भवन्तु च //
SKअनेन मम पुण्येन सर्वसत्त्वा अशेषतः विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा //
SKबोधिचित्ताविरहिता बोधिचर्यापरायणाः बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः //
SKअप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते नित्यं जीवन्तु सुखिता मृत्युशब्दो ऽपि नश्यतु //
SKरम्याः कल्पद्रुमोद्यानैः दिशः सर्वा भवन्तु च बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः //
SKशर्करादिव्यपेता च समा पाणितलोपमा मृद्वी च वैदूर्यमयी भूमिः सर्वत्र तिष्ठतु //
SKबोधिसत्त्वमहापर्षन्मण्डलानि समन्ततः निषीदन्तु स्वशोभामिर् मण्डयन्तु महीतलम् //
SKपक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः //
SKबुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम् पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम् //
SKदेवो वर्षतु कालेन शस्यसंपत्तिरस्तु च स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः //
SKशक्ता भवन्तु चौषध्यो मन्त्राः सिद्धन्तु जापिनाम् भवन्तु करुणाविष्टा डाकिनीराक्षसादयः //
SKमा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः मा हीनः परिभूतो वा मा भूत् कश्चिच्च दुर्मनाः //
SKपाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः नित्यं स्यात् संघसामग्री संघकार्यं च सिध्यतु //
SKविवेकलाभिनः सन्तुः शिक्षाकामाश्च भिक्षवः कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः //
SKलाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः भवन्त्वखण्डशीलाश्च सर्वे प्रव्रजितास्तथा //
SKदुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः //
SKपण्डिताः सत्कृताः सन्तु लाभिनः पैण्डपातिकाः भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः //
SKअभुक्त्वापायिकं दुःखं विना दुस्करचर्यया दिव्येनैकेन कायेन जगद्बुद्धत्वमाप्नुयात् //
SKपूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा //
SKसिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः यच्चिन्तयन्ति ते नाथास् तत् सत्त्वानां समृध्यतु //
SKप्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः //
SKजातिस्मरत्वं प्रव्रज्याम् अहं च प्राप्नुयां सदा यावत् प्रमुदितां भूमिं मञ्जुघोषपरिग्रहात् //
SKयेन तेनासनेनाहं यापयेयं बलान्वितः विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु //
SKयदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः //
SKदशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने यदाचरति मञ्जुश्रीः सैव चर्या भवेन्मम //
SKआकाशस्य स्थितिर्यावद् यावच्च जगतः स्थितिः तावन्मम स्थितिर्भूयाज् जगद्दुःखानि निघ्नतः //
SKयत्किंचिज्जगतो दुःखं तत् सर्वं मयि पच्यताम् बोधिसत्त्वशुभैः सर्वैर् जगत् सुखितमस्तु च //
SKजगद्दुःखैकभैषज्यं सर्वसंपत् सुखाकरम् लाभसत्कारसहितं चिरं तिष्ठतु शासनम् //
SKमञ्जुघोषं नमस्यामि यत् प्रसादान्मतिः शुभे कल्याणमित्रं वन्दे ऽहं यत् प्रसादाच्च वर्धत इति //
SKबोधिचर्यावतारे परिणामना परिच्छेदो दशमः ||