SKद्वात्रिंशद् आन्तरायिका धर्मा अपि ऽआर्यमहायानोपदेशसूत्रेऽ तद्यथा- ऽपुत्रि! महायानान्तरायिका धर्मास्तु द्वात्रिंशत् / तैरान्तरायिकैः सर्वज्ञतायां शीघ्रं न निर्याणं भवति / के च द्वात्रिंशत्? तद्यथा- श्रावकप्रत्येकबुद्धयानकामिता, इन्द्रब्रह्मत्वकामिता, जन्मसंस्थब्रह्मचर्यम्, कुशलमूलैकरागः, भोगसम्पत्मात्सर्यम्, सत्त्वविषमदानम्, शीलशैथिल्यम्, परचित्तारक्षणम्, व्यापाद-प्रतिघानुशयः, तच्चित्तलयः, मुषितस्मृतिता, श्रवणानर्थिकता, अविचारणा, अनार्यचर्या, मानातिमानविवृद्धिः, काय-वाक्-चित्त-कर्मापरिशुद्धिः, सद्धर्मापरिरक्षणम्, आचार्यधर्मप्रतिच्छादनम्, संग्रहवस्तूत्सर्गः, सम्मोदनीयधर्मत्यागः, पापमित्रसेवनम्, बोध्यपरिणामनेति त्रिस्कन्धविपक्षता, अल्पकुशलमूलमन्यना, अनुपायपतितबुद्धिः, पराङ्मुखीभूय त्रिरत्नाशंसनम्, बोधिसत्त्वव्यापादचिन्तनम् / अश्रुतधर्मप्रहाणम्, मारकर्मानवबोधः, लोकायतमन्त्रग्रहणम्, सत्त्वापरिपाचनम्, संसारादपरिखेदऽ, इति /