Verses on Sāṃkhya with the Auspicious Commentary of Śaṃkara
Sāṃkhyakārikā with Śaṃkara's Jayamaṅgalā commentary
Sआंख्यकारिका wइथ् Śअंकरऽस् Jअयमङ्गला चोम्मेन्तर्य्
SKअधिगततत्त्वालोकं लोकोत्तरवादिनं प्रणम्य मुनिम् / क्रियते सप्ततिकायाष्टीका जयमङ्गला नाम //
SKप्रेक्षावन्तो ऽनुक्ते प्रयोजने न क्वचित्प्रवर्तन्त इति प्रयोजनमुच्यते तत्त्वज्ञानान्मोक्षः तत्त्वानि पञ्चविंशतिः / तथा चोक्तम् - पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः / जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः // इति //
SKतेषु च षष्टितन्त्रादिख्यातेष्विति / विस्तरत्वात् षष्टितन्त्रस्य संक्षिप्तरुचिसत्त्वानुग्रहार्थं सप्ततिकारम्भः / वक्ष्यति च ऽएतदार्याभिः संक्षिप्तम्ऽ; इति / मोक्षेण किं फलमिति चेद्दुःखनिवृत्तिः / अतत्त्वज्ञो दुःखैरभिहन्यमानस्संसरन्नास्ते / तत्त्वज्ञानात्तु कैवल्यमाप्नोति, न दुःखैरभिहन्यते / हन्यमानेन को हेतुर्जिज्ञासितव्य इत्यत्राह-
SKदुःखत्रयाभिघाताज्जिज्ञासा तदवघातके हेतौ / दृष्टे सापार्था चेन्नैकान्तात्यन्ततो ऽभावात् // ISक्_१ //
SKऽदुःखत्रयाभिघाताज्जिज्ञासाऽ; इत्यादि / दुःखानां त्रयं दुःखत्रयम् / आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकं चेति / आत्मन्यध्यात्मम्, तत्र यद्भवति तदाध्यात्मिकम् / शारीरं मानसं चेति / तत्र वातपित्तश्लेष्मणां वैषम्येण ज्वरादिदुःखम्, तच्छरीरे भवतीति शारीरम् / यत्कामक्रोधशोकादिभिः मनसि दुःखं तन्मानसम् / यन्मानुषपशुमृगपक्षिसरीसृपस्थावरान्यधिकृत्य भवति तदाधिभौतिकम् / यच्छरीरे ग्रहावेशादीनि दैवान्यधिकृत्य भवति तदाधिदैविकमिति / एतद्दुःखत्रयम् / तेनाभिघातात्पीडनाद्धेतोर्जिज्ञासा ज्ञातुमिच्छा भवति //
SKकस्मिन् विषय इत्याह- ऽतदवघातके हेतौऽ; इति / अवघातयत्यपनयतीत्यवघातकः / तस्य दुःखत्रयस्यावघातकस्तदवघातकः / तृजकाभ्यां षष्ठीसमासप्रतिषेधः, ऽतत्प्रयोजको हेतुश्चऽ; इति न भवति / केन खल्विमानि दुःखान्युत्पद्यन्त इति तदवघातको हेतुर्जिज्ञास्यो भवति / दुःखवानहमेतत्प्रतीकारमन्वेषयामीति प्रायोवादः / स च पञ्चविंशतितत्त्वज्ञानान्नान्य इति मनसि वर्तते //
SKऽदृष्टे सा ऽपार्था चेत्ऽ; इति / स्यादेतत् यदि दृष्टस्तदवघातको हेतुर्न स्यात् / यावदाध्यात्मिकस्य शारीरदुःखस्यापनयने चिकित्साशास्त्रविहित एवोपायो ऽस्ति, मानसस्यापि संख्यानबलं रम्याश्च शब्दादयो विषयाः / आधिभौतिकाधिदैविकयोरपि, अवघातहेतुरनुष्ठीयमानो लोक एव दृश्यते, तयोः सत्प्रतिपक्षत्वात् / तत्राधिदैविकस्य सामदामभेददण्डोपायघटितारम्भाः / आधिभौतिकस्यापि निपातप्रतिपातसंवृतप्रदेशाश्रयणादयः //
SKततश्च दृष्टे हेतौ सति जिज्ञासा ऽस्मिन् विषये निरर्थकेत्याशङ्क्याह- ऽनैकान्तात्यन्ततो ऽभावात्ऽ; इति / ना ऽपार्था, सार्थिकैव / कुतः- एकान्ततः एकान्तात्यन्ततो ऽभावादपि / एकान्तेनात्यन्तेन च दुःखाभावस्याभावादित्यर्थः / दृष्टे ह्युपाये क्रियमाणे ऽपि केषांचिद्दुःखत्रयं भवत्येवेति नैकान्तेनोपशमः / कथंचिदुपशमे पुनरुत्पादनात् नात्यन्तेनोपशमः / तस्मादैकान्तिकात्यन्तिकदुःखोपशमाय जिज्ञासा युक्तेति
SKयद्येवमैकान्तिकात्यन्तिकदुःखोपशमहेतुर्ववेदविहितो ऽस्ति / तथा चाह- अणम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् / किमस्मान् कृणवदरातिः किमु धूर्त्तिरमृतमर्त्यस्य // इति //
SKअस्यायमर्थः- इन्द्रो देवनामपण्डितानाह ऽदिव्याः किमन्यत्सुखमस्तिऽ; इति / ते तमाहुः ऽनास्तिऽ; इति / सोममपाम, सोमं पीतवन्तो वयम् / ततो ऽमृता अभूम, व्यपगतमृत्यवो जाताः / ऽअगन्म ज्योतिःऽ; इति / ज्योतिः स्वर्गो ऽयम्, तं प्राप्ता वयम् / ऽअविदाम देवान्ऽ; इति / इयन्तो देवा अस्मिन् स्वर्ग इति ज्ञातवन्तः ज्ञानमस्माकमुत्पन्नमित्यर्थः / ऽकिमस्मान् कृणवत्ऽ; इति / कृणवन्मृत्युरुच्यते / अस्मान् सोमपानान् किं मृत्युः करिष्यते / अरातिः व्याधिः सो ऽपि, धूरतिर्जरा सापि चास्माकं किं करिष्यति / ऽअमृतमर्त्यस्यऽ; इति / तस्मात् सोमपानाद्दुःखोपशमहेतुरस्तीत्यस्मिन् पूर्वपक्षे -
SKदृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् // ISक्_२ //
SKऽदृष्टवदानुश्रविकःऽ; इत्यादि / अनुश्रूयते पारम्पर्येणेत्यनुश्रवो वेदः श्रुवः ऽऋदोरप्ऽ; / तत्र भवो हेतुरानुश्रविकः / अध्यात्मादिः / दृष्टेन तुल्यो दृष्टवत् / तस्यापि दोषदर्शनात् //
SKयदाह - ऽस ह्यविशुद्धिक्षयातिशययुक्तःऽ; इति / यस्मादानुश्रविको हेतुरविशुद्ध्यादिभिस्त्रिभिर्दोषैर्युक्तः / तत्राग्निहोत्रादौ पशुव्यापादनात् सोमपानादविशुद्धियुक्तः / कर्मक्षयात् स्वर्गच्युतिरिति क्षययुक्तः / तथा चाहुः - ऽबहूनीन्द्रसहस्राणि व्यतीतानि युगे युगेऽ; इति / ऽस हि देवेष्वपि देवो दरिद्रातिऽ; इति / ऽईश्वरं दृष्ट्वा महद् दुःखमुत्पद्यतेऽ; इत्यतिशययुक्तः / तथाहि- यः क्रतुशतेन यजते तस्य महदैश्वर्यम्, यो द्वाभ्यां त्रिभिर्वा तस्याल्पमिति / तस्मादानुश्रविको ऽपि दृष्टवत्परित्याज्यः //
SKकस्तर्हि श्रेयानित्याह- ऽतद्विपरीतः श्रेयान्ऽ; इति / दृष्टानुश्रविकद्वारा यो विपरीतः तत्त्वज्ञानाख्यः स श्रेयान् / तस्य अकैवल्यप्रापकत्वात् / तत्रैकान्तात्यन्ततो ऽभावाद्दृष्टाच्छ्रेयान् / शरीरहानाद्धि शुद्धफलः, प्रकृतिहानादक्षयफलः, अनुत्तरत्वाच्च निरतिशयफल इत्यानुश्रविकाच्छ्रेयान् //
SKस कथं प्रोच्यत इत्यत्राह ऽव्यक्ताव्यक्तज्ञविज्ञानात्ऽ; इति / राशित्रयेण पञ्चविंशतितत्त्वानि कथ्यन्ते / तत्र महदादिभूतपर्यन्तं त्रयोविंशतिप्रकारं व्यक्तमुच्यते, तेन रूपेण प्रधानस्य व्यक्तत्वात् / अव्यक्तं प्रधानम्, केनचिद्रूपेणाव्यक्तत्वात् / जानातीति ज्ञः पुरुषः / तेषु यद्विज्ञानं स्वरूपपरिच्छेदः, तस्मात् प्राप्यत इत्यर्थः / तन्वादि हि परिच्छिद्य तदभ्यासादुत्तरकालं प्रकृतिपुरुषान्तरज्ञानमुत्पद्यते, ततश्च कैवल्यमिति / अस्या आर्याया वक्ष्यमाणा याः, सर्वा एवार्थेन भाष्यस्थानीया द्रष्टव्याः
SKतत्रैषां व्यक्तादीनामुत्पादाभ्यां स्वरूपमाह-
SKमूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त / षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः // ISक्_३ //
SKऽमूलप्रकृतिःऽ; इत्यादि / प्रकृतिः प्रधानम् / प्रक्रियत उत्पद्यते प्रधानात् अस्या इति प्रकृतिः / मूलं च तत्प्रकृतिश्चेति मूलप्रकृतिः / सप्तानां प्रकृतीनां मूलमाद्यं कारणमित्यर्थः //
SKऽअविकृतिःऽ; इति / न विक्रियत इत्यविकृतिः / न कुतश्चिदुत्पाद्यत इत्यर्थः / एतत्प्रथमं तत्त्वम् //
SKऽमहदाद्याः प्रकृतिविकृतयः सप्तऽ; इति / महान् बुद्धिस्स आद्यो यासां प्रकृतीनां तास्तथोक्ताः / प्रकृतयश्च विकृतयश्चेति प्रकृतिविकृतयः / तत्र महानहङ्कारं जनयन् प्रकृतिः, महत उत्पद्यमानो विकृतिः / तन्मात्राणि शब्दस्पर्शरूपरसगन्धाः पञ्च यथाक्रममाकाशवाय्वग्न्युदकपृथिव्याख्यानि भूतानि जनयन्तः प्रकृतयः, अहङ्कारादुत्पद्यमाना विकृतयः / इत्येतानि सप्त तत्त्वानि //
SKऽषोडशकश्च विकारःऽ; इति / षोडश परिमाणमस्येति षोडशकः / पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनश्चेत्येकादशेन्द्रियाणि, पञ्च महाभूतानीत्ययं षोडशको गणः / चकार एवकारार्थः / विकारो विकृतिरेव / (नास्मात् किञ्चिदुत्पद्यत इत्यर्थः / एतानि षोडश तत्त्वानि) / ऽन प्रकृतिर्न विकृतिः पुरुषःऽ; इति / पुरं शरीरं तस्मिन् वसतीति पुरुषः / नैरुक्तो ऽत्रविधिः / तस्मान्न किञ्चिदुत्पद्यत इति न प्रकृतिः, निष्क्रियत्वात् / नाप्ययं कुतश्चिदुत्पद्यत इति न विकृतिः, अनादित्वात्
SKएषां व्यक्तादीनां सिद्धौ प्रमाणान्याह- दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात् / त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमाणाद्धि // ISक्_४ //
SKऽदृष्टम्ऽ; इत्यादि / दृष्टं प्रत्यक्षम् / अनुमीयते येन तदनुमानम् / आप्तः क्षीणदोषस्तेन यदुच्यते तदाप्तवचनम् / आगमः / एतत् त्रिविधं प्रमाणमिष्टम् //
SKननु चान्यान्यपि प्रतिभादीनि प्रमाणानि सन्ति तद्यथा- प्रतिभौपम्यमैतिहासमभावस्सम्भवस्तथा / अर्थापत्तिरितीमानि प्रमाणान्यपरे जगुः // इति //
SKअस्मिन् पूर्वपक्ष आह- ऽसर्वप्रमाणसिद्धत्वात्ऽ; इति / सर्वेषां प्रतिभादीनां प्रमाणानां सिद्धत्वात्, त्रिविध एवान्तर्भावादित्यर्थः / तत्र ग्रामे नगरे वा वर्तत इति प्रतिभोत्पन्ना / तत्र यदा क्षीणदोषस्य, तदाभिज्ञप्राप्तत्वात् प्रत्यक्षमेव / तस्याक्षीणदोषस्य वितथत्वादप्रमाणम् / याप्यर्थाविसंवादिनी कादाचित्का, सापि कादाचित्कादेव निमित्तादुत्पद्यमानानुमानमेव न प्रमाणान्तरम् / ऽगौरिव गवयःऽ; इत्यौपम्यम् / तत्र गवयमजानानः कश्चिदाप्तं पृच्छति ऽकीदृशो गवयःऽ, इति / स तमाह- ऽयादृशो गौस्तादृशो गवयःऽ; इति / तदेतदाप्तवचनमेव न प्रमाणान्तरम् / यदापि लब्धोपदेशो गवयं पश्यति, तदापि गवि दृष्टेनैव विषाणादिना लिङ्गेन गवयस्य व्यवहारं प्रवर्तयतीत्यनुमानमेव न प्रमाणान्तरम् / ऽइतिह वै वैश्रवणःऽ; इत्यैतिह्यम् / एतदाप्तवचनमेव न प्रमाणान्तरम् / ऽइतिहऽ; इति निपातसमुदाय उपदेशपारम्पर्ये वर्तेते / इतिह एवैतिह्यम् / स्वार्थे यञ् / ऽनास्तीह घटो ऽनुपलम्भात्ऽ; इत्यभावः / तत्र घटशून्यप्रदेश एव घटाभावः, स च प्रत्यक्षप्रमाणसिद्धत्वान्न प्रमाणान्तरम् / ऽमाषः प्रस्थ इत्युक्ते चत्वारः कुडपा इतीदमपि सम्भवतिऽ; इत्ययं सम्भवः / तत्र समुदायलिङ्गावयवलिङ्गिनः परिच्छेदादनुमानमेव / अवयवैस्समुदायस्यारब्धत्वात् कार्यकारणलक्षणः सम्बन्धः / ऽदेवदत्तो दिवा न भुङ्क्ते बलवांश्चेत्युक्त अर्थाद्रात्रौ भुङ्क्तेऽ; इत्यर्थापत्तिः / तत एव रात्रौ तस्य प्रतीतिरनुमानान्न भिद्यते / इदमेव चान्यथानुपपत्तिरित्युच्यते //
SKकिं प्रमाणत्रयलक्षणे प्रयोजनमिति चेदाह- ऽप्रमेयसिद्धिः प्रमाणाद्धिऽ; इति / यस्मात् प्रमेयस्यार्थस्य सिद्धिः प्रमाणात्, अन्यथा कथं तत्प्राप्तिपरिहारौ स्याताम्
SKदृष्टादिप्रमाणानां लक्षणमाह-
SKप्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् / तल्लिङ्गलिङ्गिपूर्वकम्, आप्तश्रुतिराप्तवचनं च // ISक्_५ //
SKऽप्रतिविषयाध्यवसायःऽ; इत्यादि / विषयं विषयं प्रतिविषयम्, प्रतिविषयमध्यवसायः प्रतिविषयाध्यवसायः / विषयाः शब्दादयः, अध्यवसायो बुद्धिः / शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणेन्द्रियद्वारेण विशेषावधारणप्रधाना या बुद्धिरुत्पद्यते तद् दृष्टम्, शुद्धत्वात्प्रमाणमशुद्धत्वादप्रमाणम् / तच्चतुर्विधम्- सव्यपदेशम्, सविकल्पम्, अर्थव्यतिरेकीन्द्रियव्यतिरेकी चेति / तत्र दूरात् क्वचिदागच्छन्तं दृष्ट्वा देवदत्तसारूप्यं व्यपदिशति देवदत्तो ऽयमिति या बुद्धिरुत्पद्यते तत्सविकल्पम्, संशयितत्वादप्रमाणम् / तैमिरिकस्य द्विचन्द्रदर्शनं तदर्थव्यतिरेकि, द्वितीयचन्द्राभावात् / यत्स्वप्नदर्शनं तदिन्द्रियव्यतिरेकि, निद्रोपप्लुतत्वादिन्द्रियाणाम् //
SKऽत्रिविधमनुमानमाख्यातम्ऽ; इति / षष्टितन्त्रे व्याख्यातम्- पूर्ववत्, शेषवत्, सामान्यतोदृष्टमिति / अतीतानागतवर्त्तमानास्त्रयः पदार्थाः / तत्र भविष्यदर्थसाधनाय पूर्ववदनुमानम् / पूर्वं लिङ्गमस्यास्तीति पूर्ववत् / यथोन्नतजलधरं दृष्ट्वा वृष्टिर्भविष्यतीत्यनुमीयते / अतीतार्थसाधनाय शेषवत्- शेषं लिङ्गमस्यास्तीति / यथास्या नद्या उपरि वृष्टिर्भूता, यस्याः कलुषोदकं शेषं लिङ्गमिति / वर्त्तमानार्थसाधनाय सामान्यतोदृष्टम्- सामान्येन लिङ्गलिङ्गिदृष्टत्वात् / यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिर्दृष्टा, तथा सूर्यादीनां सामान्येन देशान्तरप्राप्त्या गतिरनुमीयते //
SKऽतल्लिङ्गलिङ्गिपूर्वकम्ऽ; इति / त्रिविधमनुमानम् / कदाचिल्लिङ्गपूर्वकं कदाचिल्लिङ्गिपूर्वकं लोके दृश्यते / तद्यथा- श्राव्येण विरुतेन कदाचित्कोकिलो ऽनुमीयते, कदाचित्कोकिलं लिङ्गिनं दृष्ट्वा श्राव्येणापि विरुतेनास्य भवितव्यमिति तयोर्गम्यगमकत्वं सति सम्बन्धे / सम्बन्धाश्च सप्त- तत्र स्वस्वामिभावसम्बन्धो यथा राजपुरुषयोः कदाचित्पुरुषेण राजा राज्ञा वा पुरुषः / एवं प्रकृतिविकारसम्बन्धो यथा यवसक्तोः / कार्यकारणसम्बन्धो यथा धेनुवत्सयोः / पात्रपात्रिकसम्बन्धो यथा परिवृट्त्रिविष्टब्धयोः / साहचर्यसम्बन्धो यथा चक्रवाकयोः / प्रतिद्वन्द्विसम्बन्धो यथा शीतोष्णयोः / तत्रैकस्य भावे ऽन्याभावः प्रतीयते / निमित्तनैमित्तिकसम्बन्धो यथा भोज्यभोजकयोरिति / एभिस्सम्बन्धैस्त्रिविधमनुमानं प्रमाणन्न लुप्यते //
SKऽआप्तश्रुतिराप्तवचनं चऽ; इति / आप्तः क्षीणदोषः / यच्चाहुः- स्वकर्मण्यभियुक्तो यो रागद्वेषविवर्जितः / निर्वैरः पूजितः सद्भिराप्तो ज्ञेयः स तादृशः // इति //
SKआप्तेभ्यो या श्रुतिपरम्परया श्रुतिरागता आप्तवचनम्, तैर्दृष्टो ऽनुमितो वार्थः, परत्र स्वबोधसदृशबोधान्तरोत्पत्तये शब्देनोपदिश्यते / यदन्यवचनं सो न प्लवते (?) / चशब्दो ऽनुमानेन तुल्यकक्ष्यत्वख्यापनार्थः / यथा त्रिकालमविषयमन्मानं तथाप्तवननमपीति
SKएषां त्रयाणां कः कस्य विषय इत्यत आह- सामान्यतस्तु दृष्टादतीन्द्रियाणाम्प्रतीतिरनुमानात् / तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् // ISक्_६ //
SKऽसामान्यतस्तुऽ; इत्यादि / त्रिविधं प्रमेयम्- प्रत्यक्ष्म्, परोक्षम्, अत्यन्तपरोक्षं चेति / तत्र यत्सामान्यतोदृष्टमनुमानं तस्मादतीन्द्रियाणां परोक्षाणां प्रसिद्धिरस्ति / तन्निश्चयः, तेषां प्रत्यक्षविषयत्वात् / पूर्ववच्छेषवतोस्त्वमनुमानयोर्भविष्यद्भूतार्थवृत्तित्वाद्वर्त्तमानेष्वतीन्द्रियेषु च प्रवृत्त्यसम्भवः //
SKऽतस्मादपि चासिद्धम्ऽ; इति / सामान्यतोदृष्टादनुमानाद्यदसिद्धं परोक्षम्, तदत्यन्तपरोक्षत्वादागमात्सिद्धम् / यथा स्वर्गापवर्गाविति / प्रत्यक्षे तु प्रमेये दृष्टमेव व्याप्रियत इत्यर्थादुक्तम्
SKननु च ऽव्यक्ताव्यक्तज्ञविज्ञानात्ऽ, व्यक्तं तावत् प्रत्यक्षानुमानाभ्यां सिद्धम्, प्रधानपुरुषयोस्तु सर्वदानुपलम्भात् कथं सिद्धिर्नस्तयोरिति नानुपलब्धिमात्रेणासत्त्वम् / यतश्चतुर्भिः प्रकारैः सतामपि पदार्थानामुपलब्धिर्भवति / देशदोषादिन्द्रियदोषाद्विषयदोषादर्थान्तरदोषाच्च / तानेव भेदेन दर्शयन्नाह- अतिदूरात्सामीप्यादिन्द्रियघातान्मनो ऽनवस्थानात् / सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च // ISक्_७ //
SKऽअतिदूरात्ऽ; इत्यादि / यथा दूरमुत्पतितस्य पक्षिणो नोपलब्धिः //
SKऽसामीप्यात्ऽ; इति / अतिशब्दो ऽत्रापि योजनीयः / अतिसामीप्यादिति / यथा चक्षुःस्थस्याञ्जनस्य / उभयत्रापि देशदोषकृतानुपलब्धिः //
SKऽइन्द्रियघातात्ऽ; इति / श्रोत्रादीनां बुद्धीन्द्रियाणां दोषाद्योग्यदेशावस्थितानामपि शब्दादीनामनुपलब्धिः //
SKऽमनो ऽनवस्थानात्ऽ; इति / मनसो ऽनवस्थानमसमाहितता, विषयान्तरप्रवृत्तत्वात् / ततश्चानुपहतेन्द्रिये ऽपि सन्निहितं विषयं नोपलभते / उभयत्रापीन्द्रियदोषादनुपलब्धिः / मनसो ऽपीन्द्रियत्वाद् भेदेनोपादानं तु मनसः प्राधान्यार्थम् //
SKऽसौक्ष्म्यात्ऽ; इति / विषयदोषात् / विषय एव परमाण्वादिस्तथा, येनाव्यग्रमनसा ऽप्यनुपहतेन्द्रियेण नोपलभ्यते //
SKऽव्यवधानात्ऽ; इति / यवनिकादिभिस्तिरोधानात् स्थूला अप्यविकृष्टा घटादयो नोपलभ्यन्ते //
SKऽअभिभवात्ऽ; इति / आदित्यप्रभाभिभूतत्वात् दिवा तारका नोपलभ्यन्ते //
SKऽसमानाभिहाराच्चऽ; इति / सदृशानां राशीकरणात् धान्यराशौ ह्येको धान्यगुडकः प्रक्षिप्तो न दृश्यते / त्रिष्वप्यर्थान्तरदोषादनुपलब्धिः / नत्वेत अनुपलभ्यमाना न सन्ति
SKयद्येवं केन प्रकारेण सतोरपि प्रधानपुरुषयोरनुपलब्धिरित्याह- सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः / महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च // ISक्_८ //
SKऽसौक्ष्म्यात्तदनुपलब्धिःऽ; इत्यादि / प्रकारान्तराभावात् सूक्ष्मत्वात्सतोरपि तयोरनुपलब्धिः / नन्वभावादेव कस्मादनुपलब्धिर्न भवति / यथा घटस्योत्पत्तेः प्राक् मृत् शरादिषु.... तस्य प्रध्वंसाभावात्, गवि वाश्वत्वस्याश्वत्वे वा गोत्वस्येतरेतराभावात्, वन्ध्यासुतस्य वात्यन्ताभावादित्याह- ऽनाभावात्ऽ; इति / चतुर्विधादित्यर्थः //
SKयद्येवं कथं तौ स्त इति गम्यत इत्याह- ऽकार्यतस्तदुपलब्धेःऽ; इति / यद्यप्यत्रोभयं प्रक्रान्तं तथापि तच्छब्देन प्रधानं निर्दिश्यते / प्रधानस्यास्तित्वप्रतिपत्तिः कार्यादित्यर्थः / पुरुषस्यास्तित्वप्रतिपत्तौ हेतुं वक्ष्यति //
SKकिं तत्कार्यमित्याह- ऽमहदादि तच्च कार्यम्ऽ; इति / महान् बुद्धिः स आदिर्यस्य तन्महदादिभूतपर्यन्तं कार्यमस्ति / तत् प्रधानम्, यस्येदं महदादिकार्यं व्यक्तम्, अकारणस्य कार्यस्यानुत्पादात् //
SKऽप्रकृतिसरूपं विरूपं चऽ; इति / तद्व्यक्तं प्रकृतेः प्रधानस्य सदृशमसदृशं चेत्यर्थः / एतदुत्तरत्र योजयिष्यते
SKतत्कार्यं कारणादुत्पद्यमानं सदुत्पद्यते, किमसत्, किं वा सदसदिति? तत्र विरुद्धधर्माध्यासितत्वात्सदसन्नोपपद्यते / असदिति वैशेषिकाः / अत्र दूषणमाह- असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् / श्क्तस्य शक्यकरणात्, कारणभावाच्च सत्कार्यम् // ISक्_९ //
SKऽअसदकरणात्ऽ; इत्यादि / इह लोके असतः करणं नास्ति, यथा शशविषाणादीनाम् / यदेव सत् घटादिद्रव्यं तदेव मृत्पिण्डादिना कारणविशेषेण क्रियते, नासत् //
SKऽउपादानग्रहणात्ऽ; इति / इह यदर्थं यदुपादीयते तस्य तदुपादानं कारणम्, यथा तैलस्य तिलाः, दध्नः क्षीरम् / अत्र तैलं दधि च यदि न स्यात् कथं तस्योपादानस्य ग्रहणं तदर्थिभिः क्रियते / तस्मादुपादानसंग्रहात् सदेव कार्यम् / अन्यथा सिकतासलिलयोरपि ग्रहणं स्यात् //
SKऽसर्वसम्भवाभावात्ऽ; इति / यद्यसत्कार्यं भवेत् तदा सर्वस्य सर्वत्र सम्भवः स्यात् / न चैवम् / तस्मात्सदेव कार्यम् //
SKऽशक्तस्य शक्यकरणात्ऽ; इति शक्तं कारणं नाशक्तमित्येवमप्यवगन्तव्यम् / अन्यथोपहतशक्तर्बीजाङ्कुरोत्पत्तिप्रसङ्गः / शक्तश्च को भवितुमर्हति, यः शक्तिमान् / तस्य शक्तिमतः शक्यस्य करणात्, शकनीयस्य कार्यस्योत्पादनादित्यर्थः / एवं च तच्छकनीयं यदि कारणे शक्तिरूपेणावस्थितं स्यात् / तस्मात्सदेवोत्पद्यते नासत् //
SKऽकारणभावाच्चऽ; इति / कारणस्य सत्त्वादित्यर्थः / यद्यसत्कार्यमुत्पद्यते किमिति कारणभावेन कार्यस्य भावो भवति / भवति च / तस्माच्छक्तिरूपेणावस्थितमिति गम्यते / अथवा- कारणभावादिति कारणस्वभावात् / यत्स्वभावं कारणं तत्स्वभावं कार्यम्, यथा स्निग्धस्वभावस्तिलेभ्यः स्निग्धमेव तैलम्, मृतो मृत्स्वभावो घटः / यद्यसत्कार्यं स्यात्, असत्स्वभावेभ्यो ह्युत्पाद्येतेत्येवं सांख्यानां सदेवोत्पद्यत इति सिद्धान्तः
SKएवं महदादिकार्यं सदेवोत्पद्यत इति व्यवस्थाप्य प्रकृतेविरूपं सरूपं च दर्शयति / तत्र प्रकृतेर्विरूपमधिकृत्याह-
SKहेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् / सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम् // ISक्_१० //
SKऽहेतुमत्ऽ; इत्यादि / व्यक्तं महदादिभूतपर्यन्तम् / अव्यक्तं प्रधानं तत्र व्यक्तं हेतुमत्, यथास्वं कारणेभ्य उत्पद्यमानत्वात् / तत्र प्रधानादुत्पद्यमानो महान् हेतुमान्, महतो ऽहङ्कारो हेतुमान्, अहङ्कारात्तन्मात्राण्येकादशेन्द्रियाण्युत्पद्यमानानि हेतुमन्ति च, तन्मात्रेभ्यश्च महाभूतानि हेतुमन्ति / विपरीतमव्यक्तमहेतुमदित्यर्थः, तस्यान्यतः कुतश्चिदनुत्पादात् / नहि प्रधानाकिंचिदपरमस्ति यतस्तदुत्पद्यते //
SKअनित्यं व्यक्तम्, कारणेभ्य उत्पन्नत्वात् घटादिवत् / कारणानि च प्रागुक्तान्येव / विपरीतमव्यक्तं नित्यमित्यर्थः, कुतश्चिदनुत्पन्नत्वात् //
SKअव्यापि व्यक्तं प्रादेशिकमित्यर्थः / दैवं मानुषं तैर्यग्योनं च, तदानीमन्यत्रावर्तमानत्वात् / सर्वगतं विपरीतमव्यक्तं व्यापीत्यर्थः, देवादिषु त्रिषु लोकेषु सर्वदा वर्तमानत्वात् / ऽसक्रियम्ऽ; इति / क्रियाशब्देनात्र संसरणमभिप्रेतम्, न क्रियामात्रम् / महदादिसूक्ष्मपर्यन्तं व्यक्तं देवादि संसरतीत्यर्थः / विपरीतमव्यक्तम्, असंसारि / त्रिषु लोकेषु स्थितत्वान्न संसरति / न पुनः क्रियैव नास्तीति निष्क्रियम्, तस्य जगत्कर्तृत्वात् //
SKअनेकं व्यक्तम्, महदादिभूतपर्यन्ततायास्त्रयोविंशतिप्रकारत्वात् / विपरीतं व्यक्तम्, त्रयाणां लोकानां तस्यैकस्य कारणत्वात् //
SKऽआश्रितम्ऽ; इति / यद्यस्मादुत्पन्नं महदादि व्यक्तं तदेव तदाश्रितं नान्यत् / उत्पन्नमन्यदाश्रितमिति दर्शनार्थं वचनम्, अन्यथा हेतुमदित्यनेनैवाश्रितं सिद्धमेव / विपरीतमव्यक्तम्, अनाश्रितम् / ततो ऽन्यस्य कारणस्याभावात् //
SKऽलिङ्गम्ऽ; इति / लिङ्ग्यते ऽनेनाव्यक्तमिति लिङ्गम् / विपरीतमव्यक्तम्, न लिङ्ग्यते किञ्चिदनेनेति / अथवा लयं गच्छतीति लिङ्गम् / प्रलयकाले ह्याकाशादयः पञ्च यथाक्रमं शब्दादितन्मात्रेषु लीयन्ते, तन्मात्राणीन्द्रियाणि चाहङ्कारे, अहङ्कारो महति, महान्प्रधान इति / विपरीतमव्यक्तम्, न कुत्रचिदिदं लीयते, अहेतुत्वात् //
SKऽसावयवम्ऽ; इति / शब्दादयो ऽवयवा उच्यन्ते / तैराध्यात्मिकं बाह्यं च व्यक्तं युक्तम् / विपरीतमव्यक्तम्, तैरयुक्तत्वात् //
SKपरतन्त्रम् / न स्वतन्त्रम् / यदस्मादुत्पद्यते तदेवानुरुद्ध्य स्वकार्यं जनयति न तद्व्यतिरेकेणेति दर्शनार्थम् / अन्यथा हेतुमदित्यनेनैव परतन्त्रत्वं प्रसिद्धमेव / विपरीतमव्यक्तम्, स्वतन्त्रं न किंचिदपेक्षते
SKत्रिगुणमविवेकि विषयः सामान्यमचेतनम्प्रसवधर्मि / व्यक्तं, तथा प्रधानम्, तद्विपरीतस्तथा च पुमान् // ISक्_११ //
SKऽत्रिगुणम्ऽ; इत्यादि / त्रयस्सत्त्वादयो गुणा यस्य तत्त्रिगुणं व्यक्तम् / तथा प्रधानमपि त्रिगुणं तत्स्वभावत्वात् //
SKऽअविवेकिऽ; इति / अविवेचनशीलं व्यक्तम्, अचेतनत्वात् / यद्वा गुणेभ्यस्तस्य पृथक्त्वाभावादविवेकि / तथा प्रधानमपि //
SKसामान्यं व्यक्तम्, सर्वपुरुषोपभोग्यत्वान्मल्लदासीवत् / तथा प्रधानमपि //
SKअचेतनं व्यक्तम्, सुखदुःखमोहान्न वेदयतीत्यर्थः / तथा प्रधानमपि //
SKऽप्रसवधर्मिऽ; इति / प्रसवो धर्मो ऽस्यास्तीति प्रसवधर्मि व्यक्तम् / तथा प्रधानमपि / द्वयोरपि प्रसवधर्मित्वम् //
SKतथा च प्रधानान्महान्, महतो ऽङ्कार इत्यादिना स्वकार्योत्पादनधर्मत्वाद्यथा व्यक्ताव्यक्तयोर्वैरूप्यं सारूप्यं च, तथा किं पुरुषस्य वापीत्याह- ऽतद्विपरीतस्तथा च पुमान्ऽ; इति / व्यक्ताव्यक्ताभ्यां कैश्चिद्धर्मैर्विलक्षण इत्यर्थः //
SKअत्र पूर्वस्या आर्याया अर्थो योज्यते / हेतुमद्व्यक्तम्, अहेतुमदव्यक्तम् / पुरुषो ऽप्यहेतुमान्, तस्य कुतश्चिदनुत्पादात् //
SKअनित्यं व्यक्तम्, नित्यमव्यक्तम् / पुरुषो नित्यः, कुतश्चिदनुत्पन्नत्वात् //
SKअव्यापि व्यक्तम्, व्याप्यव्यक्तम् / पुरुषो ऽपि व्यापी यदा प्रकृत्या मुक्तः / युक्तश्चेत्, व्यक्तेन सदृशो न प्रधानेन / हि सर्वदा देवादिषु प्रवर्तते //
SKसक्रियं व्यक्तम्, निष्क्रियमव्यक्तम्, असंसारित्वात् / पुरुषो ऽपि निष्क्रियः, कर्तृत्वाभावात् //
SKअनेकं व्यक्तम्, एकमव्यक्तम् / पुरुषो ऽनेको बहुत्वात् / तस्य बहुत्वं प्रतिपादयिष्यति / प्रधानेनात्र वैसादृश्यं तस्यैकत्वात् //
SKआश्रितं व्यक्तम्, अनाश्रितमव्यक्तम् / पुरुषो ऽप्यनाश्रितः कुतश्चिदनुत्पन्नत्वात् //
SKलिङ्गं व्यक्तम्, अलिङ्गमव्यक्तम् / पुरुषो ऽप्यलिङ्गः / न किंचिदनेन लिङ्ग्यते न वायं कदाचिल्लीयते ऽनुत्पन्नत्वात् //
SKसावयवं व्यक्तम्, निरवयवमव्यक्तम् / पुरुषो ऽपि निरवयवः शब्दादिभिरयुक्तत्वात् / परतन्त्रं व्यक्तम्, स्वतन्त्रमव्यक्तम् / पुरुषो ऽपि स्वतन्त्रः, कुतश्चिदनुत्पन्नत्वात् //
SKद्वितीयस्या आर्याया अर्थो योज्यते- त्रिगुणं व्यक्तमव्यक्तं च / निर्गुणः पुरुषः, गुणानां तत्राभावात् //
SKअविवेकि व्यक्तमव्यक्तं च / विवेकी पुरुषश्चेतनत्वात् / विविक्तो वा निर्गुणत्वात् //
SKविषयो व्यक्तमव्यक्तं च / पुरुषो निर्विषयः, भोक्तृत्वात्, न भोग्यः //
SKसामान्यं व्यक्तमव्यक्तं च / पुरुषो ऽसामान्यः, अविषयत्वात् //
SKअचेतनं व्यक्तमव्यक्तं च / चेतनः पुरुषः सुखादिवेदनत्वात् //
SKप्रसवधर्मि व्यक्तमव्यक्तं च / पुरुषो ऽप्रसवधर्मी, अकर्तृत्वात् / इत्युक्तम्
SKत्रयाणामपि वैरूप्यं सारूप्यं चेति त्रिगुणमित्युक्ते, के के त्रयो गुणाः किमात्मका इत्याह-
SKप्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः / अन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः // ISक्_१२ //
SKऽप्रीत्यप्रीतिविषादात्मकाःऽ; इत्यादि / प्रीत्यादय आत्मानो येषां गुणानां ते तथोक्ताः सत्त्वरजस्तमांसि त्रयो गुणाः / तत्र प्रीत्यात्मकं सुखात्मकं सत्त्वम्, अप्रीत्यात्मकं दुःखात्मकं रजः, विषादात्मकं मोहात्मकं तमः / गुणा ह्यतीन्द्रियत्वात्परिणत्या सुखादिनानुमीयमानास्तदात्मका इति व्यपदिश्यन्ते //
SKकिं पुनरेषां प्रयोजनमित्याह- ऽप्रकाशप्रवृत्तिनियमार्थाःऽ; इति / प्रकाशार्थं सत्त्वं प्रकाशकत्वात्, प्रवृत्त्यर्थं रजश्चलत्वात्, नियमार्थं तमः स्तिमितत्वात् //
SKकिमिति ते गुणाः परस्परसव्यपेक्षाः किं वा नेत्याह- ऽअन्यो ऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाःऽ; इति / अन्यो ऽन्यशब्दः प्रत्येकमभिसम्बद्ध्यते / अभिभवतीत्यभिभवः / पचाद्यच् / अन्यो ऽन्यस्याभिभवा अन्यो ऽन्याभिभवाः / तद्यथा देवेषु सत्त्वमुद्रिक्तं रजस्तमसी अभिभवति, मनुष्येषु रजः सत्त्वतमसी, तिर्यक्षु (तमः सत्त्वरजसी) / आश्रीयन्त इत्याश्रयाः / कर्मण्यण् / अन्यो ऽन्यस्याश्रयाः, त्रिदण्डवत् / नाश्रयान्तरमेषाम्, अनाश्रयाश्च कर्तारः / जनयन्तीति जननाः / ऽकृत्यल्युटो बहुलम्ऽ; इति कर्तरि ल्युट् / अनेकार्थत्वात् च धातूनां बोधनार्था द्रष्टव्याः / अन्यो ऽन्यस्य प्रबोधका इत्यर्थः / सर्वं हि व्यक्तमुत्पद्यमानं त्रिगुणात्मकमुत्पद्यते / तत्र यदा सत्त्वमुत्कटं तदा रजस्तमसी न्यक्कृतशक्तिके / प्रबोध्यायस्कान्तो लोहवदुक्तम् (?) / सत्वन्यत्कृतेन गुणेन व्यक्तं जनयति (?) एवं रजस्तमश्च योज्यम् / यदा गुणद्वयमुद्भूतशक्ति तदा द्वयमपीतरदभिभवति, प्रबोधयतीत्यर्थः / अन्यो ऽन्यमिथुना इति / अन्यो ऽन्यस्य सहाया इत्यर्थः / तथा चोक्तं विष्णुगीतायाम्- रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः / उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते //
SKएकस्यां व्यक्तौ त्रयाणामभिभवप्रबोधनानुक्तौ व्यक्तम्, इतरे तु तौ एव प्रवृत्तिं जनयन्त इति दर्शयन्नाह- अन्यो ऽन्यवृत्तय इति / वृत्तिः सुखादिरूपेण परिणतिः / वृतिहेतुत्वाद् वृत्तय उच्यन्ते / अन्योन्यवृत्तिहेतव इत्यर्थः / तद्यथा काचिद्योषिद्रूपशीलदत्यन्तगुणा (!) सितत्वात्सात्त्विकी सा भर्त्तुः सुखमुत्पादयति सपत्नीनां कासांचिद्दुःखं कासांचिद्विषादमित्यत्र सत्त्वमात्मनो द्वयोश्च वृत्तिहेतुः / कस्यचित्प्रभोरत्यन्तशूरत्वाद् भृत्या राजसाः, परेषां युध्यमानानां प्रहारैर्दुःखं जनयन्ति, पलायमानानां विषादम्, स्वामिनश्च तुष्टिमित्यत्र रज आत्मनो द्वयोस्च वृत्तिहेतुः / मेघांश्चाम्बुगु.....वानिषान्धकारीकृत्योन्नतत्वात् (?) तामसाः, ते वर्षन्तः प्रोषितभर्तृकाणां विषादं जनयन्ति, पथिकानां दुःखम् कृषीवलानां तुष्टिमित्यत्र तम आत्मनो द्वयोश्च वृत्तिहेतुः
SKएषां दुर्लक्षणानां लक्षणान्तरमाह-
SKसत्त्वं लघु प्रकाशकमुपष्टम्भकं चलं च रजः / गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः // ISक्_१३ //
SKऽसत्त्वम्ऽ; इत्यादि / इष्टं सांख्याचार्याणां सत्त्वं लघुस्वभावं प्रकाशं च / यस्योद्रेकाच्छरीरें ऽशानि लघूनि भवन्ति, विषयप्रकाशनसमर्थानि चेन्द्रियाणि / बाह्यानि च द्रव्याणि लघूनि प्रकाशात्मकानि निर्मलानि भवन्ति //
SKऽउपष्टम्भकं चलं च रजःऽ; इति / उपष्टम्भयतीत्युपष्टम्भकम् / यस्योद्रेकाद् देवदत्तो व्यवस्यति, चलचित्तश्च भवति / बाह्यानि चलानि भवन्तीति //
SKऽगुरु वरणकमेव तमःऽ; इति / वृणोति पिधत्त इति / ऽकृत्यल्युटो बहुलम्ऽ; इति कर्तरि ल्युट्, करणे वा / पश्चात् स्वार्थे कन् / यस्योद्रेकाद् गुरूण्यङ्गानि भवन्ति, इन्द्रियाणि च तमसैवात्तानि भवन्ति / बाह्यानि च गुरूण्यनिर्मलानि च भवन्ति //
SKउदाहरणदिगियमन्यान्यपि विज्ञेयानि भवन्ति / तथा चाहुः- प्रीतिप्रीति(?)स्वाभिषङ्गलाघवानि प्रसादहर्षौ च, स्तम्भौद्धत्यद्वेषचलनशोषणतापभेदाश्च, वरणापध्वंसनसादनगौरवदैन्यभीतयश्चैतानि सत्त्वरजस्तमसां क्रमेण ज्ञातव्यानि लिङ्गानि //
SKननु चैते परस्परविलक्षणा गुणा विरुद्धत्वात् कथं सम्भूयैकत्र वर्तन्त इत्याह- ऽप्रदीपवच्चार्थतो वृत्तिःऽ; इति / प्रदीपस्येव प्रदीपवत् / तैलवर्त्त्यग्निसमुदायः प्रदीपः / यदा समुदायात्म.....परस्परविलक्षणानामपि प्रदीपभा...प्रवृतिः, तमसि स्थिता घटादयो देवदत्तस्य प्रकाशयितव्या इति, तथा सत्त्वरजस्तमसां पुरुषार्थहेतुना प्रवृत्तिः, पुरुषार्थशब्दोपलब्धिश्चेति
SKननु च ऽत्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि व्यक्तम्ऽ, तत्र सुखदुःकमोहोपलब्धेस्त्रैगुण्यं व्यक्तं सिद्धम्, अविवेक्यादयो धर्माः प्रसवपर्यन्ताः कथं सिद्ध्यन्तीत्याह-
SKअविवेक्यादिस्सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् / कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् // ISक्_१४ //
SKऽअविवेक्यादिः सिद्धःऽ; इत्यादि / गुणिद्वारेण गुणाभिधानम् / अविवेक्यादिगुणस्सिद्धः / व्यक्त इति वाक्यशेषः //
SKकुतः? त्रैगुण्यात् / कथं? यस्माद्गुणा एवाविवेकिनो भोग्यास्सामान्या अचेतना प्रसवधर्मिणश्च, ते च व्यक्ते सिद्धा इति सिद्धो गुणः //
SKऽतद्विपर्ययाभावात्ऽ; इति / (त्रैगुण्यस्याभावादिति) / त्रैगुण्यस्याभावे ऽविवेक्यादयोरभावात् / न हि निर्गुणस्य पुरुषस्याविवेक्यादिः सम्भवति / तस्मात्त्रैगुण्यादेवाविवेक्यादिस्सिद्धः //
SKएवं च सति, प्रधानमपि त्रैगुण्यात्तथाविधं सिद्धम् / यदाह- ऽकारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम्ऽ; इति / कारणस्य यो गुणः स आत्मा स्वभावो यस्य तत्तथोक्तम् / तस्य स्वभावस्तत्त्वम् / तस्मादिह लोके कारणगुणकं कार्यं दृष्टम् / शुक्लैः कृष्णैर्वा तन्तुभिरारब्धः पटः शुक्लः कृष्णो वा भवति / यद्यव्यक्तं तथाविधं न स्यात्, कथं व्यक्तं तथाविधं भवेत्
SKननु च सति धर्मिणि धर्माश्चिन्त्यन्ते, प्रधानस्यैव धर्मिणो ऽलब्धसिद्धित्वात् कथमविवेक्यादीत्याह-
SKभेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च / कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य // ISक्_१५ //
SKऽभेदानाम्ऽ; इत्यादि / कार्यतस्तदुपलब्धेर्महदादि तच्च कार्यमित्यनेनैव साधिते ऽस्मिन् यथावदधिगते पुनर्दार्ढ्यार्थं समनन्तरोपादानम् / भिद्यन्त इति भेदाः कार्यविशेषास्तेषां (एकस्संसर्गी दृष्टः) परिमाणाच्च / भेदानां परिमितत्वादित्यर्थः / येन च परिमितास्तेषामेकः संसर्गी दृष्टः / यथा मूलाङ्कुरपत्रकाण्डप्रसवपुष्पतण्डुलकणानां भेदानां व्रीहिः तविबाह्याध्यात्मिकभेदाः / परिमितबाह्या ब्रह्मादिस्तम्बपर्यन्ताश्चतुर्दश / आध्यात्मिकाश्च महदहङ्कारतन्मात्रेन्द्रियभूताख्यास्त्रयोविंशतिः / तस्मादेतेषामेकेन संसर्गिणा भवितव्यम् / यत्रैषां संसर्गस्तदव्यक्तं कारणमस्तीति सामान्यतोदृष्टमनुमानम् //
SKऽसमन्वयात्ऽ; भेदानामिति वर्तते / समन्वयो ऽनुगमः / एकजात्यनुगमादित्यर्थः / य एकजात्यनुगता भेदास्तेषामेकमेव तथाभूतं कारणं दृष्टम् / यथा कटककेयूरादीनां सुवर्णपिण्डः, यथा वा शरावादीनां मृत्पिण्डः / एवमेषामपि बाह्याध्यात्मिकानां सुखदुःखमोहानुगतत्वादेकेन तथाविधेन भवितव्यम् / य एषां समुदायस्तत्प्रधानमिति सामान्यतोदृष्टम् / ऽशक्तितः प्रवृत्तेश्चऽ; इति / इह कुलालादिशक्तिपूर्विका घटादीनां प्रवृत्तिर्दृष्टा नाशक्तिपूर्विका / एषामपि बाह्याध्यात्मिकानां प्रवृत्तिर्दृश्यते / ततश्च प्राक् च प्रवृत्तेर्जनितया शक्त्या भवितव्यम् / यासौ शक्तिः सैवाव्यक्तभावमापद्यत इति सामान्यतोदृष्टम् //
SKऽकारणकार्यविभागात्ऽ; इति / कारणस्य पूर्वभावित्वात् पूर्वनिपातः / अल्पाच्तरस्य पूर्वनिपातस्यानित्यत्वम् / यत उत्पद्यते तत्कारणम्, यच्चोत्पद्यते तत्कार्यम् / यथा मृत्पिण्डघटयोर्जन्यजनकत्वेन पृथगर्थक्रियाकरणाच्च विभागो दृष्टः / अन्यथा घटास्योदकाहरणक्रिया या न सा मृत्पिण्डस्य, या मृत्पिण्डस्य न सा घटस्य / एवं व्यक्तस्य महदादेः कार्यत्वात्पृथगर्थक्रियाकरणाच्च विभागः / तस्मादस्य कारणेन भवितव्यम् / तच्चाव्यक्तात्किमन्यत् स्यादिति //
SKअस्मिन् व्याख्याने ऽकार्यतस्तदुपलब्धेर्महदादि तच्च कार्यम्ऽ; इत्यनेनैव सिद्धत्वादन्यैरन्यथा व्याख्यायते / यदुपकरोति तक्तारणम्, यदुपक्रियते तत्कार्यं तयोर्विभागात्, उपकार्योपकारकभावादित्यर्थः / तत्र कार्य...व्यादीनि शरीरस्थानि स्थानसाधना...वभोगैः कारणान्युपकुर्वन्ति / कारणानि च वृद्धिक्षतसंरोहणपालनैः कार्याणि / बाह्यानि च कारणानि पृथिव्या धृतिसङ्ग्रहपत्तिव्यूहनावकाशदानैः परस्परमुपकुर्वन्ति / तथा दैवमानुषतैर्यग्योनानि परस्परोपकारीणि / तत्र दैवम्, यथाकालं शीतोष्णवर्षागमः, मानुषतैर्यग्योनान्युपकरोति / मानुषमिज्यायागस्तुतिभिर्दैवं रक्षति, पोषणभेषज्यैशअह तैर्यग्योनमुपकरोति / यथाध्यात्मिकानां बाह्यानां चोपकार्योपकारकभावो बुद्धिकृत इव दृश्यते तदस्य कश्चिद्व्यवस्थापिता स्यात्, कुतो ऽयं विभाग इत्यन्यथानुपपत्तेः //
SKऽअविभागाद्वैश्वरूप्यस्यऽ; इति / न विद्यते विभागो ऽस्येत्यविभागः / अविभक्तादित्यर्थः / तस्माद्वैश्वरूप्यस्योपलब्धेरिति शेषः / इह लोके ऽविभक्तादेकस्मादिक्षुद्रव्याद्रसफाणितगुडखण्डशर्करादिवैश्वरूप्यं नानात्वं दृश्यते, तथैकस्माद्दुग्धाद्दधिमस्तुनवनीतघृतादिवैश्वरूप्यमुपलभ्यते / एवमाध्यात्मिकानां बाह्यानां च वैश्वरूप्यम् / तस्मादेषामविभक्तेनैव भवितव्यमिति सामान्यतोदृष्टम् //
SKअन्यस्त्वाह- ऽअविभागे वैश्वरूप्यस्यऽ; इति / अविभागो लयः, वैश्वरूप्यं जगत् नानारूपत्वात् / प्रलयकाले वैश्वरूप्यं क्व लीयते स्थित्युत्पत्तिप्रलयाज्जगत इति / न चेश्वरे लयनं सम्भवति, तस्य निर्गुणत्वेनाभ्युपगमात् / तस्मादन्यथानुपपत्त्यास्ति तदेकमिति / तथा चाहुः- प्रधानादानुपूर्व्येण सृष्टिर्लोकस्य संसरः / प्र....प्रातिलोम्येन पुनस्तत्रैव सञ्चरः // इति
SKएषां हेतूनां प्रवर्तनार्थमाह-
SKकारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च / परिणामतः सलिलवत्, प्रतिप्रतिगुणाश्रयविशेषात् // ISक्_१६ //
SKऽकारणमस्तिऽ; इत्यादि //
SKयदि कारणमस्त्यव्यक्तं तत्कथं प्रवर्तत इत्याह- ऽत्रिगुणतस्समुदयाच्चऽ; इति / यदा प्रकृतिस्था गुणास्साम्येन प्रवर्तन्ते तदा (त्रीनेवाधिकृत्य प्रवरन्ते नैकैकमित्यर्थः / यदा वैषम्येण प्रवर्तन्ते तदा) कार्यं कारणारब्धत्वात् समुदयात् प्रवर्तते / समन्तादुदयो यस्य गुणस्य तमधिकृत्येत्यर्थः, शेषन्यक्कृतशक्तिकत्वात् / यदि समुदयादव्यक्तं प्रवर्तते तस्मादुत्पन्नं तदव्य...स्मान्न भवति //
SKशुक्लेभ्यः कृष्णेभ्यो वा तन्तुभ्यः शुक्लः कृष्णो वा पटो भवतीत्याह- ऽपरिणामतःऽ; इत्यादि / पूर्वस्यामवस्थायामवस्थान्तरं परिणामः, तस्माद्धेतोः प्रवर्तते / यथा कणिकायाः सूक्ष्माया मूलकः शाखाप्रशाखादिप्रवृद्धो महान्वनस्पतिर्व्यक्तो भवति, एवमव्यक्ताद्व्यक्तं परिणमति //
SKयद्येवमेकरूपादुत्पन्नस्य त्रैलोक्यस्य कथमनेकरूपत्वमित्याह- ऽसलिलवत्प्रतिप्रतिगुणाश्रयविशेषात्ऽ; इति / सलिलेन तुल्यं वर्तत इति सलिलवत् / एकैकं प्रति गुणाः प्रतिप्रतिगुणाः / त एवाश्रयास्तेषां यो विशेषस्तस्माद्धेतोः प्रवर्तन्ते / यथा सलिलमन्तरिक्षादेकरसमपि तदेकस्य कट्वम्लादेर्गुणस्याश्रयभूतस्य विशेषान्नानारसं वर्तते एवमव्यक्तमपीति गुणात्मकत्वादेकैकगुणाश्रयविशेषान्नानारूपं प्रवर्तते / तत्र सत्त्वस्य कृतेराश्रयस्य विशेषाद्देवभावेन वर्तनम्, रजस आश्रयस्य विशेषान्मानुषभावेन, तमस आश्रयस्य विशेषात्तिर्यग्योनिभावेनेति
SKएवमव्यक्तस्यास्तित्वं प्रवृत्तिं च प्रसाध्य पुरुषास्तित्वं प्रसाधयितुमाह-
SKसंघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् / पुरुषो ऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च // ISक्_१७ //
SKऽसंघातपरार्थत्वात्ऽ; इत्यादि / संहन्यत इति संघातः / संघातश्चासौ परार्थश्चेति संघातपरार्थः / संघातत्वं हेतुः परार्थत्वं साध्यम् / इह लोके संघातबाह्याः शयनासनादयो ये ते परार्था दृष्टाः / ते हि देवदत्तस्य परस्यार्थं कुर्वन्ति न स्वार्थम् / एते ऽप्याध्यात्मिका महदादयः शरीरसंज्ञकाः संघाताः, तैः परार्थैर्भवितव्यम् / न च पुरुषव्यतिरिक्तो ऽन्यः परो ऽस्ति, पुरुष एव पर इ....न्यतोदृष्टम् //
SKननु महदादिभूतपर्यन्तं शरीरमेव पुरुषो नान्यः कश्चिदित्यत्राह- ऽत्रिगुणादिविपर्ययात्ऽ; इति / आदिशब्देनाविवेक्यादयः पञ्च धर्मा दृश्यन्ते / तथा हि तद्विपरीतः पुमानित्युक्तम् / ततश्च तद्विपरीतत्वात्पुंसः कथं महदादिमात्रमेव पुरुषः / तस्माद्व्यतिरिक्तः पुरुषो यस्यार्थका इमे संघाताः //
SKऽअधिष्ठानात्ऽ; इति / अधितिष्ठत्यस्मिन्नित्यधिष्ठानम् / महदादिभूतपर्यन्तं शरीरमिह लोके यदधिष्ठानं तत्पराधिष्ठितं दृष्टम्, यथा रथादि / दृश्यते चाधिष्ठानं शरीरम् / तस्मादस्याधिष्ठात्रा भवितव्यम् / यो ऽसावधिष्ठाता स पुरुषः, नान्तःकरणमधिष्ठातृ, तस्याचेतनत्वादिति सामान्यतोदृष्टम् //
SKऽभोक्तृभावात्ऽ; इति / भोक्तृत्वादित्यर्थः / इह लोके भोग्यं दृष्ट्वा भोक्तानुमीयते / दृश्यते महदादिपर्यन्तं भोग्यम्, तस्मादस्यापि भोक्त्रा भवितव्यमिति सामान्यतोदृष्टम् / न चान्तःकरणं भोक्तृ, तस्याचेतनत्वाद्भोग्यत्वाच्च / यश्च भोक्ता स एव पुरुषः सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् / अस्मिन् देधे यो ऽयमात्मा समानजातीयानेकवस्त्वन्तरसहायः, प्रतिनियतैर्जन्मादिभिर्युज्यमानत्वात् मनोवत् //
SKऽकैवल्यार्थं प्रवृत्तेश्चऽ; इति / कैवल्यं मोक्षः / तदन्यार्थप्रधानस्यैषा प्रवृत्तिः / तथाहि- प्रधानं बुद्ध्यात्मना परिणमति / बुद्धेश्चाष्टादशानि / तेषु च ज्ञानं कैवल्यम् / तत्र यदि पुरुषो न स्यात्तदा तदर्था प्रवृत्तिर्न भवेत् / तस्मादन्यथानुपपत्त्या पुरुषो ऽस्ति //
SKतत्र सिद्धे पुंसि विवादाः / एक एवायं पुरुषः सर्वशरीरेषु स्थित इत्येके / सर्वे काय उपनतानेकात्मानस्सात्मकत्वात्, योगिशरीरवृंद.. प्रतिशरीरमनेकः पुरुष इत्यपरे / एक एव पुराणः पुरुषः, तस्मादग्नेस..विष्फुलिङ्गाः प्रतिशरीरं पुरुषा आबिर्भूता इति वेदान्तवादिनः
SKजननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च / पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव // ISक्_१८ //
SKऽजननमरणकरणानाम्ऽ; इत्यादि / करणं चक्षुरादीन्द्रियम् देहेन्द्रियादेरधिष्ठानस्योत्पत्तिविनाशौ / तद्योगात्पुरुषः जननमरणे ऽपि व्यवस्थाप्येते / स्वतः पुरुषस्य ते न सम्भवतः / कुतः ? - नित्यतात् तत्र यद्येकः पुरुषः स्यात्तदैकस्मिन् जायमाने म्रियमाणे वा सर्वेषां जननमरणे स्याताम् / तथैकस्मिंश्चक्षुष्मति श्रोत्रवति वा सर्वे ऽन्धा (बधिरा वा, पश्येयुः श्रुणुयुर्वा / एकस्मिन्नन्धे) बधिरे वा तथा स्युः / न चैवम्, जननादीनां प्रतिनियमात् / तस्मादन्यथानुपपत्त्या पुरुषबहुत्वं सिद्धम् //
SKऽअयुगपत्प्रवृत्तेश्चऽ; इति / यद्येकः पुरुषः स्यात्तदैकेनाधिष्ठात्रा तिष्ठति देहे, धर्माधर्मयोरर्थानर्थयोः सुखदुःखयोर्वा प्रवृत्ते, सर्व एव युगपत्प्रवर्त्तेरन् / न चैवमित्यन्यथानुपपत्तिः //
SKऽत्रैगुण्यविपर्ययाच्चऽ; इति / त्रय एव गुणास्त्रैगुण्यम् / तद् विपर्ययो ऽन्यथात्वम् / अधिष्ठानस्य त्रिगुणात्मकत्वात्तद्योगात्पुरुषो ऽपि त्रिगुणात्मक इत्युच्यते / तत्र यद्येकः पुरुषः स्यात्तदैकस्मिन् सात्त्विके राजसे तामसे वा, सर्व एव तथाविधाः स्युः / न चैवम्, गुणानं विपर्ययदर्शनदित्यन्यथानुपपत्तिः //
SKपुराणपुरुषादग्नेरिव विष्फुलिङ्गाः प्रतिशरीरं पुरुषा इत्यस्मिन्नपि दर्शने पुरुषबहुत्वमस्त्येव / तेषां परस्परविलक्षणत्वात् ते पुराणपुरुषादभिन्ना भिन्ना वेति दर्शनद्वयम् / तदन्यत्र विवारितत्वादिह ग्रन्थगौरवभयान्नोपन्यस्तमस्माभिरिति
SKकारिका १९ एवं पुरुषबहुत्वं प्रसाद्ध्य तद्धर्मान् कथयितुमाह-
SKतस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य / कैवल्यम्माध्यस्थं द्रष्टृत्वमकर्तृभावश्च // ISक्_१९ //
SKऽतस्माच्च विपर्यासात्ऽ; इत्यादि / यः प्रागुक्तो विपर्ययः- त्रिगुणमविवेकि विषयः - इत्यादिना, तस्मात्साक्षित्वादयो धर्माः पुरुषस्य सिद्धाः / तत्र निर्गुणस्य पुरुषस्याप्रसवधर्मित्वादकर्तृत्वम् / यश्चाकर्ता स भवत्युदासीनः / सप्तविधं चास्यौदासीन्यम् / तथा चोक्तम् - पश्यति शृणोति सर्वम करोति स्थितिं प्रसङ्गं च नापि / स्वतो न परतो...नोभयतश्चाप्युदासीनः // इति //
SKयश्चोदासीनः स साक्ष्यपि भवति प्रधानसम्बन्धिनः क्रियाकलापस्य निर्गुणत्वात् //
SKकैवल्यं केवलभावात् चेतनत्वाच्च द्रष्टृत्वमिति //
SKननु च यद्यकर्ता तत्कथं- भोक्तृभावादस्ति पुरुषः- ? तथा चाहुः- बालहुताशनतरवः स्वयमकृतानां यथा हि भोक्तारः / पुरुषो ऽपि विषयफलानां स्वयमकृतानां तथापि भोक्ता // इति //
SKइत्युक्तमकर्तुरपि भोक्तृत्वमस्येति
SKननु च यद्यचेतनमव्यक्तं कथं देहेन्द्रियसंज्ञमधिष्ठानं धर्माधर्मादिषु प्रवर्त्तते, तस्याचेतनत्वादित्याह-
SKतस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् / गुणकर्तृत्वे ऽपि तथा कर्तेव भवत्युदासीनः // ISक्_२० //
SKऽतस्मात्तत्संयोगात्ऽ; इत्यादि / तेन पुरुषेण यः संयोगस्तस्मादचेतनं चेतनावदिव भवति / यथाग्निसंयोगाल्लोहमणिरित्युच्यते / लिङ्गं महदादिसूक्ष्मपर्यन्तं वक्ष्यति //
SKयदि तदेव त्रिगुणात्मकं कर्तृ न पुमान्, कथं पुरुषो गच्छतीत्युच्यत इत्याह- ऽगुणकर्तृत्वे ऽपि तथा कर्तेव भवत्युदासीनःऽ; इति / गुणानां कर्तृत्वं न पुरुषस्य / यथा पुरुषसंयोगादचेतनं लिङ्गं चेतनावदिव भवति, तथा गुणात्मकलिङ्गसंयोगादकर्तापि सन् कर्तेव भवति / उदासीनः / यथा स्वामी स्वयमयोद्धापि यौधभृत्यसंयोगाद् योद्धेति व्यपदिश्यते, तथा पुरुषो ऽप्युपचारेण कर्तेति / तथा चोक्तम् - प्रवर्त्तमानान् प्रकृतेरिमान् गुणांस्तमो ऽभिभूतो विपरीतदर्शनः / अहं करोमीत्यबुधो ऽभिमन्यते तृणस्य कुब्जीकरणे ऽप्यनीश्वरः // इति
SKननु प्रधानपुरुषयोः किं (कर्तृत्वं) चैतन्यार्थमेव संयोगः, किं वान्यार्थमपीत्याह- पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य / पंग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः // ISक्_२१ //
SKऽपुरुषस्यऽ; इत्यादि / पुरुषस्यार्थो द्विविधः, विषयोपभोगः कैवल्यं च / तदुभयं प्रधानेन सम्पाद्यम् / विषयोपभोगश्च प्रधानविभूतिमन्तरेण न सम्भवति, इति दर्शनार्थं पुरुषः प्रधानेन संयुज्यते / मानं स्वां विभूतिं दर्शयितुमसमर्थात्पुरुषेण संयुज्यते (?) / दृष्ट्वा स सर्वां विभूतिमनुभूय विरसत्वाद् विरक्तः पुरुषः प्रधानेन त्यज्यते / त्यक्तस्य कैवल्यमित्यतो दर्शनार्थं कैवल्यार्थं च द्वयोरपि संयोगो मत्स्योदकवदुदुम्बरमशकश्च //
SKऽपंग्वन्धवत्ऽ; इति / दृष्टान्तः / पङ्गुः सचक्षुः पश्यति पन्थानं न संचरति, अन्धो ऽपि संचरति न पश्यति पन्थानम् / तयोः स्वार्थभ्रष्टयोर्ग्रामप्राप्त्यर्थः सम्बन्धो भूतः / तत्र पङ्गुरन्धस्कन्धमारुह्य गतिमान्, अन्धो ऽपि द्रष्ट्रधिष्ठानाद्दृष्टिमान् जातः / ग्रामप्राप्तयोश्च तयोर्वियोगः / एवं पुरुषो निष्क्रियः प्रधानेन संयुज्य तद्विभूतिदर्शनाय देवादिषु संचरति / प्रधानं निश्चेतनमपि पुरुषाधिष्ठानाच्चेतनावदिव द्वयमपि सम्पादयति / तस्मात्पंग्वन्धवदुभयोरपि संयोगः //
SKननु च संयोगमात्रेण कथं दर्शनं कैवल्यं चेत्याह- ऽतत्कृतः सर्गःऽ; इति / संयोगकृतो महदादिग्रामोत्पाद इत्यर्थः
SKप्रकृतेर्महांस्ततो ऽहङ्कारस्तस्माद्गणश्च षोडशकः / तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि // ISक्_२२ //
SKऽप्रकृतेर्महान्ऽ; इत्यादि / प्रकृतिः प्रधानं कारणमव्यक्तं गुणसाम्यं तमोबहुलमव्याकृतमिति प्रकृतिपर्यायाः / ततो महानुत्पद्यते स तु तमोबहुलः / महान् बुद्धिर्मतिः प्रत्यय उपलब्धिरिति बुद्धिपर्यायाः / ततो ऽहङ्कार उत्पद्यते / स तु रजस्तमोबहुलः / अहङ्कारः सुपर्णपणि(!)स्तत्पुरुष इत्यहङ्कारपर्यायाः //
SKऽतस्माद्गणश्च षोडशकःऽ; इति / तस्मादहङ्कारात् षोडशको गण उत्पद्यते / एकादशेन्द्रियाणि पञ्च तन्मात्राणीत्यर्थः / तानि हृषीकाणीन्द्रियाणीति पर्यायाः / सूक्ष्मा अतिशया अणवः (विषा) इति तन्मात्रपर्यायाः //
SKऽतस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानिऽ; इति / षोडशाद् गणाद्यानि पञ्च तन्मात्राणि तेभ्य एकोत्तरवृद्ध्या पञ्च महाभूतानि भवन्ति / तत्र शब्दतन्मात्रादाकाशमेकगुणम् / शब्दतन्मात्रप्रतिसंहितात् स्पर्शतन्मात्राद्द्विगुणो वायुः / ताभ्यां प्रतिसंहिताद्रूपतन्मात्रात् त्रिगुणं तेजः / तैः प्रतिसंहिताद्रसतन्मात्रात् चतुर्गुणा आपः / चतुर्भिः प्रतिसंहिताद्गन्धतन्मात्रात् पञ्चगुणा पृथिवीति / एतैरेकादशादयः स्थूला विशेषा उच्यन्ते, येष्ववसितानि चतुर्विंशतितत्त्वानि
SKअध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् / सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् // ISक्_२३ //
SKऽअध्यवसायःऽ; इत्यादि / शब्दादिषु विषये ऽध्यवसायशब्दो ऽयं यावत् गन्धो ऽयमिति सुबुद्धेर्लक्षणम् (?) / तस्याश्चाष्टौ रूपाणि //
SKऽधर्मो ज्ञानं विराग ऐश्वर्यम्ऽ; इति / तत्र यो ऽयमनिविषयमनुष्ठानात्मको ऽधवसायस्स धर्मः / यमाः पञ्च नियमाश्च / यथोक्तं सांख्यप्रवचने ऽअहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाःऽ; / ऽशौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाःऽ; इति / तत्र सन्तोषस्सनिहितसाधनाभ्याशादधिकस्यानुपादित्सा / तपो जिघत्सापिपासाशीतोष्णस्थानसाधनाजयः काष्ठमौनाकारमौने, व्रतानि च कृच्छ्रचान्द्रायणादीनि / स्वाध्यायो मोक्षशास्त्राध्ययनं प्रणवजपो वा / ईश्वरप्रणिधानं विशिष्टदेवताराधनम् / असंसारिभिस्तुल्यवृत्तित्वादिति / तद्विपरीतानुष्ठानमधर्मः / पञ्चविंशतितत्त्वानां स्वसंज्ञालाक्षण्यकत्वप्रयोजनावधारणं ज्ञानम्, गुणपुरुषान्तरज्ञानम् / शेषमज्ञानम् / विषयशरीरेन्द्रियेभ्यो दोषदर्शनाद्वैमुख्यं विरागः / तेष्वभिलाषो रागः / ऐश्वर्यमष्टगुणम्- अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यम्, ईशित्वं, वशित्वम्, यत्रकामावसायित्वं चेति / तत्राणिमाणुत्वम्, येन गुणेन सूक्ष्मो भूत्वा विचरति / कार्ये कारणोपचारादणिमेत्युच्यते / उत्तरत्राप्येवं योज्यम् / लघिमा लघुत्वम्, येन वायुवल्लघुतरो भवति / महिमा महत्त्वम्, येन भुवनेषु धर्मादिप्राप्तिः, येन गुणेनेषितस्य प्रापणम् / प्राकाम्यं प्रचुरकामिता येनैकमनेकं प्राकाम्यते ऽनेकं चैकम् / ईशित्वं प्रभुता (येन स्थावरादीनि भूतानि सन्देशकारीणि भवन्ति / वशित्वं वशिता) येन स्वतन्त्रश्चरति / यत्रकामावशायित्वं (कामेनेच्छयावशेतुं शीलं यस्य स यत्रकामावशायी / तस्य भावः यत्रकामावशायित्वम्) / अनेकार्थत्वाद्धातूनां ऽशीऽ; तिष्ठतौ वर्त्तते / येन गुणेन दिव्यन्तरिक्षे भूमौ वावस्थायित्वमित्यर्थः / ऽसात्त्विकमेतद्रूपम्ऽ; इति / सत्त्वतमोबहुलत्वात् / बुद्धेर्यदा सत्त्वमुत्कटं भवति तदैतच्चतुष्टयं भवतीत्यर्थः / ऽतामसमस्माद्विपर्यस्तम्ऽ; इति / उत्कटलक्षणात् धर्मादिचतुष्टयाद्विपरीतं तमस्युद्रिक्ते भवतीत्यर्थः / अधर्मो ऽज्ञानमवैराग्यमनैश्वर्यं चेति
SKअहङ्कारलक्षणमाह- अभिमानो ऽहङ्कारः, तस्माद्द्विविधः प्रवर्त्तते सर्गः / एकादशश्च गणस्तन्मात्रपञ्चकश्चैव // ISक्_२४ //
SKऽअभिमानःऽ; इत्यादि / अभिमतिरभिमानः / रूपादिषु विषयेष्वभिमानो रूपवानहम्, ममैते विषयाः, इत्यह्यङ्कारलक्षणम् //
SKतस्मादभिमानलक्षणादहङ्कारात् ऽद्विविधः प्रवर्त्तते सर्गःऽ; इति / सृज्यत इति सर्गः //
SKतमेव द्विविधं दर्शयितुमाह- ऽएकादशकश्च गणःऽ; इति / एकादश परिमाणमस्येत्येकादशः श्रोत्रादिर्गणः //
SKऽतन्मात्रापञ्चकं चऽ; इति / तन्मात्रशब्दादिस्वरूपमात्र इत्यर्थः / तन्मात्राणि शब्दस्पर्शरूपरसगन्धाः / मात्राग्रहणं भूतसंश्लेषनिवृत्त्यर्थम् / भूतेष्वपि शब्दादिसम्भवात्
SKस चाहङ्कारस्त्रिविध इति दर्शयन्नाह- सात्त्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात् / भूतादेस्तन्मात्रः स तामसः, तैजसादुभयम् // ISक्_२५ //
SKऽसात्त्विकःऽ; इत्यादि / यदा सत्त्वमुद्रिक्तं तदाहङ्कारो वैकृताभिमानो भवति, रजश्चोद्रिक्तं तैजसः, तमश्चोद्रिक्तं भूतादिरिति / तत्र वैकृतादेकादशको गणः प्रवर्त्तते / स च सात्त्विकः सत्त्वबहुलः, स्वविषयग्रहणत्वात् //
SKभूतादेस्तामसादहङ्कारात्तन्मात्रः स तामसः, तमोबहुलत्वात् / ततस्तामसात्तन्मात्रात् गणात् तामसो भूतगणः प्रवर्त्तते //
SK(ऽतैजसादुभयम्ऽ; इति / एतदाशयः- पञ्चकञ्चैतदुभयमपि प्रवर्त्तते) / आदिकाल उभयत्राप्यस्य सहायत्वात् / वैकृतभूतादि द्वावपि प्रकाशस्थितिशीलत्वात् न क्रियाशीले / ततस्तैजसमहङ्कारं क्रियाशीलं सहायमपेक्ष्यैकादशकं पञ्चकं च मलाजनयत (?) इति
SKकः पुनरेकादश इत्याह-
SKबुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि / वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः // ISक्_२६ //
SKऽबुद्धीन्द्रियाणिऽ; इत्यादि / द्विविधमिन्द्रियम् / तत्र चक्षुर्येन दृश्यते / श्रोत्रं येन श्रूयते / त्वग्यया स्पृश्यते / रसनं येन रस्यते / नासिका यया घ्रायते / ता आख्या येषामिन्द्रियाणामिति शब्दप्रधानो निर्देशः / तानि चक्षुःश्रोत्रत्वग्रसनानासिकाख्यानि पञ्च / बुद्धिपूर्वकपर्यालोचनमिति बुद्धीन्द्रियाण्याहुः सांख्याचार्याः / शब्दवशादत्राक्रमः कृतः / क्रमस्तु श्रोत्रत्वक्चक्षुरिति //
SKऽवाक्पाणिपादपायूपस्थान्ऽ; इति / कर्मेन्द्रियाणि कर्माभिनिर्वर्तनात् / अस्मादेव प्रयोगादुपस्थशब्दः पुंलिङ्गो ऽप्यस्तीति ज्ञायते / स च स्त्रैणः पौरुषेयश्च / तत्र वागिन्द्रियं कण्ठस्थम् / अन्यानि प्रसिद्धान्येव
SKएकादशकमिन्द्रियं दर्शयन्नाह-
SKउभयात्मकमत्र मनः, सङ्कल्पकमिन्द्रियं च साधर्म्यात् / गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च // ISक्_२७ //
SKऽउभयात्मकमत्र मनःऽ; इत्यादि / अत्रेत्यस्मिन्निन्द्रियवशे मन उभयात्मकमुभयस्वभावम् / बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च स्वस्वविषयग्रहणकाले बुद्धीन्द्रियं कर्मेन्द्रियं चेत्यर्थः / उभयत्राप्यस्य व्यापारादिति लक्षणं तदित्याह- सङ्कल्पयतीति सङ्कल्पकम्, इदं नेदमिति //
SKकथमिन्द्रियमित्याह- ऽइन्द्रियं च साधर्म्यात्ऽ; इत्यादि / इन्द्रियैस्तुल्यत्वादित्यर्थः / यथान्यदिन्द्रलिङ्गं तथा मनो ऽपीत्यर्थः //
SKतत्रैकस्मादहङ्कारादुत्पन्नानां कथं स्वरूपभेदः ? / यच्छ्रोत्रादिबुद्धीन्द्रियम्, तत् प्रतिनियतविषयं नेतरविषयमपि / यद्यागादि कर्मेन्द्रियं तत् प्रतिनियतकर्म, नेतरकर्मापि / मनश्चोभयात्मकम्, नैकात्मकमित्याह- ऽगुणपरिणामविशेषान्नानात्वम्ऽ; इति / अहङ्कारस्था ये गुणाः सत्त्वादयस्तेषामन्यो ऽन्याभिभवाश्रया (द्विद्वारेण यः परिणामविशेषस्तत एवैषां नानात्वम् / त एव हि गुणाः परि)णामविशिष्टा इन्द्रियव्यपदेशभाजो नानाविषया भवन्ति / कथं देशनियमो वृत्तिनियमश्च ? तत्र त्वगिन्द्रियं सर्वशरीरस्थितबाह्याभ्यन्तरवृत्ति, चक्षुःश्रोत्रघ्राणरसनानि शिरसि बहिः पृथक् पृथगवस्थितानि बाह्यवृत्तीनि / वागास्ये स्थिता / पाण्यादयश्च बाहोरधस्तात् पृथक् पृथगवस्थिता बहिःकर्मविषयाः //
SKइत्यताह- ऽबाह्यभेदाश्चऽ; इति / ये चान्ये विषयभेदा देशनियमवृतिनियमाभ्यां ते ऽपि गुणपरिणामविशेषादेव / नात्रान्तरा कारणमस्ति
SKएषामिन्द्रियाणां कस्य का वृत्तिरित्याह-
SKशब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः / वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् // ISक्_२८ //
SKऽशब्दादिषुऽ; इत्यादि / आदिशब्देन शब्दस्पर्शरूपरसगन्धाः / तेषु यथाक्रमं पञ्चानां श्रोत्रादीनां बुद्धीन्द्रियाणामालोचनमात्रं वृत्तिरिष्यते सांख्याचार्यैः / श्रोत्रादीनि हि विषयस्य प्रकाशनमात्रं कुर्वन्ति, निश्चयं तु बुद्धिः / तथा हि बुद्ध्यवसितमर्थं पुरुषः चेतयत इति सिद्धान्तः / कर्मेन्द्रियाणामपि वागादीनां यथाक्रमं वसनादानादीनि वृत्तयः कर्माणि / तत्र वागिन्द्रियस्य नानाविधवर्णोच्चारणं कर्म, आदेयस्यादानं पाण्योः, विहरणं देशान्तरगमनं पादयोः, उत्सर्ग आहारमलस्योत्सर्जनं पायोः, आनन्दनमानदो ह्लादः शुक्रविसृष्टिसंसृष्टिसुखं तदुपस्थेन्द्रियवृत्तिः
SKबुद्ध्यहङ्कारमनसां का वृत्तिरित्याह-
SKस्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या / सामान्यकरणवृतिः प्राणाद्या वायवः पञ्च // ISक्_२९ //
SKऽस्वालक्षण्यं वृत्तिःऽ; इत्यादि / स्वात्मीयं लक्षणं यस्य तत् स्वलक्षणम् / तस्य भावः स्वालक्षण्यम् / तदेव वृत्तिः //
SKऽत्रयस्यऽ; इति / बुद्ध्यहङ्कारमनसामित्यर्थः / अध्यवसायो बुद्धेः, अभिमानो ऽहङ्कारस्य, सङ्कल्पो मनसः / त एवाध्यवसायाभिमानसङ्कल्पास्त्रयस्य वृत्तिः / एषां च बुद्ध्यादीनां त्रयोदशानां चतुर्विधा वृत्तिः, असामान्यायुगपत्क्रमश्चेति (?) //
SKतत्र सामान्यां दर्शयितुमाह- ऽसैषाऽ; इति / येयमुक्ता वृत्तिः सैषा भवत्यसामान्या / या यस्य सा तस्यैव नान्येषामपीत्यर्थः / श्रोत्रस्य यच्छब्दप्रकाशनं तच्छ्रोत्रस्यैव, नान्येषां त्वगादीनां द्वादशानाम् / एवं सर्वत्र योज्यम् //
SKसामान्यामाह- ऽसामान्यकरणवृत्तिःऽ; इति सामान्या चासौ करणवृत्तिश्चेति सामान्यकरणवृत्तिः //
SKऽप्राणाद्या वायवः पञ्चऽ; इति / प्राणा आद्या येषां वायूनां ते प्राणाद्याः / प्राणापानव्यानोदानसमाना इति पञ्च वायवः / तत्र प्राणो यो मुखनासिकाभ्यां निर्गच्छति / यो नाभेरधः स्थितः सो ऽपानः / येन काये ऽग्निर्दीपित आहारं च पचति स समानः / यो नाभिदेशादुद्यतशिरोगतिर्नादं जनयति स उदानः / यः सर्वशरीरं व्याप्य स्थितं स व्यानः / एते त्रयोदशानामपि करणानां सामान्यवृत्तिः
SKकरणप्रभाविकत्वाद्वायूनां युगपत्क्रमशो वृत्तिमाह-
SKयुगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च निर्दिष्टा / दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः // ISक्_३० //
SKऽयुगपत्ऽ; इत्यादि / ऽचतुष्टयस्य तुऽ; इति / तुशब्दो विशेषणार्थः / बुद्धिरहङ्कारो मनश्चक्षुरित्येतस्य चतुष्टयस्यैकस्मिन् रूपे युगपद्वृत्तिः / यथान्धकारे विद्युत्संपाते कृष्णसर्पसन्दर्शने युगपदालोचनाध्यवसायाभिमानसङ्कल्पनानि भवन्ति / तथा हि चक्षुषालोचितं बुद्ध्याध्यवसितमहङ्कारेणात्मीकृतं मनसा सङ्कल्पितमिति //
SKऽक्रमशश्च तस्यऽ; इति / चतुष्टस्यस्य क्रमेण कदाचिद्वृत्तिरिष्टा / मन्दप्रकाशे स्थाणुपुरुषोचितामूर्ध्वतां दृष्टवतः किं स्थाणुः पुरुष इति विकल्पः / तत्राकुञ्चपनप्रसारणात् पुरुष इत्यध्यवसायः / तत आत्मीकरणादभिमान इति //
SKयेय(मुभय)थावृत्तिः सा कस्मिन् विषय इत्याह - ऽदृष्टेऽ; इति / अदृष्टे तर्ह नास्तीत्याह - ऽतथाप्यदृष्टेऽ; इति / तथा...ष्टे दृष्टे ऽपि वृत्तिः //
SKकिन्तु न चतुष्टयस्य तर्हीत्याह- ऽत्रयस्यऽ; इति / बुद्ध्यहङ्कारमनसामित्यर्थः / तत्रापि तत्पूर्विका श्रोत्रादिपूर्विकेत्यर्थः / यथा स्मर्तव्यमनुस्मरतः सङ्कल्पाभिमानाध्यवसाया भवन्ति
SKअथ यदेतच्चतुष्टयं तत्किं युगपत् परस्परसव्यपेक्षं स्वां स्वां वृतिं प्रतिपद्यते किं वा निरपेक्षमित्याह- स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहैतुकीं वृत्तिम् / पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् // ISक्_३१ //
SKऽस्वां स्वाम्ऽ; इत्यादि / आत्मीयात्मीयां वृत्तिम् //
SKऽपरस्पराकूतहैतुकीम्ऽ; इति / परस्परस्य यदाकूतं स्ववृत्तिभोगस्तदेव हेतुः / तत्र भूतां परस्पराकूतहैतुकीं वृत्तिं चत्वारि करणानि प्रतिपद्यन्ते / तत्र चक्षुर्बुद्ध्यादित्रयस्याकूतं ज्ञात्वा प्रकाशनं प्रतिपद्यते / एवं बुद्धिरहङ्कारो मनश्च त्रयाणामाकूतं ज्ञात्वा ऽध्यवसायमभिमानं सङ्कल्पनं च प्रतिपद्यन्ते / क्रमशश्च परस्पराकूतहैतुकीम् / किन्तु पूर्वपूर्वहैतुकी द्रष्टव्या / यथा कस्यचिदुपनिमन्त्रणं श्रुतवतः श्रोत्रवृत्तिं ज्ञात्वा, बुद्धिर्गमनायाध्यवसिता / तद्वृत्तिं ज्ञात्वा ऽहङ्कारो मोदकानहं भक्षयिष्यामीति मन्यते / तद्वृत्तिं ज्ञात्वा मनः, प्रचुरं घृतं प्रापयिष्यामीति किं स्तोकमिति, सङ्कल्पयतीति / एवं बाह्यान्यपि करणानि स्वां स्वां वृत्तिं परस्पराकूतहैतुकीं प्रतिपद्यन्ते //
SKएतानि किमात्मार्थं स्वां स्वां वृत्तिं प्रतिपद्यन्ते, किमन्यार्थमित्याह- ऽपुरुषार्थ एव हेतुःऽ; इति / पुरुषस्यार्थो विषयोपभोगः कैवल्यं च, स वृत्तिहेतुः //
SKनन्वीश्वरः कर्ता जगतः, स एव बुद्ध्यादिकलापं सृष्टवान् येन पुरुषस्यार्थः सम्पद्यते / तथा चोक्तम्- ऽईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वाऽ; / इति तत्राह - ऽन केनचित्कार्यते करणम्ऽ; इति / प्रधानव्यतिरेकेण न कश्चिद्बुद्ध्यादिकरणं स्वां स्वां वृत्तिं कारयतीत्यर्थः / यदि कर्ता स्यात्, किमिति प्रकृतिमपेक्षते / नापि सेश्वरवादिना प्रकृतिरभ्युपगतैव, निश्चेतनत्वात् प्रकृतेः सचेतनो ऽधिष्ठाता कर्ता ऽपरो गवेष्यत इति चेत्, पुरुष एवाधिष्ठाता / अचेतना प्रकृतिः / एतदुक्तमेव प्राक्
SKकतिविधमन्तःकरणमित्याह-
SKकरणं त्रयोदशविधम्, तदाहरणधारणप्रकाशकरम् / कार्यं च तस्य दशधा, हार्यं धार्यं प्रकाश्यं च // ISक्_३२ //
SKऽकरणं त्रयोदशविधम्ऽ; इत्यादि / पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, बुद्ध्यहङ्कारमनांसि च त्रीणि / एतत् त्रयोदशविधम् / करणं करोतीति / ऽकृत्यल्युटो बहुलम्ऽ; इति कर्तरि ल्युट् //
SKतत्र कस्य का क्रिया यदपेक्षया करणमित्याह- ऽतदाहरणधारणप्रकाशकरम्ऽ; / इति तत्करणमाहरणादीनि करोतीति / तत्र कर्मेन्द्रियाण्याहरणं कुर्वन्ति, बुद्ध्यहङ्कारमनांसि धारणम्, बुद्धीन्द्रियाणि प्रकाशमिति //
SKकिं तत्कार्यं यस्याहरणं कुर्वन्तीत्याह- ऽकार्यम्ऽ; इति / तस्य करणस्य दशविधं कार्यम् / तत्र शब्दस्पर्शरूपरसगन्धाः पञ्च वचनादानविहरणोत्सर्गानन्दाः पञ्चेति दशधा / पूर्वे द्विविधाः- सूक्ष्मास्तन्मात्रलक्षणाः सुखैकस्वभावत्वाद्दिव्याः, स्थूला आकाशादयः सुखदुःखमोहत्मकत्वाददिव्या इति / एतत्कार्यं बुद्धीन्द्रियाणां प्रकाश्यम् / वागादीनामुक्त्यादानादिकर्मकर्तृत्वात् कार्यम् (?) / तत्र वाचा शब्दस्य, पाणिभ्यामादेयस्याह्रियमाणत्वादुभयमप्याहार्यम् // विहार्यं विहरणस्थानम्, पूर्वावयवन्यासेनोत्तरावयवाक्रमणेन च पादाभ्यामाह्रियमाणत्वादाहार्यम् / अन्यथा कथमुत्सर्गानन्दौ स्याताम् / उभयमपि कर्मेन्द्रियाविषयम् / बुद्ध्यहङ्कारमनसां धार्यम्, तैरन्तः स्ववृत्त्यावधार्यमाणत्वात्
SKतदेव त्रयोदशविधं करणं बाह्यान्तरभेदाद्द्विविधमिति दर्शयन्नाह-
SKअन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् / साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् // ISक्_३३ //
SKऽअन्तःकरणम्ऽ; इत्यादि / करणं द्विविधम्- बाह्यमाभ्यन्तरं च / तत्र शरीरस्यान्तःस्थितत्वादन्तःकरणं त्रिविधम्- बुद्धिरहङ्कारोमनश्चेति //
SKऽदशधा बाह्यम्ऽ; इति / दशप्रकारम् / पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्दियाणि / तद्बुद्धिर्भवति //
SKतद्बाह्यं ऽत्रयस्य विषयाख्यम्ऽ; इति / त्र्यवयवस्यान्तःकरणस्य बाह्यं विषय इत्याख्यायते, तद्द्वारेण विषयावगाहनात् / तेनान्तःकरणस्य द्विविधो विषयः- द्वारं भोग्यं चेति / चतुष्टयस्य दृष्टेर्वर्तमाने त्रयस्यादृष्टे वृत्तिरुक्ता //
SKतत्रातीतानागतयोरपि विषययोः किं वृत्तिरस्ति, नेत्याह- ऽसाम्प्रतकालं बाह्यम्ऽ; इति / कल्यत इति कालः विषय एवातीतो ऽनागतो वर्तमानोश्चोच्यते / न तद्व्यतिरेकेण कालो ऽस्ति / मा भूत् षड्विंशतितत्त्वप्रसङ्ग इति / तत्र साम्प्रतो वर्तमानः कालो यस्य बाह्यस्य तद्धि बाह्यम् / श्रोत्रादि वर्तमानमेव शब्दादिकं प्रकाशयति, नातीतानागते / वागादि च वर्तमानमेवोक्त्यादानविहरणोत्सर्गानन्दान् करोति, नातीतानागतान् //
SKऽत्रिकालमाभ्यन्तरम्ऽ; इति / त्रयः काला यस्य तत् त्रिकालम् / यथा बुद्धिर्वर्तमानमध्यवस्यति / तथातीतानागतावपि / मान्धातासीत् कल्की राजा भविष्यतीति / यथाहङ्कारो वर्तमानमभिमन्यते तथातीतानागतावपि / ममैवमासीत्, ममैवं भविष्यतीति / यथा च मनो वर्तमानं सङ्कल्पयतीति तथातीतानागतावपि / तत्र किमिदं भूतं स्यात्, न ममेति / किमिदं भविष्यति, नेतीति
SKननु च यदि स्थूलाः पृथिव्यादयस्ते विशेषाः / बाह्यं बाह्यकरणं स्वविषयं प्रतिपद्यते / पृथिव्यादयस्तर्हि भेदेन प्रतिपत्तव्या इत्याह-
SKबुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयीणि / वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयीणि // ISक्_३४ //
SKऽबुद्धीन्द्रियाणिऽ; इत्यादि / तेषामपि त्रयोदशानां करणानां यानि पञ्च बुद्धीन्द्रियाणि, तानि विशेषाविशेषविषयीणि / शब्दादयः पञ्च विषया द्विविधाः - विशेषा अविशेषाश्च / तत्र ये सूक्ष्मास्तन्मात्रलक्षणास्ते ऽविशेषाः / ये स्थूलाः पृथिव्यादयस्ते विशेषाः / विशेषाश्चाविशेषाश्चेति द्वंद्वः / त एव विषया विद्यन्ते येषामिति मत्वर्थोपः / विशिष्टानविशिष्टांश्च विषयान् गृह्यन्तीत्यर्थः / तत्र श्रोत्रं स्थूलान् नानाशब्दानविकलान् गृह्णाति, शब्दतन्मात्रं च / नासिका स्थूलान् सुरभ्यादिगन्धान्, तन्मात्रं च गृह्णातीति //
SKऽवाग्भवतिऽ; / केवलः शब्दो विषयो यस्याः, न विषयान्तरमित्यर्थः // शेषाणि पाण्यादीनि चत्वारि, पञ्च विषयीणि / पञ्च विषया एषामिति / तत्र पाणिः शब्दस्पर्शरूपरसवन्तं घटादिकमादत्ते / पादौ शब्दादिमत्यां भूमौ विहरतः / पायुरुपस्थश्च शब्दादिमदेव मलं शुक्रं च विसृजति / अनेन द्वारेण तु सर्वं बाह्यं करणं पञ्चविषयमेव द्रष्टव्यम् / यं हि यदेवमाश्रित्य (?) स्फीतं तस्य शब्दस्पर्शरूपरसगन्धवत्त्वात्, ऽबाह्यं त्रयस्य विषयाख्यम्ऽ; इत्युक्तम्
SKतत्कथं तस्य विषय इत्याह- सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् / तस्मात् त्रिविधं करणं द्वारि, द्वाराणि शेषाणि // ISक्_३५ //
SKऽसान्तःकरणाऽ; इत्यादि / बुद्धेरुपात्तत्वाच्छेषमहङ्कारो मनश्चान्तःकरणम् / ताभ्यां युक्ता बुद्धिः //
SKऽसर्वम्ऽ; इति / त्रिष्वपि कालेषु व्यवस्थितं विषयमवगाहते गृह्णाति यस्मात् , तस्मात् त्रिविधमन्तःकरणं बुद्ध्यादि द्वारि भवति / द्वाराण्यस्य सन्तीति कृत्वा / शेषाणि तु बुद्धीयकर्मेन्द्रियाणि (?) द्वाराणि / एभिर्द्वारभूतैरन्तःकरणं विषयान् गृह्णाति
SKननु च यद्यन्तःकरणं बाह्यकरणद्वारेण सर्वं विषयमवगाहते, तस्मिन् किं लक्षणमित्याह-
SKएते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः / कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति // ISक्_३६ //
SKऽएतेऽ; इत्यादि / श्रोत्रादयो वागादयो बुद्ध्यादयश्चेत्येते त्रयोदश गुणविशेषाः, त्रय एव गुणा अन्यो ऽन्याभिभवद्वारेण परिणताः श्रोत्रादिव्यपदेशभाज इत्यर्थः / प्रदीपकल्पाः, स्ववृत्त्या विषयस्य प्रकाशकत्वात् / परस्परविलक्षणाः / एकस्य या वृत्तिः स्वरूपं च, न तदितरेषामपि यदि स्यादेतेनैव विषयावगाहनं सिद्धं किमन्येन //
SKऽकृत्स्नम्ऽ; इति / त्रैलोक्यगतं पुरुषस्यार्थं सूक्ष्मस्थूलविषयलक्षणं प्रकाश्याभिव्यक्तिं नीत्वा पश्चादहङ्कारादयो द्वादश बुद्धौ प्रयच्छन्ति, स्थापयन्तीत्यर्थः / अवगाहनफलमेतत् / तस्यां च विषयोपधानोपरक्त्यां बुद्धौ पुरुष उपलभते / तत्रेदमुच्यते - बुद्ध्याध्यवसितमर्थं पुरुष...त इति
SKननु च तुल्ये करणत्वे किमित्यहङ्कारादयो बुद्धौ प्रयच्छन्ति / प्राधान्यात्तदेव दर्शयन्नाह -
SKसर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः / सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् // ISक्_३७ //
SKऽसर्वम्ऽ; इत्यादि / उपभोगमुपभोगं प्रति प्रत्युपभोगम् / देवमनुष्यतिर्यग्योनिशु यो विषयस्योपभोगस्तं प्रति सर्वं त्रैलोक्यगतविषयं पुरुषस्य साधयति, सम्पादयति / यस्माद्बुद्धिः प्रधानभूता सती नान्यः कश्चित्, तस्मात् तानि करणानि बुद्धौ प्रयच्छन्ति / (यथा ग्रामे हिरण्यादिप्रत्ययं कुटुम्बिनः प्रधानाय प्रयच्छन्ति) / प्रधानो ऽप्यासन्नवर्त्तित्वाद्भोगपतय इति //
SKऽसैव च विशिनष्टिऽ; इति / यदा तमस्वती बुद्धिर्भवति तदा सर्वमुपनीतं सम्पादयति / यदा सत्त्वाधिका बुद्धिर्भवति, तदा ज्ञानसङ्गता प्रधानपुरुषान्तरं विशिनष्टि / प्रधानपुरुषयोर्विभागं करोतीत्यर्थः / अन्यत् प्रधानमन्यः पुरुष इति //
SKऽसूक्ष्मम्ऽ; / सांसारिकज्ञानस्याविषयत्वात्
SKविशेषाविशेषविषयिणीत्युक्तम्, तत्र के विशेषाः के ऽविशेषाश्चेत्यत्राह-
SKतन्मात्राण्यविशेषाः, तेभ्यो भूतानि पञ्च पञ्चभ्यः / एते स्मृता विशेषाः, शान्ता घोराश्च मूढाश्च // ISक्_३८ //
SKऽतन्मात्राणिऽ; इत्यादि / सूक्ष्मविषयास्तन्मात्राणीत्युच्यन्ते / तैर्न कश्चिद्विशिष्यत इत्यविशेषाः / यथा सूक्ष्मतृणाग्रावस्थितं तेजो न लक्ष्यते, न च किञ्चित् प्रकाशयति, तद्वत् ते ऽप्यविशेषाः //
SKऽतेभ्यो भूतानि पञ्च पञ्चभ्यःऽ; इति / तन्मात्रेभ्यः पञ्च महाभूतान्युत्पद्यन्ते //
SKऽएते स्मृता विशेषाःऽ; इति / शब्दतन्मात्रादेकगुणमाकाशमुत्पद्यते / एवं स्पर्शादितन्मात्राद् द्वित्रिचतुःपञ्चगुणा वाय्वादय उत्पद्यन्ते / तैश्च तन्मात्राणि / विशिष्यन्त इति विशेषाः //
SKते च किंस्वरूपा इत्याह- ऽशान्ता घोराश्च मूढाश्चऽ; इति / शान्ताः सुखप्रदाह घोरा दुःखप्रदाः, मूढा मोहप्रदा इति
SKकिमेतावन्त एव विषेषा उतान्ये ऽपीत्याह-
SKसूक्ष्मा मातापितृजाः, सह प्रभूतैस्त्रिधा विशेषाः स्युः / सूक्ष्मास्तेषां नियता, मातापितृजा निवर्तन्ते // ISक्_३९ //
SKऽसूक्ष्माःऽ; इत्यादि / ये सूक्ष्मास्तन्मात्रलक्षणाः संसारिणः शरीरस्याश्रयतां गतास्ते ऽपि विशेषाः, सूक्ष्मशरीरस्यारब्धत्वात् //
SKऽमातापितृजाःऽ; इति / मातापितृजाः षट् / तत्र मातृतो लोमलोहितमांसानि पितृतः स्नाय्वस्थिमज्जानः / ते ऽपि विशेषाः, तैः स्थूलशरीरस्य षट्कोशिकस्यारब्धत्वात् / एते द्विविधा विशेषा आध्यात्मिकाः //
SKऽसहप्रभूतैःऽ; इति / यानि महाभूतानि बाह्यानि शान्तघोरमूढान्युक्तानि तानि स्थूलशरीरस्यावकाशव्यूहनपत्तिक्लेदनधारणकर्तृत्वेन प्रकृष्टभूतान्युच्य्न्ते / तैः सह त्रयो विशेषाः //
SKऽसूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्तेऽ; इति / सूक्ष्मशरीरनियतं ज्ञानप्राप्तेः प्राक्, तस्य सांसरिकत्वात् / स्थूलशरीरनियतं तु निवर्तते, तस्य प्रतिमरणं पतितस्य रसभस्मनिष्ठान्तत्वात्
SKयदेतत् सूक्ष्मशरीरं तत्कथमुत्पन्नमित्याह-
SKपूर्वोत्पन्नमसक्तं नियतम्महदादिसूक्ष्मपर्यन्तम् / संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् // ISक्_४० //
SKऽपूर्वोत्पन्नम्ऽ; इत्यादि / प्रधानेनादिसर्गे प्रतिपुरुषमुत्पादितत्वात् पूर्वोत्पन्नम् / असक्तमप्याह / तन्न क्वचिद्विहन्यते, पर्वतमपि भित्त्वा गच्छति //
SKऽनियतम्ऽ; / नित्यम्, ज्ञानोत्पत्तेः प्रागित्यर्थः //
SKकिंपरिमाणमिदमित्याह- ऽमहदादिसूक्ष्मपर्यन्तम्ऽ; इति / बुद्धिरादिर्यस्य तत्, महदादिसूक्ष्मविषयास्तन्मात्रलक्षणाः पर्यन्तं यस्य तत् सूक्ष्मपर्यन्तम् / बुद्धिरहङ्कार एकादशेन्द्रियाणि पञ्च तन्मात्राणीत्येतत्परिमाणमित्यर्थः //
SKऽसंसरतिऽ; / त्रिषु लोकेषु //
SKऽनिरुपभोगम्ऽ; इति / बाह्येन स्थूलशरीरेण विकलत्वाद्विषयभोगसमर्थं न भवतीत्यर्थः //
SKऽभावैरधिवासितम्ऽ; इति / धर्मादिभिरुपरक्तमित्यर्थः //
SKऽलिङ्गम्ऽ; इतु / प्रलयकाले लयं गच्छतीति कृत्वा
SKननु करणमात्रमेव संसरति, किं सूक्ष्मशरीरेणेत्याह-
SKचित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया / तद्वद्विना ऽविशेषैर्न तिष्ठति निराश्रयं लिङ्गम् // ISक्_४१ //
SKऽचित्रम्ऽ; इत्यादि / यथा कुड्यादिकमाश्रयमृते चित्रं न तिष्ठति //
SKऽस्थाण्वादिभ्यःऽ; इति / आदिशब्देन वृक्षस्तम्बादयः / ऽपृथग्विनानानाभिस्तृतीयान्यतरस्याम्ऽ; इति पञ्चम्यपि भवति / तैर्विना यथा च्छाया स्निग्धा परुषा वा न तिष्ठति //
SKऽतद्वद्विना ऽविशेषैर्न तिष्ठति निराश्रयं लिङ्गम्ऽ; इति / अविशेषास्तन्मात्राणि / लिङ्गं त्रयोदशविधं करणमिह गृह्यते / न तिष्ठति निराश्रयत्वात् / (तैर्हि सूक्ष्मशरीरमारब्धम्, तदभावात्तदपि नास्तीति निराश्रयत्वात्) / न संसरति / न च निराधारेण करणेन पुरुषस्य संयोगः सम्भवति / पुरुषो ऽपि निष्क्रियत्वान्न संसरति
SKतदेव सूक्ष्मशरीरं किमर्थं संसरतीत्याह-
SKपुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन / प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् // ISक्_४२ //
SKऽपुरुषार्थहेतुकम्ऽ; इत्यादि / पुरुषार्थो द्विविध उक्तः / स हेतुर्यस्येति / समासान्तः कप् //
SKऽइदम्ऽ; इति / महदादि सूक्ष्मपर्यन्तं लिङ्गमुक्तम्, तन्नटवदवतिष्ठते / यथैक एव नटस्तं तं विशेषमास्थाय यवनिकान्तो निर्गत्य राजामात्यविदुषकादिभावेनानुविद्धो ऽवतिष्ठते, तथा लिङ्गमपि तं तं देहमास्थाय देवमनुष्यतिर्यग्भावेन व्यवतिष्ठते //
SKतदेव कथं भवतीत्याह- ऽनिमित्तनैमित्तिकप्रसङ्गेनऽ; इति / निमित्तं धर्माधर्मादि, नैमित्तिकमूर्ध्वाधोगमनादि / वक्ष्यति च / तयोः प्रसङ्गेनेति //
SKकिमेतत्सर्वमीश्वरात् किं वा स्वभावादित्यत्राह- ऽप्रकृतेः विभुत्वयोगात्ऽ; इति / प्रकृतिः प्रधानम्, तस्या विभुत्वं जगत्कर्तृत्वम् / तद्योगात् नटवद्व्यवतिष्ठते / प्रधानेनैव हि पुरुषस्यार्थः कर्तव्य इति महदादिसूक्ष्मपर्यन्तं लिङ्गमुत्पाद्य धर्मादिभिरधिवासयति / तदधिवासितं च नटवत् व्यवतिष्ठते / नेश्वरान्न स्वभावादिति भावैरधिवासितमित्युक्तम्
SKते पुनः कियन्तः किमाश्रिता इत्याह-
SKसांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः / दृष्टा करणाश्रयिणः कार्याश्रयिणः कललाद्याः // ISक्_४३ //
SKऽसांसिद्धिकाश्चऽ; इत्यादि / ये प्राकृतस्वभावास्ते सांसिद्धिका उच्यन्ते / ते च कपिलस्यैव महामुनेर्नान्यस्य / तस्य ह्युत्पद्यमानस्यैवादिसर्गे सहोत्पन्ना धर्मज्ञानवैराग्यैश्वर्यसंज्ञकाश्चत्वारो भावाः / ये त्वादिसर्गादुत्तरकालमुत्पन्नकार्यकारणानामस्मद्विधानां प्रयत्नपूर्वका उत्पद्यन्ते, ते वैकृताः //
SKते च द्विविधाः / यदाह- ऽधर्माद्या दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याःऽ; इति / धर्मादयश्चत्वारः, विपरीताश्चाधर्मादयश्चत्वार इत्यष्टौ / एते त्रयोदशविधं करणमाश्रित्य प्रवर्तन्ते / कार्यं पञ्च, कुक्षिस्थस्यास्य निच्छुरितस्य तु कौमारयौवनवार्द्धकानि त्रयः, इत्यष्टौ भावाः / तत्र वैकृते धर्मादिभिरधिवासितं संसरतीति ज्ञेयम्
SKनिमित्तनैमित्तिकप्रसङ्गेनेत्युक्तम् / तदुभयमपि दर्शयितुमाह-
SKधर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्यधर्मेण / ज्ञानेन चापवर्गो, विपर्ययादिष्यते बन्धः // ISक्_४४ //
SKऽधर्मेणऽ; इत्यादि / धर्मादिनिमित्तमूर्ध्वगमनादि नैमित्तिकम् / तत्र धर्मेण यमनियमलक्षणेन गमनमूर्ध्वमिति, सूक्ष्मशरीरस्य देवादिव्यवस्थितिरित्यर्थः //
SKऽगमनमधस्ताद्भवयधर्मेणऽ; इति / तिर्यग्योनिषु स्थितिः / मिश्रान्मनुष्यलोके स्थितिरित्यर्थोक्तम् //
SKऽज्ञानेन चापवर्गःऽ; इति / प्रधानपुरुषान्तरज्ञानाख्येन ज्ञानेन लिङ्गं निवर्तते / ततः केवलः पुरुषो भवति //
SKऽविपर्ययादिष्यते बन्धःऽ; इति / ज्ञानविपर्ययादज्ञानात् संसारचक्रबन्धः, पुनः पुनरावर्तनम् / स च त्रिप्रकारः - प्रकृतिबन्धः, दक्षिणाबन्धः, विकारबन्धश्चेति / येषां प्रकृतिरेव परतत्त्वं नान्यत्, तेषां प्रकृतिवादिनां प्राकृतिको बन्धः / येषामिष्टापूर्तभाविन एव दिव्यादिव्यमानुषभोगाः पुरुषार्थ इति, तेषां कर्मवादिनां दक्षिणाबन्धः / इष्टापूर्तं दक्षिणेति / तथा चोक्तम्- अग्निहोत्रं तपः सत्यं देवानां परिपालनम् / अतिथिर्वैश्वदेवं च इष्टमित्यभिधीयते //
SKपुष्करिण्यः सभा वाप्यो देवतायतनानि च / अन्नप्रदानमारामः पूर्तमित्यभिधीयते //
SKयेषां विकार एवैश्वर्यलक्षणः पुरुषार्थ इति, तेषां विकारत्ववादिनां वैकारिको बन्धः
SKवैराग्यात् प्रकृतिलयः, संसारो भवति राजसाद्रागात् / ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः // ISक्_४५ //
SKऽवैराग्यात्᳚ इत्यादि / यो विषयादिदर्शनाद्विरक्तो यमनियमपरिस्थितो न ज्ञानं पर्येषते, तस्य मृतस्य वैराग्यादष्टास्यु प्रकृतिषु प्रधानादितन्मात्रपर्यन्तासु लयः, स्थूलशरीरेण विषयोपभोगनिमित्तेन योगः / तल्लीनश्चात्मानं मुक्तमिव मन्यते न तु मुक्तम्, सर्गकाले पुनः संसरणात् / यदा तु ज्ञानं पर्येष्यते तदा मुच्यत एव / तथा चोक्तम्- ज्ञानादथ विरागाच्च तथा कृत्स्नस्य संक्षयात् / इत्येवं जायते मोक्षो मुक्त आत्मस्थ उच्यते // इति //
SKऽसंसारो भवति राजसाद्रागात्ऽ; इति / वैराग्यविषयो ऽशुभविषयाभिष्वङ्गो राजसो रागः, तस्य शुभाशुभकर्माक्षेपकत्वात् / तस्माद्देवादिष्वयं जनाद्यजिभावेन (?) संसरति //
SKऽऐश्वर्यादविघातःऽ; इति / अनैश्वर्यात्तद्विपर्यास इति / अविघातविपर्यासो विघातः, प्रार्थितानामप्राप्तिरित्यर्थह / मुक्तिस्तु दुरोत्सारितैव
SKएषामष्टानां बुद्धिरूपाणामेकेन मोक्षः सप्तभिर्बन्धः संसार इति यदेतन्निमित्तनैमित्तिकं षोडशमुक्तं तत्संक्षेपेण चतुर्विधमाह -
SKएष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः / गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् // ISक्_४६ //
SKऽएषःऽ; इत्यादि / प्रत्ययशब्देन बुद्धिरुच्यते / तस्य सर्गो यः षोडशविध उक्तः, एष विपर्ययाशक्तितुष्टिसिद्ध्याख्यः / विपर्ययादीनामाख्या यस्य प्रत्ययसर्गस्य स तथोक्तः / तत्र विपर्ययमज्ञानम्, अशक्तिर्ज्ञानाधिगमासामर्थ्यं सत्यामप्यधिजिगांसायाम्, तुष्टिर्मोक्षोपायेषु वैमुख्यम्, सिद्धिर्ज्ञानप्राप्तिः //
SKतस्य चतुविधस्य पुनः पञ्चाशत् भेदा भवन्ति / केन प्रकारेणेत्याह- ऽगुणवैषम्यविमर्देनऽ; इत्यादि / सत्त्वरजस्तमसामन्यो ऽन्याभिभवद्वारेण वैषम्यं विषमभावः, एकस्य द्वयोर्वाधिक्ये ऽन्यस्यानाधिक्यम् / एकद्वित्रियोगेन षड्विधं वैषम्यम् / तेन द्वयोर्विमर्दः परस्परक्षोभः / तेन हेतुना भवतीत्यर्थः
SKतान् भेदान् दर्शयन्नाह-
SKपञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् / अष्टाविंशतिभेदा तुष्टिर्नवधा ऽष्टधासिद्धिः // ISक्_४७ //
SKऽपञ्च विपर्ययभेदाःऽ; इत्यादि / अज्ञानाख्यस्य सर्गस्य भेदाः पञ्च- तमो मोहो महामोहस्तामिस्रो ऽन्धतामिस्रश्चेति / अत एव सांख्यप्रवचने क्लेशा उच्यन्ते / ऽअविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाःऽ; इति / तत्राविद्याक्षेत्रमुत्तरेषाम् //
SKऽअशक्तिश्चऽ; इति / अशक्त्याख्यः सर्गः //
SKऽकरणवैकल्यात्ऽ; इति / करणं बाह्यमाभ्यन्तरं च / तयोर्वैकल्यादष्टाविंशतिभेदा यस्याः अशक्तेः सा भवतीति विभक्तिपरिणामेन योज्यम् / करणवैकल्यं च गुणवैषम्यविमर्देन भवति //
SKऽतुष्टिर्नवधा ऽष्टधा सिद्धिःऽ; / इति तुष्टिसर्गो नवप्रकारः, सिद्धिसर्गो ऽष्टप्रकारो भवतीत्यर्थः / एतैः समुदायेन पञ्चाशद्भेदा इति
SKतानवान्तरभेदसहितान् दर्शयन्नाह-
SKभेदस्तमसो ऽष्टविधो मोहस्य च, दशविधो महामोहः / तामिस्रो ऽष्टादशधा, तथा भवत्यन्धतामिस्रः // ISक्_४८ //
SKऽभेदस्तमसःऽ; इत्यादि / तम इत्यविद्योच्यते / सा चोत्तरेषां प्रसवभूमिः / सा च प्रकृतिः / तत्त्ववेदिनां सत्यपि वैराग्ये नापवर्ग इति, ज्ञानस्याभावात् / ततश्च तेषामष्टास्वेव प्रकृतिषु लयो भवतीति अष्टविधा अविद्या, विषयस्याष्टविधत्वात् //
SKमोहस्य चेतिशब्देनाष्टविधो भेद इत्यनुवर्तते / मोह इत्यस्मितोच्यते / देवा अपि विनाशिनो ऽपि, अष्टगुणमैश्वर्यमाश्रिता आत्मानमविनाशिनं मन्यन्ते / ततश्च तेषामष्टविधो मोहः, ऐश्वर्यस्याष्टविधत्वात् //
SKऽदशविधो महामोहःऽ; इति सुखानुशयो रागो महामोह इत्युच्यते / स च दिव्यादिव्यविषयेषु वर्तमानो दशविधो भवति / तत्र सूक्ष्मास्तन्मात्रलक्षणाः पञ्च, सुखैकस्वभावत्वाद्द्विव्याः / स्थूलाः पृथिव्यादयः पञ्च, सुखदुःखमोहात्मकत्वाददिव्याः //
SKऽतामिस्रो ऽष्टादशधाऽ; इति / दुःखानुशयो द्वेषस्तामिस्र इत्युच्यते / स चाष्टगुणैश्वर्ये दशविधे च विषये प्रतिभवतीत्यष्टादशविधः //
SKऽतथा भवत्यन्धतामिस्रःऽ; इति / यथा तामिस्रो ऽष्टादशधा तथा ऽयमपीत्यर्थः / मरणत्रासो ऽन्धतामिस्र उच्यते / स चाष्टगुणैश्वर्ये दशविधे च विषये प्रतिभवतीत्यष्टादशविधः //
SKऽतथा भवत्यन्धतामिस्रःऽ; इति / यथा तामिस्रो ऽष्टादशधा तथा ऽयमपीत्यर्थः / मरणत्रासो ऽन्धतामिस्र उच्यते / स चाष्टगुणैश्वर्ये दशविधे विषय एव भवतीति / एवं द्विषष्टिभेदमज्ञानमुक्तम्
SKअशक्तिः करणवैकल्यादित्युक्तम्, तस्या भेदान् दर्शयितुमाह-
SKएकादशेन्द्रियवधः सह बुद्धिवधैरशक्तिरुपदिष्टा / सप्तदशधा च बुद्धेर्विपर्ययास्तुष्टिसिद्धिनाम् // ISक्_४९ //
SKऽएकादशऽ; इत्यादि / एकादशानामिन्द्रियाणामेकादशैवोपघाताः / श्रोत्रचक्षुर्घ्राणानां बाधिर्यान्धत्वाघ्रातृत्वानि, वाचो मूकत्वम्, जिह्वाया जाड्यम्, मनस उन्मादः, पाणिपादोपस्थानां कौण्यपङ्गुत्वक्लैब्यानि, त्वगिन्द्रियस्य कुष्ठः, पायोरुदावर्त इति / बाधिर्यमान्ध्याघ्रातृत्वे मूकता जडता तथा / उन्मादकौण्यकुष्ठानि क्लैब्योदावर्तपङ्गुताः // इति //
SKअत इन्द्रियवधा अशक्तिरित्युपदिष्टाः सांख्याचार्यैः //
SKऽसह बुद्धिवधैःऽ; इति / बुद्धेरपि वधा अशक्तिरुपदिष्टा // ते कियन्त इत्याह- ऽसप्तदशधा च बुद्धेर्वुपययास्तुष्टिसिद्धीनाम्ऽ; इति / तुष्टयो नव, सिद्धयश्चाष्टौ / वक्ष्यमाणाम्भसां ये विपर्ययास्ते सप्तदशविधा बुद्धेर्ज्ञेयाः / एवमशक्तिरष्टाविंशतिभेदा यया क्रमस्वशक्तो भवति //
SKननु प्रत्ययसर्ग इत्युक्तम्, नायमिन्द्रियवधः प्रत्ययसर्गः किञ्चिदहङ्कारसर्ग इति सत्यम्, अहङ्कारस्य प्रत्ययसर्गत्वात् तत्सर्गो ऽपि प्रत्ययसर्ग उच्यते / धर्मो वा प्रत्ययः सर्गः
SKआध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः / बाह्या विषयोपरमात् पञ्च, नव तुष्टयो ऽभिमताः // ISक्_५० //
SKऽआध्यात्मिकाःऽ; इत्यादिना / प्रकृत्यादीन्याख्या यासां तुष्टीनां तास्तथोक्ताः / तत्र प्रकृतिः प्रधानम् / सैव व्यक्तात्मना परिणम्य बन्धमोक्षौ कुरुत इत्येतावन्मात्रोपदेशात् तुष्टो भवति यस्तस्य प्रकृत्याख्या तुष्टिरम्भ इत्युच्यते //
SKउपादीयते प्राप्यते मोक्षो ऽनेनेत्युपादानम् / प्रव्रज्यालिङ्गं चात्र दण्डादि / न प्रकृतिज्ञानमात्रेण मुक्तिः / ऽउपादानेन चापरेऽ; इत्यस्मादद्वितीयादुपदेशादिहैव मुक्तिः प्राप्तव्येति परितुष्टः प्रव्रजितो ऽयं तस्य द्वितीया उपादानाख्या तुष्टिः सलिलमुच्यते //
SKकल्यत इति काला / महदादिसूक्ष्मपर्यन्तेन लिङ्गेन संसरता ऽपरेण मोक्षो न प्रकृत्युपादानमात्रादिहैव जन्मनीति तस्मात्तृतीयादुपदेशात् तुष्टो यः कालापेक्षी स्थितस्तस्य कालाख्या तुष्टिरोध इत्युच्यते //
SKयस्यापरं भाग्यमस्ति तस्य मोक्षः, प्रकृत्युपादानकालमात्रेण न, कश्चिद्विपरीतभागधेयो ऽस्तीति तस्माच्चतुर्थादुपदेशात् तुष्टो यो भाग्यापेक्षी स्थितस्तस्य चतुर्थी वृष्टिरित्युच्यते / एताश्चतस्र आत्मानमधिकृत्य भवन्तीत्याध्यात्मिकाः आत्मना मोक्तव्यमिति कृत्वा //
SKऽबाह्यविषयोपरमाच्चऽ; इति / शब्दादिभ्यो व्यावृत्तिरुपरमणं पञ्चधा भवति / आर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनात् / तत्र विषयार्जने महद्दुःखं तदल्पविषयेभ्य इत्यार्जनदोषदर्शनान्निवृत्तस्य तुष्टिरियं पञ्चमी सुतारमित्युच्यते //
SKविषया आर्जितुं शक्याः, रक्षणं तु दुःखं बहुभिः तज्जन्यमानानां (?) स्यादिति रक्षणदर्शनान्निवृतस्य तुष्टिरियं षष्ठी सुपारमित्युच्यते //
SKविषया आर्जितुं रक्षितुं क्षये च प्रतिविधातुं शक्याः, किन्तूपभुज्यमाना महतीमात्मसक्तिं कुर्वन्ति, तदप्राप्तौ च महद्दुःखमिति सङ्गदोषदर्शनादुपरस्तस्याष्टमी तुष्टिरनुत्तमाम्भ इत्युच्यते //
SKसर्वं शक्यं किन्त्वनुपहत्य भूतानि न भोगः सम्भवति / भूतोपघातान्महदनिष्टफलमिति हिंसादोषदर्शनादुपरतस्य तुष्टिरियं नवमी उत्तमाम्भ इत्युच्यते / एताः पञ्च विषयद्वारेणेति भवन्तीति बाह्याः / तत्पूर्विकाश्चाध्यात्मिकाः, विषये तत्परस्याध्यात्मिकतुष्ट्यसम्भवात् //
SKतत्र प्रकृत्युपादानकाला न मोक्षोपाया इत्युपदिष्टमपि यो वैमुख्यान्न प्रतिपद्यते तस्याध्यात्मिकाश्चतस्रः, विषयोपरमाच्च बाह्याः पञ्चेति नव तुष्टयः / ता बुद्धिवधा इत्युचन्ते / तेषां शक्तेरन्तर्भवति [?] / तासां चतुष्षष्टीनां महत्प्रभृतयो विपर्ययेण संज्ञा / तदुभयमपि बुद्धावन्तर्भूतं तत्सर्गत्वात्
SKकतिभेदा ज्ञानाज्ञानलक्षणा सिद्धिरित्याह-
SKऊहः शब्दो ऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः / दानं च सिद्धयो ऽष्टौ, सिद्धेः पूर्वो ऽङ्कुशस्त्रिविधः // ISक्_५१ //
SKऽऊहः शब्दो ऽध्ययनम्ऽ; इत्यादि / सिद्धिर्ज्ञानप्राप्तिः, तस्या भेदा उपायभेदात् / ऊह इति / जन्मान्तरसंस्कृतधियो यस्य बन्धमोक्षकारणमुत्प्रेक्षमाणस्य प्रधानपुरुषान्तरज्ञानमुत्पद्यते तस्य सिद्धिरूहहेतुका प्रथमा तारमित्युच्यते //
SKयस्य सांख्यशास्त्रपाठमन्यदीयमाकर्ण्य तत्त्वज्ञानमुत्पद्यते, सा सिद्धिः शब्दहेतुका द्वितीया सुतारमित्युच्यते //
SKयस्य शिष्याचार्यसम्बन्धेन सांख्यशास्त्रं शब्दतो ऽर्थतश्चाधीत्य ज्ञानमुत्पद्यते, तस्याध्ययनहेतुका / अध्ययनेन हि तत्परिज्ञानात् / एषा तृतीया तारवि इत्युच्यते //
SKऽदुःखविघातास्त्रयःऽ; इति / यो ऽप्याध्यात्मिकेनाधिभौतिकेनाधिदैविकेन वा भावितस्तद्विघातार्थं ज्ञानं पर्येष्यति, ऊहेन शब्देनाध्ययनेन वा, तस्य तद्विघातहेतुकाः प्रमादप्रमुदितमोदनाख्यास्तिस्रः, उपायस्य त्रित्वादिति / पूर्वा यास्तिस्रः सिद्ध्ययस्ता न दुःखहेतुका इति बोद्धव्याः //
SKऽसुहृत्प्राप्तिःऽ; इति / यो ऽधिगततत्त्वः सुहृदं प्राप्य ज्ञानमधिगच्छति, तस्य सुहृत्प्राप्तिपूर्विका / मित्रं हि स्नेहात् ज्ञानं प्रकाशयति / इयं सप्तमी रम्यकमित्युच्यते //
SKदानं च सिद्धिहेतुः / दानेन ह्याराधितो ज्ञानी ज्ञानं प्रयच्छति / इयमष्टमी सदाप्रमुदितमित्युच्यते //
SKतद्विपरीता असिद्धयः / मन्दबुद्धित्वान्नोहते यस्तस्यानूहहेतुका असिद्धिः / यः शक्तो ऽपि सांख्यशास्त्रं शृण्वन्नपि बुद्धिदौर्बल्यान्न बुद्ध्यति तस्य शब्दहेतुका असिद्धिः / बुद्धिदोष एवायम् / यस्य गुरुपूर्वकं नाध्ययनं बुद्धिदोषादेव तस्यानध्ययनहेतुका असिद्धिः / न यत्र मित्रसंग्रहो न च दानमित्यष्टावसिद्धयो बुद्धिवधा अशक्तावन्तर्भूताः / तासां चासिद्धीनां मोषमुष्णामानोरमित्याद्याः [?] संज्ञाः / बुद्धावन्तर्भूतं तत्सर्गत्वात् //
SKऽसिद्धेः पूर्वो ऽङ्कुशस्त्रिविधःऽ; इति / तस्या अष्टविधायाः सिद्धेर्यः पूर्वो विपर्ययाशक्तितुष्ट्याख्यस्त्रिविध उक्तः सो ऽङ्कुश इवेत्यङ्कुश उक्तः / तेन ह्यस्वतन्त्रीकृतो लोकः संसारचक्रे ऽवतिष्ठते / तत्र विपर्ययादिष्यते बन्ध इति वचनात् पञ्चविधमज्ञानमङ्कुशः / अशक्तिः करणवैकल्यम्, ततो हि ज्ञानाप्राप्तिरित्यङ्कुशः / तुष्टिरप्यङ्कुशः / तदा प्रकृत्युपादानकालभाग्या मोक्षोपाया इति, विषयोपरमाच्च मुक्त इत्येतावन्मात्रादुपदेशात् तुष्टो न ज्ञानं पर्येष्यति / यदा तु पर्येष्यति तदा ऽनङ्कुश इत्यर्थः / एते प्रत्ययसर्गभेदाः पञ्चाशत् पदार्थाः, अस्तित्वादयश्च दश / ते चास्यामेव सप्तत्यां निर्दिष्टाः / तथा चाह संग्रहकारः- अस्तित्वमेकत्वमथार्थवत्त्वं पारार्थ्यमन्यत्वमकर्तृभावः / योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः // इति //
SKएकत्वमर्थवत्त्वं पारार्थ्यं चेति प्रधानमधिकृत्योक्तम् / अन्यत्वमकर्तृत्वं बहुत्वं चेति पुरुषमधिकृत्य / अस्तित्वं योगो वियोगश्चेत्युभयमधिकृत्य / स्थितिर्मूलसूक्ष्ममधिकृत्य / वक्ष्यति- ऽतिष्ठति संस्कारवशात्ऽ; इति / एते षष्टि पदार्थाः, तदर्थं शास्त्रं षष्टितन्त्रमित्युच्यते
SKपूर्वोत्पन्नं लिङ्गं भावैरधिवासितं संसरतीत्युक्तम्, तत्र किं भावा अपि पूर्वमुत्पन्नाः किं लिङ्गमेवेत्यत्राह-
SKन विना भावैर्लिङ्गम्, न विना लिङ्गेन भावनिष्पत्तिः / लिङ्गाख्यो भावाख्यस्तस्माद्द्विविधः प्रवर्तते सर्गः // ISक्_५२ //
SKऽन विनाऽ; इत्यादि / यदि भावा न पूर्वोत्पन्नास्तैर्विना लिङ्गमपि नास्ति / संसरणार्थं लिङ्गं संसारनिमित्तं च भावाः //
SKऽन विना लिङ्गेन भावनिष्पत्तिःऽ; इति / लिङ्गं विना न भावानिष्पत्तिः, लिङ्गाश्रितत्वाद्भावानाम् / यस्मादेवं तस्मात् लिङ्गाख्यो भावाख्यश्च द्विप्रकारः प्रधानत्वात् सर्गो भवतीति / सृज्यत इति सर्गः
SKयथा द्वावेतौ पूर्वोत्पन्नौ तथ भूतसर्गो ऽपीति दर्शयन्नाह-
SKअष्टविकल्प दैवस्तैर्यग्योन्यश्च पञ्चधा भवति / मानुष्यचैकविधः, समासतो भौतिकः सर्गः // ISक्_५३ //
SKऽअष्टविकल्पःऽ; इत्यादि / देवानामयं दैवः / सो ऽष्टविधः / तद्यथा ब्राह्मः, प्राजापत्यः, सौरः, आसुरः, गान्धर्वः, याक्षः, राक्षसः, पैशाचश्चेति //
SKऽतैर्यग्योन्यश्च पञ्चधा भवतिऽ; इति / तिर्यग्योनीनामयं तैर्यग्योन्यः / पशुमृगपक्षिसरीसृपस्थावरभेदात् पञ्चविधः / तत्र गवाद्या रासभान्ताः पशवः / सिंहाद्या बिडालान्ता मृगाः / हंसाद्या मशकान्ताः पक्षिणः / सर्पादयः कृम्यन्ताः सरीसृपाः / वृक्षादयः स्थूणान्ताः स्थावरा इति //
SKऽमानुष्यश्चैकविधःऽ; इति / मनुष्याणामयं मानुष्यः / एवंविधसंस्थानस्यैकविधत्वात् / ब्राह्मादिभेदो ऽपि सत्त्वरजस्तमसां विकल्पात् कालव्यवहारनिमित्तम् //
SKऽसमासतःऽ; इति / संक्षेपेण / विस्तरं...तस्तस्यैव (?) - जरायुजाण्डजोष्मजोद्भिज्जाख्याश्चत्वारो भेदाः शास्त्रान्तरे द्रष्टव्याः / उद्भिज्जाः स्थावराः //
SKऽभौतिकः सर्गःऽ; इति / भूतेषु भवो भौतिकः, लोकोत्पाद इत्यर्थः / स च द्विविधः
SKकारिका ५३ स्थूलशरीरे सत्त्वयि कश्चिदेव क्वचिदधिक्येन वर्तत इति दर्शयन्नाह-
SKऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः / मध्ये रजोविशालो, ब्रह्मादिस्तम्बपर्यन्तः // ISक्_५४ //
SKऽऊर्ध्वम्ऽ; इत्यादि / ब्रह्मा आदिर्यस्य सर्गस्य स्तम्बश्च तृणविटपपर्यन्तः, स ब्रह्मादिस्तम्बपर्यन्तः सर्गः / स ऊर्ध्वः सत्त्वविशालः / ऊर्ध्वं देवलोकस्तस्योत्कृष्टत्वात् तत्र सात्त्विक इत्यर्थः / देवलोकस्य सत्त्वबहुलत्वात् //
SKऽतमोविशालश्च मूलतः सर्गःऽ; इति / तैर्यग्योनो मूलम्, तस्याधमत्वात् / तस्मिन् मूले तमो ऽधिकं तमोबहुलत्वात् //
SKऽमध्ये रजोविशालःऽ; इति / मनुष्यलोके मध्ये / उत्तराधरभावात् तत्र दुःखबहुलत्वात्
SKयदि त्रिषु लोकेषु लिङ्गं संसरति, तदेव तर्हि सांसारिकं सुखं दुःखं वाप्नोति, तस्यैव सांसारिकत्वादित्याह-
SKतत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः / लिङ्गस्याविनिवृत्तेस्तस्माद् दुःखं स्वभावेन // ISक्_५५ //
SKऽतत्रऽ; इत्यादि / तेषु लोकेषु जरामरणकृतमिति चतुर्दुःखोपलक्षणार्थम् / गर्भदुःखम्, जन्मदुःखम्, जरादुःखम्, मरणदुःखमिति / तत्र मातुः कुक्षौ अन्धतमसीव प्रविष्टस्य सङ्कुचनप्रसारणदुःखं गर्भदुःखम् / जायमानस्य मातुरुदरान्निर्गच्छतो जन्मदुःखम् / व.....पालतस्खलनादिदुःखं जरादुःखम् / मरणावस्थायां स्थूलशरीरं त्यजतो मरणदुःखम् / एतत्त्वाध्यात्मिकं दुःखे ऽन्तर्भूतमप्रीतदुःखं बुद्ध्याध्यवसितं पुरुषः प्राप्नोति तस्य चेतनत्वात्, न तु लिङ्गमचेतनत्वादिति भावः //
SKकियन्तं कालमित्याह- ऽलिङ्गस्याविनिवृत्तेःऽ; इति / यावल्लिङ्गस्याविनिवृत्तिस्तावदित्यर्थः / तस्य च निवृत्तिः प्रधानपुरुषान्तरज्ञानात् / यतश्चैवं तस्माद्दुःखं स्वभावेन / लिङ्गगर्भाद्यवस्थासु स्वभावतो दुःखमित्यर्थः / लोकत्रये सुखमपि प्राप्नोति, तन्नोक्तं तस्यानियतत्वात् / जरादिदुःखं तु नियतमिति
SKयो ऽयं भावलिङ्गभूततत्सर्गः स किमीश्वरात्, यथोच्यते- ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा / इति, किं वा पुरुषात्, यथोच्यते- पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् / इति, किं वा स्वभावात्, यथोच्यते- स्वभाविकमेवेदं सर्वं जगन्नहि मरुदादयः केनचित् क्रियन्ते / इत्यत्राह-
SKइत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः / प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः // ISक्_५६ //
SKऽइत्येष प्रकृतिकृतःऽ; इत्यादि / आरभ्यत इत्यारम्भः / प्रकृतिकृत इति प्रधानकृतः, नेश्वरादिकृत इत्यर्थः / लोकत्रयं त्रिगुणात्मकं भवति, तच्च त्रिगुणाया एव प्रकृतेरुत्पद्यते / नपै स्वभाविकम्, विपरीतगुणदोषप्रसङ्गाद्देशानियमयोगाच्च //
SKस किंस्वरूप इत्याह- ऽमहदादिविशेषभूतपर्यन्तःऽ; इति / बुद्धिरादिर्यस्यारम्भस्य / भूतानि लोकत्रये यान्यभिन्नसंस्थानानि स्थूलशरीराख्यानि / विषयाश्च / बाह्याश्च विषयाः सूक्ष्माः स्थूलाः / ते पर्यन्ते ऽवसाने यस्य स तथोक्तः / अनेन भावलिङ्गभूतसर्गाख्यास्त्रय आख्याताः //
SKकिमर्थमयं प्रधानस्यारम्भ इत्यत्राह- ऽप्रतिपुरुषविमोक्षार्थम्ऽ; इति / एकैकस्य पुरुषस्य पुरुषस्य विमुक्त्यर्थमारम्भः, पुरुषाणां बहुत्वात् / भावसर्गे भूतसर्गे चानेक इति दर्शयति / तथाहि मोक्षार्थं विषयोपभोगार्थं चायमारम्भ इति द्रष्टव्यम् / प्रधानेन हि पुरुषार्थः कर्तव्यः / स च द्विविधः / विषयोपभोगः कैवल्यं च / तदुभयं कृत्वा निवर्तत इति //
SKऽस्वार्थःऽ; इति / यः कश्चित् देवदत्तस्वार्थ एव परार्थो रहितितं प्रवर्तते न परस्तपस्तकरोति (?) तथा प्रधानमपीत्यर्थः
SKननु च सचेतनस्य बुद्धिपूर्विका प्रवृत्तिर्भवति, प्रधानस्याचेतनत्वात्कथं लोकत्रये पुरुषं विषयैः संयोज्य ध्यानेन विप्रमोच्य निवर्तेत / कथमेवंविधा प्रवृत्तिः / नायं नियमः, अचेतनानामपि लोके प्रवृत्तिदर्शनात् / यदाह-
SKवत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य / पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य // ISक्_५७ //
SKऽवत्सविवृद्धिनिमित्तम्ऽ; इत्यादि / वत्सस्य विवृद्धिः पुष्टिः / तस्या निमित्तम् //
SKऽक्षीरस्य यथा प्रवृत्तिरज्ञस्यऽ; इति / अचेतनस्य / यथा तृणदिकमचेतनं गवाशितं पीतं च, वत्सस्य पुष्टिः कर्तव्येति, क्षीरात्मना परिणमति कृतार्थं च निवर्तत इति
SKयदि पुरुषविमोक्षार्थं प्रधानस्य प्रवृत्तिः, प्रवृत्तेः प्राक् पुरुषस्य कैवल्यं स्थितमेव, तत् किं तेन प्रवृत्तेन? तथा चाहुः - मध्वर्थं प्रस्थितः कश्चिद् ग्रामाभ्याशे तु माक्षिकम् / अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् // इति //
SKऔत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः / पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् // ISक्_५८ //
SKऽऔत्सुक्यम्ऽ; इत्यादि / यथौत्सुक्यनिवृत्त्यर्थमभिमतक्रियासु लोकः प्रवर्तते, तद्वत् प्रलयावस्थायां पुरुषो ऽपि मोक्षनिमित्तं यदौत्सुक्यं तन्निवृत्तये प्रवर्तयेत्प्रधानमिति
SKरङ्गस्य दर्शयित्वा निवर्तते नर्त्तकी यथा नृत्तात् / पुरुषस्य तथा ऽ; ऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः // ISक्_५९ //
SKऽरङ्गस्यऽ; इत्यादि / नृत्यतीति नर्त्तकी / सा तथा रङ्गस्य नृत्तं दर्शयित्वा तस्मान्नृत्तान्निवर्तते विरमति, दृष्टाहमनेनेति कृतप्रयोजना सती, तथा पुरुषस्यात्मानं संप्रकाश्य देवादिभावरूपं गता निवर्तते प्रकृतिः प्रधानमित्यर्थः
SKननु च नटी रङ्गात् स्वार्थं साधयति, प्रकृतेस्तु पुरुषार्थः स्वार्थो येनैवमाचरयतीत्याह-
SKनानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः / गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति // ISक्_६० //
SKऽनानाविधैःऽ; इत्यादि / पूर्वं सप्तभिर्धर्मादिभिरुपायैस्त्रिषु विषयेष्वात्मनं प्रकाशयत्युपकारिणी, तदनन्तरमेकेन ज्ञानाख्येन कैवल्यं कुर्वाणोपकारिणी भवति //
SKऽअनपकारिणः पुंसःऽ; इति / न पुमांस्तां प्रत्युपकरोति, अहमनयोपकृत इति / पुनस्सा तमुपकरोति //
SKनासौ तामित्याह - ऽ; गुणवत्यगुणस्य सतःऽ; इति / गुणसत्त्वात्प्रकृतिः सक्रिया, निर्गुणत्वात् पुरुषो निष्क्रिय इति / तस्यार्थमपार्थकं चरति / तस्य पुंसो ऽर्थो द्विविधः- विषयोपभोगः कैवल्यं च / तन्निरर्थकं करोति, यतस्तस्याः प्रयोजनाभावः / व्यक्तात्मना ऽ; ऽत्मानं दर्शयति नत्वव्यक्तात्मना
SKतथाहि - गुणानां साम्यावस्था प्रकृतिः / कुतश्च सा न सर्वात्मना ऽ; ऽत्मानं प्रकाशयति, पुमानपि न सर्वथा पश्यति ? तथा चाहुः- गुणानां परमं रूपं न दृष्टिपथमृच्छति / यत्तु दृष्टिपथं प्राप्तं तन्मायावस्तु तुच्छकम् // इति / अत्राह -
SKप्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति / या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य // ISक्_६१ //
SKऽप्रकृतेःऽ; इत्यादि / सुकुमारतरमिति सूक्ष्मतरमितरत् / एतदुक्तं भवति- प्राग्व्यक्तात्मना प्रकाशयति न त्वव्यक्तात्मनापि, येन ज्ञानावस्थायां प्रकृतेर्मतिर्भवति मम सूक्ष्मतरं न किञ्चिदपरमस्ति यद्द्रष्टव्यं पुरुषेण //
SK(ऽया दृष्टा ऽस्मिऽ; इति / सा प्रकृतिर्व्यक्तात्मना च) दृष्टाहमनेनेति न पुनर्दर्शनमुपैति पुरुषस्य, द्रष्टव्याभावात् / ततश्चैवं सर्वथा प्रकृतिरात्मानं प्रकाशयति, पुरुषश्चैतां सर्वथा पश्यति
SKतस्मान्न पुरुषस्य बन्धो नापि संसरणं मोक्षो वेत्याह- तस्मान्न बध्यते ऽद्धा न मुच्यते नापि संसरति कश्चित् / संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः // ISक्_६२ //
SKऽतस्मान्न बध्यतेऽ; इत्यादि / बन्धाभावान्न बध्यते / पुरुषस्यापि कार्यत्वाद्बन्धो नास्ति / न विमुच्यते तस्या बन्धनात् / नापि संसरति निष्क्रियत्वात् / कश्चिदिति पुरुष इत्यर्थः //
SKकस्य तर्हि बन्धादय इत्याह- संसरति बध्यते मुच्यते च प्रकृतिरिति / ननु च तस्याः सुकुमारत्वाद्बन्धादयो न सम्भवन्त्येवेत्यत्राह- नानाश्रयेषुरभिवज्यते (?) / तत्राश्रयाः भावलिङ्गभूतास्सर्गाः / ते प्रकृतिपुरुषवन्नानाविधाः
SKततश्च नानाश्रयत्वादेव दर्शयन्नाह-
SKरूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः / सैव च पुरुषार्थम्प्रति विमोचयत्येकरूपेण // ISक्_६३ //
SKऽरूपैःऽ; इत्यादि / धर्मादयो बुद्धे रूपान्युक्तानि / ऽसप्तभिःऽ; / ज्ञानं त्यक्त्वा ते च प्रकृतेरात्मभूताः / सैवात्मनैव पुरुषार्थं प्रत्यात्मानं महदादिसूक्ष्मपर्यन्तं लिङ्गं बध्नाति / बन्धश्च त्रिविधः / तच्च लिङ्गं भावादिभिरधिवासितमर्थमेव / संसरतीति / प्रकृतिरेव संसरति //
SKऽसैव चऽ; इति / प्रकृतिः पुरुषार्थं प्रति कैवल्यार्थं विमोचयत्यात्मानम् //
SKऽएकरूपेणऽ; इति / एकं च तद्रूपं चेति / ज्ञानाख्येन रूपेणेत्यर्थः / यं पुरुषमपेक्ष्य ज्ञानमुत्पादयति तं प्रत्यव्यक्तमात्मानं संहरतीत्यर्थः / नहि धर्मादयः पुरुषधर्मा यस्तैर्बध्यते / नापि संसरति, अलिङ्गभावत्वात् / नापि मुच्यते, तस्य बन्धनत्वात्
SKतदेवं ज्ञानं कथमुत्पद्यते येन मोचयतीत्याह-
SKएवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् / अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् // ISक्_६४ //
SKऽएवं तत्त्वाभ्यासात्ऽ; इत्यादि / एवमिति वक्ष्यमाणे योज्यम् / तत्त्वानि पञ्चविंशतिः / तेषां पुनः पुनः स्वरूपेणाभ्यसनमभ्यासः / यदेतत् सूक्ष्मशरीरं भौतिकं च तस्मिन्न भवामि, अपि तु प्रकृतिः //
SKऽन मेऽ; इत्यादि / न ममेदमपि तु प्रकृतेः //
SKनाहमिति / नाप्यहं प्रकृतिरित्येवं तत्त्वाभ्यासात् / किंविशिष्टात् - अविपर्ययादहमित्यमानसंशयात् ज्ञानमुत्पद्यते //
SKईदृशमित्याह- ऽअपरिशेषम्ऽ; इति / परिपूर्णं विशुद्धम् संसारमलापगमात् केवलमेकमित्यर्थः
SKननु ज्ञानेन पुरुषः किं पश्यतीत्याह-
SKतेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् / प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः // ISक्_६५ //
SKऽतेनऽ; इत्यादि / यत् प्रकृतिज्ञानमुत्पद्यते तं प्रति निवृतः प्रसवो लिङ्गभूतसर्गाख्यो यस्याः प्रकृतेः स तथोक्ता / प्रसवनिवृत्त्या वा यो विषयो विषयेभ्यो निवर्तते तद्वशात्, सप्तभ्यो रूपेभ्यो धर्मादिभ्यो निवृत्ता प्रकृतिर्भवति / भावसंसर्गो ऽपि यस्या निवर्तत इत्यर्थः / तामेवंविधामव्यक्तरूपां पश्यति पुरुषः //
SKऽप्रेक्षकवदवस्थितःऽ; इति / यथा प्रेक्षकः प्रवर्त्तितनृत्तमुपसंहृतनृत्तां च नर्त्तकीं पश्यति, तथा पुरुषो ऽपि प्रवर्तितसर्गामुपसंहृतसर्गां चेति //
SKऽस्वस्थःऽ; इति / आत्मनि स्थितो न प्रकृतिस्थः, ततः प्रकृतेर्निवृत्तत्वात्
SKननु च यदि प्रकृतिर्गर्भभूःपुरुषं प्रति निवृत्तप्रसवा, तस्याश्च प्रकृतेस्तदानीं सर्वगतत्वादस्त्येव संयोगस्तत्किमिति पुनः शरीरोत्पत्तिर्न भवतीत्याह - दृष्टा मयेत्युपेक्षक एको दृष्टा ऽहमित्युपरमत्यन्या / सति संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य // ISक्_६६ //
SKऽदृष्टा मयाऽ; इत्यादि / तयोर्द्वयोरेकः पुरुष उपेक्षकः, सर्वथा...त्वात् / यथा प्रेक्षको नटीमुपेक्षते निवृत्ताभिलाषत्वात् //
SKऽदृष्टा ऽहमित्युपरता ऽन्याऽ; इति / अपरा प्रकृतिरुपरता निवृत्तप्रसवा / सर्वथा ऽहमनेन दृष्टेति //
SKततश्च संयोगे ऽपि तयोः प्रयोजनं नास्ति सर्गस्य / विषयोपभोगार्थः सर्गः / तस्मिन्नेव चरितार्थत्वात् न पुनः सर्गमारभते / नहि नटी रङ्गे प्रेक्षकैर्निराकांक्षितं पुनर्नृत्तमारभते
SKयद्यात्मज्ञानात् कैवल्यप्राप्तिः, तदनन्तरमेव शरीरं कस्मान्न निवर्तत इत्याह-
SKसम्यग्ज्ञानाधिगमात् धर्मादीनामकारणप्राप्तौ / तिष्ठति संस्कारवशात्, चक्रभ्रमवद्धृतशरीरः // ISक्_६७ //
SKऽसम्यक् ज्ञानाधिगमात्ऽ; इत्यादि / सम्यक् ज्ञानमात्मज्ञानम् / तस्याधिगमादात्मज्ञानप्राप्तेरित्यर्थः //
SKऽधर्मादीनामकारणप्राप्तौऽ; इति / न कारणमकारणम्, तस्यामकारणप्राप्तावेव तदुक्तं भवति / सम्यक् ज्ञानाधिगमात्तेषां धर्मादीनामग्निदग्धबीजवदशक्तत्वात् //
SKजन्मान्तरसंस्कारवशाद्धृतशरीरः पुमांस्तिष्ठति / कथम्- चक्रभ्रमवत् / यथा कुलालव्यापारे निवृत्ते ऽपि वेगवशात् कियन्तमपि कालं चक्रभ्रमस्तिष्ठति तथा शरीरमपीत्यर्थः
SKकदा स मोक्षो भवतीत्यत्र-
SKप्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ / ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति // ISक्_६८ //
SKऽप्राप्ते शरीरभेदेऽ; इत्यादि / लिङ्गभौतिकशरीरे पृथग्भूते यथा संभूते लयं गति तेष्वित्यर्थः (?) //
SKऽचरितार्थत्वात् प्रधानविनिवृत्तौऽ; इति / प्रधानं लिङ्गात्मना परिणतं निवर्तते / निवृत्तावुभयं कैवल्यमाप्नोति //
SKऽऐकान्तिकमात्यन्तिकं चऽ; इति / तत्रात्मज्ञानोत्पादादवश्यंभावि कैवल्यमित्यैकान्तिकम् / सत्यपि तयोः संयोगे प्रयोजनाभावान्न पुनः सर्ग इत्यात्यन्तिकमिति
SKसप्तत्यां विशुद्धिं दर्शयन्नाह-
SKपुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम् / स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम् // ISक्_६९ //
SKऽपुरुषार्थज्ञानम्ऽ; इत्यादि / पुरुषार्थं ज्ञानं चेति पुरुषार्थज्ञानम् / यदिदं पञ्चविंशतितत्त्वज्ञानं तत्प्रधानम्, पुरुषार्थमोक्षो ऽनेन प्राप्यत इति कृत्वा / गुह्यमिदमप्रकाश्यम् / साधुजनादन्यस्मै न देयमित्यर्थः //
SKऽपरमर्षिणा समाख्यातम्ऽ; इति / कपिलमुनिना प्रकाशितम् //
SKऽस्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्ऽ; इति / यत्र ज्ञाने भूतानां ब्रह्मादिस्तम्बपर्यन्तानां स्थित्यादयो व्यवस्थाप्यन्ते / तत्रोत्पन्नानां प्रबन्धेनावस्थानं स्थितिः / सा च त्रिषु स्थानेषु दैवमानुषतैर्यग्योनेषु उत्पत्तिः सृष्टप्रधानात् यावत् तन्मात्रेभ्यः पञ्चमहाभूतानि / सृष्ट्युपसंहारे महाप्रलयः, सर्वो ऽप्युत्क्रमेण / तद्यथा पृथिव्यादयस्तन्मात्रादिषु लीयन्ते यावत्प्रधानमिति / तेन पञ्चविंशतितत्त्वव्यतिरिक्तं नास्तीत्येतदुक्तम्
SKमुनिना समाख्यातमिति कुतो ज्ञायत इत्याह-
SKएतत् पवित्रमग्र्यं मुनिरासुरये ऽनुकम्पया प्रददौ / आसुरिरपि पञ्चशिखाय, तेन च बहुधा कृतं तन्त्रम् // ISक्_७० //
SKऽएतत्ऽ; इत्यादि / ऽपवित्रम्ऽ; इति / दुःखत्रयमेतत् पुनातीति कृत्वा / सर्वभेदानामग्रेभवत्वादग्र्यम् //
SKऽमुनिरासुरये ऽनुकम्पया प्रददौऽ; इति / कपिलस्य महामुनेः सहोत्पन्नाश्चत्वारो धर्मादयः / तत्र ज्ञानाख्येन भावेनान्धे तमसि वर्तमानं जगत् दृष्टवतो मुनेः करुणोत्पन्ना / तया च प्रेर्यमाण आसुरिं सगोत्रब्राह्मणं वर्षसहस्रयातिनमागत्योवाच / ऽआसुरे रमसे त्वं गृहस्थधर्मेणऽ; इति / स तमाह- ऽभगवन् न रमे ऽहम्ऽ; इति / पुनर्वर्षसहस्रे पूर्णे तं गत्वा तथोवाच / सो ऽपि ऽभगवन् न रमे ऽहम्ऽ; इत्युवाच / ततो मुनिना ऽयदि विरक्तस्त्वम्, एहि ब्रह्मचर्यं चरऽ; इत्यसावुक्तः / स तु प्रदिपद्य गृहस्थधर्मं त्यक्त्वा प्रव्रजितः / तस्मै शिष्यायानुकम्पया संक्षिप्य दत्तवान् / ऽतम एव खल्विदमासीत्ऽ; / तस्मिंस्तमसि क्षेत्रज्ञ एव प्रथमः / तमः प्रधानम्, क्षेत्रज्ञः पुरुष उच्यते / आसुरिरपि तदेव संक्षिप्तं पञ्चशिखाय स्वशिष्यायानुकम्पया प्रददौ //
SKऽतेनऽ; इति / पञ्चशिखेन मुनिना बहुधा कृतं तन्त्रम् / षष्टितन्त्राख्यं षष्टिखण्डं कृतमिति / तत्रैव हि षष्टिरर्था व्याख्याताः
SKननु च षष्टितन्त्रमेवास्तु किं सप्तत्येति स्वशास्त्रकरणप्रयोजनमाह-
SKशिष्यपरम्परया ऽ; ऽगतमीश्वरकृष्णेन चैतदार्याभिः / संक्षिप्यार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् // ISक्_७१ //
SKऽशिष्यपरम्परयाऽ; इत्यादि / मुनेरासुरेः पञ्चशिखस्तथा गर्गगौतमप्रभृतिर्णरामतंग्रम्या (?) ईश्वरकृष्णनामानं परिव्राजकमित्यनया शिष्यपरम्परया / इति ज्ञानमयरूपेणागतं सिद्धान्तं षष्टितन्त्रम् / सम्यग्विज्ञाय संक्षिप्तं षष्टितन्त्रम्, पञ्चविंशतितत्त्वाख्यं ज्ञानमित्यर्थः //
SKआर्यमतिः, अधिगततत्त्वज्ञानतयार्यमतिः //
SKऽआर्याभिःऽ; इति / सप्तत्येत्यर्थः / ऽदुःखत्रयाभिघातात्ऽ; ऽएतत् पवित्रम्ऽ; इति सप्तत्याभिहितम्
SKअत्र षष्टितन्त्रे बहवो ऽर्थाः, ते ऽत्र नोक्ता इत्याह-
SKसप्तत्यां किल ये ऽरथास्ते ऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य / आख्यायिकाविरहिताः परवादविवर्जिताश्चापि // ISक्_७२ //
SKऽसप्तत्याम्ऽ; इत्यादि / ऽएष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यःऽ; इत्यादिना ग्रन्थेन य उक्तास्ते कृत्स्नस्य षष्टितन्त्रस्यापि //
SKकिन्तु ऽआख्यायिकाविरहिताः परवादविवर्जिताः शुद्धाःऽ; इति / आख्यायिका आख्यानम्, तद्विरहिताः / परचोद्यं तेन विवर्जिताः / शुद्धाः केवलाः / परं बन्धमोक्षोपयोगिनो ऽर्थाः दर्शिता इति तस्मात् सम्पूर्णेयं सप्ततिरिति
SK// इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्येण श्रीशङ्करभगवता कृता सांख्यसप्ततिटीका समाप्ता //