The Treatise on the Five Aggregates
Pañcaskandhaprakaraṇa
Pअञ्चस्कन्धप्रकरण
SKआचार्य वसुबन्धुविरचितम् Pअञ्चस्कन्धप्रकरणम्
SKप्रथमाधिकारः - स्कन्धोद्देशनिर्देशकः पञ्चस्कन्धाः रूपस्कन्धः वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः विज्ञानस्कन्धश्च
SKरूपस्य द्वौ भेदौ रूपं कतमत् / यत् किञ्चिद् रूपं सर्वं तच्चत्वारि महाभूतानि चत्वारि च महाभूतान्युपादाय
SKकतमानि चत्वारि महाभूतानि / पृथिवी धातुः अब्धातुः तेजोधातुःवायुधातुश्च
SKमहाभूतलक्षणानि तत्र पृथिवीधातुः कतमः / कठिनता
SKअब्धातुः कतमः / निष्यन्दता
SKवायुधातुः कतमः / पौनः पुन्यकम्पनता
SKउपादायरूपनामानि उपादयरूपं कतमत् / चक्षुरिन्द्रियम्, श्रोत्रेन्द्रियम्, घ्रणेन्द्रियम्, जिह्वेन्द्रियम्, कायेन्द्रियम्,रूपम्, शब्दः, गन्धः, रसः, स्प्रष्टव्यैकदेशः, अबिज्ञप्तिश्च
SKउपादायरूपलक्षणानि चक्षुरिन्द्रयं कतमत् / वर्णबिषयो रूपप्रसादः
SKश्रोत्रेन्द्रयं कतमत् / शब्दविषयो रूपप्रसादः
SKघ्राणेन्द्रियम् कतमत् / गन्धविषयो रूपप्रसादः
SKजिह्वेन्द्रियम् कतमत् / रसविषयो रूपप्रसादः
SKकायेन्द्रियम् कतमत् / स्प्रष्टव्यविषयो रूपप्रसादः
SKरूपं कतमत् / चक्षुर्गोचरः / वर्णः संस्थानम् बिज्ञप्तिश्च
SKशब्दः कतमः / श्रोत्रगोचरः / निष्पन्न्ः अनिष्पन्नः उभयः / उपात्तचतुमर्हाभुतहेतुकः अनुपात्तचतुर्महाभूतहेतुकः उभयचतुर्महाभूतहेतुकश्च
SKगन्धः कतमः / घ्राणगोचरः / सुरभिः असुरभिः तदन्यश्च
SKरसः कतमःजिह्वागोचरः / मधुरः अमलः लवणः कटुः तिक्तः कषायश्च्
SKस्प्रष्टव्यः कतमः / कायगोचरः / महाभूतान्युपादाय श्लक्ष्णत्वम् कर्कसत्बम् गुरुत्वम् लघुत्वम् शीतत्वम् जिघत्सा पिपासा च
SKअबिज्ञप्तिरूपं कतमत् / विज्ञप्तिसमाधिसंभूतं रूपम् अनिदर्शनम् अप्रतिघम्
SKरूपस्कन्धः सोनिद्देशः परिनिष्ठितः / अथ वेदना सलक्षणप्रभेदा वेदना कतमा / त्रिविधो ऽनुभवः / सुखः दुःखः अदुःखासुखश्च
SKसुखो यस्मिन् निरुद्धे संयोगेच्छा जायते
SKदुःखो यस्मिन्नुत्पन्ने वियोगेच्छा जायते
SKअदुःखासुखो यस्मिन्नुत्पन्ने नोभयेच्छा जायने
SKवेदनस्कन्धः सोनिदेशनिर्देशः परिनिस्ठतः / अथ संज्ञा लक्षण प्रभेदा संज्ञा कतमा / विषयनिमित्तोद् ग्रहणम्
SKसा त्रिधा परित्ता महद्गता अप्रमाणा च
SKसंज्ञा स्कन्धः सोद्देशनिर्देशः परिनिस्ठितः /
SKसंस्काराः कतमे / वेदनासंज्ञाभ्यामन्ये चैताः चित्तविप्रयुक्ताश्च
SKतत्र चैतधर्माः कतमे / ये धर्मार्श्चित्तेन संप्रयुक्ताः
SKचैतपरिसंख्यानम् ते कतमे / स्पर्शः मनस्कारः वेदना संज्ञा चेतना छन्दः अधिमोक्षः स्मृतिः समाधिः प्रज्ञा श्रद्धा ह्रीः अपत्रपा अलोभः कुशलमूलम् अद्वेषःकुशलमूलम् अमोहःकुशलमूलम् वीर्यम् प्रश्रब्धिः अप्रमादः उपेक्षा अविहिंसा राग प्रतिघः मानः अविद्या दृष्टिः विचिकित्सा क्रोध उपनाहः म्रक्षः प्रदाशः ईर्ष्या मात्सर्यर्म् माया शाठ्यम् मदः अहिंसा आह्रिक्यम् अनपत्राप्यम् स्त्यानम्, औद्धत्यम्, आश्रद्ध्यम्, कौशीद्ध्यम् प्रमादः मुषितास्मृति, बिक्षेपः, अप्रसजन्यम्, कौक्रित्यम्, मिद्धम्,वितर्कः, विचारश्च
SKएतेशां पश्च सर्वत्रगाः / पञ्चप्रतिनियतविषया / एकादशकुशलाः / षट्क्लेशाः / शिष्टा उपक्लेशाः / चत्वारो ऽन्यत्रापि भवन्तीत्यनियताः
SKचैत्तलक्षणानि स्पर्शःकतमः / त्रिकसंनिपाते इन्द्रियविकारपरिच्छेदः
SKमनस्कारः कतमः / चेतस आभोगः
SKचेतना कतमा / गुणदोषानुभयेषु चित्ताभिसंस्कारो मनस्कर्म
SKछन्दः कतमः / अभिप्रेते वस्तुन्यभिलाषः
SKअधिमोक्षः कतमः / निश्चिते वस्तुनि तथैवावधारणम्
SKस्मृतिः कतमा / संस्तुते वस्तुन्यसंप्रमोषः
SKसमाधिः कतमः / उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता
SKप्रज्ञा कतमा / तत्रैव प्रविचयो योगायोगविहितो ऽन्यथा च
SKश्रद्दा कतमा / कर्मफलासत्यरत्नेष्वभिसंप्रत्ययः / चेतसो ऽभिलाषः चेतसः प्रसादः
SKह्रीः / कतमा आत्मानं धर्मं वाधिपतिं कृत्वा स्वयमवयेन लज्जा
SKअपत्रपा कतमा / लोकमधिपतिं कृत्वा परतो ऽवधेन लज्जा
SKअलोभः कतमः / लोभ प्रतिपक्षः / चेतसो दानक्षेत्रापरिग्रहः
SKअद्वेषः कतमः / द्वेषप्रतिपक्षः / मैत्रि
SKअमोहः कतमः / मोहप्रतिपक्षः / यथाभूतसंप्रतिपत्तिः
SKवीर्यं कतमत् कौसीद्द्यप्रतिपक्षः कुशले चेतसो ऽभ्युत्साहः
SKप्रश्रब्धिः कतमा / दौष्ठुल्यप्रतिपक्षः कायचित्तकर्मण्यता
SKअप्रमादः कतमः / प्रमादप्रतिपक्षः / अलोभादीन् वीर्यान्तान् निश्रित्य अकुशलानां धर्माणां प्रहाणम् / तत्प्रतिपक्षाणां कुशलानां धर्माणां भावना
SKउपेक्षा कतमा / अलोभादीन् वीर्यन्तान् निश्रित्य चित्तसमता / चित्तप्रशस्ता / चित्तानाभोगता / ययाक्लिष्टधर्मानवकाशेनाक्लिष्टेषु स्थितिः
SKअविहिंसा कतमा / विहिंसाप्रतिपक्षः करुणा // ४८ ///
SKरागः कतमः / उपादानस्कन्धेष्वभ्यर्थना / अध्यवसानम्
SKप्रतिघः कतमः / सत्वेष्वाघातचित्तता
SKमानः कतमः / मानः सप्तविधः / अतिमानः, मानातिमानः अस्मिमानः, अभिमानः, ऊनमानः,मिथ्यामानश्च
SKअतिमानः कतमः / हीनात् श्रेयानहमस्मि सदृशेन वा सदृशो ऽस्मीति चिन्तयतो या चित्तस्योन्नतिः
SKमानातिमानः कतमः / श्रेयसो ऽहमेव श्रेयानिति चिन्तयतो या चित्तस्योन्नतिः
SKअस्मिमानः कतमः / पञ्चसूपादानस्कन्धेष्वात्मानमात्मीयं वा पश्यतो या चित्तस्योन्नति
SKअभिमानः कतमः / अप्राप्त उत्तरे विशेषाधिगमे प्राप्तो मयेति चिन्तयतो या चित्तस्योन्नतिः
SKऊनमानः कतमः / बहृवन्तरविशिष्टादल्पान्तरहिनो ऽस्मीति चिन्तयतो या चित्तस्योन्नतिः
SKमिथ्यामानः कतमः / अगुणवतो गुणवानहमस्मीति चिन्तयतो या चित्तस्योन्नतिः
SKअविद्ध्या कतमा / कर्मफलसत्यरत्नानामज्ञानम् / सा पुनः सहजा परिकल्पिता च
SKरागचरितस्य रागप्रतिघयोः रागचरितस्याविद्द्यायाश्चेत्यकुशलानां त्रीणी मूलानि / लोभो ऽकुशलमूलं द्धेषो ऽकुशलमूलं, मोहो ऽकुशलमूलं च
SKदृष्टिः कतमा पञ्चदृष्ट्यः - सत्कायदृष्टिः, अन्तर्ग्राह्यदृष्टिः, मिथ्यादृष्टिः, दृष्टिपरामर्शः, शीलव्रतपरामर्शश्च
SKसत्कायदृष्टिः कतमा / पञ्चोपादान - स्कन्धानात्मत आत्मीयतो वा पश्यतो या क्लिष्टा प्रज्ञा
SKअन्तर्ग्राह्यदृष्टिः कतमा / तानेवाधिपतिं कृत्वा शाश्वतत उच्छेदतो वा पश्यतो या क्लिष्टा प्रज्ञा
SKमिथ्यादृष्टिः कतमा / हेतुं वा फलं वा क्रियां वापवदतः सदावस्तु विनाशयतो या क्लिष्टा प्रज्ञा
SKदृष्टिपरामर्शः कतमः / ता एव तिख्रो दृष्टिस्तदाश्रयांश्च स्कन्धान् श्रेष्ठतः परमतश्च पश्यतो या क्लिष्टा प्रज्ञा
SKशीलब्रतपरामर्शः कतमः / शीलं व्रतं तदाश्रयांश्च स्कन्धानशुद्धितो मुक्तितो नैयाणिकतश्च पश्यतो या क्लिष्टा प्रज्ञा
SKविचिकित्सा कतमा / सत्यादिषु या द्विकोटिका मतिः
SKएतेषां क्लेशानां पश्चिमास्तिस्त्रो दृष्टयः वीचिकित्सा च परिकल्पिताः / शिष्टाः सहजाः परिकल्पिताश्च
SKक्रोधः कतमः / वर्तंमानमपकारमागम्य या चेतस आघातचेतना
SKउपनाहः कतमः / वैरानुबन्ध
SKम्रक्षः कतमः आत्मनो ऽवद्धप्रच्छादना
SKप्रदाशः कतमः चण्डवचोदाशिता
SKईर्ष्या कतमा परसंपत्तौ चेतसो व्यारोप
SKमात्सर्य कतमत् / दानविरोधी चेतस आग्रहः
SKमाया कतमा / परवश्चनाभूतार्थसदर्शनता
SKशाठ्यं कतमत् / स्वदोषप्रच्छादनोपायसंगृहितं चेतसः कौटिल्यम्
SKमदः कतमः / स्वसंपत्तौ रक्तस्योद्धर्षः / चेतसः पर्यादानम्
SKविहिंसा कतमा / सत्वेषु विहेठना
SKआह्रीक्यं कतमत् / अवद्येन स्वयमलज्जा
SKअनपत्राप् कतमत् / अवद्येन परतो ऽलज्जा // ८० सत्यानं कतमत् / चित्ताकर्मण्यता / स्तैमित्यम्
SKऔद्धत्यं कतमत् / चित्तस्याव्युपसमः
SKआश्रद्ध्यं कतमत् / कर्मफलसत्यरत्नेष्वनभिसंप्रत्ययः / श्रद्धाविपक्षश्चेतसो ऽप्रसादः
SKकौशिद्द्यं कतमत्ंः कुशले चेतसो ऽनभ्युत्साहो वीर्यविपक्ष
SKप्रमादः कतमः / या लोभद्वेषमोहेकौशीद्द्यैश्चितस्यानारक्षा कुशलस्याभावना
SKमुषितास्मृतिः कतमा / क्लिष्टास्मृतिः / कुशलाप्रतिपतिः
SKविक्षेपः कतमः / रागद्वेषमोहांशिकः पञ्चकामगुणेषु चित्तस्य विसारः
SKअप्रसजन्यं कतमत् क्लेशसंप्रयुक्ता प्रज्ञा / तया कायवाक्चित्तचर्या असंविदितेव प्रवर्तते
SKकौकृत्यं कतमत् / चेतसो विप्रतिसारः
SKमिद्धं कतमत् / अस्वतंत्रवृत्तिचेतसो ऽभिसंक्षेपः
SKवितर्कः कतमः पर्येषको मनोजल्पः चेतनाप्रज्ञाविशेषः या चित्तस्यौदारिकता
SKविचारः कतमः / पर्येषको मनोजल्पः तथैव या चित्तस्य सूक्ष्मता
SK// इत्तविप्रयुक्तपरिसंख्यानम् //
SKचित्तविप्रयुत्तसंस्काराः कतमे / ये रूपचितचैत्तधिकारे प्रज्ञप्ताः, त एवान्यत्राप्रज्ञप्ताः
SKते कतमे / प्राप्ति, असंज्ञिसमापत्तिः, निरोधसमापत्तिः, आसंज्ञिकम्, जीवितेन्द्रियम्, निकायसभागता, जाति, जरा, स्थितिः, अनित्यता, नामकायः, पदकायः, व्यञ्जनकायः, पृथग्जनत्वमित्येवमादिभेदसमादानाः
SKइत्तविप्रयुक्तलक्षणानि // तत्र प्राप्तिः कतमा / प्रतिलम्भः समन्वागमश्च / बीजम्, वशिता,अभिमुखीभावश्च यथायोगम्
SKअसंज्ञिसमापत्तिः कतम्ं / शुभकृत्स्नवीतरागस्योपर्यवीतरागस्य निःसरणसंज्ञापूर्वकेण मनसिकारेणावस्थावराणां चित्तचैत्तधर्माणां यो निरोधः
SKनिरोधसमापत्तिः कतमा / आकिञ्चन्यायतनबीतरागस्य भवाग्रतादुच्चलितस्य शान्तविहार - संज्ञापूर्वकेण मनसिकारेणास्थावराणां चित्तचैत्तधर्माणां तदेकत्यानां च स्थावराणां यो निरोधः
SKआसंज्ञिकं कतमत् / असंज्ञिसत्वनिकायदेवेषुपपन्नस्यास्थावराणां चित्तचैत्तधर्माणां निरोधः
SKजीवितेन्द्रियम् कतमत् / निकायसभागेषु पूर्वकर्मानुविद्ध्येषु यः संस्काराणां स्थितिकालनियमः
SKनिकायसभागः कतमः / या सत्वानामात्मभावसदृशता
SKजातिःकतमा / निकायसभागे संस्काराणामभूत्वा यो भाषः
SKजरा कतमा / तथा तेषां प्रबन्धान्यथात्वम्
SKस्थिति कतमा / तथा तेषां प्रबन्धन्वयः
SKअनित्यता कतमा / तथा तेषां प्रबन्धविनाशः
SKनामकायः कतमः / धर्माणां स्वभावाधिवचनम्
SKपादकायः कतमः / धर्माणां विशेषाधिवचनम्
SKव्यञ्जनकायः कतमः / अक्षराणि / तदुभयाभिव्यञ्जनतामुपादाय
SKवाक्यानि तानि / नामपदाश्रेयेणार्थवचनतामुपादाय
SKअक्षरं पुनः पर्यायाक्षरणतामुपादाय
SKपृथग्जनत्वं कतमत् / आर्यधर्माणामप्रतिलम्भः
SKइति संस्कारस्कन्धो नाम //
SKसंस्कारस्कन्धः सोद्द्येशनिर्देशः परिनिष्ठितः
SK// विज्ञानलक्षणम् //
SKविज्ञानं कतमत् / आलम्बनंबिज्ञप्तिः
SKचित्तमनसी विज्ञानपर्यायौ सनिर्वचनो तच्चितं मनो ऽपि चित्रीकारता मनोनिश्रयतां च उपादाय
SK// सलक्षणचित्तनिर्देशः //
SKमूलचित्तमालयविज्ञानं तद्यथेदं सर्वसंस्काराणां संचितं बीजम्
SKतत्पुनरालम्बनमप्युपरिछिन्नमेकसन्तानवर्ति / यथा निरोधसमापत्यसंज्ञिसमापत्या - संज्ञिकेभ्योव्युत्थितस्यास्माद् विषयविज्ञप्तिकं नाम प्रवृत्ति विज्ञानं जायते / आलम्बनप्रत्ययमपेक्ष्य भिन्नाकारेषु वृत्तितामुच्छिद्द्य पुनर्जाततां संसारे प्रवृत्तिनिवृतितां चोपादाय तदालम्बनं नाम विज्ञानम्
SKआलयविज्ञानं हि सर्वबीजालयतामात्मभावालयहेतुतामात्मभावे स्थितितां चोपादाय
SKआदानविज्ञानमपि तत् / आत्मभावादानतामुपादाय
SK// सलक्षणमनोनिर्देशः //
SKमूलमन आलयविज्ञानमाश्रित्य नित्यमात्ममोहात्मदृष्ट्यात्ममानात्मस्नेहैः संप्रयुक्तं विज्ञानमेकजातीयसन्तानवर्ति अर्हत्वार्यमार्गनिरोधसमापत्तिकाले व्यावर्तते
SKविज्ञानस्कन्धः सोनिद्देशनिर्देशः परिनिष्ठितः //
SK// स्कन्धनिर्वचनम् //
SKकिमर्थः स्कन्धः राश्यर्थः / कालगोत्राकारगतिविषयभिन्नानां रूपादीनामभिसंक्षेपतामुपादाय
SKस्कन्धोद्द्येशनिर्देशकः प्रथमाधिकारः परिनिष्ठितः //
SKद्वितीयाधिकारः आयतनोद्द्येशनिर्देशकः द्वादशायतनानि / चक्षुरायतनम्, रूपायतनम्, श्रोत्रायतनम्, शब्दायतनम्, घ्राणायतनम्, गन्धायतनम्, जिह्वायतनम्, रसायतनम्, कायायतनम्, स्प्रष्टव्यायतनम्, मन आयतनम्,धर्मायतनं च
SK/ ऽअयतनानां सलक्षणप्रपञ्चः //
SKचक्षुरादीनि रूपशब्दगन्धरसायतनानि यथोक्तपूर्वाणि
SKस्प्रष्टव्यायतनं चत्वारि महाभूतानि उक्तश्च यः स्प्रष्टब्यैकदेशः
SKमन आयतनं यो विज्ञानस्कन्धः
SKधर्मायतनं वेदना, संज्ञा, संस्काराः, अविज्ञप्तिः, असंस्कृताश्च
SK/ ऽसंस्कृताः सलक्षणप्रभेदाः //
SKअसंस्कृता कतमे / आकाशम्, अप्रतिसंख्यानिरोधः, प्रतिसंख्यानिरोधः तथता च
SKतत्राकाशं कतमत् / रूपावकाशः
SKअप्रतिसंख्यानिरोधः कतमः / यो निरोधो न विसंयोगः
SKसक्लेशाप्रतिपक्षेण स्कन्धानामात्यन्तिको निरोधः
SKप्रतिसंख्यानिरोधः कतमः / यो निरोधो विसंयोगः
SKसक्लेशप्रतिपक्षेण स्कन्धानामात्यन्तिको निरोधः
SKतथता कतमा / या धर्माणां धर्मता / धर्मनैरात्म्यम्
SKकिमुपादायायतनमिति / विज्ञानोत्पादद्वारतामुपादाय
SKआयतनोद्द्येशनिर्देशको द्वितीयाधिकारः परिनिष्ठितः / तृतीयाधिकारः
SKधातूद्देशनिर्देशकः // धातुनामानि //
SKअष्टदश धातवः / चक्षुर्धातुः, रूपधातुः, चक्षुर्विज्ञानधातु, श्रोत्रधातुः, शब्दधातुः, श्रोत्रविज्ञानधातुः, घ्राणधातुः, गन्धधातुः, घ्राणविज्ञानधातुः, जिह्वाधातुः, रसधातुः, जिह्वाविज्ञानधातुः, कायधातुः, स्प्रष्टव्यधातुः, कायबिज्ञानधातुः, मनोधातुः, धर्मधातुः, मनोविज्ञानधातुश्च
SKचक्षुरादयो धातवो रूपादयो धातवश्च यथायतनानि
SKषड्विज्ञानधातवश्चक्षुराद्द्याश्रया रूपाद्यालम्बनाविज्ञप्तयः
SKमनोधातुस्तेषामेव समनन्तरनिरुध्यं षड्विज्ञानदेशनाश्रयतामुपादाय
SK// धातुव्यवस्थनम् //
SKएबमष्टादशधातुव्यवस्थानम् / यो रूपस्कन्धस्तानि दशायतनधातवः
SKधर्मायतनं धर्मधात्वेकदेशः
SKयो विज्ञानस्कन्धस्तन्मन आयतनम्, सप्तम मनोधातवश्च // १३९ // अन्ये ये त्रयः स्कन्धा रूपधात्वेकदेशश्च, ते ऽसंस्कृतै सहिता धर्मायतनं धर्मधातुश्च
SKकिमुपादाय धातव इति / आकारकात्मलक्षणधारणतामुपादाय
SK// स्कन्धायतनधातुक्रमेण धर्मदेशनायाः प्रयोजनम् //
SKकिमर्थ स्कन्धादिक्रमेण देशना / त्रिविधात्मग्राहप्रतिपक्षेणायं क्रमः
SKआत्मग्राहस्त्रिविधः एकात्मग्राहः, वेदकात्मग्राहः, कारकात्मग्राहश्च
SK// ऽष्टादशधातुविकल्पाः //
SKअष्टादशधातुषु कति रूपिणः / ये रूपस्कन्धस्वभावाः
SKकत्यरूपिणः / शिष्टाः
SKकति सनिदर्शनाः / रूपधातुरेकः सनिदर्शनविषयः
SKकत्यनिदर्शनाः / शिष्टाः
SKकति सप्रतिधाः / दश रूपिणः / यत्र यत्प्रतिधातस्तत्र तत् सप्रतिघम्
SKकत्यप्रतिघाः / शिष्टाः
SKकति सास्रवाः / पञ्चदश पश्चिमानां त्रयाणामेकदेशश्च / ते क्लेशोत्पादप्रत्यक्षचर्याविषयतामुपादायं
SKकत्ययनास्त्रवाः / पश्चिमानां त्रयाणामेकदेशः
SKकति कामप्रतिसंयुक्ताः / सर्व
SKकति रूपप्रतिसंयुक्ताः / चतुर्दश स्थापयित्वा गन्धरसघ्राणजिह्वाविज्ञानधातून्
SKकत्यारूप्यसंप्रयुक्ताः / पश्चिमाश्रयः
SKकत्यप्रतिसंयुक्ताः / त्रयाणामेकदेशः
SKकति स्कन्धसंग्रहीताः / असंस्कृतान् स्थापयित्वा
SKकत्युपादानस्कन्धसंगृहीताः ये सास्रवाः
SKकति कुशलाकुशलाव्याकृताः / दश त्रिविधाः / सप्त मनोधातवः, रूपशब्दधर्मधातवश्च / शिष्टा अव्याकृताः
SKकत्याध्यात्मिकाः / द्वादश / स्थापयित्वा रूपशब्द गन्धरसस्प्रष्टाव्यधर्मधातून्
SKकति बाह्याः / षट् / ये स्थापिताः
SKकति सालम्बनाः / सप्तचित्तधातवः धर्मधात्वेकदेशो ऽपि यश्चैत्तः
SKकत्यनालम्बनाः / शिष्टा दश धर्मधात्वेकदेशश्च
SKकति सवितर्काः / मनोधातुः मनोविज्ञानधातुः धर्मधात्वेकदेशश्च
SKकति निष्पन्नाः / पञ्चाध्यात्मिकाः / चतुर्णामेकदेशः
SKकत्यनिष्पन्नाः शिष्टा दश, चतुर्णामेकदेशश्च
SKकति सभागाः / आध्यात्मिकाः पञ्च रूपिणः / स्वविज्ञानसहितविषयसदृशतामुपादाय
SKकति तत्सभागाः / त एव स्वविज्ञानविरहितस्वान्वयसदृशतामुपादाय
SKधातूद्द्येशनिर्देशकस्तृतीयाधिकरः परिनिष्टितः /
SKआचार्यवसुबन्धुविरचित् पञ्चस्कन्धप्रकरणं समाप्तम् / पञ्चस्कन्धप्रकरणं शास्त्रिणा शान्तिभिक्षुणा / भोटानुवादमागम्य संस्कृते पुनरुद्धृतम् यदत्र सुकृतं सर्व तदाचार्यस्य धीमतः / यत् कुकृतं तदागो मे क्षन्तव्यं साधुसूरिभिः //