SK
ॐ वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ ३८ वा. श्रीस्वप्रभानंदनामशिवाचार्यकृत शिवाद्वैतमंजरी व श्रीशंभुदेवकृत शैवसिद्धान्तदीपिका वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री शके १८३१ सन् १९०९ पृ० १) ऊं अथ शिवाद्वैतमंजरीप्रारंभः श्रीगुरुबसवलिंगाय नमः || अथ शिवाद्वैतमंजरीग्रंथो लिख्यते शुभं भूयात् || श्रीनाथं नौमि शांतं त्रिगुममलमहं शिष्यहृद्ध्वांतभानुम् | मन्मूर्ध्नि द्वादशांतस्थितसितजलजप्रोद्यदब्जत्रिकोणे || इच्छाज्ञानक्रियाख्ये त्रिविधलिपिलसत्सुत्रिरेखे [मये हक्षलार्णप्रयुक्ते पाठांतरम् |] ह?क्षे | कृत्स्नार्णौन्मुख्यबिंदौ चिदचिदुदयकृद्दृक्क्रियांघ्रिद्वयाढ्यम् || १ || ब्रह्माद्वैतमनात्मकल्पमितरैराभण्यते तत्पुन- स्त्वस्तित्वादिविभागतः स्फुटतरं द्वैते सुविश्राम्यति || तद्रीतिं प्रतिपाद्य दूषणगणं चापाद्य सद्दृक्क्रियम् | तद्ब्रह्मेत्युपपाद्य विश्वमखिलं तद्रूपमाचक्ष्महे || २ || अतः शिवाद्वैतसुमंजरी स्याद्विश्वस्थितिस्तत्प्रतिपादनेन || युक्ता तदाख्याऽस्य ततस्तनोतु तोषं सदेयं शिवभक्तिभाजाम् || ३ || अत्र वैय्यासिकेषु विवर्तवादिनो हि व्याससूत्राभिप्रायमित्थं वर्णयंति || तथाहि || युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमप्रकाशवद्विरुद्धस्वभावयोर् इतरेतरभावानुपपत्तौ सिद्धायां तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिरित्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाध्यासस्तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तं | तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येतरेतराविवेकेना त्यंतविविक्तयोर्धर्मधर्मिणोर्मिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः, आह कोऽयमध्यासो नामेति उच्यते, स्मृतिरूपः परत्र पूर्वदृष्टावभासः तं केचिदन्यत्रान्याध्यास इति वदंति | केचित्तु यत्र यदध्यासस्तद्विवेकाग्राहनिबंधनो भ्रम