SK
प्. ३४३) साधनमाला | द्वितीयो भागः | १७१. नमस्तारोद्भवकुरुकुल्लायै | प्रथमं तावन्मन्त्री क्वचिन्मनोहरे स्थाने मृदुमसूरकाद्युपविष्टः पटादिगतां भगवतीमवतार्य बाह्यपूजां कृत्वा स्वहृदि निर्मलं पूर्णचन्द्राभमादिस्वरसमुद्भवं चन्द्रं विभाव्य बीजं तस्योपरि [क्: यस्यो] न्यसेत् | ऊष्माणां च चतुर्थं तु अग्निवर्णोपरि स्थितम् | ईकारेण [क्: इका] समायुक्तमाकाशद्वयभूषितम् || तस्य चित्रमयूखाभिः कृत्वा निर्मलिनं [क्, ग्: निर्मलं] जगत् | सहादिधातुकं शोध्य कुरुकुल्लपर्वते [क्; पूर्णे] गताम् || सञ्चोद्य च तथा तारामानयित्वा पुरश्चरेत् | तस्माद् बीजात् महापूजामेघांश्च स्फारयेद् बुधः || पुष्पधूपतथादीपगन्धनैवेद्यसञ्चयैः | लास्यमाल्यनृत्यगीतवाद्यपूजादिभिस्तथा || प्. ३४४) रत्नत्रयं मे शरणं सर्वं प्रतिदिशाम्यघम् | अनुमोदे जगत्पुण्यं बुद्धबोधौ दधे मनः | इति मन्त्रं त्रिधा वाच्यं ततः [क्: ओमित्स्] क्षन्तव्यमित्यपि [क्: इ] || तत्रेयं गाथा - यत् कृतं दुष्कृतं [क्: ओमित्स् ] किञ्चित् मया मूढधिया पुनः | क्षन्तव्यं तत् त्वया देवि यतस्त्राताऽसि देहिनाम् || चित्तं मैत्री विहारे च निवेष्टव्यं पुनस्तदा | करुणाचित्तमुत्पांद्य प्रमोदचित्तमावहेत् || पश्चादुपेक्षते सर्वं चित्तमात्रव्यवस्थया | चित्तं शून्यं ततः कुर्यात् प्रकृताकारहानये || शून्यतावह्निना [क्: ताह्निना] दग्धाः पञ्चस्कन्धाः पुनर्भवाः | पठित्वा ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहम् || मुहूर्त्तं शून्यतायोगं कुर्यात् चित्तय विश्रमम् | प्रतिज्ञां प्राक्तनीं स्मृत्वा बीजमात्रं पुनः स्मरेत् || प्रतारिता मया सत्त्वा एकान्तपरिनिर्वृताः | कथं तान् उद्धरिष्यामि अगाधादं भवसागरात् || इति सत्त्वकृपाविष्टो निश्चेष्टां शून्यतां त्यजेत् | धर्मधातुमयं चित्तमुत्पादयति चेतसा || बुद्ध्वाधिष्ठानतो बीजमुत्पलाख्यं ततो भवेत् | उत्पले चन्द्रबिम्बं तु अकारस्वरसम्भवम् [क्, ग्: तांका] ||