न च दध्यत्रेत्य्{*१/३३८*} अत्र प्रकृतिविकारभावः. शब्दान्तरम् इकाराद् यकारः. न हि यकारं प्रयुञ्जाना इकारम् उपाददते, यथा कटं चिक्रीर्षन्तो वीरणानि. न च सादृश्यमात्रं दृष्ट्वा प्रकृतिर् विकृतिर् वोच्यते. न हि दाधिपिटकं दृष्ट्वा कुन्दपिटकं च प्रकृतिविकारभावो ऽवगम्यते. तस्माद् अयम् अप्य् अदोषः.
आग्नेयाग्नीध्रम् उपतिष्ठत इति{*१/५५९*} विधानाद् विवक्षितार्थानाम् एव मन्त्राणां भवति लिङ्गेणोपदेशः. यदि ते ऽग्निप्रयोजनाः, ततस् त आग्नेया नाग्निशब्दसंनिधानात्.
SK
NOTES: *{१/५५९: Tऐत्.S. ३.१.६}*
SK
ऊहः // MS_१,२.५२ //
SK
ऊहदर्शनं च विवक्षितार्थानाम् एव भवति. किम् ऊहदर्शनम्. न पिता वर्धते, न मातेति{*१/५६०*}. अन्ये वर्धन्त इति गम्यते. प्रत्यक्षं कौमारयौवनस्थाविरैर् वर्धन्ते मात्रादयः. शब्दो न वर्धत इति ब्रूते. का पुनः शब्दस्य वृद्धिः. यद् द्विवचनबहुवचनसंयोगः.
इदं पदेभ्यः केभ्यश्चिद् उत्तरं सूत्रम्. कानि तानि पदानि. अथ किम् अर्थं न लिङ्गाद् व्यवस्था. यथा - शुक्लो होता इति. नास्ति तन् नित्यम् एषां लिङ्गम्, यद् यथादर्शनम् अनुवर्तते. ये ऽपि श्यामा बृहन्तो लोहिताक्षाः, ते ऽपि न सर्व आर्ह्नीनैबुकादीन् कुर्वते. अनेवंलिङ्गा अपि चानुतिष्ठन्ति. तस्मान् न व्यवस्था. शुक्लो होतेति प्रत्यक्षा श्रुतिः.
SK
आख्या हि देशसंयोगात् // MS_१,३.१९ //
SK
अथ कस्मान् न समाख्यया नियमः. ये दाक्षिणात्या इति समाख्याताः, त आह्नीनैबुकादीन् करिष्यन्ति. य उदीच्या इति समाख्याताः, त उद्वृषभयज्ञादीन्. ये प्राच्या इति, ते होलाकादीन्. यथा - राजा राजसूयेनेति. नैतद् एवम्. देशसंयोगाद् आख्या भवति. दाक्षिणदेशान् निर्गतः प्राक्षु वोदक्षु वावस्थित आह्नीनैबुकादीन् करोत्य् एव. उदीच्याश् च देशान्तर उद्वृषभयज्ञादीन्{*१/६०३*}, प्राच्याश् च होलाकादीन्. अन्यदेशश् च देशान्तरगतो न नियोगतः परपदार्थान्{*१/६०४*} करोति. तस्मान् न व्यवस्था{*१/६०५*}. राजा राजसूयेनेति तु नियता जातिः.
न क्रिया स्याद् इति चेद् अर्थान्तरे विधानं न द्रव्यम् इति चेत् // MS_१,३.३४ //
SK
अथ यद् उक्तम् - न क्रिया संभवेद् व्रीहिन् प्रोक्षतीति. [८४]{*१/६३३*} न द्रव्यशब्दः स्यात्, षड् देया इति अन्यदर्शनवचनं च न स्यात्, अन्यं{*१/६३४*} तद्रूपम् इति. तत् परिहर्तव्यम्.
अथ यजुषः किं लक्षणम् इति. यजुषो लक्षणं न वक्तव्यम्, ऋग्लक्षणसामलक्षणाभ्याम् एव यजुर् विज्ञास्यते वैपरीत्येन, या न गीतिर् न च पादबद्धम्, तत् प्रश्लिष्टपठितं यजुर् इति.
SK
अथ निगदो नाम किं यजूंष्य् उत यजुषो ऽन्य इति?
SK
निगदो वा चतुर्थं स्याद् धर्मविशेषात् // MS_२,१.३८ //
SK
निगदाः न यजूंषि. कुतः? धर्मविशेषात्, उच्चैः ऋचा क्रियते, उच्चैः साम्ना, उपांशु यजुषा, उच्चैर् निगदेनेत्य् एष धर्मविशेषः, उच्चैर् निगदेनेत्य् अनूद्यते, यदि यजुषो निगदत्वं [१३०]{*२/१५१*} स्यात्, न च तस्योच्चैस् त्वं धर्मो दृश्येत. दृश्यते तु. तस्माच् चतुर्थं मन्त्रजातं निगदो नाम.
ये पौर्णमासीदेवतातावाचिनः शब्दाः, ते पौर्णमास्यां प्रयोक्तव्याः, नामावास्यायाम्. ये ऽमावास्यादेवतावाचिनः, ते ऽमावास्यायाम्, न पौर्णमास्यां. शेषभूतम् अर्थं संस्कुर्वन्तो मन्त्रा उपकुर्वन्ति, नान्यथेत्य् उक्तम्. तस्माद् ये यत्रोपकुर्वन्ति, ते तत्र प्रयोक्तव्या इति न कृत्स्नः पौर्णमास्याम्, न कृत्स्नश् चामावास्यायाम् इति.
ज्योतिष्टोमे सन्ति चमसाध्वर्यवः{*३/६७६*}, ते च बहव इत्य् उक्तम्. कियन्तो बहव इति संदेहे त्रयः, बहुवचनसामर्थ्याद् इति प्राप्ते ब्रूमः - दशत्वं लिङ्गदर्शनात्. ते दश भवेयुः, तथा हि लिङ्गं ज्योतिष्टोमविकारे दशपेये श्रूयते - दश चमसाध्वर्यवो दश दशैकैकं चमसम् अनुसर्पन्तीति, एतस्मात् कारणाद् दशपेयो भवतीति ब्रुवन् दश चमसाध्वर्यून् दर्शयति, यदि त्रयो भवेयुः, एतद्दर्शनं नोपपद्यते. तस्मात् त्रीन् अतीत्यैषा संख्या, यदि च दश न भवेयुर् नोपपद्येतैतद्दर्शनम्. तस्माद् [४००]{*३/६७७*} भवन्ति दश, दश चैषां स्वामिनः. तस्मात् प्रयोजनभावाद् दशसंख्योपादीयते, तस्यां चोपादीयमानायाम् अपरापि संख्यानुगृह्यते, तेनापि दश भवेयुः.
अध्वर्युर् वा जुहुयात्, एस हि न्यायः - यद् आर्ध्वर्यवपदार्थम् अध्वर्युः कुर्यात्, आध्वर्यवश् च होमः, तस्माद् अध्वर्युर् जुहुयात्. ननु चमसाध्वर्यव इति विशेषसमाख्यानाच् चमसाध्वर्यवो होष्यन्तीति. नेत्य् उच्यते, चमसेष्व् एते ऽध्वर्युवद् भवन्तीति चमसाध्वर्यवः. यदि तैर् अध्वर्युर् जुहोति, ततस् तैश् चमसाध्वर्युभिर् अपि होतव्यम्. यदि चमसाध्वर्यवो जुह्वति, नाध्वर्युः. तदा ते न तद्वत् स्युश् चमसाध्वर्यवः. तस्मान् न जुहुयुर् इति.
SK
चमसे चान्यदर्शनात् // MS_३,७.४८ //
SK
चमसे चान्यं चमसाध्वर्योर् दर्शयति. कथम्? यमसांश् च[४१०]{*३/६९९*}मसाध्वर्यवे प्रयच्छति, तान् स वषट्कर्त्रे हरति, अन्यो हुत्वा{*३/७००*} चमसाध्वर्यवे प्रयच्छतीति गम्यते. कथम्? स{*३/७०१*} वषट्कर्त्रे हरति, भक्षयितुम् इति गम्यते. तस्माद् धुतस्य चमसाध्वर्यवे प्रदानम्, यो जुहोति, स प्रयच्छति. तस्माद् अन्यो जुहोतीति. अपि च - यो वाध्वर्योः स्वं वेद स्ववानेव भवति, स्रुग्वाध्वर्योः स्वं वायव्यम् अस्य स्वं चमसो ऽस्य स्वम् इति. न तावद् अस्य चमसः स्वम्, यजमानस्य हि सः. चमसो ऽस्य स्वम् इति ब्रुवन्, अध्वर्योश् चमसेन होमं दर्शयति.
SK
NOTES: *{३/६९९: E२: ४,५८९; E४: ४,९२५; E६: १,२७६}* *{३/७००: E२,४: स हुत्वा}* *{३/७०१: E२,४: एवं स}*
SK
अशक्तौ ते प्रतीयेरन् // MS_३,७.४९ //
SK
अथ कथं चमसाध्वर्यव इति समाख्यानम्? उच्यते - अशक्तौ ते प्रतीयेरन्, यदा व्यापृतत्वात्, न शक्नोत्य् अध्वर्युर् होतुम्, तदा समाख्यासाम् अर्थात् ते होष्यन्ति.
वीते च कारणे, वीतायां फलेच्छायाम् अवाप्ते वा फले समाप्तिनियमो दृश्यते, वृष्टिकामेष्ट्याम्, यदि वर्षेत् तावत्य् एव जुहुयात्, यदि न वर्षेत्, श्वोभूते जुहुयाद् इति{*४/३१६*}. यदि न स्वर्गः, किम् अर्थः समाप्तिनियमो भवेत्. तस्मान् नित्यः स्वर्ग इति.
SK
NOTES: *{४/३१६: Tऐत्.S. २.४.१०.१}*
SK
कामो वा तत्संयोगेन चोद्यते // MS_४,३.२२ //
SK
कामो वा फलं भवेत्, न स्वर्गः, तत्संयोगेनास्य चोदना भवति, न स्वर्गकामसंयोगेन, आनुमानिको ऽस्य स्वर्गकामेनैकवाक्यभावः. प्रत्यक्षस् तु कामवचनेन, प्रत्यक्षं चानुमानाद् बलीयः. तस्मात् काम एव फलम् इति.
SK
अङ्गे गुणत्वात् // MS_४,३.२३ //
SK
अथ यद् उक्तम्, यथा यज्ञाङ्ग{*४/३१७*} इति, युक्तम् अङ्गे गुणत्वात्. प्रत्यक्षस् तत्र ऋतुना संयोगः, कामेन च. यः पशुकामः स्यात्, स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति. न त्व् अत्र प्रत्यक्षः शब्दो ऽस्ति, यो ब्रह्मवर्चसकामः स्यात्, स यागेन [५०४]{*४/३१८*} स्वर्गम् अभिनिर्वर्तयेद् इति. कथं तर्हि? यो ब्रह्मवर्चसकामः स्यात्, स तद् यागेन निर्वर्तयेद् इति. तस्मान् नाङ्गवद् भवितुम् अर्हतीति.
SK
NOTES: *{४/३१७: MS ४.३.२०}* *{४/३१८: E२: ५,७५; E६: २,४५}*
NOTES: *{५/३१६: MS ३.७.१८}* *{५/३१७: E२: ५,२२९; E६: २,१३१}*
SK
अन्यार्थेनाभिसंबन्धः//६.२.८//
SK
न परस्य स्वर्गकाम इत्य्{*५/३१८*} एवं न यजेत, न, अन्यस्य{*५/३१९*} स्वर्गकामशब्दो न वाचक इति. कथं तर्हि? फलम् असौ न प्राप्नोतीति. कथं पुनः फलस्याप्राप्तिः? उपग्रहविशेषश्रवणात्, यजेतेति. यद् वाधाने, ब्राह्मणो वसन्ते ऽग्निम् आदधीतेति, तदा तु कामश्रुताव् उपग्रहो ऽनुवाद एव.
लिङ्गं च भवति, अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावस्यां वातिपातयेद् इति{*५/३६४*}. यदि सर्वस्मिन् काले होमः, तदा कस्यातिपत्तिः स्यात्. तस्माद् अपि न सततम् अभ्यासः.
क्वचिद् विधीयते, यदि{*५/४०८*} सोमं न विन्देत् पूतीकान् अभिषुणुयाद् इति. यदि च प्रतिनिधिम् उपादाय प्रयोगः कर्तव्यः स्यात्, न विधीयेत, विधीयते तु. तस्माद् यच् च न विधीयते, न तत्र प्रतिनिधिर् इति.
देवतायाम् अपरो विशेषः, येन न प्रतिनिधीयते, देवता नाम, यद् अर्थं किंचिच् चोद्यते, सा. अन्या तस्याः स्थाने प्रतिनिधीयमाना न देवता स्यात्. चोदिता हि देवता भवति, नाचोदिता, संबन्धिशब्दश् चैषः. या यद् अर्थं चोद्यते, सा तस्यैव देवता, नान्यस्य. देवतेति संबन्धिशब्दो न जातिशब्दः. तस्माद् अपि न देवतायाः प्रतिनिधिर् इति.
सत्राण्य् उदाहरणम्, सप्तदशावराः सत्रम् आसीरन्न् इति. तेषु कस्मिंश्चित् स्वामिन्य् अपचरति संदेहः, किं तत्रान्यः प्रतिनिधातव्यः, उत नेति. किं प्राप्तम्? न स्वामिनः प्रतिनिधिर् इति. एवं प्राप्ते ब्रूमः, बहूनां यजमानानां प्रवृत्ते कर्मणि, अपचरिते कस्मिंश्चित् स्वामिन्य् अन्यम् आगमयेत्. कुतः? एवम् अवैगुण्यं भवतीति, स्वामिगता सप्तदशादिसंख्या तत्राङ्गम्, तया विना कर्म विगुणम्, तत्संपादनायान्य आगमयितव्यः. ननु स्वामिगता संख्या, न त्व् आगम्यमानः स्वामीति वक्ष्यामः. तेनाशक्यैव सा संख्योपादातुम् इति. उच्यते, स्वामिगता न हि भविष्यति. न हि सा शक्या कर्तुम् इति. इदं तु शक्यं कर्तुम्, ये स्वामिनां पदार्थाः, त इह सप्तदशावरैः कर्तव्या इत्य् एतद् उपपादितं भविष्यति. तस्मात् प्रतिनिधातव्यं तत्रेति.
SK
स स्वामी स्यात् तत्संयोगात्//६.३.२३//
SK
तस्मिन्न् आगम्यमान इदानीं संदेहः, किम् असौ स्वामी, उत कर्मकर इति. किं प्राप्तम्? स स्वामी स्यात्. कस्मात्? तत्संयोगात्, तेन स्वामित्वेन{*५/४३१*} संयोगः. यो ह्य् असाव् आनीयते, स स्वामी क्रियते, स्वामिन्य् अपचरिते ऽन्यो यदि स्वामी क्रियते, ततः स प्रतिनिधिः कृतो भवति. तस्मात् स्वामीति.
कर्मकरो वा स स्यात्. कुतः? भृतत्वत्, भृतो ह्य् असौ तैः शिष्टैः स्वामिभिः प्रयुक्तः, परिक्रीयमाणो न स्वामी भवति. यः फलं प्राप्नोति, स स्वामी, यः परस्योपकारे वर्तते, स कर्मकरः, नैवासौ फलं प्राप्नोति. कुतः? यो ह्य् आरभ्य परिसमापयति, स फलवान्, एष ह्य् आख्यातार्थः, स ह्य् उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् आह. ननु ते ऽपि तत्र विगुणं कुर्वन्ति, सप्तदशानां स्वामिनाम् अभावात्. तस्मात् ते ऽपि न स्वामिनः, नो चेत् स्वामिनः, न फलं प्राप्नुवन्ति. उच्यते, न सप्तदशावराः फलसमवाये भवेयुर् इति श्रूयते, न संख्या फलपरिग्रहे गुणभूता. किं तर्हि? पदार्थेषु, सप्तदशावरैर् याजमानाः पदार्थाः कर्तव्या इति, ते च प्रतिनिहितेन क्रियन्ते, अफलत्वे ऽपि च सत्यं संकल्पं कर्तुम् अन्यम् आनयन्ति. आनीयमानस्य च न तेन प्रयोजनम्.
SK
तस्मिंश् च फलदर्शनात्//६.३.२५//
SK
तस्मिंश् च दिष्टां गतिं गते फलं दर्शयति, यो दीक्षितानां प्रमीयेतापि तस्य फलम् इति. तस्मात् कर्मकर इति.
SK
स तद्धर्मा स्यात् कर्मसंयोगात्//६.३.२६//
SK
बहूनां कस्मिंश्चिद् अपचरिते प्रतिनिधेयो ऽन्य इत्य् एतत् [६६६]{*५/४३३*} समधिगतम्. इदम् इदानीं तत्र संदिग्धम्, किम् असौ स्वामिधर्मा स्यात्, उतर्त्विग्धर्मा? किं प्राप्तम्? ऋत्विग्धर्मा. कुतः? परार्थं हि स यजति, यश् च परार्थं यजति, स ऋत्विग् इति. एवं प्राप्ते ब्रूमः, स तद्धर्मा स्यात्, स्वामिधर्मा{*५/४३४*}, तस्य हि कार्ये शूयते, यश् च यस्य कार्यम् अधितिष्ठति, स तद्धर्मैः संबध्यते, यथा स्रुग्धर्मैः{*५/४३५*} स्वधितिर् इति.
यथा पूर्वः पक्षः, तथा सति, सांन्याय्ये सत्य् असति च शाखा [७००]{*६/१५७*} विद्यत इत्य् उपवेषो सति चासति{*६/१५८*} च स्यात्. यथा तु सिद्धान्तः, तथा सांन्याय्यपक्षे शाखा सती हि प्रतिपाद्यत इति. तत्रैवोपवेषो नान्यत्रेति.
नैतद् एवम्. न हि दध्यधिकरण चरोः श्रपणे श्रूयते. किं तु यथा स्थविष्ठा इन्द्राय प्रदात्रे, एवं दध्य् अपि देवतासंबन्धार्थं [७११]{*६/१९७*} विधीयते, न चरुसंबन्धार्थम् इति. भिद्येत हि तथा वाक्यम्, स्थविष्ठा देवतायै, दधनि च ते कर्तव्या इति. सप्तमीसंयोगस् तु प्राप्ते ऽर्थे ऽनुवादः. तस्माद् अविवक्षितं तेषां साहित्यम्, लक्षणत्वेन हि ते श्रूयन्त इति, न हि पयो दधि च नास्तीति स्थविष्ठानां न देवतापनयो भवति. असंनयतो ऽप्य् अर्थाद् अप्सु श्रपयिष्यत इति.
एवं चेद् भवान् पश्यति, यजमानेन संमानम्, तत् प्रयो[७२९]{*६/२७८*}जनं स्वेनान्येन{*६/२७९*} वा यजमानेनेति. तथा प्रयोगान्तरे यो यजमानस् तेनापि संमानं प्राप्नोति.
NOTES: *{६/३०८: E१,६; E२: विप्रतिषेधो हि भवति}* *{६/३०९: E१ (व्.ल्.): तं पक्षं समवर्धेयुर्}* *{६/३१०: E२: शरीरसंस्कारः परिलुप्येत; E२ (व्.ल्.), E१,६: शरीरसंस्काराः परिलुप्येरन्}* *{६/३११: E१ (व्.ल्.): न तथा कार्यम्}*
SK
प्रायश्चित्तम् आपदि स्यात् // MS_६,६.३५ //
SK
अथेदानीं पूर्वोक्तस्य लिङ्गस्य परिहार उच्यते. प्रायश्चित्तम् अस्मत्पक्षे परिकल्पिष्यते. कथम्. अरण्ये कान्तारे गच्छतां स्थितानां वा दस्युभयात् श्वापदभयाद् वा त्रासे जाते दावाग्निना वा संसृज्येरन्, मिथो वा स विषयः प्रायश्चित्तस्य भविष्यतीति.
पूर्वस्माद् एष वादः पापीयान्. कस्मात्. औत्पत्तिकत्वात्. औत्पत्तिको हि नामिनाम्नोः संबन्धः. यः शब्दो यस्मिन् अर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धः. न स ततो ऽन्यं प्रत्याययितुं शक्नोति. न हि गोशब्देनाश्वो ऽभिधातुं शक्यते.
SK
शास्त्रं चैवम् अनर्थकं स्यात् // MS_७,२.६ //
SK
एवं च सत्य् अतिदेशशास्त्रम् अनर्थकं स्यात्, अशक्यार्थत्वात्. तस्मान् न शब्दस्यापि प्रदेशो युक्तः. वृत्तिकारस् तु मेने, गानशास्त्रम् औक्थिक्यम् अनर्थकं स्याद् इति. तस्याभिप्रायः, सत्यां गतौ नैतावान् प्रयासः शिष्टानाम् अफलो ऽभ्युपगन्तुं न्याय्य इति.
एवं च सामशब्दानाम् ऋक्शब्दानां च सामञ्जस्यं भवति. कवतीषु रथन्तरं गायति{*७/१३१*} इति कवतीशब्द ऋच एव{*७/१३२*} वक्षति, रथन्तरशब्दश् च साम. इतरथा कवतीशब्दे वा देशलक्षणा स्यात्. रथन्तरशब्दे वा धर्मलक्षणा. तस्माद् गीतौ सामशब्द इति.