Commentaries on the Mīmāṃsā Sutras 1-7 with Śabara's Commentary

Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Mईमांसासूत्र १-७ wइथ् Śअबरऽस् Bहाष्य

Commentaries on the Mīmāṃsā Sutras 1-7 with Śabara's Commentary

Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya

Mईमांसासूत्र १-७ wइथ् Śअबरऽस् Bहाष्य

SK
============================================================================
SK
Aध्याय १:
SK
अथातो धर्मजिज्ञासा // MS_१,१.१ //
SK
लोके येष्व् अर्थेषु प्रसिद्धानि पदानि, तानि, सति सम्भवे, तदर्थान्य् एव सूत्रेष्व् इत्य् अवगन्तव्यम्. नाध्याहारादिभिर् एषां परिकल्पनीयो ऽर्थः, परिभाषितव्यो वा. एवं हि{*१/१*} वेदवाक्यान्य् एवैभिर् व्याख्यायन्ते. इतरथा वेदवाक्यानि व्याख्येयानि स्वपदार्थाश् च व्याख्येयाः. तद् यत्नगौरवं{*१/२*} प्रसज्येत. तत्र लोके ऽयम् अथशब्दो वृत्ताद् अनन्तरस्य प्रक्रियार्थो दृष्टः. न चेह किञ्चिद् वृत्तम् उपलभ्यते. भवितव्यं तु तेन, यस्मिन् सत्य् अनन्तरं धर्मजिज्ञासावकल्पते. तथा हि प्रसिद्धपदार्थकः स कल्पितो भवति. तत् तु वेदाध्ययनम्. तस्मिन् हि सति सावकल्पते. नैतद् एवम्. अन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा युक्ता, प्राग् अपि च वेदाध्ययनात्. उच्यते - तादृशीं{*१/३*} तु धर्मजिज्ञासाम् अधिकृत्याथशब्दं प्रयुक्तवान् आचार्यः, या वेदाध्ययनम् अन्तरेण न संभवति. कथम्? वेदवाक्यानाम् अनेकविधो विचार इह वर्तिष्यते. अपि च नैव वयम् इह [२]{*१/४*} वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः{*१/५*}. न ह्य् एतद् एकं वाक्यं पुरस्ताच् च वेदाध्ययनाद् धर्मजिज्ञासां प्रतिषेधिष्यति{*१/६*}, परस्ताच् चानन्तर्यं प्रकरिष्यति. भिद्येत हि तथा वाक्यम्. अन्या हि वचनव्यक्तिर् अस्य पुरस्ताद् वेदाध्यायनाद् धर्मजिज्ञासां प्रतिषेधतः, अन्या च परस्ताद् आनन्तर्यम् उपदिशतः{*१/७*}. वेदान् अधीत्य इत्य्{*१/८*} एकस्यां विधीयते ऽनूद्यानन्तर्यम्, विपरीतम् अन्यस्याम्. अर्थैकत्वाच् चैकवाक्यतां वक्ष्यति{*१/९*}. किं त्व्{*१/१०*} अधीते वेदे द्वयम् आपतति, गुरुकुलाच् च समावर्तितव्यं वेदवाक्यानि च विचारयितव्यानि. तत्र गुरुकुलान् मा समावर्तिष्ट; कथं नु वेदवाक्यानि विचारयेद् इत्य् एवमर्थो ऽयम् उपदेशः. यद्य् एवम्, न तर्हि वेदाध्ययनं पूर्वं धर्मजिज्ञासायाः{*१/११*}. एवं हि समामनन्ति - वेदम् अधीत्य स्नायाद् इति{*१/१२*}. इह च वेदम् अधीत्य स्नास्यन् धर्मं जिज्ञासमान इमम् आम्नायम् अतिक्रामेत्. न चाम्नायो नामातिक्रमितव्यः. तद् उच्यते - अतिक्रमिष्याम इमम् आम्नायम्. अनतिक्रामन्तो वेदम् अर्थवन्तं सन्तम् अनर्थकं कल्पयेम{*१/१३*}. दृष्टो हि तस्यार्थः कर्मावबोधनं नाम. न च तस्याध्ययनमात्रात्{*१/१४*} तत्रभवन्तो याज्ञिकाः फलं समामनन्ति. यद् अपि च समामनन्तीव, तत्रापि - द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्याद् इत्य्{*१/१५*} अर्थवादतां वक्ष्यति. न चाधीतवेदस्य स्नानानन्तर्यम् एतद् विधीयते. न ह्य् अत्रानतर्यस्य वक्ता कश्चिच् छब्दो ऽस्ति. पूर्वकालतायां हि{*१/१६*} क्त्वा स्मर्यते, नानन्तर्ये. दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत. लक्षणया त्व् एषो ऽर्थः स्यात्. न चेदं स्नानम् अदृष्टार्थं विधीयते. किं तु लक्षणयास्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालम् आहुः वेदम् अधीत्य स्नायाद्, गुरुकुलान् मा समावर्तिष्टेत्य् अदृष्टार्थतापरिहारायैव. [३]{*१/१७*} तस्माद् वेदाध्ययनम् एव पूर्वम् अभिनिर्वर्त्याननतरं धर्मो जिज्ञासितव्य इत्य् अथशब्दस्य सामर्थ्यम्. न ब्रूमो ऽन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा न कर्तव्या इति, किं तु वेदम् अधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्य इत्य् अथशब्दस्यार्थः. अतःशब्दो वृत्तस्यापदेशको हेत्वर्थेन{*१/१८*}, यथा क्षेमसुभिक्षो ऽयं देशः, अतो ऽहम् अस्मिन् देशे प्रतिवसामीति. एवम् अधीतो वेदो धर्मजिज्ञासायां हेतुर् ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः इत्य् अतःशब्दस्य सामर्थ्यम्. धर्माय हि वेदवाक्यानि विचारयितुम् अनधीतवेदो न शक्नुयात्. अतः, एतस्मात् कारणात्, अनन्तरं धर्मं जिज्ञासितुम् इच्छेद् इत्य् अतःशब्दस्यार्थः. धर्माय जिज्ञासा धर्मजिज्ञासा. सा हि तस्य ज्ञातुम् इच्छा. स पुनः{*१/१९*} कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति. तत्र को धर्मः, कथंलक्षण इत्य् एकेनैव सूत्रेण व्याख्यातं चोदनालक्षणो ऽर्थो धर्म इति{*१/२०*}. कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति शेषलक्षणेन{*१/२१*} व्याख्यातम्{*१/२२*}. क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्य् एतासां प्रतिज्ञानां पिण्डस्य एतत् सूत्रम् अथातो धर्मजिज्ञासेति. धर्मः प्रसिद्धो वा स्याद् अप्रसिद्धो वा. स चेत् प्रसिद्धः, न जिज्ञास्यः{*१/२३*}. अथाप्रसिद्धः, नतराम्. तद् एतद्{*१/२४*} अनर्थकं धर्मजिज्ञासाप्रकरणम्. अथवार्थवत्. धर्मं प्रति हि विप्रतिपन्ना बहुविदः. केचिद् अन्यं धर्मम् आहुः, केचिद् अन्यम्. सो ऽयम् अविचार्य प्रवर्तमानः कंचिद् एवोपाददानो विहन्येतानर्थं चर्च्छेत्. तस्माद् धर्मो जिज्ञासितव्यः{*१/२५*}. स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे. तद् अभिधीयते -
SK
NOTES: *{१/१: TB: एवं हि; TA: एवं सति; E१,२,३,५,६: एवं}* *{१/२: TA, TB: तद् यत्न-; E१: प्रयत्न-; E२,३,६: इति प्रयत्न-; E५: इति यत्न-}* *{१/३: E२,३,५, TA, TB, ŚV: तादृशीं; E१,६: मादृशां}* *{१/४: E२: १,४; E३: २३; E५: १,९; E६: १,१}* *{१/५: E२,५; हिन्तेर् शिष्मः fओल्ग्त् बेइ TA: नापि परस्ताद् आनन्तर्यम्, बेइ E१,३: परस्ताच् च; नछ् Kउमारिल, ŚV १.८४-८५ wउर्दे दिएस् वोन् एइनिगेन् हिन्zउगेfüग्त् (केचिद् अध्याहरन्ति)}* *{१/६: E१,२,३,५,६, TB; TA, E१ (व्.ल्.): प्रतिषेधयिष्यति}* *{१/७: E१,५, TA, TB; E२,३,६: प्रतिषेधति...उपदिशति}* *{१/८: E१,२,३,६, TA; E६, M.परि.: वेदं नानधीत्य; TB: वेदं नाधीत}* *{१/९: MS २.१.४६: अर्थैNOTES:अकत्वाद् एकं वाक्यम्, साकाङ्क्षं चेद् विभागे स्यात्}* *{१/१०: E२,३,५, TA, TB, Tआत्प्.; E१,६: किं च}* *{१/११: E५; E१,२,३,६, TA: पूर्वं गम्यते, TB: पूर्वम्}* *{१/१२: BGSऊ. II.६.१ (fरग्लिछ्, ओब् wइर्क्लिछ् दिएसे Sतेल्ले गेमेइन्त् इस्त्}* *{१/१३: E१,२,३,५,६;, TA, TB: अवकल्पयेम}* *{१/१४: E१,२,३,६, TA; E५, TB: तत्र}* *{१/१५: MS ४.३.१}* *{१/१६: E५, TB; हि fएह्ल्त् इन् E१,२,३,६, TA}* *{१/१७: E२: १,८; E३: २८; E५: १,१४; E६: १,२}* *{१/१८: E५, Tआत्प्.; E१,२,३,६, TA, TB: हेत्वर्थः}* *{१/१९: पुनः fएह्ल्त् इन् TA, TB}* *{१/२०: MS १.१.२}* *{१/२१: E१,२,३,५,६, TA, Kआश्., Nय्.रत्.; TB, Tआत्प्.: शेषलक्षणे}* *{१/२२: MS ३-१२}* *{१/२३: TA, TB, Kआश्.; E१,२,३,५,६, Nय्.रत्.: जिज्ञासितव्यः}* *{१/२४: E१,२,३,५,६, TA; TB: उभयत्रापि}* *{१/२५: TB; E१,२,३,५,६, TA: जिज्ञासितव्य इति}*
SK
चोदनालक्षणो ऽर्थो धर्मः // MS_१,१.२ //
SK
चोदनेति क्रियायाः प्रवर्तकं वचनम् आहुः. आचार्य[४]{*१/२६*}चोदितः करोमीति हि दृश्यते. लक्ष्यते येन, तल् लक्षणम्. धूमो लक्षणम् अग्नेर् इति हि वदन्ति. तया यो लक्ष्यते, सो ऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे. चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य् एवंजातीयकम् अर्थं शक्नोत्य् अवगमयितुम्, नान्यत् किंचनेन्द्रियम्. नन्व् अतथाभूतम् अप्य् अर्थं ब्रूयाच् चोदना, यथा यत्किंचन लौकिकं वचनं नद्यास् तीरे फलानि सन्तीति. तत् तथ्यम् अपि भवति, वितथम् अपि भवतीति.
SK
उच्यते - विप्रतिषिद्धम् इदम् अभिधीयते{*१/२७*} ब्रवीति च वितथं चेति. ब्रवीतीति उच्यते ऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति. यस्मिंश् च निमित्तभूते सत्य् अवबुध्यते, सो ऽवबोधयति. यदि च चोदनायां सत्याम् अग्निहोत्रात् स्वर्गो भवतीत्य् अवगम्यते{*१/२८*}, कथम् उच्यते न तथा भवतीति. अथ न तथा भवति{*१/२९*}, कथम् अवबुध्यते. असन्तम् अर्थम् अवबुध्यत इति विप्रतिषिद्धम्. न च स्वर्गकामो यजेतेत्य्{*१/३०*} अतो वचनात् संदिग्धम् अवगम्यते भवति वा स्वर्गो न वा भवतीति. न च निश्चितम् अवगम्यमानम् इदं मिथ्या स्यात्. यो हि जनित्वा प्रध्वंसते नैतद् एवम् इति, स मिथ्याप्रत्ययः. न चैष कालान्तरे पुरुषान्तरे ऽवस्थान्तरे देशान्तरे वा विपर्येति. तस्माद् अवितथः. तस्माद् अवितथः. यत् तु लौकिकं वचनम्, तच् चेत् प्रत्ययितात् पुरुषाद् इन्द्रियविषयं वा, अवितथम् एव तत्. अथाप्रत्ययितात् पुरुषाद् अनिन्द्रियविषयं वा, तत्{*१/३१*} पुरुषबुद्धिप्रभवम् अप्रमाणम्. अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनात्. अपरस्मात् पौरुषेयाद् वचनाद् अवगतम् इति चेत्, तद् अपि तेनैव तुल्यम्. नैवंजातीयकेष्व् अर्थेषु पुरुषवचनं प्रामाण्यम् उपैति, जात्यन्धानाम् इव वचनं रूपविशेषेषु. नन्व् अविदुषाम्{*१/३२*} उपदेशो नावकल्पते. उपदिष्टवन्तश् च मन्वादयः. तस्मात् पुरुषाः{*१/३३*} सन्तो विदितवन्तश्{*१/३४*} च. यथा चक्षुषा रूपम् उपलभ्यत इति दर्शनाद् एवावगतम्. उच्यते - उपदेशो{*१/३५*} हि व्यामोहाद् अपि भवति. असति व्यामोहे वेदाद् अपि भवति. अपि च पौरुषेयाद् वचनाद् एवम् अयं पुरुषः वेदेति भवति प्रत्ययः, न एवम् अयम् अर्थ इति. विप्लवते खल्व् अपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः. न तु वेदवचनस्य मिथ्यात्वे किंचन प्रमाणम् अस्ति. ननु सामान्यतो दृष्टं भविष्यति{*१/३६*}. पौरुषेयं वचनं वितथम् उपलभ्य वचनसामान्याद्{*१/३७*} वेदवचनं मिथ्येत्य् अनुमीयते{*१/३८*}. न, अन्यत्वात्. न ह्य् अन्यस्य वितथभावे{*१/३९*} ऽन्यस्य वैतथ्यं भवितुम् अर्हति{*१/४०*}, अन्यत्वाद् एव. न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुम् अर्हति. अपि च पुरुषवचनसाधर्म्याद् वेदवचनं वितथम्{*१/४१*} इत्य् अनुमानम्{*१/४२*}. प्रत्यक्षस् तु वेदवचने{*१/४३*} प्रत्ययः. न चानुमानं प्रत्यक्षविरोधि{*१/४४*} प्रमाणं भवति{*१/४५*}. तस्माच् चोदनालक्षणो ऽर्थः{*१/४६*} श्रेयस्करः. एवं तर्हि श्रेयस्करो जिज्ञासितव्यः. किं धर्मजिज्ञासया? उच्यते - य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते. कथम् अवगम्यते{*१/४७*}? यो हि यागम् अनुतिष्ठति, तं धार्मिक इति समाचक्षते. यश् च यस्य कर्ता, स तेन व्यपदिश्यते{*१/४८*}, यथा पाचको लावक इति. तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स एव{*१/४९*} धर्मशब्देनोच्यते. न केवलं लोके, वेदे ऽपि - यज्ञेन यज्ञम् अयजन्त देवाः/ तानि धर्माणि प्रथमान्य् आसन्//
SK
इत्य्{*१/५०*} यजतिशब्दवाच्यम्{*१/५१*} एव धर्मं{*१/५२*} समानन्ति. उभयम् इह चोदनया लक्ष्यते, अर्थो ऽनर्थश् च. को ऽर्थः? यो निःश्रेयसाय ज्योतिष्टोमादिः. को ऽनर्थः? यः प्रत्यवायाय श्येनो वज्र इषुर् इत्य् एवमादिः. तत्रानर्थो धर्म उक्तो मा भूद् इत्य् अर्थग्रहणम्{*१/५३*}. कथं पुनर् असाव् अनर्थः? हिंसा हि सा, सा च{*१/५४*} प्रतिषिद्धा{*१/५५*}. कथं पुनर् असाव् अनर्थः कर्तव्यतयोपदिश्यते{*१/५६*}? उच्यते - नैव श्येनादयः कर्तव्यतया विज्ञायन्ते. यो हि हिंसितुम् इच्छेत्, तस्यायम् अभ्युपाय इति हि तेषाम् उपदेशः. श्येनेनाभिचरन् यजेतेति{*१/५७*} हि समामनन्ति, नाभिचरितव्यम् इति. नन्व् अशक्तम् इदं सूत्रम् इमाव् अर्थाव् अभिवदितुम्, चोदना[६]{*१/५८*}लक्षणो धर्मो नेन्द्रियादिलक्षणः, अर्थश् च धर्मो नानर्थ इति. एकं हीदं वाक्यम्. तद् एवं सति भिद्येत. उच्यते - यत्र वाक्याद् एवार्थो{*१/५९*} ऽवगम्यते, तत्रैवम्. तत् तु वैदिकेषु, न सूत्रेषु. अन्यतो ऽवगते ऽर्थे सूत्रम् एवमर्थम्{*१/६०*} इत्य् अवगम्यते, तेन चैकदेशः सूत्र्यत इति{*१/६१*} सूत्रम्. तत्र भिन्नयोर् एव वाक्ययोर् इमाव् एकदेशाव् इत्य् अवगन्तव्यम्. अथवा अर्थस्य सतश् चोदनालक्षणस्य धर्मत्वम् उच्यत{*१/६२*} इत्य् एकार्थम्{*१/६३*} एवेति.
SK
NOTES: *{१/२६: E२: १,१४; E३: ३६; E५: १,२०; E६: १,३}* *{१/२७: E५, TB, TC, Kआश्., Nय्. रत्.; E१,२,३,६, TA, A: उच्यते}* *{१/२८: TB, TC; E१,२,३,५,६, TA, A: गम्यते}* *{१/२९: TB, TC; E१,२,३,५,६, TA, A: भवतीति}* *{१/३०: E१,२,३,५,६, TA, A; TC, Tआत्प्.: अग्निहोत्रं जुहुयात् स्वर्गकाम; TB: अग्निहोत्रात् स्वर्गो भवति}* *{१/३१: E५, TA, TB, TC, A; E१,२,३,६: तावत्}* *{१/३२: व्.ल्.: न च विदुषां (NR अद् ŚV, S.१५५); Mइत्तेइलुन्ग् वोन् Pरोf. Sलजे}* *{१/३३: E५, TA, TB, TC, A; E१,२,३,६: पुरुषात्}* *{१/३४: E१,२,३,५,६, TA, A; TB, TC: विदितवन्तः}* *{१/३५: E५, TA, TB, TC, Tआत्प्., Kआश्.; E१,२,३,६, Nय.रत्.: उपदेशा...भवन्ति...भवन्ति}* *{१/३६: TB, TC, Kआश्.; E१,२,३,५,६, TA, A, Tआत्प्. ओम्}* *{१/३७: TC, Tआत्प्., Kआश्.; E१,२,३,५,६, TA, TB, A: -साम्याद्}* *{१/३८: TC, A, Kआश्.: वेदवचनं मिथ्येत्य् अनुमीयते; E१,२,३,५,६, TA: इदम् अपि वितथम् अवगम्य-ते; Tआत्प्.: वैदिकम् अपि तथा स्यात्}* *{१/३९: E१,२,३,५,६, TA, TB, A; TC, Kआश्.: वैतथ्ये}* *{१/४०: E१,२,३,५,६, TA; TB, TC, Tआत्प्.: भवति}* *{१/४१: E१,२,३,५,६, TA, TB, TC; A, Kआश्., Nय्.रत्.: मिथ्या; Tआत्प्.: अप्रमाणम्}* *{१/४२: TA, A, Tआत्प्., Kआश्., Nय्.रत्.; E५, TB, TC: अनुमानाद् अवगम्यते; E१,२,३,६: अनुमानं व्यप-देशाद् अवगम्यते}* *{१/४३: TA, TB, TC, A, Tआत्प्., Kआश्., TSP; E१,२,३,५,६, Nय्.रत्.: वेदवचनेन}* *{१/४४: E१,२,३,५,६, TA, A; TB, TC: -विरोधे; Tआत्प्., Nय्.रत्.: -विरुद्धम्}* *{१/४५: E१,२,३,५,६, TA, TB, A, TSP; TC, Tआत्प्.: भवितुम् अर्हति, Nय्.रत्.: आत्मानं लभते}* *{१/४६: TA, TC, Kआश्., Nय्.रत्. ओम्. ऽर्थः}* *{१/४७: TA, TB, TC, A, TSP; E१,२,३,५,६: अवगम्यताम्}* *{१/४८: E१,२,३,५,६, TA, A; TB, TC: समाख्यायते, TSP: आख्यायते}* *{१/४९: E२,३,५,६ TC, TSP; E१, TB, TA, A ओम्. एव}* *{१/५०: Tऐत्.S. ३.५.११.५}* *{१/५१: TB, TC: -वाच्ये}* *{१/५२: TB, TC: धर्मशब्दं}* *{१/५३: TB, TC, Kआश्.: इत्य् एवमर्थम् अर्थग्रहनम्}* *{१/५४: E५, TA, TB, TC, Tआत्प्., Kआश्.; E१,२,३,६: हिंसा च}* *{१/५५: TB, TC; E१,२,३,५,६, TA, A: प्रतिषिद्धेति}* *{१/५६: E१,२,३,५,६, TA, TB, Kआश्., Nय. रत्.: कर्तव्यतया; A, Tआत्प्., Kआश्., Nय्.रत्.: कर्तव्या}* *{१/५७: Āप्ŚS २२.४.१३ (१७)}* *{१/५८: E२: १,२२; E३: ९६; E५: १,३८; E६: १,४}* *{१/५९: TB, TC, Kआश्.; E१,२,३,५,६, TA, A, Tआत्प्. ओम्. एव}* *{१/६०: TB, TC, Kआश्.; E१,२,३,५,६, TA, A: एवमर्थम् इदम्}* *{१/६१: Vग्ल्. YD, E१, S.२/२३-२४: सूचनात् सूत्रम्; सूचयति तांस् तान् अर्थविशेषान् इति सूत्रम्/}* *{१/६२: Tआत्प्., Kआश्. ओम्. उच्यते}* *{१/६३: E१,२,३,५,६, TA, TB, A, Kआश्., Nय्.रत्.; TC, Tआत्प्.: एकार्थत्वम्}*
SK
तस्य निमित्तपरीष्टिः // MS_१,१.३ //
SK
उक्तम् अस्माभिश् चोदनानिमित्तं धर्मस्य ज्ञानम् इति. तत् प्रतिज्ञामात्रेणोक्तम्. इदानीं तस्य निमित्तं परीक्षिष्यामहे, किं चोदनैवोतान्यद्{*१/६४*} अपीति. तस्मान् न तावन् निश्चीयते चोदनालक्षणो ऽर्थो धर्म इति. तद् उच्यते -
SK
NOTES: *{१/६४: E५, TA, TB, TC, A; E१,२,३,६: इत्य् अन्यद्}*
SK
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् अनिमित्तम्, विद्यमानोपलंभनत्वात् // MS_१,१.४ //
SK
इदं परीक्ष्यते - प्रत्यक्षं तावद् अनिमित्तम्. किं कारणम्? एवंलक्षणकं हि तत् - सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्. सतीन्द्रियार्थसंबन्धे या पुरुषस्य बुद्धिर् जायते, तत् प्रत्यक्षम्. भविष्यंश् चैषो ऽर्थो न ज्ञानकाले ऽस्ति{*१/६५*}. सतश् चैतद् उपलम्भनम्, नासतः. अतः प्रत्यक्षम् अनिमित्तम्. बुद्धिर् वा जन्म वा संनिकर्षो वेति नैषां कस्यचिद् अवधारणार्थम् एतत् सूत्रम्. सतीन्द्रियार्थसंप्रयोगे, नासतीत्य् एतावद् अवधार्यते. अनेकस्मिन्न् अवधार्यमाणे भिद्येत वाक्यम्. प्रत्यक्षपूर्वकत्वाच् चानुमानोपमानार्थापत्तीनाम् अप्य् अकारणत्वम्{*१/६६*}. अभावो ऽपि नास्ति, यतः -
SK
NOTES: *{१/६५: TB, TC; E१,२,३,५,६, TA, A: अस्तीति}* *{१/६६: E१,२,३,५,६, TA, A: अकारणत्वम् इति}*
SK
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे, तत् प्रमाणं बादरायणस्य, अनपेक्षत्वात् // MS_१,१.५ //
SK
औत्पत्तिक इति नित्यं ब्रूमः. उत्पत्तिर् हि{*१/६७*} भाव उच्यते लक्षणया. अवियुक्तः शब्दार्थयोर् भावः संबन्धेन{*१/६८*}, नोत्पन्नयोः पश्चात् संबन्धः. औत्पत्तिकः शब्दस्यार्थेन संबन्धस् तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तं प्रत्यक्षादिभिर् अनवगतस्य{*१/६९*}. कथम्? उपदेशो हि भवति. उपदेश इति विशिष्टस्य शब्दस्योच्चारणम्. अव्यतिरेकश् च भवति तस्य{*१/७०*} ज्ञानस्य. न हि तद् उत्पन्नं{*१/७१*} ज्ञानं विपर्येति. यच् च नाम ज्ञानम् उत्पन्नं{*१/७२*} न विपर्येति, न तच् छक्यते वक्तुं नैतद् एवम् इति, यथा विज्ञायते{*१/७३*}, न तथा भवति, यथैतन् न विज्ञायते, तथैतद् इति. अन्यद् अस्य हृदये, अन्यद् वाचि स्यात्. एवं वदतो विरुद्धम् इदम् अवगम्यत{*१/७४*} अस्ति नास्ति चेति{*१/७५*}. तस्मात् तत् प्रमाणम्, अनपेक्षत्वात्. न ह्य् एवं सति प्रत्ययान्तरम् अपेक्षितव्यं पुरुषान्तरं वा. स्वयंप्रत्ययो{*१/७६*} हि असौ. बादरायणस्येदं{*१/७७*} मतं कीर्त्यते बादरायणं पूजयितुं नात्मीयं मतं पर्युदसितुम्. वृत्तिकारस् त्व् अन्यथेमं ग्रन्थं वर्णयांचकार तस्य निमित्तपरीष्टिर् इत्य् एवमादिम् - न परीक्षितव्यं निमित्तम्. प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम्. अतस् तद् अपि न परीक्षितव्यम्. ननु{*१/७८*} व्यभिचारात् परीक्षितव्यं निमित्तम्{*१/७९*}. शुक्तिका हि रजतवत् प्रकाशते यतस्, तेन प्रत्यक्षं व्यभिचरति, तन्मूलत्वाच् चानुमानादीन्य् अपि. तत्रापरीक्ष्य प्रवर्तमानो ऽर्थाद् विहन्येत अनर्थं चाप्नुयात् कदाचित्. नैतद् एवम्. यत् प्रत्यक्षम्, [८]{*१/८०*} न तद् व्यभिचरति. यद् व्यभिचरति, न तत् प्रत्यक्षम्. किं तर्हि प्रत्यक्षम्? तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत् प्रत्यक्षम्{*१/८१*}. यद्विषयं ज्ञानम्, तेनैव संप्रयोग इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत् प्रत्यक्षम्. यद् अन्यविषयं ज्ञानम् अन्यसंप्रयोगे भवति, न तत् प्रत्यक्षम्. कथं पुनर् इदम् अवगम्यत इदम् तत्संप्रयोगे{*१/८२*}, इदम् अन्यसंप्रयोग{*१/८३*} इति. यन् नान्यसंप्रयोगे, तत् तत्संप्रयोगे. एतद्विपरीतम् अन्यसंप्रयोग इति. कथं ज्ञायते{*१/८४*}, यदा हि शुक्तिकायाम् अपि रजतं मन्यमनो रजतसंनिकृष्टं मे चक्षुर् इति मन्यते? बाधकं हि यत्र ज्ञानम् उत्पद्यते नैतद् एवम्, मिथ्या-ज्ञानम् इदम् इति, तद् अन्यसंप्रयोगे, विपरीतं तत्संप्रयोग इति. प्राग् बाधकज्ञानोत्पत्तेः कथम् अवगम्यते, यदा न तत्काले संयग्ज्ञानस्य मिथ्याज्ञानस्य च कश्चिद् विशेषः? यदा{*१/८५*} क्षुदादिभिर्{*१/८६*} उपहतं मनो भवति, इन्द्रियं वा तिमिरादिभिः, सौक्ष्म्यादिभिर् वा बाह्यो विषयः, ततो मिथ्याज्ञानम्, अनुपहतेषु संयग्ज्ञानम्. इन्द्रियमनोर्थसंनिकर्षो हि ज्ञानस्य{*१/८७*} हेतुः, असति तस्मिन् अज्ञानात्{*१/८८*}. तदन्तर्गतो दोषो मिथ्याज्ञानस्य हेतुः. दुष्टेषु हि ज्ञानं मिथ्या भवति. कथम् अवगम्यते? दोषापगमे संप्रतिपत्तिदर्शनात्. कथं दुष्टादुष्टावगम इति चेत्, प्रयत्नेनान्विच्छन्तो न चेद् दोषम् उपलभेमहि{*१/८९*}, प्रमाणाभावाद् अदुष्टम् इति मन्येमहि. तस्माद् यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययो नान्य इति. ननु सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः. प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः{*१/९०*} स्वप्ने. जाग्रतो ऽपि स्तम्भ इति वा कुड्यम्{*१/९१*} इति वा प्रत्यय एव भवति. तस्मात् सो ऽपि निरालम्बनः. उच्यते - स्तम्भ इति जाग्रतो बुद्धिः सुपरिनिश्चिता, कथं विपर्यसिष्यति{*१/९२*}? स्वप्ने ऽप्य् एवम् एव सुपरिनिश्चितासीत् प्राक्{*१/९३*} प्रबोधनात्{*१/९४*}. न तत्र कश्चिद् विशेष इति चेत्{*१/९५*}, न, स्वप्ने विपर्ययदर्शनाद् अविपर्य[९]{*१/९६*}याच् चेतरस्मिन्. तत्सामान्याद् इतरत्रापि भविष्यतीति चेत्. यदि प्रत्ययत्वात् स्वप्नप्रत्ययस्य मिथ्याभावः, जाग्रत्प्रत्ययस्यापि भवितुम्{*१/९७*} अर्हति. अथ प्रतीतिस् तथाभावस्य हेतुः{*१/९८*}, न शक्यते प्रत्ययाद् अयं{*१/९९*} अन्य इति वदितुम्{*१/१००*}. अन्यतस् तु{*१/१०१*} स्वप्नप्रत्ययस्य मिथ्याभावो विपर्ययाद् अवगतः. कुत इति चेत्. सनिद्रस्य मनसो दौर्बल्यान् निद्रा मिथ्याभावस्य हेतुः स्वप्नादौ स्वप्नान्ते च. सुषुप्तस्य प्रत्ययाभाव एव{*१/१०२*}. अचेतयन् एव हि सुषुप्त इत्य् उच्यते. तस्माज् जाग्रतः प्रत्ययो न{*१/१०३*} मिथ्येति. ननु जाग्रतो ऽपि करणदोषः स्यात्? यदि स्यात्, अवगम्येत. स्वप्नदर्शनकाले ऽपि नावगम्यत इति चेत्. तन् न{*१/१०४*}. प्रबुद्धो ह्य् अवगच्छति - निद्राक्रान्तं मे मन आसीद् इति. शून्यस् तु. कथम्? अर्थज्ञानयोर् आकारभेदं नोपलभामहे. प्रत्यक्षा च नो बुद्धिः. अतस् तद्भिन्नम् अर्थरूपं नाम न किंचिद् अस्तीति पश्यामः. स्याद्{*१/१०५*} एतद् एवम्, यद्य् अर्थाकारा बुद्धिः स्यात्. निराकारा तु नो बुद्धिः, आकारवान् बाह्यो ऽर्थः. स हि{*१/१०६*} बहिर्देशसंबद्धः प्रत्यक्षम् उपलभ्यते. अर्थविषया हि प्रत्यक्षबुद्धिर् न बुद्ध्यन्तरविषया. क्षणिका हि सा न बुद्ध्यन्तरकालम् अवस्थास्यत इति{*१/१०७*}. उत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवद् इति यद्य्{*१/१०८*} उच्येत{*१/१०९*}, तन् न. न ह्य् अज्ञाते ऽर्थे कश्चिद् बुद्धिम् उपलभते, ज्ञाते त्व् अनुमानाद् अवगच्छति. तत्र यौगपद्यम् अनुपपन्नम्. ननु उत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञात{*१/११०*} इत्य् उच्यते नानुत्पन्नायाम्. अतः पूर्वं बुद्धिर् उत्पद्यते, पश्चाज् ज्ञातो ऽर्थः. ननु उत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञात इत्य् उच्यते नानुत्पन्नायाम्. अतः पूर्वं बुद्धिर् उत्पद्यते, पश्चाज् ज्ञातो ऽर्थः. सत्यम्. पूर्वं बुद्धिर् उत्पद्यते, न [१०]{*१/१११*} तु पूर्वं ज्ञायते. भवति हि कदाचिद् एतत्, यज् ज्ञातो{*१/११२*} ऽर्थः सो ऽज्ञात इत्य् उच्यते. न च अर्थव्यपदेशम् अन्तरेण बुद्धेः रूपोपलम्भनम्{*१/११३*}. तस्मान् नाव्यपदेश्या{*१/११४*} बुद्धिर्, अव्यपदेश्यं च नः प्रत्यक्षम्{*१/११५*}. तस्माद् अप्रत्यक्षा बुद्धिः. अपि च कामम् एकरूपत्वे बुद्धेर् एवाभावः, न त्व्{*१/११६*} अर्थस्य प्रत्यक्षस्य सतः{*१/११७*}. न चैकरूप्यम्. निराकाराम्{*१/११८*} एव हि बुद्धिम् अनुमिमीमहे, साकारं चार्थं प्रत्यक्षम् एवावगच्छामः. तस्माद् अर्थालम्बनः प्रत्ययः. अपि च नियतनिमित्तस् तन्तुष्व् एवोपादीयमानेषु पटप्रत्ययः. इतरथा तन्तूपादाने{*१/११९*} ऽपि कदाचिद् घटबुद्धिर् अविकलेन्द्रियस्य स्यात्. न चैवम् अस्ति. तस्मान्{*१/१२०*} न निरालम्बनः प्रत्ययः. अतो न व्यभिचरति प्रत्यक्षम्. अनुमानं ज्ञातसंबन्धस्य एकदेशदर्शनाद् एकदेशान्तरे ऽसंनिकृष्टे ऽर्थे बुद्धिः. तत् तु द्विविधं प्रत्यक्षतोदृष्टसंबन्धं सामान्यतोदृष्टसंबन्धं च. तत्र{*१/१२१*} प्रत्यक्षतोदृष्टसंबन्धं यथा धूमाकृतिदर्शनाद् अग्न्याकृतिविज्ञानम्. सामान्यतोडृष्टसंबन्धं च यथा देवदत्तस्य गतिपूर्विकं देशान्तरप्राप्तिम् उपलभ्यादित्ये ऽपि{*१/१२२*} गतिस्मरणम्. शास्त्रं शब्दविज्ञानाद् असंनिकृष्टे ऽर्थे विज्ञानम्. उपमानम् अपि सादृश्यम् असंनिकृष्टे ऽर्थे बुद्धिम् उत्पादयति, यथा गवयदर्शनं गोस्मरणस्य. अर्थापत्तिर् अपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यत इत्य् अर्थकल्पना, यथा जीवतो देवदत्तस्य{*१/१२३*} गृहाभावदर्शनेन बहिर्भावस्य अदृष्टस्य कल्पना. अभावो ऽपि प्रमाणाभावो नास्तीत्य् अस्यार्थस्यासंनिकृष्टस्य. तस्मात् प्रसिद्धत्वान् न परीक्षितव्यं निमित्तम्. ननु प्रत्यक्षादीन्य् अन्यानि भवन्तु नाम प्रमाणानि, शब्दस् तु न प्रमाणम्. कुतः - अनिमित्तं विद्यमानोपलम्भनत्वात्{*१/१२४*}. अनिमित्तम् अप्रमाणं शब्दः. यो ह्य् उपलम्भनविषयो [११]{*१/१२५*} नोपलभ्यते, स नास्ति, यथा शशस्य विषाणम्. उपलम्भनानि{*१/१२६*} चेन्द्रियाणि पश्वादीनाम्. न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते. अतो नेष्टिः पशुफला. कर्मकाले च कर्मफलेन{*१/१२७*} भवितव्यम्. यत्कालं हि मर्दनम्, तत्कालं मर्दनसुखम्. कालान्तरे फलं दास्यतीति चेत्, न, न कालान्तरे फलम् इष्टेर् इत्य् अवगच्छामः. कुतः? यदा तावद् असौ विद्यमाना आसीत्, तदा फलं न दत्तवती. यदा फलम् उत्पद्यते, तदासौ नास्ति. असती च कथं दास्यति? अपि च कर्मकाल एव फलं श्रूयते - यागः करणम् इति वाक्याद्{*१/१२८*} अवगम्यते, करणं चेद् उत्पन्नम्, कार्येण भवितव्यम् इति{*१/१२९*}. प्रत्यक्षं च फलकारणम् अन्यद् उपलभामहे{*१/१३०*}. न च दृष्टे कारणे सत्य् अदृष्टं कल्पयितुं शक्यते{*१/१३१*}, प्रमाणाभावात्. एवं दृष्टापचारस्य वेदस्य स्वर्गाद्य् अपि फलं न भवतीति मन्यामहे. दृष्टविरुद्धम् अपि भवति किंचिद् वैदिकं{*१/१३२*} वचनम्. पात्रचयनं विधायाह - स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीति{*१/१३३*} प्रत्यक्षं शरीरं{*१/१३४*} व्यपदिशति. न च तत् स्वर्गं लोकं याति. प्रत्यक्षं हि तद् दह्यते. न चैष यातीति विधिशब्दः. एवंजातीयकं च प्रमाणविरुद्धं वचनम् अप्रमाणम् अम्बुनि मज्जन्त्य् अलाबूनि, ग्रावानः प्लवन्त इति{*१/१३५*} यथा. तत्सामान्याद् अग्निहोत्रादिचोदनास्व्{*१/१३६*} अप्य् अनाश्वासः. तस्मान् न चोदनालक्षणो ऽर्थो धर्मः. औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम्{*१/१३७*}. तुशब्दः पक्षं व्यावर्तयति. अपौरुषेयः शब्दस्यार्थेन संबन्धस् तस्याग्निहोत्रादिलक्षणस्यार्थस्य{*१/१३८*} ज्ञानं प्रत्यक्षादिभिर्{*१/१३९*} अनवगम्यमानस्य. तथा च{*१/१४०*} चोदनालक्षणः संयक्प्रत्यय{*१/१४१*} इति. पौरुषेये हि सति संबन्धे{*१/१४२*} यः प्रत्ययः, तस्य मिथ्याभाव आशङ्क्येत. परप्रत्ययो [१२]{*१/१४३*} हि तदा{*१/१४४*} स्यात्. अथ शब्दे ब्रुवति कथं मिथ्येति? न हि तदानीम् अन्यतः पुरुषाद् अवगमः{*१/१४५*}. ब्रवीतीत्य्{*१/१४६*} उच्यत अवबोधयति{*१/१४७*}, बुध्यमानस्य निमित्तम् भवतीति{*१/१४८*}. शब्दे चेन्{*१/१४९*} निमित्तभूते{*१/१५०*} स्वयम् अवबुध्यते{*१/१५१*}, कथं विप्रलब्धं ब्रूयान् नैतद् एवम् इति. न चास्य चोदना स्याद् वा न वेति सांशयिकं प्रत्ययम् उत्पादयति. न च मिथ्यैतद् इति कालान्तरे देशान्तरे ऽवस्थान्तरे पुरुषान्तरे वा पुनर् अव्यपदेश्यः प्रत्ययो{*१/१५२*} भवति. यो ऽप्य् अन्यप्रत्ययविपर्यासं{*१/१५३*} दृष्ट्वात्रापि विपर्यसिष्यतीत्य् आनुमानिकः प्रत्यय उत्पद्यते, सो ऽप्य् अनेन प्रत्यक्षेण प्रत्ययेन{*१/१५४*} विरुध्यमानो बाध्यते. तस्माच् चोदनालक्षण एव धर्मः. स्याद् एतद् एवम्{*१/१५५*} - नैव शब्दस्यार्थेनास्ति{*१/१५६*} संबन्धः, कुतो ऽस्य पौरुषेयता वेति. कथम्? स्याच् चेद् अर्थेन संबन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्,
SK
यदि{*१/१५७*} संश्लेषलक्षणं संबन्धम्{*१/१५८*} अभिप्रेत्योच्यते. कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावयौनादयस्{*१/१५९*} तु संबन्धाः शब्दस्यानुपपन्ना एवेति. उच्यते - यो ऽत्र व्यपदेश्यः संबन्धः, तम् एकं न व्यपदिशति भवान्, प्रत्यय्यस्य प्रत्यायकस्य च यः संज्ञासंज्ञिलक्षणः संबन्धस् तम्{*१/१६०*} इति. आह - यदि प्रत्यायकः शब्दः, प्रथमश्रुतः किं न प्रत्याययति? उच्यते - सर्वत्र नो दर्शनं प्रमाणम्. प्रत्यायकेति हि प्रत्ययं दृष्ट्वावगच्छामः, न प्रथमश्रुत इति प्रथमश्रवणे प्रत्ययम् अदृष्ट्वा. यावत्कृत्वः श्रुताद् अर्थावगमः. यथा चक्षुर् द्रष्ट्र् न बाह्येन प्रकाशेन विना प्रकाशयतीत्य् अद्रष्टृ न भवति. यदि [१३]{*१/१६१*} प्रथमश्रुतो न प्रत्याययति, कृतकस् तर्हि शब्दस्यार्थेन संबन्धः. कुतः? स्वभावतो ह्य् असंबन्धाव् एतौ शब्दार्थौ. मुखे हि शब्दम् उपलभामहे, भूमाव् अर्थम्. शब्दो ऽयं न त्व् अर्थः, अर्थो ऽयं न शब्देति च व्यपदिशन्ति. रूपभेदो ऽपि भवति. गौर् इतीमं शब्दम् उच्चारयन्ति, सास्नादिमन्तम् अर्थम् अवबुध्यन्त{*१/१६२*} इति. पृथग्भूतयोश् च यः संबन्धः, स{*१/१६३*} कृतको दृष्टः, यथा रज्जुघटयोर् इति. अथ गौर् इत्य् अत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवान् Uपवर्षः. श्रोत्रग्रहणे ह्य् अर्थे लोके शब्दशब्दः प्रसिद्धः. ते च श्रोत्रग्रहणाः. यद्य् एवम्, अर्थप्रत्ययो नोपपद्यते. कथम्? एकैकाक्षरविज्ञाने ह्य्{*१/१६४*} अर्थो नोपलभ्यते. न चाक्षरव्यतिरिक्तो ऽन्यः कश्चिद् अस्ति समुदायो नाम, यतो ऽर्थप्रतिपत्तिः स्यात्. यदा हि{*१/१६५*} गकारः, न तदौकारादिविसर्जनीयौ. यदौकारविसर्जनीयौ, न तदा गकारः. अतो गकारादिव्यतिरिक्तो ऽन्यो गोशब्दो{*१/१६६*} ऽस्ति, यतो ऽर्थप्रतिपत्तिः स्यात्. अन्तर्हिते ऽपि{*१/१६७*} शब्दे स्मरणाद् अर्थप्रत्यय इति चेत्{*१/१६८*}, न. स्मृतेर् अपि क्षणिकत्वाद् अक्षरैस् तुल्यता. पूर्ववर्णजनितसंस्कारसहितो ऽन्त्य वर्णः प्रत्यायक{*१/१६९*} इत्य् अदोषः. नन्व् एवम् अपि{*१/१७०*} शब्दाद् अर्थं प्रतिपद्यामह इति लौकिकं वचनम् अनुपपन्नं स्यात्{*१/१७१*}. उच्यते - यदि नोपपद्यते, अनुपपन्नं नाम. न हि लौकिकं वचनम् अनुपपन्नम् इत्य् एतावता प्रत्यक्षादिभिर् अनवगम्यमानो{*१/१७२*} ऽर्थः शक्यो ऽभ्युपगन्तुम्{*१/१७३*}. लौकिकानि वचनान्य् उपपन्नार्थान्य् अनुपपन्नार्थानि च दृश्यन्ते, यथा देवदत्त, गाम् अभ्याजेत्य् एवमादीनि दश दाडिमानि षड् अपूपा इत्य् एवमादीनि च. ननु च शास्त्रकारा अप्य् एवम् आहुः पूर्वापरीभूतं भावम् आख्याते[१४]{*१/१७४*}नाचष्टे व्रजति, पचतीत्य् उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् इति{*१/१७५*} यथा. न शास्त्रकारवचनम् अप्य् अलम् इमम् अर्थम् अप्रमाणकम् उपपादयितुम्. अपि च नैवैतद्{*१/१७६*} अनुपपन्नार्थम्. अक्षरेभ्यः संस्कारः, संस्काराद् अर्थप्रतिपत्तिर् इति भवन्त्य्{*१/१७७*} अर्थप्रत्पत्ताव् अक्षराणि निमित्तम्. गौण एष{*१/१७८*} शब्द इति चेत्, न गौणो ऽक्षरेषु निमित्तभावः, तद्भावे भावात् तदभावे चाभावात्. अथापि गौणः स्यात्, न गौणः शब्दो मा भूद् इत्य् एतावता{*१/१७९*} प्रत्यक्षादिभिर् अनवगम्यमानो ऽर्थः शक्यः परिकल्पयितुम्. न ह्य् अग्निर् माणवक इत्य् उक्ते ऽग्निशब्दो गौणो मा भूद् इति ज्वलन एव माणवक इत्य् अध्यवसीयते. न च प्रत्यक्षो गकारादिभ्यो ऽन्यो गोशब्द इति, भेददर्शनाभावाद् अभेददर्शनाच् च. गकारादीनि हि प्रत्यक्षाणि. तस्माद् गौर् इति गकारादिविसर्जनीयान्तं पदम् अक्षराण्य् एव. न तेभ्यो{*१/१८०*} व्यतिरिक्तम् अन्यत् पदं नाम इति. ननु संस्कारकल्पनायाम् अप्य् अदृष्टकल्पना. उच्यते - शाब्दकल्पनायां सा च शब्दकल्पना च. तस्माद् अक्षराण्य् एव पदम्. अथ गौर् इत्य् अस्य शब्दस्य को ऽर्थः? सास्नादिविशिष्टाकृतिर् इति ब्रूमः. नन्व् आकृतिः साध्यास्ति वा न वेति? न प्रत्यक्षा सती साध्या भवितुम् अर्हति. रुचकः, स्वस्तिकः, वर्धमानक इति हि प्रत्यक्षं दृश्यते. व्यमोह इति चेत्, न. नास्ति प्रत्ययविपर्यासे व्यमोह इति शक्यते वक्तुम्{*१/१८१*}. असत्य् अप्य्{*१/१८२*} अर्थान्तर एवंजातीयके{*१/१८३*} भवति प्रत्ययः प्रङ्क्तिः, यूथम्, वनम् इति यथेति चेत्, न. असंबद्धम् इदं वचनम् उपन्यस्तम्. किम् असति वने वनप्रत्ययो भवतीति प्रत्यक्षम् एव आक्षिप्यते वृक्षा अपि न सन्तीति? यद्य् एवम्, प्रत्युक्तः स [१५]{*१/१८४*} महायानिकः{*१/१८५*} पक्षः. अथ किम् आकृतिसद्भाववाद्य् उपालभ्यते सिद्धान्तान्तरं ते दुष्यति{*१/१८६*}. वने ऽपि ते ऽसति{*१/१८७*} वनप्रत्ययः प्राप्नोतीति. एवम् अपि प्रकृतं दूषयितुम् अशक्नुवन्तस् ते सिद्धान्तान्तरदूषणं{*१/१८८*} निग्रहस्थानम् आपद्यते{*१/१८९*}, असाधकत्वात्. स हि वक्ष्यति दुष्यतु, यदि दुष्यति. किं तेन दुष्टेन अदुष्टेन वा प्रकृतं त्वया साधितं भवति मदीयो वा पक्षो दूषितो भवतीति. न च वृक्षव्यतिरिक्तं वनं यस्मान् नोपलभ्यते, ततो{*१/१९०*} वनं नास्तीत्य् अवगम्यते{*१/१९१*}. यदि वने ऽन्येन हेतुना सद्भावविपरीतः प्रत्यय उत्पद्यते, मिथ्यैष{*१/१९२*} वनप्रत्यय इत्य् अतो{*१/१९३*} वनं नास्तीत्य् अवगच्छामः. न च गवादिषु प्रत्ययो विपर्येति. अतो वैषम्यम्. अथ वनादिषु नैव प्रत्ययविपर्यासः{*१/१९४*}, न ते न सन्तीति. तस्माद् असंबद्धः पङ्क्तिवनोपन्यासः, न ते न सन्तीति. तस्माद् असंबद्धः पङ्क्तिवनोपन्यासः. अत उपपन्नं जैमिनिवचनम् आकृतिः पदार्थ इति{*१/१९५*}. यथा च आकृतिः शब्दार्थस्, तथोपरिष्टान् निपुणतरम् उपपादयिष्याम इति. अथ संबन्धः क इति? यत् शब्दे विज्ञाते ऽर्थो विज्ञायते. स तु कृतक{*१/१९६*} इति पूर्वम् उपपादितम्. तस्मान् मन्यामहे केनापि पुरुषेण शब्दानाम् अर्थैः सह संबन्धं कृत्वा संव्यवहर्तुं{*१/१९७*} वेदाः प्रणीता इति. तद् इदानीम् उच्यते - अपौरुषेयत्वात् संबन्धस्य सिद्धम्{*१/१९८*} इति. कथं पुनर् इदम् अवगम्यते ऽपौरुषेय एष संबन्ध इति? पुरुषस्य संबन्धुर् अभावात्. कथं संबन्धा नास्ति? प्रत्यक्षस्य प्रमाणस्य अभावात् तत्पूर्वकत्वाच् चेतरेषाम्. ननु चिरवृत्तत्वात् प्रत्यक्षस्य अविषयो भवेद् इदानीन्तनानाम्. न हि चिरवृत्तः सन् न स्मर्येत. न च हिमवदादिषु कूपारामादिवद् अस्मरणं भवितुम् अर्हति. पुरुषवियोगो [१६]{*१/१९९*} हि तेषु भवति देशोत्सादेन कुलोत्सादेन वा. न तु{*१/२००*} शब्दार्थव्यवहारवियोगः पुरुषानाम् अस्ति. स्याद् एतत् - संबन्धमात्रव्यवहारिणो निष्प्रयोजनं कर्तृस्मरणम् अनाद्रियमानाः पुरुषा विस्मरेयुर् इति. तन् न. यदि हि पुरुषः कृत्वा संबन्धं व्यवहारयेत्, व्यवहारकाले ऽवश्यं स्मर्तव्यो भवेत्{*१/२०१*}. संप्रतिपत्तौ हि कर्तृव्यवहर्त्रोर् अर्थः सिध्यति, न विप्रतिपत्तौ. न हि वृद्धिशब्देन अपाणिनेर् व्यवहारत आदैचः प्रतियेरन् पाणिनिकृतिम् अननुमन्यमानस्य वा. तथा मकारेणाप्य्{*१/२०२*} अपिङ्गलस्य न सर्वगुरुस् त्रिकः प्रतीयेत पिङ्गलकृतिम् अननुमन्यमानस्य वा. तेन कर्तृव्यवहर्तारौ संप्रतिपद्येते. तेन वेदैर्{*१/२०३*} व्यवहरद्भिर् अवश्यं स्मरणीयः संबन्धस्य कर्ता स्याद् व्यवहारस्य च. न हि विस्मृते वृद्धिर् आदैज् इत्य्{*१/२०४*} अस्य सूत्रस्य कर्तरि वृद्धिर् यस्याचाम् आदिस्, तद् वृद्धम्{*१/२०५*} इति{*१/२०६*} किंचित् प्रतीयेत{*१/२०७*}. तस्माद् अस्मरणाद्{*१/२०८*} अवगच्छामः न कृत्वा संबन्धं व्यवहारार्थं केनचिद् वेदाः प्रणीता इति. यद्य् अपि च विस्मरणम् उपपद्येत, तथापि न प्रमाणम् अन्तरेण संबन्धारं प्रतिपद्येमहि, यथा विद्यमानस्याप्य् अनुपलम्भनं भवतीति नैतावता विना प्रमाणेन शशविषाणं प्रतिपद्येमहि{*१/२०९*}. तस्माद् अपौरुषेयः शब्दस्यार्थेन संबन्ध इति. नन्व् अर्थापत्त्या संबन्धारं प्रतिपद्येमहि. न हि अकृतसंबन्धाच् छब्दाद् अर्थं प्रतिपद्यमानम् उपलभामहे. प्रतिपद्येरंस् चेत्, प्रथमश्रवणे ऽपि प्रतिपद्येरन्. तदनुपलम्भनाद् अवश्यं भवितव्यं संबन्ध्रेति मन्यामह इति{*१/२१०*} चेत्, न. सिद्धवद्, उपदेशात्{*१/२११*}. यदि संबन्धुर् अभावान् नियोगतो नार्था उपलभ्येरन्{*१/२१२*}, ततो ऽर्थापत्त्या [१७]{*१/२१३*} संबन्धारम् अवगच्छामः. अस्ति त्व् अन्यः प्रकारः. वृद्धानां स्वार्थेन व्यवहरमाणानाम्{*१/२१४*} उपशृण्वन्तो बालाः प्रत्यक्षम् अर्थं प्रतिपद्यमाना दृश्यन्ते. ते ऽपि वृद्धा यदा बाला आसंस्, तदान्येभ्यो वृद्धेभ्यः, ते ऽप्य् अन्येभ्य इति नास्त्य् आदिर् इत्य् एवं वा भवेत्. अथवा न कश्चिद् एको ऽपि शब्दो ऽर्थेन संबद्ध आसीत्, अथ केनचित् संबन्धाः प्रवर्तिता इति. अत्र वृद्धव्यवहारे सति नार्थाद् आपद्येत संबन्धस्य कार्ता. अपि च वृद्धव्यवहारवादिनः प्रत्यक्षम् उपदिशन्ति, कल्पयन्तीतरे संबन्धारम्. न च प्रत्यक्षे प्रत्यर्थिनि कल्पना साध्वी. तस्मात् संबन्धुर् अभावः. अव्यतिरेकश् च{*१/२१५*}. यथा अस्मिन् देशे सास्नादिमति गोशब्दः, एवं सर्वेषु दुर्गमेष्व् अपि. बहवः संबन्धारः कथं संगम्स्यन्ते. एको ऽपि{*१/२१६*} न शक्नुयात्{*१/२१७*}. अतो नास्ति संबन्धा{*१/२१८*}. अपर आह - अव्यतिरेकश् च{*१/२१९*}. न हि संबन्धव्यतिरिक्तः कश्चित् कालो ऽस्ति, यस्मिन् न कश्चिद् अपि शब्दः केनचिद् अर्थेन संबद्ध आसीत्. कथम्? संबन्धक्रियैव हि{*१/२२०*} नोपपद्यते. अवश्यम् अनेन संबन्धं कुर्वता केनचिच् छब्देन कर्तव्यः{*१/२२१*}. येन क्रियेत, तस्य केन कृतः? अथान्येन केनचित् कृतः, तस्य केनेति, तस्य केनेति{*१/२२२*} नैवावतिष्ठते. तस्माद् अवश्यम् अनेन संबन्धं कुर्वता अकृतसंबन्धाः केचन शब्दा वृद्धव्यवहारसिद्धा अभ्युपगन्तव्याः. अस्ति चेद् व्यवहारसिद्धिः, न नियोगतः संबन्ध्रा भवितव्यम् इत्य् अर्थापत्तिर् अपि नास्ति. स्याद् एतत् - अप्रसिद्धसंबन्धा बालाः कथं वृद्धेभ्यः प्रतिपद्यन्त इति. न हि{*१/२२३*} दृष्टे ऽनुपपन्नं नाम. दृष्टा हि{*१/२२४*} बाला वृद्धेभ्यः{*१/२२५*} प्रतिपद्यमानाः, न त्व् अप्रतिपन्नसंबन्धाः{*१/२२६*} संबन्धस्य कर्तुः. तस्माद् वैषम्यम्. अर्थे ऽनुपलब्धे{*१/२२७*}. अनुपलब्धे च देवतादाव्{*१/२२८*} अर्थे ऽनर्थकं [१८]{*१/२२९*} संज्ञाकरणम् अशक्यं च. विशेषान् प्रतिपत्तुं हि{*१/२३०*} संज्ञाः क्रियन्ते विशेषांश् चोद्दिश्य. तद् विशेषेष्व् अज्ञायमानेषूभयम्{*१/२३१*} अप्य् अनवकॢप्तम्. तस्माद् अपौरुषेयः शब्दस्य अर्थेन संबन्धः. अतश् च - तत् प्रमाणम्, अनपेक्षत्वात्{*१/२३२*}. न ह्य् एवं{*१/२३३*} सति पुरुषान्तरं प्रत्ययान्तरं वा{*१/२३४*} अपेक्षते{*१/२३५*}. तस्माच् चोदनालक्षण एव धर्मो नान्यलक्षणः. बादरायणग्रहणम् उक्तम्. अथ यद् उक्तम् अनिमित्तं शब्दः. कर्मकाले फलादर्शनात् कालान्तरे च कर्माभावात् प्रमाणं नास्तीति, तद् उच्यते - न स्यात् प्रमाणम्, यदि पञ्चैव प्रमाणान्य् अभविष्यन्. येन येन हि{*१/२३६*} प्रमीयते, तत् तत् प्रमाणम्. शब्देनापि प्रमीयते, ततः{*१/२३७*} शब्दो ऽपि प्रमाणम्, यथैव प्रत्यक्षम्. न च प्रमाणेन अवगतम्, प्रमाणान्तरेण अनवगतम् इत्य् एतावतानवगतं भवति. न चैवं श्रूयते कृते कर्मणि तावत्य् एव{*१/२३८*} फलं भवति, किं तु कर्मणा{*१/२३९*} फलं प्राप्यत इति. यच् च कालान्तरे फलस्य अन्यत् प्रत्यक्षं कारणम् अस्तीति, नैष दोषः. तच् चैव हि तत्र{*१/२४०*} कारणं शब्दश् चेति. यत् तु प्रत्यक्षविरुद्धं वचनम् उपन्यस्तम् - स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीति प्रत्यक्षं शरीरं व्यपदिशतीति. तद् उच्यते - शरीरसंबन्धात्, यस्य तच् छरीरम्, सो ऽपि तैर् यज्ञायुधैर् यज्ञायुधीत्य् उच्यते. आह - को ऽसाव् अन्यः? नैनम् उपलभामहे. ननु{*१/२४१*} प्राणादिभिर् एनम् उपलभामहे. यो ऽसौ प्राणित्य् अपानित्य् उच्छ्वसिति निमिषतीत्यादि चेष्टितवान्, सो ऽत्र शरीरे यज्ञायुधीति. ननु शरीरम् एव प्राणित्य् अपानिति च? न प्राणादयः शरीरगुणाः{*१/२४२*}. शरीरगुणविधर्माणो हि ते{*१/२४३*}, अयावच्छरीरभावित्वात्. यावच्छरीरं तावद् अस्य गुणा रूपादयः. प्राणादयस् तु सत्य् अपि शरीरे न भवन्ति. अतो न शरीरगुणाः प्राणादयः{*१/२४४*}. सुखादयश् च स्वयम् उप[१९]{*१/२४५*}लभ्यन्ते, न रूपादय इव शरीरगुणाः परेणापि. तस्माच् छरीरगुणवैधर्म्याद् अन्यः शरीराद् यज्ञायुधीति. आह - कुत एषः संप्रत्ययः सुखादिभ्यो ऽन्यस् तद्वान् अस्तीति. न हि सुखादिप्रत्याख्यानेन तस्य स्वरूपम् उपलभामहे. तस्माच् छशविषाणवद् असौ नास्ति. अथोच्यते - तेन विना कस्य सुखादय इति? न कस्यचिद् अपीति वक्ष्यामः{*१/२४६*}. न हि यो य उपलभ्यते, तस्य तस्य संबन्धिना भवितव्यम्. यस्य संबन्धो ऽप्य् उपलभ्यते संबन्धी च, तस्यायं संबन्धीति गम्यते. न हि चन्द्रमसम् आदित्यं वोपलभ्य संबन्ध्यन्तरान्वेषणा{*१/२४७*} भवति: कस्यायम् इति. न कस्यचिद् अपीत्य् अवधार्यते. तस्मान् न सुखादिभ्यो ऽन्यस् तद्वान् अस्तीति. अथोपलब्धस्यावश्यं कल्पयितव्यः संबन्धी भवेत्{*१/२४८*}, तत आत्मानम् अप्य् अनेन प्रकारेणोपलभ्य कस्यायम् इति संबन्ध्यन्तरम् अन्विष्येम १/२४९*}. तम् अपि कल्पयित्वान्यम् अपि कल्पयित्वान्यम् इत्य् अनवस्थैव १/२५०*} स्यात्. अथ कंचित् कल्पयित्वा, न संबन्ध्यन्तरम् अपि कल्पयिष्यसि, तावत्य् एव विरंस्यसि तावता च परितोक्ष्यसि १/२५१*}, ततो विज्ञान एव परितुष्य तावत्य् एव विरन्तुम् अर्हसि. अत्रोच्यते - यदि विज्ञानाद् अन्यो विज्ञाता{*१/२५२*} नास्ति, कस् तर्हि जानातीत्य् उच्यते? ज्ञानस्य{*१/२५३*} कर्तुर् अभिधानम् अनेन{*१/२५४*} शब्देनोपपद्यते{*१/२५५*}. तद् एष शब्दो ऽर्थवान् कर्तव्य इति ज्ञानाद् व्यतिरिक्तम् आत्मानं कल्पयिष्याम इति. आह - देवा{*१/२५६*} एनं शब्दम् अर्थवन्तं कल्पयिष्यन्ति, यदि कल्पयितव्यं मंस्यन्ते{*१/२५७*}. बहवः खल्व् इह जना अस्त्य् आत्मा, अस्त्य् आत्मेत्य् आत्मसत्तावादिन एव शब्दस्य प्रत्यक्षवक्तारो{*१/२५८*} [२०]{*१/२५९*} भवन्ति, तथापि नात्मसत्तां कल्पयितुं घटन्ते, किम् अङ्ग पुनर् जानातीति परोक्षशब्ददर्शनात्. तस्माद् असद् एतत्. उच्यते - इच्छयात्मानम्{*१/२६०*} उपलभामहे. कथम्? उपलब्धपूर्वे ह्य् अभिप्रेते भवतीच्छा, नानुपलब्धपूर्वे{*१/२६१*}. यथा मेरुम् उत्तरेण यान्य् अस्मज्जातीयैर् अनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि, न तानि प्रत्य् अस्माकम् इच्छा भवति. नो खल्व् अन्येन पुरुषेणोपलब्धे ऽपि विषये ऽन्यस्यानुपलब्धुर्{*१/२६२*} इच्छा भवति. भवति चान्येद्युर् उपलब्धे ऽपरेद्युर्{*१/२६३*} इच्छा. अतस्{*१/२६४*} तेनोपलम्भनेन समानकर्तृका सेत्य्{*१/२६५*} अवगच्छामः. यदि विज्ञानमात्रम् एवेदम् उपलम्भकम् अभविष्यत्, प्रध्वस्ते{*१/२६६*} तस्मिन् कस्यापरेद्युर् इच्छाभविष्यत्. अथ{*१/२६७*} विज्ञानाद् अन्यो विज्ञाता नित्यः, तत एकस्मिन् अहनि य{*१/२६८*} उपलब्धा, अपरेद्युर् अपि स एवैषिष्यति. इतरथेच्छानुपपन्ना{*१/२६९*} स्यात्. अत्राह{*१/२७०*} - अनुपपन्नम् इति नः क्व संप्रत्ययः? यन् न प्रमाणेनावगतम्. विज्ञानात् तावद् अन्यन्{*१/२७१*} नोपलभामहे. यच् च{*१/२७२*} नोपलभामहे, तच् छशविषाणवद् एव{*१/२७३*} नास्तीत्य् अवगच्छामः. न च तस्मिन् असति विज्ञानसद्भावो ऽनुपपन्नः, प्रत्यक्षावगतत्वाद् एव. क्षणिकत्वं चास्य प्रत्यक्षपूर्वकम् एव. न च ज्ञातरि विज्ञानाद् अन्यस्मिन् असति ज्ञाने चानित्ये अपरेद्युर् इच्छानुपपन्ना, प्रत्यक्षावगतत्वाद् एव. नो खल्व् अप्य्{*१/२७४*} एतद् दृष्टं य एवान्येद्युर् उपलब्धा, स एवापरेद्युर्{*१/२७५*} एषितेति. इदं तु दृष्टं यत् क्वचिद् अन्येन दृष्टम् अन्य इच्छति, क्वचिन् न. समानायां सन्तताव् अन्य इच्छति, सन्तत्यन्तरे नेच्छतीति. तस्मान् न सुखादिव्यतिरिक्तो ऽन्यो ऽस्तीति. अत्रोच्यते - न ह्य् अस्मर्तार इच्छन्तीत्य् उपपद्यते. न चादृष्टपूर्वे{*१/२७६*} स्मृतिर् भवति. तस्मात् क्षणिके{*१/२७७*} विज्ञानस्कन्धमात्रे स्मृतिर् अनुपपन्नेति[२१]{*१/२७८*}. अत्राह - स्मृतिर् अपीच्छावत्. पूर्वविज्ञानसदृशं विज्ञानम्, पूर्वविज्ञानविषयं वा स्मृतिर् इत्य् उच्यते. तच् च, द्रष्टरि विनष्टे ऽपि, अपरेद्युर् उत्पद्यमानं नानुपपन्नम्, प्रत्यक्षावगतत्वाद् एव. अन्यस्मिन् स्कन्धघने ऽन्येन स्कन्धघनेन यज् ज्ञानम्, तत् तत्सन्ततिजेनान्येनोपलभ्यते{*१/२७९*} नातत्सन्ततिजेन. तस्माच् छून्याः स्कन्धघना इति. अथास्मिन्न् अर्थे{*१/२८०*} ब्राह्मणं भवति - विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय, तान्य् एवानुविनश्यति, न प्रेत्य संज्ञास्तीति{*१/२८१*}. अत्रोच्यते{*१/२८२*} - नैतद् एवम्. अन्येद्युर् दृष्टे ऽपरेद्युः - अहम् इदम् अदर्शम् इति भवति प्रत्ययः. प्रत्यगात्मनि चैतद् भवति, न परत्र. परो{*१/२८३*} ह्य् असौ यो{*१/२८४*} ऽन्येद्युर् दृष्टवान्. तस्मात् तद्व्यतिरिक्तो ऽन्यो ऽस्ति, यत्रायम् अहंशब्दः. आह - परत्राप्य् अहंशब्दो भक्त्या दृश्यते, तद् यथाहम्{*१/२८५*} एव पुत्रः, अहम् एव देवदत्तः, अहम् एव गच्छामीति. अत्रोच्यते - न वयम् ᳚अहम्᳚ इतीमं शब्दम्, प्रयुज्यमानम् अन्यस्मिन्न् अर्थे, हेतुत्वेन व्यपदिशामः, किं तर्हि शब्दाद् व्यतिरिक्तं प्रत्यभिज्ञाप्रत्ययम्{*१/२८६*}. प्रतीमो हि{*१/२८७*} वयम् - इमम् अर्थं वयम् एवान्येद्युर् उपलभामहे, वयम् एवाद्य स्मराम इति. तस्मात् - वयम् इमम् अर्थम् अवगच्छामो वयम् एव ह्यो, वयम् एवाद्येति{*१/२८८*}. ये चामी{*१/२८९*} ह्यो ऽद्य च, न ते विनष्टाः. अथाप्य् अस्मिन्न् अर्थे ब्राह्मणं भवति. स वा अयम् आत्मेति प्रकृत्यामनन्त्य् अशीर्यो न हि शीर्यत इति. तथाविनाशी वा अरे ऽयम् आत्मा, अनुच्छित्तिधर्मा इति{*१/२९०*}. विनश्वरं च विज्ञानम्. तस्माद् विनश्वराद् अन्यः स{*१/२९१*} इत्य् [२२]{*१/२९२*} अवगच्छामः. न च शक्यम् एवम् अवगन्तुम्, यथोपलभ्यन्ते ऽर्था न तथा भवन्ति, यथा, न खलु, नोपलभ्यन्ते तथा भवन्तीति. तथा हि सति - शशो नास्ति, शशस्य विषाणम् अस्तीत्य् अवगम्येत{*१/२९३*}. न चाहम्प्रत्ययो व्यामोह इति शक्यते वक्तुम्, बाधकप्रत्ययाभावात्. तस्मात् सुखादिभ्यो व्यतिरिक्तो ऽस्ति. एवं चेत्, स एव यज्ञायुधीति व्यपदिश्यते. आह - यदि विज्ञानाद् अन्यद् अस्ति विज्ञातृ, विज्ञानम् अपास्य तन् निदर्श्यताम् - इदम् तद् ईदृशम् चेति. न च तन् निदर्श्यते. तस्मान् न ततो ऽन्यद् अस्तीति. अत्रोच्यते - स्वसंवेद्यः स भवति. नासाव् अन्येन शक्यते द्रष्टुम्. कथम् असौ निदर्श्येतेति{*१/२९४*}. यथा च{*१/२९५*} कश्चिच् चक्षुष्मान् स्वयं रूपं पश्यति न च शक्नोत्य् अन्यस्मै जात्यन्धाय तन् निदर्शयितुम्, न च तन् न शक्यते निदर्शयितुम् इत्य् एतावता नास्तीत्य् अवगम्यते, एवम् असौ पुरुषः स्वयम् आत्मानम् उपलभते न चान्यस्मै शक्नोति दर्शयितुम्, अन्यस्य द्रष्टुस् तं पुरुषं प्रति दर्शनशक्त्यभावात्. सो ऽप्य् अन्यः पुरुषः स्वयम् आत्मानम् उपलभते, न परात्मानम्{*१/२९६*}. तेन सर्वे स्वेन स्वेनात्मना आत्मानम् उपलभमानाः सन्त्य् एव, यद्य् अपि परपुरुषैर् नोपलभ्यन्त{*१/२९७*} इति. अथास्मिन् अर्थे ब्राह्मणं भवति - शान्तायां वाचि किंज्योतिर् एवायं पुरुषः? आत्मज्योतिः, संराड् इति होवाचेति{*१/२९८*}. परेण नोपलभ्यत इत्य् अत्रापि ब्राह्मणं भवति - अगृह्यो न हि गृह्यतेति{*१/२९९*}. परेण न गृह्यत इत्य् एतदभिप्रायम् एतत्. कुतः? स्वयंज्योतिष्ट्ववचनात्. अत्रापि{*१/३००*} ब्राह्मणं भवति - अत्रायं पुरुषः स्वयंज्योतिर् भवतीति{*१/३०१*}. केन पुनर् उपायेनायम् (अयम्){*१/३०२*} अन्यस्मै कथ्यत इति? अत्राप्य्{*१/३०३*} उपाये [२३]{*१/३०४*}ब्राह्मणं भवति - स एष नेति नेत्य् आत्मेति होवाचेति{*१/३०५*}. असाव् अयम्{*१/३०६*} एवंरूप इति न शक्यते निदर्शयितुम्. यच् च परः पश्यति, तत्प्रतिषेधस् तस्योपदेशोपायः. शरीरं परः पश्यति. तेनात्मोपदिश्यते. शरीरं नात्मा. अस्ति शरीराद् अन्यः{*१/३०७*} स चात्मेति शरीरप्रतिषेधेनात्मोपदिश्यते{*१/३०८*}. तथा प्राणादयो नात्मान इति{*१/३०९*} तत्प्रतिषेधेन तेभ्यो ऽन्य उपदिश्यते. तथा परस्थाः सुखादयः परेण लिङ्गैर् उपलभ्यन्ते. ते ऽपि नात्मान इति तत्प्रतिषेधेन तेभ्यो{*१/३१०*} ऽन्य उपदिश्यते. यः स्वयं पश्यति, न ततो ऽन्यः पुरुष इत्य् एतद् अपि पुरुषप्रवृत्त्यानुमीयते, यदासौ पुरुषः पूर्वेद्युः सामिकृतानाम् अर्थानां प्रतिसमाधाने शेषानुष्ठाने च यतते, अतः{*१/३११*} प्रवृत्त्यावगम्यते नूनम् असाव् अनित्यान् नित्यम् अवगच्छतीति{*१/३१२*}. उपमानाच् चोपदिश्यते यादृशं भवान् स्वयम् आत्मानं पश्यति, अनेनोपमानेनावगच्छ - अहम् अपि तादृषम् एव पश्यामीति, यथा कश्चिद् आत्मीयां वेदनां परस्मा आचक्षीत - दह्यमानस्येव मे भवति, यात्यमानस्येव मे भवति, रुध्यमानस्येव{*१/३१३*} मे भवतीति. अतः स्वयम् अवगम्यमानत्वाद् अस्ति तद्व्यतिरिक्तः पुरुष इति. यद् अप्य्{*१/३१४*} उच्यते - विज्ञानम् अपास्य तन् निदर्श्यताम् इति, यद्य् उपायम् एव निशेधसि, न शक्यम् उपायम् अन्तरेणोपेयम् उपेतुम्. अयम् एवाभ्युपायो ज्ञातव्यानाम् अर्थानां यो यथा ज्ञायते, स तथेति. तद् यथा - कः शुक्लो नाम? यत्र शुक्लत्वम् अस्ति. किं शुक्लत्वं नाम? यत्र शुक्लशब्दप्रवृत्तिः. क्व तस्य प्रवृत्तिः? यच् छुक्लशब्द उच्चरिते प्रतीयते. तस्मान् न विज्ञानं प्रत्याख्याय कस्यचिद् रूपं निदर्शयितुं शक्यम्. न च नियोगतः प्रत्यये प्रतीते प्रत्ययार्थः प्रतीतो भवति. अप्रतीते ऽपि हि प्रत्यये सत्य् अर्थः प्रतीयत एव. न हि विज्ञानं प्रत्यक्षम्, विज्ञेयो ऽर्थः प्रत्यक्ष इत्य् एतत् पूर्वम् एवोक्तम्. तद् अवश्यकर्त[२४]{*१/३१५*}व्ये ऽपह्नवे कामं विज्ञानम् अपह्नूयेत नार्थ इत्य् एतद् अप्य्{*१/३१६*} उक्तम् एव. तस्माद् अस्ति सुखादिभ्यो ऽन्यो नित्यः पुरुष इति. अथ यद् उक्तं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति, न प्रेत्य संज्ञास्तीति, अत्रोच्यते - अत्रैव मा भगवान् मोहान्तम् आपीपदद् इति{*१/३१७*} परिचोदनोत्तरकाले ऽपह्नुत्य मोहान्ताभिप्रायम्{*१/३१८*} अस्य वचनस्य{*१/३१९*} वर्णितवान् न वा अरे ऽहं{*१/३२०*} मोहं ब्रवीमि, अविनाशी वा अरे ऽयम् आत्मानुच्छित्तिधर्मा, मात्रासंसर्गस् त्व् अस्य भवतीति{*१/३२१*}. तस्मान् न विज्ञानमात्रम्. तस्माद् वैषम्यम्. यद् उक्तम् - न चैष यातीति विधिशब्द इति, मा भूद् विधिशब्दः. स्वर्गकामो यजेतेति वचनान्तरेणावगतम् अनुवदिष्यते. तस्माद् अविरोधः.
SK
NOTES: *{१/६७: E१,२,३,५,६, TA, A; TB, TC, M.पर्.: उत्पत्तिर् इति}* *{१/६८: E५, TC, M.परि.; E१,२,३,६, TA, TB, A: संबन्धो}* *{१/६९: E१,२,३,५,६, TA, A; TB, TC: अनवगम्यमानस्य}* *{१/७०: TA, A; TB ओम्. तस्य; E१,२,३,५,६, TC ओम्. भवति तस्य}* *{१/७१: ब्zw. तदुत्पन्नम्}* *{१/७२: TB, TC, M.परि.; E१,२,३,५,६, TA, A ओम्. उत्पन्नम्}* *{१/७३: E१,३,५, TA, TB, TC, A; E२,६: यथा भवति यथा विज्ञायते}* *{१/७४: TB, TC; TA: इव गम्यते; E१,२,३,५,६, A: इदं गम्यते}* *{१/७५: E३,५, TA, TB, TC, A; E१,२,६: नास्ति वा}* *{१/७६: TA, TB, TC, A: वा स्वयम्-; E५,३: वापि स्वयम्- ; E१,२,६: वापि अयम्}* *{१/७७: TB, TC; E१,२,३,५,६, TA, A: बादरायणग्रहणं बादरायणस्य}* *{१/७८: TB, TC, Kआश्., Nय्. रत्.: ननु; E१,२,३,५,६, TA, A: अत्रोच्यते}* *{१/७९: E१,२,३,५,६, TA, A ओम्. निमित्तम्}* *{१/८०: E२: १,३१; E३: १७५; E५: १,८७; E६: १,६}* *{१/८१: Vग्ल्. MS १.१.४अ, दोर्त्: सत्संप्रयोगे... तत् प्रत्यक्षम्. Zउर् Uम्स्तेल्लुन्ग् वोन् तत् उन्द् सत् इन् MS १.१.४ दुर्छ् देन् Vऋत्तिकार, व्ग्ल्. Sछ्मिथौसेन् (१९६५), S.१५८}* *{१/८२: E१,२,३,५,६, TC; TA, A: इदं तत्संप्रयोगजम्}* *{१/८३: E१,२,३,५,६, TA, TC, A: इदं न}* *{१/८४: TB, TC; E१,२,३,५,६, TA: ज्ञेयम्; A ओम्. ज्ञायते}* *{१/८५: TA, TSP; E१,२,३,५,६, A: यदा हि; TB, TC: यदि}* *{१/८६: TSP: क्षुदादिभिर्; E१,२,३,५,६, TA, TB, TC, A: चक्षुरादिभिर्}* *{१/८७: TC, TSP; E१,२,३,५,६, TA, TB: संयग्ज्ञानस्य, A: संयग्ज्ञाने}* *{१/८८: TB, TC, TSP; E१,२,३,५,६, TA, A: मिथ्याज्ञानम्}* *{१/८९: E३, TB, TC, A; E१,२,६, TA: अवगच्छेमहि; E५, TSP: अवगच्छेम}* *{१/९०: E१,२,३,५,६, TB, TA, Kआश्., Tआत्प्.; TA स्वभावाद् उपलक्षिता}* *{१/९१: TA, TB; E१,२,३,५,६: कुड्यः; TC: कुम्भ; A: कुण्ड}* *{१/९२: E३, TB, A; E१,२,५,६, TA: विपर्यसिष्यतीति}* *{१/९३: A ओम्. प्राक्}* *{१/९४: E१,२,३,६; E५, M.परि.: प्रबोधात्; TA: बोधनात्; A: प्रत्यक्षबाधनात्; TB, TC: बाधकज्ञानात्}* *{१/९५: TA, TC; E१,२,३,५,६, A: विशेष इति, TB विशेषः}* *{१/९६: E२: १,३५; E३: १८६; E५: १,६९; E६: १,७}* *{१/९७: TB, A, M.परि.; E१,२,३,५,६: तथा भवितुम्}* *{१/९८: Vग्ल्. Śआलिकनाथ, Mई. Pअरि., E१, १३/१२f.: यदि प्रतीतिर् एवातथाभावं गमयति, जाग्रत्प्रतीतिर् अप्य् अर्थस्यातथाभावं गमयेत्}* *{१/९९: E१,५ (व्.ल्.), TC, M. परि.; E१,२,३,६: प्रत्ययत्वाद् अयम्}* *{१/१००: E५, TB, TC, M. परि.; E१,२,३,६, TA, A: वक्तुम्}* *{१/१०१: E१,२,३,५,६, TA, TB, A, M.परि., Kआश्.; TC अन्यतो हि}* *{१/१०२: M. परि.; E१,२,३,५,६, TA, TB, TC, A: अभाव एव}* *{१/१०३: E१,२,३,५,६, TA, A; TB, TC: न जाग्रत्प्रत्ययो}* *{१/१०४: A; E१,२,३,५,६: तत्र; TA, TB, TC ओम् तन् न}* *{१/१०५: E१,२,३,५,६, TA, A; TB, TC: भवेद्}* *{१/१०६: TC, A ओम्. हि}* *{१/१०७: TB, TC ओम्. इति}* *{१/१०८: E३,५, TA, TB, TC, A, Kआश्., Nय्. रत्.; E१,२,६: यद्}* *{१/१०९: E१,३,५, TA, TB, TC, Kआश्., Nय्. रत्.; E२,६ A: उच्यते}* *{१/११०: TC, Kआश्., Nय्.रत्.; E१,२,३,५,६, TA, A, Tआत्प्.: ज्ञातो ऽर्थः; TB: ज्ञातः}* *{१/१११: E२: १,४०; E३: २८२; E५: १,८६; E६: १,७}* *{१/११२: E१,५, TB, TC, Kआश्., Nय्.रत्.; E२,३,६: ज्ञातो ऽप्य्}* *{१/११३: TA, A: बुद्धिरूपोपलम्भनम्}* *{१/११४: E५, TA, TC, A, Kआश्.; E१,२,३,६: न व्यपदेश्या}* *{१/११५: E५, TB, TC, A, Kआश्.; E१,६: नाप्रत्यक्षम्, E२,३, E१ (व्.ल्.): न प्रत्यक्षम्}* *{१/११६: E५, TA, TB, TC, Kआश्., Nय्. रत्.; E१,२,३,६, A: न}* *{१/११७: TB, TC, Kआश्., Nय्.रत्. ओम्. सतः}* *{१/११८: E५, TB, TC; E१,२,३,६, TA: अनाकाराम्}* *{१/११९: TA, TB, A, Kआश्.; E१,२,३,६: तन्त्वादाने, E५: अतन्तूपादाने}* *{१/१२०: TB, TC; E१,२,३,५,६, TA, A: अतो}* *{१/१२१: E१,२,३,५,६, TA, A ओम्. तत्र}* *{१/१२२: E३,५, TB, TC, M.परि., Kआश्.; TA, Nय्.रत्.: आदित्ये; E१,२,६, A: आदित्यगतिस्मरणम्}* *{१/१२३: TB, TC, A, M.परि., Kआश्., E१ (व्.ल्.); E१,२,५,६, TA, Tआत्प्.: जीवति देवदत्ते}* *{१/१२४: MS १.१.४ब्}* *{१/१२५: E२: १,४७; E५: १,१२४; E६: १,८}* *{१/१२६: E५, TB, Ṛज्.; E१,२,६, TA, A: उपलम्भकानि}* *{१/१२७: TB, TC, M.परि., Tआत्प्., Kआश्.; E१,२,५,६, TA, A: फलेन}* *{१/१२८: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/१२९: E२, A ओम्. अपि च... बिस् भवितव्यम् इति, E१ गिब्त् देन् Aब्स्छ्नित्त् अल्स् Fउßनोते, E५,६ TA, TC: अपि च - तत्काल एव फलं श्रूयते - यागः करणम् इति वाक्याद् अवगम्यते, कारणं चेद् उत्पन्नं कार्येण भवितव्यम् इति}* *{१/१३०: E१,२,५,६, TA, A; TB, TC: उपलभ्यते}* *{१/१३१: E१,२,५,६, TA, A, M.परि.; TB, TC: शक्यम्}* *{१/१३२: E५, TC, Bऋह्., Ṛज्., Tआत्प्., Kआश्., Nय्. रत्.; E१,२,६, TA, TB, A ओम्. वैदिकम्}* *{१/१३३: Zइतिएर्त् इन् Āप्ŚS ३१.२.२१, Qउएल्ले उन्बेकन्न्त्}* *{१/१३४: TB, TC, Bऋह्.; E१,२,५,६, TA, A, Tआत्प्.: शरीरकम्}* *{१/१३५: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/१३६: E१,२,५,६, TA, Tआत्प्., Kआश्.; TB, TC, A, M.परि.: अग्निहोत्रचोदनास्व्}* *{१/१३७: MS १.१.५अ}* *{१/१३८: TB, TC, M.परि., Tआत्प्. ओम्. अग्निहोत्रादिलक्षणस्य}* *{१/१३९: TB, TC, M.परि., Tआत्प्. ओम्. प्रत्यक्षादिभिर्}* *{१/१४०: E१,२,५,६, TA, TB, A; TC, M.परि., Tआत्प्.: यथा}* *{१/१४१: TA, TB, TC, M.परि., Tआत्प्.; E१,२,५,६, A: संयक्संप्रत्यय}* *{१/१४२: E१,२,५,६ हबेन् अन् Sतेल्ले वोन्: सति संबन्धे नुर्: शब्दे (बेइ Fरौwअल्ल्नेर् fएह्ल्त् हिएर्zउ एइने Aन्मेर्कुन्ग्)}* *{१/१४३: E२: १,५१; E५: १,१३१; E६: १,९}* *{१/१४४: E१,२,५,६, TA, TC, M.परि.; TB, A: तथा}* *{१/१४५: TA, TB, A; E१,२,५,६, TC: अवगतिम् इच्छामः}* *{१/१४६: E१,२,५,६, A, M.परि.; TA, TB, TC: ब्रूत इतीत्य्}* *{१/१४७: TB, TC, A, M. परि.; E१,२,५,६, TA: बोधयति}* *{१/१४८: TB, TC ओम्. इति}* *{१/१४९: TB, TC, A, M. परि.; E१,२,५,६, TA: च}* *{१/१५०: TB, TC, M. परि.; E१,२,५,६, TA, A: निमित्ते}* *{१/१५१: TB, TC, M. परि.; E१,२,५,६, TA, A: बुध्यते}* *{१/१५२: M.परि.: प्रत्यक्षः प्रत्ययो; E१,२,५,६: अव्यपदेशप्रत्ययो (बेइ Fरौwअल्ल्नेर् निछ्त् वेर्मेर्क्त्)}* *{१/१५३: TA, TB, TC, TSP; E१,२,५,६, A: अस्य प्रत्ययविपर्यासं}* *{१/१५४: TB, TC, TSP ओम्. प्रत्ययेन}* *{१/१५५: Tआत्प्., Nय्.रत्. ओम्. एवम्}* *{१/१५६: TA, TC, A, Kआश्. ओम्. अस्ति}* *{१/१५७: E५, TB ओम्. यदि}* *{१/१५८: E१,२,६, TA, A; E५, TB, TC: संश्लेषसंबन्धम्}* *{१/१५९: E५, A, Ṛज्., E१ (व्.ल्.); E१,६: -भावसंयोगादयस्; E२, TA, TB, TC: -भावादयस्}* *{१/१६०: E५, TB, TC, Tआत्प्. ओम्. यः...तम्; E१,२,५,६ ओम्. संबन्धस् तम्}* *{१/१६१: E२: १,५४; E५: १,१४३; E६: १,१०}* *{१/१६२: E१,२,५,६, TA, A; TB, TC: उच्चारयति...अवगच्छति}* *{१/१६३: TB, TC ओम्. यः...स}* *{१/१६४: E१,२,५,६, A ओम्. ह्य्}* *{१/१६५: E१,२,५,६, A ओम्. हि}* *{१/१६६: E१,२,५,६, TC; TA, TB, A: शब्दो}* *{१/१६७: E१,२,५,६, A, M. परि. ओम्. ऽपि}* *{१/१६८: TB, TC, M. परि.: -प्रत्यय इति चेत्; E१,२,५,६, TA: -प्रतिपत्तिश् चेत्; A: -प्रतीतिः स्यात् चेत्}* *{१/१६९: E१,२,५,६, TA, A, M.परि.; TB, TC, Tआत्प्.: वाचक}* *{१/१७०: E१,२,५,६ ओम्. अपि}* *{१/१७१: TB, TC, Tआत्प्. ओम्. स्यात्}* *{१/१७२: E१,२,५,६, TA, A; TB, TC: प्रत्यक्षादिभिः प्रमाणैर् अनुपलभ्यमानो}* *{१/१७३: TA, TB, TC, A; E१,२,५,६: शक्नोत्य् उपगन्तुम्}* *{१/१७४: E२: १,५६; E५: १,१५३; E६: १,१०}* *{१/१७५: Nइरुक्त, १.१}* *{१/१७६: E१,२,५,६, TA, A; TB, TC, Tआत्प्.: न चैतद्}* *{१/१७७: TA, TB, TC, Tआत्प्.; E१,२,५,६, A: संभवत्य्}* *{१/१७८: TA, TB, TC, Tआत्प्., Nय्. रत्., E१ (व्.ल्.); E१,२,५,६, A: एवार्थप्रतिपत्तौ}* *{१/१७९: E१,२,५,६, A ओम्. एतावता}* *{१/१८०: TA, TB, TC, A; E१,२,५,६: अतो न तेभ्यो}* *{१/१८१: शक्यते वक्तुम्: E१,२,५,६, TC, Śआर्क्.; TB: अवगम्यते; TA: गम्येत, A: सम्यक्}* *{१/१८२: TA, A ओम्. अप्य्}* *{१/१८३: TA, TB, A, Śअर्क्., Nय्. रत्.; E१,२,५,६, TC: एवंजतीयको}* *{१/१८४: E२: १,६१; E५: १,१७१; E६: १,११}* *{१/१८५: TB, TC, A, Nय्. रत्., E२,५ , E१ (व्.ल्.); E१,६: महाजानिकः}* *{१/१८६: TB, TC, A, Bऋह्., Ṛज्.; E१,२,५,६, TA, A: दुष्यतीति}* *{१/१८७: E५, TA, TB, TC, Bऋह्., Ṛज्.; E१,२,६: वने ऽपि सति}* *{१/१८८: TB: ते सिद्धान्त-; E१,२,५,६, TA, TC: तत्सिद्धान्त-; E१,२,५,६, TA, A: -दूषणे}* *{१/१८९: E१,२,५,६, TA; A: उपपद्यते; TB, TC ओम्}* *{१/१९०: E५, TB, TC; E१,२,६, TA, A: अतो}* *{१/१९१: E१,२,५,६, A, Nय्.रत्.; TB, TC: गम्यते; TA: अवगच्छामः}* *{१/१९२: TA, TB, TC; E१,२,५,६, A: मिथ्यैव}* *{१/१९३: TA; E१,२,५,६, TB, TC, A: ततो}* *{१/१९४: TC, Śअर्क्., Nय्. रत्.; TB: प्रत्ययविपर्ययः; E१,२,५,६, TA, A: विपर्येति}* *{१/१९५: Vग्ल्. MS १.३.३३, E१/२ हबेन्: शब्दार्थ}* *{१/१९६: E१,२,५,६, TB, A; TA: ननु स कृतक; TC: स कृतक}* *{१/१९७: E१,२,५,६, TA, TB, TC, A; Nय्.रत्.: संव्यवहारार्थम्}* *{१/१९८: E१,२,५,६, TC, A, Śअर्क्.; TA, TB: सिद्धस्य सिद्धम्}* *{१/१९९: E२: १,६३; E५: १,१८१; E६: १,१२}* *{१/२००: TA, TB, A; E१,२,५,६, TC: न च}* *{१/२०१: TB, TC, A; E१,२,५,६, TA: भवति}* *{१/२०२: E१,२,५,६ ओम्. अप्य्}* *{१/२०३: TA, TB, TC, A; E१,२,५,६: वेदे}* *{१/२०४: Pआण्. १.१.१}* *{१/२०५: E१,२,५,६, TA, A ओम्. तद् वृद्धम्}* *{१/२०६: Pआण्. १.१.७३; E१/२, TA, A ओम्. तद् वृद्धम्}* *{१/२०७: E१,२,५,६, TA, A; TB, TC, Nय्.रत्.: प्रतिपद्येत}* *{१/२०८: TB; E१,२,५,६, TA, TC, A: कारणाद्}* *{१/२०९: E५,६, TB, TC, Bऋह्.; E१,२, TA, A: प्रतिपद्यामहे}* *{१/२१०: E१,२,५,६, TA ओम्. मन्यामह इति}* *{१/२११: Vग्ल्. MS १.१.५ब्}* *{१/२१२: E१,२,५,६, TA, A: नार्था उपलभ्येरन्; TB, TC: अथ उपलभ्येत}* *{१/२१३: E२: १,६७; E५: १,१९३; E६: १,१२}* *{१/२१४: TA, TB, TC, A; E१,२,५,६: संव्यवहरमाणानाम्}* *{१/२१५: Vग्ल्. MS १.१.५च्}* *{१/२१६: TA, A; E१,२,५,६, TB, TC ओम्. ऽपि}* *{१/२१७: E१,२,५,६, TA, A; TB, TC, M.परि.: शक्नुयाद् एव}* *{१/२१८: TA, TB, TC, A; E१,२,५,६: संबन्धस्य कर्ता}* *{१/२१९: Vग्ल्. MS १.१.५च्}* *{१/२२०: TB, TC, M.परि., Nय्.रत्. ओम्. हि}* *{१/२२१: E१,२,५,६, A; TA: संबन्धः कर्तव्यः; TB, TC: संबन्धः क्रियेत (क्रियते)}* *{१/२२२: TA, TB, TC, A ओम्. तस्य केनेति}* *{१/२२३: TA, TB, TC, Bऋह्., M. परि., Nय्. रत्.; E१,२,५,६, A: नास्ति}* *{१/२२४: E२ ओम्. हि}* *{१/२२५: E१,२,५,६, TB, A; TA: वृद्धेभ्यः व्यवहारेण; TC: वृद्धव्यवहारेभ्यः}* *{१/२२६: E२ (व्.ल्.), TA, A; E१,२,५,६: न च प्रतिपन्न-; TB: अप्रतिपन्न-; TC: अप्रसिद्ध-}* *{१/२२७: Vग्ल्. MS १.१.५द्}* *{१/२२८: E५, TB, व्ग्ल्. Bऋह्., Ṛज्., Nअयविवेक; E१,२,६, TA, TC, A: देवदत्तादाव्}* *{१/२२९: E२: १,६९; E५: १,१९७; E६: १,१३}* *{१/२३०: TB, TC, A ओम्. हि}* *{१/२३१: E१,२,५,६, TB, TC; TA, A: ज्ञायमानेषूभयम्}* *{१/२३२: Vग्ल्. MS १.१.५ए}* *{१/२३३: TA, TB, TC; E१,२,५,६, A: न चैवम्}* *{१/२३४: TB, TC, A; E१,२,५,६, TA: च}* *{१/२३५: TA; E१,२,५,६, A: अपेक्ष्यते; TB, TC: अपेक्षितव्यम्}* *{१/२३६: TA, TB, TC ओम्. हि}* *{१/२३७: E१,२,५,६, A; TA: अतः; TB, TC: तेन}* *{१/२३८: TA, TB, TC, M. परि.; E१,२,५,६, A: तावतैव}* *{१/२३९: TA, TB, TC, A; E१,२,५,६: कर्मणः}* *{१/२४०: TB, TC ओम्. तत्र}* *{१/२४१: E१,२,५,६, A ओम्. ननु}* *{१/२४२: E१,२,५,६, TA, A ओम्. शरीरगुणाः}* *{१/२४३: E१,२,६, TA ओम्. हि ते; E५ ओम्. हि ते अयावच्छरीरभावित्वात्}* *{१/२४४: E१,२,५,६ ओम्. अतो न शरीरगुणाः प्राणादयः}* *{१/२४५: E२: १,७३; E५: १,२०९; E६: १,१४}* *{१/२४६: E१,२,५,६, TA, A; M.परि.: वदामः; TB, TC: ब्रूमः}* *{१/२४७: TA, TB, A; E१,२,५,६: संबन्धान्वेषणा}* *{१/२४८: TB, TC, A; E१,२,५,६: भवति}* *{१/२४९: E१,२,५,६, A; TA, TB, E१ (व्.ल्.): अन्विच्छेम; TC: अन्विच्छेः}* *{१/२५०: TA, TB, TC; E१,२,५,६, A: अव्यवस्थैव}* *{१/२५१: E२, TB, A; E१,६, TA, TC: परितोष्यसि; E५: परितुष्यसि}* *{१/२५२: E१,२,५,६, TB, A ओम्. विज्ञाता}* *{१/२५३: E१,२,५,६, A; TA, TB, TC: जानातीति ज्ञानस्य}* *{१/२५४: TA, TB, TC, A ओम्. अनेन}* *{१/२५५: E१,२,५,६, TA, A; TB: उपलभ्यते; TC: उच्यते}* *{१/२५६: TA, TB, TC, A, E१ (व्.ल्.); E१,२,५,६: वेदा}* *{१/२५७: E१,२,५,६: प्रमंस्यते}* *{१/२५८: TB ओम्. प्रत्यक्ष-; TC ओम्. आत्मसत्तावादिन एव शब्दस्य प्रत्यक्ष-}* *{१/२५९: E२: १,७६; E५: १,२१४; E६: १,१५}* *{१/२६०: E१,२,५,६, TA, A; TB, TC: अन्यम्}* *{१/२६१: E१,२,५,६, TB, TC, A ओम्. नानुपलब्धपूर्वे}* *{१/२६२: TB, TC, A; TA: अनुपलब्धे; E१,२,५,६: उपलब्धुर्}* *{१/२६३: TB; E१,२,५,६, TA, A: ऽन्येदुर्, TC ओम्}* *{१/२६४: E१,२,५,६, TA, A ओम्. अतस्}* *{१/२६५: E१,२,५,६, TA, A: सा इत्य्; TB, TC: अस्ति}* *{१/२६६: TA, TB, TC; E१,२,५,६, A: प्रत्यस्ते}* *{१/२६७: TB, TC; E२,५, TA, A: अथ तु; E१,६: अथ नु}* *{१/२६८: TA, TC, A; E१,२,५,६, TB: य एव}* *{१/२६९: TB, TC; E१,२,५,६, TA, A: इच्छा नोपपन्ना}* *{१/२७०: TB, TC, E१,२,५,६, TA, A: अत्रोच्यते}* *{१/२७१: TA, TB, TC, A; E१,२,५,६: अन्यं}* *{१/२७२: TA, TC, A: यच् च; E१,२,५,६, TB: यन्}* *{१/२७३: TB, TC ओम्. एव}* *{१/२७४: TC, A ओम्. अप्य्}* *{१/२७५: TB, TC; E१,२,५,६, A: अन्येद्युर्}* *{१/२७६: TA, TB, TC, A; E१,२,५,६: न वा}* *{१/२७७: TA, TB, TC, A; E१,२,५,६: क्षणिक-}* *{१/२७८: E२: १,७८; E५: १,२२०; E६: १,१५}* *{१/२७९: TB; E१,२,५,६, TA, TC, A: तत्-}* *{१/२८०: E१,२,५,६, TA, A: अथास्मिन् अर्थे; TC: अत्रापि; TB: तथा च}* *{१/२८१: BU (M) २.४.१२; व्ग्ल्. BU (M) ४.५.१३ (एबेन्सो K)}* *{१/२८२: E५, TB, TC, Bऋह्.; E१,२,६, A: उच्यते}* *{१/२८३: E५, TA, TB, TC, A, Bऋह्, E१ (व्.ल्.); E१,२,६: अपरो}* *{१/२८४: E५; E१,२,६, A ओम्. यो}* *{१/२८५: E५, TA, TB, TC: तद् यथा; E१,२,६, A: यथा}* *{१/२८६: TA, Nय्. रत्.; TC: आत्मप्रत्ययम्; E१,२,५,६, TB, A: प्रत्ययम्}* *{१/२८७: TB, TC; E१,२,५,६, TA, A ओम्. हि}* *{१/२८८: BU (M) ३.९.२८, (K) ३.९.२६, इदेन्तिस्छ् मित् (M) ४.२.६, (K) ४.२.४. उन्द् (M) ४.४.२७, (K) ४.४.२२ उन्द् (K) ४.५.१५ (fएह्ल्त् इन् M)}* *{१/२८९: E१ (व्.ल्.), TA; TC: ये चैव; E५: ये ऽपि चैव; E१,२,६: ये; A: यच् च}* *{१/२९०: BU (M) ४.५.१५, (K) ४.५.१४}* *{१/२९१: E१,२,५,६, TA, A; TB: विज्ञानाद् अन्य आत्मा; TC: विज्ञानाद् अन्यो ऽस्ति}* *{१/२९२: E२: १,८०; E५: १,२३२; E६: १,१६}* *{१/२९३: E१,२,५,६, TA, A; TB, TC: इत्य् एतत् तत्त्वम् (इत्य्) अवगम्येत}* *{१/२९४: E१,२,५,६: निदर्श्येत; TA, TB: निदर्श्यत; TA, C: निर्दिश्यत}* *{१/२९५: TB, TC, Bऋह्. ओम्. च}* *{१/२९६: E१,२,५,६, TC, A; TA, TB: परम् आत्मानम्}* *{१/२९७: TA, TB, TC, A; E१,२,५,६: परपुरुषं नोपलभन्त}* *{१/२९८: BU (M) ४.३.६ (=K)}* *{१/२९९: BU (M) ३.९.२८ (K ३.९.२६) इदेन्तिस्छ् मित् (M) ४.२.६ (K ४.२.४), (M) ४.४.२७ (K ४.४.२२) उन्द् (K) ४.५.१५ (fएह्ल्त् इन् M)}* *{१/३००: TA, TC; E१,२,५,६, A: अथापि}* *{१/३०१: BU (M) ४.४.१० (K ४.३.९), इदेन्तिस्छ् मित् (M) ४.३.१६ (K ४.३.१४)}* *{१/३०२: TB, TC ओम्. अयम् (सो औछ् E१/२)}* *{१/३०३: TA, TB, TC; E१,२,५,६, A: तत्राप्य्}* *{१/३०४: E२: १,८३; E५: १,२४७; E६: १,१७}* *{१/३०५: BU (M) ३.९.२८ (K ३.९.२६), इदेन्तिस्छ् मित् (M) ४.२.६ (K ४.२.४), (M) ४.४.२७ (K ४.४.२२) उन्द् K ४.५.१५ (fएह्ल्त् इन् M)}* *{१/३०६: E१,२,५,६ ओम्. अयम्}* *{१/३०७: TB, TC; E१,२,५,६, TA, A: अन्य इति}* *{१/३०८: E१,२,५,६, TC, A ओम्. आत्मा}* *{१/३०९: E१,२,५,६, TA, A ओम्. इति}* *{१/३१०: E५, A ओम्. तेभ्यो; E१,२,६ हबेन् तेभ्यो (fअल्स्छ् बेइ Fरौwअल्ल्नेर्)}* *{१/३११: E१,२,५,६, TA, A; TB: तया; TC: अनया}* *{१/३१२: E१,२,५,६, TA, A; TB: पश्यति; TC: अन्यं पश्यति}* *{१/३१३: E१,२,५,६; TA: पाट्यमानस्य...तद्यमानस्य; TB भिद्यमानस्य; TC: नुद्यमानस्य...ताड्-यमानस्य...भिद्यमान्स्य; A: दह्यमानस्य...वाद्यमानस्य...तुद्यमानस्य}* *{१/३१४: TB, TC, Ṛज्.; E१/२, TA, A: यद्}* *{१/३१५: E२: १,८५; E५: १,२५४; E६: १,१७}* *{१/३१६: TB, TC; E१,२,५,६, TA, A ओम्. अप्य्}* *{१/३१७: BU (M) ४.५.१४ (=K); व्ग्ल्. M २.४.१३ (=K)}* *{१/३१८: TA, TB, TC; E१,२,५,६, A: मोहान्त-}* *{१/३१९: E१,२,५,६, A ओम्. वचनस्य}* *{१/३२०: E१,२,५,६ ओम्. ऽहं}* *{१/३२१: BU (M) ४.५.१५ (व्ग्ल्. K ४.५.१४)}*
SK
कर्मैके तत्र दर्शनात् // MS_१,१.६ //
SK
उक्तम् - नित्यः शब्दार्थयोः संबन्ध इति. तद् अनुपपन्नम्, शब्दस्यानित्यत्वात्. विनष्टः शब्दः, पुनर् अस्य क्रियमाणस्यार्थेनाकृतकः संबन्धो नोपपद्यते. न हि प्रथमश्रुताच् छब्दात् कश्चिद् अर्थं प्रत्येति. कथं पुनर् अनित्यः शब्दः. प्रयत्नाद् उत्तरकालं दृश्यते यतः. अतः प्रयत्नानन्तर्यात् तेन क्रियत इति गम्यते. नन्व् अभिव्यञ्ज्यात् स एनम्. नेति ब्रूमः. न ह्य् अस्य प्राग् अभिव्यञ्जनात् सद्भावे किंचन प्रमाणम् अस्ति. संश् चाभिव्यज्यते नासन्.
SK
अस्थानात् // MS_१,१.७ //
SK
नो{*१/३२२*} खल्व् अप्य् उच्चरितं मुहूर्तम् अप्य् उपलभामहे. अतो विनष्ट इत्य् अवगच्छामः. न च सन् नोपलभ्यते. अनुपलंभकारणानां व्यवधानादीनाम् अभावे ऽप्य् अनुपलम्भनात्. न चासौ विषयम् अप्राप्तः, आकाशाविषयत्वात्, कर्णच्छिद्रे ऽप्य् अनुपलम्भनात्.
SK
NOTES: *{१/३२२: E१ गिब्त् अल्स् व्.ल्.: न चैनम् उच्चरितं}*
SK
करोतिशब्दात् // MS_१,१.८ //
SK
अपि च शब्दं कुरु, मा शब्दं कार्षीर् इति व्यवहर्तारः प्रयुञ्जते, न ते नूनम् अवगच्छन्ति स एवायं शब्द इति.
SK
सत्त्वान्तरे च यौगपद्यात् // MS_१,१.९ //
SK
नानादेशेषु च युगपच् छब्दम् उपलभामहे, तद् एकस्य नित्यस्यानुपपन्नम् इति. असति विशेषे नित्यस्य नानेकत्वम्. कार्याणां तु बहूनां नानादेशेषु क्रियमाणानाम् उपपद्यते ऽनेकदेशसंबन्धः. तस्माद् अप्य् अनित्यः.
SK
प्रकृतिविकृत्योश् च // MS_१,१.१० //
SK
अपि च दध्यत्रेत्य् अत्रेकारः प्रकृतिः, यकारो विकृतिर् इत्य् उपपदिशन्ति. यद् विक्रियते, तद् अनित्यम्. इकारसादृश्यं च यकारस्योपलभ्यते, तेनापि तयोः प्रकृतिविकारभावो लक्ष्यते.
SK
वृद्धिश् च कर्तृभूम्नास्य // MS_१,१.११ //
SK
अपि च बहुभिर् उच्चारयद्भिर् महान् शब्दः श्रूयते. स यद्य् अभिव्यज्यते, बहुभिर् अल्पैश् चोच्चार्यमाणस् तावान् एवोपलभ्येत. अतो मन्यामहे नूनम् अस्यैकैकेन कश्चिद् अवयवः क्रियते, यत् प्रचयाद् अयं महान् उपलभ्यते.
SK
[२६]{*१/३२३*}
SK
NOTES: *{१/३२३: E२: १,९०; E५: १,२७२; E६: १,१९}*
SK
समं तु तत्र दर्शनम् // MS_१,१.१२ //
SK
तुशब्दात् पक्षो विपरिवर्तते. यद्{*१/३२४*} उक्तम् - प्रयत्नाद् उत्तरकाले दर्शनात् कृतको ऽयम् इति{*१/३२५*}. यदि विस्पष्टेन हेतुना शब्दस्य नित्यत्वं वक्तुं शक्ष्यामः, ततो नित्यप्रत्ययसामर्थ्यात् प्रयत्नेनाभिव्यज्यत इति भविष्यति. यदि प्राग् उच्चारणाद् अनभिव्यक्तः प्रयत्नेनाभिव्यज्यते. तस्माद् उभयोः पक्षयोः समम् एतत्.
SK
NOTES: *{१/३२४: E१,५,६; E२: तद्}* *{१/३२५: ŚBह् अद् MS १.१.६}*
SK
सतः परम् अदर्शनं विषयानागमात् // MS_१,१.१३ //
SK
यद् अपरं कारणम् उक्तम् - उच्चरितप्रध्वस्त इति{*१/३२६*}. अत्रापि यदि शक्ष्यामो नित्यताम् अस्य विस्पष्टं वक्तुम्, ततो नित्यप्रत्ययसामर्थ्यात् कदाचिद् उपलम्भं कदाचिद् अनुपलम्भं दृष्ट्वा किंचिद् उपलम्भस्य निमित्तं कल्पयिष्यामः. तच् च संयोगविभागसद्भावे सति भवतीति संयोगविभागाव् एवाभिव्यञ्जकाव् इति वक्ष्यामः. उपरतयोः संयोगविभागयोः श्रूयत इति चेत्. नैतद् एवम्. न नूनम् उपरमन्ति संयोगविभागाः, यत उपलभ्यते शब्द इति. न हि ते प्रत्यक्षा इति. यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति न कुर्वन्ति, आकाशविषयत्वाच् छब्दस्याकाशस्यैकत्वाद् य एवायम् अत्र श्रोत्राकाशः, स एव देशान्तरेष्व् अपीति श्रुघ्नस्थैः{*१/३२७*} संयोगविभागैर् अभिव्यक्तः पाटलिपुत्रे ऽप्य् उपलभ्येत. यस्य पुनः कुर्वन्ति, तस्य वायवीयाः संयोगविभागा वाय्वाश्रितत्वाद् वायुष्व् एव करिष्यन्ति, यथा तन्तवस् तन्तुष्व् एव पटम्. तस्य पाटलिपुत्रेष्व् अनुपलम्भो युक्तः, श्रुघ्नस्थत्वात् तेषाम्. यस्याप्य् अभिव्यञ्जन्ति, तस्याप्य् एष न दोषः, दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागाः, तेन दूरे यच् छ्रोत्रं तेन नोपलभ्यत इति. नैतद् एवम्. अप्राप्ताश् चेत् [२८]{*१/३२८*}संयोगविभागाः श्रोत्रस्योपकुर्युः. संनिकृष्टविकृष्टदेशस्थौ युगपच् छब्दम् उपलभेयाताम्. न च युगपद् उपलभेते. तस्मान् नाप्राप्ता उपकुर्वन्ति. न चेद् उपकुर्वन्ति{*१/३२९*}, तस्माद् अनिमित्तं शब्दोपलम्भने संयोगविभागाव् इति. नैतद् एवम्. अभिघातेन हि प्रेरिता वायवस् तिमितानि{*१/३३०*} वाय्वन्तराणि प्रतिबाधमानाः सर्वतोदिक्कान् संयोगविभागान् उत्पादयन्ति. यावद् वेगम् अभिप्रतिष्ठन्ते. ते च वायोर् अप्रत्यक्षत्वात् संयोगविभागा नोपलभ्यन्ते. अनुपरतेष्व् एव तेषु शब्द उपलभ्यते नोपरतेषु. अतो न दोषः. अत एव चानुवातं दूराद् उपलभ्यते शब्दः.
SK
NOTES: *{१/३२६: Cf. ŚBह् अद् MS १.१.७}* *{१/३२७: E२,५,६ हबेन् स्रुघ्न-}* *{१/३२८: E२: १,९५; E५: १,२८०; E६: १,२०}* *{१/३२९: E२ ओम्. न चेद् उपकुर्वन्ति}* *{१/३३०: E१,६; E२,५ (रिछ्तिग्): वायवः स्तिमितानि}*
SK
प्रयोगस्य परम् // MS_१,१.१४ //
SK
यद् अपरं कारणम् उक्तम् - शब्दं कुरु मा कार्षीर् इति व्यवहर्तारः प्रयुञ्जते{*१/३३१*}. यद्य् असंशयं नित्यः शब्दः, शब्दप्रयोगं कुर्व् इति भविष्यति, यथा गोमयात्{*१/३३२*} कुर्व् इति संहारे{*१/३३३*}.
SK
NOTES: *{१/३३१: ŚBह् अद् MS १.१.८}* *{१/३३२: E२,५,६ (रिछ्तिग्): गोमयान्}* *{१/३३३: E१,५; E२,६: संवाहे (E१ गिब्त् संवाहे अल्स् Fन्.)}*
SK
आदित्यवद् यौगपद्यम् // MS_१,१.१५ //
SK
यत् त्व् एकदेशस्य{*१/३३४*} सतो नानादेशेषु युगपद् दर्शनम् अनुपपन्नम् इति{*१/३३५*}. आदित्यं पश्य देवानांप्रिय. एकः सन्न् अनेकदेशाव् अस्थित इव लक्ष्यते. कथं पुनर् अवगम्यत एक आदित्य इति. उच्यते - प्राङ्मुखो देवदत्तः पूर्वाह्ने संप्रति पुरस्ताद् आदित्यं पश्यति. तस्य दक्षिणतो ऽवस्थितो न द्वौ पश्यति, आत्मनश् च संप्रति न तिरश्चीनं{*१/३३६*} देवदत्तस्यार्जवे. [२८]{*१/३३७*} तस्माद् एक आदित्य इति. दूरत्वाद् अस्य देशो नावधार्यते. अतो व्यामोहः. एवं शब्दे ऽपि व्यामोहाद् अनवधारणं देशस्य. यदि श्रोत्रं संयोगविभागदेशम् आगत्य शब्दं गृह्णीयात्, तथापि तावद् अनेकदेशता कदाचिद् अवगम्येत. न च तत्संयोगदेशम् आगच्छति. प्रत्यक्षा हि कर्णशष्कुली तद्देशा गृह्यते. वायवीयाः पुनः संयोगविभागा अप्रत्यक्षस्य वायोः, कर्णशष्कुलीप्रदेशे प्रादुर्भवन्तो नोपलभ्यन्त इति नानुपपन्नम्. अत एव व्यामोहो यन् नानादेशेषु शब्द इति. आकाशदेशश् च शब्द इति. एकं च पुनर् आकाशम्. अतो ऽपि न नानादेशेषु. अपि चैकरूप्ये सति देशभेदेन कामं देशा एव भिन्नाः, न तु शब्दः. तस्माद् अयम् अप्य् अदोषः.
SK
NOTES: *{१/३३४: E५: यथैतद् एकस्य}* *{१/३३५: Cf. ŚBह् अद् MS १.१.९}* *{१/३३६: E२: संप्रति स्थितं तिरश्चीनं (E१ गिब्त्: संप्रतिस्थिते तिरश्चीनं अल्स् Fन्.)}* *{१/३३७: E२: १,९८; E५: १,३०८; E६: १,२०}*
SK
वर्णान्तरम् अविकारः // MS_१,१.१६ //
SK
न च दध्यत्रेत्य्{*१/३३८*} अत्र प्रकृतिविकारभावः. शब्दान्तरम् इकाराद् यकारः. न हि यकारं प्रयुञ्जाना इकारम् उपाददते, यथा कटं चिक्रीर्षन्तो वीरणानि. न च सादृश्यमात्रं दृष्ट्वा प्रकृतिर् विकृतिर् वोच्यते. न हि दाधिपिटकं दृष्ट्वा कुन्दपिटकं च प्रकृतिविकारभावो ऽवगम्यते. तस्माद् अयम् अप्य् अदोषः.
SK
NOTES: *{१/३३८: Cf. ŚBह् अद् MS १.१.१०}*
SK
नादवृद्धिपरा // MS_१,१.१७ //{*१/३३९*} यच् चैतद् बहुभिर् भेरीम् आध्मनद्भिः{*१/३४०*} शब्दम्{*१/३४१*} उच्चारयद्भिर् महाञ् शब्द उपलभ्यते, तेन प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते{*१/३४२*}. नैवम्. निरवयवो हि शब्दः अवयवभेदानवगमान् निरवयवत्वाच् च महत्त्वानुपपत्तिः. अतो न वर्धते शब्दः. मृदुर् एकेन [२९]{*१/३४३*} बहुभिश् चोच्चार्यमाणे तान्य् एवाक्षराणि कर्णशष्कुलीमण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः संयोगविभागैर् नैरन्तर्येणानेकशो ग्रहणान् महान् इवावयववान् इवोपलभ्यन्ते. संयोगविभागा नैरन्तर्येण क्रियमाणाः शब्दम् अभिव्यञ्जन्तो नादशब्दवाच्याः. तेन नादस्यैषा वृद्धिः, न शब्दस्येति.
SK
NOTES: *{१/३३९: E५: नादवृद्धिः परा}* *{१/३४०: E१,६; E२: आधमद्भिः, E५: अघ्नद्भिः (?)}* *{१/३४१: E५: गोशब्दम्}* *{१/३४२: Cf. ŚBह् अद् MS १.१.११}* *{१/३४३: E२: १,१०१; E५: १,३१८; E६: १,२१}*
SK
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् // MS_१,१.१८ //
SK
नित्यः शब्दो भवितुम् अर्हति. कुतः? दर्शनस्य परार्थत्वात्. दर्शनम् उच्चारणम्, तत् परार्थं परम् अर्थं प्रत्याययितुम्. उच्चरितमात्रे हि विनष्टे शब्दे न चान्यो ऽन्यान् अर्थं प्रत्याययितुं शक्नुयात्. अतो न परार्थम् उच्चार्येत. अथ न विनष्टः, ततो बहुश उपलब्धत्वाद् अर्थावगम इति युक्तम्. अर्थवत् सादृश्याद् अर्थावगम इति चेत्. न कश्चिद् अर्थवान्, सर्वेषां नवत्वात्. कस्यचित् पूर्वस्य कृत्रिमः संबन्धो{*१/३४४*} भविष्यतीति चेत्. तद् उक्तं सदृश इति चावगते व्यामोहात् प्रत्ययो व्यावर्तेत मालाशब्दान् मालाप्रत्यय इव{*१/३४५*}. यथा गावीशब्दात् सास्नादिम् इति प्रत्ययस्यानिवृत्तिः, तद्वद् भविष्यतीति चेत्. न हि गोशब्दं तत्रोच्चारयितुम् इच्छा. नेहान्यशब्दोच्चिचारयिषा. न चैकेनोच्चारणायत्नेन{*१/३४६*} संव्यवहारश् चार्थसंबन्धश् च शक्यते{*१/३४७*} कर्तुम्. तस्माद् दर्शनस्य परार्थत्वात्, नित्यः शब्दः.
SK
NOTES: *{१/३४४: E२: कृत्रिमसंबन्धो}* *{१/३४५: E१,६; E२ (रिछ्तिग्): शालाशब्दान् मालाप्रत्यय इव, E५: शालाशब्दान् मालाप्रत्ययवत्}* *{१/३४६: E१,६; E२,५: चैकेनोच्चारणयत्नेन}* *{१/३४७: E२ ओम्. शक्यते}*
SK
सर्वत्र यौगपद्यात् // MS_१,१.१९ //
SK
गोशब्द उच्चरिते सर्वगवीषु युगपत् प्रत्ययो भवति. अत आकृतिवचनो ऽयम्. न चाकृत्या शब्दस्य संबन्धः शक्यते कर्तुम्. निर्दिश्य ह्य् आकृतिं कर्ता संबध्नीयात्. गोपिण्डे च बहूनाम् आकृतीनां सद्भावाच् छब्दम् अन्तरेण गोशब्दवाच्यां विभक्ताम् आकृतिं केन प्रकारेणोपदेक्ष्यति? नित्ये तु सति गोशब्दे बहुकृत्व [३०]{*१/३४८*} उच्चरितः श्रुतपूर्वश् चान्यासु गोव्यक्तिष्व् अन्वयव्यतिरेकाभ्याम् आकृतिवचनम् अवगमिष्यति. तस्माद् अपि नित्यः.
SK
NOTES: *{१/३४८: E२: १,१०५; E५: १,३२८; E६: १,२२}*
SK
संख्याभावात् // MS_१,१.२० //
SK
अष्टकृत्वो गोशब्द उच्चरित इति वदन्ति, नाष्टौ गोशब्दा इति. किम् अतो, यद्य् एवम्. अनेन वचनेनावगम्यते, प्रत्यभिजानन्तीति{*१/३४९*}. वयं तावत् प्रत्यभिजानीमो न नः करणदौर्बल्यम्. एवम् अन्ये ऽपि प्रत्यभिजानन्ति. स एवायम् इति. प्रत्यभिजानाना{*१/३५०*} वयम् इवान्ये ऽपि नान्य इति वक्तुम् अर्हन्ति. अथ मतम् अन्यत्वे सति सादृश्येन व्यामूढाः स इति वक्ष्यन्ति. तन् न. न हि ते सदृश इति प्रतियन्ति, किं तर्हि स एवायम् इति. विदिते च स्फुटे ऽन्यत्वे व्यामोह इति गम्यते. न चायम् अन्य इति प्रत्य्-अक्षम् अन्यद् वा प्रमाणम् अस्ति. स्याद् एतत् - बुद्धिकर्मणी अपि ते प्रत्यभिज्ञायेते. ते ऽपि नित्ये प्राप्नुतः. नैष दोषः. न हि ते प्रत्यक्षे. अथ प्रत्यक्षे नित्ये एव{*१/३५१*}. ह्य् अस्तनस्य शब्दस्य विनाशाद् अन्यो ऽद्यतन इति चेत्. नैष विनष्टः, यत एनं पुनर् उपलभामहे. न हि प्रत्यक्षदृष्टं मुहूर्तम् अदृष्ट्वा पुनर् उपलभ्यमानं प्रत्यभिजानन्तो विनष्टं परिकल्पयन्ति. परिकल्पयन्तो द्वितीयसंदर्शने मातरि, जायायां पितरि वा नाश्वस्युः. न ह्य् अनुपलम्भमात्रेण नास्तीत्य् अवगम्य नष्ट इत्य् एव कल्पयन्ति. अप्रमाणतायां विदितायां नास्तीत्य् अवगच्छामः. न हि प्रमाणे प्रत्यक्षे सत्य् अप्रमाणता स्यात्. अस्तीति पुनर् अव्यामोहेनावगम्यमाने न क्वचिद् अप्य् अभावः. न चासिद्धे ऽभावे व्यामोहः, न च सिद्धो ऽभावः. तस्माद् असति व्यामोहे, नाभावः{*१/३५२*}. तद् ए[३१]{*१/३५३*}तद् आनुपूर्व्या सिद्धम्. तस्मात् पुरस्ताद् अनुच्चारितम् अनुपलभमाना अपि न विनष्ट इत्य् अवगन्तुम् अर्हन्ति. यथा{*१/३५४*} गृहान् निर्गताः सर्वगृहजनम् अपश्यन्तः पुनः प्रविश्योपलभमाना अपि न प्राक् प्रवेशाद् विनष्ट इत्य् अवगच्छन्ति. तद्वद् एनम् अपि नान्य इति वक्तुम् अर्हन्ति. ये ऽपि सर्वेषां भावानां प्रतिक्षणं विनाशम् अभ्युपगच्छन्ति, ते ऽपि न शक्नुवन्ति शब्दस्य वदितुम्. अन्ते हि क्षयदर्शनात् ते मन्यन्ते. न च शब्दस्यान्तो न च क्षयो लक्ष्यते. स इति प्रत्यक्षः प्रत्ययः सदृश इत्य् आनुमानिकः. न च प्रत्यक्षविरुद्धम् अनुमानम् उदेति. स्वकार्यं वा साधयति. तस्मान् नित्यः.
SK
NOTES: *{१/३४९: Vग्ल्. Sफोटसिद्धिव्याख्या, व्. २१२}* *{१/३५०: E१,५; E२, E१ (Fन्.), E६: प्रत्यभिजानानाः प्रत्यभिजानन्ति चेद् वयम्}* *{१/३५१: Cf. Kउमारिल, ŚV, Śअब्दनित्यताधिकरण, व्व्. ३८९/९०-३९३/९४}* *{१/३५२: E५: तस्माद् अव्यामोहः. सति चाव्यामोहे नाभावाः}* *{१/३५३: E२: १,१०६; E५: १,३४०; E६: १,२२}* *{१/३५४: E२: तथा}*
SK
अनपेक्षत्वात् // MS_१,१.२१ //
SK
येषाम् अनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषाम् अपि केषांचिद् अनित्यता गम्यते, येषां विनाशकारणम् उपलभ्यते. यथाभिनवं पटं दृष्ट्वा, न चैवं क्रियमाणम् उपलब्धवान्, अथवानित्यत्वम् अवगच्छति रूपम् एव दृष्ट्वा, तन्तुव्यतिषङ्गजनितो ऽयं तन्तुव्यतिषङ्गविनाशात् तन्तुविनाशाद् वा विनश्यतीत्य् अवगच्छति. नैवं शब्दस्य किंचित् कारणम् अवगम्यते, यद् विनाशाद् विनङ्क्ष्यतीत्य् अवगम्यते.
SK
प्रख्याभावाच् च योगस्य // MS_१,१.२२ //
SK
इदं पदेभ्यः केभ्यश्चिद् उत्तरं सूत्रम्. ननु वायुकारणकः स्याद् इति वायुर् उद्गतः संयोगविभागैः शब्दो भवतीति. तथा च शिक्षाकारा आहुः - वायुर् आपद्यते शब्दताम् इति{*१/३५५*}. नैतद् एवम्. वायवीयश् चेच् छब्दो भवेद्, वायोः संनिवेशविशेषः स्यात्. न च वायवीयान् अवयवाञ् शब्दे सतः प्रत्यभिजानीमो यथा पटस्य तन्तुमयान्. न चैवं भवति. स्याच् चेद् एवम्, स्पर्श-ने[३२]{*१/३५६*}नोपलभेमहि. न च वायवीयान् अवयवाञ् शब्दगतान् स्पृशामः. तस्मान् न वायुकारणकः. अतो नित्यः.
SK
NOTES: *{१/३५५: Qउएल्ले निछ्त् नछ्wएइस्बर्. Vग्ल्. अबेर् Nआरदशिक्षा १.५.८-१०}* *{१/३५६: E२: १,१०९; E५:१,३४६; E६: १,२३}*
SK
लिङ्गदर्शनाच् च // MS_१,१.२३ //
SK
लिङ्गं चैव भवति, वाचा विरूपनित्ययेति{*१/३५७*}. अन्यपरं हीदं वाक्यं वाचो नित्यताम् अनुवदति. तस्मान् नित्यः शब्दः.
SK
NOTES: *{१/३५७: Qउएल्ले निछ्त् नछ्गेwइएसेन्}*
SK
उत्पत्तौ वावचनाः{*१/३५८*} स्युर् अर्थस्यातन्निमित्तत्वात् // MS_१,१.२४ //
SK
यद्य् अप्य् औत्पत्तिको नित्यः शब्दो अर्थसंबन्धश् च{*१/३५९*}, तथापि न चोदनालक्षणो धर्मः. चोदना हि वाक्यम्. न ह्य् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अतो वाक्याद् अन्यतमात्{*१/३६०*} पदाद् अग्निहोत्रात् स्वर्गो भवतीति गम्यते. गम्यते तु पदत्रय उच्चरिते. न चात्र चतुर्थः शब्दो ऽस्त्य् अन्यद् अतः पदत्रयसमुदायात्. न चायं समुदायो ऽस्ति लोके, यतो ऽस्य व्यवहाराद् अर्थो ऽवगम्यते. पदान्य् अमूनि प्रयुक्तानि, तेषां नित्यो ऽर्थः. अप्रयुक्तश् च समुदायः. तस्मात् समुदायस्यार्थः कृत्रिमो व्यामोहो वा. न च पदार्था एव वाक्यार्थः. सामान्ये हि पदं प्रवर्तते, विशेषे वाक्यम्. अन्यच् च सामान्यम्, अन्यो विशेषः. न च पदार्थाद् वाक्यार्थावगतिः, असंबन्धात्. असति चेत् संबन्धे कस्मिंश्चित् पदार्थे ऽवगते ऽर्थान्तरम् अवगम्येत, एकस्मिन्न् अवगते सर्वम् अवगतं स्यात्. न चैतद् एवं भवति. तस्माद् अन्यो वाक्यार्थः. स्याद् एतत् - अप्रयुक्ताद् अपि वाक्याद् असति संबन्धे स्वभावाद् अर्थावगम इति. यदि कल्प्येत - शब्दो धर्मम् आत्मीयं व्युत्क्रामेत्. न चैष शब्दधर्मो यद् अप्रयुक्ताद् अपि शब्दार्थः प्रतीयते. न हि [३३]{*१/३६१*} प्रथमश्रुतात् कुतश्चिच् छब्दात् केचिद् अर्थं प्रतियन्ति. तद् अभिधीयते - पदधर्मो ऽयं न वाक्यधर्मः. वाक्याद् धि प्रथमावगताद् अपि प्रतियन्तो ऽर्थं दृश्यन्ते. नैतद् एवम्. यदि प्रथमश्रुताद् अवगच्छेयुः, अपि तर्हि सर्वे ऽवगच्छेयुः पदार्थविदो ऽन्ये च. न त्व् अपदार्थविदो ऽवगच्छन्ति. तस्मान् नैतद् एवम्. ननु पदार्थवद्भिर् अप्य् अवगच्छद्भिर् अकृत एव वाक्यार्थसंबन्धो भविष्यति. पदार्थवेदनेन हि संस्कृता अवगमिश्यन्ति, यथा तम् एव पदार्थं द्वितीयादिश्रवणेनेति. नेति ब्रूमः. यदि वाक्ये ऽन्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः पदार्थेभ्यो ऽर्थान्तरं प्रत्याययति, उपकारस् तु तदानीं{*१/३६२*} पदार्थज्ञानाद् अवकल्पते. तस्मात् कृत्रिमो वाक्यार्थप्रत्ययो व्यामोहो वा. न पदार्थद्वारेण संभवति वाक्यार्थज्ञानम् इति. नन्व् एवं भविष्यति सामान्यवाचिनः पदस्य गौर्{*१/३६३*} इति वाश्व इति वा, विशेषकं शुक्ल इति वा कृष्ण इति वा पदम् अन्तिकाद् उपनिपतति यदा, तदा वाक्यार्थो ऽवगम्यते. तन् न. न हि{*१/३६४*} कथम् इव गौर् इति वाश्व इति वा सामान्यवाचिनः पदात् सर्वगवीषु सर्वाश्वेषु च बुद्धिर् उपसर्पन्ती श्रुतिजनिता, वाक्यानुरोधेन कुतश्चिद् विशेषाद् अपवर्तेत. न च शुक्ल इत्यादेर् विशेषवचनस्य कृष्णादि-निवृत्तिर् भवति शब्दार्थः. न चानर्थको मा भूद् इत्य् अर्थपरिकल्पना शक्या. अतो न पदार्थजनितो वाक्यार्थः. तस्मात् कृत्रिमः. पदसंघाताः खल्व् एते संघाताश् च पुरुषकृता दृश्यन्ते, यथा -
SK
नीलोत्पलवनेष्व् अद्य चरन्तश् चारुसंरवाः/ नीलकौशेयसंवीताः प्रणश्यन्तीव{*१/३६५*} कादम्बाः//{*१/३६६*}
SK
अतो वैदिका अपि पुरुषकृता इति//
SK
[३४]{*१/३६७*}
SK
NOTES: *{१/३५८: E१ (Fन्.): वावचनानि}* *{१/३५९: E१,६; E२,५: शब्दः संबन्धश् च}* *{१/३६०: E१; E२ (बेस्सेर्): अन्यतमात्, E५: एकस्मात्, E६: अन्यतमस्मात्}* *{१/३६१: E२: १,११३; E५: १,३७७; E६: १,२४}* *{१/३६२: E१,५,६; E२: तदा न}* *{१/३६३: E२: गोर्}* *{१/३६४: E२ ओम्. न हि}* *{१/३६५: E१,६; E२,५ (रिछ्तिग्): प्रनृत्यन्तीव}* *{१/३६६: Qउएल्ले उन्बेकन्न्त्}* *{१/३६७: E२: १,११५; E५: १,३८२; E६: १,२४}*
SK
तद् भूतानं क्रियार्थेन समाम्नायो ऽर्थस्य तन्निमित्तत्वात् // MS_१,१.२५ //
SK
तेष्व् एव पदार्थेषु भूतानां वर्तमानानां (पदानां){*१/३६८*} क्रियार्थेन{*१/३६९*} समुच्चारणम्. नानपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यम् अर्थान्तरप्रसिद्धम्. कुतः. प्रमाणाभावात्. न किंचन प्रमाणम् अस्ति येन प्रमिमीमहे. न ह्य् अनपेक्षितपदार्थस्य वाक्यान्त्यवर्णस्य पूर्ववर्णजनितसंस्काररहितस्य शक्तिर् अस्ति पदार्थेभ्यो ऽर्थान्तरे वर्तितम्{*१/३७०*} इति. नन्व् अर्थापत्तिर् अस्ति, यत् पदार्थव्यतिरिक्तम् अर्थम् अवगच्छामः. न च शक्तिम् अन्तरेण तद् अवकल्प्यत इति. तन् न. अर्थस्य तन्निमित्तत्वात्. भवेद् अर्थापत्तिः, यद्य् असत्याम् अपि शक्तौ नान्यन् निमित्तम् अवकल्प्येत. अवगम्यते तु निमित्तम्. किम्? पदार्थाः. पदानि हि स्वं स्वं पदार्थम् अभिधाय निवृत्तव्यापाराणि. अथेदानीं पदार्था अवगताः सन्तो वाक्यार्थं गमयन्ति. कथम्. यत्र हि शुक्ल इति वा कृष्ण इति वा गुणः प्रतीते भवति. भवति खल्व् असावलं गुणवति प्रत्ययम् आधातुम्. तेन गुणवति प्रत्ययम् इच्छन्तः केवलं गुणवचनम् उच्चारयन्ति. संपत्स्यत एषां यथासंकल्पितो ऽभिप्रायः. भविष्यति विशिष्टार्थसंप्रत्ययः. विशिष्टार्थसंप्रत्ययश् च वाक्यार्थः. एवं चेद् अवगम्यते ऽन्यत एव वाक्यार्थः को जातुचिद् अदृष्टा पदसमुदायस्य शक्तिर् अर्थाद् अवगम्यत इति वदिष्यति. अपि चान्वयव्यतिरेकाभ्याम् एतद् अवगम्यते, भवति हि कदाचिद् इयम् अवस्था, मानसाद् अप्य् आधातात्{*१/३७१*}. यद् उच्चरितेभ्यः{*१/३७२*} पदेभ्यो न पदार्था अवधार्यन्ते. तदानीं{*१/३७३*} नियोगतो वाक्यार्थं नावगच्छेयुः. यद्य् अस्य [३५]{*१/३७४*} अपार्थगर्थ्यम्{*१/३७५*} अभविष्यत्. नियोगतस् तु नावगच्छन्ति. अपि चान्तरेणापि पदोच्चारणं यः शौक्त्यम्{*१/३७६*} अवगच्छति, अवगच्छत्य् एवासौ शुक्लगुणकम्. तस्मात् पदार्थप्रत्यय एव वाक्यार्थः. नास्य पदसमुदायेन संबन्धः. यत् तु - श्रौतः पदार्थो न वाक्यानुरोधेन कुतश्चिद् विशेषाद् अपवर्तितुम् अर्हतीति{*१/३७७*}. सत्यम्, एवम् एतत्{*१/३७८*}. यत्र केवलः पदार्थः प्रयुज्यमानः प्रयोजनाभावाद् अनर्थकः संजायत इत्य् अवगतं भवति तत्र वाक्यार्थो ऽपि तावद् भवत्व् इति विशिष्टार्थतावगम्यते, न सर्वत्र. एवं च सति, गुणान्तरप्रतिषेधो न शब्दार्थ इत्य्{*१/३७९*} एतद् अपि परिहृतं भवति. अपि च प्रातिपदिकाद् उच्चरन्ती द्वितीयादिविभक्तिः प्रातिपदिकार्थो विशेषक इत्य् आह. सा च विशेषश्रुतिः सामान्यश्रुतिं बाधेत. यच् चैते पदसंघाताः पुरुषकृता दृश्यन्त इति{*१/३८०*}. परिहृतं तद् अस्मरणादिभिः{*१/३८१*}. अपि चैवंजातीयके ऽर्थे वाक्यानि संहर्तुं न किंचन पुरुषाणं बीजम् अस्ति.
SK
NOTES: *{१/३६८: E२ ओम्. पदानां, E१ गिब्त् एस् गेक्लम्मेर्त्, E५,६ उन्गेक्लम्मेर्त्}* *{१/३६९: E५: क्रियार्थेन समानायः समुच्चारणम्}* *{१/३७०: E२,५,६: वर्तितुम्}* *{१/३७१: E५: मानसाद् अपचारात्}* *{१/३७२: E५: उच्चरितेभ्यो ऽपि}* *{१/३७३: E५ (रिछ्तिग्): न तदानीं}* *{१/३७४: E२: १,११७; E५: १,३९३; E६: १,२५}* *{१/३७५: E५ (रिछ्तिग्): पार्थगर्थ्यम्}* *{१/३७६: E२,५,६ (रिछ्तिग्): शौक्ल्यम्}* *{१/३७७: Cf. E१, S.३३/१७}* *{१/३७८: E२: सत्यम् एवैवम् एतत्}* *{१/३७९: Cf. E१, S.३३/१८-१९}* *{१/३८०: Cf. E१, S.३३/२३}* *{१/३८१: Cf. E१, S.१५/२३}*
SK
लोके सन्नियमात् प्रयोगसंनिकर्षः स्यात् // MS_१,१.२६ //
SK
लौकिकेषु पुनर् अर्थेषु प्रत्यक्षेणार्थम् उपलभ्य सन्नियमः, सन्निबन्धनं शक्यं तत्र संहर्तुम्, एवंजातीयकानि वाक्यानि नीलोत्पलवनेष्व् अद्य इति{*१/३८२*}. तस्माद् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् एतेभ्य एव पदेभ्यो ये ऽर्था अवगताः, तेभ्यो एवैतद् अवगम्यते, अग्निहोत्रात् स्वर्गो भवतीति. पदेभ्य एव पदार्थप्रत्ययः, पदार्थेभ्यो वाक्यार्थ इति.
SK
[३६]{*१/३८३*}
SK
NOTES: *{१/३८२: E१, S.३३/२१-२२}* *{१/३८३: E२: १,१२०; E५: १,४०१; E६: १,२६}*
SK
वेदांश् चैके संनिकर्षं पुरुषाख्याः // MS_१,१.२७ //
SK
उक्तम् - चोदनालक्षणो ऽर्थो धर्म इति{*१/३८४*}, यतो न पुरुषकृतः शब्दस्यार्थेन संबन्धः. तत्र पदवाक्याश्रय आक्षेपः परिहृतः. इदानीम् अन्यथाक्षेप्स्यामः. पौरुषेयाश् चोदना इति वदामः, संनिकृष्टकालाः कृतका वेदा इदानीं तनाः, ते च चोदनानां समूहाः, तत्र पौरुषेयाश् चेद् वेदाः, असंशयं पौरुषेयाश् चोदनाः. कथं पुनः कृतका वेदा इति केचिन् मन्यन्ते. यतः पुरुषाख्याः पुरुषेण हि समाख्यायन्ते वेदाः - काठकं कालापकम्, पैप्पलादकं मौहुलम्{*१/३८५*} इति. न हि संबन्धाद् ऋते समाख्यानम्, न च पुरुषस्य शब्देनास्ति{*१/३८६*} संबन्धः, अन्यतः{*१/३८७*} कर्ता पुरुषः कार्यः शब्द इति. ननु प्रवचनलक्षणा समाख्या स्यात्. नेति ब्रूमः. असाधारणं हि विशेषणं भवति, एक एव हि कर्ता बहवो ऽपि प्रब्रूयुः. अतो ऽस्मर्यमाणो ऽपि चोदनायाः कर्ता स्यात्. तस्मान् न प्रमाणं चोदनालक्षणो ऽर्थो धर्म इति.
SK
NOTES: *{१/३८४: MS १.१.२}* *{१/३८५: E१,६; E२ ओम्. मौहुलम्, E५: मौद्गलम्}* *{१/३८६: E२: पुरुषस्यान्यः शब्देनास्ति}* *{१/३८७: E१,६, E६: संबन्धो ऽन्यतः; E२: संबन्धो यद् अतः. E५: संबन्धो ऽन्यद् अतः}*
SK
अनित्यदर्शनाच् च // MS_१,१.२८ //
SK
जननमरणवन्तश् च वेदार्थाः श्रूयन्ते. बबरः प्रावाहणिर् अकामयत{*१/३८८*}, कुसुरुविन्द औद्दालकिर् अकामयत{*१/३८९*} इत्येवमाद्यः. उद्दालकस्यापत्यं गम्यत औद्दालकिः, यद्य् एवम्, प्राग् औद्दालकिजन्मनः, नायं ग्रन्थो भूतपूर्वः. एवम् अप्य् अनित्यता.
SK
[३७]{*१/३९०*}
SK
NOTES: *{१/३८८: Cf. Tऐत्.S. ७.१.२०}* *{१/३८९: Cf. Tऐत्.S. ७.२.२}* *{१/३९०: E२: १,१२२; E५: १,४०४; E६: १,२६}*
SK
उक्तं तु शब्दपूर्वत्वम् // MS_१,१.२९ //
SK
उक्तम् अस्माभिः शब्दपूर्वत्वम् अध्येतॄणाम्{*१/३९१*}. केवलम् आक्षेपपरिहारो वक्तव्यः, सो ऽभिधीयते.
SK
NOTES: *{१/३९१: Cf. ŚBह् अद् MS १.१.५}*
SK
आख्या प्रवचनात् // MS_१,१.३० //
SK
यद् उक्तम् - कर्तृलक्षणा समाख्या काठकाद्येति. तद् उच्यते - नेयम् अर्थापत्तिः, अकर्तृभिर् अपि ह्य् एनाम् आचक्षीरन्, प्रकर्षेण वचनम् (अनन्यसाधारणं){*१/३९२*} कठादिभिर् अनुष्ठितं स्यात्, तथापि हि समाख्यातारो भवन्ति. स्मर्यते च वैशंपायनः सर्वशाखाध्यायी, कठः पुनर् इमां केवलां शाखाम् अध्यापयां बभूवेति. स बहुशाखाध्यायिनां संनिधाव् एकशाखाध्याय्य् अन्यां शाखाम् अनधीयानः, तस्यां प्रकृष्टत्वाद् असाधारणम् उपपद्यते विशेषणम्.
SK
NOTES: *{१/३९२: E२,६, इन् E२ गेक्लम्मेर्त्; E५ ओम्}*
SK
परं तु श्रुतिसामान्यमात्रम् // MS_१,१.३१ //
SK
यच् च प्रावाहणिर् इति. तन् न, प्रवाहणस्य पुरुषस्यासिद्धत्वान् न प्रवाहणस्यापत्यं प्रावाहानिः. प्रशब्दः प्रकर्षे सिद्धः, वहतिश् च प्रापणे. (न त्व् अस्य समुदायः क्वचित् सिद्धः.){*१/३९३*} इकारस् तु यथैवापत्ये सिद्धस् तथा क्रियायाम् अपि कर्तरि. तस्माद् यः प्रवाहयति, स प्रावाहणिः. बबर इति शब्दानुकृतिः. तेन यो नित्यार्थस् तम् एवैतौ शब्दौ वदिष्यतः. अत उक्तम् - परं तु श्रुतिसामान्यमात्रम् इति.
SK
NOTES: *{१/३९३: Iन् E२ गेक्लम्मेर्त्}*
SK
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् // MS_१,१.३२ //
SK
अथ कथम् अवगम्यते नायम् उन्मत्तबालवाक्यसदृश इति. तथा [३८]{*१/३९४*} हि पश्यामः - वनस्पतयः सत्रम् आसत, सर्पाः सत्रम् आसत इति. यथा - जरद् गवो गायति मत्तकानि, कथं नाम जरद् गवो गायेत. कथं वा वनस्पतयः सर्पा वा सत्रम् आसीरन्न् इति. उच्यते - विनियुक्तं हि दृश्यते, परस्परेण संबन्धार्थम्. कथम्. ज्योतिष्टोम इत्य् अभिधाय कर्तव्य इत्य् उच्यते. केनेत्य् आकाङ्क्षिते सोमेनेति. किम् अर्थम् इति, स्वर्गायेति. कथम् इति. इत्थम्, (अनयेति कर्तव्यतया){*१/३९५*} इति. एवम् अवगच्छन्तः, पदार्थैर् एभिः संस्कृतं पिण्डितं वाक्यार्थं कथम् उन्मत्तबालवाक्यसदृशम् इति वक्ष्यामः. नन्व् अनुपपन्नम् इदं दृश्यते - वनस्पतयः सत्रम् आसत इत्येवमादि. नानुपपन्नम्. न, अनेन अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् एवमादयो ऽनुपपन्नाः स्युः. अपि च वनस्पतयः सत्रम् आसत इत्येवमादयो ऽपि नानुपपन्नाः, स्तुतयो ह्य् एताः सत्रस्य, वनस्पतयो नामाचेतना इदं सत्रम् उपासितवन्तः, किं पुनर् वृद्धांसो ब्राह्मणाः. तद् यथा लोके - सन्ध्यायां मृगा अपि न चरन्ति, किं पुनर् विद्वांसो ब्राह्मणा इति. अपि चाविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथम् इवाशङ्केतोन्मत्तबालवाक्यसदृश इति. तस्माच् चोदनालक्षणो ऽर्थो धर्म इति सिद्धम्.
SK
[३९]{*१/३९६*}
SK
NOTES: *{१/३९४: E२: १,१२४; E५: १,४०५; E६: १,२७}* *{१/३९५: Iन् E२ गेक्लम्मेर्त्; E५ ओम्}* *{१/३९६: E२: २,१; E५: २,१; E६: १,२८}*
SK
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते // MS_१,२.१ //
SK
सो ऽरोदीद् यद् अरोदीत्, तद् रुद्रस्य रुद्रत्वम्{*१/३९७*}; प्रजापतिर् आत्मनो वपाम् उदखिदत्{*१/३९८*}. देवा वै देवयजनम् अध्यवसाय दिशो न प्राजानन्{*१/३९९*} इत्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि. तानि किं कंचिद् धर्मं प्रमिमते उत नेति भवति विचारणा. तद् अभिधीयते - क्रिया कथम् अनुष्ठेयेति तां वदितुं{*१/४००*} समाम्नातारो वाक्यानि समामनन्ति. तद् यानि वाक्यानि क्रियां नावगमयन्ति क्रियासंबद्धं वा किंचित्, एवम् एव भूतम् अर्थम् अन्वाचक्षते - रुदितवान् रुद्रः; वपाम् उच्चिखेद प्रजापतिः; देवा वै दिशो न प्रजज्ञिर इत्येवंजातीयकानि, तानि कं धर्मं प्रमिमीरन्. अथोच्येत - अध्याहारेण वा विपरिणामेन वा व्यवहितकल्पनया वा व्यवधारणकल्पनया वा गुणकल्पनया वा कश्चिद् अर्थः कल्पायिष्यत इति. स कल्प्यमानः कः कल्प्येत - रुद्रः किल रुरोद, अतो ऽन्येनापि रोदितव्यम्. उच्चिखेदात्मवपां{*१/४०१*} प्रजापतिः, अतो ऽन्यो ऽप्य् उत्खिदेद् आत्मनो वपाम्. देवा वै देवयजनकाले दिशो न प्रज्ञातवन्तः, अतो ऽन्यो ऽपि दिशो न प्रजानीयाद् इति, तच् चाशक्यम्, इष्टवियोगेनाभिघातेन वा यद् बाष्पनिर्मोचनम्, तद् रोदनम् इत्य् उच्यते, न च, तद् इच्छातो भवति. न च कश्चि[४०]{*१/४०२*}द् आत्मनो वपाम् उत्खिद्य ताम् अग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुणा यष्टुं शक्नुयात्. न च{*१/४०३*}, देवयजनाध्यवसानकाले केचिद् दिशो मुह्येयुः. अत एषाम् आनर्थक्यम्. तस्माद् एवंजातीयकानि वाक्यान्य् अनित्यानीत्य् उच्यन्ते, (यद्य् अपि च नित्यानि, तथापि न नित्यम् अर्थं कुर्वन्ति){*१/४०४*} इति. स एष वाक्यैकदेशस्याक्षेपः, न कृत्स्नस्य वाक्यस्य. नन्व् एकदेशाद् विना साकाङ्क्षः पदसमूहो न पर्याप्तः स्वस्मै प्रयोजनाय, अत आक्षिप्त एवेति. नैवम्, भवति हि कश्चित् पदसमूहः, यो ऽर्थवादेभ्यो विनापि विदधाति कंचिद् अर्थम्, यानि पुनस् तैः सह संयुज्यार्थान्तरे वर्तन्ते, तान्य् एकदेशाक्षेपेणाक्षिप्यते.
SK
NOTES: *{१/३९७: Tऐत्.S. १.५.१}* *{१/३९८: Tऐत्.S. २.१.१}* *{१/३९९: Tऐत्.S. ६.१.५}* *{१/४००: E४: हि तां वेदितुं}* *{१/४०१: E२: उच्चिखेदात्मनो वपां}* *{१/४०२: E२: २,३; E४: १,३; E५: २,८; E६: १,२८}* *{१/४०३: E२: न तु}* *{१/४०४: Iन् E१ गेक्लम्मेर्त्}*
SK
शास्त्रदृष्टविरोधाच् च // MS_१,२.२ //
SK
स्तेनं मनः. अनृतवादिनी वाग् इत्येवंजातीयकानां धर्मं प्रत्य् अप्रामाण्यम्, भूतानुवादात्. विपरिणामादिभिर् अपि कल्प्यमाने स्तेयं मृषोद्यं च कर्तव्यम् इत्य् आपतति. तच् चाशक्यं स्तेयानृतवादप्रतिषेधम् अबाधमानेनानुष्ठातुम्. न च विकल्पः, वैषम्यात्. एकः कल्प्यो विधिः, एकः प्रत्यक्षः. अथ दृष्टविरोधः. तस्माद् धूम एवाग्नेर् दिवा ददृशे नार्चिः. तस्माद् अर्चिर् एवाग्नेर् नक्तं ददृशे न धूम इति{*१/४०५*}. अस्माल् लोकाद् उत्क्रम्याग्निर् आदित्यं गतः, रात्राव् आदित्यस्तम् इत्य् एतद् उपपादयितुम् इदम्, उभयम् अपि दृष्टविरुद्धम् उच्यते. तस्मान् नैषावधारणा सिध्यतीति. अपरो दृष्टविरोधः - न चैतद् विद्मो वयं [४१]{*१/४०६*} ब्राह्मणा वा स्मः, अब्राह्मणा वेत्य्{*१/४०७*}{*१/४०८*} अक्रियार्थत्वाद् अनर्थकम्. अथायम् अर्थः - नैवैतज् ज्ञायते किं वा ब्राह्मणा वयम् उताब्राह्मणा एवेति, प्रत्यक्षविरुद्धम् अप्रमाणम्. अपरः शास्त्रदृष्टेन विरोधः - को हि तद् वेद, यद् अमुष्मिंल् लोके ऽस्ति वा, न वेति{*१/४०९*}. यदि प्रश्नो ऽयम्, अक्रियार्थत्वाद् अनर्थकः. अथानवकॢप्तिः, शास्त्रदृष्टेन विरोधः. अतः प्रत्यक्षविरुद्धम् अप्रमाणम्.
SK
NOTES: *{१/४०५: Tऐत्.Bर्. २.१.२.१०, व्ग्ल् दzउ ŚBह् अद् MS १.२.१२}* *{१/४०६: E२: २,५; E४: १,१९; E५: २,१३; E६: १,२९}* *{१/४०७: Tऐत्.Bर्. २.१.२, Gओप्.Bर्. ५.२१, Mऐत्.S. १.४.११}* *{१/४०८: E२ ओम्. स्मः, अब्राह्मणा वा}* *{१/४०९: Tऐत्.S. ६.१.१; ६.२.२, व्ग्ल्. ŚBह् अद् MS १.२.१४}*
SK
तथा फलाभावात् // MS_१,२.३ //
SK
गर्गत्रिरात्रब्राह्मणं प्रकृत्योच्यते - शोभते ऽस्य मुखं य एवं वेद इति{*१/४१०*} यदि भूतानुवादः, अनर्थकः. अथाध्ययनफलानुवादः, ततो ऽसदनुवादः. कालान्तरे फलं भविष्यतीति चेत्. न ह्य् अत्र प्रमाणम् अस्ति. विधिः स्याद् इति चेत्. नैष विधिपरः, द्रव्यसंस्कारकर्मस्व् इति{*१/४११*} चिन्तयिष्यत्य् एतद् उपरिष्टात्, किं फलविद्धिर् उतार्थवाद इति. इह तु किं भूतानुवादः, क्रियार्थो वेति{*१/४१२*}. आस्य प्रजायां वाजी जायते य एवं वेदेति चोदाहरणम्.
SK
NOTES: *{१/४१०: Tआ.Bर्. २०.१६.६}* *{१/४११: MS ४.३.१}* *{१/४१२: E२,४,६ हबेन् zउस्äत्zलिछ्: तेन न फलविधित्वान् निराकृतस्येहानर्थको ऽर्थवादविचार इति, दिएस् इन् E१ औछ् अल्स् Fन्, E५ ओम्}*
SK
अन्यानर्थक्यात् // MS_१,२.४ //
SK
पूर्णाहुत्या सर्वान् कामान् अवाप्नोति{*१/४१३*}. पशुबन्धयाजी सर्वांल् लोकान् अभिजयति. तरति मृत्युम्, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते, य उ चैनम् एवं वेदेति{*१/४१४*}. यदि भूतानुवादमात्रम् अनर्थकम्. अथ फलविधिः, इतरेषाम् आनर्थक्यम्. न हि, अकृत्वा पूर्णाहुतिम् अग्निहोत्रादयः क्रियन्ते. न [४२]{*१/४१५*} चानिष्ट्वाग्नीषोमीयेण सोमेन यजन्ते. न चाधीत्याश्वमेधेन यजन्ते. तद् यथा, पथि जाते ऽर्के मधूत्सृज्य, तेनैव पथा मध्वर्थिनः पर्वतं न गच्छेयुः, तादृशं हि तत्. अपि चाहुः -
SK
अर्के चेन् मधु विन्देत, किम् अर्थं पर्वतं व्रजेत्/ इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नम् आचरेत्// इति{*१/४१६*}.
SK
NOTES: *{१/४१३: Tऐत्.Bर्. ३.८.१०}* *{१/४१४: Cf. Tऐत्.Bर्. ५.३.१२.२}* *{१/४१५: E२: २,८; E४: १,३२; E५: २,१६; E६: १,२९}* *{१/४१६: Qउएल्ले उन्बेकन्न्त्}*
SK
अभागिप्रतिषेधाच् च // MS_१,२.५ //
SK
न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीत्य्{*१/४१७*} अप्रतिषेधभागिनम् अर्थं प्रतिषेधन्ति. विज्ञायत एवैतत्, अन्तरिक्षे, दिवि चाग्निर् न चीयत इति. पृथिवीचयनप्रतिषेधार्थं च यद् वाक्यम्, भवेच् चयनप्रतिषेधार्थम् एव तत्. अथाप्रमाणम्, नैष विरोधो भवति. कथं तत् प्रमाणम्, यद् विध्यन्तरम् आकुलयेत्, स्वयं चाकुलं स्यात्. न चेतव्यम्, हिरण्यं निधाय चेतव्यम् इति.
SK
NOTES: *{१/४१७: Tऐत्.S. ५.२.७.१}*
SK
अनित्यसंयोगात् // MS_१,२.६ //
SK
अनित्यसंयोगश् च (वेदप्रामाण्ये सति){*१/४१८*} परं तु श्रुतिसामान्यमात्रम् इति{*१/४१९*} परिहृतः. इदानीं वेदैकदेशानाम् आक्षिप्तानां पुनर् उपोद्बलक उत्तिष्ठति, बबरः प्रावाहणिर् अकामयतेति{*१/४२०*}.
SK
NOTES: *{१/४१८: Iन् E२,५ गेक्लम्मेर्त्}* *{१/४१९: Cf. MS १.१.२१}* *{१/४२०: Cf. Tऐत्.S. ७.१.१०.२}*
SK
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः // MS_१,२.७ //
SK
इदं समाम्नायते - वायव्यं श्वेतम् आलभेत भूतिकामः, वायुर् वै क्षेपिष्ठा देवता, वायुम् एव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतीति{*१/४२१*}. वायुर् वै क्षेपिष्ठा देवतेत्य् अतो यद्य् अपि क्रिया नावगम्यते, क्रियासंबद्धं वा किंचित्. तथापि विध्युद्देशे[४३]{*१/४२२*}नैकवाक्यत्वात् प्रमाणम्. भूतिकाम इत्य् एवम् अन्तो विध्युद्देशः, तेनैकवाक्यभूतो वायुर् वै क्षेपिष्ठा देवतेत्येवमादिः. कथम् एकवाक्यभावः. पदानां साकाङ्क्षत्वाद् विधेः स्तुतेश् चैकवाक्यत्वं भवति. भूतिकाम आलभेत. (कस्मात्?){*१/४२३*} यतो वायुः क्षेपिष्ठेति. नायम् अभिसंबन्धो विवक्षितः, भूतिकामेनालब्धव्यम् इति. कथं तर्हि आलभेत? यतस् ततो भूतिर् इति भिन्नाव् इमाव् अर्थौ, उभयाभिधाने वाक्यं भिद्येत. किम् अर्था स्तुतिर् इति चेत्. कथं रोचेत, नोनुष्ठीयेतेति. ननु प्राक् स्तुतिवचनाद् अनुष्ठानं भूतिकामान्तात् सिद्धम्, स्तुतिवचनम् अनर्थकम्. न हि, यदा स्तुतिपदासंनिधानं तदा पूर्वेणैव विधिः. यदा स्तुतिपदसंबन्धः, न तदा भूतिकामस्यालम्भो विधीयते. यथा पटो भवतीति पट उत्पद्यत इत्य् अर्थः. निराकाङ्क्षं च पदद्वयम्. यदा च तस्मिन्न् एव रक्त इत्य् अपरं श्रूयते, तदा रागसंबन्धो भवतीत्य् अर्थः, भवति च रक्तं प्रत्याकाङ्क्षा. एवं यदा न स्तुतिपदानि, विधिशब्देनैव तदा प्ररोचना, यदा स्तुतिवचनम्, तदा स्तवनेन. नन्व् एवं सति किं स्तुति-वचनेन, यस्मिन् सत्य् अविधायकम्, मा भूत् तत्. तदभावे ऽपि पूर्वविधिनैव प्ररोचयिष्यत इति. सत्यम्, विनापि तेन सिध्येत् प्ररोचनम्. अस्ति तु तत्, तस्मिन् विद्यमाने यो ऽर्थो वाक्यस्य, सो ऽव-गम्यते स्तुतिप्रयोजनं{*१/४२४*} तयोः. तस्मिन्न् अविद्यमाने विधिना प्ररोचनम् इति. ननु सत्स्व् अपि स्तुतिपदेषु पूर्वस्य विधिस्वरूपत्वाद् विधिर् अभिप्रेतः स्यात्, न विवक्ष्येत स्तुतिपद-संबन्धः. आह - स्तुतिपदानि ह्य् अनर्थकान्य् अभविष्यन् साकाङ्क्षाणि. भवन्त्व् अनर्थकानीति चेत्. न, गम्यमाने ऽर्थे ऽविवक्षितार्थानि भवितुम् अर्हन्ति. [४४]{*१/४२५*} यो ऽसौ विध्युद्देशः, स शक्नोति निरपेक्षो ऽर्थं विधातुम्, शक्नोति च स्तुतिपदानां वाक्यशेषीभवितुम्, प्रत्यक्षश् च वाक्यशेषभावः. अतो ऽस्माद् विधेः स्तुतिम् अवगच्छामः. ननु निरपेक्षाद् अपि विधिम् अवगमिष्याम्. भवत्व् एवम्, नैवं सति कश्चिद् विरोधः. किं त्व् अशक्यः स्तुतिपदसंबन्धे सति विध्यर्थो विवक्षितुम्. वाक्यं हि संबन्धस्य विधायकम्, द्वौ चेत् संबन्धौ विदध्यात् - भूतिकाम आलभेत; आलम्भेन चैष गुणो भविष्यतीति, भिद्येत तर्ह्य् एवं सति वाक्यम्. अथ यद् उक्तम् - न क्रिया गम्यते न तत्संबद्धं वा किंचिद् इति{*१/४२६*}. स्तुत्यर्थेन विधीनां स्युः, स्तुतिशब्दाः स्तुवन्तः क्रियां प्ररोचयमाणा अनुष्ठातॄणाम् उपकरिष्यन्ति क्रियायाः. एवम् इमानि सर्वाण्य् एव पदानि कंचिद् अर्थं स्तुवन्ति विदधति. अतः प्रमाणम् एवंजातीयकानि, वायुर् वै क्षेपिष्ठा देवतेति{*१/४२७*}.
SK
NOTES: *{१/४२१: Tऐत्.S. २.१.१}* *{१/४२२: E२: २,१४; E४: १,४१; E५: २,१७; E६: १,३०}* *{१/४२३: Iन् E१,५ गेक्लम्मेर्त्}* *{१/४२४: E१,५,६; E२,४: स्तुतिः प्रयोजनं}* *{१/४२५: E२: २,१७; E४: १,४१; E५: २,२२; E६: १,३१}* *{१/४२६: Cf. E१, S.३९/९. }* *{१/४२७: Tऐत्.S. २.१.१}*
SK
तुल्यं च सांप्रदायिकम् // MS_१,२.८. //
SK
अथोच्येत - प्राक् स्तुतिपदेभ्यः, निराकाङ्क्षाणि विधायकानि, विधिस्वरूपत्वात्, स्तुतिपदानि तु प्रमादपाठ इति. तन् न एवम्{*१/४२८*}, अर्थावगमात्, तुल्यं च सांप्रदायिकम्, संप्रदायः (प्रयोजनं){*१/४२९*} येषां धर्माणां सर्वे ते विधिपदानाम् अर्थवादपदानां च तुल्याः. अध्यायानध्यायते{*१/४३०*}, गुरुमुखात् प्रतिपत्तिः, शिष्योपाध्यायता च सर्वस्मिन्न् एवंजातीयके, अविघ्नार्थे तुल्यम् आद्रियन्ते. स्मरणं च दृढम्. अतो न प्रमादपाठ इति.
SK
[४५]{*१/४३१*}
SK
NOTES: *{१/४२८: E२,४,५,६ सेत्zएन् Dअण्ड ओदेर् Kओम्म वोर् एवम्}* *{१/४२९: Iन् E१,५ गेक्लम्मेर्त्}* *{१/४३०: E१,२,५,६; E४: अध्यायानध्ययने (औछ् इन् E१ अल्स् Fन्., दोर्त् नोछ्: अध्यायानध्यायता)}* *{१/४३१: E२: २,२३; E४: १,९२; E५: २,२७; E६: १,३१}*
SK
अप्राप्ता चानुपपत्तिः, प्रयोगे हि विरोधः स्यात्, शब्दार्तस् त्व् अप्रयोगभूतः, तस्माद् उपपद्येत // MS_१,२.९ //
SK
अपि च यैषानुपपत्तिर् उक्ता शास्त्रदृष्टविरोधाद् इत्येवमाद्या{*१/४३२*}, सा सो ऽरोदीद् इत्येवमादिषु न प्राप्नोति. कुतः? प्रयोगे हि स्तेयादीनाम् उच्यमाने विरोधः स्यात्, शब्दार्थस् त्व् अप्रयोगभूतः, तस्माद् उपपद्येत - स्तेनं मनः, अनृतवादिनी वाग् इति.
SK
NOTES: *{१/४३२: Cf. MS १.२.२ उन्द् ŚBह् दzउ}*
SK
गुणवादस् तु // MS_१,२.१० //
SK
यद् उक्तम् - विधेयस्य प्ररोचनार्था स्तुतिर् इति{*१/४३३*}. तद् इह कथम् अवकल्प्येत यत्रान्यद् विधेयम्, अन्यच् च स्तूयते. यथा - वेतसशाखयावकाभिश् चाग्निं विकर्षतीति{*१/४३४*} वेतसावके विधीयेते, आपश् च स्तूयन्ते - आपो वै शान्ता इति{*१/४३५*}. तद् उच्यते - गुणवादस् तु. गौण एष वादो भवति, यत् संबन्धिनि स्तोतव्ये संबन्ध्यन्तरं स्तूयते. अभिजनो ह्य् एष वेतसावकयोः. ततस् ते जाते. अभिजनसंस्तवेन चाभिजातः स्तुतो भवति. यथा - अश्मकाभिजनो देवदत्तो ऽश्माकेषु स्तूयमानेषु स्तुतम्{*१/४३६*} आत्मानं मन्यते. एवम् अत्रापि द्रष्टव्यम्. अथ सो ऽरोदीद् इति कस्य विधेः शेषः. तस्माद् बर्हिषि रजतं न देयम् इत्य्{*१/४३७*} अस्य. कुतः? साकाङ्क्षत्वात् पदानाम्. सो ऽरोदीत्, यद् अरोदीत्, तद् रुद्रस्य रुद्रत्वम् इत्य्{*१/४३८*} अत्र स इति प्रकृतापेक्षः, तत्प्रत्ययात्. तस्य यद् अश्र्व् अशीर्यतेति तस्येति पूर्वप्रकृतापेक्ष एव. उपपत्तिश् चोपरितनस्य यो बर्हिषि रजतं दद्यात् पुरास्य संवत्सराद् गृहे रोदनं भवतीति{*१/४३९*}. अस्य हेतुत्वेनायं प्रतिनिर्दिश्यते - तस्माद् बर्हिषि रजतं न देयम् इति. एवं सर्वाणि साकाङ्क्षाणि. कथं विधेर्{*१/४४०*} उपकुर्वन्तीति. [४६]{*१/४४१*} गुणवादेन. रोदनप्रभवं रजतं बर्हिषि ददतो रोदनम् आपद्यते. तत् प्रतिषेधस्य गुणः, यद् अरोदनम् इति. कथं पुनर् अरुदत्य् अरोदीद् इति भवति? कथं वानश्रुप्रभवे रजते ऽश्रुप्रभवम् इति वचनम्? पुरास्य संवत्सराद् असति रोदने, कथं रोदनं भवतीति? तद् उच्यते - गुणवादस् तु. गौणा एते शब्दाः. रुद्र इति रोदननिमित्तस्य शब्दस्य दर्शनाद् यद् अरोदीद् इत्य् उच्यते. वर्णसारूप्यान् निन्दन्न् अनश्रुप्रभवम् अप्य् अश्रुप्रभवम् इत्य् आह. निन्दन्न् एव च धनत्यागे दुखदर्शनात् पुरास्य संवत्सराद् गृहे रोदनं भवतीत्य् आह. तथा - यः प्रजाकामः पशुकामो वा स्यात्, स एतं प्राजापत्यं तूपुरम् आलभेत इति{*१/४४२*}, आकाङ्क्षितत्वाद् अस्य विधेः शेषो ऽयम् - स आत्मनो वपाम् उदखिदद् इति{*१/४४३*}. कथं गुणवादः? इत्थं नाम - नासन् पशवः, यद् आत्मनो वपाम् उदखिदद् इति. एतच् च कर्मणः सामर्थ्यं यद् अग्नौ प्रहृतमात्रायां वपायाम् अजस् तूपुर उदगात्, इत्थं बहवः पशवो भवन्तीति. कथं पुनर् अनुत्खिन्नायां वपायां प्रजापतिर् आत्मनो वपाम् उदखिदद् इत्य् आह. उच्यते - असद् वृत्तान्तान्वाख्यानं स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात्. इहान्वाख्याने वर्तमाने द्वयं निष्पद्यते{*१/४४४*} - यच् च वृत्तान्तज्ञानम्, यच् च कस्मिंश्चित् प्ररोचना द्वेषो वा. तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकं न निवर्तकं चेति प्रयोजनाभावाद् अनर्थकम् इत्य् अविवक्षितम्. प्ररोचनया तु प्रवर्तते द्वेषान् निवर्तत इति तयोर् विवक्षा. वृत्तान्तान्वाख्याने ऽपि विधीयमाने आदिमता दोषो वेदस्य प्रसजेत. कथं पुनर् इदं निरालम्बनम् अन्वाख्यायत इति. उच्यते - नित्यः कश्चिद् अर्थः प्रजापतिः स्याद् वायुः, आकाशः, आदित्यो वा. स आत्मनो वपाम् उदखिदद् इति वृष्टिम्, वायुम्, रश्मिं वा. ताम् अग्नौ प्रागृह्णात्, वैद्युते, आर्चीसे, लौकिके वा. ततो ऽज इत्य् अन्नम्, बीजम्, विरुद् वा. तम् आलभ्य तम् उपयुज्य प्रजाः पशून् प्राप्नोतीति गौणाः शब्दाः. आदित्यः प्रायणीयश् चरुर् आदित्य उदपनीयश् चरुर् इत्य्{*१/४४५*} अस्य विधेः शेषः - देवा वै देवयजनम् अध्यवसाय दिशो न प्राजानन्न् इति, आकाङ्क्षितत्वात्. सर्वव्यामोहानाम् आदित्यश् चरुर् नाशयिता, अपि दिङ्मोहस्येति स्तुतिः. कथम् असति दिङ्मोहे दिङ्मोहशब्द इति. उच्यते - अप्राकृतस्य बहोः कर्मसमूहस्योपस्थितत्वाद् गौणो मोहशब्दो ऽवधारणावकाशदानादिभिर् ज्ञापयतीति गौणता.
SK
NOTES: *{१/४३३: Cf. ŚBह् अद् MS १.२.७}* *{१/४३४: Tऐत्.S. ५.४.४}* *{१/४३५: Tऐत्.S.५.४.४}* *{१/४३६: E१: स्तूतम्, लिएस् मित् E२,४,५,६: स्तुतम्}* *{१/४३७: Tऐत्.S. १.५.१.२}* *{१/४३८: Eबेन्द}* *{१/४३९: Eबेन्द}* *{१/४४०: E१: विधर्, लिएस् मित् E२,४,५,६: विधेर्}* *{१/४४१: E२: २,२५; E४: ९५; E५: २,३०; E६: १,३२}* *{१/४४२: Tऐत्.S. २.१.१.४/५}* *{१/४४३: Tऐत्.S. २.१.१.४}* *{१/४४४: E१: निष्यद्यते, लिएस् मित् E२,४,५,६: निष्पद्यते; E१ (Fन्.): आपतति}* *{१/४४५: Tऐत्.S. ६.१.५.१}*
SK
रूपात् प्रायात् // MS_१,२.११ //
SK
हिरण्यं हस्ते भवति, अथ गृह्णातीति{*१/४४६*} साकाङ्क्षत्वाद् अस्य विधेः शेषः - स्तेनं मनो ऽनृतवादिनी वाग् इति. निन्दावचनं हिरण्यस्तुत्यर्थेन यथा - किम् ऋषिणा, देवदत्त एव भोजयितव्यः. कथं पुनर् अस्तेनं मनो निन्दितुम् अपि स्तेनशब्देनोच्यते, वाचं चाननृतवादिनीम् अप्य् अनृतवादिनीति ब्रूयत्. गुणवादस् तु रूपात्. यथा - स्तेनाः प्रच्छन्नरूपाः, एवं च मन इति गौणः शब्दः. प्रायाच् चानृतवादिनी वाग् इति.
SK
[४८]{*१/४४७*}
SK
NOTES: *{१/४४६: Cf. Mऐत्.S. ४.८.२.३}* *{१/४४७: E२: २,२८; E४: १,११२; E५: २,३२; E६: १,३३}*
SK
दूरभूयस्त्वात् // MS_१,२.१२ //
SK
दृष्टविरोध{*१/४४८*} उदाहरणम् - तस्माद् भूम एवाग्नेर् दिवा ददृशे नार्चिः{*१/४४९*}. तस्माद् अर्चिर् एवाग्नेर् नक्तं ददृशे, न धूम इति अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहेति{*१/४५०*} प्रातर् इति मिश्रलिङ्गमन्त्रयोर् विधानस्याकाङ्क्षितत्वाच् छेषः. उभयोर् देवतयोः संनिधाने होम इति स्तुतेर् उपपत्तिः. दूरभूयस्त्वाद् धूमस्याग्नेश् चादर्शने गौणः शब्दः.
SK
NOTES: *{१/४४८: E१: इष्टविरोधे, लिएस् मित् E२,४,५,६ (उन्द् E१, S.४०/१७, zउ MS १.२.२): दृष्टविरोध}* *{१/४४९: E१, S.४०/१७, Tऐत्.Bर्. २.१.२.१०}* *{१/४५०: Vआज्.S. ३.९}*
SK
अपराधात्{*१/४५१*} कर्तुश् च पुत्रदर्शनम् // MS_१,२.१३ //
SK
दृष्टविरोध एवोदाहरणम् - न चैतद् विद्म इति{*१/४५२*}. तत् प्रवरे प्रव्रियमाणे देवाः पितर इति ब्रूयाद् इत्य्{*१/४५३*} आकाङ्क्षितत्वाद् अस्य विधेः शेषः. अब्राह्मणो ऽपि ब्राह्मणः प्रवरानुमन्त्रणेन स्याद् इति स्तुतिः. दुर्ज्ञानत्वाद् अज्ञानवचनं गौणम्. स्त्र्यपराधेन कर्तुश् च पुत्रदर्शनेन. अप्रमता रक्षत तन्तुम् एनम् इत्यादिना दुर्ज्ञानम्.
SK
NOTES: *{१/४५१: E१,६; E२,४,५ (बेस्सेर्): स्त्र्यपराधात्; औछ् E१ हत् दिएसे Lएसर्त् इम् Kओम्मेन्तर्}* *{१/४५२: E१, S.४०/२१, उ.अ. Mऐत्.S. १.४.११}* *{१/४५३: Mऐत्.S. १.४.११}*
SK
आकालिकेप्सा // MS_१,२.१४ //
SK
शास्त्रदृष्टविरोधे उदाहरणम् - को हि तद् वेदेति{*१/४५४*}, दिक्ष्वती काशान् करोतीति{*१/४५५*} साकाङ्क्षत्वाद् अस्य विधेः शेषः. प्रत्यक्षफलत्वेन स्तुतिः. अनन्वकॢप्तिवचनं विप्रकृष्टकालफलत्वाद् गौणम्.
SK
NOTES: *{१/४५४: E१, S.४१/३, Tऐत्.S. ६.१.१.१}* *{१/४५५: Eबेन्द}*
SK
विद्याप्रशंसा // MS_१,२.१५ //
SK
तथा फलाभावाद् इत्य्{*१/४५६*} अत्रोदाहृतम् - शोभते ऽस्य मुखम् इति{*१/४५७*}. गर्गत्रिरात्रविधेर् आकाङ्क्षितत्वाच् छेषः. [४९]{*१/४५८*} वेदानुमन्त्रणस्य चास्य प्रजायां वाजी जायत इति शेषः. मुखशोभा वाजिमत्त्वं च गुणवचनत्वाद् गौणः शब्दः. शोभत इव शिष्यैर् उदीक्ष्यमाणम्. कुले संतताध्ययनश्रवणान् मेधावी जायत इति स प्रतिग्रहाद् अन्नं प्राप्नोतीति.
SK
NOTES: *{१/४५६: MS १.२.३}* *{१/४५७: E१, S.४१/८, Tआ.Bर्. २०.१६.६}* *{१/४५८: E२: २,३०; E४: १,१२०; E५: २,३३; E६: १,३४}*
SK
सर्वत्वम् आधिकारिकम् // MS_१,२.१६ //
SK
अन्यानर्थक्यवाक्य उदाहरणम् - पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति{*१/४५९*}, पूर्णाहुतिं जुहोतीत्य् आकाङ्क्षितत्वाद् अस्य विधेः शेषः. य उ चैनम् एवं वेदेति, तरति मृत्युम् इत्य्{*१/४६०*} अस्याकाङ्क्षित्वाच् छेषः. फलवचनं स्तुतिः. सर्वकामफलस्य निमित्ते सर्वकामाव् आप्तिवचनं गौणम्. असर्वेषु सर्ववचनम् अधिकृतापेक्षम्.
SK
NOTES: *{१/४५९: E१, S.४१/१७, zउ MS १.२.४, Tऐत्.Bर्. ३.८.१०}* *{१/४६०: Tऐत्.S. ५.३.१२.२}*
SK
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत् परिमाणतः फलविशेषः स्यात् // MS_१,२.१७ //
SK
अन्वारुह्य वचनम् इदं{*१/४६१*} यद्य् अपि विधिः, तथाप्य् अर्थवत्ता परिमाणतः सारतो वा फलविशेषात्.
SK
NOTES: *{१/४६१: E१, S.४९/६: पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति}*
SK
अन्त्ययोर् यथोक्तम् // MS_१,२.१८ //
SK
अभागिप्रतिषेधाद् इत्यादाव् उदाहृतम् - न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीति{*१/४६२*}, हिरण्यं निधाय चेतव्यम् इत्य्{*१/४६३*} आकाङ्क्षितत्वाद् अस्य विधेः शेषः. पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था. असति प्रसङ्गे प्रतिषेधो नित्यानुवादः. यच् चानित्यदर्शनं बबरः प्रावाहणिर् अकामयत इति{*१/४६४*}. तत्परिहृतम्. अर्थवादाक्षेपेण पुनर् उत्थितम् इदानीम् अर्थवादप्रामाण्ये तेनैव परिहारेण परिहरिष्यत इति//
SK
[५०]{*१/४६५*}
SK
NOTES: *{१/४६२: Tऐत्.S. ५.२.७.१, zइतिएर्त् इन् ŚBह् अद् MS १.२.५}* *{१/४६३: Tऐत्.S. ५.२.७.३}* *{१/४६४: Cf. MS १.२.६, Tऐत्.S. ७.१.१०.२}* *{१/४६५: E२: २,३३; E४: १,१२९; E५: २,३४; E६: १,३५}*
SK
विधिर् वा स्याद् अपूर्वत्वात्, वादमात्रं ह्य् अनर्थकम् // MS_१,२.१९ //
SK
इह ये विधिवन् निगदा अर्थवादास् ते अर्थवादास् ते उदाहरणम् - औदुम्बरो यूपो भवत्य् ऊर्ग् वा उदुंबर ऊर्क् पशव ऊर्जैर् वास्मा ऊर्जं पशून् नाप्नोति ऊर्जो ऽवरुद्ध्या इति{*१/४६६*}. किम् अस्य विधिः कार्यम् उतास्यापि स्तुतिर् इति. किं तावत् प्राप्तम्? विधिर् वा स्याद् अपूर्वत्वात्, वादमात्रं ह्य् अनर्थकम्. विधिवन् निगदेष्व् एवंजातीयकेषु फलविधिः स्यात्, फलं ह्य् अवगम्यते, तथा ह्य् अपूर्वम् अर्थं विधास्यति. इतरथा स्तुतिवादमात्रम् अनर्थकं स्यात्. स्तुतश् चास्तुतश् च तावान् एव सो ऽर्थः. अपि च ऊर्जो ऽवरुद्ध्या इति प्रयोजनं श्रूयते. न च - प्रशस्तो ऽयम् अर्थ इति कश्चिच् छब्दो ऽस्ति. लक्षणया तु स्तुतिर् गम्यते. श्रुतिश् च लक्षणाया ज्यायसीति.
SK
NOTES: *{१/४६६: Cf. Tऐत्.S. २.१.१.६}*
SK
लोकवद् इति चेत् // MS_१,२.२० //
SK
इति चेत् पश्यसि - स्तुतिर् अनर्थिका, न च शब्देनावगम्यत इति. लौकिकानि वाक्यानि भवन्तो विदां कुर्वन्तु. तद् यथा - इयं गौः क्रेतव्या देवदत्तीया, एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति. क्रेतव्येत्य् अप्य् उक्ते गुणाभिधानात् प्रवर्तन्तेतरां क्रेतारः. बहुक्षीरेति च गुणाभिधानम् अवगम्यते. तद्वद् वेदे ऽपि भविष्यति.
SK
न पूर्वत्वात् // MS_१,२.२१ //
SK
नैतद् एवम्. लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः. तेषां विज्ञानम् एव न प्रयोजनम्. अतः प्रशंसा गम्यते. अविदितवादे न श्रद्दधीरन् पूर्ववचनाद् इव. विदितत्वाद् एव च प्ररोचयन्ते. वैदिकेषु पुनर् यदि विधिशब्देन न प्ररोचयन्ते न तराम् अर्थवादेन. जाताशङ्को हि विधिशब्दे स तदानीम्. अथ विधिशब्देन प्ररोचितः, किम् अर्थवादशब्देन. अपि च वेदे व्यक्तम् असंवादः. ऊर्जो ऽवरुद्ध्यै इत्य् अप्रसिद्धं वचनम्. ऊर्ग्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम्. यस्माद् ऊर्ग् उदुम्बरः, तस्मात् तन्मयो यूपः कर्तव्य इति. ऊर्ग् उदुम्बर इत्य् अनृतवचनाद् अन्यद् अस्यानृतम् इति परिकल्प्येत.
SK
उक्तं तु वाक्यशेषत्वम् // MS_१,२.२२ //
SK
उक्तम् अस्माभिर् वाक्यशेषत्वम् - विधिना त्व् एकवाक्यत्वाद् इति{*१/४६७*}. ननूक्तम् - फलवचनम् इह गम्यते न स्तुतिर् इति. यद् इह फलवचनम्, तद् औदुम्बरस्य यूपस्य. न च, अविहित औदुम्बरो यूपो ऽस्ति. तत्र फलवचनम् एवानर्थकम्. स्तुतिवचनः शब्दो नास्तीति चेत्. इह फलवचनेन फलवत्ता प्रतीयते फलवांश् च प्रशस्त इति, तत्र फलवत्तायाम् आनर्थक्यम् इति यो द्वितीयो ऽर्थः प्रशंसा नाम स गम्यते. लक्षणेति चेत्, न, लक्षणायाम् अप्य् अर्थवत्ता भवत्य् एव. लक्षणापि हि लौकिकी. ननूक्तम् असंवादो वेदे, न ह्य् ऊर्ग् उदुम्बर इति. गुण वादेन प्ररोचनार्थतां ब्रूमहे - गौणत्वात् संवादः. किं? सादृश्यम् - यथान्नं प्रीतेः साधनम्, एवम् इदम् अपि प्रीतिसाधनशक्तियुक्तं प्रशंसितुं{*१/४६८*} प्रशंसावाचिना शब्देनोच्यते{*१/४६९*}, शक्यते हि तत् पक्वफलसंबन्धाद् ऊर्ग् इति वक्तुम्.
SK
[५२]{*१/४७०*}
SK
NOTES: *{१/४६७: Cf. MS १.२.७}* *{१/४६८: E१,५,६; E२,४ ओम्. प्रशंसितुं}* *{१/४६९: E१,५; E२,४,६ E१ (Fन्.): प्रीतिसाधनशब्देनोच्यते}* *{१/४७०: E२: २,४०; E४: १,१५१; E५: २,४०; E६: १,३६}*
SK
विधिश् चानर्थकः क्वचित्, तस्मात् स्तुतिः प्रतीयेत, तत्सामान्याद् इतरेषु तथात्वम् // MS_१,२.२३ //
SK
अप्सुयोनिर् वा अश्वः, अप्सुजो वेतस इति{*१/४७१*} अप्सुयोनिर् अश्वः कर्तव्य इति विधेर् अशक्यत्वाद् आनर्थक्यम्. तत्रावश्यं स्तुतिः कल्पयितव्या, शमयित्रीभिर् अद्भिर् अश्वस्यावकानां च संबन्धो यजमानस्य कष्टं शमयतीति. तत्सामान्याद् इतरेषु तथात्वम् - तथेति यावत्, तावत् तथात्वम् इति. किं तत् सामान्यम्. विध्यसंभवः स्तुतिसंभवश् च.
SK
NOTES: *{१/४७१: Tऐत्.S. ५.३.१२}*
SK
प्रकरणे संभवन्न् अपकर्षो न कल्प्येत, विध्यानर्थक्यं हि तं प्रति // MS_१,२.२४ //
SK
इतश् च पश्यामः स्तुतिर् इति. कुतः? इदं समामनन्ति - यो विदग्धः, स नैरृतः; यो ऽशृतः, स रौद्रः. यः शृतः, स दैवतः. तस्माद् अविदहता श्रपयितव्यः, स दैवतत्वायेति{*१/४७२*}. यदि स्तुतिर् दर्शपूर्णमासयोर् एव शृतः स्ताविष्यते. तथा संभवन्न् अपकर्षो न कल्प्येत. अपकृष्यते इत्य् अपकर्षः. विधिपक्षे तु यत्र नैरृतः, तत्र विदग्धता नीयेत. तथा सति प्रकरणं बाधितं भवेद्. दर्शपूर्णमासकर्म प्रति नैरृताभावाद् विदग्धानम् अनर्थकं स्यात्. तस्मात् स्तुतिर् एव.
SK
NOTES: *{१/४७२: Tऐत्.S. २.६.३}*
SK
विधौ च वाक्यभेदः स्यात् // MS_१,२.२५ //
SK
औदुम्बरो यूपो भवतीति विधाव् एतस्मिन्न् आश्रीयमाणे ऊर्जो ऽवरुद्ध्या इत्य्{*१/४७३*} एतस्मिंश् च वाक्यं भिद्येत. इत्थम् औदुम्बरो यूपः प्रशस्तः, स चोर्जो ऽविरुद्ध्या इति. तस्माद् विधिवन् निगदानाम् अपि स्तुतिर् एव कार्यम् अर्थवादानाम् इति.
SK
[५३]{*१/४७४*}
SK
NOTES: *{१/४७३: Vग्ल्. Tऐत्.S. २.१.१.६}* *{१/४७४: E२: २,४२; E४: १,१५९; E५: २,४४; E६: १,३७}*
SK
हेतुर् वा स्याद् अर्थवत्त्वोपपत्तिभ्याम् // MS_१,२.२६ //
SK
अथ ये हेतुवन् निगदाः - सूर्पेण{*१/४७५*} जुहोति, तेन ह्य् अन्नं क्रियत इत्येवमादयः{*१/४७६*}. तेषु संदेहः - किं स्तुतिस् तेषां कार्यम् उत हेतुर् इति. किं प्राप्तम्. हेतुः स्याद् अन्नकरणं होमस्य. नन्व् अप्रसिद्धे कार्यकारणभावे न हेतूपदेशः{*१/४७७*}. सत्यम् एवं लोके, विधायिष्यते तु वचनेन वेदे. सूर्पेण{*१/४७८*} होमे कर्तव्ये ऽन्नकरणं हेतुर् इत्य् उपदिश्यते. किं प्रयोजनम्. अन्यद् अपि दर्विपीठराद्य्{*१/४७९*} अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति. कुतः. तस्याप्य् अन्नक्रियायाम् अर्थवत्ता, शक्यते च तेनाप्य् अन्नं कर्तुम्. एताद् धि क्रियत इत्य् उच्यते. न हि वर्तमानकालः कश्चिद् अस्ति यस्यायं प्रतिनिर्देशः. हेतौ च श्रुतिः शब्दः{*१/४८०*}, स्तुतौ लक्षणा. यदि च दर्विपीठरादि{*१/४८१*} न साक्षाद् अन्नं करोतीति, नान्नकरणम् इत्य् उच्यते. व्यर्थे तस्मिन् सूर्पस्तुतिर्{*१/४८२*} अनर्थिका स्यात्. सूर्पम्{*१/४८३*} अपि हि न साक्षाद् अन्नं करोतीति, तेन विनार्थेन सूर्पस्य{*१/४८४*} स्तुतिर् नोपपद्यते.
SK
NOTES: *{१/४७५: E२,४,५,६ (रिछ्तिग्): शूर्पेण}* *{१/४७६: Tऐत्.Bर्. १.६.५}* *{१/४७७: E१,५,६; E२,४: हेत्वपदेशः}* *{१/४७८: E२,४,५,६: शूर्पेण}* *{१/४७९: E२,४: दर्विपिठरादि; E५: दर्वीपीठरादि; E६: दर्वीपिठरादि}* *{१/४८०: E२,४ ओम्. शब्दः}* *{१/४८१: E२,४: दर्विपिठरादि उ.ö.; व्ग्ल्. Fन्. ३७७}* *{१/४८२: E२,४,५,६: शूर्पस्तुतिर्}* *{१/४८३: E२,४,५,६: शूर्पम् उ.ö}* *{१/४८४: E२/४: शूर्पस्य}*
SK
स्तुतिस् तु, शब्दपूर्वत्वाद् अचोदना च तस्य // MS_१,२.२७ //
SK
न त्व् एतद् अस्ति, शब्दपूर्वको ऽयम् अर्थः/ अन्नकरणं हेतुर् इति, शब्दश् चान्नकरणं सूर्पहोमे हेतुर् इत्य् आह. न च दर्विपीठरहोमे, तेन शब्दपूर्वं सूर्पम्, न च दर्विपिठरादेश्{*१/४८५*} चोदना.
SK
NOTES: *{१/४८५: E१ हत् हिएर् उन्द् नछ्fओल्गेन्द् कुर्zएस् इ wइए E२,४}*
SK
व्यर्थे स्तुतिर् अन्यायेति चेत् // MS_१,२.२८ //
SK
इति पुनर् यद् उक्तम्, तत् परिहर्तव्यम्.
SK
[५४]{*१/४८६*}
SK
NOTES: *{१/४८६: E२: २,४५; E४: १,१७१; E५: २,४८; E६: १,३७}*
SK
अर्थस् तु विधिशेषत्वात्, यथा लोके // MS_१,२.२९ //
SK
अस्मत्पक्षे ऽर्थो ऽस्ति. वाक्यशेषो हि स विधेस् तदा भवति. संवादश् च स्तुतिवचनत्वेन, यथा वयं सूर्पेणान्नं क्रियमाणं जानीमः, तथा सूर्पेणान्नं क्रियत इत्य् एव गम्यते. तदा चावर्तमानं स्तौतुं{*१/४८७*} वर्तमानम् इत्य् उपदिशति. त्वत्पक्ष एष दोषः, यस्य ते हेतुविधिः. विधौ हि न परः शब्दार्थः प्रतीयते. न च वर्तमानम् उपदिशन् वेदः शक्यम् अर्थं विदध्यात्. आस्मत्पक्षे तु एष परशब्दः परत्र वर्तते. यथा लोके बलवान् देवदत्तो यज्ञदत्तादीन् प्रसहत इति. प्रकृष्टबले ऽपि बलवच् छब्दो वर्तमानो न सिंहं शार्दूलं वापेक्ष्य प्रयुज्यते, ये देवदत्तात् तु निकृष्टबलाः, तानपेक्ष्य भवति. एवं तेन ह्य् अन्नं क्रियत इति प्रकृष्टान्नकरणेन संस्तवः सूर्पस्य{*१/४८८*}, निकृष्टान्य् अन्यान्य् अन्नाकरणान्य् अपेक्ष्य भविष्यति.
SK
NOTES: *{१/४८७: E२,४,५,६: स्तोतुं}* *{१/४८८: E२: शूर्पपय (?)}*
SK
यदि च हेतुर् अवतिष्ठेत निर्देशात्, सामान्याद् इति चेद् अव्यवस्था विधीनां स्यात् // MS_१,२.३० //
SK
यद्य् अपि च भवेद् अन्नकरणं हेतुर् दर्विपिठरप्रकाराणाम्, तथापि सूर्प एतावतिष्ठेत. शब्दाद् अन्नकरणं हेतुर् इति विज्ञायते. शदश् च सूर्पस्याह, न दर्वीपिठरादीनाम्. तद् धि निर्दिश्यते, यस्मात् सूर्पेणान्नं क्रियते, तस्मात् सूर्पेण जुहोतीति. यथा यस्माद् बलवद् उपध्मातो ऽग्निः, तेन मे गृहं दग्धम् इति, नानग्निर् अपि बलवद् उपध्मातो दहतीति गम्यते. अथ मतम् - येन येनान्नं क्रियते प्रणाड्या सूर्पाद् अन्येनापि, तेन तेनापि होमः क्रियत इति. अव्यवस्था विधीनां स्यात्, न केनचित् प्रणाड्यान्नं क्रियते. तत्र यावद् उक्तं स्याज् जुहोतीति, तावद् एवान्नकरणेन जुहोतीति. अस्मत्पक्षे पुनः सूर्पं स्तूयते - तेन ह्य् अन्नं क्रियत इति वृत्तान्तान्वाख्यानं न च वृत्तान्तज्ञापनाय, किं तर्हि प्ररोचनायैव. तस्माद् धेतुवन् निगदस्यापि स्तुतिर् एव कार्यम् इति.
SK
तदर्थशास्त्रात् // MS_१,२.३१ //{*१/४८९*} अथेदानीं किम् विवक्षितवचना मन्त्राः, उताविवक्षितवचनाः. किम् अर्थप्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति. यद्य् उच्चारणमात्रेण, तदा न नियोगतो{*१/४९०*} बर्हिर् देवसदनं दामीत्य्{*१/४९१*} एष बर्हिर्लवने विनियुज्येत. अभिधानेन चेत्, प्रकरणेन विज्ञाताङ्गभावो{*१/४९२*} नान्यत्रोपकर्तुं शक्नोतीत्य् अन्तरेणापि वचनम्, बर्हिर्लवन एव विनियुज्येतेति. तद् एवम् अवगच्छामः -उच्चारणमात्रेणैवोपकुर्वन्तीति. कुतः? तदर्थशास्त्रात्. यद् अभिधानसमर्थो मन्त्रः, तत्रैवैनं शास्त्रं निबध्नाति. उरुप्रथा उरु प्रथस्वेति{*१/४९३*} पुरोडाशं प्रथयतीति{*१/४९४*} वचनम् इदम् अनर्थकम्, यद्य् अर्थाभिधानेनोपकुर्वन्ति. अथोच्चारणमात्रेण, ततो वक्तव्यो विनियोगः, उक्तश् च. अतो नार्थाभिधानेन. यथा साक्षः पुरुषः परेण चेन् नीयते, नूनम् अक्षिभ्यां न पश्यतीति गम्यते. नन्व् अर्थवादार्थं भविष्यतीति चेत्. न हि, येन विधीयते तस्य वाक्यशेषो ऽर्थवाद इत्य् उक्तम्. न च निरपेक्षेण विहिते ऽर्थवादेन किंचिद् अपि प्रयोजनं क्रियते. अतो नार्थवादार्थं वचनम्. तथाभ्यादानसमर्था मन्त्रा{*१/४९५*} उदाहरणम्. लिङ्गाद् एवादाने प्राप्ता वचनेन विधीयन्ते, तां चतुर्भिर् आदत्त{*१/४९६*} इति. चतुःसंख्यार्थम् इति चेत्, न, समुच्चयशब्दाभावात्. [५६]{*१/४९७*} तथा, इमाम् अगृभ्णन् रसनामृतस्येत्य्{*१/४९८*} अश्वाभिधानीम् आदत्त इत्य्{*१/४९९*} उदाहरणम्. रसनादाने{*१/५००*} प्राप्तस्य{*१/५०१*} रसनादान{*१/५०२*} एव शास्त्रं विनियोजकम्. तद् विवक्षितार्थत्वे न घटेतेति. ननु गर्दभरसनां{*१/५०३*} परिसंख्यास्यति. न शक्नोति परिसंख्यातम्{*१/५०४*}. परिसंचक्षाणो हि स्वार्थं च{*१/५०५*} जुह्यात्, परार्थं च कल्पेत, प्राप्तं च बाधेत. तस्मान् न विवक्षितवचना मन्त्राः. अतो न प्रमाणं बर्हिर्देवसदनं दामीत्य् अस्य रूपं बर्हिर्लवने विनियोगस्य.
SK
NOTES: *{१/४८९: E२,४ zäह्लेन् MS १.२.३१-३९ निछ्त् अल्स् एइगेने Sऊत्रस्, दरौस् एर्गिब्त् सिछ् एइने उन्तेर्स्छिएद्लिछे Zäह्लुन्ग्}* *{१/४९०: E४: नियोगता}* *{१/४९१: Mऐत्.S. १.१.२}* *{१/४९२: E४: निर्ज्ञाताङ्गभावो}* *{१/४९३: Vआज्.S. १.२२, Tऐत्.S. १.१.८.१}* *{१/४९४: Tऐत्.Bर्. ३.२.८.४}* *{१/४९५: Cf. Tऐत्.S. १.१.३.४}* *{१/४९६: Tऐत्.S. ५.१.१}* *{१/४९७: E२: Bद्.२, S.४९-५६ fएह्लेन्; E४: १,१८०; E५: २,५४; E६: १,३९}* *{१/४९८: E४,५,६ (बेस्सेर्): रशनामृतस्येत्य्}* *{१/४९९: ŚPBर्. १३.१.२.२१., Tऐत्.S. ५.१.२.१}* *{१/५००: E४,५,६: रशनादाने}* *{१/५०१: Cf. Tऐत्.S. ४.१.२.१, Mआध्य्.S. १२.२}* *{१/५०२: E४,५,६: रशनादान}* *{१/५०३: E४,५,६: गर्दभरशनां}* *{१/५०४: E४,५,६ (रिछ्तिग्): परिसंख्यातुम्}* *{१/५०५: E४ ओम्. च}*
SK
वाक्यनियमात् // MS_१,२.३२ //
SK
नियतपदक्रमा हि मन्त्रा भवन्ति. अग्निमूर्धा दिव इति{*१/५०६*}, न विपर्ययेण. यद्य् अर्थप्रतायनार्थाः, विपर्ययेणाप्य् अर्थः प्रतीयत इति नियमो ऽनर्थकः स्यात्. अथोच्चारणविशेषार्थाः, विपर्यये ऽन्यद् उच्चारणम् इति नियम आश्रीयते. तेन यतरस्मिन्{*१/५०७*} पक्षे नियमो ऽर्थवान्, स नूनं पक्ष इति. नन्व् अर्थवत्स्व् अपि नियमो दृश्यते. यथा - इन्द्राग्नीति. युक्तं तत्र तत्, विपर्यये ऽर्थप्रत्ययाभावात्.
SK
NOTES: *{१/५०६: Tऐत्.S. १.५.५.१}* *{१/५०७: E१,५,६; E४: तेनान्यतरस्मिन्}*
SK
बुद्धशास्त्रात् // MS_१,२.३३ //
SK
बुद्धे खल्व् अपि पाठाद् अर्थे तदभिधानसमर्थो मन्त्रो भवति. अग्नीद् अग्नीन् विहरेद्{*१/५०८*} इति{*१/५०९*}. स बुद्धे किं बोधयेत्. अथ नूच्चारणविशेषार्थाः{*१/५१०*}, बुद्धे ऽप्य् उच्चारणविशेषो ऽवकल्प्येतेति. ननु पुनर्वचनात् संस्कारविशेषो भविष्यति. एवम् अस्मत्पक्षम् एवाश्रितो ऽसि. वचनम् उच्चारणम्. तद् धि शक्यते कर्तुं नार्थप्रत्यायनम्. तत् प्रतीते ऽशक्यम्. यथा सोपानत्के पादे द्वितीयाम् उपानहम् अशक्यत्वान् नोपादत्ते.
SK
[५७]{*१/५११*}
SK
NOTES: *{१/५०८: E४,५,६: विहर}* *{१/५०९: Tऐत्.S. ३.२.९}* *{१/५१०: E१,५,६; E४: तूच्चारणविशेषार्थाः}* *{१/५११: E४: १,१८०; E५: २,५५; E६: १,४०}*
SK
अविद्यमानवचनात् // MS_१,२.३४ //
SK
यज्ञे साधनभूतः प्रकाशयितव्यः. न च तादृशो ऽर्थो{*१/५१२*} ऽस्ति, यादृशम् अभिदधति{*१/५१३*}. यथा चत्वारि शृङ्गा{*१/५१४*} इति. न हि चतुःशृङ्गं त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद् यज्ञसाधनम् अस्ति. तद् अत्राभिधानार्थः किम् अभिदध्यात्. उच्चारणार्थे त्व् अवकल्प्यते. तथा मा मा हिंसीर् इत्य् असत्याम् अपि हिंसायां किम् अभिदध्यात्.
SK
NOTES: *{१/५१२: E४ ओम्. ऽर्थो}* *{१/५१३: E१ (Fन्.): अभिवहन्ति केचिन् मन्त्राः, E५: अभिदधाति}* *{१/५१४: Tऐत्.Ā. १०.१०.१७, ṚV ४.५८.३अ}*
SK
अचेतने ऽर्थबन्धनात् // MS_१,२.३५ //
SK
अचेतने ऽर्थे खल्व् अर्थं निबध्नन्ति - ओषधे त्रायस्वैनम्{*१/५१५*} इति{*१/५१६*}. अभिधानेनोपकुर्वन्त एवंजातीयका ओषधिं पशुत्राणाय प्रतिपादयेयुः. न चासाव् अचेतना शक्या प्रतिपादयितुम्. उच्चारणार्थे तु नैष दोषो भवति. तस्माद् उच्चारणार्थाः. शृणोत ग्रावाण इति{*१/५१७*} चोदाहरणम्.
SK
NOTES: *{१/५१५: E४: त्रायस्वनैम् (?)}* *{१/५१६: Tऐत्.S. १.२.१.१}* *{१/५१७: Tऐत्.S. १.३.१३.१}*
SK
अर्थविप्रतिषेधात् // MS_१,२.३६ //
SK
अर्थविप्रतिषेधो ऽपि भवति. अदितिर् द्यौर् अदितिर् अन्तरिक्षम् इति{*१/५१८*} सैव द्यौस् तद् एवान्तरिक्षम् इति को जातुचिद् अवधारयेत्. अनवधारयंश् च किम् अभिधानेनोपकुर्यात्. उच्चारणमात्रे तु नैष विरोधो भवति. तस्माद् उच्चारणार्था मन्त्राः. एको रुद्रो न द्वितीयो ऽवतस्थे{*१/५१९*}. असंख्याताः सहस्राणि, ये रुद्रा अधिभूम्याम् इति{*१/५२०*} चोदाहरणम्
SK
[५८]{*१/५२१*}
SK
NOTES: *{१/५१८: ṚV १.८९.१०अ}* *{१/५१९: Tऐत्.S. १.८.६.१}* *{१/५२०: Tऐत्.Ā. १.१२.१, Vआज्.S. १६.५४, Tऐत्.S. ४.५.११.१}* *{१/५२१: E४: १,१८१; E५: २,५६; E६: १,४०}*
SK
स्वाध्यायवद् अवचनात् // MS_१,२.३७ //
SK
स्वाध्यायकाले पूर्णिकावहन्ति करोति. माणवको ऽवहन्ति मन्त्रम् अधीते. नासौ तेन मन्त्रेण तदभिधानम् अभ्यस्यत्य् अक्षरानुपूर्व्या अवधारण एव यतते. येन च नाम प्रयोजनम्, तद् अभ्यसितव्यम्. अत उच्चारणाभ्यासाद् उच्चारणेन प्रयोजनम् इत्य् अवगच्छामः.
SK
अविज्ञेयात् // MS_१,२.३८ //
SK
अपि च केषाञ्चिन् मन्त्राणाम् अशक्य एवार्थो वेदितुम्. यथा - अम्यक् सा त इन्द्र ऋष्टिर् अस्म इति{*१/५२२*}. सृण्येव जर्भरी तुर्फरीत्व् इति{*१/५२३*}. इन्द्रः सोमस्य काणुकेति{*१/५२४*} च. एते किं प्रत्याययेयुः. उच्चारणार्थे तु न दोषः. तस्माद् उच्चारणार्था मन्त्रा इति.
SK
NOTES: *{१/५२२: ṚV १.१६९.३अ}* *{१/५२३: ṚV १०.१०६.६अ}* *{१/५२४: ṚV ८.७७.४च्}*
SK
अनित्यसंयोगान् मन्त्रानर्थक्यम् // MS_१,२.३९ //
SK
अनित्यसंयोगः खल्व् अपि भवेन् मन्त्रेष्व् अभिधानार्थेषु. यथा - किं ते कृण्वन्ति कीकटेषु गाव इति{*१/५२५*}. कीकटा नाम जनपदा. नैचाशाखं नाम नगरम्. प्रमङ्गदो{*१/५२६*} राजेति. यद्य् अभिधानार्थाः, प्राक् प्रमङ्गदान्{*१/५२७*} नायं मन्त्रो ऽनुभूतपूर्व{*१/५२८*} इति गम्यते. तद् एतैस् तदर्थशास्त्रादिभिः{*१/५२९*} कारणैर् मन्त्राणाम् अविवक्षितवचनता.
SK
NOTES: *{१/५२५: ṚV ३.५३.१४: किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम्/ आ नो भर प्रमगन्धस्य वेदो नैचाशाखम् मघवन् रन्धया नः//}* *{१/५२६: E१,६; E४,५ (रिछ्तिग्): प्रमगन्दो}* *{१/५२७: E१,६; E४,५: प्रमगन्दान्}* *{१/५२८: E४: ऽभूतपूर्व (?)}* *{१/५२९: MS १.२.३१}*
SK
अविशिष्टस् तु वाक्यार्थः // MS_१,२.४० //{*१/५३०*} अविशिष्टस् तु लोके प्रयुज्यमानानां वेदे च पदानाम् अर्थः. स यथैव लोके विवक्षितः, तथैव वेदे ऽपि भवितुम् अर्हति. नैवम्, लोके तैर् अर्थैर् अवबुद्धैः संव्यवहारः. इह देवताभिर् अप्रत्यक्षाभि[५९]{*१/५३१*}र् यज्ञाङ्गैश् चाचेतनैः संलापे न कश्चिद् यज्ञस्योपकारः. यद्य् अदृष्टं परिकल्प्येत, उच्चारणाद् एव तद् भवितुम् अर्हति. यद् धि कर्तव्यम्, तत् प्रयोजनवत्, उच्चारणं च न कथंचित् न कर्तव्यम्, यद्य् अपूर्वाय, यद्य् अर्थाय. यद्य् अर्थो न प्रत्यायते, न किञ्चिद् अनर्थकम्. यदि न प्रयुज्यते, समाम्नानानर्थक्यम्. तस्माद् उच्चारणाद् अपूर्वम्. तथा च तदर्थशास्त्राद् उक्तम्{*१/५३२*}. तद् उच्यते - अर्थप्रत्यायनार्थम् एव यज्ञे मन्त्रोच्चारणम्. यद् उक्तम् - न देवताभिर् यज्ञाङ्गैश् च संलपे प्रयोजनम् अस्तीति, यज्ञे यज्ञाङ्गप्रकाशनम् एव प्रयोजनम्. कथम्? न ह्य् अप्रकाशिते यज्ञे यज्ञाङ्गे च यागः शक्यो ऽभिनिर्वर्तयितुम्. तस्मात् तन्निर्वृत्त्यर्थम् अर्थप्रकाशनं महानुपकारः कर्मणः, तच् च करोतीत्य् अवगम्यते. तस्माद् असत्यस्य प्रयोजनम्. तच् च दृष्टं न शक्यम् अपवदितुम् - नार्थाभिधानं प्रयोजनम् इति. नन्व् अर्थाभिधानेनोपकुर्वत्सु - तां चतुर्भिर् आदत्त इत्येवमाद्य् अनर्थकं भवतु{*१/५३३*}, न जातुचिद् अपजानीमहे दृष्टम् अर्थाभिधानस्योपकारकत्वम्.
SK
अथ किं तच्छास्त्रं अनर्थकम् एव. न हि -
SK
NOTES: *{१/५३०: E२,४ हबेन् अब् MS १.२.३१ निछ्त् wइए E१,५,६ wएइतेर्गेzäह्ल्त्, सो दß सिए बेइ MS १.२.४० मित् १.२.३२ fओर्त्fअह्रेन्}* *{१/५३१: E२: २,५७; E४: १,२०४; E५: २,५७; E६: १,४१}* *{१/५३२: E१,५,६; E२,४: युक्तम्}* *{१/५३३: E४: कामं भवतु}*
SK
गुणार्थेन पुनःश्रुतिः // MS_१,२.४१ //
SK
यद् उक्तम्{*१/५३४*} - तां चतुर्भिर् आदत्त इति समुच्चयशब्दाभावान् न समुच्चयार्थम् इति. चतुःसंख्याविशिष्टम् आदानं कर्तव्यम् इति वाक्याद् अवगम्यते. तद् एकेन मन्त्रेण गृह्णन् न यथाश्रुतं{*१/५३५*} गृह्णीयाद् इति.
SK
NOTES: *{१/५३४: E१, S.५५/२६}* *{१/५३५: E२ ओम्. गृह्णन् न यथाश्रुतं}*
SK
परिसंख्या // MS_१,२.४२ //
SK
परिसंचक्षाणे च{*१/५३६*} - इमाम् अगृभ्णन्न् इत्य् अश्वाभिधानीम् आदत्त इति त्रयो दोषाः प्रादुःष्युर् इति. नैवं संबन्ध इत्य् आदत्त इति. कथं तर्हि, इत्य् अश्वाभिधानीम् इति. [६०]{*१/५३७*} लिङ्गाद् रशनामात्रे शब्दात् तु विशेषे ऽश्वाभिधान्याम् इति. सति च वाक्ये लिङ्गं विनियोजकम्. तच् चास्य प्रकरणाम्नानानुमितं वाक्यं नास्ति. कतरतत्. एतेन मन्त्रेणादानं कुर्याद् इति, यस्मिन् सति रशनामात्रे लिङ्गात् प्राप्नोति. अश्वाभिधान्यां तु प्रत्यक्षम् एव वचनम्. अस्मिन् सति तद् आनुमानिकं नास्ति. तेन गर्दभरशनायां न प्राप्तिर् एवेति. NOTES: *{१/५३६: E१, S.५६/४-६, Tऐत्.S. ५.१.२.१}* *{१/५३७: E२: २,५९; E४: १,२१०; E५: २,५९; E६: १,४१}*
SK
अर्थवादो वा // MS_१,२.४३ //
SK
उरु प्रथा उरु प्रथस्वेति पुरोडाशं प्रथयतीत्य्{*१/५३८*} अर्थवादार्थेन पुनःश्रुतिः, यज्ञपतिम् एव तत् प्रथयतीति. ननु नायं मन्त्रस्य वाक्यशेषः, न च प्राप्तस्य स्तुत्या प्रयोजनम्. सत्यम्{*१/५३९*}, नायं मन्त्रस्य विधिः, न संस्तवः. प्रथनम् एव तत्र स्तूयते. मन्त्रः पुना रूपाद् एव प्राप्त इहानूद्यते प्रथनं स्तोतुम् - इत्थं प्रथनं प्रशस्तम्, यत् क्रियमाणम् एवंरूपेण मन्त्रेण क्रियते. कस् तदा भवति गुणः. यज्ञपतिम् एव तत् प्रजया पशुभिः प्रथयति. किम् एतद् एवास्य फलं भवति. नेति ब्रूमः. स्तुतिः कथं भविष्यतीत्य् एवम् उच्यते. कथम् असति प्रथने प्रथयतीति शब्दः. मन्त्राभिधानात् - मन्त्रेण पुरोडाशम् अध्वर्युः प्रथस्वेति ब्रूते. यश् चैवं प्रथस्वेति ब्रूते, स प्रथयति, यथा - यः कुर्व् इति ब्रूते, स कारयति.
SK
NOTES: *{१/५३८: Tऐत्.S. ३.२.८.४, zइतिएर्त्: ŚBह् अद् MS १.२.३१}* *{१/५३९: E२ ओम्. सत्यम्}*
SK
अविरुद्धं परम् // MS_१,२.४४ //
SK
यद् उक्तम्{*१/५४०*} - पदनियमस्यार्थवत्त्वाद्{*१/५४१*} अविवक्षितार्था मन्त्रा इति. कामम् अनर्थको नियमः, न दृष्टम् अप्रमाणम्. नियतोच्चारणम् अदृष्टायेति चेत्, अविरुद्धा अदृष्टकल्पनास्मत्पक्षे ऽपि. एवं प्रत्यायमानम् अभ्युदयकारि भवतीति.
SK
[६१]{*१/५४२*}
SK
NOTES: *{१/५४०: ŚBह् अद् MS १.२.३२}* *{१/५४१: E२: पदनियमस्यार्थयववाद् (?)}* *{१/५४२: E२: २,६३; E४: १,२२३; E५: २,६०; E६: १,४२}*
SK
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्वात् // MS_१,२.४५ //
SK
अथ यद् उक्तम्{*१/५४३*} - प्रोक्षणीर् आसादयेति बुद्धबोधनम् अशक्यम्, अत उच्चारणाद् अदृष्टम् इति. तन् न. कर्तव्यम् इत्य् अपि विज्ञाते ऽनुष्ठानकाले स्मृत्या प्रयोजनम्. उपायान्तरेणापि सा प्राप्नोति, अतो ऽनेनोपायेन कर्तव्येति नियमार्थम् आम्नानम्, संस्कारत्वात्.
SK
NOTES: *{१/५४३: ŚBह् अद् MS १.२.३३, Mआध्य्.S.१.२८; Tऐत्.S. ३.२.९}*
SK
अभिधाने ऽर्थवादः // MS_१,२.४६ //
SK
चत्वारि शृङ्गा इत्य्{*१/५४४*} असद् अभिधाने गौणः शब्दः. गौणी कल्पना प्रमाणवत्त्वात्. उच्चारणाद् अदृष्टम् अप्रमाणम्. चतस्रो होत्राः शृङ्गाणीवास्य. त्रयो ऽस्य पादा इति सवनाभिप्रायम्. द्वे शीर्ष इति पत्नीयजमानौ. सप्त हस्तास इति छन्दांस्य् अभिप्रेत्य. त्रिधा बद्ध इति त्रिभिर् वेदैर् बद्धः. वृषभः कामान् वर्षतीति. रोरवीति शब्दकर्मा. महो देवो मर्त्यान् आविवेशेति, मनुष्याधिकाराभिप्रायम्. तद् यथा - चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नदीति नद्याः स्तुतिः. यज्ञसमृद्धये साधनानां चेतनसादृश्यम् उपपादयितुकाम आमन्त्रणशब्देन लक्षयति{*१/५४५*} - ओषधे त्रायस्वैनम् इति{*१/५४६*}. शृणोत ग्रावाण इति{*१/५४७*}, अतः परं प्रातरनुवाकानुवचनं भविष्यति, यत्राचेतनाः सन्तो ग्रावाणो ऽपि शृणुयुः, किं पुनर् विद्वांसो ऽपि ब्राह्मणा इति. इत्थं चाचेतना अपि ग्रावाण आमन्त्र्यन्ते.
SK
NOTES: *{१/५४४: Zइतिएर्त्: ŚBह् अद् MS १.२.३४, ṚV ४.५८.३अ}* *{१/५४५: ŚBह् अद् MS १.२.३५}* *{१/५४६: Tऐत्.S. १.२.१.१}* *{१/५४७: Tऐत्.S. १.३.१३.१}*
SK
गुणाद् अविप्रतिषेधः स्यात् // MS_१,२.४७ //
SK
अदितिर् द्यौर् इति{*१/५४८*} गौण एष शब्दः, अतो न [६२]{*१/५४९*}विप्रतिषेधः/ यथा - त्वम् एव माता, त्वम् एव{*१/५५०*} पितेति. तथैकरुद्रदैवत्य एको रुद्रः, शतरुद्रदैवत्ये शतं रुद्रा इत्य् अविरोधः.
SK
NOTES: *{१/५४८: ŚBह् अद् MS १.२.३६, ṚV १.८९.१०अ}* *{१/५४९: E२: २,६५; E४: १,२२८; E५: २,६१; E६: १,४३}* *{१/५५०: E२,४,६ ओम्. त्वम् एव}*
SK
विद्यावचनम् असंयोगात् // MS_१,२.४८ //
SK
यत् तु{*१/५५१*} - अकर्मकाले ऽवहन्ति मन्त्रेण माणवको न पूर्णिकावहन्तिं प्रकाशयितुम् इच्चतीति. अयज्ञसंयोगात्, न यज्ञोपकारायैतत् प्रकाशयितुम् इच्छति. ननु प्रकाशनानभ्यासो ऽक्षराभ्यासश् च परिचोदितः. उच्यते - सौकर्यात् प्रकाशनानभ्यासो दुर्ग्रहत्वाच् चाक्षराभ्यासः.
SK
NOTES: *{१/५५१: ŚBह् अद् MS १.२.३७}*
SK
सतः परम् अविज्ञानम् // MS_१,२.४९ //{*१/५५२*} विद्यमानो ऽप्य् अर्थः प्रमादालस्यादिभिर् नोपलभ्यते. निगमनिरुक्तव्याकरणवशेन धातुतो ऽर्थः कल्पयितव्यः. यथा - सृण्येव जर्भरी तुर्फरीत्व् इत्येवमादीन्य्{*१/५५३*} अश्विनोर् अभिधानानि द्विवचनान्तानि लक्ष्यन्ते. अनेनाश्विनोः कामम् अप्रा इत्य्{*१/५५४*} आश्विनं सूक्तम् अवगम्यते. देवताभिधानानि च घटन्ते जर्भरीत्येवमादीनि. अवयवप्रसिद्ध्या च लौकिकेनार्थेन विशेष्यन्ते. एवं सर्वत्र.
SK
NOTES: *{१/५५२: Zउ MS १.२.३८}* *{१/५५३: ṚV १०.१०६.६}* *{१/५५४: ṚV १०.१०६.११द्}*
SK
उक्तश् चानित्यसंयोगः // MS_१,२.५० //{*१/५५५*} परं तु श्रुतिसामान्यमात्रम् इत्य्{*१/५५६*} अत्रेति{*१/५५७*}.
SK
[६३]{*१/५५८*}
SK
NOTES: *{१/५५५: Zउ MS १.२.३९}* *{१/५५६: MS १.१.३१}* *{१/५५७: E२ निम्म्त् देन् Kओम्मेन्तर् इर्र्त्üम्लिछेर्wएइसे अल्स् एइगेनेस् Sऊत्र}* *{१/५५८: E२: २,६८; E४: १,२३८; E५: २,६२; E६: १,४३}*
SK
लिङ्गोपदेशश् च तदर्थवत् // MS_१,२.५१ //
SK
आग्नेयाग्नीध्रम् उपतिष्ठत इति{*१/५५९*} विधानाद् विवक्षितार्थानाम् एव मन्त्राणां भवति लिङ्गेणोपदेशः. यदि ते ऽग्निप्रयोजनाः, ततस् त आग्नेया नाग्निशब्दसंनिधानात्.
SK
NOTES: *{१/५५९: Tऐत्.S. ३.१.६}*
SK
ऊहः // MS_१,२.५२ //
SK
ऊहदर्शनं च विवक्षितार्थानाम् एव भवति. किम् ऊहदर्शनम्. न पिता वर्धते, न मातेति{*१/५६०*}. अन्ये वर्धन्त इति गम्यते. प्रत्यक्षं कौमारयौवनस्थाविरैर् वर्धन्ते मात्रादयः. शब्दो न वर्धत इति ब्रूते. का पुनः शब्दस्य वृद्धिः. यद् द्विवचनबहुवचनसंयोगः.
SK
NOTES: *{१/५६०: Vग्ल्. Tऐत्.Bर्. ३.६.६.१}*
SK
विधिशब्दाश् च // MS_१,२.५३ //
SK
विधिशब्दाश् च विवक्षितार्थान् एव मन्त्रान् अनुवदन्ति - शतं हिमाः शतं वर्षाणि जीव्यासम् इत्य् एतद् एवाहेति{*१/५६१*}.
SK
[६४]{*१/५६२*}
SK
NOTES: *{१/५६१: ŚPBर्. २.३.४.२१}* *{१/५६२: E२: २,६९; E४: १,२४३; E५: २,६४; E६: १,४४}*
SK
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् // MS_१,३.१ //
SK
एवं तावत् कृत्स्नस्य वेदस्य प्रामाण्यम् उक्तम्. अथेदानीं यत्र न वैदिकं शब्दम् उपलभेमहि, अथ च स्मरन्ति - एवम् अयम् अर्थो ऽनुष्ठातव्यः, एतस्मै च प्रयोजनायेति. किम् असौ तथैव स्यान् न वेति. यथा - अष्टकाः कर्तव्याः; गुरुर् अनुगन्तव्यः; तडागं खनितव्यम्; प्रभा प्रवर्तयितव्या; शिखाकर्म कर्तव्यम् इत्येवमादयः. तद् उच्यते - धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्याद् इति. शब्दलक्षणो धर्म इत्य् उक्तम्{*१/५६३*} - चोदनालक्षणो ऽर्थो धर्मः इति. अतो निर्मूलत्वान् नापेक्षितव्यम् इति. ननु ये विदुर् इत्थम् असौ पदार्थः कर्तव्य इति, कथम् इव ते वदिष्यन्त्य् अकर्तव्य एवायम् इति. स्मरणानुपपत्त्या, न{*१/५६४*} ह्य् अननुभूतो ऽश्रुतो वार्थः स्मर्यते. न चास्यावैदिकस्यालौकिकस्य च स्मरणम् उपपद्यते, पूर्वविज्ञानकारणाभावाद् इति. या हि बन्ध्या स्मरेत - इदं मे दौहित्रकृतम् इति, न मे दुहितास्तीति मत्वा, न जातुचिद् असौ प्रतीयात् - सम्यग् एतज् ज्ञानम् इति. एवम् अपि यथैव पारम्पर्येणाविच्छेदाद् अयं वेद इति प्रमाणम् एषां स्मृतिः, एवम् इयम् अपि प्रमाणं भविष्यतीति. नैतद् एवम्. प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य, नानुपपन्नं पूर्वविज्ञानम्. अष्टकादिषु त्व् अदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद् व्यामोहस्मृतिर् एव गम्यते. तद् यथा कश्चिज् जात्यन्धो वदेत् - स्मराम्य् अहम् अस्य रूपविशेषस्येति. कुतस् ते पूर्वविज्ञानम् इति च पर्यनुयुक्तो जात्यन्धम् एवापरं विनिर्दिशेत. तस्य [६५]{*१/५६५*} कुतः? जात्यन्धान्तरात्. एवं जात्यन्धपरम्परायाम् अपि सत्यां नैव जातुचित् संप्रतीयुर् विद्वांसः सम्यग्दर्शनम् एतद् इति. अतो नादर्तव्यम् एवंजातीयकम् अनपेक्षं स्याद् इति.
SK
NOTES: *{१/५६३: Vग्ल्. MS १.१.२}* *{१/५६४: E२,४ ओम्. न}* *{१/५६५: E२: २,७३; E४: १,२४३; E५: २,७०; E६: १,४५}*
SK
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् // MS_१,३.२ //
SK
अपि वेति पक्षो व्यावर्त्यते. प्रमाणं स्मृतिः, विज्ञानं हि तत्. किम् इत्य् अन्यथा भविष्यति. पूर्वविज्ञानम् अस्य नास्ति, कारणाभावाद् इति चेत्. अस्या एव स्मृतेर् द्रढिम्नः कारणम् अनुमास्यामहे. तत् तु नानुभवनम्, अनुपपत्त्या. न हि मनुष्या इहैव जन्मन्य् एवंजातीयकम् अर्थम् अनुभवितुं शक्नुवन्ति. जन्मान्तरानुभूतं च न स्मर्यते. ग्रन्थस् त्व् अनुमीयेत, कर्तृसामान्यात् स्मृति-वैदिकपदार्थयोः. तेनोपपन्नो वेदसंयोगस् त्रैवर्णिकानाम्. ननु नोपलभन्त एवंजातीयकं ग्रन्थम्. अनुपलभमाना अप्य् अनुमिमीरन्, विस्मरणम् अप्य् उपपद्यत इति. तद् उपपन्नत्वात् पूर्वविज्ञानस्य तरिवर्णिकानां स्मरताम्, विस्मरणस्य चोपपन्नत्वाद् ग्रन्थानुमानम् उपपद्यत इति प्रमाणं स्मृतिः. अष्टकालिङ्गाश् च मन्त्रा वेदे दृश्यन्ते - याञ् जनाः प्रतिनन्दन्तीत्येवमादयः{*१/५६६*}. तथा प्रत्युपस्थितनियमानाम् आचाराणां दृष्टार्थत्वाद् एव प्रामाण्यम् - गुरोर् अनुगमात् प्रीतो गुरुर् अध्यापयिष्यति ग्रन्थग्रन्थिभेदिनश् च न्यायान् परितुष्टो वक्ष्यतीति. तथा च दर्शयति - तस्माच् छ्रेयांसं पूर्वं यन्तं पापीयान् पश्चाद् अन्वेतीति{*१/५६७*}. प्रपास्तडागानि च परोपकाराय, न धर्मायेत्य् एवावगम्यते. तथा च दर्शनम् - धन्वन्न् इव प्रपा [६६]{*१/५६८*} असीति{*१/५६९*}. तथा - स्थलयोदकं परिगृह्णन्तीति च. गोत्रचिह्नं शिखाकर्म, दर्शनं च - यत्र बाणाः संपतन्ति कुमारा विशिखा इवेति{*१/५७०*}. तेन ये दृष्टार्थाः, ते तत एव प्रमाणम्. ये त्व् अदृष्टार्थाः, तेषु वैदिकशब्दानुमानम् इति.
SK
NOTES: *{१/५६६: Pआर.GS ३.२.२, Āप्MP २.२०.२७}* *{१/५६७: E२: अन्वेति}* *{१/५६८: E२: २,७८; E४: १,२५९; E५: २,७८; E६: १,४५}* *{१/५६९: ṚV १०.४.१च्}* *{१/५७०: ṚV ६.७५.१७अ}*
SK
विरोधे त्व् अनपेक्षं स्यात्, असति ह्य् अनुमानम् // MS_१,३.३ //
SK
अथ यत्र श्रुतिविरोधः, तत्र कथम्. यथौदुम्बर्याः सर्ववेष्टनम्, औदुम्बरीं स्पृष्ट्वोद्गायेद् इति श्रुत्या विरुद्धम्. अष्टाचत्वारिंशद् वऋषाणि वेदब्रह्मचरणम्, जातपुत्रः कृष्णकेशो ऽग्नीन् आदधीतेत्य् अनेन विरुद्धम्. क्रीतराजको भोज्यान् न इति, तस्माद् अग्नीषोमीये संस्थिते यजमानस्य गृहे ऽशितव्यम् इत्य् अनेन विरुद्धम्. तत् प्रमाणम्, कर्तृसामान्याद् इत्येवं प्राप्ते ब्रूमः - अशक्यत्वाद् व्यमोह इत्य् अवगम्यते. कथम् अशक्यता. स्पर्शविधानान् न सर्वा शक्या वेष्टयितुम् उद्गायता स्प्रष्टुं च. ताम् उद्गायता स्प्रष्टव्याम् अवगच्छन्तः केनेमं संप्रत्ययं बाधेमहि सर्ववेष्टनस्मरणेनेति ब्रूमः. ननु निर्मूलत्वाद् व्यामोहस् तत् स्मरणम् इति वैदिकं वचनं मूलं भविष्यतीति. भवेद् वैदिकं वचनं मूलम्, यदि स्पर्शनं व्यामोहः. अव्यामोहे त्व् अशक्यत्वाद् अनुपपन्नम्. यथानुभवनम् अनुपपन्नम् इति न कल्प्यते, तथा वैदिकम् अपि वचनम्. कथं तर्हि सर्ववेष्टनस्मरणम्. व्यामोहः. कथं व्यामोहकल्पना. श्रौतविज्ञानविरोधात्. अथ किम् अर्थं नेमौ विधी विकल्प्ये[६७]{*१/५७१*}ते व्रीहियववद् बृहद्रथन्तरवद् वा. नासति व्यामोहविज्ञाने विकल्पो भवति. यदि सर्ववेष्टनविज्ञानं प्रमाणम्, स्पर्शनं व्यामोहः. यदि स्पर्शनं प्रमाणम्, स्मृतिर् व्यामोहः. विकल्पं तु वदन् स्पर्शनस्य पक्षे तावत् प्रामाण्यम् अनुमन्यते. तस्य च मूलं श्रुतिः. सा चेत् प्रमाणम् अनुमता, न पाक्षिकी. पाक्षिकं च सर्ववेष्टनस्मरणम्, पक्षे तावन् न शक्नोति श्रुतिं परिकल्पयितुम्, स्पर्शविज्ञानेन बाधितत्वात्. ततश् चाव्यामोहे च तस्मिन्न् अशक्या श्रुतिः कल्पयितुम्. न चासाव् अव्यामोहः पक्षे, पक्षे व्यामोहो भविष्यतीति. यद् एव हि तस्यैकस्मिन् पक्षे मूलम्, तद् एवेतरस्मिन्न् अपि. एकस्मिंश् चेत् पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वाद् इतरत्राप्य् अव्यामोहः. न चासाव् एकस्मिन् पक्षे श्रुतिः, निबद्धाक्षरा हि सा न प्रमादपाठ इति शक्या गदितुम्. तेन नैतत् पक्षे विज्ञानं व्यामोहात् पक्षान्तरं संक्रान्तम् इत्य् अवगम्यते. तत्र दुःश्रुतस्वप्नादिविज्ञानमूलत्वं त सर्ववेष्टनस्येति विरोधात् कल्प्यते. न हि तस्य सति विरोधे प्रामाण्यम् अभ्युपगन्तव्यम् इति किंचिद् अस्ति प्रमाणम्. तस्माद् यथैवैकस्मिन् पक्षे न शक्या श्रुतिः कल्पयितुम्, एवम् अपरस्मिन् पक्षे, तुल्यकारणत्वात्. अपि चेतरेतराश्रये ऽन्यतः परिच्छेदात्. केयम् इतरेतराश्रयता. प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शने प्रमाणे स्मृतिर् व्यामोहः, तद् एतद् इतरेत्राश्रयं भवति. तत्र स्पर्शनस्य कॢप्तं मूलं कल्प्यं स्मृतेः, सो ऽसाव् अन्यतः परिच्छेदः. कल्प्यमूलत्वात् स्मृतिप्रामाण्यम् अनवकॢप्तं. तद् अप्रामाण्यात् स्पर्शनं न व्यामोहः. तद् अव्यामोहात् स्मार्तश्रुतिकल्पनानुपपन्ना प्रमाणाभावात्. नन्व् एवं सति व्रीहिसाधनत्वविज्ञानस्याप्य् अव्यामोहाद् यवश्रुतिर् नोपपद्येत. सत्यं नोपपद्यते, यद्य् अप्रत्यक्षा स्यात्. प्रत्यक्षा त्व् एषा. न हि प्रत्यक्षम् अनुपपन्नं नामास्ति. द्वयोस् तु श्रुत्योर् भावात्. द्वे ह्य् एते वाक्ये. तत्रैकेन केवलयवसाधनता गम्यते, [६८]{*१/५७२*} एकेन केवलव्रीहिसाधनता. न च वाक्येनावगतो ऽर्थो ऽपह्नूयते. तस्माद् व्रीहियवयोर् उपपन्नो विकल्पो बृहद्रथन्तरयोश् च. तस्माद् उक्तं श्रुतिविरुद्धा स्मृतिर् अप्रमाणम् इति. अतश् च सर्ववेष्टनादि नादरणीयम्.
SK
NOTES: *{१/५७१: E२: २,९८; E४: १,२८१; E५: २,८५; E६: १,४६}* *{१/५७२: E२: २,१०२; E४: १,२८१; E५: २,८९; E६: १,४७}*
SK
हेतुदर्शनाच् च // MS_१,३.४ //
SK
लोभाद् वास आदित्समाना औदुम्बरीं कृत्स्नां वेष्टितवन्तः केचित्. तत् स्मृतेर् बीजम्. बुभुक्षमाणाः केचित् क्रीतराजकस्य भोजनम् आचरितवन्तः. अपुंस्त्वं प्रच्छादयन्तश् चाष्टाचत्वारिंशद् वर्षाणि वेदब्रह्मचर्यं चरितवन्तः. तत एषा स्मृतिर् इत्य् अवगम्यते. अधिकरणान्तरं वा. वैसर्जनहोमीयं वासो ऽध्वर्युर् गृह्णातीति, यूपहस्तिनो दानम् आचरन्तीति. तत्कर्तृसामान्यात् प्रमाणम् इति प्राप्ते{*१/५७३*}. अप्रमाणं स्मृतिः. अत्रान्यन् मूलम्. लोभाद् आचरितवन्तः केचित्, तत एषा स्मृतिः. उपपन्नतरं चैतद् वैदिकवचनकल्पनात्.
SK
NOTES: *{१/५७३: MS १.३.२}*
SK
शिष्टाकोपे ऽविरुद्धम् इति चेत् // MS_१,३.५ //
SK
आचान्तेन कर्तव्यम्; यज्ञोपवीतिना कर्तव्यम्; दक्षिणाचारेण कर्तव्यम् इत्येवंलक्षणान्य् उदाहरणानि. किम् एतानि श्रुतिविरुद्धानि न कर्तव्यानि उताविरुद्धानि कार्याणीति. [६९]{*१/५७४*} इति{*१/५७५*} चेत् पश्यसि, तैर् अप्य् अनुष्ठीयमानैर् वैदीकं किंचिन् न कुप्यति, तस्माद् अविरुद्धानीति.
SK
NOTES: *{१/५७४: E२: २,११५; E४: १,३४६; E५: २,९३; E६: १,४७}* *{१/५७५: E२,४,६ ओम्. इति}*
SK
न शास्त्रपरिमाणत्वात् // MS_१,३.६ //
SK
नैतद् एवम्. शास्त्रपरिच्छिन्नं हि क्रमं बाधेरन्. कथम्. वेदं कृत्वा वेदिं कुर्वीतेतीमां श्रुतिम् उपरुन्ध्याद् अन्तरा वेदं वेदिं चानुष्ट्ःईयमानम् आचमनादि. दक्षिणेन चैकहस्तेनानुष्ठीयमानेषु पदार्थेषु कदाचित् प्रधानं स्वकालम् अतिक्रामेत. उभाभ्यां हस्ताभ्यां अनुतिष्ठन् प्रधानकालं संभावयिष्यति.
SK
अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् // MS_१,३.७ //
SK
अपि वेति पक्षव्यावृत्तिः. अगृह्यमाणकारणा एवंजातीयकाः प्रमाणम्. ननु क्रमकालौ विरुन्धन्ति{*१/५७६*}. विरुध्नन्तु{*१/५७७*}. नैष दोषः. आचमनं पदार्थः पदार्थानां च गुणः क्रमः. न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति. अपि च प्राप्तानां पदार्थानाम् उत्तरकालं क्रम आपतति. यदा पदार्थः प्राप्नोति, तदा क्रम एव नास्ति, केन सह विरोधो भविष्यतीति. तथा यदि दक्षिणेन नाचर्यते, कालो मा विरोधीद् इति, तत्र कालानुरोधेन पदार्थो नान्यथात्वम् अभ्युपगच्छेत्. प्रयोगाङ्गं हि कालः पदार्थानाम् उपकारकः. अतो न कालानुरोधेन व्यथयितव्यः पदार्थः. अपि च शौचं दक्षिणाचारता यज्ञोपवीतित्वं चैवंजातीयका अर्था व्यवधातारो न भवन्ति. सर्वपदार्थानां [७०]{*१/५७८*} शेषभूतत्वात्. तस्माद् आचमनादीनां प्रामाण्यम्.
SK
NOTES: *{१/५७६: E२,४,५,६: विरुन्धन्ति}* *{१/५७७: E२,४,५,६: विरुन्ध्नन्तु}* *{१/५७८: E२: २,१२०; E४: १,३५६; E५: २,९६; E६: १,४८}*
SK
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् // MS_१,३.८ //
SK
यवमयश् चरुः; वाराही उपानहौ{*१/५७९*}; वैतसे कटे प्राजापत्यान् संचिनोतीति यववराहवेतसशब्दान् समामनन्ति. तत्र केचिद् दीर्घशूकेषु यवशब्दं प्रयुञ्जन्ते, केचित् प्रियङ्गुषु. वराहशब्दं केचित् शूकरे{*१/५८०*}, केचित् कृष्णशकुनौ. वेतसशब्दं केचिद् वञ्जुलके, केचिज् जम्ब्वाम्. तत्रोभयथा पदार्थावगमाद् विकल्पः.
SK
NOTES: *{१/५७९: Tऐत्.Bर्. १.७.९.४, Mऐत्.S.४.४६, च्f. ŚPBर्. ५.४.३.१९}* *{१/५८०: E२,४,५: सूकरे}*
SK
शास्त्रस्था वा तन्निमित्तत्वात् // MS_१,३.९ //
SK
वाशब्दः पक्षं व्यावर्तयति. यवशब्दो यदि दीर्घशूकेषु सादृश्यात् प्रियङ्गुषु भविष्यति. यदि प्रियङ्गुषु, सादृश्याद् यवेषु. किं सादृश्यम्. पूर्वसश्ये{*१/५८१*} क्षीणे भवन्ति दीर्घशूकाः प्रियङ्गवश् चैतत् तयोः सादृश्यम्. कः पुनर् अत्र निश्चयः. य शास्त्रस्थानां स शब्दार्थः. के शास्त्रस्थाः. शिष्टाः. तेषाम् अविच्छिन्ना स्मृतिः शब्देषु वेदेषु च. तेन शिष्टा निमित्तं श्रुतिस्मृत्यवधारणे. ते ह्य् एवं समामनन्ति यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषम् - यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्तीति{*१/५८२*} दीर्घशूकान् यवान् दर्शयति वेदः. वेदे दर्शनाद् अविच्छिन्नपारम्पर्यो दीर्घशूकेषु यवशब्द इति गम्यते. तस्मात् प्रियङ्गुषु गौणः. तस्माद् दीर्घशूकानां पुरोडाशः कर्तव्यः. तस्माद् वराहं गावो ऽनुधावन्तीति{*१/५८३*} शूकरे{*१/५८४*} वराहशब्दं दर्शयति. अप्सुजो वेतस इति{*१/५८५*} वञ्जुले वेतसशब्दम्. [७१]{*१/५८६*} शूकरं{*१/५८७*} हि गावो ऽनुधावन्ति. वञ्जुलो ऽप्सु जायते. जम्बूवृक्ष स्थले गिरिनदीषु वा.
SK
NOTES: *{१/५८१: E२,५,६: पूर्वसस्ये, E४: पूर्वसस्येषे}* *{१/५८२: Qउएल्ले उन्बेकन्न्त्}* *{१/५८३: ŚPBर्. ४.४.३.१९}* *{१/५८४: E२,४,५: सूकरे}* *{१/५८५: Qउएल्ले उन्बेकन्न्त्}* *{१/५८६: E२: २,१४२; E४: १,४१६; E५: २,१०३; E६: १,४९}* *{१/५८७: E२,४,५: सूकरं}*
SK
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन // MS_१,३.१० //
SK
अथ याञ् छब्दान् आर्या न कस्मिंश्चिद् अर्थे आचरन्ति, म्लेच्छास् तु कस्मिंश्चित् प्रयुञ्जते, यथा पिकनेमसततामरसादिशब्दाः{*१/५८८*}. तेषु संदेहः - किं निगमनिरुक्तव्याकरणवशेन धातुतो ऽर्थः कल्पयितव्य उत यत्र म्लेच्छा आचरन्ति, स शब्दार्थ इति. शिष्टाचारस्य प्रामाण्यम् उक्तं नाशिष्टस्मृतेः. तस्मान् निगमादिवशेनार्थकल्पना. निगमादीनां चैवम् अर्थवत्ता भविष्यति. अनभियोगश् च शब्दार्थेष्व् अशिष्टानाम् अभियोगश् चेतरेषाम्. तस्माद् धातुतो ऽर्थः कल्पयितव्य इत्येवं प्राप्ते ब्रूमः - चोदितम् अशिष्टैर् अपि शिष्टानवगतं प्रतीयेत, यत् प्रमाणेनाविरुद्धम्, तद् अवगम्यमानम्, न न्याय्यं त्यक्तुम्. यत् तु शिष्टाचारः प्रमाणम् इति, तत् प्रत्यक्षानवगते ऽर्थे. यत् त्व् अभियुक्ताः शब्दार्थेषु शिष्टा इति. तत्रोच्यते - अभियुक्ततराः पक्षिणां पोषणे बन्धने च म्लेच्छाः. यत् तु निगमनिरुक्तव्याकरणानाम् अर्थवत्तेति, तत्रैषाम् अर्थवत्ता भविष्यति, न यत्र म्लेच्छैर् अप्य् अवगतः शब्दार्थः. अपि च - निगमादिभिर् अर्थे कल्पयमाने ऽव्यवस्थितः शब्दार्थो भवेत्, तत्रानिश्चयः स्यात्. तस्मात् पिक इति कोकिलो ग्राह्यः, नेमो ऽर्धम्, तामरसं पद्मम्, सत इति दारुमयं पात्रम् परिमण्डलं शतछिद्रम्.
SK
[७२]{*१/५८९*}
SK
NOTES: *{१/५८८: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/५८९: E२: २,१५४; E४: १,४५२; E५: २,१०७; E६: १,४९}*
SK
प्रयोगशास्त्रम् इति चेत् // MS_१,३.११ //
SK
इह कल्पसूत्राण्य् उदाहरणम् - माशकम्, हास्तिकम्, कौण्डिन्यकम् इत्येवंलक्षणकानि किं प्रमाणम् अप्रमाणं वेति संदिग्धानि. किं प्राप्तम्. प्रयोगस्य शास्त्रं प्रमाणम् एवंजातीयकम् इति ब्रूमः. सत्यवाचाम् एतानि वचनानि. कथम् अवगम्यते. वैदिकैर् एषां संवादो भवति. य एव हि वेदे ग्रहाः, त एवेह, या एव वेदे इष्टकाः{*१/५९०*}, ता एवेह. तस्मात् सत्यवाच आचार्याः. आचार्यवचः प्रमाणम् इति च श्रुतिः. प्रत्यक्षतः प्रामाण्यम् अनवगतम् इति यद्य् उच्येत, प्रमाणान्तरेण वचनेनावगतम् इति न दोषः. वेदवाक्यैश् चैषां तुल्य आदरः. तस्मात् प्रमाणम्.
SK
NOTES: *{१/५९०: E१ (Fन्.): इष्टयः}*
SK
नासन्नियमात् // MS_१,३.१२ //
SK
नैतद् एवम्, असन्नियमात्. नैतत् सम्यङ्निबन्धनम्, स्वराभावात्.
SK
अवाक्यशेषा{*१/५९१*}च् च // MS_१,३.१३ //
SK
ऋत्विजो वृणीते; वृता यजन्ति{*१/५९२*}; देवयजनम् अध्यवस्यन्तीति{*१/५९३*}. नात्र विधिर् गम्यते वर्तमानकालप्रत्ययनिर्देशात्. न चात्र वाक्यशेषः स्तावको ऽस्ति. तस्माद्{*१/५९४*} अप्रमाणम्. यश् चादर उक्तः, स नान्तरीयकत्वाद् वेदवाक्यमिश्रसमाम्नानात्. यत् तु श्रुतिर् इति नैतत्, अर्थवादत्वात्{*१/५९५*}. कथम् अर्थवादः. विध्यन्तरं ह्य् अस्ति - आग्नेयो ऽष्टाकपाल इति. अत्राचार्यो वेदो ऽभिप्रेतः, आचिनोत्य् अस्य बुद्धिम् इति. यद् वाचार्यवचनं [७३]{*१/५९६*} प्रमाणं तदपेक्षम्. कतरतत्. यत् प्रमाणगम्यम्.
SK
यच् चोक्तम् - सत्यवाचाम् एतानि वचनानीति, तन् न -
SK
NOTES: *{१/५९१: E४ (Fन्.): -शेषत्वाच् च}* *{१/५९२: Śआन्ŚS. ५.१.१}* *{१/५९३: Śआन्ŚS. १५.१४.१}* *{१/५९४: E४ (Fन्.): स्तावकस् तस्माद्}* *{१/५९५: E४ (Fन्.): श्रुतिर् इति नार्थवादत्वात्}* *{१/५९६: E२: २,१६९; E४: १,४७३; E५: २,११०; E६: १,५०}*
SK
सर्वत्र च प्रयोगात् संनिधानशास्त्राच् च // MS_१,३.१४ //
SK
आचार्यवचनं हि भवति पूर्वपक्षे - सर्वासु तिथिष्व् अमावास्येति{*१/५९७*}. संनिहितं च शास्त्रम् - पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावस्यया यजेद् इति{*१/५९८*}. तेन श्रुतिविरुद्धवचनान् न सत्यवाचः, तस्माद् अप्रमाणम्.
SK
NOTES: *{१/५९७: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/५९८: Vग्ल्. Bऔध्ŚS २८.१२, Gओ.GS १.९.१३}*
SK
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् // MS_१,३.१५ //
SK
अनुमानात् स्मृतेर् आचाराणां च प्रामाण्यम् इष्यते. येनैव हेतुना ते प्रमाणम्, तेनैव व्यवस्थिताः{*१/५९९*} प्रामाण्यम् अर्हन्ति. तस्माद् होलाकादयः{*१/६००*} प्राच्यैर् एव कर्तव्याः; आह्नीनैबुकादयो दाक्षिणात्यैर्{*१/६०१*} एव; उद्वृषभयज्ञादय उदीच्यैर् एव. यथा शिखाकल्पो व्यवतिष्ठते केचित् त्रिशिखाः, केचित् पञ्चशिखा इति.
SK
NOTES: *{१/५९९: E४ (Fन्.): हेतुव्यवस्थिता एव}* *{१/६००: E१,५,६; E२,४: होलाकादिः, E४ (Fन्.) तस्माद् होलाकादयः; तद् धोलाकादयः}* *{१/६०१: E४ (Fन्.): आह्नीनैबुका दाक्षिणात्यैर्}*
SK
अपि वा सर्वधर्मः स्यात्, तन्न्यायत्वाद् विधानस्य // MS_१,३.१६ //
SK
अपि वेति पक्षव्यावृत्तिः. एवंजातीयकः सर्वधर्मः स्यात्. कुतः. तन्न्यायत्वाद् विधानस्य. विधीयते ऽनेनेति विधानं शब्दः. सो ऽनुमीयते स्मृत्याः. न च तस्याकृतिवचनता न्याय्या. न च व्यक्तिवचनता, न सर्वेषाम् अनुष्ठातॄणां यद् एकं [७४]{*१/६०२*} सामान्यं, तस्य वाचकः कश्चित् शब्दो ऽस्ति, यो ऽनुमीयेत. तस्मात् सर्वधर्मता विधेर् न्याय्या. कुतः. पदार्थाः कर्तव्या इति प्रमाणम् अस्ति, व्यवस्थायां तु न किञ्चित् प्रमाणम् अस्ति.
SK
अथ यद् उक्तम्, यथा शिखाकल्पो व्यवतिष्ठत इति -
SK
NOTES: *{१/६०२: E२: Lüच्के; E४: १,४८६; E५: २,११३; E६: १,५०}*
SK
दर्शनाद् विनियोगः स्यात् // MS_१,३.१७ //
SK
गोत्रव्यवस्थया शिखाकल्पव्यवस्थायां दर्शनं स्पष्टम्.
SK
लिङ्गाभावाच् च नित्यस्य // MS_१,३.१८ //
SK
इदं पदेभ्यः केभ्यश्चिद् उत्तरं सूत्रम्. कानि तानि पदानि. अथ किम् अर्थं न लिङ्गाद् व्यवस्था. यथा - शुक्लो होता इति. नास्ति तन् नित्यम् एषां लिङ्गम्, यद् यथादर्शनम् अनुवर्तते. ये ऽपि श्यामा बृहन्तो लोहिताक्षाः, ते ऽपि न सर्व आर्ह्नीनैबुकादीन् कुर्वते. अनेवंलिङ्गा अपि चानुतिष्ठन्ति. तस्मान् न व्यवस्था. शुक्लो होतेति प्रत्यक्षा श्रुतिः.
SK
आख्या हि देशसंयोगात् // MS_१,३.१९ //
SK
अथ कस्मान् न समाख्यया नियमः. ये दाक्षिणात्या इति समाख्याताः, त आह्नीनैबुकादीन् करिष्यन्ति. य उदीच्या इति समाख्याताः, त उद्वृषभयज्ञादीन्. ये प्राच्या इति, ते होलाकादीन्. यथा - राजा राजसूयेनेति. नैतद् एवम्. देशसंयोगाद् आख्या भवति. दाक्षिणदेशान् निर्गतः प्राक्षु वोदक्षु वावस्थित आह्नीनैबुकादीन् करोत्य् एव. उदीच्याश् च देशान्तर उद्वृषभयज्ञादीन्{*१/६०३*}, प्राच्याश् च होलाकादीन्. अन्यदेशश् च देशान्तरगतो न नियोगतः परपदार्थान्{*१/६०४*} करोति. तस्मान् न व्यवस्था{*१/६०५*}. राजा राजसूयेनेति तु नियता जातिः.
SK
[७५]{*१/६०६*}
SK
NOTES: *{१/६०३: E४ (Fन्.): उदीच्याश् चोद्वृषभयज्ञादीन्}* *{१/६०४: E४ (Fन्.): नियोगतः पदार्थान्}* *{१/६०५: E४ (Fन्.): तस्माद् अव्यवस्था}* *{१/६०६: E२: २,१८०; E४: १, ४९७; E५: २,११६; E६: १,५१}*
SK
न स्याद् देशान्तरेष्व् इति चेत् // MS_१,३.२० //
SK
इति चेत् पश्यसि - यदि देशसंयोगाद् आख्या भवेत्, देशान्तरस्थस्य न भवेत्. भवति च देशानतरस्थस्य माथुर इत्य् असंबद्धस्यापि मथुरया. तस्मान् न देशसंयोगाद् आख्या.
SK
स्याद् योगाख्या हि माथुरवत् // MS_१,३.२१ //
SK
देशसंयोगनिमित्तायाम् अप्य् आख्यायां देशान् निर्गतस्य तदाख्या न विरुद्धा. यत एषा योगाख्या योगमात्रापेक्षा, न भूतवर्तमानभविष्यत्संबन्धापेक्षा. यतो दृश्यते - मथुराम् अभिप्रस्थितो माथुर इति, मथुरायां वसन् मथुराया निर्गतश् च. यस्य त्व् अतो ऽन्यतमः संबन्धो नास्ति, न स माथुरः. तस्मान् न समाख्यया व्यवस्था.
SK
कर्मधर्मो वा प्रवणवत् // MS_१,३.२२ //
SK
अथ कस्मान् न कर्माङ्गं देशः. यः कृष्णमृतिकाप्रायः, स आह्नीनैबुकादीनाम्. यथा - प्राचीनप्रवणे वैश्वदेवेन यजेतेति{*१/६०७*}.
SK
NOTES: *{१/६०७: Mआन्.ŚS. १.७.१.५}*
SK
तुल्यं तु कर्तृधर्मेण // MS_१,३.२३ //
SK
यथा कर्तर्य् अव्यवस्थितं लिङ्गं श्यामादि{*१/६०८*} न पदार्थैः संवादम् उपैति, तद्वद् देशलिङ्गम् अव्यवस्थितम्{*१/६०९*}. कृष्णमृतिकाप्राये ऽप्य् अन्ये न कुर्वन्ति, तथान्यलिङ्गे ऽपि कुर्वन्ति. तस्मान् न देशतो व्यवस्था. प्राचीनप्रवणं तु श्रुत्या नियतं वैश्वदेवस्य.
SK
[७६]{*१/६१०*}
SK
NOTES: *{१/६०८: E४ (Fन्.): व्यवस्थितश्यामादि}* *{१/६०९: E४: देशलिङ्गव्यवस्थितम्}* *{१/६१०: E२: २,१८२; E४: १,५०५; E५: २,११७; E६: १,५२}*
SK
प्रयोगोत्पत्त्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् // MS_१,३.२४ //
SK
गौर् गावी गोणी गोपोतलिका इत्येवमादयः{*१/६११*} शब्दा उदाहरणम्. गोशब्दो यथा सास्नादिम् इति प्रमाणम्, किं तथा गाव्यादयो ऽप्य् उत नेति संदेहः. किम् अत्रैकः शब्दो ऽविच्छिन्नपारम्पर्यो ऽर्थाभिधायी, इतरे ऽपभ्रंशाः, उत सर्वे ऽनादयः. सर्व इति ब्रूमः. कुतः. प्रत्ययात्. प्रतीयते हि गाव्यादिभ्यः सास्नादिमान् अर्थः. तस्माद् इतो वर्षशते ऽप्य् अस्यार्थस्य संबन्ध आसीद् एव, ततः परेण, ततश् च परतरेणेत्य् अनादिता. कर्ता चास्य संबन्धस्य नास्तीति व्यवस्थितम् एव. तस्मात् सर्वे साधवः, सर्वैर् भाषितव्यम्. सर्वे हि साधयन्त्य् अर्थम्. यथा - हस्तः, करः, पाणिर् इति. अर्थाय ह्य् एत उच्चार्यन्ते, नादृष्टाय. न ह्य् एषाम् उच्चारणे शास्त्रम् अस्ति. तस्मान् न व्यवतिष्ठेत कश्चिद् एक एव साधुर् इतरे ऽसाधव इति.
SK
NOTES: *{१/६११: Vग्ल्. Mअहाभाष्य, Eइन्ल्त्ग्., E१ (४थ् एद्., १९८५), Bद्.१, S.५/२१-२२}*
SK
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् // MS_१,३.२५ //
SK
महता प्रयत्नेन शब्दम् उच्चरन्ति - वायुर् नाभेर् उत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितः, मूर्धानम् आहत्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दान् अभिव्यनक्ति. तत्रापराध्येताप्य् उच्चारयिता, यथा - शुष्के पतिष्यामीति कर्दमे पतति, सकृद् उपस्प्रक्ष्यामीति द्विर् उपस्पृशति. ततो ऽपराधात् प्रवृत्ता गाव्यादयो भवेयुः, न नियोगतो ऽविच्छिन्नपारम्पर्या एवेति.
SK
[७७]{*१/६१२*}
SK
NOTES: *{१/६१२: E२: २,२१३; E४: १,५८०; E५: २,१२१; E६: १,५२}*
SK
अन्यायश् चानेकशब्दत्वम् // MS_१,३.२६ //
SK
न चैष न्यायः यत् सदृशाः शब्दा एकम् अर्थम् अभिनिविशमानाः, सर्वे ऽविछिन्नपारम्पर्या एवेति. प्रत्ययमात्रदर्शनाद् अभ्युपगम्यते, सादृश्यात् साधुशब्दे ऽप्य् अवगते प्रत्ययो ऽवकल्प्यते. तस्माद् अमीषाम् एको ऽनादिर् अन्ये ऽपभ्रंशाः. हस्तः, करः, पाणिर् इत्येवमादिषु त्व् अभियुक्तोपदेशाद् अनादिर् अमीषाम् अर्थेन संबन्ध इति.
SK
तत्र तत्त्वम् अभियोगविशेषात् स्यात् // MS_१,३.२७ //
SK
कथं पुनस् तत्र{*१/६१३*} तत्त्वं शक्यं विज्ञातुम्. शक्यम् इत्य् आह. अर्थिनो ह्य् अभियुक्ता भवन्ति. दृश्यते चाभियुक्तानां गुणयताम् अविस्मरणम् उपपन्नम्. प्रत्यक्षं चैतद् गुण्यमानं न भ्रश्यत इति. तस्माद् यम् अभियुक्ता उपदिशन्ति, एष एव साधुर् इत्य् अवगन्तव्यः{*१/६१४*}.
SK
NOTES: *{१/६१३: E४ (Fन्.): पुनर् अत्र}* *{१/६१४: E४ (Fन्.): साधुर् अवगन्तव्यः}*
SK
तदशक्तिश् चानुरूपत्वात् // MS_१,३.२८ //
SK
अथ यद् उक्तम् - अर्थो ऽवगम्यते गाव्यादिभ्यः, अत एषाम् अप्य् अनादिअर्थेन संबन्ध इति. तदशक्तिर् एषां गम्यते. गोशब्दम् उच्चारयितुकामेन केनचिद् अशक्त्या गावीत्य् उच्चारितम्. अपरेण ज्ञातं सास्नादिमान् अस्य विवक्षितः, तद् अर्थं गौर् इत्य् उच्चारयितुकामो गावीत्य् उच्चारयति. [७८]{*१/६१५*} ततः शिक्षित्वापरे ऽपि सास्नादिम् इति विवक्षिते गावीत्य् उच्चारयन्ति. तेन गाव्यादिभ्यः सास्नादिमान् अवगम्यते. अनुरूपो हि गाव्यादिगोशब्दस्य.
SK
NOTES: *{१/६१५: E२: २,२२८; E४: १,५८५; E५: २,१२४; E६: १,५३}*
SK
एकदेशत्वाच् च विभक्तिव्यत्यये स्यात् // MS_१,३.२९ //
SK
अत एव हि विभक्तिव्यत्यये ऽपि प्रत्ययो भवति. अश्मकैर् आगच्छामीत्य् अश्मकशब्दैकदेश उपलब्धे, अश्मकेभ्य इत्य् एव शब्दः स्मर्यते. ततो ऽश्मकेभ्य इत्य् एषो ऽर्थ उपलभ्यत इति. एवं गाव्यादिदर्शनाद् गोशब्दस्मरणम्, ततः सास्नादिमान् अवगम्यते.
SK
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् // MS_१,३.३० //
SK
अथ गौर् इत्येवमादयः शब्दाः किम् आकृतेः प्रमाणम् उत व्यक्तेर् इति संदेहः. उच्यते. इदं तावत् परीक्ष्यताम् - किं य एव लौकिकाः शब्दाः, त एव वैदिका उतान्य इति. यदा त एव, तदापि किं त एवैषाम् अर्थाः, ये लोके, उतान्य इति संशयः. तत्रान्ये लौकिकाः शब्दाः, अन्ये वैदिका अन्ये चैषाम् अर्था इति ब्रूमः. कुतः. व्यपदेशभेदाद् रूपभेदाच् च. इमे लौकिकाः, इमे वैदिका इति व्यपदेशभेदः. अग्निर् वृत्राणि जङ्घनद् इत्य्{*१/६१६*} अन्यद् इदं रूपं लौकिकाद् अग्निशब्दात्. शब्दान्यत्वाच् च न त एवार्थाः. अपि च समामनन्ति - उत्ताना वै देवगवा वहन्तीति{*१/६१७*}. ये देवानां गावः, त उत्ताना वहन्तीत्य् उक्ते गम्यत एव - य उत्ताना वहन्ति, ते गोशब्देनोच्यन्त [७९]{*१/६१८*}इति. तस्माद् अन्यो वैदिकगोशब्दस्यार्थः. तथा - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम् इति{*१/६१९*}, हिरण्यपर्णो वै देवो{*१/६२०*} वनस्पतिर् वेदे. एतद् वै दैव्यं मधु, यद् घृतम् इति{*१/६२१*} वेद घृते मधुशब्दः. तस्माद् अमीषाम् अन्ये ऽर्था इति प्राप्ते ब्रूमः - य एव लौकिकाः शब्दाः, त एव वैदिकाः, त एवैषाम् अर्था इति. कुतः. प्रयोगचोदनाभावात्. एवं प्रयोगचोदना संभवति, यदि त एव शब्दाः, त एवार्थाः. इतरथा शब्दान्यत्वे ऽर्थो न प्रतीयेत. तस्माद् एकशब्दत्वम् इति. उच्यते प्रयोजनम् इदम्, हेतुर् व्यपदिश्यताम् इति. ततो हेतुर् उच्यते - अविभागाद् इति. न तेषाम् एषां च विभागम् उपलभामहे. अत एवैकशब्दत्वम्. तांश् च तांश् चार्थान् अवगच्छामः. अतो नान्यत्वं च वदामः. यच् चोक्तम् - य उत्ताना वदन्ति, ते देवगावाः; यद् घृतम्, तन् मधु; यो हिरण्य-पर्णः, स वनस्पतिर् इति. नास्ति वचनं यद् उत्तानानां वहतां गोत्वं ब्रूयात्. ये गावः, त उत्ताना वहन्तीत्य् एवं तत्. यदि चानेन वचनेन गोत्वं विधीयते, उत्ताना वहन्तीत्य् अनुवादः स्यात्. न चोत्ताना वहन्तः प्रसिद्धाः केचित्. ते नियोगतो विधातव्याः, तेषु विधीयमानेषु न शक्यं गोत्वं विधातुम्. भिद्यते हि तथा वाक्यम्. यदि चान्ये वैदिकाः, तत उत्तानादीनाम् अर्थो न गम्येत. तत्र नतरां शक्येताविज्ञातलक्षणं गोत्वं विज्ञातुम्. न चोत्तानवहनवचनम् अप्य् अनर्थकम्, स्तुत्यर्थेनार्थवद् भविष्यतीति. एवं घृतस्य मधुत्वम्, हिरण्यपर्णता च वनस्पतेः. तस्मात् त एव शब्दा अर्थाश् च. यदि लौकिकास् त एवार्थाः, तदा संदेहः - किम् आकृतिः शब्दार्थो ऽथ व्यक्तिर् इति. का पुनर् आकृतिः, का व्यक्तिर् इति. द्रव्यगुणकर्मणां सामान्यमात्रम् आकृतिः, असाधारणविशेषा [८०]{*१/६२२*} व्यक्तिः. कुतः संशयः? गौर् इत्य् उक्ते सामान्यप्रत्ययाद्, व्यक्तौ च क्रियासंबन्धात्. तद् उच्यते - व्यक्तिः शब्दार्थ इति. कुतः? प्रयोगचोदनाभावात्. आलम्भनप्रोक्षणविशसनादीनां प्रयोगचोदना आकृत्यर्थे न संभवेयुः. यत्रोच्चारणानर्थक्यम्, तत्र व्यक्त्यर्थः. अतो ऽन्यत्राकृतिवचन इति चेत्. उक्तम्{*१/६२३*} - अन्यायश् चानेकार्थत्वम् इति. कथं सामान्यावगतिर् इति चेत्. व्यक्तिपदार्थस्याकृतिश् चिह्नभूता भविष्यति, य एवम् आकृतिकः, स गौर् इति. यथा यस्य दण्डो ऽस्ति, स दण्डीति, न च दण्डवचनो दण्डिशब्दः. एवम् इहापि.
SK
NOTES: *{१/६१६: ṚV ६.१६.३४अ}* *{१/६१७: Āप्ŚS. ११.७.६}* *{१/६१८: E२: २,२३१; E४: १,६१८; E५: २,१४८; E६: १,५४}* *{१/६१९: Tऐत्.Bर्. ३.६.११.२}* *{१/६२०: E४: हिरण्यपर्णो वै देवो; E२: हिरण्यपर्णो वै देववनस्पतिर्; E४ (Fन्.): हिरण्यपर्णो देववनस्पतिः; E५,६: हिरण्यपर्णो देवो}* *{१/६२१: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/६२२: E२: २,२३७; E४: १,६१९; E५: २,१५३; E६: १,५४}* *{१/६२३: MS १.३.२६}*
SK
द्रव्यशब्दात् // MS_१,३.३१ //
SK
द्रव्याश्रयस्य शब्दो द्रव्यशब्दः, न तत्र द्रव्याश्रयवचनः शब्दो भवेत्, यद्य् आकृतिः शब्दार्थो भवेत्. षड् देया द्वादश देया{*१/६२४*} चतुर्विंशतिर् देया इति. न ह्य् आकृतिः षडादिभिः संख्याभिर् युज्यते. तस्मान् नाकृतिवचनः.
SK
NOTES: *{१/६२४: E२,४,६ (रिछ्तिग्): देयाश्; E५: देयाः}*
SK
अन्यदर्शनाच् च // MS_१,३.३२ //
SK
यदि पशुर् उपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसम् आलभेत इति{*१/६२५*}. यद्य् आकृतिवचनः शब्दो भवेत्, अन्यस्यालम्भो नोपपद्यते. अन्यस्वापि पशुद्रव्यस्य सैवाकृतिः. तस्माद् व्यक्तिवचन इति.
SK
NOTES: *{१/६२५: Kआत्.ŚS. २५.९.१}*
SK
आकृतिस् तु क्रियार्थत्वात् // MS_१,३.३३ //
SK
तुशब्दः पक्षं व्यावर्तयति. आकृति शब्दार्थः. कुतः? क्रियार्थत्वात्. श्येनचितं चिन्वीत इति{*१/६२६*} वचनम् आकृतौ संभवति, यद्य् आकृत्यर्थः श्येनशब्दः. व्यक्तिवचने तु न चयनेन श्येनव्यक्ति[८१]{*१/६२७*}र् उत्पादयितुं शक्यत इत्य् अशक्यार्थवचनाद् अनर्थकः. तस्माद् आकृतिवचनः. ननु श्येनव्यक्तिभिश् चयनम् अनुष्ठास्यते. न साधकतमः श्येनशब्दार्थः, ईप्सिततमो ह्य् असौ श्येनशब्देन निर्दिश्यते. अतश् चयनेन श्येनो निवर्तयितव्यः, स आकृतिवचनत्वे ऽवकल्प्यते. ननूभयत्र क्रियाया असंभव एव व्यपदिश्यते. नाकृतिः शब्दार्थः. कुतः. क्रिया न संभवेद् आकृतौ शब्दार्थे, व्रीहीन् प्रोक्षतीति{*१/६२८*}. तथा न व्यक्तिः शब्दार्थः, क्रियैव न संभवेद् व्यक्तेः शब्दार्थत्वे{*१/६२९*}, श्येनचितं चिन्वीत इति. यद् अप्य् उच्यते - व्रीहीन् प्रोक्षतीति व्यक्तिलक्षणार्थाकृतिर् इति, शक्यम् अन्यत्रापि श्येनचितं चिन्वीत इति वदितुम् आकृतिलक्षणार्था व्यक्तिर् इति. किं पुनर् अत्र ज्यायः. आकृतिः शब्दार्थ इति. यदि व्यक्तिः शब्दार्थो भवेत्, व्यक्त्यन्तरे न प्रयुज्येत. अथ व्यक्त्यन्तरे प्रयुज्यते, न तर्हि व्यक्तिः शब्दार्थः, सर्वसामान्यविशेषविनिर्मुक्ता हि व्यक्तिर् इत्य्. उच्यते - नैष दोषः. व्यक्त्यन्तरे सर्वसामान्यविशेषविनिर्मुक्त एव प्रवर्तिष्यते. यदि व्यक्त्यन्तरे सर्वसामान्यविशेषवियुक्ते प्रवर्तिष्यते, सामान्यम् एव तर्हि तत्. नेत्य् उच्यते - यो ह्य् अर्थः सामान्यस्य विशेषाणां चाश्रयः, सा व्यक्तिः. व्यक्तिवचनश् च शब्दो न सामान्ये, न विशेषे वर्तते. तेषां त्व् आश्रयम् एवाभिदधाति, तेन व्यक्त्यन्तरे वृत्तिर् अदोषः. न हि तत् सामान्यम्. यदि व्यक्त्यन्तरेष्व् अपि भवति, सर्वसामान्यविशेषवियुक्तायाम् अश्वव्यक्तौ गोशब्दः किम् इति न वर्तते. आह - येष्व् एव प्रयोगो दृष्टः, तेषु वर्तिष्यते, न सर्वत्र. न चाश्वव्यक्तौ गोशब्दस्य प्रयोगो दृष्टः. तस्मात् तत्र न वर्तिष्यते. यदि यत्र [८२]{*१/६३०*} प्रयोगो दृष्टः, तत्र वृत्तिः, अद्यजातायां गवि प्रथमप्रयोगो न प्राप्नोति तत्रादृष्टत्वात्. सामान्यप्रत्ययश् च न प्राप्नोति, इयम् अपि गौर् इति, इयम् अपि गौर् इति; इयं वा गौर् इति, इयं वा गौर् इति स्यात्. भवति तु सामान्यप्रत्ययो ऽदृष्टपूर्वायाम् अपि गोव्यक्तौ. तस्मान् न प्रयोगापेक्षो गोशब्दो व्यक्तिवचन इति शक्यत आश्रयितुम्. एवं तर्हि शक्तेः स्वभाव एषः, यत् कस्यांचित् व्यक्तौ वर्तते, कस्यांचिन् न. यथा - अग्निर् उष्णः, उदकं शीतम्, एवम् एतद् भविष्यतीति. नैवं सिध्यति. न ह्य् एतद् गम्यते कस्यांचिद् व्यक्तौ वर्तते, कस्यांचिन् नेति. सत्यम् एतत्, गोत्वं लक्षणं भविष्यतीति. यत्र गोत्वं तस्यां व्यक्ताव् इति. एवं तर्हि विशिष्टा व्यक्तिः प्रतीयेत. यदि च विशिष्टा, पूर्वतरं विशेषणम् अवगम्येत. न ह्य् अप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुम् अर्हन्तीति. अस्तु, विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिम्. न ह्य् आकृतिपदार्थकस्य व्यक्तिर् न पदार्थः, व्यक्तिपदार्थकस्य वा नाकृतिः. उभयम् उभयस्य पदार्थः. कस्यचित् किंचित् प्राधान्येन विवक्षितं भवति, तेनात्राकृतिर् गुणभावेन, व्यक्तिः प्रधानभावेन विवक्ष्यत इति. नैतद् एवम्. उभयोर् उच्यमानयोर् गुणप्रधानभावः स्यात्. यदि चात्राकृतिः प्रतीयते शब्देन, तदा व्यक्तिर् अपि पदार्थ इति न शक्यते वदितुम्. कुतः. आकृतिर् हि व्यक्त्या नित्यसंबद्धा, संबन्धिन्यां च तस्याम् अवगतायां संबन्ध्यन्तरम् अवगम्यते. तद् एतद् आत्मप्रत्यक्षम्, यच् छब्द उच्चरिते व्यक्तिः प्रतीयत इति. किं शब्दाद् उताकृतेर् इति विभागो न प्रत्यक्षः. सो ऽन्वयव्यतिरेकाभ्याम् अवगम्यते. अन्तरेणापि शब्दम्, य आकृतिम् अवबुध्येत, अवबुध्येतेवासौ{*१/६३१*} व्यक्तिम्. यस् तूच्चरिते ऽपि शब्दे मानसाद् अपचारात् कदाचिद् आकृतिं नोपलभेत, न जातुचिद् असाव् इमां व्यक्तिम् अवगच्छेत. ननु व्यक्तिविशिष्टायाम् आकृतौ वर्तते. [८३] व्यक्तिविशिष्टायां चेद् वर्तेत, व्यक्त्यन्तरविशिष्टा न प्रतीयेत. तस्माच् छब्द आकृतिप्रत्ययस्य निमित्तम्. आकृतिप्रत्ययो व्यक्तिप्रत्ययस्येति. ननु गुणभूता प्रतीयत इत्य् उक्तम्. न गुणभावो ऽस्मत्पक्षस्य बाधकः. सर्वथा तावत् प्रतीयते. अर्थाद् गुणभावः प्रधानभावो वा. स्वार्थं चेद् उच्चार्यते, प्रधानभूता. अथ न स्वार्थम्, परार्थम् एव, ततो गुणभूता. न तत्र शब्दव्यापारो ऽस्ति. ननु च दण्डीति, न तावद् दण्डिशब्देन दण्डो ऽभिधीयते, अथ च दण्डविशिष्टो ऽवगम्यते. एवम् इहापि न तावद् आकृतिर् अभिधीयते, अथ चाकृतिविशिष्टा व्यक्तिर् गम्येतेति. नैतत् साधु उच्यते. सत्यं दण्डिशब्देन दण्डो नाभिधीयते. न त्व् अप्रतीते दण्डे दण्डिप्रत्ययो ऽस्ति. अस्ति तु दण्डिशब्दैकदेशभूतो दण्डशब्दः, येन दण्डः प्रत्यायितः. तस्मात् साध्व् एतद्, यत् - प्रतीते विशेषणे विशिष्टः प्रतीयत इति. ननु{*१/६३२*} गोशब्दावयवः कश्चिद् आकृतेः प्रत्यायकः, अन्यो व्यक्तेः, यत उच्यते तत आकृतिर् अवगता, न गोशब्द आकृतिवचन इति. न च यथा दण्डिशब्दो न दण्डे प्रयुक्तः, एवं गोशब्दो नाकृतौ. तदर्थम् एव निदर्शितं केवलाकृत्यभिधानः श्येनशब्द इति. तद् एवम् अन्वयव्यतिरेकाभ्याम् असति श्येनव्यक्तिसंबन्धे श्येनशब्दोच्चारणाद् आकृतिवचन इति गम्यते. न तु व्रीह्याकृतिसंबन्धम् अन्तरेण व्रीहिव्यक्तौ शब्दस्य प्रयोगो दृष्टः. तस्माद् आकृतिवचनः शब्द इत्य् एतज् ज्यायः.
SK
NOTES: *{१/६२६: Tऐत्.S. ५.४.११}* *{१/६२७: E२: २,२४६; E४: १,६६४; E५: २,१६०; E६: १,५५}* *{१/६२८: Tऐत्.S. ३.२.५.४}* *{१/६२९: E४ (Fन्.): व्यक्तौ शब्दार्थे}* *{१/६३०: E२: २,२४७; E४: २,६६५; E५: २,१६३; E६: १,५६}* *{१/६३१: E२/४ (रिछ्तिग्): अवबुध्येतैवासौ}* *{१/६३२: E१,६; E२,४,५ (बेस्सेर्): न तु}*
SK
न क्रिया स्याद् इति चेद् अर्थान्तरे विधानं न द्रव्यम् इति चेत् // MS_१,३.३४ //
SK
अथ यद् उक्तम् - न क्रिया संभवेद् व्रीहिन् प्रोक्षतीति. [८४]{*१/६३३*} न द्रव्यशब्दः स्यात्, षड् देया इति अन्यदर्शनवचनं च न स्यात्, अन्यं{*१/६३४*} तद्रूपम् इति. तत् परिहर्तव्यम्.
SK
NOTES: *{१/६३३: E२: २,२६६; E४: १,७१५; E५: २,१७४; E६: १,५७}* *{१/६३४: E४ (Fन्.): अथान्यं}*
SK
तदर्थत्वात् प्रयोगस्याविभागः // MS_१,३.३५ //
SK
आकृत्यर्थत्वाच् छब्दस्य, यस्या व्यक्तेर् आकृत्या संबन्धः, तत्र प्रयोगः, प्रोक्षणं हि द्रव्यस्य कर्तव्यतया श्रूयते. कतमस्य. यद् यजति साधनम्. अपूर्वप्रयुक्तत्वात् तस्य नाकृतेः, अशक्यत्वात्. तत्र व्रीहिशब्द आकृतिवचनः प्रयुज्यते प्रोक्षणाश्रयविशेषणाय. स ह्य् आकृतिं प्रत्याययिष्यति, आकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेक्ष्यतीति. तेनाकृतिवचनं न विरुध्यत इति. एवं षड् देया गावो दक्षिणा इति दक्षिणाद्रव्ये संख्यायाः प्रयोक्तव्ये गाव इत्य् आकृतिवचनो विशेषकः. तथा - अन्यम् इति विनष्टस्य प्रतिनिधेर् अन्यत्वसंबन्धः. तत्र पशुशब्द आकृतिवचन आकृत्या विशेक्ष्यतीति. तस्माद् गौर् अश्व इत्येवमादयः शब्दा आकृतेर् अभिधायका इति सिद्धम्.
SK
[८५]{*१/६३५*}
SK
NOTES: *{१/६३५: E२: २,२६८; E४: २,१; E५: २,१८०; E६: १,५८}*
SK
उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् // MS_१,४.१ //
SK
उद्भिदा यजेत{*१/६३६*}; बलभिदा यजेत{*१/६३७*}; अभिजिता यजेत{*१/६३८*}; विश्वजिता यजेतेति{*१/६३९*} समामनन्ति{*१/६४०*}. तत्र संदेहः - किम् उद्भिदादयो गुणविधयः, आहोस्वित् कर्मनामधेयानीति. कुतः संशयः? उभयथापि प्रतिभातो वाक्यात् - उद्भिदेत्य् एष शब्दो यजेतेत्य् अनेन संबध्यते. स किं वैयधिकरण्येन संबन्धम् उपैति{*१/६४१*} - उद्भिदा द्रव्येण यागम् अभिनिर्वर्तयेद् इति, उत सामानाधिकरण्येन - उद्भिदा यागेन यजेतेति. द्वेधाप्य् एतस्मिन् प्रतिभाति वाक्ये, संभवति संशयः. किं तावत् प्राप्तम्? उक्तम् अस्माभिः समाम्नायस्यैदम् अर्थ्यम्. कश्चिद् अस्य भागो विधिः, यो ऽविदितम् अर्थं वेदयति, यथा - सोमेन यजेतेति. कश्चिद् अर्थवादः, यः प्ररोचयन् विधिं स्तौति, यथा - वायुर् वै क्षेपिष्ठा देवता इति{*१/६४२*}. कश्चिन् मन्त्रः, यो विहितम् अर्थं प्रयोगकाले प्रकाशयति, यथा - बर्हिर् देवसदनं दामीत्येवमादिः{*१/६४३*}. तस्माद् उद्भिदादयो ऽमीषां प्रयोजनानाम् अन्यतमाय प्रयोजनाय भवेयुः. तत्र तावन् नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य. न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्याभावात्. पारिशेष्याद् गुणविधिः - उद्भिद्गुणता यागस्य विधीयते. कुतः. प्रसिद्धेर् अनुग्रहात्, गुणविधेर् अर्थवत्त्वात् प्रवृत्तिविशेषकरत्वाच् च. न चैषां यागार्थता लोके ऽवगम्यते. न च वेदेन परिभाष्यते. अतो गुणविधयः. यदि गुणविधिः, न तर्हि कर्म विधीयते. अविहिते च कर्मणि तत्र गुणविधान[८६]{*१/६४४*}म् अनर्थकम्. नेति ब्रूमः. प्रकृतौ ज्योतिष्टोमे गुणविधानम् अर्थवद् भविष्यति. यदि नामधेयं स्याद्, यावद् एव यजेतेति, तावद् एव उद्भिदा यजेतेति, न प्रवृत्तौ कश्चिद् गुणविशेषः स्यात्. गुणविधौ च गुणसंयोगाद् अभ्यधिकम् अर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति. तस्माद् गुणविधय इत्य् एवं प्राप्तम्.
SK
एवं प्राप्ते ब्रूमः -
SK
NOTES: *{१/६३६: Tआ.Bर्. १९.७.२}* *{१/६३७: Tआ.Bर्. १९.७.१}* *{१/६३८: Tआ.Bर्. १९.८.४}* *{१/६३९: Tआ.Bर्. १९.८.४}* *{१/६४०: E४ (Fन्.): समाम्नातं}* *{१/६४१: E४ (Fन्.): संबद्धुम् अर्हति}* *{१/६४२: Tऐत्.S. २.१.१.१}* *{१/६४३: Mऐत्.S. १.१.२.१}* *{१/६४४: E२: २,२७१; E४: २,२; E५: २,१८८; E६: १,५९}*
SK
अपि वा नामधेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वात् // MS_१,४.२ //
SK
अपि वेति पक्षो विपरिवर्तते. नामधेयं स्याद् इति प्रतिजानीमहे एवम् अविहितम् अर्थं विधास्यति - ज्योतिष्टोमाद् यागान्तरम्. श्रुतिश् चैवं यागम् अभिधास्यति. इतरथा श्रुतिर् उद्भिदादीन् वक्ष्यन्ती उद्भिदादिमतो लक्षयेत्. उद्भिद्वता यागेन कुर्याद् इति. यागेन कुर्याद् इति यजेतेत्य् अस्यार्थः. करणं हि यागः, उद्भिदाद्य् अपि तृतीयानिर्देशात् करणम्, तत्रोद्भिदा यागेनेति कर्मनामधेयत्वेन सामानाधिकरण्यसामञ्जस्यम्. द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्. श्रुतिलक्षणाविशये च श्रुतिर् ज्यायसी. तस्मात् कर्मनामधेयम्. ननु प्रसिद्धं द्रव्यवचनत्वम् अपह्नूयेत, अप्रसिद्धं कर्मवचनत्वं प्रतिज्ञायेत. उच्यते - तृतीयानिर्देशात् कर्मवचनता. कुतः? करणवाचिनो हि प्रातिपादिकात् तृतीया भवति, करणं च यागः. तेन यागवचनम् इमम् अनुमास्यामहे. नैतद् युक्तम्. यदि तृतीयानिर्देशे सत्य् उद्भिदादिभ्यः शब्देभ्यो यागे बुद्धिर् उत्पद्येत स्याद् एतद् एवम्. न हि नो बुद्धिर् उत्पद्यते, तस्माद् अयुक्तम्. तृतीयावचनम् अन्यथा नोपपद्यत इति चेत्. कामं नोपपादि{*१/६४५*}, न जातुचिद् अनवगम्यमाने [८७]{*१/६४६*} ऽपि यागवचनो भविष्यति, तस्माद् गुणविधयः. लक्षणेति चेत्. वरं लक्षणा कल्पिता, न यागाभिधानम्. लौकिकी हि लक्षणा, हठो ऽप्रसिद्धकल्पनेति. अपि च - यदि नामधेयं विधीयते, न यागः. अथ यागः, न नामधेयम्. उभयविधाने वाक्यभेद इति. उच्यते - न नामधेयं विधायिष्यते. अनुवादा ह्य् उद्भिदादयः. कुतः प्राप्तिर् इति चेत्. ततो ऽभिधीयते - उच्छब्दसामर्थ्याद् भिच्छब्दसामर्थ्याच् चोद्भिच्छब्दः क्रियावचनः - उद्भेदनं प्रकाशनं पशूनाम् अनेन क्रियत इत्य् उद्भिद् यागः. एवम् आभिमुख्येन जयाद् अभिजित्, विश्वजयाद् विश्वजित्. एवं सर्वत्र. अतः कर्मनामधेयम्. यत् त्व् अप्रवृत्तिविशेषकरो ऽनर्थक इति, नामधेयम् अपि गुणफलोपबन्धेनार्थवत्. तस्मात् कर्मनामधेयान्य् एवंजातीयकानीति सिद्धम्.
SK
NOTES: *{१/६४५: E२,४,५,६: मोपपादि}* *{१/६४६: E२: २,२७४; E४: २,२१; E५: २,१९२; E६: १,५९}*
SK
यस्मिन् गुणोपदेशः प्रधानतो ऽभिसंबन्धः // MS_१,४.३ //
SK
चित्रया यजेत पशुकामः{*१/६४७*}; त्रिवृद् बहिष् पवमानम्{*१/६४८*}; पञ्चदशान्य् आज्यानि{*१/६४९*}; सप्तदशपृष्ठानीत्य्{*१/६५०*}{*१/६५१*} उदाहरणम्. किं चित्राशब्दः, पवमानशब्दः, आज्यशब्दः पृष्ठशब्दश् च गुणविधय उत कर्मनामधेयानीति संशयः. प्रसिद्धेः, अर्थवत्त्वात् प्रवृत्तिविशेषकरत्वाच् च गुणविधयः. न चैते कर्माणि प्रसिद्धाः. न चामी यौगिकाः. जातिशब्दा ह्य् एते, चित्रेति च गुणशब्दः. चित्रया यजेति च यागानुवादः, विज्ञातत्वान् न यागविधिः. गुणे फलकल्पनायां यजतेर् न विवक्षा. तथाज्यानि भवन्ति, पृष्ठानि भवन्तीति च. गुणविधिकल्पनायाम् अपि न लक्षणा. तस्माद् गुणविधय इत्य् एवं प्राप्तम्. [८८]{*१/६५२*} एवं प्राप्ते ब्रूमः - यस्मिन् गुणविधिर् नामधेयम् इति संदिग्धे गुणो ऽपर उपदिश्यते, प्रधानेन कर्मणा तस्य संबन्धः, कर्मनामधेयम् इत्य् अर्थः. गुणविधौ हि सति वाक्यं भिद्येत. पुंपशौ{*१/६५३*} प्राप्ते स्त्रीपशुः, पशवः फलम्, चित्रो गुण इति न शक्यम् एकेन वाक्येन विधातुम्. चित्रो गुणो विधीयमानः स्त्रियां विधीयेत, नासाव् अग्नीषोमीये पशुकामे च विधीयेत, सो ऽपि नाग्नीषोमीये. तथा पञ्चदशान्य् आज्यानि भवन्तीत्य् आज्येषु पञ्चदशता. न चाविहितानि स्तोत्रेष्व् आज्यानि भवन्ति, न चान्यद् विधायकं वाक्यम्, तच् चैतद् आज्यानि विदध्याद् विहितेषु च पञ्चदशताम्. गम्यते च पञ्चदशताया आज्यानां च संबन्धः. स्तोत्रसंबन्धश् चाज्यानाम् अविज्ञातः पञ्चदशतासंबन्धश् च. द्वाव् एताव् अर्थाव् एकवाक्यस्याशक्यौ विधातुम्. अथ नु{*१/६५४*} कर्मनामधेयम्, नैष विरोधो भवति. केवलं संख्यासंबन्धस् तदानीं विधीयते. अपि च, आज्यानि स्तोत्राणीत्य् अनेन शब्देन लक्षणयैव गुणो विधीयेत. अतः कर्मणां नामधेयानि वाक्यान्तरैर् आज्यैः स्तुवते, पृष्ठैः स्तुवते इत्येवमादिभिर् विहितानाम्. यत् त्व् अप्रसिद्धं कर्मणां नामधेयम् इति{*१/६५५*}. अवयवप्रसिद्ध्या{*१/६५६*}, आजिगमनाद् आज्यानि. कथम् आजिगमनम् इति. अर्थवादवचनात्. यद् आजिमीयुस् तद् आज्यानाम् आज्यत्वम् इति. स्पर्शवचनात् पृष्ठानि. पवमानार्थमन्त्रकत्वाद् बहिःसंबन्धाच् च बहिष्पवमानम्. दधि मधु पयो घृतं धानास् तण्डुला उदकम् इति{*१/६५७*} नानाविधद्रव्यत्वाच्{*१/६५८*} चित्रा. तस्माद् एवंजातीयकानि कर्मनामधेयानीति. अथ कस्मान् न पञ्चदशसंख्याविशिष्टान्य् आज्यानि स्तोत्रकर्मसु विधीयन्ते. विशिष्टानां वाचकस्य शब्दस्याभावात्. ननु पदद्वयम् इदं वाचकं भविष्यति, पञ्चदशान्य् आज्यानि [८९]{*१/६५९*} इति विशिष्टानाम्, तद् एतेषु स्तोत्रेषु विधास्यति. नैतत् पदद्वयम् अपि विधायकम्. एकम् अत्र विधायकम्, एकम् उद्देशकम्. उभयस्मिन् विधायके परस्परेण संबन्धो न स्यात्. अविधायके स्तोत्रसंबन्धो न विधीयते. न चात्रैकं पदं विशेषणं प्रत्य् उद्देशकम्, स्तोत्रं प्रति विधायकं भवितुम् अर्हति. वचनव्यक्तिभेदाद् अतो ऽयम् असमाधिः.
SK
NOTES: *{१/६४७: Tऐत्.S. २.४.६.१}* *{१/६४८: Tआ.Bर्. १९.११.२}* *{१/६४९: Tआ.Bर्. १९.११.२}* *{१/६५०: Tआ.Bर्. १९.१.२}* *{१/६५१: E२,४ (रिछ्तिग्): सप्तदशानि पृष्ठानीति, E५,६: सप्तदश पृष्ठानि}* *{१/६५२: E२: २,२८०; E४: २,३७; E५: २,१९९; E६: १,६०}* *{१/६५३: E४ (Fन्.): पुंस्पशौ}* *{१/६५४: E४ (Fन्.): तु}* *{१/६५५: E४ (व्.ल्.): नामेति}* *{१/६५६: E४ (व्.ल्.): प्रसिद्ध्याप्रसिद्धं}* *{१/६५७: E२,४,५,६ (बेस्सेर्): उदकं तत्संसृष्टं प्राजापत्यम् इति, दिएसे Lएसर्त् हत् E१ औछ् अल्स् Fन्}* *{१/६५८: E४ (व्.ल्.): -द्रव्यवत्त्वाच्}* *{१/६५९: E२: २,२८४; E४: २,३८; E५: २,२०९; E६: १,६१}*
SK
तत्प्रख्यं चान्यशास्त्रम् // MS_१,४.४ //
SK
अग्निहोत्रं जुहोति स्वर्गकाम इति{*१/६६०*}; आघारम् आघारयतीति{*१/६६१*} च समामनन्ति. तत्र संशयः -किम् अग्निहोत्रशब्द आधारशब्दश् च गुणविधी, उत कर्मनामधेय इति. गुणविधी इति ब्रूमः. कुतः? गम्यते हि अग्नये होत्रम् अस्मिन्न् इति. तथा क्षरणसमर्थं द्रव्यं घृतादि, आघारम् आघारयतीति. प्रसिद्धिर् एवम् अनुग्रहीष्यते. गुणविधिश् च दर्विहोमे, आघारश् चोपांशुयाजे. तत्रैतयोर् अर्थवत्ता प्रवृत्तिविशेषकरत्वं च. न च गुणविधिपक्षे लक्षणा भवति यथोद्भिदा यजेत इति. अग्निहोत्रे समासेनावगतं गुणविधानम्. आघारे ऽपि आघारं निर्वर्तयतीति श्रुत्यैव गुणो विधीयते. तस्माद् गुणविधीत्य् एवं प्राप्ते. ब्रूमह् - तत्प्रख्यं चान्यशास्त्रम्. यौ गुणाव् एताभ्यां विधीयेत इत्य् आशङ्क्यते, ताव् अन्यत एवावगतौ. यद् अग्नये च प्रजापतये च सायं जुहोतीति{*१/६६२*} देवताविधानम्. चतुर्गृहीतं वा एतद् अभूत् तस्याधारम् आधार्या इत्य्{*१/६६३*} आधारे च द्रव्यविधिः. अविदितवेदनं च विधिर् इत्य् उच्यते. विदितं चात्रान्यतो गुणविधानम्. तस्मान् न गुणविधी. कर्मनामधेये तु संभवतः. यस्मिन्न् अग्नये होत्रं [९०]{*१/६६४*} होमो भवति, तद् अग्निहोत्रम्. दीर्घधारा क्षरणक्रिया प्रसिद्ध एवाघारः. तस्मात् कर्मनामधेये. प्रसिद्ध्यादयश् चोक्तोत्तराः. प्रजापतिनिवृत्त्यर्थम् अग्निविधानं भविष्यतीति चेन्. नैतद् एवम्. अग्निं ह्य् एष विधातुं शक्नोति, न पर्जापतिं प्रतिषेद्धुं. प्रतिषिध्यमानस्य च प्रजापतेर् विधानम् अनर्थकं स्यात्, प्रजापतिर् देवतेति गम्यते. गम्यमानं च न शक्यं मिथ्येति कल्पयितुम्. अतो ऽयम् असमाधिः. उच्यते - आघारम् आघारयतीति द्रव्यपरा चोदना. यैस् तु द्रव्यं चिकीर्ष्यत इति{*१/६६५*}, द्रव्यं ह्य् अनया क्रियया क्षार्यते. क्षारितं च यागं साधयति. तत् कस्य प्रधानस्य कर्मणो नामधेयम् इति. उच्यते - एतद् एवाघारणं प्रधानकर्म. नन्व् अस्य द्रव्यदेवतण् नास्ति. अस्तीति ब्रूमः. तस्याघारम् आघार्येत्य् आज्यं द्रव्यम्; मान्त्रवर्णिकी देवता - इन्द्र ऊर्ध्वोद्धर इत्य् आघारम् आघारयतीति{*१/६६६*} मन्त्रो ह्य् अभिदधत् कर्म, तत्साधनं वा कर्मणि समवैति. एष च मन्त्र इन्द्रम् अभिधातुं शक्नोति. स यदीन्द्रस् तत्साधनं भवेत्, एवम् अनेन मन्त्रेणाघारः शक्यते कर्तुम्. तस्माद् इन्द्रो देवता, द्रव्यदेवतासंयुक्तम् आघारणम्. तस्माद् यजतिः, तस्य यजतेर् नामधेयम् इति.
SK
NOTES: *{१/६६०: Tऐत्.S. १.५.९}* *{१/६६१: Tऐत्.S. ६.३.७.३., Tऐत्. Bर्. ३.३.७}* *{१/६६२: Vग्ल्. Mऐत्.S. १.८.७}* *{१/६६३: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/६६४: E२: २,२८६; E४: २,६६; E५: २,२१४; E६: १,६१}* *{१/६६५: MS २.१.८}* *{१/६६६: ŚPBर्. १.५.१.४, Tऐत्.Bर्. ३.३.७.७, Mअन्त्र: Mआध्य्.S. २.८, Tऐत्.S. १.१.१२}*
SK
तद्व्यपदेशं च // MS_१,४.५ //
SK
अथैष श्येनेनाभिचरन् यजेत{*१/६६७*}; अथैष संदंशेनाभिचरन् यजेत{*१/६६८*}; अथैष गवाभिचरन् यजेतेति{*१/६६९*} समाम्नायन्ते. तत्र गुणविधिः कर्मनामधेयम् इति संदेहः. प्रसिद्ध्यादिभिः पूर्वपक्षः, उद्भिदादीनाम् इव. ते तूद्भिदादयः क्रियानिमित्ताः शक्नुवन्ति यागं वदितुम्. इमे पुनर् जातिनिमित्ता न शक्नुवन्ति, [९१]{*१/६७०*} तेन गुणविधय इत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - तद्व्यपदेशं च. तेन श्येनादीना प्रसिद्धेन यस्य व्यपदेशः, तच् च कर्मनामधेयम्. श्रुतिर् हि नामधेयत्वे, लक्षणा गुणविधौ. यत् तु जातिशब्दाः, इमे न यागम् अभिवदन्तीति. सादृश्यव्यपदेशाद् अभिवदिष्यन्ति. एवं हि व्यपदेशो भवति - यथा वै श्येनो निपत्यादत्ते, एवम् अयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते, यम् अभिचरन्ति श्येनेनेति{*१/६७१*}. निपत्यादत्त इत्य् अनेन सादृश्येन श्येनशब्दो यागे, यथा सिंहो देवदत्त इति. तस्मात् कर्मनामधेयम्. संदंशे, संदंशेन यथा दुरादानम् आदत्त इति. गवि यथा गावो गोपायन्तीति. तस्मात् संदंशशब्दो ऽपि कर्मनामधेयं गोशब्दो ऽपि.
SK
NOTES: *{१/६६७: Cf. Ṣअड्.Bर्. ३.८.१}* *{१/६६८: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/६६९: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/६७०: E२: २,२८९; E४: २,८३; E५: २,२१९; E६: १,६२}* *{१/६७१: Ṣअड्.Bर्. ३.८.३}*
SK
नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् // MS_१,४.६ //
SK
वाजपेयेन स्वाराज्यकामो यजेतेति{*१/६७२*} श्रूयते. तत्र किं गुणविधिः, कर्मनामधेयम् इति संदेहः. एवं चेत् संदेहः, दृश्यते गुणविधिः. न संदेहः, श्रूयते हि गुणः. सो ऽवगम्यमानो न शक्यो नास्तीति वदितुम्. तस्माद् गुणविधिः.
SK
NOTES: *{१/६७२: Tऐत्.Bर्. १.३.६.९}*
SK
तुल्यत्वात् क्रिययोर् न // MS_१,४.७ //
SK
नैतद् एवम्, तुल्ये हीमे क्रिये स्याताम्. या च वाज्य्पेयक्रिया, या च दर्शपुर्णमासक्रिया, उभयत्र दार्शपौर्णमासिको विध्यन्तः स्यात्. तथा च दीक्षाणाम् उपसदां च दर्शनं नावकल्प्येत, सप्तदशदीक्षो वाजपेय इति, सप्तदशोपसत्को वाजपेय इति. अथ वा तुल्यत्वात् क्रिययोर् नेति. यदि न गुणविधिः, ततस् तुल्यैषा वाजपेयक्रिया ज्योतिष्टोमक्रियया. तत्र{*१/६७३*} दीक्षाणा[९२]{*१/६७४*}म् उपसदां च दर्शनम् उपपन्नम्. तस्मात् कर्मनामधेयम् इति. लिङ्गं त्व् एतत्, प्राप्तिः पुनर् उत्तरसूत्रेण.
SK
NOTES: *{१/६७३: E४: तदा च; E४ (व्.ल्.): तत्था}* *{१/६७४: E२: २,२९२; E४: २,९५; E५: २,२२४; E६: १,६३}*
SK
एकशब्द्ये परार्थवत् // MS_१,४.८ //
SK
यदि गुणविधिः स्यात्, स्वार्थवत् परार्थवच् चाभिधानं विप्रतिषिध्येत{*१/६७५*} यजेतेत्य् अस्य शब्दस्य. यदि स्वाराज्यकामो यजेतेति स्वाराज्यकामस्य यागं विधातुं स्वार्थम् उच्यते, न तर्हि वाजपेयेन गुणेन संबद्धुं परार्थम् अनूद्येत यागेन वाजपेयगुणकेनेति. भिद्येत हि तथा वाक्यम्. ननु द्वे एवैते वाक्ये प्रत्यक्षम् उपलभामहे - स्वाराज्यकामो{*१/६७६*} यजेतेत्य्{*१/६७७*} एतद् एकं प्रत्यक्षं पदद्वयम्. यजेत वाजपेयेनेत्य् एतद् अपि प्रत्यक्षम् एव. नैतद् एवम्. एवं सति चत्वारि पदान्य् उपलभेमहि, त्रीणि चैतान्य् उपलभ्यन्ते. उच्यते - यजेतेत्य् एतद् उभाभ्यां संभन्त्स्यते. कथं सकृद् उच्चारितं संबन्धम् उभाभ्याम् एष्यतीति. रूपाभेदात्. ईदृशम् एवास्य रूपं स्वाराज्यकामेन संबध्यमानस्या, ईदृशम् एव वाजपेयेन. अतस् तन्त्रेणोभाभ्यां संभन्त्स्यत इति. नैतद् अस्तीदृशेनैव रूपेणेति. यद्य् अज्ञातः, ततो{*१/६७८*} विधिः. यदि ज्ञातः, ततो ऽनुवादः. न च ज्ञातो ऽज्ञातश् च युगपत् संभवतीति. आह - यद् इदम् उक्तम्, गुणविधिपक्षे ऽनुवादो यजेतेति. यद्य् अयम् अनुवादः, केनेदानीं गुणो विधीयते. वाजपेयशब्देनेति मा वोचः. न ह्य् आख्यातम् अन्तरेण कृत्यं वा, नामशब्दार्थस्य व्यापारो{*१/६७९*} विधीयते. यश् चात्राख्यातशब्दो यजेतेति, सो ऽनुवाद इत्य् उक्तम्. केनेदानीं तस्य व्यापारो विधीयते. अतः स्वाराज्यकामं गुणं च प्रति यजेतेति विधिः. तस्माद् उभाभ्यां संबध्यत इति. यद्य् उभयत्र विधिः, वाजपेयो न स्वाराज्यकामस्य यागेन संबध्येत. द्वे ह्य् एते तदा वाक्ये, न स्वाराज्यकामस्य यागेन सह गुणविधेर् एकवाक्यता.[९३]{*१/६८०*} प्रकरणात् संबन्धः स्वाराज्यकामस्य यागेनेति चेत्, न, वाक्येन यागमात्रे विधानात्. अस्तु यागमात्रेण संबन्ध इति चेत्, न, स्वाराज्यकामस्य यागेन सहैकवाक्यताया गम्यमानत्वात्. तद् एवं प्रकरणस्य वाक्यस्य च बाधो{*१/६८१*} युज्यते, यदि कर्मनामधेयम्. गुणविधिपक्षे हि सर्व इमे वाक्यभेदादयो दोषाः प्रादुर्भवेयुः. तस्मात् कर्मनामधेयं वाजपेयशब्द इति सिद्धम्.
SK
NOTES: *{१/६७५: E१,५; E२,४,६: विप्रतिषिध्यते}* *{१/६७६: E२: स्वराज्यकामो (सोन्स्त् wइए E१,४,५,६)}* *{१/६७७: Eबेन्द}* *{१/६७८: E२: यतो}* *{१/६७९: E१,६; E२,४,५: नामशब्दार्थव्यापारो}* *{१/६८०: E२: २,२९३; E४: २,९७; E५: २,२२८; E६: १,६४}* *{१/६८१: E१,६; E२,४ (बेस्सेर्): प्रकरणस्य चाबाधो; E५: प्रकरणस्य वाक्यस्य चाबाधो}*
SK
तद्गुणास् तु विधीयेरन्न् अविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः // MS_१,४.९ //
SK
यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीत्येवमादयः{*१/६८२*} श्रूयन्ते. तत्र संदेहः - किम् आग्नेयो ऽग्नीषोमीय इत्येवमादयो गुणविधयः, कर्मनामधेयानीति. किं तावत् प्राप्तम्. गुणविधौ सत्य् अनेको गुणो विधीयेत - अग्निपुरोडाशाष्टाकपाला इति. तस्मान् न गुणविधय इति. एवं प्राप्ते ब्रूमः - तच् च कर्मं गुणाश् चास्य विधीयेरन्. अविभक्ता हि ते कर्मणो विधानार्थे तद् धितान्ते शब्दे. तत्र ह्य् अष्टाकपालस्याग्नेयता विधीयते. स एष एवम् आग्नेयो भवति, यद्य् अग्नये संकल्प्य दीयते, तेनायम् अनेन प्रकारेण यागो विहितो भवति. स एवं विधीयमानो न शक्यो ऽग्निम् अष्टाकपालं चाविधाय विधातुम्, संबन्धो हि विधीयमानो न शक्यते संबन्धिनाव् अविधाय विहित इति वक्तुम्. तस्माद् गुणविधयः. अष्टसु कपालेषु संस्क्रियमाणो व्रीहिमयो यवमयो वा पुरोडाश एव भवति. सो ऽनुवादः. सिद्धश् चात्राष्टाकपाल उच्यते कपालेषु श्रययतीति{*१/६८३*} वच[९४]{*१/६८४*}नाद् नान्येन श्रपितं गृह्णन्ति. तेनास्मिन् पक्षे न वाक्यभेदो भवति. न चेद् अन्येन शिष्टाः. यत्र पुनर् अन्येन वचनेन शिष्टा गुणा भवन्ति, भवति तत्र नामधेयम्. यथा - अग्निहोत्रं जुहोतीति.
SK
NOTES: *{१/६८२: Tऐत्.S. २.६.३.३}* *{१/६८३: Tऐत्.S. २.३.६.२}* *{१/६८४: E२: २,२९६; E४: २,१०८; E५: २,२३२; E६: १,६४}*
SK
बर्हिराज्योर् असंस्कारे शब्दलाभाद् अतच्छब्दः // MS_१,४.१० //
SK
बर्हिराज्ययोः पुरोडाशे च संदेहः - किम् एते संस्कारशब्दा उत जातिशब्दा{*१/६८५*} इति. संस्कारशब्दा इति ब्रूमः. संस्कृतेषु तृणेषु बर्हिःशब्दम् उपचरन्ति सर्वत्र, नासंस्कृतेषु. संस्कृते च घृते आज्यशब्दम्. तथा संस्कृते पिष्टे पुरोडाशशब्दम्. नन्व् असंस्कृते ऽपि कस्मिंश्चिद् देश उपचर्यते. यथा बर्हिर् आदाय गावो गता इति भवन्ति वक्तारः. तथा - आज्यं क्रयम् इति. पुरोडाशेन मे माता प्रहेलकं ददातीति. सादृश्यात् तेषु प्रयोगः. यथोपशये यूपशब्दः. कुत एतत्? यत एकदेशे हि शब्दप्रयोगः, तस्मात् संस्कारशब्दा इत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - बर्हिरादिष्व् असंस्कृतेष्व् अपि शब्दलाभान् न संस्कारशब्दाः. ननूक्तं सादृश्याद् एकदेशे भविष्यन्ति. तन् न, प्रसिद्धे हि संस्कारशब्दत्वे, सादृश्याद् इति शक्यते वक्तुम्. तच् चाप्रसिद्धम्. कथम्? बर्हिरादिशब्दैर् उद्दिश्य संस्कारा विधीयन्ते. तेन सत्सु शब्देषु संस्कारैर् भवितव्यम्, सति च संस्कारे शब्दलाभ इतीतरेतराश्रयं भवति. न चाविहिताः संस्कारा भवन्ति, यान् आलोच्य लोकः प्रयुञ्जीत. तस्मान् न लोकाः संस्कृतेषु बर्हिरादीन् प्रयुञ्जते. तत एकदेशे ऽपि जाति[९५]{*१/६८६*}निमित्ता दृष्टाः, सर्वत्र जातिनिमित्ता भवितुम् अर्हन्ति. न चालौकिकानां सतां वेदाद् एव पूर्वोत्तरपदसंबन्धम् अनपेक्ष्य शक्यते ऽर्थो ऽध्यवसातुम्. पूर्वोत्तरपदे अनर्थके मा भूताम् इत्य् एवं स परिकल्प्येत. अशक्यस् त्व् अनवगम्यमानः परिकल्पयितुम्, अर्थवती च ते पदे पूर्वोत्तरे लौकिकेनासंस्कृतप्रयोगेण भविष्यतः. तस्माज् जातिशब्दा एवंजातीयकाः. प्रयोजनम् - बर्हिषा यूपावटम् अवस्तृणातीति संस्कृतैर् एव स्तरितव्यम्, यदि पूर्वः पक्षः, विपरीतं सिद्धान्ते.
SK
NOTES: *{१/६८५: E४ (Fन्.): जातिनिमित्ता}* *{१/६८६: E२: २,२९८; E४: २,१२३; E५: २,२३८; E६: १,६५}*
SK
प्रोक्षणीष्व् अर्थसंयोगात् // MS_१,४.११ //
SK
प्रोक्षणीर् आसादय इति{*१/६८७*} श्रूयते. तत्र प्रोक्षणीशब्दं प्रति संदेहः - किं संस्कारनिमित्त उत जातिनिमित्त उत यौगिक इति. तत्र संस्कारेषु सत्सु दर्शनात् संस्कारशब्दतायाम् अवगम्यमानायाम् असंस्कृते शब्दलाभाज् जातिशब्दः. असंस्कृतास्व् एवाप्सु प्रोक्षणीभिर् उद्वेजिताः स्म इति कस्मिंश्चिद् देशे भवन्ति वक्तारः. तेन जातिशब्द इति प्राप्ते. यौगिक इत्य् उच्यते. कुतः? अर्थसंयोगात्. प्रोक्षण्य इत्य् उपसर्गधातुप्रत्ययसमुदायस्य जातिनिमित्तता प्रयोगाद् अनुमीयते. सेचनसंयोगात् तूपसर्गधातुकरणप्रत्ययसहितो ऽप्सु प्रवतत इति प्रसिद्धिर् अनुगृहीता भविष्यति. यदान्यद् अपि सेचनं प्रोक्षणशब्देनोच्यते तदा तत्संयोगाद् एवाप्सु भविष्यतीति न समुदायार्थः कल्पयितुं शक्यते. तस्माद् यौगिकः. प्रयोजनं घृतं प्रोक्षणं भवतीति, यदि संस्कारशब्दाः प्रोक्षणीरासादयेति प्रैषः. यदि जातिशब्दः, घृतम् आसादयेति. यदि यौगिकः प्रोक्षणम् इति.
SK
[९६]{*१/६८८*}
SK
NOTES: *{१/६८७: Tऐत्.Bर्. ३.२.९.१४}* *{१/६८८: E२: २,३०१; E४: २,१३६; E५: २,२४१; E६: १,६६}*
SK
तथा निर्मन्थ्ये // MS_१,४.१२ //
SK
निर्मन्थ्येनेष्टकाः पचन्तीति. संस्कृते दर्शनात् संस्कारशब्दो निर्मन्थ्य इति. असंस्कारे ऽपि दृश्यते. निर्मन्थ्यमानयादैनं पक्ष्याम इति. निर्मन्थनयोगात् पूर्ववद् यौगिक इति संस्थितम्. प्रयोजनं संस्कारनिमित्ते संस्कृतेनेष्टकाः पक्तव्याः. जातिशब्दे यथोपपन्नेन. यौगिके ऽचिरनिर्मथिते यथा नावनीतेन भुङ्क्त इत्य् अचिरनिर्दग्धेनेति गम्यते.
SK
वैश्वदेवे विकल्प इति चेत् // MS_१,४.१३ //
SK
चातुर्मास्येषु प्रथमे पर्वणि वैश्वदेवे संदेहः - वैश्वदेवेन यजेत इति{*१/६८९*}. किं वैश्वदेवशब्दो गुणविधिर् उत कर्मनामधेयम् इति. यदि संदेहो न संदेहः. वैश्वदेवे विकल्पः. गुणविधिर् वैश्वदेवशब्दः. गम्यते हि गुणविधानम्. विश्वेदेवा विधीयन्त आग्नेयादिषु यागेषु. तत्राग्न्यादीनां विश्वैर् देवैर् विकल्पः. एवं प्रसिद्धिर् अर्थवती भविष्यति.
SK
NOTES: *{१/६८९: Mऐत्.S. १.१०.८, Tऐत्.Bर्. १.४.१०.१, ŚPBर्. ५.२.४.१}*
SK
न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य // MS_१,४.१४ //
SK
नैतद् एवम्. प्रत्यक्षश्रुतिविहिता अग्न्यादयस् तेषां यागानाम्, विश्वेदेवा वाक्येन प्रकरणात् तेनैव नान्येनेति गम्यते. न चायं विषमशिष्ठो विकल्पो भवितुम् अर्हति. न हि प्रकरणं श्रुतस्य द्रव्यस्य बाधने समर्थम्. तस्मात् कर्मनामधेयम्.
SK
[९७]{*१/६९०*}
SK
NOTES: *{१/६९०: E२: २,३०५; E४: २,१५१; E५: २,२४५; E६: १,६७}*
SK
मिथश् चानर्थसंबन्धः // MS_१,४.१५ //
SK
अथोच्यते वैश्वदेव इत्य् अनेन शब्देन प्रत्यक्षम् अग्न्यादिगुणविशिष्टो यागगुणो लक्ष्यते. वैश्वदेवी हि तत्रामिक्षा समवैति. यदि वैश्वदेवशब्देन यागगुणो लक्ष्यते न तर्हि विश्वेदेवा विधीयन्ते कथं सकृद् उच्चरितो वैश्वदेवशब्दो यागगुणं लक्षयिष्यति विश्वांश् च देवान् विधास्यतीति नायं वैश्वदेवशब्दस्य विश्वैर् देवैर् मिथः संबन्धो घटते. तस्मात् कर्मनामधेयम् एव गुणविधिर् इति.
SK
परार्थत्वाद् गुणानाम् // MS_१,४.१६ //
SK
परार्थाश् च गुणाः. ते न शक्नुवन्ति प्रधानम् आवर्तयितुम्. तेन सकृद् याग कर्तव्यो न गुणानुरोधेनावर्तितुम् अर्हति. संप्रतिपन्नदेवतत्वाच् च न विरोधः. तत्रैकस्यां प्रधानाहुतौ त्रिंशदाहुतयो हूयन्त इति त्रिंशत्संख्यासंपत्तिर् आहवनीयाहुतीनां नावकल्पते. तस्मात् कर्मनामधेयम् इति सिद्धम्.
SK
पूर्ववन्तो ऽविधानार्थास् तत्सामर्थ्यं समाम्नाये // MS_१,४.१७ //
SK
वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति{*१/६९१*} श्रूयते. तत्र यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनातीत्येवमादयः कपालविकल्पाः श्रूयन्ते तेषु संदेहः किम् अष्टत्वादयो गुणविधय उतार्थवादा इति. तत्र गुणविधय इत्य् एवं ब्रूमः - कथम्? ये हि पूर्ववन्तो (विदितपूर्वम्{*१/६९२*} अर्थ[९८]{*१/६९३*}म् अभिवदन्ति){*१/६९४*} ते ऽविधानार्थाः तद् एतद् अस्य वाक्यस्य समाम्नाये सामर्थ्यं यदविहितपूर्वकाभिधानम्. किं तत्, विधानसामर्थ्यम्. एवम् अविहितम् अर्थं विधास्यति. इतरथार्थवादाः सन्तो ऽनर्थकाः स्युः. न च द्वदशकपालस्य शेषभावम् उपगन्तुम् अर्हति. प्रत्यक्षा ह्य् अष्टानां कपालानां स्तुतिः परोक्षा द्वादशानाम्. प्रत्यक्षाभावे च परोक्षा स्यात्. तस्माद् गुणविधयः.
SK
NOTES: *{१/६९१: Tऐत्.S. २.२.५.३., Vआज्.S. २९.६०}* *{१/६९२: E४ (Fन्.): विहितपूर्वम्}* *{१/६९३: E२: २,३०७; E४: २,१५७; E५: २,२४९; E६: १,६७}* *{१/६९४: Iन् E१ गेक्लम्मेर्त्}*
SK
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवतास्ति // MS_१,४.१८ //
SK
नैतद् अस्ति गुणविधय इति. गुणस्य विधानार्था एते सन्तः पुरोडाशस्य कपालेषु संख्या विदध्युः. न शक्नुवन्ति यागप्रयोगस्य विधातुम्. द्वादशकपालता हि यागस्य वाक्येन, अष्टाकपालादयः प्रकरेण. तेन ते यागे न भविष्यन्ति. अपि चाष्टत्वादयः पुरोडाशेनैकवाक्यभूताः प्रकरणं बाधित्वा, न यागस्य भविष्यन्ति. यागासंबन्धे चानर्थकाः पुरोडाशसंबन्धे फलाभावात्. अर्थवादत्वेन तु वैश्वानरयागस्य स्तुतिर् उपपद्यते. तस्माद् अर्थवादा इति.
SK
तच्छेषो नोपपद्यते // MS_१,४.१९ //
SK
इति यद् उक्तं तत् परिहर्तव्यम् इत्य् आभाषान्तं सूत्रम्.
SK
अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् // MS_१,४.२० //
SK
यदा त्व् अष्टाकपालादिप्ररोचनार्था अनर्थका इत्य् अवगतं तदा लक्षणया द्वादशकपालस्य स्तुतिर् वैश्वानरयागप्ररोचनार्था भविष्यति. सन्ति हि द्वादशसंख्यायाम् अष्टत्वादयः संख्याविशेषा [९९]{*१/६९५*} अविभक्ताः. अतो द्वादशकपालस्य स्तुत्यर्थत्वेनावयवस्तुतिर् उपपद्यते. यथा शोभनम् अस्य चक्रस्य नेमितुम्बारम्, शोभनम् अस्याः सेनाया हस्त्यश्वरथपादातम् इति. तस्माद् उपपन्ना स्तुतिर् इति.
SK
NOTES: *{१/६९५: E२: २,३१०; E४: २,१७१; E५: २,२५२; E६: १,६८}*
SK
कारणं स्याद् इति चेत् // MS_१,४.२१ //
SK
इति चेद् भवान् पश्यत्य् अर्थवादा इति, कारणम् अष्टत्वादीनां ब्रह्मवर्चसादि कस्मान् न भवति. ब्रह्मवर्चसकामस्याष्टाकपालः. एवम् उत्तरेषु यथाकामम्. किम् एवं भविष्यति. पुरोडाशस्य गुणविधाने ऽप्य् आनर्थक्यं न भविष्यति न च लक्षणया द्वादशकपालस्य स्तुतिः कल्पिता भविष्यति. तस्मात् कामेभ्यो विधयो बविष्यन्ति.
SK
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते // MS_१,४.२२ //
SK
यदि कामाय विधयः, भिन्नानि वाक्यानि भवेयुः. एकं चेदं वाक्यम्, वैश्वानरं द्वादश-कपालं निर्वपेत् पुत्रे जात इत्य् एदमपक्रान्तं यद् द्वादशकपालो भवति जगत्यैवास्मिन् पशून् दधाति यस्मिञ् जात एताम् इष्टिं निर्वपति पूत एव स तेजस्व् यन् नाद इन्द्रियावी पशुमान् भवतीत्य्{*१/६९६*} एवम् अन्तम्. तस्य मध्ये ऽष्टत्वादयः श्रूयमाणा यदि न संबध्येरंस् ततो वाक्यान्तराणि भवेयुः. [१००]{*१/६९७*} कर्तुर् हि कारणानि पूतत्वादीनि भवेयुः. स एष गुणार्थो ऽत्र विधीयते वैश्वानरयागे पूत एव इत्येवमादिः. तेन चैते ऽष्टत्वादयः साक्षाद् धेतुत्वेन संबध्यन्ते यस्माद् गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति तेन पूत एव सः, यस्मात् त्रिवृतैवास्मिंस् तेजो दधाति तेन तेजस्वी. यस्माद् विराजैवास्मिन्न् अन्नाद्यं दधाति तेनान्नादः. यस्मात् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति तेनेन्द्रियावी. यस्माज् जगत्य् ऐवास्मिन् पशून दधाति तेन पशुमान् इति. ततः कामाय विधयो ऽसंभवन्तो यद्य् अर्थवादा अपि न भवेयुर् आनर्थक्यम् एवैषां स्यात्. तस्माद् अकारणं ब्रह्मवर्चस्त्वाद् यो ऽष्टत्वादीनाम्. तस्माद् अष्टत्वादयो ऽर्थवादा इति.
SK
NOTES: *{१/६९६: Tऐत्.S. २.२.५.३}* *{१/६९७: E२: २,३१२; E४: २,१७८; E५: २,२५३; E६: १,६८}*
SK
तत्सिद्धिः // MS_१,४.२३ //
SK
यजमानः प्रस्तरः{*१/६९८*}; यजमान एककपाल इत्यादि{*१/६९९*} समाम्नायते. तत्र संदेहः. किं यजमानः प्रस्तर इत्य् एष गुणविधिः, किम् अर्थवाद इति. तथा यजमान एककपाल इति. किं तावत् प्राप्तम्. गुणविधिर् इति. किम् एवं भविष्यति एवम् अपूर्वम् अर्थं विधास्यति. इतरथार्थवादो ऽनर्थकः स्यात्. अर्थवत्त्वं च न्याय्यम्. तस्माद् विधिः. नैतद् एवम्, यदि विधिः स्यात्, ततः प्रस्तरकार्ये{*१/७००*} यजमानो नियम्येत. यजमानकार्ये वा प्रस्तरः. प्रस्तरे जुहूम् आसादयति, सर्वा वा स्रुव{*१/७०१*} इति यजमाने जुहूर् आसाद्येत. सर्वा वा स्रुव{*१/७०२*} इति. तथासति{*१/७०३*} न याजमानं शक्यते कर्तुम्, दीक्षणतो ब्रह्मयजमानाव् आसाते कर्मण क्रियमाणस्य इति{*१/७०४*}. न च प्रस्तरो याजमानं शक्नोति कर्तुम्. तथा यदि यजमान एककपालकार्ये विनियुज्येत सर्वहुतः क्रियेत. तत्र सर्वतन्त्रपरिलोपः [१०१]{*१/७०५*} स्यात्. न चैककपालो याजमानं शक्नोति कर्तुम्. तस्मान् न विधिः. विध्यन्तरं चास्ति प्रस्तरम् उत्तरं बर्हिषः सादयति, एककपालं सर्वहतं करोति, इति. तस्माद् अपि न विधिः. किं हि अर्थवादः. यजमानो ज्ञायत एव प्रस्तर एककपाल इति च. कथं पुनर् अनयोः सामानाधिकरण्यं ज्ञायते. न हि प्रस्तर एककपालो वा यजमानः. न च यजमान एकस्मिन् कपाले संस्कृतः पुरोडाशः प्रथमो वा कशम् ष्टिर् लूनः. कथं परशब्दः परत्र वर्तते, किम् अर्थं वा ज्ञायमानस्व संकीर्तनम् इति. उच्यते - ज्ञायमानः संकीर्त्यते स्तोतुम्. प्रस्तर उत्तरो बर्हिषः सादयितव्यो यजमानत्वात्. तथा यजमान एककपालः सर्वहुतः कर्तव्यः स्वर्ग आहवनीयस् तत्र प्रतिष्ठापितो भवतीति. कथं परत्र वर्तते परशब्द इति. गुणवादस् तु. गुणाद् एष वादः. कथम् अगुणवचनो गुणं ब्रूयात्. स्वार्थाभिधाननेति ब्रूमः. सर्व एवैते गौणाः शब्दा न स्वार्थं हित्वा गुणेषु वर्तन्ते. प्रसिद्धहानिर् हि तथा स्याद् अप्रसिद्धकल्पना च. न च सर्वे गुणसमुदायवचनाः. गुणहीने ऽपि दर्शनात्. अप्रसह्यकार्य् अपि हि कदाचिद् रोगेणोपहतः सिंह्याः पुत्रः सिंह एव. समुदायवाची च नावयवे प्रवर्तितुम् अर्हति. सर्वसिंहव्याक्तिषु यत् सामान्यं तद् वचनः शब्द इति स्थितो न्यायः प्रत्युद्ध्रियेत. न चासति सिंहो परिकल्पनया प्रवर्तेत. कल्पनाया अशक्यत्वात्. कथं नु स्वार्थाभिधानेन प्रत्ययव्यवस्थेति चेत्. अर्थसंबन्धात्. सिंह इति निर्ज्ञायते प्रसह्यकारिता तत्र प्रायेणेति प्रसह्यकारीति गम्यते, अर्थं प्रत्ययसामर्थ्यात्. यो हि मन्यते प्रसह्यकारिणं प्रत्याययेयम् इति स यदि सिंहशब्दम् उच्चारयति सिध्यत्य् अस्याभिप्रेतम्. सिंहार्थः प्रतीतः प्रसह्य[१०२]{*१/७०६*}कारीति संबन्धाद् इतरम् अर्थं प्रत्याययति. एवं स्वार्थाभिधानेन तद्गुणसंबन्धः प्रतीयते. इह तु यजमानः प्रस्तरः यजमान एककपाल इति कीदृशो गुण संबन्धः प्रतीयते. तत्सिद्धिकर इति. सर्वो ह्य् आत्मनह् कार्यसिद्धिं करोति. अन्यो ऽपि यस् तस्य कार्यसिद्धिं करोति स तस्मिन्न् उच्चरिते हृदयम् आगच्छति. यथा राजा पत्तिगणक इति. पत्तिगणको राज्ञः कार्यं साधयति. स राजशब्द उच्चरिते प्रतीयते. एवम् इहापि यजमानकार्यं प्रस्तरैककपालौ साधयतः, तौ यजमाने प्रतीते प्रतीयेते. तस्मात् तौ यजमानशब्देन प्रत्यायेते. कथं? स्तुतौ स्यातां बर्हिष उपरिसादने सर्वहोमे चेति. तस्माद् एवंजातीयका अर्थवादा न विधय इति.
SK
NOTES: *{१/६९८: Tऐत्.S. २.६.५}* *{१/६९९: Tऐत्.Bर्. १.६.३.४}* *{१/७००: E१,५; E२,४,६: स्यात् प्रस्तरकार्ये, E४ (Fन्.): स्यात्, ततः प्रस्तरकार्ये}* *{१/७०१: E१,६; E२,४,५: स्रुच}* *{१/७०२: E१,६; E२,४,५: सुर्च}* *{१/७०३: E१,५; E२,४,६ (रिछ्तिग्): तथा सति}* *{१/७०४: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/७०५: E२: २,३१४; E४: २,१८०; E५: २,२५८; E६: १,६९}* *{१/७०६: E२: २,३२१; E४: २,१८१; E५: २,२६१; E६: १,७०}*
SK
जातिः // MS_१,४.२४ //
SK
आग्नेयो वै ब्राह्मणः{*१/७०७*}; ऐन्द्रो राजन्यः{*१/७०८*}; वैश्यो वैश्वदेव इत्येवमादयः{*१/७०९*} श्रूयन्ते. तत्र गुणविधयः आर्थवादा इति संदेहः. गुणविधय इति ब्रूमः. एवम् अपूर्वम् अर्थं विधास्यन्ति, इतरथार्थवादाः सन्तो ऽनर्थकाः स्युः. न विधिर् विध्यन्तरस्य भावात्. तस्मात् संवादः. तस्य संकीर्तनं विधिस्तुत्यर्थम्. अनाग्नेयादिष्व् आग्नेयादिशब्दाः केन प्रकारेण. गुणवादेन. को गुणवादः. अग्निसंबन्धः. कथम्? एकजातीयकत्वात्. किम् एकजातीयकत्वम्. प्रजापतिर् अकामयत, प्रजाः सृजेयम् इति. स मुखतस् त्रिवृतं निरभिमीत, तम् अग्निर् देवतान्वसृज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम् अजः पशूनाम्. तस्मात् ते मुख्याः, मुखतो ह्य् असृज्यन्त. उरसो [१०३]{*१/७१०*} बाहुभ्यां पञ्चदशं निर्मिमीत, तम् इन्द्रो देवतानसृज्यत, त्रिष्टुप् छन्दः, बृहत् साम, राजन्यो मनुष्याणाम्, अविः पशूनाम्. तस्मात् ते वीर्यवन्तः, वीर्याद् धि असृज्यन्त. ऊरुभ्यां मध्यतः सप्तदशं निरमिमीत, तं विश्वेदेवा देवता अन्वसृज्यन्त, जगती छन्दः, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्{*१/७११*}. एवम् उक्ते सत्य् एकस्मिन्न् एवंजातीयके विज्ञाते ऽन्यो ऽपि तज्जातीयको हृदयम् आगच्छति. तस्माद् अर्थवादशब्दाः{*१/७१२*}.
SK
NOTES: *{१/७०७: Tऐत्.Bर्. २.७.३.१}* *{१/७०८: Tऐत्.S. २.४.१३.}* *{१/७०९: Tऐत्.Bर्. २.७.२.२}* *{१/७१०: E२: २,३२२; E४: २,१९०; E५: २,२६४; E६: १,७१}* *{१/७११: Tऐत्.S. ७.१.१.४-५, व्ग्ल्. स्छोन् ṚV १०.९०}* *{१/७१२: E१,६; E२,४,५: तस्माद् अर्थवादाः}*
SK
सारूप्यम् // MS_१,४.२५ //
SK
यजमानो यूपः; आदित्ये यूप इत्यादि{*१/७१३*} श्रूयते. तत्र गुणविधिः, अर्थवादः, इति संदेहः. अर्थवत्त्वाद् गुणविधि. अशक्यत्वाद् यूपकार्यसाधने यजमानस्य, यजमानकार्यसाधने वा यूपस्य विध्यन्तरभावाच् च न विधिः. विधिस्तुत्यर्थं संवादः. गुणवादात् सामानाधिकरण्यम्. को गुणः? सारूप्यम्. किं सारूप्यम्? ऊर्ध्वता तेजस्विता च. तस्माद् एवंजातीयका अर्थवादाः.
SK
NOTES: *{१/७१३: Tऐत्.Bर्. २.१.५.२}*
SK
प्रशंसा // MS_१,४.२६ //
SK
अपशवो वा अन्ये गो ऽश्वेभ्यः, पशवो गो ऽश्वाः{*१/७१४*}. अयज्ञो वा एष यो ऽसामा{*१/७१५*}. असत्रं वा एतद् यद् अछन्दोमम् इति{*१/७१६*} श्रूयते. तत्र विध्यर्थ वादसंदेहे, अर्थवत्त्वाद् विधय इति प्राप्ते. अभिधीयते - यदि विधयो भवेयुः, गो ऽश्वा एव पशवः स्युः, सामवान् एव यज्ञः, छन्दोमवद् एव सत्रम्. अन्येषां पशूनाम्, यज्ञानाम्, [१०४]{*१/७१७*} सत्राणां चोत्पत्तिर् अनर्थिका स्यात्. विध्यन्तरं च नावकल्पेत. अतः स्तुत्यर्थं संवादः. गो ऽश्वान् प्रशंसितुम् अन्येषां पशूनां निन्दा. सामवतः प्रशंसितुम् असाम्नां निन्दा. छन्दोमवन्ति प्रशंसितुम् अच्छन्दोमकानि निद्यन्ते. यथा - यद् अघृतम्, अभोजनं तत्. यन् मलिनम्, अवासस् तद् इति.
SK
NOTES: *{१/७१४: Tऐत्.S. ५.२.९.४}* *{१/७१५: Tऐत्.S. १.५.७.१}* *{१/७१६: Tऐत्.S. ७.३.८.१}* *{१/७१७: E२: २,३२४; E४: २,१९२; E५: २,२६५; E६: १,७१}*
SK
भूमा // MS_१,४.२७ //
SK
सृष्टीर् उपदधातीति{*१/७१८*} श्रूयते. तत्र गुणविधिर् अर्थवाद इति संदेहे अपूर्वत्वाद् विधिर् इति प्राप्ते. उच्यते - यदि विधिः, सृष्टिमन्त्रका उपदधातीष्टका इत्य् अर्थः. तत्र नेष्टकानां विशेषः कश्चिद् आश्रीयते, एवंरूपाः सृष्टिमन्त्रका नैवंरूपा इति. तत्र सर्वासां सृष्टिलिङ्गा मन्त्राः प्राप्नुयुः. अन्येषाम् असंयुक्तानां मन्त्राणाम् आनर्थक्यं स्यात्. तस्माद् अनुवादो मन्त्रसमाम्नानात् प्राप्तानाम् उपधाने मन्त्राणाम्. सृष्टीनां संकीर्तनं{*१/७१९*} सर्जनार्थवादार्थम्. अपि च विधित्वे लक्षणा, एकया स्तुवत इत्य्{*१/७२०*} अत्र या असृष्टयस् ता लक्षयेत्. नन्व् अनुवादे ऽपि लक्षणा{*१/७२१*}. नानुवादपक्षे लक्षणायां दोषः. कथं त्व् असृष्टिषु सृष्टिषु च सृष्टिशब्द इति. भूम्ना. बहवस् तत्र सृष्टिलिङ्गा मन्त्राः, अल्पशो विलिङ्गा इति.
SK
[१०५]{*१/७२२*}
SK
NOTES: *{१/७१८: Tऐत्.S. ५.३.४}* *{१/७१९: E१,५,६; E२,४: सृष्टीनां सृष्टिषु संकीर्तनं}* *{१/७२०: Tऐत्.S. ४.३.१०}* *{१/७२१: E४ ओम्. एकया स्तुवत इत्य् अत्र या असृष्टयस् ता लक्षयेत्/ नन्व् अनुवादे ऽपि लक्षणा}* *{१/७२२: E२: २,३२६; E४: २,१९६; E५: २,२६६; E६: १,७२}*
SK
लिङ्गसमवायः // MS_१,४.२८ //{*१/७२३*} प्राणभृत उपदधाति{*१/७२४*}; आज्यानीर् उपदधातीति{*१/७२५*} विधित्वे प्राणभृन् मन्त्रकासूपधीयमानासु विलिङ्गानां मन्त्राणाम् आनर्थक्यम्/ तस्माद् अनुवादः/ लिङ्गसमवायात् परशब्दः परत्र वर्तते. यथा - छत्रिणो गच्छन्तीत्य्, एकेन छत्रिणा सर्वे लक्ष्यन्ते. न चायं प्राणभृच् छशब्दः सृष्टिशब्दश् च जहत्स्वार्थं मन्त्रगणं लक्षयेत्. यद् गणे च सृष्टिप्राणभृच् छब्दौ समवेतौ, ताव् अपि परिगृह्येते. यथा - छत्रिशब्देन स्वार्थलक्षणार्थेन सो ऽपि छत्री गृह्यत इति.
SK
NOTES: *{१/७२३: E२ हत् हिएर् MS १.४.२३, द सिए अब् MS १.४.२२: आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते// निछ्त् मेह्र् wएइतेर्zäह्ल्त्}* *{१/७२४: Tऐत्.S. ५.२.१०/ ५.३.१२}* *{१/७२५: Tऐत्.S. ५.७.२.५}*
SK
संदिग्धेषु वाक्यशेषात् // MS_१,४.२९ //
SK
अक्ताः शर्करा उपदधाति{*१/७२६*}; तेजो वै घृतम् इति{*१/७२७*} श्रूयते. तत्र संदेहः. किं घृततैलवसानाम् अन्यतमेन द्रव्येणाञ्जनीयाः शर्करा उत घृतेनैवेति. कथं संदेहः. अञ्जनसामान्येन वाक्यस्योपक्रमो घृतेन विशेषेण निगमनम्. यथोपक्रमं निगमयितव्यम् एकस्मिन् वाक्ये. तत्र यद् वा सामान्यम् आदौ विशेषोपलक्षणार्थं विवक्ष्यते. यद् वा निगमने विशेषः सामान्यलक्षणार्थः. तदारम्भनिगमनयोः किं समञ्जसम् इति संशयः. एवं संदिग्धेषूपक्रमे सामान्यवचने विरोधाभावान् न विशेषः परिकल्प्यः. निगमने तूपजातः सामान्यप्रत्यय इति विरोधाल् लक्षणार्थं घृतवचनम्. यथा सृष्टिष्व् असृष्टिषु च सृष्टिशब्दः, एवं घृतम् अघृतं च घृतम् इत्य् उच्यते. [१०६]{*१/७२८*} संदिग्धेष्व् एवं प्राप्ते ब्रूमः - सामान्यवचनेन विशेषापेक्षिणोपक्रमो वाक्यस्य विशेषे निगमनवशेन. कुतः? न हि सामान्यं विहितम्. येन विरोधो निगमनस्य. कथम् अविहितम्. संदिग्धेषु विधानशब्दाभावात्. न हि विधानशब्दो ऽस्ति. अक्ताः शर्करा उपदधातीति वर्तमानकालनिर्देशात्. नापि सामान्यस्य साक्षात् स्तुतिः, प्रत्यक्षं तु घृतस्य स्तवनम्. श्रुत्या घृतस्य स्तुतिः, लक्षणया सामान्यस्य. श्रुतिश् च लक्षणाया ज्यायसी. तस्माद् घृतविधानम्. एवम् वासः परिधत्ते, एतद् वै सर्वदेवत्यं वासो यत् क्षौमम् इति तथा इमां स्पृष्ट्वोद्नायेत्, इमां ह्य् औदुम्बरीं विश्वाभूतान्य् उपजीवनीति.
SK
NOTES: *{१/७२६: Tऐत्.Bर्. ३.१२.५.१२}* *{१/७२७: Eबेन्द}* *{१/७२८: E२: २,३२८; E४: २,२३८; E५: २,२६८; E६: १,७२}*
SK
अर्थाद् वा कल्पनैकदेशत्वात् // MS_१,४.३० //
SK
स्रुवेणावद्यति; स्वधितिनावद्यति; हस्तेनावद्यतीति{*१/७२९*} श्रूयते तत्र संदेहः. किं स्रुवेणावदातव्यं सर्वस्य द्रवस्य संहतस्य मांसस्य च तथा स्वधितिना, हस्तेन च, उत सर्वेषाम् अर्थतो व्यवस्था द्रवाणां स्रुवेण, मांसानां स्वधितिना, सहतानां हस्तेनेति. अविशेषाभिधानाद् अव्यवस्थेति. एवं प्राप्ते ब्रूमः - अर्थाद् वा कल्पना, सामर्थ्यात् कल्पनेति. स्रुवेणावद्येद् यथा शक्नुयात्. तथा यस्य शक्नुया. तस्य चेति, आख्यातशब्दानाम् अर्थं ब्रुवतां शक्तिः सहकारिणी, [१०७]{*१/७३०*} एव चेद् यथाशक्ति व्यवस्था भवितुम् अर्हति. तथा - अञ्जलिना सक्तून् प्रदाव्ये जुहोतीति{*१/७३१*}. द्विहस्तसंयोगो ऽञ्जलिः, स व्याकोशो ऽर्थात् कर्तव्यः. तथा हि शक्यते होमो निर्वर्तयितुम्. तद् यथा - कटे भुङ्क्ते कांस्यपात्र्यां भुङ्क्त इत्य्{*१/७३२*} अर्थात् कल्प्यते - कटे समासीनः कांस्यपात्र्यामोदनं निधाय भुङ्क्त इति.
SK
[१०८]{*१/७३३*}
SK
NOTES: *{१/७२९: Zइतते निछ्त् नछ्गेwइएसेन्}* *{१/७३०: E२: २,३३१; E४: २,२४६; E५: २,२७१; E६: १,७३}* *{१/७३१: Vग्ल्. Tऐत्.S. ३.३.८.४, Gओप्.Bर्. २.४.८}* *{१/७३२: Qउएल्ले निछ्त् नछ्गेwइएसेन्}* *{१/७३३: E२: २,३३३; E४: २,२५१; E५: २,२७२; E६: १,७३}*
SK
============================================================================
SK
Aध्याय २:
SK
भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते // MS_२,१.१ //
SK
प्रथमे ऽध्याये प्रमाणलक्षणं वृत्तम्, तत्र विध्यर्थवादमन्त्रस्मृतयस् तत्त्वतो निर्णीताः, गुणविधिर् नामधेयं च परीक्षितम्, सन्दिग्धानाम् अर्थानां वाक्यशेषाद् अर्थाध्यवसानम् उक्तम्. तन् न प्रस्मर्तव्यम्. अनन्तरं प्रधानाप्रधानानि{*२/१*} परीक्षिष्यन्ते, भिन्नान्य् अभिन्नानि चेति, एष एवार्थो वर्णनीयो नान्यः, एष एव चाध्यायसंबन्धः. तद् इह षड्विधः कर्मभेदो वक्ष्यते - शब्दान्तरम्, अभ्यासः, संख्या, गुणः, प्रक्रिया, नामधेयम् इति वक्ष्यमानम् अनुसंकीर्त्यते. प्रदर्शितम् उच्यमानं सुखं ग्राहयिष्यत इति श्रोतुश् च बुद्धिः समाधीयते, तद् एतन् नानाकर्मलक्षणम् इत्य् अध्यायम् आचक्षते, एतत् तात्पर्येण, अतो ऽन्यद् उपोद्घातप्रसक्तानुप्रसक्तं{*२/२*} चेति. तत्र प्रथमं तावद् इदं चिन्त्यते - प्रथमे ऽध्याय इदम् उक्तम् - चोदनालक्षणो ऽर्थो धर्म इति {*२/३*}, चोदना च क्रियाया अभिधायकं वाक्यम्, वाक्ये च पदानाम् अर्थाः, तत्र किं पदेन पदेन धर्म उच्यते{*२/४*}, उत सर्वैर् एक एवेति. किं तावत् प्राप्तम्? प्रति पदं धर्म इति. एवं प्राप्त उच्यते - यदैकस्माद् अपूर्वम्, तदान्यत् तदर्थं [१०९]{*२/५*} भविष्यति, एवम् अल्पीयस्य् अदृष्टानुमानप्रसण्गकल्पना भविष्यति. तस्माद् एकम् अपूर्वम्. यदैकम्, तदा सन्देहः - किम्, भावशब्देभ्यः, उत द्रव्यगुणशब्देभ्य इति?. कः पुनर् भावः? के ते पुनर् भावशब्दा इति? यजति ददाति जुहोतीत्येवमादयः. ननु यागदानहोमशब्दा एते, न भावशब्दाः. नैतद् एवम्. यागादिशब्दाश् चैते भावशब्दाश् च, यज्याद्यर्थश् चातो ऽवगम्यते, भावयेद् इति च. तथा यतेत, यथा किंचिद् भवतीति. तेनैते भावशब्दाः, द्रव्यगुणशब्देभ्यो द्रव्यगुणप्रत्ययो न भावनायाः. अतस् ते न भावशब्दा इति. किं तावत् प्राप्तम्? अविशेषेणेति. तत उच्यते - भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, यजेतेत्येवमादिभ्यः. कुतः? भावार्थत्वाद् एव. य आहुः - किम् अपि भावयेद् इति, ते स्वर्गकामपदसंबन्धात् स्वर्गं भावयेद् इति ब्रूयुः. तस्मात् तेभ्यः क्रिया प्रतीयेत, फलस्य क्रिया करणं निष्पत्तिर् इति. ते च यागदानहोमसंबद्धाः स्वर्गस्योत्पत्तिं वदन्ति. कुतः? एष ह्य् अर्थो विधीयते, यथा - यागादिना स्वर्गकामः केन भावयेत् स्वर्गम्? यागादिनेति. यस्य च शब्दस्यार्थेन फलं साध्यते, तेनापूर्वं कृत्वा, नान्यथेति, ततो ऽपूर्वं गम्यते, अतो यः तस्य वाचकः शब्दः, ततो ऽपूर्वं प्रतीयत इति. तेन भावशब्दा अपूर्वस्य चोदका इति ब्रूमः. न तु कश्चिच् छब्दः साक्षाद् अपूर्वस्य वाचको ऽस्ति. भावार्थैः किम् अपि भावयितव्यम्, स्वर्गकामस्य च केनापि भाव्यतेति, तयोर् नष्टाश्वदग्ध-रथवत् संप्रयोगः, यजेतेत्येवमादयः साकाङ्क्षाः, यजेत किं केन कथम् इति. स्वर्गकाम इत्य् अनेन प्रयोजनेन निराकाङ्क्षाः. नैवं द्रव्यगुणशब्दाः. तस्माद् भावार्थाः कर्मशब्दा अपूर्वं चोदयन्तीति. अथ कस्माद् उभयं [११०]{*२/६*} सूत्रितम्{*२/७*} - भावार्थाः कर्मशब्दा इति. उच्यते - भवन्ति केचित् कर्मशब्दा न भावार्थाः, यथा श्येनैकत्रिकादयः{*२/८*}. केचिद् भावार्था न कर्मशब्दाः, यथा भवनं भावो भूतिर् इति. किं पुनर् इहोदाहरणम्? श्येनेनाभिचरन् यजेत{*२/९*}, चित्रया यजेत पशुकाम इति{*२/१०*}. किं श्येनेनाभिचरन्न् उत यजेताभिचरन्न् इति? तथा चित्रया पशुकामः, उत पशुकामो यजेतेति स्थिते एतस्मिन्न् अधिकरणे गुणविधिः, नामधेयम् इति विचारो भविष्यति. तथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति, दर्शः कालः, पूर्णमास इति च, किं ताभ्यां स्वर्गकामः, उत स्वर्गकामो यजेतेति, दर्शपूर्णमासाभ्याम् इति च श्येनेनेति च चित्रयेति च नैते भाववचनाः. न च एषाम् अर्थिना कश्चित् संबन्धो ऽस्ति, विविभक्तिकत्वात्. तस्मान् न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति.
SK
NOTES: *{२/१: E१,४,५,६; E२ हत्: प्रधानाप्रधानादि}* *{२/२: E१,५,६; E२,४: उपोद्धातप्रसक्तानुप्रसक्त}* *{२/३: Vग्ल्. MS १.१.२}* *{२/४: E१,५; E२,४,६ ओम्. उच्यते}* *{२/५: E२: २,३३७; E४: २,२५१; E५: २,२८३; E६: १,७४}* *{२/६: E२: २,३५३; E४: २,२५२; E५: २,३०४; E६: १,७५}* *{२/७: E४: सूचितं}* *{२/८: Jहा, Ü, Bद्.१, S.१७० कोन्ज्. श्येनचित्रादयः}* *{२/९: Ṣअड्.Bर्. ३.८.१}* *{२/१०: Tऐत्.S. २.४.६.१}*
SK
सर्वेषां भावो ऽर्थ इति चेत् // MS_२,१.२ //
SK
एवं चेद् भावन् पश्यति, अभावशब्दत्वान् न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति, सर्वेषां भावो ऽर्थः, स्वर्गकामो दर्शपूर्णमासाभ्याम् इत्य् एतयोः संबन्धं यजेतेति वक्ष्यति, श्येनेनाभिचरन्न् इत्य् एतयोश् च, तथा चित्रया पशुकाम इति. तस्माद् एते ऽपि साकाङ्क्षत्वाद् भाववचनाः. सर्वेषु भाववचनेषु नास्ति विनिगमनायां हेतुः, कर्मशब्दा एवापूर्वस्य विधायकाः, न द्रव्यगुणशब्दा इति.
SK
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि, तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगे // MS_२,१.३ //
SK
येषां शब्दानाम् उच्चारणोत्पत्तौ स्वे ऽर्थे प्रयुज्यमानानां रूप[१११]{*२/११*}म् उपलभ्यते, यत् सकृद् उत्पन्नं कालान्तरन् तिष्ठति, न क्रियेवोत्पन्नमात्रं विनश्यतीत्य् अर्थः, तानि नामानि, ते द्रव्यगुणशब्दाः, ईदृशो द्रव्यगुणशब्दानाम् अर्थः. ते द्रव्यगुणशब्दा इति वक्तव्ये तानि नामानीति सूत्रितम्, अतो नामानीति एषां पर्यायशब्दः. कथं गम्यते? यत एषां विभक्तयो नामिक्य उच्यन्ते. कतमास्ताः? वृक्षः{*२/१२*} वृक्षौ वृक्षाः, शुक्लः शुक्लौ शुक्ला इत्येवमादयः. तस्मात् सम्यक् सूत्रितम्. यत एषां न क्षणिको ऽर्थः, ततः तेभ्यः पराकाङ्क्षा प्रधानाकाङ्क्षा न विद्यत - इति नैषाम् उत्पत्तिः कर्तव्या, भूतत्वात् स्वे प्रयोगे स्वप्रयोगकाले विद्यमानत्वाद् इत्य् अर्थः.
SK
NOTES: *{२/११: E२: २,३५५; E४: २,३२८; E५: २,३१४; E६: १,७५}* *{२/१२: E२ ओम्. वृक्षः}*
SK
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते, तान्य् आख्यातानि. तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य // MS_२,१.४ //
SK
येषां तु शब्दानाम् उच्चारणोत्पत्तौ स्वे ऽर्थे प्रयोगो न विद्यते. प्रयोगकाले येषाम् अर्थो नोपलभ्यत इत्य् अर्थः, तन्य् आख्यातानीति भावशब्दान् पर्यायशब्देनोपदिशति. कथं पर्यायशब्दता भावशब्दानाम्. यत एषां विभक्तय आख्यातिक्य इत्य् उच्यन्ते. कतमास्ताः? पचति पचतः पचन्तीत्येवमाद्यः. तस्मात् तेभ्यो ऽपूर्वं प्रतीयेत. भव्यार्थास् ते भूतार्थैः समुच्चरिताः. भूतस्य भव्यार्थतायां दृष्टार्थता, भव्यार्थस्य प्रयोजनयत उत्पत्तिर् अर्थवती, सा च भूतेन क्रियत इति दृष्टो ऽर्थः. भव्यस्य पुनर् भूतार्थतायां न किञ्चिद् दृश्यते, कल्प्यते चादृष्टम्. तस्मान् न यागो द्रव्यार्थः. किं च - आश्रितत्वात् प्रयोगस्यैतेषां प्रयोगः पुरुषेणाश्रितो भवति, पुरुषसंबद्धा भावनोच्यते, पुरुषं हि वदति, भावयेद् इति, तेन स्वर्गकामो यजेतेति पुरुषो ऽपि प्रतीयते[११२]{*२/१३*}, यागो ऽपि संबन्धो ऽपि. स्वर्गकामो द्रव्येणेति द्रव्ये{*२/१४*} प्रतीयते पुरुषश् च, न तु संबन्धः.
SK
ननु एतद् उक्तं भवति, अर्थिनश् च द्रव्यस्य च संबन्धं यजेतेति वक्ष्यति, द्रव्येण भावयेद् इति. अतो द्रव्येणार्थस्य भावना गम्येत, आकाङ्क्षा चेति. सत्यं गम्यते, द्रव्येण भावयेद् इति तु वाक्येन, यागेन भावयेद् इति तु श्रुत्या. यदा तु, यागेन भावायेद् इति यागसंबन्धो विधीयते, न तदा द्रव्येण भावयेद् इति द्रव्यसंबन्धः. न च द्रव्यसंबन्धे विधीयमाने यजेतेत्य् अनेन संबन्धः. अनूद्यमाने तु संभवति, न च, यौगपाद्येन विध्यनुवादौ संभवतः. तस्माच् छ्रुतिवाक्ययोर् विरोधः, विरोधे च श्रुतिबलीयसी, तेनार्थिना न द्रव्यसंबन्धः. तत्र द्रव्यम् असति स्वर्गकामसंबन्धे स्वर्गार्थं भविष्यतीत्य् अनुपपन्नम्, एष विनिगमनायां हेतुः, येन भावशब्दा एवापूर्वस्य चोदकाः, न द्रव्यगुणशब्दा इति, यदा यागेन कुर्याद् इति, तदा{*२/१५*} यागवचनम् एव भवति. दर्शपूर्णमासाभ्याम् इति लक्षणया, दर्शे च पूर्णमासे च यागो विहित इति.
SK
कथं पुनर् इदम् अवगम्यते, अस्ति तद् अपूर्वम् इति. उच्यते -
SK
NOTES: *{२/१३: E२: २,३५७; E४: २,३३२; E५: २,३१६; E६: १,७६}* *{२/१४: E२,४,५,६: द्रव्यं}* *{२/१५: E६ ओम्. तदा}*
SK
चोदना पुनर् आरम्भः // MS_२,१.५ //
SK
चोदनेत्य् अपूर्वं ब्रूमः, अपूर्वं पुनर् अस्ति, यत आरम्भः शिष्यते - स्वर्गकामो यजेतेति, इतरथा हि विधानम् अनर्थकं स्यात्, भङ्गित्वाद् यागस्य, यद्य् अन्यद् अनुत्पाद्य यागो विनश्येत्[११३]{*२/१६*}, फलम् असति निमित्ते न स्यात्. तस्माद् उत्पादयतीति. यदि पुनः फलवचनसामर्थ्यात् तद् एव न विनिश्यतीति कल्प्यते. नैवं शक्यम्. न हि कर्मणो ऽन्यद् रूपम् उपलभामहे, यद् आश्रयं देशान्तरं प्रापयति, तत्{*२/१७*} कर्मेत्य् उच्यते, न तद् आत्मनि समवेतम्, सर्वगतत्वाद् आत्मनः, सर्वत्र कार्योपलम्भः सर्वत्र भावे लिङ्गम्, न तु{*२/१८*} तद् एव देशान्तराद् आगमनस्य, न ह्य् असत्य् आगमने किंचिद् विरुद्धं दृश्यते. यत्र समवेतम् आसीत्, तद् विनष्टं द्रव्यम्, तस्य विनाशात् तद् अपि विनष्टम् इत्य् अवगम्यते. आश्रयो ऽप्य् अविनष्ट इति चेत्. न, भस्मोपलम्भनात्. सत्य् अपि बस्मन्य् अस्तीति चेत्. न विद्यमानोपलम्भने ऽप्य् अदर्शनात्. फलक्रिया लिङ्गम् इति चेत्. एवं सत्य् अदर्शने समाधिर् वक्तव्यः. सौक्ष्मादीनाम् अन्यतमद् भविष्यतीति यदि चिन्त्यते, कल्पितम् एवं सति किंचिद् भवतीति. तत्रापूर्वं वा कल्प्येत तद् वेति. अविशेषकल्पनायाम् अस्ति हेतुः, न विशिष्टकल्पनायाम्. अनाश्रितं कर्म भविष्यतीति चेत्. तद् अपि तादृशम् एव. स्वभावान्तरकल्पनेन देशान्तरं न प्रापयिष्यतीति. तादृशम् एव. तस्माद् भङ्गी यजिः, तस्य भङ्गित्वाद् अपूर्वम् अस्तीति. किं चिन्तायाः प्रयोजनम्? यदि द्रव्यगुणशब्दा अप्य् अपूर्वं चोदयन्ति, द्रव्यगुणापचारे न प्रतिनिधिर् उपादातव्यः, यथा तर्हि पूर्वः पक्षः. यथा तर्हि सिद्धान्तः, द्रव्यं गुणं वा प्रतिनिधाय प्रयोगो ऽनुष्ठातव्य इति
SK
NOTES: *{२/१६: E२: २,३५९; E४: २,३३७; E५: २,३२०; E६: १,७७}* *{२/१७: E२,४: यत्}* *{२/१८: E१,६; E२,४,५: ननु}*
SK
तानि द्वैधं गुणप्रधानभूतानि // MS_२,१.६ //
SK
अवगतम् एतत्, भावशब्दाः कर्मणो वाचका इति, बहुप्रकाराश् च भावशब्दाः, यजति, जुहोति, ददातीति, एव[११४]{*२/१९*}ंप्रकाराः, दोग्धि, पिनष्टि, विलापयतीत्येवमादयश् च. तेषु सन्देहः - किं सर्वे प्रधानकर्मणो विधायकाः, उत केचित् संस्कारकर्मण इति. भावार्थत्वाविशेषात् सर्वे प्रधानकर्मणो वाचका इति प्राप्तम्. ततो ब्रूमः - तानि द्वैधं भवितुम् अर्हन्तीति द्विप्रकाराणि, कानिचित् प्रधानकर्मणो वाचकानि, कानिचित् संस्कारकर्मणः. एवम् अपि सर्वाण्य् अर्थवन्ति, अर्थवत्त्वे सति सर्वेभ्यः न शक्यम् अपूर्वं कल्पयितुम्. अतो न सर्वाणि प्रधानकर्मणो वाचकानि.
SK
NOTES: *{२/१९: E२: २,३७९; E४: २,३८४; E५: २,३२४; E६: १,७७}*
SK
यैर् द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात् // MS_२,१.७ //
SK
एवं सत्य् अल्पीयस्य् अडृष्टकल्पना न्याय्या, न तु{*२/२०*} विनिगमनायां हेतुर्{*२/२१*} अवगच्छामः, कुतो{*२/२२*} ऽपूर्वम्, कुतो नेति. तद् उच्यते - यैर् भावकर्मभिर् न द्रव्यं संस्कर्तुम् इष्यते, उत्पादयितुं वा, तानि प्रधानभूतानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात्. द्रव्यं हि गुणभूतम्, कर्मनिर्वृत्तेर् ईप्सिततमत्वात्.
SK
NOTES: *{२/२०: E१,६; E२,४,५: ननु}* *{२/२१: E१,६; E२,४,५: हेतुम्}* *{२/२२: E२: कृतो}*
SK
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात् // MS_२,१.८ //
SK
यैस् तु द्रव्यं चिकीर्ष्यते, गुणस् तत्र प्रतीयेत कर्म. कुतः? तस्य द्रव्यप्रधानत्वात्. प्रत्यक्षं यजेतेत्येवमादिभिर् द्रव्यं न चिकीर्ष्यते, तस्मात् [११५]{*२/२३*} तानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात्. पिनष्टि - इत्येवमादिभिर् द्रव्यं संस्क्रियते, तस्मात् तानि गुणकर्मवचनानि. एष एव विनिगमनायां हेतुः. प्रयोजनं तु पूर्वस्मिन् पक्षे प्रैयङ्गवे ऽपि चरौ व्रीहय उत्पाद्या अवधातार्थत्वेन. सिद्धान्ते नोत्पाद्याः.
SK
NOTES: *{२/२३: E२: २,३८१; E४: २,३८९; E५: २,३२९; E६: १,७८}*
SK
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् // MS_२,१.९ //
SK
स्रुचः{*२/२४*} संमार्ष्टि, अग्निं संमार्ष्टि, परिधिं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति{*२/२५*} श्रूयते. तत्र सन्देहः - किं पर्यग्निकरणम्, संआर्जनं च प्रधानकर्म, उत गुणकर्मेति. किं तावत् प्राप्तम्. तत{*२/२६*} उच्यते - कर्ममात्रम् एवंजातीयकम् अपर्याप्तं यत् प्रयोजनस्य दृष्टस्य, तद् धर्ममात्रम् इति ब्रूमः, तत्र प्रधानकर्मत्वं स्यात्. कस्मात्? अनिर्वृत्तेर् उपकारस्य, न ह्य् एवंजातीयकं द्रव्यस्योपकारकम्, द्रव्यं त्व् एवंजातीयकम् अभिनिर्वर्तयद्{*२/२७*} गुणभूतम्. तस्य गुणभूतत्वाद् इदं प्रधानभूतम्.
SK
NOTES: *{२/२४: E५: सुचः}* *{२/२५: Tऐत्.S. ३.३.१}* *{२/२६: E२,४,६: तद्}* *{२/२७: E२: अभिनिर्वर्तयेद्}*
SK
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् // MS_२,१.१० //
SK
वाशब्दः पक्षं व्यावर्तयति. इतरैर् गुणकर्मभिः सधर्मः स्याद् एवंजातीयकः, यथा व्रीहीन् अवहन्ति, तथा. कुतः? तुल्यश्रुतित्वात्, तुल्या हि द्वितीया श्रुतिर् एषां द्रव्येषु, यथा व्रीहीन् अवहन्तीति{*२/२८*}, एवम् अग्निं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति. किं गुणकर्मणि द्रव्ये द्वितीया दृष्टेति यतो द्वितीयादर्शनाद् इहापि सामान्यतो दृष्टेन गुणकर्मता. नेति ब्रूमः - द्वितीया विभक्तिः कर्तुर् ईप्सिततमे स्मर्यते, सा चेह द्वितीया विभक्तिः, तत एव तदीप्सिततमम् इति गम्यते, तच् चेद् ईप्सिततमम्, कर्म गुणभूतम्. यद्य् अपि प्रत्यक्षादिभिर् गुणभावो न गम्यते, [११६]{*२/२९*} प्रमाणान्तरेण शब्देन गम्यते, तस्माद् गुणभूतम् एवंजातीयकम् इति.
SK
NOTES: *{२/२८: Tऐत्.Bर्. ३.२.५.६}* *{२/२९: E२: २,३८४; E४: २,३९८; E५: २,३३२; E६: १,७९}*
SK
द्रव्योपदेश इति चेत् // MS_२,१.११ //
SK
इति चेत् पश्यसि - द्वितीयादर्शनात् प्रधानभूतम् अत्र द्रव्यम् इति. नैतद् एवम्, गुणभूते ऽपि द्वितीया भवति, तथा हि दृश्यते - सक्तूञ् जुहोति{*२/३०*}, मारुतं जुहोति, एककपालं जुहोतीति.
SK
NOTES: *{२/३०: Tऐत्.S. ३.३.८.४}*
SK
न, तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् // MS_२,१.१२ //
SK
न गुणभूते ऽपि द्वितीया, एवं ह्य् अभियुक्ता उपदिशन्ति - कर्मणि द्वितीया{*२/३१*}, कर्तुर् ईप्सिततमं कर्मेति{*२/३२*}, न च लोके गुणभूते क्वचिद् द्वितीयां पश्यामः. यद् अपि च तण्डुलान् ओदनं पचेति, ओदनार्थं तण्डुलान् संस्कुर्व् इतीप्सिता एव तण्डुलाः. बल्वजान् शिखण्डकान् कुर्व् इति, बल्व्जा एव तेना-कारेण संबद्धा ईप्सिता इति तत्राभिप्रायः. लौकिकश् च प्रयोगः शब्दार्थपरिच्छेदे हेतुर् न वैदिकः. यत् तु लौकिके{*२/३३*} जुहोतीति प्रयोगे द्वितीया, शक्यते तत्र वक्तुम् ईप्सिततम एव स प्रयोग इति, तण्डुलान् अद्य जुहुधि, तण्डुलान् अद्य होमेन संबन्धयेति लोके भवति हि बहुप्रकारा विवक्षा. अन्यायश् चानेकार्थत्वम्, तेन प्रधानभावेन सिद्धा सती द्वितीया गुणभावेन कल्प्येत. वेदे तु कथं द्वितीयानिर्दिष्टे गुणभाव इति. द्वितीयानिर्देशात् प्रधान्यम् एवावगच्छामः, एवम् अवगते प्रधान्ये बलीयसा हेतुना नास्ति प्राधान्यम् इत्य् अवगम्यते. कुतः? न होमस्य केचित् प्रकारेण सक्त्वर्थतावकल्प्यते कुतः? सक्तूनां [११७]{*२/३४*} निष्प्रयोजनत्वात्, न सक्तूनाम् अन्यत् प्रयोजनं दृश्यते श्रूयते{*२/३५*} वा, यदि वा होमस् तदर्थो होमो ऽपि निष्प्रयोजनः, अथाराद् उपकारको होमः, ततः प्रयोजनवान्, ज्योतिष्टोमप्रकरणे पाठाद् गम्यते प्रयोजनवत्ता, नाप्रयोजन इति शक्यते वक्तुम्, प्रयोगवचनेन हि स आकाङ्क्ष्यते. ननु सक्तूनाम् अपि प्रकरणपाठात् प्रयोजनवत्त्वं भविष्यति. को वा ब्रूते - नेति, प्रयोजनवत्तैव, प्रयोजनवत्त्वन् तु होमम् अभिनिर्वर्तयताम्, नान्येन प्रकारेण. ननु ते ऽपि प्रयोगवचनेनाकाङ्क्ष्यन्ते. तद् उच्यते - न द्रव्यं तेनाकाङ्क्ष्यते, इतिकर्तव्यतां हि स आकाङ्क्षति, होमश् चेतिकर्तव्यता, न द्रव्यम्. ननु होमे कृते सक्तुभ्यो ऽदृष्टं निष्पत्स्यते. नास्त्य् अत्र प्रमाणम्. ननु द्वितीया विभक्तिः प्रमाणम्. न हि द्वितीया विभक्तिर् होमस्य सक्त्वर्थतां ज्ञापयति. न सक्तवः प्रयोजनवन्त इति भवेद् धोमः सक्त्वर्थः, होमसंबद्धाः सक्तवः स्युर् इति, भवन्ति होमे कृते सक्तवो होमसंबद्धाः. न होमस्य सक्त्वर्थता निष्प्रयोजनेषु सक्तुषु घटते, सक्त्व्-अर्थतावचनं तु न पुरुषस्योपकारकं न क्रतोः, तदनर्थकम् एव स्यात्. यतो न{*२/३६*} तद्वचनाच् छक्यम् अन्यतरत्{*२/३७*} कल्पयितुम्. स एष द्वितीयान्तः सक्तूनां होमस्य च संबन्धं करोति, संबन्धे च सति द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति भूतत्वात्, गुणभावे च तृतीया, तेनोच्यते - तृतीयायाः स्थाने द्वितीयेति, तेन तदर्थत्वाद् धोमार्थत्वात् सक्तूनां न प्रधान्यं द्वितीयासंयोगे ऽपि. एवम् सत्य् अर्थवद् वचनम्, न चार्थवत्त्वे सत्य् आनार्थक्यम् इत्य् उच्यते. तस्य च पुरोडाशादेर् यागादिषु शेषभावः, तेन प्रयोजनवन्तः, तत्र संस्कारो नानर्थकः. न स दृष्टोपकारायेति चेत्. अदृष्टार्थो भविष्यति, अदृष्टो ऽपि संस्कारो ऽस्तीत्य् अवगम्यते लोके, यथा ग्रामान्तराद् आगतानां पुरुषानां पर्यग्निकरेणादृष्ट उपकारः क्रियत इत्य् उच्यते. लोके च नानुपपत्तिः. [११८]{*२/३८*} प्रयोजनं च वरुणप्रघासेषु श्रूयते, शमीमयः स्रुचो भवन्ति हिरण्मयो{*२/३९*} वेति, प्रकृतौ नानावृक्षस्रुक्संमार्गसाध्यम् अपूर्वम् इति, नानावृक्षस्रुच उत्पादयितव्याः संमार्गार्थत्वेन यथा पूर्वपक्षः. यथा तर्हि सिद्धान्तः, शमीमय एव हि हिरण्मयो वा संमार्ष्टव्याः. तथा यत्र बाणवन्तः परिधयस् तत्रापि पालाशा उत्पादयितव्याः पूर्वपक्षे. सिद्धान्ते बाणवन्त एव संमार्ष्टव्याः. अवभृथे च पूर्वपक्ष उत्पादयितव्यो ऽग्निः संमार्गाय, सिद्धान्ते चापः संमार्जनीयाः. तथा{*२/४०*} षट्त्रिंशत्संवत्सरेतरसमयाः पुरोडाशाः सवनीया{*२/४१*} इति श्रूयते. तत्रापि पिष्टमयः पुरोडाश उत्पादयितवयः पर्यग्निकरणार्थत्वेन पूर्वपक्षे, सिद्धान्ते मांसमया एव पर्यग्निकर्तव्या इति.
SK
NOTES: *{२/३१: Pआण्. २.३.२}* *{२/३२: Pआण्. १.४.४९}* *{२/३३: E१,६; E२,४: या लौकिके, E५: या तु}* *{२/३४: E२: २,३८७; E४: २,४०२; E५: ३,३३५; E६: १,७९}* *{२/३५: E२ ओम्. श्रूयते}* *{२/३६: E२,४: न च}* *{२/३७: E२,४: अन्यत्}* *{२/३८: E२: २,३८९; E४: २,४०२; E५: २,३३८; E६: १,८०}* *{२/३९: E२: हिरण्मया}* *{२/४०: E२,४: यथा}* *{२/४१: E२: सवनीयां}*
SK
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् // MS_२,१.१३ //
SK
प्रौगं शंसति, निष्केवल्यं शंसति, आज्यैः स्तुवते, पृष्टैः स्तुवते - इति गुणवचनं स्तवनं शंसनं च, यथा - इन्द्रस्य तु वीर्याणि प्रवोचम् इति{*२/४२*}, यद् एतद् गुणवचनं श्रूयते, किम् एतद् गुणभूतं देवतां प्रति, उत प्रधानम् इति. तत्रोच्यते - स्तुतशस्त्रे संस्कारकर्मणीति. कुतः? देवताभिधानत्वात्, गुणवचने निर्वर्त्यमाने गुणिनी देवता संकीर्त्यते, नान्यथा तद्गुणवचनं भवति, तत्र प्रत्यक्षं देवताभिधानं गम्यते, देवताप्रकाशनेन च प्रत्यक्ष [११९]{*२/४३*} उपकारो यागसिद्धिः. तस्मात् संस्कारकर्मणी याज्यावत्, यथा याज्याम् अनाह, पुरो ऽनुवाक्याम् अन्वाहेति स्तुतिवचनं देवताप्रकाशनेनार्थवत्, तद्वद् एतद् अपीति.
SK
NOTES: *{२/४२: ṚV १.३६.१}* *{२/४३: E२: २,३९४; E४: २,४२३; E५: २,३४१; E६: १,८१}*
SK
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् // MS_२,१.१४ //
SK
यदि संस्कारकर्मणी एव{*२/४४*} स्तोत्रशस्त्रे, अर्थेनापकृष्येत देवतानाम् नश् चोदनार्थस्य गुणभूतत्वात्, देवतार्थस्य गुणभूतो मन्त्र इति तत्प्रधानभावे यत्र प्रधानं तत्र नीयेत, तत्र क्रमसन्निधी उपरुध्येयाताम्. तस्माद् एष दुष्टः पक्षः - इति पर्युदसितव्यः. कतमः पुनर् असौ मन्त्रः. अभि त्वा शूरेत्य्{*२/४५*} ऐन्द्रः प्रगाथो माहेन्द्रस्य ग्रहयजेः सन्निधाव् आम्नातो यत्रेन्द्रस् तत्रापकृष्येत.
SK
NOTES: *{२/४४: E२: एवं}* *{२/४५: Mआ.S. २७.३५}*
SK
वशावद् वा गुणार्थं स्यात् // MS_२,१.१५ //
SK
न पर्युदसिष्याम इमं पक्षम्, संस्कारकर्मणी एव स्तोत्रशस्त्रे, देवताभिधानत्वाद् एव, यद् उक्तम्{*२/४६*} - प्रगाथस्योत्कर्ष इति, तन् न, इन्द्रशब्देन महेन्द्रो ऽभिधायिष्यते, स एवेन्द्रो महत्त्वेन गुणेन महेन्द्र इत्य् उच्यते, प्रत्यक्षं हीन्द्रशब्दं देवतावचनम् उपलभामहे, महत्त्ववचनं च महच्छब्दम्, यथा राजा महाराजः, ब्राह्मणो महाब्राह्मण इति, वशावत्, यथा सा वा एषा सर्वदेवत्या यद् अजा वशा, वायव्याम् आलभेतेत्य्{*२/४७*} अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्ति, तद्वत् सगुणे चोदिते निर्गुणेनाभिधानं भविष्यति. तेन न{*२/४८*} भविष्यत्य् उत्कर्ष इति.
SK
NOTES: *{२/४६: E२,४,५,६: यत् तूक्तम्}* *{२/४७: Tऐत्.S. ३.४.३.२}* *{२/४८: E२ ओम्. तेन, E४: ते न}*
SK
न, श्रूतिसमवायित्वात् // MS_२,१.१६ //
SK
नैतद् एवम्, इन्द्रो ऽस्य ग्रहस्य देवतेति तद्धितसंयोगेन विज्ञायेत{*२/४९*}, [१२०]{*२/५०*} न चास्य महत्त्वम् अपेक्षमाणस्य तद्धितसंयोग उपपद्यते, तद्धितसंयोगापेक्षस्य वा महत्त्वसंबन्धात् समासकल्पना. न च तद्धितार्थे वृत्तस्य महत्त्वसंबन्धः, न च समासार्थे वृत्तस्य तद्धितसंबन्धः. न चास्मिन्न् एव प्रयोगे समासार्थे वृत्तिर् इष्यते, एतस्मिन्न् एव तद्धितार्थे. न चायम् इन्द्रशब्दो ऽविहितवत् स्वार्थं तद्धितार्थेन संबध्येत, विहितवच् च परार्थं महत्त्वेन संबद्धम् अनूद्येत. विस्पष्टश् चायम् अन्यो ऽर्थो महेन्द्रो भवति, महान् इन्द्रो भवतीति महेन्द्रः, अन्यश् चेन्द्रो हविषो देवता भवतीति सकृद् उच्चारणे च नोभयं शक्येत. तस्मान् नेन्द्रो देवता महत्त्वविशिष्टः, महेन्द्रशब्दात् तु तद्धित उत्पन्नः, तस्मात् तद्प्रातिपदिकम् अर्थवद् इति गम्यते, न त्व् अवयवसंबन्धेन. तस्माद् देवतान्तरम् इन्द्रान् महेन्द्रः, तेनैन्द्रस्य प्रगाथस्योत्कर्षः प्राप्नोति, अतः पर्युदस्तितव्यः एष पक्षः. यद् अप्य् उच्यते - इन्द्रस्य वृत्रवधोत्तरकालं महेन्द्रत्वं दर्शयति, महान् वायम् अभूद् यो वृत्रम् अवधीद् इति{*२/५१*}, तथा वेदस्यादिमत्तादोषः प्रसज्येत, अतो ऽन्य इन्द्रो महेन्द्रात्.
SK
NOTES: *{२/४९: E१,६; E२,४,५: विज्ञायते}* *{२/५०: E२: २,३९६; E४: २,४३१; E५: २,३४५; E६: १,८२}* *{२/५१: Aइ.Bर्. ३.२१}*
SK
व्यपदेशभेदाच् च // MS_२,१.१७ //
SK
व्यपदेशभेदश् च भवति, बहु दुग्धीन्द्राय देवेभ्यो हविर् इति{*२/५२*}, बहु दुग्धि महेन्द्राय देवेभ्यो हविर् इति{*२/५३*}, अतो ऽपि देवतान्तरम्, एकदेवतात्वे मन्त्रविकल्पः स्यात्.
SK
NOTES: *{२/५२: Tऐ.Bर्. ३.२.३८}* *{२/५३: Mआ.Sह्.S. १.१.३.२९}*
SK
गुणश् चानर्थकः स्यात् // MS_२,१.१८ //
SK
यदा विधिशब्दाद् अवगतम् एतद् भवति - इन्द्रो देवतेति, तदास्य गुणान्वाख्याने किं प्रयोजनम्, महत्त्वं नामेन्द्रस्य गुणो भवतीति देवताभिधानम्. कथं तस्यै देवतायै दीयत इति. [१२१]{*२/५४*} गुणे ऽपि हि विहिते सति तस्या एव देवतायै दीयते, अविहिते ऽपि. तस्माद् गुणविधानम् अनर्थकम्. अथोच्यते - यो ऽस्मिन् ग्रहे इन्द्रः स महान् इति. नैवं ग्रहसंबन्धस्याप्रसिद्धत्वाद् विशेषणं नात्र कल्प्यते, गुणसंबन्धस्य चाप्रसिद्धत्वाद् गुणेन विशेषणम् अनवकॢप्तम्. तस्माद् अपि देवतान्तरम्.
SK
NOTES: *{२/५४: E२: २,४०६; E४: २,४५०; E५: २,३४८; E६: १,८२}*
SK
तथा याज्यापुरोरुचोः // MS_२,१.१९ //
SK
एवं सति याज्यापुरोनुवाक्ययोर् भेदेन दर्शनम् उपपद्यते, एन्द्र{*२/५५*} सानसिं रयिम् इत्य्{*२/५६*} ऐन्द्रयाज्यापुरोनुवाक्याद् वयम्, महान् इन्द्रो य ओजसा - इति{*२/५७*} भेदेन माहेन्द्रं दर्शयति, तदेकत्वे विकल्प्येत. तत्र, पक्षे बाधः स्यात्.
SK
NOTES: *{२/५५: E१,५; E२: इन्द्र, E४,६: ऐन्द्र}* *{२/५६: Tऐत्.S. ३.४.११.३}* *{२/५७: ṚV ५.८.९}*
SK
वशायाम् अर्थसमवायात् // MS_२,१.२० //
SK
यद् उक्तम् - अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्तीति, तद् युक्तम्, वशायाम् अर्थसमवायित्वं वयं प्रत्यक्षम् अवगच्छामः, छागस्य वपाया मेदसो ऽनुब्रूहीति{*२/५८*} यैव वशा सैव छागेति. तस्मात् प्रगाथस्योत्कर्षः संस्कारपक्षे, अतः प्रधानकर्मणी इति.
SK
NOTES: *{२/५८: Vग्ल्. Tऐत्.Bर्. ३.६.८}*
SK
यत्रेति वार्थवत्त्वात् स्यात् // MS_२,१.२१ //
SK
वाशब्दः पक्षं व्यावर्तयति, संस्कारकर्मणी एव स्तोत्रशस्त्रे, यच् चैतत्, प्रघाथस्योत्कर्ष इति, उत्कृष्यतां यत्रेन्द्रस् तत्र प्रघाथः, लिङ्गेन हि क्रमसन्निधी बाधितव्याव् एव.
SK
न त्व् आम्नातेषु // MS_२,१.२२ //
SK
अपरेषां मन्त्राणाम् उत्कृष्टानाम् अन्यत्रार्थवत्ता नास्ति, तेषाम् आनर्थक्यं स्यात्, यथा याम् याः शंसन्ति{*२/५९*}, शिपिविष्टवतीं{*२/६०*} पित[१२२]{*२/६१*}देवत्याम्{*२/६२*} आग्निमारुते{*२/६३*}, कुषुम्भकसूक्तम्, अक्षसूक्तम्, मूषिकासूक्तम् इत्येवमादीनाम्.
SK
NOTES: *{२/५९: E२,४: शंसति}* *{२/६०: मित् E६; E२,४,५: शिपिविष्टवतीः}* *{२/६१: E२: २,४०८; E४: २,४५६; E५: २,३५२; E६: १,८३}* *{२/६२: E२,४,५: शंसति पितृदेवत्याः, E६: पितृदेवत्याः}* *{२/६३: मित् E६; E२,४,५,: शंसति, आग्निमारुते}*
SK
दृश्यते // MS_२,१.२३ //
SK
तद् उच्यते - सर्वेषाम् अर्थवत्तास्ति, मण्डूकसूक्तस्याग्नौ, अक्षसूक्तस्य राजसूये, मूषिकासूक्तस्यैकादशिन्याम्, सर्वेषां वाचस्तोमे, सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचस्तोमे, पारिप्लवम् अश्वमेधे{*२/६४*} शंसतीति, तथा यस्याश्विने शस्यमाने सूर्यो नोदियाद् अपि सर्वा दाशतयीर् अनुब्रूयाद् इति, तस्माद् अस्त्य् अर्थवत्तोत्कृष्टानाम्. अतः संस्कारकर्मणी स्तोत्रशस्त्रे इति.
SK
NOTES: *{२/६४: Mइत् E६; E२,४ ओम्. अश्वमेधे, E५ हत् एस् गेक्लम्मेर्त्}*
SK
अपि वा श्रुतिसंयोगात् प्रकारणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम् // MS_२,१.२४ //
SK
अपि वा प्रधानकर्मणी स्तोत्रशस्त्रे स्याताम्. कुतः? श्रुतिसंयोगात्, सप्तमी श्रुतिसंयोगो हि भवति, कवतीषु स्तुवते, शिपिविष्टवतीषु स्तुवते - इति{*२/६५*}, यदि स्तुतिः, ततः कवत्यक्षरेष्व् आहिता. यदि प्रकाशनम्, ततो देवतायाम्, तत्र करणं कवत्यस्{*२/६६*} तृतीययाश्रोष्यम्{*२/६७*}, न सप्तम्या. अपि च - श्रुतिसंयोगो भवति, प्रौगं शंसति, निष्केवल्यं शंसतीति. अतः स्तुतिर् अभिनिर्वर्तयितव्या तेन मन्त्रेण, गुणवचनः शब्दः स्तुतिनिर्वर्तनार्थो ऽदृष्टम्{*२/६८*} अर्थं करिष्यति. तस्मात् प्रधानकर्मणी. [१२३]{*२/६९*} अपि च, श्रुतिसंयोगो भवति षष्ठीविभक्तिसंयोगः, यथेन्द्रस्य तु वीर्याणि प्रवोचम् इति{*२/७०*}. तेन देवताशब्दः स्तुतिसंबन्धार्थ इत्य् उच्यते, देवताभिधानार्थे प्रातिपदिकार्थत्वात् प्रथमा स्यात्. अथ यत् प्रथमान्तम्, तद् देवतार्थं भवितुम् अर्हति, यथा - इन्द्रो यातो वसितस्य{*२/७१*} राजेति{*२/७२*}. नेत्य् उच्यते, तद् अपि वाक्यसंयोगात् स्तुत्यर्थम् एव. ननु वाक्याल् लिङ्गं बलीयः. सत्यम्, एतद् अपि लिङ्गम्, यत् स्तुतिवाक्यस्य साकाङ्क्षस्य निराकाङ्क्षीकरणसामर्थ्यम्. तथाप्य् उभयथा लिङ्गे ऽनुगृह्यमाणे कुतो निर्णयः? वाक्यशेषाद् एव न देवताभिधानार्थ इति. देवताभिधानार्थ इत्य् एतस्मिन् पक्षे स्तुत्यर्थं साकाङ्क्षवचनम् अनर्थकम् एव स्यात्. तस्माद् अदृष्टार्थत्वात् स्तुतिवचनस्य प्रधानकर्मणी स्तोत्रशस्त्रे. अपि च - स्तौतिशंसतीति साक्षाद् गुणवचनौ लक्षणयाभिधानार्थौ स्याताम्, तस्मात् क्रियोत्पत्तिम् अपूर्वोत्पत्तिं विदध्याताम् इति.
SK
NOTES: *{२/६५: Vग्ल्. Tऐत्.S. ७.५.५.२}* *{२/६६: Vग्ल्. Sआम्.S. १.१६९}* *{२/६७: Mइत् E६; E२,४,५,: तृतीययाश्रोष्यन्त}* *{२/६८: Mइत् E६; E२,४,५: दृष्टम्}* *{२/६९: E२: २,४१०; E४: २,४६०; E५: २,३५५; E६: १,८४}* *{२/७०: Tऐत्.S. २.५.४.१}* *{२/७१: Mइत् E६; E२,४,५: ऽवसितस्य}* *{२/७२: ṚV १.३२.१५}*
SK
शब्दपृथक्त्वाच् च // MS_२,१.२५ //
SK
शब्देन पृथक्त्वम् एव गम्यते, द्वादशस्तोत्रशस्त्रो ऽग्निष्टोमः, इतरथा हि द्वादशत्वं न स्यात्. स्तोत्राणां शस्त्राणां च एकम् एव शंसनं स्तवनं च, अथ भेद आश्रीयते, ततो न द्वादशत्वे ऽवतिष्ठते.
SK
अनर्थकं च तद् वचनम् // MS_२,१.२६ //
SK
अग्निष्टुति{*२/७३*} श्रूयते - आग्नेया ग्रहा भवन्तीति, तत्र पुनर् उच्यते - आग्नेयीषु शंसन्तीति, तन् न विधातव्यम् एव यदि संस्कारकर्म{*२/७४*}. तस्माद् अपि प्रधानकर्मणी इति.
SK
[१२४]{*२/७५*}
SK
NOTES: *{२/७३: E२: अग्निस्तुतिः}* *{२/७४: E१,६; E२,४,५: संस्कारकर्मणी}* *{२/७५: E२: २,४१३; E४: २,४७१; E५: २,३५८; E६: १,८४}*
SK
अन्यश् चार्थः प्रतीयते // MS_२,१.२७ //
SK
संबद्धे वै स्तोत्रशस्त्रे वेति, यद्य् अन्यत् स्तोत्रम् अन्यच् छस्त्रम्, ततस् तयोः संबन्धः. यदि वापूर्ववचने ततो ऽन्यत् स्तोत्रम् अन्यच् छस्त्रम्, इतरथा यद् एव स्तोत्रं तद् एव शस्त्रं स्यात्.
SK
अभिधानं च कर्मवत् // MS_२,१.२८ //
SK
प्रधानकर्मण इव चाभिधानं भवति द्वितीयासंयोगेन, प्रौगं शंसतीति{*२/७६*} निष्केवल्यं शंसतीति.
SK
NOTES: *{२/७६: E१,६; E२,४,५ ओम्. इति}*
SK
फलनिर्वृत्तिश् च // MS_२,१.२९ //
SK
फलनिर्वृत्तिदर्शनं च भवति, स्तुतस्य स्तुतमसीत्येवमादि{*२/७७*}, इन्द्रवन्तो मनेमहि भक्षीमहि{*२/७८*} प्रजाम् इषं सा मे सत्य् आशीर्यज्ञस्य भूयाद् इति{*२/७९*} स्तोत्रफलम् अनूद्यते, न देवतायाः. तस्मात् प्रधानकर्मणी स्तोत्रशस्त्रे. अन्यत्र सूत्रबद्धं प्रयोजनम्, दशमे ऽध्याये{*२/८०*} ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः प्रधानकर्मत्वाद् अधिकारः स्यात्.
SK
NOTES: *{२/७७: Tऐत्.S. ३.२.७.१}* *{२/७८: E१,६; E२: वनामह धुक्षीमहि, E४,५: वनामहे धुक्षीमहि}* *{२/७९: Tऐत्.S. १.६.४.२}* *{२/८०: MS १०.४.४९}*
SK
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् // MS_२,१.३० //
SK
इदं समाम्नायते - न ता नशन्ति, न दभाति, तस्करो नासाम् आ मित्रो{*२/८१*} व्यथिर् आ दधर्षति. देवांश् च याभिर्यजते, ददाति च ज्योग् इत्ताभिः स च ते गोपतिः सहेति{*२/८२*}. यजते ददातीत्य् उदाहरणम्, किं यद्वद् ब्राह्मणे भावशब्दो विधायकस् तद्वन् मन्त्रे ऽपि, उत मन्त्रे ऽभिधायक{*२/८३*} इति. किं तावत् प्राप्तम्, विधौ मत्रे चाम्नायमानस्य भावशब्दस्य एक एवार्थः स्यात्, ऐक[१२५]{*२/८४*}शब्द्यात्, स एवायम् एकः शब्दो ब्राह्मणगतो विधास्यति, मन्त्रगतो न शक्नोति विधातुम् इत्य् अनुपपन्नम्, तस्माद् विधायकः.
SK
NOTES: *{२/८१: E१,६; E२,४,५: अमित्रो}* *{२/८२: Tऐत्.Bर्. २.४.६.११}* *{२/८३: E१,६; E२,४,५: ऽविधायक}* *{२/८४: E२: २,४१५; E४: २,४७६; E५: २,३६१; E६: १,८५}*
SK
अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् // MS_२,१.३१ //
SK
अपि वेति पक्षो व्यावर्त्यते, एवंजातीयको मन्त्रो ऽभिधानवचनः स्यात्, प्रयोगसामर्थ्यात्, प्रयोगे क्रियमाणे ऽस्य सामर्थ्यं विद्यते, गोदानं गोयागं च प्रत्याययितुम्, न विधातुम्. कुतः? विहितत्वाद् गोदानस्य दक्षिणाविधाने, गोयागस्य त्व् अनुबन्ध्यायाम्. कर्मान्तरं भविष्यतीति चेत्. न, असकृद् अप्य् उच्यमाने तत्प्रत्ययाद् एव. स्तुत्यर्थकल्पनायाम् अप्य् आनर्थक्यम्, परिसमाप्तेन सार्थवादकेन वाक्येन विहितत्वाद् यागस्य. तस्मान् न मन्त्रगतो भावशब्द एवंजातीयको विधायक इति.
SK
तच्चोदकेषु मन्त्राख्या // MS_२,१.३२ //
SK
मन्त्रगतो भावशब्दो विधायको नेति परीक्षितम्. को ऽयं मन्त्रो नामेति उच्यते. अज्ञाते मन्त्रे तद्गतो भावशब्दः कथं विचारित इति, इदम् अर्थो ऽधिकरणं पूर्वं द्रष्टव्यम्. कथं लक्षणो मन्त्र इति, तच्चोदकेषु मन्त्राख्या, अभिधानस्य चोदकेष्व् एवंजातीयकेष्व् अभियुक्ता उपदिशन्ति, मन्त्रान् अधीमहे, मन्त्रान् अध्यापयामः, मन्त्रा वर्तन्त इति. प्रायिकम् इदं लक्षणम्, अनभिधायका अपि केचिन् मन्त्रा इत्य् उच्यन्त{*२/८५*}, यथा वसन्ताय कपिञ्जलान् आलभत इति{*२/८६*}, न शक्यं पृष्ठाकोटेण{*२/८७*} तत्र तत्रोपदेष्टुम् इति लक्षणम् उक्तम् - ऋषयो ऽपि पदार्थानां नान्तं यान्ति [१२६]{*२/८८*} पृथक्कशः{*२/८९*}. लक्षणेन तु सिद्धानाम् अन्तं यान्ति विपश्चितः. उदाहरणम् - मेधो ऽसीत्येवमादयो ऽस्यन्ताः, इषे त्वेत्य्{*२/९०*}एवमादयस् त्वान्ताः, आयुर्दा असीत्य्{*२/९१*} आशीः, अग्निर्मूर्द्धेति{*२/९२*} स्तुतिः, सङ्खा{*२/९३*} एको ममेति{*२/९४*}, प्रलपितम् अक्षी ते इन्द्रपिङ्गले दुलेर्{*२/९५*} इवेति, परिवेदनम्{*२/९६*} अम्बे अम्बिक इति{*२/९७*}, प्रैष अग्नीद् अग्नीन् इति{*२/९८*}, अन्वेषणं को ऽसि कतमो ऽसीति{*२/९९*}, पृष्ठं{*२/१००*} पृष्ठामि{*२/१०१*} त्वेति{*२/१०२*}, आख्यानम् इयं वेदिर् इति{*२/१०३*}, अनुषङ्गो ऽच्छिद्रेण पवित्रेणेति{*२/१०४*}, प्रयोगः त्रैस्वर्यं चातुस्वर्यं{*२/१०५*} च, सामर्थ्यम् अभिधानम्, तच् चैतद् वृत्तिकारणेनोदाहरणोपदेशेनाख्यातम्{*२/१०६*}. एतद् अपि प्रायिकम् एव, असिमध्या अपि च मन्त्रा भवन्ति, ईड्यश् चासि वन्द्यश् च वाजिन् इति{*२/१०७*}, त्वामध्याश् च तत्त्वायामीति. आशीर् ब्राह्मणम् अपि, सो ऽकामयत प्रजाः सृजेयेति, स्तुतिर् अपि वायुर् वै क्षेपिष्ठा देवतेति{*२/१०८*}, प्रलापो न चैतद् विद्मो यदि ब्राह्मणा वा स्मो ऽब्राह्मणाः स्मो वेति{*२/१०९*}, परिदेवनं ये माम् अधुक्षन्त ते मां प्रत्यमुञ्चन्त इति, प्रैष अमुतः सोमम् आहरेति, अन्वेषणम् इह वा स इह वेति, प्रश्नः वेद कर्णवतीं सूर्मिम् इति, प्रतिवचनं विद्मो वेति, अनुषङ्गः हृदयस्याग्रे ऽवद्यत्य् अथ जिह्वाया अथ वक्षसीति{*२/११०*}, प्रयोगः त्रैस्वर्यं चातुस्वर्यं{*२/१११*} चेति, सामर्थ्यं स्रुवेणावद्यति द्रवेष्व् इति. लक्षणकर्मणि प्रयोजनं प्रसिद्धत्वान् न वक्तव्यम्, लघीयसी प्रतिपत्तिर् लक्षणेन. आक्षेपेष्व् अपवादेषु प्राप्त्यां लक्षणकर्मणि. प्रयोजनं न वक्तव्यं यश् च कृत्वा प्रवर्तते. आक्षेपेषु पूर्वाधिकरणस्य प्रयोजनम्, अपवादेषूत्सर्गस्य, प्राप्त्याम् उत्तरविवक्षा, कृत्वाचिन्तायां पूर्वाधिकरणस्य प्रयोजनम्. अस्ति वेदे मन्त्रशब्दो यस्यायम् अर्थः परीक्षितः, अहे बुध्निय मन्त्रं मे गोपाय यम् ऋषयस् त्रयीविदा विदुः, ऋचः सामानि यजूंषीति{*२/११२*}
SK
[१२७]{*२/११३*}
SK
NOTES: *{२/८५: E२,४,५,६: उच्यन्ते}* *{२/८६: Vआज्.S. २४.२०}* *{२/८७: E२,४: पृष्टाकोटेण}* *{२/८८: E२: २,४१९; E४: २,४८६; E५: २,३६८; E६: १,८६}* *{२/८९: Mइत् E६; E२,४,५: पृथक्त्वशः}* *{२/९०: Vआज्.S. १.१}* *{२/९१: Tऐत्.S. १.६.६}* *{२/९२: Tऐत्.S. ४.४.४.१}* *{२/९३: E२,४,५,६: संख्या}* *{२/९४: ŚPBर्. १.५.५.१२}* *{२/९५: E१,५,६,; E२: डुलर्, E४ डुलेर्}* *{२/९६: E२,४: परिदेवनम्}* *{२/९७: Vआज्.S. २३.१८}* *{२/९८: Tऐत्.S. ६.३.२}* *{२/९९: Vआज्.S. ७.२९}* *{२/१००: E२,४,५: पृष्टं}* *{२/१०१: E६: एबेन्सो, E२,४,५: पृच्छामि}* *{२/१०२: Vआज्.S. २३.६१}* *{२/१०३: Vआज्.S. २३.६२}* *{२/१०४: Tऐत्.S. १.१.५.१}* *{२/१०५: E२,४: चतुःस्वर्यं}* *{२/१०६: E१,६; E२,४,५: वृत्तिकारणेनोदाहरणापदेशेनाख्यातम्}* *{२/१०७: Vआज्.S. २९.३}* *{२/१०८: Tऐत्.S. २.१.१.१}* *{२/१०९: Mऐत्.S. १.४.११}* *{२/११०: E२,४,५,६: वक्षस इति}* *{२/१११: E२,४,५: चतुःस्वर्यं}* *{२/११२: Tऐत्.Bर्. १.२.१.२६}* *{२/११३: E२: २,४२१; E४: २,४८६; E५: २,३६९; E६: १,८७}*
SK
शेषे ब्राह्मणशब्दः // MS_२,१.३३ //
SK
अथ किं लक्षणं ब्राह्मणम्? मन्त्राश् च ब्राह्मणं च वेदः, तत्र मन्त्रलक्षण उक्ते परिशेषसिद्धत्वाद् ब्राह्मणलक्षणम् अवचनीयम्, मन्त्रलक्षणवचनेनैव सिद्धम्, यस्यैतल् लक्षणं न भवति, तद् ब्राहमणम् इति परिशेषसिद्धं ब्राह्मणम्. वृत्तिकारस् तु शिष्यहितार्थं प्रपञ्चितवान् इतिकरणबहुलम्, इत्य् आहोपनिबद्धम्, आख्यायिकास्वरूपम्, हेतुः सूर्पेण{*२/११४*} जुहोति तेन ह्य् अन्नं क्रियत इति{*२/११५*}, निर्वचनम्, तद् दध्नो दधित्वम्{*२/११६*}, निन्दा, उपवीता वा एतस्याग्नयः, प्रशंसा, वायुर् वै क्षेपिष्ठा देवतेति{*२/११७*}, संशयः, होतव्यं गार्हपत्ये न होतव्यम् इति, विधिः, यजमानसंमितौदम्बरी{*२/११८*} भवति{*२/११९*}, परकृतिः, माषान् एव{*२/१२०*} मह्यं{*२/१२१*} पचतीति{*२/१२२*}, पुराकल्पः, उल्मुखैर् ह स्म पूर्वे समाजग्मुर् इति, व्यवधारणकल्पना, यावतो ऽश्वान् प्रतिगृह्नीयाद् इति. हेतुर् निर्वचनं निन्दा प्रशंसा संशयो विधिः. परक्रिया पुराकल्पो व्यवधारणकल्पना. उपमानं दशैते तु विधयो ब्राह्मणस्य तु. एतद् वै{*२/१२३*} सर्ववेदेषु नियतं विधिलक्षणम्. एतद् अपि प्रायिकम्, इतिकरणबहुलो मन्त्रो ऽपि कश्चित्, इति वेति मे मनः{*२/१२४*}, इत्य्{*२/१२५*} आहोपनिबद्धश् च, भगं भक्षीत्य्{*२/१२६*} आह, आख्यायिकास्वरूपं चोग्रो ह भुज्यम् इति{*२/१२७*}, हेतुर् इदं वो{*२/१२८*} वामुशन्ति हि{*२/१२९*}{*२/१३०*}, निर्वचनं तस्माद् आपो नु स्थना{*२/१३१*} - इति{*२/१३२*}, निन्दा मोघम् अन्नं विन्दत अप्रचेतेति{*२/१३३*}, प्रशंसा - अग्निर् मूर्द्धेति{*२/१३४*}, संशयः - अधः खिदासीद्{*२/१३५*} उपरि खिदासीद्{*२/१३६*} इति{*२/१३७*}, विधिः - पृणीयादिन्न् आधमानायेति{*२/१३८*}{*२/१३९*}, परकृतिः - सहस्रम् अयुताददत्{*२/१४०*}{*२/१४१*}, पुराकल्पः - यज्ञेन यज्ञम् अयजन्त देवा इति{*२/१४२*}.
SK
[१२८]{*२/१४३*}
SK
NOTES: *{२/११४: E२,४,५,६: शूर्पेण}* *{२/११५: ŚPBर्. २.५.२.२३}* *{२/११६: Tऐत्.S. २.५.३.४}* *{२/११७: Tऐत्.S. २.१.१}* *{२/११८: E२,४,५,६: यजमानसंमितौदुम्बरी}* *{२/११९: Vग्ल्. Tऐत्.S. ६.२.१०.३}* *{२/१२०: E२,४,५: मे}* *{२/१२१: E२,४,५ ओम्. मह्यं}* *{२/१२२: E२,४,५: पचत इति}* *{२/१२३: E२,४: स्यात्}* *{२/१२४: E२,४: मनः इति}* *{२/१२५: ṚV १०.११९.१}* *{२/१२६: ṚV ७.४१.२}* *{२/१२७: Tऐत्.Ā. १.१०.२}* *{२/१२८: E२,४,५,६: इन्दवो}* *{२/१२९: E२,४: हीति}* *{२/१३०: ṚV १.२.४}* *{२/१३१: E२,४,५: स्थ न}* *{२/१३२: Tऐत्.S. ५.६.१.३}* *{२/१३३: ṚV ८.६.२३}* *{२/१३४: Tऐत्.S. ४.४.४}* *{२/१३५: E२,४,५,६: अधः स्विदासीद्}* *{२/१३६: E२,४,५,६: उपरि स्विदासीद्}* *{२/१३७: ṚV १०.१२९.५}* *{२/१३८: Mइत् E६; E२,४,५: आधमानाद् इति}* *{२/१३९: ṚV १०.११७.१५}* *{२/१४०: E२,४: अयुताददद् इति}* *{२/१४१: ṚV ८.२१.१८}* *{२/१४२: ṚV १०.९०.१६}* *{२/१४३: E२: २,४२२; E४: २,४९२; E५: २,३६९; E६: १,८७}*
SK
अनाम्नातेष्व् अमन्त्रत्वम् आम्नातेषु हि विभागः // MS_२,१.३४ //
SK
ऊहप्रवरनामधेयेषु संशयः, मन्त्रा उत नेति. अभिधायकत्वान् मन्त्रा इति प्राप्ते ब्रूमः - अनाम्नातेषु मन्त्रत्वं न स्याद् अभिधायकेष्व् अपि, नाभिधायकत्वं मन्त्रत्वे हेतुः, किं तर्ह्य् अभियुक्तप्रयोगः, ये अभियुक्तैर् मन्त्रा इति नोच्यन्ते, न ते मन्त्राः, न चैवमादायो मन्त्रसमाम्नाये सन्ति, तस्माद् अमन्त्राः. प्रयोजनम्, मन्त्रे दुष्टे यत् प्रायश्चित्तम् अमन्त्रेषु तन् न.
SK
तेषां ऋग् यत्रार्थवशेन पादव्यवस्था // MS_२,१.३५ //
SK
ऋच इत्य् अस्ति वेदे, अहे बुध्निय मन्त्रं मे गोपाय यम् ऋषयस् त्रयीविदा{*२/१४४*} विदुः ऋचो{*२/१४५*} यजूंषि सामानीति{*२/१४६*}. कथंलक्षणिका ऋचः? तेषाम् ऋग् यत्रार्थवशेन पादव्यवस्था, यत्र पादकृता व्यवस्था स मन्त्र ऋग् नामा, यथा - अग्निम् ईल इति{*२/१४७*}, एवंजातीयकेषु मन्त्रेष्व् अभियुक्ता उपदिशन्ति, ऋचो ऽधीमहे, ऋचो ऽध्यापयामः, ऋचो वर्तन्त इति. यद्य् अर्थवशेनेत्य् उच्यते, यत्र वृत्तवशेन तत्र न प्राप्नोति, अग्निः पूर्वेभिर् ऋषिभिर् इति{*२/१४८*}, यतो नार्थवशेनेति वृत्तादिवशव्यावृत्त्यर्थम्, किं तर्ह्य् अनुवाद एष प्रदर्शनार्थः. अवश्यं चैतद् एवं विज्ञेयम्, वृत्तादिनिर्वृत्त्यर्थे सति वाक्यं भिद्येत. तस्माद् यत्र पादकृता व्यवस्था, सा ऋग् इति.
SK
[१२९]{*२/१४९*}
SK
NOTES: *{२/१४४: E२: त्रयीविदो, E४: त्रैविदो}* *{२/१४५: E२,४: ऋचः सामानि}* *{२/१४६: Tऐत्.Bर्. १.२.१.२६}* *{२/१४७: ṚV १.१.१}* *{२/१४८: ṚV १.१.२}* *{२/१४९: E२: २,४२७; E४: २,५०४; E५: २,३७५; E६: १,८८}*
SK
गीतिषु सामाख्या // MS_२,१.३६ //
SK
अथ साम्नः किं लक्षणम्? विशिष्टा काचिद् गीतिः सामेत्य् उच्यते, प्रगीते हि मन्त्रवाक्ये सामशब्दम् अभियुक्ता उपदिशन्ति, सामान्य् अधीमहि, समान्य् अध्यापयामः, सामानि वर्तन्त इति, अभियुक्तोपदेशश् च नः प्रमाणम्. यथा - अम्लं{*२/१५०*} दधि, मधुरो गुड इति गीतिविशिष्टे तावन् मन्त्रे गीतिशब्दः, गीतिसंबन्धान् मन्त्रे संप्रत्यय इत्य् अवगन्तव्यम्.
SK
NOTES: *{२/१५०: E२: प्रत्यक्षा अम्लं, E४: यक्षा अम्लं}*
SK
शेषे यजुःशब्दः // MS_२,१.३७ //
SK
अथ यजुषः किं लक्षणम् इति. यजुषो लक्षणं न वक्तव्यम्, ऋग्लक्षणसामलक्षणाभ्याम् एव यजुर् विज्ञास्यते वैपरीत्येन, या न गीतिर् न च पादबद्धम्, तत् प्रश्लिष्टपठितं यजुर् इति.
SK
अथ निगदो नाम किं यजूंष्य् उत यजुषो ऽन्य इति?
SK
निगदो वा चतुर्थं स्याद् धर्मविशेषात् // MS_२,१.३८ //
SK
निगदाः न यजूंषि. कुतः? धर्मविशेषात्, उच्चैः ऋचा क्रियते, उच्चैः साम्ना, उपांशु यजुषा, उच्चैर् निगदेनेत्य् एष धर्मविशेषः, उच्चैर् निगदेनेत्य् अनूद्यते, यदि यजुषो निगदत्वं [१३०]{*२/१५१*} स्यात्, न च तस्योच्चैस् त्वं धर्मो दृश्येत. दृश्यते तु. तस्माच् चतुर्थं मन्त्रजातं निगदो नाम.
SK
NOTES: *{२/१५१: E२: २,४२८; E४: २,५१३; E५: २,३७९; E६: १,८९}*
SK
व्यपदेशाच् च // MS_२,१.३९ //
SK
व्यपदेशो ऽपि भवति, यजूंषि वर्तन्ते, न निगदाः. निगदा वर्तन्ते, न यजुंषीति. तस्माद् अपि मन्त्रान्तरम्.
SK
यजूंषि वा तद्रूपत्वात् // MS_२,१.४० //
SK
यजूंष्य् एव वा निगदाः. कुतः? तद्रूपत्वात्, तद् एवैषां रूपम्, यद् यजुषां प्रश्लिष्टपाठः, ऋक्सामलक्षणविलक्षणता च.
SK
वचनाद् धर्मविशेषः // MS_२,१.४१ //
SK
वचनात् प्रत्यायनसामर्थ्यात्, अस्ति हि पुरुषान्तरप्रत्यायनसामर्थ्यं केषांचिद् यजुषाम्.
SK
अर्थाच् च // MS_२,१.४२ //
SK
अस्ति च तैः पुरुषान्तरैः प्रत्यायितैः प्रयोजनम्, नोपंशूच्चार्यमाणाः पुरुषान्तरं प्रत्याययेयुः. तस्माद् धर्मविशेषो ऽर्थवान्. यानि च यजंष्य्{*२/१५२*} उच्चैर् उच्चार्यन्ते ते निगदाः. कुतः? निशब्द{*२/१५३*}, प्रकर्षस्य वक्ता, यथा प्रकर्षेण रक्तं नितरां रक्तम् इत्य् उच्यते. गदतिर् गदनार्थः पाठवचनः. एष एव हि प्रकर्षो यद् उच्चैस् त्वावच्छिन्नत्वं. ननु वाचनिको गुणो यजुषाम् उपांशुत्वम्. नेति ब्रूमः - गुणो नाम स भवति, यः स्वकार्यं कुर्वताम् उपकारे वर्तते, न च परसंबोधनार्थानां यजुषाम् उपांशुत्वं साहाय्ये वर्तते, तद् धि स्वकर्मक्रियाविघातं करोति, तेन पुरुषान्तरसंबोधनार्थम् उच्चैस् त्वं गुणः. इतरार्थं तु वचनं भविष्यति, इतराणि यानि [१३१]{*२/१५४*} यजूंषि न परसंबोधनार्थानि, तेषूपांशुत्वं निवेक्ष्यते.
SK
NOTES: *{२/१५२: E२,४,५,६: यजूंषि}* *{२/१५३: E२,४,५,६: निशब्दः}* *{२/१५४: E२: २,४३०; E४: २,५१७; E५: २,३८०; E६: १,८९}*
SK
गुणार्थो व्यपदेशः // MS_२,१.४३ //
SK
अथ यद् उक्तं व्यपदेश इति, स चैकत्वे ऽपि गुणतो भवति, यथेतो ब्राह्मणा भोज्यन्ताम्, इतः परिव्राजका इति. एवम् उच्चैस्त्वेन गुणेन तान्य् एव यजूंषि व्यपदिश्यन्ते, निगदा इति.
SK
सर्वेषाम् इति चेत् // MS_२,१.४४ //
SK
यदि य उच्चैर् गद्यते स निगदः, ऋग् अपि निगदः प्राप्नोति.
SK
न, ऋग्व्यपदेशात् // MS_२,१.४५ //
SK
न ऋचो निगदा{*२/१५५*} व्यपदिश्यन्ते, अयाज्या वै निगदा ऋचैव यजन्तीति पृथक्त्वनिमित्ता हि व्यपदेशा भवन्ति. उच्यते, व्यपदेशो लिङ्गम्, प्राप्तिर् उच्यताम् इति. अपादबद्धे गदतिर् वर्तते, अपादबद्धो हि गद्य इत्य् उच्यते.
SK
NOTES: *{२/१५५: E२,४: निगदा इति}*
SK
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् // MS_२,१.४६ //
SK
अथ प्रश्लिष्टपठितेषु यजुःषु कथम् अवगम्येत इयद् एकं यजुर् इति? यावता पदसमूहेनेज्यते, तावान् पदसमूहः एकं यजुः. कियता चेज्यते? यावता क्रियाया उपकारः प्रकाश्यते, तावद् वक्तव्यत्वाद् वाक्यम् इत्य् उच्यते. तेनाभिधीयते - [१३२]{*२/१५६*} अर्थैकत्वाद् एकं वाक्यम् इति, एतस्माच् चेत् कारणाद् एकवाक्यता भवति. तस्माद् एकार्थः पदसमूहो वाक्यम्, यदि च विभज्यमानं साकाङ्क्षं पदं भवति. किम् उदाहरणम्? देवस्य त्वा सवितुः प्रसव इति{*२/१५७*}. ननु पदं पदम् अत्रैकार्थम्. सत्यम्, न तु तद्विभागे साकाङ्क्षं. न तर्ह्य् अर्थैकत्वम् उपपद्यते. बहुत्वात् पदार्थानाम्, पदसमुदायस्य च पृथगर्थो नास्तीत्य् उक्तम्. भेदः संसर्गो वा वाक्यार्थ इति यद्य् उच्यते, तथाप्य् एकार्थता न स्यात्, बहुपदे भेदानां संसर्गाणां च बहुत्वात्. एकप्रयोजनत्वाद् उपपन्नम्, यथा तावद् देवस्य त्वेति निर्वापप्रकाशनम्, तस्य विशिष्टस्य वाचक एतावान् पदसमूहः, तत् वाक्यम्. नन्व् अत्र देवस्य त्वा सवितुः प्रसवे निर्वपामीत्य् एकं वाक्यम्, अश्विनोर् बाहुभ्यां निर्वपामीत्य् अपरम्, एवं बहूनि वाक्यानि. यदि निर्वपामीत्य् अनुषङ्गः, ततो बहूनि वाक्यानि, न त्व् एवम् अनुषङ्गो भवति, यदि गुणभूतो निर्वपामीति, तदा प्रतिप्रधानं भिद्येत. न च निर्वापो देवस्य त्वेत्येवमादीनाम् अर्थेनोच्यते, साधनप्राधान्ये ह्य् अदृष्टार्थता वचस्य स्यात्. निर्वापे पुनः प्रधाने दृष्टं कार्यं निर्वापप्रकाशनम्, तत् सर्वैर् विशेषणैर् विशिष्टम् उच्यते. तस्माद् अविरोधः. यथा च पदं पदेन विशेष्यते तथोक्तं तद्भूतानाम् इति{*२/१५८*}. तस्माद् एकं वाक्यम्. अथ किं अर्थम् उभयं सूत्रितम्, अर्थैकत्वाद् इति च विभागे साकाङ्क्षत्वाद्{*२/१५९*} इति च, उच्यते, भवति किंचिद् एकार्थम्, न तु विभागे साकाङ्क्षम्, यथा भगो वां विभजतु, अर्यमा वां विभजत्व् इत्य् एकार्थाः सर्वे विभागम् अभिदधति. ननु भगविशिष्टाद् विभागाद् अर्यम् अविशिष्टो ऽन्यो विभागः. नेत्य् उच्यते, [१३३]{*२/१६०*} विभागसामान्येनास्य प्रयोजनम्, न विशेषेण, सामान्ये हि दृष्टो ऽर्थो भवति, न विशेषे, विभागे तु न साकाङ्क्षम्. तस्माद् भिन्नम् इदं वाक्यं विभागे विकल्प्यते. तथा स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं{*२/१६१*} कल्ययामि{*२/१६२*}. तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमान इति{*२/१६३*} विभागे साकाङ्क्षम्, द्वे तु प्रयोजने क्रियेते, सदनकरणं पुरोडाशप्रतिष्ठापनं च. तस्माद् भिन्ने वाक्ये, पूर्वं सदनकरणे विनियुज्यते, उत्तरं{*२/१६४*} पुरोडाशप्रतिष्ठापने. तस्मात् सम्यक् सूत्रितम्, न सूत्रोपालंभो भवति.
SK
NOTES: *{२/१५६: E२: २,४३५; E४: २,५२२; E५: ३,३८३; E६: १,९०}* *{२/१५७: Tऐत्.S. १.१.४.२}* *{२/१५८: Vग्ल्. MS १.१.२५}* *{२/१५९: Mइत् E५,६; E२,४: साकाङ्क्षम्}* *{२/१६०: E२: २,४३८; E४: २,५२२; E५: २,३८७; E६: १,९१}* *{२/१६१: E२,४: सुशेवं, E६: सुषेवम्}* *{२/१६२: E२,४,५,६: कल्पयामि}* *{२/१६३: Tऐत्.Bर्. ३.७.५.२-३, Mआन्ŚS}* *{२/१६४: E२: उत्तरे}*
SK
समेषु वाक्यभेदः स्यात् // MS_२,१.४७ //
SK
ईषे त्वा, ऊर्जे त्वेति{*२/१६५*}, तथा - आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम् इति{*२/१६६*}. अत्र सन्देहः, किम् एवमादिषु भिन्नं वाक्यम् उतैकम् इति? एकम् इति ब्रूमः, ईषे त्वेत्य् एवम् उक्ते न किंचिद् दृष्टं प्रयोजनम्, तथा - ऊर्जे त्वेत्य् अपि च, वचनसामर्थ्याद् अदृष्टम्, तद् उभाभ्याम् एकं कल्पयितुं न्याय्यम्, एवम् अल्यीयस्य् अदृष्टानुमानकल्पना भविष्यति. तस्माद् एकं वाक्यम्. एवं प्राप्ते ब्रूमः - समेषु वाक्यभेदः स्यात्, समेषु परस्परानाकाङ्क्षेषु वाक्यं भिद्यते, ईषे त्वेत्य् अनेनैको ऽर्थः क्रियते, ऊर्जे त्वेत्य् अनेनापरः. ननु इदानीम् एवोक्तं नात्र दृष्टो ऽर्थ इति. यद्य् अपि प्रत्यक्षादिना प्रमाणेन नोपलभ्यते, श्रुत्या तु गम्यते, ईषे त्वेति छिनति, ऊर्जे त्वेत्य् अनुमार्ष्टीति{*२/१६७*}. तथा - आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम् इत्य् आयुःकॢप्तेर् अन्या प्राणकॢप्तिः. ननु सामान्यमात्रम् इदं तन् न विशेषणभेदाद् भेदम् अर्हतीति, यथा - अग्नये जुष्टं निर्वपामीति [१३४]{*२/१६८*} निर्वाप एकस् तस्य विशेषाः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पुष्णो{*२/१६९*} हस्ताभ्याम् इति, न तेषां भेदान् निर्वापस्य भेद इष्यते, एवम् इहापि कॢप्तिर् नामैको ऽर्थः, नासाव् आयुरादिभिर् विशेषैर् भिन्नो भविष्यतीति. उच्यते - इह कॢप्तीर् वाचयतीति बह्वः{*२/१७०*} कॢप्तयः श्रूयन्ते, ताश् च वक्तव्याः, तत्रैकाम् आयुःकॢप्तिम् आयुःयज्ञेन कल्पताम् इत्य् एष मन्त्रः शक्नोति वदितुम्, प्राणो यज्ञेन कल्पताम् इत्य् अयम् अपि प्राणकॢप्तिम् अपराम्, एवं तु सर्वे कॢप्तिविशेषवचनाः, तच् च दृष्टं प्रयोजनम्. तस्माद् अनेकार्थत्वात् तत्रापि वाक्यभेद इति. ननु सामान्यवचनाद् एकत्वं यथा विभागे. नैतद् एवम्, विभागे दृष्टार्थं सामान्यम् इह न. अपि च कॢप्तीर् वाचयतीति विहितम्, आयुःयज्ञेन कल्पताम् इति चायुःकॢप्त्यभिधानम् अभिनिवर्त्यते प्रत्यक्षम्. प्राणो यज्ञेन कल्पताम् इति च प्राणकॢप्तेः. तस्माद् वाक्यभेदः.
SK
NOTES: *{२/१६५: Tऐत्.S. १.१.३, Vआज्.S. १.१}* *{२/१६६: Tऐत्.S. १.७.९.१}* *{२/१६७: Vग्ल्. ŚPBर्. १.१.६.६, १.७.१.२, ४.३.१.७}* *{२/१६८: E२: २,४४१; E४: २,५४०; E५: २,३९०; E६: १,९१}* *{२/१६९: E२,४,६: पूष्णो}* *{२/१७०: E२,४,५,६: बह्व्यः}*
SK
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वत् // MS_२,१.४८ //
SK
या ते अग्ने ऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा, उग्रं वचो अपावधीत् त्वेषं वचो अपावधीत् स्वाहा, या ते अग्ने रजाशया, या ते अग्ने हराशयेत्य्{*२/१७१*} अत्र सन्देहः, तनूर्वर्षिष्ठेति किं सर्वेष्व् अनुषक्तव्यम्, आहोस्विल् लौकिको वाक्यशेषः कर्तव्य इति. किं प्राप्तम्? या ते अग्ने रजाशयेत्य् एतस्य तनूर्-वर्षिष्ठेति न वाक्यशेषः, न ह्य् अयम् अस्मात् परः प्रयुज्यते. एवं प्राप्ते ब्रूमः - अनुषङ्गो वाक्यसमाप्तिः स्यात् तनूर्वर्षिष्ठेति, यथैव ह्य् अयं या ते अग्ने ऽयाशयेत्य् एतस्यानन्तरम्, एवं या ते अग्ने रजाशया, या ते अग्ने हराशयेत्य् एतयोर् अपि. हराशयेत्य् एतस्य व्यवहित इति चेत्. तन् न, समुदायस्याव्यवधानात्, अव्यवहितो रजाशयेति समुदायः [१३५]{*२/१७२*} समुदायेन च वाक्यशेषस्य संबन्धाभावात् समुदायिभ्यां संबन्धः, समुदायिसंबन्धे च न गम्यते विशेषः. तस्मात् सर्वत्रानुषङ्गः. अपि च साकाङ्क्षस्य सन्निधौ परस् तात्पुरस्ताद् वा परिपूर्णसमर्थः श्रूयमाणो वाक्यशेषो भवति. कियांस् तु कालः सन्निधिर् इति? उच्यते - यावति शक्नोत्य् उभाव् अप्य् अपेक्षितुम्. कश् चासौ? आनन्तर्यं संबन्धिपदव्यवायो वा, तावति हि शक्नोत्य् उभाव् अप्य् अपेक्षितुम्, संबन्धिपदव्यवाये हि संबन्धाद् एव पूर्वसंस्कारो नापैति. यत्राप्य् अपरेण साकाङ्क्षेन व्यवायस् तत्राप्य् अस्ति संबन्धः, द्वयोर् अपि हि कार्यं वक्तव्यम् इति, परः पूर्वम् अपेक्षते, अनपेक्षमाने ऽन्यतरः प्रमादपाठः स्यात्, शक्यते चासाव् अपेक्षितुम्, तस्माद् यथैवायम् एकस्य सन्निधाव् एवम् अपरस्य, द्वयोर् अप्य् असंबद्धैः पदैर् अव्यवहितत्वात्, द्वयोर् अप्य् आकाङ्क्षतोर्{*२/१७३*} एतावच् च वाक्यशेषसंबन्धे कारणम्, नानन्तर्यम्, अव्यवधाने विच्छेदे ऽपि भवति संबन्धः. तस्माद् अनुषङ्गः. अथेह कथं भवितव्यम्? यत्र निराकाङ्क्षाणां सन्निधौ परिपूरणसमर्थः श्रूयते, यथा चित्पतिस् त्वा पुनातु, वाक्य्पतिस् त्वा पुनातु, देवस्य त्वा{*२/१७४*} सविता पुनात्व् अछिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिर् इति{*२/१७५*}, अत्र हि पुनात्व् अन्तानि परिपूर्णानि न किंचिद् आकाङ्क्षन्ति. नन्व् अछिद्रेणेत्य् एतद् आकाङ्क्षिष्यति{*२/१७६*}. सत्यम् आकाङ्क्षति, आकाङ्क्षद् अप्य् एतद् एकम् आकाङ्क्षेत्, एकेनैवैतन्{*२/१७७*} निराकाङ्क्षं संपद्यत इति, एकेन हि निराकाङ्क्षीकृतो नेतराव् आकाङ्क्षिष्यति, अन्-अर्थकत्वाद् आकाङ्क्षति, एकेन च संबद्धो नानर्थको भवति. तस्मान् नेतराव् आकाङ्क्षतीति, इतराव् अपि परिपूर्णत्वान् न तम् आकाङ्क्षतः. नन्व् एतस्य वाक्यशेषस्यैकम् अप्य् आकाङ्क्षतो न गम्यते विशेषः, केन निराकाङ्क्षीक्रियते, केन वा नेति. तेनानवगम्यमाने विशेषे सर्वैः सह संभन्त्स्यते. आह, नैतद् एवम्, येनास्य प्रत्यक्षम् आनन्तर्यम् उपलभामहे तेन सह संभन्त्स्यत इति गम्यते विशेषः, तस्मात् तेनानन्तरेण सह संभ[१३६]{*२/१७८*}न्त्स्यत इति नास्ति सर्वत्रानुषङ्ग इति. आह - नैतद् एवम्, पुनातुशब्देनास्य प्रत्यक्षम् आनन्तर्यम् उपलभामहे, पुनातुशब्दस्यापि चित्पतिस् त्वेत्येवमादिभिः, एकश् चासौ पुनातुशब्दः पुनः पुनर् उच्चरितः, तेनावगच्छामः, यत्र पुनातुशब्दः प्रयुक्तः, तत्र तेनैकवाक्यत्वाद् अछिद्रेणेत्य् अयम् अपि प्रयोक्तव्यः, तथा च सति चित्पतिस् त्वेत्येवमादयो विना पुनातुशब्देन, साकाङ्क्षाः, ते च पुनातुशब्दम् आकाङ्क्षन्ति, स च पुनातुशब्दो ऽछिद्रेणेत्य् अनेन विशिष्टः, तेन पुनातुशब्देन सानुषङ्गेण नियोगतः सर्वे निराकाङ्क्षीकर्तव्याः. तस्मात् सर्वेषु तुल्यप्रयोगा इति वाक्यपरिसमाप्तिर् अनुषज्यते.
SK
NOTES: *{२/१७१: Tऐत्.S. १.२.११.२}* *{२/१७२: E२: २,४४६; E४: २,५५१; E५: २,३९४; E६: १,९२}* *{२/१७३: E२,४: आकाङ्क्षावत्त्वात्}* *{२/१७४: E२,४: देवस् त्वा}* *{२/१७५: Tऐत्.S. १.२.१.२}* *{२/१७६: E२: आङ्क्षति, E५: आकाङ्क्षति}* *{२/१७७: E२,४,६: एकेनैव तन्निराकाङ्क्षं}* *{२/१७८: E२: २,४५१; E४: २,५५२; E५: २,३९६; E६: १,९३}*
SK
व्यवयान् नानुषज्येत // MS_२,१.४९ //
SK
सं ते वार्युर्{*२/१७९*} वातेन गच्छताम्, सं जयत्रैर् अङ्गानि{*२/१८०*}, सं यज्ञपतिर् आशिषा{*२/१८१*} इति. वार्युर्{*२/१८२*} वातेन गच्छताम् इत्य् एष सं यजत्रैर् अङ्गानीति बहुवचनान्तन व्यवहितत्वात् संयज्ञपतिर् आशिषेत्य् अत्र नानुषज्यत{*२/१८३*}, एकेन साकाङ्क्षेण व्यवेतो{*२/१८४*} गच्छताम् इति शेषः, ततो बहुवचनान्तेन सं यजत्रैर् अङ्गानीत्य् एतेन संबन्धम् अनुपेत्य व्यवेतत्वात् परेण न संबध्यते, गम्यते हि तदा विशेषः, एकेन व्यवेत इति, गम्यमाने विशेषे न तत्र भावो वाक्यशेषस्योपपद्यते. तस्माद् बहुवचनान्तस्य परस्य च तद्व्यपेतस्य लौकिको वाक्यशेषः कर्तव्य इति.
SK
[१३७]{*२/१८५*}
SK
NOTES: *{२/१७९: E२,४,६: वायुर्}* *{२/१८०: E२,४,६: यजत्रैर् अङ्गानि}* *{२/१८१: Tऐत्.S. १.३.८.१}* *{२/१८२: E१,५; E२,४,६: वायुर्}* *{२/१८३: E२: नानुषञ्जते, E४: नानुषज्जते, E५: नानुषज्यते, E६: नानुषज्ज्यते}* *{२/१८४: E२,४,६: साकाङ्क्षेणाव्यवेतो}* *{२/१८५: E२: ३,१; E४: ३,१; E५: २,४०१; E६: १,९४}*
SK
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् // MS_२,२.१ //
SK
अस्ति ज्योतिष्टोमस् तत्र श्रूयते - सोमेन यजेत, दाक्षिणानि जुहोति, हिरण्यमात्रेयाय ददातीति{*२/१८६*}; यजति - ददाति - जुहोतयस् ते किं संहत्य कार्यं कुर्वन्ति, उत वियुत्येति संशयः, साधकाः संहत्यापि साधयन्तो दृश्यन्ते, वियुत्यापि. संहत्य तावत्, त्रयो ग्रावाण एकामुखां धारयन्तो दृश्यन्ते, नागदन्तकास् तु वियुत्यापि, एकैकस्मिन् हि शक्यते शिक्यम् अवलम्बयितुम्. अतो यजति, ददाति, जुहोतव्यः संहत्य साधयेयुर् वियुत्य वेति जायते संशयः. किं तावत् प्राप्तम्, संहत्येति. कुतः? अदृष्टार्थानाम् उपकारकल्पनाल्पीयसी न्याय्येति. कथम्?
SK
अदृष्टो यो ऽश्रुतो वार्थः, स नास्तीत्य् अवगम्यते/ तस्मिन्न् असति दृष्टश् चेत् श्रुतो वा न विरुध्यते//
SK
विरुध्यमाने कल्प्यः स्याज् जायते तेन सो ऽर्थवान्/ विशेषश् चेन् न गम्येत, ततो नैको ऽपि कल्प्यते//
SK
गम्यते च विशेषः, बहुभ्य एकम् अपूर्वम् इति. तस्मात् समुदायश् चिकीर्षितः, ततो ह्य् अदृष्टे कल्प्यमाने, अवयवानां समुदायं प्रत्य् अर्थवत्त्वाद् एकम् अपूर्वं समुदायात् कल्पितं भविष्यति. न च, अशब्दः समुदायः, अवयवशब्दैर् एव समुदायस्योक्तत्वात्. तस्मात् समुदायश् चिकीर्षितः. अथ वा यजेतेत्य् एतस्य पूर्वो भागो [१३८]{*२/१८७*} यजत्य् अर्थं ब्रवीति, उत्तरस् तम् एव{*२/१८८*} भावयेद् इत्य् अनुवदति, एवं जुहोतीति पूर्वो भागो जुहोत्य् अर्थम्, उत्तरस् तम् एवानुवदति. तेनैकस्यां भावनायां त्रयो यजत्य् आदय उपाया विधीयन्ते श्रुत्या. तस्माद् एतैर् यागदानहोमैर् विशिष्टापूर्वस्य भावना प्रतीयते, अत उच्यते - संहत्यैकम् अपूर्वं साधयन्तीति. यद् वा यजतिशब्देन विहितं दानं दानहोमशब्देनानूद्यते गुणसम्बन्धार्थम्, तस्माद् एकम् अपूर्वम् इति प्राप्तम्. एवं प्राप्ते ब्रूमः - प्रतिशब्दम् अपूर्वभेद इति, शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्, यजेतेत्य् अनेन केवलस्य यागस्य कर्तव्यतोच्यते, न तु जुहोतिशब्दाभिहितस्य ददातिशब्दाभिहितस्य वा, शब्दान्तरत्वात्. प्रयोगवाक्यशेषभावेन हि समुदायस्य सत्तासम्बन्धो गम्यते, श्रुत्यावयवस्य, यजेत - इति सन्निहितयोर् अपि वाक्येन दानहोमयोः, श्रुत्या यागस्यैव सत्तासम्बन्धो गम्यते, न दानहोमयोः. श्रुतिश् च वाक्याद् बलीयसी. तस्मान् न समुदायः शब्दः, कल्प्यमानो हि प्रयोगवचनेनैकवाक्यतां नीत्वा कल्प्येत, शब्दान्तरं च यजतेर् ददातिः. तत्र यद्य् अपि परो भागो भावनावचनः सर्वेषु समानः, तथाप्य् एकैकस्य पूर्वो ऽवयवो ऽन्यः, अन्यश् च तेन समुदायः शब्दान्तरम् अन्यस्मात् समुदायात्, तत्रार्थान्तरं व्यक्तम्, दद्याद् इति दानेन साधयेद् इति केवलम् एव दानं करणं भावनायाः प्रतीयते, न यागहोमौ सहायाव् अपेक्षते. तथा जुहोतीति होमसाधनां भावनाम् आह, न दानयागाव् अपेक्षते. तत्रैतावच् छब्देनावगतम्, दानेन केवलेन सिध्यतीति जुहोतीत्य् अपि होमेन केवलेन सिध्यतीति, न तु दानेन केवलेन सिध्यतीति विज्ञानम् निवर्तते. ददाति तर्हि स्वेन कारकग्रामेण कृतानुबन्धो न यागं होमं वानुबन्धम् अपेक्षते. तस्माद् भिन्नानि वाक्यनि, प्रतिशब्दम् अपूर्वभेदः [१३९]{*२/१८९*} इति. न च दानस्य यजति जुहोतिर् वानुवादो यागहोमयोर् अविवक्षाप्रसङ्गात्. न च दानम् इतरयोर् अनुवादः, परस्वत्वार्थत्वाद् ददातेः, इतरयोश् च त्यागार्थत्वात्. प्रयोजनं पूर्वपक्षे समुदायाद् अपूर्वम्, सिद्धान्ते तु यागस्य फलवत्त्वाद् इतरयोर् गुणभावः.
SK
NOTES: *{२/१८६: ŚPBर् ४.३.४.२१}* *{२/१८७: E२: ३,३; E४: ३,१; E५: २,४०५; E६: १,९४}* *{२/१८८: E२,५,६ ओम्. तम् एव}* *{२/१८९: E२: ३,८; E४: ३,२; E५: २,४१०; E६: १,९५}*
SK
एकस्यैवं पुनःश्रुतिर् अविशेषाद् अनर्थकं हि स्यात् // MS_२,२.२ //
SK
समिधो यजति, तनूनपातं यजतीत्येवमादिः{*२/१९०*} पञ्चकृत्वो ऽभ्यस्तो यजतिशब्दः किम् एकम् अपूर्वं चोदयति, किं प्रत्यभ्यासम् अपूर्वभेद इति. शब्दान्तरे कर्मभेद उक्तः, इह स एव शब्दः पुनः पुनर् उच्चार्यते. तस्माद् एकम् एवात्रापूर्वम्. नन्व् अपूर्वान्तरम् अविदधद् अनर्थको भवति. सत्यम् एवाप्रयोजनो भवति, बहुकृत्वो ऽपि चोच्चार्यमाणो नान्यार्थो भवति, यत् प्रथमे उच्चारणे{*२/१९१*} गम्यते, शततमे ऽपि{*२/१९२*} तद् एव गम्यते. तस्मात् पञ्चकृत्वो ऽभ्यस्तो यजतिशब्द एकम् अपूर्वं चोदयति. न चाभ्यासो ऽनर्थको भविष्यति, तनूनपादादीर् देवता विधास्यति, तस्माद् एकम् अपूर्वम्. एवं प्राप्ते ब्रूमः - एकस्यैवं पुनःश्रुतिः स्यात्, कर्मभेदं कुर्याद् इत्य् अर्थः. तावत्य् एव विधीयमाने ऽसति कस्मिंश्चिद् विशेषे पुनःश्रुतिर् अनर्थका भवेत्. ननूक्तं न शक्नोत्य् अर्थान्तरं विधातुम् इति. उच्यते - समिधो यजतीत्य् अपि प्रथमो ऽनुवाद एव, दर्शपूर्णमासाभ्यां यजेतेति यागः प्राप्त एव. तत्र देवता न शक्या विधातुम्, श्रुतिप्राप्ता हि तत्र देवता, इयं वाक्यात् प्रकरणाद् वा, तयोर् विकल्पो न न्याय्यः, स एष देवतायागसंबन्धो [१४०]{*२/१९३*} विधीयमानो ऽक्रियमाणे यागे न शक्यः कर्तुम् इत्य् अनर्थकः स्यात्. क्रियमाणे तु शक्यते. तस्माद् अभ्यसितव्यो यागः, प्रत्यभ्यासं चादृष्टभेद{*२/१९४*} इति, न च यत् समित्संबन्धेन क्रियते, तत् तनूनपात्संबन्धेन, भिन्नत्वात् तयोः, अतो न विकल्पः. प्रयोजनं{*२/१९५*} पूर्वपक्षे सकृत् प्रयोग इति, सिद्धान्ते पुनः पुनः प्रयोग इति.
SK
NOTES: *{२/१९०: Tऐत्.S. २.६.१.१-२}* *{२/१९१: E२,४ (व्.ल्.): यत् प्रथमं उच्चार्यमाणे}* *{२/१९२: E२,४ (व्.ल्.): शतकृत्वो ऽपि}* *{२/१९३: E२: ३,१५; E४: ३,२०; E५: २,४१५; E६: १,९६}* *{२/१९४: E२,४ (व्.ल्.): वापूर्व}* *{२/१९५: E२,४ (व्.ल्.): पक्षोक्तं}*
SK
प्रकरणं तु पौर्णमास्यां रूपावचनात् // MS_२,२.३ //
SK
एवं हि समामनन्ति - यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवति{*२/१९६*}; ताव् अब्रूताम् अग्नीषोमाव् आज्यस्यैव ताव् उपांशु{*२/१९७*} पौर्णमास्यां यजन्न् इति; ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालं पौर्णमासे प्रायच्छत्{*२/१९८*}; ऐन्द्रं दध्यमावास्यायाम् ऐन्द्रं पयो ऽमावास्-यायाम् इति{*२/१९९*}. तथाघारम् आघारयति{*२/२००*}; आज्यभागौ यजति, स्विष्टकृते समवद्यति, पत्नीसंयाजान् यजति, समिष्टयजुर् जुहोति{*२/२०१*}. तथा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वान् अमावास्यां यजत इति{*२/२०२*}. तत्र संदेहः - सर्वाण्य् एतानि समप्रधानानि, उताग्नेयादीनि पयोन्तानि प्रधानानि, आघारादीन्य् आरादुपकारकाण्य् अङ्गानि? तथा, य एवं विद्वान् इत्य् एवं संयुक्तौ प्रकृतानां कर्मणाम् अनुवदितारौ, अथ वा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वान् अमावास्यां यजत इत्य् अपूर्वयोः कर्मणोर् विधातारौ, तत्रेतरे गुणविधय इति. किं{*२/२०३*} प्राप्तम् - शब्दान्तर-त्वाद् अभ्यासाच् च समप्रधानानीति प्राप्ते ब्रूमः{*२/२०४*} - प्रकरणं तु पौर्णमास्याम्, प्रकृतानाम् आग्नेयादीनाम् अनुवदितारौ पौर्णमास्यमावास्यासंयुक्तौ. कुतः? रूपावचनात्, य एवं विद्वान् पौर्णमासीसंज्ञकं यागं यजत इति न सर्वे यागा [१४१]{*२/२०५*} उच्यन्ते, यः पौर्णमासीसंज्ञकः स विधीयते, न चैतद् एवम् अवगच्छामः, कीदृशम् एवंसंज्ञकस्य यागस्य रूपम् इति, ते न{*२/२०६*} किंचित् प्रतिपद्येमहि. अतो ब्रूमः - यद्य् अपूर्वस्य विधाताराव् अनर्थकाव् इति. अथ नु प्रकृतानाम् अनुवदितारौ, ततः सन्निहिताः पौर्णमास्यमावास्यासंयुक्ता यागा इति गम्यते रूपम्, तत्रार्थवत्ता वचनस्य. कथं पुनर् एकवचनान्तो बहूनां वाचको भविष्यतीति यद्य् उच्यते. समुदायशब्दतयावकल्पिष्यते, रूपवन्तो हि पूर्वप्रकृता यागाः, तेषां च प्रचयशिष्टः समुदायो ऽप्य् अस्ति तदपेक्षो ऽयम् अरूपशब्दः, तस्माद् एकवचनान्तता न दोषः, भवति हि बहूनाम् एकवचनान्तः शब्दः समुदायापेक्षः, यथा - यूथं वनं कुलं परिषद् इति. यदाग्नेयादीनां समुदायवचनावेतौ, तदा दर्शपौर्णमासशब्देनैत एवाभिधीयन्ते. तत एषां फलसंबन्धः, फलवत् सन्निधेस् त्व् आघारादीन्य् आरादुपकारकाणीति.
SK
NOTES: *{२/१९६: Tऐत्.S. २.६.३.३}* *{२/१९७: E१,६; E२,५: नाव् उपांशु; E४: नाव् उवांशु}* *{२/१९८: Vग्ल्. ŚPBर् १.६.२.१४}* *{२/१९९: Tऐत्.S. २.५.४.१}* *{२/२००: Tऐत्.S. २.५.११.६}* *{२/२०१: ŚPBर् १.९.२.२५}* *{२/२०२: Tऐत्.S. १.६.९.१-२}* *{२/२०३: E२,४ (व्.ल्.): किं तावत्}* *{२/२०४: E२,४ (व्.ल्.): उच्यते}* *{२/२०५: E२: ३,२३; E४: ३,३७; E५: २,४२१; E६: १,९६}* *{२/२०६: E२,४: तेन न; E६: तेन}*
SK
विशेषदर्शनाच् च सर्वेषां{*२/२०७*} समेषु ह्य् अप्रवृत्तिः स्यात् // MS_२,२.४ //
SK
यदि च सर्वाणि समप्रधानान्य् अभविष्यन्, न विकृतौ प्रयाजा दृष्टन्ताम् दृश्यन्ते तु - प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*२/२०८*}, असत्याग्नेयगुणत्वे प्रयाजस्य तन्नोपपद्यते{*२/२०९*}. अतो न सर्वाणि समप्रधानानि.
SK
NOTES: *{२/२०७: E२,४ (व्.ल्.): पूर्वेषां}* *{२/२०८: Tऐत्.S. २.३.२.३}* *{२/२०९: E२,४: नोपपद्येत}*
SK
गुणस् तु श्रुतिसंयोगात् // MS_२,२.५ //
SK
नैतद् अस्ति, पौर्णमास्यमावास्यासंयुक्तौ समुदायशब्दाव् इति, किं त्व् अपूर्वयोः कर्मणोर् विधातारौ, तथा न लक्षणशब्दो [१४२]{*२/२१०*} भविष्यति. ननु रूपं नास्ति. वाक्यान्तरेण रूपम् अवगमिष्यामः. पौर्णमास्याम् आग्नेयो ऽष्टाकपालो भवतीति यद् एतत् पौर्णमासीनाम् कर्म, तस्यैतद् रूपम्, अग्निर् देवता, पुरोङाशो द्रव्यम् इति. अत आग्नेयादिभिर् गुणो विधीयत इति.
SK
NOTES: *{२/२१०: E२: ३,३२; E४: ३,७०; E५: २,४२५; E६: १,९७}*
SK
चोदना वा गुणानां युगपच् छास्त्राच् चोदिते हि तदर्थत्वात् तस्य तस्योपदिश्येत // MS_२,२.६ //
SK
कर्मचोदना वाग्नेयादयः स्युः. कुतः? गुणानां युगपच् छासनात्, एकेनैव वाक्येनात्रानेको गुणो विधातुम् इष्यते भवता, न च, शब्दान्तरेण चोदिते कर्मण्य् अनेको गुणः परस्परसंबन्धे चासति शक्यते विधातुम्. कथम्? यदि तावत् पौर्णमास्याम् अष्टाकपालो भवतीति संबन्धो विवक्षितः, न तदायम् अर्थो ऽष्टाकपालः सत् तयाभिसंबध्यत इति, कस् तर्ह्य् अष्टाकपालः पौर्णमास्याभिसंबन्ध्यत इति? तत्र तदा भवतिर् वर्तते, तदानीम् आग्नेय इत्य् अयम् अस्यान्तिकाद् अप्य् उपनिपतितो भवति संबन्धाभावान् नानेन संबन्धम् अर्हति, अष्टाकपाल आग्नेयो भवतीति. अथाग्नेयः पौर्णमास्यां भवतीति विवक्ष्यते. तदाग्नेयपुरोङाशयोर् असंबन्ध एव स्यात्. अथ पौर्णमास्याम् अष्टाकपालस्याग्नेयता विधीयते. वक्तव्यम्{*२/२११*}, केन तस्याम् अष्टाकपालो विहित इति. अथ तस्याम् आग्नेयस्याष्टाकपालता. तथाप्य् एष दोषः{*२/२१२*}. अथ पौर्णमासीत्य् उभाभ्यां संबध्येत. परस्परेण द्रव्यदेवतयोर् असंबन्ध एव{*२/२१३*} स्यात्. अथ द्रव्यदेवते परस्परेण विशिष्टे सत्यौ पौर्णमास्या संबध्येयाताम् इत्य् उच्यते. आग्नेयो ऽष्टाकपालो यः, स पौर्णमास्यां भवतीति, तस्याप्रसिद्धत्वाद् एतद् अप्य् अयुक्तम्. अथ केनचिद् अग्नये सङ्कल्पितः पौर्णमास्यां विधीयते. तथापि देवताया अविधानाद् रूपाभाव एव. अथाग्निर् देवता भविष्यतीति कश्चिद् ब्रूयात्. स [१४३]{*२/२१४*} वक्तव्यः - मिथश् चानर्थसंबन्ध इति, न ह्य् आग्नेयशब्दो ऽनुवादो विधिश् च भवतीति. कल्पयिष्यामो देवताम् इति चेत्. न, असति विधाने देवताया अभावात्. संबन्धिशब्दो ऽयं देवतेति स एवाग्निर् अष्टाकपालस्य देवता, नाज्यस्य. तस्माद् अवश्यम् आग्नेयाष्टाकपालसंबन्धो विधातव्यः, स एष यागो भवतीति, तेन पौर्णमासीयागस्यापरो यागः संबन्धी विधीयते, न द्रव्यं देवता वा. न च यागस्य यागान्तरं रूपं भवति. अतो रूपावचनात् पौर्णमास्यम् आवास्यासंयुक्तौ नापूर्वयोः कर्मणोर् विधातारौ. यत् तूक्तम् - पौर्णमास्यमावास्याशब्दौ लक्षणया प्रकृतान् यागाननुवदितुं शक्नुतो नाञ्जस्येनेति. नैष दोषः, यदाञ्जस्येन शब्दार्थो नावकल्पते, तदा लक्षणयापि कल्प्यमानः साधुर् भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठति, अग्निसमीपे, अवटसमीपे तिष्ठतीति भवति संव्यवहारः. लक्षणापि हि लौकिक्येवेति.
SK
NOTES: *{२/२११: E२,४ (व्.ल्.): तत्र वक्तव्यम्}* *{२/२१२: E२,४ (व्.ल्.): तथापि स एव दोषः}* *{२/२१३: E२,४ (व्.ल्.): ओम्. एव}* *{२/२१४: E२: ३,३६; E४: ३,७२; E५: २,४२९; E६: १,९८}*
SK
व्यपदेशश् च तद्वत् // MS_२,२.७ //
SK
उग्राणि ह वैतानि हवींष्य् अमावास्यायां संभ्रियन्ते, आग्नेयं प्रथमम् ऐन्द्र उत्तर इति सम्-उच्चयं दर्शयति, आग्नेयादीनां गुणत्वे विकल्पः स्यात्. तत्राग्नेयं प्रथमम्, ऐन्द्र उत्तरे द्व इति व्यवदेशो नावकल्पेत, विकल्पे संभारपौर्वापर्यानुपपत्तिर् इति.
SK
लिङ्गदर्शनाच् च // MS_२,२.८ //
SK
लिङ्गं च दृश्यते - चतुर्दश पौर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशामावास्यायाम् इति.
SK
[१४४]{*२/२१५*}
SK
NOTES: *{२/२१५: E२: ३,३८; E४: ३,८५; E५: २,४३५; E६: १,९९}*
SK
पौऋणमासीवद् उपांशुयाजः स्यात् // MS_२,२.९ //
SK
जामि वा एतद् यज्ञस्य क्रियते यद् अन्वञ्चौ पुरोडाशाव् उपांशुयाजम् अन्तरा यजतीति{*२/२१६*}, विष्णुर् उपांशु यष्टव्यो ऽजामित्वाय, प्रजापतिर् उपांशु यष्टव्यो ऽजामित्वाय, अग्नीषोमाव् उपांशु यष्टव्याव् अजामित्वाय इति. तत्र सन्देहः - उपांशुयाजमन्तरा यजतीति किं विष्ण्वादिगुणकानां प्रकृतानां यागानां समुद्-आयस्य वाचकः, अथ वापूर्वस्य यागस्येति. तत उच्यते - पौर्णमासीवद् उपांशुयाजो भवितुम् अर्हति. कुतः - नामसंबन्धात्, नामसंबद्धो हि विशिष्टो यागः श्रूयते, उपांशुयाजसंज्ञकः, न च द्रव्यदेवते रूपम्, प्रकृताश् चोपांशुगुणका यागा विद्यन्ते. तस्मात् समुदायशब्द इति. ननूपांशुगुणकं यागान्तरम् उपांशुत्वेन रूपेण रूपवद् विधीयते. न एवंजातीयकः शब्द उपांशुविशिष्टं यागं शक्नोति वक्तुम्, उपांशुयाग इति हि तस्य वक्ता, चजोः कु घिण्ण्यतोर्{*२/२१७*} इति{*२/२१८*} कुत्वेन भवितव्यम्, अव्युत्पन्नः पुनर् उपांशुयाजशब्दः. तस्मान् न रूपवद् यागान्तरम्. अथापि नामसंयुक्तं यजतिसामान्यम् एव, तथाप्य् अनुपदिष्टदेवताद्रव्यरूपं न यागान्तरं प्रतिपद्येमहि. नन्व् एवं सति प्रकृतानाम् अप्य् अवाचकः प्राप्नोति. मा भूद् उपांशुयाजशब्दः, यजतिशब्दो भविष्यति, तथा सत्य् उपांशुयाजशब्दे ऽप्य् अनुवादत्वाद् अनाञ्जस्ये ऽपि न दोषः.
SK
[१४५]{*२/२१९*}
SK
NOTES: *{२/२१६: Vग्ल्. Tऐत्.S.२.६.६.४}* *{२/२१७: E५: कुघिष्णतोः}* *{२/२१८: Pआण्. ७.३.५२}* *{२/२१९: E२: ३,४०; E४: ३,९०; E५: २,४३९; E६: १,९९}*
SK
चोदना वाप्रकृतत्वात् // MS_२,२.१० //
SK
कर्मान्तरस्य वाचकः स्यात्, उपांशुयाजं यजतीति. कुतः? प्रकृतानां यागानाम् अभावात्, न चेत् प्रकृता विद्यन्त{*२/२२०*}, कस्य समुदायं वक्ष्यति? नन्व् इदानीम् एवोक्तं विष्ण्वादिगुणकाः प्रकृता यागा विद्यन्त इति. न विद्यन्ते, न हि, ते विधयो विष्णुर् उपांशु यष्टव्य इत्येवमादयः. अर्थवादा हि ते. कथम्? अस्मिन् वाक्ये विध्यन्तरस्य भावात्, उपांशुयाजम् अन्तरा यजतीति एतद् एतस्मिन् वाक्ये विधी-यते. यदीमे ऽपि विधीयेरन्, भिद्येत{*२/२२१*} तर्हि वाक्यम्. अपि च - यागस्य विष्ण्वादिनां च संबन्धो ऽत्र गम्यते वाक्ये, न च यागस्य विधानम्. ननु च, उपांशुयाजम् अन्तरा यजतीत्य् अत्राप्य् अन्तरालसंबन्धो ऽवगम्यते. वाढम्{*२/२२२*}, स तु विधीयत उपांशुत्वादिसंबन्धः. एकं हीदं वाक्यं नानेकं विधातुम् अर्हति. कथम्? जामि वा एतद् यज्ञस्य क्रियत इत्य् एवम् उपक्रमम् एतद् वाक्यम् अजामित्वायेत्य् एवम् अन्तम्, तस्य मध्ये समाम्नातं विष्ण्वादिवाक्यं तेन संबन्ध्य-मानं न वाक्यान्तरं भवितुम् अर्हति. तस्माद् विष्णुर् उपांशु यष्टव्य इत्येवमादयो न विधयः, किं तर्ह्य् अर्थवादाः. कः पुनर् अर्थवादः? आग्नेयाग्नीषोमीययोर् निरन्तरं क्रियमाणयोर् जामितादोष उक्तः, तं भिषजितुम्, उपांशुयाजम् अन्तरा यजतीति विहितम्. कथं तेन भिषजिष्यते? तस्मिन् क्रियमाणे ज्ञायत एव, यथा विष्णुर् यष्टव्यः प्रजापतिर् अग्नीषोमौ चेति{*२/२२३*}, ततश् च व्यवधानाद् अजामितावगम्यत एव, तेनाजामितार्थवादं वक्ष्यामीति विष्ण्वादिसंबन्धो ऽनूद्यते, न त्व् अन्तरालसंबन्धस्यान्यत् प्रयोजनम् अस्त्य् अतो विधानात्. कथं विष्ण्वादयो यष्टव्या इत्य् एतद् अवगम्यते? यष्टव्यान् अयष्टव्यान् वा विष्ण्वादीन् उपांशुयाजाभिष्टवाय सङ्कीर्तयतीति गम्यते. [१४६]{*२/२२४*} तत्र केचित् तावद् आहुः - प्राप्ता एवेति. कुतः? शाखान्तरे विधानाद् इति. यद्य् अप्य् अप्राप्तिः, तथाप्य् उपांशुत्वसामान्यात् प्रजापतिर् देवता विष्णुश् चेत्य् अनुवादाव् एव, उपांशुधर्माणौ हि विष्णुप्रजापती, तस्माद् यत्किञ्चित् प्राजापत्यं यज्ञे क्रियते, तद् उपांश्व् एव क्रियत इत्येवमादिसङ्कीर्तनान् मन्त्रसमाम्नानाच् च विष्णुम् अप्राप्तम् अपि प्राप्तम् इव वदेत्. अग्निषोमयोस् तु विधायकम् उदाह्रियते - एताव् अब्रूयाताम्{*२/२२५*} अग्नीषोमाव् वाज्यस्यैव ताव् उपांशु पौर्णमास्यां यजन् इति, तस्माद् यागान्तरम्.
SK
NOTES: *{२/२२०: E२,४,५,६ (रिछ्तिग्): विद्यन्ते}* *{२/२२१: E१,५; E२,४,६: भिद्यते}* *{२/२२२: E२,४,६: बाढम्}* *{२/२२३: E१,५,६; E२,४: वेति}* *{२/२२४: E२: ३,४६; E४: ३,९१; E५: २,४४५; E६: १,१००}* *{२/२२५: E१,६; E२,४,५: एव ताव् अब्रूताम्}*
SK
गुणोपबन्धात् // MS_२,२.११ //
SK
यद् उच्यते, न ज्ञायते, कतमो ऽसाव् उपांशुयाजसंज्ञको याग इति, यस्यायं गुण उपबद्धः, उपांशु पौर्णमास्यां यजन् इति. तस्मान् न दोषः.
SK
प्राये वचनाच् च // MS_२,२.१२ //
SK
प्रधानकर्मप्राये वचनम्, प्रधानकर्मताम् उपोद्बलयति, यथा, अग्र्यप्राये लिखितं दृष्ट्वा भवेद् अयम् अग्र्य इति मतिः. तस्मान् न समुदायशब्द इति.
SK
आघाराग्निहोत्रम् अरूपत्वात् // MS_२,२.१३ //
SK
आघारम् आघारयतीति{*२/२२६*} श्रूयते, तथेमान्य् अपराणि, ऊर्ध्वम् आघारयति, सन्ततम् आघारयति, ऋजुम् आघारयतीत्येवमादि{*२/२२७*}. इदं चाग्निहोत्रं जुहोति, तथा, दध्ना जुहोति, पयसा जुहोतीत्येवमादि. तत्र सन्देहः - किम् ऊर्ध्वम् [१४७]{*२/२२८*} आघारयति, दध्ना जुहोतीत्येवमादिभिर् आघारा होमाश् च विहिताः, तेषाम् आघारम् आघारयति, अग्निहोत्रं जुहोतीत्य् एतौ समुदायानुवादौ, उतैताव् एवापूर्वयोर् आघारहोमयोर् विधाताराव् इति. किं तावत् प्राप्तम्? नापूर्वयोर् विधी इति. कुतः? अरूपत्वात्, न हि, एतयोः पूर्वेभ्यो होमाघारेभ्यो विशिष्टं रूपम् अस्ति. यतः कर्मान्तरम् अध्यवसेयम्. अतः प्रकृतत्वात्{*२/२२९*} प्रकृतानुवादौ.
SK
NOTES: *{२/२२६: Tऐत्.S. २.५.११.६}* *{२/२२७: Tऐत्.S. २.५.११.७}* *{२/२२८: E२: ३,४९; E४: ३,११०; E५: २,४५०; E६: १,१०१}* *{२/२२९: E१,६; E२,४,५: प्रकृतानां रूपवत्त्वात्}*
SK
संज्ञोपबन्धात् // MS_२,२.१४ //
SK
संज्ञोपबन्धश् च भवति, अग्निहोत्रं नाम होमं जुहोतीति, आघारसंज्ञकं कर्म करोतीति, संज्ञाविशिष्टावाघारहोमौ विधीयेते. न च विज्ञायते{*२/२३०*}, को ऽसाव् आघारो नाम कर्मविशेषः, कश् आग्निहोत्रसंज्ञक इति. ननु विज्ञायते, आघारणम् आघारः, हवनं होमः. यद्य् आघारणसामान्यं होमसामान्यं च विधीयेते, विज्ञातपूर्वौ तर्ह्य् आघारहोमौ, तेनानुवादौ. अथाव्युत्पन्ना उभयोर् अपि संज्ञा, तथापि नाघाराग्निहोत्रसामान्यम् उच्येत, विशेषाश्रयत्वात् संज्ञायाः. न च, स विशेषो गम्यत इत्य् अपूर्वावाघारहोमविधी नावकल्प्येते. अपि च कथं क्रिया साधनशब्देनोच्येत? ईप्सिततमं हि यत् साधनम्, तत् द्वितीयान्तेनोच्यते, क्रिया तिङन्तेन. अनुवादपक्षे क्रियाणां समुदायो ऽर्थान्तरम्, तत् ईप्सिततमं साधनं भविष्यति.
SK
NOTES: *{२/२३०: E१,५; E२,४,६: विज्ञायेते}*
SK
अप्रकृतत्वाच् च // MS_२,२.१५ //
SK
न च, प्रकृतम् अपि द्रव्यदेवतम् आघारे विद्यते. येन रूपवान् स्यात्. तस्माद् एताव् अपि समुदायशब्दाव् इति.
SK
[१५०]{*२/२३१*}
SK
NOTES: *{२/२३१: E२: ३,५२; E४: ३,१२०; E५: २,४५९; E६: १,१०१}*
SK
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्, तत्सन्निधेर् गुणार्थेन पुनः-श्रुतिः // MS_२,२.१६ //
SK
न चैतद् अस्ति, समुदायशब्दाव् इति, कर्मान्तरचोदने स्याताम्. कुतः? शब्दार्थस्य प्रयोगभूतत्वात्, आघारयति, जुहोतीति, होमाघारौ प्रयोक्तव्याव् इति शब्दार्थः, तेन कर्मान्तरे विधीयेत इत्य् अवगच्छामः. आघाराग्निहोत्रशब्दौ च हवनाघारणसामान्यवाचिनौ प्रज्ञातौ, अतो नाविज्ञातार्थौ. तेन रूपवन्तौ सन्तौ विधीयेते. यद् उक्तम्, ऊर्ध्वम् आघारयति, दध्ना जुहोतीत्येवमादिभिर् विहितत्वाद् अनुवादाव् इति. नैतद् एवम्, न ह्य् एते होमाघारौ विधातुं शक्नुवन्ति. ऊर्ध्वम् आघारयति, दध्ना जुहोतीति च नैतद् उक्तं भवति, आघारः कर्तव्यः, होमः कर्तव्य इति, किं तर्हि, ऊर्ध्वताघारसंबन्धः कर्तव्यः, दधिहोमसंबन्धः कर्तव्य इति. तस्माद् अराप्तत्वान् नानुवादौ. ननु संबन्धे विहित अर्थाद् धोमाघारौ भविष्यतः. नैतद् एवम्, अस्मिन् हि सति विधानेन संबन्धः. तस्मान् नार्थाद् आपद्येते होमाघारौ, अतो ऽपूर्वौ विधीयेत इति ब्रूमः. नन्व् आघारयति, जुहोतीति होमाघारगतो व्यापारः श्रूयते, न दध्यूर्ध्वतादिसंबन्धः. सत्यं न श्रूयते. तस्मिन् निधेर् गुणार्थेन व्यापारश्रवणम् अवकल्पिष्यते. ननु पदार्थान्तरगतं व्यापारं श्रुतिर् न शक्नोति वदितुम्. सत्यम् एवम् एतत्, स्वपदार्थगतं वक्ष्यति, तं तु स्वपदार्थं गुणशब्दो विशेक्ष्यति, स एव{*२/२३२*} विशिष्टः प्रत्येष्यत इति भवेद् एतत्, विशिष्यात् स्वपदार्थं गुणशब्दः, न त्व् एष{*२/२३३*} गुणगतो व्यापारः प्रतीयेत. तत्र किं भविष्यति? अव्याप्रियमाणे ऽपि गुणे शब्दार्थावकॢप्तो भविष्यति. गुणवचनसन्निधिर् इदानीं किम् अर्थः? अनर्थकस् तु. कथं पुनर् अनर्थको [१४९]{*२/२३४*} नाम वेदो{*२/२३५*} भवितुम् अर्हति? सत्य् अर्थे नानर्थकः, असति त्व् अर्थे किम् अन्यद् उच्येत. एवं तर्हि वाक्याद् भविष्यति, श्रुत्यर्थे सति न वाक्यार्थो ऽवकल्प्यते. सत्यम् एवम् एतत्. अविवक्षिते त्व् अवकल्पिष्यते. कथम् अविवक्षा? गुणवचनस्याप्रमादपाठात्, स्वपदार्थस्य च शब्दान्तरेण विहितत्वात्. तस्मात् सिद्धम् - गुणार्थेन दध्ना जुहोतीत्येवमादीनां पुनःश्रुतिः{*२/२३६*}. जुहोतेर् उच्चारणं चानुवादो गुणसंबन्धार्थः. यदि जुहोतीत्य् अनुवादः, केनेदानीं गुणो विधीयते? दधिशब्देनेति मा वोचत. नन्व् इदानीम् एव वाक्याद् गुणव्यापारो{*२/२३७*} गम्यत इत्य् उक्तम्. सत्यम् एवम् एतत्, अविधीयमानस् तु कुतो गम्यत इति, प्रमाणम् अस्य नावगम्येत. असति प्रमाणे व्यामोहः स्यात्. एवं तर्हि विधायकौ जुहोत्याघारयतिशब्दौ. कस्य तर्ह्य् अनुवादः? धात्वर्थस्येति ब्रूमः. यदि विधायकौ, पूर्वम् एव विहिते स्वार्थे, किम् अर्थं पुनर् उच्चार्येते? वाक्यार्थो यस् तं विधातुम् इत्य् अदोषः. तस्मात् कर्मान्तरचोदने. यद् उक्तम् - नास्त्य् आघारे प्रकृतं द्रव्यदेवतम् इति. किम् एवं सति द्रव्यदेवतेन, यदा प्रसिद्धार्थाभिधानान् निर्ज्ञातम् एवास्य रूपम्. अपि च, चतुर्गृहीतं वैतद् अभूत् तस्याघारम् आघार्येत्य् आज्यमस्य द्रव्यम्, मान्त्रवर्णिको देवताविधिः, इन्द्र ऊर्ध्वो ऽध्वरो दिवि स्पृशतु महतो यज्ञो यज्ञपत इन्द्रवान् स्वाहेत्याघारम् आघारयतीति{*२/२३८*}, एवम् असाव् इन्द्रवान् यद्य् अस्येन्द्रो देवता, तद् यदि देवताभिधानम् एतद् आघारस्य, ततो ऽनेनाघारः कृतो भवति. तस्मात् कर्मान्तरे, न समुदायशब्दाव् इति सिद्धम्.
SK
[१५०]{*२/२३९*}
SK
NOTES: *{२/२३२: E१,५; E२,४,६: एव}* *{२/२३३: E१,६; E२,४,५: एवं गुणगतो}* *{२/२३४: E२: ३,५८; E४: ३,१२१; E५: २,४६३; E६: १,१०२}* *{२/२३५: E१,६; E२,४,५: वेदे}* *{२/२३६: E२,४: पुनःश्रुतिर् इति}* *{२/२३७: E१,६; E२,४,५: गुणगतो व्यापारो}* *{२/२३८: Vग्ल्. Tऐत्.S. १.१.१२.१}* *{२/२३९: E२: ३,६४; E४: ३,१५३; E५: २,४६६; E६: १,१०३}*
SK
द्रव्यसंयोगाच् चोदना पशुसोमयोः, प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन // MS_२,२.१७ //
SK
ज्योतिष्टोमे श्रूयते - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*२/२४०*}, तत्रेदम् आमनन्ति, हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति{*२/२४१*}. तथा{*२/२४२*} सोमेन यजेतेति, तत्रापि{*२/२४३*}, ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णातीत्येवमादि. तत्र संशयः, किम् अवद्यति गृह्णाति{*२/२४४*} - चोदितानां कर्मणाम् एवालभतियजती समुदायस्यानुवदितरौ, अथापूर्वयोः कर्मणोर् विधाताराव् इति. किं तावत् प्राप्तम्? समुदायस्येति. कुतः? ये इमे आलभतियजतिभ्यां कर्मणी विधीयेयाताम् इति चिन्त्येते, पूर्वम् एव त अवद्यतिगृह्णातिभ्याम् अवगमिते. न चावगमितो ऽर्थो विधीयते. हृदयादींस् तु पशुशब्देनानुवदति, सोमशब्देन च रसम्. तस्मात् सोमेन यजेतेत्य् अनुवादो यजतिः यजेत स्वर्गकाम इति{*२/२४५*} फलसम्बन्धार्थः. पशुम् आलभेतेति चालभतिर् अग्नीषोमसंबन्धार्थः. अपि च, दशैतान् अध्वर्युः प्रातःसवने ग्रहान् गृह्णातीति समुच्चयो दृश्यते. तथाश्विनो दशमो गृह्यते, तृतीयो हूयत इति च क्रमः. यदि चापूर्वौ यागौ विधीयेते, तत्रैन्द्रवायवादिभिर् देवता विधीयेरन्, ता एकार्थाः सन्त्यो विकल्पेरन्. यथा, खादिरे बध्नाति, पालाशे बध्नाति रोहितके बध्नातीति. तत्र क्रमसमुच्चयदर्शने नोपपद्येयाताम्, अथ पुनर् अस्मिन् समुदायवचने, यजतौ सम्यग् एतद् अवकॢप्तं भवति. तस्मात् समुदायानुवादौ. [१५१]{*२/२४६*} एवं प्राप्ते ब्रूमः - अपूर्वयोः कर्मणोर् विधानचोदने पशुसोमयोः. कुतः? सोम-शब्दः क्षीरिण्यां लतायां प्रसिद्धो न रसे, आकृतिवचनो हि सोमशब्दो न व्यक्तिवचनः. तथा, शृङ्गिणि पुच्छवति लोमशे चतुष्पदि द्रव्यविशेषे पशुशब्दम् आकृतिवचनम् उपचरन्ति, न च, एवम् आकृतिकद्रव्याः प्रकृता यागा विद्यन्ते. येषाम् इमौ समुदायस्यानुवदितारौ भवेयाताम्. ननु पशु-विकारो हृदयादिः पशुशब्देनाग्नीषोमसंबन्धार्थम् अनूद्यते. नैतद् एवम्, पशुर् अग्नीषोमीयो भवतीत्य् एतावद् उच्यते, नायं प्रकृतो हृदयादिः पशुर् इति. तत्र यदि, लौकिकस्य पशोर् ग्रहणं ततो मुख्यः पशुशब्दः, यदि हृदयादेः, ततो जघन्यो विकारसंबन्धेन. तथा, सोमशब्दो ऽपि विकारसंबन्धेनानुवादः स्यात्. तस्माद् अपूर्वे कर्मणी विधीयेयातां नानुवादौ. अथैन्द्रवायवादिषु प्रकृतेषु यागेषु लता विधीयेतेति. उच्यते - न, सा शक्या वाक्येनैन्द्रवायवी ज्ञातुम्, श्रुत्या हि रस ऐन्द्रवायवः. तस्माद् द्रव्यसंयोगवचनः प्रकृतेषु यागेष्व् अपि सत्सु विधातुम् अनुवदितुं वा न शक्नुवन्न् अनर्थकः स्यात्. तस्माद् अपूर्वकर्मणी विधीयेयाताम्, न प्रकृतानाम् अनुवादाव् इति.
SK
NOTES: *{२/२४०: Tऐत्.S. ६.१.११.६}* *{२/२४१: Tऐत्.S. ६.३.१०.४}* *{२/२४२: E६: यथा}* *{२/२४३: E१,६; E२,४,५: तथा}* *{२/२४४: E२,४: अवद्यतिगृह्णातिभ्यां}* *{२/२४५: E१,६; E२,४,५: स्वर्गकामो वसन्ते वसन्त इति}* *{२/२४६: E२: ३,६८; E४: ३,१५३; E५: २,४७०; E६: १,१०३}*
SK
अचोदकाश् च संस्काराः // MS_२,२.१८ //
SK
एवं तावत्, प्रकृतेषु सत्स्व् अपि नानुवादाव् इत्य् उक्तम्, अथेदानीम्, प्रकृता एव यागा न सन्तीत्य् उच्यते. कुतः? अचोदकाः संस्काराः, न च, ऐन्द्रवायवादिभिर् यागा विधीयन्ते, तेन ग्रहणम् उपकल्पनमात्रं दृष्टार्थम्, उपकल्प्यमाने तु देवता[१५२{*२/२४७*}]सङ्कीर्तनम् अदृष्टाय. अतः, ऐन्द्रवायवं गृह्णातीतीन्द्रवायुभ्यां संकल्पयतीत्य् एतावद् उक्तं भवति, तत्र यागम् अन्तरेण संकल्पयतीत्य् एतन् न युज्यत इति यागः कल्प्येत, स एवाम्नातो यागः, यस्मिन् सति संकल्पो ऽवकल्प्येत. तस्मान् न, ऐन्द्रवायवं गृह्णातीत्येवमादिभिर् यागा विधीयेरन्, प्रकृतानां यागानाम् अभावान् न समुदायशब्दो यजतिः, तथा लभतिशब्द{*२/२४८*} इति.
SK
NOTES: *{२/२४७: E२: ३,७२; E४: ३,१६७; E५: २,४७४; E६: १,१०४}* *{२/२४८: E२,४,५,६ (रिछ्तिग्): तथालभतिशब्द}*
SK
तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् // MS_२,२.१९ //
SK
पशौ वृत्ता कथा दशमे पुनर् उद्भविष्यति, सोम इदानीं वर्तते. कथं क्रमसमुच्चयाव् इति. इन्द्रवाय्वाद्या देवता नैवं श्रूयन्ते, इन्द्रवायुभ्यां यागो निर्वर्तयितव्यः, मित्रावरुणाभ्यां यागो निर्वर्तयितव्य इति, यद्य् एवम् अश्रोष्यन्त, यागं प्रति देवता व्यकल्पिष्यन्त, केवलया हि देवतया तदा यागो निर्वर्त्यत इति विहितम् अभविष्यत्. अथ पुनर् इमाः अदृष्टार्थं गृह्णाति संस्कारं प्रति देवता विधीयन्ते, तत्रेन्द्रवायुसंकल्पाद् अन्यो मित्रावरुणसंकल्पः, तेन गृह्णातौ तत्कृताद् अदृष्टाद् अदृष्टान्तरम् उत्पादयति, एवम् अपरेष्व् अपि ग्रहणेषु, तस्मात् समुच्चयः. ग्रहणं तु{*२/२४९*} नियतपरिमाणेषूर्ध्वपात्रेषु प्रादेशमात्रेषु नियतपरिमाणेषूदककलशेषु संस्कृतस्य दशमुष्टिपरिमितस्य कृत्स्नस्य सोमस्य नावकल्पते. यद्य् अपि चावकल्पेत, तथापि नित्यविहितानां देवतानां विकल्पपक्षे तावत् प्रयोगवचनो मा बाधीत्य् अव[१५३]{*२/२५०*}यवग्रहणम् एव न्याय्यम्, कृत्स्नग्रहणे हि तद् एवेन्द्रवायुभ्यां संकल्पितम्, तद् एव मित्रावरूणाभ्याम् इति नावकल्पेत. तस्मात् कल्पनभेदात् पृथगवस्थितः सोमो नानादेवतत्वाद् एव नैक्येन शक्यः कर्तुम्. न चासति देवतायागे देवताभ्यः शक्यते संकल्पयितुम्. तस्माद् अवश्यं यथासंकल्पिता देवता यष्टव्याः, तासु चेज्यमानासु ज्योतिष्टोमेन यजेतेति श्रुतो यागो निर्वृत्त एव भवति, न देवतान्तरम् आकाङ्क्षति, कृत्स्नेन च दशमुष्टिना सोमेन यागः श्रुतः, सो ऽसत्य् अभ्यासे नावकल्पत इत्य् अर्थात् स गुणो भविष्यतीत्य् अभ्यसितव्यो यागः, न ह्य् अनभ्यस्तः सर्वाभिर् देवताभिः सर्वेण च{*२/२५१*} सोमेन संपन्नो भविष्यति. तस्मिंश् चाभ्यस्यमाने क्रमसमुच्चयौ युक्ताव् एव भवतः, तस्मात् तयोर् दर्शनं युज्यते एवेति.
SK
NOTES: *{२/२४९: E१,५,६; E२,४: च}* *{२/२५०: E२: ३,७९; E४: ३,१७४; E५: २,४७८; E६: १,१०५}* *{२/२५१: E२,४ ओम्. च}*
SK
संस्कारस् तु न भिद्येत, परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् // MS_२,२.२० //
SK
यद् अप्य् उच्यते - यथा खादिरे बध्नाति, पालाशे बध्नातीति खादिरादयः संस्कारे विकल्पन्ते, तद्वद् देवता विकल्पयिष्यन्त इति, तच् च नैवं युक्तम्, तत्र संस्कारम् अभिनिर्वर्तयितुं खादिरादयः श्रूयन्ते. यदि चेन्द्रवाय्वाद्या अपि ग्रहदेवता यागम् अभिनिर्वर्तयितुं श्रूयेरन्, ततो ऽत्रापि विकल्पः स्यात्, न त्व् एता यागे श्रुताः. तस्मात् समुच्चीयेरन्.
SK
पृथक्त्वनिवेशात् सङ्ख्यया कर्मभेदः स्यात् // MS_२,२.२१ //
SK
अस्ति वाजपेयः, वाजपेयेन स्वाराज्यकामो यजेतेति, [१५४]{*२/२५२*} तत्र प्राजापत्याः पशवः, सप्तदश प्राजापत्यान् पशून् आलभते, सप्तदशो वै प्रजापतिः, प्रजापतेर् आप्त्यै श्यामास्तूपरा एकरूपा भवन्ति, एवम् एव हि प्रजापतिः समृद्ध्यै{*२/२५३*}. तत्र सन्दिह्यते - किं सप्तदशैतानि कर्माणि, अथ सप्तदशपशुगुणकम् एकं कर्मेति. किं तावत् प्राप्तम्? एकं कर्मेति. कुतः? प्रजापतये सप्तदश पशवः सङ्कल्प्यन्ते. किम् एकं यागम् अभिनिवर्तयितुम् उत बहून् इति संशये एकम् इति न्याय्यं, यो हि बहून् यागान् कल्पयति, कल्पयत्य् असाव् एकम्, तत्रैकस्मिन्न् एव परिकॢप्ते सप्तदशानाम् एव पशूनां परिकल्पनम् उपपन्नं भवति, केन च द्वितीयादीन् यागान् अवकल्पयेम. एवं सत्य्{*२/२५४*} अल्पीयस्य् अदृष्टानुमानप्रसङ्गकल्पना भवति. तस्माद् एको यागः सप्तदशभिः पशुभिर् निर्वर्त्यते{*२/२५५*}. एवं प्राप्ते ब्रूमः - सङ्ख्यया कर्मभेदो भवेत्, पृथक्त्वे पशूनां सति सप्तदशसङ्ख्या निविशेत, तच् च पशूनां पृथक्त्वं बहुषु यागेष्व् अवकल्पते, नैकस्मिन्. कथम्? एकादशभिर् अवदानैर् असौ यागो निवर्तयितव्य इत्य् एवं चोदकः प्रतिदिशति, तानि चैकस्माद् एव पशोर् अवाप्यन्ते, तत्र द्वितीयादेर् आलम्भो नावदानसंपादनाय भवितुम् अर्हति, एकम् आलभ्यमानम् अन्वालभ्येरन्न् अदृष्टार्थायापरे, तथासत्य्{*२/२५६*} अतदर्थत्वान् न ते प्राजापत्या भवेयुः, तत्र प्राजापत्यान् इति श्रवणम् उपरुध्येत{*२/२५७*}. तेनैकस्मिन् पशौ पृथक्त्वे निवेशिनी सप्तदशसङ्ख्या नावकल्प्येत, बहुषु यागेषु बहुभिर् एवावदानगणैः प्रयोजनम्, तेन सप्तदशभ्यो यागेभ्यः सप्तदश पशून् उपाददीरंस् तत्र सङ्ख्यासामं जस्यं भविष्यति, तस्मात् सप्तदश यागाः. नन्व् एकस्मिन्न् अपि यागे सप्तदशभिर् अवदानगणैर् यक्ष्यते वचनात्. नैतद् एवम्, पशुषु हिं सा सङ्ख्या श्रूयते, नावदानगणेषु. अवदानानि हवींषि यागसाधनानि, न पश्वाकृतिः, सा ह्य् अवदानप्रकृतिद्रव्यं विशिषन्ती प्रकृतौ प्रधानस्योपकृतवतीति [१५५]{*२/२५८*} विकृताव् अप्य् अवदानप्रकृतिद्रव्यं विशिषन्ती प्रधानस्योपकरिष्यति, तत्र च पशोः सप्तदशसङ्ख्या विकारिका, नावदानगणस्य, तस्माद् एकस्मै अवदानगणायैकः पशुर् आलब्धव्यः प्राप्नोति, तत्र सप्तदशसङ्ख्या नोपपद्यते, एवम् एवावकल्पिष्यते. यदि शृङ्गाभिप्राया वर्णाभिप्राया रूपाभिप्राया वाभिविष्यन् सप्तदशपशवः श्वेतः कृष्णो रोहित इत्येवमादयः, तेषाम् अन्यतमो गृह्यत इति, अथवा तूपराः शृङ्गिण एकशृङ्गा इत्येवमादयः, तेषाम् अन्यतम इति, ते हि श्यामास् तूपरा एकरूपाः श्रूयन्ते, तदेषु बहुषु यागेषूपपद्यते, नैकस्मिन्. तस्मात् सप्तदश यागा इति. प्रयोजनम् एकस्मिन्न् अष्टे दुष्टे कृत्स्नः पशुगण आवर्तेत, एकम् आलभ्यमानम् अन्वालभेरन्, पूर्वपक्षे ऽदृष्टार्थम्. सिद्धान्त एक एव पशुर् आवर्तते, न हि कर्मभेदे पशुः पश्वन्तरम् आकाङ्क्षतीति.
SK
NOTES: *{२/२५२: E२: ३,८०; E४: ३,१८८; E५: २,४८२; E६: १,१०५}* *{२/२५३: Tऐत्.S. १.३.४.३}* *{२/२५४: E१,५; E२,४,६ ओम्. सत्य्}* *{२/२५५: E१,६; E२,४,५: निर्वर्तयितव्य}* *{२/२५६: E१,५; E२,४,६: तथा सत्य्}* *{२/२५७: E२,४: उपरुध्यते}* *{२/२५८: E२: ३,८५; E४: ३,१८९; E५: २,४८८; E६: १,१०६}*
SK
संज्ञा चोत्पत्तिसंयोगात् // MS_२,२.२२ //
SK
अथैष ज्योतिर् अथैष विश्वज्योतिर् अथैष सर्वज्योतिर् इति. अत्र{*२/२५९*} संदेहः, किम् एभिर् नामधेयैः प्रकृतं ज्योतिष्टोमं सङ्कीर्त्य तत्र सहस्रदक्षिणादिगुणो विधीयते, अथ वा वक्ष्यमाणविशेषाणि कर्मान्तराण्य् उपदिश्यन्त इति. किं प्राप्तम्, प्रकरणानुग्रहात् प्रकृतस्य गुणविधानम् इति. ननु वाक्यसामर्थ्याज् ज्योतिरादीनाम् एते गुणा विधायिष्यन्ते. नैष दोषः, ज्योतिष्टोमस्यैवैतानि वाचकानि, ज्योतिर् इति ज्योतिष्टोमस्य प्रतीकम् उपादीयते, विश्वज्योतिर् इति त्रिवृदादीन्य् अस्य ज्योतींषि वाक्यशेषसङ्कीर्तितानि, तानि सर्वाण्य् अस्य, तेनासौ विश्वज्योतिः सर्वज्योतिश् च ज्योतिष्टोम इति एवं प्राप्तम्. [१५६]{*२/२६०*} एवं प्राप्ते ब्रूमः - संज्ञा हि तिस्रो भेदिकाः, तेषां ज्योतिर् आद्याः, उत्पत्तिवाक्ये ह्य् एताः श्रूयन्ते, तासाम्{*२/२६१*} इमाः पुनः श्रुतयः. तस्माद् अथैष ज्योतिर् इत्य् अपूर्वस्य कर्मणो विधायकं वाक्यम्, अनुवादे हि सत्य् अप्रवृत्तिविशेषकरम् अनर्थकं स्यात्. प्रकृतस्य च गुणविधाने विकल्पो भवेत्, तत्र पक्षे बाधः, न च ज्योतिरादयो ज्योतिष्टोमस्य वदितारः, समुदायान्तराणि ह्य् एतानि, न चावयवेन समानेन समुदायान्तरं तदर्थम् एव भवति, यथा शालाशब्दो गृहवचनः, तत्र न शालाशब्दसामान्यान् मालाशब्दादयो ऽपि गृहवचना भवन्ति. यत् तु ज्योतिष्टोमस्य ज्योतिर् इति प्रतीकम् उपादीयत इति. प्रकरणसामर्थ्याद् धि तत्र ज्योतिष्टोमशब्देन परोक्षेनैकवाक्यता भवेत्, सा प्रत्यक्षं ज्योतिःशब्देन सहैकवाक्यतां बाधेत, नचैतन् न्याय्यम्, वाक्यं हि प्रकरणाद् बलीयः. अथ पुनर् अयं द्योतनार्थत्वाद् वा ज्योतिष्टोमत्वाद् वा कर्मान्तरे वत्स्यति, यच्{*२/२६२*} च त्रिवृदादीनि ज्योतींषि तेषां साकल्यवचनो विश्वज्योतिः सर्वज्योतिर् इति चेत्. नेति ब्रूमः, न हि त्रिवृदादिषु ज्योतिःशब्दः प्रसिद्धः, एवं ब्रुवन् प्रसिद्धं बाधेत. यत् तु वाक्यशेषाज् ज्योतिःशब्दस् त्रिवृदादिवचन इति, तस्मिन्न् एव वाक्ये स तत्र प्रयुक्त इति गम्यते प्रमाणान्तरेण न शब्देन, यत्र तु तत्प्रमाणान्तरं नास्ति, न तत्र वर्तितुम् अर्हति, यथा सिंहो देवदत्त इति सिंहशब्दो देवदत्तवचनः प्रमाणान्तरेण, न तु सिंहम् आलभेतेति यत्र, तत्र तु तत्प्रमाणान्तरं नास्ति. तस्मान् न विश्वज्योतिः सर्वज्योतिर् इति{*२/२६३*} च ज्योतिष्टोमस्य वदितारौ, न चेज् ज्योतिष्टोम उच्यते, सर्वाणि कमान्तराणि{*२/२६४*}
SK
[१५७]{*२/२६५*}
SK
NOTES: *{२/२५९: E१,५,६; E२,४: सर्वज्योतिर् एतेन सहस्रदक्षिणेन यजेतेति श्रूयते. अत्र}* *{२/२६०: E२: ३,९०; E४: ३,२०६; E५: २,४९४; E६: १,१०७}* *{२/२६१: E२,४: नासाम्}* *{२/२६२: E१,५; E२,४,६: यश्}* *{२/२६३: E२,४,५,६ ओम्. इति}* *{२/२६४: E२,४,६: कमान्तराणीति}* *{२/२६५: E२: ३,९२; E४: ३,२१६; E५: २,४९७; E६: १,१०७}*
SK
गुणश् चापूर्वसंयोगे वाक्ययोः समत्वात् // MS_२,२.२३ //
SK
चातुर्मास्येषु वैश्वदेवे समामनन्ति, तप्ते पयसि दध्यानयति सा वैश्वदेव्य् आमिक्षा वाजिभ्यो वाजिनम् इति{*२/२६६*}. तत्र सन्दिह्यते, किम् आमिक्षागुणके कर्मणि वाजिनं गुणविधिः, उत तस्माद् वाजिन-गुणकं कर्मान्तरम्{*२/२६७*}? किं प्राप्तम्? गुणविधिर् इति. कुतः? वाजेनान् नेनामिक्षया वाजिनो विश्वे-देवास् तान् अनूद्य वाजिनं विधीयते, तेनोभयं वैश्वदेवम्, आमिक्षा वाजिनं च. तस्मिन्न् एव च कर्मणि वाजिनगुणविधिः. यथा अग्निहोत्रं जुहोतीत्य् उक्ते दध्ना जुहोति, पयसा जुहोतीति{*२/२६८*}. एवं प्राप्ते ब्रूमः - गुणश् चाप्रकृतेन देवताभिधानेन संबन्ध्यमानः कर्मान्तरं विदध्यात्, समे हि तदैते वाक्ये भवतः, उभे अप्य् अपूर्वयोर् यागयोर् विधातृणी. कथं पुनर् अपूर्वदेवताभिधानम्? यदेदानीम् एव उक्तम्, विश्वेषां देवानाम् अनुवादो वाजिनम्{*२/२६९*} इति. तद् उच्यते - इह विश्वेषां देवानां देवतात्वं क्वचिच् छ्रुत्या, क्वचित् वाक्येन. तद् धितनिर्देशे श्रुत्या, चतुर्थीनिर्देशे वाक्येन. यत्र श्रुत्या देवतात्वम्, तत्रामिक्षया सहैकवाक्यत्वम्. यत्र चतुर्थी, तत्र वाजिनेन, तत्रैषाम् एकत्र श्रुत्या देवतात्वम्, वाक्येन द्रव्यविशेषसंबन्धः. एकत्रोभयम् अपि वाक्येन. तद् इह देवतात्वं प्रति श्रुतिवाक्ययोर् विरोधः, विरोधे च श्रुतिर् बलीयसीत्य् आमिक्षावाक्ये देवतात्वं विश्वेषां देवानाम्, न वाजिनवाक्य इत्य् अध्यवसीयते, तेनावगम्यते, अप्रकृतेन देवतापदेनास्य संबन्ध इति. तस्मात् कर्मान्तरम् इति.
SK
अथ यद् उपवर्णितम्, यथाग्निहोत्रं जुहोतीत्य् उक्ते दध्ना जुहोतीत्येवमादयो गुणविधय इति. तत्रोच्यते - [१५८]{*२/२७०*}
SK
NOTES: *{२/२६६: Vग्ल्. Mऐत्.S. १.१०.१}* *{२/२६७: E२,४: कर्मान्तरम् इति}* *{२/२६८: Vग्ल्. Tऐत्.Bर्. २.१.५.४}* *{२/२६९: E१,६; E२,४,५: वाजिभ्य}* *{२/२७०: E२: ३,१०२; E४: ३,२३४; E५: २,५०२; E६: १,१०८}*
SK
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत // MS_२,२.२४ //
SK
युक्तं यत् तत्र गुणविधानम्, न तत्राप्रकृतेन केनचिद् गुणेन संबन्धः, प्रकृतेन त्व् अस्ति यागेन. तस्माद् अनुपवर्णनम् एतत्. अथ वाधिकरणान्तरम्, दध्ना जुहोतीत्येवमादीनि कर्मान्तराणि, विकल्पपरिजिहीर्षयावकल्प्यन्ते. तद् एव तु कर्म जुहोतीतिशब्दाद् अवगम्यते, न कर्मान्तरम्. तस्मात् तत्रैव गुणविधिः, वचनाद् विकल्पश् चेति सिद्धम्.
SK
फलश्रुतेस् तु कर्म स्यात्, फलस्य कर्मयोगित्वात् // MS_२,२.२५ //
SK
अग्निहोत्रं प्रकृत्य समामनन्ति, दध्नेन्द्रियकामस्य जुहुयाद् इत्येवमादि{*२/२७१*}. तत्र संशयः, किम् अग्निहोत्रहोमाद् धोमान्तरं दध्यादिहोमः, उत दध्यादेर् गुणात् फलम् इति. किं प्राप्तम्? होमान्तरम् इति. कुतः? फलश्रुतेः, फलम् इह श्रूयते, तच् च कर्मणो न्याय्यम्. किं दृष्टं हि कर्मणः फलम्? कृष्यादितो व्रीह्यादि. नेति ब्रूमः, न ह्य् एतद् दृष्टेनानेन सिध्यति, यदि दर्शनं हेतुः [१५९]{*२/२७२*} फलज्ञाने, कृष्यादौ पदार्थे तद्दर्शनम्, न होमे. अथ कृषौ दृष्टम् अन्यत्रापि भवति. द्रव्याद् अपि प्रसज्यते. अथ कृषिसदृशाद् भवतीत्य् उच्यते, कृषिसदृशो होमः क्रियात्वात्, न द्रव्यम्, असदृशं हि तद् इति. होमो ऽप्य् असदृशः, मन्त्रदेवतादिसाधनत्वाद् धोमस्य, लाङ्गलादिसाधनत्वाच् च कृषेः. त्यागात्मकत्वाद् धोमस्य, पाटनात्मकत्वाच् च कृषेः. अथ किंचित् सादृश्यं गृह्यते. द्रव्यस्यापि सद् अनित्यम् इत्येवमादि किंचित् सादृश्यम् अस्ति. अथ द्रव्याद् अन्यत् सदृशतरम् अस्तीति कृत्वा न द्रव्यं सदृशम् इत्य् उच्यते. होमाद् अप्य् अन्यत् कृषेः सदृशतरम् अस्ति दृष्टार्थम् इति कृत्वा होमो ऽप्य् असदृशः स्यात्. न चैतत् सिद्धम्, यत् क्वचित् दृश्यते, तद् अन्यस्मिन् सदृशमात्रे ऽदृष्टम् अपि भवितुम् अर्हतीति, यद् धि यस्य कारणभूतं दृष्टं सिद्धे, तच् चेत् साध्ये ऽपि कारणभूतम् इत्य् अवगम्यते, भवति तत् तस्य साधकम्, यन् न ज्ञायते कारणभूतम् इति, न तत् सदृशम् अपि साधकम्. तस्मात् सदृशम् अपि साधकम् असाधकं वेति परीक्षितव्यम् इति. अथ यत् कर्म तत् फलवद् दृष्टम्, होमो ऽपि कर्म, तेनापि फलवता भवितव्यम् इति. उपरते कर्मणि द्रव्याणां तत्संयोगानां च द्रव्यान्तरं फलं दृष्टम् इति द्रव्यम् अपि फलवत् स्यात्. अपि च कृषेर् नादृष्टम् इति तत्सादृश्याद् धोमाद् अपि नादृष्टं भवेत्, कृषिसादृश्याद् वा व्रीहिर् एव भवेत्, नेन्द्रियम्. तस्मान् नैवंजातीयकेष्व् एतद् भवति दृष्टाद् अदृष्टसिद्धिर् इति. कथं तर्हि होमान् न्याय्यं फलम् इति. उच्यते, शब्देनावगम्यते तत्फलम्, यतः फलम् इति शब्द आह, ततो न्याय्यम्, होमाच् च फलम् इति श्रुत्या शब्देन गम्यते, दध्नः फलम् इति वाक्येन, श्रुतिश् च वाक्याद् बलीयसी. तस्मात् होमात् फलम् इति न्याय्यम्, दध्नः फलम् इति चान्याय्यम्. अपि च दध्य् उभयम् असमर्थम्, कर्तुं फलम्, साधयितुं होमं च. [१६०]{*२/२७३*} ननु कम्बलनिर्णेजनवद् एतद् भविष्यति, निर्णेजनं ह्य् उभयं करोति, कम्बलशुद्धिं पादयोश् च निर्मलताम्. न ब्रूमः, एकस्योभयं प्रयोजनम् अभिनिष्पादयितुं सामर्थ्यं नास्तीति, किं तर्हि फले गुणभूतं दधि होमे चेत्य् एकं वाक्यं वदितुम् असमर्थम् इति. यदि फलं दध्ना कुर्याद् इति ब्रूयात्, न दध्ना होमम् इति, अथ दध्ना होमं साधयेद् इति ब्रूयात्, न फलम् इति. उभयवचने भिद्येत वाक्यम्, अभिन्नं चेदम् उपलभ्यते. तस्मान् न गुणात् फलम् इत्य् अग्निहोत्रहोमाद् दधिहोमः कर्मान्तरम् इति. NOTES: *{२/२७१: Tऐत्.Bर्. २.१.५.६}* *{२/२७२: E२: ३,१०६; E४: ३,२३४; E५: २,५०७; E६: १,१०९}* *{२/२७३: E२: ३,१०९; E४: ३,२३५; E५: २,५१२; E६: १,१०९}*
SK
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत // MS_२,२.२६ //
SK
तुशब्दात् पक्षो विपरिवर्तते, न कर्मान्तरम्, किं तु गुणात् फलम् इति. कथम्? अतुल्ये ह्य् एते वाक्ये, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अत्र कर्मसमभिव्याहृतं फलं स्वर्गकामो होमेन कुर्याद् इति, दध्नेन्द्रियकामस्य जुहुयाद् इति गुणसमभिव्याहृतम्. न ह्य् अत्र होम इन्द्रियाय कर्तव्य इति प्रतीयते, किं तर्हि दध्ना होम इन्द्रियकामस्येति, होमस्य दधिसंबन्ध इन्द्रियाय, न होमस्योत्पत्तिः, य इन्द्रियकामः स्यात्, स दध्ना होमं कुर्याद् इति. कतमो ऽत्र शब्दः पुरुषप्रयत्नस्य वक्तेति. जुहुयाद् इति ब्रूमः. ननु श्रुत्या होमसंबद्धम् एष पुरुषप्रयत्नं वदति, वाक्येन दधिसंबन्धम्, न च, वाक्यं श्रुतिम् अपबाधितुम् अर्हति. न च, युगपद् उभयसंबन्धो न विरुध्यते, वाक्यं हि तथा भिद्येतेति. अत्रोच्यते - ये भवदीयं पक्षम् आश्रयेरन्, ते श्रुतिम् अपबाधेर् अन्तराम्{*२/२७४*}, अस्मदीये तु पुनः पक्षे जुहुयाद् इति धात्वर्थः केवलो ऽपबाधितो भवति, युष्मदीये तु कृत्स्न एव दध्नेति शब्दः. तं चाप्रमाद्यन्तः समामनन्तीति गम्यते. न चैतत् प्रमत्तगीतम्, [१६१]{*२/२७५*} इत्य् उक्तम्, तुल्यं हि सांप्रदायिकम् इति. तस्मान् न कर्मसमभिव्याहृतं फलम्, गुणसमभि-व्याहृते तु न कश्चित् प्रमादपाठः, अवश्यं हि, जुहुयाद् इति दध्नेन्द्रियकामयोः संबन्धवि-धानार्थं वक्तव्यं भवति. ननूच्यमाने ऽपि न केवलः करोत्य् अर्थो ऽवगम्यते, केवले न वचःप्रयोजनम्, स च होमसंबद्धः, तस्माद् असमञ्जसम् इति. नेति ब्रूमः, होमसंबद्धो ऽप्य् असौ करोत्य् अर्थ एव, केवलं त्व् अस्य होमसंबन्धे विशेषः, न तु करोत्य् अर्थतां बाधते, इन्द्रियकामस्य होमसंबद्धं प्रयत्नं दधिसंबद्धं कुर्याद् इति. नन्व् एवं सति स एव दोषः, होमसमभिव्याहृतं फलम् इति. उच्यते - जुहुयाद् इति शब्दस्यैतत्सामर्थ्यम्, यद् धोमविशिष्टं प्रयत्नम् आह, न त्व् अत्र होमः साधनत्वेन विधीयते, साध्यत्वेन विशिष्टस् तु प्रयत्नो वाक्येन दध्याश्रितो ऽवगम्यते, अत एव च वृत्तिकारेणोक्तम् - होमम् आश्रितो गुणः फलं साधयिष्यतीति, यथा राजपुरुषो राजानम् आश्रितो राजकर्म करोतीति. तस्माद् दध्नः फलम्, य इन्द्रियकामः, स दध्ना कुर्याद् इन्द्रियम् इति. कथम् इति. अनयाग्निहोत्रेतिकर्तव्यतयेति. कुत एतत्? फलसाधनस्य दध्न इतिकर्तव्यताकाङ्क्षत्वात्, अस्याश् चेतिकर्तव्यतायाः सन्निधानात्, चोदनालिङ्गस्य च जुहोत्य् अर्थस्य दर्शनात्. यस्माद् एव चायं जुहोत्य् ऽर्थो ऽनुवादः, तस्माद् अविधायकः. न च, अन्यद् धोमस्य विधायकं नास्तीति, तस्मान् न कर्मान्तरम्, तस्माद् दध्नः फलम् इति. अथ वा दधिशब्दस्य विवक्षितार्थत्वाद् दधिहोमसंबन्धो ऽयं वाक्येन विधीयते, तेन दध्नो होमेन संबध्यमानात् फलं भविष्यतीति.
SK
[१६२]{*२/२७६*}
SK
NOTES: *{२/२७४: E२,४,५,६: अपबाधेरंस्तराम्}* *{२/२७५: E२: ३,११२; E४: ३,२४९; E५: २,५१६; E६: १,१११}* *{२/२७६: E२: ३,११७; E४: ३,२६२; E५: २,५२४; E६: १,१११}*
SK
समेषु कर्मयुक्तं स्यात् // MS_२,२.२७ //
SK
त्रिवृद् अग्निष्टुद् अग्निष्टोमस् तस्य वायव्यास्व् एकविंशम् अग्निष्टोमसामकृत्वा ब्रह्मवर्चसकामो यजेतेति, एतस्यैव रेवतीषु वारवन्तीयम् अग्निष्टोमसाम कृत्वा पशुकामो ह्य् एतेन यजेतेति. अत्रायम् अर्थः सांशयिकः, किं तस्यैवाग्निष्टुतो ऽग्निष्टोमस्य गुणाद् वारवन्तीयात् पशवः फलम्, एतेन यजेतेति अनुवादः, अथ किम् एतेन यजेतेति कर्मान्तरम् इति. किं प्राप्तम्? न कर्मान्तरं गुणात् फलम् इति. कुतः? एतेन यजेतेति विदितस्यैतद् वचनम्, नाविदितस्य, अतो न विध्यन्तरम्, पशुकाम एवं यजेतेत्य् उच्यते, न यजेतेति, कथं कृत्वा? वारवन्तीयं कृत्वेति. अपि च, एतस्यैवेति विस्पष्टम् अकर्मान्तरवचनम्. तस्माद् गुणात् फलम् इत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - समेष्व् एवंजातीयकेषु भिन्नवाक्येषु कर्मयुक्तं फलं भवेत्, एतस्यैव रेवतीषु वारवन्तीयं कृत्वेति, न ह्य् एतस्य रेवत्यः सन्ति, यास्व् अस्य वारवन्तीयं भवेत्, तत्र रेवत्यो [१६३]{*२/२७७*} भवन्ति, तासु च वारवन्तीयं विधीयेतेति वाक्यम् भिद्येत. अथोच्येत, अस्य पूर्वा रेवतीर् उपादाय तासु च वारवन्तीयं कृत्वा, एतेन यजेतेत्य् अनुवदतीति. तथाग्निष्टोमसामेति नावकल्प्येत. अथाग्निष्टोमसामकार्ये भवतीत्य् उच्यते. एतस्यैवेत्य् एतद् अविवक्षितं स्यात्. उभयस्मिन् विवक्ष्यमाणे भिद्येत वाक्यम्, तस्मात् कर्मान्तरम्. अथ कर्मान्तरे कथम् अवाक्यभेदः. रेवतीषु ऋक्षु वारवन्तीयं साम कृत्वा पशुकामो यजेतेत्य् अपूर्वो यागः सर्वैर् विशेषणैर् विशिष्टो विधीयते, तेनैकार्थत्वम्, विभागे च साकाङ्क्षत्वम् इत्य् एकवाक्यत्वम् उपपद्यते. नन्व् अर्थभेदो यागश् चैवं ह्य् अपूर्वः कर्तव्यः, रेवतीषु वारवन्तीयम् अपूर्वम् इति. नेति ब्रूमः, निर्वृत्तवारवन्तीयरेवतीगुणको यागो विधीयते, न वारवन्तीयनिर्वृत्तिः, अर्थाद् रेवतीषु वारवन्तीयम् अभिनिर्वर्त्स्यति, शक्यते च तन् निर्वर्तयितुम्. उच्यते - रेवतीनां वारवन्ती यस्य च संबन्धो न विहितः स्यात्, तत्र च रेवतीष्व् अन्यान्य् अपि सामानि भवेयुः. वारवन्तीयं चान्यास्व् अपि ऋक्षु. नैष दोषः, कृत्वेत्य् अभिनिर्वृत्तः संबन्धो यागायोच्यते, तेन संबन्धो गम्यते, द्वाव् अप्य् एताव् अर्थौ कृत्वेत्य् एष शब्दः शक्नोति वदितुम्, अभिनिर्वृत्तिं पूर्वकालतां च, यथा शोणमानय - इति रक्तगुणसंबद्धो ऽश्वः शब्देनैवानयतो{*२/२७८*} विधीयत इति, न वाक्यभेदो भवति, एवम् अत्रापि द्रष्टव्यम्. नन्व् एवम् अपि बहवो ऽर्थाः, रेवत्यः, वारवन्तीयम्, तत्संबन्धः, यागः, पशुकामश् चेति. नैष दोषः, बहवः श्रूयन्ते, एको ऽत्र विधीयते, यागो विशिष्टः. ननु रेवत्यो ऽपि विधीयन्ते, वारवन्तीयम् अपि, यदि न विधीयेरन्, नैव तद्विशिष्टो यागः प्रतीयेत, न ह्य् अविधाय विशेषणम्, शक्यते विशिष्टो विधातुम्, तस्माद् बहुषु विधीयमानेषु नैकार्थ्यम्. अत्रोच्यते - अर्थ इति प्रयोजनम् अभिधीयते, यावन्ति पदान्य् एकं प्रयोजनम् अभि[१६४]{*२/२७९*}निर्वर्त्यन्ति, तावन्त्य् एकं वाक्यम्, न च, अत्र बहूनि प्रयोजनानि, न हि, अत्रानेकस्याभिप्रेतस्यानेकं पदं विधायकम् अस्ति, रेवतीष्व् इति नैतत् केवलं रेवतीनां विधायकम्, रेवतीषु वारवन्तीयम् इति. अत्रापि पदद्वये वारवन्तीयशब्दो द्वितीयान्तः, नास्मात् संबन्धो ऽभिप्रेतो गम्यते, प्रातिपदिकार्थस्याव्यतिरेकात्, कृत्वेत्य् अपि करोतिर् न संबन्धमात्रे पर्यवसितः परप्रयोजनसंबन्धम् आह. एवं विशिष्टस् तु यजतिर् न परार्थः, तद् एकम् एषां पदार्थानां प्रयोजनम्, तस्माद् एकवाक्यत्वम्. गुणे पुनः फले प्रकल्प्यमान अग्निष्टोमसाम्नः कार्ये वारवन्तीयम्, एतस्य च यदग्निष्टोमसामेति वाक्यभेदः स्यात्. अथोच्यते, रेवत्यादिसर्वविशेषेण विशिष्टो याग एतस्याग्निष्टुतो विधीयेत. तथापि पशुकामसंबन्धाद् भिद्येत वाक्यम्. अथैवम् उच्येत, रेवतीषु कृतेन वारयन्तीयेन पशुकामो यजेतेति. नैवं शक्यम्, ऋगन्तरप्रगाणाद् विशेषहानाद् वैगुण्यं स्यात्. नन्व् इदानीम् एवोक्तम्, शक्यते हि रेवतीषु वारवन्तीयं कर्तुम् इति. सति वचने शक्यम्, असति वचने न वारवन्तीयग्रहणेन गृह्यन्ते. वचनं तर्हि भविष्यति, पशुकामो रेवतीषु वारवन्तीयम् अभिनिर्वर्तयेत्, ततो यजेतेति यजतिर् अनुवादः. यदि वचनं रेवतीषु वारवन्तीयसंबन्धस्य, सिद्धं कर्मान्तरम्, नाग्निष्टुतो गुणविधिः. ननु ततो यजेतेति यागानुवादाद् यागेनास्याङ्गप्रयोजनसंबन्धो भविष्यति. नैवं शक्यम्, यागं प्रत्यङ्गभावे विधीयमाने{*२/२८०*} पशुकामं प्रत्यसंबन्धः, उभयसंबन्धे वाक्यं भिद्येत. अथ यागसंबन्धो ऽनुवादः, प्रकरेण चाङ्गता. नेदम् उपपन्नम्, प्रकरणाद् धि वाक्यं बलवत्तरम्, तस्मात् कर्मान्तरम्, यागगुणकं वा रेवतीषु वारवन्तीयम्, तद्गुणको वा यागः, तत्र यागपशुकामयोः संबन्धस्य विधात्रीं यजतेर् उपरितनीं विभक्तिम् उपलभामहे लिङ्गम्, न तु रेवतीवारवन्तीयसंबन्धस्य [१६५]{*२/२८१*} विधायकं साक्षात् किंचिद् उपलभ्यते. तस्मात् सर्वविशेषणविशिष्टो यागः, पशुकामस्य विधीयत इति सिद्धम्. अथ पुनर् विशिष्टे यागे विधीयमाने, तद् रेवतीषु वारवन्तीयं कथम् अग्निष्टोमसाम भवतीति? उच्यते - वचनाद् अग्निष्टोमसाम्नः कार्ये भविष्यतीति, किम् इव हि वचनं न कुर्यात्, नास्ति वचनस्यातिभारः. अथ यद् उक्तम् एतस्यैवेति, अनन्तरापेक्षं वचनम् इति तत्राप्य् अविरोधाद् एतद्धर्मकस्येति लक्षणाशब्दो भविष्यति. तस्मान् न गुणात् फलम्, कर्मान्तरम् एवं धर्मकम् इति, सिद्धं समेष्व् एवंजातीयकेषु कर्मयुक्तं फलम् इति.
SK
NOTES: *{२/२७७: E२: ३,१२३; E४: ३,२६३; E५: २,५२६; E६: १,१११}* *{२/२७८: E१,६; E२,४,५: शब्देनैवानयतौ}* *{२/२७९: E२: ३,१२७; E४: ३,२६३; E५: २,५३८; E६: १,११२}* *{२/२८०: E२,४ ओम्. विधीयमाने}* *{२/२८१: E२: ३,१३०; E४: ३,२६४; E५: २,५४२; E६: १,११३}*
SK
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः // MS_२,२.२८ //
SK
यो वृष्टिकामो यो ऽन्नाद्यकामो यः स्वर्गकामः, स सौभरेण स्तुवीत सर्वे वै कामाः सौभर इति{*२/२८२*} समाम्नाय ततः समामनन्ति, हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ - इति स्वर्गकामायेति{*२/२८३*}. तत्र विचार्यते, किं सौभरम्, वृष्टेर् निमित्तम्, हीष् इत्य् एतद् अपरं वृष्टेर् निमित्तम्, अथ सौभरम् एव वृष्टेर् निमित्तम्? यदा तद् वृष्टेर् निमित्तम्, तदा हीष् इति सौभरस्य निधनं कर्तव्यम् इति (एवं ऊर्गित्यन्नाद्यकामस्य, ऊ - इति स्वर्गकामस्य च तुल्यो विचारः.){*२/२८४*} कथं निधनाद् अपरं फलम्? कथं वा निधनव्यवस्थार्थं श्रवणम् इति, यद्य् एवम् अभि[१६६]{*२/२८५*}संबन्धः क्रियते, हीष् इति वृष्टिकामाय कुर्याद् इति, ततो निधनाद् अपरं फलम्, अथैवम् अभिसंबन्धः, हीष् इति निधनं कुर्याद् इति, तदा निधनव्यवस्थार्थं श्रवणम्, तदा वृष्टिकामायेति सौभरविशेषणं क्रियते, न हीषा संबन्धः. किं तावत् प्राप्तम्? सौभरे निधने ऽपरः कामो विधीयत इति. कुतः? पुरुषश्रुतेः, पुरुषप्रयत्नस्यात्र श्रवणं भवति, कुर्याद् इति, तद् वृष्टिकामस्य हीषश् च संबन्धे कर्तव्ये वक्तव्यं भवति, न तु सौभरनिधनसंबन्धे, तत्र हि साङ्गं सौभरं कुर्याद् इति प्रयोगवचनसामर्थ्याद् एव सिद्धम्. तस्मात् कुर्याद् इति पुरुषप्रयत्नवचनाद् अवगच्छामः, यतरस्मिन् पक्षे पुरुषप्रयत्नवचनम् अर्थवत् ततरो ऽयं पक्ष इति, तत्र अस्मिन् पक्षे ऽर्थवत्, निधनाद् अपरं फलम् इति. तस्मात् सौभर एकः कामः, भेदेन निधनाद् अपि द्वितीयः काम इति. अथ वा वृष्टिकामायेति पुरुषश्रुतिः, वृष्टिं यः कामयते, स पुरुषो वृष्टिकामशब्देनोच्यते, तद् अस्मिन् पक्षे श्रुतिर् विनियोक्त्री, इतरस्मिन् पक्षे पुनर् वृष्टिकामशब्देन पुरुषवचनेन सता सौभरं लक्ष्येत, तथा लक्षणाशब्दः स्यात्. श्रुतिलक्षणाविषये च श्रुतिर् न्याय्या, न लक्षणा. तस्मात् पश्यामो निधने द्वितीयः काम इति. एवं च फलभूयस्त्वं भविष्यति, तस्मान् निधने ऽपरः कामः.
SK
NOTES: *{२/२८२: Tआण्ड्य. Bर्. ८.८.१८,२०}* *{२/२८३: Tआण्ड्य. Bर्. ८.८.१९}* *{२/२८४: Iन् E१ गेक्लम्मेर्त्}* *{२/२८५: E२: ३,१३३; E४: ३,२९०; E५: २,५४४; E६: १,११४}*
SK
सर्वस्योक्तकामत्वात्{*२/२८६*} तस्मिन् कामश्रुतिः स्यात्, निधनार्था पुनःश्रुतिः // MS_२,२.२९ //
SK
वासब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, यद् उक्तम्, निधने ऽपरः काम इति, नैवं संबन्धः क्रियते, वृष्टिकामाय हीष् इति कुर्याद् इति. कथं तर्हि? हीष् इति निधनं सौभरस्येति. कथम्? हीषो वृष्टिकामसंबन्धे क्रियमाणे, निधनं [१६७]{*२/२८७*} कुर्याद् इति संबन्धो न कृतः स्यात्, तत्र हीष् इति निधनम् इति नावकल्प्येत, तत्रोभयसंबन्धे वाक्यभेदः, तत्र निधनशब्दः प्रमादसमाम्नात इति गम्येत{*२/२८८*}, नचैवंजातीयकः प्रमादसमाम्नात इत्य् उक्तम्, तस्मान् न हीषो वृष्टिकामेन संबन्धः, तेन न निधनाद् अपरं फलम्. अथ हीषो निधनसंबन्धे कथम् अवाक्यभेद इति. उच्यते, वृष्टिकामाय सौभरम् अस्त्य् एव, सौभरस्य निधनं (सौभरप्राप्तिर्){*२/२८९*} अस्त्य् एव, तत्र हीष् इति कुर्याद् इत्य् एष एवार्थो विधीयते. तस्माद् अवाक्यभेद इति, अतो निधनव्यवस्थेति गम्यते. एवम् एव ऊर्ग् इति, ऊ - इति च वदितव्यम्, सर्वस्य सौभरस्य ऊर्ग्वृष्टिस्वर्गकामत्वाच् छक्यते कामवचनैः सौभरं लक्षयितुम्. किम् अर्थं लक्ष्यत इति. निधनार्था पुनःश्रुतिर् (निधनव्यवस्थां करिष्यतीत्य् अर्थः){*२/२९०*}.
SK
[१६८]{*२/२९१*}
SK
NOTES: *{२/२८६: E१,६; E२,४,५: सर्वस्य वोक्तकामत्वात्}* *{२/२८७: E२: ३,१३५; E४: ३,२९६; E५: २,५४६; E६: १,११४}* *{२/२८८: E१,५: E२,४,६: गम्यते}* *{२/२८९: Iन् E१ गेक्लम्मेर्त्; E६ ओह्ने Kलम्मेर्न्; E२,४: निधनप्राप्तिर्; E५: नियतप्राप्तिः}* *{२/२९०: Iन् E१ गेक्लम्मेर्त्}* *{२/२९१: E२: ३,१४१; E४: ३,३०९; E५: २,५४८; E६: १,११५}*
SK
गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् // MS_२,३.१ //
SK
अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति, तं प्रकृत्य श्रूयते, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्, यदि बृहत्सामा शुक्राग्रान्, यदि गजत्सामा{*२/२९२*}, आग्रयणाग्रान् इति. तत्र सन्दिह्यते - किं ग्रहाग्रताविशेषो ज्योतिष्टोमस्य विधीयते, उत कर्मान्तरस्य रथन्तरसाम्नो बृहत्साम्नश् चेति. यदि रथन्तरसामग्रहणेन बृहत्सामग्रहणेन च ज्योतिष्टोमो ऽभिधीयते, ततस् तस्य ग्रहाग्रताविशेषः, अथ नाभिधीयते, ततः कर्मान्तरस्येति. किं तावत् प्राप्तम्? प्रकरणात्, ज्योतिष्टोमस्य. इति प्राप्ते उच्यते - गुणस् तु क्रतुसंयोगाद् इति, तुशब्दः पक्षं व्यावर्तयति, नैतद् अस्ति, ज्योतिष्टोमस्येति. कुतः? क्रतुसंयोगात्. कथं तर्हि? कर्मान्तरस्येति. ननु ज्योतिष्टोमक्रतोर् एवैष एवंजातीयको वादः, रथन्तरसामा बृहत्सामेति. नेति ब्रूमः - यदि न कृत्स्नक्रतुसंयोगो भवेत्, ज्योतिष्टोमस्य वादः, कृत्स्नक्रतुसंयोगस् तु एषः. कथं कृत्स्नक्रतुसंयोगो भवति? कथं वा न कृत्स्नक्रतुसंयोग इति. यदि रथन्तरसत्ता वा, बृहत्सत्ता वा निमित्तं ग्रहाग्रताविशेषस्य, ततो न कृत्स्नक्रतुसंयोगः, रथन्तरं बृहद् वा यदि सामास्ति, तत ऐन्द्रवायवाग्रता शुक्राग्रता चेति, ततो ज्योतिष्टोमस्य गुणविधिः. अथ रथन्तरसामसत्ता बृहत्सामसत्ता वा न [१६९]{*२/२९३*} निमित्तम्, ततः कृत्स्नक्रतुसंयोगः. यदि रथन्तरसामेति को ऽर्थः? अयम् अर्थः, यदि रथन्तरसाम अस्य विशेषणं क्रतोर् इति. कुत एतत्? समासपदसामर्थ्यात्, समर्थानां हि पदानां समासो भवति, सामर्थ्यं च भवति विशेषणविशेष्यभावे, असाधारणं च भवति विशेषणम्, तत्रायम् अर्थः, यदि रथन्तरम् एव साम, बृहद् एव वा नान्यद् इति. ज्योतिष्टोमस्य च बहूनि सामानि गायत्रादीनि. तस्मान् न ज्योतिष्टोमस्य वाचकाव् एतौ शब्दाव् इति. तेन यद्य् अपि प्रकरणाज् ज्योतिष्टोमस्य गुणविधिर् इति गम्यते, तथापि तद् बाधित्वा वाक्येन रथन्तरसाम्नो बृहत्साम्नश् च भवितुम् अर्हति. ननु यथा ज्योतिष्टोमो न रथन्तरसामा, एवम् अन्यो ऽपि न रथन्तरसामा कश्चिद् अस्ति. उच्यते - कर्मान्तरं रथन्तरसामकं कल्पयिष्यत्य् एतद् वाक्यम्, यदि रथन्तरसामा सोमः स्याद् इति. ननु नास्त्य् अत्र विधायकः शब्दः. उच्यते - अस्ति य एषः स्याद् इति. आह - नैष विधातुं शक्नोति, यदिशब्दसंबन्धाद् विद्यमानस्य निमित्तार्थेनैवंजातीयकः शब्दो भवति, न विधानार्थेनेति. अत्र ब्रूमः - यद् एतत् सयदिकं वाक्यम्, यदि रथनतरसामा सोमः स्याद् इति, अत्रावान्तरवाक्यम् अस्ति, रथन्तरसामा सोमः स्याद् इति, यद् अवान्तरवाक्यं तस्यान्यो ऽर्थः, अन्यश् च सयदिकस्य, सयदिको न शक्नोति विधातुम्, यत अवान्तरवाक्यम्, तद्विधास्यति. न च, रथन्तरसाम्नो बृहत्साम्नो वा भावो निमित्तत्वेन श्रूयमाणो ऽप्य् अर्थवान् भवति. तस्माद् अविवक्षितो यदिसंबन्धः, तस्मिंश् चाविवक्षिते पदद्वयम् इदं रथन्तरसामा सोमः स्याद् इति शक्नोति रथन्तरसामानं क्रतुं विधातुम्, यदीत्य् अनर्थकम्. अथ वा यदि रोचेतेत्य् अध्याहारः. अथ वा यथैतद् भवति, पयसा षाष्टिकं भुञ्जीत, यदि शालिं भुञ्जीत, तत्र दध्युपसिञ्चेद् [१७०]{*२/२९४*} इति. एवंजातीयकेन वाक्येन शालिभोजनं विहितं भवति, एवम् अत्रापि विहितं द्रष्टव्यम्, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति. कथं पुनः शालिभोजनं तेन वाक्येन विहितं भवतीति. उच्यते - व्यत्यासेन संबन्धः कल्प्येत, यदि दध्युपसेचनम् इच्छेत्, शालिं भुञ्जीतेति. ननु न खल्व् इच्छतेः परां लिङ्विभक्तिम् उपलभामहे, सिञ्चतेर् हि तां परां समाम्नन्तीति. सिञ्चतेः खलु सा परा समुच्चरन्ती कमेर् अर्थं गमयति, कामप्रवेदने हि तां मन्यामह इति, एवम् इहापि यद्य् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद् इति ग्रहीतुम् इच्छेद् इत्य् अर्थः, ततो रथनतरसामानं क्रतुं कुर्याद् इति. नन्व् एवं सत्य् इच्छामात्रं भवेत्, न ग्रहाग्रत्विशेषविधानम्. उच्यते - यथास्मिन् लौकिके वाक्ये, यदि दध्युपसेचनम् इच्छेत्, शालिं भुञ्जीतेति दध्युपसेचनसंकीर्तनाद् दध्युपसिक्तं शालिं भुञ्जीतेति तेनैकवाक्यत्वाद् गम्यते, एवम् अत्रापि ग्रहाग्रताविशेषसङ्कीर्तनात् तेनैकवाक्यत्वाद् ग्रहाग्रताविशिष्टो रथन्तरसामा गम्यते. अथ वात्र हेतुहेतुमतोर् लिङ्, रथन्तरसामा सोम ऐन्द्रवायवाग्राणां ग्रहाणां हेतुः कर्तव्य इति. तस्मात् कृत्स्नक्रतुसंयोगाद् गुणः कर्मान्तरं प्रयोजयेत्, एवं कृत्स्नक्रतुसंयोगो ऽर्थवान् भविष्यति. अपि च पूर्वेण निमित्तेन भवितव्यम्, परेण नैमित्तिकेन. कथम्? सति हि निमित्ते नैमित्तिकं भवितुम् अर्हति, नासति, यच् च भविष्यत् तन् न सत्, भविष्यच् च रथन्तरसाम, तत् कथं पूर्वकालस्य ग्रहाग्रताविशेषस्य निमित्तं भविष्यतीति. अपि च निःसन्दिग्धं जगत्सामा कर्मान्तरम्, तत्सामान्याद् इतरद् अपि कर्मान्तरम् इति गम्यते. तस्मान् न ज्योतिष्टोमस्य गुणविधानम् इति.
SK
[१७१]{*२/२९५*}
SK
NOTES: *{२/२९२: E२,४,५,६ (रिछ्तिग्): जगत्सामा}* *{२/२९३: E२: ३,१४३; E४: ३,३०९; E५: २,५४९; E६: १,११५}* *{२/२९४: E२: ३,१४५; E४: ३,३१०; E५: २,५५१; E६: १,११६}* *{२/२९५: E२: ३,१४७; E४: ३,३२१; E५: २,५५३; E६: १,११७}*
SK
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् // MS_२,३.२ //
SK
तुशब्दात् पक्षो ऽन्यथा भवति, नैतद् अस्ति, यद् उक्तम्, क्रत्वन्तरम् इति. कथं तर्हि? ज्योतिष्टोमस्यैव ग्रहाग्रताविशेष इति. कुतः? प्रकरणसामर्थ्यात्. नन्व् एतद् उक्तम् - वाक्यसामर्थ्यात् क्रत्वन्तरस्य रथन्तरसाम्नो बृहत्साम्नश् चेति. परिहृतम् एतज् ज्योतिष्टोम एव रथन्तरसामा बृहत्सामा चेति. पुनर् दूषितम् अनेकसामत्वाज् ज्योतिष्टोमस्य, विशेषणं रथन्तरेण बृहता वा न प्रकल्पत इति. तद् उच्यते - प्रकल्पते विशेषणम्, बृहद्रथन्तरयोर् वैकल्पिकत्वात्, भवति स प्रयोगः, यत्र रथन्तरं नास्ति. भवति च स प्रयोगः, विद्यमानरथन्तरसामकः, तद् एतत् रथन्तरं सत्तयैवासाधारणत्वाद् विशेषकम्. तस्माज् ज्योतिष्टोम एव रथनतरसामा बृहत्सामा चेति. अथ यद् उक्तम् - पूर्वेण निमित्तेन भवितव्यम्, उत्तरेण नैमित्तिकेनेति. नैतत्, नियोगतो भवति हि भविष्यद् अपि निमित्तम्, यथा वर्षिष्यतीति कृषिगृहकर्मानुष्ठानम्, अपि च तद् दृष्टम्, इदं च वाचनिकं निमित्तम्, तद् यथावचनं भवितुम् अर्हति. स्याद् इति चेयं लिङ् त्रिष्व् अपि कालेषु भवति. तस्माद् भविष्यद् अपि निमित्तम्. यत् तु जगत्सामेति कर्मान्तरम्, तत्सामान्याद् रथन्तरसामापि कर्मान्तरम् इति. जगत्साम, असंभवात् कर्मान्तरं संभवति, रथन्तरसाम्नो बृहत्साम्नश् च ज्योतिष्टोमस्याभिधानम्, तस्मान् न कर्मान्तरम् इति.
SK
[१७२]{*२/२९६*}
SK
NOTES: *{२/२९६: E२: ३,१५१; E४: ३,३२९; E५: २,५५५, E६: १,११८}*
SK
अवेष्टाव् यज्ञसंयोगात् क्रतुप्रधानम् उच्यते // MS_२,३.३ //
SK
सति राजसूयः, राजा राजसूयेन स्वाराज्यकामो यजेतेति. तं प्रकृत्यामनन्त्य् अवेष्टिं नामेष्टिम्, आग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि. तां प्रकृत्य विधीयते, यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिम् आहुतिं हुत्वाभिघारयेत्, यदि राजन्य ऐन्द्रम्, यदि वैश्यो वैश्वदेवम् इति. तत्र सन्दिह्यते, किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणम्, उत ब्राह्मणादीनाम् अयं यागो विधीयत इति. कथं निमित्तार्थता भवेत्? कथं वा यागविधानम् इति. यदि राजशब्दो ब्राह्मणादिष्व् अपि केनचित् प्रकारेण, ततो निमित्तार्थता. अथ क्षत्रिय एव, ततः प्रापकाण्य् एवंजातीयकानि श्रवणानि. किं तावत् प्राप्तम्? निमित्तार्थतेति, तत एवं तावद् उपवर्ण्यते, यौगिको राजशब्द इति, राज्यं यस्य कर्म, स राजा. किं पुना राजकर्म? जनपदपुरपरिरक्षणे, ततश् चोद्धरणे राज्यशब्दम् आर्यावर्तनिवासिनः प्रयुञ्जन्ते. राज्ञः कर्म राज्यम् इति चाभियुक्ता उपदिशन्ति. तेन मन्यामहे, यस्यैतत् कर्म स राजेति, यथा य उदमेघं नाम कंचित् पुरुषं नावेदिषुः, तस्य तु पुत्रम् औदमेघिर् इत्य् एवं विदुः, शक्नुयुस् ते यस् तस्य पिता, स उदमेघ इति कल्पयितुम्, उदमेघपुत्रस्यैवं समभिव्याहारो भवतीति. एवं राज्ययोगाद् राजशब्द इति विज्ञायते. ननु जनपदपुरपरिरक्षणवृत्तिम् अनुपजीवत्य् अपि क्षत्रिये राजशब्दम् आन्ध्राः प्रयुञ्जन्ते प्रयोक्तारः. न ब्रूमः, न प्रयुञ्जत इति, किं तर्हि कर्मविशेषनिमित्तत्वाद् राजशब्दस्य, तद्योगाद् अपि [१७३]{*२/२९७*} राजशब्दो भवतीत्य् एतद् उपपादयामः. प्रयुञ्जते च तद् युक्ते राजशब्दम् अक्षत्रिये ऽपि, तद् अस्मिन्न् उपपन्ने प्रकरणवशात्, यदिशब्दसमभिव्याहाराच् च राजसूयस्यैव गुणविधानं भविष्यति, न ब्राह्मणस्य वैश्यस्य च कर्मान्तरं विधायिष्यतीति. अथ वासार्वलौकिकस्य प्रयोगस्य सार्वलौकिकेन प्रयोगेण विरुध्यमानस्याप्रामाण्यं स्यात्, अभ्युपगच्छन्ति हि ते जनपदिनः, सार्वभौमं प्रयोगम्. अपि चाविप्रगीता लौकिका अर्था विप्रगीतेभ्यः प्रत्ययिततरा भवन्ति, तथार्यावर्तनिवासिनां शब्दार्थोपायेष्व् अभियुक्तानाम् अभिव्याहरतां कर्माणि चानुतिष्ठताम् अन्त्यजनपदवासिभ्यो म्लेच्छेभ्यः समीचीनतर आचारो भवति. तस्माद् यौगिको राजशब्दः, निमित्तार्थानि श्रवणानि, राजसूयस्य गुणविधिर् न कर्मान्तरम् इति. एवं प्राप्ते ब्रूमः - अवेष्टौ तु खलु क्रतुप्रधानं ब्राह्मणादिश्रवणम्, ब्राह्मणादीनाम् अवेष्टियागं विधातुम्, न निमित्तार्थम्. कुतः? अप्राप्तत्वाद् ब्राह्मणवैश्ययोः. कथम् अप्राप्तिः? क्षत्रियस्य राजसूयविधानात्, राजा राजसूयेन यजेतेति. ननूक्तम् - यौगिको राजशब्द इति. एतद् अप्य् अयुक्तम्, यतः जातिवचन इति. ननूभयाभिधाने यदिशब्दसंबन्धात्, प्रकरणाच् च न कर्मान्तरविधानं न्याय्यम् इत्य् उक्तम्. अत्रोच्यते - नोभयाभिधानम् अवकल्पते. कुतः? यदि तावज् जातिशब्दो राजेति, ततः तत्कर्मत्वाज् जनपदपरिपालने राज्यशब्दो भविष्यति, तेनार्यावर्तनिवासिनां प्रयोगो न विरोत्स्यते. अथ यदि राज्यशब्दः परिपालने नित्यसंबद्धो भविष्यति, ततस् तस्य कर्तेति राजशब्दः क्षत्रियजातौ तन्निमित्तो भविष्यति, तत्रान्ध्राणां प्रयोगो न विरोत्य्स्यते. तस्मान् न प्रयोगदर्शनाद् उभाव् अपि राजराज्यशब्दौ जातिपरिपालनाभ्यां नित्यसंबद्धाव् इत्य् अभ्युपगन्तव्यम्. को नु खलु निर्णयः? राजजातीयस्य कर्म [१७४]{*२/२९८*} इत्य् अतः परिपालनं राज्यशब्देनोच्यते, एवं हि स्मरन्तो ऽभियुक्ताः तस्य कर्मेति ष्यञ्प्रत्ययं विदधति, न तु तस्य कर्तेति प्रत्ययलोपं वा, प्रातिपदिकप्रत्यापत्तिं वा समामनन्ति. तस्माद् राज्ञः कर्म राज्यम्, न राज्यस्य कर्ता राजा. ननु यो यो जनपदपुरपरिरक्षणं करोति, तं तु लोको राजशब्देनाभिवदति. उच्यते - योगाल् लोकः प्रयुङ्क्ते, परिपालने राज्यशब्दः प्रसिद्ध इति, स तु परिपालने राज्यशब्दो राजयोगाद् इत्य् अस्माभिर् उक्तम्, तस्माद् राजशब्दः प्रसिद्धेर् मूलम्, तद्योगाद् राज्यशब्दः, तदयोगाद्{*२/२९९*} अपि ब्राह्मणवैश्ययो राजशब्दः प्रयुज्यते. न त्व् एवं स्मरन्ति, राज्ययोगाद् राजेति. यत् तूक्तम् - अनुमानाद् राज्यस्य कर्ता यः स राजा, यथा औदमेघेः पितोदमेघ इति. उच्यते - अनुमानात् प्रयोगो बलवान्, राज्यस्य कर्तारं राजेत्य् अनुमिमीमहे, क्षत्रिये तु प्रत्यक्षं प्रयुञ्जानान् उपलभामहे. तथा योगम् अप्य् अनुमिमीमहे, राज्यस्य कर्ता राजेति. राज्ञः कर्म राज्यम् इति तु स्मरन्ति. अनुमिमानाश् च स्मृतिं अनुमिमते स्म, स्मरन्तस् तु प्रत्यक्षम् उपलभन्ते, तेन तत्र स्मृतिर् बलीयसीति. आह - यो यो राज्यं करोति, तत्र राजशब्दं प्रयुञ्जते, न यद् राज्ञः कर्म तद् राज्यम् इति, तेन मन्यामहे, राज्ययोगो राजशदप्रवृत्तौ निमित्तम्, न तु राजयोगो राज्यशब्दप्रवृत्ताव् इति. न ब्रूमः, प्रयोगाद् वयं राजयोगं राज्यशब्दप्रवृत्तौ निमित्तम् अवगच्छाम इति. कथं तर्हि? स्मरणात्, प्रयोगाच् च स्मृतिर् बलीयसी, प्रयोगाद् धि स्मृतिर् अनुमीयेत. [१७५]{*२/३००*} अपि च राज्ययोगस्य निमित्तता व्यभिचरति, जनपदपरिपालनम् अकुर्वत्य् अपि राजेत्य् आन्ध्रा वदन्तीत्य् उक्तम्. ननु राजयोगाद् राज्यम् इत्य् एतद् अपि व्यभिचरति, न हि राज्ञः स्यन्दितं{*२/३०१*} निमिषितं च सर्वं राज्यम् इत्य् उच्यते. यदि वयं प्रयोगान् निमित्तभावं ब्रूयाम्, तत एवम् उपालभ्येमहि. स्मृत्या तु वयं निमित्तभावं ब्रूमः, तेन यद् यद् राजजातीयस्य कर्म जात्या विशेष्यते, तद् राज्यम् इत्य् अभ्युपगच्छामः. यत् तूक्तम् - आन्ध्रा अपि राज्ययोगाद् राजानम् अभ्युप-गच्छन्तीति, परिहृतम् एतत्, प्रयोगो दुर्बलः स्मृतेर् इति. यद् उक्तम् - आर्यावर्तनिवासिनः, प्रमाणम् इतरेभ्य आचारेभ्य इति. तुल्यः शब्दप्रयोग आचारेष्व् इत्य् उक्तम्. तस्माज् जातिनिमित्तो राजशब्दः, एवं चेद् यज्ञसंयोगात् क्षत्रियस्य राजसूयेन, यागविधिर् अवेष्टिर् इति.
SK
NOTES: *{२/२९७: E२: ३,१५४; E४: ३,३३०; E५: २,५५८; E६: १,११८}* *{२/२९८: E२: ३,१५७; E४: ३,३३०; E५: २,५६१; E६: १,११९}* *{२/२९९: E२,४,५,६: तदयोगाद्}* *{२/३००: E२: ३,१६०; E४: ३,३३१; E५: २,५६३; E६: १,१२०}* *{२/३०१: E२,४,५,६: स्पन्दितं}*
SK
आधाने सर्वशेषत्वात्{*२/३०२*} // MS_२,३.४ //
SK
इदं समामनन्ति, वसन्ते ब्राह्मणो अग्नीन् आदधीत, ग्रीष्मे राज्यन्यः, शरदि वैश्य इति{*२/३०३*}. तत्र सन्दिह्यते - किं ब्राह्मणादिश्रवणं निमित्तार्थम्, ब्राह्मणादय आदधाना वसन्तादिष्व् आदधीरन्न् इति, उत ब्राह्मणादीनाम् आधानं विधीयत इति. कथं निमित्तार्थता स्यात्? कथं चाधानविधानम् इति. यदि ब्राह्मणो वसन्त इति पदद्वयं परस्परं संबद्धम्, ततो निमित्तार्थं श्रवणम्. अथ ब्राह्मण आदधीतेति, आधानविधानं ब्राह्मणस्य. एवं राजन्यादिष्व् अपि. किं तावत् प्राप्तम्? निमित्तार्थं श्रवणम् इति. कुतः? निमित्तसरूपा एते शब्दाः. किं निमित्तसारूप्यम्? ब्राह्मणा[१७६]{*२/३०४*}दीनां वसन्तादिभिः समुच्चारणम्, तच् चाविदितं वेद्यत इति. ननु ब्राह्मणादीनां आदधति नाप्य् अस्ति समुच्चारणम्. वाढम्{*२/३०५*} अस्ति समुच्चारणम्, न त्व् अमीषाम् आधानसंबन्धो न विदितः. केन प्राप्तो विदित इति. कामश्रुतिभिः. काः कामश्रुतयः? अग्निहोत्रं जुहुयात् स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादयः. कथमाभिः श्रुतिभिर् आधानं प्राप्तम् इति. उच्यते - सामर्थ्यात्, यथाग्निहोत्रम् अभिनिर्वर्त्यते, तथा कुर्यात्. यथा दर्शपूर्णमासाव् अभिनिर्वर्त्येते, तथा कुर्यात्. न च, गार्हपत्याहवनीयान्वाहार्यपचनादिभ्यो विना, एतानि कर्माणि सिध्यन्ति, समामनन्ति हि, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीत्येवमादि{*२/३०६*}. तेन सामर्थ्याद् एतद् उक्तं भवति - आहवनीयादि कर्तव्यम् इति, तच् चाधानेन विना न सिध्यतीत्य् आधानम् अपि कर्तव्यम् इत्य् अवगम्यते. तत् केन कर्तव्यम्? यस्य कामश्रुतयः. ताश् चाविषेशेण ब्राह्मणादीनाम्. तस्माद् अमीषाम् आधानसंबन्धो विदित इति. अपि च, उभाभ्यां ब्राह्मणादीनां संबन्धे विधीयमाने वाक्यम् भिद्येत. न हि, तदानीम् एको ऽर्थो विधीयते. अतो निमित्तार्थाः श्रुतय इत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - आधाने सर्वशेषत्वात्{*२/३०७*} प्रापकाण्याधानस्यैतानि श्रवणानि. कुतः? सर्वकर्मणां शेषभूतम् आधानम् इति न श्रुतिलिङ्गादीनाम् अन्यतमेनोच्यते, किं तर्हि, अग्नीनां सर्वशेषत्वात्, तच्छेषत्वाच् चाधानस्य. किम् अतः? यद्य् एवम्, अग्नयः कामश्रुतिभिः प्राप्नुवन्ति, नाधान्म् इति. नन्व् अग्नीनाम् अभ्युपाय आधानम् इति. उच्यते - नैतेषाम् अर्जने आधानम् एवैको ऽभ्युपायः, किं तर्हि यथान्येषां द्रव्याणाम् उत्पादने [१७७]{*२/३०८*} क्रयणादयश् चाभ्युपायाः, एवम् अग्नीनाम् अपीति न नियोगतः उत्पादनम् एव, तेन पक्षे आधानं प्राप्नोति, पक्षे न. यतरस्मिन् पक्षे ऽप्राप्तिः, ततरः पक्ष उत्पत्तिं प्रयोजयिष्यति ब्राह्मणादीनाम् आधानस्य, ब्राह्मण आत्मार्थम् आदधीतेति यदैतद् वचनम्, तदात्मार्थम् एवाहिता आहवनीयादयो भवन्ति, नान्यथा. एवं च सति, न कृत्रिमेण याचितेन वा कर्माण्य् अग्निहोत्रादीन्य् अनुष्ठातव्यानीति गम्यते. तेनाकृत्रिम एव केवलो ऽग्निस् तेषां साधक इति निश्चीयते. कथं चात्मार्थताधानस्य गम्यत इति. कर्त्रभिप्राये हि क्रियाफल आदधीतेत्य् एतद् आत्मनेपदं संभवति. असत्यस्मिन् वचने कामश्रुतिपरिग्रहे नाधानस्यात्मार्थता भवेत्. अपि च सतीष्व् एतास्व् आधानश्रुतिषु न कामश्रुतयः शक्नुवन्त्य् अपराम् आधानश्रुतिं कल्पयितुम्, यथा प्राप्तस्याधानस्य पुनःश्रुतयः एता भवेयुः, असतीष्व् एतास्व् आधानश्रुतिम् अपरिगृह्णन्तः{*२/३०९*} कामश्रुतयो ऽशक्यान् अग्निहोत्रादीन् वदन्तीति परिगृह्णीयुर् आधानश्रुतिम्. सतीष्व् एतासु येषाम् आधानम् उक्तम्, तान् अधिकृत्योत्तरकालाः कामश्रुतयो भवन्तीति गम्यते. अत्राह - अस्ति केवलस्याधानस्य विधायिका श्रुतिः, एवं सपत्नं{*२/३१०*} भ्रातृव्यम् अवर्ति सहते, य एवं विद्वान् अग्निम् आधत्त इति, तया प्राप्तस्य निमित्तार्थानि ब्राह्मणादीनां श्रवणानि भविष्यन्ति. उच्यते - संभारविधानार्था पुनःश्रुतिर् एषा. नेति ब्रूमः, भिन्नं हीदं वाक्यम् संभारविधानवाक्यात्, अन्यो ह्य् अर्थ आधत्त इति, अन्य अप उपसृजतीति, एकार्थविधाने ह्य् एकं वाक्यं भवति, भिन्नौ चेमाव् अर्थौ, तस्माद् अत्र वाक्यभेद इति. उच्यते - वसन्ते ब्राह्मणो ऽग्नीन् आदधीतेत्य् अस्यां श्रुतौ सत्यां पुनःश्रुतिः केवलस्याधानस्याविधायिका, अपाम् उपसर्जनं तु [१७८]{*२/३११*} विधीयते, तद् एकस्मिन्न् अर्थे विधीयमाने नानेकार्थं भवति. नन्व् आधानस्यैतद् विधानम्, गुणार्था सा पुनःश्रुतिः. नेति ब्रूमः, सा ब्राह्मणादिसंबद्धा प्रथमा श्रुतिः, इयं केवला पुनःश्रुतिः. कुतः? सा हि शब्देन विदधाति, तत्र लिङ्गम् उच्चरन्तीं पश्यामः, इयं प्रशस्तम् आधानम् इत्य् आह. ततः प्रशस्तताम् आधानस्यानुमन्यामहे. एवं च, वसन्ते ब्राह्मणो ऽग्नीन् आदधीतेत्य् एषा विधायिका श्रुतिर् इति ब्रूमहे, नैतत् प्रशंसावचनम् अस्मत्पक्षं बाधते, शक्यते ह्य् अन्येन विहितम् अन्येन प्रशस्तम् इति वदितुम्. यदि त्व् एतद् विधायकम् इत्य् उच्यते{*२/३१२*}, ततो ऽस्मत्पक्षं विरुध्येत. कथम्? अज्ञातस्य ज्ञापनं विधानम् एतत्, यदि प्राशंसावचनेनापूर्वं विज्ञाप्येत, तदा लिङ्गा नापूर्वं ज्ञापितं भवेत्, तत्रापूर्वज्ञापनवचनः शब्दः उपरुध्येत. न तु लिङ्गा विहिते प्रशंसावचनम् उपरुध्यते, विहिते ऽपि हि वाक्यान्तरेण प्रशंसावचनम् अवकल्पते. अपि च यल् लिङ्गा विधानम्, तत् श्रुत्या, वाक्येन तु प्रशंसा गम्यते, श्रुतिश् च वाक्याद् बलीयसी. नन्व् इदम् अपि वाक्यम्, ब्राह्मणो ऽग्नीन् आदधीतेति. उच्यते - स्वपदार्थम् अत्र श्रुतिर् विदधात्य् आधानम्, ब्राह्मणादिसंबन्धेन परपदार्थं प्रशंसति, य एवं सपत्नं{*२/३१३*} भ्रातृव्यम् अवर्ति सहत इति. नन्व् अनेकगुणविधानं त्वया वाक्येनाध्यवसितं भवति. नैष दोषः, अगुणविधिपरे हि वाक्ये भवत्य् अनेकगुणविधानम् इत्य् उक्तम्, तद्गुणास् तु विधीयेरन्न् अविभागाद् विधार्थे न चेद् अन्येन शिष्टा इति{*२/३१४*}. तस्माद् ब्राह्मणादिसंयुक्ता विधायिका श्रुतिः, इयम् अपि केवलस्याधानस्य पुनःश्रुतिः संभारविधानम् उपक्रमितुम् इति सिद्धम्. यद् उक्तम् - अनेकगुणविधाने वाक्यं भिद्येतेति, यदीमौ गुणविधानविशिष्टौ{*२/३१५*} विधीयेयाताम्, भवेद् वाक्यभेदः, द्वाभ्यां तु विशेषणाभ्यां विशिष्टम् एकम् आधानं विधायिष्यते, [१७९]{*२/३१६*} तेन न भविष्यति वाक्यभेदः. तस्माद् ब्राह्मणादीनां आधानस्य प्रापकाणि श्रवणानीति सिद्धम्.
SK
NOTES: *{२/३०२: E१,६; E२,४,५: ऽसर्वशेषत्वात्}* *{२/३०३: Tऐत्.Bर्. १.१.२.६-७}* *{२/३०४: E२: ३,१६४; E४: ३,३५३; E५: २,५६४; E६: १,१२०}* *{२/३०५: E१,५; E२,४,६: बाढम्}* *{२/३०६: Tऐत्.Bर्. १.१.१०.५-६}* *{२/३०७: E२,४,५,६: ऽसर्वशेषत्वात्}* *{२/३०८: E२: ३,१६६; E४: ३,३५४; E५: २,५६९; E६: १,१२१}* *{२/३०९: E१,६; E२,४,५: अपरिगृह्णन्त्यः}* *{२/३१०: E२,४: संपन्नं}* *{२/३११: E२: ३,१६८; E४: ३,३५५; E५: २,५७०; E६: १,१२२}* *{२/३१२: E२,४,५,६: उच्येत}* *{२/३१३: E२,४: संपन्नं}* *{२/३१४: MS १.४.९}* *{२/३१५: E१,६; E२,४,५: गुणवाधानविशिष्टौ}* *{२/३१६: E२: ३,१७०; E४: ३,३५५; E५: २,५७१; E६: १,१२३}*
SK
अयनेषु चोदनान्तरं संज्ञोपबन्धात् // MS_२,३.५ //
SK
दर्शपूणमासौ प्रकृत्यामनन्ति, दाक्षायणयज्ञेन यजेत प्रजाकामः, साकंप्रस्थाप्येन{*२/३१७*} यजेत पशुकामः, संक्रमयज्ञेन यजेतान्नाद्यकाम इति{*२/३१८*}. तत्र संदेहः - किं दर्शपूर्णमासयोर् एव गुणात् फलम्, उत कर्मान्तरम् एवंजातीयकम् इति? किं प्राप्तम्? कर्मान्तरम् इति. कुतः? संज्ञोपबन्धात्, यद्य् अपि प्रकरणाद् यजतिशब्दाच् च स एव पूर्वप्रकृतो याग इति गम्यते, तथापि नासाव् एवंसंज्ञक इति यागान्तरं विधेयं गम्यते.
SK
NOTES: *{२/३१७: E२,४,५,६, E१ (व्.ल्.,Fन्.): साकंप्रस्थायीयेन}* *{२/३१८: Vग्ल्. Tऐत्. S. २.५.४.३}*
SK
अगुणाच् च कर्मचोदना // MS_२,३.६ //
SK
न च, अत्र गुण उपरुध्यते कश्चित्, यद् विधानार्था चोदना भवेत्, यदि च न यागान्तरम्, आनर्थक्यम् एव. अपि च, यदि गुण उपबध्येत, ततो यागगुणसंबन्धो गम्यत इति तद् अनुष्ठानं विधीयेतेत्य् अननुबध्यमाने{*२/३१९*} यागमात्रं गम्यत इति तद् अनुष्ठानं विहितं गम्यते.
SK
NOTES: *{२/३१९: E२,४,५,६: अनुपबध्यमाने}*
SK
समाप्तं च फले वाक्यम् // MS_२,३.७ //
SK
इतश् च कर्मान्तरम्. कथम्? फले समाप्तं वाक्यम्, प्राजाकामो यजेतेति, प्रजाकामस्य याग उपयो विधीयते. विधीयते चेत्, कर्मान्तरम्.
SK
[१८०]{*२/३२०*}
SK
NOTES: *{२/३२०: E२: ३,१७२; E४: ३,३६९; E५: २,५७२; E६: १,१२३}*
SK
विकारो वा प्रकरणात् // MS_२,३.८ //
SK
दर्शपूर्णमासयोर् एवाधिकार एवंजातीयकः स्याद् दाक्षायणयज्ञादिः, एवं प्रकरणम् अनुगृहीतं भवति.
SK
लिङ्गदर्शनाच् च // MS_२,३.९ //
SK
लिङ्गम् अप्य् एतम् अर्थं दर्शयति, त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत, यदि दाक्षायणयाजी स्यात्, अथो अपि पञ्चदशैव वर्षाणि यजेत, अत्र ह्य् एव सा संपद्यते, द्वे हि पौर्णमास्यौ यजेत द्वे अमावस्ये, अत्र हि एव खलु सा संपद् भवतीति. यदि दाक्षायणयज्ञो दर्शपूर्णमासाव् एव, एवं तर्हि त्रिंशत्संपदा प्रयोजनम्, ततस् तस्य त्रिंशत्संपदनुग्रहो युज्यते, तस्माद् अपि न कर्मान्तरम्.
SK
गुणात् संज्ञोपबन्धः // MS_२,३.१० //
SK
यद् उक्तं संज्ञोपबन्धात् कर्मान्तरम् इति, यदि दाक्षायणशब्दो न केनचिद् अपि प्रकारेण दर्शपूर्णमासवचनः शक्यते कल्पयितुम्, तत उच्येत कर्मान्तरम् इति. शक्नोति त्व् आवृत्तिगुणसंबन्धाद् विदितुम्, अयनम् इत्य् आवृत्तिर् उच्यते, दक्षस्य इमे दाक्षाः, तेषाम् अयनं दाक्षायणम्. कः पुनर् दक्षः? उत्साही. तथा साकंप्रस्थाप्ये{*२/३२१*} ऽपि, सहप्रस्थानं गुणसंबन्धः, एवं सर्वत्र. शक्यते चेद् दर्शपूर्णमासयोर् गुणसंबन्धो वदितुम्, किम् इति स एव यागः प्रतीयमानो ऽन्य इत्य् उच्यते? किम् इति वा प्रकरणं बाध्यते.
SK
NOTES: *{२/३२१: E१,६; E२,४: साकंप्रस्थायीये, E५: साकंप्रस्थाय्ये}*
SK
समाप्तिर् अविशिष्टा // MS_२,३.११ //
SK
यद् उक्तम्, फले वाक्यं समाप्तम्, प्रजाकामादेर् यागानुष्ठानं विधीयत इति{*२/३२२*}. नैवम्, अविशिष्टा फले समाप्तिः, यानि [१८१]{*२/३२३*} अन्यानि मुक्तसंशयानि गुणे फलस्य विधायकानि वाक्यानि गुणस्य फलवचनानि पर्यवसितानि (यथा दध्नेन्द्रियकामस्य जुहुयात्, इत्येवमादीनि){*२/३२४*}{*२/३२५*}, तैर् एतद् अविशिष्टम्, अत्रापि हि गुणात् फलम् उच्यते. कथं नैतद् एवं संबध्यते, प्रजाकामस्य यज्ञम् अनुतिष्ठेद् इति? कथं तर्हि प्रजाकामस्यावृत्तियज्ञम् अनुतिष्ठेद् इति, आवृत्तियज्ञ इति यज्ञावृत्ति-संबन्धो ऽनुष्ठातव्यो निर्दिश्यते, न यज्ञः? तस्मात् प्रकृतयोर् दर्शपूर्णमासयोर् गुणात् फलम् उच्यते, न यागान्तरं विधीयत इति. एवं साकंप्रस्थाप्ये{*२/३२६*} संक्रमयज्ञे च द्रष्टव्यम् इति.
SK
NOTES: *{२/३२२: Vग्ल्. MS २.३.७}* *{२/३२३: E२: ३,१७५; E४: ३,३७४; E५: २,५७५; E६: १,१२४}* *{२/३२४: Iन् E१ गेक्लम्मेर्त्}* *{२/३२५: Vग्ल्. Tऐत्.Bर्. २.१.५.६}* *{२/३२६: E१,६; E२,४: साकंप्रस्थायीये, E५: साकंप्रस्थाय्ये}*
SK
संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् // MS_२,३.१२ //
SK
अनारभ्याधीयते किंचित्, वाक्यं श्वेतम् आलभेत भूतिकामः{*२/३२७*}; सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः{*२/३२८*}; दर्शपूर्णमासयोर् अप्य् आमनन्ति - ईषाम् आलभेत; चतुरो मुष्टीन् निर्वपतीति. तत्रायम् अर्थः सांशयिकः, किं दर्शपूर्णमासिके{*२/३२९*} आलम्भे आलम्भो गुणविधिर् दर्शपूर्णमासिके{*२/३३०*} च निर्वापे निर्वापो गुणविधिर् उत न प्रकृतिम् अपेक्षते इतरश् चेतवरश् चेति? यदा न प्रकृतिम् अपेक्षते, तदापि किं यावद् उक्ते, उत यजिमत्य् एते कर्मणीति? किं तावत् प्राप्तम्? प्रकृतयोर् आलम्भनिर्वापयोर् गुणविधीति. कुतः? अकर्मशब्दत्वात्, नात्र कर्मणो विधायकः [१८२]{*२/३३१*} शब्दो ऽस्ति. नन्व् आलभेत निर्वपेद् इति च. नैतौ विधाताराव् अविदितस्यार्थस्य वक्ता विधायको भवति, न चैतयोर् अविदितो ऽर्थः, आलम्भः कर्तव्यः, निर्वापः कर्तव्य इति. तस्माद् अनुवदितारौ. किम् अर्थम् अनुवदतः? आलम्भने श्वेतं विधातुम्, निर्वापे च चरुम्. तस्मान् नालम्भान्तरं निर्वापान्तरं च. प्रकृतयोर् एव गुणविधीति.
SK
NOTES: *{२/३२७: Tऐत्.S. २.१.१.१}* *{२/३२८: Tऐत्.S. २.३.२.३}* *{२/३२९: E१,६; E२,४,५: दार्शपूर्णमासिके}* *{२/३३०: E१,६; E२,४,५: दार्शपूर्णमासिके}* *{२/३३१: E२: ३,१७५; E४: ३,३७५; E२: २,५७७; E६: १,१२५}*
SK
यावद् उक्तं वा, कर्मणः श्रुतिमूलत्वात् // MS_२,३.१३ //
SK
न चैतद् अस्ति, प्राकृतयोर् गुणविधीति, किं तर्ह्य् आलम्भान्तरं विधीयत इति निर्वापान्तरं च, यद्य् आलम्भनिर्वापौ विधीयेते, ततो न प्राकृतौ तौ विहितौ. यदि न विधीयेते, ततः प्राकृतौ लक्ष्येते, याव् आलम्भनिर्वापौ कर्तव्याव् इति, ततः तौ लक्षयित्वा श्वेतो विधातव्यो भवति, चरुश् च, तौ च भूतिकामस्य ब्रह्मवर्चसकामस्य चेति द्वाव् अप्य् अथा विधेयौ स्याताम्, तत्र वाक्यम् भिद्येत. अथ वा यो ऽसौ विधायकः शब्दः, स लक्षयितव्योपयुक्त इति विधायकाभावाद् एको ऽप्य् अर्थो न शक्यते विधातुम्. अथ स एव लक्षयिष्यति, तेनैव च विधायिष्यते गुण इति. न, मिथो विधानलक्षणसंबन्धो ऽवकल्पते. अथ धात्वर्थो ऽनुवादः, प्रत्ययो विधातुम् इष्यत इत्य् उच्यते, य आलम्भः स एतद्गुणः कर्तव्य इति. तथापि न प्राकृतो लक्ष्येत, लौकिको ऽपि ह्य् आलम्भो ऽस्ति, प्रत्ययार्थे ऽनूद्यमाने प्राकृतो ऽनूद्येतेति, स हि कर्तव्यो निर्ज्ञातो न लौकिकः, अतो न प्राकृतानुवादो घट इति यावद् उक्तम् आलम्भमात्रं निर्वापमात्रं{*२/३३२*} चापूर्वं कर्तव्यम्, कर्मणः श्रुतिमूलत्वात्, श्रुतिमूलं हि कर्मेत्य् उक्तम्, चोदनालक्षणो ऽर्थो धर्म इति{*२/३३३*}. तस्मात् कर्मान्तरे. [१८३]{*२/३३४*}
SK
NOTES: *{२/३३२: E२,४ ओम्. निर्वापमात्रं}* *{२/३३३: MS १.१.२}* *{२/३३४: E२: ३,१७८; E४: ३,३८३; E५: २,५७९; E६: १,१२५}*
SK
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसंबन्धात् // MS_२,३.१४ //
SK
यद् उक्तम्, न प्राकृतयोर् गुणविधीति, एतद् गृह्णीमः. यत् तूक्तम्, आलम्भमात्रं विधीयते, निर्वापमात्रम् इति, एतद् अपजानीमहे, यजिमती एते कर्मणीति. कुतह्? द्रव्यफलभोक्तृसंयोगाद् (द्रव्यदेवतासंयोगात्){*२/३३५*}, द्रव्यदेवतासंयोगो ऽत्र विधीयते, भूतिकामस्य ब्रह्मवर्चस्कामस्य च. कथम्? न हि, इदम् एवोच्यते, ततः श्वेतम् आलभेतेति, यदि ह्य् एतावद् एवोच्येत, ततः श्वेतालम्भसंबन्धो ऽवगम्यते, इह हि श्वेतं वायव्यम् आलभेतेत्य् उच्यते, तेन श्वेतवायव्यसंबन्धो विधीयते, यथा पटं वयेति पटवयनसंबन्धो{*२/३३६*} विधेयो ऽवगम्यते, पटं दीर्घं वयेति पटस्य दीर्घता विधीयते, दीर्घशब्दप्रयोगात्, एवम् इहापि सौर्यवायव्यशब्दप्रयोगाद् द्रव्यदेवताभिसंबन्धो विधेय इति गम्यते, इतरथा देवताशब्दः प्रमादसमाम्नात इति गम्यते. नन्व् अत्रापि श्वेतं वायव्यं कुर्यात्, तं चालभेतेत्य् अर्थद्वयविधानाद् भिद्येतैव वाक्यम्. नेति ब्रूमः, न ह्य् आलभेतेत्य् अस्यायम् अतिभारः, यद् द्रव्यदेवतासंबन्धेन पुरुषप्रयत्नं ब्रूयात्, तं चालभेतेत्य् अर्थविशिष्टम्. श्रुत्यैव हि पुरुषप्रयत्नो विशिष्टो गम्यते, वाक्येन च द्रव्यदेवताश्रय इति नात्र द्वाभ्यां वाक्याभ्यां प्रयोजनम्, यथा रक्तम् अश्वं योजयेति यदा गुणविधिपरं भवति वाक्यम्, तदा द्वाभ्यां वाक्याभ्यां प्रयोजनम्, गुणद्वयविधाने. अथ शोणमानयेत्य् उच्यते, तत्र गुणविधिपरे ऽपि वाक्ये पर्यवसित एव गुणद्वयविधानम्, श्रुत्यैव विशिष्टगुणद्रव्यस्य प्रतीतत्वात्, न भवत्य् एकस्य वाक्यस्यातिभारः, एवम् इहापीति. संबन्धश् च बहुभिः पदैर् विशिष्ट एक एवोच्यत इत्य् एकार्थत्वम्, विभज्य[१८४]{*२/३३७*}मानानि चात्र पदानि साकाङ्क्षाणीत्य् उपपन्नम् एकवाक्यत्वम्, न च, यागम् अन्तरेण देवतायै द्रव्यं सङ्कल्पितव्यम्, इत्य् एष संबन्धो ऽवकल्पते. तस्माद् यजिमती एते कर्मणीति.
SK
NOTES: *{२/३३५: Iन् E१ गेक्लम्मेर्त्}* *{२/३३६: E२,४ (व्.ल्.): पटवानसंबन्धो}* *{२/३३७: E२: ३,१७९; E४: ३,३८४; E५: २,५८२; E६: १,१२६}*
SK
लिङ्गादर्शनाच् च // MS_२,३.१५ //
SK
लिङ्गं खल्व् अप्य् एतम् अर्थं दर्शयति, सौमारौद्रं चरुं निर्वपेद् इति{*२/३३८*} प्रकृत्य, परिश्रिते याजयेद् इति{*२/३३९*} परिश्रयणविधिः, एतस्य वाक्ये यजतिशब्देन सङ्कीर्तनम् अवकल्पते, यदि यजिमती एते कर्मणी. अथ प्रकृतौ गुणविधानं यावद् उक्तं वा, यजतिशब्देनानुवादो नावकल्पेत. तस्माद् अवगच्छामो यजिमतीति.
SK
NOTES: *{२/३३८: Tऐत्.S. २.२.१०.१}* *{२/३३९: Tऐत्.S. २.२.१०.२}*
SK
विशये प्रायदर्शनात् // MS_२,३.१६ //
SK
किम् इहोदाहरणम्? न तावत् शूत्रेणैव परिगृहीतम्, यथा, अवेष्टौ यज्ञसंयोगात् क्रतुप्रधानम् उच्यत इति{*२/३४०*}. नापि च साध्यं प्रतिज्ञातम्, यथा, अयनेषु चोदनान्तरम् इति{*२/३४१*}{*२/३४२*}. केवलं विशये संशये प्रायदर्शनं हेतुर् इति निर्दिश्यते, कस्यायं हेतुर् इति न विजानीमः. प्रकृतं यजिमद् एतत् कर्मेति{*२/३४३*}, तद् अपि न संबन्ध्यमानम् इव पश्यामः, तद् एतद् अगमकं{*२/३४४*} सूत्रम् एव तावद् अनर्थकम्. अथ कात्र प्रतिज्ञा? कश् च सन्देह इति वक्तव्यम्. वृत्तिकारवचनात्, प्रतिज्ञां संशयं चावगच्छामः. अत्र भगवान् आचार्य इदम् उदाहृत्य वत्सम् आलभेत वत्सनिकान्ता हि पशव इति{*२/३४५*}, इमं संशयम् उपन्यस्यति स्म, किं यजिमदभिधान एष आलभतिः, उतालम्भमात्रवचन इति? उपपद्यते चैतद् उदाहरणम्, [१८५]{*२/३४६*} संशयश् च. तत्र च पूर्वपक्षं प्रतिजानीते स्म, यजिमद् अभिधान इति. इदं तु प्रत्युदाहरणसूत्रं पूर्वस्याधिकरणस्य, नात्र पूर्व-पक्षेणातीव प्रयोजनम्, तथापि पुरुषाणाम् उच्चावचबुद्धिविशेषान् आलोच्य भवति मन्दानां सामान्यतोदृष्टेनाप्य् आशङ्का, सापि निवर्तनीया, न हि, मन्दविषेण वृश्चिकेनापि दष्टो म्रियेत न जातुचित् कदापि, तत्र चिकित्सा नादरेण कर्तव्या भवेत्. अतस्तां निवर्तयितुं पूर्वपक्षम् उपन्यस्यति स्म, आलभतिर् अस्माभिः प्राणिसंयुक्तो यजिमद् अभिधानो दृष्टः, अयम् अप्य् आलभतिः प्राणिसंयुक्तः एव, तेनायम् अपि यजिमद्वचन एवेति भवति कस्यचिद् आशङ्का. अथ वा यजिमदभिधानो दृष्ट आलभतिः प्राणिसंयुक्तः, तस्यायम् अनुवादो वत्सविधानार्थः, तथा च फलम् न कल्पयितव्यं भविष्यतीति. एवं प्राप्ते ब्रूमः - अस्मिन् संशये आलम्भमात्रं संस्कारः. कुतः? प्रायदर्शनात्, यत्रान्यान्य्{*२/३४७*} अपि संस्कारकर्माणि प्रायभूतानीत्य् उच्यन्ते, तत्रैतद् अपि श्रूयते. प्रायाद् अपि चार्थनिश्चयो भवति, यथा, अग्र्यप्राये लिखितो ऽग्र्य इति गम्यते. ननु लिङ्गं प्रायदर्शनम्, कथम् अनेन सिद्धिर् इति. उच्यते - यथा प्रायदर्शनेन सिध्यति, तथा वर्णयितव्यम्. कथं च प्रायदर्शनं हेतुः? न्यायतः प्राप्तौ सत्याम्. कः पुनर् न्यायः? देवतासंबन्धाभावान् न यागवचनो ऽदृष्टार्थत्वाच् च, वत्स आलभ्यमानो गां प्रस्तावयिष्यतीति. तस्माद् एवं न्यायप्राप्ते प्रायदर्शनं द्योतकं भवति. तस्माद् आलम्भमात्रं संस्कारः.
SK
NOTES: *{२/३४०: MS २.३.३}* *{२/३४१: E२,४,६ ओम् इति}* *{२/३४२: MS २.३.५}* *{२/३४३: Vग्ल्. MS २.३.१४}* *{२/३४४: E२: गमकं}* *{२/३४५: Vग्ल्. Tऐत्.S. २.१.४.८}* *{२/३४६: E२: ३,१८१; E४: ३,३८८; E४: २,५८३; E६: १,१२७}* *{२/३४७: E२,४: अत्रान्यान्य्}*
SK
अर्थवादोपपत्तेश् च // MS_२,३.१७ //
SK
अर्थवादश् च भवति, वत्सनिकान्ता हि पशव इति{*२/३४८*}, [१८६]{*२/३४९*} यस्माद् वत्सप्रियाः पशवः, तस्माद् वत्स आलब्धव्य इति, यदि गां प्रस्तावयितुम्{*२/३५०*} आलभ्यते, तत्रैतद् वचनम् अवकल्पते, अथ संज्ञपयितुम्, तत्रैवंजातीयकं वचनं नोपपद्यते. तस्माद् अप्य् आलम्भमात्रं संस्कार इति सिद्धम्.
SK
NOTES: *{२/३४८: Vग्ल्. Tऐत्.S. २.१.४.८}* *{२/३४९: E२: ३,१८३; E४: ३,३९३; E५: २,५८५; E६: १,१२८}* *{२/३५०: E१,६; E२,४,५: प्रस्नावयितुम्}*
SK
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् // MS_२,३.१८ //
SK
अस्त्य् अग्निः, तत्र नैवारश् चरुर् भवति, इत्य् उक्त्वा, यद् एनं चरुम् उपदधातीति समामनन्ति. तत्र सन्दिह्यते, किं चरुर् यागार्थो यागं कृत्वावशिष्ट उपधातव्यः, उतोपधानार्थ एवेति. यागार्थ इति ब्रूमः, चरोर् हि प्रसिद्धं कार्यं यागो नोपधानम्. उच्यते - यद्य् अपि यागार्थता चरोः प्रसिद्धा, तथापि देवतावचनसंबन्धाभावाद् यजतिशब्दासंबन्धाच् च न यागार्थतेति गम्यते. तद् उच्यते - तस्यैव वाक्यशेषे श्रूयते, बृहस्पतेर् वा एतद् अन्नं यन् नीवारा इति, तेन देवतावचनेन सन्निहितेनैकवाक्यता भविष्यतीति बृहस्पतिदेवताक उपधातव्य इति. तस्माद् यागार्थश् चरुर् इत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - संयुक्तस् त्व् अर्थशब्देन कार्यशब्देनोपदधातीति तद् अर्थः एव स्याद् उपधानार्थः. उपदधातिना चास्य प्रत्यक्षम् एकवाक्यत्वम्, परोक्षं देवतावचनेनानुमेयम्, चरुम् उपदधातीति हि प्रत्यक्षं वाक्यम्. बार्हस्पत्यम् उपदधातीत्य् आनुमानिकम्. तस्मात् कृत्स्नश् चरुर् उपधातव्यः, ततश् च्चेत् किंचिद् इज्यायां विनियुज्येत, तद् अन्यत्र श्रुतम् अन्यत्र कृतं भवेत्. यत् तु बार्हस्पत्या नीवारा इति, अर्थवादः स इति. यत् तूक्तम् - प्रसिद्धा चरोर् यागार्थतेति, प्रसिद्धिर् वाक्येन बाध्यते. तस्माद् उपधानार्थ इति सिद्धम्.
SK
[१८७]{*२/३५१*}
SK
NOTES: *{२/३५१: E२: ३,१८६; E४: ३,३९८; E५: २,५८७; E६: १,१२८}*
SK
पात्नीवते तु पूर्वत्वाद् अवच्छेदः // MS_२,३.१९ //
SK
त्वाष्ट्रं पात्नीवतं विधायेदम् उच्यते{*२/३५२*}, यत् पर्यग्निकृतं पात्नीवतम् उत्सृजन्तीति. तत्र सन्देहः, किं त्वाष्ट्रस्य पर्यग्निकृतस्यैष उत्सर्गो विधीयते, उत तस्माद् यागान्तरम् इति. यदि पर्यग्निकृतम् उत्सृजन्तीति पदद्वयं परस्परेण संबद्धम्, ततस् त्वाष्ट्रस्योत्सर्गः, अथ पात्नीवतशब्द उत्सृजतिना संबध्येत, ततो यागान्तरम्. किं तावत् प्राप्तम्? यागान्तरम् इति. कुतः? पूर्वस् त्वाष्ट्रः पात्नीवतश् च, उभयविशेषणविशिष्टः कथं पात्नीवतशब्देनानूद्येत. अपि च त्वाष्ट्रस्योत्सर्गे विधीयमाने पर्यग्निकृतम् इति विशेषणं नावकल्पेत. अतो ब्रूमः - पर्यग्निकृतस्य पात्नीवतता विधीयते, स एव याग इति. एवं प्राप्ते ब्रूमः - न कर्मान्तरम्, पूर्वस्यैवोत्सृजतिशब्देनावच्छेदो विधीयते. किम् एवं भविष्यति. यजिमत्ता तावत् कल्पयितव्या न भविष्यति, उत्सृजतिशब्दश् च श्रुत्योत्सर्गं विदधद् वाक्येन न बाधितो भविष्यति, कर्मान्तरपक्षे वाक्येन पात्नीवततायां विधीयमानायाम् अर्थात् प्राप्त उत्सर्गो धातुनानूद्येत. अपि च पर्यग्निकृतस्य पात्नीवतता पूर्वस्य विदितैव, सा विधातुम् न शक्यते. तस्मात् पूर्वस्य कर्मणो ऽवच्छेदः. यत् तूक्तम्, त्वाष्ट्रस्योत्सर्गो विधीयमाने पर्यग्निकृतम् इति विशेषणं तावन् नावकल्पेतेति, नैष दोषः, अतन्त्रम् एवात्र पात्नीवतशब्दो नासौ विशेष्यते, अत एव त्वाष्ट्रः पात्नीवत उभयविशेषणविशिष्टः केवलेन पात्नीवतशब्देन लक्षणयानूद्येतेति न दोषः. तस्माद् अवच्छेद इति सिद्धम्.
SK
[१८८]{*२/३५३*}
SK
NOTES: *{२/३५२: Vग्ल्. Kआठ.S. ३०.१}* *{२/३५३: E२: ३,१८९; E४: ३,४०६; E५: २,५९१; E६: १,१२९}*
SK
अद्रव्यत्वात् केवले कर्मशेषः स्यात् // MS_२,३.२० //
SK
न कस्यचिद् अपि प्रकरणे श्रूयते, एष वै हविषा हविर् यजते यो ऽदाभ्यं गृहीत्वा सोमाय यजत इति, तथा परा वैतस्यायुः प्राण एति यो ऽंशुं गृह्णातीति{*२/३५४*}. तत्र सन्देहः, किं यागान्तरम् एतद् ग्रहणकम्, उत ज्योतिष्टोमयागे ग्रहविधिर् इति. किं प्राप्तम्? यागान्तरम् इति. कुतः? अपूर्वनामधेयसंयोगात्, न प्रकृताव् एतन् नामधेयको यागो ऽस्ति, न ग्रहः कश्चिद् यो ऽभ्यस्येत. तस्माद् यागान्तरम्. ननु द्रव्यदेवतं न श्रूयते. मा भूद् द्रव्यदेवतम्, साक्षाद् एव यजतिशब्दो विद्यते. तस्मात् कर्मान्तरम् अदाभ्यसंज्ञकम्, अंशुसंज्ञकं च यागं करोतीत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - अद्रव्यदेवताके केवले नामधेये श्रूयमाणे ब्रूमः, ज्योतिष्टोमे एव ग्रहाभ्यासविशेषविधानम् इति. कुतः? एतत् तावद् ग्रहस्य नामधेयं न यागस्य, ग्रहणेन साक्षात् संबन्धात्, व्यवहितत्वाद् यागस्य. अंशुर् इति च मुक्तसंशयम् एव ग्रहनामधेयम्, न च ग्रहभेदे यागभेदो भवति, न च, द्रव्यदेवतं श्रूयते. यतो गृह्णातिर् यजिमद्वचनो भवेत्, यद् अप्य् उक्तम्, साक्षाद् अत्र यजतिशब्दो विधायक इति, नैवं शक्यं कर्मान्तरं विधातुम्, विहितयागवचनो हि सः, विशेषाभावात्. तस्माद् यजतिना ज्योतिष्टोम एवोच्यते, अंश्वदाभ्यशब्दाभ्याम् अप्य् अपरौ ग्रहाभ्यासौ विधीयेत इति सिद्धम्.
SK
[१८९]{*२/३५५*}
SK
NOTES: *{२/३५४: Tऐत्.S. ३.३.४.१}* *{२/३५५: E२: ३,१९१; E४: ३,४११; E५: २,५९४; E६: १,१३०}*
SK
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत // MS_२,३.२१ //
SK
अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति, एवं विधाय श्रूयते, अथातो ऽग्निम् अग्निष्टोमेनैवानुयजति, तम् उक्थेन, तम् अतिरात्रेण, तं षोडशिनेत्येवमादि{*२/३५६*}. तत्र सन्देहः, किम् अयम् अग्निशब्दो यागवचनो ज्योतिष्टोमादिभ्यः कर्मान्तरं चिनुत इत्य् आख्यातेन विधीयते, उत द्रव्यवचनो ज्योतिष्टोमादिषु गुणविधानम् इति. किं प्राप्तम्? यागवचन इति. कुतः? लिङ्गदर्शनात्, लिङ्गं हि दृश्यते, अग्नेः स्तोत्रम् अग्नेः शस्त्रम् इति तथा, षडुपसद्ः ऽग्नेः चित्यस्य भवन्तीति, यस्य स्तोत्रं शस्त्रम् उपसदश् च तस्याग्निशब्दो वाचक इति गम्यते, यागस्यैतत् सर्वम्, तस्मात् यागवचन इति. ननु लिङ्गम् असाधकम्, प्राप्तिर् उच्यताम् इति. अत्रोच्यते - अथातो ऽग्निम् अग्निष्टोमेनैवानुयजतीति यागम् अभिनिवर्तयतीत्य् उच्यते, तम् अग्निम् इति विशिनष्टि. तस्माद् अग्निसंज्ञक इति गम्यते. अनुशब्दो ऽप्य् उपसर्गो यजतेर् विशेषक एवम् उपपद्यते, यद्य् अग्निर् यागः. तस्मात् क्रतुशब्दः प्रतीयेत.
SK
NOTES: *{२/३५६: Tऐत्.S. ५.५.२.१}*
SK
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् // MS_२,३.२२ //
SK
द्रव्यं वाग्निशब्देनोच्येत. कतमद् द्रव्यम्? यद् एतज् ज्वलनः, अत्र ह्य् एष प्रसिद्धः. चिनुत इत्य् एषा हि चोदना चयनार्था न यजत्य् अर्थं शक्नोति वदितुम्, चयनेनैनं संस्कुरुते चितौ स्थापयतीति. अनुशब्दश् च पश्चाद् अर्थो भविष्यति, चयने निर्वृत्ते पश्चाद् अग्निष्टोमेन यागेन यजतीति.
SK
[१९०]{*२/३५७*}
SK
NOTES: *{२/३५७: E२: ३,१९३; E४: ३,४१७; E५: २,५९७; E६: १,१३०}*
SK
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि // MS_२,३.२३ //
SK
यत् तु लिङ्गदर्शनम् उक्तम्, यागवचनो ऽग्निशब्द इति, तत् तेष्व् एव लिङ्गसंयुक्तेषु वचनेषु, न सर्वत्र, तेषु चित्याग्निसंयोगात्, यागे लक्षणशब्दः, तेन क्रतुवचनानि तद्धर्मविधानानीत्य् अदोषः.
SK
प्रकरणान्तरे प्रयोजनान्यत्वम् // MS_२,३.२४ //
SK
कुण्डपायिनाम् अयने श्रूयते, मासम् अग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां यजत इत्येवमादि. तत्र सन्दिह्यते, किं नियते ऽग्निहोत्रे नियतयोश् च दर्शपूर्णमासयोर् मासो विधीयते कालः, अथ किं नियताग्निहोत्रान् नियताभ्यां च दर्शपूर्णमासाभ्यां कर्मान्तरविधानम् इति. किं तावत् प्राप्तम्? नियतेषु कालविधिर् इति. कुतः? कालविधिसरूप एष शब्दो मासम् इति. कथं कालविधिसरूपता? यद् अग्निहोत्रं जुहोतीति विदितम्, मासम् इत्य् अविदितम्. एवं चाग्निहोत्रशब्दो दर्शपूर्णमासशब्दश् च नार्थान्तरवृत्तौ भविष्यतः, तस्मात् कालविधिः. ननु कुण्डपायिनाम् अयनप्रकरणं बाध्येतैवम्. कामं बाध्यताम्, वाक्यं हि बलवत्तरम्. एवं प्राप्ते ब्रूमः - प्रकरणान्तरे श्रूयमाणं वाक्यं यस्य प्रकरणे, तस्य वाचकं भवितुम् अर्हति. ननु प्रत्यक्षो ऽग्निहोत्रस्य दर्शपूर्ण[१९१]{*२/३५८*}मासयोश् च गुणविधिः. न, इत्य् उच्यते. कथम्? उपसिद्धश् चरित्वेति ह्य् उक्त्वेदम् अभिधीयते, न च, उपसदो ऽग्निहोत्रस्य दर्शपूर्णमासयोश् च सन्ति. तस्माद् अशक्यस् तत्र मासविधिः. अथोच्यते, उपसदो ऽपि विधीयन्त इति. तथा गुणविधानार्थो ऽस्मिन् वाक्ये ऽनेकगुणविधानाद् वाक्यं भिद्येत. अस्मिन् पक्षे पुनर् अतन्त्रम् अग्निहोत्रशब्दो न कर्म विशेक्ष्यति, तेन वाक्यभेदो न भविष्यति. तस्मात् कर्मान्तरम् इति सिद्धम्.
SK
NOTES: *{२/३५८: E२: ३,१९५; E४: ३,४१९; E५: २,५९९; E६: १,१३१}*
SK
फलं चाकर्मसन्निधौ // MS_२,३.२५ //
SK
अनारभ्य किंचिच् छ्रूयत आग्नेयम् अष्टाकपालं निर्वपेद् रुक्कामः{*२/३५९*}; अग्नीषोमीयम् एकादशकपालं निर्वपेद् ब्रह्मवर्चसकामः{*२/३६०*}; ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकाम इति{*२/३६१*}. अत्र सन्दिह्यते, किं प्राकृतेष्व् आग्नेयादिषु फलं विधीयते, उत प्राकृतेभ्यः कर्मान्तराण्य् एतानि? किं प्राप्तम्? प्राकृतेषु फलविधिर् इति. कुतः? विदिता आग्नेयादयः प्रत्यभिज्ञायन्ते, तस्मात् तेषाम् अनुवादः फलसंबन्धार्थ इति. एवं प्राप्ते ब्रूमः - फलं च भेदकम् अकर्मसन्निधौ श्रूयमाणम्. कथम्? अनुवादे सति न शक्येत फलं विधातुम्, विधायकस्याभावात्, न हि, अविधीयमानो ह्य् उपायो रुचो भवतीति गम्यते. अपि च रुक्कामे ऽत्र विधीयमाने कामस्य [१९२]{*२/३६२*} अनित्यत्वात्, आग्नेयादीनां नित्यत्वात् संबन्धो नावकल्पेत. एवं सर्वत्र. तस्मात् कर्मान्तराणि.
SK
NOTES: *{२/३५९: Vग्ल्. Tऐत्.S. २.२.३.३}* *{२/३६०: Tऐत्.S. २.३.३.३}* *{२/३६१: Tऐत्.S. २.२.१.१}* *{२/३६२: E२: ३,२०१; E४: ३,४३०; E५: ६०२; E६: १,१३१}*
SK
सन्निधौ त्व् अविभागात् फलार्थेन पुनःश्रुतिः // MS_२,३.२६ //
SK
अस्त्य् अवेष्टिः, आग्नेयो ऽष्टाकपालः पुरोडाशो भवतीत्येवमादिः, तां प्रकृत्योच्यते, एतयान्नाद्यकामं याजयेतेति. तत्र सन्देहः - किं कर्मान्तरम् अवेष्टेर् उतावेष्टिर् एवेति? किं प्राप्तम्, कर्मान्तरम् इति, उक्तेन न्यायेन. एवं प्राप्ते ब्रूमः - सन्निधौ फलार्थेन पुनःश्रुतिर् अवेष्टेर् एव, न कर्मान्तरम् इति. कुतः? अविभागात्, एतयेत्य् एष शब्दो न शक्नोत्य् अवेष्ट्या विभक्तं यागम् अन्यं वक्तुम्, सन्निहितस्य प्रतिनिर्देशक एष शब्दः. तस्माद् अवेष्टिर् एवान्नाद्यकामस्य विधीयत इति. किं प्रयोजनम्? यद्य् अवेष्टिः, आग्नेयादीनि हवींषि. अथ कर्मान्तरम्, अन्यहविष्को याग इति.
SK
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत // MS_२,३.२७ //
SK
दर्शपूर्णमासयोर् आग्नेयो ऽष्टाकपालो ऽमावास्याभ्यां पौर्णमास्यां चाच्युतो भवतीति विधाय पुनर् उच्यते, आग्नेयो ऽष्टाकपालो ऽमावास्यायां भवतीति. तत्र सन्देहः - किम् अमावास्यायां द्विर् आग्नेयेन यष्टव्यम्, उत सकृद् इति. किं प्राप्तम्? आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयते, एकस्यैवं पुनःश्रुतिर् अविशेषाद् अनर्थकं हि स्याद् इति{*२/३६३*}.
SK
[१९३]{*२/३६४*}
SK
NOTES: *{२/३६३: MS २.२.२}* *{२/३६४: E२: ३,२०४; E४: ३,४४१; E५: २,६०५; E६: १,१३२}*
SK
अविभागात् तु कर्मणा{*२/३६५*} द्विर् उक्तेर् न विधीयते // MS_२,३.२८ //
SK
नैतद् अस्ति, पुनर् अभ्यसितव्य आग्नेय इति. कुतः? न, अभ्यासस्य वाचकः शब्दो ऽस्तीति. नन्व् आग्नेयः पुनरुच्चरितः परं कर्म विधास्यति. नेति ब्रूमः, शब्दः पुनरुच्चरितो{*२/३६६*} न पुनर् अर्थः कर्तव्य इति शक्नोति वदितुम्, यो ऽस्य प्रथमम् उच्चरितस्यार्थः, शतकृत्वो ऽप्य् उच्चरितस्य स एवार्थो भविष्यति, नान्यः. ननु विहितम् एव पुनर् विशिष्टं विदधद् अनर्थको भवति. भवतु कामम् अनर्थकत्वम्, न त्व् अन्यं शक्नोति वदितुम्, भवेद् उपपन्नम् अनर्थकत्वम्, न त्व् अर्थान्तरवचनता. तस्मान् न द्विर् अभ्यस्येतेति.
SK
NOTES: *{२/३६५: E१,६; E२,४,५: कर्मणो}* *{२/३६६: E२,४: पुनरुच्चारितो}*
SK
अन्यार्था वा पुनःश्रुतिः // MS_२,३.२९ //
SK
अथ वा, नानर्थिका पुनःश्रुतिः, अर्थवादार्था भविष्यतीत्य् उच्यते. किम् अर्थवादेन प्रयोजनम्? यदा पूर्वेनैव वाक्येन सार्थवादकेन विहितः आग्नेयः, कमन्यम् अर्थं विधातुम् श्रुतिः{*२/३६७*} प्रयुज्येत? श्रुतिमात्रं{*२/३६८*} यन् न कस्यचिद् विधानार्थम्, तद् अनर्थकम्, इत्य् उक्तम्, आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानाम् इति{*२/३६९*}, श्रुतश् चाश्रुतश्{*२/३७०*} च तावान् एव सो ऽर्थः, यथा श्रुता चाश्रुता{*२/३७१*} च देवता अङ्गभावं साधयति, एवम् एतद् इति. तद् उच्यते - अन्यार्था वा पुनःश्रुतिः, न आग्नेयं विधातुम्, ऐन्द्राग्नविधानार्था, आग्नेयो ऽष्टाकपालो ऽमावास्यायां भवत्य् एव, न केवलेनाग्निना स साधुर् भवतीतीन्द्रसहितो ऽग्निः समीचीनतरः, तस्माद् ऐन्द्राग्नः कर्तव्य इति.
SK
[१९४]{*२/३७२*}
SK
NOTES: *{२/३६७: E१,६; E२,४,५: स्तुतिः}* *{२/३६८: E१,६; E२,४,५: स्तुतिमात्रं}* *{२/३६९: MS १.२.१}* *{२/३७०: E१,६; E२,४,५: स्तुतश् चास्तुतश्}* *{२/३७१: E१,६; E२,४: स्तुता वास्तुता वा, E५: स्तुता चास्तुता च}* *{२/३७२: E२: ३,२०७; E४: ३,४४६; E५: २,६०७; E६: १,१३३}*
SK
यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् // MS_२,४.१ //
SK
बह्वृचब्राह्मणे श्रूयते - यावज्जीवम् अग्निहोत्रं जुहोतीति, यावज्जीवं दर्शपूर्णमासाभ्याम् यजेतेति. अत्र सन्देहेः - किं कर्मधर्मो ऽभ्यासो यावज्जीविकता, उत कर्तृधर्मो नियमश् चोद्यते यावज्जीविकतेति. कथं कर्मधर्मो ऽभ्यासः, कथं वा कर्तृधर्मो नियम इति. यदि जुहोतिर् अनुवादः, यावज्जीवम् इति विधिः. ततः कर्मधर्मो ऽभ्यासः, यदि विपरीतम्, ततः कर्तृधर्मो नियम इति. किं तावत् प्राप्तम्, कर्मधर्मो ऽभ्यासः. कुतः? प्रकरणात्, यदीयं वचनव्यक्तिः, जुहोतियजतिशब्दाव् अनुवादौ, यावज्जीवम् इति च विधिः, ततः प्रकरणम् अनुगृह्यते, तस्माद् अभ्यासः. एवं कृत्वा सत्रसंस्तवो युक्तो भविष्यति, जरामर्यं वा एतत् सत्रं यद् अग्निहोत्रम्, दर्शपूर्णमासौ चेति दीर्घकालसामान्यात्. तस्माद् अभ्यासः.
SK
कर्तुर् वा श्रुतिसंयोगात् // MS_२,४.२ //
SK
अत्र ब्रूमः - यावज्जीविको ऽभ्यासो न स्यात्, कर्तुर् धर्मो नियमश् चोद्यत इति. कुतः? श्रुतिसंयोगात्. एवं श्रुतिपरिच्छिन्नो ऽर्थो भविष्यति, इतरथा लक्षणा स्यात्. कथम्? यावज्जीवनम्, तावता कालेन कुर्याद् इति, तद् एतत् प्रदोषपरिसमाप्तम् अग्निहोत्रम् अनभ्यस्य, न शक्यते यावज्जीवनकालेन कर्तुम्, पौर्णमास्यम् आवास्यापरिसमाप्तौ च दर्शपूर्णमासौ. यद्य् उच्येत - जीवनकालस्यैकदेशे ऽपि कृतं तेन कालेन कृतं भवतीति. नैतद् एवम्, [१९५]{*२/३७३*} अर्थप्राप्तं हि तन् न विधातव्यं शब्देन, जीवनपरिमितः कालो यः, तेन परिसमापयितव्यम् इत्य् अर्थाद् अभ्यासः, स हि कर्तव्यतया श्रूयते, न चासाव् जुहोतियजतिभ्याम् उच्यते, लक्षणया तु गम्यते. यावज्जीवं जुहुयात्, यावज्जीवम् अभ्यस्येद् इति, श्रुतिश् च प्रकरणाद् बलीयसी. यदीयं वचनव्यक्तिर् अस्य वाक्यस्य, यावज्जीवम् इत्य् अनुवादो जुहोति यजतीति च विधानम्, इत्य् एवं यजतिजुहोतिशब्दौ स्वार्थाव् एव भविष्यतः, यावज्जीवशब्दो ऽपि जीवनवचन एव, नाभ्यासलक्षणो भविष्यतीति जीवने निमित्ते कर्म विधीयते, जीवंश् चेद् धोतव्यम् इति, जीवनं निमित्तम्, न कालः, नियतनिमित्तत्वान् नियतं कर्म तेनोच्यते, कर्तुर् धर्मो नियमश् चोद्यत इति.
SK
NOTES: *{२/३७३: E२: ३,२१०; E४: ३,४५१; E५: २,६०९; E६: १,१३४}*
SK
लिङ्गदर्शनाच् च, कर्मधर्मे हि प्रक्रमेण नियम्येत, तत्रानर्थकम् अन्यत् स्यात् // MS_२,४.३ //
SK
लिङ्गं च भवत्य् अपि ह वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी पौर्णमासीम् अमावास्यां वातिपातयेतेति. कथं लिङ्गम्? कर्मधर्मे हि प्रक्रान्तं सत्रं यावज्जीवनकालेन परिसमाप्येत, न तत्र कालातिपातः स्यात्. तत्र चानर्थकम् अन्यत् स्यात् प्रायश्चित्तादि विधीयमानम्.
SK
व्यपवर्गं च दर्शयति, कालश् चेत् कर्मभेदः स्यात् // MS_२,४.४ //
SK
व्यपवर्गस्य समापनस्य दर्शनं भवति, दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति. यदि दर्शपूर्णमासाभ्याम् इष्ट्वा सोमस्य कालो ऽस्ति, व्यक्तं न यावज्जीवनकालेन तौ परिसमाप्येते. अथ जीवनं निमित्तम्, उपपद्यते कर्मभेदः, दर्शपूर्णमासौ परिसमाप्य सोमं कर्मान्तरं कुर्याद् इति. [१९६]{*२/३७४*} अपि चाहिताग्निर् वा एष यो ऽग्निहोत्रं जुहोति न दर्शपूर्णमासौ यजेत, या आहुतिभाजो देवतास् ता अनुध्यायिनीः करोतीत्य् अनुध्यायिनीवचनं भवति, नियतो य आहुतिभागः, तस्मिन् अदीयमाने ऽनुध्यायिनीवचनं भवति. यस् त्व् अनियत आहुतिभागस् तम्{*२/३७५*} अनुध्यायन्ति, इदं नो भविष्यतीति, नियतश् च भागो नियमपक्षे भवति, न काम्यपक्षे, कर्मधर्मे च काम्यम् अग्निहोत्रं च दर्शपूर्णमासौ च, तस्मान् नियमपक्षः. अपि च श्रूयते, जरामर्यं वैतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णमासौ च, जरया ह वैताभ्यां निर्मुच्यते मृत्युना चेति जरामरणनिर्मोचनावधारणवचनं च नियमपक्ष उपपद्यते. काम्यपक्षे ह्य् अप्रयोगाद् अपि मुच्येत.
SK
NOTES: *{२/३७४: E२: ३,२१४; E४: ३,४६२; E५: २,६११; E६: १,१३४}* *{२/३७५: E२,४,५: न तम्}*
SK
अनित्यत्वात् तु नैवं स्यात् // MS_२,४.५ //
SK
तुशब्दो ऽन्वाचये, इतरश् च पश्यामः, कर्तुर् धर्मो नियमश् चोद्यत इति. यदि पूर्वस्य होमस्य गुणविधिर् भवेत् स एकैकः पूर्वो ऽग्निहोत्रहोमो ऽनित्यः स्यात्, कामसंयोगेन श्रुतो नान्यः कश्चिन् नित्यः, तत्र लिङ्गं विरुध्येत, जरामर्यं वैतत् सत्रं यद् अग्निहोत्रं दर्शपूर्णमासौ, जरया वैताभ्यां निर्मुच्यते मृत्युना चेति. कथं विरुध्यते? जरामरणनिर्मोचनाधारणवचनं नियमपक्ष उपपद्यते, काम्यपक्षे ऽप्रयोगाद् अपि मुच्येत.
SK
विरोधश् चापि पूर्ववत् // MS_२,४.६ //
SK
इतश् च पश्यामो न पूर्वाभ्यासो गुणश् चोद्यत इति. कुतह्? विरोधात्, विरोधो भवति, दर्शपूर्णमासविकाराः सौर्यादयो ऽपि यावज्जीवम् अभ्यसितव्या भवेयुः. सो ऽनारभ्यार्थः प्रतिज्ञातः स्यात्. अतो ऽपि पश्यामो नियम इति सत्रसंस्तवश् च सन्ततभावम् उपपत्स्यते.
SK
[१९७]{*२/३७६*}
SK
NOTES: *{२/३७६: E२: ३,२१६; E४: ३,४६७; E५: २,६१२; E६: १,१३५}*
SK
कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् // MS_२,४.७ //
SK
यदि कर्तुर् धर्मो नियमश् चोद्येत, ततो जीवनं निमित्तम्, जीवने निमित्ते कर्म विधीयते. तत्र प्रयोगे परिसमाप्तं कर्म, तथा व्यपवर्गस्य दर्शनम् अकॢप्तं भवति, तस्मात् कर्तृधर्मो नियमश् चोद्यत इति सिद्धं भवति.
SK
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् // MS_२,४.८ //
SK
इह शाखान्तराण्य् उदाहरणम्, काठकं कालापकं पैप्पलादकम् इत्येवमादीनि. तत्र सन्देहः, किम् एकस्यां शाखायां यत् कर्माग्निहोत्रादि श्रूयते, तच् छाखान्तरे पुनः श्रूयमाणम् भिद्येत तस्मात्, उत न भिद्येत? भिद्येतेति पश्यामः. कुतः? नामभेदात्, एकं काठकं नाम, अन्यत् कालापकं नाम, एवं नामभेदाद् भेदः. ननु ग्रन्थनामैतत्. सत्यम्, कर्मणाम् अपीति ब्रूमः, कर्मभिर् अप्य् एवमादीनां सामानाधिकरण्यम् एकविभक्तित्वं चेति. रूपभेदाच् च, एकस्यां शाखायाम् अग्नीषोमीयम् एकादशकपालम् आमनन्ति, एकस्यां द्वादशकपालम्, एवं भिन्नं रूपम्{*२/३७७*}, कथम् इव न कर्मान्तरं भविष्यति. धर्मविशेषाच् च, कारीरीवाक्यान्य् अधीयानास् तैत्तिरीया भूमौ भोजनम् आचरन्ति, अपरे शाखिनो नाचरन्ति, तथाग्निम् अधी[१९८]{*२/३७८*}यानाः केचिद् उपाध्यायस्योदकुम्भानाहरन्ति, अपरे न, अश्वमेधम् अधीयानाः केचिद् अश्वस्य घासम् आहरन्ति, अपरे न, परे ऽन्यं धर्मम् आचरन्ति, अश्वघासादेर् एकेषाम् उपकारम् आकाङ्क्षत्य् अश्वमेधादिः, एकेषां नाकाङ्क्षति, स एवैकः कथं नाकाङ्क्षेत कथं वान्यद् आकाङ्क्षितुम् अर्हति, अतो गम्यत अन्यद् इति. पुनरुक्तिप्रसङ्गाच् च, यदि सर्वशाखाप्रत्ययम् एकं कर्म, एकस्यां शाखायां विहितस्य कर्मणः शाखान्तरे वचनं पुनरुक्तम् अनर्थकं स्यात्. न तु भेदपक्ष एष दोषो ऽस्ति, तस्माद् अपि कर्मभेदः. निन्दावचनाच् च प्रातः प्रातरनृतं ते वदन्ति पुरोदया{*२/३७९*} जुह्वति ये ऽग्निहोत्रं दिवाकीर्त्यम् आदिवा कीर्तयन्तः सूर्यो ज्योतिर् न तदा ज्योतिर् एषाम् इति केचिच् छाखिनो ऽनुदितहोमं निन्दन्ति, अपरे पुनर् उदितहोमं निन्दन्ति, यथातिथये प्रद्रुतायान्नम् आहरेयुस् तादृक् तद् यद्य् उदिते जुह्वतीति{*२/३८०*}, सर्वशाख्याप्रत्यये विरुद्धम्, न तु कर्मभेदे, तस्माद् अपि भेद इति. अशक्तेश् च, न शक्नुयुः खल्व् अपि सर्वशाखाप्रत्ययम् उपसंहर्तुम्, तत्रानारभ्यो ऽर्थो विधीयत इति प्रतिज्ञातं भवेत्, शक्यं तु कर्मभेदे, अतः कर्मभेद इति. समाप्तिवचनाच् च, असमाप्ते ऽपि समाप्तेर् वचनं भवति, केचिद् आहुः, अत्रास्माकम् अग्निः परिसमाप्यत इति, अपरे ऽन्यपरिसमाप्तिं व्यपदिशन्ति, तद् एककर्मत्वे नोपपद्यते, न हि तत्र च{*२/३८१*} परिसमाप्येत, अन्यत्र न. भेदे तु युक्तम्, तस्माद् भेद इति. प्रायश्चित्तविधानाच् च, केचिद् अनुदितहोमव्यतिक्रमे प्रायश्चित्तम् आमनन्ति, केचिद् उदितहोमव्यतिक्रमे वृद्धे च प्रायश्चित्तम्, न च कर्मैकत्व उभयथा वृद्धिः संभवति, कर्मभेदे तु यद् अनुदिते होमकर्म, तद् उदिते वृद्धम्, इतरद् अप्य् उदिते, तस्माद् अपि भेदः. अन्यार्थदर्शनाच् च, इदं श्रूयते, यदि पुरा दिदीक्षाणाः स्युः यदि वैषां गृहपतिर् गृहपतेर् वानुसत्रिण इति, त एनम् एव [१९९]{*२/३८२*} बृहत्सामानं क्रतुम् उपेयुर् उपेतं ह्य् एषां रथन्तरम्, अथ यद्य् अदिदीक्षाणा इतीष्टवताम् अनिष्टपूर्वाणां च द्वादशाहे दर्शनम् उपपद्यते यदि कर्मभेदः, एककर्मत्वे नावकल्प्यते. कथम्? ताण्डके{*२/३८३*} श्रूयते, एष वाव प्रथमो यज्ञो यज्ञानाम्, यज् ज्योतिष्टोमः, य एतेनानिष्ट्वाथान्येन यजेत गर्तपत्यम् एव तज् जायेत प्रवाम् ईयत इति{*२/३८४*}, तत् सर्वत्र स्यात्, तत्रादिदीक्षाणां द्वादशाहे दर्शनं नोपपद्यते, तस्माद् अपि कर्मभेदः. अथापरं लिङ्गदर्शनम्, यत् पक्षसमितां पिनुयात् कनीयांसं यज्ञक्रतुम् उपेयात् कनीयसीं प्रज्ञां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान् स्यात्, अथ यदि वेदिसंमित्या मिनोतीति{*२/३८५*} पक्षसमाने प्रतिषिद्धे वेदिसंमानस्य दर्शनं भवति, तत् तु कर्मभेद उपपद्यते, पाक्षिकस्य वेदिसंमानस्य दर्शनम् एककर्मत्वे नोपपद्यते. कथम्? एके हि समामनन्ति, रथाक्षमात्राणि यूपान्तरालानि भवन्तीति{*२/३८६*}, तत् सर्वत्र स्यात्, तत्र च नो पक्षसंमानं नो वेदिसंमानं स्यात्, वेदिसंमानदर्शनं नोपपद्यते, तस्माद् अपि कर्मभेदः. अपरं च लिङ्गदर्शनम्, केषांचिज् ज्योतिष्टोमे श्रूयते, द्वे संस्तुतानां विराजम् अतिरिच्येत इति, परेषां तिस्रः संस्तुतानां विराजम् अतिरिच्यन्त इत्य् एककर्मत्वे विरोधः, नानाकर्मत्वे कस्मिंश्चिज् ज्योतिष्टोमे द्वे, कस्मिंश्चित् तिस्रः, तस्मात् कर्मभेद इति. अपि च सारस्वते श्रूयते, ये पुरोडाशिनस् ते उपविशन्ति ये सान्नायिनस् ते वत्सान् वारयन्ति. सान्नायिन इष्टप्रथमयज्ञाः, पुरोडाशिनो विपरीताः, उभयेषां सारस्वते दर्शनम् अवकल्पते कर्मभेदे, एककर्मत्वे सर्वेषां ज्योतिष्टोमपूर्वत्वं स्यात्, तत्र दर्शनं नोपपद्यते. अपि च श्रूयते - उपहव्यो निरुक्तः{*२/३८७*}, अग्निष्टोमो यज्ञः रथन्तर[२००]{*२/३८८*}सामा, अश्वः श्यावो दक्षिणा, परेषां श्रूयते, उपहव्यो ऽनिरुक्तः, उक्थो{*२/३८९*} यज्ञो बृहत्सामा, अश्वः श्वेतो रुक्मललाटो दक्षिणेति, कर्मैकत्वे रथन्तरवचनं बृहद्वचनं चानर्थकम्, शाखाद्वयप्रत्ययत्वाद् बृहत्सामा रथन्तरसामा वा स्यात्, स चायं प्रकृतित एवंलक्षणकः प्राप्तः, नानाकर्मत्वे त्व् अन्यो बृहत्सामान्यो रथन्तरसामेति युक्तं भवति, तस्माच् छाखान्तरे कर्मभेदो भवितुम् अर्हति.
SK
NOTES: *{२/३७७: E१,५; E२,४,६: भिन्नरूपम्}* *{२/३७८: E२: ३,२१९; E४: ३,४६९; E५: २,६१५; E६: १,१३६}* *{२/३७९: E२,४,६: पुरोदयाज्; E५: पुरोदयाजू जुह्वति}* *{२/३८०: Śआङ्खा.Bर्. २.९; Tऐत्.Bर्.२.१.२.१२}* *{२/३८१: E१,६; E२,४,५: न हि तद् एव तत्र}* *{२/३८२: E२: ३,२२०; E४: ३,४७०; E५: २,६२६; E६: १,१३६}* *{२/३८३: E२,४,५,६: ताण्ड्यके}* *{२/३८४: Tआ.Bर्. १६.१.२}* *{२/३८५: Mऐत्.S. ३.४.८}* *{२/३८६: Tऐत्.S. ६.६.४.१}* *{२/३८७: E१,६; E२,४,५: ऽनिरुक्तः}* *{२/३८८: E२: ३,२२१; E४: ३,४७१; E५: २,६१७; E६: १,१३७}* *{२/३८९: E१,६; E२,४,५: उक्थ्यो}*
SK
एकं वा संयोगरूपचोदनाख्याविशेषात् // MS_२,४.९ //
SK
न चैतद् अस्ति, यद् उक्तम् - शाखान्तरेषु कर्मभेद इति, सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म, अर्थसंयोगस्याविशेषात्, तद् एव प्रयोजनम् उद्दिश्य तद् एव विधीयमानं प्रत्यभिजानीमः. रूपम् अप्य् अस्य तद् एव द्रव्यदेवतम्, पुरुषप्रयत्नश् च तादृश एव चोद्यते, नामधेयं चाविशिष्टम्, तेन तद् एव कर्म सर्वशाखादिष्व् इति प्रत्ययः.
SK
न नाम्ना स्याद् अचोदनाभिधानत्वात् // MS_२,४.१० //
SK
यद् उक्तम् - नामभेद इति, परिहृतं तद् ग्रन्थनाम् अत इति. अथ यद् उक्तम् - कर्मणो ऽपि नामसामानाधिकरण्यदर्शनाद् इति. नैष दोषः, ग्रन्थसंयोगात् कर्म काठकादि, न कर्मसंयोगाद् ग्रन्थः काठकः. कथं गम्यते? यत् कर्म काठकादिसंयुक्तम्, तत् काठकादिशब्देनोच्यते. किम् अतो ऽपि? यद् ग्रन्थसंयोगात् काठकं कालापकं कर्मोच्यते. एकत्वे ऽपि काठकग्रन्थसंयोगात् काठकम्, कालापकग्रन्थसंयोगात् तु कालापकं भविष्यति.
SK
[२०१]{*२/३९०*}
SK
NOTES: *{२/३९०: E२: ३,२२४; E४: ३,४९२; E५: २,६१८; E६: १,१३८}*
SK
सर्वेषां चैककर्म्यं स्यात् // MS_२,४.११ //
SK
यदि शब्दभेदाद् भेदो भवेत्, शब्दैक्यात् तर्हि कर्मैक्यं भवेत्. तत्र काठकशब्दाभिधानाद् ऐक्यं भवेद् अग्निहोत्रस्य दर्शपूर्णमासयोर् ज्योतिष्टोमस्य च, तच्छब्दत्वात्, न चैतद् एवम्. तस्माद् अप्य् अभेदः.
SK
कृतकं चाभिधानम् // MS_२,४.१२ //
SK
इदानींतनं चैतद् अभिधानं भवेत्, अस्य न पूर्वम् आसीत्, यतः प्रभृति कठस्य प्रकृष्टं वचनम्, ततः प्रभृति प्रवृत्तम्, पूर्वं नासीद् भेदः, इदानीं भेद इति विरुद्धम्.
SK
एकत्वे ऽपि परम् // MS_२,४.१३ //
SK
एककर्मत्वे ऽपि रूपभेदो भवति वचनात्, न च, वाचनिके रूपभेदे, असत्याम् अपि भेदबुद्धौ कर्मणो भेदो ऽभ्यवसीयेत.
SK
विद्यायां धर्मशास्त्रम् // MS_२,४.१४ //
SK
अथ यो धर्मविशेष उक्तः, विद्याग्रहणार्थः सः, न कर्मण उपकारकः. कथं गम्यते? श्रुत्यादीनाम् अभावात्, विद्यासंयोगाच् च न कर्मप्रयुक्त इति.
SK
आग्नेयवत् पुनर्वचनम् // MS_२,४.१५ //
SK
अथ यद् उक्तम् - यथामावास्यायाम्{*२/३९१*} आग्नेयस्य पुनरुक्तदोषान् मध्यमः पक्षो निरस्तः, एवम् अयम् अपि तस्माद् एव दोषात् कर्मैकत्वपक्षो निरसितव्य इति, एतत् परिहर्तव्यम्. (इत्य् आभाषान्तं सूत्रम्){*२/३९२*}.
SK
[२०२]{*२/३९३*}
SK
NOTES: *{२/३९१: Vग्ल्. MS २.३.२७-२९}* *{२/३९२: Iन् E१ गेक्लम्मेर्त्}* *{२/३९३: E२: ३,२२६; E४: ३,४९७; E५: २,६१९; E६: १,१३९}*
SK
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् // MS_२,४.१६ //
SK
नैव खल्व् एतत् द्विर्वचनम्, स एवायम् अर्थः पुनः श्रावितो ऽग्निहोत्रादिर् बहुकृत्वो बहुभिस् तु पुरुषैः, न चैको ऽर्थो बहुभिर् उच्यमानः पुनरुक्तो भवति. यदि भवेत्, एकस्मिन्न् एव वेदे बहुभिर् उच्यमाने भवेत्, तस्मान् न बहुकर्मसमवायो ऽयम्, एकम् एवेदं कर्मेति.
SK
वाक्यासमवायात् // MS_२,४.१६अ //{*२/३९४*}
SK
NOTES: *{२/३९४: Dइएसेस् Sऊत्र wउर्दे वोन् Śअबर निछ्त् कोम्मेन्तिएर्त्, एस् fइन्देत् सिछ् जेदोछ् बेइ Kउमारिल. Iन् E२,४,५ इस्त् एस् औfगेनोम्मेन् wओर्देन्. Dइएस् बेदिन्ग्त् एइने वोन् E१,६ अब्wएइछेन्दे Zäह्लुन्ग् देर् fओल्गेन्देन् Sऊत्रस्}*
SK
अर्थासन्निधेश् च // MS_२,४.१७ //
SK
अर्थासन्निधेश् च शाखाशब्द उपपन्नो भविष्यति, शाखा इव होमाः शाखाः, तद् यथा वृक्षस्य शाखाः, एवम् इहापि वृक्षस्थानीयस्य वेदस्य शाखाः. किं शाखासारूप्यम्? यथा नानावस्थानम्, न चैकैकस्यां कृत्स्नं पुष्पं फलं सन्निहितम्, एवम् इहापि, नैकैकस्यां कृत्सं गुणकाण्डं सन्निहितम्, इत्य् अर्थासन्निधेः शाखाशब्दोपपत्तिः. तस्माद् अप्य् एकं कर्मेति.
SK
न चैकं प्रति शिष्यते // MS_२,४.१८ //
SK
न च, यत् काठके ऽग्निहोत्रम्, तत् काठकम् एवैकं पुरुषं प्रति विधीयते. तैत्तिरीयस्यापि तद्विहितम् एव, पुरुषविशेषवचनाभावात्, यच् चाग्निहोत्रस्य किंचिद् अङ्गं विधीयते, सर्वावस्थस्य तद् अग्निहोत्रस्य, यच् च काठकस्याग्निहोत्रं, तच् च तैत्तिरीयकस्येति, विशेषवचनाभावात्, तस्मात् सर्वशाख्याभिर् एकं समाप्तं कर्मोच्यत इति.
SK
[२०३]{*२/३९५*}
SK
NOTES: *{२/३९५: E२: ३,२२९; E४: ३,५०५; E५: २,६२०; E६: १,१३९}*
SK
समाप्तिवच् च संप्रेक्षा // MS_२,४.१९ //
SK
अत्रास्माकम् अग्निः परिसमाप्यत इत्य् उत्प्रेक्षितारो भवन्ति, अन्वारोहेषु मैत्रायणीयानाम् अग्निः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यत इति, यद्य् अन्यद् एव मैत्रायणीयानाम्, अन्यच् च तेषाम्, कथं ते ब्रूयुर् एष्व् अस्माकं न परिसमाप्यत इति, एकत्वम् उपपन्नम्, तेषाम् अपि हि ते सन्ति.
SK
एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि // MS_२,४.२० //
SK
न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते. किं तर्हि निन्दिताद् इतरत् प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते. किं तर्हि निन्दितादितरत् प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते. किं त्व् इतरस्य विधिः, तत्रैकस्मिन्न् अग्निहोत्रे द्वौ कालौ विहितौ विकल्प्येते, अतो न कश्चिद् विरोधः. तथासमर्थानाम् एकस्मिन्न् अपि वेदे विहितं कृत्स्नम्{*२/३९६*} अङ्गजातम् उपसंहर्तुम् अशक्तिः, समर्थानां तु सर्वशाखाभ्यो ऽप्य् आगमितम् अधिकं विधिम् उपसंहर्तुम् शक्तिर् अस्तीति तेनैककर्मत्वे ऽपि न विरुद्धम् इति. तथैकस्मिन्न् अपि कर्मणि किंचिद् वस्तु समाप्तम् इति कृत्वा समाप्तिशब्दः प्रयुज्यते, यथा, आध्वर्यवे समाप्ते ज्योतिष्टोमस्य, समाप्तो ज्योतिष्टोम इति भवति.
SK
NOTES: *{२/३९६: E२,४: विहितं कृत्स्नम्}*
SK
प्रायश्चित्तं निमित्तेन // MS_२,४.२१ //
SK
यद् उक्तम् - उदितहोमस्यापि प्रायश्चित्तान्ता{*२/३९७*} नावृद्धता{*२/३९८*} गम्यते, अनुदितहोमस्यापि, तद् एकत्वे विरुध्यते, [२०४]{*२/३९९*} अविरुद्धं नानात्व इति, तत् परिहर्तव्यम्. (आभाषान्तं सूत्रम्){*२/४००*}.
SK
NOTES: *{२/३९७: E२: प्रायश्चिन्नानाद्; E४: प्रायश्चिताम्नानाद्; E५: प्रायश्चित्ताम्नानाद्}* *{२/३९८: E२,४,५: व्यृद्धता}* *{२/३९९: E२: ३,२३१; E४: ३,५०९; E५: २,६२१; E६: १,१४०}* *{२/४००: Iन् E१ गेक्लम्मेर्त्}*
SK
प्रक्रमाद् वा नियोगेन // MS_२,४.२२ //
SK
वाशब्दः पक्षं व्यावर्तयति. नैष दोषः, उदिते होष्यामीति प्रकान्ते ऽन्यथा क्रियमाणे भवति दोषः, तत्र प्रायश्चित्तस्य विषयो भविष्यतीति कर्मैकत्वे ऽपि न दोषः.
SK
समाप्तिः पूर्वत्त्वाद् यथाज्ञाते प्रतीयेत // MS_२,४.२३ //
SK
पूर्ववति समाप्तिवचनं भवति, यत् प्रारब्धं तत् परिसमाप्यते, तत्रास्माकं परिसमाप्तो ऽग्निर् इति यो ऽस्माभिर् ज्ञायते, प्रारब्धश् च परिसमाप्यत इत्य् अभिप्रायः{*२/४०१*}.
SK
NOTES: *{२/४०१: E२,४,५,६: परिसमाप्यते. प्रारब्धश् चेत्य् अभिप्रायः}*
SK
लिङ्गम् अविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्माद् द्वादशाहस्याहारव्यपदेशः स्यात् // MS_२,४.२४ //
SK
यद् उक्तम् - यदि पुरा दिदीक्साणा इति, द्वादशाह इष्टप्रथमयज्ञानाम् अनिष्टप्रथमयज्ञानां च दर्शनं कर्मभेद उपपद्यते, न सर्वशाखाप्रत्ययैककर्मणीति. नैष दोषः, यदि दिदीक्षाणा द्वादशाहेन, अदिदीक्षाणा द्वादशशाहेनेत्य् एवं तत्, न हि सामवेदे ज्योतिष्टोमस्य विधानम्. किम् अतो ऽपि? यत्र विहितस् तत्रानूद्यते, तेन कर्मभेदे ऽपि सर्वज्योतिष्टोमानाम् एष धर्मः प्राथम्यं नाम. अतो नानाकर्मपक्षे ऽप्य् अवश्यं द्वादशाहस्याहारव्यपदेशः कल्पनीयस् तस्माद् अदोषः.
SK
[२०५]{*२/४०२*}
SK
NOTES: *{२/४०२: E२: ३,२३२; E४: ३,५१४; E५: २,६२२; E६: १,१४०}*
SK
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यवतिष्ठेत तस्मान् नित्यानुवादः स्यात् // MS_२,४.२५ //
SK
द्रव्ये चाग्नाव् अचोदितत्वाद् एकादशिन्याः संमानपरिमाणं पर्ति नैषा व्यवस्था स्यात्, नैवाग्नाव् एकादशिनी चोद्यते, कुतः पक्षसंमानं वेदिसंमानं वा स्यात्? द्वयम् अप्य् एतत् परार्थं कीर्त्यते, पश्वेकादशिनीविधानार्थम्, यदि पक्षसंमिता स्याद् अयं दोषः स्यात्, वेदिसंमाने न दोषो भवेत्, क एतत् सङ्कटमध्यवसानम्{*२/४०३*} अर्हति? एकस्मिन् यूप एकादश पशवो नियोक्तवा इति, वाचस्तोमादिषु तु यूपैकादशिन्याम् अस्य नित्यानुवादत्वाद् रथाक्षमात्राण्य् एव यूपान्तरालानि भविष्यन्ति, नित्यानुवादत्वाच् चासत्य् अपि पक्षसंमाने वेदिसंमाने वैकादशिनीविधानार्थं वचनम् उपपद्यत एवेति न दोषः.
SK
NOTES: *{२/४०३: E१,६; E२,४,५: सङ्कटमध्यवसातुम्}*
SK
विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् // MS_२,४.२६ //
SK
अतिरात्रे गृह्णाति षोडशिनम् इति विहितः षोडशी, नातिरात्रे गृह्णाति षोडशिनम् इति प्रतिषिद्धः, तेन पक्षे द्वयोः स्तोत्रीययोर् अतिरेकः, पक्षे तिसॄणाम्, तस्माद् अदोषः. कथं पुनर् अयं द्वयोस् तिसॄणां वातिरेकः? त्रिवृद् बहिष्पवमानम्, तत् तावन् नवकम्. पञ्चदशान्य् आज्यानि, तानि [२०६]{*२/४०४*} तावच् चत्वारि, तेन सा षष्टिः. पञ्चदशो माध्यंदिनः पवमानः, तया पञ्चदशसंख्यया सह, पूर्वया च नवसंख्यया चतुरशीतिः. सप्तदशानि पृष्ठानि चत्वारि, सप्तदश आर्भवः पवमानः, पञ्चसप्तदशकानि तानीति पञ्चाशीतिः. पूर्वया चतुर्शीत्या सहैकोनसप्ततिशतम्. एकविंशं यज्ञायज्ञियम्, तयैकविंशत्या सह तस्य नवतिशतं स्तोत्रिया{*२/४०५*} इति ब्राह्मणवादः. अग्निष्टोममात्रम् अभिप्रेत्योच्यते, सा विराट् संपूर्णा विराड् इति दशकाख्याः{*२/४०६*}, त्रय एकविंशका उक्थपर्यायाः, सा त्रिषष्टिः. एकविंशः षोडशी, तयैकविंशत्या सह चतुरशीतिः. पञ्चदशका रात्रिपर्यायास् त्रयः, तत्रैकैकपर्यायः चतुःस्तोत्रः, तद् अशीतिशतं संपूर्णा विराट्. त्रिवृद् रथन्तरं पञ्चसाम, तन् नवकम्, ततश् चतुरशीतेर् एकं नवकम् आगच्छति, तथा तिस्रः संस्तुतानां विराजम् अतिरिच्यन्ते, यदा षोडशी न गृह्यते, तदैकविंशत्या विना द्वे संस्तुतानां विराजम् अतिरिच्येते, एवम् एककर्मत्वे ऽपि लिङ्गम् उपपद्यते.
SK
NOTES: *{२/४०४: E२: ३,२३४; E४: ३,५१७; E५: २,६२३; E६: १,२४१}* *{२/४०५: E२,४: स्तोत्रीया}* *{२/४०६: E२,४: दशकाख्या}*
SK
सारस्वते विप्रतिषेधाद् यदेति स्यात् // MS_२,४.२७ //
SK
यद् उक्तम् - पुरोडाशिनां सान्नायिनां च सारस्वते दर्शनं भवतीति, ज्योतिष्टोमपूर्वकत्वात् सर्वकर्मणाम्, विप्रतिषिद्धम् एतद् इति, तेन यदा सान्नायिनः पुरोडाशिन{*२/४०७*} इति कल्प्यते.
SK
NOTES: *{२/४०७: E१,५; E२,४,६ ओम्. पुरोडाशिन}*
SK
उपहव्ये ऽप्रतिप्रसवः // MS_२,४.२८ //
SK
अथम् यद् उक्तम् - उपहव्ये बृहद्रथन्तरविधानं प्रकृतिप्राप्तम् एव, एककर्मत्वे प्रतिप्रसवतयाप्य् असंभवाद् विधीयमानम् अनर्थकं स्याद् इति, तत् परिहर्तव्यम्. आभाषान्तं सूत्रम्.
SK
[२०७]{*२/४०८*}
SK
NOTES: *{२/४०८: E२: ३,२३५; E४: ३,५२१; E५: २,६२४; E६: १,१४२}*
SK
गुणार्था वा पुनःश्रुतिः // MS_२,४.२९ //
SK
यदा रथन्तरसामा, तदाश्वः श्वेतो दक्षिणा, यदा बृहत्सामा तदा रुक्मललाट इति.
SK
प्रत्ययं चापि दर्शयति // MS_२,४.३० //
SK
यदा न सर्वशाखाप्रत्ययम् एकं कर्मेति, कथम् एकस्यां शाखायां समाम्नायते ऽन्यस्यां गुणो विधीयते? यथा मैत्रायणीयानां समिदादयः प्रयाजा न समाम्नायन्ते, अथ च गुणाः श्रूयन्ते, ऋतवो वै प्रयाजाः समानीय होतव्या इति{*२/४०९*}. तथा येषां शाखिनां कुटरुर् असीत्य्{*२/४१०*} अश्मादानमन्त्रो नाम्नातः, तेषाम् अपि हि दृश्यते, कुक्कुटो ऽसीत्य् अश्मानम् उपपादत्ते, कुटरुर् असीति वेति. तस्माद् एकं कर्मेति प्रतीमः.
SK
NOTES: *{२/४०९: Mऐत्.S. १.४.१२, व्ग्ल्. ŚPBर्. १.५.३१}* *{२/४१०: Mऐत्.S. १.१.६}*
SK
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत // MS_२,४.३१ //
SK
यो ह्य् अन्यशाखावस्थितान् विधीन् उपसंहरति, स स्वशाखाविहितं क्रमम् उपरुणद्धीति, तेन शाखान्तरेषु कर्मभेद इति.
SK
विरोधिना{*२/४११*} त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् // MS_२,४.३२ //
SK
उच्यते - नैष शाखान्तरविहितानाम् ऐककर्म्ये सति विरोधिना{*२/४१२*} संयोगः. न हि क्रमो वाक्येन विरुध्यते, दुर्बलो हि क्रमः, बलवद् वाक्यम्, वाक्येन च शाखान्तरीयाणाम् उपसंहारः. तस्मात् सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म चोद्यत इति सिद्धं भवति.
SK
NOTES: *{२/४११: E१,६; E२,४,५: विरोधिनां}* *{२/४१२: E१,६; E२,४,५: विरोधिनां}*
SK
============================================================================
SK
Aध्याय ३:
SK
[२०८]{*३/१*}
SK
NOTES: *{३/१: E२: ४,१; E४: ३,५२५; E६: १,१४३. E५ एन्थ्äल्त् जेत्zत् नुर् नोछ् दिए ŚBह्-Zइतते देर् Bऋहती उन्द् ब्लेइब्त् दहेर् उन्बेर्üच्क्सिछ्तिग्त्}*
SK
अथातः शेषलक्षणम् // MS_३,१.१ //
SK
नानाकर्मलक्षणं वृत्तम्, अनन्तरं शेषलक्षणं वर्तयिष्यामः. कः शेषः? केन हेतुना शेषः? कथं च विनियुज्यते? इति, श्रुत्यादीनि च विनियोगे कारणानीति वक्ष्यते, तेषां च बलवदबलवत्ता, एतत् तात्पर्येणान्यद् अप्य् उपोद्धातादिना.
SK
शेषः परार्थत्वात् // MS_३,१.२ //
SK
इह सूत्रे शेषस्य लक्षणम्, येन च हेतुना शेष इत्य् उच्यते, तद् उभयम् आख्यायते. यः परस्योपकारे वर्तते, स शेष इत्य् उच्यते. तद् यथा, ये परार्थाः, ते वक्तारो भवन्ति शेषभूता वयम् इहेति. ननु यो ऽपि प्रधानभूतः, सो ऽपि कदाचित् परार्थे वर्तते, यथोपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने वर्तते. सत्यं वर्तते. यस् त्व् अत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः. यथा, गर्भदासः कर्मार्थ एव स्वामिनो ऽनड्वांश् च क्रीयते, वक्ष्यतीत्य् एव. ननु गर्भदासस्यापि सवामी संविदधानो गुणभावमायात्. नेति ब्रूमः, आत्मन एवासौ संविदधानो गुणभावं गच्छति, नान्तरीयकत्वाद् गर्भ[२०९]{*३/२*}दासस्योपकरोति, अनडुहो वा. यस् त्व् अत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः. अथ तत्र किं वृत्तम्? यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत{*३/३*} इति{*३/४*}. तत्रापूर्वार्थता व्यावर्तिता, दृष्टप्रयोजनानामाख्यातानाम्. इह तु सर्वेषाम् एव शेषाणां लक्षणम् उच्यते.
SK
NOTES: *{३/२: E२: ४,१५; E४: ३,५३२; E६: १,१४३}* *{३/३: E२: प्रतीयते}* *{३/४: MS २.१.८}*
SK
द्रव्यगुणसंस्कारेषु वादरिः{*३/५*} // MS_३,१.३ //
SK
वादरिर्{*३/६*} आचार्यो ऽत्र द्रव्यगुणसंस्कारेष्व् एव शेषशब्द इति मने{*३/७*}, न यागफलपुरुषेषु. द्रव्यं क्रियार्थम्, यदि प्रयोजनवती क्रिया, व्यक्तं सा द्रव्येण निर्वर्तयितव्या{*३/८*}, तस्या निर्वृत्तिर् द्रव्यादृते न भवतीति तन्निर्वृत्तये द्रव्यम् एषितव्यं भवति. तस्मात् क्रियार्थं द्रव्यम्. गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्, लक्षितेन च तेन प्रयोजनम्, विशिष्टस्य क्रियासाधनत्वात्. तस्मात् सो ऽपि द्रव्यद्वारेण क्रियाया उपकरोतीति{*३/९*} क्रियार्थ एव. संस्कारो नाम स भवति, यस्मिन् जाते पदार्थो भवति योग्यः कस्यचिद् अर्थस्य, तेनापि क्रियायां कर्तव्यायां प्रयोजनम् इति सो ऽपि परार्थः. तस्माद् द्रव्यगुणसंस्काराः परार्थत्वाच् छेषभूताः. न तु यागफलपुरुषाः. यागस् तावत् कर्तव्यः पुरुषस्य. न हि, तस्मिन् निर्वर्तिते किंचिद् अपरम् अस्ति कर्तव्यम्. स हि पुरुषार्थः, यद् अन्यद् द्रव्यादि, तत् तदर्थं तस्य शेषभूतम्. स तु न किंचिद् अभिनिर्वर्तयितुं क्रियते. फलम् अपि न तेन क्रियते, तस्मिंस् तु कृते स्वयम् एव तद् भवति. तस्मिन् कृते फलम् अस्य भवतीत्य् एतावद् गम्यते. नास्ति शब्दो यागेन क्रियते [२१०]{*३/१०*} फलम् इति. तस्माद् यागो न शेषभूतः कस्यचिद् अर्थस्य. फलम् अपि न पुरुषं प्रत्युपदिश्यते. यः स्वर्गं कामयते, स यागं कुर्याद् इत्य् एतावच् छब्देनोदिश्यते, नात्मनः परस्य वेति. स्वर्गं प्रतीच्छामात्रेण स्वर्गकाम इति भवति. तस्मात् पुरुषं प्रति गुणभावेन न श्रूयते स्वर्गः. तस्मात् सो ऽपि न शेषभूतः. न चेत् फलयागौ गुणभावेन चोद्येते, कस्य पुरुषः प्रधानभूतो भवति. प्रत्यक्षश् चास्य द्रव्यत्वात् कर्म प्रति गुणभावः. तस्माद् द्रव्यगुणसंस्कारेष्व् एव शेषभावं वादरिर्{*३/११*} मेन इति.
SK
NOTES: *{३/५: E२,४,६: बादरिः}* *{३/६: E२,४,६: बादरिर्}* *{३/७: E२,४,६: मेने}* *{३/८: E२: निर्वर्तितव्या}* *{३/९: E२: ओम्. इति}* *{३/१०: E२: ४,१७; E४: ३,५३९; E६: १,१४४}* *{३/११: E२,४,६: बादरिर्}*
SK
कर्माण्य् अपि जैमिनिः, फलार्थत्वात् // MS_३,१.४ //
SK
जैमिनिस् तु खल्व् आचार्यः कर्माण्य् अपि शेषभूतानि मन्यते स्म, न वादरिर्{*३/१२*} इवावधारणाम् अनुमेने. स हि ददर्श, न यागः कर्तव्यतया चोद्यते, फलकामस्य तु तत्साधनोपायत्वेनेति. एवं श्रुतो ऽर्थः परिगृहीतो भविष्यति. अर्थवांश् चोपदेशः. एनम् एवार्थं षष्ठे ऽध्याये सूत्रैर् एव साधयिष्यति. इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं यागस्यापादयति स्म. तस्माद् अनवधारणा द्रव्यगुणसंकाराः शेषभूताः, यागो ऽपि शेषभूतः फलं प्रतीति.
SK
NOTES: *{३/१२: E२,४,६: बादरिर्}*
SK
फलं च पुरुषार्थत्वात् // MS_३,१.५ //
SK
फलम् अपि पुरुषं प्रत्युपदिश्यते. यः स्वर्गो मे भवेद् इत्य् एवं कामयते, तस्य यागः. न यः स्वर्गः, स आत्मानं लभेतेति. कुतः. आत्मनेपदप्रयोगात्, कर्त्रभिप्राय एतद् भवति. क्रियाफलम् अनुभवेत् कथं पुरुष इति यागः प्रयुज्यते. तस्मात् फलं पुरुषार्थं यागाच् छ्रूयते, नात्म-निर्वृत्त्यर्थम्. तस्माच् छेषभूतम् इति.
SK
[२११]{*३/१३*}
SK
NOTES: *{३/१३: E२: ४,१९; E४: ३,५४२; E६: १,१४४}*
SK
पुरुषश् च कर्मार्थत्वात् // MS_३,१.६ //
SK
पुरुषो ऽप्य् औदुम्बरीसंमानादिषु गुणभूतः श्रूयते. तस्माद् अनवधारणैषा, द्रव्यगुणसंस्-कारेषु शेषत्वं वादरिर्{*३/१४*} मेन इति. अथेदानीम् अत्र भगवान् वृत्तिकारः परिनिश्चिकाय - द्रव्यगुणसंस्कारेष्व् एव नियतो यजिं प्रति शेषभावः, आपेक्षिक इतरेषाम्. यागस्य द्रव्यं प्रति प्रधानभावः, फलम् प्रति गुणभावः, फलस्य यागं प्रति प्राधान्यम्, पुरुषं प्रति गुणता, पुरुषस्य फलं प्रति प्रधानता, औदुम्बरीसंमानादि प्रति गुणत्वम्. तस्मात् संमतावधारणा, द्रव्यगुणसंस्कारा यागं प्रति नियोगतो गुणभूतैवेति.
SK
NOTES: *{३/१४: E२,४,६: बादरिर्}*
SK
तेषाम् अर्थेन संबन्धः // MS_३,१.७ //
SK
स्तो दर्शपूर्णमासौ, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति. तत्र श्रूयन्ते धर्माः, निर्-वपणम्, प्रोक्षणम्, अवहननम् इत्येवमादय औषधधर्माः. तथा, उत्पवनविलापनयहणा-सादनादय{*३/१५*} आज्यधर्माः. तथा, शाखाहरणम्, गवां प्रस्थापनम्, गवां प्रस्तावनम्{*३/१६*} इत्येवमादयो ऽपि सान्ताय्यस्य{*३/१७*}. तेषु संदेहः - किं सर्वे, औषधे आज्ये सान्नाय्ये च कर्तव्याः, उत ये यत्र क्रियमाणा अर्थवन्तः, ते तत्र कर्तव्या इति. ननु संयुक्ता एव{*३/१८*} श्रूयन्ते, यथा, व्रीहीन् अवहन्ति, तण्डुलान् पिनष्टीति. बाढं संयुक्ताः, अवघातादयस् तु पदार्था विधीयन्ते श्रुत्या, वाक्येनैषां व्रीह्यादिसंयोगः. अतो ऽस्ति संशयः. [२१२]{*३/१९*} किं तावत् प्राप्तम्? तेषाम् अर्थेन संबन्धः. अर्थेन प्रयोजनेन, ये यत्र क्रियमाणाः प्रयोजनवन्तः, ते तत्र कर्तव्याः. प्रथनादय आज्यसान्ताय्ययोर्{*३/२०*} अनुपकारका इति न तत्र करणीयाः. एवम् उत्पवनादय औषधसान्नाय्ययोः, शाखाहरणादय आज्यौषधयोः. ननु श्रूयन्ते सर्वे सर्वत्र. एतद् एव न जानीमः, श्रूयन्ते न श्रूयन्त इति, तद् विचारायितव्यम्. यद्य् अपि श्रूयरन्{*३/२१*}, तथाप्य् अनुपकारकत्वान् नैव कर्तव्या भवेयुः.
SK
NOTES: *{३/१५: E२,४,६: ग्रहणासादनादय}* *{३/१६: E२,४: प्रस्नावनम्}* *{३/१७: E२: सांनाय्यस्य, E४: सानाय्यस्य, E६: सान्नाय्यस्य}* *{३/१८: E२,४: एवैते, E६: एवम्}* *{३/१९: E२: ४,२४; E४: ३,५४५; E६: १,१४५}* *{३/२०: E२,४: आज्यसांनाय्ययोर्, E६: आज्यसान्नाय्ययोर्}* *{३/२१: E२,४,६: श्रूयेरंस्}*
SK
विहितस् तु सर्वधर्मः स्यात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च // MS_३,१.८ //
SK
उच्यते - यो ऽर्थात् प्राप्तः स्यात्, स यत्र प्रयोजनं तत्रैव क्रियेत. शब्देन तु सर्वे ऽमी पदार्था विहिताः, तेन न, यत्र केवलं प्रयोजनं प्रत्यक्षं दृश्यते, तत्रैव कर्तव्याह्. क्व तर्हि? यत्र यत्र विहिताः, ते चामी सर्वत्र विहिताः गम्यन्ते. कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च. सर्वेषां तावद् आज्यौषधसान्नाय्यानाम् अपूर्वेण साध्यसाधनसंयोगो ऽविशिष्टः, यत्र क्रियमाणा अपूर्वस्य कृता भवतीति विज्ञायते. तथा प्रकरणम् अविशिष्टम्, यस्मिन् विहिताः सर्वेषां विहिता भवन्तीति गम्यते. अतः सर्वे सर्वत्र कर्तव्याः, यत् त्व् अमी न सर्वत्रोपकुर्वन्तीति, विधानसामर्थ्यात् सर्वत्रोपकारका इति गम्यते. स चायम् अदृष्ट उपकारो भविष्यति.
SK
अर्थलोपाद् अकर्म स्यात् // MS_३,१.९ //
SK
नैतत्, सर्वे सर्वत्र करणीया इति, ये यत्र नोपकुर्वन्ति, न ते तत्र क्रियाम् अर्हन्तीत्य् उक्तम् एव. ननु विधानसामर्थ्यात् सर्वे सर्वत्रोप्करिष्यन्ति. नेति ब्रूमः.
SK
[२१३]{*३/२२*}
SK
NOTES: *{३/२२: E२: ४,२७; E४: ३,५५०; E६: १,१४६}*
SK
फलं तु सह चेष्टया शब्दार्थो ऽभावाद् विप्रयोगे स्यात् // MS_३,१.१० //
SK
नास्ति विधानम्, येन सर्वे सर्वत्रोपकुर्वन्ति. न च प्रत्यक्षादिभिर् उपकारम् अवगच्छामः. अर्थापत्तिर् अपि नियोगतस् तत्रैव भवेत्, यत्रैव शबेन चोदना भवति, नान्यथा. यदि च प्रथनादीनाम् आज्यसान्नाय्ययोर् अनुपकुर्वताम् अपि तत्प्रकरणे समाम्नायो ऽनुपपन्नो भवेत्, ततो ऽर्थाद् अदृष्ट उपकारः कल्प्येत, ते त्व् अवश्यं समाम्नानीया औषधार्थम्. फलं हि सह चेष्टयावहननादिकयावगम्यते तुषविमोचनादि, प्रयोजनं च तेन, न तस्माद् ऋते पुरोडाशः सिध्यति, सति चास्मिन्न् अर्थवान् प्रकरणे समाम्नायः. अर्थवति च तस्मिन् नादृष्टकल्पनायां प्रमाणम् अस्तीत्य् अतो न शक्यं कल्पयितुम्. यदि च तत्र तण्डुलादिनिष्पादनं दृष्टं नाभविष्यत्, ततो विप्रयोगे तण्डुलादीनाम् अभावाद् उपकारस्य शब्दार्थमात्रं दृष्टोपकारानपेक्षं कर्तव्यम् इत्य् आज्यसान्नाय्ययोर् अपि क्रियमाणानाम् अदृष्टम् अभविष्यत्. तस्मान् न प्रथनादयः सर्वत्र. एवम् उत्पवनादयः शाखाहरणादयश् च. तस्मान् न, सर्वे सर्व्त्र कर्तव्याः, प्रथनादयो नाज्यसान्नायय्योः, औषधे एव ते, उत्पवनादय आज्यस्य, नौषधसान्नाय्ययोः, शाखाहरणादयश् च सान्नाय्यस्य, नाज्यौषधयोर् इति सिद्धम्.
SK
द्रव्यं चोत्पत्तिसंयोगात् तदर्थम्{*३/२३*} एव चोद्येत // MS_३,१.११ //
SK
स्तो दर्शपूर्णमासौ, तत्र समामनन्ति - स्फ्यश् च कपालानि च [२१४]{*३/२४*} अग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृष्टच् चोपला चैतानि वै दश यज्ञायुधानीति{*३/२५*}. तत्र संदिह्यते - किं यो य इह शक्यत एभिः कर्तुम्, तस्मै तस्मै पदार्थायैतानि समाम्नातानि, उत यद् येन संयुक्तम्, तस्मा एवेति. किं तावत् प्राप्तम्? यद् येन शक्यम् इति. कुतः? एवं विधयो भविष्यन्ति तथार्थन्वतः{*३/२६*}, इतरथा ते ऽनुवादा निष्प्रयोजनाः, प्रकरणाविशेषश् च सर्वपदार्थान् प्रति, यज्ञायुधानीति च यज्ञसंयोगो ऽविशिष्टः. तस्मात् सर्वे सर्वत्रेत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - द्रव्यं चोत्पत्तिसंयोगात् तदर्थम् एव चोद्येत, यो येन पदार्थेन सहोत्पत्तिवाक्येन संयुक्तः स पदार्थः तेनैव कर्तव्यः, यथा स्फ्येनोद्धन्तीत्य् उद्धनार्थता स्फ्यस्य वाक्येन, तद् उद्धणनं न स्फ्याद् अन्येन कर्तव्यम्. यदा चैवम्, तदा प्राप्त एव स्फ्यः, तस्यायम् अनुवादो भवितुम् अर्हति, एतानि वै दशयज्ञायुधानीति. एवम् एकैस्यानुवादः, तेन तेन वचनेन प्राप्तस्य. यथा - कपालेषु श्रपयति, अग्निहोत्रहवण्या हवींषि निर्वपति, शूर्पेण विविनक्ति, कृष्णाजिनम् अधस्ताद् उलूखलस्यावस्तृणाति, शम्यायां{*३/२७*} दृषद्य्{*३/२८*} उपदधाति, उलूखल-मुसलाभ्याम् अवहन्ति, दृषद् उपलाभ्यां पिनष्टीति. प्रकरणात् सर्वाणि सर्वत्र प्राप्नुयुः, वचनात् तु यथावचनम्, यज्ञायुधशब्दो ऽपि सामान्येन प्रयोजनं विदधत् तद् वाध्येतैव{*३/२९*}, परोक्षं हि सामान्यवचनेन विशेषविधानं भवति, प्रत्यक्षं तु विशेषवचनेन विशेषविधानम्. तस्माद् यद् येनोत्पत्त्या संयुक्तम्, तत् तत्रैव विनियुज्यत इति सिद्धम्.
SK
[२१५]{*३/३०*}
SK
NOTES: *{३/२३: E२: अर्थम्}* *{३/२४: E२: ४,३०; E४: ३,५५३; E६: १,१४७}* *{३/२५: Tऐत्. S. १.६.८.३}* *{३/२६: E२: यथार्थन्वतः}* *{३/२७: E१,६; E१ (व्.ल्.), E२,४: शम्यायां}* *{३/२८: E१,६; E२,४: दृषदम्, E४ (व्.ल्.): दृषद्}* *{३/२९: E२,४,६: बाध्येतैव}* *{३/३०: E२: ४,३३; E४: ३,५५६; E६: १,१४७}*
SK
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् // MS_३,१.१२ //
SK
ज्योतिष्टोमे क्रयं प्रकृत्य श्रूयते - अरुणया पिङ्गाक्ष्यैकहायन्या{*३/३१*} सोमं क्रीणातीति{*३/३२*}. तत्र संदेहः - किम् अरुणिमा कृत्स्नप्रकरणे निविशेते, उत क्रय एवैकहायन्याम् इति. कथं पुनः अरुणया क्रीणातीत्य् एवं विस्पष्टे क्रयसंबन्धे गम्यमाने संशय इति. उच्यते - इह हि गुणम् अरुणिमानम् अमूर्तं सन्तं क्रियायाः करणम् इति शब्द उपदिशति, यत् करणाभिधायिन्या तृतीयाविभक्त्या संयुज्य निर्दिशति - अरुणयेति, न चामूर्तो ऽर्थः क्रियायाः साधनं भवितुम् अर्हति, अतो ऽसं-बन्धं क्रीणातिनारुणगुणस्यावगच्छामः. न चाशङ्कनीयम् अर्थं प्रमाणभूतः शब्दो ऽभिधास्यतीत्य् एवं प्रकल्पना कदाचिद् उपपद्येतापि. केनचित् प्रकारेण संबन्ध इति वचनप्रामाण्यप्रकारान्वेषणे बुद्धिर् भवति, तद् यदि परम्, विचारयन्तः क्रियासंबन्धसामर्थ्यम् अवगमिष्यामः, एकवाक्यतया क्रय एवारुणिमानं निवेशयिष्यामः. अथ त्व् अप्रमाद्यद्भिर् अन्विष्यमाणो न कथंचन संबन्ध उपपत्स्यते, ततो वाक्यभेदम् अभ्युपगम्य प्रकरणधर्मम् एनम् अध्यवसास्यामः{*३/३३*}. तस्माद् अवश्यं विचारणीयम् एतद् इति. किं तावत् प्राप्तम्? कृत्स्ने प्रकरणे निवेशः. कस्मात्? संयोगतो ऽविशेषात्, प्रकरणाविशेषाच् च. ननु प्रकरणाद् वाक्यं बलीयो भवतीत्य् एकवाक्यत्वाद् अरुणिमा क्रयेण संभन्त्स्यत इति. नैतद् एवम् अवगम्यते, न हि वचनशतेनाप्य् अनार[२१३]{*३/३४*}भ्यो ऽर्थः शक्यो विधातुम्, यो हि ब्रूयात् - उदकेन दग्धव्यम् अग्निना क्लेदयितव्यम् इति, किं स वचनप्रयोजनसामञ्जस्यम् अश्नुवीत? न चामूर्तो ऽर्थः क्रियायाः साधनम् उपपद्यते. तस्माद् अरुणया क्रीणातीति संबन्धाभावाद् एकवाक्यता न भवतीति. ननु नैवायं गुणवचनः, किं तर्हि द्रव्यवचनः. कुतः? स्त्रीलिङ्गसंबन्धात्. द्रव्यविशेषा ह्य् एते स्त्री पुमान् नपुंसकम् इति, स्त्रीयां यत् प्रातिपदिकं वर्तते, तस्मात् स्त्रीप्रत्ययो भवतीति, स्त्रीप्रत्ययं चारुणयेत्य् उपलभामहे. तस्माद् द्रव्यवचनः, अरुणशब्द{*३/३५*} इति. तद् एतद् अपेश-लम्, तद् एव हि द्रव्यम् अरुणिम्ना परिछिद्यमानम् अरुणशब्दाभिधानीयतां{*३/३६*} लभते, तद् एवान्यगुणकं नारुणशब्दः{*३/३७*} शक्नोत्य् अभिवदितुम्, अरुणिमानम् एष शब्दो न व्यभिचरति, व्य्-अभिचरति पुनर् द्रव्यम्, अव्यभिचारि च कारणं कारणवताम् इष्टम्. अतो ऽस्य गुणः स्वार्थ इति गम्यते, तद् अस्य प्रत्यक्षतो गुणवचनता गम्यते, स्त्रीप्रत्ययदर्शनात् तु नूनम् अरुणाप्रातिपदिकं द्रव्यवचनम् इत्य् अनुमानम्. प्रत्यक्षं चानुमानाद् बलीयः, तस्माद् गुणवचनः. कथं तर्हि स्त्रीप्रत्ययसंबन्धः? भवति हि गुणवचनस्यापि स्त्रीलिङ्गता, यथा चारुणा{*३/३८*} बुद्धिः, एवम् अरुणेति. गुणवचनश् चेत् क्रीणातिना न संबध्यते. तस्माद् वाक्यभेदं कृत्वा प्रकरणे सर्वस्मिन्न् एव संनिवेश इति. अथ यदि क्रीणातिना न संबध्यते, तस्मिन् एव वाक्ये एकहायनीशब्देन संभन्त्स्यते, न भविष्यति वाक्यभेद इति. तन् न, केवलं हि गुणम् अरुणशाब्दो{*३/३९*} ऽभिदधाति, न द्रव्यगुणौ. केवलं च द्रव्यम् एकहायनीशब्दः, न गुणसहितम् इति तयोः संबन्धस्य वाचिकां षष्ठीम् अन्तरेण कथं संबन्धो गम्यते? आह - अन्तरेणापि षष्ठीम्, एकविभक्तिनिर्देशात् सामानाधिकरण्यम् [२१७]{*३/४०*} अवगमिष्यामः, यथा नीलम् उत्पलम् इति. तद् अनुपपन्नम्, रूपाद् अरुणशब्दस्य{*३/४१*} गुणवचनता, कल्पनीयं त्व् एकविभक्तिसंयोगाद् एकहायनीशब्दसंनिधानाच् च तद् एकवाक्यताम् अभ्युपगम्यैकहायनीशब्दसामानाधिकरण्यम्, न च लिङ्गाद् वाक्यं बलीयः. तस्माद् असद् एतत्. तत्रोच्यते - यदा केवलगुणवचनतायां शब्दः प्रवर्तमानो नान्येन संबन्धं लभते, तदानुपदेशकत्वाद् आनर्थक्यं मा भूद् इति द्रव्यपरताम् आपद्यते, तस्याम् अवस्थायाम् एकविभक्तियुक्तेनैकहायनीशब्देन संनिहितेनैकवाक्यताम् आपद्यमानः समानाधिकरणो भवति, तथा च कृत्वा, नीलम् उत्पलम् इत्य् उपपद्यते. स चायम् अरुणाशब्दस् तस्याम् अवस्थायां वर्तते, न ह्य् अस्य स्वार्थम् अभिदधत इतो विच्छिन्नस्य प्रकरणे ऽप्य् अर्थवत्ता. कुतः? येनैव हेतुना संबध्यते{*३/४२*} क्रीणातिना न, नामूर्तो{*३/४३*} ऽर्थः क्रियायाः साधनं भवतीति. न च क्रियासाधनैर् द्रव्यैः, न हि केवलगुणवचनः शक्नोति द्रव्यम् अभिधातुम् इति स एव हेतुः प्रकरणसंबन्धाभावे ऽपि, तत्रापि संबध्यमानः क्रियाभिर् वा संबध्येत, तत्साधनैर् वा द्रव्यैः, तच् चोभयम् अप्य् अनुपपन्नम्. अतो ऽनर्थकत्वपरिजिहीर्षया संनिहितेनैकहायनीशब्देनारुणाशब्दः संबध्यते. नास्ति वाक्यभेदः. नैतद् एवम्, न ह्य् अयम् अरुणाशब्द एकहायनीविशेषणं भवितुम् अर्हति. किं कारणम्? करणविभक्त्या तृतीयया समुच्चरितो ऽयम्, तेनैतेन तृतीयाश्रुतिसामर्थ्यात् क्रियाविशेषणेन भवितव्यम्, कारकाणां हि क्रियया संबन्धो न द्रव्येणेति. स एष श्रुतिसामर्थ्यात् क्रियाविशेषणम्, एकवाक्यत्वाद्{*३/४४*} एकहायनीविशेषणम्. श्रुतिश् च वाक्याद् बलीयसी, तस्मान् नास्यैकहायनीसंबन्ध इति.
SK
ननु च गुणस्य क्रियासंबन्धाभावाद् अविवक्षिता कारक[२१८]{*३/४५*}शक्तिर्{*३/४६*} इत्य् एकहायनीसंबन्धो ऽयम् अध्यवसितः. एवम् अपि नोपपद्यते, यदि कारकाभिधानम् अविवक्षितम् इति गुणशब्देनैतेन द्रव्यम् अभिधातुम् इष्यते, तदा प्रातिपदिकार्थस्याव्यतिरेक इति प्रथमा विभक्तिः प्राप्नोति. न हि तृतीयान्तस् तम् अभिसंबन्धं शक्नोति वक्तुम्, न चान्यथानुपपत्तिर् इत्य् अन्यो ऽस्यानुपपद्यमानो ऽर्थः शक्यते कल्पयितुम्, यथाग्नौ तिष्ठति माणवक इत्य् उक्ते ज्वलने ऽनुपपद्यमानो नाश्वे गवि वा कल्प्यते, अग्निसमीपवचन एवाध्यवसीयते. तद्वद् इहाप्य् अप्रथमान्तः शब्दो न कथंचिद् अप्य् अव्यतिरिक्ते प्रातिपदिकार्थे भवितुम् अर्हतीति. तस्मात् कामम् अनर्थको ऽवगम्यतां नास्यैकहायनीसंबन्धो ऽध्यवसातव्यः. आह - न ब्रूमः, न कारकम् अरुणाशब्देनाभिधीयत इति, व्यक्तम् अरुणगुणविशिष्टम् एतेन कारकम् अभिधीयते. कदाचित् तु किंचिद् विधित्सितं भवति, कदाचिद् उपसर्जनीभूतो ऽर्थो विधित्सितः, प्रधानीभूतो ऽनुवादः. तद् यथा, दण्डीत्य् उपसर्जनीभूतदण्डकपुरुषप्रधानकः शब्दो ऽवगम्यते, कदाचित् तु निर्ज्ञाते पुरुषे दण्डगुणविधानार्थम् उच्चार्यते - दण्डी प्रैषानन्वाहेति. तथा{*३/४७*} लोहितेष्णीषा ऋत्विजः प्रचरन्तीति. एवम् इहापि यद्य् अनुपसर्जनभूतो{*३/४८*} ऽरुणो गुणः, प्रधानभूतं कारकम्. तथाप्य् अनूदिते कारके ऽरुणगुणविधानार्थं वचनं युज्यते. तस्माद् एकहायनीसंबन्ध उपपद्यते, नास्ति वाक्यभेद इति. नैतत् सारम्, अत्र ह्य् एकहायनीक्रीणात्योर् अनवबुद्धं संबन्धं बोधयितुम् अयम् एकहायनीशब्द उच्चरितः, स एष कथम् इवारुणाशबेन संबध्य्ते, तद् एतद् अभिहितम् अपि पुनः पुनः पर्यनुयुज्ज्यते. [२१९]{*३/४९*} कथं पुनर् एकहायनीशब्दस्य क्रीणातिना, अरुणगुणेन च समाने समभिव्याहारे क्रीणातिना संबन्धो ऽभ्युपगमनीयः, न पुनर् आरुण्येनेति. शब्दप्रामाण्यात्, भवति हि क्रियासंबन्धस्य वाचिका विभक्तिर् एकहायनीशब्दम् अनुनिविष्टा, न तु गुणसंबन्धस्य वाचिका. का पुनः क्रियासंबन्धस्य वाचिका, का वा गुणसंबन्धस्येति. कारकलक्षणा क्रियासंबन्धे विवक्षिते भवति द्वितीयादिः, अविवक्षिते पुनः कारके, संबन्धमात्रविवक्षायां षष्ठी. न चात्र षष्टीं पश्यामः, पश्यामस् तु खलु तृतीयाम्. अतः क्रीणातिना संबन्धम् अभ्युपगच्छाम एकहायनीशब्दस्य, नारुणाशब्देनेति. कथं तर्हि भवत्य् अत्र संबन्धः, नीलम् उतपलम् इति. उच्यते - भवति, न तु श्रुतिलक्षणः, किं तु वाक्यलक्षणः, उत्पलशब्दसंनिधाने तदपेक्षी नीलशब्दस् तेनैकवाक्यताम् अभ्युपगच्छन् नाजहत् स्वार्थवृत्तिर् उपलविशेषाभिधानपर उच्चार्यमाणः संबन्धम् अभ्युपैति.
SK
नन्व् इहापि वाक्यलक्षणस् तद्वद् एवारुणिम्ना समं संबन्ध एकहायन्या युज्यते. नेति ब्रूमः, श्रुतिर् हि वाक्याद् बलीयसी, श्रुतिश् चास्याः क्रियासंबन्धम् आह, न गुणसंबन्धम्. यदि पुनः श्रुतिसामर्थ्यात्, क्रियासंबन्धो ऽभ्युपगम्येत, एकवाक्यतवद् अपि गुणसंबन्धः. नैवं शक्यम्, यो ह्य् अन्येन सह संबन्धुम् उच्चार्यते, न तत्समीपगतो ऽप्य् अन्यस् तेन सह संबन्द्धुम् अर्हति. यथा भार्या राज्ञः, पुरुषो{*३/५०*} देवदत्तस्येति भार्याविशेषणार्थम् उच्चार्यमाणो राजशब्दो न पुरुषेण संबध्यते, तद्वद् इह क्रयाविशेषणार्थम् उच्चार्यमाण एकहायनीशब्दो नारुणाशब्देन संबन्धम् अर्हति. आह - सत्यम् एवम् एतत्, असत्याम् आकाङ्क्षायाम् आनन्तर्यम् अकारणम्, सर्वत्र तु बोधिते पदार्थे वाक्यार्थ उपपद्यते, नान्यथा, सामान्यवृत्ति हि पदम्, विशेषवृत्ति वाक्यम्, सामान्येनाभिप्रवृत्तानां [२२०]{*३/५१*} पदार्थानां यद् विशेषे ऽवस्थानम्, स वाक्यार्थः, तद् एतद् उक्तम् - तद्भूतानां क्रियार्थेन समाम्नायो ऽर्थस्य तन्निमित्तत्वाद् इति{*३/५२*}, तत्र प्रत्यक्षतः{*३/५३*} पदार्थः, वाक्यार्थः पुनर् आनुमानिकः, तद् एतद् अवगम्यताम्, केवलस्वार्थवृत्ति पदम् अनुपदेशकम् इति पदान्तरेण संनिहितेनैकवाक्यत्वम् अभ्युपैति, नान्यथेति. तद् इह यद्य् अप्य् एकहायनीशब्दः क्रीणातिना संबन्ध्यमानः कृतार्थो न पदान्तरेण संबन्धम् आकाङ्क्षति, अरुणाशब्दस् तु पदान्तरेण संबन्धम् अलभमानो ऽनर्थक इत्य् एकहायनीशब्देनैकवाक्यताम् अभ्युपैति. ननूक्तम् - क्रियासंबन्धार्थः, नारुणासंबन्धार्थ इति.
SK
आह - अरुणाशब्दस्यानर्थक्यपरिहारायोभयसंबन्धार्थ इति वदामः, अन्यार्थम् अपि कृतम् अन्यार्थम् अपि शक्नोति कर्तुम्, तद् यथा शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश् च पानीयं पीयत उपस्पृश्यते च. एवम् इहापि क्रयसंबन्धार्थम् एकहायनीशब्द उच्चार्यमाणो ऽरुणाशब्देन सह संभन्त्यते, न किंचिद् दुष्यति. तस्मान् न वाक्यभेद इति. नैतद् अस्ति, यद्य् अप्य् अयम् अरुणाशब्दो ऽनर्थको मा भूद् इत्य् एकहायन्या संबध्येत, तथापि सर्वस्मिन् प्रकरणे निवेष्टुम् अर्हति. न चैनं सोमं क्रीणातीत्य् एष शब्दः शक्नोति विशेष्टुम्. न ह्य् अयं विशेषणत्वेनोचार्यते, किं तर्हि अपूर्वो ऽयं विधीयते. नन्व् अपूर्वो ऽपि विधीयमान एकहायनीशब्दवद् इतरेण संभन्त्स्यते. कथम्? प्रयोजनाय ह्य् उच्चार्यमाणः शब्दो येनार्थः, तस्मै तावत् प्रयोजनायावकल्प्यते, संनिहित्श् च बुद्धौ भवति, तेन बुद्धौ संनिहितेन शक्यते साकाङ्क्षः शब्दः संबन्धयितुम् इति. नैतद् एवम्, यो ह्य् असंबध्यमानो ऽनर्थको भवति, स संबध्यते नान्यः. कुत एतत्? संबध्यमाने हि सामान्यं विशेषे ऽवस्थाप्येत, तत्र वाक्येन श्रुतिः पीडिता स्यात्. न चायम् [२२१]{*३/५४*} असंबध्यमानः क्रीणातिनानर्थको भवति, प्रकरणगताभिः{*३/५५*} एकहायनीभिर्{*३/५६*} अभिसंभन्त्स्यते. नन्व् एतद् उक्तम् - प्रकरणे ऽप्य् अस्य संबन्धो ऽनुपपन्न इति. नानुपपन्नः, एकस्मिन् वाक्ये ऽन्यो ऽर्थो विधीयमानो नान्येन संबध्यते, वचनव्यक्तिभेदात्, अन्या हि वचनव्यक्तिर् विधीयमानस्य, अन्या गुणेन संबध्यमानस्य. अज्ञातवज् ज्ञाप्यते विधीयमानो ऽर्थः, ज्ञातवद् अनूद्यते गुणसंबन्धार्थम्, न च सकृद् उच्चार्यमाणो ज्ञातवद् अज्ञातवच् च भवितुम् अर्हति, एकहायनीशब्दः क्रये विधीयमानो ऽज्ञातवत् स्यात्, अरुणाशब्देन संबध्यमानश् च ज्ञतवत्. वाक्यभेदे पुनर् न दोषो भवति, प्रकरणे तु वाक्यान्तरैः क्रियाद्रव्यान्तराणी च प्राप्तानि. तैर् इदं वाक्यान्तरविहितं संबध्यते, तत्रान्यस्मिन् विधीयते, अन्यस्मिन् वाक्ये ऽनूद्यत इत्य् उप-पन्नं भवति. तस्मात् संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च{*३/५७*} सर्वस्मिन् प्रकरणे द्रव्येषु निवेश इति. एवं प्राप्ते ब्रूमः - अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्याद् इति, यत्रार्थैकत्वं श्रूयते द्रव्यगुणयोः, तत्र द्रव्यगुणाव् एकस्मिन् पदार्थे नियम्येयाताम्. कुतः? ऐककर्म्याद् एककार्यत्वात्, एकं हि कार्यं द्रव्यगुणयोः श्रूयते क्रयसंबन्धः. कथम् एतद् अवगम्यते? एकवाक्यत्वात्. कथम् एकवाक्यत्वम्? अरुणया पिङ्गाक्ष्यैकहायन्येत्य् अपर्यवसितो ऽर्थः साकाङ्क्षत्वाद् अभिधातृप्रतिपत्रोः, सोमं क्रीणातीति तु पर्यवस्यति, तयोर् एवं नैरुत्सुक्यात्. यद्य् एककार्यता किम् इति विकल्पो न भवति? नैतद्{*३/५८*} एवम्. एकार्थास् तु विकल्पेरन्न् इति विकल्पधर्माणौ प्राप्नुत इत्य् अयुक्तो ऽयं पर्यनुयोगः. कथम्? पर्यनुयोगो नाम स भवति, यः स्वपक्षं साधयति, विपक्षस्य च प्रतीपम् आचरति, न च [२२२]{*३/५९*} विकल्पो ऽस्मत्पक्षस्य प्रतीपम् आचरति, क्रयेणारुणिम् आसंबन्ध{*३/६०*} इत्य् एष नः पक्षः. न च विकल्पो नानाकार्यत्वात्. नन्व् इदानीम् एवोक्तम् - एकं कार्यम् इति, तच् चापि विरुद्धम्, एवं हि पूर्वम् अभिहितम्, अमूर्त-त्वाद् गुणो न क्रियया संबध्यत इति, इदानीं विपरीतम् अभिधीयते - उभाव् अपि द्रव्यगुणाव् एकार्थौ क्रयम् अभिनिर्वर्तयत इति. उच्यते, नैतद् विरुद्धम्, न च विकल्पः, एकं कार्यम्, सामर्थ्यभेदस् तु, साक्षाद् धि द्रव्यं क्रियां प्रत्युपकरोति. गुणस् तु विशिष्टानां साधनम्. यद्य् एवम्, न तर्हि गुणः क्रियाम् अभिनिर्वर्तयति, साधनस्यासौ विशेषक इति. नैतद् एवम्, गुणस्य क्रियाम् अभिनिर्वर्तयत एतद् एव सामर्थ्यम्, यत् साधनं विशिष्यात्. आकाङ्क्षति च क्रिया साधनविशेषणम्, चिह्नभूतो हि गुणः साधनं लक्षयति. असति चिह्ने न लक्ष्येत, कतमत् साधनं क्रियाया इति. ततः क्रिया नाध्यवस्येम कर्तुम् इति भवति क्रियासाधनं गुनः. न चैव सति विकल्पो भवति, यथाधिकरणस्य कर्त्रादीनां च, अधिकरणं हि कर्त्रादीनि धारयति, तान्य् अधार्यमाणानि न शक्नुवन्ति क्रियाम् अभिनिर्वर्तयितुम्, तथा{*३/६१*} कर्ता करणादीनि समाधत्ते, तान्य् असमाहितानि न शक्नुवन्ति स्वं स्वम् अर्थम् अभिनिर्वर्तयितुम्. यस्मिंस् तु साधनोपकारे कार्ये तस्मिन्न् एवोपकारे ऽन्यत् साधनं विधीयते, तत्र विकल्पः, यथा व्रीहिम् इर्यजेत, यवैर् यजेतेति, उभये ऽपि तण्डुलनिर्वृत्यर्थाः. एवं तर्हि तद् एवेदं संजातं भवति, एकहायनीविधनम्, तद्विशेषणं चारुणो गुणः, तत्र स एव दोषो वाक्यभेदः प्रसज्ज्येतेति. न ब्रूमः - अरुणाशब्द एकहायनीशब्देन संबध्यत इति, किं तर्हि क्रीणातिनैव संबध्यते. एवं हि श्रूयते ऽरुणगुणेन क्रयम् अभिनिर्वर्तयेद् इति, यथा च तेन निर्वर्त्यते, तथा यतितव्य भवति. न चाविशिंषन् साधनम्, गुणः क्रिया[२२३]{*३/६२*}म् अभिनिवर्तयतीत्य् अर्थात् साधनविशेषणतां प्रतिपद्यते, यथा स्थाल्यां पचेद् इति क्रियासाधनत्वेन निर्दिष्टे ऽर्थात् संभवने धारणे च स्यालीं{*३/६३*} व्यापारयति तद्वद् इहापि द्रष्टव्यम्. तस्मान् नास्ति वाक्यभेदप्रसङ्ग इति. नन्व् एवम् अपि वाक्यं भिद्येत. कथम्? प्रत्येकं वाक्यपरिसमाप्तिर् दृष्टेति, यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्ताम् इति प्रत्येकं भुजिः समाप्यते, यथा च यस्य पिता पितामहः सोमं न पिवेद् इति. एवम् इहाप्य् अरुणया क्रीणाति, एकहायन्या क्रीणातीति. नैतद् अस्मत्पक्षस्य बाधकम्, एवम् अपि क्रय एवारुणिमा निवेक्ष्यति, न सर्वस्मिन् प्रकरण इति. सत्यम् एष दोषो न भवति, किं त्व् अनरुणयाप्य् एकहायन्या क्रयः प्राप्नोति, अरुणया चानेकहायन्या, तत्र यद् उक्तं द्रव्यगुणयोर् नियम इति, सा प्रतिज्ञा हीयते. न तर्हि ब्रूमः - वाक्यभेद इति. कथम्? क्रयस्य हि द्रव्यारुणिमानाव् उपदिश्येते, न क्रयस् तयोः. न च, प्रधानं प्रतिगुणं भिद्यते, प्रतिप्रधानं हि गुणो भिद्यत इति, अस्ति चायं दृष्टान्तः - समुदाये वाक्यपरिसमाप्तिर् इति, यथा गर्गाः शतं दण्ड्यन्ताम् इति, तथा अभिषुत्य हुत्वा भक्षायन्तीति. तस्माद् उभयविशेषणविशिष्टः क्रयो विधीयते. कथं पुनस् तस्मिंश् चेतरिंश् च दृष्टान्ते सत्य् एकान्तेनावधार्यते, समुदाय एव वाक्यपरिसमाप्तिर् न प्रत्यवयवम् इति. अत्र ब्रूमः - इह द्रव्यारुणिमानाव् उभाव् अपि क्रियासंबद्धाव् उपलभ्येते परस्परेणासंबद्धौ, क्रयो ऽपि द्रव्यारुणिमाभ्यां विशिष्ट उपलभ्यते नान्ययतरेण, तत्र यदि द्रव्यपरम् अरुणिम् अपरं च भवति वचनम् इदम्, ततः प्रत्यवयवम् असंशयं क्रयसंबन्धः. अथ क्रयविधित्सयाभिधीयते, ततो यथैवायम् एकहायनीवि[२२४]{*३/६४*}शिष्टः, एवम् अरुणिम् अविशिष्ट इति नियमत उभयसंबन्धो ऽभ्युपगमनीयः. न चात्र द्रव्यारुणिमानाव् ईप्सितौ, ईप्सितस् तु क्रयः, तेन हि ज्योतिष्टोमद्रव्यं सोमः परिप्राप्यते, द्रव्यारुणिमानौ क्रयार्थौ सन्ताव् ईप्सितौ स्याताम्, नान्यथा. तस्मात् क्रयो विधीयते, स च नान्यतरविशिष्टः प्रतीयत इति समुदाये वाक्यपरिसमाप्तिर् इह निश्चीयते. यदा चैवम्, तदा न, एकहायनीं मुक्त्वान्यद् द्रव्यं क्रयसाधनम् अस्ति, न चारुणाद् अन्यः साधनस्य विशेषको गुण इति, नियमः सिद्धो भवति. अत्र वदामः - यदि क्रयस्य साधने गुणो ऽभिसंबन्धुम् उपैति, तदा वाक्ये भिन्ने ऽपि क्रयसाधनत्वाद् अरुणिमास्मिन् द्रव्ये न निवेक्ष्यते, किम् अर्थम् एकवाक्यता प्रयत्नेन साध्यत इति. तद् एतद् अभिधीयते - भिन्ने हि वाक्य एकाहायनीसाधनकः क्रयो ऽवबुद्धो भवति, अरुणासाधनम् अपि क्रयान्तरम्, न तस्मिन्न् एवैकहायनीसाधने क्रये ऽरुणिमा विहितो भवति, तत्र यत् क्रयान्तरम् अरुणगुणविशिष्टम्, तत्रार्थात् प्राप्तम् अन्यद् अपि साधनं भवति. तद् अपि विशिंषन् अरुणो गुणस् तेन संबध्येत. एकवाक्यत्वे तु तत् परिहृतं भवति. तस्मात् साध्व् अभिधीयते - अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्याद् इति.
SK
NOTES: *{३/३१: E१ (व्.ल्.): पिङ्गाक्ष्यैकहायिन्या}* *{३/३२: Vग्ल्. Tऐत्.S. ६.१.६.७}* *{३/३३: E२,४: अध्यवस्यामः}* *{३/३४: E२: ४,४३; E४: ३,५५६; E६: १,१४८}* *{३/३५: E२,४: अरुणाशब्द}* *{३/३६: E२,४: अरुणाशब्दाभिधानीयतां}* *{३/३७: E२,४: नारुणाशब्दः}* *{३/३८: E२,४,६: करुणा}* *{३/३९: E२,४: अरुणाशाब्दो}* *{३/४०: E२: ४,४९; E४: ३,५५७; E६: १,१४९}* *{३/४१: E२,४: अरुणाशब्दस्य}* *{३/४२: E२,४ ओम्. संबध्यते}* *{३/४३: E२,४: न संबध्यते, नामूर्तो}* *{३/४४: E२,४: वाक्याद्, E६ ओम्. एकवाक्यत्वाद्}* *{३/४५: E२: ४,५०; E४: ३,५५८; E६: १,१४९}* *{३/४६: E१,६; E१ (व्.ल्.), E२,४: -विभक्तिर्}* *{३/४७: E२,४,६: यथा}* *{३/४८: E२,४: उपसर्जनभूतो}* *{३/४९: E२: ४,५१; E४: ३,५५८; E६: १,१५०}* *{३/५०: E२: पुरुषेण}* *{३/५१: E२: ४,५३; E४: ३,५५९; E६: १,१५१}* *{३/५२: Vग्ल्. MS १.१.२५}* *{३/५३: E१,६, E२ (व्.ल्.); E२,४: प्रत्यक्षतः}* *{३/५४: E२: ४,५४; E४: ३,५६०; E६: १,१५२}* *{३/५५: E२,४: प्रकरणगतैर्}* *{३/५६: E२,४ ओम्}* *{३/५७: Vग्ल्. MS ३.१.८}* *{३/५८: E२,४: (यद् अभिधीयते नियम्येयाताम् इति) नैतद्}* *{३/५९: E२: ४,६०; E४: ३,५६१; E६: १,१५२}* *{३/६०: E२,४: क्रयेणारुणिम् असंबन्ध}* *{३/६१: E२,४: यथा}* *{३/६२: E२: ४,६२; E४: ३,५६१; E६: १,१५३}* *{३/६३: E२,४,६: स्थालीं}* *{३/६४: E२: ४,६३; E४: ३,५६२; E६: १,१५३}*
SK
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् // MS_३,१.१३ //
SK
अस्ति ज्योतिष्टोमः - य एवं विद्वान् सोमेन यजत इति{*३/६५*}. [२२५]{*३/६६*} तत्र श्रूयते - दशापवित्रेण ग्रहं संआर्ष्टीति, तथाग्निहोत्रे स्रूयते - अग्नेस् तृणान्य् अपचिनोतीति, तथा दर्शपूर्णमासयोः श्रूयते - पुरोडाशं पर्यग्निकरोतीति{*३/६७*}. तत्र संदेहः - किम् एकस्य ग्रहस्य, एकस्याग्नेः, एकस्य पुरोडाशस्य च संमार्जनादि कर्तव्यम्, उत सर्वेषां ग्रहाणां सर्वेषाम् अग्नीनां सर्वेषां पुरोडाशानाम् इति. किं प्राप्तम्? एको ग्रहः, एको ऽग्निः, एकः पुरोडाश इह ग्रहीतव्यः. कुतः? श्रुतिसंयोगात्, एकत्वश्रुतिसंयुक्ता एते पदार्थाः, एकं हि द्रव्यम् एष श्रूयते, शब्दलक्षणे च हि कर्मणि यच् छब्द आह, तद् अस्माकं प्रमाणम्, यथा पशुम् आलभेत इत्य् उक्त एक एव पशुः पुमांश् चालभ्यते. एवम् अत्राप्य् एको ग्रहः संमार्जनीयः, एकस्याग्नेस् तृणान्य् अपचेयानि, एकः पुरोडाशः पर्यग्निकर्तव्य इति.
SK
NOTES: *{३/६५: Tऐत्.S. ३.२.२.३}* *{३/६६: E२: ४,६५; E४: ३,५८३; E६: १,१५४}* *{३/६७: ŚPBर् १.२.२.१३}*
SK
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् // MS_३,१.१४ //
SK
नैतद् अस्ति - यद् उक्तं ग्रहादिष्व्{*३/६८*} एकत्वयुक्तेष्व् अमी पदार्थाः कर्तव्या इति, सर्वे ग्रहाः संमार्ष्टव्याः, सर्वेभ्यो ऽग्निभ्यस् तृणान्य् अपचेयानि, पुरोडाशमात्रं च पर्यग्निकर्तव्यम् इति. कुतः? ग्रहजात्या द्रव्यं लक्षयित्वा संमार्गादि विधीयते, अविशिष्टं च लक्षणं सर्वद्रव्येषु, तत्र न गम्यते विशेषः, को ग्रहः संमार्ष्टव्यः, को नेति, सामान्यावगमाद् विशेषान् अवगमाच् च सर्वप्रत्ययः. तथाग्निपुरोडाशानाम् अपि. नन्व् एकवचनं श्रूयते, तद् विशेक्ष्यति. नैतद् अस्ति, एकत्वं हि श्रूयमाणं ग्रहादिष्व् एकत्वं ब्रूयात्, न द्वितीयादीन् प्रतिषेधेत्, एकत्वस्यासौ वाचको न द्वितीयादेः [२२६]{*३/६९*} प्रतिषेधकः. तेनाप्रतिषिद्धे द्वितीयादौ सामान्यवचनेन प्राप्तं संमार्जनादि किम् इति न क्रियेत. तत्रैतत् स्यात्, एकवचनम् इह श्रूयमाणं प्राप्त एवैकस्मिन् द्रव्ये, द्वितीयादिषु च, किम् अन्यत् कुर्याद् अन्यतः परिसंख्यायाः, न चेद् एकवचनं परिसंचक्षीत द्वितीयादीन्, अनर्थकम् एव स्यात्, शक्नोति च द्वितीयादीन् निवर्तयितुम्, यथाश्वाभिधानीम् आदत्त इति गर्दभाभिधानं{*३/७०*} परिसंचष्टे, एवम् अत्रापि द्रष्टव्यम् इति. नैतद् एवम्, तत्र मन्त्रस्याभिधान्याश् च यः संबन्धः, तद् अभिधानपरं वचनम्, इमाम् अगृभ्णान् इत्य् अश्वाभिधानीम् इति{*३/७१*}, नानेन मन्त्रेण, आदत्त इति लिङ्गेनैवादाने प्राप्तत्वान् मन्त्रस्य परिसंख्या युक्ता. इह पुनर् यद् एकवचनं द्रव्ये श्रूयते, तच् छ्रूयमाणम् अप्य् अविधीयमानत्वेन न निवर्तकं भवितुम् अर्हति, यथा कश्चिद् ओदनं निर्दिश्य ब्रूयात् - य एनं भक्षयेत् कश्चिच् छ्वा मार्जारो वा, स निवारयितव्य इति, तत्र यदि भक्षणं निमित्तत्वेन विधीयते, न, श्वमार्जारसंबन्धः, ततः काको ऽप्य् आगच्छन् निवार्यते. श्रूयमाणे ऽपि शुनि मार्जारे वा श्वमार्जारसंबन्धस्य निमित्तत्वेनाविधीयमानत्वात्. एवम् इहाप्य् एकत्वसंबन्धस्याविधीयमानत्वाच् छ्रूयमाणे ऽप्य् एकत्वे ग्रहमात्रं संमृज्येतेति. न चात्र द्रव्यैकत्वसंबन्धविधायकः कश्चिच् छब्दो ऽस्ति. ननु संमार्ष्टीति. न ह्य् एतद् द्रव्यैकत्वसंबन्धस्य विधायकम्. कस्य तर्हि? द्रव्यसंमार्गसंबन्धस्य विधायकम्, एवं श्रुत्या स्वपदार्थो विहितो भवति, इतरथा वाक्येन परपदार्थो विधीयते. श्रुत्यसंभवे च वाक्यं क्रमते, न संभवन्त्यां श्रुतौ. अतो ऽविधीयमानं विशेषणत्वेन, एकत्वं न द्वितीयादीन् प्रतिषेद्धुम् अर्हति. एवं सति न द्वितीयादौ संमार्गादि क्रियमाणम् [२२७]{*३/७२*} अचोदितं भवति, प्रतिषिद्धं वा, यथैव हि तद् एकस्य श्रुतम् अवगम्यते, तथा द्वितीयादेर् अपि. अयं चापरो दोषः, न तद् एकत्वं द्रव्यस्य संमार्गादौ विषये नियम्येत, न हि संमार्गादिः, यस्मिन् द्रव्य एकत्वं नियम्येत, तस्य विशेषणत्वेन भवति, विधीयते ह्य् अत्र संमार्गादिः, न प्राप्तो लक्षणत्वेन द्रव्यस्याम्नायते, न हि यौगपद्येन विधातुं शक्यते, लक्षणत्वेन चोच्-चारयितुम्. प्रसिद्धसंबन्धो हि शक्नोति लक्षयितुम्, न चाविहित एवंजातीयकः शब्दावगम्यः प्रसिद्धसंबन्धो भवति. विधीयते च संमार्गादिः, तस्मान् न विशेषकः, न चेद् विशेषकः, न द्रव्य एकत्वं नियम्यत इति शक्यम् आश्रयितुम्. अथैकत्वं संमार्ग उच्यते. तत्रापि द्वयी गतिः स्यात्, एकत्वं प्रधानम्, संमार्गो वा, तच् चोभयम् अप्य् अनुपपन्नम्. न तावद् एकत्वस्य संमार्गः शाक्यते कर्तुम्. न च द्रव्ये क्रियमाण एकत्वस्योपकरोति केनचित् प्रकरणम्. न चैकत्वस्योपकृतेन किंचित् प्रयोजनम् अस्ति, न हि तद् गुणभूतं श्रुतम्. अथैकत्वं संमार्गं प्रति गुणभूतम् इति. तद् अपि न. कथम्? अमूर्तत्वात्, न हि तत् संमार्गं निष्पादयति. यद्य् अप्य् अन्यद् अमूर्तं क्रियां निष्पादयति साधनं विशिंषत्, तथाप्य् एतन् न भवितुम् अर्हति, न ह्य् अत्र ग्रहः संमार्गार्थः, संमार्गो ऽत्र ग्रहाय चोद्यते, स हि प्रयोजनवान्, कल्प्यप्रयोजनः संमार्गः. यदि ग्रहः संमार्गस्योपकुर्यात्, तद् उपकारिण{*३/७३*} उपकरोतीति संमार्गस्योपकारकम् एकत्वं भवेत्. न त्व् एतद् एवम्. तस्माद् एकत्वसंमार्गयोर् असंबन्धः. ननु प्रधानभुतम् अपि ग्रहादि संमार्गं निष्पादयत्य् एव, अतस् तत्साधनं तच् च विशिंषत् तद् उपकरिष्यति, यथा इज्यार्थे दधनि पयसि च प्रणीता धर्माः पाक उपकुर्वन्ति. परिधानार्थे च [२२८]{*३/७४*} परिदौ यूपधर्मा बन्धने. तस्माद् अयम् असमाधिर् इति. अत्रोच्यते - न ब्रूमः, अतदर्थे साधके न शक्नुवन्त्य् उपकर्तुम् इति. किं तर्हि? यदा प्रधानभूतं ग्रहादि लक्षणत्वेनोच्यते, न तदैकत्वस्य ग्रहादिना संबन्धः, न संमार्गादिनेति. कथम्? यावद् इह लक्षणत्वेन किंचिद् उच्यते, संवादस् तत्र भवति, न तु तद्विधीयते विज्ञानाय. किम् अर्थं तर्ह्य् उच्चार्यते? अन्यत् तस्य किंचिद् विधायिष्यत इति, तद् एतद् ग्रहादि लक्षयित्वा तस्य संमार्गादि विधीयते. तद् यद्य् एकत्वसंबन्धो ऽपरो ग्रहद्रव्ये{*३/७५*} संमार्गादौ वा पदार्थे{*३/७६*} विधीयेत, द्वयोः संबन्धयोर् विधानाद् भिद्येत वाक्यम्. अथोच्येत - ग्रहादि लक्षयित्वा तस्यैकत्वसंबन्धो विधीयते, न संमार्गादिसंबन्ध इति, तथा च संमार्गादीनाम् अध्ययनं प्रमाद इत्य् अभ्युपगतं स्यात्. न चैतद् एवम्. तस्माद् उभाभ्याम् एकवचनस्यासंबन्ध इति. एवम् एतद् एकत्वं ग्रहस्य न किंचिद् उपकारं करोति, न संमार्गस्य, एवम् एव सदनूद्यते. तस्मान् नैतत् किंचिद् अपि कर्तुं विवक्ष्यत इति सर्वेषां ग्रहादीनां संमार्गादि कर्तव्यम् इति. कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च{*३/७७*}. यद्य् अविवक्षितम् एकत्वम्, कथं त्रह्य् एकवचनम् उच्चार्यते? ननु बहुषु विवक्षितेषु बहुवचनेन भवितव्यम्. उच्यते - न वयम् एतद् विचारयामः, एकवचनम् उच्चारयितव्यम्, नोच्चारयितव्यम् इति, उच्चार्यमाणे सति किं प्रतिपत्तव्यम्? एकस्मिन्न् एव संमार्गादि, उत सर्वेष्व् इति, तच् च सर्वेष्व् इति स्थापितम्. अपि च न विभक्तेर् वचनम् एवैकं प्रयोजनम्. किं तर्हि? कारकसंबन्धो ऽपि, अविवक्षित एकत्वे कारकसंबन्धार्थम् अस्योच्चारणं भविष्यति. तस्मान् नानर्थकम्. अपि च ग्रहः प्रातिपदिकार्थ एकत्वं विभक्त्यर्थः. किम् अतो [२२९]{*३/७८*} यद्य् एवम्. एतद् अतो भवति - प्रातिपदिकार्थगतं हि विभक्तिः स्वम् अर्थं श्रुत्यैव वदति. अथैवं सति किम् न, संमार्गेण संभन्त्स्यत इति. तेन हि संबध्यमानं वाक्येन संबध्येत, न च श्रुत्या, अन्येन संबध्यमानं वाक्येनाच्छिद्यान्येन संबन्धम् अर्हति. असंबध्यमानस् त्व् एकत्वेन संमार्गः, यदि नैकत्वविशिष्टः क्रियते, न किंचिद् विपन्नं भवति, न चैकत्वविशिष्टः संमार्गादिः, ग्रहादिमात्रस्य च विधीयत इति किम् इति द्वितीयस्य तृतीयस्य च न क्रियेतेति.
SK
NOTES: *{३/६८: E२,४: अस्ति - यद् उक्तं ग्रहादिष्व्}* *{३/६९: E२: ४,७४; E४: ३,६००; E६: १,१५५}* *{३/७०: E२,४: गर्दभाभिधानीं}* *{३/७१: Tऐत्.S. ५.१.२.१}* *{३/७२: E२: ४,८३; E४: ३,६०१; E६: १,१५६}* *{३/७३: E२,४: उपकारेण}* *{३/७४: E२: ४,८६; E४: ३,६०२; E६: १,१५६ (ल्.Z.)}* *{३/७५: E१,६, E४ (व्.ल्.); E२,४: द्रव्ये}* *{३/७६: E२,४ ओम्}* *{३/७७: Vग्ल्. MS ३.१.८}* *{३/७८: E२: ४,९५; E४: ३,६०२; E६: १,१५७}*
SK
चोदिते तु परार्थत्वाद् यथाश्रुति पतीयेत // MS_३,१.१५ //
SK
अथ यद् उक्तम् - यथा पशुम् आलभेतेत्य् एक एव पशुः पुंपशुश् चालभ्यते, एवम् इदम् अपीति, अस्त्य् अत्र वैपरीत्यम् इह ग्रहार्थः संमार्गः, तत्र पुनर् यागार्थः पशुः. किम् एवं सति भवति? यो यागार्थं परिच्छिनति{*३/७९*}, स यागस्योपकरोति, अपरिच्छिन्नेन न शक्यो यागः कर्तुम् इति. न तु ग्रहेण केनचिद् विशिष्टेन संमार्गः कर्तव्यः, यद् ग्रहं विशिंषत् संमार्गस्योप्कुर्यात्, पशोश् चैतद् एकत्वं यागं प्रत्युपदिश्यते. ननूक्तम् - प्रातिपदिकार्थगतं स्वम् अर्थं विभक्तिः श्रुत्यैवाभिवदतीति{*३/८०*}, याग एतद् वाक्येन विधास्यति, तत्र वाक्याच् छ्रुतिर् बलीयसीत्य् उक्तम्. सत्यम्, यत्र श्रौतो ऽभिसंबन्धो विवक्ष्यते, अविवक्ष्यमाणे च वाक्यावगतः सन् अपर्युदसितव्यो{*३/८१*} भवति, तस्माद् एकः पुंपशुश् चालभ्यत इति, ग्रहैकत्वं न संमार्गस्योपकरोतीति न ग्रहं शक्नोति विशेष्टुम्. तस्माद् अविवक्षितम् इति.
SK
[२३०]{*३/८२*}
SK
NOTES: *{३/७९: E२,४, E१ (व्.ल्.): परिच्छिन्नति}* *{३/८०: Vग्ल्. E१, S.२२९/१-२}* *{३/८१: E२,४: सन् न पर्युदसितव्यो, E६: सन्न् अपर्युदसितव्यो}* *{३/८२: E२: ४,९६; E४: ३,६४३; E६: १,१५८}*
SK
संस्काराद् वा गुणानाम् अव्यवस्था स्यात् // MS_३,१.१६ //
SK
अस्ति ज्योतिष्टोमः, तत्र श्रूयते - दशापवित्रेण ग्रहं संमार्ष्टीति. तत्रैषो ऽर्थो ऽधिगतः - सर्वे ग्रहाः संमार्जितव्या इति. इदम् इदानीं संदिह्यते - किं चमसापि संमार्ष्टव्या उत नेति. किं तावत् प्राप्तम्? चमसाद्य् अपि सर्वं संमार्ज्यम् इति. कुतः? संयोगतो ऽविशेषात् प्रकरणाविशेषाच् चेति{*३/८३*}, यथैव हि ग्रहाणाम् अपूर्वसंबन्धः, एवं चमसानाम् अपि, यथैव च ग्रहा अस्मिन् प्रकरणे, एवं चमसापि. तस्मात् सर्वत्र संमार्गः. ननु ग्रहाः श्रूयन्ते, ते चमसानां निर्वर्तका भविष्यन्ति. उच्यते - प्रदर्शनार्थं ग्रहग्रहणं भविष्यति, ग्रहादि सोमपात्रम्, यस्मिन् गृह्यमाणः सोमो व्यवसिच्येत, इत्य् एवम् आशङ्क्यते, तत् सर्वं संमार्जितव्यम्. यथा भोजनकालो वर्तते, स्थालानि संमृज्यन्ताम् इत्य् उक्ते, यानि यानि भोजन उपयोगम् अर्हन्ति, तानि तानि सर्वाणि संमृज्यन्ते, स्थालग्रहणं लक्षणार्थम् इति गम्यते. एवम् इहापि द्रष्टव्यम् इति. उच्यते - लोके ऽर्थलक्षणः संव्यवहारः, येन येनार्थः संमृष्टेन, उक्तो ऽनुक्तो वा स स{*३/८४*} संमृज्येतैव. इह तु वेदे शब्दलक्षणः, शब्दश् च ग्रहस्य संमार्गम् आह, तत्र किम् अर्थं श्रुतौ संभवन्त्यां ग्रहशब्दो लक्षणया कल्प्यते. उच्यते - संमार्ष्टीति संमार्गे पुरुषप्रयत्नं विधातुम् एष शब्दः शक्नोति श्रवणेनैव, ग्रहसंबन्धे तु वाक्येन, श्रुतिश् च वाक्याद् बलीयसी. तस्माल् लक्षणया ग्रहशब्दो वर्ण्यते, न, यथाश्रुत इति, तेन, यो यः संमार्जनसंस्कारार्हः स स संमार्जितव्यः, नेति{*३/८५*} ग्रहेष्व् एव व्यवतिष्ठेतैवंजातीयको गुण इति.
SK
[२३१]{*३/८६*}
SK
NOTES: *{३/८३: Vग्ल्. MS ३.१.८}* *{३/८४: E२,४,६: ओम्. स}* *{३/८५: E२,४,६ ओम्. इति}* *{३/८६: E२: ४,९८; E४: ३,६४६; E१: १,१५९}*
SK
व्यवस्था वार्थस्य श्रुतिसंयोगात्, तस्य शब्दप्रमाणत्वात् // MS_३,१.१७ //
SK
व्यवतिष्ठेत वा ग्रहेष्व् एव संमार्गः, न चमसेष्व् अपि प्रसज्येतेति. कुतः? अर्थस्य श्रुतिसंयोगात्, श्रूयमाणो हि ग्रहो नोत्स्रष्टव्यः, उत्सृज्यमाने श्रुतिर् एव बाध्यते ग्रहम् इति, प्रमत्तगीतं तत्र भवताम् इत्य् अवगम्यते, न चैतन् न्याय्यम्. तस्माद् ग्रहशब्देन ग्रहं लक्षयित्वा तस्य संमार्गसंबन्धो विधीयते. न चाविदधत् संमार्गम्, शक्नोति तत्संबन्धं विधातुम्, अतो विदधात्य् एवैष शब्दः संमार्गम्. न च श्रुतिर् बाधिष्यते. कुतः? संमार्ष्टीति संमृजिगतं पुरुषप्रयत्नं श्रुत्या शक्नोति विधातुम्. न{*३/८७*} तत्र कश्चिद् विशेषः, उत्पाद्यमाने वा संमृजौ{*३/८८*}, परेण वा संबध्यमान इति. तेन न ग्रहसंबन्धे ऽपि श्रुतिर् बाधिता भवति, अतो ग्रहेष्व् एव संमार्गो व्यवस्थातुम् अर्हतीति. नन्व् अपूर्वसंयोगाविशेषात् प्रकरणाविशेषाच् च चमसेष्व् अपि प्रसज्यते, न ग्रहेष्व् एवास्य विधानम् इत्य् उक्तम्. अत्रोच्यते - प्रकरणवद्भिर् एकवाक्यतां कृत्वा शक्नोति तत्र विधातुम्, नाकृत्वैकवाक्यताम्. सा च प्रकरणाद् अनुमीयते, इयं पुनर् ग्रहशब्देन सह प्रत्यक्षा, तस्मान् न प्रकरणे विधानम्, ग्रहैकत्वसंबन्धे पुनर् उत्सृज्य स्वार्थम्, न शक्नोति विधातुम्. तस्माद् वैषम्यम् अस्य{*३/८९*}, ग्रहैकत्वविधानेन{*३/९०*}. यद् उक्तम् - यथा स्थालानि संमृज्यन्ताम् इति लक्षणा, तद्वद् इहापीति, परिहृतम् एतल् लोके कर्मार्थं लक्षणम्{*३/९१*}, शब्दलक्षणं पुनर् वेद इति.
SK
[२३२]{*३/९२*}
SK
NOTES: *{३/८७: E२: न च}* *{३/८८: E२: संमृजा, E४: संमृजाम्}* *{३/८९: E२,४: वैषम्यं}* *{३/९०: Dएर् Sअत्z fएह्ल्त् इन् E६}* *{३/९१: E२,४: कर्मार्थलक्षणं}* *{३/९२: E२: ४,९८; E४: ३,६४९; E६: १,१५९}*
SK
आनर्थक्यात् तदङ्गेषु // MS_३,१.१८ //
SK
वाजपेये श्रूयते - सप्तदशारत्निर् वाजपेयस्य यूपो भवतीति. तत्र संदेहः - किं सप्तदशारत्निता वाजपेयस्योर्ध्वपात्रे निविशते, उत पशोर् यूपे निविशत इति. किं तावत् प्राप्तम्? ऊर्ध्वपात्र इति. कुतः? वाजपेयस्य यूपाभावात्, यद् वाजपेयस्यास्ति पात्रं यूपसदृशम्, तत्र भवितुम् अर्हति, अस्ति च षोडशिपात्रम्, तच् च खादिरत्वाद् ऊर्ध्वत्वाच् च यूपसदृशम्, तत्र निवेशे सति वाजपेयशब्द आञ्जस्येन भवति, इतरथा वाजपेयाङ्गपशुयागे{*३/९३*} लक्षणया वाजपेयशब्दो वृत्त इति गम्यते. ननु त्वत्पक्षे ऽपि यूपशब्दो लक्षणयोर्ध्वपात्रे. उच्यते, सर्वथा वयं लक्षणाशब्दान् न मुच्यामहे. मत्पक्षे तु वाजपेयप्रकरणम् अनुगृह्यते, तस्माद् ऊर्ध्वपात्रे निवेश इति. एवं प्राप्ते ब्रूमः - आनर्थक्यात् तदङ्गेषु, वाजपेयशब्दस् तावत् सोमयागविशेषवचनः, तस्य साक्षाद् यूपेन न प्रयोजनम्, अस्ति तु तस्याङ्गं पशुयागः, तस्य तु पशुं बन्धुं यूपेन कार्यम्. साक्षाद् वाजपेययूपस्य यदि सप्तदशारत्निता विधीयते, तस्याभावाद् अनर्थकम् एव वचनं प्राप्नोति, तद् अनर्थकं मा भूद् इति यो ऽस्य पशुयागे यूपः, तत्र निवेशम् अर्हति. ऊर्ध्वपात्रे च यूपशब्दो लक्षणया स्यात्. नन्व् इतरस्मिन्न् अपि पक्षे वाजपेयशब्दो लक्षणयेति. नेति ब्रूमः, वाजपेय एव वाजपेयशब्दो भविष्यति, शक्ष्यति च स पशुयूपं विशेष्टुम्, सो ऽस्याङ्गस्योपकारकः, यश् च यस्योपकारिण उपकरोति, भवति स तस्य संबद्धो मुख्येनैव संबन्धेन. न चैकान्तरितम् इति कृत्वासंबद्धो भवति, यथा देवदत्तस्य नप्तेति, पुत्रेण चासाव् अन्तरितः, अथ च देवदत्तेन मुख्येनैव संबन्धेन संबद्धः. तस्माद् एष एव [२३३]{*३/९४*} पक्ष आश्रयणीयः, न ह्य् एतस्मिन् पक्षे कश्चिद् अपि लक्षणशब्दो भवतीति.
SK
NOTES: *{३/९३: E२,४: वाजपेयाङ्गपशुयागे}* *{३/९४: E२: ४,१०१; E४: ३,६४९; E६: १,१६०}*
SK
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् // MS_३,१.१९ //
SK
दर्शपूर्णमासयोः प्रयाजवाक्ये श्रूयते - अभिक्रामं जुहोत्य् अभिजित्येति{*३/९५*}. तत्र संदेहः - किम् अभिक्रमणं प्रयाजेष्व् एव निविशत उत कृत्स्ने प्रकरण इति. किं तावत् प्राप्तम्? कर्तृगुणे ऽभिक्रमणे ब्रूमः - वाक्यभेदः स्याद् इति, कर्मणा कर्मणो ऽसमवायात्. अभिक्रमणं कर्मामूर्तम्, न तत् कर्म हवनं साधयितुं शक्नोति, तस्मान् न तेनैकवाक्यतां याति. अतः सर्वस्मिन् प्रकरणे निविशते, संयोगतो ऽविशेषात् प्रकरणाविशेषाच् चेति{*३/९६*}. नन्व् अनेनैव हेतुनान्यस्मिन्न् अपि न निवेक्ष्यते. उच्यते - अन्यत्र पुरुषैः संभन्त्स्यते. ननु प्रयाजेष्व् अपि पुरुषैः संबध्येत. नैतद् एवम्, जुह्ःतीति हवन एष शब्दः पुरुषप्रयत्नं विधातुं शक्नोति, न पुरुषाभिक्रमणासंबन्धम्. नन्व् अन्यत्रापि पुरुषाभिक्रमणसंबन्धस्याविधानम्. नैष दोषः, अन्यत्र प्रकरणाम्नानाद् अङ्गभावे निर्ज्ञाते प्रयोगवचनो ऽस्य कर्तव्यतां वक्ष्यति. तस्मात् सर्वस्मिन् प्रकरणे ऽभिक्रमणस्य निवेश इति.
SK
NOTES: *{३/९५: Tऐत्.S. २.६.१.४}* *{३/९६: Vग्ल्. MS ३.१.८}*
SK
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण // MS_३,१.२० //
SK
नैतद् अस्ति - यद् उक्तम् अभिक्रमणं प्रकरणे निविशत इति. प्रया[२३४]{*३/९७*}जेष्व् एव भवितुम् अर्हति. कुतः? तैः सहास्यैकवाक्यता, यतः साकाङ्क्षम् एतत् पूर्वेण पदेनासमाप्तं वाक्यम्, अभिक्रामं जुहोतीत्य् अत्र पर्यवस्यति, प्रकरणाच् च वाक्यं बलवद् इति प्रयाजेष्व् एवाभिक्रमणं निविशते. नन्व् अभिक्रमणम् अमूर्तत्वाद् धोमनिर्वृत्ताव् असमर्थम् इत्य् उक्तम्. उच्यते, साक्षाद् असमर्थम्, कर्त्रा संबध्यमानं शक्ष्यति निर्वर्तयितुम्. कथम्? अभिक्रमणेन समासीदत्य् आहवनीयं कर्ता, द्वयम् अभ्युपायभूतं होमस्य, दूराद् वाभिप्रसार्य हस्तम्, जुहुयात्, समासीदेद् अन्वाभिक्रमणेन. तस्माद् अभिक्रमणम् उपकरोति होमस्येत्य् अवगम्यते. अतः प्रयाजेष्व् एव निवेश इति.
SK
NOTES: *{३/९७: E२: ४,१०३; E४: ३,६५७; E६: १,१६१}*
SK
संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात् // MS_३,१.२१ //
SK
दर्शपूर्णमासयोः सप्तमाष्टमयोर् ब्राह्मणानुवाकयोः सामिधेन्य उक्ताः, नवमे निविदः, दशमे काम्याः सामिधेनीकल्पाः, इदं कामस्यैतावतीर् अनुब्रूयात्, इदं कामस्यैतावतीर् इति, एकादशे च यज्ञोपवीतम् आम्नातम् - उपव्ययते देवलक्ष्मम् एव तत् कुरुत इति{*३/९८*}. तत्र संदेहः - किं सामिधेनीर् एवानुब्रुवाण उपव्ययेत, उत प्रकरणे सर्वान् एव पदार्थान् अनुतिष्ठता उपव्यातव्यम् इति. कुतः संशयः? उपवीतं सामिधेनीनां प्रकरणे समाम्नातम्, अथ निवृत्ते वा तासां प्रकरण इति न ज्ञायते. ननु दर्शपूर्णमासयोर् एव प्रकरणम् इदम्, परप्रकरणे सामिधेन्यः श्रूयन्ते. सत्यं परप्रकरणे श्रूयन्ते. तथापि तासाम् अवान्तरप्रकरणम् अपरम्, भवति हि, सामिधेनीर् अनुब्रूयाद् इति विशेषाकाङ्क्षं वचनम्, येन तत्संनिधाव् अभिधीयमानं तस्येति ज्ञायते. कथं पुनर् निवृत्तं तासां प्रकरणम् इत्य् आशङ्क्यते? [२३५]{*३/९९*} निवित्पदानि तासां प्रकरणं व्यवदधतीति. यद्य् एवम्, कथम् अनुवर्तते प्रकरणम् इत्य् आशङ्का? परस्तान् निविदाम्, साद्मिधेनीगुणा एव काम्या विधीयमानाः श्रूयन्ते, यद् अनन्तरं यज्ञोपवीतम् आम्नातम्, तेनानिवृत्तं सामिधेनीनां प्रकरणम् इति भवति मतिः. अतः परप्रकरणे निविदः समुपनिपतिता न व्यवदधति. यथा
SK
द्वादशोपसत्ताहीनधर्मो ज्योतिष्टोमप्रकरण इति. तेन भवति संदेहः. अस्मिन् संदेहे किं तावत् प्राप्तम्? सामिधेनीप्रकरणम् अनिवृत्तम्, तत्रोपवीतं समाम्नातम् इति. कुतः? काम्यानां सामिधेनीकल्पानाम् आनन्तर्यवचनात्, हृदयम् अनुविपरिवर्तमानासु सामिधेनीषु उपवीतम् आमनन्ति, कर्तुश् च वासोविन्यासमात्रं गुणो भवत्य् उपवीतं नाम. किं कुर्वता तत् कर्तव्यम् इति भवति तत्र पदार्थाकाङ्क्षा, तत्र बुद्धौ संनिहितेनाविप्रकृष्टेन सामिधेनीवाक्येनैकवाक्यतां उपगम्य सामिधेनीषूपवीतं उपव्ययत इत्य् एष शब्दो विदधातीति गम्यते. एवं प्राप्ते ब्रूमः - न, अस्मिन् संदेहे यस् त्व् अयोक्तः, स निर्णयः. अस्मिन् संदेहे वाक्यभेद इति निर्णय इति. कुतः? व्यवायात्, इह समाप्तस्य सानुबन्धस्य सामिधेनीवाक्यस्य, अस्य चोपव्ययत इति वचनस्य, निविदां विधायकेन सामिधेनीभिर् असंबद्धेन ग्रन्थेन व्यवधानं भवति, यस्य च पर्यवसिते ऽपि वचने तत्संबद्धम् एवार्थान्तरं प्रक्रमन्ते, न तत्राननुवृत्तं प्रकरणम्, आगच्छति हि तत्संबद्धाभिधाने हृदयम्. यत्र तु पर्यवसिते वचने तदसंबद्धम् एवार्थान्तरं प्रक्रमन्ते, न तत्र बुद्धौ पूर्वः पदार्थः संनिधीयते. न च, बुद्धाव् असंनिहितेनैकवाक्यता भवति. द्वाभ्यां हि बुद्धाभ्यां{*३/१००*} पदार्थाभ्यां वाक्यार्थः संजन्यते, नान्यतरेण, संनिधौ समाम्नानस्यैतद् एव प्रयोजनम्, कथम् उभाभ्यां पदार्थाभ्यां विशिष्टां बुद्धिम् उत्पादयेयुर् इति. [२३६]{*३/१०१*} अनन्तराव् अबुद्धेन सह वाक्यार्थः शक्यते कर्तुम्, असंबद्धपदोच्चारणे च नानन्तराव् अबुद्धो भवति. तस्माद् व्यवहितेन सह नैकवाक्यता भवतीति. अथान्येन प्रकारेण ध्यानादिना पूर्वपदार्थम् अवगम्य, वाक्यार्थं संजनयेत्. अवैदिकः स पुरुषबुद्धिर् पूर्वको वाक्यार्थो भवेत्, यथा, अन्यस्माद् अनुवाकाद् आख्यातपदं गृहीत्वा, अन्यस्माच् च नामपदं यो वाक्यार्थः संजन्यते, तादृशं तद् भवेत्, यत्रान्येन ध्यानादिना पूर्वपदार्थम् अवगम्य, वाक्यार्थं संजनयेत्. तस्मान् नासंबद्धार्थव्यवधानैकवाक्यता भवतीति निश्चीयते. तस्मान् न सामिधेनीभिर् एकवाक्यतोपवीतस्येति. ननु सामिधेनीकल्पानाम् अनन्तरबुद्धानां संनिधाव् उपवीतम् आम्नायते, तेन सामिधेनीभिः संभन्त्स्यत इति. नेति ब्रूमः - अतिवृत्तम् एव हि सामिधेनीनां प्रकरणं निवित्पदैर् व्यवधानात्. वाक्येन हि सामिधेनीकल्पाः काम्याः संबन्धम् उपगच्छन्ति, न प्रकरणम् अनुवर्तते, न च, पुनः कल्पवचनेन सामिधेन्यः प्रकृता भवन्ति. न हि, तत्र तासां वचनं कर्तव्या इति. किं तर्हि? संख्याभिः संबन्धयितव्या इति, तद् अपि वाक्येन, न प्रकरणेन. तत्राप्रकृतासु समिधेनीषु यस्यैकवाक्यता गुणस्य सामिधेनीभिर् नास्ति, न तस्य ताभिः संबन्धः. तस्मात्{*३/१०२*} प्रकरणे{*३/१०३*} यद् अनुष्ठेयं तद् यज्ञोपवीतिनेति सिद्धम्.
SK
NOTES: *{३/९८: Tऐत्.S. २.५.११.१}* *{३/९९: E२: ४,१०६; E४: ३,६६१; E६: १,१६१ (वोर्लेत्zते Zएइले)}* *{३/१००: E२,४ ओम्. हि बुद्धाभ्यां}* *{३/१०१: E२: ४,१०८; E४: ३,६६१; E६: १,१६२}* *{३/१०२: E२: यस्मात्}* *{३/१०३: E२,४: कृत्स्ने प्रकरणे}*
SK
गुणानां च परार्थत्वाद् असंबन्धः समत्वात् स्यात् // MS_३,१.२२ //
SK
अग्न्याधेये वारणवैकङ्कतपात्राण्य् अहोमार्थानि होमार्थानि [२३७]{*३/१०४*} च श्रूयन्ते - तस्माद् वारणो वै यज्ञावचरः स्यात्, न त्व् एतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज् जुहुयाद् एतेनेति. न च वारणवैकङ्कतानां पात्राणाम् अग्न्याधेयेन संबन्धः. कुतः? यज्ञाव् अचरवचनात्, यज्ञस्यैतानि पात्राणि, वाक्येन प्रकरणं बाधित्वा भवन्ति. तत्रैष संदेहः - किं पवम् आनेष्टिषु निविशन्ते, उत दर्शपूर्णमासादिषु सर्वयागेष्व् इति. किं तावत् प्राप्तम्? पवमानहविःष्व् इति. कुतः? उक्तम् एतत् प्रधाने ऽसंभवन् पदार्थस् तद्गुणे कल्प्यत इति, अग्न्याधेयप्रकरणे च समाम्नानात् पवमानहविषां तद्गुणता. तस्मात् पवमानहविःष्व् इत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - गुणानां समत्वात्, पवमानहविषाम् अग्न्याधेयस्य च न परस्परेण संबन्धः. यथाधानम् अग्नेर् गुणः संस्कारार्थः, एवं पवमानहवींष्य् अप्य् अग्नेर् एव गुणभूतानि. कस् तत्र परस्परेण संबन्ध इति. यद् उक्तम् - आधानस्य प्रकरणे समाम्नायन्त इति, यद्य् अपि समाम्नायन्ते, तथापि प्रकरणं बाधित्वा वाक्येनाग्नेर् भवन्ति. किम् इह वाक्यम्? यद् आहवनीये जुहोति{*३/१०५*} तेन सो ऽस्याभीष्टः प्रीतो भवतीति. नन्व् आहवनीयो ऽत्र यागस्याधिकरणत्वेन गुणभूतः श्रूयते. सत्यम्, अधिकरणम् आहवनीयः, तथापि त्व् आहवनीयार्थ एव यागः, प्रयोजनवत्त्वाद् आहवनीयस्य निष्प्रयोजनत्वात् पवमानहविषाम्. कथम् एषां निष्प्रयोजनता? फलाश्रवणात्. कल्प्यं फलम् इति चेत्. सत्यं कल्प्यम्, अग्निसंस्कारस् तु तत्फलम्, न स्वर्गः, स्वर्गे कल्प्यमाने द्विर् अदृष्टं कल्प्येत, होमाच् च [२३८]{*३/१०६*} स्वर्गो भवति, तस्य चाहवनीयेनापरो ऽदृष्टः संस्कार इति. तस्माद् अग्न्यर्थता पवमानहविषाम्, नैषाम् आधानेन संबन्धः. तस्मान् नाधाने श्रूयमाणम्, पवमानहविषां भवितुम् अर्हति. किं तर्हि सर्वयागेषु दर्शपूर्णमासप्रभृतिष्व् आधानस्य प्रधानभूतेषु निवेश इति.
SK
NOTES: *{३/१०४: E२: ४,१११; E४: ३,६७४; E६: १,१६३}* *{३/१०५: E२,४: जुह्वति}* *{३/१०६: E२: ४,११३; E४: ३,६७५; E६: १,१६४}*
SK
मिथश् चानर्थसंबन्धात् // MS_३,१.२३ //
SK
दर्शपूर्णमासयोः श्रूयते - वार्त्रघ्नी पौर्णमास्याम् अनूच्येते, वृधन्वत्य् अमाव् अस्यायाम् इति{*३/१०७*}. तत्र संदेहः - किम् अनुवाक्याद्वित्वस्य प्रधाने निवेशः, उताज्यभागयोर् इति. किं तावत् प्राप्तम्? प्रधान इति. कुतः? पौर्णमासीसमभिव्याहारात्, अमाव् अस्यासमभिव्याहाराच् च. प्रधानं पौर्णमासी चामाव् अस्या च नाज्यभागौ. तस्मात् साक्षाद् वाक्यात् प्रधानस्येति प्राप्तम्. तत्र ब्रूमः - मिथः सह द्वाभ्याम् अनुवाक्याभ्यां न प्रधानस्य कार्यम् अस्ति, यत्र तु द्व अनुवाक्ये, तत्र तयोर् वार्त्रघ्नता वृधन्वत्ता च विधीयते, प्रधाने चैकानुवाक्या, तत्र द्वित्वं वार्त्रघ्नतां वृधन्वत्तां च विदधद् वाक्यं भिद्येत. आज्यभागयोस् तु द्वे प्राप्ते आग्नेयी सौमी च, तत्र वार्त्रघ्नतां वृधन्वत्तां केवलां शक्ष्यति विधातुम्. ननु प्रधानगामित्वे ऽपि द्वयोः प्रधानयोर् द्वे अनुवाक्ये, आग्नेयस्याग्नीषोमीयस्य चेति. उच्यते - एका [२३९]{*३/१०८*} वार्त्रघ्न्य् आग्नेयी, एका सौमी, तथा वृधन्वत्यै, तत्र याग्नेयी, सा विधीयमाना संबध्येत न सौमी. अमाव् अस्यायां तावन् नास्त्य् एव{*३/१०९*}, पौर्णमास्याम् अप्य् अग्नीषोमीय एव क्रियमाणे क्रियेत, तत्राप्य् एकदेवत्या न शक्नुयाद् देवताद्वित्वे कार्यं कर्तुम्. अथोभ अग्नीषोमीये प्राप्ते इति. न, एकस्य यागस्य द्वाभ्याम् अनुवाक्याभ्यां प्रयोजनम्. उपादेयत्वेन ह्य् अनुवाक्या चोद्यते, तत्रैकत्वं विवक्षितम्, तेन तत्रापि न द्वे. तस्माद् आज्यभागयोर् निवेश इति.
SK
NOTES: *{३/१०७: Tऐत्.S. २.५.२.५}* *{३/१०८: E२: ४,११५; E४: ३,६८१; E६: १,१६४}* *{३/१०९: E२,४: एव सोमः}*
SK
आनन्तर्यम् अचोदना // MS_३,१.२४ //
SK
ज्योतिष्टोमे श्रूयते - मुष्टीकरोति, वाचं यच्छति, दीक्षितम् आवेदयतीति, तथा हस्ताव् अवनेनिक्ते, उलपराजिं स्तृणातीति. तत्र संदेहः - किं मुष्टीकरणं वाग्यमश् चावेदनार्थम्, उत कृत्स्नप्रकरणे निवेश इति तथा, हस्ताव् अनेजनं किम् उलपराजिं स्तरितुम्, उत प्रकरणे सर्वपदार्थान् कर्तुम् इति. किं तावत् प्राप्तम्? हस्ताव् अनेजनं हस्तसंस्कारार्थम्, वाग्यमः पुरुषसंस्कारार्थः, आमन्त्रयमाण एकाग्रो भवति, पदार्थान् अनुतिष्ठति, तेन केषां केषां पदार्थानाम् इमे{*३/११०*} संस्काराव् इत्य् आकाङ्क्षास्ति, सत्याम् आकाङ्क्षायाम् आनन्तर्येण निराकाङ्क्षीकरणम्. तस्माद् आनन्तर्याद् आवेदनार्थो वाग्यमो मुष्टीकरणं च, हस्ताव् अनेजनं चोलपराजिं स्तरितुम्. एवं प्राप्ते ब्रूमः - सर्वैः प्रकरणाधीतैः संबन्ध इति. [२४०]{*३/१११*} कुतः? वाक्यभेदात्. कथं वाक्यभेदः? अर्थद्वयस्याभिधानात्. न हि, दीक्षितम् आवेदयितुम् इत्य् अस्मिन्न् अर्थ आवेदयतीति, न च स्तरितुम् इत्य् अस्मिन्न् अर्थे स्तृणातीति. स्तरणम् अपि विधीयते ऽवनेजनं च. मुष्टीकरणं वाग्यमश् च विधीयते, आवेदनं च. न च, एषां परस्परेण कश्चित् संबन्धो ऽस्ति, न च, पदार्थाकाङ्क्षायां सत्याम् आनन्तर्यम् एकवाक्यत्वे कारणं भवति, तस्मात् प्रकरणधर्मा एवंजातीयकाः. NOTES: *{३/११०: E१,६, E४ (व्.ल्.); E२,४: इमौ}* *{३/१११: E२: ४,११९; E४: ३,६८६; E६: १,१६५}*
SK
वाक्यानां च समाप्तत्वात् // MS_३,१.२५ //
SK
स्वेन स्वेन पदसमूहेन परिपूर्णम् एकं वाक्यम्, तथापरम्, तथा सर्वाणि यान्य् उदाहृतानि. तस्माद् विस्पष्टम् अर्थद्वयम्, विभागे च निराकाङ्क्षता, तेन वाक्यभेदः. अतः संयोगतो ऽविशेषात् प्रकरणाविशेषाच् च{*३/११२*} कृत्स्ने पर्करणे निवेश इति.
SK
NOTES: *{३/११२: Vग्ल्. MS ३.१.८}*
SK
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात् // MS_३,१.२६ //
SK
दर्शपूर्णमासयोः समाम्नायते - आग्नेयं चतुर्धा करोतीति. तत्र संदेहः - किम् आग्नेये ऽग्नीषोमीये ऐन्द्राग्ने{*३/११३*} च सर्वत्र चतुर्धाकरणम्? किं वाग्नेय एवेति. किं प्राप्तम्? शेषश् चतुर्धाकरणम्, आग्नेयम् इति देवतागुणसंयुक्तः साधारणः प्रतीयते, अग्नीषोमीये ऽपि स्यात्, ऐन्द्राग्ने ऽपि. कुतः? ताव् अप्य् आग्नेयौ, यस्याग्निर् देवता, अन्या च भवति, असाव् आगेयः. तद् यथा, या डित्थस्य डवित्थस्य च माता, सा डवित्थस्य [२४१]{*३/११४*} भवति, एवम् इहापि. यद्य् आग्नेयाग्नीषोमस्य च पुरोडाशस्य मिथः संबन्धो न भवेत्, तत आग्नेय एव चतुर्धाकरणं व्यवतिष्ठेत, भवति तु संबन्धः, तस्माद् अव्यवस्था, यथाग्नेयस्य मस्तकं विभज्य प्राशित्रम् अवद्यतीति सर्वेभ्यः प्राशित्राव् अदानम्, एवं चतुर्धाकरणम् अपि.
SK
NOTES: *{३/११३: E२,४,६: चैन्द्राग्ने}* *{३/११४: E२: ४,११९; E४: ३,६९५; E६: १,१६५}*
SK
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन संबन्धाल् लक्षणार्था गुणश्रुतिः // MS_३,१.२७ //
SK
वाशब्दः पक्षं व्यावर्तयति, व्यवतिष्ठेत वा चतुर्धाकरणम् आग्नेय एव, न साधारणं भवितुम् अर्हति. कुतः? अर्थसंयोगात्, अग्निना देवतयार्थेनैकदेवत्यस्य{*३/११५*} संयोगः, न द्विदैवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य{*३/११६*} चेति. कुतः? यस्य ह्य् अग्नीषोमौ देवता, उभयविशेषणविशिष्टः संकल्पः क्रियते, तस्याग्निः सोमम् अपेक्षमाणो देवता, न निरपेक्षः, यस्य चाग्निः सोमम् अपेक्षमाणो देवता, न तस्मात् तद्धित उत्पद्यते, समर्थानां हि स उच्यते, सापेक्षं चासमर्थम्. तस्मान् न तद्धितान्तेन निरपेक्षाग्निदैवत्येन{*३/११७*} द्विदेवत्यस्याभिधानम्{*३/११८*}. अतो यत्र निरपेक्षो ऽग्निर् देवता, तत्रैव चतुर्धाकरणम् इति, देवतालिङ्गस्य हि सामर्त्येन संयोगो भवति तद्धितार्थस्य, नासति सामर्थ्ये. अथ यद् उक्तम्, यथा{*३/११९*} प्राशित्राव् अदानं सर्वेभ्यः क्रियते, एवं{*३/१२०*} चतुर्धाकरणम् अपीति, युक्तं प्राशित्राव् अदानेन तत्रैव{*३/१२१*} संबन्धः क्रियते, आग्नेयस्य प्राशित्रम् अवद्यतीति. कथं तर्हि, आग्नेयस्य मस्तकं विभज्येति. एकं ह्य् एतद् वाक्यं प्राशित्रम् अवद्यतीति, द्वितीयम् आग्नेयस्य मस्तकं विभज्येति, तत्राग्नेयस्य मस्तकाद् अवद्यतीति गम्यते, अन्यस्य मस्तकात्, अन्यस्माद् वेत्य् अनियमः. यदि तु तत्र केवलाग्निदैवत्यो{*३/१२२*} नाभविष्यत्, तदानर्थक्यपरिहाराय द्विदैवत्यो{*३/१२३*} ऽप्य् अग्रहिष्यत{*३/१२४*}. [२४२]{*३/१२५*} यत् तु, डित्थस्य मातेति, युक्तं तत्राव्यासङ्गि मातृत्वम्, ततो जातो डित्थः, एतावता संबन्धेन, मातेत्य् उच्यते, नात्र किंचिद् अपेक्ष्यते. स च तावांस् तत्र संबन्धो ऽस्तीति डित्थस्य मातेति युक्तं वचनम्.
SK
[२४३]{*३/१२६*}
SK
NOTES: *{३/११५: E२,४: देवतयार्थेनैकदैवत्यस्य}* *{३/११६: E२,४: द्विदेवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य}* *{३/११७: E२,४: निरपेक्षाग्निदेवत्येन}* *{३/११८: E२,४: द्विदेवत्यस्याभिधानम्}* *{३/११९: E२: यथा यथा}* *{३/१२०: E२ ओम्. एवं}* *{३/१२१: E२: अदाने. न तत्रैवं, E४: अदाने. तत्रैवं}* *{३/१२२: E२,४: केवलाग्निदेवत्यो}* *{३/१२३: E२,४: द्विदेवत्यो}* *{३/१२४: E२,४: अग्रहीष्यत}* *{३/१२५: E२: ४,१२२; E४: ३,६९८; E६: १,१६६}* *{३/१२६: E२: ४,१२३; E४: ४,१; E६: १,१६७}*
SK
अर्थभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसंबन्धो ऽर्थेन नित्यसंयोगात् // MS_३,२.१ //
SK
इह मन्त्रा उदाहरणम् - बहिर्देवसदनं दामीत्येवमादयः. किं मुख्य एवाभिधेये मन्त्राणां विनियोगः, उत गौणे ऽपीति. कः पुनर् मुख्यः को वा गौण इति. उच्यते - यः शब्दाद् एवावगम्यते, स प्रथमो ऽर्थो मुख्यः, मुखम् इव भवतीति मुख्य इत्य् उच्यते. यस् तु खलु प्रतीताद् अर्थात् केनचित् संबन्धेन गम्यते, स पश्चाद् भावाज् जघनम् इव भवतीति जघन्यः, गुणसंबन्धाच् च गौण इति. यद्य् एवं सर्व एव मुख्यः, सर्वो हि शब्दाद् गम्यते, यथैव ह्य् अग्निर् ज्वलतीत्य् उक्ते ज्वलने संप्रत्ययः{*३/१२७*}, एवम् एवाग्निर् माणवक इति शब्द एवोच्चारिते माणवके संप्रत्ययः. अथोच्यते, यस्मिन् निरुपपदाच् छब्दात् संप्रत्ययः स मुख्यः, यस्मिन् सोपपदात् स गौण इति. नैतद् युक्तम्. यस्य हि शब्दस्य रूपं कस्यचिद् अर्थस्य निमित्तम्, सोपपदस्यापि तद् एव रूपम्, निरुपपदस्यापि. न च शक्यं निमित्ते सति नैमित्तिकेन न भवितुम्. किम् अतः? यद्य् एवम्, इदं न शक्यते वदितुम् - उपपदाद् ऋते न सो ऽर्थो भवति, उपपदे तु संजाते सो ऽर्थः संजनिष्यत इति. न चासौ समुदायार्थः शक्यते विज्ञातुम्. अन्वयव्यतिरेकाभ्यां हि विभागो ऽवगम्यते. अथ, वाक्-यार्थो ऽयम् इत्य् उच्यते. नैवं शक्यम्, न ह्य् अनन्वितः पदार्थो भवति [२४४]{*३/१२८*} वाक्यार्थः. तद् एवं दृश्यताम् - अग्निशब्द एवायं ज्वलनवचनः, अग्निशब्द एव माणवकस्याभिधातेति. तस्मान् न गौणो मुख्य इति कश्चिद् विशेषः. अथोच्यते, यः सुष्ठु प्रसिद्धः स मुख्यः, यो मनाग् इव स गौण इति. इदम् अपि नोपपद्यते, प्रसिद्धिर् नाम प्रज्ञानम्, न च प्रज्ञाने कश्चिद् विशेषो ऽस्ति. अथोच्यते, यस्य बहुशः प्रयोगो ऽस्ति स मुख्यः, अल्पशः प्रयुज्यमानो गौण इति. नैतद् एवम्, अल्पशो ऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेत्. अतः सो ऽपि शब्दात् प्रतीयत इति मुख्य एव.
SK
अत्रोच्यते - अस्त्य् अत्र विशेषः, माणवको नाग्निशब्दात् प्रतीयते. कथम् अवगम्यते? उक्तम् - अन्यायश् चानेकार्थत्वम् इति. कथं न विपर्ययः? उच्यते - अनादृत्यैव माणवकप्रत्ययं ज्वलनम् अग्निशब्दात् प्रतियन्तो दृश्यन्ते. न त्व् अनादृत्य ज्वलनम्{*३/१२९*}, मानवकम् अग्निशब्दात् प्रतियन्ति. कुत एतत्? यो यो ऽग्निसदृशो विवक्ष्यते, तत्र तत्राग्निशब्दो नियत इति. अत एव विगतसादृश्याद् अयं तु दृश्यते. अतो ऽग्निसादृश्यम् अस्य प्रवृत्तौ निमित्तं न च ज्वलने ऽप्रतीते तत्साद्रृश्यं प्रतीयते. तस्माज् ज्वलनस्याग्निशब्दो निमित्तम्, न माणवकस्य. तस्माज् ज्वलने मुख्यो न माणवके. एवम् एव तृणप्रत्ययस्य बर्हिःशब्दो निमित्तम्, न तृणसदृशप्रत्ययस्य. तद् एवं द्वैते सति मुख्यपरता शब्दस्य, उत गौणपरतापीति युक्तो विचारः. किं तावत् प्राप्तम्? मुख्ये गौणे च विनियोगः. कुतः? उभयस्य शक्यत्वाद् उभयम् अपि बर्हिःशब्देन शक्यते प्रत्याययितुम्, तृणं च तृणसदृशं च, तृणं साक्षात्, तृणसदृशं तृणप्रत्ययेन. यच् च नाम दर्शपूर्णमासयोः साधनभूतेन बर्हिःशब्देन शक्यते प्रत्याययितुम्, तत् सर्वं प्रत्याययितव्यम्, विनिगमनायां हेत्वभावात्. [२४५]{*३/१३०*} अपि चैवम् आश्रीयमाणे पूषाद्यनुमन्त्रणादीनि दर्शपूर्णमासाभ्यां नोत्कृष्यन्ते{*३/१३१*}, तत्रैव गौणेनाभिधानेन प्रकृतां देवताम् अभिवदिष्यन्ति. एवं प्राप्ते ब्रूमः - मुख्य एव विनियोक्तव्यो मन्त्रो न गौण इति. कुतः? उभयाशक्यत्वात्, प्रकरणे हि समाम्नानात् प्रधानेनैकवाक्यताम् उपैति. तत्रैतद् आपतति यच् छक्नुयाद् अनेन मन्त्रेण साधयितुम्, तथा साधयेद् इति. स चासाव् अर्थाभिधानसंयोगाच् छक्नोत्य् उपकर्तुम्, न गौणम् अर्थं शक्योत्य् अभिधातुम्, तस्मान् न गौणे विनियोगः. ननु मुख्यप्रत्ययाच् छक्यते गौणः प्रत्याययितुम्. सत्यम् एतत्, मुख्यप्रत्यायनेनैवास्य प्रयोजनवत्ता निर्वृत्तेति न गौणं प्रति विनियोगे किंचित् प्रमाणम् अस्ति. मुख्ये विनियोगेन त्व् आनर्थक्यं परिह्रियते, परिहृत आनर्थक्ये न गौणाभिधानम् आपतति. न ह्य् अनभिधाय मुख्यम्, गौणम् अभिवदति शब्दः. अतः प्रमाणाभावान् न गौणे विनियुज्येत. अपि च गौणस्य प्रत्यायने सामर्थ्याद् बहवो ऽभ्युपायाः प्राप्नुवन्ति, सामर्थ्यं च शब्दैकदेश इत्य् उक्तम् - अर्थाद् वा कल्पनैकदेशात्वाद् इति{*३/१३२*}, तत्र मन्त्रे नियोगतो गौणं प्रति विनियुज्यमान उपायान्तरम्, विना प्रमाणेन बाध्येत. मन्त्राम्नानं प्रमाणम् इति चेत्. न तस्योपायान्तरनिवृत्तौ सामर्थ्यम् अस्ति. ननु मुख्ये ऽपि विनियुज्यमान्स्यैष एव दोषः. नेत्य् उच्यते - यदि मुख्ये ऽपि न विनियुज्येत, नैव प्रधानस्योपकुर्यात् तत्र चास्योत्पत्तिर् अनर्थिकैव स्यात्. तस्माद् अस्ति गौणे मुख्ये च विशेषः. अपि च यो गौणे मन्त्रं विनियुङ्क्ते, स वक्तव्यः - किम् अर्थं मुख्यं प्रत्याययसि [२४६]{*३/१३३*} इति. स चेद् ब्रूयात् - नान्यथा गौणप्रत्ययो ऽस्तीति, प्रतिब्रूयाद् एनम् - अन्ये ऽपि गौणप्रत्ययस्याभ्युपायाः सन्तीति. अथ स एवम् अभियुक्तः प्रतिब्रूयात् -मुख्यप्रत्ययो ऽपि पाक्षिको ऽभ्युपाय इति, ब्रूयाद् एनम् - न तर्हि नियोगतो गौणे विनियोजनीयः, यदा गौणप्रत्ययाय मुखम् उपादत्ते, तदैतद् आपतितं भवति, मुख्य एव विनियोग इति. अर्थेन च प्रतीतेन प्रयोजनम्, न प्रत्यायकेन मन्त्रेण, अतो ऽन्येनाप्य् उपायेन गौणः प्रत्य्-आययितव्यः, न स एव मन्त्र आदर्तव्यः. अथापि मन्त्रेण प्रत्यायकेन प्रयोजनं स्यात्, तथापि मुख्यप्रत्यायनेनैव निर्वृत्तं प्रयोजनम् इति नतरां गौणे विनियुज्येत. तस्मान् मुख्यगौणयोर् मुख्ये कार्यसंप्रत्यय इति सिद्धम्.
SK
NOTES: *{३/१२७: E२,४,६: ज्वलनसंप्रत्ययः}* *{३/१२८: E२: ४,१२५; E४: ४,१; E६: १,१६७}* *{३/१२९: E२,४: ज्वलनप्रत्ययं}* *{३/१३०: E२: ४,१२७; E४: ४,२; E६: १,१६८}* *{३/१३१: E१ (व्.ल्.): नोत्स्रक्ष्यन्ते}* *{३/१३२: MS १.४.३०}* *{३/१३३: E२: ४,१२९; E४: ४,३; E६: १,१६९}*
SK
संस्कारकत्वाद् अचोदिते न स्यात् // MS_३,२.२ //
SK
अथ यद् उक्तम् - पूषाद्यनुमन्त्रणादीनाम् उत्कर्षो न भविष्यतीति, युक्तस् तेषाम् उत्कर्षः, संस्कारको हि मन्त्रः, सो ऽसति संस्कार्ये ऽनर्थक इति यत्रार्थवांस् तत्र नाययिष्यते. न च कश्चिद् दोषो भविष्यति.
SK
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् // MS_३,२.३ //
SK
अग्नौ श्रूयते - निवेशनः संगमनो वसूनाम् इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति{*३/१३४*}. तत्र संदेहः - किम् इन्द्रस्योपस्थानं कर्तव्यम्, उत गार्हपत्यस्येति. कुतः पुनर् गार्हपत्यम् उपतिष्ठत इत्य् एवं विस्पष्टे वचने संशय इति. उच्यते, [२४७]{*३/१३५*} यद् धि{*३/१३६*} वाक्येनोपस्थानं{*३/१३७*} तत् स्तुतिवचनेन संस्करणं न समीपस्थानमात्रम्, न च, ऐन्द्रेण मन्त्रेणाग्नेर् अभिधानं शक्यते कर्तुम्. अतो गार्हपत्यम् उपतिष्ठत इति न गार्हपत्यार्थम् उपस्थानम् एतद् इति जायेत शङ्का - गार्हपत्य उपस्थानार्थो भवेद् इति, तादृशश् च शब्दो नास्ति, तृतीयान्तः सप्तम्यन्तो वा. तस्माद् विचारः - कथम् उपपन्नं भवतीति. किं तावत् प्राप्तम्? सामर्थ्याद् इन्द्रोपस्थानम्, अशक्यत्वाच् च गार्हप्त्योपस्थानस्य. कथं द्वितीया विभक्तिर् इति चेत्. अविवक्सितेप्सितार्था वा संबन्धमात्रप्रधाना. यद् वोपस्थानविशेषणं संबन्धाद् गार्हपत्यशब्दः. तस्माद् गार्हपत्यविशिष्टम् उपस्थानम् इन्द्रार्थं कर्तव्यम् इति. गार्हपत्यश् च देशेन विशिंष्यान् मुख्यम् एव कार्यं मन्त्राणाम्. एवं प्राप्ते ब्रूमः - वचनात् त्व् अयथार्थम् ऐन्द्री स्यात्. नैतद् अस्तीन्द्रार्थम् उपस्थानम् इति, अयथार्थम् ऐन्द्री स्यात्. कुतः? वचनसामर्थ्यात्, वचनम् इदं भवति, ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति, गार्हपत्ये द्वितीया विभक्तिः प्राधान्यम् आह, किम् इव वचनं न कुर्यात्, नास्ति वचनस्यातिभारः. तस्माद् गार्हपत्यार्थम् उपस्थानम्.
SK
NOTES: *{३/१३४: Mऐत्.S. ३.२.४}* *{३/१३५: E२: ४,१३१; E४: ४,१४; E६: १,१६९}* *{३/१३६: E२,४: यदि}* *{३/१३७: E२: वाक्येनोपस्थाने}*
SK
गुणाद् वाप्य् अभिधानं स्यात् संबन्धस्याशास्त्रहेतुत्वात् // MS_३,२.४ //
SK
अत्राह नन्व् एतद् उक्तम् - नैन्द्रेण मन्त्रेण गार्हपत्योपस्थानं भविष्यतीति. उच्यते, वचनाद् भविष्यति. आह - न वचनशतेनापि शक्यम् एतत्, इन्द्रशब्देनाग्निनं प्रत्याययेद् इति ब्रुवन् विहन्येत, यथाग्निना सिञ्चेद् इति{*३/१३८*}, उदकेन दीपयेद् इति, न हि शास्त्रहेतुकः शब्दार्थयोः संबन्धो भवति. नित्यौ ऽसौ लोकतो ऽवगम्यत इत्य् उक्तम् - औत्प[२४८]{*३/१३९*}त्तिकस् तु शब्दस्यार्थेन संबन्ध इति{*३/१४०*}. ननु शब्दलक्षणो ऽपि भवति शब्दार्थयोः संबन्धः कृत्रिमः, यथा देवदत्तो यज्ञदत्त इति. भवति कश्चित्, यत्र संबन्धस्य विधायकं वाक्यं भवति, न त्व् एतद् वाक्यं शब्दार्थयोः संबन्धस्य विधायकम्, गार्हपत्यस्येन्द्रशब्दो नामेति, कथं तर्हि सिद्धसंबन्धेनेन्द्रशब्देन गार्हपत्यम् उपतिष्ठत इति. न च शक्यते परशब्देन परो वदितुम्. किम् अत्र वचनं करिष्यति? अत्रोच्यते - गुणाद् वाप्य् अभिधानं स्यात् संबन्धस्याशास्त्रहेतुत्वाद् इति, यद्य् अपि नेदं वाक्यं शब्दार्थसंबन्धस्य विधाने हेतुभूतम्, तथाप्य् अनेनेन्द्रशब्देन शक्यं कर्तुम् - गार्हपत्याभिधानम्. कुतः? गुणसंयोगाद् गौणम् इदम् अभिधानं भविष्यति, भवति हि गुणाद् अप्य् अभिधानम्, यथा सिंहो देवदत्तः, अग्निर् माणवक इति. एवम् इहाप्य् अनिन्द्रे गार्हपत्य इन्द्रशब्दो भविष्यति, अस्ति चास्येन्द्रसादृश्यम्{*३/१४१*}, यथैवेन्द्रो यज्ञसाधनम्, एवं गार्हपत्ये ऽपीति. अथवा इन्द्रतेर् ऐश्वर्यकर्मण इन्द्रो भवति, भवति च गार्हपत्यस्यापि स्वस्मिन् कार्य ईश्वरत्वम्. तस्माद् इन्द्रशब्देन यः प्रत्यायते ऽर्थः स प्रतीतः सादृश्याद् गार्हपत्यं प्रत्याययिष्यति, ऐश्वर्याद् वा प्रत्याययिष्यतीति न दोषः.
SK
NOTES: *{३/१३८: E२,४ ओम्. इति}* *{३/१३९: E२: ४,१६६; E४: ४,२१; E६: १,१७०}* *{३/१४०: MS १.१.५}* *{३/१४१: E२,४,६: अस्ति तु चास्येन्द्रसादृश्यम्}*
SK
तथाह्वानम् अपीति चेत् // MS_३,२.५ //
SK
स्तो दर्शपूर्णमासौ, तत्रेदं समाम्नायते - हविष्कृद् एहि [२४९]{*३/१४२*} इति त्रिर् अवघ्नन्न् आह्वयतीति. तत्र संदेहः - किम् एष मन्त्रो ऽवहन्तिं प्रत्युपदिश्यते, उत हन्तिर् अस्य कालं लक्षयतीति. कथं हन्तिं प्रत्युपदिश्यते? कथं वा कालं लक्षयेत्? यद्य् एवं संबन्धः क्रियेत - हविष्कृद् एहीत्य् अवघ्नन्न् इति, ततो हन्तिं प्रत्युपदिश्यते, अथावघ्नन्न् आह्वयतीति, ततो ऽस्य कालं लक्ष्यतीति. किं तावत् प्राप्तम्? तथाह्वानम् अपि, यथैन्द्री गार्हपत्यं प्रत्युपदिश्यते, एवम् एष मन्त्रो हन्तिं प्रत्युपदिश्यते. एवं श्रुतिर् अनुगृहीता भवति, इतरथा लक्षणा स्यात्, हन्तिकालस्य मन्त्रस्य च संबन्धो भवेत्, न हन्तेर् मन्त्रस्य. एवं च सत्याह्वयतीत्य् अयम् अनुवादः, आह्वानं करोति, यो ह्य् एहीति ब्रूते स आह्वयति, तत्र केनचिद् गुणेन मन्त्रो हन्तिं प्रत्याययिष्यति, तस्मान् नाह्वाने विनियोक्तव्यः.
SK
NOTES: *{३/१४२: E२: ४,१३४; E४: ४,२३; E६: १,१७१}*
SK
न कालविधिश् चोदितत्वात् // MS_३,२.६ //
SK
नैतद् अस्ति - हन्तिं प्रत्युपदिश्यत इति. किं तर्हि? काललक्षणा स्यात्. कुतः? त्रिर् आह्वयतीति त्रित्वम् अत्र विधीयते, यद्य् अस्मिन्न् एव वाक्ये मन्त्रो विधीयेत, अनेकगुणविधानाद् वाक्यं भिद्येत. तस्मान् नैवम् अभिसंबन्ध एवम् अवघ्नन्न् इति. कथं तर्हि, अवघ्नन्न् आह्वयतीति. नन्व् अस्मिन्न् अपि पक्षे मन्त्रो विधीयते कालश् च, तत्र स एव दोषो भवेत्. नेति ब्रूमः, अवहननकाल एवार्थेन हविष्कृद् आह्वातव्या, तत्रायम् एव संबन्धो ऽनूद्यते. केवला तु त्रिर् आवृत्तिर् विधीयते. यत् तु काललक्षणार्थः शब्द इति. नैष दोषः, लौकिकी हि लक्षणा. मन्त्रो ऽपि च रूपाद् एवाह्वाने प्राप्तः, सो ऽप्य् अनूद्यत एव, चोदितश् च वाक्यान्तरेणावघातः शक्नोति कालं लक्षयितुम्. तस्माद् आह्वाने विनियोक्तव्य इति.
SK
[२५०]{*३/१४३*}
SK
NOTES: *{३/१४३: E२: ४,१३७; E४: ४,२९; E६: १,१७१}*
SK
गुणाभावात् // MS_३,२.७ //
SK
इदं पदोत्तरं सूत्रम्{*३/१४४*}. अथ कस्मान् न गुणाद् अवहन्तिं ब्रूते? हविष्करोति ह्य् अवहन्तिः, तस्माद् धविष्कृत्. किम् एवं भविष्यति? रूपाद् एवावहन्तौ मन्त्रे प्राप्ते केवलं त्रिर् आवृत्तिम् एव वक्ष्यति न भविष्यति वाक्यभेद इति. अत्रोच्यते - गुणाभावाद् गौणम् अभिधानम् अवहन्तौ न संभवतीति. न ह्य् असाव् आहूतो ऽस्मीत्य् अवगच्छति, तत्रादृष्टार्थम् आह्वानं स्यात्. यजमानस्य पत्न्यां हविष्कृति दृष्टार्थम् आह्वानम्. तस्मान् न हन्तिमन्त्र इति.
SK
NOTES: *{३/१४४: इदं पदोत्तरं सूत्रम् इन् E१ गेक्लम्मेर्त्}*
SK
लिङ्गाच् च // MS_३,२.८ //
SK
लिङ्गं च भवति - वाग् वै हविष्कृद् वाचम् एवैतद् आह्वयतीति{*३/१४५*}, न च वाचो ऽवहन्तिना सादृश्यम् अस्ति, अस्ति तु यजमानस्य पत्न्या, सा हि स्त्री, वाग् इति च स्त्रीलिङ्गः शब्दः, अवहन्तिस् तु न स्त्री न पुमान् न नपुंसकम् इति. नन्व् अवहन्तेर् अपि स्त्रीलिङ्गः शब्दो ऽस्ति, क्रियेति. अत्र ब्रूमः - न नियोगतो ऽवहन्तेः स्त्रीलिङ्गः शब्दः, पुंलिङ्गो ऽपि तस्यास्ति, अवघात इति. नपुंसकसिङ्गो ऽपि, कर्मेति. अपि च, पत्न्याः स्वरूपेण सादृश्यम्, अवहन्तेः पररूपेण शब्देन. तस्मात् पत्न्यां हविष्कृति लिङ्गम् अनुरूपतरं भवति.
SK
NOTES: *{३/१४५: Vग्ल्. ŚPBर् १.१.४.११}*
SK
विधिकोपश् चोपदेशे स्यात् // MS_३,२.९ //
SK
अवहन्तिमन्त्रे सत्य् अस्मिन् मन्त्रे विध्यन्तरकोपः स्यात्. अपहतं रक्ष इत्य् अवहन्त्य् अपहता यातुधाना इत्य् अवहन्तीति. तत्र पक्षे ऽभावान् नित्यवच् छ्रूतिर् उपध्येत. तस्माद् अवघ्नन्न् [२५१]{*३/१४६*} इति काललक्षणार्थ इति. मन्त्रो ऽप्य् अह्वानार्थ इति{*३/१४७*}.
SK
NOTES: *{३/१४६: E२: ४,१३८; E४: ४,३२; E६: १,१७२}* *{३/१४७: E२,४,६ ओम्. मन्त्रो ऽप्य् अह्वानार्थ इति}*
SK
तथोत्थानविसर्जने // MS_३,२.१० //
SK
ज्योतिष्टोमे श्रूयते - उत्तिष्ठन्न् अन्वाह, अग्नीद् अग्नीन् विहर इति. तथा - व्रतं कृणुतेति वाचं विसृजतीति{*३/१४८*}. तत्र संदेहः - किम् उत्थानं वाग्विसर्जनं च प्रति मन्त्रयोर् उपदेशः, उत कालार्थः संयोग इति. अत्र पूर्वाधिकरण्यायो ऽतिदिश्यते. यस् तत्र पूर्वः पक्षः, स इह पूर्वः पक्षः. यस् तत्र सिद्धान्तः, स इह सिद्धाण्तः. अग्नीद् अग्नीन् इत्य् एवम् उत्तिष्ठन्न् अन्वाहेति, व्रतं कृणुतेत्य् एवं वाचं विसृजतीति पूर्वः पक्षः. लक्षणाभावात्, उत्तिष्ठन्न् अन्वाहेति सिद्धान्ते संबन्धः. व्रतं कृणुतेत्य् उच्यमाने वाचं विसृजतीति. वाक्येन पूर्वः पक्षः, लिङ्गेन सिद्धान्तः. यद्य् अपि च शक्यते, उत्थानक्रियाग्नीद् अग्नीन् विहरेति वक्तुम्, उत्थानेनाग्निर् इध्यते, वह्निश् च विह्रियत इति. व्रतं कृणुतेति च वागभिधानम्. तथाप्य् अदृष्टार्थं वचनं भवतीति न मन्त्रयोर् उत्थानविसर्जनार्थता कल्प्येत. कल्प्यमानायां च मन्त्रान्तरं विहितं बाध्येत - याः पशूनाम् ऋषभो वाच इति. अपि चोत्थानवाग्विसर्गौ प्रति मन्त्रौ विधीयमानाव् अदृष्टार्थौ स्याताम्, प्रेषणे तु दृष्ठार्थौ. तल्{*३/१४९*} लक्षणैवात्र न्याय्या.
SK
[२५२]{*३/१५०*}
SK
NOTES: *{३/१४८: Tऐत्.S. ६.१.४.४}* *{३/१४९: E२,४: तस्माल्}* *{३/१५०: E२: ४,१४०; E४: ४,३६; E६: १,१७३}*
SK
सूक्तवाके व कालविधिः परार्थत्वात् // MS_३,२.११ //
SK
दर्शपूर्णमासयोः श्रूयते - सूक्तवाकेन प्रस्तरं प्रहरतीति{*३/१५१*}. तत्र संदेहः - किं सूक्तवाकः प्रस्तरप्रकरणं प्रत्युपदिश्यते, उतेयं काललक्षणेति. तद् उच्यते - काललक्षणेति. कुतः? सूक्तवाकस्य देवतासंकीर्तनार्थत्वात्, प्रस्तरप्रकरणं च प्रत्यशक्तेः, प्रस्तरस्य च स्रुग्धारणार्थत्वात्.
SK
NOTES: *{३/१५१: Vग्ल्. Tऐत्.Bर्. ३.४.१०.१}*
SK
उपदेशो वा याज्याशब्दो हि नाकस्मात् // MS_३,२.१२ //
SK
उपदेशो वा प्रस्तरप्रकरणं प्रति मन्त्रस्य स्यात्, एवं श्रुतिविहितो ऽर्थो भवति, सूक्तवाकेनेति करणविभक्तिसंयोगात्, इतरथा लक्षणा स्यात्, सूक्तवाकेन लक्षणेन प्रस्तरं प्रहरेद् इति. एवं च कृत्वा याज्या शब्द उपपन्नो भवति, सूक्तवाक एव याज्या, प्रस्तर आहुतिर् इति.
SK
स देवतार्थस् तत्संयोगात् // MS_३,२.१३ //
SK
यद् उक्तम् - देवतासंकीर्तने सूक्तवाकः समर्थः, न प्रस्तरप्रकरण इति. उच्यते - न{*३/१५२*}, देवतावचनः{*३/१५३*} पर्करणेन संबध्यते, प्रकरणं हि यजिः, मान्त्रवर्णिको देवताविधिः, एवम् अभिसंबन्धः. अग्निर् इदं हविर् अजुषतावीवृधत इत्य्{*३/१५४*} एवं देवताम् अनुक्रम्य, आशास्ते ऽयं यजमान इत्य्{*३/१५५*} उक्त्वा, इदम् इदम् आशास्त इति च यद् अनेन हविषाशास्ते तद् अस्य स्याद् [२५३]{*३/१५६*} इति{*३/१५७*} प्रस्तरं हविर् निर्दिशति, अग्न्यादींश् च देवताविशेषान्, तेन प्रहरतिर् यजतिः. एवं सूक्तवाकेन प्रस्तरः प्रहर्तुं शक्यते, यदि प्रहरतिर् यजतिः, अग्न्यादिदेवताकश् च. तस्मात् सूक्तवाकस्य हरतिसंयोगो ऽपि देवतार्थता घटत एव. यद्य् अग्निर् इदं हविर् अजुषतावी वृधत इत्येवमाद्य् एव श्रूयेत. न, आशास्ते ऽयं यजमान इत्येवमादीन्य् अपराणि, ततो ऽग्न्यादय एवेष्टा नान्तरिता इत्य् एव पर्यवसितं वाक्यं भवेत्. यतस् तु खल्व् आशास्ते ऽयं यजमान इत्येवमादीन्य् अपराणि श्रूयन्ते, तेनेह पर्यवसानम्, अग्न्यादयः पुरोडाशादिभिर् इष्टाः, अपरं तु यजमान आशास्ते. तद् अनेन प्रस्तरेण प्राप्नुयाद् इति. ननु सत्स्व् अप्य् एतेषु देवतासंकीर्तन एव पर्यवस्येत्, पुरोडाशादिभिर् इष्टा अग्न्यादयः, तत एव यजमान आयुर् आदीन्य् अप्य् आशासानः प्राप्नुयाद् इति. उच्यते - उभयथा संबन्धे सति प्रहरणे विनियोक्तव्यः, लिङं च न बाधितं भविष्यति, वाक्यं चानुग्रहीष्यत इति. अथवाग्निर् इदं हविर् अजुषतेति प्रस्तर एव हविर् निदिश्यते. एवम् इदम् इति संनिहितवचनम् उपपन्नं भविष्यतीति.
SK
NOTES: *{३/१५२: E२,४: स}* *{३/१५३: E२,४: देवतावचनः}* *{३/१५४: Tऐत्.Bर्. ३.५.१०.२; ŚPBर् १.९.१.९}* *{३/१५५: Tऐत्. Bर्. ३.५.१०.४; ŚPBर् १.३.१.१२}* *{३/१५६: E२: ४,१४४; E४: ४,४४; E६: १,१७३}* *{३/१५७: ŚPBर् १.९.१.१६}*
SK
प्रतिपत्तिर् इति चेत्, स्विष्टकृद्वद् उभयसंस्कारः स्यात् // MS_३,२.१४ //{*३/१५८*} अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिर् इत्य् उच्यते. तत्र प्रतिवचनम् -स्विष्टकृद्वद् एतत् स्याद् इति, यथा, इज्यार्थात् पुरोडाशात्, वचनप्रामाण्यात् स्विष्टकृद् इज्यते, यागश् च स भवति, प्रतिपाद्यते च पुरोडाशः, एवं [२५४]{*३/१५९*} प्रतिपाद्येतैव हि प्रस्तरः, यागश् च निर्वर्त्यत इति न दोषः. प्रतिपाद्यमानो ऽपि हि त्यज्यते. प्रत्यक्षतः प्रतिपाद्यते, वचनाद् इज्यां साधयतीत्य् एवं गम्यते. तस्मात् सूक्तवाकः प्रहरतिमन्त्र इति.
SK
NOTES: *{३/१५८: E२,४ स्पल्तेन् MS ३.२.१४ इन् zwएइ Sऊत्रस्, ददुर्छ् wएइछ्त् नुन् औछ् इह्रे Zäह्लुन्ग् अब्: प्रतिपत्तिर् इति चेत् // MS_३,२.१४ //
SK
अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिर् इत्य् उच्यते. स्विष्टकृद्वद् उभयसंस्कारः स्यात् // MS_३,२.१५ // तत्र प्रतिवचनं..}* *{३/१५९: E२: ४,१४६; E४: ४,४९; E६: १,१७४}*
SK
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् // MS_३,२.१५ //{*३/१६०*} दर्शपूर्णमासयोः सूक्तवाकेन प्रस्तरं प्रहरतीति श्रूयते. तत्र संदेहः - किं पौर्णमास्यां कृत्स्नः सूक्तवाकः प्रयोक्तव्यः, कृत्स्नो ऽमावास्यायाम्, उत यथासामर्थ्यं निष्कृष्य यथायथं प्रयोग इति. तद् उच्यते - उभयत्र सर्ववचनम् इति. कुतह्? कृत्स्नो हि मन्त्रः सूक्तवाक इत्य् उच्यते, स पदेनापि विना, सूक्तवाको न स्यात्, तत्र सूक्तवाकेन न प्रहृतं भवेत्. तस्माद् उभयत्र कृत्स्नः सूक्तवाको वदितव्यः.
SK
NOTES: *{३/१६०: E२,४: MS ३.२.१६}*
SK
यथार्थं वा शेषभूतसंस्कारात् // MS_३,२.१६ //
SK
ये पौर्णमासीदेवतातावाचिनः शब्दाः, ते पौर्णमास्यां प्रयोक्तव्याः, नामावास्यायाम्. ये ऽमावास्यादेवतावाचिनः, ते ऽमावास्यायाम्, न पौर्णमास्यां. शेषभूतम् अर्थं संस्कुर्वन्तो मन्त्रा उपकुर्वन्ति, नान्यथेत्य् उक्तम्. तस्माद् ये यत्रोपकुर्वन्ति, ते तत्र प्रयोक्तव्या इति न कृत्स्नः पौर्णमास्याम्, न कृत्स्नश् चामावास्यायाम् इति.
SK
वचनाद् इति चेत् // MS_३,२.१७ //
SK
अथ यद् उक्तम् - वचनम् इदं भविष्यति, सूक्तवाकेन प्रहरति [२५५]{*३/१६१*} इति. तत्र पदेनाप्य् ऊनेन न सूक्तवाकेन प्रहृतं भवेत्, कृत्स्नस्य हि सूक्तवाकस्योपदेश इति.
SK
तद् उच्यते - NOTES: *{३/१६१: E२: ४,१४८; E४: ४,५४; E६: १,१७५}*
SK
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः // MS_३,२.१८ //
SK
उभे पौर्णमास्यमावास्ये प्रति एष कृत्स्नशब्दः, उभयोः प्रकरणात्, उभयोर् असौ कृत्स्न उच्यते, अवयवे ऽवयव इति. नैतद् एवम्, न हि सापेक्षाणाम् इतिकर्तव्यतया संबन्धः. न हीतिकर्तव्यतैतद् विशिष्टा श्रूयते, इतिकर्तव्यताविशिष्टास् त्व् एते गम्यते. कुतः? न हीतिकर्तव्यतां प्रति कर्मणि विधीयण्ते, फलं प्रति तेषां विधिः, इतिकर्तव्यता तु कर्मणां विधीयते, तत्र संनिधानाविशेषात्, कस्य किं विधीयते, कस्य नेति न गम्यते विशेषः. साधनत्वेन च सर्वेषां निर्देशाद् इतिकर्तव्यतायाः संनिधानाच् च, वचनाच् चास्य{*३/१६२*}, प्रकरणलिङ्गस्याविशेषात्, एकैकस्य कृत्स्नं प्रकरणं निराकाङ्क्षस्य, न सहायम् अपेक्षमाणस्य. तस्माद् एकैकं प्रति कृत्स्नः सूक्तवाक उपदिश्यते. स विभागे ऽपि प्रधानानाम्, कृत्स्न एव प्रयोक्तव्य इति यानि यत्रानर्थकानि पदानि, तान्य् अपि तत्र प्रयोक्तव्यान्य् अदृष्टाय भविष्यन्ति, सूक्तवाकेन प्रहरतीति वचनात्, नास्ति वचनस्यातिभारः, गुणेन वा केनचिद् अभिधानं तासां देवतानां निर्वर्तयिष्यन्तीति. अत्रोच्यते, नैतद् एवम्. उक्तम् - मुख्यम् एव कार्यं मन्त्राणाम्, न गौणम् इति{*३/१६३*}, संस्कारार्थत्वाद् वोत्कर्षो{*३/१६४*} न्याय्यः, न गौणम् अभिधानम् इति. कस् तर्हि कृत्स्नसंयोगस्य समाधिर् उच्यत इति. एष समाधिः, न ह्य् एतद् एकं वाक्यम्, यः [२५६]{*३/१६५*} कृत्स्नः सूक्तवाकः, बहून्य् एतानि वाक्यानि, येषां प्रधानदेवताभिधायीनि पदानि मध्ये, साधारणानि तन्त्रपदानि पुरस्ताद् उच्चार्यन्ते, तथा परस्तात्. यथा - अग्निर् इदं हविर् अजुषतावी वृधत महोज्यायोकृताग्नीषोमाविदं हविर् अजुषेताम् अवी वृधेताम् इत्येवमादीनि{*३/१६६*}. तेषां पुरस्तात् तन्त्रम् - यथा, इदं द्यावापृथिवीति, परस्ताद् अपि यथा, अस्यामृधेद् इति. तान्य् एतानि सर्वाणि सूक्तवचनेन सूक्तवाकशब्दं लभ्यन्ते. न च तेषां समुदायः किंचिद् अर्थं वदति. तस्मान् न समुदायः सूक्तवाकः, न च साक्षात् साधनम्, सूक्तवाकसामान्यस्यैकत्वात्, सूक्तवाको वर्तत इत्य् एकवचनं भवति. सूक्तवाकेन प्रस्तरं प्रहरतीति तु येन केनचित् सूक्तवाकेन प्रह्रियमाणे यथाश्रुतं कृतं भवति. तस्मात् समुदायः सूक्तवाकः. यत् त्व् अमावास्यादेवतावाचीनि पदानि, न पौर्णमास्यां प्रयुज्यन्ते, न तत्र सूक्तवाकशब्दो बाध्यते, प्रकरणं तत्र लिङ्गेन बाधितम्, तच् च न्याय्यम् एव. तस्मात् पौर्णमास्याम् अमावास्यायां च विभज्य सूक्तवाकः प्रयोक्तव्य इति.
SK
NOTES: *{३/१६२: E२: संनिधानावचनाच् च, अस्य, E४: संनिधानाद् अवचनाच् च, अस्य}* *{३/१६३: Zउ MS ३.२.१}* *{३/१६४: E२,४,६: एवोत्कर्षो}* *{३/१६५: E२: ४,१५२; E४: ४,५५; E६: १,१७५}* *{३/१६६: १. Tएइल्: Tऐत्.Bर्. ३.५.१०.२}*
SK
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समाम्नानम् // MS_३,२.१९ //
SK
इह काम्ययाज्यानुवाक्याकाण्डम् उदाहरणम् - इन्द्राग्नी रोचना दिवः{*३/१६७*}, प्रवर्षणिभ्यः{*३/१६८*}, इन्द्राग्नी नवतिं पुरः{*३/१६९*}, श्लथद् वृत्रम्{*३/१७०*} इत्येवमाद्या ऋचः. अपरा अपि काम्या इष्टयः - ऐन्द्राग्नम् एकादशकपालं निर्वपेत्, यस्य सजाता वियायुः, ऐन्द्राग्नम् एकादशकपालं निर्वपेद् भ्रातृव्यवान्, अग्नये वैश्वानराय द्वादशकपालं [२५७]{*३/१७१*} निर्वपेद् रुक्कामः, अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् सपत्नम् अभिद्रोष्यन्न् इत्येवमाद्याः. तद् एता याज्यानुवाक्याः प्रति संदेहः - किं यावत् किंचिद् ऐन्द्राग्नं कर्म, तत्र सर्वत्रानेनैन्द्राग्नेन याज्यानुवाक्यायुगलेन भवितव्यम्, उतैतस्याम् एवैन्द्राग्न्याम् इष्टौ काम्यायाम् इति. एवं वैश्वानरीययोर् याज्यानुवाक्ययोः, एवं सर्वत्र. किं तावत् प्राप्तम्? यावत् किंचिद् ऐन्द्राग्नं वैश्वावरीयम् अग्नीषोमीयं जातवेदसं च सर्वत्रैता याज्यानुवाक्या भवेयुः. कुतः? लिङ्गात्. ननु क्रमसमाख्याने विशेषके भविष्यतः. सत्यम्, तथापि क्रमं समाख्यां च शक्नोति लिङ्गं बाधितुम् इति. एवं प्राप्ते ब्रूमः - लिङ्गक्रमसमाख्यानात् तास्व् एव काम्यास्व् एता याज्यानुवाक्या इति गम्यते, य एव हि लिङ्गक्रम एषां कर्मणाम्, स एवासां याज्यानुवाक्यानाम्, तेन तासाम् एव ताः शेषभूता इति. ननु लिङ्गं बलवत्तरम् इत्य् उक्तम्. सत्यम् एतत्, इह तु समाख्या बलीयसी, न ह्य् एताः समाख्यानाद् ऋत एषां काम्यानां कर्मणां प्राप्नुवन्ति, न भिन्नदेशानां कर्मणाम्. कुतः? समाख्याम् अन्तरेणासाम् ऋतां याज्यानुवाक्यात्वम् एव न विज्ञायते, कुतो भिन्नदेशानां कर्मणां याज्यानुवाक्या भविष्यन्तीति, या चैषां समाख्या, सा काम्यानाम् एव याज्यानुवाक्यात्वम् आचष्टे न सर्वेषाम्. यदि समाख्या नाद्रियते, याज्यानुवाक्यात्वम् एवैषां न भवति, यद्य् आद्रियते, तदा काम्यानाम् एव. एवं हि तत् समाख्यायते - काम्ययाज्यानुवाक्याकाण्डम् इति. अथ किम् अर्थम् उभयम् उपदिश्यते - लिङ्गक्रमाद् इति, समाख्यानाद् इति च. अस्ति तत्र पाथिकृतीयं व्रातपतीयं च कर्म, सामिधेनीकार्यम् अप्य् अस्ति, याज्यानुवाक्याकार्यम् अपि. यदि लिङ्गक्रमाद् इत्य् एतावद् एवोच्यते, सामिधेनीकार्ये ऽपि लिङ्गेन [२५८]{*३/१७२*} तासां विनियोगः स्यात्. अथ किम् अर्थं लिङ्गक्रमौ व्यपदिश्येते? सर्वा याज्यानुवाक्याकार्य एव विनियुज्येरन्, सामिधेनीषु विनियोगो न स्यात्. अथ पुनः समाख्यानाल् लिङ्गक्रमाच् च निर्वृत्ते याज्यानुवाक्याकार्ये, सामिधेनीषु विनियोगः सिद्धो भवति, यथाग्निवारुण्या इष्टेः क्रमे ऽतीते सौमारौद्रीणाम् अनागते, मनोर् ऋचस् ताः सामिधेनीषु धाय्या इत्य् उच्यन्ते, तथा - पृथुयाजास् तम् संबाध इति द्वे धाय्ये कल्प्येते. तस्माद् उभयं व्यपदेष्टव्यम् इति.
SK
NOTES: *{३/१६७: Mऐत्.S. ४.१०.४}* *{३/१६८: Mऐत्.S. ४.१०.४}* *{३/१६९: Mऐत्.S. ४.१०.५}* *{३/१७०: Mऐत्.S. ४.१०.५; Kआठ.S. ४.१५}* *{३/१७१: E२: ४,१५५; E४: ४,६५; E६: १,१७६}* *{३/१७२: E२: ४,१५६; E४: ४,६५; E६: १,१७७}*
SK
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् // MS_३,२.२० //
SK
ज्योतिष्टोमे श्रूयते - आग्नेय्या अग्नीध्रम्{*३/१७३*} उपतिष्ठते{*३/१७४*}, ऐन्द्र्या सदः, वैष्णव्या हविर् धानम्{*३/१७५*} इति. तत्र संदेहः - किं प्रकृताभिर् एवंलिङ्गवतीभिर् उपस्थातव्यम्, उत दाशतयीभ्य एवंलिङ्गा आगमयितव्या इति. किं तावत् प्राप्तम्. प्रकरणे च मन्त्रो लिङ्गेन विधीयमानो दाशतयीभ्य एवागमयितव्यः, आग्नेयीत्येवमादिभिर् हि शक्या दाशतयो ऽभिवदितुम्. यश् चायं प्रकृतः, स कार्यान्तरे विनियुक्तः, नेहाप्य् उपदेशम् अर्हति. उपदिष्टोपदेशो हि न न्याय्य एवंजातीयकस्य. कथं जातीयकस्य? यः कस्मिंश्चिद् विशेषेणोपदिष्टः, नासौ सामान्येन लिङ्गेनान्यात्रोपदेशम् अर्हति. कथम्? यदि तल् लिङ्गं तस्य लक्षणत्वेन, ततः स विशिष्टो लक्ष्येत [२५९]{*३/१७६*} येनानेनैवंलिङ्गेनैतत् करोतीति, ततो नोपदिष्टो भवति. अथोपदिश्यते - एवंलिङ्गेन करोतीति, ततो न लक्ष्यते, तेनोपदिष्टस्यैवंजातीयकस्यैवंजातीयकः पुनर् उपदेशो न न्याय्यः. तस्माद् दाशतया लिङ्गवन्तो मन्त्रा ग्रहीतव्याः. ननु प्रकरणसामर्थ्यतः प्रकृता ग्रहीतुं न्याय्याः. नेत्य् उच्यते, लिङ्गं हि प्रकरणाद् बलीयः. आह, विरोधे सति लिङ्गेन प्रकरणं बाध्येत, न चैतयोर् विरोधः, न वयं प्रकरणम् अनुजिघृक्षन्तः प्रकृतं लिङ्गवन्तम् उपाददाना लिङ्गम् उपबाधेमहि{*३/१७७*}. यदि तु प्रकृतं विलिङ्गम् उपददेमहि{*३/१७८*}, ततो बाधेमहि लिङ्गम्. उभयं संपादयिष्यामः प्रकरणं लिङ्गं च. नैतद् एवम्, लिङ्गेन प्रत्ययो भवति, दाशतयेनापि कर्तव्यम् इति, दाशतयो ऽपि ह्य् आग्नेयीशब्देन शक्यन्ते वदितुम्, स प्रत्ययो लिङ्गजनितो यन् मिथ्येति कल्प्यते, तत् प्रकरणानुरोधात्. स चेत् प्रकरणम् अनुरुध्यते, मिथ्येति कल्प्यते, अथ नानुरुध्यते सम्यग् इति, तस्माद् विरोधः. विरोधे च प्रकरणदौर्बल्यम्. उच्यते - तल् लिङ्गवत्तानेनोपस्थानेनानुग्रहीतव्या, न दाशतयी मन्त्रव्याक्तिः, सा च प्रकृते मन्त्र उपादीयमाने निरवशेषा उपात्ता भवति, दाशतयां पुनर् मन्त्रव्यक्ताव् उपादीयमानायां प्रकरणाद् या मन्त्रव्यक्तिः प्राप्नोति, सा बाधिता भवति, असति विरोधे. न च, इह लिङ्गप्रकरणयोर् विरोधः, प्रकरणाद् व्याक्तिः प्रतीयते, लिङ्गात् सामान्यम्, अन्या च व्यक्तिः, अन्यत् सामान्यम्. तस्मात् प्रकृतो लिङ्गवान् उपादेय इति. उच्यते, सत्यम् एवम् एतत् प्रकृत उपादीयमाने प्रकरणं न बाधितं भवति, लिङ्गम् अप्य् अनुगृहीतम्, लिङ्गजनितस् तु प्रत्ययः कश्चिन् मिथ्येति कल्पितो भवति. ननु व्यक्तिर् अपदार्थः, कथं{*३/१७९*} व्यक्ताव् अनुपादीयमानायां प्रत्ययो बाध्येत? उच्यते - एतद् एव न [२६०]{*३/१८०*} विजानीमो लिङ्गवत्तात्राङ्गं न वेति. किं तु तद् धितर्निर्देशो ऽयम्, तत्र देवताया मन्त्रो लक्ष्यते, मन्त्रव्यक्तिर् हि साधनम्, न सामान्यं नाम किंचिद् अपरम्, देवतैवात्र सामान्यम्, ययासाधनं{*३/१८१*} लक्षयितव्यम्. न च गम्यते विशेषः - अयम् असौ मन्त्रो नायम् असाव् इति, अनवगम्यमाने विशेषे सर्वे तल्लिङ्गा ग्रहीतव्या इति, दाशतयाम् अपि मन्त्रव्यक्तौ भवति प्रत्ययः, स प्रकरणानुरोधेन बाध्येतेत्य् अन्याय्यम्. एवं सति न दाशतय एवोपादातव्या भवन्ति, प्रकृतम् अप्य् उपाददीरन्. नन्व् एतद् उक्तम्, कार्यान्तरे प्रकृतस्योपदेशो नासाव् अर्थान्तर उपदेक्ष्यत इति. उच्यते, न नियोगतः स एवार्थान्तरे वर्तते, स चान्यश् च सामान्येन लिङ्गेन. नैवं सति किंचिद् दुष्यति. नन्व् एतद् दुष्यति - नोभयम् अनुगृहीतं भवति लिङ्गं प्रकरणं च. सत्यम्, नानुगृहीतं भवति, किं त्व् अननुग्राह्यम् एव प्रकरणं लिङ्गप्रत्ययविरुद्धत्वात्. अपि च न लिङ्गं प्रकरणं चानुग्रहीतव्यम् इति, तत्परिच्छिन्ने प्रवृत्तिर् भवति, यद् अवगम्यते - एतत् फलवद् इति. तत्र प्रवर्तते. किम् अतो यद्य् एवम्? एतद् अतो भवति, न लिङ्गम् अनुगृहीतं क्वचिद् इत्य् अपरस्मिंस् तत्परिच्छिन्ने न प्रवृत्तिर् भवितुम् अर्हति. तस्माद् दाशतयो ग्रहीतव्या इति गम्यते.
SK
NOTES: *{३/१७३: E२,४,६: आग्नीध्रम्}* *{३/१७४: Vग्ल्. Tऐत्.S. ३.१.६.१}* *{३/१७५: Tऐत्.S. ३.१.६.१}* *{३/१७६: E२: ४,१६०; E४: ४,७१; E६: १,१७७}* *{३/१७७: E२,४: अपबाधेमहि}* *{३/१७८: E२,४: उपाददीमहि; E६, E४ (व्.ल्.): उपाददेमहि}* *{३/१७९: E२,४ ओम्. कथं}* *{३/१८०: E२: ४,१६२; E४: ४,७१; E६: १,१७८}* *{३/१८१: E२,४: यथा साधनं}*
SK
तदाख्यो वा प्रकरणोपपत्तिभ्यां // MS_३,२.२१ //
SK
तदाख्यो ज्योतिष्टोमसमाख्यातः{*३/१८२*} एव ग्रहीतव्यः. कुतः? प्रकरणोपपत्तिभ्याम्, प्रकृतो ह्य् असौ, प्रकृतप्रत्ययश् च न्याय्यः. कथम्? न ज्योतिष्टोमं प्रति मन्त्रस्य व्यापारविधानम् उपपद्यते, प्राप्तत्वाद् एव. व्यापारविशेषविधानं तूपपद्यते, अप्राप्तत्वाद् व्यापारविशेषस्य, अनपेक्ष्य च प्रकरणं दाशतये विधीयमाने वाक्यं भिद्येत. उपस्थानं च कुर्यात्. तच् चैवं लिङ्गेनेति.
SK
[२६१]{*३/१८३*}
SK
NOTES: *{३/१८२: E१ गिब्त् ज्योतिष्टोमसमाख्यातः इन् Kलम्मेर्न्}* *{३/१८३: E२: ४,१६७; E४: ४,८७; E६: १,१७९}*
SK
अनर्थकश् चोपदेशः स्याद् असंबन्धात् फलवता, न ह्य् उपस्थानं फलवत् // MS_३,२.२२ //
SK
ननु च प्रकरणाज् ज्योतिष्टोमस्योपकारकं स्यात्. यद्य् उपस्थानज्योतिष्ट्मसंबन्धो विवक्ष्येत, तदोपस्थानं ज्योतिष्टोमे उपदिश्येत, प्रकरणात् तेनैकवाक्यताम् इयात्. यदा तु खलूपस्थानस्य मन्त्रसंबन्धो विवक्ष्यते सर्वोपस्थानेषु,तदा मन्त्रः प्राप्नोति, प्रकरणं बाधित्वा. न प्रकरणं विशेषकं भवितुम् अर्हति, उभयसंबन्धे वाक्यभेदः. अस्मत्पक्षे न पुनर् अयं दोषः, येनाग्नेयेनैन्द्रेण वा ज्योतिष्टोमे व्यापारः क्रियते, तेन उपस्थानव्यापारविशेषः तदा ज्योतिष्टोमिको विधीयते, अन्यत् सर्वम् अनूद्यत इति न दोषो भवति. अथवा, अग्नीध्रहविर्{*३/१८४*} धानसदः संबन्धमात्रं विधीयते, उपतिष्ठत इत्य् अयम् अनुवादः, अनेन मन्त्रेणाग्नीध्रम्{*३/१८५*} उपतिष्ठत इति समासीदतीत्य् अर्थः. तस्मात् प्रकृता मन्त्रा एवंजातीयका उपादातव्या इति.
SK
NOTES: *{३/१८४: E२,४,६: आग्नीध्रहविर्}* *{३/१८५: E१: अग्निध्रम्}*
SK
सर्वेषां चोपदिष्टत्वात् // MS_३,२.२३ //
SK
यद् अप्य् उक्तम् उपदिष्टा हि ते प्रकृताः कार्यन्तर इति. तद् उच्यते, उक्तोत्तरम् एतत्. अपि च न केनचिन् नोपदिष्टाः{*३/१८६*}, सर्वे वाचास्तोम आश्विने शस्यमाने सूर्ये ऽनुद्यति, तेन न प्रकृते कश्चिद् विषेशः. तस्मात् प्रकृतस्यैव ग्रहणम्.
SK
[२६२]{*३/१८७*}
SK
NOTES: *{३/१८६: E२: अपि च केवलम् एत एवोपदिष्टाः, E४: अपि च न केवलम् एत एवोपदिष्टाः}* *{३/१८७: E२: ४,१६९; E४: ४,९१; E६: १,१८०}*
SK
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य // MS_३,२.२४ //
SK
भक्षमन्त्रः श्रूयते - भक्षे हि मा विश दीर्घायुत्वाय शंतनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वाय. एहि वसो पुरोवसो प्रियो मे हृदो ऽस्य् अश्विनोस् त्वा बाहुभ्यां सध्यासम्. नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम्. हिन्व मे गात्रा हरिवो गणान् मे मा वितीतृषः, शिवो मे सप्तर्षीन् उपतिष्ठस्व मा मे ऽवाङ् नाभिमतिगाः मन्द्राभिभूतिः केतुर् यज्ञानं वाग् जुषाणा सोमस्य तृप्यतु, वसुमद् गणस्य रुद्रमद् गणस्यादित्यवद् गणस्य सोमदेवते मतिविदः प्रातःसवनस्य माध्यंदिनस्य सवनस्य तृतीयसवनस्य गायत्रच्छन्दसस् त्रिष्टुप्छन्दसो जगच्छन्दसो ऽग्निहुत{*३/१८८*} इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येवमादिः{*३/१८९*}. तत्र संदेहः - किं कृत्स्न एषो ऽनुवाको भक्षणे विनियोजनीयः, उत कश्चिद् अस्यावयवो ऽन्यत्रापीति. किं प्राप्तम्? लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य, सर्वो ऽनुवाको भक्षणे विनियोजनीयः. कुतः? भक्षयामीत्य् एष शब्दो व्यक्तं भक्षणे विनियोजनीयः, भक्षणम् एष शक्नोति वदितुम्, नान्यत् किंचित्. अन्यानि चास्य पदानि भक्षणविशेषणवचनान्य् एव, यत्र यत्र भक्षयामीति, तत्र तत्र प्रयुज्यन्ते. ननु एहि वसो इत्येवमादि सध्यासम् इत्य् एवम् अन्तं ग्रहणार्थम्, स्वेन पदसमूहेन परस्पराकाङ्क्षिणैकार्थम्, विभिन्नं भक्षणवाक्यात्. नृचक्षसम् इत्येवमाद्य् अवख्येषम् इत्य् एवम् अन्तम् अवेक्षणवचनम्. हिन्व मे गात्रा हरिव इत्येवमादि च [२६३]{*३/१९०*} मा मे वाङ् नाभिमतिगा इत्य् एवम् अन्तं सम्यग् जरणार्थम्. तद् बहुत्वाद् अर्थानाम्, बहूनि वाक्यानि. कथम् एतच् छक्यं वदितुं सर्वम् इदम् एकं वाक्यं भक्षणे विनियुज्यत इति. उच्यते - सर्वाण्य् एतानि भक्षणविशेषविशेषणानीत्य् उक्तम्. आह, एवम् अपि भिद्येत वाक्यं विशेषणविशेष्याणां युगपद् वचनासंभवात्. उच्यते - न विशेषणानि विवक्षिष्यामः, विशेषणैर् ग्रहणावेक्षणादिभिर् विशिष्ट एको ऽर्थो विवक्ष्यते. नैवं सम्यग् भवति, विशेषणवचनानाम् अविवक्षितस्वार्थवचनता, भक्षणविशेषणपरता चेति, लक्षणया तु गम्यते. श्रुतिलक्षणाविषये च श्रुतिर् न्याय्या, न लक्षणा, तस्मान् नैकं वाक्यम् इति. अत्रोच्यते - यद्य् अप्य् अमी ग्रहणादयो बहवो ऽर्था गम्यन्ते, न तु सर्व ईप्सिता इति, भक्षणम् एवैकं प्रत्याययितव्यम्. तद् धि श्रुतम्, विशेषणान्य् अश्रुतानि, न तैः प्रतीतैः प्रयोजनम्, प्रयोजनं च यावतः पदसमूहस्यैकम्, तावद् एकं वाक्यम्. तस्माद् विशिष्टभक्षणार्थम् एतद् एकं वाक्यम् इति भक्षणे विनियोक्तव्यम्. समाख्यानं च भवति - भक्षानुवाक इति, कृत्स्नश् चानुवाको नावयवः. ननु च समाख्या लौकिकः शब्दः कथं वैदिकम् अङ्गं नियंस्यतीति. यद्य् अपि लौकिकः, तथाप्य् अनादिः तस्यानुवाकेन संबन्धः. किम् अतो यद्य् एवम्? एतद् अतो भवति, भक्षणसमभिव्याहृतम् अनुवाकं ब्रूते, समभिव्याहारश् च सति संबन्धे भवति, यथा पाचको लावक इति समभिव्याहारात् संबन्धम् अनुमास्यामहे. आह नानुमानगम्य एवंजातीयकेष्व् अङ्गभावः, विधानाद् एवावगम्यते, नान्यथा, न च समाख्या विधात्री. अत्रोच्यते - समाख्या संबन्धिनौ बुद्धौ संनिधिम् उपनेष्यति, प्रयोगवचनो विधास्यतीति. तस्मात् कृत्स्नो ऽनुवाको भक्षणे विनियोक्तव्य इति.
SK
[२६४]{*३/१९१*}
SK
NOTES: *{३/१८८: E२,४,६: ऽग्निष्टुत}* *{३/१८९: Tऐत्.S. ३.२.५.१-३}* *{३/१९०: E२: ४,१७०; E४: ४,९२; E६: १,१८०}* *{३/१९१: E२: ४,१७२; E४: ४,९८; E६: १,१८१}*
SK
तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वात् // MS_३,२.२५ //
SK
नैतद् एवं कृत्स्नो ऽनुवाको भक्षणे विनियुज्यत इति. रूपाद् ग्रहणवाक्यं ग्रहणे विनियुज्येत, एहीत्येवमादि सध्यासम् इत्य् एवम् अन्तम्. नृचक्षसम् इत्येवमादि चावख्येषम् इत्य् एवम् अन्तं दर्शने. कुतः? मुख्यार्थम् एवं तद् वाक्यं भवति, इतरथा लक्षणार्थता स्यात्, मुख्यार्थता च न्याय्या न लक्ष्यार्थता. उच्यते - विशेषणानाम् अभिधाने, न किंचिद् अस्ति प्रयोजनम् इत्य् उक्तम्. अत्रोच्यते - नैवैतानि विशेषणानि, पृथग् एवैतानि ग्रहणादीनि स्वैः स्वैर् वाक्यैर् उच्यन्त इति. कुतः? अस्ति हि तैः प्रयोजनम्, चोदितानि हि तानि, कानिचित् तु पृथग्वाक्यैः, कानिचिद् अर्थप्राप्तानि, तान्य् अवश्यं प्रकाशयितव्यानि. तानि प्रकाशयिष्यन्त्य् एतानि वाक्यानि. रूपं चैषां तत्प्रकाशनसामर्थ्यम्, अतो नानार्थत्वान् नैकं वाक्यम् उच्यते. ननु भक्षणवाक्यशेषी भवितुम् अप्य् एषां रूपम् इति. उच्यते - बाढम् अस्ति रूपम्, न तु तद्विशेषणान्य् एतानि कल्प्यन्ते. कस्य हेतोर् अदृष्टार्थानि तथा भवन्ति? उक्तैर् अनुक्तैर् वा विशेषणैस् तावान् एव सो ऽर्थः, इतरथा ग्रहणादीनि प्रकाशयिष्यन्ति, तथा दृष्टार्थानि भविष्यन्ति. तस्माद् रूपोपदेशाभ्याम् अपक्र्षो भवेत् केषांचिद् अत्रेति.
SK
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् // MS_३,२.२६ //
SK
भक्षानुवाके श्रूयते - मन्द्राभिभूतिः केतुर् यज्ञानां वाग्जु[२६५]{*३/१९२*}षाणा सोमस्य तृप्यतु. वसु-मद् गुणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दसो ऽग्निहुत{*३/१९३*} इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति{*३/१९४*}. तत्र संदेहः - किं मन्द्रादिः तृप्यत्व् इत्य् एवम् अन्त एको मन्त्रः, वसुमद् गणादिर् अपरः, उत मन्द्रादिर् भक्षयाम्य् अन्त एक एव मन्त्र इति. किं तावत् प्राप्तम्? द्वौ मन्त्रौ, द्वौ ह्य् एताव् अर्थौ, अन्या तृप्तिर् अन्यद् भक्षणम्, ततो ऽर्थभेदाद् वाक्यभेदः. तद् उक्तम् - तस्य रूपोपदेशाभ्याम् अपकर्षो ऽर्थस्य चोदितत्वाद् इति. एवं प्राप्ते ब्रूमः - गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्याद् इति, तृप्तिर् भक्षणाविशेषणत्वेनाभिधीयत इति{*३/१९५*}. भक्षयामि वाक् तर्प्स्यतीति. ननु तृप्यत्व् इत्य् एषो ऽन्यः शब्दः, अन्यश् च तर्प्स्यतीति, एषा भविष्यन्ती क्रियायाम् उपपदभूतायां भवतीति, तत्र द्वयोः क्रिययोर् अस्ति संबन्धो भक्षयामि वाक् तर्प्स्यतीति. इह पुनर् भक्षयामि तृप्यत्व् इति नास्ति कश्चित् संबन्धः. उच्यते - न ह्य् अयं विधौ तृप्यत्व् इति विज्ञायते. क्व तर्हि? प्रार्थनायां वा प्राप्तकाले वा. यदि भक्षयामि वाक् तर्प्स्यतीत्य् एवम् अभिसंबन्धः क्रियते. यदि वा भक्षयांइ वाचस् तर्प्तुं प्राप्तः काल इति, तेन विशेषणविशेष्यभावाद् एकार्थतायाम् एकवाक्यत्वे मन्त्रैक्यम् उपपद्यते. ननु निराकाङ्क्ष एते वाक्ये भङ्क्त्वा रूपं साकाङ्क्षे क्रियेते. अत्रोच्यते -यद्य् अप्य् एते वाक्ये भिन्नार्थे निराकाङ्क्षे द्वाव् अर्थाव् अभिवदेयाताम्, तथापि भक्षणस्य प्रकाशनं दृष्टं प्रयोजनं न तर्पणस्य, इति कृत्वैकार्थ्यम् एव भवेत्. किम् अङ्ग पुनर् गुणभावे गम्यमान एवात्र. तस्माद् गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्याद् इति.
SK
[२६६]{*३/१९६*}
SK
NOTES: *{३/१९२: E२: ४,१७४; E४: ४,१०२; E६: १,१८२}* *{३/१९३: E२,४,६: ऽग्निष्टुत}* *{३/१९४: Tऐत्.S. ३.२.५.१-२}* *{३/१९५: E२,४,६ ओम्. इति}* *{३/१९६: E२: ४,१७५; E४: ४,१०४; E६: १,१८३}*
SK
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् // MS_३,२.२७ //
SK
एष एव मन्त्र उदाहरणम् - इह च प्रदानान्य् ऐन्द्राण्य् अनैन्द्राणि च विद्यन्ते, तेषां भक्षणान्य् अपि सन्ति. तत्र संदेहः - किम् ऐन्द्रेष्व् अनैन्द्रेषु च मन्त्रः, उतैन्द्रेष्व् एव मन्त्रः, अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति. किं तावत् प्राप्तम्? अनैण्द्राणाम् अमन्त्रकं भक्षणम् इति. कुतः? समानविधानान्य् एतानि प्रदानानि, तेष्व् इन्द्रपीतस्येति मन्त्रो ऽनिन्द्रपीतं न शक्नोति वदितुम्, न च समानप्रकरण ऊहः संभवति, असति वचने ऽन्यार्थानभिधानात्. तस्माद् अमन्त्रकं भक्षणम् एवंजातीयकेष्व् इति.
SK
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति // MS_३,२.२८ //
SK
अथवा यथादेवतम् ऊहेन लक्षयितव्यम् कस्मात्? ध्रुवचमसा हि प्रकृतिभूताः. के पुनर् ध्रुवचमसाः? ये शुक्रामन्थिप्रचारे सवनमुखीयाः, ऐन्द्रास् ते भवन्ति, तेषां प्रकृतिभूतं प्रदानम्, विकृतिभूतान्य् अन्यानि. कथम् अवगम्यते? तत्प्रकृतित्वं हि दर्शयति. कथम्? अनुष्टुप्छन्दस इति षोडशिन्य् अतिरात्रे भक्षमन्त्रं नमतीति. किम् अत्र दर्शनम्? नमतीति विपरिणामं दर्शयति. ननु वचनम् एतत् स्यात्. नेत्य् उच्यते, नैतन् नमतीति श्रूयते. कथं तर्हि एवं नमतीति, अनुष्टुप्छन्दस इति भक्षमन्त्रं नमतीति, स एष ऊहो विकारेषूपपद्यते, [२६७]{*३/१९७*} तस्माद् एते विकाराः, अतो ऽनैन्द्रेष्व् अपि चोदकप्राप्तो मन्त्र ऊहितव्यो भवति. उच्यते - विकारा एत इति लिङ्गम् अपदिष्टम्, न्यायो ऽभिधीयताम् इति. उच्यते - ऐन्द्रः सोमो गृह्यते मीयते च, तेनैन्द्रेषु सोमो ऽनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्व् एव, अधर्मका इतरे साकाङ्क्षाः. कथं पुनर् ज्ञायते - ऐन्द्रः सोमो गृह्यते मीयते चेति? मन्त्रवर्णात्, इन्द्राय त्वा वसुमत इत्येवमादिर् मन्त्र ऐन्द्रं सोमं वदितुं शक्नोति नान्यम्. तस्माद् ऐन्द्रः सोमः, तेनैन्द्रेषु सोमधर्माः, अन्यानि तु प्रदानानि साकाङ्क्षाणि, अतो धर्मान् ग्रहीष्यन्तीति न्यायः. तस्माद् यथादेवतम् ऊहितव्यो मन्त्र इति. एवं स्थितं तावद् अपर्यवसितम्, तत एवं सति चिन्तान्तरं वर्तिष्यते.
SK
NOTES: *{३/१९७: E२: ४,१७६; E४: ४,१०६; E६: १,१८३}*
SK
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् // MS_३,२.२९ //
SK
सन्ति पुनरभ्युन्नीताः सोमाः शुक्रामन्थिप्रचार एव सवनमुखीयाः, तेषां होतुर् वषत्कारे ऽनुवषत्कारे च चतुर्भिर् मध्यतःकारिणां चमसैर् हुत्वा होत्रकाणां चमसैः सकृत् सकृद् वषट्कार एव हुत्वा पुनः सशेषेष्व् एव पात्रेषु सोमो ऽभ्युन्नीतः, एवं हि तत्राध्वर्युः संप्रेष्यति, मध्यतःकारिणां चमसाध्वर्यवो वषट्कृते ऽनुवषट्कृते जहुत, होत्रकाणां चमसाध्वर्यवः सकृद् धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वम् इति. तत्र होत्रका नानादेवता यजन्ति, मैत्रावरुणो मित्रावरुणौ, मित्रं वयं हवामह इति{*३/१९८*}, [२६८]{*३/१९९*} ब्राह्मणाच् छंसी इन्द्रम्, इन्द्र त्वा वृषभं वयम् इति{*३/२००*}, पोता मरुतः, मरुतो यस्य हि क्षय इति{*३/२०१*}. नेष्टा त्वष्टारं पत्नीश् च, अग्ने पत्नीर् इहावहेति{*३/२०२*}, आग्नीध्रो ऽग्निम् उक्षान्नाय वशान्नायेति{*३/२०३*}. तत्र तैश् चमसैः पूर्वस्मिन् वषट्कार इन्द्र इष्टः, पुनर् अभ्युन्नीय मित्रावरुणाद्या देवता इष्टाः, शेषस् तत्रेन्द्रस्य मित्रावरुणादीनां च. तत्र संदेहः - किं प्रस्थितदेवतायाश् चेन्द्रस्य मित्रावरुणादीनां चोपलक्षणम्, उतेन्द्रो नोपलक्षयितव्य इति. किं तावत् प्राप्तम्? पुनर् अभ्युन्नीतेषु सर्वेषाम् उपलक्षणम्. कस्मात्? द्विशेषत्वात्, चमसे चमसे तत्र द्वयोः शेषः, प्रकृतौ यस्यै हुतम्, तच् छेषस् तत्पीत इत्य् उक्तम्. इहापि तद्वद् एव वदितव्यम्. तस्माच् चमसे चमसे द्वयोर् उपलक्षणम्.
SK
NOTES: *{३/१९८: ṚV १.२३.४अ}* *{३/१९९: E२: ४,१७८; E४: ४,११०; E६: १,१८४}* *{३/२००: ṚV ३.४०.१अ}* *{३/२०१: ṚV १.८६.१अ}* *{३/२०२: ṚV १.२२.९अ}* *{३/२०३: ṚV ८.४३.११अ}*
SK
अपनयाद् वा पूर्वस्यानुपलक्षणम् // MS_३,२.३० //
SK
अपनीतं प्रस्थितदेवतायाः शेषं मन्यामहे. कुतः? मित्रावरुणादिभ्यस् तत्पात्रस्थम् अभ्याश्राव्यते. कथम् एतत्? उच्यते - मित्रावरुणादयो हीज्यन्ते, तद् यथाचार्यशेषं देवदत्तो भुञ्जानो यदि शेषं पूर्णकाय प्रयच्छति, पूर्णको देवदत्तम् उपलक्षयति, देवदत्तशेषं भुञ्ज इति, नाचार्यशेषम्. तस्मान् न प्रस्थितदेवता इन्द्र उपलक्षयितव्य इति.
SK
ग्रहणाद्{*३/२०४*} वापनयः{*३/२०५*} स्यात् // MS_३,२.३१ //
SK
न चैतद् अस्ति, इन्द्रो नोपलक्षणीय इति, तस्यापि ह्य् असौ शेषः प्रत्यक्षम् अवगम्यते. नन्व् अपनीत इति. उच्यते - नासाव् अपनीयते. सकृद् धुतांश् चमसानभिद्रोणकलशाद् गृह्णाति, सशेषश् चमसो लक्षणम् अन्यस्योन्नीयमानस्य. ततश्{*३/२०६*} चमसस्थो होतुम् उन्नेतव्यः प्रेषितो वा. यत् तु यक्ष्यमाणा देवताः प्रत्य् आश्रा[२६९]{*३/२०७*}वित इति. उच्यते - आश्राव्यते तत्र देवताभ्यो न त्व् इदं वा तद् वेति. तेन{*३/२०८*} यद् धोतुं गृहीतं तद् आश्रावितम् इति गम्यते. न च, आश्रावणवेलायां देवताभिसंबन्धः, यद् यद् देवताभिसंबद्धम्, तद् आश्राव्यते, तस्माद् अस्तीन्द्रशेषः, लक्ष्यते{*३/२०९*} च. अतः सर्वेषाम् उपलक्षणम् इति. कृत्वाचिन्तैषा, नात्र प्रयोजनं वक्तव्यम्, पूर्वाधिकरणस्यैवैतत् प्रयोजनम् अवधार्यते.
SK
NOTES: *{३/२०४: E२,४: अग्रहणाद्}* *{३/२०५: E२,४: वानपायः}* *{३/२०६: E२,४: न च}* *{३/२०७: E२: ४,१८०; E४: ४,११३; E६: १,१८५}* *{३/२०८: E२,४: तत}* *{३/२०९: E२,४: भक्ष्यते}*
SK
पात्नीवते तु पूर्ववत् // MS_३,२.३२ //
SK
अस्ति पात्नीवतो ग्रहः, यद् उपांशुपात्रेणाग्रयणात् पात्नीवतं गृह्णातीति, द्विदेवत्यानां शेषा आग्रयणस्थाल्यां उपनीताः, ततः पात्नीवतो गृह्यते. अथ हुते पात्नीवते, तच् छेषे भक्ष्यमाणे भवति संदेहः - किम् इन्द्रवाय्वादय उपलक्षयितव्या न वेति. किं तावत् प्राप्तम्? उपलक्षयितव्याः. तेषाम् अपि ह्य् असौ शेषो यथा प्रस्थितदेवताया इति.
SK
ग्रहणाद् वापनीतं स्यात् // MS_३,२.३३ //
SK
अपनीयते हि स शेष इह, न यथापूर्ववत्, तत्र हि पात्रलक्षणत्वेन संकीर्त्यते न सोमो ग्राह्यत्वेन, इह तु आग्रयणाद् गृह्णातीति, स्थालीस्थः सोमो निर्दिश्यते होतुम्, यक्ष्यमाणदेवतां प्रति. ननु स्थाल्याम् आग्रयणो नाग्रयणश्{*३/२१०*} च, तत्र यस् तस्माद् आग्रयणाद् गृह्यते, स पात्नीवतः, यस् तु संपातान्न् आसौ पात्नीवत इति. उच्यते - आग्रयणो ऽपादानम्, तस्माद् यो ऽपैत्य् आग्रयणो ऽनाग्रयणो{*३/२११*} वा, स सर्वः पात्नीवतः, आग्रयणाच् चैष सर्वो ऽपेतः. [२७०]{*३/२१२*} नन्व् अनाग्रयणाद् अप्य् अपेतः. नैष दोषः, आग्रयणात् तावद् अपेतः, तेनासौ पूर्वदेवताभिः पीत इति न शक्यते वक्तुम्. यो हीन्द्रार्थस्य सोमस्यावयवः शेषः स इन्द्रपीत इति प्रकृताव् उच्यते. इहापि तद्वद् एव पूर्वदेवतार्थस्यावयवो वदितव्यः. ननु यो ऽसौ पूर्वदेवतार्थः, तस्यैवायम् अवयवः. नेति ब्रूमः, न हि हुतस्यावयवो दृश्यते. ननु प्रकृताव् अपि हुतस्यावयवो न दृश्यते. उच्यते - हुताहुतस्य समुदायस्य तत्रावयव उपलक्ष्यते तद्देवतस्य. नन्व् इहापि समुदाय एवासीत् तद्देवत्यः, तस्यैवायम् अवयवः. नेत्य् उच्यते, आसीद् अयं समुदायस् तद्देवत्यः, इदानीं तस्यावयवो ऽन्यदेवत्यो जातः, तेन समुदायस् तद्देवत्यत्वाद् अपेतः. आह पूर्वदेवतापीतस्यासाव् अवयव आसीत् तेन भूतपूर्वगत्या भविष्यति. उच्यते - प्रकृतौ न भूतपूर्वगत्याभिधानं कृतम्, इहापि तद्वद् एव न कर्तव्यम् इति. अपि चेन्द्रदेवत्यस् तत्रेन्द्रपीत इत्य् उक्तम्, अनपनीता च तस्येन्द्रदेवत्यता, अस्य पुनः पूर्वदेवतासंबन्धो ऽपगतः. तस्मान् नात्र पूर्वदेवतोपलक्षणीयेति.
SK
NOTES: *{३/२१०: E२,४: ऽनाग्रयणश्}* *{३/२११: E२,४: ऽनाग्रयणो}* *{३/२१२: E२: ४,१८२; E४: ४,११८; E६: १,१८५}*
SK
त्वष्टारं तूपलक्षयेत् पानात् // MS_३,२.३४ //
SK
अस्ति पात्नीवतः सोमः, तत्र मन्त्रः, अग्ना इ पत्नीवन् सजूर् देवेन त्वष्ट्रा सोमं पिबेति{*३/२१३*}. तत्र संदेहः - किं त्वष्टोपलक्षयितव्यो न वेति. किं प्राप्तम्? उपलक्षयितव्यः. कुतः? पानात्, पानं श्रूयते - सजूर् देवेन त्वष्ट्रा [२७१]{*३/२१४*} सोमं पिबेति. तेनायम् अग्नये पत्नीवते सह त्वष्ट्रा दीयत इति गम्यते. यस्मै च येन सह दीयते, उभाभ्यां तद् दीयते, एवं तत् सहदानं भवति, यथा देवदत्ताय यज्ञदत्तेन सह शतं दीयताम् इत्य् उक्ते, तत्रोभाभ्याम् अपि दीयते. तस्मात् त्वाष्ट्रो ऽप्य् असौ सोम इति त्वष्टोपलक्षयितव्यः. असाव् अपीन्द्र इव{*३/२१५*} पिबतीति. NOTES: *{३/२१३: Tऐत्.S. १.४.२७.१}* *{३/२१४: E२: ४,१८३; E४: ४,१२२; E६: १,१८६}* *{३/२१५: E२,४: एव}*
SK
अतुल्यत्वात् तु नैवं स्यात् // MS_३,२.३५ //
SK
नैतद् एवम्, शब्दप्रमाणका वयम्, यच् छब्द आह, तद् अस्माकं प्रमाणम्, शब्दश् चाग्नेः पत्नीवतः पानम् आह त्वष्टुः सहभावमात्रम्, न ह्य् अननुष्ठीयमाने सहभावः सिध्यतीति त्वष्टरि पानम् अनुमीयते. ननु त्वष्ट्रे पानं चोदितम्. सत्यम्, चोदितं मन्त्रवर्णेन, न चोदनया. चोदना हि पात्नीवतं गृह्णातीति, लोके तु कार्यं दृष्ट्वा चोदितम् अचोदितम् अप्य् अनुष्ठीयत{*३/२१६*} एव, लोकतश् चैतत् परिच्छिन्नम्, नैवंजातीयकेन वाक्येन, त्वष्टुः सोमः कृतो भवतीति. NOTES: *{३/२१६: E२,४, E१ (व्.ल्.): चोदितम् अचोदितम् अप्य् अनुष्ठीयत}*
SK
त्रिंशच् च परार्थत्वात् // MS_३,२.३६ //
SK
तस्मिन्न् एव पात्नीवते मन्त्रः - ऐभिर् अग्ने सरथं याह्य् अर्वाङ् नानारथं वा विभवो ह्य् अश्वाः. पत्नीवतस् त्रिंशतं त्रींश् च देवान् अनुष्वधम् आ वह मादयस्वेति{*३/२१७*}. तत्र संदेहः - किं त्रयस्त्रिंशतो [२७२]{*३/२१८*} देवानाम् उपलक्षणं कर्तव्यम्, उत नेति. किं प्राप्तम्? त्रयस्त्रिंशतं देवानुपलक्षयेत्. कथम्? दीयते हि सोमस् त्रयस्त्रिंशते देवेभ्यः. एवं ह्य् अग्निम् अग्नीद् अधीच्छति, आयाह्य् अग्नेर् ऽवाचीनम्, त्रयस्त्रिंशता देवैः सह समानं रथम् अधिष्ठाय नानारथैर् वा विभवन्ति हि ते ऽश्वाः. तद् इदम् अनुष्वधम् आवह त्रयस्त्रिंशतं पत्नीवतो देवान् आगमय तर्पय चेति. अत्र ह्य् अग्निम् अग्नीद् अधीच्छति त्रयस्त्रिंशतो देवानां तृप्तय इति गम्यते, यत् प्रधानश् चात्र मन्त्रः, तत् परः सोमः. तस्माद् उच्यते - त्रयस्त्रिंशद् देवा उपलक्षयितव्या इति.
SK
ननु चोदनायां पत्नीवान् केवलो ऽग्निर् देवतात्वेन श्रूयते. सत्यम्, चोदनायां पत्नीवान् देवतात्वेन श्रूयते, न तु देवतान्तरं निषिध्यते. किम् अतो यद्य् एवम्? एतद् अतो भवति, मान्त्रवर्णिकास् त्रयस्त्रिंशद् देवा अविरुद्धाश् चोदनायां प्रतीयन्त इति. एवं प्राप्ते ब्रूमः - न त्रयस्त्रिंशद् देवा उपलक्षयितव्या इति, नात्र मन्त्रे ऽग्निर् आह्वाता परिवेष्टा वा तर्पयिता वाध्येष्यते. नात्र त्रयस्त्रिंशद् देवेष्व् इष्टेषु प्रयोजनं निर्वर्त्यते. कस् तर्हि यष्टव्यः? पत्नीवान्. कुत एतत्? स हि चोद्यते - पात्नीवतं गृह्णातीति. ननु मान्त्रवर्णिकानां त्रयस्त्रिंशतो देवानाम् अत्र संकीर्तनम्. उच्यते - परार्थत्वेन ताः संकीर्त्यन्ते. कथम्? न ह्य् अप्रत्तम् अग्नेः, तद् भवति, न च परकीयस्य दानम् अवकल्पते. तस्मात् त्वम् अमूभ्यस् त्रयस्त्रिंशद् देवताभ्यो देहीत्य् असमञ्जसं वचनम्, अग्नये त्व् अनेन दानम् उक्तं भवति. कथम्? ईशानो हि विलंभयति द्रव्यम्, तद् इह विलंभनं संकीर्तयन् त्वम् अस्य ईशान इति प्रत्यापयति. [२७३]{*३/२१९*} ननु मादयस्वेत्य् उच्यते, न विलंभयेति. उच्यते - न हि माद्यन्ति देवताः, तस्मान् मदकरणसंकीर्तनम् अदृष्टाय स्यात्, दृष्टाय तु त्यागसंकीर्तनं लक्षणया, लक्षणा ह्य् अदृष्टकल्पनाया ज्यायसी, प्रमाणाद् धि सा भवति. ननु त्यागे ऽपि लक्ष्यमाणे ऽग्निः कर्ताधीष्यते. तद् उच्यते - अग्नेर् अप्य् अध्येषणादृष्टायैव, तस्माद् अग्नेर् ऐश्वर्यकरणम् एतद् वाक्यं लक्षयतीति न्याय्यम्. अपि च पात्नीवते सोमश् चोद्यते - पात्नीवतं गृह्णातीति. ननूक्तम्, मान्त्रवर्णिकं च प्रतिषेधति चोदनेति. उच्यते - तद् अपि मान्त्रवर्णिकं नास्तीत्य् उक्तम्. अपि च सामर्थ्यात् प्रतिषेधतीति गम्यते. न हि सापेक्षः पत्नीवच् छब्दः, तद् धितार्थेन संलक्ष्यते, तस्मात् केवलः पत्नीवान् देवतेति. एतच् चोदनावशेन मन्त्रो वर्णनीयः. तस्माद् यथैवास्माभिर् वर्णितो मन्त्रः, तथैव भवितुम् अर्हतीति, पत्नीवांश् चाग्निर् अग्ने पत्नीवन्न् इति सामानाधिकरण्येन निर्दिश्यते. तस्माद् अग्निर् उपलक्षयितव्यो न त्रयस्त्रिंशद् देवता इति.
SK
NOTES: *{३/२१७: ṚV ३.६.९}* *{३/२१८: E२: ४,१८५; E४: ४,१२५; E६: १,१८६}* *{३/२१९: E२: ४,१८७; E४: ४,१२६; E६: १,१८७}*
SK
वषट्कारश् च कर्तृवत् // MS_३,२.३७ //
SK
अस्त्य् अनुवषट्कारदेवता, सोमस्याग्ने वीहीत्य् अनुवषट्करोतीति{*३/२२०*}. तत्र संदेहः - किम् अनुवषट्कारदेवतोपलक्षयितव्या न वेति. किं प्राप्तम्? उपलक्षयितव्येति, न तत्र पारार्थ्यं किंचित् पूर्वद् उपलक्ष्यते. तस्माद् उपलक्षयितेव्यति. एवं प्राप्ते ब्रूमः - अनुवषट्कारदेवता नोपलक्षयितव्या, कर्तृवत्, यथा कर्ता नोपलक्ष्यते, होतृपीत[२७४]{*३/२२१*}स्याध्वर्युपीतस्येति, एवम् एवानुवषट्कारदेवतापि. न हि सा प्रकृताव् उपलक्षिता, यच् च नाम प्रकृतौ कृतम्, तद् इह करणीयम्. तस्मान् नोपलक्षयितव्येति.
SK
NOTES: *{३/२२०: Aइ.Bर्. ३.५}* *{३/२२१: E२: ४,१८९; E४: ४,१३१; E६: १,१८८}*
SK
छन्दःप्रतिषेधस् तु सर्वगामित्वात् // MS_३,२.३८ //
SK
स्थिताद् उत्तरम् उच्यते - नैतद् अस्ति, यद् उक्तम् ऊहेन मन्त्रवद् भक्षणं कर्तव्यम् इति, अमन्त्रकं भक्षणं कर्तव्यम्. कस्मात्? उच्यते - समानविधानत्वात्, नास्त्य् अत्र प्रकृतिविकृतिभावः. कथम्? प्रकरणस्य तुल्यत्वात्, यल् लिङ्गं उक्तम्{*३/२२२*}, छन्दःप्रतिषेधः स इत्य् उच्यते, तृतीयसवनत्वाज् जगतीच्छन्दस इति प्राप्ते ऽनुष्टुप्छन्दस इति षोडशिनि भक्षमन्त्रं नमतीति{*३/२२३*} समानविधाने ऽप्य् अवकल्प्यते. यत् तूक्तम्{*३/२२४*} - ऐन्द्रः सोमो गृह्यते मीयते चेति, नैत ऐन्द्रा अनैन्द्राश् च भिन्ना यागाः, एकस्यैवैते ऽभ्यासविशेषाः, न चाभासविशेषाणां धर्मा गुणत्वात्, सर्व एते यागधर्माः. तेन कृत्स्ना यागस्य चोद्यन्ते सोमधर्माः, सोमश् चेति. यच् च, इन्द्रो गृह्यते मीयते चेति, इन्द्रस्य मन्त्राम्नानान् मन्त्रेण ग्रहणं प्रकाशयितव्यम्, इतरासां देवतानां ध्यानादिनेति. तस्माद् अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति.
SK
[२७५]{*३/२२५*}
SK
NOTES: *{३/२२२: Zउ MS ३.२.२८}* *{३/२२३: Vग्ल्. zउ MS ३.२.२८}* *{३/२२४: Vग्ल्. zउ MS ३.२.२८}* *{३/२२५: E२: ४,१९१; E४: ४,१३८; E६: १,१८८}*
SK
ऐन्द्राग्ने तु लिङ्गभावात् स्यात् // MS_३,२.३९ //
SK
एवं स्थिते चिन्त्यते - अस्ति तत्रैन्द्राग्नः सोमः, ऐन्द्राग्नं गृह्णातीति{*३/२२६*}. तत्र संदेहः - किं मन्त्रवद् भक्षणम्, अमन्त्रकं वेति. किं प्राप्तम्? ऐन्द्राग्ने तु मन्त्रः स्यात्, यस्य हीन्द्राग्नी देवता तस्य नेन्द्रः{*३/२२७*}, शक्यते हि स इन्द्रपीत इति व्यपदेष्टुम्, यस्य ह्य् अवयवान्तरम् इन्द्रेण पीतम्, स इन्द्रपीतः, तस्येन्द्राग्निभ्यां पिबद्भ्यां पीतम् अवयवान्तरम् इन्द्रेण. तस्मान् मन्त्रवद् भक्षणम् इति.
SK
NOTES: *{३/२२६: Vग्ल्. Tऐत्.S. ६.५.४.१}* *{३/२२७: E२,४ ओम्. न}*
SK
एकस्मिन् वा देवतान्तराद् विभागवत् // MS_३,२.४० //
SK
नास्यावयवान्तरम् इन्द्रेण पीयते, न चावयवान्तरेणेन्द्रपीतेन तत् पीतं भवति, तेन पीत इति लक्षणाशब्दो ऽयम्. इन्द्रम् उद्दिश्य यः संकल्पितो इन्द्रो यस्य देवतेति, यथैव च साकाङ्क्षस्य तद् धितार्थेनासंबन्धः, एवं समासो ऽपीन्द्रपीतस्येति साकाङ्क्षस्य नावकल्पते, तद् उक्तम् - व्यवस्था वार्थसंयोगाद् इति{*३/२२८*}. आह - ननु तेनैवाधिकरणेनैतद् गतम्{*३/२२९*}. किम् अर्थं पुनश् चिन्त्यत इति. उच्यते - यत् तत्र विचारितं सिद्धम् एव तत्. कथं पुनर् विचार्यते? नैव साकाङ्क्षस्य देवतासंबन्ध इति. नैवेह देवतासंबन्ध इति पूर्वः पक्षः, पानमात्रसंबन्धो ऽत्रेति, पानमात्रसंबन्धेन यत्र द्वाभ्यां पीयते, तत्रैकेन देवतासंबन्ध इत्य् उत्तरः पक्षः, तस्मान् न पुनरुक्तम् इति.
SK
[२७६]{*३/२३०*}
SK
NOTES: *{३/२२८: MS ३.१.२७}* *{३/२२९: Vग्ल्. MS ३.१.१७}* *{३/२३०: E२: ४,१९३; E४: ४,१४३; E६: १,१८९}*
SK
छन्दश् च देवतावत् // MS_३,२.४१ //
SK
अस्मिन् मन्त्रे गायत्रछन्दस इत्य् उच्यते, तत्र संदेहः - किम् एकच्छन्दसि सोमे मन्त्रः, उत नानाच्छन्दस्यपीति{*३/२३१*}. उच्यते - छन्दश् च देवतावत्, यथान्यसहितेन्द्रे न मन्त्रः, एवम् अनेकच्छन्दस्के सोमे न स्यान् मन्त्र इति. अत्रापि हि गायत्रच्छन्दस इति सविशेषणस्य समासो नावकल्पते.
SK
NOTES: *{३/२३१: Tऐत्.S. ३.२.५.२}*
SK
सर्वेषु वाभावाद् एकच्छन्दसः // MS_३,२.४२ //
SK
सर्वेषु वा मन्त्रः स्यात्. कुतः? अभावाद् एकच्छन्दसः, नैव कश्चिद् एकच्छन्दसाः सोमो ऽस्ति, तेन यथाभूतो ऽयम्, तथाभूतस्य{*३/२३२*} छन्दो विशेषणम्. तस्माद् अनेकच्छन्दस्के सोमे मन्त्रः स्याद् इति.
SK
NOTES: *{३/२३२: E२,४: यथाभूतस्य}*
SK
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि // MS_३,२.४३ //
SK
यद् उक्तम् - अनैन्द्राणाम् अमन्त्रकं भक्षणम् इति, तन् न, सर्वेषां समन्त्रकं भक्षणम् इति, यथासमाम्नातश् च मन्त्रः स्यात्. नेन्द्रपीत इति सोम उच्यते. किं तर्हि? सवनम्, प्रातःसवनशब्देन सामानाधिकरण्यात्. ननु सोमे ऽपि षष्ठी. सत्यम् अस्ति षष्ठी, न तु तेन सामानाधिकरण्यम्. नासाव् इन्द्रेण सोमः पीतः, नापीन्द्राय दत्तः, अन्य एव पीतो दत्तो वा, स गत एव. न चातीतः समुदायो व्यपदिश्यते, [२७७]{*३/२३३*} प्रत्यक्षवचनो ह्य् अयं शब्दः. सवने तु न दोषः, इन्द्रपीतं भवति सवनम्, यत्रेन्द्रेण पीतम्. तस्माद् अनैन्द्रो ऽपीतसवने ऽन्तर्भवतीति शक्यते मन्त्रेण वदितुम्. शक्यते चेत् समानविधाने कथम् इव मन्त्रो न भविष्यति. भक्त्या ह्य् अपीतः पीत इत्य् उच्यते. एवम् एव ऐतिशायन आचार्यो मन्यते स्म. अस्माकम् अप्य् एतद् एव मतम्. आचार्यग्रहणम्, तस्माद् आगतम् इति तस्य संकीर्त्यर्थम्.
SK
NOTES: *{३/२३३: E२: ४,१९५; E४: ४,१४६; E६: १,१९०}*
SK
श्रुतेर् जाताधिकारः स्यात् // MS_३,३.१ //
SK
ज्योतिष्टोमे श्रूयते - उच्चैर् ऋचः क्रियते, उच्चैः साम्ना, उपांशु यजुषा इति{*३/२३४*}. तत्र संदेहः - किं ऋगादिजातिम् अधिकृत्यैते शब्दाः प्रवृत्ताः, उत वेदम् अधिकृत्येति. किं तावत् प्राप्तम्? जाताधिकारः स्यात्. कुतः? श्रुतेः, एषां शब्दानां श्रवणाद् एव जातिं प्रतिपद्यामहे, तेनोपांशुत्वं जात्याधिकृतया संबध्यते, वेदानाम् अधिकारकः शब्दो नास्तीति. अपि च - ऋग्वेदव्यतिक्रान्तानाम् ऋचां यजुर्वेद उच्चैः प्रयोगो भविष्यति, इतरथा तस्या एव ऋच उभौ धर्मौ वैकल्पिकौ स्याताम्, तत्र पक्षे बाधः स्यात्. प्रकरणं चैवम् अनुगृहीतं भवति, इतरथा वेदसंयोगे सर्वस्मिन्न् अपि क्रताव् उपांशुत्वं स्यात्. तस्माज् जाताधिकारा एते शब्दा इति.
SK
NOTES: *{३/२३४: Mऐत्.S. ३.६.५}*
SK
वेदो वा प्रायदर्शनात् // MS_३,३.२ //
SK
वेदं वाधिकृत्येदम् उच्यते. कुतः? प्रायदर्शनात्. किम् इदं प्रायदर्शनाद् इति? वेदप्राये वाक्ये वेदोपक्रमे निगम्यमाना इमे शब्दाः श्रूयन्ते - प्रजापतिर् वा इदम् एक आसीत्, स तपो ऽतप्यत, तस्मात् तपस् ते पानात् त्रयो देवा असृज्यन्त - अग्निर् वायुर् आदित्यः, ते तपो ऽतप्यन्त तेभ्यस् ते पानेभ्यस् त्रयो वेदा असृज्यन्त. अग्नेर् ऋग्वेदो वायोर् यजुर्वेद आदित्यात् सामवेद इत्य् एवम् उपक्रम्य निगमन इदं श्रूयते - उच्चैर् ऋचा क्रियते, उच्छैः साम्ना, [२७९]{*३/२३५*} उपांशु यजुषेति. एतस्मात् कारणाद् एभिः प्रकृतैर् उपांश्वादि कर्तव्यम्, न जात्या ऋगादिभिर् इत्य् उच्यते. कुत एतद् अवगम्यते? वाक्योपसंहारे श्रुतत्वात्, यस्माद् इत एते वेदा जाताः, तस्माद् एतैर् उपांश्वादि कर्तव्यम् इति, ऋगादिभिर् अपि वेदवचनैर् एवोपसंहारेण भवितव्यम्. इतरथा वाक्यम् एव नावकल्पेत, तत्रानर्थका एव भवेयुः, तस्माद् वेदाधिकारा इति.
SK
NOTES: *{३/२३५: E२: ४,२००; E४: ४,१५७; E६: १,१९१}*
SK
लिङ्गाच् च // MS_३,३.३ //
SK
लिङ्गम् अप्य् अस्मिन्न् अर्थे भवति, यथा ऋगादयः शब्दाः शक्नुवन्ति वेदम् अभिवदितुम् इति, ऋग्भिः प्रातर्दिवि देव ईयते. यजुर्वेदेन तिष्ठति मध्ये अह्नः. सामवेदेनास्तमये महीयते. वेदैर् अशून्यैस् त्रिभिर् एति सूर्य इति{*३/२३६*}, द्वौ वेदौ संकीर्त्य, ऋक्शब्दं च त्रिषु पादेषु, चतुर्थे पाद उपसंहरति बहुवचनेन, वेदैर् अशून्यस् त्रिभिर् एति सूर्य इत्य् ऋक्शब्दं वेदवचनं दर्शयति. तस्माद् अपि पश्यामः. वेदाधिकारा एते शब्दा इति.
SK
NOTES: *{३/२३६: Tऐत्.Bर्. ३.१२.९.१}*
SK
धर्मोपदेशाच् च न हि द्रव्येण संबन्धः // MS_३,३.४ //
SK
धर्मोपदेशश् च भवति साम्नः, उच्चैः साम्नेति, स वेदाधिकारपक्षे युज्यते. जाताधिकारे त्व् ऋच उच्चैस् त्वेन साम्न उच्चैस् त्वं सिद्धम्, नास्य सामद्रव्येण सह संबन्धो वेदितव्यः, तस्माद् अपि वेदाधिकारा इति.
SK
त्रयीविद्याख्या च तद्विदि // MS_३,३.५ //
SK
त्रयी यस्य विद्या स त्रयीविद्यः, यस् त्रीन् वेदान् अधीते, स एवं प्रख्यायते{*३/२३७*}. त्रयीति चैष शब्दा ऋक्सामयजुःषु प्रसिद्धः, यद्य् [२८०]{*३/२३८*} ऋक्सामयजूंषीति त्रयो वेदा उच्यन्ते, एवं तद्विदि त्रयीविद्याख्या युज्यते, भवति च. तस्माद् वेदाधिकारा एते.
SK
NOTES: *{३/२३७: E४ (Fन्.): आख्यायते}* *{३/२३८: E२: ४,२०२; E४: ४,१६६; E६: १,१९१}*
SK
व्यतिक्रमे यथाश्रुतीति चेत् // MS_३,३.६ //
SK
अथ यद् उक्तम् - ऋग्वेदम् अतिक्रान्तानाम् ऋचां यजुर्वेदे ऽप्य् उच्चैस् त्वं भविष्यतीति, तत्र मत्पक्षे यथाश्रुतः प्रयोगो भविष्यतीति यद् उक्तम्, तत्परिहर्तव्यम् इति. आभाषान्तं सूत्रम्{*३/२३९*}.
SK
NOTES: *{३/२३९: E२ हत् आभाषान्तं सूत्रम् गेक्लम्मेर्त्}*
SK
न सर्वस्मिन् निवेशात् // MS_३,३.७ //
SK
नैष दोषः, सर्वस्मिन्न् ऋग्वेद उच्चैस् त्वं सर्वस्मिंश् च यजुर्वेद उपांशुत्वम्, तत्र यद्य् ऋग्वेदव्यतिक्रान्ताया ऋचो यजुर्वेद उपांशुत्वं भवतीति, नैतद् दूष्यति. वेदधर्मः सन्{*३/२४०*} ऋग्धर्म इति, वेदस्य च न धर्मद्वयेन संबन्धः.
SK
NOTES: *{३/२४०: E२,४: स न}*
SK
वेदसंयोगान् न प्रकरणेन बाध्येत // MS_३,३.८ //
SK
यद् उक्तम् - प्रकरणम् एवम् अनुगृहीतं भवतीति, वेदसंयोगाद् वाक्येन प्रकरणे बाध्यमाने न दोषो भविष्यति.
SK
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः // MS_३,३.९ //
SK
अस्त्य् आधानम्, य एवं विद्वान् अग्निम् आधत्त इति{*३/२४१*}. तद् याजुर्वैदिकम्, तत्र सामगानम् आमनन्ति - य एवं विद्वान् वारवन्तीयं गायति{*३/२४२*}, य एवं विद्वान् यज्ञायज्ञीयं गायति, य एवं विद्वान् वामदेव्यं गायति{*३/२४३*} इति. तत्र संदेहः - किम् आधाने सामगानम् उच्चैः, उतोपांश्व् इति. [२८१]{*३/२४४*} उच्चैर् इति प्राप्तम्. कुतः? सामवेदेनैतत् क्रियते यद् वारवन्तीयादिभिः, तस्माद् उच्चैर् एतानि सामानि गेयानीति. एवं प्राप्ते ब्रूमः - गुणानुरोधेन वा मुख्यं व्यतिक्रमेत्, मुख्यानुरोधेन वा गुणम् इति, गुणो व्यतिक्रमितव्यो न्याय्यः, मुख्यश् चानुग्रहीतव्य इति. कुतः? मुख्यार्थत्वाद् गुणस्य, गुणस्यानुष्ठानेन मुख्यः सगुणः कथं स्याद् इति गुणे प्रवर्तते, गुणप्रवृत्त्या चेन् मुख्यस्य गुणहानिर् भवति, गुणप्रवृत्तौ फलम् एव नावाप्तं भवति. अथ प्रधानं सगुणं करिष्यामीति गुणे प्रवर्तमानो गुणस्य गुणं विनिपातयति, नास्य स्वार्थो हीयते. नासौ गुणं सगुणं कर्तुं प्रवर्तते, गुणश् च सामगानम्, प्रधानम् आधानम्, आधानस्य याजुर्वैदिकत्वात्{*३/२४५*}, उपांशुता गुणः, स गणधर्मम् उच्चैस् त्वं सामवैदिकं{*३/२४६*} बाधते. तस्माद् उपांशु सामानि गेयानीति.
SK
NOTES: *{३/२४१: Mऐत्.S. १.६.६}* *{३/२४२: Mऐत्.S. १.६.७}* *{३/२४३: Mऐत्.S. १.६.७}* *{३/२४४: E२: ४,२०४; E४: ४,१७०; E६: १,१९१}* *{३/२४५: E२,४: याजुर्वेदिकत्वाद्}* *{३/२४६: E२,४: सामवेदिकं}*
SK
भूयस्त्वेनोभयश्रुति // MS_३,३.१० //
SK
यजुर्वेदे ज्योतिष्टोमं समामनन्ति - ज्योतिष्टोमेन स्वर्गकामो यजेत इति, तथा सामवेदे ऽप्य् अस्यैवम् एव समाम्नानम्. सकृच् च कृतायां बुद्धौ द्वितीयं गुणार्थं श्रवणं भवति. तत्र संदेहः - किं याजुर्वैदिकम्{*३/२४७*} आम्नानं क्रियार्थम्, सामवैदिकं{*३/२४८*} गुणार्थम् उत विपरीतम् इति. यतरच् चाम्नानं क्रियार्थं तद्धर्मा भविष्यन्ति. किं तावत् प्राप्तम्? सामवेदिकं{*३/२४९*} क्रियार्थं याजुर्वेदिकं{*३/२५०*} वेत्य् अनिश्चयो विशेषान् अवगमाद् इति. [२८२]{*३/२५१*} एवं प्राप्ते ब्रूमः - भूयस्त्वेन गुणानां परिच्छिद्येत, यत्र भूयांसो गुणाः समाम्नाताः, तत्र क्रियार्था{*३/२५२*} चोदनेति गम्यते. यत्र हि कर्तव्यतया चोदना, तत्रेतिकर्तव्यताकाङ्क्ष्यते, यत्राकाङ्क्षितेतिकर्तव्यता, तत्रेतिकर्तव्यतावचनं न्याय्यम्. ये च भूयांसो गुणाः, सेतिकर्तव्यता, तद् इतिकर्तव्यतालिङ्गेन कर्तव्यताचोदनाम्{*३/२५३*} अनुमिमीमहे, यथा बहुषु राजप्रतिमेषूपविष्टेषु यस्य श्वेतं छत्रं बालव्यजनं च, स राजेत्य् अवगम्यते, अनाख्यातो ऽपि राजलिङ्गेन. एवं कर्तव्यतालिङ्गेन गुणानां भूयस्त्वेन ज्योतिष्टोमस्य याजुर्वैदिकस्य{*३/२५४*} चोदनानुमीयते. तस्माज् ज्योतिष्टोमस्योपांशुप्रयोगः, यजुर्वेदेन हि ज्योतिष्टोमः क्रियते, यत् तेन चोद्यते. अचोदितं न शक्यते कर्तुम् इति.
SK
NOTES: *{३/२४७: E२,४: याजुर्वेदिकम्}* *{३/२४८: E२,४: सामवेदिकं}* *{३/२४९: E२,४: सामवेदिकं}* *{३/२५०: E२,४: याजुर्वेदिकं}* *{३/२५१: E२: ४,२११; E४: ४,१८७; E६: १,१९३}* *{३/२५२: E२: क्रियार्थं}* *{३/२५३: E२: कर्तव्यताचोदनाद्}* *{३/२५४: E२,४: याजुर्वेदिकस्य}*
SK
असंयुक्तं प्रकरणाद् इतिकर्तव्यतार्थित्वात् // MS_३,३.११ //
SK
उक्तानि विनियोगकारणानि श्रुतिर् लिङ्गं वाक्यम् इति. श्रुतिर् ऐन्द्र्या गार्हपत्यम् इति{*३/२५५*} द्वितीया विभक्तिः, लिङ्गं मन्त्रेषु वचनसामर्थ्यं बहिर्देवसदनं दामीति{*३/२५६*}, वाक्यम् अरुणया क्रीणातीति{*३/२५७*}. अथ किम् एतावन्त्य् एव विनियोगकारणानि? नेत्य् उच्यते. किम् अपरं कारणम् इति प्रश्नेनैवोपक्रमः, भवति च प्रश्नेनैवोपक्रमः, यथा का नामेयं नदी? को नामायं प्रवतः? किम् इदं फलम् इति. तद् उच्यते - असंयुक्तं प्रकरणात्, इतिकर्तव्यतार्थित्वात्, यद् असंयुक्तं श्रुत्या लिङ्गेन वाक्येन वा, तत् प्रकरणात्, इतिकर्तव्यतार्थित्वात्. यद् इतिकर्तव्यताकाङ्क्षिणः संनिधौ पूरणसमर्थम् उपनिपतति यद् वचनम्, तत्{*३/२५८*} तेन प्रकृतेन सहैकवाक्यतां याति. [२८३]{*३/२५९*} तस्मात् प्रकृते विनियुज्यते. किम् इहोदाहरणम्? किं च प्रयोजनम् इति. दर्शपूर्णमासौ प्रकृत्य श्रूयते - समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर् यजति, स्वाहाकारं यजति{*३/२६०*} इति{*३/२६१*}, तानि तत्रैव प्रकरणसामर्थ्याद् विनियुज्यन्ते, नाग्निहोत्रे ज्योतिष्टोमे वा.
SK
NOTES: *{३/२५५: Mऐत्.S. ३.२.४; व्ग्ल्. MS ३.२.३}* *{३/२५६: Mऐत्.S. १.१.२; व्ग्ल्. MS ३.२.१}* *{३/२५७: Tऐत्.S. ६.१.६.७; व्ग्ल्. MS ३.१.१२}* *{३/२५८: E२,४: यत्}* *{३/२५९: E२: ४,२१५; E४: ४,१९२; E६: १,१९३}* *{३/२६०: E२,४,६ ओम्. इति}* *{३/२६१: Tऐत्.S. २.६.१.१}*
SK
क्रमश् च देशसामान्यात् // MS_३,३.१२ //
SK
अथ किम् एतावन्त्य् एव विनियोगकारणानि. नेत्य् उच्यते. किं च? क्रमश् च देशसामान्यात्, क्रमवताम् आनुपूर्वेणोपदिश्यमानानां{*३/२६२*} यस्य पर्याये यं धर्मम् आमनन्ति, तस्य तं प्रत्य् आकाङ्क्षानुमीयते, सत्याम् आकाङ्क्षायां एकवाक्यभावः, तस्मात् ततो विनियोग इति. किम् इहोदाहरणम्? किं च प्रयोजनम्? आनुपूर्व्यवतां यागानाम् अनुमन्त्रणेष्व् आम्नातेषूपांशुयाजस्य क्रमे दब्धिर् नामासीति{*३/२६३*} समाम्नातः, तस्याकाङ्क्षाम् उत्पाद्य तेनैकवाक्यतां यात् वा तत्रैव विनियोगम् अर्हतीति, तथा चैन्द्राग्नं कर्म वियातसजातस्यास्ति भ्रातृव्यवतः{*३/२६४*}, तस्य याज्यानुवाक्यायुगलम् अप्य् आम्नायत ऐन्द्राग्नम्, इन्द्राग्नी रोचनादिवः प्रवर्षणिभ्य{*३/२६५*} इत्य्{*३/२६६*} एकम्, अपरम् इन्द्राग्नी नवतिं पुरः [२८४]{*३/२६७*} श्लथद् वृत्रम् इति{*३/२६८*}. तत्र लिङ्गाद् विनियोगे सिद्धे विशेषविनियोगो भवति, पूर्वं युगलं पूर्वस्यैन्द्राग्नस्य, उत्तरम् उत्तरस्येति, एतद् उदाहरणं प्रयोजनं चेति.
SK
NOTES: *{३/२६२: E२,४,६: आनुपूर्व्येणोपदिश्यमानानां}* *{३/२६३: Tऐत्.S. १.६.११.६.; व्ग्ल्. Mआन्ŚS १.४.२.४}* *{३/२६४: Vग्ल्. Mऐत्.S. २.१.१}* *{३/२६५: E२,४,६: प्रवर्षिणिभ्य}* *{३/२६६: Vग्ल्. Mऐत्.S. ४.१०.४}* *{३/२६७: E२: ४,२१७; E४: ४,२००; E६: १,१९४}* *{३/२६८: Mऐत्.S. ४.१०.५}*
SK
आख्या चैवं तद् अर्थत्वात् // MS_३,३.१३ //
SK
अथ किम् एतावन्त्य् एव विनियोगकारणानीति. नेत्य् उच्यते. किं च? समाख्या चैवं स्यात्. कथं विनियोगकारणम् इति. समाख्या सति संबन्धे भवति, यथा पाचको लावक इति, तत्र पाचकशब्दम् उपलभ्य पचतिनास्य संबन्ध इति गम्यते, एवं वेदे ऽपीति. अकृतकार्थसंबन्धं{*३/२६९*} समाचक्षाणं शब्दम् उपलभ्य भवति संबन्धे तस्मिन् संप्रत्ययः. किम् इहोदाहरणं प्रयोजनं च? आध्वर्यवम् इति समाख्यातानि कर्माण्य् अध्वर्युणा कर्तव्यानि, हौत्रम् इति च होत्रा. एतद् उदाहरणं प्रयोजनं चेति.
SK
NOTES: *{३/२६९: E२,४: अकृतकार्यसंबन्धं}*
SK
श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् // MS_३,३.१४ //
SK
उक्तानि विनियोगकारणानि, श्रुतिलिङ्गं वाक्यं प्रकरणं स्थानं समाख्यानम् इति, तेषां समवाये किं बलीय इति चिन्त्यते, एकार्थवृत्तित्वाद् वाचो युगपद् असंबन्धाद् द्वयोर् द्वयोः संप्रधारणा. तत्र श्रुतिलिङ्गयोः किं श्रुतिबलीयस्य् आहोस्विल् लिङ्गम् इति. किं पुनर् अत्रोदाहरणम्? ऐन्द्र्या [२८५]{*३/२७०*} गार्हपत्यम् उपतिष्ठत इति, अत्र चिन्त्यते - किम् इन्द्रस्य गार्हपत्यस्य वोपस्थानं कर्तव्यम् इत्य् अनियमः, उत गार्हपत्यस्यैवेति. यदि तुल्यबले एते कारणे ततो विकल्पः, अथ श्रुतिर् बलीयसी, गार्हपत्य एवोपस्थेयः. का पुनर् अत्र श्रुतिः? किं लिङ्गम्? श्रुतिर् गार्हपत्यशब्दश्रवणम्, लिङ्गं पुनः, कदा च न स्तरीरसि नेन्द्रसश्चसि दाशुषे, इतीन्द्रशब्दस्य विशिष्टदेवताभिधानसामर्थ्यम्. अथ किं वाक्यं नाम? संहत्य अर्थम् अभिदधति पदानि वाक्यम्. यद्य् एवम् इदम् अपि वाक्यम् - ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति, इदम् अपि - कदा चन स्तरीर् असीति{*३/२७१*}, उभयत्रापि संहत्यार्थम् अभिदधति पदानि. तेन वाक्यस्य वाक्यस्य चैषा संप्रधारणा, न श्रुतिलिङ्गयोः, यदि वा श्रुतिलिङ्गवाक्यानि विवेक्तव्यानि, इदं श्रुतिवाक्ययोर् अन्तरम्, इदं लिङ्गवाक्ययोर् इति. तद् अभिधीयते - यत् तावच् छब्दस्यार्थम् अभिधातुं सामर्थ्यम्, तल्लिङ्गम्, यद् अर्थस्याभिधानं शब्दस्य श्रवणमात्रादेवावगम्यते, स श्रुत्यावगम्यते, श्रवणं श्रुतिः. एकार्थम् अनेकं पदं वाक्यम् इत्य् उक्तम् एव. तद् एतत् सर्वेष्व् एव वाक्येषु समवेतं विविक्तं च दृश्यते. इह तावत् कदा चन स्तरीर् असीत्य्{*३/२७२*} अनेन मन्त्रेण इन्द्र उपस्थातव्य इति, नैतत् कस्यचिच् छब्दस्य श्रवणाद् एवावगम्यते. नापि शब्दान्तरस्य समीप उच्चारितस्य सामर्थ्यम् अस्ति, येनैतद् अवगम्यते. एतस्यां खल्व् ऋचीन्द्रशब्दो विद्यते, यो विशिष्टां देवताम् अवगमयितुं शक्नोति, तया चावगमितया प्रयोजनम् अस्तीति. तेनेन्द्रोपस्थान इन्द्रशब्दः प्रयुज्यते, तदेकवाक्यताच् चावशिष्टानि पदानि, न त्व् [२८६]{*३/२७३*} एवम् अस्याम् ऋचि कस्यचिच् छब्दस्य सामर्थ्याद् गार्हपत्यस्योपस्थानं भवति. श्रवणाद् एव तु गार्हपत्यशब्दस्य, वयम् अग्निं प्रतीमो न लिङ्गात्. यदि तु लिङ्गं बलीयः, इन्द्र उपस्थातव्यः, यदि गार्हपत्यश्रवणम्, ततो गार्हपत्यः. एवं तर्हि लिङ्गवाक्ये विरुध्यमान इह संप्रधार्ये न श्रुतिलिङ्गे, इन्द्रशब्दस्य विशिष्टदेवताभिधानसामर्थ्याद् इन्द्रोपस्थानम्, यदि लिङ्गं बलीयः. अथ तु वाक्यम्, गार्हपत्य उपस्थेयः. वाक्यं ह्य् एतद् ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति. नैतद् एवम्, यद्य् अप्य् एतद् वाक्यं श्रुतिर् अप्य् अत्रास्ति, या त्व् अत्र श्रुतिः, सा लिङ्गेन विरुध्यते, न यद् वाक्यम्. कथम्? बलीयस्य् अपि हि लिङ्गे, ऐन्द्र्योपतिष्ठत इत्य् एतद् गार्हपत्यशब्देन सहैकवाक्यताम् उपैत्यैव{*३/२७४*}, यदि हि नोपेयात्, ततो लिङ्गेन विरुध्यते. यस् तु गार्हपत्यश्रवणाद् एवार्थः प्रतीयते, स लिङ्गे बलीयसि परित्यक्तो भवति. नासाव् उपस्थानेन संबध्यते, तदा हीन्द्रं गार्हपत्यशब्दो ऽभिवदेद् अग्निसमीपं वा. अथ नु श्रुतिः प्रमाणं भवति, ततो लिङ्गेनावगतम् इन्द्रोपस्थानं बाध्येत. तस्माच् छ्रुतिलिङ्गयोर् एवैष विरोधः, न लिङ्गवाक्ययोर् इति. अथवा नात्रैकवाक्यत्वाद् इन्द्रप्राधान्यं गार्हपत्यप्राधान्यं वोपस्थानस्य. कुतस् तर्हि? इन्द्रशब्दवत्त्वान् मन्त्रस्य, इन्द्रप्राधान्यम्, द्वितीयाविभक्तिश्रवणाद् गार्हपत्यप्राधान्यम्. तस्माच् छ्रुतिलिङ्गयोर् विरोधः. किं तावत् प्राप्तम्? तुल्यबले एते कारण इति. कथम्? इदम् अपि कारणम्, इदम् अपि, श्रुतिर् अपि, लिङ्गम् अपि{*३/२७५*}. न हि विज्ञानस्य विज्ञानस्य च कश्चिद् विशेष उपलभ्यते रूपं प्रति, अस्य भङ्गुरस्येव रूपम्, अस्य दृढस्येवेति. ननु लिङ्गस्य भङ्गुरस्येव रूपम्, सविचिकित्सो हि भवति लिङ्गात् प्रत्ययः, निर्विचिकित्सः श्रुतेः. नैतद् युक्तम्, यतो लिङ्गात् [२८७]{*३/२७६*} सविचिकित्सः प्रत्ययः, तस्य च श्रुतेश् च नैव संप्रधारणास्ति. यतस् तु खलु लिङ्गान् निर्विचिकित्सः प्रत्ययः स श्रुत्या विकल्पितुम् अर्हति. ननु नैव कदाचिल् लिङ्गान् निर्विचिकित्सः प्रत्ययो ऽस्ति. नैतद् एवम्, एवं हि सति नैव लिङ्गं नाम किंचित् प्रमाणम् अभविष्यत्. कामं मा भूत् प्रमाणम्, भवति तु संशयो लिङ्गपरिज्ञातेष्व् अर्थेषु. यदि वा विस्पष्टम् एवाप्रामाण्यं न संशयः. कथम्? समर्थम् एतद् इमम् अर्थम् अभिनिर्वर्तयितुम् इति लिङ्गाद् एतावद् अवगम्यते. न च यद् यस्य निर्वर्तनायालम्, तद् असत्य् एव वचने तन् निर्वर्तयितुम् अर्हति. तस्मान् न लिङ्गं विनियोजकम् इति. अत्राभिधीयते - प्रकरणवतो ऽर्थस्य संनिधाने यम् अर्थम् आमनन्ति, स तस्य साधनभूत इत्य् एव गम्यते. कथं खलूपकरिष्यतीति संदिह्यमाने भवति सामर्थ्यात् परिनिश्चयः. यत्रायं समर्थः, तत्र शक्यो विनियोक्तम् इति, तस्माद् भवति लिङ्गं प्रमाणम् इति. न च लिङ्गप्रामाण्ये विनिगमनायां हेतुर् अस्ति. तस्मात् तुल्यबले एते कारणे, कदा चन स्तरीर् असीति{*३/२७७*} लिङ्गाद् इन्द्र उपस्थातव्यः, श्रुतेर् गार्हपत्य इति. अविरोधात् खल्व् अपीमम् एवार्थं प्रतिपद्यामहे. बलीयान् अपि हेतुर् विरुध्यमान्म् अबलीयांसं बाधितुम् अर्हति नाविरुद्धम्, न च कश्चन विरोधः, यद् इन्द्रम् उपतिष्ठेतानेन मन्त्रेण, गार्हपत्यम् अपि. नन्व् अयम् एव विरोधः - सकृद् उपस्थानं चोदितम्, असकृद् अभिनिर्वर्त्यत इति. उपस्थेयभेदात् प्रतिप्रधानम् आवर्तन्ते गुणा इति न्याय एवैष न विरोधः. अयं तर्हि विरोधः - गार्हपत्य उपस्थीयमाने ऽग्निवचन इन्द्रशब्दो गुणं क्रियायोगं वापेक्षमाणो भवितुम् अर्हति. इन्द्रे तूपस्थातव्ये निरपेक्ष इन्द्र[२८८]{*३/२७८*}वचन एव, गौणमुख्ययोश् च मुख्ये संप्रत्यय इति. नेति ब्रूमः - विरोधे मुख्येन गौणो बाध्येत, न च कश्चिद् विरोधः, युगपद् अभ्हिधाने हि विरुध्येयाताम्. इह चान्यस्मिन् प्रयोगे ऽग्निवचनो ऽन्यस्मिन्न् इन्द्रवचनः. अतस् तुल्यबले एते कारणे इति. एवं प्राप्ते ब्रूमः - श्रुतिलिङ्गयोः श्रुतिबलीयसी. कुतः? अर्थविप्रकर्षात्. किम् इदम् अर्थविप्रकर्षाद् इति? अर्थस्य विप्रकर्षो ऽर्थविप्रकर्षः. कः पुनर् अर्थः? श्रुत्यार्थः. गार्हपत्यम् उपतिष्ठत इति संनिकृष्टः श्रुत्यर्थः, इन्द्र उपस्थेय इति विप्रकृष्टः. कथम्? कदा चन स्तरीर् असीत्य्{*३/२७९*} अनेन मन्त्रेणेन्द्र उपस्थातव्य इति न श्रूयते. सत्य् अपीन्द्राभिधानसामर्थ्ये वचनाभावाद् अनुपस्थानीय इन्द्र इत्य् एव गम्यते. नन्व् इदम् उक्तम् - प्रकरणाम्नानाद् अङ्गम् इत्य् अवगम्यते, सामर्थ्याद् विनियोग इति. नैतद् अस्ति, उक्तम् एवैतत् - धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्याद् इति. यद् एतत् प्रकरणं लिङ्गं चोभयम् अप्य् एतद् शब्दम्. न चातिक्रान्तप्रत्यक्षविषय एवंलक्षणके ऽर्थे शब्दम् अन्तरेण परिच्छेदो ऽवकल्पते. अतो मन्यामहे - विप्रकृष्टं श्रुत्यर्थाल् लिङ्गम् इति. यद्य् एवं श्रुतिर् यत्र विरोधिनी न विद्यते, तत्रापि न लिङ्गाद् अर्थपरिच्छेदः. तत्रैतद् एव नास्ति लिङ्गं प्रमाणम् इति. कुत एवैतेन श्रुतिर् विरोत्स्यत इति. तत्र श्रुतिलिङ्गयोर् बलीयस्त्वं प्रति संप्रधारणैव नोपपद्यत इति ब्रूमः. अत्रोच्यते - इतिकर्तव्यथार्थिनः प्रकरणवतो ऽर्थस्य संनिधाव् उपनिपतितो मन्त्र आम्नानसामर्थ्याद् इतिकर्तव्यताकाङ्क्षस्य वाक्यशेषताम् अभ्युपेत्यैतेन मन्त्रेण यजेतेति. किम् उक्तं भवति? यागेनाभीप्सिते साध्यमाने ऽनेन मन्त्रेणोपकुर्याद् इति, न चान्तरेणेन्द्राभिधानम् अयं मन्त्र उपकर्तुं शक्नोति, [२८९]{*३/२८०*} तेनैतद् उक्तं भवति, अनेनेन्द्रो ऽभिधातव्य इति. अतः श्रुतिमूल एवायम् अर्थः. यदि श्रुतिमूलः, न श्रुत्यन्तरेण बाधितुं शक्यः. तद् एतल् लिङ्गं यदि वा नैव प्रमाणम्, यदि वा श्रुत्या विकल्पितुम् अर्हतीति. नाप्य् अप्रमाणं भविष्यति, नापि विकल्पिष्यत इति ब्रूमः. कथम्? श्रुतिलक्षणो ऽयम् अर्थ इत्य् उपपादितम्, तस्मान् नाप्रमाणम्. यतस् तु खल्व् आनुमानिकीम् एकवाक्यतां लिङ्गसामर्थ्यं चापेक्ष्य श्रौतो ऽयम् अर्थः, यद् इन्द्रस्योपस्थानम् अनेन मन्त्रेणेत्य् अवगम्यते, प्रत्यक्षा तु श्रुतिगार्हपत्यम् उपतिष्ठत इति, स एषो ऽर्थविप्रकर्षः. प्रथमं तावल् लिङ्गज्ञानम्, ततः सांअर्थ्याच् छब्देनायम् अर्थो ऽभिहितो भवति, तद् एतच् छ्रुतिविरोधे नावकल्पते, विस्पष्टं ह्य् अवगतम् एतत्, अनेन मन्त्रेण गार्हपत्य उपस्थेय इति. तत्र विज्ञातम् एतद् एवम् अयम् उपकरोति मन्त्र इत्य् एतस्मिंश् च निर्ज्ञाते कृतसामर्थ्ययोर् वाक्यप्रकरणयोर् नैतद् एवं कल्पयितुं शक्यम्, इन्द्रोपस्थानं शब्देनाभिहितम् इति. तस्माद् अर्थविप्रकर्षाच् छ्रुत्या लिङ्गं बाध्यत इति. विकल्पस्य चान्याय्यत्वात्, अन्याय्यश् च विकल्पः. तत्र ह्य् अभावः पक्षे नित्यवच् च, ऐन्द्र्या गार्हपत्यम् उपतिष्ठत इति श्रूयमाने यद् अभावः पक्षे परिकल्प्यते, तद् अश्रुतं भवति, श्रुतं च हीयते. यावांश् च श्रुतस्यार्थस्योत्सर्गे दोषः, तावान् अश्रुतपरिकल्पनायाम्, उभयत्र हि प्रसिद्धिर् बाध्यते. तस्माद् अन्याय्यत्वाद् विकल्पस्य श्रुतिलिङ्गयोः श्रुतिबलीयसीत्य् अवगच्छामः. अथ यद् उक्तम् - सति विरोधे न्याय्यो बाधः, न चात्रास्ति विरोध इति, अयम् अस्ति विरोधः, यद् अकृतसामर्थ्ययोर् वाक्यप्रकरणयोर् इन्द्रोपस्थानवाचिनी श्रुतिर् भवति, कृतसामर्थ्ययोस् तु नावकल्पते, न च वाक्यप्रकरणाभ्यां युगपत् कृतसामर्थ्याभ्याम् [२९०]{*३/२८१*} अकृतसामर्थ्याभ्यां च शक्यं भवितुम्. तस्माद् विरोधः, विरोधे च श्रुतिर् लिङ्गाद् बलीयसीति. लिङ्गवाक्ययोर् विरोधे किम् उदाहरणम्? स्योनं ते सदनं कृणोमि घृतस्य धारया सुषेवं{*३/२८२*} कल्पयामि. तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति{*३/२८३*}. अत्र संदेहः - किं कृत्स्नो मन्त्र उपस्तरणे पुरोडाशासादने च प्रयोक्तव्यः, उत कल्पयाम्य् अन्त उपस्तरणे, तस्मिन् सीदेत्येवमादिः पुरोडाशासादन इति. यदि वाक्यं बलीयः, ततः कृत्स्न उभयत्र. कथम्? सुषेवं{*३/२८४*} कल्पयामीत्य् एतद् अपेक्ष्य, तस्मिन् सीदेत्येवमादिः पूर्वेणैकवाक्यताम् उपैति - यत् कल्पयामि, तस्मिन् सीदेति. अथ लिङ्गं बलीयः, ततः कल्पयाम्य् अन्तः सदनकरणे. कथम्? स्योनं ते सदनं कृणोमीति{*३/२८५*}, सदनकरणम् अभिवदितुम् अलम् इति. तस्मिन् सीदेत्य् अयम् अपि पुरोडाशं सादयितुम् इति, सादने विनियुज्यते. किं तावत् प्राप्तम्? तुल्यबले एते कारण इति, यथा लिङ्गं प्रति श्रुतेर् बलीयस्त्वम् उक्तम्, न तथा वाक्यं प्रति लिङ्गस्योच्यते. अथवा वाक्यम् एव लिङ्गाद् बलीयः. कुतः? तद् धि श्रुत्यापि बाध्यते, न च बलीयः कारणं शक्यते बाधितुम्. तेनास्य भङ्गुरताम् अध्यवस्यामः, यस् त्व् एकेन बाध्यते, शक्यो ऽसाव् अन्येनापि बाधितुम् इति. एवं प्राप्ते ब्रूमः - लिङ्गवाक्ययोर् लिङ्गं बलीय इति. कुतः? अर्थविप्रकर्षात्. को ऽत्रार्थविप्रकर्षः? प्रकरणवतः संनिधाव् आम्नानाद् दर्शपूर्णमासाङ्गम् अयं मन्त्र इत्य् अवगम्यते, तस्मिन् सीदेति पुरोडाशासादनाभिधानसामर्थ्यात् सादने विनियुज्यमाने कृतसामर्थ्यं मन्त्राम्नानम् इति, नास्ति प्रमाणं येनोपस्तरणे ऽपि विनियुज्येत. तथा स्योनं ते सदनं कृणोमीत्य्{*३/२८६*} एषो ऽपि प्रकरणाम्नानसामर्थ्याद् एव दर्शपूर्णमासाङ्गताम् आपन्नः [२९१]{*३/२८७*} सामर्थ्याद् एवोपस्तरणे विनियोगात् कृतप्रयोजने न पुरोडाशासादने विनियोगम् अर्हति, न ह्य् अस्मिन् विनियुज्-यमानस्य किंचिद् अपि प्रयोजनम् अस्ति. एवम् उपस्तरणे तस्मिन् सीदेत्य् अस्य नास्ति सामर्थ्यम्. पूरोडाशासादने ऽपि स्योनं त इत्य्{*३/२८८*} अस्य. पूर्वेणैकवाक्यताम् उपेत्योपस्तरणे सामर्थ्यम्, पूर्वस्य परेणैकवाक्यत्वात् सादने, न तु स्वरूपेणोभयोः. तद् एषो ऽर्थविप्रकर्षः. यत् स्योनं त इत्य्{*३/२८९*} अस्य प्रत्यक्षं सदनकर्मणो ऽभिधानसामर्थ्यम्, तन् मुख्यम्. तस्मिन् सीदेत्य् अस्य पुनः पूर्वेण सहैकवाक्यताम् उपगतस्य भवति जघन्यम्. तद् अत्र पूर्वस्य मन्त्रस्याभिधानसामर्थ्याद् उपस्तरणे विनियोग उक्तो भवतीति, संनिकृष्टो लिङ्गस्य श्रुत्यर्थः, उत्तरस्य तूपजनिते ऽभिधानसामर्थ्ये ततः श्रुत्यर्थ इति लिङ्गान्तरितो विप्रकृष्टो भवति. एवम् उत्तरस्य सादने संनिकृष्टः पूर्वस्य च लिङ्गान्तरितः. तस्माद् अर्थविप्रकृष्टाल् लिङ्गवाक्ययोर् लिङ्गं बलवत्तरम्, ततः स्योनम् इत्य्{*३/२९०*} एष शब्दो यद्य् अप्य् उत्तरेणाकाङ्क्शित इति सादने ऽपि प्रयोगम् अर्हति, तथापि भित्वा वाक्यम् उपस्तरण एव विनियोक्तव्यः. तस्मिन् सीदेत्य् एष च सादने. ननु स्योनं त इत्य्{*३/२९१*} अस्य शब्दस्य यथैवोपस्तरणाभिधानसामर्थ्यम्, एवम् उत्तरेणैकवाक्यताम् उपगन्तुं सामर्थ्यम्, सामर्थ्यं च लिङ्गम् इत्य् उच्यते. तस्माद् भिद्यमाने वाक्ये लिङ्गम् एव बाधितं भवतीति. सत्यम् एवम्, एतद् अपि लिङ्गम्, लिङ्गम् अपि खल्व् एतद् एवंलक्षणकं विप्रकृष्टार्थम् एव भवति, लिङ्गाद् एकवाक्यता, तस्माद् अभिधानसामर्थ्यम्. ततः श्रुत्यर्थ इति विप्रकृष्टार्थता, विप्रकृष्टार्थता च बाधने हेतुभूता. तस्मान् न [२९२]{*३/२९२*} उत्तरणैकवाक्यतां यास्यतीति. एवं तस्मिन् सीदेत्य् उत्तरं न पूर्वेणापि. अपि चोत्तरेणैकवाक्यताम् उपगतस्य न किंचिद् अपि दृष्टम् अस्ति कार्यम्, उपस्तरणप्रत्यायनं तु दृष्टम्. कुतः? श्रुतत्वाद् उपस्तरणस्य सादनस्य च. एवम् उत्तरस्य सादनप्रत्यायनम्, न तु पूर्वेणैकवाक्यतायाम्. न चैतौ पूर्वोत्तराभ्याम् एकवाक्यताम् अन्तरेण पृथग् यथायथं कार्ये न कुरुतः. तस्मात् पूर्वः पूर्वत्र विनियोजनीयः, उत्तर उत्तरत्रेति. अथ यद् उक्तम् - श्रुत्यापि तद् बाधितम् इति वाक्येनापि तद् बाधितव्यम् इति. नैतद् एवम्, न हि बाधितस्यान्येनापि बाधनम् एव न्याय्यम्, बाधितं ह्य् अनुगृहीतव्यम् अर्थवत्त्वाय, श्रुतिं प्रति विप्रकृष्टार्थम्, वाक्यं प्रति संनिकृष्टार्थम्, तस्माल् लिङ्गं बलीय इति. अथ वाक्यप्रकरणयोर् विरोधे कथम् इति. किं पुनः प्रकरणं नाम? कर्तव्यस्येतिकर्तव्यताकाङ्क्षस्य वचनं प्रकरणम्. प्रारम्भो हि स तस्या वचनक्रियायाः, न एष विध्यादिर् विध्यन्तापेक्षः. वाक्यं तूक्तम् एव. तयोर् विरोधे किम् उदाहरणम्? सूक्तवाकनिगदः. तत्र हि पौर्णमासीदेवता अमावास्यादेवताश् चाम्नाताः, ताः परस्परेणैकवाक्यतां नाभ्युपयन्ति. तत्र लिङ्गसामर्थ्यात् पौर्णमासीप्रयोगाद् इन्द्राग्निशब्द उत्क्रष्टव्यो ऽमावास्यायां प्रयोक्तव्यः. अथेदानीं संदिह्यते, यो ऽस्य शेषः, अवीवृधेतां महोज्यायो क्राताम्{*३/२९३*} इति{*३/२९४*}, स किं यावत् कृत्वः सूक्तवाके समाम्नातः, तावत् कृत्व उभयोः पौर्णमास्यम् आवास्ययोः प्रयोक्तव्यः, प्रकरणं बलवत्तरम् इति, उत यत्रेन्द्राग्निशब्द उत्कृष्य नीतः, तत्रैव प्रयोक्तव्यः, वाक्यं बलवत्तरम् इति. एवं सर्वेषु संशयः. किं तावत् प्राप्तम्? तुल्यबले एते कारण इति. कुतः? [२९३]{*३/२९५*} इतरत्राप्य् आकाङ्क्षा, इतरत्रापि, तुल्यायाम् आकाङ्क्षायां नास्ति विनिगमनायां हेतुः, तस्मात् तुल्यबल इति. अथवा वाक्यं दुर्बलम्, बाधितं हि तल्लिङ्गेन. इत्य् एवं प्राप्ते ब्रूमः - प्रकरणाद् वाक्यं बलीयः. कथम्? अर्थविप्रकर्षात्. को ऽत्रार्थविप्र-कर्षः? वाक्य एकैकं पदं विभज्यमानं साकाङ्क्षं भवति, कृत्स्नं परिपूर्णं भवति, तत्र प्रत्यक्ष एकवाक्यभावः, प्रकरणे त्व् अप्रत्यक्षः. कथम्? इतिकर्तव्यताकाङ्क्षस्य समीप उपनिपतितं पूर्णम् इति तस्य प्रकृतस्य साकाङ्क्षत्वम् अवगम्यते, नैकवाक्यभूतम् इत्य् अनुमीयते. एकवाक्यतया चाभिधानसामर्थ्यम् अवकल्प्याभिहितो ऽयम् एवं भवतीति परिकल्पना. एषो ऽत्रार्थविप्रकर्षः, यद् वाक्यस्य समासन्ना श्रुतिः, प्रकरणस्य विप्रकृष्टा. तस्मात् सूक्तवाकेन प्रस्तरं{*३/२९६*} प्रहरतीति पौर्णमासीदेवतावाचिनाम् अमाव् आस्या देवतावाचिनां च निष्कृष्य प्रयोगे तच् छेषाणाम् अपि निष्कृष्य प्रयोगः, तेन यद्य् अपि प्रकरणसामर्थ्यात् पौर्णमासीदेवतापदशेषाणाम् अमाव् आस्या देवतावाचिभिः सहैकवाक्यतानुमीयते, प्रत्यक्षा त्व् अमाव् आस्या देवतापदैः सह, न च प्रत्यक्षविरोधे ऽनुमानं संभवति. अर्थवति च प्रकरणे संजाते न निराकाङ्क्षाणाम् आकाङ्क्षा शक्योपपादयितुम्. अथ यद् उक्तम् - लिङ्गेनापि हि तद् बाध्यते, अतः प्रकरणेनापि बाधितव्यम् इति. न, यद् अन्येनापि बाध्यते, तद् भङ्गुरम् अन्यत्रापीत्य् अवगन्तव्यम्. अथ भङ्गुरम्, प्रमाणम् एव नाभविष्यत्. किंचित् तु प्रति कस्यचित् प्रभावः, वाक्यस्य प्रकरणं प्रति बाधकशक्तिर् न तु लिङ्गं प्रति, लिङ्गं प्रति विप्रकृष्टार्थम् एतत् प्रकरणं प्रति संनिकृष्टार्थम्, तेन वाक्येन प्रकरणं बाध्यत इति. [२९४]{*३/२९७*} अथ प्रकरणस्य क्रमस्य च विरोधे किम् उदाहरणम्? राजसूयप्रकरणे ऽभिषेचनीयक्रमे शौनःशेफाख्यानाद्य् आम्नातम्, यदि प्रकरणं बलवत्, सर्वेषां तद् अङ्गम्, यदि क्रमः, अभिषेचनीयस्यैव. किं तावत् प्राप्तम्? तुल्यबल एते कारण इति. कुतः? न तावद् विशेषम् उपलभामहे, येनावगच्छाम इदं बलीय इति. तस्मात् तुल्यबले एते कारण इति. अपि च प्रकरणं वाक्येन बाधितम्, तस्माद् बाध्येत क्रमेणापीति. एवं प्राप्ते ब्रूमः - प्रकरणं क्रमाद् बलीयः. कुतः? अर्थविप्रकर्षात्. को ऽत्रार्थविप्रकर्षः? प्रकरणवतः साकाङ्क्षत्वात्, तत्संनिधानाम्नातेन परिपूर्णेनाप्य् अवकल्पेतैकवाक्यत्वम्, न तु क्रमवतः क्रम आम्नातेन, अनेकस्याम्नायमानस्य संनिधिविशेषाम्नानमात्रं हि क्रमः. तत्र संनिधिविशेषाम्नानसामर्थ्यात् क्रमवतः संनिधाव् आम्नातस्यानुपलभ्यमानम् एवाकाङ्क्षावत्त्वम् अस्तीत्य् अवगन्तव्यम्. प्रकरणे तु प्रकरणवतः प्रत्यक्षम्, न च प्रकरणवता क्रमवता च यौगपद्येनैकवाक्यता संभवत्य् आम्नातस्येति विरोधः. तत्र प्रकरणे प्रत्यक्षं साकाङ्क्षत्वम्, क्रम आनुमानिकं बाधितुम् अर्हति, साकाङ्क्षत्वाद् एकवाक्यत्वम्. एकवाक्यत्वाद् अभिधानसामर्थ्यम्, सामर्थ्याच् छ्रुत्यर्थ इति संनिकृष्टः प्रकरणस्य श्रुत्यर्थः, विप्रकृष्टः क्रमस्य. तस्मात् क्रम करणयोः प्रकरणं बलवत्तरम् इति. अथ यद् उक्तम् - वाक्येनापि हि तद् बाधितम्, अतो ऽन्येनापि तद् बाधितव्यम् इति. नैतत्, बाधितस्यानुग्रहो न्याय्यः, न बाधितं{*३/२९८*} बाधितव्यम् इति. अथ क्रमसमाख्ययोर् विरोधे किम् उदाहरणम्? किं बलवत्तरम् इति. पौरोडाशिकम् इति समाख्याते काण्डे सांनाय्यक्रमे शुन्धध्वं दैव्याय क्रमण इति{*३/२९९*} शुन्धनार्थो मन्त्रः समाम्नातः. तत्र संदिह्यते - किं समाख्यानस्य बलीयस्त्वात् पुरोडाश[२९५]{*३/३००*}पात्राणां शुन्धने विनियोक्तव्यः, उत क्रमस्य बलीयस्त्वात् सांनाय्यपात्राणाम् इति. किं तावत् प्राप्तम्? तुल्यबले एते करणे{*३/३०१*} स्याताम्. कुतः? अविशेषात्, यदि वा समाख्यैव बलीयसी, बाधितो हि क्रमः प्रकरणेनापीति. एवं प्राप्ते ब्रूमः - क्रमो बलीयान्. कुतः? अर्थविप्रकर्षात्. कः पुनर् अत्रार्थविप्रकर्षः? निर्ज्ञाते प्रकरणेन केनापि सहैकवाक्यत्वे यत् संनिधाव् आम्नायते, तत्राकाङ्क्षां परिकल्प्यते, नैकवाक्यतेत्य् अवगम्यते, लौकिकश् च शब्दः समाख्या. न च, लोक एवंविधेष्व् अर्थेषु प्रमाणम्. तस्मात् क्रमो बलीयान् इति. यद्य् एवं भवत्य् एवंलक्षणकेषु क्रमेण विनियोगः, न त्व् अर्थाविप्रकर्षात् क्रमो बलीयान्. कथम्? द्वयोर् हि प्रमाणयोर् बलीयस्त्वं प्रति संप्रधारणम्, न चैवं सति समाख्या प्रमाणम्, लौकिकत्वाच् छब्दस्य, पुरुषस्य प्रमाणता भवतीति. नैष दोषः, नात्राङ्गभावः पुरुषप्रामाण्याद् गम्यते, पौरोडाशिकशब्द एतस्य काण्डस्य, इत्य् एतद् अत्र पुरुषप्रमाणकम्. भवति चास्मिन्न् अर्थे पुरुषः प्रमाणम्, यथा सांनाय्यक्रम आम्नानं पुरुषप्रमाणकम्, यथा प्रकरणम् एकवाक्यत्वम्, वेदशब्दश् चायम् इति. न ह्य् एते ऽनिन्द्रियविषया अर्था उपपद्यन्ते, एष्व् अभियुक्तानां प्रामाण्यम्, ये त्व् अनिन्द्रियविषयास् तेष्व् अभियुक्ता न प्रमाणम्. तस्मात् समाख्या कारणम्, कारणत्वे च सति बलीयस्त्वं परीक्ष्यम् इति. उच्यते ऽर्थविप्रकर्षस् तर्हि वक्तव्यः समाख्यायाः. अयम् अर्थविप्रकर्षः. उपदिश्यते हि क्रमे समाम्नानात् सांनाय्यसंबन्धः, नोपदिश्यते समाख्यायाम्, शब्दम् उच्चार्यमाणम् उपलभ्यार्थापत्त्या नूनम् अस्तीति कल्प्यते. तस्मात् पूर्ववेदार्थविप्रकर्षात् क्रमेण समाख्या बाध्यत इति. अथ यत् तत्र तत्रोच्यते - इदम् अनेन बाध्यते, इदम् अनेनेति. तत्र यद् बाध्यते, तत् किं बाधकविषयं प्राप्तम् उताप्राप्तम् [२९६]{*३/३०२*} इति. किं चातः? यद्य् अप्राप्तम्, किं बाध्यते? अथ प्राप्तम्, कथं शक्येत बाधितुम्? प्राप्तं बाधकविषयं पूर्वविज्ञानम् इति ब्रूमः. कथम्? सामान्यस्य कारणस्य विद्यमानत्वात्. अथ कथं निवर्तते? मिथ्याज्ञानम्{*३/३०३*} इति प्रत्ययान्तरं भवति. किं तु{*३/३०४*} खल्व् अमिथ्याज्ञानस्य स्वरूपम्? यस्य बाधकः प्रत्ययो विमृष्यमाणस्यापि नोपपद्यते, न तन् मिथ्या. तद् एतेषां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वं पूर्वं यत् कारणं तत् परं परं प्रति बलीयो भवति, नैतस्योत्पन्नस्य विमृष्यमाणस्य बाधकं विज्ञानान्तरम् अस्ति. तस्मात् तेषां समवाये विरोधे{*३/३०५*} परदौर्बल्यम् अर्थविप्रल्कर्षाद् इति.
SK
NOTES: *{३/२७०: E२: ४,२२२; E४: ४,२११; E६: १,१९५}* *{३/२७१: Mऐत्.S. १.३.२६; Tऐत्.S. १.५.८.४; ṚV ८.५१.७अ}* *{३/२७२: Eबेन्द}* *{३/२७३: E२: ४,२२५; E४: ४,२१२; E६: १,१९६}* *{३/२७४: E२,४,६: उपैत्य् एव}* *{३/२७५: E१ गिब्त् श्रुतिर् अपि, लिङ्गम् अपि इन् Kलम्मेर्न्}* *{३/२७६: E२: ४,२४५; E४: ४,२१२; E६: १,१९६}* *{३/२७७: Eबेन्द}* *{३/२७८: E२: ४,२४८; E४: ४,२१३; E६: १,१९७}* *{३/२७९: Eबेन्द}* *{३/२८०: E२: ४,२४९; E४: ४,२१३; E६: १,१९७}* *{३/२८१: E२: ४,२५१; E४: ४,२१४; E६: १,१९८}* *{३/२८२: E२,४: सुशेवं}* *{३/२८३: Tऐत्.Bर्. ३.७.५.२-३; व्ग्ल्. Mआन्ŚS १.२.६.१९}* *{३/२८४: E२,४: सुशेवं}* *{३/२८५: Eबेन्द}* *{३/२८६: Eबेन्द}* *{३/२८७: E२: ४,२५५; E४: ४,२१५; E६: १,१९९}* *{३/२८८: Eबेन्द}* *{३/२८९: Eबेन्द}* *{३/२९०: Eबेन्द}* *{३/२९१: Eबेन्द}* *{३/२९२: E२: ४,२५६; E४: ४,२१५; E६: १,२००}* *{३/२९३: E२: महो ज्यायते ऽक्राताम्, E४: महो ज्यायो ऽक्राताम्, E६: महोज्यायो ऽक्राताम्}* *{३/२९४: Tऐत्.Bर्. ३.५.१०.३}* *{३/२९५: E२: ४,२५९; E४: ४,२१६; E६: १,२००}* *{३/२९६: E२,४,६ ओम्. प्रस्तरं}* *{३/२९७: E२: ४,२६१; E४: ४,२१७; E६: १,२०१}* *{३/२९८: E२,४ ओम्. बाधितं}* *{३/२९९: Tऐत्.S. १.१.३.१}* *{३/३००: E२: ४,२६३; E४: ४,२१७; E६: १,२०२}* *{३/३०१: E२,४: कारणे}* *{३/३०२: E२: ४,२६७; E४: ४,२१८; E६: १,२०२}* *{३/३०३: E२,४: नैव हि तन्निवर्तते. कथं तर्हि? मिथ्याज्ञानम्}* *{३/३०४: E२,४: नु}* *{३/३०५: E१ गिब्त् विरोधे इन् Kलम्मेर्न्}*
SK
अहीनो वा प्रकरणाद् गौणः // MS_३,३.१५ //
SK
ज्योतिष्टोमं प्रकृत्य समामनन्ति - तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति{*३/३०६*}. तत्र संदेहः - किं द्वादशोपसत्ता ज्योतिष्टोम उताहीन इति. किं तावत् प्राप्तम्? ज्योतिष्टोम इति. कुतः? प्रकरणात्, एवं प्रकरणम् अनुगृहीतं भवति. ननु वाक्येन बाध्यते. न बाध्यते, अहीनशब्देन ज्योतिष्टोमं वक्ष्यामः. कुतः? न हीयत इत्य् अहीनः, दक्षिणया क्रतुकरणैर् वा फलेन वा न हीयते, तेन ज्योतिष्टोमो ऽहीनः. वाशब्देन संशयो निवर्त्यते.
SK
[२९७]{*३/३०७*}
SK
NOTES: *{३/३०६: Tऐत्.S. ६.२.५.१}* *{३/३०७: E२: ४,२७३; E४: ४,३४८; E६: १,२०३}*
SK
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत{*३/३०८*} // MS_३,३.१६ //
SK
अपकृष्येत द्वादशोपसत्ता. कुतः? असंयोगाज् ज्योतिष्टोमेन. कथम् असंयोगः? अहीनेनैकवाक्यत्वस्य प्रत्यक्षत्वात्. ननु ज्योतिष्टोम एव गौणो ऽहीनः. नेत्य् उच्यते, न हि मुख्यसंभवे गौणग्रहणम् अर्हति. ननु नञ्समासो भविष्यति. नेति ब्रूमः, तथा सत्य् आद्युदात्तो ऽहीनशब्दो ऽभविष्यत्, मध्योदात्तस् त्व् अयम्{*३/३०९*}. तस्मात् प्रकरणं बाधित्वाहीनस्य धर्मः. अपि च व्यपदेशो भवति - तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति. यद्य् अन्यः साह्नो ऽन्यश् चाहीनः, तत एवं व्यपदेशो ऽवकल्पते, विद्यते च व्यपदेशवचनम्, तस्माद् अहीनस्येति.
SK
NOTES: *{३/३०८: E२,४,६: अपकृष्यते}* *{३/३०९: Vग्ल्. Vआर्त्तिक zउ Pआण्. ६.२.२}*
SK
द्वित्वबहुत्वयुक्तं वा{*३/३१०*} चोदनात् तस्य // MS_३,३.१७ //
SK
ज्योतिष्टोमे श्रूयते - युवं हि स्थः स्वःपती{*३/३११*} इति{*३/३१२*} द्वयोर् यजमानयोः प्रतिपदं कुर्यात्{*३/३१३*}. एते ऽसृग्रम् इन्दव इति{*३/३१४*} बहुभ्यो यजमानेभ्य इति{*३/३१५*}. तत्र संदेहः - ज्योतिष्टोम एव निविशेते प्रतिपादाउ, उत द्वियज्ञं किंचित् कुलायादिं बहुयज्ञं च द्विरात्रादिम् उत्क्रष्टव्य इति. किं प्राप्तम्? द्वित्वबहुत्वयुक्ते ज्योतिष्टोमेनासंयोगाद्{*३/३१६*} उत्कृष्येयातां प्रतिपदौ, न हि [२९८]{*३/३१७*} ज्योतिष्टोमस्य द्वौ यजमानौ श्रूयेते, यथा कुलायस्य, एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम् इति{*३/३१८*}.
SK
NOTES: *{३/३१०: E२,४ ओम्. वा}* *{३/३११: E२,४: स्वर्पतीति}* *{३/३१२: Sआम्.S. २.३५१}* *{३/३१३: Vग्ल्. Pअञ्.Bर्. (Tआ.Bर्.) ६.१०.१४}* *{३/३१४: Sआम्.S. २.१८०}* *{३/३१५: Vग्ल्. Pअञ्.Bर्. (Tआ.Bर्.) ६.९.१३}* *{३/३१६: E१ गिब्त् ज्योतिष्टोमेनासंयोगाद् इन् Kलम्मेर्न्}* *{३/३१७: E२: ४,२७६; E४: ४,३५३; E६: १,२०४}* *{३/३१८: Jऐम्.Bर्. २.१३२}*
SK
पक्षेणार्थकृतस्येति चेत् // MS_३,३.१८ //
SK
इति चेत् पश्यसि - पर्तिपदाव् उत्क्रष्टव्य इति. नैतद् एवम्, प्रकरणं हि बाध्येत. बाध्यताम् असंयोगाद् द्वाभ्यां यजमानाभ्यां बहुभिश् च यजमानैर् ज्योतिष्टोमस्येति चेत्. असत्य् अपि वचने ऽर्थाद् द्वौ यजमानौ भविष्यतः, य एको न शक्ष्यति, समहायः स उपक्रंस्यते, अवश्ययष्टव्ये सति यथा शक्यते, तथा यष्टव्यम् इति बाधित्वापि कांचित् प्राप्तिं यजमानः सहायम् उपादास्यते. एवं प्रकरणे प्रतिपदौ भविष्यतः, तस्मान् नोत्क्रष्टव्य इति.
SK
न प्रकृतेर् एकसंयोगात् // MS_३,३.१९ //
SK
प्रकृतिर् हि ज्योतिष्टोमः, प्रत्यक्षास् तत्र धर्मा आम्नाताः, न कुतश्चिच् चोदकेन प्राप्यन्ते. किम् अतः? यद्य् एवम्, प्रत्यक्षश्रुता न शक्या बाधितुम्. विकृतौ तु चोदकप्राप्ताः सन्त आनुमानिका बाध्येरन्न् इति, विवक्षितं हि ज्योतिष्टोमे कर्तुर् एकत्वं प्रत्यक्षश्रुतं न सामर्थ्येन बाध्यते. यत्रापि ह्य् अवश्यकर्तव्यता श्रूयते, तत्राप्य् एक एव यजमानः श्रूयते - वसन्ते वसन्ते ज्योतिषा यजेतेति. तस्माज् ज्योतिष्टोमाद् उत्क्रष्टव्य एते प्रतिपादाव् इति. अथ कस्मात् पत्न्यभिप्रायम् एतन् न भवति? एकस्यां पत्न्यां यजमाने च, युवं हि स्थ इति, द्वयोर् बहुषु वा पत्नीष्व् एते ऽसृग्रम् इन्दव इति, यथा क्षौमे वसानाव् अग्निमादधीयाताम् इति क्षौमवसानपरं वचनम्, एवम् इहापि प्रतिपद् विधानपरम्. उच्यते - असंभवात् तत्र मुख्यस्य, लक्षणाशब्दः पुंसो [२९९]{*३/३१९*} वाचकः स्त्रियाम्, इह तु द्वियज्ञे बहुयज्ञे च संभवति न लक्षणाशब्दो भवितुम् अर्हति, बहुभ्यो यजमानेभ्य इति. यद् अप्य् एतद् द्विवचनं द्वयोर् यजमानयोर् इति, अत्रापि यः, एकशेषः, पुमान् स्त्रियेत्य् असाव् अपि लक्षणाशब्द एव. अपि च, उपास्मै गायता नर इति प्रतिपदोर् निरवकाशत्वम् एव स्यात्. तस्माद् उत्क्रष्टव्ये एते प्रतिपदाव् इति सिद्धम्.
SK
NOTES: *{३/३१९: E२: ४,२७७; E४: ४,३५८; E६: १,२०४}*
SK
जाघनी चैकदेशत्वात् // MS_३,३.२० //
SK
दर्शपूर्णमासयोः श्रूयते - जाघन्या पत्नीः संयाजयन्तीति. तत्र संशयः - किम् एतद् विधानं दर्शपूर्णमासयोः, उत पशाव् इति. कथं दर्शपूर्णमाययोः? कथं च पशाव् इति. यदि जाघन्यां पत्नीसंयाजा विधीयन्ते तत उत्कर्षः, अथ पत्नीसंयाजेषु जाघनी विधीयते ततो दर्शपूर्णमासयोर् एव. किं प्राप्तम्? उत्कर्षः. कुत एतद् उत्कृष्यते? जाघन्यां पत्नीसंयाजा विधीयन्त इति. कथम्? शब्दात् पत्नीसंयाजानां विधानम्, वाक्येन जाघन्याः, शब्दश् च बलवान्, न वाक्यम्. ननु पत्नीसंयाजा विहिता एव. सत्यं विहिताः, जाघन्याम् इदानीं पुनर् विधीयन्ते, सा तत्संबद्धा कर्तव्येत्य् उच्यते. एवं सति दर्शपूर्णमासयोः पत्नीसंयाजा विनापि जाघन्या न विगुणाः, जाघनी तु तत्र प्रतिपाद्यते. तस्माद् यत्र जाघनी प्रयोजनवती तत्र तस्याः प्रतिपत्तिः, पशौ च सा, न दर्शपूर्ण[३००]{*३/३२०*}मासयोः. एकदेशश् च जाघनी प्रतिपाद्यमाना न पशुं प्रयोक्ष्यते, तस्माद् अस्य विधानस्योत्कर्ष इति.
SK
NOTES: *{३/३२०: E२: ४,२८०; E४: ४,३६४; E६: १,२०५}*
SK
चोदना वापूर्वत्वात् // MS_३,३.२१ //
SK
जाघनी वा पत्नीसंयाजानां गुणत्वेन विधीयते. कुतः? अपूर्वतात्, अप्राप्ता जाघनी पत्नीसंयाजानां गुणत्वेन. तत्र स्वशब्देन पत्नीसंयाजा विहिता जाघनीसंबन्धस् तेषाम् अविहितः, यत्र च संबन्धो विधीयते, तत्रान्यतरस्यान्यत्र विधानम्, संबन्धो नान्तरीयकः. यद् वा संबन्धस्य विधानं नान्तरीयकौ संबन्धिनौ, यत्रोभौ लक्षणत्वेन, तत्र स्वशब्देन संबन्धो विधीयते, यत्र त्व् अन्यतरो लक्षणत्वेन, तत्र एकं लक्षयित्वान्यतरो विधीयते, लक्षणत्वेन चात्र पत्नीसंयाजाः. कथम् अवगम्यते? पत्नीसंबन्धान् न सर्वो यागः, कश्चिद् एव तु लक्ष्यते यस्य पत्न्यः साधनत्वेन. अथ कस्मान् न जाघनीं लक्षयित्वा पत्नीसंयाजा विधीयन्ते? नास्यापूर्वस्य यागस्य पत्न्यः शक्-यन्ते विधातुम्, जाघन्यां तु लक्ष्यमाणायां यागे सपत्नीके विधीयमाने वाक्यं भिद्येत. अस्ति त्व् अत्र विहितः सपत्नीको यागो य पत्नीभिर् लक्ष्यते. तस्माद् यागं लक्षयित्वा जाघनी विधीयते. यत् तु, वाक्येन जाघनीविधानं श्रुत्या यागस्येति, तद् इह यागविधानं न संभवतीत्य् उक्तम्, वाक्यभेदप्रसङ्गात्. तस्माज् जाघनीविधानम्. एवं चेद् दर्शपूर्णमासयोर् विना जाघन्या विगुणः पत्नीसंयाजयागः स्यात्, तस्माद् अनुत्कर्षम् इति.
SK
एकदेश इति चेत् // MS_३,३.२२ //
SK
अथ यद् उक्तम् - एकदेशो जाघनी न पशुं प्रयोक्ष्यते, तस्माद् उत्कर्ष इति. तत् परिहर्तव्यम्.
SK
[३०१]{*३/३२१*}
SK
NOTES: *{३/३२१: E२: ४,२८२; E४: ४,३७१; E६: १,२०६}*
SK
न प्रकृतेर् अशास्त्रनिष्पत्तेः // MS_३,३.२३ /
SK
न प्रकृतौ दर्शपूर्णमासयोर् जाघनी शास्त्रेनोच्यते. एवं पशोर् निष्पन्नया जाघन्या पत्नीसंयाजा यष्टव्या इति. अविशिष्टा जाघनी विधीयते. सा संभवति दर्शपूर्णमासयोः क्रीत्याप्य् आनीयमाना, तस्माद् अनुत्कर्ष इति.
SK
संतर्दनं प्रकृतौ क्रयणवद् अनर्थलोपात् स्यात् // MS_३,३.२४ //
SK
ज्योतिष्टोमे ऽभिषवणफलके{*३/३२२*} प्रकृत्य श्रूयते - दीर्घसोमे संतृद्याद् धृत्या इति{*३/३२३*}. तत्र संदेहः - किं संतर्दनं ज्योतिष्टोम एव, आहोस्विद् दीर्घकालेषु सोमेष्व् इति. उच्यते - नैतल् लुप्तार्थं प्रकृतौ, तस्मान् नोत्कृष्येतेति. आह नन्व् असंतर्दनम् अपि श्रूयते - असंतृणे{*३/३२४*} भवत इति{*३/३२५*}. उच्यते - क्रयणवद् विकल्पिष्यते{*३/३२६*}, यथा हिरण्येन क्रीणाति गवा क्रीणातीत्येवमादीनां विकल्पः, एवम् अत्रापि विकल्पो भविष्यति - संतर्दनम् असंतर्दनं वा भविष्यतीति.
SK
NOTES: *{३/३२२: E२,४: ऽधिषवणफलके}* *{३/३२३: Vग्ल्. Tऐत्.S. ६.२.११.३}* *{३/३२४: E२: असंतृण्ये, E४: असंतृष्णे; E६: असन्तृण्णे}* *{३/३२५: Vग्ल्. Tऐत्.S. ६.२.११.३; Mऐत्.S. १.१०.१३}* *{३/३२६: Vग्ल्. Tऐत्.S. ६.१.१०.१-२}*
SK
उत्कर्षो वा, ग्रहणाद् विशेषस्य // MS_३,३.२५ //
SK
उत्कृष्यते वा संतर्दनम्, गृह्यते हि विशेषः, दीर्घसोमे [३०२]{*३/३२७*} संतृद्याद् इति. ज्योतिष्टोमम् अपेक्ष्य सत्राणि कालतो दीर्घाणि भवन्ति.
SK
NOTES: *{३/३२७: E२: ४,२८५; E४: ४,३७५; E६: १,२०६}*
SK
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् // MS_३,३.२६ //
SK
नोत्कृष्येत वा संतर्दनं ज्योतिष्टोमात्. एवं प्रकरणम् अनुगृहीतं भवति, दीर्घसोमशब्दश् च कर्तृतो भविष्यति, दीर्घस्य यजमानस्य सोमो दीर्घसोम इति.
SK
क्रतुतो वार्थवादानुपपत्तेः स्यात् // MS_३,३.२७ //
SK
न चैतद् अस्ति - ज्योतिष्टोमे संनिवेश इति, दीर्घकाले सोमे क्रियेत, क्रतुत एव दीर्घत्वम्, न कर्तृतः. कुतः? अर्थवादानुपपत्तेः, धृत्येत्य् अर्थवादो भवति, धारणायेत्य् अर्थः, दीर्घकाले सोमे पुनः पुनर् ग्रावभिर् अभिहन्यमाने सोमाभिषवणफलकयोर् दारणशङ्कायाम्, धृत्येत्य् अर्थवाद उपपद्यते, तस्माद् उत्कर्ष इति.
SK
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् // MS_३,३.२८ //
SK
इदं पदोत्तरं सूत्रम्. कानि पदानि? अथ किम् अर्थं संस्थासु न निवेशः?. तथा सति प्रकरणम् अनुगृहीतं भविष्यति, दीर्घसोमशब्दश् च. दीर्घकालो ह्य् अग्निष्टोमम् अपेक्ष्योक्थ्यादिषु संस्थासु सोम इति. उच्यते - न संस्थासु दीर्घकालत्वे ऽपि सोमे ऽर्थवाद उपपद्यते, तावान् एव हि तत्र सोमो दश मुष्टीर् मिमीत इति वचनात्. तत्र धारणे न विशेषः कश्चित्, तस्माद् उत्कर्ष एव.
SK
[३०३]{*३/३२८*}
SK
NOTES: *{३/३२८: E२: ४,२८७; E४: ४,३८०; E६: १,२०७}*
SK
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् // MS_३,३.२९ //
SK
न चैतद् अस्ति - उत्कर्ष इति, प्रकरणानुग्रहाद् अनुत्कर्षः, दीर्घसोमशब्दश् च दीर्घकालत्वाद् उपपद्यते, तत्राप्य् अधिको ऽग्निष्टोमात् सोमः, प्रदानानि हि विवर्धन्ते. तान्य् अविवृद्धे प्रदेये न शक्यानि विवर्धयितुम्. पूर्णे ग्रहे ग्रहशब्दो भवति, तेन न शक्यानि न्यूनानि पात्राणि ग्रहीतुम्. तस्माद् दारणाशङ्कायां धारणम् आशंसितव्यं भवति, तत्र धृत्येत्य् उपपद्यत इति.
SK
अविशेषात् स्तुतिर् व्यर्थेति चेत् // MS_३,३.३० //
SK
इति चेत् पश्यसि - संस्थास्व् अप्य् अर्थवादो ऽवकल्पते प्रदेयविवृद्ध्येति, नैतद् एवम्, व्यर्थैव हि स्तुतिर् भवेत्. कुतः? सोमाविशेषात्, यावान् एवाग्निष्टोमे सोमः, तावान् एवोक्थ्यादिष्व् अपि संस्थासु, उक्थ्यादिष्व् अपि दशमुष्टिर् एव सोमो ग्रहीतव्यः. नन्व् अर्थात् प्रदेयं विवर्त्स्यतीति. दशमुष्टिः स कथं शक्येत विवर्धयितुम्? त्रिपर्वेति च पर्वसंख्यानियमान् न शक्यो बहुपर्वा ग्रहीतुम्, तस्माद् धारणाविशेषाद् अर्थवादानुपपत्तिः संस्थासु स्यात्, तस्माद् उत्कर्षः.
SK
स्याद् अनित्यत्वात् // MS_३,३.३१ //
SK
नैतद् अस्ति - उत्कर्ष इति, संस्थासु स्यात्, प्रकरणानुग्रहात्. अर्थाच् च प्रदेयविवृद्ध्या दारणशङ्कायाम् अर्थवाद उपपद्यते, केन प्रकारेण प्रदेयं विवर्धिष्यत इति, विप्रकृष्टपर्वा सोमो ग्रहीष्यते. अपि च तृतीये सवन ऽशुर् एको ऽभिषूयते, तस्य प्रमाणं च नाम्नातम्. तम् अनेकपर्वाणं स्थूलपर्वाणं च ग्रहीष्यति, [३०४]{*३/३२९*} तेन प्रदेयविवृद्धिर् भविष्यति, अतो ऽर्थवादो ऽवकल्पिष्यते, तस्मात् संस्थासु निवेश इति सिद्धम्.
SK
NOTES: *{३/३२९: E२: ४,२८९; E४: ४,३८४; E६: १,२०८}*
SK
संख्यायुक्तं क्रतोः प्रकरणात् स्यात् // MS_३,३.३२ //
SK
ज्योतिष्टोमे प्रवर्ग्यं प्रकृत्य समाम्नायते - न प्रथमयज्ञे प्रवृञ्ज्याद् द्वितीये तृतीये वा प्रवृञ्ज्याद् इति. तत्र संदेहः - किं ज्योतिष्टोमे सर्वेष्व् एव प्रयोगेषु न प्रवर्जितव्यम्, उत प्रथमे प्रयोगे प्रतिषेध इति. किं तावत् प्राप्तम्? ज्योतिष्टोमे प्रतिषेधः. कुतः? यज्ञसंयोगात्, प्रथमशब्देन यज्ञो ऽभिधीयते ज्योतिष्टोमः. तस्य हि प्रथमसंयोगः, एवं समाम्नायते - एष वाव प्रथमो यज्ञानां{*३/३३०*} यज् ज्योतिष्टोमो य एतेनान्ष्ट्वाथान्येन यजेतेति. यज्ञानां प्रथम इति कृत्वा प्रथमशब्देन ज्योतिष्टोमो ऽभिधीयते, एवं च प्रकरणम् अनुगृह्यते, यदि क्रतोर् एष वादः. तस्मात् संख्यायुक्तः प्रतिषेधो ज्योतिष्टोमस्य प्रवर्ग्यं प्रतिषेधेद् इति.
SK
NOTES: *{३/३३०: E२,४: यज्ञो यज्ञानां}*
SK
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वा // MS_३,३.३३ //
SK
न चैतद् अस्ति - यज्ञस्यैष वाद इति, चतुर्ष्व् अपि वेदेषु न, प्रथमयज्ञ{*३/३३१*} इत्येवंसंज्ञकः कश्चिद् यज्ञो ऽस्ति, भवति तु प्रथमो [३०५]{*३/३३२*} यज्ञस्य प्रयोगः, कर्तृसंयोगात्. पूर्वस्य द्वितीयादीन् अपेक्ष्य प्रथमशब्दो भवति, स प्रयोगस्योपपद्यते, न क्रतोः. प्रयोगः श्रवणाद् गम्यते, क्रतुः प्रयोगसंबद्धत्वात्, श्रुतिश् च बलीयसी न लक्षणा. तस्मात् प्रथमे प्रयोगे न प्रवर्जितव्यम् इति. अथ यद् उक्तम् - ज्योतिष्टोमेन सामानाधिकरण्यात् तद् वचन इति, लक्सणया सामानाधिकरण्यम् इति तत् परिहृतम्. यत् तु प्रथमयज्ञ इति यज्ञशब्देन सामानाधिकरण्यम्, तद् अपि यज्ञशब्दस्य यागवचनत्वाद् अस्मत्पक्षस्याबाधकम्.
SK
NOTES: *{३/३३१: E२,४: प्रथम}* *{३/३३२: E२: ४,२९२; E४: ४,३९२; E६: १,२०८}*
SK
पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ // MS_३,३.३४ //
SK
दर्शपूर्णमासयोः समामनन्ति - तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हि स इति{*३/३३३*}. तत्र संदेहः - किं पौष्णं पेषणं प्रकृतौ, उत विकृताव् इति. किं प्राप्तम्? प्रकृताव् इति. कुतः? प्रकरणात्. ननु प्रकृतौ पूषणं न कस्यचिद् धविषो देवतां समामनन्तीति. उच्यते - प्राकृतीं कांचिद् देवतां पूषशब्दो वक्ष्यति. एवं प्राप्ते ब्रूमः - यत्र पौष्णं हविर् अस्ति, तत्र तस्य पेसणं विधात्सुं शक्यम्, न च प्रकृतौ पूषास्ति, तस्माद् उत्क्रष्टव्यं पेषणम् इति. यद् उक्तम् - कांचिद् देवतां पूषशब्दो वक्ष्यतीति, ब्रूयात्, यद्य् अन्यत्रापि मुख्यः पूषा न स्यात्. नन्व् अन्यत्र क्रियमाणे प्रकरणम् उपरुध्येत. उपरुध्यताम्, वाक्यं ह्य् अस्योपरोधकम्. अथवा नैवात्र संदेहः, एवम् एव प्राप्तम् उच्यते - पौष्णं पेषणं विकृतौ न प्रकृताव् इति, नास्ति पुष्णः{*३/३३४*} प्रकृतौ [३०६]{*३/३३५*} चोदनेति. किम् अर्थं प्राप्तम् उच्यते? उत्तरत्र कथा वर्तिष्यते.
SK
NOTES: *{३/३३३: Vग्ल्. Tऐत्.S. २.६.८.५}* *{३/३३४: E२,४,६: पूष्णः}* *{३/३३५: E२: ४,२९६; E४: ४,४०६; E६: १,२०९}*
SK
तत्सर्वार्थम् अविशेषात् // MS_३,३.३५ //
SK
पौष्णं पेषणं प्रकृतौ श्रूयमाणं विकृताव् इत्य् उक्तम्. तत्र संदेहः - किं चरौ, पशौ, पुरोडाशे च, उत चराव् एवेति. किं तावत् प्राप्तम्? तत् सर्वत्र स्याच् चरौ पशौ पुरोडाशे च. कुतः? अविशेषात्, न कश्चिद् विशेष आध्हीयते, तस्मात् सर्वत्रेति.
SK
चरौ वा, अर्थोक्तं पुरोडाशे ऽर्थविप्रतिषेधात् पशौ न स्यात् // MS_३,३.३६ //
SK
चरौ पौष्णं पेषणं विनियुज्येत. पुरोडाशे तावत् पेषणम् अर्थाद् एव प्राप्नोति, नैवाम् यथा पुरोडाशो भवति, तद् अर्थं तावन् न वचनम्. पशौ च न स्यात्, हृदयादिषु पिष्यमाणेषु तेषाम् आकारविनाशः स्यात्. तत्र को दोषः? हृदयस्याग्रे ऽवद्यतीति{*३/३३६*} न हृदयाद् अवदायिष्यते, तथान्यद् अप्य् अवदानं न यथाश्रुताद् अवदास्यते. ननु शक्यते पिष्टेभ्यो ऽपि हृदयादिभ्यो ऽवदातुम्. नेति ब्रूमः, आकारा हृदयादयः, न मांसानि, उक्तम् एतद् आकृतिः शब्दार्थ इति{*३/३३७*}. यद्य् अपि पुनस् तदाकृतिकः क्रियते, तथाप्य् अस्योत्सादनप्रदेशं प्रति मुह्येयुः, तस्माच् चरौ पौष्णं पेषणं भविष्यतीत्य् एवम् अर्थं वचनम्.
SK
NOTES: *{३/३३६: Tऐत्.S. ६.३.१०.४}* *{३/३३७: MS १.३.३३}*
SK
चराव् अपीति चेत् // MS_३,३.३७ //
SK
इति चेत् पश्यति भवान् - अर्थविप्रतिषेधान् न पश्वर्थम् [३०७]{*३/३३८*} इति. ननु चराव् अप्य् अर्थविप्रतिषेधः, विशदसिद्ध ओदने चरुशब्दम् उपचरन्ति, पिष्यमाणो हि पिष्टकं यवागूर्वा स्यात् खलिर् वा.
SK
NOTES: *{३/३३८: E२: ४,२९८; E४: ४,४११; E६: १,२१०}*
SK
न पक्तिनामत्वात् // MS_३,३.३८ //
SK
अत्रोच्यते - सत्यं विशदसिद्ध ओदने चरुशब्दः प्रयुज्यते, विशदसिद्धश् चरुर् दीयत इति, न त्व् अस्य विशदसिद्धिर् निमित्तम्. यदि विशदसिद्धिर् निमित्तं स्यात्, न पिष्टसिद्धे प्रयुज्येत. तत्रापि हि प्रयुज्यते, पिष्टकचरुः साध्यत इति, अतो ऽन्यद् एतयोः सामान्यम्, तन् निमित्तम्, तद् एतद् उच्यते - न पक्तिनामत्वाद् इति, न चरौ विप्रतिषेधः. कथम्? पक्तिनामत्वात्, पक्तिनामैतत्, चरुर् इति. अनवस्रावितान्तरुष्मपाकेनाभिनिर्वर्त्यस्य भवति चरुशब्दो वाचकः. तेन पिष्ट ओदने विशदौदने च प्रयोक्तारो भवन्ति, चरुर् इति. पक्षोक्तम् एव प्रयोजनम्, पूर्वपक्षे पशाव् अपि पेषणं, सिद्धान्ते चाराव् एव.
SK
एकस्मिन्न् एकसंयोगात् // MS_३,३.३९ //
SK
पौष्णं पेषणं विकृतौ भवति चराव् एवेत्य् उक्तम्. अथेदानीं संदिह्यते - किम् एकदेवत्ये पौष्ण एतद् भवति, उत द्विदेवत्ये ऽपीति. किं द्विदेवत्य उदाहरणम्? राजसूय उत्तरे त्रिसंयुक्ते सौमापौष्णे एकादशकपाले ऐन्द्रापौष्णश् चरुः श्यावो दक्षिणेति, तत्रैन्द्रापौष्ण उदाहरणम्. किं प्राप्तम्? एकदेवत्यस्यैव पेषणम् इति. कुतः? केवलसंयोगात्, यथा चतुर्धाकरणे.
SK
[३०८]{*३/३३९*}
SK
NOTES: *{३/३३९: E२: ४,३००; E४: ४,४१५; E६: १,२१०}*
SK
धर्मविप्रतिषेधाच् च // MS_३,३.४० //
SK
द्विदेवत्ये विप्रतिषिध्येत धर्मः, पूष्णः पेषणम्, नेतरस्य, तत्र यदि पूष्णो भागः पिष्येत, अपिष्ट इतरस्य स्यात्. तत्र विषमः पाको भवेत्, पाकनिमित्तश् च चरुशब्दः स विप्रतिषिध्येत. अथाविरोधं मन्यमाना अपरस्यापि भागं पिंष्युः. भागसंमोहः स्यात्. तत्र को दोषः? अन्यस्य भागो ऽन्यस्य्मा अवदीयेत. तथायथाश्रुतं क्रियेत, तस्माद् अप्य् एकदेवत्ये पेषणम् इति.
SK
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात् // MS_३,३.४१ //
SK
देवतानिमित्तम् एतत् पेषणं श्रूयते - पूषा प्रपिष्टभागः कर्तव्य इति, स च द्विदेवत्ये ऽपि भागे पिष्यमाणे प्रपिष्टभागः कृतो भवति, न यथा चतुर्धाकरणे, तत्र हि तद् धितो निरपेक्षस्य भवति, न सद्वितीयस्य, इन्द्रपीत इति समासो ऽपि निरपेक्षस्य, न सद्वितीयस्य. इह तु प्रपिष्टशब्दस्य भागशब्देन सहान्यपदार्थो बहुव्रीहिः समासः, एषो ऽपि समर्थयोर् एव, न त्व् अत्र द्विदेवत्ये कश्चिद् एवंजातीयको दोषः. तस्माद् एकदेवत्ये द्विदेवत्ये ऽपि वा चराव् अस्य भागः पेष्टव्य एव.
SK
लिङ्गदर्शनाच् च // MS_३,३.४२ //
SK
लिङ्गम् अप्य् एवं भवति - तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हीति{*३/३४०*}, देवतानिमित्तं पेषणम् इति स्तुतिर् दर्शयति. तथा सौमापौष्णं चरुं निर्वपेन् नेमपिष्टं पशुकाम इति{*३/३४१*} नेमपिष्टतां दर्शयति. तथार्धं पिष्टम् अर्धम् अपिष्टं भवति द्विदेवत्यत्वायेति देवतानिमित्तम् एव पेषणं दर्शयति.
SK
[३०९]{*३/३४२*}
SK
NOTES: *{३/३४०: Tऐत्.S. २.६.८.५}* *{३/३४१: Mऐत्.S. २.१.५}* *{३/३४२: E२: ४,३०३; E४: ४,४२३; E६: १,२११}*
SK
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्त्वाद् अर्थाभावाद् द्विचराव्{*३/३४३*} अपेषणं भवति // MS_३,३.४३ //
SK
इदं पदोत्तरं सूत्रम्, नेमपिष्टं भवतीति कस्माद् एतन् न वचनम् इति, उच्यते, यदि वचनम् एतद् भवेत् सौमापौष्णमात्रम् अनूद्य सर्वत्र पेषणं विदध्याच् चरौ पशौ पुरोडाशे च, तत्र सोमापौष्णस्य{*३/३४४*} चरुसंबन्धे नेमपिष्टसंबन्धे चोभयस्मिन् विधीयमाने वाक्यम् भिद्येत. तस्माद् यो यः सौमापौष्णस् तत्र तत्र नेमपिष्टता, तं प्रति सौमापौष्णमात्रं प्रति{*३/३४५*} शास्त्रवत्त्वम् अर्धपेषणस्य, पुरोडाशे ऽर्थात् सर्वपेषणे प्राप्ते ऽर्थाभावाच् च पशौ चरौ वापेषणे प्राप्ते वचनम् इदं भवेत्. तत्र चरुशब्दो न विवक्षितस्वार्थः स्यात्, प्रदर्शनार्थः कल्प्येत, पेषणानुवादपक्षे पुनर् नैष विरोधो भवति, तस्माद् भवत्य् एव लिङ्गम्. नन्व् अङ्गनाशभयात् पशोर् अपेषणम्. नेति ब्रूमः - अर्धपेषणे नाङ्गनाशो ऽपिष्टाद् अवदास्यते, पेषणं चादृष्टार्थम्.
SK
NOTES: *{३/३४३: E२,४: धि चराव्}* *{३/३४४: E२,४,६: सौमापौष्णस्य}* *{३/३४५: E१ गिब्त् सौमापौष्णमात्रं प्रति इन् Kलम्मेर्न्}*
SK
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नवद् उभयोर् न स्याद् अचोदितत्वात् // MS_३,३.४४ //
SK
एकदेवत्ये वा पौष्णं पेषणं भवितुम् अर्हति, नैन्द्रापौष्णे. कुतः? नैष देवताधर्मो विधीयते, पूष्णो भागः पिष्ट उपयोक्तव्य इति. कस्य तर्हि? अर्थस्य धर्मः. कः पुनर् अर्थः? यागः. कथम् अवगम्यते? न देवताधर्म इति. उच्यते - न हि तस्या भागो ऽस्ति. ननु यद् देवतायै दीयते, तत् तस्या भागो भवति. उच्यते - एतद् धि देवताम् उद्दिश्य त्यज्यते, न च त्यागमात्रेण देवतास्वत्वं भवति. परिग्रहणेन हि स्वस्वामिसंबन्ध आपद्यते, न च परिगृहीतं देवतयेति किंचन प्रमाणम् अस्ति. यश्{*३/३४६*} च यं भजते, स [३१०]{*३/३४७*} तस्य भागः, न च हविर् देवता भजते, तस्मान् नास्ति पूष्णो भागः. अथापि कथंचिद् भवेद् भागः, तथापि न देवताया धर्मः पेषणं भवितुम् अर्हति, निष्प्रयोजनो हि तथा स्याद् अयागधर्मत्वात्. कथं तर्हि प्रकरणान्तरे समाम्नातो यागधर्मो भविष्यतीति. उच्यते, वाक्यसंयोगात्. ननु च देवतयैष संयोगः श्रूयते न यागेनेति. उच्यते - भागाभावाद् अनर्थकत्वाच् च न देवतासंयोग इत्य् उक्तम्. तथापि तु यथा यागसंबन्धो भवति, तथा वक्तव्यम्. तद् उच्यते - अयम् अत्र पूष्णो भागो यः पूषणम् उद्दिश्य त्यज्यते, यस्य द्रव्यस्य त्यागे पूषा देवता, न चैन्द्रापौष्णे भवति पूषा देवता, न स चरुः पूष्णः स्वत्वेन संबध्यते. तस्माद् ऐन्द्रापौष्णे न कश्चिद् अस्ति पूष्णश् चरुणा संबन्धः, केवले तु पूषणि देवताभूते तस्मै संकल्पितो भागो भवति. कथम्? यम् उद्दिश्य संकल्पो भवति स तस्य भाग इति प्रसिद्धिर् एषा, तेन यद्य् अपि पूषा स्वेनोच्चारणेनेन्द्रापूष्णोर् उपकारकम् उच्चारणं कुर्वन्न् उपकारको भवेत्, तथापि न तस्य द्विदेवत्यो भाग इत्य् उच्यते, असंकल्पनात्. केवले पूषणि देवतायां चरोः पेषणं क्रियते, नैन्द्रापौष्णेषु द्विदेवत्येष्व् इति.
SK
NOTES: *{३/३४६: E२,४,६: यच्}* *{३/३४७: E२: ४,३०५; E४: ४,४२८; E६: १,२१२}*
SK
हेतुमात्रम् अदन्तत्वम् // MS_३,३.४५ //
SK
यद् उक्तम् - अदन्तको हीति{*३/३४८*} देवताधर्मं दर्शयतीति. अर्थवाद एष इतरस्मिन्न् अपि पक्ष उपपद्यते.
SK
NOTES: *{३/३४८: Eबेन्द}*
SK
वचनं परम् // MS_३,३.४६ //
SK
अथापरं यत् कारणम् उक्तम् - नेमपिष्टम् इति{*३/३४९*} द्विदेवत्ये पेषणं दर्शयति, अर्धपिष्टं{*३/३५०*} भवत्य् अर्धम् अपिष्टं द्विदेवत्यत्वायेति [३११]{*३/३५१*} देवताधर्मं दर्शयतीति. अत्रोच्यते - एवं सति वचनम् इदम् अप्राप्ते भवतीति. नन्व् अनेकार्थविधिधानम् एकं वाक्यं प्राप्नोति. उच्यते - सति पक्षान्तरे ऽनेकार्थविधिः पक्षान्तराश्रयणेन परिह्रियते. असति पुनः पक्षान्तरे उच्चारणानर्थक्यप्रसङ्गपरिजिहीर्षयानेकार्थं वाक्यम् अभ्युपगन्तव्यं भवति. तस्मान् न द्विदेवत्ये पेषणम् इति सिद्धम्.
SK
[३१२]{*३/३५२*}
SK
NOTES: *{३/३४९: Eबेन्द}* *{३/३५०: E२,४: अर्धं पिष्टं}* *{३/३५१: E२: ४,३०७; E४: ४,४३३; E६: १,२१२}* *{३/३५२: E२: ४,३०७; E४: ४,४३५; E६: १,२१३}*
SK
निवीतम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् // MS_३,४.१ //
SK
दर्शपूर्णमासयोर् आम्नातम् - निवीतं मनुष्याणां प्राचीनावीतं पितॄणाम् उपवीतं देवानाम् उपव्ययते देवलक्ष्मम् एव तत् कुरुत इति{*३/३५३*}. निवीतं मनुष्याणाम् इत्य् अत्र संदेहः - किम् अयं विधिर् उतार्थवाद इति. यदा विधिः, तदा किम् अयं पुरुषधर्म उत कर्मधर्मः? अथ यत् प्रकरणे मनुष्याणाम्, तत्र विधिः, उत मनुष्यप्रधाने कर्मणि निविशत इति. किं प्राप्तम्? विधिर् मनुष्यधर्मश् चेति, यदि विधिर् एवम् अपूर्वम् अर्थं विदधद् अर्थवान् भवति, इतरथार्थवादमात्रम् अनर्थकम्. विधिश् चेत् पुरुषधर्मो निवीतं मनुष्याणाम् इति पुरुषप्रधानो निर्देशः. कथम् अवगम्यते? नात्र मनुष्या विधीयन्ते, मनुष्याणां निवीतं विधीयते, न चाविहितम् अङ्गं भवति. यदि मनुष्या अपि विधीयेरन् वाक्यं भिद्येत. तस्मान् निवीतं मनुष्याणाम् उपकारकम्. ननु प्रकरणाद् दर्शपूर्णमासयोर् उपकारकम्. प्रकरणाद् धि वाक्यं बलवत्तरम्. अपि च गुणभूतेषु मनुष्येषु कारकसंबन्धस्य विवक्षितत्वात् तृतीया भवेत्, षष्ठी त्व् एषा संबन्धलक्षणा, तत्र गुणभूतेषु मनुष्येषु मनुष्यग्रहणं नैव कर्तव्यं स्यात्. मनुष्यैर् एव तत् क्रियमाणं क्रियेत, मनुष्यप्रधानपक्षे तु कर्तव्यम्.
SK
[३१३]{*३/३५४*}
SK
NOTES: *{३/३५३: Tऐत्.S. २.५.११.१}* *{३/३५४: E२: ४,३०९; E४: ४,४३८; E६: १,२१३}*
SK
अपदेशो वा, अर्थस्य विद्यमानत्वात् // MS_३,४.२ //
SK
अपदेश इति ज्ञायमानस्य वचनम्. स एष न विधिः. अनुवाद एषः. कुतः? अर्थस्य विद्यमानत्वात्. प्राप्त एवार्थः, यन् निवीतं मनुष्याणाम्, निवीतं हि मनुष्याः प्रायशः स्वार्थं कुर्वन्ति, तस्माद् अनुवादः.
SK
विधिस् त्व् अपूर्वत्वात्{*३/३५५*} स्यात् // MS_३,४.३ //
SK
विधिर् एव भवेत्, तथा प्रयोजनवान्, इतरथा वादमात्रम् अनर्थकम्, पूर्ववान् अनुवादो भवति, अयं त्व् अपूर्वः, यन् नियमेन निव्यातव्यम् इति.
SK
NOTES: *{३/३५५: E२,४: अपूर्ववत्त्वात्}*
SK
स प्रायात् कर्मधर्मः स्यात् // MS_३,४.४ //
SK
यद् उक्तम् - विधिर् इति, एतद् गृह्यते. यत् तु मनुष्यधर्म इति, तन् नानुमतम्. क्रतुधर्मो{*३/३५६*} ऽयं प्रकरणात्, प्रकृत्यैव{*३/३५७*} हि कर्मप्रायेषु धर्मेषूच्यमानेष्व् एतद् अभिधीयते, तस्मात् कर्मधर्मः. NOTES: *{३/३५६: E२: कृतधर्मो}* *{३/३५७: E२: प्रकृत्यैवं}*
SK
वाक्यशेषत्वात् // MS_३,४.५ //
SK
निवीतं मनुष्याणाम् इत्य् अस्य वाक्यशेषः समाख्या, आध्वर्यवम् इति{*३/३५८*}. यदि दर्शपूर्णमासयोः शेषः, ततो ऽध्वर्युणा कर्तव्यम्. तत्र समाख्यानुगृहीष्यते{*३/३५९*}.
SK
NOTES: *{३/३५८: E२: आध्वर्यवति}* *{३/३५९: E२,४,६: समाख्यानुग्रहीष्यते}*
SK
तत्प्रकरणे, यत् तत्संयुक्तम् अविप्रतिषेधात् // MS_३,४.६ //
SK
उच्यते - प्रकरणात् समाख्यानाच् च कर्मधर्मो विज्ञायते, [३१४]{*३/३६०*} वाक्यान् मनुष्यधर्मः, तस्माद् उत्कर्षम् अर्हति. नेति ब्रूमः, प्रकरण एवाभिनिविशमानस्य मनुष्यप्रधानतावकल्पिष्यते. कथम्? यद् दर्शपूर्णमासयोर् मनुष्यप्रधानम्, तत्र निवेक्ष्यते ऽन्वाहार्यकर्मणि, प्रकरणं चैवम् अनुग्रहीष्यते, वाक्यं च.
SK
NOTES: *{३/३६०: E२: ४,३१०; E४: ४,४४१; E६: १,२१४}*
SK
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् // MS_३,४.७ //
SK
नैतद् अस्ति - प्रकरणे निवेश इति, मनुष्यप्रधाने कर्मणि निवीतं स्याद् आतिथ्ये. कुतः? तुल्यवत् प्रसंख्यानात्, तुल्यानि चैतानि प्रसंख्यायन्ते. यत् तावत्, उपवीतं देवानाम् उपव्ययत इति, तत् प्रकृतयोर् दर्शपूर्णमासयोर् उपवीतं विदधाति. यत् प्राचीनावीतं पिटॄणाम् इति, तत् पितृप्रधाने कर्मणि प्राचीनावीतं विदधाति. यद् अप्य् एतत्, निवीतं मनुष्याणाम् इति, तद् अप्य् आतिथ्ये निरपेक्षं विदधाति. कथं गम्यते? मनुष्यप्रधाने विदधातीति. मनुष्याणाम् इति षष्ठ्यन्तेन संबन्धात्. मनुष्याणाम् एव प्राप्नोति, न मनुष्यप्रधाने. उच्यते - मनुष्याणां कल्प्यमाने फलं कल्पनीयम्, मनुष्यप्रधाने पुनः षष्ठी भविष्यति, संबन्धश् चैवम् अवकल्पिष्यते, फलं चैवं न कल्पनीयम्. तद् उक्तम् - समेषु वाक्यभेदः स्याद् इति{*३/३६१*}. ननु{*३/३६२*} मनुष्यप्रधानेन सहैकवाक्यतां प्राप्तम्, पुनः प्रकृताभ्यां दर्शपूर्णमासाभ्याम् एकवाक्यतां यास्यति. न हि द्वौ संबन्धाव् एकस्मिन् वाक्ये विधीयेते, भिद्येत हि तथा वाक्यम्. इतरस्य मनुष्यग्रहणस्य निवीतसंबन्धार्थत्वात्, तेनैव सहैकवाक्यता भविष्यति प्रत्यक्षेण शब्देन, तद् एकवाक्यतया चार्थवत्त्वे सति न प्रकृतेनैकवाक्यतावकल्प्यते. तस्मात् प्रकरणं बाधित्वातिथ्ये निवेक्ष्यत इति.
SK
[३१५]{*३/३६३*}
SK
NOTES: *{३/३६१: MS २.१.४७}* *{३/३६२: E२,४: न तु}* *{३/३६३: E२: ४,३१२; E४: ४,४४४; E६: १,२१५}*
SK
अर्थवादो वा प्रकरणात् // MS_३,४.८ //
SK
नैतद् अस्ति - विधिः स च मनुष्यप्रधाने कर्मणीति. मनुष्याणाम् इति मनुष्यसंबन्धो ऽत्र श्रूयते, न मनुष्यप्रधानेन कर्मणा संबन्धः. मनुष्यप्राधान्ये च सति फलं कल्पनीयम्. आतिथ्यकर्मणा त्व् अनिर्दिष्टेनाप्रकृतेनानुमेयेन संबध्येत. तत्र को दोषः? प्रकरणाद् उत्कृष्येत संभवंस् तत्र. कथं संभव इति चेत्. अर्थवाद एषः स प्रकृतं स्तुवन् प्रकरणे संभविष्यति, विधिः सन्न् उत्कृष्येत. तस्मान् न विधिर् मनुष्यप्रधाने कर्मणीति.
SK
विधिना चैकवाक्यत्वात् // MS_३,४.९ //
SK
इतश् च न विधिः, कुतः? विधिनैकवाक्यत्वात् - उपव्ययते देवलक्ष्मम् एव तत् कुरुते इत्य् एष विधिः, अनेनास्य सहैकवाक्यता भवति. यदीतरो ऽपि विधिः स्यात्, वाक्यं भिद्येत, न हि विधेश् च{*३/३६४*} विधेश् चैकवाक्यता भवति, वचनव्यक्तिभेदात्. तत्रैकवाक्यतारूपं बाध्येत. किम् एकवाक्यतारूपम्? निवीतं मनुष्याणाम् इति प्राप्तानुवादः. प्राप्तस्य किम् अर्थेन पुनर् वचनम्? उपवीतस्तुत्यर्थेन. कथम् उपवीतस्तुतिः? निवीतम् अयोग्यं देवकर्मणि दर्शपूर्णमाससंज्ञके, मनुष्याणां हि तत्. तथा प्राचीनावीतं पितॄणाम्, न देवकर्मणि. उपवीतं तु तत्र योग्यम्, तस्माद् उपव्यातव्यम् इति. यथा, यादृशो ऽस्य वेशः{*३/३६५*}, तादृशो नटानाम्, यादृशो देवदत्तस्य तादृशो ब्राह्मणानाम् इति देवदत्तवेशप्रशंसार्थम्{*३/३६६*} इतरवेशसंकीर्तनम्{*३/३६७*}. एवम् इहाप्य् उपव्यानस्तुत्यर्थेन निवीतसंकीर्तनम्. नास्त्य् अत्र विधायकः शब्दः - निवीतं मनुष्याणां कर्तव्यम् इति. आतिथ्यप्रयोगवचनम्, तस्य कर्तव्यताविधायकम् इति चेत्. नैतद् एवम्, [३१६]{*३/३६८*} स्तुत्यर्थेनार्थवत्त्वे सति न शक्यं कल्पयितुम्, परोक्षं हि तद् आनर्थक्यपरिजिहीर्षया कल्प्येत. परिहृते त्व् आनर्थक्य इह पुनर् न किंचित् कल्पनीयम्, तस्माद् अर्थवादः. एवं च वाक्येनाविरुद्धं प्रकरणम् अर्थवद् भवति.
SK
अ. उपवीतं लिङ्गदर्शनात् सर्वधर्मः स्यात्//
SK
ब्. न वा प्रकरणात् तस्य दर्शनम्//
SK
च्. विधिर् वा स्याद् अपूर्वत्वात्//
SK
द्. उदक्त्वं चापूर्वत्वात्//
SK
ए. सतो वा लिङ्गदर्शनम्//
SK
f. विधिस् तु धारणे ऽपूर्वर्त्वात्//{*३/३६९*}
SK
NOTES: *{३/३६४: E२,४ ओम्. च, E६ ओम्. विधेश् च}* *{३/३६५: E२,४: वेषः}* *{३/३६६: E२,४: देवदत्तवेषप्रशंसार्थम्}* *{३/३६७: E२,४: इतरवेषसंकीर्तनम्}* *{३/३६८: E२: ४,३१४; E४: ४,४४६; E६: १,२१५}* *{३/३६९: Zउ दिएसेन् ६ इम् Bहाष्य निछ्त् कोम्मेन्तिएर्तेन् Sऊत्राणि व्ग्ल्. G.Jह, Ü., Bद्.१, S.४९४}*
SK
दिग्विभागश् च तद्वत् संबन्धस्यार्थहेतुत्वात् // MS_३,४.१० //
SK
ज्योतिष्टोमं प्रकृत्य श्रूयते - प्राचीं देवा अभजन्त दक्षिणां पितरः प्रतीचीं मनुष्या उदीचीम् असुरा इति{*३/३७०*}. अपरेषाम्, उदीचीं रुद्रा इति{*३/३७१*}. तत्र संदेहः - किं विधिर् उतार्थवादः? [३१७]{*३/३७२*} विधिः सन् किं मनुष्यधर्मः, उत कर्मधर्मः? अथ वा प्रकरणे मनुष्यप्रधाने कर्मणि निवेशः? किं वातिथ्य इति. किं तावत् प्राप्तम्? दिग्विभागश् च तद्वत्, संबन्धस्यार्थहेतुत्वात्. य एष दिग्विभागः, स निवीतवद् विचार्यः. यो निवीते पूर्वपक्षः, स इह पूर्वपक्षः, यो मध्यमः, स मध्यमः, यः सिद्धान्तः, स सिद्धान्तः. अर्थवत्त्वाद् विधिर् मनुष्यसंबन्धान् मनुष्यधर्म इति पूर्वपक्षः. प्रत्यङ्मुखा उदङ्मुखा वा पृष्ठत आदित्यं प्रांशु{*३/३७३*} पदार्थान् अनुतिष्ठन्ति मनुष्या इत्य् अनुवादः. विधिर् एव प्रकरणानुग्रहाच् च ज्योतिष्टोमधर्मः, वाक्यप्रकरणानुग्रहाय ज्योतिष्टोमे मनुष्यप्रधाने दक्षिणाव्यापारे निवेश इत्य् अपरः पक्षः. भिन्नत्वाद् वाक्यानाम् आतिथ्ये निवेश इत्य् अपरं मतम्. अर्थवादो ऽयं प्रकरणानुग्रहाय, प्राचीनवंशं करोतीत्य् अनेन विधिनैकवाक्यत्वस्य प्रत्यक्षसिद्धत्वाद् इति सिद्धान्तः.
SK
NOTES: *{३/३७०: Tऐत्.S. ६.१.१.१}* *{३/३७१: E१ गिब्त् अपरेषाम्, उदीचीं रुद्रा इति इन् Kलम्मेर्न्}* *{३/३७२: E२: ४,३१९; E४: ४,४५१; E६: १,२१६}* *{३/३७३: E२,४: प्राशु}*
SK
परुषि दितपूर्णघृतविदग्धं च तद्वत् // MS_३,४.११ //
SK
दर्शपूर्णमासयोर् आम्नातम् - यत् पुरुषि दितं तद् देवानाम्, यद् अन्तरा, तन् मनुष्याणाम्, यत् समूलम्, तत् पितॄणाम् इति{*३/३७४*}. तथा - यो विदग्धः, स नैरृतः. यो ऽशृतः, स रौद्रः, य शृतः, स सदेवत्यः{*३/३७५*}. तस्माद् अविदहता श्रपयितव्यं सदेवत्याय इति{*३/३७६*}. ज्योतिष्टोमे श्रूयते - यत् पूर्णम्, तन् मनुष्याणाम् उपरि, अधो देवानाम् अधः पितॄणाम् इति{*३/३७७*}. तथा - घृतं [३१८]{*३/३७८*} देवानां मस्तु पितॄणां निष्पक्वं मनुष्याणाम् इति{*३/३७९*}. तत्र मनुष्यसंबद्धेषु, रौद्रे च संदेहः - किं मनुष्याणां धर्मा विधयः, उत कर्मधर्मा अनूवादाः? अथ यत् प्रकरणं{*३/३८०*} मनुष्यप्रधानम्, रौद्रं च तत्र निविशेरन्, उतातिथ्ये, उतार्थवाद इति. किं तावत् प्राप्तम्? एतान्य् अपि तद्वत्, यो निवीते पूर्वः पक्षः स एतेषां पूर्वः पक्षः, यो मध्यमः स मध्यमः, यः सिद्धान्तः स एव सिद्धान्तः. अर्थवत्त्वान् मनुष्यसंबन्धाच् च विधयो मनुष्यधर्माश् चेति पूर्वः पक्षः. उपरि मूले चानियमाल् लाघवम्, अशृतं रोगत्वाद् रौद्रम्, पूर्णे ऽपि श्लक्ष्णत्वाल् लाघवम्. एवं घृतं{*३/३८१*} शिरसि निहितं मनुष्याणां सुखकरम् एव, अर्थप्राप्तत्वाद् अनुवाद इत्य् उत्तरः पक्षः. विधिः, कर्मधर्मप्रायात् समाख्यानाच् च कर्मधर्म इति पक्षः. अन्वाहार्ये दक्षिणासु चेति वाक्यप्रकरणानुग्रहात् पक्षः. आतिथ्य इति वाक्यभेदप्रसङ्गात्. अर्थवाद इति, प्रकरणाद् विधिनैकवाक्यत्वाद् इति. पर्व प्रतिलुनाति{*३/३८२*}, उपरि विलाद् गृह्णाति, नवनीतेनाभ्यङ्क्ते, अविदहता श्रपयितव्यम्{*३/३८३*} इत्य् एभिः सहैषाम् एकवाक्यभावः. तस्माद् एते न विधयो ऽर्थवादा इति.
SK
NOTES: *{३/३७४: Tऐत्.S. १.६.८.६}* *{३/३७५: E२,४: देवत्यः}* *{३/३७६: Tऐत्.S. २.६.३.४}* *{३/३७७: Tऐत्.S. १.६.८.४}* *{३/३७८: E२: ४,३२०; E४: ४,४५२; E६: १,२१६}* *{३/३७९: Tऐत्.S. ६.१.१.४}* *{३/३८०: E२,४: प्रकरणे}* *{३/३८१: E२,४: एवम् आयुतं}* *{३/३८२: Tऐत्.S. ६.१.१.५}* *{३/३८३: Tऐत्.S. २.६.३.४}*
SK
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् // MS_३,३.१२ //
SK
दर्शपूर्णमासयोर् आम्नायते - नानृतं वदेद् इति{*३/३८४*}. तत्र संदेहः - किम् अयं प्रतिषेधो दार्शपौर्णमासिकस्य पदार्थस्य [३१९]{*३/३८५*} प्रकरण एव निवेशः. अथ प्रायेण प्राप्तस्य कर्मणः पुरुषं प्रति प्रतिषेधः पुरुषधर्मो ऽयम् इति. किं प्राप्तम्? पुरुषधर्मः स्यात्, पुरुषस्यायम् उपदिश्यते, न दर्शपूर्णमासयोः. कुतः? पुरुषप्रयत्नस्य श्रवणात्, वदेद् इति वदनम् अनुतिष्ठेद् इति श्रुत्या गम्यते, तस्य पुरुषसंबन्धः श्रुत्यैव, कर्मसंबन्धः प्रकरणात्. श्रुतिश् च प्रकरणाद् बलीयसी. इतरथा वदनं भवतीत्य् एतावत्य् अर्थे वदनम् अनुतिष्ठेद् इत्य् अविवक्षितस्वार्थः परार्थो विध्यर्थो भवेत्. पुरुषस्योपदेशे पुनर् विवक्षितस्वार्थ एव शब्दः. तस्मात् पुरुषस्योपदेशः. यस्य चोपदेशः, तस्यायं प्रतिषेधः. स चायम् अर्थ उपनयनकाल एव पुरुषस्य प्रतिषिद्धः, तेन संयोगेनायं नित्यानुवादः. नन्व् एषा श्रुतिस् तस्याः स्मृतेर् मूलम्. नैषा तस्या मूलं भवितुम् अर्हति. यदीयं तन्मूलिका भवेत्, दर्शपूर्णमासयोर् इति स्मर्येत, उपनयनकाल एव चास्योपदेष्टारो भवन्ति. अपि च पुरुषधर्म इत्य् उपदिशन्ति, तस्मान् नैषा स्मृतिर् अतः श्रुतेर् इति.
SK
NOTES: *{३/३८४: Tऐत्.S. २.५.५.६}* *{३/३८५: E२: ४,३२२; E४: ४,४६०; E६: १,२१७}*
SK
विधिर् वा संयोगान्तरात् // MS_३,४.१३ //
SK
विधिर् वायं दर्शपूर्णमासयोर् नानृतं वदेद् इति, नानुवादः. कुतः? संयोगान्तरात्. नियमानुष्ठानेन पुरुषस्य संबन्धः स्मर्यते, पदार्थप्रतिषेधेनेह संयोगः पुरुषस्य. कथम् अन्यच् छ्रूयमाणम् अन्यस्यानुवादो भविष्यति, तस्माद् विधिः प्रतिषेधस्यायम्. आह गृह्णाम{*३/३८६*} एतत्, विधिर् इति. पुरुषधर्म इति तु गृह्णामः{*३/३८७*} पुरुषप्रयत्नस्य श्रुतत्वात्. अत्र ब्रूमः - सर्वेष्व् आख्यातेषु क्रियानुष्ठानं श्रूयते न कारकं किंचित्. कथम् एतद् गम्यते? प्रत्ययात्, यतः क्रियाम् अनुष्ठेयां प्रतीमः. ननु कर्तारम् अपि प्रतियन्ति. सत्यं प्रतियन्ति, न तु शब्दात्. कुतस् तर्हि? अर्थात्, यदा क्रियानुष्ठातव्या विधीयते, [३२०]{*३/३८८*} तदार्थात् कारकव्यापारो गम्यते, यश् चार्थाद् गम्यते. न स श्रौतः, यश् च न श्रौतो न स वाक्याद् गम्यते. कथम् असौ प्रकरणं बाधिष्यते. आह - प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इत्य् आचार्योपदेशात् कर्ता शब्दार्थः कर्म चेत्य् अवगम्यते, कर्तरि शप्{*३/३८९*}, कर्मणि यग्{*३/३९०*} इति प्रत्ययार्थं कर्तारं कर्म च समामनन्त्य् आचार्याः, तस्माच् छब्दार्थः कर्ता कर्म चेति. उच्यते - नाचार्यवचनात् सूत्रकारवचनाद् वा शब्दार्थो भवति, प्रत्ययाद् असौ गम्यते. अनुष्ठेया च क्रिया प्रतीता सती कारकाणि प्रत्याययतीत्य् अवगतम् एतत्. अपि च, नैव कर्ता प्रत्ययार्थः कर्म वेत्य् आचार्या आहुः. ननु कर्तरि कर्मणि च लकारः श्रूयते. नासौ कर्तरि कर्मणि वा श्रूयते किं त्व् एकस्मिन्, एकवचनम्, द्वयोर् द्विवचनं बहुषु बहुवचनम् इति तत्रापरं वचनम्. तत्रैवम् अभिसंबन्धः क्रियते - एकस्मिन् कर्तरि द्वयोः कर्त्रोर् बहुषु कर्तृष्व् इति. एवं कर्मण्य् एकत्वादिसंबन्धः. तत्र नैवं भवति - कर्तरि भवत्य् एकस्मिंश् चेति. कथं तर्हि? कर्तर्य् एकस्मिन्न् एकवचनम्, कर्तुर् एकत्व इत्य् अर्थः. एवं द्वित्वे बहुत्वे कर्मणि च. एवं वर्ण्यमाने लौकिकन्यायानुगतः सूत्रार्थो वर्णितो भवति. सूत्राक्षराणि च न्यायानुगतानि भवन्ति. आगमो ऽपि चायम् एव, यदैकत्वादयो विभक्त्यर्थाः, तदा कर्मादयो विशेषणत्वेनेति. नन्व् एतद् अप्य् अस्ति यदा कर्मादयो विभक्त्यर्थाः, तदैकत्वादयो विशेषणत्वेनेति. उच्यते - अर्थप्राप्ता हि कर्मादयस् ते न भवन्ति शब्दस्याभिधेयभूताः. न त्व् एकत्वादयो ऽर्थात् प्राप्नुवन्ति, तेन ते शब्दार्थभूताः, तस्माद् अपि विशेषणम् एकत्वादयः, तथापि विशेषणम् एवाभिधीयते, यथा हिरण्यमालिन ऋत्विजः प्रचरन्तीति हिरण्यमालित्वं विशेषण[३२१]{*३/३९१*}त्वेन, तथापि तद् एव विधीयते, तस्मात् कर्तुर् एकत्वं शब्दार्थो न कर्ता. ननु कर्तुर् एकत्वाद् एकवचनम्, कर्तुर् द्वित्वाद् द्विवचनम्, कर्तुर् बहुत्वाद् बहुवचनम्. तेन नूनं कर्ता शब्दार्थ इति गम्यते. उच्यते - नैतद् अनुमानाच् छक्यम्, कर्तानुष्ठेयक्रियावगमाद् एवावगम्यत इति प्रत्यक्षम्. तत् तावत् केनचिन् न बाध्यते. एकवचननिर्देशे कर्त्रेकत्वं गम्यते, द्विवचननिर्देशे कर्तुर् द्वित्वम्, बहुवचननिर्देशे कर्तृबहुत्वम्{*३/३९२*}. तद् अपि प्रत्यक्षम्, कतरद् अत्रानुमाणं बाधितुम् अर्हतीति, यथाकृतिवचने शब्दे द्विवचने द्रव्यभेदो ऽवगम्यते, एक-वचने द्रव्यैकत्वम्, एवम् इहापि द्रष्टव्यम्. तस्मान् न श्रौतः, न चेच् छ्रौतः, न प्रकरणं बाधिष्यते. यत् तु पुरुषप्रयत्नो ऽनर्थको भवति कर्मधर्मपक्षे प्रयोगवचनेन कर्तव्यतावचनाद् इति. तद् उच्यते - अङ्गं सत् प्रकरणेन गृह्येत, न चाविहितम् अङ्गं भवति, तस्माद् अङ्गत्वाय विधातव्यम्, अस्मिन्न् अपि पक्षे. अतो मन्यामहे - प्राकरणिकस्यायं निषेध{*३/३९३*} इति. तस्माद् तद्{*३/३९४*} अङ्गम्, यद् अनृतं तन् न वाच्यम् इति, तेन यत् संकल्पितम्, तद् अङ्गम्, तद् एव कर्तव्यम्, व्रीहिम् अयं संकल्प्य न यवमयः प्रदेयः. आह यदोभयोर् अपि पक्षयोर् नानृतं वदितव्यम्, तदा को विचारेणार्थ इति. उच्यते - पूर्वस्मिन् पक्षे पुरुषधर्मः, तत्र भ्रंशे{*३/३९५*} स्मार्तं प्रायश्चित्तम्, सिद्धान्ते दर्शपूर्णमासधर्मः, तत्र भ्रंशे{*३/३९६*} याजुर्वेदिकं प्रायश्चित्तम्.
SK
NOTES: *{३/३८६: E२,४,६: गृह्णीम}* *{३/३८७: E२,४,६: गृह्णीमः}* *{३/३८८: E२: ४,३४८; E४: ४,४७५; E६: १,२१८}* *{३/३८९: Pआण्. ३.१.६८}* *{३/३९०: Pआण्. ३.१.६७}* *{३/३९१: E२: ४,३५६; E४: ४,४७५; E६: १,२१८}* *{३/३९२: E२,४: कर्तुर् बहुत्वम्}* *{३/३९३: E१: निषेधः, E२,४: निषेधे, E६: निषेध}* *{३/३९४: E२,४ ओम्. तद्}* *{३/३९५: E१: भ्रेंषे (?)}* *{३/३९६: E१: भ्रेंषे (?)}*
SK
अहीनवत् पुरुषस् तदर्थत्वात् // MS_३,४.१४ //
SK
ज्योतिष्टोमे श्रूयते - अङ्गिरसो वेत उत्तमाः सुवर्गं [३२२]{*३/३९७*} लोकम् आयन्ते ऽप्सु दीक्षातपसी प्रावेशयंस् तीर्थे स्नाति तीर्थम् एव हि सजातानां भवतीति{*३/३९८*}. दर्शपूर्णमासयोर् आम्नायते, तस्माज् जञ्जभ्यमानो ऽनुब्रूयात्. मयि दक्षक्रतू इति. प्राणापानाव् एवात्मन्धत्त इति{*३/३९९*}. तत्र संदेहः - किम् अयं धर्मः प्रकरणे निविशते, उत पुरुषस्योपदिश्यत इति. किं तावत् प्राप्तम्? अहीनवत् पुरुषः, तदर्थत्वात्. एष विधिः प्रकरणाद् उत्कृष्येत. कुतः? पुरुषश्रुतेः, ब्रूयाद् इति पुरुषप्रयत्नस्य विवक्षितत्वात्. ननु प्रकरणं बाध्यते. उच्यते - बाध्यतां प्रकरणम्, वाक्यं त्व् अस्य बाधकम्, जञ्जभ्यमानसंयोगात्, प्रकरणाद् दर्शपूर्णमासयोर् उपदिश्यत इति गम्यते, वाक्याज् जञ्जभ्यमानस्य, वाक्यं च प्रकरणाद् बलीयः. तस्माद् उत्कृष्येतेति. फलम् अप्य् आमनन्ति, प्राणापानाव् एवात्मन्धत्त इति, स च संयोगो बाध्यते. तस्मात् पुरुषधर्मः, प्रकरणाद् उत्कृष्येताहीनवत्, यथाहीनसंयोगाद्{*३/४००*} द्वादशोपसत्ता प्रकरणाद् उत्कृष्यते. एवं जञ्जभ्यमानसंयोगान् मयि दक्षक्रतू इति वचनम्.
SK
NOTES: *{३/३९७: E२: ४,३७९; E४: ४,५०८; E६: १,२१९}* *{३/३९८: Tऐत्.S. ६.१.१.२}* *{३/३९९: Tऐत्.S. २.५.२.४; Vआज्.S. ३८.२७}* *{३/४००: Vग्ल्. MS ३.३.१५}*
SK
प्रकरणविशेषाद् वा तद् युक्तस्य संस्कारो द्रव्यवत् // MS_३,४.१५ //
SK
न वोत्क्रष्टव्यम्. कुतः? प्रकरणविशेषात्, प्रकरणयुक्त एव जञ्जभ्यमानो वचनेन संस्क्रियते, यथा यवादिद्रव्यं प्रोक्षणा[३२३]{*३/४०१*}दिना. ननु न शक्नोति प्रकरणं जञ्जभ्यमानशब्दम् एकदेशे ऽवस्थापयितुम्, वाक्यं हि प्रकरणाद् बलवत्तरम् इति. उच्यते - न ब्रूमो जञ्जभ्यमानशब्दः प्रकरणेनाप्राकरणिकात् पुरुषान् निवर्त्यत इति. किं तु फलं तत्र कल्पनीयम्. ननु प्रत्यक्षं श्रूयते फलम्, प्राणापानाव् एवात्मन्धत्त इति. नेति ब्रूमः - नात्र विधायकं शब्दम् उपलभामहे, य एषः, प्राणापानाव् एवात्मन्धत्त इति, वर्तमानापदेश एष न विधायकः. स्तावकस् तु भवति मन्त्रवचनस्य, तस्माद् दर्शपूर्णमासाभ्याम् अन्यत्रैतन् न फलवत्. अतः पुरुषस्य दर्शपूर्णमासौ कुर्वतः संस्कारकर्मेति गम्यते. आह पुरुषसंस्कारकर्मेति गृह्यते, दर्शपूर्णमासाव् एव कुर्वत इत्य् एतन् न. कथम्? यो ऽपि ह्य् अन्यत्र दर्शपूर्णमासाभ्याम्, जञ्जभ्यते, सो ऽपि जञ्जभ्यमानशब्देनोच्यत एव. न च, प्रकरणेन व्यावर्त्यत इत्य् एतद् उक्तम्, तस्माद् उत्कृष्यते. अत्रोच्यते - नैव व्यावर्त्यते, संस्कृतेन तु तेन नास्ति प्रयोजनम्. ननु प्रकरणे पुरुषसंस्कारेणापि नास्ति प्रयोजनम्. उच्यते - संस्कृतपुरुषो दर्शपूर्णमासाव् अनुष्ठास्यति. आह, उत्कर्षे ऽपि सति संस्कृतो ऽन्यद् अनुष्ठास्यति. उच्यते - नान्यस्य संस्कारो गुणो भवति, अप्रकृतत्वात्. आह प्रकृतस्यापि न गुणः, वाक्येन पुरुषधर्म इत्य् अवगमात्. उच्यते - आनर्थक्यान् न पुरुषधर्मो ऽवगम्यते. तस्माद् अस्य प्रकृताभ्यां दर्शपूर्णमासाभ्याम् एकवाक्यता, नान्येन फलवतापि कर्मणा, प्रकरणाभावात्, तस्मान् नोत्कर्षः. यत् तु प्रकरणे निवेश एतस्मिन्{*३/४०२*} पक्षे ब्रूयाद् - इत्य् अनुष्ठानवचनम् अविवक्षितस्वार्थम् इति, एवं सति अत्यनुवादो{*३/४०३*} भविष्यति, न पुरुषसंबन्धविधानस्य प्रयोजनम् अस्तीति.
SK
[३२४]{*३/४०४*}
SK
NOTES: *{३/४०१: E२: ४,३८१; E४: ४,५११; E६: १,२२०}* *{३/४०२: E२,४: निवेश इत्य् एतस्मिन्}* *{३/४०३: E२,४: अनुवादो}* *{३/४०४: E२: ४,३८५; E४: ४,५१६; E६: १,२२०}*
SK
व्यपदेशाद् अपकृष्यते // MS_३,४.१६ //
SK
अथ यद् उपवर्णितम् - द्वादशोपसत्ता यथोत्कृष्यते, तथेदम् अप्य् उत्क्रष्टव्यम् इति. उच्यते - तद् धि वाक्येनाहीनानां व्यपदिश्यते, फलवन्तश् चाहीनाः. न च तत्र ज्योतिष्टोमे ऽहीनशब्दः, गौणत्वात्, व्यपदेशाच् च तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति{*३/४०५*}. ततो युक्तं द्वादशोपसत्ता यत् प्रकरणाद् उत्कृष्यते. न त्व् इह पुरुषसंबन्धो निष्प्रयोजनत्वात्, अन्यस्य च प्रयोजनवतः प्रकरणे ऽभावात्.
SK
NOTES: *{३/४०५: Tऐत्.S. ६.२.५.१}*
SK
शंयौ च सर्वपरिदानात् // MS_३,४.१७ //
SK
दर्शपूर्णमासयोः श्रूयते - देवा वै शंयुं बार्हस्पत्यम् अब्रुवन् हव्यं नो वहेति प्रकृत्य, वचनम् इदं भवति - किं मे प्रजाया इति ते ऽब्रुवन् यो ब्राह्मणायावगुरेत् तं शतेन यातयाद् यो निहनत् तं सहस्रेण यातयात्, यो लोहितं करवत् यावतः प्रस्कन्द्य पांसून् संगृहणात् तावतः संवत्सरान् पितृलोकं न प्रजानीयाद् इति. तस्मान् न ब्राह्मणायावगुरेन् न हन्यान् न लोहितं कुर्याद् इति{*३/४०६*}. तत्र संदेहः - किं दर्शपूर्णमासयोर् अवगोरणप्रतिषेधः, उत पुरुषास्योपदिश्यत इति. किं प्राप्तम्? प्रकरणाद् दर्शपूर्णमासयोर् अवगोरणादिप्रतिषेधः. न दर्शपूर्णमास्योर् ब्राह्मणस्यावगोरितव्यं वधो वा कार्यो लोहितं वा प्रस्कन्दनीयम्. अन्य उपाय आस्थातव्य आनतये, ते नान्वाहार्येणानमन्ति [३२५]{*३/४०७*} इति प्रकरणात् प्राप्नोति. एवं प्राप्ते ब्रूमः - शंयौ च प्रकरणाद् उत्कर्षः. कस्मात्? सर्वपरिदानात्, सर्वावस्थस्य ब्राह्मणस्यायं प्रतिषेध उक्तः, न दर्शपूर्णमासगतेनैव नावगोरणादि कर्तव्यम् इति. ननु प्रकरणाद् दर्शपूर्णमासधर्मो ऽयम्. सत्यं प्रकरणात्, एवं वाक्येनावगुरमाणस्य धर्मः, वाक्यं च प्रकरणाद् बलीयः. ननु जञ्जभ्यमानस्येव प्रकरणे निवेशो भवेत्. नेत्य् उच्यते, तत्र फलं कल्पनीयम्, इह कॢप्तम्. अस्ति ह्य् अत्र विधायकविभक्तिः - शतेन यातयात्, सहस्रेण यातयात्, स्वर्गं लोकं प्रजानीयाद् इति, तस्माद् उत्कर्ष एवंजातीयकस्येति.
SK
NOTES: *{३/४०६: Tऐत्.S. २.६.१०.१}* *{३/४०७: E२: ४,३८७; E४: ४,५२१; E६: १,२२१}*
SK
प्रागपरोधान् मलवद् वाससः // MS_३,४.१८ //
SK
दर्शपूर्णमासयोः श्रूयते - मलवद् वाससा न संवदेत्, नास्या अन्नम् अद्याद् इति{*३/४०८*}. तत्र संदेहः - किं मलवद् वाससा सह दर्शपूर्णमासाङ्गस्य संवादस्य प्रतिषेधः, उत पुरुषस्य सर्वत्र प्रतिषेध इति. किं प्राप्तम्? प्रकरणाद् दर्शपूर्णमासयोः प्रतिषेधविधिः. एवं प्राप्ते ब्रूमः - मलवद् वाससा सह संवाद उत्कृष्येत, प्रकरणात्. कस्मात्? प्रागपरोधात्. एवं श्रूयते - यस्य व्रत्ये ऽहनि पत्न्य् अनालम्भुका स्यात् ताम् अपरुध्य यजेतेति{*३/४०९*}. पत्न्या च सह संवादो ऽध्वर्योर् दर्शपूर्णमासयोर् अस्ति - पत्नि पत्न्य् एष ते लोक इति{*३/४१०*}, प्रसज्यमानः प्रतिषिध्येत, स चाप्राप्त [३२६]{*३/४११*} एव प्रागपरोधाद् अपनीयतां यागम् अनुतिष्ठताम्, कथं संवादः प्रसज्येत? यतः प्रतिषेधम् अर्हेत्. तस्माद् उत्कृष्येत मलवद् वाससा सह संवादः.
SK
NOTES: *{३/४०८: Tऐत्.S. २.५.१.५-६}* *{३/४०९: Tऐत्.Bर्. ३.७.१.९}* *{३/४१०: Mऐत्.S. १.४.३}* *{३/४११: E२: ४,३८९; E४: ४,५२४; E६: १,२२२}*
SK
अन्नप्रतिषेधाच् च // MS_३,४.१९ //
SK
अन्नप्रतिषेधश् च भवति - नास्या अन्नम् अद्याद् अभ्यञ्जनं वै स्त्रिया अन्नम् इत्य्{*३/४१२*} उपगमनप्रतिषेध एष{*३/४१३*} विधीयते, स च प्रकरणे न प्रसक्त इति, प्रकरणाद् उत्कृष्टः पुरुषधर्म एष निश्चीयते.
SK
NOTES: *{३/४१२: Tऐत्.S. २.५.१.६}* *{३/४१३: E२,४: एव}*
SK
अप्रकरणे तु तद्धर्मस् ततो विशेषात् // MS_३,४.२० //
SK
अनारभ्य श्रूयते - तस्मात् सुवर्णं हिरण्यं भार्यं दुर्वर्णो ऽस्य भ्रातृव्यो भवतीति{*३/४१४*}. सुवाससा भवितव्यं रूपम् एव बिभर्तीति. तत्र किं प्रकरणधर्म उत पुरुषधर्म इति संशयः. अत्रोच्यते - अप्रकरणे तु तद् धर्मः, ततो विशेषात्, पुरुषधर्म एवंजातीयकः स्यात्. कुतः? ततः प्रकरणाधीताद्{*३/४१५*} विशेषो ऽस्य, नायं प्रकरणाधीतः. यद्य् अप्रकरणे समाम्नातः, सर्वप्रकरणधर्मः स्यात्. अप्रकरणे समाम्नानं न कंचिद् विशेषं कुर्यात्. तस्माद् एवंजातीयकः पुरुषधर्म इति.
SK
NOTES: *{३/४१४: Tऐत्.Bर्. २.२.४.६}* *{३/४१५: E१ गिब्त् प्रकरणाधीताद् इन् Kलम्मेर्न्}*
SK
अद्रव्यत्वात् तु शेषः स्यात् // MS_३,४.२१ //
SK
तुशब्दः पक्षव्यावृत्तौ. न पुरुषधर्मो भवेत्, अग्निहोत्रादीनां शेषः स्यात्. कस्मात्? अद्रव्यत्वात्, नात्र द्रव्यदेवतं श्रूयते, यच्{*३/४१६*} छ्रवणात्, भार्यं यष्टव्यम् इति परिकल्प्येत. असति तु द्रव्यदेवतासंबन्धे विभर्तिर् अयं धारणावचनः संस्कारवाची, [३२७]{*३/४१७*} संस्कारश् च शेषभूतस्यावकल्पते नान्यथा, तस्मात् कर्मणाम् अग्निहोत्रादीनां शेषः. एवं सुवाससा भवितव्यम् इति.
SK
NOTES: *{३/४१६: E२,४: यच्}* *{३/४१७: E२: ४,३९२; E४: ४,६०२; E६: १,२२२}*
SK
वेदसंयोगात् // MS_३,४.२२ //
SK
आध्वर्यवम् इति वेदसंयोगः शेषभूतस्य युज्यते, शेषभूतो ह्य् अध्वर्युणा क्रियते, न पुरुषधर्मः, दर्शपूर्णमासादीनां हि कर्मणां साङ्गानाम् अङ्गानाम् अर्ध्वयुः कर्ता. तस्माद् अपि कर्मधर्मा एवंजातीयका इति.
SK
द्रव्यसंयोगाच् च // MS_३,४.२३ //
SK
द्रव्यपरश् चात्र भवति निर्देशः - सुवर्णं भार्यम् इति द्वितीयार्थसंयोगात्. द्रव्यसंस्कारश् च कर्मशेषपक्षे प्रयोजनवान्, अनर्थकः पुरुषधर्मे.
SK
स्याद् वास्य संयोगवत् फलेन संबन्धस् तस्मात् कर्मैतिशायनः // MS_३,४.२४ //
SK
स्याद् वा फलेनैवंजातीयकानां संबन्धः पुरुषधर्म इत्य् अर्थः, सुवर्णस्य वाससो वा धर्मो भवन् निष्प्रयोजनः स्यात्. ननु संस्कृतेन सुवर्णेन वाससा च कर्म सेत्स्यति. नैतद् एवम्, सुवर्णस्याङ्गं न कर्मण उपकुर्यात्. श्रुत्यादीनाम् अभावान् न कर्माङ्गम्. तस्मात् दुर्वर्णो ऽस्य भातृव्यो भवतीत्येवमादिना एवंजातीयकानां फलेन संबन्धः. ननु वर्तमानापदेशो ऽयम्. सत्यम् एवम् एतत्, आनर्थक्यपरिहाराय फलचोदनया संबन्ध एषि-तव्यो भवति. अन्यस्माच् चैषितव्याद् एकवाक्यगतस्य विपरिणामो{*३/४१८*} लघीयान्. कुतः? [३२८]{*३/४१९*} प्रत्यक्षा तेनैकवाक्यता, परोक्षान्येन, विपरिणामश् च वर्तमानकालस्याविवक्षा, संबन्धस्य च तात्पर्याध्यवसानम्. तस्माद् एवंजातीयकः प्रधानकर्मोपदेशः स्यात्, यथा प्रजापतिव्रतानां फलेन संबन्धः. एतावता हैनसावियुक्तो भवतीति. एवम् अत्रापि द्रष्टव्यम्. तस्माद् एवंजातीयकः पुरुषधर्म इति.
SK
NOTES: *{३/४१८: E२,४: विपरिमाणो}* *{३/४१९: E२: ४,३९४; E४: ४,६१०; E६: १,२२३}*
SK
शेषो ऽप्रकरणे ऽविशेषात् सर्वकर्मणाम् // MS_३,४.२५ //
SK
इह कर्मसंयुक्ता होमा जयादय उदाहरणम्. येन कर्मणेत्सत्{*३/४२०*}, तत्र जयाञ् जुहुयात्, राष्ट्रभृतो जुहोतीति, अभ्यातानाञ् जुहोतीति{*३/४२१*}. तत्रैते किं सर्वकर्मणां कृष्यादीनां शेषभूताः, उत वैदिकानाम् अग्निहोत्रादिनाम् इति. शेषत्वं तु निर्ज्ञातकर्मसंबन्धात्, फलाश्रवणाच् च. किं तावत् प्राप्तम्? सर्वकर्मणां शेषाः, विशेषान् अभिधानाद् इति.
SK
NOTES: *{३/४२०: E२,४,६: कर्मणेर्त्सेत् (कर्मणा ईर्त्सेत्)}* *{३/४२१: Vग्ल्. Tऐत्.S. ३.४.६.२; दzउ औछ् Jह, Üब्स्., Bद्.१, S.५१६}*
SK
होमास् तु व्यतिष्ठेरन् नाहवनीयसंयोगात् // MS_३,४.२६ //
SK
न चैतद् अस्ति - सर्वकर्मणां कर्षणादीनाम् अप्य् अङ्गभूता इति. होमा एते, अतो व्यवतिष्ठेरन्, आहवनीयसंयोगो भवति होमेषु. यदाहवनीये जुहोति तेन सो ऽस्याभीष्टः प्रीतो भवतीति{*३/४२२*}. तेन यस्याहवनीयः, तस्यैते ऽङ्गम्. न [३२९]{*३/४२३*} च कृष्यादीन्य् आहवनीये वर्तन्ते. न चैषां गार्हपत्यो ऽस्ति, यतः प्रणीत आहवनीयः स्यात्. तस्मान् न कर्मणादीनां जयादयः.
SK
NOTES: *{३/४२२: Tऐत्.Bर्. १.१.१०.५}* *{३/४२३: E२: ४,३९६; E४: ४,६१७; E६: १,२२४}*
SK
शेषश् च समाख्यानात् // MS_३,४.२७ //
SK
इतश् च पश्यामो वैदिकानां शेषभूता इति. कुतः? सामख्यानात्, आध्वर्यवम् इति हि समाख्याते वेदे जयादयः समाम्नाताः सन्तो ऽध्वर्युणा करिष्यन्ते. कर्षणादिष्व् अध्वर्योर् अभावाद् अनध्वर्युणापि क्रियमाणाः समाख्यां बाधेरन्, तस्माद् वैदिकानां शेषभूता इति.
SK
दोषात् त्विष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिके न दोषः स्यात् // MS_३,४.२८ //
SK
अस्त्य् अश्वप्रतिग्रहेष्टिः - वरुणो वा एतं गृह्णाति, यो ऽश्वं प्रतिगृह्णाति, यावतो ऽश्वान् प्रतिगृह्णीयात्, तावतो वारुणांश् चतुष्कपालान् निर्वपेद् इति{*३/४२४*}. तत्र संदेहः - किं लौकिके ऽश्वप्रतिग्रह इष्टिः, अथ वैदिक इति. कः पुनर् लौकिको ऽश्वप्रतिग्रहः? को वा वैदिक इति. लोके भिक्षमाणो वाभिक्षमाणो वा यत्राश्वं लभते, तत्र लौकिकाश्वप्रतिग्रहः. वैदिको ऽपि पौण्डरीके ऽश्वसहस्रं दक्षिणा ज्योतिष्टोमे गौश् चाश्वश् चेति. तत्रोच्यते - वैदिकत्वसामान्याद् वैदिक इति प्राप्ते. [३३०]{*३/४२५*} उच्यते - दोषात् त्विष्टिर् लौकिके स्यात्. दोषो हि श्रूयते - वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातीति, स चायम् अनुवादो यत्र दोषः, तत्रेति, स च लौकिके ऽश्वप्रतिग्रहे शूद्राद् अन्यस्माद् वा पापकर्मणः कृतो भवतीत्य् उपपद्यते. दोषसंयोगाल् लौकिक इति गम्यते. आह न दोषसंकीर्तनं प्रायश्चित्तविषयविशेषणम्, किं तु प्रायश्चित्त-स्तुत्यर्थेन. उच्यते - दोषनिर्धातार्थे सत्य् एवं स्यात्, वरुणप्रमोचनम् इदं कर्म, तल् लौकिके भवितुम् अर्हति, लोके वरुणग्रहणस्य विद्यमानत्वात्. वैदिके त्व् अश्वप्रतिग्रहे तन् न स्यात्, शास्त्राद् धि वचनेन{*३/४२६*} तस्य कर्तव्यतावगम्यते. यदि च ततः पापं स्यात्, न तस्य कर्तव्यतावगम्येत, अकर्तव्यं हि पापफलम्. ननु वैदिके ऽपि प्रतिग्रहे ऽप्रतिग्राह्यात् प्रतिगृह्णतः पापम् अस्ति. उच्यते - भवेद् एवम्, यदि प्रतिग्रहस्य कर्तुर् इष्टिर् भवेत्, सा तु खलु यथा हेतुकर्तुः, तथोत्तराधिकरणे वक्ष्यामः. तस्मान् न वेदचोदिते ऽश्वप्रतिग्रहे, इष्टिर् इत्य् एतावद् इहाधिकरणे सिद्धम्.
SK
NOTES: *{३/४२४: Tऐत्.S. २.३.१२.१}* *{३/४२५: E२: ४,३९८; E४: ४,६२०; E६: १,२२४}* *{३/४२६: E१ गिब्त् वचनेन इन् Kलम्मेर्न्}*
SK
अर्थवादो ऽवानुपपातात् तस्माद् यज्ञे प्रतीयेत // MS_३,४.२९ //
SK
न चैतद् अस्ति, यद् उक्तम् - यः शूद्राद् अन्यस्माद् वा पापकृतो लोके ऽश्वं प्रतिगृह्णीयात् स एताम् इष्टिं निर्वपेत्. स हि वरुणगृहीत इत्य् उच्यते, जलोदरेण यो गृहीतः, यस्योदरं जलवृद्ध्या श्वयति. जलोदरम् इत्य् एव लोके तत् प्रसिद्धम्. न च तस्याश्वप्रतिग्रहो लौकिको निदानम् इति प्रति[३३१]{*३/४२७*}ज्ञायते. न चानेन विधीयते. तस्मान् नाश्वप्रतिग्रहाज् जलोदरोपपातः. अथ पापं वरुणशब्देनोच्यते, वृणीत इत्य् एषो ऽभिप्राय इति. तदा प्रसिद्धौ त्यक्तायां क्लेशमात्रम्, वृण्वद् वरुणशब्देनोच्यते, तत्र याज्ञे ऽपि प्रतिग्रहे वरुणगृहीतः स्यात्, रक्षणपोषणविचिकित्सादिना क्लेशेन नैष पक्षो व्यवतिष्ठेत - लौकिके ऽश्वप्रतिग्रह इति, प्रसिद्धिश् च बाध्येत. तस्माद् अर्थवाद एषः, यावद्{*३/४२८*} वरुणगृहीतस्य वरुणोन्मोचने श्रेयः, तावद् एतेत्य् उपमानेनैषा स्तुतिः. यो ऽस्य प्रतिग्रहः, तद् वरुणग्रहणम् इव, येष्टिः, सा तद् उन्मोचनीव, यथा वरुणगृहीतेनोन्मोचनम् अवश्यकर्तव्यम्, तादृग् एवैतद् इति, तस्माद् यज्ञे प्रतीयेत. लौकिके हि फलं कल्पनीयम्, वैदिके यस्मिन्न् अश्वप्रतिग्रहः, तस्याङ्गभूता भविष्यति. तत्र प्रयोगवचनेन सहैकवाक्यता संबन्धाद् अवकल्प्यमाना, परोक्षायाः फलवचनेन सहैकवाक्यताया लघीयसीति युक्तम् इष्टिर् वैदिके दान इति.
SK
NOTES: *{३/४२७: E२: ४,४०३; E४: ४,६२६; E६: १,२२५}* *{३/४२८: E१: यावत}*
SK
अचोदितं च कर्मभेदात् // MS_३,४.३० //
SK
यावतो ऽश्वान् प्रतिगृणीयात्, तावतो वारुणांश् चतुष्कपालान् निर्वपेद् इति{*३/४२९*}. तत्रैतत् समधिगतम् - वैदिके ऽश्वप्रतिग्रह इष्टिर् इति. अथेदानीं संदिह्यते - किं प्रतिग्रहकर्त्रा कर्तव्या, यस्मै दीयते, उत हेतुकर्त्रा, यो ददातीति. किं प्राप्तम्? अचोदितं च कर्मभेदात्, न दानस्य कर्तुर् इष्टिश् चोद्यते, प्रतिग्र्हकर्तुस् ताम् अवगच्छामः - यावतो ऽश्वान् [३३२]{*३/४३०*} प्रतिगृह्णीयात् तावतश् चतुष्कपालान् वारुणान् निर्वपेद् इति, तस्मात् प्रतिग्रहीत्रर्त्विजा कर्तव्येति.
SK
NOTES: *{३/४२९: Tऐत्.S. २.३.१२.१}* *{३/४३०: E२: ४,४०७; E४: ४,६३०; E६: १,२२६}*
SK
सा लिङ्गाद् आर्त्विजे स्यात् // MS_३,४.३१ //
SK
नैषा प्रतिग्रहकर्तुः, किं तर्हि हेतुकर्तुः स्यात्. कुतः? लिङ्गात्. किं लिङ्गम्? पूर्वपदानाम् उत्तरैः पदैर् यथार्थम् अभिसंबन्धः. इदं श्रूयते - प्रजापतिर् वरुणायाश्वम् अन्यद् इति{*३/४३१*}, प्रजापतिर् अश्वस्य दाता कीर्तितः, वरुणः प्रतिग्रहीता, स स्वां देवताम् आर्च्छद् इति. स इति सापेक्षं पूर्वप्रकृतं वाक्यशेषम् अपेक्षते, स इति प्रजापतिं प्रतिनिर्दिशतीति तेन सहैक्यवाक्यतां याति. सामानाधिकरण्याच् च प्रजापतेर् एव प्रतिनिर्देशो ऽवकल्पते, न तु वरुणस्य, वैयधिकरण्यात्. स पर्यदीर्यत इत्य् एषो ऽपि प्रजापतिम् एव प्रतिनिर्दिशति पूर्वप्रकृतम्, तेन च सहैकवाक्यतां याति. स एवैतं वारुणं चतुष्कपालम् अपश्यद् इति प्रजापतिर् एवेति, निरवपत्{*३/४३२*} प्रजापतिर् एवेति, ततो वै स वरुणपाशाद् अमुच्यत प्रजापतिः. वरुण एतं{*३/४३३*} गृह्णातीति हेत्वपदेशो ऽयम्, यस्माद् एव प्रजापतिर् वरुणायाश्वं दत्त्वा परिदीर्णः, तस्माद् यो ऽश्वं प्रति गृह्णाति प्रयच्छति{*३/४३४*} तं वरुणो गृह्णाति, स परिदीर्यत इति. यतस् तु वारुणेन प्रतिमुक्तः, तस्माद् अन्येनाप्य् अश्वं प्रयच्छता वारुणो निर्वप्तव्य इत्य् अश्वस्य दातुर् वारुणीष्टिः प्रशस्यते, कर्तव्यानेनाख्यातेन. तस्माद् अश्वं दत्त्वा वारुणीम् इष्टिं निर्वपेद् इति. आह, ननु यो ऽस्वं प्रतिगृह्णाति स निर्वपेद् इत्य् उच्यते. एवं सत्य् अन्यथोपक्रान्ते वाक्ये ऽन्यथोपसंहृत उपक्रमो ऽप्य् अनर्थकः स्यात्, उपसंहारो ऽपि. तस्माद् उपक्रमे वा शब्दार्थ उपसंहारवशेन कल्पनीयः, उपसंहारे वोपक्रमवशेन. तत्र [३३३]{*३/४३५*} प्रजापतिर् वरुणायाश्वम् अनयद् इति, वरुणाद् अश्वं प्रत्यगृह्णाद् इत्य् उपसंहारानुरोधेन कल्प्येत, यद् वोपक्रमवशेनोपसंहारम्, यो ऽश्वं प्रतिगृह्णातीति, यो ऽश्वं प्रतिग्राहयतीति. तत्र - मुख्यं वा पूर्वं चोदनाल् लोकवद् इति{*३/४३६*} प्रथमम् अनुग्रहीतव्यं विरोधाभावात्. पश्चात् तनं तु विरोधाल् लक्षणया कल्पनीयम्. अपि च, प्रजापतिर् वरुणायाश्वम् अनयद् इति वरुणाद् अश्वं प्रत्यगृह्णाद् इति बह्वसमञ्जसं कल्पयितव्यम्. प्रतिगृह्णातीत्य् एष शब्दः, प्रतिग्राहयतीत्य् एतम् अर्थं शक्नोति यया कयाचिच् छक्त्या वक्तुम्, यो हि तद् आचरति, येन च{*३/४३७*} क्रिया प्रणाड्यापि सिध्यति, स तस्याः क्रियायाः कर्तेति शक्यते वदितुम्, यथा षड्भिर् हलैः कर्षतीति संविधानं कुर्वन् विलेखनम् अकुर्वन्न् अप्य् उच्यते, तत्समर्थम् आचरतीति. एवम् इहापि स प्रतिग्रहसमर्थम् आचरति यो ददाति{*३/४३८*}. तस्माद् ददत् प्रतिगृह्णातीति शक्यते वदितुम्. तस्माद् अध्यवधार्येदम् अवकॢप्तम्. ददत् प्रतिगृह्णातीत्य् उच्यते, तस्य च वारुणीष्टिर् इति.
SK
NOTES: *{३/४३१: Tऐत्.S. २.३.१२.१}* *{३/४३२: E२,४: तं निरवपत्}* *{३/४३३: E२,४: वरुणो वा एतं}* *{३/४३४: E१ गिब्त् प्रयच्छति इन् Kलम्मेर्न्}* *{३/४३५: E२: ४,४०९; E४: ४,६३३; E६: १,२२६}* *{३/४३६: MS १२.२.२३ (व्.ल्.: पूर्वचोदनाल्)}* *{३/४३७: E२ ओम्. च}* *{३/४३८: E१ गिब्त् यो ददाति इन् Kलम्मेर्न्}*
SK
पानव्यापच् च तद्वत् // MS_३,४.३२ //
SK
इदं समामनन्ति - सोमेन्द्रं चरुं निर्वपेच् छ्यामाकं सोमवामिन इति{*३/४३९*}. तत्र संदेहः - लौकिकस्य सोमपानस्य वमने सौमेन्द्रश्{*३/४४०*} चरुः, उत वैदिकस्येति. किं लौकिकं सोमपानम्? किं च वैदिकम्? उच्यते - वैदिकं सोमपानं ज्योतिष्टोमे तद्विकृतिषु च, लौकिकं सोमपानं यत् सप्तरात्रेषु [३३४]{*३/४४१*} दशरात्रेषु धातुसाम्यार्थम्{*३/४४२*} आसेव्यमाने सोमे. किं तावत् प्राप्तम्? पानव्यापच् च तद्वत्, लौकिके वमन इष्टिर् भवितुम् अर्हति, न वैदिके, तद्वद् इति पूर्वः पक्षः प्रतिनिर्दिष्टः, यथा तत्र दोषसंयोगेन श्रवणात्, लौकिके ऽश्वप्रतिग्रह इत्य् उक्तम्, एवम् इहापि दोषसंयोगेन श्रवणं भवति, इन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं पिबतीति{*३/४४३*} लोके धातुसाम्यार्थम् आसेविते वमनेन विनष्ते धातुसाम्यव्यापदा, इन्द्रियेण व्यृद्धिर् उपपद्यते, शास्-त्राद् धि वैदिके न दोषः स्यात्. तत्र शेषः पातव्य इति शब्दाच् चोदिते निर्वृत्ते नास्ति दोषः. यद्य् अपि वम्यते, तथापि पानक्रिया तत्र निर्वर्तिता, कृतो वचनार्थ इति न दोषः स्यात्. तस्माल् लौकिकस्य सोमपानस्य व्यापदि सौमेन्द्रः{*३/४४४*} स्यात्.
SK
NOTES: *{३/४३९: Tऐत्.S. २.३.२.७}* *{३/४४०: E२,४: सोमेन्द्रश्}* *{३/४४१: E२: ४,४१४; E४: ४,६३९; E६: १,२२७}* *{३/४४२: E२,४: च धातुसाम्यार्थम्}* *{३/४४३: E२: सोम वमति, इति, E४: सोमं वमित्य् इति}* *{३/४४४: E२,४: सोमेन्द्रः}*
SK
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् // MS_३,४.३३ //
SK
वैदिकस्य पानस्य व्यापदि भवितुम् अर्हति, न लौकिकस्य. कस्मात्? दोषात्, दोषसंबन्धो ऽत्र श्रूयते - इन्द्रियेण वा एष वीर्येण व्यृध्यत इति. लौकिके पुनर् धातुसाम्याद्यर्थं क्रियमाणे न किंचिद् दुष्यति, वमनायैव हि तं पिबन्ति लोके. अथाप्य् अयम् अर्थवादः, तथापि फलकल्पनापरीहाराय वैदिक एवेति कल्पना न्याय्या.
SK
तत् सर्वत्राविशेषात् // MS_३,४.३४ //
SK
तद् एतत् सोमपानव्यापदि सौमेन्द्रं{*३/४४५*} कर्म, सर्वत्र वमने स्यात्, आर्त्विजे याजमाने च. कुतः? अविशेषात्, न विशेषः [३३५]{*३/४४६*} कश्चिद् आश्रीयते ऽस्य वमने स्यात्, नास्येति, तस्मात् सर्वत्र भवेत्.
SK
NOTES: *{३/४४५: E२,४: सोमेन्द्रं}* *{३/४४६: E२: ४,४१६; E४: ४,६४९; E६: १,२२८}*
SK
स्वामिनो वा तद् अर्थत्वात् // MS_३,४.३५ //
SK
स्वामिनोः वा वमने स्यात्. कुतः? तद् अर्थत्वात्, तद् अर्थं कर्म यजमानार्थम्{*३/४४७*}, यत्र सोमो वम्यते, यत् त्व् अत्र सौमेन्द्रं{*३/४४८*} कर्म. तद् अपि तद् अर्थम् एव. इदं हि सोमवामिन उपकाराय श्रूयते, तत् सोमवामिनः, यजमानस्योपकर्तुं{*३/४४९*} शक्नोति नार्त्विजः, न हि तद् ऋत्विग् अर्थं कर्म, यत्र सोमो वम्यते. अथोच्यते - सोमवामिनो ऽध्वर्योर् होतुर् वात्मीया ऋत्विजः, तदीयेष्व् अग्निषु निर्वर्तयिष्यन्तीति. तथा सति यदि वा व्यृद्धसोमस्य कर्मणो नाङ्गम्, न सोमवामिनो ऽध्वर्योर् होतुर् वा, तत्रात्यन्तगुणभूता अध्वर्य्वादयः स्वैर् ऋत्विग्भिः कारयन्तो न फलं प्राप्नुवन्ति. तद् अर्थं च क्रियमाणं न यजमानस्योपकारे वर्तत इति न ऋत्विजो वमने क्रियेत.
SK
NOTES: *{३/४४७: E१ गिब्त् यजमानार्थम् इन् Kलम्मेर्न्}* *{३/४४८: E२,४: सोमेन्द्रं}* *{३/४४९: E२,४: सदुपकर्तुं}*
SK
लिङ्गदर्शनाच् च // MS_३,४.३६ //
SK
लिङ्गं च भवति, यजमानस्य सोमवामिन इति. कथम्? सोमपीथेन वा एष व्यृध्यते यः सोमं वमतीति. यजमानः, सोमसंस्कारे विनष्टे विगुणम् अस्य कर्मेति व्यृध्येत, न कथंचिद् ऋत्विजो व्यृद्धिः. ऋत्विजो यस्य सोमं वमन्तीति वमनेन संबन्धः स्यात्, न यः सोमं वमतीति. तस्माद् अपि पश्यामो यजमानस्य वमने सौमेन्द्रम्{*३/४५०*} इति.
SK
[३३६]{*३/४५१*}
SK
NOTES: *{३/४५०: E२,४: सोमेन्द्रम्}* *{३/४५१: E२: ४,४१९; E४: ४,६६२; E६: १,२२८}*
SK
सर्वप्रदानं हविषस् तदर्थत्वात् // MS_३,४.३७ //
SK
स्तो दर्शपूर्णमासौ, तत्र सामाम्नायते - यद् आग्नेयो ऽष्टाकपालो ऽमाव् आस्यायां पौर्णमास्यां चाच्युतो भवतीति{*३/४५२*}. तत्र संदेहः - किं कृत्स्नं हविः, अग्नये प्रदातव्यम्, उत शेषयितव्यं किंचित्, किंचिद् दातव्यम् इति. किं प्राप्तम्? कृत्स्नं हविः प्रदीयेत. कुतः? तदर्थत्वात्. पुरोडाश आग्नेयः कर्तव्य इति वचनम्. तस्मात् सर्वं प्रदातव्यम् इति.
SK
NOTES: *{३/४५२: Tऐत्.S. २.६.३.३}*
SK
निरवदानात् तु शेषः स्यात् // MS_३,४.३८ //
SK
निष्कृष्यावदानं निरवदानम्. तद् धि श्रूयते - द्विर् हविषो ऽवद्यतीति. अपरम् अपि वचनम् - द्व्यवदानं जुहोतीति, तेन{*३/४५३*} द्व्यवदानमात्रं होतव्यम्, अन्यत् परिशेषणीयम्.
SK
NOTES: *{३/४५३: E२ ओम्. तेन}*
SK
उपायो वा तदर्थत्वात् // MS_३,४.३९ //
SK
न चैतद् अस्ति - द्व्यवदानमात्रं होतव्यम् इति, यज् जुहोति, तद् द्विर् अवखण्डनेन संस्कर्तव्यम् इति, होतव्ये द्विर् अवखण्डमात्रं विधीयते, नाद्विर् अवखण्डितस्य होमः प्रतिषिध्यते, कृत्स्नं च होतव्यम् इति तद् एवं न्याय्यम्, नान्यथा.
SK
कृतत्वात् तु कर्मणः सकृत्स्याद् द्रव्यस्य गुणभूतत्वात् // MS_३,४.४० //
SK
उच्यते - यदा द्विर् अवखण्डनविषिष्टं होमे श्रुतम्, तदा सकृद् [३३७]{*३/४५४*} अवदानं{*३/४५५*} यावच् छ्रुतं{*३/४५६*} तत् सर्वं कृतम्, तदा नापरं द्रव्यम् अस्तीति पुनर् यागो नावर्तितव्यः. कथं? तद् धि द्रव्यं यागनिर्वृत्त्यर्थम्, न द्रव्यं यागेन संबन्धयितव्यम् इति. यदि हि यागेन हविः संबन्धयितव्यं स्यात्, ततो यागेन द्व्यवदाने संबन्धिते, अपरम् अपि संबन्धनीयम् अस्तीति, तत्संबन्धार्थं पुनर् याग आवर्तेत. न तु यागो द्रव्यसंबन्धार्थः. किं तर्हि, द्रव्यं यागे गुणभूतम्, यागः कथं निर्वृत्तिम् उपेयाद् इति द्रव्यम् उपादीयते. तेन निर्वृत्ते यागे सिद्धे च पुरुषार्थे{*३/४५७*} न नियोगेन गुणानुरोधेन प्रधानावृत्तिर् युक्तेति. कथं न द्रव्यं प्रधानम्, येनावृत्तिर् त भवेत्. यतो यागात् फलम्, भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति. न च यागेन द्रव्यस्योपकारो निर्वर्त्यते प्रत्यक्षः कश्चित्, तस्माद् द्व्यवदानं हुत्वा शेषयितव्यम् इति. यत् तूक्तम् - आग्नेयं हविर् इतिवचनात्, सर्वं होतव्यम् इति गम्यत इति, तत्रानुमानिको होमसंबन्धः, इह तु प्रत्यक्षो द्विर् अवदाने. अपि चाकृत्स्नसंबन्धे ऽपि तद् धितस्योपपत्तिः, ततो ग्रहीतव्यम् इति. सामान्यं खल्व् आग्नेय इति द्व्यवदानं जुहोतीति विशेषः. तस्माच् छेषयितव्यं किंचिद् इति.
SK
NOTES: *{३/४५४: E२: ४,४२२; E४: ४,६६९; E६: १,२२९}* *{३/४५५: E२,४: सकृद् द्व्यवदानेन}* *{३/४५६: E१ गिब्त् यावच् छ्रुतं इन् Kलम्मेर्न्}* *{३/४५७: E२,४: च कथं पुरुषार्थे}*
SK
शेषदर्शनाच् च // MS_३,४.४१ //
SK
शेषाद् इडाम् अवद्यति शेषात् स्विष्टकृतं यजतीत्य् अनुवादाद् अस्ति शेष इति पश्यामः.
SK
[३३८]{*३/४५८*}
SK
NOTES: *{३/४५८: E२: ४,४३३; E४: ४,६८१; E६: १,२३०}*
SK
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् // MS_३,४.४२ //
SK
स्तो दर्शपूर्णमासौ, तत्र शेषकार्याणि, ऐडप्राशित्रसौविष्टकृदादीनि{*३/४५९*}. तत्र संदेहः - किं हविषो हविषः कर्तव्यानि, उतैकस्माद् धविष इति. किं प्राप्तम्? अप्रयोजकत्वाद् एकस्मात् क्रियेरन्, अप्रयोजकानि शेषकार्याणि हविषाम्. यदि शेषकार्यैः प्रयुक्तानि, भवेयुः सर्वाणि प्रयुक्तानीति सर्वेभ्यः क्रियेरन् अन्यथार्थानि त्व् एतानि, नावश्यं शेषकार्येषु विनियोक्तव्यानि. संनिधानात् तु यतः - कुतश्चिद् अनुष्ठातव्यानि, शेषो हि साधनम् अमीषाम् इति.
SK
NOTES: *{३/४५९: E२,४: ऐडप्राशित्रसौविष्टकृतादीनि}*
SK
संस्कृतत्वाच् च // MS_३,४.४२ //
SK
सकृच् चैवंजातीयकेन शेषकार्येण संस्कृतं प्रधानम् इति कृत्वा नापरस्माद् अपि कर्तव्यम् इति.
SK
सर्वेभ्यो वा कारणाविशेषात्, संस्कारस्य तदर्थत्वात् // MS_३,४.४४ //
SK
सर्वेभ्यो वा हविर्भ्यः शेषकार्याणि कर्तव्यानि. कुतः? कारणाविशेषात्, यद् एकस्य हविषः शेषकार्यक्रियायां कारणम्, तत् सर्वेषाम्. स हि शेषः प्रतिपादयितव्यः, यस्यैव न प्रतिपाद्यते, तस्य तेन संस्कारेण वर्जनं स्यात्, तस्मात् सर्वेभ्यः कर्तव्यानीति.
SK
लिङ्गदर्शनाच् च // MS_३,४.४५ //
SK
लिङ्गं च दृश्यते - देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वह [३३९]{*३/४६०*} इति, सो ऽब्रवीद् वरं वृणै भागो मे ऽस्त्व् इति, वृणीष्वेति ते ऽब्रुवन्, सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति वीप्सादर्शनम्. तस्मात् सर्वेभ्यः शेषकार्याणीति.
SK
NOTES: *{३/४६०: E२: ४,४३५; E४: ४,६८६; E६: १,२३०}*
SK
एकस्माच् चेद् यथाकाम्यविशेषात् // MS_३,४.४६ //
SK
अथ कृत्वाचिन्ता. यदैकस्माद् भवेयुः{*३/४६१*}, किं तदा यतः - कुतश्चिद् उत प्रथमाद् इति. किं प्राप्तम्? यतः कुतश्चिद् इति. कुतः? न कश्चिद् विशेष आश्रीयत इति. तस्माद् अनियम इति.
SK
NOTES: *{३/४६१: E२,४: कर्तव्यानि भवेयुः}*
SK
मुख्याद् वा पूर्वकालत्वात् // MS_३,४.४७ //
SK
मुख्याद् वा कर्तव्यानि. कुतः? पूर्वकालत्वात्, ततः कर्तव्येषु नास्ति निमित्तविघातः, असति निमित्तविघाते नैमित्तिकं कर्तव्यम् इति. ततः कृतेषु द्वितीयादीनां निमित्तविधात इत्य् अक्रिया. तस्मान् मुख्याद् एव क्रियेरन्न् इति.
SK
भक्षाश्रवणाद् दानशब्दः परिक्रये // MS_३,४.४८ //
SK
दर्शपूर्णमासयोः श्रूयते - इदं ब्रह्मणः, इदं होतुः, इदम् अध्वर्योः, इदम् अग्नीध इति{*३/४६२*}. तत्र संदेहः - किम् अयम् [३४०]{*३/४६३*} ऋत्विजां विभागः परिक्रयाय, उत भक्षणायेति. किं प्राप्तम्? परिक्रयार्थो विभागः. कुतः? भक्षाश्रवणात्, न श्रूयते - भक्षितव्यम् इति. य एव श्रुतस्योत्सर्गे दोषः, स एवाश्रुतपरिकल्पणायाम्. कर्मकरेभ्यश् च दीयते, तस्मात् परिक्रय एषः.
SK
NOTES: *{३/४६२: Tऐत्.Bर्. ३.३.८.८}* *{३/४६३: E२: ४,४३६; E४: ४,७०१; E६: १,२३१}*
SK
तत्संस्तवाच् च // MS_३,४.४९ //
SK
एषा वै दर्शपूर्णमासयोर् दक्षिणेति दक्षिणासंस्तवाच् च परिक्रयार्थं मन्यामहे.
SK
भक्षार्थो वा द्रव्ये समत्वात् // MS_३,४.५० //
SK
भक्षार्थ एष विभागः. कुतः? दानस्याभावात्. कथम् अभावः? प्रभवता हि शक्यं दातुम्, नाप्रभवता. कथं न प्रभुत्वम्? संकल्पितं हि यजमानेन, देवताया एतद् इति. न च देवतायै संकल्पितेन शिष्टाः स्वेनेव व्यवहरन्ति. तस्माच् छिष्टाचारम् अनुवर्तमानेनाशक्यं प्रभवितुम्, तस्मान् न परिक्रयः. अथ यद् उक्तम् - न श्रूयते, भक्षयितव्यम् इति, यावांश् च श्रुतस्योत्सर्गे दोषः, तावान् अश्रुतपरिकल्पनायाम् इति. उच्यते - इदं ब्रह्मण इत्येवमादिभिर् ब्रह्मादीनाम्, भागैर् अभिसंबन्धः, तत्र भागा ब्रह्मादीनाम् उपकुर्युर् ब्रह्मादयो वा भागानाम्. ब्रह्मादिभिर् भागानाम् उपकुर्वद्भिर् न किंचिद् दृष्टम् अस्ति, बागैस् तु ब्रह्मादीनाम् उपकारकैः शक्यते केनचित् प्रकारेण दृष्ट उपकारः कर्तुं भक्ष्यमाणैः. तस्माद् भक्षणाय विभाग इति. कः पुनर् उपकार इति चेत्. तृप्तानां कर्मशेषपरिसमापने सामर्थ्यं भवतीति.
SK
[३४१]{*३/४६४*}
SK
NOTES: *{३/४६४: E२: ४,४३९; E४: ४,७०६; E६: १,२३१}*
SK
व्यादेशाद् दानसंस्तुतिः // MS_३,४.५१ //
SK
अथ यद् दक्षिणासंस्तव इति, व्यादेशसामान्यात् तत्, अपरिक्रयार्थे ऽपि भविष्यतीति.
SK
[३४२]{*३/४६५*}
SK
NOTES: *{३/४६५: E२: ४,४४०; E४: ४,७११; E६: १,२३२}*
SK
आज्याच् च सर्वसंयोगात् // MS_३,५.१ //
SK
स्तो दर्शपूर्णमासौ, तत्र श्रूयते - उत्तरार्धात् स्विष्टकृते समवद्यतीति{*३/४६६*}, तथा - इडाम् उपह्वयतीति{*३/४६७*}, तथान्यानि प्राशित्रावदानादीनि शेषकार्याणि{*३/४६८*}. तत्र संदेहः - किम् आज्याद् उपांशुयाजद्रव्यात् स्विष्टकृद् इडम् अवदातव्यम्, उत नेति. किं प्राप्तम्? अवदातव्यम् इति. कुतः? सर्वसंयोगात्, साधारणप्रकरणसमाम्नातात् सर्वेषां शेषकार्याणि. अपि च सर्वसंयोगो भवति, तद् यत्{*३/४६९*} सर्वेभ्यो हविर्भ्यः समवद्यतीति. तस्माद् आज्याद् अपि शेषकार्याणि क्रियन्ते.
SK
NOTES: *{३/४६६: Tऐत्.S. २.६.६.५}* *{३/४६७: Tऐत्.S. २.६.७.३}* *{३/४६८: E२,४: तथान्यानि प्राशित्रावदानादीनि शेषकार्याणि}* *{३/४६९: E२,४ ओम्. तद् यत्}*
SK
कारणाच् च // MS_३,५.२ //
SK
कारणं श्रूयते - देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वहेति, सो ऽब्रवीद् वरं वृणै भागो मे ऽस्त्व् इति, वृणीष्वेत्य् अब्रुवन्{*३/४७०*}, सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति, तुल्यं कारणम् अन्येषाम् आज्यस्य चार्थवादे संकीर्त्यते. तस्माद् अप्य् आज्याद् अवदातव्यम् इति.
SK
NOTES: *{३/४७०: E२,४: वृणीष्वेव्य् अब्रुवन्}*
SK
एकस्मिन् समवत्तशब्दात् // MS_३,५.३ //
SK
आदित्ये चरौ प्रायणीये श्रूयते - अग्नये स्विष्टकृते समवद्यतीति{*३/४७१*}, आज्याद् एकस्माच् च हविषो ऽवद्यतीति, मिश्रस्यान्येन हविषा समवद्यतीति. यदि चाज्याद् अपि स्विष्टकृते ऽवदीयेत, ततश् चोदकेन प्रापणीय{*३/४७२*} आज्यावदाने क्रियमाणे [३४३]{*३/४७३*} समवद्यतीत्य् उपपद्यते. इतरथा चरोर् एकस्माद् अवद्यतीत्य् अभविष्यत्.
SK
NOTES: *{३/४७१: Tऐत्.Bर्. १.७.४.४}* *{३/४७२: E२,४: प्रायणीय}* *{३/४७३: E२: ४,४४१; E४: ४,७१२; E६: १,२३२}*
SK
आज्ये च दर्शनात् स्विष्टकृद् अर्थवादस्य // MS_३,५.४ //
SK
ध्रौवे चाज्ये स्विष्टकृद् अर्थवादो भवति - अवदायावदाय ध्रुवां प्रत्यभिधारयति, स्विष्टकृते ऽवदाय न ध्रुवां प्रत्यभिधारयति. न हि ततः परामाहुतिं यक्ष्यन् भवतीति, प्रत्यभिधारणस्यैतत् प्रयोजनं दर्शयति - ततः पत्रामाहुतिं होष्यतीति. सौविष्टकृते वृत्ते{*३/४७४*} ततः पराहुतिर् नास्तीति न प्रत्यभिधार्येत. स्विष्टकृद् अर्थे ध्रुवायां भवति प्रत्यभिधारणम् इति दर्शयति.
SK
NOTES: *{३/४७४: E२,४: ऽवत्ते}*
SK
अशेषात्वात् तु नैवं स्यात् सर्वादानाद् अशेषता // MS_३,५.५ //
SK
नैवम्, ध्रौवाज्यात् स्विष्टकृद् इडम् अवदातव्यम् इति. कस्मात्? अशेषत्वात्. कुतो नास्य शेषः? सर्वादानात्.
SK
साधारण्यान् न ध्रुवायां स्यात् // MS_३,५.६ //
SK
ननूपांशुयाजार्थं गृहीते यद् ध्रुवायां शिष्टम्, तत् शेषभूतम्. नैतत्, साधारणं हि तत्, उपांशुयाजाय, अन्येभ्यश् च प्रयोजनेभ्यः. यावद् आज्येन यष्टव्यम्, तत् तद् आज्यं प्रयोजयति. यस्य यस्याज्यम्, तस्य तस्यैवं ग्रहीतव्यं संस्कर्तव्यं चेति, तस्मात् साधारणं ध्रौवम् आज्यम्. दर्शयति च - सर्वस्मै वा एतद् यज्ञाय गृह्यते यद् ध्रुवायाम् आज्यम् इति{*३/४७५*}. किम् अतो यद्य् एवम् इति. यत् साधारणम् उपांशुयाजायावत्तं ध्रुवायाम् आज्यम्, तेनान्यानि प्रयोजनानि कार्याणि, न [३४४]{*३/४७६*} तु तत् प्रतिपाद्यम्, यद् धि कृतप्रयोजनम् आकीर्णकरम् अवतिष्ठते, तत् प्रतिपादयितव्यम् इति. क्वचिच् च, यत् प्रतिपादयितव्यम् तत्, एवं प्रतिपादयितव्यम् इति. यत् तु प्रयोजनवद् उपात्तं तन् न प्रतिपादयितव्यम्. तस्मान् न ध्रुवायाम् उपांशुयाजस्य{*३/४७७*} सौविष्टकृतश् च{*३/४७८*} कश्चिच् छेषः प्रतिपादनीयः, यथा यत्रैकस्यामुख्यायां बहूनाम् ओदनः शृतो भवति, तत्रैकस्मिन् भुक्तवति, न तस्य शिष्टं भृत्येभ्यः प्रतिपादनीयमुखायाम् अस्तीति गम्यते, प्रयोजनवद् धि तत्. एवम् उपांशुयाजाज्ये ऽपि द्रष्टव्यम्{*३/४७९*} इति. आह - जुह्वां तर्ह्य् आज्यस्य शेषो भविष्यति, चमसवत्, यथा चमसेषु ग्रहेषु च सोमस्य चोदनयेति. तत्र प्रत्याह -
SK
NOTES: *{३/४७५: Tऐत्.Bर्. ३.३.५.५}* *{३/४७६: E२: ४,४४३; E४: ४,७१५; E६: १,२३३}* *{३/४७७: E२,४: उपांशुयाजार्थस्य}* *{३/४७८: E२,४: सौविष्टकृतस्य}* *{३/४७९: E१: द्रव्यम्}*
SK
अवत्तत्वाच् च जुह्वाम्, तस्य च होमसंयोगात् // MS_३,५.७ //
SK
ध्रुवायां तावन् नास्ति शेषः, उपांशुयाजस्य साधारणत्वाद् इत्य् उक्तम्. अथ कस्मान् न जुह्वां यच् छिष्टम्, तेन शेषकार्यम्, यथा होमार्थे चमसे शेष इति. उच्यते - यज् जुह्वाम् अवत्तम्, तत् सर्वं होमेन संबद्धम्, तस्मान् न जुह्वां शेषः.
SK
चमसवद् इति चेत् // MS_३,५.८ //
SK
इति पुनर् यद् उक्तम्, तत् परिहर्तव्यम्.
SK
न चोदनाविरोधाद् धविःप्रकल्पनत्वाच् च // MS_३,५.९ //
SK
नैतद् एवम्. कुतः? चोदनाविरोधात्, सोमस्याग्नेर्{*३/४८०*} वीहीत्य्{*३/४८१*} अनुवषट्करोतीति{*३/४८२*} तत्र चोदना. अपि च, तत्रैन्द्रवायवं गृह्णातीत्येवमादीनि ग्रहणानि न सोमसंयुक्तानि{*३/४८३*}, [३४५]{*३/४८४*} हविःप्रकल्पनान्य् एव, इह पुनर् होमसंयोगः, चतुर्गृहीतं जुहोतीति{*३/४८५*}.
SK
NOTES: *{३/४८०: E२,४: सोमस्याग्ने}* *{३/४८१: E४: व्रीहीत्य्}* *{३/४८२: Aइ.Bर्. ३.५}* *{३/४८३: E२,४: होमसंयुक्तानि}* *{३/४८४: E२: ४,४४५; E४: ४,७१८; E६: १,२३४}* *{३/४८५: Tऐत्.S. ५.१.१.१}*
SK
उत्पन्नाधिकारात् सति सर्ववचनम् // MS_३,५.१० //
SK
अथ यद् उक्तम् - तद् यत्{*३/४८६*} सर्वेभ्यः हविर्भ्यः समवद्यतीति. उच्यते - उत्पन्नं शेषम् अधिकृत्यैतद् उच्यते, नाविशेषणम्, तस्माद् य{*३/४८७*} इह शेषास् तेभ्यः सर्वेभ्य इति, यथा सर्व ओदनो भुक्तः, सर्वे ब्राह्मणा भुक्तवन्त इति प्रकृतापेक्षः सर्वशब्द एवम् अत्रापीति.
SK
NOTES: *{३/४८६: E२,४ ओम्. तद् यत्}* *{३/४८७: E२,४: यं}*
SK
जातिविशेषात् परम् // MS_३,५.११ //
SK
अथ यद् उक्तम् - प्रापणीये{*३/४८८*} केवले चरौ समवत्तशब्दो नावकल्पते, यदि न तत्र चोदकेनाज्याद् अपि स्विष्टृअकृद् अवदानम् इति. उच्यते - असत्य् अप्य् आज्याच् छेषकार्ये समवत्तशब्दो जातिविशेषापेक्ष उपपद्यते, ओदनजातिम् आज्यजातिं{*३/४८९*} चापेक्ष्य. अनुवादो हि सः, यथासंभवं चानुवादः कल्प्येत.
SK
NOTES: *{३/४८८: E२,४: प्रायणीये}* *{३/४८९: E२,४: ओदनजातिभाज्यजातिं}*
SK
अन्त्यम् अरेकार्थे // MS_३,५.१२ //
SK
अथ यद् उक्तम् - स्विष्टकृद् अर्थं ध्रुवायाम् अभिधारणं दर्शयतीति. न तत् स्विष्टकृद् अर्थम्, शेषाभावाद् इत्य् उक्तम्. तस्माद् अयं तस्यार्थः. न हि तत आहुतिं यक्ष्यन् भवतीति न रेक्ष्यते, ध्रुवातो यद्य् आहुतिर् अपरा होतव्या भवेत्, न च प्रत्यभिधार्येत. धुवातः किल{*३/४९०*} रिच्येत, न रक्ष्यते, अपरस्या आहुतेर् अभावात्, किं प्रत्यभिधारणेनेति.
SK
[३४६]{*३/४९१*}
SK
NOTES: *{३/४९०: E२,४: धुवा ततः किल}* *{३/४९१: E२: ४,४४७; E४: ४,७२२; E६: १,२३४}*
SK
साकं प्रस्थायीये{*३/४९२*} स्विष्टकृद् इडं च तद्वत् // MS_३,५.१३ //
SK
दर्शपूर्णमासयोः श्रूयते - साकं प्रस्थायीयेन यजेतेति{*३/४९३*}. तत्र संदेहः - किं स्विष्टकृद् इडम् अस्ति, नास्तीति. अस्तीति ब्रूमह्. कुतः? दर्शपूर्णमासविकारो हि साकं प्रस्थायीयम् इति. एवं प्राप्ते ब्रूमः - नास्तीति. कुतः? अशेषत्वात्, सर्वादानाच् चाशेषता. कथम्? एवं तत्र श्रूयते - आज्यभागाभ्यां प्रचर्याग्नेयेन च पुरोडाशेनाग्नीध्रे स्रुचौ प्रदाय सह कुम्भीभिर् अभिक्रामन्न् आहेति. तस्मान् न ततः शेषकार्यद् इति.
SK
NOTES: *{३/४९२: E१: प्रस्थाय्ये}* *{३/४९३: Tऐत्.S. २.५.४.३}*
SK
सौत्रामण्यां च ग्रहेषु // MS_३,५.१४ //
SK
अस्ति सौत्रामणी, तत्र ग्रहाः{*३/४९४*} श्रूयन्ते, आश्विनसारस्वतैन्द्राः, तत्र चोदकेन स्विष्टकृद् इडं प्राप्तम्. अथेदानीं संदेहः - किं निवर्तते, उत नेति. किं प्राप्तम्? चोदकानुग्रहाय कर्तव्यम् इति. एवं प्राप्ते ब्रूमः - सौत्रामण्यां च ग्रहेषु न{*३/४९५*} कर्तव्यम् इति चशब्देनातिदिश्यते{*३/४९६*}. कुतः? अशेषत्वात्, सर्वादानाद् शेषता. तत्रापि हि ग्रहैर् एवं होतुं प्रतिष्ठन्ते, यत् पयोग्रहाश् च सुरग्रहाश् च गृह्यन्त इति. ग्रहस्थं खल्व् अपि तद् द्रव्यम् अभिगृहीतम् अभ्यनुक्रमम् अभ्याश्रावितं देवतां प्रति. यथा - गृहीतान् ग्रहान् ऋत्विज आददते, आश्विनम् अध्वर्युः, सारस्वतं ब्रह्मा, ऐन्द्रं प्रतिप्रस्थातेति, होमार्थम् [३४७]{*३/४९७*} अशेषादानं भवति. होमसंयोगश् चैषां श्रुयते - उत्तरे ऽग्नौ पयोग्रहाज् जुह्वति दक्षिणे ऽग्नौ सुरग्रहाज् जुह्वतीति.
SK
NOTES: *{३/४९४: E२,४: प्रहाः}* *{३/४९५: E२,४: च}* *{३/४९६: E२,४: चशब्देनान्वादिश्यते}* *{३/४९७: E२: ४,४४८; E४: ४,७२३; E६: १,२३५}*
SK
तद्वच् च शेषवचनम् // MS_३,५.१५ //
SK
एतम् एव न्यायम्, शेषवचनम् उपोद्बलयति. उच्छिनष्टि, न सर्वं जुहोतीति{*३/४९८*}, सर्वहोमे प्राप्ते, प्रतिषेधो ऽवकल्प्यते. वाचनिकत्वाच् च स्विष्टकृद् इडं न भवति, तस्यान्यत्रोपयोगवचनात्, ब्राह्मणं परिक्रीणीयाद् उच्छेषणस्य पातारम् इति, अपरस्यापि शेषस्य वाचनिको विनियोगः, शतातृणायां विक्षारयन्तीति.
SK
NOTES: *{३/४९८: Tऐत्.Bर्. १.८.६.२}*
SK
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् // MS_३,५.१६ //
SK
अस्ति सर्वपृष्ठेष्टिः - इन्द्राय राथन्तराय, इन्द्राय बार्हताय{*३/४९९*}, इन्द्राय वैरूपाय, इन्द्राय वैराजाय, इन्द्राय शाक्नरायेति. तत्र पुरोडाशो बहूनां कर्मणां साधारणः. तत्र संदेहः - किं प्रतिकर्म, स्विष्टकृद् इडं कर्तव्यम्, सकृद् एव वेति. किं प्राप्तम्? चोदनानुग्रहात् प्रतिकर्म, कर्तव्यम्, एकस्मिन्न् अपि द्रव्ये बहुत्वात् कर्मणाम्.
SK
NOTES: *{३/४९९: E२,४: आबर्हताय}*
SK
अविभागाच् च शेषस्य, सर्वान् प्रत्य् अविशिष्टत्वात् // MS_३,५.१७ //
SK
सकृद् एव कर्तव्यम् इति ब्रूमः, अविभागाच् छेषस्य. न [३४८]{*३/५००*} अत्र विभागः सर्वेषां कर्मणां पुरोडाशस्य, उत्तरार्धात् स्विष्टकृद् अवदातव्यम्, एकश् चासौ उत्तरार्धः, ततो ऽवदीयमाने न गम्यते विशेषः. कस्यावत्तम्, कस्य नेति, एवम् इडायाम् अपि. तस्मात् सकृद् अवदातव्यम् इति.
SK
NOTES: *{३/५००: E२: ४,४५०; E४: ४,७२६; E६: १,२३५}*
SK
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् // MS_३,५.१८ //
SK
अस्ति ज्योतिष्टोमः - ज्योतिष्टोमेन स्वर्गकामो यजेतेति. तत्रैन्द्रवायवे ग्रहे संदेहः - किं सकृद् भक्षणम्, उत द्विर् इति. सोमसंस्कारार्थत्वात् सकृद् इति प्राप्ते ब्रूमः - ऐन्द्रवायवे द्विर् भक्षयितव्यम् इति. कुतः? वचनात्, वचनम् इदं भवति, द्विर् ऐन्द्रवायवस्य भक्षयति, द्विर् ह्य् एतस्य वषट्करोतीति, नास्ति वचनस्यातिभारः.
SK
सोमे ऽवचनाद् भक्षो न विद्यते // MS_३,५.१९ //
SK
ज्योतिष्टोमे समामनन्ति सोमान्. तेषु संदेहः - किं{*३/५०१*} तेषां शेषो भक्षयितव्यः, उत नेति. किं प्राप्तम्? सोमे भक्षो न विद्यते. कस्मात्? अवचनात्, न शक्यम् असति वचने ऽध्यवसातुं भक्षणम्. तस्मात् सोमशेषो न भक्षयितव्य इति.
SK
NOTES: *{३/५०१: E२,४ ओम्. किं}*
SK
स्याद् वान्यार्थदर्शनात् // MS_३,५.२० //
SK
भवेद् वा भक्षः, अन्यार्थं हि वचनं भक्षं दर्शयति - सर्वतः परिहारम् आश्विनं भक्षयति, भक्षिताप्य् आयितांश् चमसान् [३४९]{*३/५०२*} दक्षिणस्यानसो ऽवलम्बे सादयन्तीति{*३/५०३*}. नासति भक्षण एवंजातीयका भक्षविशेषाः संभवन्ति.
SK
NOTES: *{३/५०२: E२: ४,४५३; E४: ४,७२९; E६: १,२३६}* *{३/५०३: Vग्ल्. Tऐत्.S. ६.४.९.४-५}*
SK
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः // MS_३,५.२१ //
SK
ननु दर्शनम् इदम्, प्राप्तिर् वक्तव्या. उच्यते - वचनानि तर्हि भविष्यन्ति. सर्वतः परिहारम् आश्विनं भक्षयति{*३/५०४*}. तस्मात् सर्वा दिशः शृणोतीति विशिष्टं भक्षणं विधीयते. अपूर्वत्वाद् भक्षानुवादो नावकल्पते. अपि च, एवम् अपूर्वम् अर्थं विदधतो ऽर्थवत्ता भविष्यति. तस्माद् यत्रैव विशिष्टं भक्षणं श्रूयते, तत्रैव भवति, नातिप्रसज्यते.
SK
NOTES: *{३/५०४: Vग्ल्. Tऐत्.S. ६.४.९.४}*
SK
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्वात् // MS_३,५.२२ //
SK
ज्योतिष्टोम एव श्रुयते - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य प्रयन्तु सदस्यानाम् इति. तत्र संदेहः - किं चमसिनाम् अस्ति भक्षः, नेति. किं प्राप्तम्? नेति ब्रूमः, नातिप्रसज्यत{*३/५०५*} इत्य् उक्तम्. एवं प्राप्ते ब्रूमः - चमसेष्व् अस्ति भक्ष इति. कुतः? समाख्यानात्, होतुश् चमसो ब्रह्मणश् चमस उद्गातुश् चमस इति समाख्यया निर्दिश्यते, होता यत्र चमति चमिष्यति, अचमीद् वा स होतुश् चमसः. यद्य् अत्र होता न चमेन् न होतुश् चमसो भवेत्. तस्माच् चमतीति. आह, कास्य लिङ्गस्य प्राप्तिर् इति. सामर्थ्यम् इति ब्रूमः - होतुश् चमसेन प्रैतव्यम्. यदि चात्र होता न [३५०]{*३/५०६*} चमेत्, न शक्यं भवेद् धोतुश् चमसेन प्रैतुम्. न चात्रान्यद् धोता, ओदनादि चमिष्यति, सोमचमस इति हि तं समाचक्षते. अपि च, न तद् धोतुर् द्रव्यं यजमानस्य तद् द्रव्यम्, होतुस् तत्र चमनं कर्तव्यम्. सोमे च भक्ष्यमाणे तेन होमो ऽवकल्पते. पवित्रं हि सोमः, न तस्मिन् भक्षिते पात्रं व्यापद्यते. तत्र चमसेन शक्यते होतुम्. वचनप्रामाण्याद् उच्छिष्टेन होष्यतीति चेत्. नैतद् एवम्, असति अवकाशे वचनं बाधकं भवति, अस्ति चावकाशः सोमभक्षणम्, तस्माच् चमसिभिर् भक्षयितव्यः सोमः इति. अथ तक्षणादीन्य् आश्रीयेरन्. तथा संबन्धापह्नवाद् अतच्चमसतैव स्यात्, द्रव्यान्तरं स्यात्. तस्माच् चाब्राह्मणस्य सोमं प्रतिषेधति, स यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीराहृत्य ताः संपिष्य दधन्य् उन्मृज{*३/५०७*} तस्मै भक्षं प्रयच्छेत्, न सोमम् इति{*३/५०८*} भक्षानिवृत्तिं{*३/५०९*} दर्शयति. सैष भक्षाशङ्कैवं सत्य् उपपद्यते, यदि चमसिनो ऽस्ति भक्षः, तस्माद् अस्तीति मन्यामहे.
SK
NOTES: *{३/५०५: E२,४: भक्षो नातिप्रसज्यत}* *{३/५०६: E२: ४,४५५; E४: ४,७३१; E६: १,२३७}* *{३/५०७: E२,४,६, E१ (व्.ल्.): उन्मृज्य}* *{३/५०८: Aइ.Bर्. ७.३०}* *{३/५०९: E२,४: भक्ष निवृत्तिं}*
SK
उद्गातृचमसम् एकः श्रुतिसंयोगात् // MS_३,५.२३ //
SK
अस्ति ज्योतिष्टोमः - ज्योतिष्टोमेन स्वर्गकामो यजेतेति. तत्रास्ति - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणाम् इति. तत्रास्ति{*३/५१०*} समाख्यानाद् भक्ष इत्य् उक्तम्. तत्र संदेहः - किम् एक एवैनं चमसम् उद्गाता भक्षयेत्, उत सर्वे [३५१]{*३/५११*} भक्षयेयुः? अथ सुब्रह्मण्यवर्जिताश् छन्दोगा भक्षयेयुः, अथवा सह सुब्रह्मण्येनेति. किं तावत् प्राप्तम्? एको भक्षयेद् उद्गातैव. कुतः? श्रुतिसंयोगात्, उद्गातैकः श्रुत्या संयुज्यते - चमसेन प्रोद्गातॄणाम् इति. ननु बहुवचनं श्रूयते - तेन बहवो भक्षयेयुः. उच्यते, श्रूयते बहुवचनम्, तद् उद्गातृप्रातिपदिकगतम्, तद् विवक्षितं सद् उद्गातृबहुत्वं ब्रूयात्, एकश् चोगाता, तत्र बहुत्वं श्रूयमाणम् अपि न शक्नुयाद् उद्गातृभेदं कर्तुम्. तस्माद् अविवक्षितं बहुवचनम्, अनुमानं ह्य् एतत्, बहूनां चमस इति. कथम्? यद् बहुषु प्रातिपदिकं वर्तते, ततो बहुवचनं भवति, बहुवचनं तु ततो दृश्यते, प्रोद्गातॄणाम् इति. तस्मान् नूनं बहूनां चमस इत्य् अनुमानम्. प्रत्यक्षं त्व् एक उद्गाता, न द्वितीयः, न तृतीयः. अनुमानाच् च प्रत्यक्षं कारणं बलवद् भवेत्. तस्माद् एकस्य चमसः, स चोद्गातुर् इति.
SK
NOTES: *{३/५१०: E२,४,६: तत्रास्ति}* *{३/५११: E२: ४,४५६; E४: ४,७३३; E६: १,२३७}*
SK
सर्वे वा सर्वसंयोगात् // MS_३,५.२४ //
SK
सर्वे वा भक्षयेयुः, एकस्मिन्न् उद्गातरि भक्षयति बहुवचनं प्रमादाधीतम्{*३/५१२*} इति गम्यते. न हि तद् अनूद्यते, न विधीयत इति. ननु सर्वेष्व् अपि भक्षयत्सूद्गातृशब्दः प्रमादो गम्यते. उच्यते - लक्षणार्थो ऽपि तावत् संभविष्यति, उद्गातृप्रभृतय इति.
SK
NOTES: *{३/५१२: E२,४,६: प्रमादाद् अधीतम्}*
SK
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः // MS_३,५.२५ //
SK
उच्यते - नैतद् अस्ति, बहूनां चमस इति. कुतः? [३५२]{*३/५१३*} उद्गातृशब्दस्य चमसेन संबन्धः प्रत्यक्षेण वाक्येन, बहुवचनस्य पुनर् उद्गातृशब्देन श्रुत्या संबन्धः. अन्येन ऋत्विजा तु बहुवचनस्य नैव कश्चिद् अस्ति संबन्धः. तस्माद् बहूनां चमस इत्य् अनुपपन्नम् इति. अत्रोच्यते - शक्नोत्य् अयम् उद्गातृशब्दो बहुत्वं वदितुम्, क्रियायोगेन, उद्नायन्तीत्य् उद्गातारः. के ते? प्रस्तोता, उद्गाता, प्रतिहर्तेति, तद् एतेन बहुवचननिर्देशेनानुमानिकक्रियायोगनिमित्त उद्गातृशब्दो विवक्षित इत्य् अवगमिष्यामः. बहुवचनं ह्य् एवम् अवकॢप्तं भविष्यति, उद्गातृशब्दश् च. तस्मात् स्तोत्रकारिणां चमस इति.
SK
NOTES: *{३/५१३: E२: ४,४५८; E४: ४,७३५; E६: १,२३८}*
SK
सर्वे तु वेदसंयोगात् कारणाद् एकदेशो स्यात् // MS_३,५.२६ //
SK
सर्वे छन्दोगाः सहसुब्रह्मण्या भक्षयेयुः. किम् इति? गानसंयोगाद् इति नायं पक्ष उपपद्यते. कथम्? एकस् तत्रोद्गानेन संबन्धः{*३/५१४*}, इतरो गानेन, अन्यद् धि गानम्, अन्यद् उद्गानम्, गीतिमात्रं गानं लौकिकं वैदिकं च. द्वितीयं साम्नः पर्व, उत्पूर्वस्य गायतेर् अभिधेयं प्रसिद्धम्. तत्रैक एवोद्गीथं करोतीत्य् एक एवोद्गाता, न बहवः. तस्माद् गानसंयोगाद् बहवो भविष्यन्तीत्य् एतद् अपि नोपपद्यते. कथं तर्हि? वेदसंयोगात्, औद्गात्रं नाम प्रवचनम्, तथा - औद्गात्राणि कर्माणि, औद्गात्रस्य कर्ता वाध्येता वोद्गातेत्य् उच्यते. कथम्? उद्गातुः कर्म, औद्गात्रम् इति प्रसिद्धम्. एवं चेद् व्यक्तम् औद्गात्रस्य कर्ता, उद्गातेति गम्यते. यस्योद्गाता प्रसिद्धः, तद् विशिष्टं कर्मानाख्यातम् अप्य् औद्गात्रम् इति वदति. शब्दश् च यस्यौद्गात्रं प्रसिद्धम्, स तस्य कर्तारम् उद्गातेति वदति, अनाख्यातम् अपि, यथा यस्योदमेघः प्रसिद्धः, स तस्यानाख्या-तम् अप्य् अपत्यम् औदमेघिर् इति ब्रूते, यस्यौदमेघिः, स तस्य [३५३]{*३/५१५*} पितरम् अनाख्यातम् अप्य् उदमेघं प्रतिपद्यते. एवम् औद्गात्रसंबन्धाद् उपपद्यत उद्गातृशब्दः, प्रस्तोताप्य् उद्गातापि प्रतिहर्तापि सुब्रह्मण्यो ऽपि. एवं बहुवचनम् उद्गातृशब्दश् चोभयम् अप्य् उपपन्नं भविष्यति, न चान्यः कश्चिद् दोषः. तस्माद् औद्गात्रेण संबद्धाश्वत्वार उद्गातृचमसं भक्षयेयुर् इति. यत्र कारणम् अस्ति, तत्रापि सुब्रह्मण्या उद्गातारः, यथा - उद्गातृशब्दो विनिषद्योद्गातारः साम्ना स्तुवत इति स्तोत्रकारिषु, तथेदम्{*३/५१६*} अपि वचनम्, उद्गातारो नापव्याहरेयुर् उत्तमायाम् एषोत्तमा इत्य् अपसुब्रह्मण्यानाम् एव.
SK
NOTES: *{३/५१४: E२,४: संबद्धः}* *{३/५१५: E२: ४,४६०; E४: ४,७३६; E६: १,२३९}* *{३/५१६: E२,४,६: यथेदम्}*
SK
ग्रावस्तुतो भक्षो न विद्यते ऽनाम्नानात् // MS_३,५.२७ //
SK
ज्योतिष्टोमे ग्रावस्तुन् नाम होतृपुरुषः. तत्र संदेहः - किं स सोमं भक्षयेत्, नेति. उच्यते - ग्रावस्तुन् न बक्षयेत्. कुतः? यतो ऽस्य भक्षं नामनन्ति. हारियोजने चमसिनाम् अधिकार इति मन्यमान एवं ह स्माह, नास्याम्नायते भक्ष{*३/५१७*} इति.
SK
NOTES: *{३/५१७: E१ गिब्त् हारियोजने चमसिनाम् अधिकार इति मन्यमान एवं ह स्माह, नास्याम्नायते भक्ष इन् Kलम्मेर्न्}*
SK
हारियोजने वा सर्वसंयोगात् // MS_३,५.२८ //
SK
हारियोजनस्य वा ग्रावस्तुतं भक्षयितारं मन्यामहे, एवं ह्य् आमनन्ति - यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्ति. [३५४]{*३/५१८*} अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इति. यदा हारियोजनस्य सर्वे लिप्सन्ते, तदा ग्रावस्तुद् अपीति.
SK
NOTES: *{३/५१८: E२: ४,४६२; E४: ४,७३९; E६: १,२३९}*
SK
चमसिनां वा संनिधानात् // MS_३,५.२९ //
SK
वाशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति ग्रावस्तुतो हारियोजने भक्ष इति, चमसिनां तत्राधिकारो न सर्वेषाम्. कथम्? चमसिनाम् एष विभागः, चमसिनो ऽन्यांश् चमसान्, यथा - चमसं भक्षयन्तीत्य् अनूद्य, चमसिन एव वदति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इति. एकं हीदं वाक्यम्, अथैतस्येत्य् अथशब्दप्रयोगात्, अनन्तरवृत्तम् अपेक्षते. अथ{*३/५१९*} सर्व एवेत्य् एवशब्दः, सामर्थ्यात् सर्वान् पूर्वप्रकृतान् अपेक्षते, अतो मन्यामहे - यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्तीत्य् अनेन पूर्वेण, अथैतस्य हारियोजनस्येत्य् एतस्यैकवाक्यता भवतीति. तेन चमसिनां संनिहितानाम् एष विभागः, यथा चमसम् अन्यत्र, हारियोजने तु सर्व एवेति.
SK
NOTES: *{३/५१९: E२,४ ओम्. अथ}*
SK
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः // MS_३,५.३० //
SK
तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति - चमसिन एव हारियोजने लिप्सन्त इति, सर्वे तु विधीयन्ते हारियोजने, सर्वे भक्षयन्तीति, न पुनश् चमसिन इति संबन्धः शक्यते विधातुम्. द्वौ हि संबन्धाव् अस्मिन् वाक्ये ऽपूर्वौ न शक्येते विधातुम्. तस्माद् अन्या वचनव्यक्तिः. [३५५]{*३/५२०*} का पुनर् असौ? यथा चमसम् अन्यांश् चमसांश् चमसिनो भक्षयन्तीत्य् अनुवादः, चमसिनश् चमसान् भक्षयन्त्य् एव, ते भक्षयन्तो यथा चमसम् एव, अथैतस्य हारियोजनस्य न केवलं चमसिनः, सर्व एवेति. किम् एवं भविष्यति? सर्वशब्दश् च सर्वान् वदन् नैकदेशे कल्पितो भविष्यति. न च, द्वौ संबन्धाव् अपूर्वाव् एकस्मिन् वाक्ये भविष्यतः. तस्माद् एष पक्षो ज्यायान् इति तदर्था ह्य् एषा चमसिश्रुतिः, हारियोजनस्य प्रशांसार्था{*३/५२१*} चमसिनः कीर्त्यन्ते हारियोजनं प्रशंसितुम्. कथम्? महाभागो हि हारियोजनः, यस्मात् तत्र सर्वे लिप्सन्ते, अन्यांश् चमसान् एकैकः, न ते महाभागाः, न्यूना हारियोजनाद् इति.
SK
NOTES: *{३/५२०: E२: ४,४६३; E४: ४,७४०; E६: १,२४०}* *{३/५२१: E१ गिब्त् हारियोजनस्य प्रशांसार्था इन् Kलम्मेर्न्}*
SK
वषट्काराच् च भक्षयेत् // MS_३,५.३१ //
SK
अथ किं समाख्यैवैका भक्षकारणम्? नेति ब्रूमह्, वषट्काराच् च भक्षयेत्, वषट्कारश् च भक्षणे निमित्तम्. कथम्? वचनात्, एवं हि श्रूयते - वषट्कर्तुः प्रथमभक्ष इति, भक्षणस्याप्राप्तत्वात्, न प्राथम्य् अविधानार्थ एष शब्दः, प्राथम्य् अविशिष्टं भक्षणम् एव विदधातीति.
SK
होमाभिषवाभ्यां च // MS_३,५.३२ //
SK
अपरम् अपि कारणं होमाभिषवौ. कथम्? हविर्धाने [३५६]{*३/५२२*} ग्रावभिर् अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य् सदसि भक्षान् भक्षयन्तीति{*३/५२३*}. न तावत्, एष क्रमो विधीयते, होमे निर्वृत्ते ततो भक्षणस्याप्राप्तत्वात्{*३/५२४*}. द्वयोश् च क्रमयोर् विधानात्, अभिषुत्य हुत्वेति वाक्यं भिद्येत. अर्थेन च प्राप्तत्वाद् अस्य क्रमस्य. न ह्य् अकृते प्रयोजने कश्चित् प्रतिपादनम् अर्हति. न च, भक्षणाङ्गभावेन होमाभिषवौ चोद्येते. अभिषवस्य होमार्थत्वात्, होमस्य च फलार्थत्वात्. तस्माद् धोमाभिषवयोः कर्तॄणां भक्षणं विधीयते. ये ऽभिषुण्वन्ति जुह्वति च, ते भक्षयन्तीति.
SK
NOTES: *{३/५२२: E२: ४,४६६; E४: ४,७४४; E६: १,२४१}* *{३/५२३: Vग्ल्. Tऐत्.S. ६.२.११.४}* *{३/५२४: E२,४: ततो भक्षणम् इति, भक्षणस्याप्राप्तत्वात्}*
SK
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे // MS_३,५.३३ //
SK
इदं श्रूयते - प्रैतु होतुश् चमसः प्र ब्रह्मणः प्रोद्गातॄणाम् इति. तत्र संदेहः - चमसेषु होमाभिषवयोः कर्तारो वषट्कर्तारश् च किं भक्षयेयुः, उत नेति. किं प्राप्तम्? न भक्षयेयुः, प्रत्यक्षोपदेशाच् चमसानां चमसिनः प्रति. प्रैतु होतुश् चमस इत्येवमादिभिर् विशेषवचनैः, होमाभिषवकारिणां{*३/५२५*} सामान्यवाक्येन, यः सोमो भक्षणेन संस्कर्तव्यः, स चमसेषु चमसिभिर् इति, अथेदानीम् अन्यन् निमित्तं क्व भविष्यति? अव्यक्तः सामान्यनिमित्तः क्व? शेषे भविष्यति, यत्र न चमसिनः.
SK
NOTES: *{३/५२५: E२,४: होमाभिषवादिकारिणां}*
SK
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् // MS_३,५.३४ //
SK
स्याद् वा चमसेषु वषट्कर्त्रादीनां भक्षः, प्राप्यते हि तेषां तत्र कारणम्, न च प्रतिषिध्यते. ननु चमसिनां प्रत्यक्षो[३५७]{*३/५२६*}पदेशान् निवर्तेरन्. उच्यते - अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात्, प्रैतु होतुश् चमस इत्येवमादयः शब्दाः न शक्नुवन्ति वषट्कर्त्रादीन् प्रतिषेद्धुम्, उपदेष्टारो हि ते, न प्रतिषेद्धारः, तस्माद् वषट्कर्त्रादयो ऽपि चमसेषु भक्षयेयुः.
SK
NOTES: *{३/५२६: E२: ४,४६९; E४: ४,७४७; E६: १,२४१}*
SK
चमसे चान्यदर्शनात् // MS_३,५.३५ //
SK
चमसे चान्यांश् चमसिनो दर्शयति - चमसांश् चमसाध्वर्यवे प्रयच्छति. तान् स वषट्कर्त्रे हरतीति. एको हि स्वश् चमसो वषट्कर्त्रे ह्रियते, तेन बहुहरणदर्शनं नावकल्पते, यदि वषट्कर्त्रादयो न चमसेषु भक्षयेयुः. तस्माद् भक्षयन्तीति.
SK
अथ यत्रैकस्मिन् पात्रे बहवो भक्षयन्ति, कस् तत्र क्रम इति. उच्यते -
SK
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् // MS_३,५.३६ //
SK
तस्य हि क्रमो भक्षयितुम्, यस्य हस्ते सोमः.
SK
होता वा मन्त्रवर्णात् // MS_३,५.३७ //
SK
होता वा पूर्वो भक्षयेत्, मन्त्रवर्णात्, मन्त्रवर्णो हि तथा - होतुश् चित् पूर्वे हविरद्यम् आशतेति{*३/५२७*}, तथा - होतेव नः प्रथमः पाहीति{*३/५२८*}.
SK
NOTES: *{३/५२७: ṚV १०.९४.२द्}* *{३/५२८: ṚV ५.४३.३च्}*
SK
वचनाच् च // MS_३,५.३८ //
SK
वचनम् इदं भवति - वषट्कर्तुः प्रथमभक्ष इति. वचन[३५८]{*३/५२९*}म् एवेदम्, न मन्तव्यम्, अनेकगुणविधानाद् अविवक्षितं प्राथम्यम् इति. अप्राप्तत्वात् प्राथम्यस्य, नायम् अनुवादः, विधिर् एव. समासेन च विदधतो नानेकगुणविधानं दुष्करम्.
SK
NOTES: *{३/५२९: E२: ४,४७०; E४: ४,७४९; E६: १,२४२}*
SK
कारणानुपूर्व्याच् च // MS_३,५.३९ //
SK
प्रथं हि वषट्करणं निमित्तं होतुः, ततो होमो ऽध्वर्योर् निमित्तम्. निमित्तानुपूर्व्याच् च नैमित्तिकानुपूर्व्ये क्रमानुरोधः.
SK
वचनाद् अनुज्ञातभक्षणम्{*३/५३०*} // MS_३,५.४० //
SK
अथ य एकपात्रे सोमो ऽनेकेन भक्ष्यते, किं तत्रानुज्ञाप्य, अननुज्ञाप्य वा भक्षयितव्यम्, उतानुज्ञाप्यैवेति. लाघवाद् अनियमो प्राप्त उच्यते - अनुज्ञाप्य भक्षयितव्यम् इति. कस्मात्? वचनात्, इदं वचनं भवति - तस्मात् सोमो नानुपहूतेन पेय इति. उपह्वानं चानुज्ञापनम्. प्राप्तिसूत्रम् एतत्{*३/५३१*}.
SK
अथानुज्ञातेन भक्षयितव्यम् इति स्थिते, किं लौकिकेन वचनेनानुज्ञापयितव्यम्, उत वैदिकेनेति. अनियमाल् लौकिकेनेति प्राप्त उच्यते -
SK
NOTES: *{३/५३०: E२,४: अज्ञातभक्षणम्}* *{३/५३१: E१ गिब्त् प्राप्तिसूत्रम् एतत् इन् Kलम्मेर्न्}*
SK
तदुपहूत उपहूयस्वेत्य्{*३/५३२*} अनेनानुज्ञापयेल् लिङ्गात् // MS_३,५.४१ //
SK
अनुज्ञापनलिङ्गो ऽयं मन्त्रः, लिङ्गात्, अनुज्ञापने समाम्नातः, [३५९]{*३/५३३*} सामर्थ्याद् विनिजुज्यते, तत्र कृते ऽर्थे लौकिको निवर्तते.
SK
NOTES: *{३/५३२: E२,४: उपह्वयस्वेत्य्}* *{३/५३३: E२: ४,४७२; E४: ४,७५१; E६: १,२४२}*
SK
तत्रार्थात् प्रतिवचनम् // MS_३,५.४२ //
SK
एतद् अवगतम् - तदुपहूत उपहूयस्वेत्य्{*३/५३४*} अनेनानुज्ञापयेद्{*३/५३५*} इति. अथ प्रतिवचने संदेहः - किं लौकिकं प्रतिवचनम् उतैतद् एवेति. किं प्राप्तम्? एतद् वैदिकम्, प्रश्ने विनियुक्तम्. लौकिकम् अन्यत् प्रतिवचनं भवितौम् अर्हति. एवं प्राप्ते ब्रूमः - तत्रैतद् एव प्रतिवचनम् इति. ननु प्रश्नलिङ्गम् एतद् उपहूयस्वेति{*३/५३६*}. उच्यते - यद् अस्य पूर्वम्, उपहूत इति प्रतिवचनस्य समर्थम्, तत् प्रतिवचनकार्ये बविष्यति. आह - विपरीतम् एतत् समाम्नानम्, पूर्वं हि प्रश्नेन भवितव्यम्, ततः प्रतिवचनेन. उच्यते - अर्थात्, पूर्वं प्रतिवचनकार्ये भविष्यति, अर्थो हि क्रमाद् बलीयान् इति.
SK
NOTES: *{३/५३४: E२,४: उपह्वयस्वेत्य्}* *{३/५३५: E२,४: एतेनानुज्ञापयेद्}* *{३/५३६: E२,४: उपह्वयस्वेति}*
SK
तदेकपात्राणां समवायात् // MS_३,५.४३ //
SK
इदं संदिह्यते - किं यः कश्चिद् अनुज्ञापयितव्यः, उत समानपात्र इति. अविशेषाभिधानाद् यः कश्चिद् इति प्राप्त उच्यते - तत् खल्व् अनुज्ञापनम् एकपात्राणां स्यात्. कुतः? अनुज्ञापनम् इहाङ्गम्, अनुज्ञापनस्य चैतद् रूपम्, यत्रान्येन कर्तव्यम् अन्यश् चिकीर्षेत्, सो ऽनुमन्यस्वेति ब्रूते, सहभोज[३६०]{*३/५३७*}नादि वाचरितुकामश् चित्तम् अन्यस्यानुकूलयति. तद् एतन् नानापात्रेषु नैव संभवति. न हि तत्रान्येन कर्तव्यम्, अन्यो वा चिकीर्षतीति{*३/५३८*}. सहभोजनादौ वा पदार्थे{*३/५३९*} संमानयति. एकपात्रे तु सोमे साधारणे संस्कर्तव्ये न्यायेन समो विभागः प्राप्नोति, तत्राविभज्य पीयमाने कदाचिद् अन्येन पातव्यम् अन्यः पिबेत्, तत्रानुज्ञापनं संभवति, त्वयार्धं पातव्यम्, मयार्-धम्. कदाचिद् अहम् अभ्याधिकं न्यूनं वा पिबेयम्, तदनुज्ञातुम् अर्हसीति, एकपात्रे वा पानं त्वया सहाचरन्न् अहं तव चित्तप्रसादानं व्याहन्याम् इति संभवत्य् अनुज्ञापना. तस्माद् एक-पात्रेष्व् एवैतत् स्याद् इति.
SK
NOTES: *{३/५३७: E२: ४,४७३; E४: ४,७५३; E६: १,२४३}* *{३/५३८: E२,४ ओम्. इति}* *{३/५३९: E२,४: पदार्थं}*
SK
याज्यापनयेनापनीतो भक्षः प्रवरवत् // MS_३,५.४४ //
SK
अस्ति ज्योतिष्टोमः, तत्र ऋतुयागेषु श्रूयते - यजमानस्य याज्या सो ऽभिप्रेष्यति होतर् एतद् यजेति स्वयं या निष्पद्य यजतीति. यदा स्वयं यजति, तदा संदेहः - किम् अस्य भक्षो ऽस्ति, नास्तीति. तद् उच्यते - याज्यायाम् अपनीयमानायां नापनीयेत भक्षणम्, होतुर् एव तु भक्षणं स्यात्, न यजमानस्येति. कुतः? अन्या हि याज्या, अन्यद् भक्षणम्, न चान्यस्मिन्न् अपनीयमाने ऽन्यद् अपनीयते. यथा तस्याम् एव याज्यायाम् अपनीयमानायां प्रवरो नापनीयते, तद्वद् एतद् अपीति. ननु{*३/५४०*} याज्याया अधि वषट्करोतीति, यत्र याज्या, तत्र वषट्कारः, यत्र वषट्कारः, तत्र भक्षणम् अपीति. न [३५१]{*३/५४१*} इत्य् उच्यते, न तावद् याज्यायाम् अवयवभूतो वषट्कारः, येन याज्याग्रहणेनासौ गृह्येत{*३/५४२*}. यत् तु तस्या अधि वषट्करोतीति, अन्येनापि प्रयुज्यमानाया उपरि होता वषट्करिष्यति, याज्यापनयो हि वचनात्, न वषट्कारापनयः. यावद् वचनम्, वाचनिकं भवत्य् एव, वचनं हि तद्विषयम् एव.
SK
NOTES: *{३/५४०: E२,४ ओम्. ननु}* *{३/५४१: E२: ४,४७४; E४: ४,७५४; E६: १,२४४}* *{३/५४२: E२,४ गेबेन् येन याज्याग्रहणेनासौ गृह्येत इन् Kलम्मेर्न्}*
SK
यष्टुर् वा कारणागमात् // MS_३,५.४५ //
SK
यष्टुर् वा भक्षः स्यात्. कुतः? कारणागमात्, भक्षस्य कारणं वषट्कारः, स च याज्यायाम् आगच्छन्त्याम् आगच्छति. एवं हि श्रूयते - याज्याया अधि वषट्करोतीति. नन्व् एतद् उक्तम् - यजमानेनापि प्रयुज्यमानायां होता{*३/५४३*} अधि{*३/५४४*} वषट्करोतीति. नैष समाधिः, अनवानता यष्टव्यम्, वषट्कारेण यागः क्रियते, न याज्यामत्रेण. तस्माद् आ वषट्कारान् नावानितव्यं यजमानेन, अन्यश् चेद् वषट्कुर्याद् अवान्याद् यजमानः. न च यजेत. यष्टव्ये चासौ चोद्यते, न याज्यामात्रवचने, स्वयं निपद्य यजतीति साङ्गस्य निषद्ययागे विधानात्.
SK
NOTES: *{३/५४३: E२,४: प्रयुज्यमानाया अपि होता}* *{३/५४४: E२,४ ओम्. अधि}*
SK
प्रवृत्तत्वात् प्रवरस्यानपायः // MS_३,५.४६ //
SK
अथ यद् उक्तम् - यथा प्रवरो नापनीयते, एवं भक्षो ऽपीति. उच्यते - अशक्यत्वात् प्रवरो नापनीयते, अतिक्रान्तो हि स कथम् अपनीयेत होतुः? भ्रष्टे चावसरे, अनुष्ठीयमानो यजमानस्य विगुणः स्यात्. न च विगुणः कथंचिद् अर्थं साधयेत्. नात्र चोदकेन प्राप्नोति. अथोच्यते - यच् छक्यं तच् चोदकेन प्रापितम्, यन् न शक्यम्, न तत् प्रापितम् इति. प्रकृतिर् इयम्, [३६२]{*३/५४५*} अपूर्वस्यात्र विधानम्, यादृशम् उक्तम्, तादृशं यदि शक्यते कर्तव्यम्. यदि न शक्यते, यत्रैव शक्यते, तत्रैव कार्यम्. न यत्र विगुणम् इति. तस्मात् प्रवरस्यानपायो युक्तो न भक्षस्येति.
SK
NOTES: *{३/५४५: E२: ४,४७७; E४: ४,७५६; E६: १,२४४}*
SK
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् // MS_३,५.४७ //
SK
ज्योतिष्टोमे श्रूयते - स यदि राजन्यं वा{*३/५४६*} वैष्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीर् आहृत्य ताः संपिष्य दधन्य् उन्मृज्य तमस्मै भक्षं प्रयच्छेन् न सोमम् इति. तत्र संदेहः - किं फलचमसो भक्षविकारः, उतेज्याविकार इति. किं फलचमसं भक्षयेद् इत्य् अर्थः, उत फलचमसेन यजेतेति{*३/५४७*}. किं प्राप्तम्? फलचमसो नैमित्तिको भक्षविकारः, भक्षणेन हि श्रुतेनैकवाक्यता भवतीति, तस्मै भक्षं प्रयच्छेद् इति, न, तेन यजेतेतिशब्दो ऽस्ति, तस्माद् भक्षविकारः.
SK
NOTES: *{३/५४६: E२,४ ओम्. वा}* *{३/५४७: E१ गिब्त् किं फलचमसं भक्षयेद् इत्य् अर्थः, उत फलचमसेन यजेतेति इन् Kलम्मेर्न्}*
SK
इज्याविकारो वा संस्कारस्य तदर्थत्वात् // MS_३,५.४८ //
SK
इज्याविकारो वा फलचमसः फलचमसेन यजेतेत्य् अर्थः{*३/५४८*}. कथम्? यद् एतद् भक्षणम्, एतत् सोमसंस्कारार्थम्, फलचमस्यापि यदि भक्षणं फलचमससंस्कारार्थम्, फलचमसस्यान्यत्रानुपयोगाद् अनर्थकम्. अथ भक्षणं प्रधानम्. तथा - न सोमम् [३६३]{*३/५४९*} इत्य् अनुवादो नावकल्पते. यदि त्व् इज्याविकारो{*३/५५०*} भवेत्, ततः फलचमससंस्कारो ऽवकल्पते. तस्माद् इज्याविकारः. आह - कथं यजिसंबन्धे ऽसति, इज्याविकारो भविष्यतीति. उच्यते - अस्ति यजिसंबन्धः. कथम् इति. यदि राजन्यं वा{*३/५५१*} वैष्यं वा याजयेत्, न्यग्रोधस्तिभीः संपिष्य तम् अस्मै भक्षं प्रयच्छेत्, याजयितुम् इति गम्यते. भक्षसंबन्धे हि न पूर्वम् उत्तरेण संबध्यते, यदि सोमं भक्षणेन संस्कर्तुम् इच्छेन् न्यग्रोधस्तिभीः संस्कुर्याद् इति. तस्मान् न भक्षणसंबन्धः. यागो हि प्रकृतो ऽस्ति, तेन सह संभन्त्स्यते, न दोषो भविष्यति. ननु तस्मै भक्षं प्रयच्छेद् इतिवचनाद् भक्षसाधनम् इति गम्यते, न, यागसाधनम् इति, भक्षशब्दानन्तर्यात्. उच्यते - श्रूयमाणे संबन्धे ऽनर्थकम् इति कृत्वा प्रकृतसंअब्ध इत्य् उच्यते. कथं तु भक्षसंबन्ध इति. यद् धि{*३/५५२*} यागद्रव्यं भक्षयितव्यम्, तच् चोदकेन भवति, तस्माद् भक्षसंबन्धं लभते, भक्षसंबन्धेन च यागसंबन्ध एव लक्ष्यते, यदि तेनेज्यते, ततः स भक्षो भवति, तस्माद् भक्षवचनात् सुतरां तेनेज्यत इति गम्यते, सैषा व्यवधारणकल्पना. तस्मै भक्सं प्रयच्छेत्, तम् अस्मै भक्षं कुर्याद् इत्य् अर्थः, यथा स भक्षो भवति, तथा कुर्याद् इति, यदि च तेनेज्यते, ततो ऽयं भक्षो भवति. तस्मात् तेन यष्टव्यम् इति.
SK
NOTES: *{३/५४८: E१ गिब्त् फलचमसेन यजेतेत्य् अर्थः इन् Kलम्मेर्न्}* *{३/५४९: E२: ४,४७८; E४: ४,७५९; E६: १,२४५}* *{३/५५०: E२,४: इज्याकारो}* *{३/५५१: E२,४ ओम्. वा}* *{३/५५२: E२,४: यदि}*
SK
होमात् // MS_३,५.४९ //
SK
होमविशेषवचनं भवति - यदान्यांश् चमसाञ्{*३/५५३*} जुह्वति, अथैतस्य दर्भतरुणकेनोपहत्य जुहोतीति. इज्याविकारे सति दर्भतरुणकेनेति जुहोतौ गुणवचनम् अवकल्पते. तस्माद् अपीज्याविकारः.
SK
[३६४]{*३/५५४*}
SK
NOTES: *{३/५५३: E२,४: चतमसाञ्}* *{३/५५४: E२: ४,४८२; E४: ४,७६२; E६: १,२४६}*
SK
चमसैश् च तुल्यकालत्वात् // MS_३,५.५० //
SK
यदान्यांश् चामसान् उन्नयन्ति, अथैनं चमसम् उन्नयन्तीति. इज्याविकारे सत्य् उन्नयनदर्शनं युज्यते, न भक्षविकारे. तस्माद् अपीज्याविकारः.
SK
लिङ्गदर्शनाच् च // MS_३,५.५१ //
SK
इतश् च पश्यामः - इज्याविकार इति. कुतः? लिङ्गदर्शनात्. किं लिङ्गं भवति? सोमप्रतिषेधानुवादः, तस्मै भक्षं प्रयच्छेत्, न सोमम् इति, इज्याविकारे सति सोमो न भक्ष्यते. तस्मात् पश्यामः - इज्याविकार इति.
SK
अनुप्रसर्पिषु सामान्यात् // MS_३,५.५२ //
SK
अस्ति राजसूये दशपेयः, तत्र श्रूयते - शतं ब्राह्मणाः सोमान् भक्षयन्ति, दशदशैकैकचमसम् अनुप्रसर्पन्तीति. अत्र राजन्यचमसे संदेहः - किम्, तं राजन्या अनुप्रसर्पेयुः, उत ब्राह्मणा इति. किं प्राप्तम्? राज्यन्या इति. कथम्? दशदशैकैकं चमसम् अनुप्रसर्पेयुर् इत्य् अनुप्रसर्पतां संख्या विधीयते. एकस्यां राजन्यजातौ दशसंख्या विधीयते. राजन्यजातिः सैव, तेन तं दश राजन्या अनुप्रसर्पेयुर् एवं शतं ब्राह्मणा राजन्याश् च. तेषु शतशब्दो ऽनुवादः. अनुवादसरूपश् च, शतं भक्षयन्तीति. तस्माद् राजन्या राजन्यचमसम् अनुप्रसर्पेयुर् इति. केचिद् आहुः - ब्राह्मणराजन्यानाम् एकस्मिंश् चमसे भक्षणं [३६५]{*३/५५५*} विरुध्यत इति. न स दोषः, न हि सोमेनोच्छिष्टा भवन्तीति श्रूयते.
SK
NOTES: *{३/५५५: E२: ४,४८४; E४: ४,७६६; E६: १,२४७}*
SK
ब्राह्मणा वा तुल्यशब्दत्वात् // MS_३,५.५३ //
SK
ब्राह्मणा वा राजन्यचमसम् अनुप्रसर्पेयुः. कथम्? शतं ब्राह्मणाः सोमं भक्षयन्तीति विधिः श्रुत्या ब्राह्मणगताम् एव संख्याम् आह. तस्माच् छतं ब्राह्मणाः, तेषां भक्षणार्थम् अनुप्रसर्पताम् एकैकस्मिंश् चमसे दशदशोपदिश्यन्ते. तस्माद् ब्राह्मणाशतस्य दश ब्राह्मणा राजन्यचमसम् अनुप्रसर्पेयुर् इति.
SK
[३६६]{*३/५५६*}
SK
NOTES: *{३/५५६: E२: ४,४८८; E४: ४,७६९; E६: १,२४७}*
SK
सर्वार्थम् अप्रकरणात् // MS_३,६.१ //
SK
अनारभ्य किंचिद् उच्यते - यस्य खादिरः स्रुवो भवति स छदसाम् एव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति. यस्य पर्णमयी जुहूर् भवति न स पापं श्लोकं शृणोतीत्य्{*३/५५७*}एवमादि. तत्र संदेहः - किं खादिरता स्रुवे, पालाशता जुह्वाम्, प्रकृतौ निविशते, उत प्रकृतौ विकृतौ चेति. किं प्राप्तम्? सर्वार्थम् अप्रकरणात्, प्रकृतिविकृत्यर्थम् एवंजातीयकम्. कुतः? अप्रकरणात्, न कस्य-चिद् प्रकरणे श्रूयन्ते, तानि वाक्येन सर्वत्र भवेयुर् इति.
SK
NOTES: *{३/५५७: Tऐत्.S. ३.५.७.१}*
SK
प्रकृतौ वाद्विरुक्तत्वात् // MS_३,६.२ //
SK
प्रकृतौ वा निविशेरन्न् अनारभ्याधीतानि पात्राणि. कुतः? अद्विरुक्तत्वात्, एवम् अद्विरुक्तं भविष्यतीति. द्विरुक्तायां को दोषः? असंभव इति ब्रूमः - यद् धि प्रकृतौ विकृतौ च भवति, अस्ति तत् प्रकृतौ. प्रकृतौ चेद् अस्ति, चोदकेनैव विकृतिं प्राप्नोति, ततो नानारभ्य विधिम् आकाङ्क्षति. तस्माद् अनाकाङ्क्षितत्वाद् अनारभ्यविधिर् न तत्र विदधाति, तेन ब्रूमः - प्रकृत्यर्थ एवेति.
SK
तद् वर्जन्तु वचनप्राप्ते // MS_३,६.३ //
SK
अप्रकरणात् प्रकृतिविकृत्यर्थम् एवेत्य् उच्यते - यत् तु चोद[३६७]{*३/५५८*}केन प्राप्नोतीत्य् अनारभ्यविधिना प्राप्ते न चोदकम् आकाङ्क्षति. तस्माद् अनारभ्यविधिवर्जं चोदकः प्रापयिष्यति, अनारभ्यविधिवाक्येन प्रत्यक्षेण स्रुवे खादिरता, चोदकवाक्येनानुमानिकेन विकृतौ. आनुमानिकाच् च प्रत्यक्षं बलवत्. तस्मात् प्रकृतिविकृत्यर्थो ऽनारभ्यविधिः.
SK
NOTES: *{३/५५८: E२: ४,४८९; E४: ४,७७१; E६: १,२४७}*
SK
दर्शनाद् इति चेत् // MS_३,६.४ //
SK
यद्य् अनारभ्यविधिश् चोदकाद् बलीयान्, अनारभ्यविधिना प्राप्ते न चोदकम् आकाङ्क्षति, निराकाङ्क्षे वैकृते कर्मणि चोदको नैव प्राप्नोति. तत्र प्रयाजादीनां दर्शनं नैवोपपद्येत, दृश्यन्ते च प्रयाजादयः क्वचित्, प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*३/५५९*}. अथ चोदको बलीयान्{*३/५६०*} तत एतद्दर्शनम् उपपद्यते. तस्मात् प्रकृत्यर्थो ऽनारभ्यविधिः.
SK
NOTES: *{३/५५९: Tऐत्.S. २.३.२.३}* *{३/५६०: E२,४: बलीयास्, E६: बलीयांस्}*
SK
न चोदनैकार्थ्यात् // MS_३,६.५ //
SK
न प्रकृत्यर्थः, सर्वार्थ{*३/५६१*} इति ब्रूमः, अप्रकरणे समाम्नानात्. यद् उक्तम्, अनारभ्यविधिना निराकाङ्क्षस्य न चोदक इति, तन् नोपपद्यते. न ह्य् अनारभ्यविधिश् चोदनां निराकाङ्क्षीकरोति, प्राप्ते हि चोदके न स्रुवे खादिरतानारभ्यविधिना शक्या विधातुम्. असति चोदके ऽनारभ्यविधिर् अपि नास्ति, न चानारभ्यविधिः स्रुवं प्रापयति, तस्य च खादिरताम्. कुतः? चोदनैकार्थ्यात्. एकार्था हि चोदना, यस्य खादिरः स्रुवो भवतीति. न चात्र स्रुवः खादिरता चोभयं विधीयते, स्रुवस्य सतः खादिरताम् एष शब्द आह, स च चोदकेन प्राप्तः. तस्माद् अस्ति चोदकः, स ह्य् अनारभ्यविधिवाक्यस्य प्रत्यक्षत्वात् तं वर्जयित्वान्यं प्रापयति. तस्मात् प्रकृतिविकृत्यर्थो ऽनारभ्यविधिः.
SK
[३६८]{*३/५६२*}
SK
NOTES: *{३/५६१: E२: सर्वार्थम्, E४: सर्वार्थे, E६: सर्वार्थ}* *{३/५६२: E२: ४,४९१; E४: ४,७७३; E६: १,२४८}*
SK
उत्पत्तिर् इति चेत् // MS_३,६.६ //
SK
इति चेत् पश्यसि - उत्पत्तिर् एषां प्रकृतिविधिभिस् तुल्या, प्रकृताव् अङ्गानि संक्षेपेण विस्तरेण चोच्यन्ते - पञ्च प्रयाजान् यचतीति संक्षेपेण. समिधो यजतीत्य्{*३/५६३*}एवमादिना विस्तरेण. इहापि यस्य खादिरः स्रुवो भवतीत्येवमादिर् विस्तारः, यस्यैवंरूपाः स्रुव इति संक्षेपः. एवंरूपः प्रकृतौ विधिर् दृष्टः, अयम् अप्य् एवंरूपः, तस्मात् प्राकृत इति सामान्यतो दृष्टानुमानम्. तस्मात् प्रकृत्यर्थो ऽनारभ्यविधिर् इति.
SK
NOTES: *{३/५६३: Tऐत्.S. २.६.१.१}*
SK
न, तुल्यत्वात् // MS_३,६.७ //
SK
नैतद् एवम्. न ह्य् एवंजातीयकं सामान्यतोदृष्टं साधकं भवति, केवलम् अत्र प्राकृतविधिसारूप्यम्, न तु प्रकृताव् एतद् भवतीति प्रमाणम् अस्ति. अपि च विकृताव् अपि संक्षेपविस्ताराभ्याम्{*३/५६४*} अङ्गानि विधीयन्ते, तिस्र आहुतीर् जुहोतीति{*३/५६५*} संक्षेपः, आमनम् अस्यामनस्य देवा इति{*३/५६६*} विस्तारः{*३/५६७*}. अतो वैकृतैर्{*३/५६८*} अप्य् अनारभ्यविधयस् तुल्याः, तस्माद् अयम् अहेतुः प्रकृतिनिवेशस्य.
SK
NOTES: *{३/५६४: E२,४: संक्षेपविस्तराभ्याम्}* *{३/५६५: Tऐत्.S. २.३.९.३}* *{३/५६६: Tऐत्.S. २.३.९.३}* *{३/५६७: E२,४: विस्तरः}* *{३/५६८: E२,४: वैकृतेर्}*
SK
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः // MS_३,६.८ //
SK
तुशब्दः पक्षं व्यावर्तयति. न सर्वार्थो ऽनारभ्यविधिः, प्रकृत्यर्थः स इति ब्रूमः. कुतः? चोदनार्थकार्त्स्न्यात्, कृत्स्नं चोदकः प्रापयति, नानारभ्यविधिना वैकृतम् अपूवं? निराकाङ्क्षम्, पात्राणां हि तद् वाक्येन न यागानाम्. यागाश् चोदनालिङ्गसंयोगात् प्रकृतिम् अपेक्षन्ते, तया सहैकवाक्यतां यान्ति. प्राकृताश् च ताञ् शक्नवन्ति निराकाङ्क्षीकर्तुम्, नानारभ्य[३६९]{*३/५६९*}विधयः. तस्माद् अवश्यं चोदक उत्पादयितव्यः. स चेद् उत्पाद्यते, नार्थो ऽनारभ्यविधिना. न चासौ प्रकरणादीनाम् अभावात् प्रवर्तमानो ऽपि वैकृतेन यागेन संबध्येत. तस्माद् वैकृतेन कर्मणा नानारभ्यविधिः संबध्यते. तस्य{*३/५७०*} वैकृतस्य मुख्यस्य, अनारभ्यविधिर् वाक्यशेषः, प्रकृतौ वेति विप्रतिषेधे{*३/५७१*} चोदकसामर्थ्यात्, प्राकृते वाक्यशेषे प्राप्ते ऽनारभ्यविधिर् न भविष्यति. तस्माद् अनारभ्यविधिः प्रकृत्यर्थ इति{*३/५७२*}.
SK
NOTES: *{३/५६९: E२: ४,४९३; E४: ४,७७५; E६: १,२४९}* *{३/५७०: E२,४: न तस्य}* *{३/५७१: E२,४: विप्रतिषेधे}* *{३/५७२: E२,४,६ ओम्. इति}*
SK
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् // MS_३,६.९ //
SK
अनारभ्य, किंचित्, सामिधेनीनां परिमाणम् आम्नातम् - सप्तदश सामिधेनीर् अनुब्रूयाद् इति{*३/५७३*}. तत्र संदेहः - किम् एतत् प्रकृतौ, उत विकृताव् इति. किं प्राप्तम्? पूर्वेण न्यायेन प्रकृताव् इति प्राप्तम्, प्रकृतौ च पाञ्चदश्यम् आम्नातम्, तेन विकल्प इति. एवं प्राप्ते ब्रूमः - विकृताव् एवंजातीयको विधिः स्यात्. कस्मात्? प्रकृतेः पाञ्चदश्येन निराकाङ्क्षत्वात्. ननु विकल्पो भवैष्यतीत्य् उक्तम्. प्रकरणविशेषात् पाञ्चदश्येन न विकल्पः, विषमशासनात्. विकृतौ त्व् आनुमानिकं पाञ्चदश्यं बाधित्वा, अनारभ्यविधिवाक्येन प्रत्यक्षेण साप्तदश्यं निवेक्ष्यते. अद्वि[३७०]{*३/५७४*}रुक्तं चैतत् प्रयोगवचनम् उपसंहरिष्यति. तस्माद् एवंजातीयकं विकृत्यर्थम्.
SK
NOTES: *{३/५७३: Aइ.Bर्. १.१}* *{३/५७४: E२: ४,४९५; E४: ४,७७७; E६: १,२४९}*
SK
नैमित्तकं तु प्रकृतौ, तद्विकारः संयोगविशेषात् // MS_३,६.१० //
SK
दर्शपूर्णमासयोर् आम्नातम् - गोदोहनेन पशुकामस्य प्रणयेद् इति, तथा - अग्नीषोमीये पशौ श्रूयते यूपं प्रकृत्य, बैल्वो ब्रह्मवर्चस्कामेन कर्तव्य इति{*३/५७५*}. एवंजातीयकेषु संदेहः - किं प्रकृतौ निवेशः, विकृतौ वेति{*३/५७६*}. किं प्राप्तम्? विकृताव् इति, प्रकृतीर् अन्येन पात्रेण यूपेन च निराकाङ्क्षाः. एवं प्राप्ते ब्रूमः - प्रकृतौ नैमित्तिकं निविशते, निमित्तसंयोगेन विधानात्, खादिरपालाशरौहितका अविशेषेणोक्ताः चमसश् च, गोदोहनं बैल्वश् च विशेषविहितौ, विशेषविधिना चाविशेषविधिर् बाध्यते. प्रकरणं सामान्यम्, निमित्तसंयोगो विशेषः, सामान्येन यत् प्राप्नोति, तत् परोक्षं लक्षणया. यत् तु विशेषेण, तत् प्रत्यक्षं श्रुत्या, श्रुतिश् च लक्षणाया बलीयसी, प्रत्यक्षं च परोक्षात्. तस्मात् प्रकृताव् एव स्यात्.
SK
NOTES: *{३/५७५: Tऐत्.S. २.१.८.१}* *{३/५७६: E१ ओम्. वा}*
SK
इष्ट्यर्थम् अग्न्याधेयं प्रकरणात् // MS_३,६.११ //
SK
सन्ति पवमानेष्टयः - अग्नये पवमानायाष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचय इति{*३/५७७*}. तासां प्रकरणे, समाम्नातम् - ब्राह्मणो वसन्ते ऽग्निम् आदधीतेति{*३/५७८*}. तत्र संदेहः - किम् अग्न्याधेयं पवमानेष्ट्यर्थम्, उत नेति. किं प्राप्तम्? [३७१]{*३/५७९*} इष्ट्यर्थम् इति. कुतः? प्रकरणात्, तासां प्रकरणे श्रूयते - अतस् तदर्थम्.
SK
NOTES: *{३/५७७: Tऐत्.S. २.२.४.२}* *{३/५७८: Tऐत्.Bर्. १.१.२.६}* *{३/५७९: E२: ४,५०३; E४: ४,७८५; E६: १,२५०}*
SK
न वा तासां तदर्थत्वात् // MS_३,६.१२ //
SK
पवमानेष्टयो ह्य् अग्न्यर्थाः, यद्य् अग्निर् इष्ट्यर्थः स्यात्, ततस् तदर्थम् अग्न्याधेयम् इष्टीनाम् उपकुर्यात्. निष्फलास् त्व् इष्टयः, तदर्थम् अग्न्याधेयम् अपि निष्फलं स्यात्. कथं पुनर् अग्न्यर्थता पवमानेष्टीनाम्? निष्प्रयोजनत्वाद् एव, प्रयोजनवत्त्वाच् चाग्नीनाम्. भावयितव्या अपीष्टयो भूतानाम् अग्नीनाम् अर्थेन क्रियेरन्. तस्माद् अग्न्याधेयं पवमानेष्ट्यर्थम्.
SK
लिङ्गदर्शनाच् च // MS_३,६.१३ //
SK
लिङ्गं दर्शयति{*३/५८०*}, यथाग्न्यर्थाः पवमानेष्टय इति. किं लिङ्गम्? जीर्यति वा एष आहितः पशुर् यद् अग्निः, तद् एतान्य् एवाग्न्याधेयस्य हवींषि संवत्सरे निर्वपेत्, तेन वा एष न जीर्यति, तेनैनं{*३/५८१*} पुनर् नवं करोति तन् न सूक्ष्मम् इति{*३/५८२*}.
SK
NOTES: *{३/५८०: E२,४: लिङ्गं च दर्शयति:}* *{३/५८१: E२,४: तेनैवं}* *{३/५८२: Vग्ल्. Tऐत्.S. १.५.७.३}*
SK
तत्प्रकृत्यर्थं यथान्येनारभ्यवादाः // MS_३,६.१४ //
SK
तद् एतद् आधानं किं प्रकृत्यर्थम्, उत सर्वकर्मार्थम् इति संदेहः. किं प्राप्तम्? उच्यते, तत् प्रकृत्यर्थम्. कथम्? यथान्ये ऽनारभ्यवादाः प्रकृत्यर्थाः, तेनैव हेतुना.
SK
सर्वार्थं वाधानस्य स्वकालत्वात् // MS_३,६.१५ //
SK
सर्वकर्मार्थं वाधानम्. को ऽर्थः? सर्वकर्मार्थं यद् अग्निद्रव्यम्, तदर्थम् आधानं न प्रकृत्यर्थम्. न प्रकृतीः प्रकृत्य श्रूयते. न [३७२]{*३/५८३*} च श्रुत्यादयो ऽस्य सन्ति, ये ऽङ्गभावम् उपपादयन्ति. अन्येष्व् अनारभ्यवादेष्व् अन्यतो निर्ज्ञाते ऽङ्गभावे ततो विचारः - किं प्रकृतेर् अङ्गभूतानि विकृतेर् इति, तस्मात् तेषु युक्तम्. इह त्व् अङ्गभावे न कारणम् अस्ति, तस्माद् अग्निप्रयुक्तम् आधानम्, न कर्मप्रयुक्तम्, सर्वकर्मार्था अग्नय{*३/५८४*} इति सर्वार्थम् इत्य् उच्यते. अपि चास्य स्वतः कालो विधीयते, स न विधातव्यः, यदा ज्योतिष्टोमस्य प्रयोगः, तदेदं कर्तव्यम्. तदा च वसन्तः. एवं यदा दर्शपूर्णमासयोः प्रयोगः, तदा कर्तव्यम्. तदा पौर्णमास्य् अमावास्या वा. अप्रकृत्यर्थं तु न प्रकृतिप्रयोगे क्रियेत, तत्र कालवचनं युक्तम्. तस्मान् न प्रकृत्यर्थम्.
SK
NOTES: *{३/५८३: E२: ४,५०५; E४: ४,७८७; E६: १,२५१}* *{३/५८४: E२,४: सर्वकर्मार्थास् त्व् अग्नय}*
SK
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् // MS_३,६.१६ //
SK
सन्ति पवमानेष्टव्यः - अग्नये पवमानायेत्य्{*३/५८५*}एवमाद्याः. तत्र संदेहः - किं पवमानेष्टिसंस्कृते ऽग्नौ पवमानेष्टयः कर्तव्याः, उत नेति. किं प्राप्तम्? तासां खलु पवमानेष्टीनां पवमानेष्टिसंस्कृतो ऽग्निः प्रकृतितः स्यात्. कुतः? चोदकसामर्थ्यात्, प्रयाजवत्, यथासु प्रयाजा भवन्ति चोदकेन, एवं पवमानेष्टिसंस्कृता अग्नयो ऽपि भवेयुः.
SK
NOTES: *{३/५८५: Tऐत्.S. २.२.४.२}*
SK
न वा तासां तदर्थत्वात् // MS_३,६.१७ //
SK
न वेष्टिसंस्कारः, अग्नीनां पवमानेष्तिषु स्यात्. कस्मात्? [३७३]{*३/५८६*} तासां तदर्थत्वात्, ताः पवमानेष्टयो ऽग्निसंस्कारार्था इत्य् उक्तम्. यच् च नामाङ्गभूतं तच् चोदकेन गृह्यते. अग्निप्रयुक्तश् च पवमानेष्टिसंस्कारो न दर्शपूर्णमासप्रयुक्तः, तेन न चोदकेनाकृष्यते. अपि च पवमानेष्-टय इष्टिसंस्कारवर्जितां प्रकृतिम् अपेक्षन्ते, अविहितत्वात् तस्याम् अवस्थायां पवमापनेष्टीनाम्.
SK
NOTES: *{३/५८६: E२: ४,५०८; E४: ४,७९०; E६: १,२५१}*
SK
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् // MS_३,६.१८ //
SK
ज्योतिष्टोमे, पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/५८७*}, तथा सवनीयो ऽनुबन्ध्यश् च. सन्ति च पशुधर्माः, उपाकरणम् उपानयनम् अक्षया बन्धः, यूपे नियोजनं संज्ञपनं विशसनम् इत्येवमादयः. ते किं सर्वेषाम् अग्नीषोमीयसवनीयानुबन्ध्यानाम्, उत अग्नीषोमीयस्य सवनीयस्य वा{*३/५८८*}, उताग्निषोमीयस्यैवेति. किं प्राप्तम्? अविशेषत्, सर्वपशूनाम्. कथम् अविशेषः? ज्योतिष्टोमप्रकरणे सर्वे पशवः समाम्नाताः, तत्प्रकरणापन्नत्वात् सर्वे पशुधर्माः{*३/५८९*} संबध्यन्ते, न चैषां तत्र कश्चिद् विशेषः. एवं प्राप्ते ब्रूमः - सवनीयस्यैते धर्माः भवेयुः, तुल्यः सर्वेषां पशुविधिः स्यात्, यदि प्रकरणे विशेषो न भवेत्. भवति तु प्रकरणे विशेषः, सवनीयानां प्रकरणे पशुधर्माः समाम्नाताह्, आग्नेयः पशुर् अग्निष्टोम आलभ्यः, आग्नेयो ह्य् अग्निष्टोमः. ऐन्द्राग्नः पशुर् उक्थ्य आलभ्यः, ऐन्द्राग्नानि ह्य् उक्थ्यानि. ऐन्द्रो वृष्णिः षोडशिन्य् आलभ्यः, ऐन्द्रो वै वृष्णिर् ऐन्द्रः षोडशी. सारस्वती मेष्य् अतिरात्र आलभ्या, वाग् वै सरस्वती [३७४]{*३/५९०*} इति{*३/५९१*} प्रकृत्य पशुधर्मा आम्नाताः, तस्मात् सवनीयस्य प्रकरणाद् भवितुम् अर्हति // MS_३,६.१८ //
SK
NOTES: *{३/५८७: Tऐत्.S. ६.१.११.६}* *{३/५८८: E२,४: च}* *{३/५८९: E२,४: पशुधर्मैः}* *{३/५९०: E२: ४,५११; E४: ४,५९२; E६. १,२५२}* *{३/५९१: ŚPBर् ४.२.५.१४}*
SK
स्थानाच् च पूर्वस्य // MS_३,६.१९ //
SK
यद् उक्तम् - प्रकरणात् सवनीयार्था इति, एतद् गृह्णीमः, क्रमाच् चाग्नीषोमीयस्य. तस्य हि क्रम औपवसथ्ये ऽहनि समाम्नातम्, तस्माद् द्वयोर् अपीति.
SK
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था // MS_३,६.२० //
SK
एकेषां शाखिनां श्वः सवनीयानाम् आम्नानम्, तद् अपेक्ष्येयम् एषां गुणार्था पुनःश्रुतिः. कः पुनर् गुणः? यद् अर्थैषा श्रुतिः. उच्यते - पशून् संकीर्त्य, यथा वै मत्स्यो ऽविदितो जनम् अवधुउते{*३/५९२*}, एवम् वैते{*३/५९३*} ऽप्रज्ञायमाना जनम् अवधुन्वत इत्य् एषाम् अविज्ञाने दोषम् अभिधाय, एभिः कथं सवनानि पशुमन्तीतिप्रश्नरूपकेण वपाप्रचारो गुणो विधीयते, तद् अर्थैषा श्रुतिः, वपाप्रचारेणैकवाक्यत्वात्. किम् अतः? यद्य् एवम्, न, सवनीयानां प्रकरणेन पशुधर्माः, क्रमाद् अग्नीषोमीयार्था एवेति. किं पुनस् तच् छ्व आम्नानम्? आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयपशुम्{*३/५९४*} उपाकरोतीति.
SK
NOTES: *{३/५९२: E२,४: अवधूनुते}* *{३/५९३: E२,४ ओम्. वा}* *{३/५९४: E२,४: पशुम्, E६: सवनीयं पशुम्}*
SK
तेनोत्कृष्टस्य कालविधिर् इति चेत् // MS_३,६.२१ //
SK
नैतद् अस्ति - क्रमाद् अग्नीषोमीयार्था एवेति, प्रकरणात् सवनीयार्थाः, पूर्वेद्युर् एवाम्नानं विधानार्थम्, आश्विनवाक्यं कालगुणविधानार्थम्. कथम्? तेन वपाप्रचारेणोकृष्टस्य काल एष विधीयते, प्रातःसवने वपाप्रचारे चोदिते सति पश्वालम्भो ऽपि तत्रैव प्रप्नोति. तत्र कालानियमे प्राप्ते, आश्विनं ग्रहं गृहीत्वेति कालमात्रं विधीयते. त्रिवृता यूपं [३७५]{*३/५९५*} परिवीयोपाकरोतीत्य्{*३/५९६*} अनुवादः. इतरथा हि{*३/५९७*} परिव्याणस्य कालो विधीयेत, उपाकरणस्य च. तत्रानेकगुणविधानाद् वाक्यं भिद्येत. तस्मात् सवनीयार्थाः पशुधर्मा इति.
SK
NOTES: *{३/५९५: E२: ४,५१४; E४: ४,७९६; E६: २५३}* *{३/५९६: E२,४: परिवीयोपकरोतीत्य्}* *{३/५९७: E२,४ ओम्. हि}*
SK
नैकदेशत्वात् // MS_३,६.२२ //
SK
नैतद् एवम्, अग्नीषोमीयार्था एवैते क्रमात्. आश्विनकालं ह्य् आम्नानं विधानार्थम्. गुणार्थ एतस्मिन् वाक्यं भिद्येत, न विधानार्थे. न हि वपाप्रचारेणोत्कृष्टस्य कालविधिः संभवति. एकदेशो हि वपाद्रव्यं तेन संनिपातिनो वपासंस्कारात्, उत्कर्षेन् नोपाकरणम्.
SK
अर्थेनेति चेत् // MS_३,६.२३ //
SK
आह - अर्थेन तर्ह्य्{*३/५९८*} उत्कृष्टस्य कालो विधीयते. मुष्टिना पिधाय वपोद्धरणम् आसीत आ वपाहोमाद् इति श्रूयते. पूर्वेद्युर् वपोद्धरणं मुष्टिना पिधाय न शक्नुयाद् एतावन्तं कालमासीनेनावस्थातुम्, अवश्यम् आहारविहारादयस् तेन कर्तव्या इति.
SK
NOTES: *{३/५९८: E२,४: हि}*
SK
न श्रुतिविप्रतिषेधात् // MS_३,६.२४ //
SK
नैतद् एवम्, श्रुतिविप्रतिषेधो{*३/५९९*} भवेद् एवम्, न च श्रुतिविप्रतिषेधः, तृणमुष्टिना पर्णमुष्टिना वा पिधायिष्यते. नन्व् आस्त इत्य् उपवेशने भवति. नावश्यम् उपवेशन एव{*३/६००*}, औदासीन्ये ऽपि दृश्यते. तद् यथा - गृह्याणि परिगृह्यास्ते, क्षेत्राणि परिगृह्यास्त इत्य् अनुपदेशने ऽपि भवति, व्यापारनिवृत्तौ. इहापि तृणमुष्टिना पर्णमुष्टिना वा पिधाय, आ वपाहोमाद् उदासिष्यते. तस्माद् आश्विनकालम् आम्नानं विधानार्थम्, न सवनीयानां प्रकरणे पशुधर्माः, तस्मान् न सवनीयार्थाः.
SK
[३७६]{*३/६०१*}
SK
NOTES: *{३/५९९: E२,४: श्रुतिविप्रतिषेधे}* *{३/६००: E२,४: उपवेशेनैव}* *{३/६०१: E२: ४,५१९; E४: ४,८०२; E६: १,२५३}*
SK
स्थानात् तु पूर्वस्य संस्कारस्य तद् अर्थत्वात् // MS_३,६.२५ //
SK
नास्ति सवनीयानां प्रकरणम् इत्य् एवं सति पूर्वेणैव हेतुना स्थानेन पूर्वस्याग्नीषोमीयस्य भवितुम् अर्हति. संस्कारो ऽयं पशुयागप्रयुक्तः, न ज्योतिष्टोमप्रयुक्तः, ज्योतिष्टोमप्रयुक्तत्वे न विशेषः पशूनां स्यात्. पशुयागा अपि हि धर्मान् प्रयोक्तुम् अपूर्वत्वात् समर्थाः, प्रकरणवन्तश् च. तस्मात् क्रमाद् अग्नीषोमीयधर्मा इति.
SK
लिङ्गदर्शनाच् च // MS_३,६.२६ //
SK
इतश् च पश्यामो ऽग्नीषोमीयार्ताः पशुधर्मा इति. कुतः? लिङ्गदर्शनात्. लिङ्गम् अस्मिन्न् अर्थे भवति, वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यंदिने सवन इति पशुपुरोडाशं दर्शयति. इतरथा समानविधानेषु सर्वेषु पशुष्व् अग्नीषोमयोर् देवतयोः संस्कारार्थः सन् पुरोडाशः सामर्थ्याद् अग्नीषोमीयस्य भवेन् न सवनीयस्य, तयोर् देवतयोर् अभावात्, दर्शयति च. तस्माद् अग्नीषोमीयार्था इति.
SK
अचोदना गुणार्थेन // MS_३,६.२७ //
SK
इदं पदोत्तरं सूत्रम्{*३/६०२*}. आह, ननु छिद्रापिधानार्थः पशुपुरोडाशः. नेति ब्रूमः, अचोदना गुणार्थेन, तस्य छिद्रापिधानार्थेन न चोदना, अर्थवादः स इत्य् उक्तम्. तस्माद् देवतासंस्कारार्थः, तस्माद् अग्नीषोमीयार्थत्वे{*३/६०३*}, सवनीये पुरोडाशस्य दर्शनम् उपपद्यते, न साधारण्ये. तस्माद् अग्नीषोमीयार्थाः पशुधर्मा इति.
SK
[३७७]{*३/६०४*}
SK
NOTES: *{३/६०२: E१ गिब्त् इदं पदोत्तरं सूत्रम् इन् Kलम्मेर्न्}* *{३/६०३: E२,४: तस्याग्नीषोमीयार्थत्वे}* *{३/६०४: E२: ४,५२१; E४: ४,८०५; E६: १,२५४}*
SK
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् // MS_३,६.२८ //
SK
अस्ति सायंदोहः, तथास्ति प्रातर्दोहः. सन्ति तु दोहधर्माः शाखाहरणम्, गवां प्रस्थापनम्, प्रसावनम्, गोदोहनम् इत्येवमादयः. ते किं सायंदोहार्थाः, उतोभयार्था इति. किं तावत् प्राप्तम्? दोहयोस् तयोर् असंयुक्तं धर्मैः शृतं भवेत्. कस्मात्? सायंदोहस्य हि क्रम औपवसथ्ये ऽहनि शाखाहरणादीन् समामनन्ति, तस्मिन्न् एवाहनि सायंदोहः. तस्मात् क्रमात् सायंदोहार्था दोहधर्मा इति.
SK
प्रकरणाविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् // MS_३,६.२९ //
SK
प्रकरणं हि साधारणम्, यथैव दध्न एवं पयसः, क्रमाच् च प्रकरणं बलवत्तरम्, तस्माद् उभयार्था दोहधर्माः. अपि च, न सायंदोहस्य पूर्वेद्युर् आम्नानम्. क्व तर्हि? उत्तरेद्युः. कथम्? एवम् आमनन्ति - ऐन्द्रं दध्य् अमावास्यायाम्, ऐन्द्रं पयो ऽमावास्यायाम् इति{*३/६०५*}, अमावास्यायां ह्य् उभयं{*३/६०६*} साङ्गं चोद्यते. स एष सायंदोहो ऽर्थात् पूर्वेद्युर् अनुष्ठीयते, स्वभाव एष दध्नः, यत् पूर्वेद्युर् उपक्रान्तम् अपरेद्युर् अभिनिर्वर्तते. तस्मात् सायंदोहस्य क्रम आमाता इत्य् एतद् एव तावन् नास्ति. अत उभयार्था दोहधर्मा इति.
SK
NOTES: *{३/६०५: Tऐत्.S. २.५.४.१}* *{३/६०६: E२,४: उभये}*
SK
तद्वत् सवनान्तरे ग्रहाम्नानम् // MS_३,६.३० //
SK
अस्ति ज्योतिष्टोमः - ज्योतिष्तोमेन स्वर्गकामो यजेत [३७८]{*३/६०७*} इति{*३/६०८*}. तत्रैन्द्रवायवाद्या ग्रहाः प्रातःसवने दश आम्नाताः, तत्र धर्मा श्रूयन्ते - उपोप्ते ऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवाः. दशापवित्रेण ग्रहं समार्ष्टीति. सन्त्य् अपरे माध्यंदिने सवने, अपरे तृतीयसवने ग्रहाः. तेषु माध्यंदिनीयेषु तार्तीयेषु च सवनेषु संदेहः{*३/६०९*} - किं सर्वेषु ग्रहधर्माः कर्तव्याः, उत प्रातःसवने ये ग्रहास् तेष्व् इति. किं प्राप्तम्? प्रातःसवनग्रहेषु भवेयुः, तेषां हि क्रमे{*३/६१०*} समाम्नानात्{*३/६११*} नेतरेषाम्. एवं प्राप्ते ब्रूमः - सवनान्तरे प्रातःसवनात्, माध्यंदिने तृतीयसवने च ग्रहाम्नानं तद्वद् एव भवितुम् अर्हति. सर्वेषां हि तुल्यं प्रकरणम्, यत्रैते धर्माः समाम्नाताः, वाक्येन ग्रहमात्रस्य विधीयन्ते. क्रमाच् च वाक्यप्रकरणे बलीयसी. तस्मात् सर्वार्था ग्रहधर्मा इति.
SK
NOTES: *{३/६०७: E२: ४,५२२; E४: ४,८०७; E६: १,२५५}* *{३/६०८: Tऐत्.S. ६.५.२.२}* *{३/६०९: E२,४: तार्तीयसवनीयेषु च संदेहः}* *{३/६१०: E२,४: तेषां हि क्रमे}* *{३/६११: E२,४: समाम्नाता}*
SK
रशना च लिङ्गदर्शनात् // MS_३,६.३१ //
SK
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/६१२*}. तत्र रशना श्रूयते, रशनाधर्माश् च - त्रिवृद् भवति, दर्भमयी भवति, प्रपिष्टानां{*३/६१३*} कर्तव्या चेति. तत्र संदेहः - किम् एते धर्मा अग्नीषोमीयरशनायाः सवनीयरशनायाश् च साधारणाः, उताग्नीषोमीयरशनाया एवेति. किं प्राप्तम्? प्रकरणाद् अग्नीषोमीयरशनाया इति. एवं प्राप्ते ब्रूमः - उभयोः साधारणा इति. कुतः? लिङ्गदर्शनात्, लिङ्गं भवति, एवम् आह - आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं पशुम्{*३/६१४*} उपाकरोतीति [३७९]{*३/६१५*} सवनीयपरिव्याणे रशनां दर्शयति, सा यदि साधारणी, तत एतद् दर्शनम् अवकल्पते. यद्य् अग्नीषोमीयार्थाः, ततो ऽप्राकृतात् सवनीयपरिव्याणान् निवर्तेत. सवनीये च परिव्याणान्तरप्राकृतम्, यत्र त्रिवृत्त्वं दृश्यते. कथम्? स वै आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं परिव्ययतीति. तत्र यदि न साधारणी रशना, वाससा परिव्याणं प्राप्नोति, रशणां तु दर्शयति. तस्मात् साधारणी रशना, तत् सा-धारण्याच् च तद्धर्मा अपि साधारणाः. तद् एतल् लिङ्गाद् रशनासाधारण्यम्. को ऽत्र खलु न्याय इति. उच्यते - प्रकरणाद् अग्नीषोमीयस्य, वाक्याद् यूपमात्रस्येति.
SK
NOTES: *{३/६१२: Tऐत्.S. ६.१.११.६}* *{३/६१३: E२,४: प्रतिष्टानां}* *{३/६१४: E२,४: सवनीयं पशुम्}* *{३/६१५: E२: ४,५२४; E४: ४,८०९; E६: १,२५५}*
SK
आराच्छिष्टम् असंयुक्तम् इतरैः संनिधानात् // MS_३,६.३२ //
SK
दूराद् यच् छिष्यते ज्योतिष्टोमस्य, यथौपसदानुवाक्याकाण्डे ऽंश्वदाभ्यौ{*३/६१६*}. तत्र संदेहः - किं ज्योतिष्टोमसमाम्नाता ग्रहधर्माः कर्तव्याः, उत नेति. किं प्राप्तम्? न कर्तव्याः, असंनिधानात्, यथा - पयसा मैत्रावरुणं श्रीणातीति{*३/६१७*} वचनात्, मैत्रावरुणस्यैव श्रवणम्, न सर्वेषाम्. एवम् इदम् अपि धर्मजातं प्रकरणस्थानाम् एव, न सर्वेषाम् इति.
SK
NOTES: *{३/६१६: E२,४: ऽश्वदाभ्यौ}* *{३/६१७: Tऐत्.S. ६.४.८.२}*
SK
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् // MS_३,६.३३ //
SK
संयुक्तं वा धर्मैः, एवंजातीयकं स्यात्, अप्रकरणस्थम् अपि. कुतः? यतः प्रकरणाद् वाक्यं बलीयः. नन्व् अन्यत्र क्रिय[३८०]{*३/६१८*}माणा ज्योतिष्टोमस्य नोपकुर्युः. उच्यते - उपकरिष्यन्ति, अंश्वदाभ्ययोस् तदर्थत्वाज् ज्योतिष्टोमार्थत्वाच्{*३/६१९*} छेषो ऽयं ग्रहधर्मः, ग्रहनिमित्तो ज्योतिष्टोमस्योपकारकः. यावान् ग्रहो ज्योतिष्टोमस्योपकरोति, तस्य सर्वस्य भवितुम् अर्हति. तस्माद् अंश्वदाभ्ययोर् अपि ग्रहधर्माः कर्तव्या इति.
SK
NOTES: *{३/६१८: E२: ४,५२५; E४: ४,८११; E६: १,२५६}* *{३/६१९: E१ गिब्त् ज्योतिष्टोमार्थत्वाच् इन् Kलम्मेर्न्}*
SK
निर्देशाद् व्यवतिष्ठेत // MS_३,६.३४ //
SK
यद् उक्तम् - यथा मैत्रावरुणं पयसा श्रीणातीति, तद् युक्तम्, श्रयणे वचनात्, प्रकरणं बाधित्वा व्यवस्थानम्. इह तु विपरीतम्, तत्र सर्वेषु ग्रहेषु प्रकरणम्, विशिष्टेषु वाक्यम्. इह तु सर्वेषु ग्रहेषु वाक्यम्, विशिष्टेषु प्रकरणम्. तस्माद् अप्रकरणस्थस्यापि धर्मा इति.
SK
अग्न्यङ्गप्रकरणे तद्वत् // MS_३,६.३५ //
SK
अनारभ्याग्निम् उच्यते - चित्रिणीर् उपदधाति, वज्रिणीर् उपदधाति{*३/६२०*}, भूतेष्टका उपदधातीति{*३/६२१*}. सन्ति तु प्रकरणे, इष्टकाधर्माः, अखण्डाम् अकृष्णलाम् इष्टकां कुर्याद् इति. तथ भस्मना इष्टकाः संयुज्याद् इति. तत्र संदेहः - किम् अप्रकरणे समाम्नातानाम् इमे धर्माः कर्तव्याः, उत नेति. किं प्राप्तम्? न कर्तव्याः. कुतः? असंनिधानाद्, इति प्राप्ते, उच्यते - अग्न्यङ्गम् एवंजातीयकं तद्वद् एव स्यात्, यद्वद् ग्रहाः. प्रकरणाद् धि वाक्यं बलवत्. अमूषां चेष्टकानाम् अग्न्यर्थत्वात्.
SK
[३८१]{*३/६२२*}
SK
NOTES: *{३/६२०: Tऐत्.S. ५.७.३.१}* *{३/६२१: Tऐत्.S. ५.६.३.१}* *{३/६२२: E२: ४,५२६; E४: ४,८१३; E१: १,२५७}*
SK
नैमित्तिकम् अतुल्यत्वाद् असमानविधानं स्यात् // MS_३,६.३६ //
SK
ज्योतिष्टोमे श्रूयते - स यदि राजन्यं वा{*३/६२३*} वैश्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीर् आहृत्य ताः संपिष्य दधन्य् उन्मृज्य तमस्मै भक्षं प्रयच्छेन् न सोमम् इति. ज्योतिष्टोमे सन्ति सोमधर्माः, मानम् उपावहरणं क्रयो ऽभिषव इत्येवमादयः. तत्र संदेहः - किं समानविधाना इमे धर्माः सोमस्य फलचमस्य च, उत सोमधर्माः, फलचमसस्य तु तद्विकारत्वाद् इति. गुणकामानां प्रवृत्तिर् वा प्रयोजनम् अधिकरणचिन्तायाः{*३/६२४*}. किं प्राप्तम्? समानविधानाः प्रकरणाविभागाद् इति प्राप्ते, उच्यते - नैमित्तिकम् एवंजातीयकं असमानविधानं{*३/६२५*} स्यात्. कुतः? अतुल्यत्वात्, अतुल्यः सोमेन फलचमसः, सोमो नित्यवद् आम्नाताः, फलचमसो नैमित्तिकः. किम् अतः? यद्य् एवम्, धर्मा अपि नित्यवद् आम्नाताः न शक्या अनित्यवत् कर्तुम्. यदि साधारणाः, तत्रानारभ्यो ऽर्थो विधीयेत. अपि च नैमित्तिकः फलचमसः स सोमधर्मान् गृह्णाति, तत्र धर्माः साधारणाः सन्तो द्विरुक्ता इत्य् उच्येरन्. तस्माद् असमानविधानाः.
SK
NOTES: *{३/६२३: E२,४ ओम्. वा}* *{३/६२४: E१ गिब्त् गुणकामानां प्रवृत्तिर् वा प्रयोजनम् अधिकरणचिन्तायाः इन् Kलम्मेर्न्}* *{३/६२५: E२,४: एवंजातीयकसमानविधानं}*
SK
प्रतिनिधिश् च तद्वत् // MS_३,६.३७ //
SK
अस्ति प्रतिनिधिः, श्रुते द्रव्ये ऽपचरति, यथा व्रीहिष्व् अपचरत्सु नीवाराः. तत्र संदेहः - किं नीवाराः समानविधानाः, उत नेति. किं प्राप्तम्? प्रतिनिधिश् च तद्वत्, यथा नैमि[३८२]{*३/६२६*}त्तिकं नित्येनासमानविधानम्, एवं प्रतिनिधिः, अतुल्यत्वात्. कातुल्यता? व्रीहीणां विहिताः, न नीवाराणाम्. इयम् अतुल्यता, व्रीहीणां विहिताः, नीवाराणाम् अर्थापत्त्या भवन्ति.
SK
NOTES: *{३/६२६: E२: ४,५२८; E४: ४,८१६; E६: १,२५७}*
SK
तद्वत्{*३/६२७*} प्रयोजनैकत्वात् // MS_३,६.३८ //
SK
नैतद् अस्ति - असमानविधानः प्रतिनिधिर् इति, तद्वत् स्यात्, यद्वच् छ्रुतः, न प्रकृतिविकारभावः. कुतः? व्रीहित्वं हि व्रीहिधर्माणां व्रीहिव्यक्तौ निमित्तम्. न च व्रीहित्वस्य स्थाने नीवारत्वं भवतीति श्रूयते, तस्मान् न प्रकृतिविकारभावः. कथं तर्हि नीवारेषु धर्मा भवन्तीति. उच्यते -या व्रीहित्वेन परिच्छिन्ना व्रीहिव्यक्तयः, नीवारेषु ताः सन्ति. तासाम् अर्थेन ते धर्माः क्रियन्ते, तासां च व्यक्तीनाम् अन्यासां च व्रीहिगतानां तुल्य एष विधिः. का तुल्यता? उभये ऽपि व्रीहित्वलक्षिता इति. तस्मात् समानविधाना इति.
SK
NOTES: *{३/६२७: E२,४: न तद्वत्}*
SK
अशास्त्रलक्षणत्वाच् च // MS_३,६.३९ //
SK
इतश् च न प्रतिनिधेः श्रुतेन सह प्रकृतिविकारभावः. कुतः? अर्थलक्षणत्वात्, अर्थाद् धि प्रतिनिधिः क्रियते. न चार्थेनैतद् अवगन्तुं शक्यते, व्रीहित्वस्य स्थाने नीवारत्वं भवतीति. तस्मान् न प्रतिनिधेः श्रुतेन सह प्रकृतिविकारभावो भवतीति.
SK
नियमार्था गुणश्रुतिः // MS_३,६.४० //
SK
अथ यः श्रुतः प्रतिनिधिः, तत्र किं सामानविध्यम् उत न [३८३]{*३/६२८*} इति. यथा - यदि सोमं न विन्देत पूतीकान् अभिषुणुयाद् इति{*३/६२९*}. असामानविध्यम् इति ब्रूमः, अश्रुताद् ध्य् एतद् विपरीतम्. एवं प्राप्त उच्यते - नियमार्था गुणश्रुतिः, अत्राप्य् अर्थलक्षण एव प्रतिनिधिः, सोमे ऽविद्यमाने सोमसदृशं द्रव्यं प्राप्तम्. तत्र सुसदृशे द्रव्ये प्राप्त ईषत्सदृशं नियम्यते. अन्यस्मिन् प्रतिनिधातव्ये ऽन्यत् प्रतिनिधीयते श्रुतस्य स्थाने. न यागद्रव्यत्वेन.
SK
NOTES: *{३/६२८: E२: ४,५३०; E४: ४,८१८; E६: १,२५८}* *{३/६२९: PUBर् ९.५.३}*
SK
संस्थास् तु समानविधानाः प्रकरणाविशेषात् // MS_३,६.४१ //
SK
अस्ति ज्योतिष्टोमः, तत्र संस्थाः समाम्नाता अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्र इति. तत्र दीक्षणीयादयो धर्माः. तेषु संदेहः - किं सर्वसंस्थं ज्योतिष्टोमं प्रकृत्य दीक्षणीयादयो धर्मा उक्ताः, उताग्निष्टोमसंस्थ्यम्{*३/६३०*} अभिप्रेत्येति. किं प्राप्तम्? सर्वसंस्थासु समानं विधानम्. कुतः? प्रकरणाविशेषात्, नास्ति प्रकरणे विशेषः, येन ज्ञायेताग्निष्टोमसंस्थं प्रकृत्येति. तस्मात् समानविधानाः संस्था इति.
SK
NOTES: *{३/६३०: E२,४,६: उताग्निष्टोमसंस्थाम्}*
SK
व्यपदेशश् च तुल्यवत् // MS_३,६.४२ //
SK
तुल्य इव प्रकरणे व्यपदेशो भवति - यद्य् अग्निष्टोमो जुहोति, यद्य् उक्थ्यः परिधिमनक्ति, यद्य् अतिरात्र एतद् एव यजुर् जपन् हविर्धानं प्रतिपद्येतेति सर्वावस्थस्य विशेषवचनाद् अवगम्यते. यदि अपि सामान्यम्, तद् अपि सर्वावस्थस्यैवेति. यदि हि न{*३/६३१*} समानं विधानम्, अग्निष्टोमसंस्थस्यैव [३८४]{*३/६३२*} स्यात्. नेहाग्निष्टोमं संकीर्तयेत्, असंकीर्त्यमाने ऽपि धर्मसंबन्धो भवतीति, सर्वावस्थस्य कीर्तनात् सर्वावस्थप्रकरणम्{*३/६३३*} इत्य् अवगच्छामः. अपि च श्रूयते - आग्नेयम् अजम् अग्निष्टोम आलभेत, ऐन्द्राग्नं द्वितीयम् उक्थ्ये, ऐन्द्रं वृष्णिं तृती-यं षोडशिनीति द्वितीयस्य तृतीयस्य च दर्शनं सामानविध्ये घटते. उक्थ्ये हि द्वे निमित्ते स्तः, अग्निष्टोमस्तोत्रम् उक्थ्यस्तोत्रं चेति, तत्र द्वौ नैमित्तिकाव् आग्नेयः पशुः, ऐन्द्राग्नश् चेति तेन द्वितीयदर्शनं तत्र युज्यते. एवं षोडशिन्य् अतिरात्रे च. प्रकृतिविकारभावे तु प्रत्यक्षश्रुतैर् ऐन्द्राग्नादिभिर् अतिदेशेन प्राप्त आग्नेयो बाध्येत. तत्र द्वितीयादिदर्शनं नोपपद्येत. भवति च. तस्मात् सर्वावस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धर्मा इति.
SK
NOTES: *{३/६३१: E२ उन्द् ४ गेबेन् न इन् Kलम्मेर्न्}* *{३/६३२: E२: ४,५३२, E४: ४,८२१; E६: १,२५९}* *{३/६३३: E२,४: सर्वावस्थस्य प्रकरणम्}*
SK
विकारास् तु कामसंयोगे स नित्यस्य{*३/६३४*} समत्वात् // MS_३,६.४३ //
SK
नैतद् अस्ति, समानविधाना इति. किं तर्ह्य् उक्थ्यादयः संस्थाविकारभूताः स्युः, अग्निष्टोमसंस्थ्यमुरीकृत्य{*३/६३५*} दीक्षणीयादयो धर्माः समाम्नाताः. कुतः? उक्थ्यादीनां कामसंयोगेन श्रवणात्. पशुकाम उक्थ्यं गृह्णीयात्, षोडशिना वीर्यकामः स्तुवीत, अतिरात्रेण प्रजाकामं याजयेद् इति. काम्यो गुणः श्रूयमाणो नित्यम् अर्थं विकृत्य निविशते. कथम्? गुणाद् एवंजातीयके काम्ये फलनिर्वृत्तिः, पशुकाम उक्थ्यं गृह्णीयात्, न ज्योतिष्टोमकाम उक्थ्यग्रहणकामो वा, यथा पशवो भवन्ति, तथा गृह्णीयाद् इत्य् अर्थः. कथम् इति. तत्रावश्यम् इतिकर्तव्यतापेक्षितव्या, संनिधानान् नित्यस्येतिकर्तव्यतयेति गम्यते. कथं पुनर् येयम् इतिकर्तव्यता, सा नित्यस्येत्य् अवधार्यते, [३८५]{*३/६३६*} न पुनर् अस्यैव काम्यस्य, साधारणी वेति. उच्यते - यत्र यत्र गुणे कामो भवति, तत्र तत्र क्रियायां साध्यमानायां नान्यथा. सा तत्रेतिकर्तव्यता, यान्तिकम् उपनिपतति, सा साधनस्य वा साध्यस्य वेति संदिह्यमाना साध्यस्य भवितुम् अर्हति. नासौ साध्यस्याभवन्ती साधनेन संबध्यते, एवं हि स इतिकर्तव्यताविशेषश् चोद्यते, अनेन साधने{*३/६३७*} साधकम् उपकुर्याद्{*३/६३८*} इति. न चास्ति स प्रकारः, येनासाध्यमानायां क्रियायां तेन साधकः कृतो भवेत्. तस्मात् साधकस्यापीतिकर्तव्यताविशेषम् अभ्युपगच्छता, साध्यस्यापीत्य् एतद् अभ्युपगमनीयम्, साध्यश् च ज्योतिष्टोमः, साधिकाः संस्थाः, तस्माज् ज्योतिष्टोमस्य तावत् सेतिकर्तव्यतेति सिद्धम्. अथ कस्मान् न साधारणी? नित्यवद् आम्नानात्, यदैव ज्योतिष्टोमः, तदैव दीक्षा. यदा तु ज्योतिष्टोमे पशुकामः, तदोक्थ्यसंस्थाः, सर्वदा ज्योतिष्टोमे धर्माः कर्तव्याः, एकदोक्थ्यसंस्थाः, तत्र सर्वदा ज्योतिष्टोमस्य धर्माः कर्तव्याः, ते चोक्थ्यादिसंस्थस्यार्थेनेति पूर्वम् उत्तरेण विरुध्यते, यदि सर्वदा नोक्थ्यादीनाम् अर्थेन. अथोक्थ्यादीनाम् अर्थेन न सर्वदा, उभयं विप्रति-षिद्धम्. तस्मान् न साधारणी. नित्यवद् आम्नानं च यद्य् अनित्यस्य स्यात्, नित्यवद् आम्नानं तद् अनित्यं क्रियेत, तत्र नित्यवद् आम्नानं बाध्येत. तस्मान् नित्यसंस्थस्य ज्योतिष्टोमस्य, न काम्यस्योक्थ्यादिसंस्थस्येति.
SK
NOTES: *{३/६३४: E२,४: स नित्यस्य}* *{३/६३५: E२,४: संस्थ्यमूरीकृत्य}* *{३/६३६: E२: ४,५४१; E४: ४,८२६; E१: १,२५९}* *{३/६३७: E२,४: साधनं}* *{३/६३८: E२,४: कुर्याद्}*
SK
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति // MS_३,६.४४ //
SK
नन्व् अग्निष्टोमसंस्थापि काम्या श्रूयते. द्वे हि तत्राम्नाते{*३/६३९*}, एकं नित्यवत्, एकं काम्यम्, तत्र द्वयोर् वाक्ययोः सामर्थ्यान् नित्य एव सकामो भविष्यति. नित्यताविधातो [३८६]{*३/६४०*} नास्तीत्य् अग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धर्मा भविष्यन्तीति.
SK
NOTES: *{३/६३९: E२,४: तत्राम्नाने}* *{३/६४०: E२: ४,५४४; E४: ४,८२६; E१: १,२६०}*
SK
वचनात् तु समुच्चयः // MS_३,६.४५ //
SK
अथ यद् उक्तम् - द्वितीयतृतीयदर्शनं समानविधित्वे ऽवकल्पते, नान्यथेति, वचनं तद् भविष्यति, न दर्शनम्. ऐन्द्राग्न उक्थ्ये द्वितीयो विधीयते, तथैन्द्रः षोडशिनि तृतीयः.
SK
प्रतिषेधाच् च पूर्वलिङ्गानाम् // MS_३,६.४६ //
SK
इतश् च पश्यामः प्रकृतिविकारभाव इति. कुतः? प्रतिषेधात् पूर्वलिङ्गानाम् - यद्य् अग्निष्टोमो जुहोति, यद्य् उक्थ्यः परिधिमनक्ति न जुहोतीति होमाभावदर्शनं न स्यात्. प्राप्ते निमित्ते वचनप्रामाण्यात् सामानविध्ये.
SK
गुणविशेषाद् एकस्य व्यपदेशः // MS_३,६.४७ //
SK
अथ यद् उक्तम् - व्यपदेश इति. एकस्यैवाधिकृतस्य यथोक्तेन न्यायेनायम् अनधिकृतेन गुणेन व्यपदेशः. अग्निष्टोमग्रहणं चानुवाद इति.
SK
[३८७]{*३/६४१*}
SK
NOTES: *{३/६४१: E२: ४,५४७; E४: ४,८३६; E६: १,२६१}*
SK
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य // MS_३,७.१ //
SK
स्तो दर्शपूर्णमासौ, तत्र बर्हिर् बर्हिर् धर्माश् च, तथा वेदिर् वेदिधर्माश् च. तत्र संदेहः - किं बर्हिरादयो बर्हिरादिधर्माश् च प्रधानस्योताङ्गप्रधानानाम् इति. किं तावत् प्राप्तम्? प्रकरणविशेषाद् असंयुक्तं प्रधानस्य, प्रधानस्य एवंजातीयका धर्माः. कस्मात्? प्रकरणविशेषात्, प्रधानानां हि प्रकरणं नाङ्गानाम्, प्रकरणेन चैषां संबन्धः, तस्मात् प्रधानस्य.
SK
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् // MS_३,७.२ //
SK
सर्वेषां वाङ्गप्रधानानाम् इमे धर्माः, नात्र शेषत्वं प्रकरणाद् भवति, उपकारलक्षणं हि तत्. यद् यस्योपकरोति, तत् तस्य शेषभूतम्, सर्वेषां चाङ्गप्रधानानाम् इमे धर्मा उपकुर्वन्ति. कथम् अवगम्यते? वाक्यात्, वेद्यां हवींष्य् आसादयतीति हविर्मात्रं वाक्याद् गम्यते, प्रधानहवींषि प्रकरणात्. वाक्यं च प्रकरणाद् बलीयः, तस्माद् बर्हिषि हवींष्य् आसादयतीति. आह यदि प्रकरणं वाक्येन बाध्यते, लोके ऽपि बर्हिषाम् इमे धर्मा उक्ता भवन्ति. तत्र को दोषः? सर्वत्र धर्माः कर्तव्याः प्राप्नुवन्ति. उच्यते - प्रकरणाद् दर्शपूर्णमासयोर् उपकारका एवेति गम्यते. तस्माल् लौकिकेषु न कर्तव्याः. एवं चेद् अङ्गान्य् अपि न दर्शपूर्णमासशबदकानि, तस्मात् तेष्व् अपि न प्राप्नुवन्ति. उच्यते - यद्य् अप्य् अङ्गानि न दर्शपूर्णमास[३८८]{*३/६४२*}शब्दकानि, दर्शपूर्णमासयोर् उपकारकाणि, एषु क्रियमाणा धर्मा दर्शपूर्णमासयोर् उपकरिष्यन्ति. तस्माद् अङ्गप्रधानेषु कर्तव्या इति.
SK
NOTES: *{३/६४२: E२: ४,५४९; E४: ४,८३८; E६: १,२६१}*
SK
आराद् अपीति चेत् // MS_३,७.३ //
SK
पिण्डपितृयज्ञे ऽपि बर्हिर् धर्मैर् युज्येत, सो ऽपि दाते बर्हिषि वर्तते, तस्य चापि बर्हिषास्ति प्रयोजनम्. तद् अप्य् आराच् छिष्टधर्मवत् स्यात्.
SK
न तद् वाक्यं हि तदर्थत्वात् // MS_३,७.४ //
SK
न तस्य बर्हिर् एतैर् धर्मैर् धर्मवत्, वाक्यं ह्य् एकं दर्शपूर्णमासाभ्यां सह धर्माणाम्, तेन दर्शपूर्णमासयोर् उपकारका धर्माः, यद् दर्शपूर्णमासार्थम्, तत्र प्राप्नुवन्ति, नान्यत्र. तस्मात् पिण्डपितृयज्ञबर्हिषो न भविष्यन्ति.
SK
लिङ्गदर्शनाच् च // MS_३,७.५ //
SK
लिङ्गं भवति, एवम् आह - स वै ध्रुवाम् एवाग्रे ऽभिधारयति, ततो हि प्रथमावाज्यभागौ यक्ष्यन् भवतीत्य् अभिधारणस्याज्यभागार्थतां दर्शयति.
SK
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य // MS_३,७.६ //
SK
ज्योतिष्टोमे केशश्मश्रुणोर् वपनं पयोव्रतानि तपश् चाम्नातानि. तेषु संदेहः - किम् अङ्गप्रधानार्थान्य् उत प्रधानार्थानि? किं तावत् प्राप्तम्? अङ्गप्रधानार्थानीति पूर्वेण न्यायेन प्राप्तम्. [३८९]{*३/६४३*} एवं प्राप्ते ब्रूमः - स्वामियुक्तम् एतत्, तस्मात् प्रधानस्य. कस्मात्? फलसंयोगात्, पुरुषस्य योगेनायं संबन्धः, यागो ऽपूर्वस्य दाता, पुरुषः प्रतिग्रहीता. नन्व् अपरो ऽप्य् अस्ति संबन्धः, यागो निर्वर्त्यः, पुरुषो ऽभिनिर्वर्तक इति. फलेन तु संबन्धो भविष्यतीत्य् एवम् अर्थः पुरुषः श्रूयते. न हि यागं स साधयति, यागः सत्तया संभन्त्स्यत इति. किम् इति तर्हि निर्वर्तयतः फलं भवतीति. संस्काराश् च संस्कुर्वन्तीत्य् उच्यन्ते. यत् तस्य संस्कर्तव्यस्य प्रयोजनम्, तत्र सामर्थ्यं जनयन्तीति. फलं च ग्रहीतुं पुरुषस्य प्रयोजनम्, न यागम् अभिनिर्वर्तयितुम्. तस्माद् ये पुरुषसंस्कारास् ते पुरुषं फलप्रतिग्रहणसमर्थं कुर्वन्ति, न यागनिर्वृत्तिसमर्थम्. आह, यदि यागनिर्वृत्तौ न सामर्थ्यं जनयन्ति, कथं तर्हि यागधर्मास् ते भवन्ति. उच्यते - यागस्य स्वार्थं साधयतः साहाय्ये वर्तन्ते. कश् च तस्य स्वार्थः? यद् अस्य कर्ता फलेन संबध्यते. तस्मात् स्वामिसंस्काराः प्रधानार्था इति.
SK
NOTES: *{३/६४३: E२: ४,५५२; E४: ४,८४४; E६: १,२६२}*
SK
चिकीर्षया च संयोगात् // MS_३,७.७ //
SK
ज्योतिष्टोमे श्रूयते - षट्त्रिंशत्प्रकमा प्राची चतुर्विंशतिर् अग्रेण त्रिंशज् जघनेनेयति शक्यामह इति{*३/६४४*}. तत्र संदेहः - किम् एषा वेदिर् अङ्गप्रधानार्था, उत प्रधानार्थेति. किं तावत् प्राप्तम्? चिकीर्षया च संयोगात् प्रधानार्थेति. का चिकीर्षा? इयति शक्ष्यामह इति. यच् चिकीर्षितम्, तस्यार्थेनैषा श्रूयते - शक्ष्यामहे ऽस्यां कर्तुम् इति प्रधानं च तस्य चिकीर्षितम्, नाङ्गानि. प्रधानं हि फलवन् नाङ्गानि. [३९०]{*३/६४५*} आह यद्य् अङ्गानि न चिकीर्षितानि, किम् अर्थं क्रियन्त इति. उच्यते - अचिकीर्षितान्य् अप्य् अङ्गानि क्रियन्ते, यद्य् अपि तानि न चिकीर्ष्यन्ते, तथापि तैर् अचिकीर्षितैर् अन्याच् चिकीर्ष्यते. तस्मात् तानि क्रियन्त इति, यच् चिकीर्षितम्, तस्य वेदिः. तस्मात् प्रधानार्थेति, स्थितं तावद् अपर्यवसितम्{*३/६४६*}.
SK
NOTES: *{३/६४४: Vग्ल्. Tऐत्.S. ६.२.४.५}* *{३/६४५: E२: ४,५५३; E४: ४,८४८; E६: १,२६३}* *{३/६४६: E१ गिब्त् स्थितं तावद् अपर्यवसितम् इन् Kलम्मेर्न्}*
SK
तथाभिधानेन // MS_३,७.८ //
SK
स्तो दर्शपूर्णमासौ, तत्र श्रूयते - चतुर्होत्रा पौर्णमासीम् अभिमृशेत्, पञ्चहोत्रा अमाव् आस्याम् इति{*३/६४७*}. तत्र संदेहः - किम् अङ्गप्रधानार्थम् अभिमर्शनम्, उत प्रधानार्थम् इति. किं तावत् प्राप्तम्? प्रधानार्थम् इति, प्रधाननामधेयं चैतत्{*३/६४८*}, पौर्णमास्य् अमावास्येति च. तस्मात् प्रधानस्याभिमर्शनम् इति.
SK
NOTES: *{३/६४७: Mऐत्.S. १.९.१}* *{३/६४८: E२,४: च तत्}*
SK
तद् युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् // MS_३,७.९ //
SK
स्थिताद् उत्तरम्{*३/६४९*}. यद् उक्तम् - प्रधानं चिकीर्षितं नाङ्गानि, तस्मात् प्रधानस्य वेदिर् इति. तन् न, तद् युक्ते फलश्रुतिः, साङ्गात् फलं श्रूयते, तस्मात् साङ्गं चिकीर्षितम्. यद्य् अप्य् अङ्गानि न चिकी[३९१]{*३/६५०*}र्षितानि, तथापि वेद्यां कर्तव्यानि. अन्यथा न साङ्गं वेद्यां कृतं भवति.
SK
NOTES: *{३/६४९: E१ गिब्त् स्थिताद् उत्तरम् इन् Kलम्मेर्न्}* *{३/६५०: E२: ४,५५४; E४: ४,८५०; E६: १,२६३}*
SK
गुणाभिधानात् सर्वार्थम् अभिधानम् // MS_३,७.१० //
SK
यद् उक्तम् - प्रधाननामत्वात् पौर्णमासीशब्दस्यामावास्याशब्दस्य च, प्रधानहविषाम् अभिमर्शनम् इति. नैतद् एवम्, अङ्गहविषाम् अप्य् अभिमऋशनं स्यात्. कुतः? गुणाभिधानात्, गुणो ऽभिमर्शनम् इत्य् अभिधानं भवति. कतमत् तदभिधानम्? यत् गुणो ऽभिमर्शनम् इति ब्रूते. पौर्णमासीम् अमावास्याम् इति च द्वितीयान्तं पौर्णमास्यर्थम् अभिमर्शनं कर्तव्यम्, अमावास्यार्थम् अभिमर्शनं कर्तव्यम् इति, अतो यत्र यत्र क्रियमाणं पौर्णमास्याम् अमावास्यायां वोपकरोति, तत्र तत्र कर्तव्यम्. यद् यत् पौर्णमास्याम् अमावास्यायां वाभिसंबध्यते, साक्सात्, प्रणाड्या वा, तत्र तत्र क्रियमाणं तयोर् उपकरोति. तस्मात् प्रधानहविषाम् अङ्गहविषां च कर्तव्यम् इति.
SK
दीक्षादक्षिणं तु वचनात् प्रधानस्य // MS_३,७.११ //
SK
ज्योतिष्टोमे दीक्षाः श्रूयते - तिस्रो दीक्षा इति, तथा दक्षिणाः श्रूयन्ते - तस्य द्वादशशतं दक्षिणा इति. तत्र संदेहः - किं दीक्षादक्षिणम् अङ्गप्रधानार्थम्, उत प्रधानार्थम् इति. किं प्राप्तम्? पुरुषाणाम् अङ्गप्रधानार्थत्वाद् दीक्षादक्षिणस्याङ्गप्रधानार्थतेति. एवं प्राप्ते ब्रूमः - दीक्षादक्षिणं प्रधानस्य. कुतः? वचनात्, वचनं हि भवति, दीक्षाः सोमस्य, दक्षिणाः सोमस्येति, न हि वचनस्य [३९२]{*३/६५१*} अतिभारो नाम क्वचित्. तस्माद् दीक्षादक्षिणं वचनात् सोमस्येति.
SK
NOTES: *{३/६५१: E२: ४,५५६; E४: ४,८५३; E६: १,२६४}*
SK
निवृत्तिदर्शनाच् च // MS_३,७.१२ //
SK
निवृत्तिं दीक्षाणां दर्शयति. कथम्? अध्वर्यो यत् पशुनायाक्षीरथ कास्य दीक्षेति यत् षड्ढोतारं जुहोति सास्य दीक्षेति, असत्याम् अपि दीक्षायां वचनं भवति. तस्माद् अङ्गानां दीक्षादक्षिणम् इति.
SK
तथा यूपस्य वेदिः // MS_३,७.१३ //
SK
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/६५२*}. तत्र यूपं प्रकृत्य श्रूयते - वज्रो वै यूपो यद् अन्तर्वेदि मुनियात् तन् निर्दहेत्, यद् बर्हिर्वेद्य् अनवरुद्धः स्याद् अर्धम् अन्तर्वेदि मिनोत्य् अर्धं बहिर्वेद्य् अनवरुद्धो भवति, न निर्दहतीति. तत्र संदेहः - किम् अन्तर्वेदीति यूपाङ्गभावेन वेदिर् उपदिश्यते, उतार्धम् अन्तर्वेद्य् अर्धं बहिर्वेदीति देशलक्षणार्थम् उच्यत इति. कथं यूपाङ्गभावेन कथं वा देशलक्षणेति. यदि यूपार्धस्य वेद्यन्तरस्य च संबन्धो विवक्षितः, एवं वेदिसंबद्धो यूपः कर्तव्यः, ततो यूपाङ्गभावेन. अथ यस्मिन् देशे मीयमानस्यार्धं वेद्यभ्यन्तरे ऽर्धं च बहिः, स देश उपदिश्यते, ततो देशलक्षणा. किं प्राप्तम्? तथा यूपस्य वेदिः, यथा दीक्षादक्षिणं प्रधानस्य, तथा यूपस्य वेदिः, तथा यूपो मातव्यः, तथा मीयमानस्य [३९३]{*३/६५३*} अर्धं वेद्यभ्यन्तरे भवति. एवं वेदिश्रुतिर् अप्य् अनुग्रहीष्यते, इतरथा वेदिशब्दो लक्षयेद् देशम्, श्रुतिलक्षणाविषये श्रुतिर् न्याय्या न लक्षणा. तस्माद् यूपाङ्गभावेन वेदिर् निर्दिश्यते.
SK
NOTES: *{३/६५२: Tऐत्.S. ६.१.११.६}* *{३/६५३: E२: ४,५५८; E४: ४,८५६; E६: १,२६५}*
SK
देशमात्रं वाशिष्येणैकवाक्यत्वात् // MS_३,७.१४ //
SK
देशामात्रं वा वेदिशब्देन लक्ष्यते न वेदियूपाङ्गम्{*३/६५४*}. कुतः? अशिष्येणैकवाक्यत्वात्, अर्धम् अन्तर्वेदि मिनोत्य् अर्धं बहिर्वेदीत्य् एतेनैकवाक्यता या, सा शासितव्येन, यदि देशलक्षणा, अथ यूपाङ्गभावेन वेद्या निर्देशः, ततो न शासितव्यो बहिर्वेदिनिर्देशो{*३/६५५*} भवति. वेद्यां यूपस्याङ्गभावेनोपदिश्यमानायाम्, अर्धं बहिर्वेदीत्य् एतद् उच्चार्यमाणं न कस्मिंश्चिद् उपकारे वर्तते. अथ बहिर्वेदिदेशम् अपि यूपाङ्गभावेनोपदिशेत्. वाक्यं भिद्येत. तस्माद् यूपाङ्गभावेन वेद्या निर्देशे बहिर्वेदिशब्दः सर्वथा न शासितव्यः. यदि तु देशलक्षणा, ततो विशिष्टे देशे लक्ष्यमाणे ऽवश्यवक्तव्यो बहिर्वेदिशब्दो भवति, अनुच्यमाने वेद्यभ्यन्तरे यस्मिन् कस्मिंश् च प्रदेशे यूप इति गम्यते. अथ पुनर् बहिर्वेदिशब्दे श्रूयमाणे, यतरस्मिन् देशे मीयमानस्यार्धम् अन्तर्वेद्य् अर्धं बहिर्वेदि, स देशो लक्षयितुम् इष्टो भवति. स च बहिर्वेदिशब्देन विना न शक्यते लक्षयितुम् इत्य्, अवश्यं शासितव्यो भवति. तस्माद् देशलक्षणेति.
SK
NOTES: *{३/६५४: E२,४: वेदिर् यूपाङ्गम्}* *{३/६५५: E२,४: बहिर्वेदिदेशो}*
SK
स्वामिधेनीस् तद् अन्वाहुर् इति हविर्धानयोर् वचनात् सामिधेनीनाम् // MS_३,७.१५ //
SK
ज्योतिष्टोमे श्रूयते - उत यत् सुन्वन्ति सामिधेनीस् तद् अन्वाहुर् [३९४]{*३/६५६*} इति, हविर्धानयोर् यस्मिन् हविर्धाने सुन्वन्ति, तत् सामिधेनीभिः संबन्धयेद् इत्य् अर्थः. तत्र संदेहः - किं सामीधेनीनाम् अङ्गभावेन हविर्धानं चोद्यते, हविर्धानविशिष्टाः सामिधेन्यो ऽनुवक्तव्याः, उत हविर्धानेनामूषाम् अनूच्यमानानां देशो लक्ष्यत इति. किं तावत् प्राप्तम्? सामिधेनीनाम् अङ्गत्वेन हविर्धानं चोद्यते - यस्मिन् हविर्धाने सुन्वन्ति, तत् सामिधेनीभिः संबन्धयेद् इति, तेन हविर्धानसंबद्धाः सामिधेन्यो ऽनुवक्तव्या इति वचनात् सामिधेन्यङ्गभावे सति हविर्धानश्रुतिर् अनुग्रहीष्यते. इतरथा देशं लक्षयेद् इति. तस्मात् सामिधेन्यङ्गं हविर्धानम्.
SK
NOTES: *{३/६५६: E२: ४,५६०; E४: ४,८६१; E६: १,२६५}*
SK
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य // MS_३,७.१६ //
SK
देशलक्षणार्थं वैतद् उच्यते - यस्मिन् सुन्वन्ति, तस्मिन् देशे सामिधेन्यो ऽनुवक्तव्या इति, प्रत्यक्षं ह्य् अर्थकर्म सोमस्य तेन क्रियते. दक्षिणे हविर्धाने सोमम् आसादयतीति{*३/६५७*}, सोमासादनार्थं तावद् एतद् उपादेयम्. सामिधेन्यो ऽप्य् अग्निसमिन्धनार्थम् उपादेया इति. इह त्व् एतावच् छ्रूयते - यस्य हविर्धानस्य समीपे सुन्वन्ति तत्संबद्धाः सामिधेन्यो ऽप्य्{*३/६५८*} अग्निसमिन्धनार्थम् उपादेया{*३/६५९*} इति, तत्र न ज्ञायते, किं सामिधेन्यः संबद्धाः हविर्धानस्योपकुर्वन्ति? किं हविर्धानं सामिधेनीनाम् इति. तद् उच्यते - सामिधेन्यस् तावद् धविर्धानस्य नोपकुर्वन्ति, न हि तावद् विधीयन्ते, सामिधेन्यो ऽनुवक्तव्या इति. किं तर्हि? हविर्धानविशेषसंबन्धस् तासां विधीयते, [३९५]{*३/६६०*} न चाविहितम् अङ्गं भवति. नाप्य् एवं विधीयते, हविर्धानमासाम् अनुच्यमानानाम् उपादातव्यं संबन्धयितुम् इति. कथं तर्हि? हविर्धानीविशेषसंबन्धः{*३/६६१*} सामिधेनीनां श्रूयते, हविर्धानसंबन्धो{*३/६६२*} विधीयते, न च सामिधेनीसंबन्धो हविर्धानस्य प्राप्तः, यो विशेषार्थम् अनूद्येत. केन तर्हि हविर्धानस्य संबन्धः? प्रत्यक्षं ह्य् अर्थकर्म सोमस्य, न तु सामिधेनीकर्म प्रत्यक्षं हविर्धानस्य. भवति तु देशस्य सामिधेनीसंबन्धः, अपरेण वेदिम् इति होतुर् देशो लक्षितः, स उत्तरस्य दक्षिणस्य वा हविर्धानस्य समासन्नः. तत्र यत्{*३/६६३*} सुन्वन्ति, तद् अन्वाहुर् इत्य् उपपद्यते वचनम्. तस्माद् देशलक्षणार्थं हविर्धानग्रहणम्. अथैवम् अभिसंबन्धः कस्मान् न भवति? यस्मिन् हविर्धाने सुन्वन्ति, तस्य हविर्धानस्य सामिधेनीसंबन्ध इति. नैवं शक्यम्, एवं द्वाव् अर्थौ विधातव्यौ भवतः, हविर्धानसंबन्धो हविर्धानविशेषसंबन्धश् च. तत्र वाक्यं भिद्यते. तस्मान् नैवम् अभिसंबन्ध इति.
SK
NOTES: *{३/६५७: E२,४: आसादयन्तीति}* *{३/६५८: E२,४ ओम्. ऽप्य्}* *{३/६५९: E२ उन्द् ४ गेबेन् सामिधेन्यो ऽग्निसमिन्धनार्थम् उपादेया इन् Kलम्मेर्न्}* *{३/६६०: E२: ४,५६१; E४: ४,८६३; E६: १,२६६}* *{३/६६१: E२,४: हविर्धानीविशेषसंबन्धो ऽत्र}* *{३/६६२: E२,४: न हविर्धानसंबन्धो}* *{३/६६३: E२,४: तत्}*
SK
समाख्यानं च तद्वत् // MS_३,७.१७ //
SK
समाख्यानं च तद्वद् एव भवति, यथास्माभिर् न्याय उपदिष्टः - सोमार्थं हविर्धानम् इति.
SK
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् // MS_३,७.१८ //
SK
इह कर्माण्य् उदाहरणम् - अग्निहोत्रं जुहुयात् स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेति. तत्र संदेहः - किम् एतानि कर्माणि स्वयम् [३९६]{*३/६६४*} अनुष्ठातव्यानि, उतात्रोत्सर्गमात्रं स्वयं कुर्यात्, शेषम् अन्यः स्वयं वा, उत शेषम् अन्य एवेति. किं प्राप्तम्? स्वयं प्रयोगे स्यात्. कुतः? यतः स्वयं प्रयुञ्जानस्य फलं भवति. कथम् अवगम्यते? तल्लक्षणत्वात्, शब्दो ऽस्यार्थस्य लक्षणम्, स्वयं प्रयुञ्जानस्य फलं भवतीति. कतमः स शब्दः? स्वर्गकामो यजेतेति, यः स्वर्गं कामयते, स एवोच्यते, यागे कर्ता भवन् फलं साधयेद् इति. साङ्गे च कर्ता भवन् फलं प्राप्नोति, तस्मात् स्वयं प्रयोगे स्यात्.
SK
NOTES: *{३/६६४: E२: ४,५६३; E४: ४,८६७; E६: १,२६७}*
SK
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य, तस्माद् अन्यः स्वयं वा स्यात् // MS_३,७.१९ //
SK
उत्सर्गे प्राधान्यम् अस्ति. कथम्? य उत्सर्गं करोति तेन सर्वं कृतं भवति. कथम्? परिक्रय उत्सर्गः, तेनानन्ताः सर्वं कुर्वन्ति. तस्माद् यः परिक्रयं करोति तेन स्वयम् एव सर्वं कृतं भवति. तस्माद् उत्सर्गमात्रं स्वयं कुर्यात्, शेषम् अन्यः स्वयं वा.
SK
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यगात्मनि // MS_३,७.२० //
SK
शेषस्यान्य एव स्यात् कर्ता. कुतः? परिक्रयस्याम्नानत्वात्. पुरुषान् अतिप्रकारेषु बहुषु प्राप्तेषु परिक्रयो नियतः. तस्मात् परिक्रयेणानतैः सर्वे पदार्थाः कर्तव्या इति. विप्रतिषेद्धश् चात्मनि परिक्रयः. यदि स्वयं कुर्यात्, अपरिक्रीतेन कृतं स्यात्, तत्र परिक्रयाम्नानानर्थक्यम्, अदृष्टार्थो वा प्रतिज्ञायेत. तस्माद् अन्यैः परिक्रीतैः शेषाः पदार्थाः कर्तव्या इति. उत्सर्गं तु स्वयं कुर्वता सर्वं स्वयं कृतं भवति.
SK
[३९७]{*३/६६५*}
SK
NOTES: *{३/६६५: E२: ४,५६६; E४: ४,८७५; E६: १,२६८}*
SK
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमो ऽविशेषात् // MS_३,७.२१ //
SK
तत्र तैः परिक्रीतैः कर्तव्येष्व् अनियमेन कर्तृपरिमाणं स्यात्. कुतः? अविशेषात्, न कर्तृपरिमाणे विशेषः कश्चिद् आम्नायते. अर्थेन तत्परिमाणम्, यावाद्भिर् असाव् इतिकर्तव्यता निर्वर्तते, तावतो वृणीत{*३/६६६*}.
SK
NOTES: *{३/६६६: E२,४: वृणीतेति, E६: वृणीते}*
SK
अपि वा श्रुतिभेदात् प्रतिनामधेयं स्युः // MS_३,७.२२ //
SK
यावन्ति कर्तृनामधेयानि कर्माणि श्रूयन्ते - तावन्तो वरीतव्या भिद्यन्ते, तानि च{*३/६६७*} नामधेयश्रवणानि. तान् पुरो ऽध्वर्युर् विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्टा पत्नीम् अभ्युदायति{*३/६६८*}, उन्नेता चमसान् उन्नयतीति. तथा - प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्याम् आह, होता प्रातरनुवाकम् अनुब्रूते, मैत्रावरुणः प्रेष्यति, चानुचाह, अच्छावाको यजति, ग्रावस्तोत्रीयाम् अन्वाह. एतावद्भिः कर्मणि प्रयोजनम्, तेन ते ऽवश्यम् एतानि यथाश्रुतानि कर्तुं वरीतव्याः, एतद् व्यतिरिक्तो ऽन्यः पदार्थो न विद्यते. यो ऽपि वाक्येन नोपदिष्टः, स समाख्यया गम्यते. तस्माद् एतावतो वृणीतेति.
SK
NOTES: *{३/६६७: E२,४ ओम्. च}* *{३/६६८: E२,४: अभ्युदानयति}*
SK
एकस्य कर्मभेदाद् इति चेत् // MS_३,७.२३ //
SK
एवं चेत् प्रतिज्ञायते - एतावतो वृणीतेति. तन् न, यो यस् तत्कर्म करिष्यतीति संकल्पते, स स तत् तच् छब्दाभिधेयो [३९८]{*३/६६९*} भवति, एको ऽपि बहून् पदार्थान् कर्तुं बहुभिर् नामधेयैर् उच्येत, तस्माद् अनियमः.
SK
NOTES: *{३/६६९: E२: ४,५६७; E४: ४,८७८; E६: १,२६८}*
SK
नोत्पत्तौ हि // MS_३,७.२४ //
SK
नैतद् एवम्, उत्पत्तौ पुरुषाणाम्, उत्पाद्यमानेषु पुरुषेषु नामधेयानि भिद्यन्ते - ब्राह्मणं{*३/६७०*} वृणीते, होतारम् वृणीते, उद्गातारं वृणीते, अध्वर्युं वृणीत इत्येवमादि. तस्मात् कर्मणि तैर् एवं नामकैः प्रयोजनम्, अवश्यन्ते वरीतव्याः. तस्माद् एषां वरणे संकीर्तनं न विधिः. प्रयोजनस्याभावन् नानुवादः. न वेदे तावन्तो वरीतव्या इति ब्रूयात्, अनर्थकम् एव स्यात्. शक्नोति चेदं प्रत्याययितुं संख्याविशेषम्. तस्माद् यः संख्याविशेषो एषां प्रतीयते तदर्थम् एतद् वचनम्. तस्मात् षोडश कर्तारो वरीतव्याः, सोमस्{*३/६७१*} तावत् कर्तृकश् च स्यात्{*३/६७२*}. एवं दर्शपूर्णमासयोर् अपि.
SK
NOTES: *{३/६७०: E२,४,६: ब्रह्माणं}* *{३/६७१: E२,४ ओम्. सोमस्}* *{३/६७२: E२,४: च सोमः स्यात्}*
SK
चमसाध्वर्यवश् च तैर् व्यपदेशात् // MS_३,७.२५ //
SK
सन्ति ज्योतिष्टोमे चमसाध्वर्यवः - चमसाध्वर्यून् वृणीतेति. तेषु संदेहः - किम् एषाम् अन्यतमाः, उतैतेभ्यो ऽन्य इति. किं तावत् प्राप्तम्? एतावतां संकीर्तनाद् एषाम् एवान्यतमाः. इति{*३/६७३*} प्राप्ते ब्रूमः - चमसाध्वर्यवश् चापरे भवेयुस् तेभ्यो ऽन्य इति. कुतः? तैर् व्यपदेशात्, तैः परिगणितैर् एषां व्यपदेशो भवति - मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां चमसाध्वर्यव इति. ननु य एव प्रकृतास् ते चमसाध्वर्यवो भवेयुः. नेति ब्रूमः. कुतः? तैर् व्यपदेशात्, मध्यतःकारिणां चमसाध्वर्यवो [३९९]{*३/६७४*} होत्रकाणां चमसाध्वर्यव इति, षष्ठी संबन्धे सति भवति. ऋत्विग्भिस् ते व्यपदिश्यन्ते, ऋत्विजस् तेषां स्वामिनो न यजमानः, यजमानपुरुषेभ्यश् चैते ऽन्य इति नः प्रतिज्ञातम्. न यजमानेन चमसाध्वर्यवं{*३/६७५*} कर्तुं वरीतव्याः, ऋत्विग्भिस् ते वरीतव्या इति. अपि चैषाम् उत्पत्तिवाक्य एव भेदः, चमसाध्वर्यून् वृणीतेति.
SK
NOTES: *{३/६७३: E२: संकीर्तनाद् एषाम् एवम् अन्यतमा इति, E४: संकीर्तनादेशाम् एवान्यतमा इति}* *{३/६७४: E२: ४,५६९; E४: ४,८८२; E६: १,२६९}* *{३/६७५: E२,४: चमसाध्वर्युत्वं}*
SK
उत्पत्तौ तु बहुश्रुतेः // MS_३,७.२६ //
SK
तेष्व् व संदेहः - किम् अनियमः, एको द्वौ बहवो वा, उत बहव एवेति? अनियम इति प्राप्त उच्यते - बहव इति. कुतः? उत्पत्तौ बहुश्रुतेः, चमसाध्वर्यव इत्य् एषाम् उत्पत्तौ बहुश्रुतिर् भवति, तस्माद् बहव इति.
SK
दशत्वं लिङ्गदर्शनात् // MS_३,७.२७ //
SK
ज्योतिष्टोमे सन्ति चमसाध्वर्यवः{*३/६७६*}, ते च बहव इत्य् उक्तम्. कियन्तो बहव इति संदेहे त्रयः, बहुवचनसामर्थ्याद् इति प्राप्ते ब्रूमः - दशत्वं लिङ्गदर्शनात्. ते दश भवेयुः, तथा हि लिङ्गं ज्योतिष्टोमविकारे दशपेये श्रूयते - दश चमसाध्वर्यवो दश दशैकैकं चमसम् अनुसर्पन्तीति, एतस्मात् कारणाद् दशपेयो भवतीति ब्रुवन् दश चमसाध्वर्यून् दर्शयति, यदि त्रयो भवेयुः, एतद्दर्शनं नोपपद्यते. तस्मात् त्रीन् अतीत्यैषा संख्या, यदि च दश न भवेयुर् नोपपद्येतैतद्दर्शनम्. तस्माद् [४००]{*३/६७७*} भवन्ति दश, दश चैषां स्वामिनः. तस्मात् प्रयोजनभावाद् दशसंख्योपादीयते, तस्यां चोपादीयमानायाम् अपरापि संख्यानुगृह्यते, तेनापि दश भवेयुः.
SK
NOTES: *{३/६७६: E२,४: सन्ति चमसाध्वर्यवः}* *{३/६७७: E२: ४,५७०; E४: ४,८८४; E६: १,२७०}*
SK
शमिता च शब्दभेदात् // MS_३,७.२८ //
SK
अस्ति शमिता - शमितारम् उपनयीतेति. स किं संकीर्तितानाम् अन्यतमः, उतान्यस् तेभ्य इति. किं प्राप्तम्? तेषां वरणे संकीर्तनात्, तेषाम् अन्यतमः, इति प्राप्ते उच्यते - शमिता च शब्दभेदात्, शब्दो भिद्यते, एवंसंज्ञकेनेदं कर्म कर्तव्यम् इति, तस्माद् एवंसंज्ञक उत्पादयितव्यः. अस्य संकीर्तनात् संख्याव् वृद्धिर् गम्यते, तस्माद् अन्यः शमिता स्यात्. अपि च - क्लोमा चोर्धं{*३/६७८*} वैकर्तनं च शमितुः तद् ब्राह्मणाय दद्याद् यद्ब्राह्मणः स्याद् इत्य्{*३/६७९*} अब्राह्मणाशङ्का भवति, सा ऋत्विजि नोपपद्यते.
SK
NOTES: *{३/६७८: E२,४: चार्धं}* *{३/६७९: Aइ.Bर्. ७.१}*
SK
प्रकरणाद् वोत्पत्त्यसंयोगात् // MS_३,७.२९ //
SK
सत्यं संख्याविवृद्धिर् गम्यते, न तूत्पद्यमानेषु, या त्व् अनुत्पत्तिस् तेषु गम्यते, तत्रैकस्य कर्मभेदाद् इत्य् एवम् अप्य् अवकल्पते. यत् तूक्तम् - अब्राह्मणाशङ्का भवतीति, यजमानाभिप्राया सा, यद्य् अब्राह्मणो यजमानः स्याद् इति. ननु यद्य् अब्राह्मणः स्याद् इति प्रकृतः शमिता संबध्यते. उच्यते - शमयतीति शमिता, यौगिक एष शब्दः प्रकृतेष्व् अप्य् अवकल्पते. शामित्रम् अप्य् आध्वर्यवे समाम्नानाद् अध्वर्युणा कर्तव्यम्. [४०१] तस्माच् छमनाद् अध्वर्युः शमिता. एवं सति अप्रकृतो यजमानः संबन्ध्यते.
SK
उपगाश् च लिङ्गदर्शनात् // MS_३,७.३० //
SK
ज्योतिष्टोमे सन्त्य् उपगा नाम, ते शब्दभेदात् संख्याविवृद्धिं प्रत्याययन्तीत्य् अध्वर्य्वादिभ्यो ऽन्य इति प्राप्ते ब्रूमः - तेषाम् एव केचित् स्युर् इति. कस्मात्? उत्पत्तौ परिगणनात्, यौगिककत्वाच् च शब्दस्य. लिङ्गम् इदं भवति - नाध्वर्युर् उपगायेद् इति, यद्य् एभ्यो ऽन्ये भवेयुर् नाध्वर्युं प्रतिषेधेत्. अप्राप्तत्वात्. यतस् तु प्रतिषेधति, अतो ऽवगछामः, उत्पत्तौ संकीर्तितानाम् एवान्यतम इति.
SK
विक्रयी त्व् अन्यः कर्मणो ऽचोदितत्वात् // MS_३,७.३१ //
SK
अस्ति सोमविक्रयी, तत्र संदेहः - स किम् अध्वर्य्वादीनाम् अन्यतमः, उतैभ्यो ऽन्य इति. किं प्राप्तम्? तेषां संकीर्तनात्, तेषाम् अन्यतम इति प्राप्ते ब्रूमः - विक्रयी त्व् अन्यः स्याद् इति, विक्रयो न चोद्यते क्रयचोद्यते, तत्रार्थाद् विक्रयः, ज्योतिष्टोमस्य च पदार्थान् कर्तुम् अध्वर्य्वादय उत्पाद्यन्ते, न तु विक्रयो ज्योतिष्टोमस्य श्रूयते. तस्मान् नाध्वर्य्वादीनाम् अन्यतम इति.
SK
[४०२]{*३/६८०*}
SK
NOTES: *{३/६८०: E२: ४,५७२; E४: ४,८९१; E६: १,२७१}*
SK
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् // MS_३,७.३२ //
SK
य एते पुरुषा ज्योतिष्टोमस्य श्रूयन्ते, ते किं सर्व एत ऋत्विजः, उत केचिद् एषाम् इति. किं प्राप्तम्? सर्वे. कुतः? कर्मकार्यात्, सर्वे यागस्य साधनं कुर्वन्ति, तस्मात् सर्व ऋतौ यजन्ति. ये चर्तौ यजन्ति त ऋत्विजः, न कश्चिद् विशेष आश्रीयते, इम एवर्तौ यजन्तीत्य् ऋत्विजः, इमे नेति. तस्मात् सर्वेषाम् ऋत्विक्त्वम्. ननु परिसंख्या श्रूयते - सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति. उच्यते - परिसंख्यायां बहवो दोषाः सन्तीति, अवयुत्यवादो ऽयं भविष्यति.
SK
न वा परिसंख्यानात् // MS_३,७.३३ //
SK
न वा सर्वे. कस्मात्? परिसंख्यानात्, एवं हि श्रूयते, सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति, स एष न विधिः, बहुतराणां प्राप्तत्वात्, नानुवादः, पर्योजनाभावात्. न चेत् परिसंख्यापि, आनर्थक्यम् एव स्यात्. ननु परिसंख्यायां स्वार्थहानं परार्थकल्पना प्राप्तबाधश् च. उच्यते - स्वार्थहानम् अदोषः प्राप्तत्वात्. परार्थकल्पना च प्रत्ययात्. कथम्{*३/६८१*}? बहूनाम् ऋत्विक्त्वे ज्ञाते पुनः सप्तदश ऋत्विज इत्य् उच्यते, सप्तदशभिर् ऋत्विक्शब्दस्य संबन्धः पुनः प्रकाश्यते, अधिकैश् च न प्रकाश्यते. तत्र विज्ञायत एतत्, ऋत्विक्शब्दस्य पुरुषैः संबन्धे पुनः प्रकाश्यमाने सप्तदशभ्यो ऽभ्यधिका वर्जिता इति गम्यते. तत्र किं सप्तदशभिः संबन्धो [४०३]{*३/६८२*} विवक्षितः, किं वाधिकानां वर्जनम् इति, सप्तदशसंबन्धस्याप्रयोजकत्वाद् अधिकानां वर्जनं विवक्षितम् इति गम्यते. आह - ननु प्रतिषिध्यमानेष्व् अप्य् अधिकेषु प्रतिषेधो न प्राप्नोति, न हि त ऋतौ न यजन्ति, न वर्तौ यजन्तो न ऋत्विजः स्युः. उच्यते - सत्यम्, न, प्रतिषेधाद् ऋत्विक्शब्देन न संबध्यते{*३/६८३*}, किं तु प्रतिषेधसामर्थ्याद् ध्य् ऋत्विक्कार्ये न भवन्ति. किं पुनर् ऋत्विक्कार्यम्? ऋत्विज उपवसन्तीति{*३/६८४*}, ऋत्विजो वृणीते, ऋत्विग्भ्यो दक्षिणां ददातीति. आह - यद् ऋत्विजां कार्यम्, कथं तत् केषांचिद् ऋत्विक्शब्दकानां न स्यात्. उच्यते - एवं तर्हि द्विविधो ऽयम् ऋत्विक्शब्दः, ऋतुयजननिमित्तः, वरणभरणनिमित्तश् च, तत्र यागनिमित्तस्य ग्रहणम् अनर्थकम्, तस्माद् वरणभरणनिमित्तो गृह्यत इति. आह - नन्व् इतरेतराश्रयम् एवं भवति - य ऋत्विजस् ते वरीतव्याः, ये व्रियन्ते त ऋत्विज इति तद् इतरेतराश्रयम्. उच्यते - न ह्य् ऋत्विजो वृणीत इत्य् अयम् अर्थः, ऋत्विजः सन्तो वरीतव्या इति. कथं तर्हि? वरणेनर्त्विजः क्रियन्त इति, एवं द्वितीयानिर्देशो युक्तो भविष्यति, अध्वर्यं वृणीत इत्य् एवंलक्षणः. दृष्टार्थता च वरणस्य भविष्यति. कथम् आत्मेच्छयाध्वर्युर् भवतीति चेत् कश्चिद् ब्रूयात्, भवतीति ब्रूयाम्. कथम्? एवंशब्दकेनायं पदार्थः कर्तव्य इति, नास्त्य् एवंशब्दकः. यश् च नास्ति, स यदि शक्यते कर्तुम्, कर्तव्यो भवति. यथा - जुह्वा जुहोतीत्य् अविद्यमाना जुहूः क्रियते, एवम् एतद् अपि द्रष्टव्यम्. तत्रार्थाद् अनियमेनर्त्विक्शब्दसंबन्धे कर्तव्ये, एवं वरणविशेषेण कृतव्य इति नियम्यते. तस्मान् नेतरेतराश्रयम्. तस्मात् सप्तदशैव ऋत्विजः[४०४]{*३/६८५*} कर्तव्या इति परिसंख्या, सप्तदश ऋत्विजः संस्कारैः कर्तव्या इति.
SK
NOTES: *{३/६८१: E२,४ ओम्. कथम्}* *{३/६८२: E२: ४,५७४; E४: ४,८९२; E६: १,२७१}* *{३/६८३: E२,४: संबध्यन्ते}* *{३/६८४: E२,४ ओम्. इति}* *{३/६८५: E२: ४,५७७; E४: ४,८९३; E६: १,२७२}*
SK
पक्षेणेति चेत् // MS_३,७.३४ //
SK
एवं चेन् मन्यसे - यथोक्तपक्षेणैतद् एवम् उच्यते, अवयुत्यवादपक्षेण सप्तदश ऋत्विज इति, तत् परिहर्तव्यम्.
SK
न सर्वेषाम् अनधिकारः // MS_३,७.३५ //
SK
नैतद् एवम्, नात्र सर्वेषां पुरुषाणां वचनम्, यान् अधिकृत्यावयुत्यवादो भविष्यति. यत्र परा संख्या कीर्त्यते, तत्रावयुत्यवादो भवति, यथा - द्वादशकपाले यद् अष्टाकपालो भवतीति, न च, इह परा संख्या कीर्त्यते. तस्मान् नावयुत्यवाद इति.
SK
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् // MS_३,७.३६ //
SK
सप्तदश ऋत्विज इति समधिगतम्. कतमे ते सप्तदश इतीदं चिन्त्यते. किं प्राप्तम्? अज्ञानम्. एवं प्राप्ते ब्रूमः - नियमस् तु दक्षिणाभिः, श्रुतिसंयोगात्, दक्षिणासंबन्धेन नियम्येरन्. एवं ह्य् आम्नायते - ऋत्विग्भ्यो दक्षिणां ददातीति, एवम् अभिधाय दक्षिणादानक्रमपरे वाक्ये ब्रह्मादयः श्रूयन्ते - अग्नीधे ऽग्रे ददातीति, ततो ब्रह्मणे, ततो ऽमुष्मै चामुष्मै चेति{*३/६८६*} केचिद् एव विशिष्टाः श्रूयन्ते - एवं ये श्रूयन्ते, ते तावद् ऋत्विजः, ततो ऽभ्यधिका नान्ये भवितुम् अर्हन्ति. दक्षिणाभिर् नियम इति.
SK
[४०५]{*३/६८७*}
SK
NOTES: *{३/६८६: Tऐत्.Bर्. १.१.६.१०}* *{३/६८७: E२: ४,५७९; E४: ४,९०३; E६: १,२७३}*
SK
उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात् // MS_३,७.३७ //
SK
य ऋत्विजस् ते यजमाना इत्य् एवम् अभिधाय ब्रह्मादीनां दीक्षाक्रमपरे च वाक्ये दीक्षां दर्शयति. कथम्? अध्वर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत् उद्गातारम्, ततो होतारम्. ततस् तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति, ब्राह्मणाच् छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्रावरुणं होतुः. ततस् तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीधं{*३/६८८*} ब्रह्मणः, प्रतिहर्तारम् उद्गातुः, अच्छावाकं होतुः. ततस् तम् उन्नेता दीक्षयित्वा पादिनो दीक्षयति, पोतारं ब्रह्मणः, सुब्रह्मण्यम् उद्गातुः, ग्रावस्तुतं होतुः. ततस् तम् अन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वाचार्यप्रेषित इति. दीक्षा च यजमानसंस्कारः. तस्माद् ब्रह्मादय ऋत्विजः सप्तदश इति.
SK
NOTES: *{३/६८८: E२,४: आग्नीध्रं}*
SK
स्वामिसप्तदशाः कर्मसामान्यात् // MS_३,७.३८ //
SK
एतद् उक्तम् - सप्तदश ऋत्विज इति, ते च ब्रह्मादयः. तत्र संदेहः - किम् एषां सदस्यः सप्तदशः, उत गृहपतिः? किं तावत् प्राप्तम्? सदस्य इति. स हि कर्मकरः, इतरः स्वामी. यश् च कर्मकरः, स परिक्रेतव्यः, ऋत्विजश् च परिक्रीयन्ते, तस्मात् सदस्यः सप्तदश ऋत्विग् इति. अपि च - तस्य चमसम् आमनन्ति वरणं च. ऋत्विग्वरीतव्यो न स्वामी. तस्मात् सदस्यः सप्तदश इति प्राप्ते, उच्यते - स्वामिसप्तदशाः कर्मसामान्यात्, स्वाम्य् एषां सप्तदशः स्यात्. कुतः? कर्मसामान्यात्, यज्ञे कर्तार ऋत्विजो भवन्ति, यज्ञे च कर्ता गृहपतिः, तस्माद् ऋत्विक्, [४०६]{*३/६८९*} यज्ञकर्मसामान्यात्. यद् उक्तम् - तं समामनन्ति, तस्य चमसम् आमनन्ति वरणं च, तस्मात् सदस्यः सप्तदश इति. उच्यते - ब्रह्माणम् एव ते समामनन्ति, वरणम् अपि चमसश् च ब्रह्मण एव, स हि सदसि भवः, तस्मात् स्वामिसप्तदशाः.
SK
NOTES: *{३/६८९: E२: ४,५८१; E४: ४,९०५; E६: १,२७४}*
SK
ते स्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् // MS_३,७.३९ //
SK
स्वामिसप्तदशा ज्योतिष्टोमस्यर्त्विजः समधिगताः. अत्रेदानीम् अयं संदेहः - किं सर्वं पुरुषकार्यं तैः कार्यम्, अग्निभिश् च गार्हपत्यादिभिर् अग्निकार्यम्, उत काचिद् व्यवस्थेति. किं तावत् प्राप्तम्? ते सर्वार्थाः, प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात्, ते वृताः सर्वस्मै पुरुषकार्याय स्युः, अग्नयश् चाग्निकार्याय. कुतः? तैः कार्यैर् आकाङ्क्षित्वात्, प्रति स्वं ग्रहणम् एषाम् अनुवादः, स्वकालत्वाद् अग्नयश् च सर्वार्था इति, समधिगतम् एतत्.
SK
[४०७]{*३/६९०*}
SK
NOTES: *{३/६९०: E२: ४,५८४; E४: ४,९१४; E६: १,२७४}*
SK
तत्संयोगात् कर्मणो व्यवस्था स्यात्, संयोगस्यार्थवत्त्वात् // MS_३,७.४० //
SK
तत्संयोगाद् विशिष्टपुरुषसंयोगात्, व्यवतिष्ठेत, ये येन पुरुषेण समाख्यायन्ते, ते तेन कर्तव्याः, एवं तेषां पुरुषसंयोगो ऽर्थवान् भविष्यति. आध्वर्यवम् अध्वर्युणा, हौत्रं होत्रा, औद्गात्रम् उद्गात्रेति.
SK
तस्योपदेशसमाख्यानेन निर्देशः // MS_३,७.४१ //
SK
किम् एष एवोत्सर्गः? सर्वं समाख्यातं समाख्यातपुरुषैः कर्तव्यम् इति. नेति ब्रूमः, तस्योपदेशाद् विशेषसमाख्यानाच् च निर्देशः. यथोपदेशः - तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति{*३/६९१*}. समाख्या - पोत्रीया नेष्ट्रीयेति. एष समाख्यायाश् चापवाद इति.
SK
NOTES: *{३/६९१: Tऐत्.Bर्. ३.१२.९.५}*
SK
तद्वच् च लिङ्गदर्शनम् // MS_३,७.४२ //
SK
यत्र हेतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयाद् इति होत्रे{*३/६९२*} प्रातरनुवाके समाख्यया प्राप्तं होतारं दर्शयति. तथेदम् अपरं लिङ्गं भवति - उद्गीथ उद्गातॄणाम् ऋचः प्रणव उक्थशंसिनां{*३/६९३*} [४०८]{*३/६९४*} प्रतिहारो{*३/६९५*} ऽध्वर्यूणाम् इति, समाख्याकृतं भेदं दर्शयति. तथेदम् अपि लिङ्गं भवति - यो वाध्वर्योः स्वं वेद स्ववानेव भवति, एतद् वाध्वर्योः स्वं यद् आश्रावयतीति{*३/६९६*} समाख्याकृतं नियमं दर्शयति.
SK
NOTES: *{३/६९२: E२,४: हौत्रे}* *{३/६९३: E२,४: उक्थ्यशंसिनां}* *{३/६९४: E२: ४,५८६; E४: ४,९१८; E६: १,२७५}* *{३/६९५: E२: प्रतिगरो, E४: प्रतिरो}* *{३/६९६: Tऐत्.S. ३.१.२.३}*
SK
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् // MS_३,७.४३ //
SK
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/६९७*}. तत्रेदं समामनन्ति - तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति. तत्र संशयः - किं सर्वानुवचनेषु सर्वप्रैषेषु च मैत्रावरुणः स्यात्, उत यत्रानुवचने प्रैष इति. किं तावत् प्राप्तम्? सर्वानुवचनेषु, अविशेषात्. न हि कश्चिद् विशेष आश्रीयते - अस्मिन्न् अनुवचने मैत्रावरुणो ऽस्मिन् नेति. तस्मात् सर्वानुवचनेषु सर्वप्रैषेषु च मैत्रावरुणः स्यात्.
SK
NOTES: *{३/६९७: Tऐत्.S. ६.१.११.६}*
SK
पुरो ऽनुवाक्याधिकारो वा प्रैषसंनिधानात् // MS_३,७.४४ //
SK
पुरो ऽनुवाक्यं वा मैत्रावरुणो ऽनुब्रूयात्. कुतः? यत्र प्रैषश् चानुवाक्या च सहोच्येते, तत्र मैत्रावरुणः, यत्र केवलानुवाक्या न तत्र मैत्रावरुणः, यत्र वा केवलः प्रैषः, तत्रापि न. यत्रोभे समुच्चीयेते, तत्र स भवेत्. तथा हि समुच्चितयोस् तं समामनन्ति, तस्मान् मैत्रावरुणः प्रेष्यति चानु चाहेति, चशब्दात् समुच्चितयोर् इति गम्यते.
SK
[४०९]{*३/६९८*}
SK
NOTES: *{३/६९८: E२: ४,५८८; E४: ४,९२३; E६: १,२७५}*
SK
प्रातरनुवाके होतृदर्शनात् // MS_३,७.४५ //
SK
इतश् च पश्यामो न सर्वानुवचनेषु मैत्रावरुण इति. कुतः? यतः प्रातरनुवाके होतारं दर्शयति. कथम्? यत्र होतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयात्, तदाध्वयुर् गृह्णीयाद् इति. तस्मान् न सर्वानुवचनेषु मैत्रावरुण इति.
SK
चमसांश् चमसाध्वर्यवः समाख्यानात् // MS_३,७.४६ //
SK
सन्ति चमसाध्वर्यवस् तेषु संदेहः - किं चमसाध्वर्यवश् चमसाञ् जुहुयुर् उताध्वर्युर् इति. चमसाध्वर्यव इति ब्रूमः. कस्मात्? चमसेष्व् आध्वर्यवं ते कुर्वन्तीति चमसाध्वर्यवः, तस्मात् ते जुहुयुर् इति.
SK
अध्वर्युर् वा तन् न्यायत्वात् // MS_३,७.४७ //
SK
अध्वर्युर् वा जुहुयात्, एस हि न्यायः - यद् आर्ध्वर्यवपदार्थम् अध्वर्युः कुर्यात्, आध्वर्यवश् च होमः, तस्माद् अध्वर्युर् जुहुयात्. ननु चमसाध्वर्यव इति विशेषसमाख्यानाच् चमसाध्वर्यवो होष्यन्तीति. नेत्य् उच्यते, चमसेष्व् एते ऽध्वर्युवद् भवन्तीति चमसाध्वर्यवः. यदि तैर् अध्वर्युर् जुहोति, ततस् तैश् चमसाध्वर्युभिर् अपि होतव्यम्. यदि चमसाध्वर्यवो जुह्वति, नाध्वर्युः. तदा ते न तद्वत् स्युश् चमसाध्वर्यवः. तस्मान् न जुहुयुर् इति.
SK
चमसे चान्यदर्शनात् // MS_३,७.४८ //
SK
चमसे चान्यं चमसाध्वर्योर् दर्शयति. कथम्? यमसांश् च[४१०]{*३/६९९*}मसाध्वर्यवे प्रयच्छति, तान् स वषट्कर्त्रे हरति, अन्यो हुत्वा{*३/७००*} चमसाध्वर्यवे प्रयच्छतीति गम्यते. कथम्? स{*३/७०१*} वषट्कर्त्रे हरति, भक्षयितुम् इति गम्यते. तस्माद् धुतस्य चमसाध्वर्यवे प्रदानम्, यो जुहोति, स प्रयच्छति. तस्माद् अन्यो जुहोतीति. अपि च - यो वाध्वर्योः स्वं वेद स्ववानेव भवति, स्रुग्वाध्वर्योः स्वं वायव्यम् अस्य स्वं चमसो ऽस्य स्वम् इति. न तावद् अस्य चमसः स्वम्, यजमानस्य हि सः. चमसो ऽस्य स्वम् इति ब्रुवन्, अध्वर्योश् चमसेन होमं दर्शयति.
SK
NOTES: *{३/६९९: E२: ४,५८९; E४: ४,९२५; E६: १,२७६}* *{३/७००: E२,४: स हुत्वा}* *{३/७०१: E२,४: एवं स}*
SK
अशक्तौ ते प्रतीयेरन् // MS_३,७.४९ //
SK
अथ कथं चमसाध्वर्यव इति समाख्यानम्? उच्यते - अशक्तौ ते प्रतीयेरन्, यदा व्यापृतत्वात्, न शक्नोत्य् अध्वर्युर् होतुम्, तदा समाख्यासाम् अर्थात् ते होष्यन्ति.
SK
वेदोपदेशात् पूर्ववद् वेदान्यत्वे यथोपदेशं स्युः // MS_३,७.५० //
SK
अस्त्य् औद्गात्रे समाख्यातः श्येनः, आध्वर्यवे वाजपेयः. तत्र संदेहः - किं श्येन उद्गातृभिर् एव पदार्थाः कर्तव्याः, वाजपेये ऽध्वर्युभिः, उतोभयत्र नानर्त्विग्भिर् इति. किं प्राप्तम्? वेदोपदेशात्, समाख्यानाद् इत्य् अर्थः{*३/७०२*}, पूर्ववत्, यथा, आध्वर्यवम् इति समाख्यानात् पदार्थान् अध्वर्युः करोति, एवम् एव वेदान्यत्वे यथोप्देशं स्युः, यो येन समाख्याते वेद उपदिष्टः, तस्य पदार्थास् तेनैव कर्तव्याः. साङ्गः स तत्रोपदिश्यते. तस्माच् छ्येन उद्गातृभिर् वाजपेये चाध्वर्युभिः पदार्थाः कर्तव्या इति.
SK
[४११]{*३/७०३*}
SK
NOTES: *{३/७०२: E१ गिब्त् समाख्यानाद् इत्य् अर्थः इन् Kलम्मेर्न्}* *{३/७०३: E२: ४,५९१; E४: ४,९२८; E६: १,२७७}*
SK
तद्ग्रहणाद् वा स्वधर्मः स्याद् अधिकारसामर्थ्यात् सहाङ्गैर् अव्यक्तः शेषे // MS_३,७.५१ //
SK
तद्ग्रहणात्, प्राकृतधर्मग्रहणात्{*३/७०४*}, वा स्वधर्मः स्वैर् धर्मैश् चोदकप्राप्तैः संयुक्तः{*३/७०५*} स्यात्, चोदकसामर्थ्यात् सहाङ्गैः कुर्याद् इति श्रूयते, तानि चाङ्गानि ज्योतिष्टोमे सन्त्य् अपेक्ष्यन्ते. तत्र ज्योतिष्टोमे नानर्विजस् तैर् अस्य सहैकवाक्यता. ननु प्रत्यक्षा समाख्या, चोदक आनुमानिकः. उच्यते - सत्यम्, प्रत्यक्षा समाख्या, लौकिकी तु सा. तत्रानुमाय वैदिकं शब्दं तेनैकवाक्यता स्यात्, चोदके पुनर् विप्रकृष्टाधीतया प्रत्यक्षयेतिकर्तव्यतया सहैकवाक्यता. तस्माच् चोदको बलवत्तरः. यत् तूक्तम् - समाख्यानाद् इति. तत्रोच्यते - अव्यक्तः शेषे समाख्यातो भविष्यति. यः पदार्थो न चोदकेन प्राप्नोति, तत्र समाख्यया नियमो भविष्यति. यथा श्येने कण्टकैर् वितुदन्तीत्य् उद्गातारो वितोत्स्यन्ति, वाजपेये चोषपुटैर्{*३/७०६*} अर्पयन्तीत्य्{*३/७०७*} अध्वर्यवो ऽर्पयिष्यन्ति.
SK
[४१२]{*३/७०८*}
SK
NOTES: *{३/७०४: E१ गिब्त् प्राकृतधर्मग्रहणात् इन् Kलम्मेर्न्}* *{३/७०५: E१ गिब्त् चोदकप्राप्तैः संयुक्तः इन् Kलम्मेर्, E२,४: स्वैर् धर्मैश् चोदकप्राप्तैः संयुक्तः}* *{३/७०६: E२,४: चोषं पुटैर्}* *{३/७०७: ŚPBर् ५.२.१.१६}* *{३/७०८: E२: ४,५९३; E४: ४,९३३; E६: १,२७७}*
SK
स्वामिकर्म परिक्रयः कर्मणस् तदर्थत्वात् // MS_३,८.१ //
SK
अस्ति परिक्रयः, ज्योतिष्टोमे द्वादशशतम्, दर्शपूर्णमासयोर् अन्वाहार्यम्{*३/७०९*}. तत्र संदेहः - किम् अध्वर्युणा परिक्रेतव्या ऋत्विजः, उत स्वामिनेति. किं प्राप्तम्? समाख्यानाद् अध्वर्युणेति प्राप्ते ब्रूमः - स्वामिकर्म परिक्रयः. स्वयं करोतीति गम्यते. कस्मात्?{*३/७१०*} कर्मणस् तदर्थत्वात्, फलकामो हि यजमानः, यश् च फलकामः, तेन स्वयं कर्तव्यम्. स यदि परिक्रीणीते, ततः स्वयं सर्वं करोतीति गम्यते. अथ न परिक्रीणीते न सर्वं कुर्यात्. तस्मात् स्वामी परिक्रीणीतेति.
SK
NOTES: *{३/७०९: Vग्ल्. Tऐत्.S. १.७.३.१}* *{३/७१०: E२,४: स्वयं करोतीति गम्यते. कस्मात्?}*
SK
वचनाद् इतरेषां स्यात् // MS_३,८.२ //
SK
किम् एष एवोत्सर्गः? नेत्य् उच्यते - वचनाद् इतरेषां स्यात्. यत्र वचनं भवति, तत्र वचनप्रामाण्याद् भवति परिक्रयः. य एताम् इष्टकाम् उपदध्यात् स त्रीन् वरान् दद्याद् इति{*३/७११*}.
SK
[४१३]{*३/७१२*}
SK
NOTES: *{३/७११: Tऐत्.S. ५.२.८.२}* *{३/७१२: E२: ४,५९४; E४: ४,९३५; E६: १,२७८}*
SK
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद् व्यवतिष्ठेरन् // MS_३,८.३ //
SK
ज्योतिष्टोमे श्रूयते - केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तते, स्नातीति{*३/७१३*}. तत्र संदेहः - किम् एवंजातीयका अध्वर्युणा कर्तव्याः, उत यजमानेनेति. किं प्राप्तम्? अध्वर्युणा कर्तव्याः, संस्कारा यथावेदं व्यवतिष्ठेरन् समाख्यानात् पुरुषेण कर्मवत्, यथा - अन्ये पदार्था यस्मिन् वेद आम्नाताः, तत्समाख्यातेन पुरुषेण क्रियन्ते, एवम् एते ऽपीति.
SK
NOTES: *{३/७१३: Tऐत्.S. ६.१.१.२}*
SK
याजमानास् तु तत्प्रधानत्वात् कर्मवत् // MS_३,८.४ //
SK
यजमानेन वा कर्तव्याः. कुतः? पुरुषप्रधानत्वात्. कथं पुरुषप्राधान्यम्? कर्त्रभिप्रायं क्रियाफलं गम्यते, तस्मात् पुरुषस्य कर्मकरणसामर्थ्यम् उपजनयन्ति. न च कश्चिद् येन कर्मकरणेन सामर्थ्यम् उपजन्यते{*३/७१४*} तद् अर्थं पुरुषान् क्रीणातीति, ईप्सितेभ्यः पदार्थेभ्यः क्रीणाति, येन यस्य सामर्थ्यं भवति, तत् तेनैव कर्तव्यम्, कर्मवत्, यथा - प्रधानकर्मणि पुरुषार्थानि यजमानस्य भवन्ति, एवम् एतद् अपीति.
SK
NOTES: *{३/७१४: E१ गिब्त् येन कर्मकरणेन सामर्थ्यम् उपजन्यते इन् Kलम्मेर्न्}*
SK
व्यपदेशाच् च // MS_३,८.५ //
SK
परस्मैपदव्यपदेशश् च भवति - तम् अभ्यनक्ति, शरेषीकयानक्तीति च. अन्यो यजमानस्याञ्जनम् अभ्यञ्जनं करोतीति गम्यते.
SK
गुणत्वे तस्य निर्देशः // MS_३,८.६ //
SK
यद् उक्तम् - समाख्यानाद् यथावेदम् इति, नैतद् एवम्, गुणत्वे [४१४]{*३/७१५*} तस्य निर्देशः, तत्र वयं समाख्यां नियामिकाम् इच्छामः, यत्र कर्मणः प्राधान्यम्, यद् अर्थं क्रेतव्याः पुरुषाः प्राप्ताः, तत्र समाख्यया नियमः. कल्प्यो हि संबन्धो वपनादिभिः, पुरुषाणाम्, अदृष्टार्थत्वात्, कॢप्त आराद् उपकारकैः. न च कॢप्त उपपद्यमाने कल्प्यः शक्यः कल्पयितुम्. तस्मान् न पुरुषप्राधान्ये समाख्या नियामिका स्यात्.
SK
NOTES: *{३/७१५: E२: ४,५९५; E४: ४,९३९; E६: १,२७८}*
SK
चोदनां प्रति भावाच् च // MS_३,८.७ //
SK
चोदनेत्य् अपूर्वं ब्रूमः - अपूर्वं प्रति संस्कारा विधीयन्ते. ते ह्य् असंभवाद् द्रव्येषु कल्प्यन्ते, संनिकृष्टद्रव्याभावे च विप्रकृष्टेषु भवेयुः, यदा तु संनिकृष्टे द्रव्ये संभवन्ति, तदा न विप्रकृष्टेषु प्रयोक्तव्याः, कृतार्थत्वात्. तस्माद् याजमाना इति.
SK
अतुल्यत्वाद् असमानविधानाः स्युः // MS_३,८.८ //
SK
इदं पदोत्तरं सूत्रम्{*३/७१६*}. अथ कस्मान् न समानविधाना भवन्ति? अविशेषविधानाद् धि पुरुषमात्रस्य प्राप्नुवन्ति. तद् उच्यते - नैतत् समानं सर्वपुरुषाणां विधानम्. कुतः? अतुल्यत्वात्, अतुल्या एत एतद्विधानं प्रति. कातुल्यता? यत्, यजमानस्य विहिता नर्त्विजाम्. कथं यजमानस्य विहिता इत्य् अगम्यते? अर्थात् स्वयं प्रयोगे स्याद् इति. नन्व् अविशेषाद् ऋत्विजाम् अपि विहिताः. प्रयोजनाभावाद् अविहिता इति पश्यामः. कथं प्रयोजनाभावः? ऋत्विग्भिः क्रियमाणा न यजमानेन कृता न कारिताः, अतदर्थत्वात् परिक्रयस्य. स्वयंकृताश् च नार्थिन उपकुर्वन्ति. तस्माद् अप्र्योजनाः, अत ऋत्विजाम् अविहिताः, एतद् अतुल्यत्वम्. तस्मान् न समानविधाना इति.
SK
[४१५]{*३/७१७*}
SK
NOTES: *{३/७१६: E१ गिब्त् इदं पदोत्तरं सूत्रम् इन् Kलम्मेर्न्}* *{३/७१७: E२: ४,५९७; E४: ४,९४२; E६: १,२७९}*
SK
तपश् च फलसिद्धित्वाल् लोकवत् // MS_३,८.९ //
SK
तपः श्रूयते - द्व्य् अहं नाश्नाति, त्र्य् अहं नाश्नातीति. तत्र संदेहः - किम् आर्त्विजं तपः, याजमानम् इति. किं प्राप्तम्? समाख्यानाद् आर्त्विजं तप इति प्राप्तम्. एवं प्राप्ते ब्रूमः - याजमानं तप इति. कुतः? फलसिद्धित्वात्, फलसिद्ध्यर्थं तपः. तपःसिद्धस्य यागफलं सिद्ध्यति. कथम् एतद् अवगम्यते? दुःखं हि तपः, दुःखं चाधर्मफलम्, अधर्मो यागफलस्य प्रतिबन्धको भवति. अश्रेयस्करो हि सः, तस्मिन् सति न श्रेयो भवितुम् अर्हति, तस्मात् सो ऽपनेतव्यः, फलभोगेन च विरुध्येते धर्माधर्मौ. तस्माद् दुःखफलभोगाय धर्मः{*३/७१८*} श्रूयते. यत् तेन दुःखम् उत्पाद्यैतव्यम्, इदं तद् इति. एवं दृष्टार्थं भवति, नादृष्टं कल्पयितव्यम्, तेन फलोपभोगेन क्षीणो ऽधर्मे ऽप्रतिबद्धो यागः फलं दास्यतीति, फलसिद्धिश् च यजमानस्य कर्तव्या नर्त्विजाम्. तस्माद् याजमानं तप इति.
SK
NOTES: *{३/७१८: E२,४: दुःखफलभोगायाधर्मः}*
SK
वाक्यशेषश् च तद्वत् // MS_३,८.१० //
SK
एतम् एवार्थं वाक्यशेषो ऽपि द्योतयति - यदा वै पुरुषे न किंचिन् आन्तर्भवति, यदास्य कृष्णं चक्षुषो नश्यति, अथ मेध्यतम इति. यदानशनम्{*३/७१९*}, तदा मेधार्ह इति. मेधश् च यज्ञः, यज्ञश् च त्यागः, त्यागं कर्तुम् अर्हस् तपसा क्रियत इति वाक्यशेषो भवति, त्यागी च यजमानः. तस्माद् याजमानं तप इति.
SK
NOTES: *{३/७१९: E२,४: यदानशनः}*
SK
वचनाद् इतरेषां स्यात् // MS_३,८.११ //
SK
किम् एष एवोत्सर्गः? सर्वं तपो याजमानम् इति. न{*३/७२०*}, [४१६]{*३/७२१*} वचनाद् इतरेषाम्, यत्र वचनम्, तत्रर्त्विजाम्, यथा - सर्व ऋत्विज उपवसन्तीति.
SK
NOTES: *{३/७२०: E२,४,६ ओम्. न}* *{३/७२१: E२: ४,५९८; E४: ४,९४५; E६: १,२८०}*
SK
गुणत्वाच् च वेदेन न व्यवस्था स्यात् // MS_३,८.१२ //
SK
अथ यद् उक्तम् - समाख्यानाद् अर्त्विजं तप इति, गुणत्वान् न समाख्यया गृह्यते, यत्र पुरुषस्य गुणभावः, तत्र समाख्या नियामिका. एवं वा श्येने श्रूयते - लोहितोष्णीषा लोहितवसना ऋत्विजः प्रचरन्तीति. तथा वाजपेये श्रूयते - हिरण्यमालिन ऋत्विजः प्रचरन्तीति. तत्र संदेहः - किं श्येन उद्गातृभिर् लोहितोष्णीषता कर्तव्या, वाजपेये चाध्वर्युभिर् हिरण्यमालित्वम्, उतोभयम् अपि सर्वर्त्विजाम् इति. किं तावत् प्राप्तम्? समाख्यानात् श्येन उद्गातृभिर् वाजपेये ऽध्वर्युभिर् इति. एवं प्राप्ते ब्रूमः - गुणत्वाच् च वेदेन न व्यवस्था स्यात्, गुणो लोहितोष्णीषता हिरण्यमालित्वं च, पुरुषः प्रधानम्, अतो लोहितम् उष्णीषं हिरण्यमाला च पुरुषविशेषणत्वेन श्रूयते, न कर्तव्यतया, तस्मात् पुरुषप्राधान्यम्. किम् अतः? यद्य् एवम्, पुरुषाणां प्रधानभावे समाख्या न नियामिकेत्य् एतद् उक्तम्. अपि च - गुणत्वश्रवणात् सर्वपुरुषाणाम् एतद् विधानम् इति गम्यते, प्रधानसंनिधौ हि गुणः शिष्यमानः प्रतिप्रधानम् उपदिष्टो भवति. तत्र वचनेन प्राप्तं कथं समाख्यया विद्यमानयापि नियन्तुं शक्येत? तस्माद् उभयत्र सर्वर्त्विग्भिर् एवंजातीयको धर्मः क्रियेतेति.
SK
[४१७]{*३/७२२*}
SK
NOTES: *{३/७२२: E२: ४,६००; E४: ४,९४८; E६: १,२८१}*
SK
तथा कामो ऽर्थसंयोगात् // MS_३,८.१३ //
SK
ज्योतिष्टोमे समामनन्ति - यदि कामयेत वर्षेत् पर्जन्य इति नीचैः सदो मिनुयाद् इति. तत्र संदेहः - किम् आर्त्विजः कामः, अथ याजमान इति. किम् एवम्? यदि कामयेताध्वर्युर् इति, उत यजमान इति, एवं संशयः. किं प्राप्तम्? आर्त्विजः कामः, समाख्यानात्. अर्थी प्रकृतो ऽध्वर्युः, स वाक्येन संबध्यते, मिनुयाद् इति. तस्माद् आर्त्विजः काम इति. एवं प्राप्ते ब्रूमः - तथा कामः स्यात्, यथा तपः, याजमानः काम इत्य् अर्थः{*३/७२३*}. कुतः? अर्थसंयोगात्, अर्थेन यागस्य साङ्गस्य, यजमानः फलेन संबध्यत इति गम्यते. उपग्रहविशेषात्, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्य् उपग्रहविशेषाश् च मिनुयाद् इत्य् अध्वर्युः परार्थम् इति गम्यते. अथ यद् उक्तम् - प्रकृतेनार्थिना सहैकवाक्यत्वाद् इति. उच्यते, एवम् अपि प्रकृतेन वाक्येन{*३/७२४*} सहैकवाक्यता, यजमाने कामयमाने मिनुयाद् इति.
SK
NOTES: *{३/७२३: E१ गिब्त् याजमानः काम इत्य् अर्थः इन् Kलम्मेर्न्}* *{३/७२४: E२,४: प्रकृतेनार्थिना}*
SK
व्यपदेशाद् इतरेषां स्यात् // MS_३,८.१४ //
SK
यत्र भवति व्यपदेशः, तत्रार्त्विजः कामो भवति, यथा - उद्गातात्मने वा यजमानाय वा यं कामं कामयते, तम् आगायतीति, यद्य् आत्मन इति यजमानायेति परिकल्प्येत, यजमानग्रहणं वाशब्दश् च न समर्थितौ स्याताम्. तस्माद् यजमानव्यपदेशाद् आत्मानम् एवोद्गाता प्रतिनिर्दिशतीति गम्यते.
SK
[४१८]{*३/७२५*}
SK
NOTES: *{३/७२५: E२: ४,६०१; E४: ४,९५१; E६: १,२८१}*
SK
मन्त्राश् चाकर्मकरणास् तद्वत् // MS_३,८.१५ //
SK
इहैवंजातीयका मन्त्रा उदाहरणम्, आयुर्दा अग्न आयुर्{*३/७२६*} मे देहीति, वर्चोदा अग्ने ऽसि वर्चो मे देहीति{*३/७२७*}. एषु संदेहः - किम् आर्त्विजा उत याजमाना इति. समाख्यानाद् आर्त्विजा इति प्राप्तम्. एवं प्राप्ते ब्रूमः - मन्त्राश् चैते तद्वद् भवेयुः, यथा कामः, एवम् आत्माभिधायिपदं युक्तं भवति. आयुर् मे वर्चो म इति, आयुर् वर्च इत्येवमादिभिः कर्मफलम् अभिधीयते, अग्ने त्वं कर्मफलं मे साधयेति. तद् इह कर्मफलम् उत्साहार्थं संकीर्त्यते, यजमानश् च तेनोत्सहते, नान्यः. यद् ऋत्विजः क्रमफलम्, न तद् अर्थो ऽग्निः, सिद्धं हि तत्. यद् यजमानस्य, तद् अर्थो ऽग्निः, तच् चासिद्धं सद् आशासितव्यम्, यद् उत्साहं जनयत्य् अवैगुण्याय. ऋत्विग् अपि सिद्धे यद् उत्सहते, तद् यजमानस्यैव कर्मफलायोत्सहते. तत्रात्माभिधायिपदं नावकल्पते, यजमाने चात्माभिधायिपदं कल्प्यमानम् अगौणं भवति, तस्माद् याजमानाः.
SK
NOTES: *{३/७२६: E२,४: अग्ने ऽस्यायुर्}* *{३/७२७: Tऐत्.S. १.५.५.४}*
SK
विप्रयोगे च दर्शनात् // MS_३,८.१६ //
SK
विप्रयोगे चाग्नीनां प्रवास उपस्थानम् अस्ति, इह एव सन् तत्र सन्तं त्वाग्न इति. न च प्रोषितो ऽग्निभ्य ऋत्विग् भवति, कर्म कुर्वत एष वाचकः शब्दः. भवति तु यजमानो ऽग्निभ्यः प्रोषितो ऽपि यजमानः, संविधाय सो ऽग्निहोत्राय प्रवसति, शक्यते च विदेशस्थेनापि त्यागः कर्तुम्. स एव प्रोषितस्योपस्थानविशेषं ब्रुवन् यजमानस्योपस्थानं दर्शयति, तेनैवैवंजातीयका यजमानस्य भवेयुर् इति.
SK
[४१९]{*३/७२८*}
SK
NOTES: *{३/७२८: E२: ४,६०२; E४: ४,९५३; E६: १,२८२}*
SK
द्व्य् आम्नातेषूभौ द्व्य् आम्नस्यार्थवत्त्वात् // MS_३,८.१७ //
SK
स्तो दर्शपूर्णमासौ, तत्र द्व्य् आम्नाता मन्त्रा आध्वर्यवे काण्डे याजमाने च. आज्यं यैर् गृह्यते, पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामीत्य्{*३/७२९*}एवमादयः, तथा स्रुग्व्यूहनमन्त्राः, स्रुचौ व्यूहति वाजस्य मा प्रसवेनेति{*३/७३०*}. तत्र संदेहः - किं त उभाभ्याम् अपि कर्तव्या उताध्वर्युणैवेति. किं प्राप्तम्? समाख्यानाद् आध्वर्यवा इति. इति प्राप्त उच्यते{*३/७३१*} - उभाव् अपि तान् प्रयुञ्जीयाताम् इति. कुतः? द्व्य् आम्नातस्यार्थवत्त्वात्, द्वाभ्यां समाख्यानाद् द्वाव् अपि कर्तारौ गम्येते, तस्माद् द्वौ ब्रूयाताम्. अध्वर्युर् एतेन प्रकाशितम् अनुष्ठास्यामीति, यजमानो न प्रमदिष्यामीति.
SK
NOTES: *{३/७२९: Tऐत्.S. १.६.१.२}* *{३/७३०: Tऐत्.S. १.१.१३.१}* *{३/७३१: E२,४: इति. प्राप्ते, उच्यते}*
SK
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितो ऽस्ति // MS_३,८.१८ //
SK
वाजपेये श्रूयते - कॢप्तीर् यजमानं वाचयत्य् उज्जिसतीर्{*३/७३२*} यजमानं वाचयतीति{*३/७३३*}. अत्र संदेहः - किं ज्ञश् चाज्ञश् च सर्वो वाचयितव्य उत ज्ञ एवेति. किं प्राप्तम्? अविशेषाज् ज्ञश् चाज्ञश् चेति. इति{*३/७३४*} प्राप्ते ब्रूमः - ज्ञ एवेति. कुतः? न ह्य् अविद्वान् विहितो ऽस्ति, यो ह्य् अविद्वान् नासाव् अधिकृतः सामर्थ्याभावात्. ननु प्रयोगकाले शिक्षित्वा प्रयोक्ष्यते, सामर्थ्याद् [४२०]{*३/७३५*} अधिक्रियेतेति. नेति ब्रूमः - वेदाध्ययनाद् उत्तरकाले प्रयोगः श्रूयते, न प्रयोगश्रुतिगृहीतं वेदाध्ययनम्. कुतः? अनारभ्यकर्मणि वेदे{*३/७३६*} श्रूयते - तस्मात् स्वाध्ययो ऽध्येतव्य इति. सत्य् एतस्मिन् वचने, अग्निहोत्रं जुहुयाद् इत्येवमादिभिर् वेदो ऽध्येतव्य इत्य् एतद् उक्तं भवतीति न शक्यते कल्पयितुम्. तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्य् अधिक्रियते, नाविद्वान्. कियता पुनर् विदितेन विद्वान् अधिक्रियत इति. यावता विदितेन शक्तो भवति, यथोक्तं क्रतुम् अभिनिर्वर्तयितुम्. तस्मात्{*३/७३७*} तावद् यो वेद स तेन क्रतुनाधिक्रियते. ननु वेदम् अधीयीतेति वचनात् कृत्स्नो वेदो ऽध्येतव्य इति भवति, न वेदावयवेनाधीक्रियत इति. उच्यते - क्रतूनां ज्ञानार्थं वेदाध्ययनं कार्यम्. तत्रान्यस्मिन् क्रतौ कर्तव्ये ऽन्यक्रतुज्ञानं न दृष्टाय भवति, तस्मात् क्रत्वन्तरज्ञानम् अधिकारे नादर्तव्यम्, क्रत्वन्तरज्ञानाय क्रत्वन्तरग्रन्थः, सर्वे क्रतवः कथं ज्ञायेरन्? पृथक् पृथग् इति कृत्स्नस्य वेदस्याध्ययनं श्रूयते, तस्मात् स्वपदार्थज्ञो ऽधिक्रियेतेति. तेनास्वपदार्थज्ञस्य कर्मैव नास्ति, कथम असौ वाच्येत. तस्मात् साध्व् अभिधीयते, ज्ञ एव वाचयितव्य इति.
SK
NOTES: *{३/७३२: E२,४: उज्जितीर्}* *{३/७३३: Vग्ल्. Vआज्.S. ९.२१ ब्zw. Vआज्.S. ९.३१}* *{३/७३४: E२,४ ओम्. इति}* *{३/७३५: E२: ४,६०४; E४: ४,९५५; E६: १,२८२}* *{३/७३६: E२,४: वेदाध्ययनं}* *{३/७३७: E२,४ ओम्. तस्मात्}*
SK
याजमाने समाख्यानात् कर्माणि याजमानं स्युः // MS_३,८.१९ //
SK
स्तो दर्शपूर्णमासौ, तत्र कर्माण्य्{*३/७३८*} आम्नातानि द्वादश, वत्सं चोपावसृजति, उखां चाधिश्रयति, अव च हन्ति, दृषदुपले च समाहन्ति, अधि च वपते, कपालानि चोपदधाति, [४२१]{*३/७३९*} पुरोडाशं चाधिश्रयते, आज्यं च, स्तम्बयजुश् च हरति, अभि च गृह्णाति, वेदं च परिगृह्णाति, पत्नीं च{*३/७४०*} संनह्यति, प्रोक्षणीश् चासादयति, आज्यं च, तानि{*३/७४१*} द्वादश{*३/७४२*} द्वान्द्वानि दर्शपूर्णमासयोर् इति{*३/७४३*}. अत्र संदेहः - किम् एतान्य् अध्वर्योः कर्माणि, उत यजमानस्येति. किं प्राप्तम्? यजमाने समाख्यानात् कर्माणि याजमानं स्युः. विशेषसमाख्यानाद् याजमानानीति गम्यते, यथा पोत्रीयं नेष्ट्रीयम् इति.
SK
NOTES: *{३/७३८: E२,४: तत्र यजमानकाण्डे कर्माण्य्}* *{३/७३९: E२: ४,६०६; E४: ४,९५९; E६: १,२८३}* *{३/७४०: E२,४ ओम्. च}* *{३/७४१: E२,४: एतानि}* *{३/७४२: E२,४: वै द्वादश}* *{३/७४३: Tऐत्.S. १.६.९.३-४}*
SK
अध्वर्युर् वा तदर्थो हि न्यायपूर्वं समाख्यानम् // MS_३,८.२० //
SK
अध्वर्युर् वा कुर्याद् एतानि, तद् अर्थो ह्य् अध्वर्युः परिक्रीत इति समाख्यानाद् अवगम्यते. अध्वर्यव एव सर्व इमे पदार्थाः समाम्नाताः, याजमान एषां द्वन्द्वतोच्यते, द्वन्द्वता च समभ्याशक्रिया{*३/७४४*}. तत्राध्वर्युः पदार्थान् करिष्यति, यजमानेनापि समभ्याशीकरणम्{*३/७४५*} इत्य् एतद् अशक्यम्. तत्राङ्गगुणविरोधे च, तादर्थ्याद् इति द्वन्द्वतागुणो बाधितव्यः. तस्माद् आध्वर्यवा एते पदार्था इति. यद् उक्तं समाख्यानाद् इति, तत् परिहर्तव्यम्, उच्यते - न्यायपूर्वं समाख्यानम्, समाख्यानाद् यजमानेन द्वन्द्वता संपादयितव्या, इदं चेदं च संपादयेति यजमानो ब्रूयात्. केषुचिच् चात्र पदार्थेषु यजमानस्यानुमन्तरणम्, तन्निमित्ता समाख्या भविष्यति, अपूर्वं त्व् अपकृष्येत. तद् उक्तम् - यथा पोत्रीयम्, नेष्ट्रीयम् इति, एवम् अत्रापीति. तद् उच्यते - युक्तं तत्र विशेष[४२२]{*३/७४६*}समाख्यानात्. इह तु द्वन्द्वता याजमानीया, पदार्थास् त्व् आध्वर्यवा एव. तस्माद् अदोषः.
SK
NOTES: *{३/७४४: E२,४,६: समभ्यासक्रिया}* *{३/७४५: E२,४,६: समभ्यासीकरणम्}* *{३/७४६: E२: ४,६०७; E४: ४,९६०; E६: १,२८४}*
SK
विप्रतिषेधे करणः, समवायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् // MS_३,८.२१ //
SK
अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः, तस्य यूपस्य परिव्याणे मन्त्रौ, एकः - अध्वर्योः परिवीरसीति{*३/७४७*} करणः, अपरो होतुर् युवा सुवासा इति{*३/७४८*} क्रियमाणानुवादी. तयोश् चोदकपरम्परया कुण्डपायिनाम् अयनं प्राप्तयोर् भवति संदेहः - कः पुनर् असौ? तत्र ऋत्विक्समास आम्नातः - यो होता सो ऽध्वर्युर् इति, किं करणम् आध्वर्यवं होता कुर्यात्? किं हौत्रं क्रियमाणानुवादिनम् इति. किं प्राप्तम्? अनियम इति. इति प्राप्त उच्च्यते - विप्रतिषेधे करणः स्यात्, आध्वर्यवः परिवीरसीति, न क्रियमाणानुवादी होतुर् युवा सुवासा इति. कुतः? समवायविशेषात्. द्वौ तत्र समवायौ, होतुश् चोदकेन हौत्रेषु, प्रत्यक्षश्रवणेनाध्वर्यवेषु - यो होता सो ऽध्वर्युर् इति. एवं प्रत्यक्षम् अध्वर्योः कार्ये चोद्यते, प्रत्यक्षं चानुमानाद् बलीयः. तस्माद् आध्वर्यवं करणं परिवीरसीति होता कुर्यात्. अथ हौत्रं विरुद्धं कः कुर्यात्? इतरम् अन्यः, तेषां यतो विशेषः स्यात्, अन्यो होतृपुरुष एव स्यात्, यस्याव्यापृतता, प्राधान्यविशेषो वा.
SK
[४२३]
SK
NOTES: *{३/७४७: Tऐत्.S. १.३.६.२}* *{३/७४८: ṚV ३.८.४अ}*
SK
प्रैषेषु च पराधिकारात् // MS_३,८.२२ //
SK
स्तो दर्शपूर्णमासौ, तत्र प्रैषाः समानाताः, प्रोक्षणीर् आसादयेध्मा बर्हिर् उपसाधय स्रुचश् संमृड्ढि{*३/७४९*} पत्नीं संनह्याज्येनोदेहीति. तत्र संदेहः - किं य एव प्रैषे, स एव प्रैषार्थे, उतान्यश् च प्रैषे, अन्यश् च प्रैषार्थ इति. किं प्राप्तम्? एक एव प्रैषप्रैषार्थयोर् इति. कुतः? समाख्यानात्, अन्य इति चाश्रूतत्वात्. नन्व् आत्मनः प्रैषो विप्रतिषिध्यते. उच्यते, न प्रैषो भविष्यति, प्राप्तकाले लोटं वक्ष्यामः. आह, प्राप्तकाले ऽपि सति युष्मदादिष्व् एवोपपदेषु मध्यमादयो व्यवस्थिताः, न पुरुषसंस्करो भवति. उच्यते - सत्यां विवक्षायां युष्मदादिषु मध्यमादयः, यदा तव प्राप्तः काल इति विवक्ष्यते, तदा युष्मद् एव मध्यमो नास्मदि शेषे वा. यदा खलु क्रियायाः प्राप्तः काल इत्य् एतावद् विवक्ष्यते, न तव, मम वेति, न तदा युष्मदादीनाम् अनुरोधेन मध्यमादयो भवितुम् अर्हन्ति. न च, इदं युगपद् विवक्षितुं शक्यते, पदार्थस्य प्राप्तः कालः, तव चेति, भिद्येत हि तथा वाक्यम्. तेन, यदि वा निर्ज्ञाते पदार्थकाले तव काल इति शक्यते वदितुम्, यदि वा तवेति निर्ज्ञाते पदार्थस्य काल इति. तत्र पदार्थस्य कालो वदितव्यः, न तु यौष्मदर्थस्य, तेन हि स्मृतेन प्रयोजनम्, स हि कर्तव्य इत्य् अवगतः, न तु युष्मदर्थः तथा, तस्मात् समाख्यायाद् अध्वर्योर् एव प्रैषप्रैषार्थाव् इति. इति{*३/७५०*} प्राप्ते ब्रूमः - प्रैषेष्व् अन्यो ऽन्यस् तदर्थेष्व् इति. कुतः? पराधिकारात्, परस्मिन् हि प्रैष उपपद्यते, नात्मनीति. आह, ननूक्तं प्राप्तकाले भविष्यतीति. उच्यते, [४२४]{*३/७५१*} न, संभवति प्रैष, प्राप्तकालता न्याय्या. तस्य हि युष्मदर्थो{*३/७५२*} गम्यमानो न विवक्षित इत्य् उच्यते, संभवति चात्र प्रैषार्थः. तस्मात् प्रैषः, प्रैषश् चेत्, अन्यः प्रैषार्थ इति सिद्धम्.
SK
NOTES: *{३/७४९: E२,४: स्रुवं च स्रुचश् च संमृड्ढि}* *{३/७५०: E२,४ ओम्. इति}* *{३/७५१: E२: ४,६१२; E४: ४,९६७; E६: १,२८५}* *{३/७५२: E२,४: तस्माद् युष्मदर्थो}*
SK
अध्वर्युस् तु दर्शनात् // MS_३,८.२३ //
SK
अथैवं गते, इदं संदिह्यते - किम् अध्वर्युर् अग्नीध्रं प्रेष्येत्, उताग्नीद् अध्वर्युम् इति. अनियमो ऽविशेषाद् इति प्राप्ते ब्रूमः - अध्वर्युर् उक्तप्रैषार्थकारी स्यात्. कुतः? दर्शनात्, दर्शनं भवति - तिर्यञ् च स्फ्यं धारयेद् यद् अन्वञ्चं धारयेद् वज्रो वै स्फ्यो वज्रेणाध्वर्युं क्षिण्वीतेति{*३/७५३*}, यः प्रेष्यति, तस्य हस्ते स्फ्यः. स्फ्येनाध्वर्युं क्षिण्वीतेत्य् अन्यम् अध्वर्युं प्रेषकाद् दर्शयति. तस्माद् अग्नीद् अध्वर्युं प्रेष्येद् इति.
SK
NOTES: *{३/७५३: Vग्ल्. Tऐत्.Bर्. ३.२.१०.१}*
SK
गौणो वा कर्मसामान्यात् // MS_३,८.२४ //
SK
नैतद् अस्ति, अग्नीध्रः प्रैषो ऽध्वर्योः प्रैषार्थ इति. किं खल्व् अध्वर्युर् एवाग्नीधं प्रेष्येत्, एवम् अध्वर्युणा प्रैषः प्रैषार्थश् चोभाव् अपि कृतौ भविष्यतः, तत्राध्वर्यवम् इति समाख्यानुग्रहीष्यते. तस्माद् अध्वर्युर् एव मुख्यं{*३/७५४*} स्यात्. किम् अस्य मुख्यत्वम्? यद् अनेन सर्वं कर्तव्यं समाख्यानाद् इति. अथ यद् उक्तम् - अध्वर्युः प्रचरिता दृश्यत इति. तद् उच्यते - सत्यं दृश्यते, न त्व् अस्य प्रैषार्थकरणे प्रमाणम् अस्ति चिन्त्यमानम्. तस्माद् एतन् मिथ्यादर्शनम्, यस्य हि दर्शनस्य प्रमाणं नास्ति, व्यामोहः सः. यथा शुक्तिकायां रजतविज्ञानम्. अस्ति त्व् अग्नीध्रः प्रैषार्थकरणे प्रमाणम्. तस्माद् अग्नीध्रः प्रचरिता प्रचरितरि [४२५]{*३/७५५*} चाध्वर्युशब्दो दृश्यते. तस्माद् गौणः, आध्वर्यवे वेदे समाम्नातान्{*३/७५६*} पदार्थान् करोतीति कृत्वाध्वर्युर् इत्य् उच्यते, आग्नीध्र इति. तस्माद् आध्वर्यवः प्रैषः, आग्नीध्रः प्रैषार्थ इति.
SK
NOTES: *{३/७५४: E२,४,६: मुख्यः}* *{३/७५५: E२: ४,४२५; E४: ४,९७६; E६: १,२८६}* *{३/७५६: E२,४: समाम्नातात्}*
SK
ऋत्विक्फलं करनेष्व् अर्थवत्त्वात् // MS_३,८.२५ //
SK
दर्शपूर्णमासयोर् आमनन्ति - ममाग्ने वर्चो विहवेष्व् अस्त्व् इति पूर्वम् अग्निं परिगृह्णातीति{*३/७५७*}. तत्र संदेहः - किम् ऋत्विक्फलम् आशासितव्यम्, अग्ने वर्चो विहवेष्व् अस्त्व् इति, उत यजमानस्येति. किं प्राप्तम्? अध्वर्योर् एवेति. कुतः? एवं श्रुतिर् आदृता भविस्यति, इतरथा लक्षणा स्यात्, आत्मना यजमानं लक्षयेत्. तस्माद् ऋत्विक्फलम् आशासितव्यम् इति. को ऽर्थः? अनया समिधा धार्यमाणे ऽग्नौ यागः संभविष्यति. तत्र विहवेषु स्पर्धास्थानेष्व् अहं वर्चस्वी भविष्यामीत्य् अध्वर्योर् वचनम्, एवम् उत्साही भविष्यतीति.
SK
NOTES: *{३/७५७: Tऐत्.S. ४.७.१४.१}*
SK
स्वामिनो वा तदर्थत्वात् // MS_३,८.२६ //
SK
यजमानस्य वा वचनं तदर्थत्वात् कर्मणः, यजमानार्थं हीदं कर्म साङ्गम्, उपग्रहविशेषात्, साङ्गस्यास्य प्रयोजनं यजमानस्य फलनिष्पत्तिर् नाध्वर्योः सुप्रवरितुर्{*३/७५८*} अपि यशः. किम् अतः? यद्य् एवम्, फलसंकीर्तनात् फलकर्तव्यता गम्यते, तद् एतद् [४२६]{*३/७५९*} अग्न्यन्वाधानं यजमानस्य फलसंकीर्तने क्रियमाणे ऽनेन मन्त्रेण फलसंबन्धात् प्रकाशितं कृतं भवति, नाध्वर्युयशःकीर्तनेन. तस्माद् यजमानफलम् आशासितव्यम् इति. अथ कस्मान् न याजमान एष मन्त्रो भवतीति. उच्यते - अग्न्यन्वाधानं समाख्ययाध्वर्यवम्. तच् चैवं गुणो मन्त्रः करोत्य् आध्वर्यवः, स उच्यते ऽनेन मन्त्रेणेति, तस्माद् आध्वर्यवो मन्त्रः. मम वर्चो ऽस्त्व् अत्यपि यजमानस्य वर्चो ममेति व्यपदिशति लक्षणया, यथा राजनि जयं वर्तमानं सैनिका अस्माकम् इति व्यपदिशन्त्य् एवम्.
SK
NOTES: *{३/७५८: E२,४: सुप्रचरितुर्}* *{३/७५९: E२: ४,६१५; E४: ४,९७९; E६: १,२८६}*
SK
लिङ्गद्रशनाच् च // MS_३,८.२७ //
SK
लिङ्गम् अप्य् अमुम् अर्थं दर्शयति, एवं ह्य् आह - यां वै कांचन ऋत्विज आशिषम् आशासते, यजमानस्यैव सेत्य् आशिषो यजमानार्थकतां दर्शयति. तस्माद् अपि ब्रूमः - यजमानफलम् आशासितव्यम् इति. पक्षोक्तम् एव प्रयोजनम् इति.
SK
कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् // MS_३,८.२८ //
SK
इदं समधिगतम् - करणेषु मन्त्रेषु स्वामिनः फलम् आशासितव्यम् इति. किम् एष एवोत्सर्गः? नेत्य् आह, क्वचिद् ऋत्विजां अपि फलम् आशासितव्यम् इति, यत्र कर्मार्थं फलम्, यथा - [४२७]{*३/७६०*} अग्नाविष्णू मावक्रमिषम्{*३/७६१*} विजिहाथां मामा संताप्तम् इति{*३/७६२*}, असंतप्तो ऽध्वर्युः कर्म शक्नोति कर्तुम्, कर्मसिद्धिर् यजमानस्योपकारिकेति, ऋत्विक्फलम् आशासितव्यम् अत्रेति.
SK
NOTES: *{३/७६०: E२: ४,६१७; E४: ४,९८२; E६: १,२८७}* *{३/७६१: E२,४: मावाम् अवक्रमिषम्}* *{३/७६२: Tऐत्.S. १.१.१२.१}*
SK
व्यपदेशाच् च // MS_३,८.२९ //
SK
यत्र च व्यपदेशो भवति, तत्रार्त्विजम्, दक्षिणस्य हविर्धानस्याधस् ताच् चत्वार उपरवाः प्रावेशमुख्याः{*३/७६३*} प्रदेशान्तरालाः, तत्र हस्तौ प्रवेश्याध्वर्युर् यजमानम् आह, किम् अत्रेति, स आह - भद्रम् इति. तन् नौ सहेत्य् अध्वर्युः प्रत्याहेति व्यपदेशो भवति, अध्वर्योर् यजमानस्य च. तन् नौ सहेत्य् उभयोर् वचनम् अध्वर्युयजमानयोः. तस्माद् अध्वर्युफलम् आशासितव्यम् अत्रेति.
SK
NOTES: *{३/७६३: E२,४: प्रादेशमुख्याः}*
SK
द्रव्यसंस्कारः प्रकरणाविशेषात् सर्वकर्मणाम् // MS_३,८.३० //
SK
दर्शपूर्णमासयोर् बर्हिर्धर्मा वेदिधर्माश् च, तेषु संदेहः - किम् अङ्गप्रधानार्थाः, उत प्रधानार्था इति. प्रकरणात् प्रधानार्था इति. इति{*३/७६४*} प्राप्त उच्यते, नैवम्, द्रव्यसंस्कारो ऽङ्गप्रधानार्थः, यथा व्याख्यातम्{*३/७६५*} एवोत्तरविवक्षया प्राप्तिर् एषा क्रियत इति.
SK
[४२८]{*३/७६६*}
SK
NOTES: *{३/७६४: E२,४ ओम्. इति}* *{३/७६५: Vग्ल्. zउ MS ३.७.१ff}* *{३/७६६: E२: ४,६१८; E४: ४,९८६; E६: १,२८८}*
SK
निर्देशात् तु विकृतापूर्वस्यानधिकारः // MS_३,८.३१ //
SK
ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*३/७६७*}. तत्र श्रूयते - बर्हिषा यूपावटम् अवस्तृणात्य् आज्येन यूपम् अनक्तीति. तत्र संशयः - किं तयोर् आज्यबर्हिषोर् आज्यबर्हिर्धर्माः प्राकृताः कर्तव्याः, उत नेति. किं प्राप्तम्? कर्तव्या इति. कुतः? वाक्यं हि बर्हिर्मात्रस्याज्यमात्रस्य च धर्माणां विधायकम्, तद् इहापि वाक्यं चोदकेन प्राप्तम्. न चैतद् बर्हिर् आज्यं निष्प्रयोजनम्. तस्माद् अत्र धर्माः कियेरन्न् इति. एवं प्राप्ते ब्रूमः - निर्देशाद् विकृताव् अपूर्वस्यानधिकारः, निर्दिष्टा एते धर्माः प्रकृतौ, यत्र प्रधानस्योपकुर्वन्ति प्राकृतकार्ययोर् आज्यबर्हिषोः. ये च प्रधानस्योपकारिणो धर्माः, त इहातिदिश्यन्ते. प्रधानं हि चोदको ऽपेक्षते, न धर्मान्. प्रधानस्य हि चोदकेन सामान्यं न धर्माणाम्. अपि च, नान्यार्थ इति ज्ञातेन संनिहितेनाप्य् एकवाक्यता भवत्य् अन्यसंबन्धोपपत्तौ सत्याम्, यथा भार्या राज्ञः, पुरुषो देवदत्तस्येति. किम् अङ्ग पुनर् विप्रकृतेन, निर्ज्ञातं खल्व् अङ्गत्वं प्रधानापेक्षायां भवति, केवलम् इहातिदेशः क्रियते, पदार्थापेक्षायाम् अङ्गत्वम् अपि साधयितव्यं स्यात्. धर्माश् चापेक्ष्यमाणाः साधारणा भवेयुः, तथोहो नावकल्पेत. लिङ्गविशेषदर्शनाच् च व्यवतिष्ठेरन् धर्माः, तत्र दर्शनं नोपपद्येत, वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यंदिन इति, तथा न पिता वर्धते, न माता, न नाभिः, प्राणो हि स इति. तस्माद् यद् द्वारा प्रकृतौ कृताः, तद् द्वारैव विकृतौ, नान्यद्वाराः. न च यूपावटस् तरणं प्रकृताव् अस्ति यूपाञ्जनं [४२९]{*३/७६८*} वा. तस्मान् न तत्र प्राकृता धर्मा भवेयुर् अपूर्वत्वात्.
SK
NOTES: *{३/७६७: Tऐत्.S. ६.१.११.६}* *{३/७६८: E२: ४,६२०; E४: ४,९८६; E६: १,२८८}*
SK
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे // MS_३,८.३२ //
SK
दर्शपूर्णमासयोर् आमनन्ति - समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति, तथा - अरत्निमात्रे विधृती पवित्रे, उतान्यत इति. तत्र संशयः - किं वेदिस्तरणार्थाद् बर्हिषो विधृती पवित्रे, उतान्यत इति. किं तावत् प्राप्तम्? वेदिस्तरणार्थाद् बर्हिषः कार्ये. किं कारणम्? तद् धि प्रकृतम्, धर्माश् चाविशेषात् सर्वबर्हिषाम् अर्थेन, तस्मात् ततः. इति प्राप्ते ब्रूमः - अन्यतः क्रियेत. कुतः? विरोधात्. कथं विरोधः? श्रूयते हि - त्रिधा तु पञ्चधा तु वा वेदीं स्तृणातीति, तद् येनास्तीर्यते, कथं तद् विधृतिपवित्रं क्रियेत, न हि संभवत्य् एकं स्तरणाय विधृतिपवित्राय च. तद् एतद् उपदिष्टवचनम् अनेकगुणत्वं चोभे अप्य् असंभविनी प्रतिज्ञाते स्याताम्. तस्मान् न ततः क्रियेतेति. यदि न ततः, कुतस् तर्हि? अव्यक्त एवंजातीयकः शेषे, अस्ति तत्र परिभोजनीयं नाम बर्हिः, ततः कर्तव्यम्.
SK
अपनयनस् त्व् एकदेशस्य विद्यमानसंयोगात् // MS_३,८.३३ //
SK
ज्योतिष्टोमे श्रूयते - पुरोडाशशकलम् ऐन्द्रवायवस्य पात्रे निदधाति, धाना आश्विनपात्रे, पयस्यां मैत्रावरुणपात्र इति. तत्र संशयः - किम् अन्यत एषां क्रियेत, उत प्रकृतेभ्य [४३०]{*३/७६९*} इति. किं प्राप्तम्? पूर्वेण न्यायेनान्यत इति. तत्रोच्यते - तत एकदेशस्यापनयः. कुतः? विद्यमानसंयोगात्, विद्यते हि तत्र पुरोडाशो धानाः पयस्या च, तत्संयोग एव न्याय्यो नान्यसंयोग इति, पुरोडाशादीनां एव संस्कारः, नेन्द्रवायवादीनाम्{*३/७७०*}. कुतः? पुरोडाशादिषु द्वितीयादर्शनात्. प्रत्यक्षश् चैकदेशापनयेनोपकारः, नेन्द्रवायवादिसंबन्धेन{*३/७७१*}, एवं प्रकृतानुग्रहो भविष्यति, तस्मात् प्रकृतस्योपदेशेन तत् क्रियेत. न चात्रोपदिष्टोपदेश आशङ्क्यो ऽनेकगुणभावश् च, अन्येन शकलेन होमो ऽन्यश् च प्रतिपाद्यत इति{*३/७७२*}.
SK
NOTES: *{३/७६९: E२: ४,६२१; E४: ४,९९२; E६: १,२८९}* *{३/७७०: E२,४: नैन्द्रवायवादीनाम्}* *{३/७७१: E२,४: नैन्द्रवायवादिसंबन्धेन}* *{३/७७२: E२,४ ओम्. इति}*
SK
विकृतौ सर्वार्थः शेषः प्रकृतिवत् // MS_३,८.३४ //
SK
इदम् आमनन्ति - यज्ञार्थवणं वै काम्या इष्टयः, ता उपांशु कर्तव्या इति. अत्र संशयः - किम् अङ्गप्रधानार्थम् उपांशुत्वम्, उत प्रधानार्थम् इति. किं प्राप्तम्? विकृतौ सर्वार्थः शेषः स्यात्, अविशेषाद् अङ्गानां प्रधानानां च प्रकृतिवत्, यथा प्रकृतौ वेदिधर्मा आज्यधर्माश् चाङ्गप्रधानार्थाः, एवम् अत्रापि.
SK
मुख्यार्थो वाङ्गस्याचोदितत्वात् // MS_३,८.३५ //
SK
प्रधानार्थो वा एष विकृतिषु स्यात्. एवम् इदं सर्वार्थम् उच्येत, प्रकरणं बाधित्वा वाक्येनाङ्ग-प्रधानार्थम् इति, तद् एवेदानीं वाक्यं विशेषितम् - काम्या इष्टय इति. काम्याश् च प्रधानयागाः, अङ्गयागाः प्रधानार्थाः, तस्माद् अङ्गचोदितम्. यत् कामेन फलवच् चोद्यते, तद् एवानयोपांशुत्वेतिकर्तव्यतया [४३१]{*३/७७३*} अनुबध्यते. तस्मात् प्रधानार्थम् उपांशुत्वम्.
SK
NOTES: *{३/७७३: E२: ४,६२२; E४: ४,९९४; E६: १,२९०}*
SK
संनिधानविशेषाद् असंभवे तदङ्गानाम् // MS_३,८.३६ //
SK
श्येने श्रूयते - दृतनवनीतम्{*३/७७४*} आज्यम् इति. तत्र संदेहः - किं नवनीतं प्रधानस्य, उताङ्गानाम् इति. किं प्राप्तम्? प्रधानस्य, तस्य हि प्रकरणम् इति वचनप्रामाण्यान् नवनीतेन प्रधानं निर्वर्तयितव्यम् इति. एवं प्राप्ते ब्रूमः - असंभव एतस्मिंस् तदङ्गानां श्येनाङ्गानां{*३/७७५*} स्यात्. कथं असंभवः? सोमद्रव्यकत्वात् प्रधानस्य. ननु वचनान् नवनीतं भविष्यति. न श्येने नवनीतं भवतीत्य् एष वाक्यार्थः. कस् तर्हि? श्येने नवनीतम् आज्यं भवतीति नवनीताज्यसंबन्धो विधीयते, श्येनाज्यसंबन्धो ऽनूद्यते. न च साक्षाच् छ्येनस्याज्यसंबन्धो ऽस्ति, श्येनाङ्गानां तु विद्यते. यस्यास्ति, तस्यानूद्य नवनीतं विधीयते, संनिधानविशेषात्.
SK
NOTES: *{३/७७४: E२,४: दृतिनवनीतम्}* *{३/७७५: E१ गिब्त् श्येनाङ्गानां इन् Kलम्मेर्न्}*
SK
आधाने ऽपि तथेति चेत् // MS_३,८.३७ //
SK
एवं चेद् दृश्यते - श्येनाङ्गानां नवनीतम् इति, आधाने ऽपि पवमानेष्टिषु स्यात्. ता अपि हि श्येनस्योपकुर्वन्ति, तत्संस्कृते ऽग्नौ श्येनो निर्वर्तत इति.
SK
नाप्रकरणत्वाद् अङ्गस्य तन्निमित्तत्वात् // MS_३,८.३८ //
SK
न श्येनस्य प्रकरणे पवमानेष्टयो ऽग्न्याधानं वा श्रूयते. किम् अतः? यद्य् एवम्, आधानस्य च श्येनस्य च न कश्चिद् अस्ति [४३२]{*३/७७६*} संबन्धः, अग्नीनाम् आधानम्, अग्नयश् च श्येनस्य, तस्मान् न पवमानहविःषु नवनीतम्. नैतच् छ्येनाङ्गत्वे निमित्तम्, यद् आधानम् अग्नीनाम् उपकरोति. यदि प्रकरणादीनाम् अन्यतमद्{*३/७७७*} अस्ति, तन् निमित्तं भवेत्. तस्मान् न श्येनाग्न्याधानयोः संबन्धो ऽस्तीति.
SK
NOTES: *{३/७७६: E२: ४,६२३; E४: ४,९९७; E६: २९०}* *{३/७७७: E२,४: अन्यतमम्}*
SK
तत्काले वा लिङ्गदर्शनात् // MS_३,८.३९ //
SK
इदम् इदानीं संदिह्यते - किं सुत्याकालानाम् अङ्गानां नवनीतम् उत सर्वेषां इति. सुत्याकालानां स्यात्, लिङ्गदर्शनात्. इदं श्रूयते - सह पशून् आलभत इति. तत्र पुनर् वचनम् - अग्नीषोमीयस्य स्थाने ऽग्नीषोमीयः पुरोडाशः, अनुबन्ध्यायाः स्थाने मैत्रावरुणीयस्येति{*३/७७८*}, द्वे स्थाने श्रून्ये{*३/७७९*} दर्शयति, तेनावगम्यते श्येनस्य वचनं सुत्याकालानाम् अङ्गानां विशेषं विदधातीति.
SK
NOTES: *{३/७७८: E२,४: मैत्रावरुणी पयस्या, इति}* *{३/७७९: E२,४,६: शून्ये}*
SK
सर्वेषां वाविशेषात् // MS_३,८.४० //
SK
सर्वेषाम् एव चाङ्गानां नवनीतं स्यात्. कुतः? अविशेषात्, असति विशेषे सर्वेषाम् अप्य् अङ्गानाम् इति.
SK
न्यायोक्ते लिङ्गदर्शनम् // MS_३,८.४१ //
SK
यद् उक्तं लिङ्गम्, तत् परिहरणीयम्. नास्ति तावत् प्रमाणम्, यच् छ्येनस्य वचनं तत् स्तुत्याकालानाम्{*३/७८०*} अङ्गानाम् इति. किं तु दर्शनम्? तद् अप्रमाणमूलत्वान् मिथ्यादर्शनं मृगतृष्णावत्. कथं तु मध्ये पशूनाम् आलम्भ इति. न्यायात्. को न्यायः? क्रमानुग्रहः. एवं वचनवर्जितः क्रमो ऽनुगृहीतो भवतीति{*३/७८१*}. [४३३]{*३/७८२*} तस्मात् सर्वेषाम् अङ्गानां नवनीतम् इति.
SK
NOTES: *{३/७८०: E२,४: वचनं तत् स्तुत्याकालानाम्}* *{३/७८१: E२,४ ओम्. इति}* *{३/७८२: E२: ४,६२५; E४: ४,१०००; E६: १,२९१}*
SK
मांसं तु सवनीयानां चोदनाविशेषात् // MS_३,८.४२ //
SK
शाक्यानाम् अयनं षट्त्रिंशत्संवत्सरम्. तत्रेदं समामनन्ति - संस्थिते संस्थिते ऽहानि गृहपतिर् मृगयां याति, स तत्र यान् मृगान् हन्ति, तेषां तरसाः पुरुडाशाः सवनीया भवन्तीति. तत्र संदेहः - किं सवनीयानाम् अन्येषां च संभवतां पुरोडाशानां स्थाने तरसा उत सवनीयानाम् एवेति. किं प्राप्तम्? सर्वपुरोडाशानां मांसमयता स्यात्, न शक्यते पुरोडाशानां च मांसमयता विधातुम्, सवनीयशब्देन च पुरोडाशान् विशेषयितुम्, भिद्येत हि तथा वाक्यम्. तस्मात् सर्वपुरोडाशानां मांसमयतेति. इति{*३/७८३*} प्राप्ते उच्यते - मांसं तु सवनीयानां स्यात्, तरसाः सवनीया भवन्तीत्य् अयं त्व् अनूद्यते. कुत एतत्? सर्वपुरोडाशेषु सवनीयशब्दो ऽनुवादो न घटते, पुरोडाशशब्दस् तु सवनीयेष्व् अवकल्पते. तस्मात् पुरोडाशशब्दो ऽनुवाद इति. तस्मात् सवनीयानां धानादीनां स्थाने मांसं चोदनाशेषाद् इति.
SK
NOTES: *{३/७८३: E२,४ ओम्. इति}*
SK
भक्तिर् असंनिधाव् अन्याय्येति चेत् // MS_३,८.४३ //
SK
इति चेत् पश्यसि - सवनीयेषु पुरोडाशशब्दो ऽनुवादो भविष्यतीति, धानादिषु पुरोडाशशब्दो न वर्तते, भक्तिश् चान्याय्या मुख्ये संभवति.
SK
[४३४]{*३/७८४*}
SK
NOTES: *{३/७८४: E२: ४,६२३; E४: ४,१००३; E६: १,२९२}*
SK
स्यात् प्रकृतिलिङ्गत्वाद् वैराजवत् // MS_३,८.४४ //
SK
प्रकृतौ ज्योतिष्टोमे धानादिष्व् अयं पुरोडाशशब्दो भाक्तः, संनिहिते{*३/७८५*} प्रयुक्तः, इहापि भाक्त एव प्रयोक्ष्यते. अत्रापि हि सवनीयशब्देन ते संनिहिताः. प्रकृतौ लिङ्गसमवायाच् छब्दप्रवृत्तिर् विकृताव् अपि तथैव, यथा - छत्रिणो गच्छन्ति, ध्वजिनो गच्छन्तीति. यथा - उक्थ्यो वैरूपसामा, एकविंशः पोडशी वैराजसामा इति प्रकृतिलिङ्गेन सामशब्देन वैरूपपृष्ठो वैराजपृष्ठ इति गम्यते. एवम् इहापि सवनीयानां मांसमयतेति.
SK
NOTES: *{३/७८५: E२,४: संनिहितेषु}*
SK
============================================================================
SK
Aध्याय ४:
SK
[४३५]{*४/१*}
SK
NOTES: *{४/१: E२: ५,१; E६: २,१}*
SK
अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा // MS_४,१.१ //
SK
तृतीये ऽध्याये श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोगलक्षणम् उक्तम्. इहेदानीं क्रत्वर्थपुरुषार्थौ जिज्ञास्येते, कः क्रत्वर्थः, कः पुरुषार्थ इति, यापि प्रयोजकाप्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थपुरुषार्थजिज्ञासैव. कथम्? अङ्गं क्रत्वर्थः, प्रधानं पुरुषार्थः. फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः. प्रयोजकः कश्चित् पुरुषार्थो ऽप्रयोजकः क्रत्वर्थः. तस्मात् क्रत्वर्थपुरुषार्थयोर् जिज्ञासेति सूत्रितम्. तत्राथातः शब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ. अथेति प्रकृतं{*४/२*} शेषविनियोगलक्षणम् अपेक्षते. अत इति क्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते. क्रतवे यः स क्रत्वर्थः, पुरुषाय यः स पुरुषार्थः. जिज्ञासाशब्दो ऽपि तत्रैव समधिगतः - ज्ञातुम् इच्छा जिज्ञासेति. तद् एतत् प्रतिज्ञासूत्रम्, क्रत्वर्थपुरुषार्थयोर् जिज्ञासेति.
SK
NOTES: *{४/२: E२: पूर्वप्रकृतं}*
SK
यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तवात् // MS_४,१.२ //
SK
अथ{*४/३*} किंलक्षणः क्रत्वर्थः, किंलक्षणः पुरुषार्थ इति लक्षणं [४३६]{*४/४*} वाच्यम्, तथा हि लघीयसी प्रतिपत्तिः, पृष्टाकोटेनोपदेशे गरीयसी. तद् उच्यते - यस्मिन् प्रीतिः पुरुषस्य, यस्मिन् कृते पदार्थे पुरुषस्य प्रीतिर् भवति{*४/५*} स पुरुषार्थः पदार्थः. कुतः? तस्य लिप्सार्थेन च भवति{*४/६*}, न शास्त्रेण, क्रत्वर्थो हि शास्त्राद् अवगम्यते, नान्यथा. अविभक्तो हि पुरुषार्थः प्रीत्या. यो यः प्रीतिसाधनः स पुरुषार्थः. पुरुषार्थे लक्षिते तद्विपरीतः क्रत्वर्थ इति क्रत्वर्थस्य लक्षणं सिद्धम्.
SK
एवं वा सूत्रं वर्ण्यते - दर्शपूर्णमासयोर् आम्नायते - अनतिदृश्यं स्तृणाति, अनतिदृश्यम् एवैनं प्रजया पशुभिः करोतीति{*४/७*}, तथा - आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात्, वत्सजानुं पशुकामस्य वेदं कुर्यात्, गोदोहनेन पशुकामस्य प्रणयेद् इत्येवमादीनि. तत्र संशयः - किम् एवंजातीयकाः क्रत्वर्था उत पुरुषार्था इति. किं प्राप्तम्? क्रत्वर्थ इति. कुतः? प्रत्यक्ष उपकारस् तेभ्यो दृश्यते क्रतोः, पुरीषहरणं वेदिस्तरणं च, तद् उक्तम् - द्रव्यगुणसंस्कारेषु बादरिर्{*४/८*} इति{*४/९*}. तस्मात् क्रत्वर्था इत्य् एवं प्राप्तम्. एवं प्राप्ते ब्रूमः - यस्मिन् प्रीतिः पुरुषस्य स पुरुषार्थ एवेति, प्रीतिस् तेभ्यो निर्वर्तते, तस्माद् एते पुरुषार्था इति. ननु प्रत्यक्ष उपकारः क्रतोर् दृश्यत इत्य् उक्तम्. उच्यते - सत्यं दृश्यते, न तु क्रतोर् उपकारायैभ्यः{*४/१०*} संकीर्ति तेभ्यः, फलेभ्य एते श्रूयन्ते. न च, य उपकरोति स शेषः. यस् तु यदर्थः श्रूयते, स तस्य शेष इत्य् उक्तम्{*४/११*} - शेषः परार्थत्वाद् इति{*४/१२*}.
SK
एवं वा, द्रव्यार्जनम् उदाहरणम्. इह द्रव्यार्जनं तैस् तैर् नियमैः [४३७]{*४/१३*} श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्य जयादिना, वैश्यस्य कृष्यादिना. तत्र संदेहः - किं क्रत्वर्थो द्रव्यपरिग्रह उत पुरुषार्थ इति. किं प्राप्तम्? क्रत्वर्थो नियमात्. यद्य् एष पुरुषार्थः स्यात्, नियमो ऽनर्थको भवेत्. प्रत्यक्षेणैतद् अवगम्यते, नियमाद् अनियमाच् चार्जितं द्रव्यं पुरुषं प्रीणयतीति. तस्मात् क्रत्वर्थः. कामश्रुतिभिश् चास्य सहैकवाक्यता दृष्टा. इतरथा, अनुमेयेन फलवाक्येन सहैकवाक्यतां यायात्. लिङ्गं चापि भवति - अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर्वपेत्, यस्याहिताग्नेः सतो ऽग्निर् गृहान् दहेत्{*४/१४*}, यस्य हिरण्यं नश्येद् आग्नेयादीनि निर्वपेद्{*४/१५*} इत्येवमादि. तद् धि द्रव्योपघाते चोद्यते, यदि द्रव्यपरिग्रहः कर्मार्थः, तत एतद् अपि सति संबन्धे कर्मार्थम् इत्य् उच्यते, इतरर्थासति संबन्धे कर्मार्थम् इत्य् अनुमीयते, फलं चास्य कल्प्येत. तस्माद् यजतिश्रुतिगृहीतं द्रव्यार्जनं येन विना योगो न निर्वर्तते, स यागस्य श्रुत्या परिगृहीत इति गम्यते. तस्मात् क्रत्वर्थ इति. एवं प्राप्ते ब्रूमः - पुरुषार्थ इति. एतस्मिन् कृते पदार्थे प्रीतिः पुरुषस्य भवति, तस्माद् अस्य लिप्सार्थलक्षणा शरीरधारणार्था, यस्य शरीरं ध्रियते, व्यक्तं तस्यास्ति द्रव्यम्. शरीरिणश् च यागः श्रूयते, तस्माद् विद्यमानद्रव्यस्य विनियोग उच्यते. न द्रव्यार्जनं श्रुतिगृहीतम्{*४/१६*}, विनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य, यागो निर्वर्तत एव, तस्मात् पुरुषार्थो द्रव्यपरिग्रहः. अपि च, यदि शास्त्रात् कर्मार्थं द्रव्यार्जनम्, तन् नान्यत्र विनियुज्येत तथार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात्. अपि च, उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः, तत्रैतन् नोपपद्यते. अपि वा एष सुवर्गाल्{*४/१७*} लोकाच्छिद्यते, यो दर्शपूर्णमासयाजी [४३८]{*४/१८*} सन्न् अमावास्यां वा पौर्णमासीं वातिपातयेद्{*४/१९*} इति. एवं च सति, प्रयोगकालाद् वहिर्{*४/२०*} एतद् अङ्गं सद् अनुपकारकं स्यात्. न च, आधानवद् भवितुम् अर्हति, तत्र हि वचनम् - वसन्ते ऽग्निम् आदधीतेति, न चैतद् अङ्गम्. अथ यद् उक्तम् - नियमवचनम् अनर्थकम्, पुरुषार्थे द्रव्यपरिग्रहे सतीति. उच्यते, नैतावता पुरुषार्थता व्यावर्तते. प्रत्यक्षा हि सा, त्वया च परोक्षं युक्तिबुद्ध्या व्यपदिश्यते, न च, परोक्षं प्रत्यक्षस्य बाधकं भवति. तस्मान् नियमवचनात् कामम् अपरम् अदृष्टं कल्प्येत, न तु दृष्टहानम्. तस्माद् यत् पुरुषस्य प्रयोजनं प्रीतिः, तद् अर्थं धनस्यार्जनम् इत्य् एवं च सति, व्रीहिणा यागः कर्तव्यः, प्रीत्यर्थम् अर्जितेन वा क्रत्वर्थम् अर्जितेन वा, नात्र कश्चिद् विशेषः. प्रीत्यर्थम् उपार्जितो ऽपि व्रीहिः, व्रीहिर् एव, कर्मार्थम् उपार्जितो ऽपि व्रीहिः, व्रीहिर् एव. तस्मान्{*४/२१*} न प्रयोगचोदनागृहीतं द्रव्यार्जनम्. अथ यद् उक्तम्, अनुमेयेनाप्रकृतेन वा शब्देन युष्मत्पक्षे नियमस्यैकवाक्यता, अस्मत्पक्षे तु दृष्टेन प्रयोगवचनेनेति. नैष दोषः, अस्मत्पक्षे ऽपि दृष्टेन भुजिना, न फलवचनेन. कथं तर्हि? नियमाद् अदृष्टं भवतीति गम्यते. यथैव भवदीये पक्षे. आह, अस्मत्पक्षे फलवत एकवाक्यभावात्{*४/२२*} फलवत उपकरोतीति गम्यते. उच्यते, अस्मत्पक्षे ऽपि फलवत एवैकवाक्यभावः{*४/२३*}, एतावांस् तु विशेषः, तव श्रुतं फलम्, मम तु दृष्टम् इति. अथ यल् लिङ्गम् उक्तम् - गृहदाहादिषु कर्म श्रूयत इति. तत्रोच्यते, यद्य् अपि न क्रत्वर्थं द्रव्यार्जनम्, तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावाय वा जामवत्यादीनां{*४/२४*} विधानम् उपपद्यत एव. तस्मात् पुरुषार्थं द्रव्यार्जनम्, प्रीत्या हि तदविभक्तम् इति.
SK
[४३९]{*४/२५*}
SK
NOTES: *{४/३: E२: नथ (?)}* *{४/४: E२: ५,२; E६: २,१}* *{४/५: E१ हत् यस्मिन् प्रीतिः पुरुषस्य, यस्मिन् कृते पदार्थे पुरुषस्य प्रतीतिर् भवति इन् Kलम्मेर्न्}* *{४/६: E२: तस्य लिप्सार्थलक्षणा. तस्य लिप्सार्थेनैव भवति}* *{४/७: Tऐत्.S. २.६.५.२}* *{४/८: E२,६: बादरिर्}* *{४/९: MS ३.१.३}* *{४/१०: E२: उपकाराय, यत एभ्यः}* *{४/११: E२ ओम्. शेष इत्य् उक्तम्}* *{४/१२: MS ३.१.२}* *{४/१३: E२: ५,३; E६: २,२}* *{४/१४: Tऐत्.S. २.२.२.४-५}* *{४/१५: Tऐत्.S. २.३.२.५}* *{४/१६: E२: कामश्रुतिगृहीतं}* *{४/१७: E२: सवर्गाल्; E१ (Fन्.): स्वर्गाल्}* *{४/१८: E२: ५,४; E६: २,३}* *{४/१९: Tऐत्.S. २.२.५.४}* *{४/२०: E६: बहिर्}* *{४/२१: E२: एव, कर्मार्थम् उपार्जितो ऽपि व्रीहिव्रीहिर् एव, तस्मान्}* *{४/२२: E२: फलवतैकवाक्यभावात्}* *{४/२३: E२: फलवतैवैकवाक्यभावः}* *{४/२४: E२: क्षामवत्यादीनां}* *{४/२५: E२: ५,७: E६: २,३}*
SK
तदुत्सर्गे कर्माणि पुरुषार्थाय, शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं विकीर्ष्यते{*४/२६*} तेनार्थेनाभिसंबन्धात् क्रियायां पुरुषश्रुतिः // MS_४,१.३ //
SK
इह प्रजापतिव्रतान्य् उदाहरणम् - नोद्यन्तम् आदित्यम् ईक्षेत नास्तंयन्तम् इत्यादीनि. तत्र संदेहः - किं क्रत्वर्थानि प्रजापतिव्रतान्य् उत पुरुषार्थानीति. किं प्राप्तम्? क्रत्वर्थानीति. कुतः? एवं हि, फलं न कल्पयितव्यं भविष्यतीति. ननु श्रूयत एवैतेषां फलम्, एतावता हैनसायुक्तो भवतीति. उच्यते - नैतत् फलपरं वचनम्, वर्तमानापदेश एवैष शब्द इति. तेन यत्रादित्य ईक्षितव्यः प्राप्तः, तत्रायं प्रतिषेध उद्यतो ऽस्तंयतश् च नियमो वा स्यात् कश्चित् कर्माङ्गभूतः. एवं प्राप्ते ब्रूमः - तद् उत्सर्गे प्रीत्युत्सर्गो ऽपि{*४/२७*}, कर्माणि पुरुषार्थाय भवेयुः, एवंजातीयकानि. कर्तुर् एतान्य् उपदिश्यन्ते, न कर्मणः. अर्थप्राप्तेन कर्त्रा संबन्धो यः, स विधित्सितः, न कर्मसंबन्धो ऽविद्यमान एव. शास्त्रं चानतिशङ्क्यं पितृमातृवचनाद् अपि प्रमाणतरम्, स्वयं हि तेन प्रत्येति, इन्द्रियस्थानीयं हि तत्. न चैवम् आदिभिर् द्रव्यस्य कश्चिद् दृष्ट उपकारः साध्यते. तस्मात् तेन पुरुषार्थेनाभिसंयोगात् क्रियायाम् एवंजातीयकायां पुरुषः श्रूयते. अपि च, पुरुषप्रयत्नः पदार्थविधिमात्रं लक्षयितुम् उच्चार्येत, स्वयम् अविवक्षितः स्यात्. अथ यद् उक्तम् - यत्रादित्यस्येक्षणं प्राप्तम्, तत्रोद्यतो ऽस्तंयतश् च पर्तिषेध इति, सत्यं प्रतिषेधो न्याय्यः, तथा श्रुतिर् अनुगह्येत{*४/२८*}, [४४०]{*४/२९*} इतरथा नियमो लक्ष्येतेति. किं त्व् इह नियमः शब्देन श्रूयते, तस्य व्रतम् इति, तेन नियम एषः, नोद्यन्न् आदित्य ईक्षितव्य इति. अपि च, एतावता हैनसायुक्तो भवतीति पुरुषसंबद्धो दोषः कीर्त्यते, न कर्मसंबद्धः. तस्मात् पुरुषार्थानि प्रजापतिव्रतानीति. गोलक्षणान्य् अप्य् एवम् एव कर्तरीकर्ण्यः कर्तव्या इत्येवमादीनि.
SK
NOTES: *{४/२६: E२,६: चिकीर्ष्यते}* *{४/२७: E२ हत् प्रीत्युत्सर्गो ऽपि इन् Kलम्मेर्न्}* *{४/२८: E२,६: अनुगृह्येत}* *{४/२९: E२: ५,७; E६: २,४}*
SK
अविशेषात् तु शास्त्रस्य यथाश्रुतिफलानि स्युः // MS_४,१.४ //
SK
उच्यते - यद्य् एवम्, इमान्य् अपि पुरुषार्थानि स्युः - समिधो यजति, तनूनपातं यजति{*४/३०*}, नानृतं वदेद्{*४/३१*} इत्येवमादीनि. अत्रापि पुरुषप्रयत्नसंकीर्तनम्, अत्रापि न द्रव्यं चिकीर्ष्यत इति.
SK
NOTES: *{४/३०: Tऐत्.S. २.६.१.१}* *{४/३१: Tऐत्.S. २.५.५.६}*
SK
अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसंबन्धात् // MS_४,१.५ //
SK
अपि वा नैतद्{*४/३२*} अस्ति, समिदादीन्य् अपि पुरुषार्थानि प्राप्नुवन्तीति, कारणाग्रहणे पुरुषार्थानि प्रजापतिव्रतानि भवेयुः. न तत्र श्रुत्यादिकं किंचित् कारणं गृह्यते, येन कर्मणाम् अङ्गभूतानीति गम्यते, तस्मात् तानि पुरुषार्थानि. अर्थस्य कर्मणो{*४/३३*} नाभिसंबन्धः प्रजापतिव्रतैः. इह तु समिदादीनां प्रकरणं नाम कारणं गृह्यते, येन कर्मार्थानीति विज्ञायन्ते{*४/३४*}. तस्माद् विषम उपन्यासः, पुरुषप्रयत्नश् चैवं सत्य् अनुवादः.
SK
NOTES: *{४/३२: E२: अपि वेति पक्षव्यावृत्तिः. नैतद्}* *{४/३३: E२ हत् कर्मणो इन् Kलम्मेर्न्}* *{४/३४: E२,६: विज्ञायते}*
SK
तथा च लोकभूतेषु // MS_४,१.६ //
SK
लोके ऽपि, निष्पन्नकार्यादिषु प्रयोजनवत्सु यद् असंयुक्तं फलेन श्रूयते, तत् तदङ्गं विज्ञायत इति मन्यमाना उपवासं जपं वा [४४१]{*४/३५*} उपदिश्यैव कृतिनो मन्यन्ते, न ब्रुतवे, इदम् अस्य प्रयोजनवतो ऽङ्गम् इति, तथा चापरे ऽपि मन्यमाना न दुरुक्तं मन्यन्ते. तस्मात् समिदादीनि कर्माङ्गानि, न प्रजापतिव्रतानीति सिद्धम्.
SK
NOTES: *{४/३५: E२: ५,९; E६: २,५}*
SK
द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् // MS_४,१.७ //
SK
स्तो दर्शपूर्णमासौ, तत्राम्नायते - स्फ्यश् च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच् चोपला चैतानि वै दश यज्ञायुधानीति{*४/३६*}. तत्र संशयः. किम् एतानि द्रव्याणि प्रदातव्यानि, उत स्वेन स्वेनार्थेन संबन्धनीयानि? तद् एतत् सिद्ध्यर्थम् इदं चिन्तनीयम्, किम् एष विधिर् उतानुवाद इति. विधौ सति प्रदानम् अनुवादे सति यथार्थसंबन्धः. किं प्राप्तम्? विधिर् इति, तथा हि प्रवृत्तौ विशेषः, इतरथा वादमात्रम् अनर्थकम्. प्रदाने चैषां यज्ञायुधशब्दो ऽनुगृहीतः, यज्ञस्यायुधानि, यज्ञस्य साधनानीति. इतरथोद्धननादीनाम् आयुधानि भवेयुः श्रवणेन, लक्षणया यज्ञस्य. संख्या चैवम् अवकल्पते, यागेनैकेन संबन्धात्, इतरथा नानार्थसंबन्धाद् दशेति संख्या नावकल्पते. तस्मात् प्रदीयेरन्, अविशेषेण विहितं प्रकरणेन प्रधानस्य भवितुम् अर्हति.
SK
NOTES: *{४/३६: Tऐत्.S. १.६.८.२}*
SK
स्वेन त्व् अर्थेन संबन्धो द्रव्याणां पृथगर्थत्वात्, तस्माद् यथाश्रुति स्युः // MS_४,१.८ //
SK
न चैतद् अस्ति विधिः, प्रदेयानीति, अनुवादः, प्राप्त[४४२]{*४/३७*}त्वात्. स्फ्येनोद्धन्ति{*४/३८*}, कपालेषु श्रपयति{*४/३९*}{*४/४०*}, अग्निहोत्रहवन्यां{*४/४१*} निर्वपति, शूर्पेण विविनक्ति, कृषाजिनम् उलूखलस्याधस्ताद् अवस्तृणाति, शम्यायां दृषदम् उपदधाति, प्रोक्षिताभ्याम् उलूखलमुसलाभ्याम् अवहन्ति, प्रोक्षिताभ्यां दृषदुपलाभ्यां पिनष्टीत्य् एवं स्वेन स्वेन वाक्येनोद्धननादिषु प्राप्नुवन्ति, प्राप्तानां वचनम् अनुवादः. प्रकरणम् अपि वाक्येन बाध्यते, यज्ञायुधशब्दश् चानुवादपक्षे न्याय्यः, न विधिपक्षे, गौणो हि स आयुधशब्दः स्फ्यादिषु, संख्यापि पाठाभिप्राया भविष्यति, विस्पष्टं चैतद् उद्धननादिभिः स्फ्यादीनि प्रयुक्तानीति. भवति हि तत्र विधिः - स्फ्येनोद्धन्तीत्येवमादिः, न तु यज्ञायुधानि कर्तव्यानीति. तस्माद् उद्धननादिषु वाक्येन प्राप्तानाम् अनुवाद इति.
SK
NOTES: *{४/३७: E२: ५,१०; E६: २,५}* *{४/३८: Tऐत्.S. ६.६.४.१}* *{४/३९: E२: श्रपयन्ति}* *{४/४०: Tऐत्.S. २.३.६.२}* *{४/४१: E२: अग्निहोत्रहवण्या; E६: अग्निहोत्रहवण्यां}*
SK
चोद्यन्ते चार्थकर्मसु // MS_४,१.९ //
SK
अर्थकर्मसु चोद्यन्ते पुरोडाशादीनि, तान्य् अपि विकल्पेरन्. तत्र पक्षे बाधः, न समुच्चयः. पुरोडाशादीनां निरपेक्षाणां यजिसंबधात्, स्फ्यादीनां च. एवं वा चोद्यन्ते चार्थकर्मसु, चोद्यन्ते, परिधानीये कर्मणि - आहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेति. यदि प्रदीयेरंस् तत्र न भवेयुः, तस्माद् अपि न प्रदातव्यानीति.
SK
लिङ्गदर्शनाच् च // MS_४,१.१० //
SK
लिङ्गदर्शनेन च - चतुर्दश पौर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशाम् आवास्यायाम् इति. तस्माद् अप्य् अनुवाद इति.
SK
[४४३]{*४/४२*}
SK
NOTES: *{४/४२: E२: ५,१२; E६: २,६}*
SK
तत्रैकत्वम् अयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् // MS_४,१.११ //
SK
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः - यो दीक्षितो यद् अग्नीषोमीयं पशुं आलभत इति{*४/४३*}. तथा, अनड्वाहौ युनक्तीति, तथा, अश्वमेधे, वसन्ताय कपिञ्जलान् आलभत इति{*४/४४*}. तत्र संदेहः - किं विवक्षितम्, एकत्वं द्वित्वं बहुत्वं च, उताविवक्षितम् इति. तत्रैकत्वम् अयज्ञाङ्गभूतं न विवक्षितम् इत्य् अर्थः, अर्थस्य गुणभूतत्वात्, नालम्भस्य गुणभूता संख्या नियोजनस्य वा. कस्य तर्हि? पशोर् अनडुहोः कपिञ्जलानां च. विभक्तिर् हि श्रुत्या प्रातिपदिकार्थगतं संख्यार्थं ब्रूते, वाक्येन सा यज्ञाङ्गं ब्रूयात्, वाक्याच् च श्रुतिर् बलीयसी. तस्मान् न यज्ञाङ्गं विवक्षितम् इति. आह, मा भूद् यज्ञाङ्गम्, पश्वदीनाम् अङ्गं विवक्षितं तथापीति. उच्यते, न, पश्वादीनाम् अङ्गेनोक्तेनानुक्तेन वा किंचित् प्रयोजनम् अस्ति, यज्ञाङ्गेन ह्य् अविपन्नेन प्रयोजनम्. विपन्ने ऽपि हि पश्वाद्यङ्गे ऽविगुण एव क्रतुर् भवति, यज्ञाच् च फलं न पश्वादेः. तस्मात् पश्वादेर् गुणेनाज्ञातेन ज्ञातेन वा न किंचित् प्रयोजनम् अस्तीति, न तद् विवक्षितम्, यद् धि प्रयोजनवत् तद् विवक्षितम् इत्य् उच्यते.
SK
NOTES: *{४/४३: Tऐत्.S. ६.१.११.६}* *{४/४४: ŚPBर् १.५.१.१३}*
SK
एकश्रुतित्वाच् च // MS_४,१.१२ //
SK
भवति च किंचिद् वचनम्, येन विज्ञायते न तद् विवक्षितम् इति, यदि सोमम् अपहरेयुर् एकां गां दक्षिणां दद्याद् इति{*४/४५*}. यदि विवक्षितं भवेत्, नैकाम् इति ब्रूयात्, गाम् इत्य् एकवचनस्य विवक्षितत्वात्. तथा, अवी द्वे, धेनू द्व इत्य्{*४/४६*} अत्रापि द्व इति वचनं ज्ञापकम्, अविवक्षितम् अवीति द्वित्वम् [४४४]{*४/४७*} इति. त्रीन् ललामान् इत्य्{*४/४८*} अत्रापि त्रीन् इति वचनं लिङ्गम्, ललामान् इति बहुवचनम् अविवक्षितम् इति.
SK
NOTES: *{४/४५: ŚPBर् ४.५.१०.६}* *{४/४६: Tऐत्.S. ५.६.२१.१}* *{४/४७: E२: ५,१६; E६: २,७}* *{४/४८: Kअठ.S. १३.७}*
SK
प्रतीयत इति चेत् // MS_४,१.१३ //
SK
एवं चेत् पश्यसि - अविवक्षिता संख्येति, तन् न, प्रतीयते हि संख्याख्यातवचनस्याङ्गभूता, यथा पशुम् आनयेत्य् उक्ते, एक एवानीयते, पशू इति, द्वौ. पशून् इति बहव आनीयन्ते, यश् च प्रतीयते स शब्दार्थः, तस्माद् यज्ञस्याङ्गभूता संख्येति शब्दाद् गम्यते, न च शब्दाद् गम्यमानम् ऋते कारणात्, अविवक्षितं भवति.
SK
नाशब्दं तत्प्रमाणत्वात् पूर्ववत् // MS_४,१.१४ //
SK
नैतद् एवम्, सत्यं प्रतीयते, न त्व् अयं शब्दार्थो व्यामोहादोषा प्रतीतिः. कुत एतत्? वाक्याद् धि यज्ञाङ्गम् इत्य् अवगम्यते, वाक्यं च श्रुत्या बाध्यते. तस्माद् अशब्दार्थो ऽयं यज्ञ एकत्वाद् इति. शब्दार्थो ऽपि हि प्रतीयते, यथा, पूर्वो धावतीति. स पूर्व इत्य् उच्यते, यस्यापरो ऽस्ति, तेन पूर्व इत्य् उक्ते, अपरो गम्यते. न त्व् अपरो धावतीति श्रवणात् प्रतीयते. एवम् इहापि पशुम् इत्य् एकत्वं गम्यते, न तु यज्ञे. यथैव हि पूर्वम् इत्य् उक्ते ऽपरो गम्यत एव केवलं, न तु स विधीयते कस्मिंश्चिद् अर्थे. एवम् इहापि संख्या प्रतीयते एव केवलम्, न तु कर्तव्यतया यज्ञे विधीयते न पशौ. कथं न पशौ विधीयत इति चेत्. विधायकस्याभावात्. आख्यातशब्दो विधायको भविष्यतीत्य् एतद् अपि नोपपद्यते, द्रव्यदेवतासंबन्धस्य स विधायकः सन्न् आलभत इति न संख्यासंख्येयसंबन्धं विधातुम् अर्हतीति. भिद्येत हि तथा वाक्यम्. तस्माद् अविवक्षिता संख्येति.
SK
[४४५]{*४/४९*}
SK
NOTES: *{४/४९: E२: ५,१४; E६: २,८}*
SK
शब्दवत् तूपलभ्यते तदागमे हि तद् दृश्यते तस्य ज्ञानं यथान्येषाम् // MS_४,१.१५ //
SK
तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, न यज्ञे संख्या शब्देन श्रूयत इति, आख्यातवाच्ये ह्य् अर्थ उपलभ्यते, लोके पशुम् आनयेत्य् एकवचने सति एकत्वपशुविशिष्टम् आनयनं प्रतीयते, पश्व् आनयेति द्वित्वविशिष्टं गम्यते, तत्र ह्य् एकत्वम् अपैति, द्वित्वम् उपजायते. यस्य चागमे यद् उपजायते, स तस्यार्थ इति गम्यते. तस्य ज्ञानं, यथान्येषां शब्दानाम्, अश्वम् आनयेत्य् उक्ते ऽश्वानयनं प्रतीयते, गाम् आनयेति गवानयनम्, तत्राश्वो ऽपैति गौश् चोपजायते, तेन ज्ञायते, अश्वशब्दस्याश्वो ऽर्थो गोशब्दस्य गौर् इति. यद् उक्तम् - श्रुत्या वाक्यार्थो बाध्यत इति, उच्यते, न श्रुतिर् ब्रूते - वाक्यार्थो नास्तीति, केवलं तु प्रातिपदिकार्थगतां संख्याम् आह, नादृशी संख्या वाक्येन यज्ञे विधीयते, प्रातिपदिकार्थो ह्य् आख्यातवाच्येन संबध्यते, विभक्त्यर्थो ऽपि. तथा हि, तद्विशेषणविशिष्ट आलम्भो गम्यते, तत्रैकार्थत्वाद् एकवाक्यम् अवकल्पते. पशौ हि संख्यायां विधीयमानायाम् एक आख्यातशब्दो न शक्नुयात्, आख्यातार्थं विधातुम्, संख्यासंख्येयसंबन्धं च. तस्माद् यज्ञे विवक्षिता संख्येति.
SK
तद्वच् च लिङ्गदर्शनम् // MS_४,१.१६ //
SK
किम् इति. कर्णा याम्याः, अवलिप्ता रौद्राः, नभोरूपाः पार्जन्याः, तेषाम् ऐन्द्राग्नो दशम इति{*४/५०*}. यदि त्रित्वं विवक्षितं तदैन्द्राग्नो दशमो भवति. तथा कृष्णा भौमाः, धूम्रा आन्तरिक्षाः, वृहन्तो{*४/५१*} दिव्याः, शवला{*४/५२*} वैद्युताः, सिद्धास् तारका इति{*४/५३*} प्रकृत्य आह - अर्धमासानां वैतद् रूपं यत् पञ्च[४४६]{*४/५४*}दशिन इति{*४/५५*}. तस्माद् अपि पश्यामः, विवक्षिता संख्येति. यत् तूक्तम् - एकां गाम् इत्य् अविवक्षां दर्शयतीति. अत्रोच्यते, गोसंख्यासंबन्धं विधातुम्, एतद् उच्यते, इतरथा हि, गोदक्षिणासंबन्धो विहितो गम्येत. तस्माद् विवक्षिते ऽपि वाच्यम् एतत्. अवी द्वे धेनू द्वे त्रीन् ललामान् इति चानुवादाः.
SK
NOTES: *{४/५०: Vआज्.S. २४.३}* *{४/५१: E२,६: बृहन्तो}* *{४/५२: E२,६: शबला}* *{४/५३: Vआज्.S. २४.३}* *{४/५४: E२: ५,४४६; E६: २,९}* *{४/५५: ŚPBर् १३.२.५.१}*
SK
तथा च लिङ्गम् // MS_४,१.१७ //
SK
एवं च कृत्वा समानश्रुतिकं लिङ्गम् अपि विवक्षितं भविष्यति, तत्र इदं दर्शनम् उपपद्यते, वसन्ते प्रातर् आग्नेयीं कृष्णग्रीवाम् आलभते, ग्रीष्मे माध्यंदिने सिंहीम् ऐन्द्रीं शरद्य् अपराह्णे श्वेतां बार्हस्पत्याम् इति{*४/५६*}. तत्र श्रूयते - गर्भिण्यो भव्तीति{*४/५७*}, गर्भः स्त्रीणां गुणः, तेन स्त्रियो दर्शयतीति भविष्यति. तथा अश्व ऋषभो वृष्णिर् वस्तः{*४/५८*} पुरुष इति ते प्राजापत्या इति{*४/५९*}. तत्र श्रूयते - मुष्करा{*४/६०*} भवन्ति सेन्द्रियत्वायेति{*४/६१*}. मुष्करत्वं पुंसां गुणः, तेन पुंप्राप्तिं दर्शयतीति.
SK
अधिकरणान्तरं वा, तथा च लिङ्गम् इति, संख्याधिकरणं लिङ्गाधिकरणे ऽतिदृश्यते{*४/६२*}. लिङ्गम् अविवक्षितम्, श्रुत्या वाक्यस्य बाधितत्वात्, न च, विवक्षितम् इव श्रुयत इति, भवति लिङ्गम्. स्त्री गौः सोमक्रयणीति, स्त्रीवचनात् सोमक्रयणीत्य् अविवक्षितम् एव लिङ्गं प्रतीयते. ननु कथं मृगीम् आनयेति न मृग आनीयते? नैवम्, अशाब्दं तु तत्, पूर्वो धावतीति यथा. लिङ्गं विवक्षितं वा{*४/६३*} वाक्यार्थस्य श्रुत्याप्रतिषिद्धत्वात्. तथा च लिङ्गम्, गर्भिण्यो भवन्तीति, तथा च मुष्करा भवन्ति [४४७]{*४/६४*} इति. यद् उक्तम् - स्त्री गौः सोमक्रयणीति, तत्र स्त्रीत्य् अविवक्षितम्, तथा प्रजापतये पुरुषान् हस्तिन आलभत इति पुरुषग्रहणम् अविवक्षितम्, विस्पष्टो हि न्याय उक्तो लिङ्गविवक्षायाम्. तस्माद् विवक्षितं लिङ्गम् इति.
SK
NOTES: *{४/५६: Tऐत्.S. २.१.२.५}* *{४/५७: Tऐत्.S. २.१.२.६}* *{४/५८: E२: बस्तः}* *{४/५९: Tऐत्.S. ५.६.१२.१}* *{४/६०: E२: मुष्करां}* *{४/६१: Tऐत्.Bर्. १.८.२.२}* *{४/६२: E२,६: ऽतिदिश्यते}* *{४/६३: E२ ओम्. वा}* *{४/६४: E२: ५,१६; E६: २,९}*
SK
आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत // MS_४,१.१८ //
SK
अत्राश्रयिणः पदार्था उदाहरणम् उत्तमः प्रयाजः पशुपुरोडाशः स्विष्टकृद् इत्य् एते यागा उदाहरणम्{*४/६५*}. एषु संदेहः. किं यजिमात्रं संस्कारो देवतायाः, उत यजिनादृष्टं देवतायां क्रियत इति. किं प्राप्तम्? आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयत{*४/६६*} इत्य्{*४/६७*} आश्रयिष्व् एवंजातीयकेष्व् अपूर्वस्य भावो ऽर्थः प्रत्येतव्यो ऽविशेषाद् अन्यैर् आख्यातशब्दैः, यजति ददाति जुहोतीति, उक्तम् एतद् भूतं भव्यावोपदिश्यत इति.
SK
NOTES: *{४/६५: E१ हत् उत्तमः प्रयाजः पशुपुरोडाशः स्विष्टकृद् इत्य् एते यागा उदाहरणम् इन् Kलम्मेर्न्}* *{४/६६: E२: प्रतीयेत}* *{४/६७: E२ ओम्. इति}*
SK
चोदनायां त्व् अनारम्भो विभक्तत्वान् न ह्य् अन्येन विधीयते // MS_४,१.१९ //
SK
अस्यां तु चोदनायाम् अनारम्भो ऽपूर्वस्य, विभक्तो ऽयम् आख्यातशब्दः, यो दृष्टार्थः, ततो नापूर्वम्, यः खल्व् अदृष्टार्थः, ततो ऽपूर्वम् इति, दृष्टार्थश् चायम्. अस्मिन् हि यागे क्रियमाणे देवता [४४८]{*४/६८*} स्मर्यते, स्विष्टकृत्य् अपि द्रव्यं प्रतिपाद्यते. न चान्येन शब्देनात्रापूर्वं विधीयते. तस्माद् यजिमात्रं संस्कार इति.
SK
NOTES: *{४/६८: E२: ५,१८; E६: २,९}*
SK
स्याद् वा द्रव्यचिकीर्षायां भावो ऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः // MS_४,१.२० //
SK
स्याद् वापूर्वमतः सत्याम् अपि देवताचिकीर्षायाम्, तस्मिन् देवतासंस्कारार्थे गुणभूतता यागस्य, द्रव्यप्रतिपादनेन च, मन्त्रेण तत्र देवता स्मर्यते. तस्मिन् मन्त्रेण दृष्टे ऽर्थे क्रियमाणे त्यागो ऽपरो ऽदृष्टार्थः श्रूयते, तस्य न किंचिद् दृष्टम् अस्ति, देवताश्रयात् तु देवतागतं तद् अपूर्वम् इति गम्यते.
SK
अर्थे समवैषम्यम् अतो द्रव्यकर्मणाम् // MS_४,१.२१ //
SK
अतिक्रान्तस् तृतीयविषयः, अतः प्रभृति द्रव्याणां कर्मणां चार्थे प्रयोजने{*४/६९*} समवैषम्यं वक्ष्यते. क्वचित् साम्यम्, क्वचिद् वैषम्यम्, आमिक्षावाजिनयोर् वैषम्यम्, क्रयपांसूनां वैषम्यम्, दण्डस्य मैत्रावरुणधारणे यजमानधारणे च साम्यम्, एवं तत्र तत्र द्रष्टव्यम्, साम्यं वैषम्यं चेति.
SK
[४४९]{*४/७०*}
SK
NOTES: *{४/६९: E१ हत् प्रयोजने इन् Kलम्मेर्न्}* *{४/७०: E२: ५,१८; E६: २,१०}*
SK
एकनिष्पत्तेः सर्वं समं स्यात् // MS_४,१.२२ //
SK
चातुर्मास्येषु वैश्वदेवे श्रूयते - तप्ते पयसि दध्य् आनयति, सा वैश्वदेव्य् आमिक्षा वाचिभ्यो{*४/७१*} वाजिनम् इति. तत्र संदेहः - किं तप्ते पयसि दध्यानयनम् आमिक्षा प्रयोजयति, न वाजिनम्, उतोभयम् इति. किं प्राप्तम्? उभयम् इति. कुतः? यस्मिन् कृते, यन् निष्पद्यते प्रयोजनवत्, तत् तस्य प्रयोजकम् इति गम्यते, दध्यानयने च कृत उभयं निष्पद्यते. आमिक्षापि, तत एव याजिनम् अपि{*४/७२*} तत्रान्यतरार्थं क्रियेत, यदि विनिगमनायां हेतुर् भवेत्. अगम्यमाने विशेष उभयार्थम् आनयनम् इति गम्यते. तस्माद् एकासाव् उभाभ्याम् अपि प्रयोजिता निष्पत्तिर् इति.
SK
NOTES: *{४/७१: E२,६: वाजिभ्यो}* *{४/७२: E२ ओम्. अपि}*
SK
संसर्गरसनिष्पत्तेर् आमिक्षा वा प्रधानं स्यात् // MS_४,१.२३ //
SK
नैतद् अस्ति, उभयं प्रयोजकम् इति, आमिक्षा प्रयोक्त्री. कुतः? नात्र यद् दधिपयोभ्यः निर्वर्त्यते, तद् धविः. यदि तद् धविः स्यात्, उभयं ताभ्याम् एव निष्पद्यत इति गम्यत{*४/७३*} विशेषः. किं तर्हि हविर् इति. पयो दधिसंसृष्टम्. कुत एतत्? सा वैश्वदेवीत्य् उच्यते, न ततो यन् निष्पद्यत इति. ननु स्त्रीलिङ्गनिर्देशात्, आमिक्षा हविः, सा च ततो निष्पद्यते, वाजिनं च हविः, तद् अपि निष्पद्यत इति. न, इत्य् उच्यते - तद् एव हि पयस् तप्तं दधिसंयुक्तम्, आमिक्षा भवति. तस्मात् स्त्रीलिङ्गम् अदोषः. आह - यदि पयो दधिसंसृष्टं हविः, किं तर्ह्य् उच्यते, आमिक्षा प्रयोजिकेति. उच्यते [४५०]{*४/७४*} - आमिक्षायां दधिपयसी विद्येते, न वार्जिने. कथम् अवगम्यते? संसर्गसनिष्पत्तेः, तत्र हि दधिपयसोः संसृष्टयो रस उपलभ्यते, तेन तत्र दधिपयसी इत्य् अनुमानं भवति, वाजिने तिक्तकटुको रसः. आह, तप्ते पयसि दधन्य् आनीयमान उभयं भवति, दध्ना च पयः संसृज्यते वाजिनाच् च विविच्यते. तत्र संसर्गश् चिकीर्षितः, न विवेक इति. कुत एतत्? उच्यते - शाब्दः संसर्गो दध्ना, अशाब्दो वाजिनेन विवेकः पयस इति, सर्वनाम च पूर्वोक्तेन शब्देनैकवाक्यतां याति. इतरस्मिन् पक्षे पयसि दध्यानयनं वाजिनविवेकलक्षणार्थं स्यात्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या. तस्माद् आमिक्षार्थं दध्यानयनम्, आमिक्षाशब्दश् चात्रानुवादः, आमिक्षैव सा भवति, यत्र तप्ते पयसि दध्यानीयते. तस्माद् आमिक्षिका प्रयोक्त्री, वाजिनम् अप्रयोजकम् इति.
SK
NOTES: *{४/७३: E२: न गम्यत}* *{४/७४: E२: ५,२०; E६: २,११}*
SK
मुख्यशब्दाभिसंस्तवाच् च // MS_४,१.२४ //
SK
न च, उभयं प्रयोजकं न्याय्यम्, नात्र वचनम् अस्ति, इदं प्रयोजकम् इदं नेति, असति प्रयोजके ऽनर्थकं भवतीति प्रयोजकं कल्प्यते. तत्रैकस्मिन्न् अपि प्रयोजके सिद्धे ऽर्थवत्य् उपदेशे नान्यद् अपि प्रयोजकं भवितुम् अर्हति. न च, न गम्यते विशेषः. कथं गम्यते? मुख्यशब्दाभिसंस्तवात्, मुख्यशब्दः संस्तोतुं न्याय्य इति, प्राथम्यात् तु तस्य तावत् प्रयोजकत्वज्ञानम्{*४/७५*}, तस्मिन् सति प्रयोजके, परिक्षतत्वाद्{*४/७६*} आनर्थक्यस्य, न द्वितीयम् अपि प्रयोजकम्, प्रथमा चामिक्षा, द्वितीयं वाजिनम्, तस्माद् आमिक्षा प्रयोक्त्री. अपि च मुख्यशब्देन च, आमिक्षा स्तूयते - मिथुनं वै दधि च शृतं च, अथ यत् संसृष्टं मण्डम् इव मस्त्व्{*४/७७*} इव परि च ददृशे{*४/७८*} [४५१]{*४/७९*} गर्भ एव स इति, गर्भस्तुतामिक्षा{*४/८०*}, मिथुनस्य च गर्भः प्रयोजकः, न गर्भोदकम्. तस्माद् अप्य् आमिक्षा प्रयोजिकेति मन्यामहे. किं भवति प्रयोजनम्? यद्य् उभयं प्रयोजकम्, वाजिने नष्टे, पुनस् तप्ते पयसि दध्य् आनेतव्यम्, अथ वाजिनम् अप्रयोजकम्, नष्टे वाजिने लोपो दध्यानयनस्य.
SK
NOTES: *{४/७५: E२: प्रयोजकत्वं ज्ञानम्}* *{४/७६: E२: परिहृतत्वाद्}* *{४/७७: E२ ओम्. मस्त्व्}* *{४/७८: E२: परिदृश्यते}* *{४/७९: E२: ५,२१; E६: २,११}* *{४/८०: E२: गर्भसंस्तुतामिक्षा}*
SK
पदकर्माप्रयोजकं नयनस्य परार्थत्वात् // MS_४,१.२५ //
SK
ज्योतिष्टोमे श्रूयते - अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीति{*४/८१*}. तत्रेदम् अपरं श्रूयते - षट् पदान्य् अनुनिष्क्रामतीति{*४/८२*}, तथा, सप्तमं पदं गृह्णातीति. इदम् अपरम् - यर्हि हविर्धाने प्राची प्रवर्तयेयुस् तर्हि तेनाक्षम् अञ्ज्याद्{*४/८३*} इति{*४/८४*}. तत्र संदेहः - किं सोमक्रयण्यानयनं पदपांस्वर्थम्, उत क्रयप्रयुक्तम् इति. किं प्राप्तम्? नयनाद् उभयं निष्पद्यते, क्रयः पदं च, तस्माद् उभयं प्रयोजकम्. न हि गम्यते विशेष इति, तद् उक्तम् - एकनिष्पत्तेः सर्वं समं स्याद् इति{*४/८५*}. एवं प्राप्ते ब्रूमः - पदकर्माप्रयोजकम् इति. कुतः? यस्मान् नयनं क्रयार्थम्, न हि नयनम् अन्तरेण विशिष्टे देशे क्रय उपपद्यते. तस्मात् क्रयेण तावन् नयनं प्रयुक्तम् इति गम्यते. क्रयप्रयुक्तं चेत्, न पदप्रयुक्तम् अपि भवितुम् अर्हति. अपि च, एकहायन्याः पदपांसवो ग्रहीतव्या इति नास्ति शब्दः. ननु प्रकृतैकहायनी पदपांसुग्रहणवाक्येन{*४/८६*} [४५२]{*४/८७*} संभन्त्स्यते. नेति ब्रूमः - एकहायन्या क्रीणातीति विशिष्टेन वाक्येन क्रये, उपदिष्टैकहायनी प्रकृतत्वात् पदपांसुवाक्येन संबध्यते, प्रकरणाच् च वाक्यं बलीयः. अथेदानीम्, एकहायनी क्रयणार्थं संकीर्तिता सती संनिहितत्वात् प्रसङ्गम् उपजीवता पदपांसुवाक्येन संबध्येत, यासौ परार्था, एतस्याः पदं ग्राह्यम् इति. तस्मात् क्रयपयुक्तं नयनम्, अप्रयोजकं पदम् इति. किं पुनश् चिन्तायाः प्रयोजनम्? यद्य् उभयम् एकहायनीनयनस्य प्रयोजकम्, यदैकहायन्याः सप्तं पदं ग्रावणि निधीयते, तदा पुनर् एकहायनी नीयेत सप्तमाय पदाय, यदा पदं न प्रयोजकम्, तदा नैकहायनी पुनः षट् पदान्य् अनुनिष्क्रामययितव्येति.
SK
NOTES: *{४/८१: Tऐत्.S. ६.१.६.७}* *{४/८२: Tऐत्.S. ६.१.८.१}* *{४/८३: E२: उपाञ्जात्}* *{४/८४: Tऐत्.S. ३.१.३.१}* *{४/८५: MS ४.१.२२}* *{४/८६: E२: पदपांसुग्रहणवाक्ये}* *{४/८७: E२: ५,२२; E६: २,१२}*
SK
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते // MS_४,१.२६ //
SK
दर्शपूर्णमासयोः श्रूयते - कपालेषु पुरोडाशं श्रपयतीति{*४/८८*}, तथा - पुरोडाशकपालेन तुषान् उपवपतीति. तत्र संदेहः - किम् उभयं कपालानि प्रयोजयति, पुरोडाशश्रपणं तुषोपवापश् च, उत श्रपणं प्रयोजकम्, न तुषोपवाप इति. किं प्राप्तम्? विनिगमनायां हेतोर् अभावाद् उभयम्. इति प्राप्ते उच्यते, अर्थाभिधानं प्रयोजनसंबद्धम् अभिधानं यस्य, यथा पुरोडाशकपालम् इति, पुरोडाशार्थं कपालं पुरोडाशकपालम्. कथम् एतद् अवगम्यते? पुरोडाशस् तावत् तस्मिन् काले नास्ति, येन वर्तमानः संबन्धः कपालेन स्यात्. तेनैव हेतुना न भूतः, स एष कपालस्य पुरोडाशेण भविष्यता [४५३]{*४/८९*} संबन्धः, भविष्यता संबन्धश् च तन् निमित्तस्य भवति. तस्मात् पुरोडाशेन प्रयुक्तं यत् कपालम्, तेन तुषा उपवप्तव्या इति. एवं च सति चरौ पुरोडाशाभावे यदा तुषानुपवप्तुं कपालम् उपादीयते, न तत् पुरोडाशकपालं स्यात्. न चेन् न तेन तुषा उपवप्तव्या भवन्ति. तस्मान् न तुषोपवापः कपालानां प्रयोजकः, प्रयोजल्कं तु श्रपणम् इति.
SK
NOTES: *{४/८८: Tऐत्.S. २.३.६.२}* *{४/८९: E२: ५,२३; E६: २,१३}*
SK
पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् // MS_४,१.२७ //
SK
अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः. तत्र श्रूयते - हृदयस्याग्रे ऽवद्यत्य् अथ जिह्वाया इत्येवमादि{*४/९०*}. तथा, लोहितं निरस्यति, शकृत् संप्रविध्यति, स्थविमतो वर्हिरंल्क्तापास्यतीति{*४/९१*}{*४/९२*}. तत्र संदेहः, किं हृदयादिभिर् अवदानैर् इज्या पशोः प्रयोक्त्री, उत शकृत् संप्रव्याधो लोहितनिरसनं च तद् अपि प्रयोजकम् इति. किं प्राप्तम्? एकनिष्पत्तेः सर्वं समं स्याद्{*४/९३*}, उभयं प्रयोजकम् इति. एवं प्राप्ते ब्रूमः, पशौ{*४/९४*} शकृल्लोहितयोर् अप्रयोजकत्वम्, न हि तदर्थः पशोर् आलम्भः{*४/९५*}, सकृत् संप्रविध्यति लोहितम् अपास्यतीत्य् उच्यते, न पशोर् अन्यस्य वेति, पशुर् अग्नीषोमीयो वाक्येन, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*४/९६*}. शकृल्लोहिते पशोः प्रकरणेन भवेताम्, प्रकरणं च वाक्येन बाध्यते. नन्व् एते शकृल्लोहिते प्रतिपाद्येते, तेन यागार्थस्य पशोर् नान्यस्येति निश्चयः. एवं चेत्, अप्रयोजके शकृल्लोहित इति. किं भवति प्रयोजनम्? साम्ये सति शकृल्लोहिताभावे ऽन्यः पशुर् आलम्भनीयः, शकृल्लोहितयोर् अप्रयोजकत्वे लोपः.
SK
[४५४]{*४/९७*}
SK
NOTES: *{४/९०: Tऐत्.S. ६.३.१०.४}* *{४/९१: E२: बर्हिरङ्क्त्वापास्यतीति; E६: बर्हिरलङ्क्तापास्यतीति}* *{४/९२: Tऐत्.S. ६.३.९.२}* *{४/९३: MS ४.१.२२}* *{४/९४: E२ ओम्. पशौ}* *{४/९५: E२ ओम्. शकृल् लोहितयोर् अप्रयोजकत्वम्, न हि तदर्थः पशोर् आलम्भः}* *{४/९६: Tऐत्.S. ६.१.११.६}* *{४/९७: E२: ५,२४; E६: २,१३}*
SK
एकदेशद्रव्यश्{*४/९८*} चोत्पत्तौ विद्यमानसंयोगात् // MS_४,१.२८ //
SK
दर्शपूर्णमासयोः{*४/९९*} श्रूयते - उत्तरार्धात् स्विष्टकृते समवद्यतीति{*४/१००*}. तत्र संदेहः, किं पुरोडाशस्याग्नेययागः प्रयोजकः, स्विष्टकृद् अप्रयोजक उतोभयम् इति. किं प्राप्तम्? एकनिष्पत्तेः सर्वं समं स्याद् इति{*४/१०१*}. एवं प्राप्ते ब्रुमः, एकदेशद्रव्यश्{*४/१०२*} चैवंजातीयको ऽप्रयोजको भवेत्. कुतः? विद्यमानसंयोगात्, न, एकदेशकर्मावयविनं प्रयुङ्क्ते, विद्यमानस्यावयविन एकदेश उपादातव्य इति, तत्रार्थो भवति, नावयविनम् उपाददीतेति, यथेक्षुखण्डम् अस्मै प्रयच्छ, मोदकशकलम् अस्मै प्रयच्छेति, नेक्षुम् उपाददीतेति गम्यते, सत इक्षोः खण्डम् उपाददीत, सतो मोदकाच् छकलम् उपाददीतेति. तस्माद् अन्यार्थं द्रव्यं तस्योत्तरार्धाद् अवदेयम्, अस्ति चाग्न्यर्थः पुरोडाशः. तस्माद् विष्टकृद् अप्रयोजक इति.
SK
NOTES: *{४/९८: E२: एकदेशद्रव्यं}* *{४/९९: E२: एकदेशद्रव्यं}* *{४/१००: Tऐत्.S. २.६.६.५}* *{४/१०१: MS ४.१.२२}* *{४/१०२: E२: एकदेशद्रव्यं}*
SK
निर्देशात् तस्यान्यद् अर्थाद् इति // MS_४,१.२९ //
SK
इति चेत् पश्यसि, अप्रयोजकः पुरोडाशस्य स्विष्टकृद् इति, नैतद् एवम्, अग्निं प्रति निर्देशात् तस्य पुरोडाशस्य{*४/१०३*} स्विष्टकृद् अर्थम् अन्यः पुरोडाश उत्पादयितव्यः, यस्योत्तरार्धात् स्विष्टकृद् इज्यते, तस्याग्नये संकल्पितस्य नेष्टे यजमानः. कथम् असौ तद् अन्यस्यै देवतायै दद्यात्. कथम् अग्निं प्रति निर्देश इति. इदं श्रूयते - अङ्गिरसो वा इत उत्तमाः सुवर्गं लोक[४५५]{*४/१०४*}मायंस् ते यज्ञवास्त्व् अभ्यायंस् ते पुरोडाशं कूर्मं भूत्वा सर्पन्तम् अपश्यंस् तम् अब्रुवन्न् इन्द्राय ध्रियस्व बृहस्पतये ध्रियस्वादित्याय ध्रियस्व स नाध्रियत तम् अब्रुवन् अग्नये ध्रियस्वेति सो ऽध्रियत यदाग्नेयो ऽष्टाकपालो{*४/१०५*} ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति{*४/१०६*}. तस्मात् तेन स्विष्टकृतो न संबन्धः. एवं चेत् तस्माद् अन्यद् द्रव्यम् अर्थाद् उत्पादयितव्यम्, न ह्य् अनुत्पन्नस्य द्रव्यस्योत्तरार्धो भवतीति.
SK
NOTES: *{४/१०३: E१ हत् पुरोडाशस्य इन् Kलम्मेर्न्}* *{४/१०४: E२: ५,२५; E६: २,१४}* *{४/१०५: E२: ऽष्टकपालो}* *{४/१०६: Tऐत्.S. २.६.३.२}*
SK
न शेषसंनिधानात् // MS_४,१.३० //
SK
नैतद् एवं संनिहितो हि शेषः, यस्मिन्न् अनुत्पाद्यमाने ऽर्थो न सिध्यति, सो ऽर्थाद् उपाद्यते. संनिहिते च शेषे सति सिध्यत्य् उत्तरार्धाद् ग्रहणम्. तस्मान् नार्थाद् द्रव्यम् उत्पादयितव्यम्, यद् एवान्यार्थं द्रव्यं संनिहितम्, तस्यैवोत्तरार्धाद् ग्रहीतव्यम्. उत्तरार्धमात्रं हि स्विष्टकृते श्रूयते नामुष्य द्रव्यस्येति. न चैतावता व्यवहारो भवति, सर्वो हि कस्यचिद् उत्तरार्धः, स एष संनिहितम् अपेक्षते, संनिहितं च परार्थम्. तस्मात् परार्थाद् द्रव्यात् स्विष्टकृद् इज्या. अतश् चाप्रयोजिकेति. यद् उक्तम्, अनीशानेन न शक्यं दातुम् इति, तद् उच्यते, वाचनिक एष शेषप्रतिपादनार्थ उत्सर्गः, स शक्यः कर्तुम्. दानं ह्य् उत्सर्गपूर्वकः परस्य स्वत्वसंबन्धः, स न शक्यो ऽनीशानेन.
SK
कर्मकार्यात् // MS_४,१.३१ //
SK
कर्मनिमित्तश् च स्विष्टकृतो भाग इति श्रूयते. कथम्? देवा वै स्विष्टकृतम् अब्रुवन् हव्यं नो वहेति, सो ऽब्रवीद् वरं वृणै [४५६]{*४/१०७*} भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् उत्तरार्धाद् एव मह्यं सकृत् सकृद् अवद्याद् इति. कर्म कुर्वतो भागो ऽयम् उत्तरार्धाद् इति स्तुतिर् भवति. यद्य् आग्नेयस्योत्तरार्धाद् इत्य् उच्यते, ततो ऽस्ति कर्मार्थेन भागेन सादृश्यम् इदम्, तदाग्नेयं हव्यं यत् किल वहसीति, तत्र सति सादृश्ये स्तुतिर् उपपद्यते, प्रयोजकत्वे चासति सादृश्ये स्तुतिसामञ्जस्यं न स्यात्. तस्माद् अप्रयोजकः पुरोडाशस्य स्विष्टकृद्याग इति.
SK
NOTES: *{४/१०७: E२: ५,२६; E६: २,१५}*
SK
लिङ्गदर्शनाच् च // MS_४,१.३२ //
SK
लिङ्गम् अपि भवति - तद् यत् सर्वेभ्यो हविर्भ्यः समवद्यति, तस्माद् इदम् उदरे विश्वरूपम् अन्नं समवधीयत इति, यदि परार्थाद् द्रव्यात् संनिहिताद् इज्यते, तदा सत्संनिधानाविशेषात् सर्वेभ्यो ऽवदीयत इत्य् उपपद्यते. प्रयोजकत्वे त्व् एकस्माद् एवावदीयेत. तस्माद् अप्य् अप्रयोजकः. तथेदम् अपरं लिङ्गम् - शेषाद् इडाम् अवद्यति, शेषात् स्विष्टकृतं यजतीति. नन्व् अयं विधिः स्यात्. नेति ब्रूमः, नात्र विधिविभक्तिर् वर्तमानापदेशो ह्य् अयम् इति.
SK
अभिघारणे विप्रकर्षाद् अनुयाजवत् पात्रभेदः स्यात् // MS_४,१.३३ //
SK
अस्ति वाजपेयः, वायपेयेन स्वाराज्यकामो यजेतेति. तत्र श्रूयते - सप्तदश प्राजापत्यान् पशून् आलभते, सप्तदशो वै प्रजापतिः प्रजापतेर् आप्त्यै, इति{*४/१०८*}, प्राजापत्यानां क्रतुपशूनां च समुच्चयो वक्ष्यते - प्रजापात्येषु चाम्नानाद् इति{*४/१०९*}. अस्ति [४५७]{*४/११०*} तु प्रकृतौ, प्रयाजशेषेण हवींष्य् अभिघारयतीति{*४/१११*}. तत्र संदेहः - किं प्राजापत्यानां वपा अभिघारयितुं प्रयाजशेषस्य धारणार्थं पात्रम् अपरम् उत्पादयितव्यम्, ततस् तेन प्राजापत्यानां वपा अभिघारयितव्याः, उत न शेषो धारयितव्यः, नैव ततः प्राजापत्यानां वपा अभिघारणीया इति. किं प्राप्तम्? अभिघारणे प्रयाजशेषधारणार्थं पात्रम् उत्पाद्येत, प्रातःसवने च प्रयाजशेषो विप्रकृष्टकाले{*४/११२*} माध्यंदिने सवने, ब्रह्मसामकाले प्राजापत्यानाम् आलभ्यः श्रूयते - तान् पर्यग्निकृतान् उत्सृजन्ति, ब्रह्मसाम्न्य् आलभत इति{*४/११३*}, व्यापृता च जुहूर् भवति. तस्मात् पात्रान्तरम् उत्पादनीयम् इति, यथानुयाजेषु पृषदाज्यधारणार्थं पात्रम् उत्पाद्यते, पृषदाज्येनानुयाजान् यजतीति{*४/११४*} वचनात्, एवम् अत्रापीति.
SK
NOTES: *{४/१०८: Tऐत्.Bर्. १.३.४.३-४}* *{४/१०९: MS १०.४.६}* *{४/११०: E२: ५,२७; E६: २,१५}* *{४/१११: Tऐत्.Bर्. १.३.४.४}* *{४/११२: E२: विप्रकृष्टे काले}* *{४/११३: Tऐत्.Bर्. १.३.४.४}* *{४/११४: Tऐत्.S. ६.३.११.६}*
SK
न वापात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् // MS_४,१.३४ //
SK
न वा प्राजापत्यानां वपा अभिघार्याः. कुतः? शेषाभावात्. कथं शेषाभाव इति चेत्. अपात्रत्वात्. कथम् अपात्रता? एकदेशत्वात्, प्रयाजार्थस्य हि गृहीतस्याज्यस्य स एकदेशः शेषः. किम् अतः? यद्य् एवम्, एकदेशव्यापारः श्रूयमाणो नावयविनम् उपादेयत्वेन चोदयति. आह, उत्पत्तिं न चोदयेत्, धारणम् उत्पन्नस्यार्थाद् भविष्यतीति. उच्यते, एकदेशत्वाद् अभिघारणं द्रव्यम् एव न प्रयुङ्क्त इत्य् उच्यते, कृतार्थस्य द्रव्यस्यायम् एकदेशः प्रतिपाद्यते, नाभिघारणम् अर्थकर्म. ननु हविषाम्, द्वितीयानिर्देशात् प्राधान्यं स्यात्. नेत्य् उच्यते, अदृष्टो हि हविषाम् उपकारः कल्प्येत, आज्यप्राधान्ये पुनर् जुह्वा रिक्तत्वं दृष्टं प्रयोजनम्, आज्यभागार्थेनाज्येनासंसर्गः, जुह्वा [४५८]{*४/११५*} रिक्तया प्रयोजनम्, नाभिघृतेन हविषा. तस्मात् प्राजापत्यानाम् अभिघारिताभिर् वपाभिः प्रयोजनम् एव नास्ति, किम् अर्थं शेषो धार्यत इति.
SK
NOTES: *{४/११५: E२: ५,२८; E६: २,१६}*
SK
हेतुत्वाच् च सहप्रयोगस्य // MS_४,१.३५ //
SK
हेतुत्वाच् चाभिघारणस्य, सहालभत इति स्तुतिर् भवति, तीर्थं वै प्रातःसवनम्, यत् प्रातःसवने पशव आलभ्यन्ते, तीर्थ एवैतान् आलभते, सयोनित्वायार्थो वपानाम् अभिघृतत्वाय, इत्य् अर्थानतरेण वपाभिघारणम् अनुगृह्णन् नेहास्तीति दर्शयति.
SK
अभावदर्शनाच् च // MS_४,१.३६ //
SK
अभावं खल्व् अप्य् अभिग्धारणस्य दर्शयति - सव्या वा एतर्हि वपा यर्ह्य् अनभिघृताः, ब्रह्म वै ब्रह्मसाम, यद् ब्रह्मसाम्न्य् आलभते तेनासव्याः, तेनाभिघृता इति. सव्यशब्दो रूक्षे भाष्यते, सव्या वपेत्य् अनभिघृततां दर्शयति.
SK
सति सव्यवचनम् // MS_४,१.३७ //
SK
आह नैतद् दर्शनम्, सत्य् एव ह्य् अभिघारणे भवत्य् एतत् सव्यवचनम्, अस्ति हि वपाया अन्यद् अभिघारणम् - उपस्तृणात्य् आज्यं हिरण्यशकलम्, वपा हिरण्यशकलं ततो ऽभिघारयतीति{*४/११६*}. तस्मिन् सति कथं सव्या भवेयुः? ब्रूते{*४/११७*} च, तस्मान् नैतच् छक्यम् अवगन्तुम् रूक्षास् ता वपा दृश्यन्त इति, तेन नूनम् अभिघारणं प्रयाजशेषेणास्तीति, सत्य् अस्मिन्न् अभिघारणे प्रत्यक्षे, रूक्षास् ता इति दर्शनं व्यामोह इति{*४/११८*}.
SK
[४५९]{*४/११९*}
SK
NOTES: *{४/११६: Aइत्.Bर्. २.१४}* *{४/११७: E२: श्रूयते}* *{४/११८: E२: प्रत्यक्षम् अरूक्षास् ताः. अतो रूक्षावचनं व्यामोह इति}* *{४/११९: E२: ५,२९; E६: २,१७}*
SK
न तस्येति चेत् // MS_४,१.३८ //
SK
एवं चेद् दृश्यते, सत्य् अभिघारणे सव्या इति वचनम् अलिङ्गम् इति, नालिङ्गम्, तस्यैतद् वचनम्, यत् स्नेहनं करोति. कतमत् तत्? यत् प्रथमम्, प्रथमं हि स्नेहनं करोति, न द्वितीयम्. स्निग्धस्य तद् भवति, न च स्निग्धस्य स्नेहनं क्रियते, यथा भवति लोके वादः, यद् अस्माभिः कान्तारान् निर्गतैर् देवदत्तस्य गृहे स्निग्धम् भुक्तम्{*४/१२०*}, तेन वयम् अरूक्षाः कृता इति, सत्स्व् अप्य् अन्येषु स्निग्धेष्व् एव भोजनेषु, एवं तस्यारूक्षाकरणस्याभिघारणस्याभावाद् रूक्षा इति वचनम् उपपद्यते, अस्मिंस् तु सति नोपपद्यते. तस्माद् अपि प्रयाजशेषेणाभिघारणं प्राजापत्यानां नास्तीति.
SK
NOTES: *{४/१२०: E२: स्निग्धम् अन्नं भुक्तं}*
SK
स्यात् तस्य मुख्यत्वात् // MS_४,१.३९ //
SK
इदं पदोत्तरं सूत्रम्{*४/१२१*}. यदि प्रथमस्याभावात् सव्या इति वचनं भवत्य् अनुपपन्नम्, तर्ह्य् अन्यस्य प्रथमस्य विद्यमानत्वात्. कतमत् तत्? यच् छ्रप्यमाणाया अपरम् उद्वासितायाः. अत्रोच्यते - स्यात् तस्य मुख्यत्वात्, यत् प्रयाजशेषेणाभिघारणम्, तस्यैवाभावाद् एतद् उपपद्यते, सत्य् अपि श्रप्यमाणाया अभिघारण उद्वासितायाश् च, यत् तावच् छ्रप्यमाणायाः, तद् अग्नेर् अर्चींषि दहन्ति, यद् उद्वासितायाः, तद् अग्न्यवयवा{*४/१२२*} ऊष्मावयवाश् च नाशयन्ति, सैषा रूक्षैव, इदं तु प्रयाजशेषेण शीतायाः क्रियते, तत् स्नेहयति, तेन स्निग्धायाः पदानकालम् अभिघारणं यत्, तन् न स्नेहयति. तद् इदं स्नेहनस्याभिघारणस्याभावात् सव्यतावचनम् उपपद्यत इत्य् उक्तम्, तस्मान् न प्रयाजशेषो धार्यत इति.
SK
[४६०]{*४/१२३*}
SK
NOTES: *{४/१२१: E१ गिब्त् इदं पदोत्तरं सूत्रम् इन् Kलम्मेर्न्}* *{४/१२२: E२: अग्न्यम् अथवा}* *{४/१२३: E२: ५,२९; E६: २,१७}*
SK
समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् // MS_४,१.४० //
SK
दर्शपूर्णमासयोः श्रूयते - अतिहायेडो बर्हिः प्रति समानयतीति. तत्र संदेहः, किं समानयनम् आज्यस्य धर्माणां च प्रयोजकम्, उताप्रयोजकम् इति. किं प्राप्तम्? अप्रयोजकम् इति. कुतः? प्रयाजानुयाजार्थस्याज्यस्यायम् एकदेशः समानीयत इति, पूर्वेण न्यायेनाप्रयोजकता प्राप्ता. तद् उच्यते - मुख्यं समानयनं लिङ्गदर्शनात्. किं लिङ्गम्? चतुर्गृहीतान्य् आज्यानि भवन्ति, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीत्य् आतिथ्यायां श्रूयते, यदि प्रयाजार्थं समानयनम्, ततस् तत्रैकं चतुर्गृहीतं समानीयते. एकम् अप्य् अनुयाजानां भवति, ततश् चातिथ्येडां ता संतिष्ठत इत्य् अनुयाजाभाव उपभृति समानयनार्थम् एकं चतुर्गृहीतं ग्राह्यम्, न त्व् अनुयाजार्थम्. तत्र बहूनां चतुर्गृहीतानां दर्शनम् उपपद्यते, इतरथा ह्य् अनुयाजाभावे नैवोपभृति चतुर् गृह्येत, तत्र चतुर्गृहीतानीति बहुवचनं नोपपद्यते. तस्मात् प्रयोजकं समानयनम् इति. ननु लिङ्गम् उपदिश्यते, का प्राप्तिः? उच्यते - दृष्टं तत्र प्रयोजनं प्रयाजौ द्वौ यष्टव्यौ, तत्र जुह्वाम् आज्येन प्रयोजनं नोपभृति रिक्तायाम्, उपभृतो रेचनम् अदृष्टार्थं जुह्वां निधानं दृष्टार्थम् एव. तेन प्रयाजहोमार्थम् आज्यसमानयनम् औपभृतम् आज्यं [४६१]{*४/१२४*} प्रयोजयति. तद् अपि हि प्रयाजार्थम् अनुयाजार्थं चेति वक्ष्यते.
SK
NOTES: *{४/१२४: E२: ५,३१; E६: २,१८}*
SK
वचने हि हेत्वसामर्थ्ये // MS_४,१.४१ //
SK
अथ कस्मान् न वचनम् एतत्, न चतुर्गृहीतान्य् आज्यानीति. उच्यते, वचने हि हेतुर् असमर्थितः स्यात्, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति. यदा समानयनं न प्रयाजार्थम् इति गम्यते, तदा वचनम्. यदा वचनम्, तदा नानुयाजाभावो हेतुः, असति हेतौ, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति हेतुवन् निगदो नोपपद्येत. तस्मात् प्रयाजार्थं समानयनं प्रयोजकम् औपभृतस्याज्यस्य. किं भवति प्रयोजनम्? पर्याजार्थे समानयने यावत् प्रयाजार्थम्, तावत् सर्वं समानेयम्, अर्धम् औपभृतस्य, अप्रयोजनकत्वे न नियोगतो ऽर्धं यावत् ताद्वत् वा.
SK
तत्रोत्पत्तिर् अविभक्ता स्यात् // MS_४,१.४२ //
SK
दर्शपूर्णमासयोः श्रूयते - चतुर्जुह्वां गृह्णात्य् अष्टाव् उपभृति गृह्णातीति{*४/१२५*}. तत्र संदेहः, किं जौहवम् औपभृतं चोभयम् उभयार्थम्, प्रयाजेभ्यश् चानुयाजेभ्यश् च, उत जौहवं प्रयाजेभ्यः, औपभृतम् अनुयाजेभ्यः? अथवा औपभृतं प्रयाजेभ्यो ऽनुयाजेभ्यश् चेति. किं प्राप्तम्? उभयम् उभयार्थम्. कुतः? यद् यद् आज्येन क्रियते, तस्मै तस्मै भवितुम् अर्हत्य् अविशेषात्.
SK
NOTES: *{४/१२५: Tऐत्.Bर्.३.३.५.४-५}*
SK
तत्र जौहवम् अनुयाजप्रतिषेधार्थम् // MS_४,१.४३ //
SK
नैवम्, उभयम् उभयार्थम् इति, जौहवं प्रयाजार्थम्, औप[४६२]{*४/१२६*}भृतम् उभयार्थम्. कथम्? यज् जुह्वां गृह्णाति, ऋतुभ्यस् तद् गृह्णाति, ऋतवो वै प्रयाजा इति जौहववचनम् अनुयाजप्रतिषेधार्थं प्रयाजान् संकीर्तयति. आह, ननु नास्त्य् अत्रानुयाजप्रतिषेधार्थं वचनम्, यद् एतत् प्रयाजेभ्यस् तद् गृह्णातीति{*४/१२७*}, प्रयाजेषूपदेशकम् एतत्, नास्त्य् अस्यानुयाजप्रतिषेधे सामर्थ्यम् इति. उच्यते - न ब्रूमः, प्रतिषेधकम् एतद् इति. किं तूत्पत्तिवाक्य आज्यानां नैव प्रयोजनाभिसंबन्धः, अनेन वचनेन प्रयाजप्रयोजनता क्रियते जौहवस्य, अनुयाजप्रयोजनतास्य वचनाभावाद् एव न गम्यत इति, अनुयाजप्रतिषेधार्थं वचनम् इत्य् उच्यते.
SK
NOTES: *{४/१२६: E२: ५,३२; E६: २,१९}* *{४/१२७: ŚPBर् १.३.२.८}*
SK
औपभृतं तथेति चेत् // MS_४,१.४४ //
SK
इति चेद् दृश्यते, जौहवम् अनुयाजेभ्यः प्रतिषिध्यते, औपभृतम् उभयार्थम् इति, भवतु जौहवं प्रयाजार्थम्, न त्व् औपभृतम् उभयार्थम्. तद् अपि तथा स्यात्, यथा जौहवम्. कथम्? एतद् अप्य् अनुयाजार्थम् एव श्रूयते, यद् उपभृति गृह्णात्य् अनुयाजेभ्यस् तद् गृह्णाति छन्दांसि ह्य् अनुयाजा इति. अनुयाजार्थतास्येति.
SK
स्याज् जुहूप्रतिषेधान् नित्यानुवादः // MS_४,१.४५ //
SK
नैतद् एवम्, उभयार्थं ह्य् औपभृतम्, एवं हि श्रूयते - यद् अष्टाव् उपभृति गृह्णाति प्रयाजानुयाजेभ्यस् तद् गृह्णातीति{*४/१२८*}. ननूक्तम्, अनुयाजेभ्यस् तद् गृह्णातीत्य् अनुयाजार्थतास्येति. उच्यते, जुहूप्रतिषेधान् नित्यानुवादः. उभयस्मिन्न् औपभृते जौहवे च{*४/१२९*} उभयार्थे प्राप्ते जौहवम् अनुयाजेभ्यः प्रतिषिद्धम्, नौपभृतम्, तद् औपभृतस्योभयार्थतायां सत्याम् अनु[४६३]{*४/१३०*}याजार्थतावचनं नित्यानुवादो भवितुम् अर्हति, न शक्नोति प्रयाजार्थतां प्रतिषेद्धुम्, प्रत्यक्षश्रुता हि सा, तस्माद् औपभृतम् उभयार्थम्. समानयनं च ततो जुह्वां श्रूयते, तस्माद् अपि प्रयाजार्थता न शक्या बाधितुम्.
SK
NOTES: *{४/१२८: ŚPBर् १.३.२.९}* *{४/१२९: E१ गिब्त् औपभृते जौहवे च इन् Kलम्मेर्न्}* *{४/१३०: E२: ५,३३; E६: २,१९}*
SK
तदष्टसंख्यं श्रवणात् // MS_४,१.४६ //
SK
अष्टाव् उपभृति गृह्णातीति{*४/१३१*} श्रूयते. तत्र संदेहः, किं तद् औपभृतम् आज्यम् अष्टसंख्येन ग्रहणेन संस्क्रियते, उत चतुःसंख्या गुणभूता द्वयोर् ग्रहणयोर् इति. किं तावत् प्राप्तम्? अष्टसंख्या गुणभूता, न चतुःसंख्ये द्वे इति. कुतः? श्रवणाद् अष्टसंख्या श्रूयते, चतुःसंख्या अष्टसंख्यया लक्ष्यते, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या, तस्माद् अष्टसंख्यं ग्रहणम् एतद् इति.
SK
NOTES: *{४/१३१: Tऐत्.Bर्. ३.३.५.५}*
SK
अनुग्रहाच् च जौहवस्य // MS_४,१.४७ //
SK
अनुग्रहवादश् च भवति - चतुर्गृहीतं वा एतद् अभूत् तस्याघारम् आघार्य त्रिरितः{*४/१३२*} प्राचीनं{*४/१३३*} प्रयाजान् यजति समानयते चतुर्गृहीतत्वायेति चतुर्गृहीतानुग्रहः कथं स्याद् इति. किं चतुर्गृहीतं भवति समानयनेन? नेति ब्रूमः, चतुर्गृहीतं प्रथमम् एव तत्, आघारे ऽप्य् आघारिते, यद् अवशिष्टं चतुःसंख्यम् एव तस्य ग्रहणम् आसीत्. किं तर्हि चतुर्गृहीतत्वायेति. चतुर्गृहीतस्यानुग्रहार्थम्, अल्पं हि चतुर्गृहीतं होमायापर्याप्तम्, तत् पर्याप्तं कथं स्याद् इति. एवं चतुर्गृहीतशब्देनाल्पम् इति लक्ष्यते, अल्पत्वं च बहुत्वं कस्यचिद् अपेक्ष्य भवति, यदि ह्य् औपभृतम् अष्टसंख्यम् एवं चतुर्गृहीतम् [४६४]{*४/१३४*} अल्पं भवति, तत्र{*४/१३५*} चतुर्गृहीतशब्देन अल्पता शक्यते लक्षयितुम्. तस्माद् अपि पश्यामः, औपभृते ऽष्टसंख्या गुणभूतेति.
SK
NOTES: *{४/१३२: E२: त्रीनितः}* *{४/१३३: E२: प्राचीनान्}* *{४/१३४: E२: ५,३४; E६: २,२०}* *{४/१३५: E२ ओम्. चतुर्गृहीतम् अल्पं भवति, तत्र}*
SK
द्वयोस् तु हेतुसामर्थ्यं श्रवणं च समानयने // MS_४,१.४८ //
SK
तुशब्दः पक्षं व्यावर्तयति, द्वे एते चतुर्गृहीते, एवं हेतुः समर्थितो भवत्य् आतिथ्यायाम्, चतुर्गृहीतान्य् आज्यानि भवन्ति, न ह्य् अत्रानुयाजान् यक्ष्यन् भवतीति{*४/१३६*}, असत्स्व् अप्य् अनुयाजेष्व् एतद् अष्टगृहीतम् एवौपभृतं भवेत्. यदाष्टसंख्या गुणभूता, न तदा द्वयोश् चतुर्गृहीतयोः सतोश् चतुर्गृहीतान्{*४/१३७*} आज्यानीति बहुवचनम् आज्येषूपपद्यते. तस्माच् चतुर्गृहीते द्वे इति. आह, लिङ्गम् एतत् प्राप्तिर् उच्यताम् इति. तद् अभिधीयते, अनारभ्य उच्यते, चतुर्गृहीतं जुहोतीति सर्वहोमेषु, तेन प्रयाजानुयाजेष्व् अपि न तद् अष्टगृहीतेन शक्यते बाधितुम्, नानाविषयत्वात्. अष्टगृहीतं हि ग्रहणे, चतुर्गृहीतं हि होमे, अस्ति हि संभवः, यद् अष्टगृहीतं गृह्येत, चतुर्गृहीतं हूयेत, तद् एतद् इहाष्टत्वम् ग्रहणे भवति. कथं द्वे चतुर्गृहीते होमे सम्पादयेत्? तस्माद् द्वे एते चतुर्गृहीते, अष्टगृहीते गृह्यमाणे गृह्येते. चतुर्गृहीते द्वे नागृहीत्वाष्टगृहीतं{*४/१३८*} कश्चित् सम्पादयेत्. तस्माद् द्वे एते चतुर्गृहीते इति. अथ यद् उक्तम्, अष्टगृहीतं श्रूयते, श्रुतिश् च लक्षणाया गरीयसीति, उच्यते - उक्तम् अस्माभिर् अष्टसंख्यायाः प्रयोजनम्, कथं द्वे चतुर्गृहीते स्याताम् इति. अपि च, अष्टाव् उपभृति गृह्णातीत्य् उपभृति समानीते द्वे चतुर्गृहीते कथं स्याताम् इति. इतरथासत्य् अष्टशब्दे नानापात्रयोर् गृह्येयाताम्. तस्माद् अष्टशब्दश्रवणम् अदोषः, साध्व् एतत्, द्वे चतुर्गृहीते [४६५]{*४/१३९*} उपभृतीति. प्रयोजनम्, द्वयोश् चतुर्गृहीतयोः सतोः समानयने ऽर्धं समानेतव्यं भवति, अष्टगृहीते सति न नियोगतो ऽर्धम्. तथा यत्रानुयाजार्थं न ग्रहणम्, तत्राप्य् अष्टगृहीतम्, यथा पूर्वः पक्षः. यथा च सिद्धान्तः, तथा चातुर्मास्येषु चतुर्गृहीतम् उपभृति भवति.
SK
NOTES: *{४/१३६: Tऐत्.S. ५.१.१.१}* *{४/१३७: E२,६: चतुर्गृहीतान्य्}* *{४/१३८: E२: न हि द्वे चतुर्गृहीते अगृहीत्वाष्टगृहीतं}* *{४/१३९: E२: ५,३६; E६: २,२१}*
SK
स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् // MS_४,२.१ //
SK
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*४/१४०*}, तत्रेदम् आम्नातम् - खादिरे बध्नाति, पालाशे बध्नाति, रोहिते बध्नातीति. तत् संनिधाव् इदम् अपरम् आम्नायते, स्वरुणा पशुम् अनक्ति यूपस्य स्वरुं करोतीति. अथेदानीम् इदं संदिह्यते, किं भेदेन यूपात् स्वरुर् उत्पादयितव्यः, उत यूपं क्रियमाणम् अनुनिष्पन्नः शकलो ग्रहीतव्य इति. तत्रेदं तावन् नः परीक्ष्यम्, किं छेदनाद्युत्पत्तेः प्रयोजकः स्वरुः, उताप्रयोजकः{*४/१४१*}? प्रयोजकश् चेत्, भेदेन यूपान् निष्पाद्येत. न चेत् प्रयोजकः, यूपं निष्पद्यमानम् अनुनिष्पन्नः शकलो ग्रहीष्यत इति. स कथं प्रयोजकः स्यात्? कथं वा न प्रयोजक इति. यद्य् एषा वचनव्यक्तिः, स्वरुशब्दवाच्यं भाव्यते. कथं? जोषणादिनेतिकर्तव्यताविशेषेणेति. ततः, स्वरुणा पशुम् अनक्तीति, स स्वरुर् इत्य् अवगतो ग्रहीष्यते, ततः प्रयोजकः. अथैवं विज्ञायते, स्वरुणा पशुम् अनक्तीत्य् अनवगतः स्वरुः. एतावद् अस्य{*४/१४२*} विज्ञायते ऽञ्जनं तेन क्रियत इति, इदम् अपि, यूपस्य स्वरुं करोतीति यूपैकदेशं स्वरुकार्ये ऽञ्जने विनियुङ्क्त इति ततो ऽप्रयोजकः. किं तावत् प्राप्तम्? स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात्, स्वरुर् न यूपेनैकनिष्पत्तिः स्यात्, यूपम् अनपेक्षमाणस्य स्वरोर् जो[४६७]{*४/१४३*}षणादिनोत्पत्तिः. कुतः? स्वकर्मशब्दत्वात्. स्वो ह्य् अस्य कर्मशब्दः स्वरुताया विधायको भवति, स्वरुं करोतीति. एवं च यूपकाष्टावयवस्य स्वरुत्वं क्रियत इति, यूपस्य स्वरुं करोतीति लक्षणया यूपशब्दः, खदिराद्यवयवस्येत्य् अर्थः. कुतः? स्वरुत्वभावना हि श्रुत्या गम्यते, स्वरुं करोतीति स्वरुम् उत्पादयतीति. यूपावयवोपादानं वाक्येन, वाक्याच् च श्रुतिर् बलीयसीति. तस्माद् एवं सति न नियोगतो यूपकाष्ठाद् एव स्वरुर् उत्पादयितव्यः, निरपेक्षाद् अन्यस्माद् अपि वृक्षात् कर्तव्यो भेदेनेति.
SK
NOTES: *{४/१४०: Tऐत्.S. ६.१.११.६}* *{४/१४१: E२: उताप्रयोजक इति}* *{४/१४२: E२: एतावद् अवश्यं}* *{४/१४३: E२: ५,३७; E६: २,२२}*
SK
जात्यन्तराच् च शङ्कते // MS_४,२.२ //
SK
इतश् च निरपेक्षस्य स्वरोर् उत्पत्तिर् इति गम्यते. कुतः? जात्यन्तराद् अप्य् आशङ्का भवति, वृक्षान्तरात्{*४/१४४*}. कथम्? नान्यस्य स्वरुं कुर्यात्, यद्य् अन्यस्य वृक्षस्य स्वरुं कुर्यात्, अन्ये ऽस्य लोकम् अन्वारोहेयुः, यूपस्य स्वरुं करोतीति. न हि यूपम् अनुनिष्पन्नस्य गर्हणे जात्यन्तराशङ्कावकल्पते, यूपशकलो हि स्वरुकार्ये तदानीं विनियुज्यते. तस्माद् अपि भेदेन यूपात् स्वरुर् उत्पादयितव्य इति.
SK
NOTES: *{४/१४४: E२ गिब्त् वृक्षान्तरात् इन् Kलम्मेर्न्}*
SK
तद् एकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् // MS_४,२.३ //
SK
वाशब्दः पक्षं व्यावर्तयति. यूपैकदेशो हि यूपम् अनुनिष्पन्नः शकलो ग्रहीतव्य इति. कस्मात्? एवम् आम्नायते - यद्य् अन्यस्य वृक्षस्य स्वरुं कुर्यात्, अन्ये ऽस्य लोकम् अन्वारोहेयुः, यूपस्य स्वरुं करोतीति. न चात्रायम् अर्थो विधीयते, स्वरुम् उत्पादयतीति. किं तर्हि? स्वरुकार्यं कर्तुं यम् उपादत्ते, तं यूपाद् इति. कुतः? स्वरुत्वस्य तन्निमित्तत्वात्, स्वरुत्वम् अत्र श्रूयते स्वरोः, यूपस्य स्वरुं करोति [४६८]{*४/१४५*} इति. कस्यात्मीयम्? यूपस्येति, आत्मीयश् च समुदायस्यैकदेशो भवति, तस्माद् इदम् उच्यते, अप्राणिनः षष्ठी पञ्चम्य् अर्थे भवति, यथा शाकस्य देहि, शाकाद् देहीति, तथा क्वचित् तृतीयार्थे, घृतस्य यजति, घृतेन यजति. पञ्चम्य् अर्थे, घृताद् यजति, घृतस्य यजतीति. द्वितीयार्थे वा, सोमस्य पिबति, सोमं पिबति, सोमात् पिबतीति. ननूक्तम्, यूपावयवो ऽत्र वाक्येन विधीयते, श्रुत्या स्वरोर् उत्पत्तिः, श्रुतिश् च वाक्याद् बलीयसीति. उच्यते, सत्यम्, एवम्, यूपस्येति तु शब्दो ऽविवक्षितार्थो भवति. तत्र श्रुतिर् अपि बाध्यते, वाक्यम् अपि. न त्व् अस्मत्पक्षे किंचिद् अविवक्षितार्थम्, स्वरुं करोतीति स्वार्थ एवानुवादो भविष्यतीति, यूपशकलो विधायिष्यते. स्वरुशब्दश् चाञ्जनार्थेन शकले उपचरित इति गम्यते, अवयवप्रसिद्धिश् चैतम् अर्थं गमयिष्यति. भवति हि ब्राह्मणम् - अथ कस्मात् स्वरुर् नाम? एतस्माद् वेषो{*४/१४६*} ऽवच्छिद्यते, तद् अस्यैतत् स्वम् इवारुर् भवति, तस्मात् स्वरुर् नामेति{*४/१४७*}.
SK
NOTES: *{४/१४५: E२: ५,३८; E६: २,२२}* *{४/१४६: E२: वै यो}* *{४/१४७: ŚPBर् ३.७.१.२४}*
SK
शकलश्रुतेश् च // MS_४,२.४ //
SK
इतश् च यूपम् अनुनिष्पन्नस्य ग्रहणम्. कुतः? शकलश्रुतेः, शकलश्रुतिर् भवति स्वरोः, यः प्रथमः शकलः परापतेत्, स स्वरुः कार्य इति. शकलश् चैकदेशः, एकदेशश् चाप्रयोजकः, संबन्धिशब्दत्वात्. तावता च व्यवहारात् समुदायापेक्षिणः. तत्र प्रकरणाद् अन्यार्थेन खदिरादिना जोषणादिकर्मविशिष्टेन यागार्थेन प्रकृतेनास्यैकवाक्यता, यूपाय खदिरादि जोषयते, छिनत्ति, तक्षति च. तत्र यः शकलः प्रथमः पराप्तितस् तं च स्वरुम् अञ्जनार्थं करोतीति. स्वरुशब्दं च तत्रानुवदन्न् एवोपचरति. तस्मान् नैतद् अस्ति, पृथङ्निष्पत्तिः स्वरुर् इति, [४६९]{*४/१४८*} येनान्यस्माद् अपि वृक्षाद् इति शङ्क्यते. तस्माज् जात्यन्तराशङ्कावचनं नित्यानुवादो यूपशकलस्तुत्यर्थः.
SK
NOTES: *{४/१४८: E२: ५,३९; E६: २,२३}*
SK
प्रतियूपं च दर्शनात् // MS_४,२.५ //
SK
इतश् च न पृथङ्निष्पत्तिः स्वरुः. कुतः? एकादशिन्याम्, प्रतियूपं च दर्शनात्, यथा, अनुपूर्वं स्वरुभिः पशून् समज्य{*४/१४९*} मध्यमे रशनागुणे स्वे स्वे{*४/१५०*} स्वं स्वं यूपशकलम् उपगूहतीति स्वरुबहुत्वं दर्शयति, यदि च स्वरुः पृथङ्निष्पत्तिः स्यात्, एक एवैकादशिन्यां तन्त्रेण कार्यं साधयेत्. यूपम् अनुनिष्पन्नस्य तु ग्रहणे प्रकृतौ स्वयूपशकलेनाञ्जनं कृतम् इत्य् एकादशिन्याम् अपि चोदकः स्वयूपशकलम् एव प्रापयतीति बहुत्वम् उपपन्नं भवति. स्वयूपशकलग्रहणं च प्राकृतस्य ग्रहणाद् अध्यवसीयते, यादृशो ऽसौ प्राकृतः, तादृशो ऽसौ गर्हीतव्यः, न विशिष्ट इति. तस्मात् स्वरुर् उत्पत्तेर् न प्रयोजक इति.
SK
NOTES: *{४/१४९: E२: समञ्ज्य}* *{४/१५०: Sओ E१,६, E२ (Fन्.); E२ ओम्. स्वे स्वे}*
SK
आदाने करोतिशब्दः // MS_४,२.६ //
SK
अथ यद् उक्तम्, उत्पत्तिर् अस्य शब्देनोच्यते, स्वरुं करोतीति, एवं च करोतिशब्दो ऽवकल्पिष्यत इति. उच्यते, आदाने करोतिशब्दो भविष्यति, स्वरुं करोति, स्वरुम् आदत्त इति. यथा काष्ठानि करोति, गोमयानि करोतीत्य् आदाने करोतिशब्दो भवति, एवम् इहापि द्रष्टव्यम्{*४/१५१*}.
SK
NOTES: *{४/१५१: Dइए Aउस्गबेन् wइएदेर्होलेन् zwइस्छेन् MS ४.२.६ उन्द् ४.२.७ नोछ् एइन्मल् MS ४.२.१-६ मित् क्üर्zएरेर्, इन्हल्त्लिछ् कौम् अब्wएइछेन्देर् Kओम्मेन्तिएरुन्ग्}*
SK
शाखायां तत्प्रधानत्वात् // MS_४,२.७ //
SK
दर्शपूर्णमासयोः श्रूयते, शाखाम् अधिकृत्य, प्राचीम् आहरत्य् उदीचीम् आहरति प्रागुदीचीम् आहरतीति{*४/१५२*}. तत्र संदेहः - किम् अयं दिग्वादः, उत शाखावाद इति. दिग्वाद इति प्राप्तम्, तथा श्रुतिशब्दः, शाखावादे लक्षणेति. तस्माद् दिग्वाद इति. एवं प्राप्ते ब्रूमः, शाखावाद इति. कुतः? यदि तावद् अयम् अर्थः, प्राची दिग् आहर्तव्येति, ततो ऽशक्यो ऽर्थः, अथ प्राचीं दिशं प्रत्याहरणीयेति, ततः काहर्तव्येति, वाक्ये शाखाशब्दस्याभावाद् अनुपपन्नो ऽयं संबन्धः. अथ प्रकृता शाखेति, ततः प्राचीशब्देन तस्या एवाभिसंबन्धो न्याय्यः. कुतः? प्रत्यक्षा हि प्राचीशब्देन हरतेर् एकवाक्यता, प्रकरणाच् छाखाशब्देन भवेत्. उभयथात्र प्राचीशब्दो लक्षणया प्रकृतां वा शाखां लक्षयेत्, दिशो वानीप्सितत्वात्, विहारदेशम् ईप्सिततमं अयुक्तम्{*४/१५३*}. अपि च, प्राचीति संबन्धिशब्दो ऽयम्, संबन्धिशब्दाश् च सर्वे सापेक्षाः, विना पदान्तरेण, न परिपूर्णम् अर्थम् अभिवदन्ति, सामान्यपदार्थसंबन्धे च संव्यवहारानुपपत्तिः, सर्वस्यैव देशस्य कुतश्चित् प्राग्भावात्. तथा शाखाशब्दो ऽपि संबन्धिशब्दः, वृक्षस्येत्य् एतद् अपेक्षते. यदा वृक्षस्येत्य् एतद् अपेक्षते, तदा वृक्षस्य शाखा प्राची, उदीची, प्रागुदीची वेति भवति संबन्धः, तथा च संव्यवहारो ऽवकल्पते. यत् तु शाखावादे [४७३]{*४/१५४*} लक्षणेति. उच्यते, भवति लक्षणयापि शब्दार्थः. तस्माच् छाखावाद इति.
SK
NOTES: *{४/१५२: Tऐत्.Bर्. ३.२.१.३}* *{४/१५३: E२: ईप्सिततमं युक्तम्; E६, E२ (Fन्.): ईप्सितमयुक्तम्; E२ (Fन्.): ईप्सिततमं संयुक्तम्}* *{४/१५४: E२: ५,४३; E६: २,२५}*
SK
शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् // MS_४,२.८ //
SK
दर्शपूर्णमासयोः समाम्नायते, मूलतः शाखां परिवास्योपवेषं करोतीति. तत्रायम् अर्थः सांशयिकः, किं शाखाछेदनस्योभयं{*४/१५५*} प्रयोजकम्, शाखा उपवेषश् च, उत शाखा प्रयोजका, उपवेषो ऽनुनिष्पादीति. किं प्राप्तम्? उभयं छेदनान् निष्पद्यते, शाखा शाखामूलं च, उभयं च प्रयोजनवत्. अग्रेण वत्सापाकरणादि करिष्यते, मूलत उपवेषः, तेन विशेषाभावाद् उभयं प्रयोजकम्. इति प्राप्ते, उच्यते, शाखायां ब्रूमः, तत्प्रधानत्वात्, शाखाप्रधानत्वाद्{*४/१५६*} उपवेषेण विभागो भवेत्. शाखाम् अनुनिष्पन्नो गृह्यते. कथं तत्प्राधान्यम्? शाखां परिवास्येति द्वितीयानिर्देशात्. ननूपवेषं करोतीत्य् अपि द्वितीया. उच्यते, नासौ परिवासयतेः कर्म. कस्य तर्हि? करोतेः. आह, कस्माद् एवम् अभिसंबन्धो न भवति, शाखां परिवास्य मूलत उपवेषं करोतीति, शाखाशब्दश् च यथैवाग्रे तथा मूले ऽपि. तत्रायम् अर्थः, छेदेनाग्रमूले विभजेत्. [४७४]{*४/१५७*} किं प्रयोजनम्? विभज्य मूलम्, उपवेषं करिष्यामीति{*४/१५८*}. उच्यते, नैवम्, व्यवहितकल्पना ह्य् एवं भवेत्, अवयवधानेन शाखार्थं परिवासनम्, वृत्ते तस्मिन्न् उपवेषकरणम्. ननु प्रकृतत्वान् मूलम् उपवेषशब्देन संबध्यते. उच्यते, उभयसंबन्धे विरोधः. विरोधे च प्रकरणाद् वाक्यं बलीयः. अथ संनिहितेन संबध्यते, तथापि शाखाप्रयुक्तेनेत्य् आपतति. अतः{*४/१५९*} सिद्धम् एव, उववेषो{*४/१६०*} न प्रयोजयति छेदनम् इति. एतद् अत्र वैषम्यम्.
SK
NOTES: *{४/१५५: E२: शाखाच् छेदनस्योभयं}* *{४/१५६: E२ गिब्त् शाखाप्रधानत्वाद् इन् Kलम्मेर्न्}* *{४/१५७: E२: ५,४४; E६: २,२६}* *{४/१५८: E२: करोतीति}* *{४/१५९: E२ ओम्. अतः}* *{४/१६०: E२,६: उपवेषो}*
SK
श्रुत्यपायाच् च // MS_४,२.९ //
SK
शाखया वत्सान् अपाकरोति{*४/१६१*}, शाखया गाः प्रापयति, शाखया दोहयतीत्य्{*४/१६२*}एवमादिषु शाखाग्रहणेषु नोपवेषस्य व्यापारस् ततः शाखाशब्दो ऽपैति. न हि तन्मूलं शाखेत्य् आचक्षते. किम् अतः? यत्रैवं{*४/१६३*} यत्र शाखाशब्दः, तदर्थं छेदनम्, द्वितीयानिर्देशात्. अथापि मूले शाखाशब्दो भवेत्, एवम् अपि शाखाशब्दोपदिष्टेषु न मूलम्, अमूलपरिवासितत्वात्. यच् चैवं संस्कृतया शाखया क्रियते, तदर्थं छेदनम्. न चोपधानं मूलपरिवासितया क्रियते. तस्मान् न तदर्थं छेदनम्. किं भवति प्रयोजनम्? पौर्णमास्याम् अपि शाखोत्पाद्या, यथा पूर्वः पक्षः. यथा सिद्धान्तः, तथा नोत्पादयितव्येति.
SK
NOTES: *{४/१६१: Tऐत्.Bर्. ३.२.१.१}* *{४/१६२: Tऐत्.Bर्. ३.२.१.२}* *{४/१६३: E२: यद्य् एवम्}*
SK
हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् // MS_४,२.१० //
SK
दर्शपूर्णमासयोर् आमनन्ति - सह शाखया प्रस्तरं प्रहरतीति. तत्र संदेहः, किं शाखाप्रहरणं प्रतिपत्तिकर्म, उत [४७५]{*४/१६४*} अर्थकर्मेति. किं प्राप्तम्? हरणे तु जुहोतिः स्यात्, अर्थकर्मेत्य् अर्थः. कुतः? योगसामान्यात्, योगो ऽस्याः समानः प्रस्तरेण, सह शाखया प्रस्तरं प्रहरतीति. सहयोगे यत्र तृतीया, तस्य गुणभावः, यत्र द्वितीया तस्य प्राधान्यम्. प्रस्तरे च विस्पष्टो यजिः, शाखापि तस्मिन्न् एव यजौ प्रस्तरस्य विशेषणम्, समानयोगित्वात्. आह, ननु तत्र तत्र गुणभूता शाखा, तस्याः प्रतिपत्तिर् न्याय्याः, इतरथानेकगुणभावः प्रसज्येतेति. उच्यते, द्रव्याणां चार्थशेषत्वाद् उत्पत्त्या चिकीर्षितस्य शेषभूतान्य् एव द्रव्याण्य् उपदिश्यन्ते, भूतं भव्यायोपदिश्यत इति. तस्माद् अनेकगुणतैव द्रव्यानां न्याय्येति.
SK
NOTES: *{४/१६४: E२: ५,४५; E२: २,२७}*
SK
प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् // MS_४,२.११ //
SK
प्रतिपत्तिर् वा शाखाप्रहरणम्, शब्दस्य तत्प्रधानत्वात्. शब्दो ऽत्र शाखाप्रधानः. कथम्? द्वितीयाश्रवणात्. नन्व् अन्यत्रैव सा द्वितीया, प्रस्तरे, न शाखायाम्. उच्यते, प्रस्तरे द्वितीयार्थः शाखायाम् अपि. कथम्? तुल्ययोगात् सह शाखया, एवं प्रस्तरः प्रहृतो भवति, यदि शाखापि प्रह्रियते. तेन तुल्ययोगे सहशब्दो ऽयम्. यदि प्रस्तरः प्रहरणे प्रधानम्, शाखापि प्रस्तरविशेषणम्, न तर्हि{*४/१६५*} तुल्ययोगः. तस्माद् यः प्रस्तरे द्वितीयार्थः, स शाखायाम् अपि, अतः शाखा प्रधानम्. अपि च, तत्र तत्र शाखा गुणभूता, तस्याम् अन्यत्रोपदिश्यमानायाम् अनेकगुणभावः{*४/१६६*}. तत्र को दोषः? दृष्टं कार्यं हित्वादृष्टं कल्प्येत. कृतप्रयोजनायाः शाखाया अपनयनेन वेदिविवेचनात् सुखप्रचारो दृष्टं कार्यम्, न तु प्रहरेण किंचित् सूक्ष्मम् अपि दृष्टम् अस्ति, तस्मात् प्रतिपत्तिर् न्याय्या. [४७६]{*४/१६७*} आह, ननु तृतीयाश्रवणात् परार्थेन शाखोच्चारणेन भवितुं न्याय्यम्. उच्यते, भवेद् एतन् न्याय्यम्, यदि निर्ज्ञातकाला शाखा स्यात्, ततः प्रस्तरस्य कालपरिच्छेदाय कीर्त्यमाना परार्था उच्चार्येत, इह पुनर् एतद् विपरीतम्, निर्ज्ञातकालः प्रस्तरो ऽनिर्ज्ञातकाला शाखा. तस्मात् सत्य् अपि तृतीयाश्रवणे प्रस्तर एव शाखायाः कालं परिच्छेत्स्यति. यथा द्वितीयानिर्दिष्टः{*४/१६८*}, तथा शाखा द्रष्टव्या, यथा तृतीयानिर्दिष्टा{*४/१६९*}, तथा प्रस्तरः. सामर्थ्यं हि बलवत्तरम् इति.
SK
NOTES: *{४/१६५: E२: न तर्हि}* *{४/१६६: E२: अनेकगुणभावः स्यात्}* *{४/१६७: E२: ५,४७; E६: २,२७}* *{४/१६८: E२: द्वितीयानिर्दिष्टा}* *{४/१६९: E२: तृतीयानिर्दिष्टस्}*
SK
अर्थे ऽपीति चेत् // MS_४,२.१२ //
SK
आह, ननु गुणभावे ऽपि द्वितीया भवति{*४/१७०*}, यथा सक्तु मारुतैककपालेषु{*४/१७१*}.
SK
NOTES: *{४/१७०: E२ ओम्. भवति}* *{४/१७१: Cf. Tऐत्.S. २.४.१०.२}*
SK
न, तस्यानधिकाराद् अर्थस्य च कृतत्वात् // MS_४,२.१३ //
SK
नैतत् सक्त्वादिभिस् तुल्यम्, तस्य सक्त्वादेर् अन्यत्रानधिकारात्, इह च शाखयान्यस्यार्थस्य कृतत्वाद् वत्सापाकरणादेः. आह, ननु पुनरुक्तम् एतत् सक्त्वादीनां प्रदर्शनं समाधिश् चेति. उच्यते, न पुनरुक्तता महान् दोषः, बहुकृत्वो ऽपि पथ्यं वेदितव्यं भवति, ग्रन्थभयेन{*४/१७२*} पुनरुक्तं नेच्छन्ति. अर्थाग्रहणात् तु{*४/१७३*} बिभ्यतः पुनर्{*४/१७४*} पुनर् अभिधीयमानं बहु मन्यन्त एव. किं चिन्तायाः प्रयोजनम्? यद्य् अर्थकर्म, पौर्णमास्याम् अपि शाखोत्पाद्या, अथ प्रतिपत्तिर् नोत्पादयितव्येति.
SK
[४७७]{*४/१७५*}
SK
NOTES: *{४/१७२: E२: ग्रन्थगौरवभयेन}* *{४/१७३: E२: अर्थाग्रहणाद् धि}* *{४/१७४: E२: भवेत् तत् पुनर्}* *{४/१७५: E२: ५,४८; E६: २,२८}*
SK
उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् // MS_४,२.१४ //
SK
दर्शपूर्णमासयोर् आम्नायते - अपः प्रणयत्य् आपो वै श्रद्धा श्रद्धाम् एवालभ्य यजत इति{*४/१७६*}, उभयत्र च प्रणीतानां व्यापारः, प्रणीताभिर्{*४/१७७*} हवींषि संयौतीति, तथा, अन्तर्वेदि प्रणीता निनयतीति. अत्र{*४/१७८*} संदेहः, किम् उभयम् आसां प्रयोजकं संयवनं निनयनं च, उत संयवनार्थानां निनयनं प्रतिपत्तिर् इति. किं प्राप्तम्? उत्पत्तिसंयोगो नासां केनचित् प्रयोजनेन, उभाभ्याम् उत्पन्नानां संयोगः. तस्मान् न गम्यते विशेषः, अगम्यमाने विशेषे उभयार्थानां विभागो ऽयम्, कश्चिद् यागः{*४/१७९*} संयवने कश्चिन् निनयन इति, आज्यवत्, यथा सर्वस्मै वा एतद् यज्ञाय गृह्यते यद् ध्रुवायाम् आज्यम् इति{*४/१८०*}.
SK
NOTES: *{४/१७६: Tऐत्.Bर्. ३.२.४.१}* *{४/१७७: E२: प्रणीतानाम् उत्पन्नानां व्यापारः श्रूयते, प्रणीताभिर्}* *{४/१७८: E२,६: तत्र}* *{४/१७९: E२: विभागः}* *{४/१८०: Tऐत्.Bर्. ३.३.५.५}*
SK
संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् // MS_४,२.१५ //
SK
संयवनार्थाः प्रणीताः. कुतः? तृतीयानिर्देशात्, संयवने ऽपां गुणभावः, द्वितीयानिर्देशाच् च निनयने प्राधान्यम्. चिन्तायाः प्रयोजनम्, पुरोडाशाभावे प्रणीतानाम् अभावः, यथा पयस्यायाम्.
SK
[४७८]{*४/१८१*}
SK
NOTES: *{४/१८१: E२: ५,४९; E६: २,२९}*
SK
प्रासनवन् मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् // MS_४,२.१६ //
SK
ज्योतिष्टोमे श्रूयते - वाग् वै देवेभ्यो ऽपाक्रामत् यज्ञायातिष्ठमाना सा वनस्पतीन् प्राविशत् सैषा वाग् वनस्पतिषु वदति. या दुन्दुभौ या च{*४/१८२*} तूणवे या च{*४/१८३*} वीणायाम्, यद् दीक्षिताय दण्डं{*४/१८४*} प्रयच्छति वाचम् एवावरुन्धे, क्रीते{*४/१८५*} सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति{*४/१८६*}. मैत्रावरुणाय दण्डं प्रयच्छतीत्य् एतद् उदाहरणम्. तत्र संशयः, किं दीक्षितधारणे शेषभूतस्य दण्डस्य मैत्रावरुणधारणं प्रतिपत्तिः, अथवार्थकर्मेति. किं प्राप्तम्? मैत्रावरुणाय दण्डदानं प्रतिपत्तिः. कुतः? दीक्षितधारणे कृतार्थत्वात्. दण्डेन दीक्षयन्तीति{*४/१८७*} शेषभूतस्यान्यत्र व्यापारः{*४/१८८*} प्रतिपत्तिर् न्याय्या, यथा चात्वाले कृष्णविषाणां प्रास्यतीति कण्डूयने शेषभूतायाः प्रासनं प्रतिपत्तिः, एवम् अत्रापि द्रष्टव्यम्. द्वितीया च दण्डे विभक्तिः. तस्मात् प्राधान्यम् इति.
SK
NOTES: *{४/१८२: E२ ओम्. च}* *{४/१८३: E२ ओम्. च}* *{४/१८४: E२: दीक्षितदण्डं}* *{४/१८५: E२: एवावरुन्ध इति. तथा क्रीते}* *{४/१८६: Tऐत्.S. ६.१.४.१-२}* *{४/१८७: Tऐत्.S. ६.१.३.८}* *{४/१८८: E२: व्यापारे}*
SK
अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् // MS_४,२.१७ //
SK
अर्थकर्म वा स्यात्. कुतः? कर्तृसंयोगात्, कर्तृसंयोगो भवति. मैत्रावरुणाय दण्डम् इति कर्तृदण्डसंयोगो भवति{*४/१८९*}, तस्मिंश् च दण्डो गुणभूतः, पुरुषः प्रधानभूतः. पुरुषं हि स प्रचरितुं समर्थं करोति. कथम्? यथा पूर्वं{*४/१९०*} तमो ऽवगाहते ऽपः सर्पति{*४/१९१*} गां च सर्पं च वारयति, अवलम्बनं च भवति. अतः पुरुषप्राधान्यान् न प्रतिपत्तिः. स्रग्वच् च द्रष्टव्यम्, यथा स्रजम् उद्गात्रे ददाति [४७९]{*४/१९२*} इत्य्{*४/१९३*} असत्य् अप्य् उपकारे पुरुषस्य प्रयोजनवत्त्वात्, निष्प्रयोजनत्वाच् च स्रजः, भवति पुरुषप्राधान्यम्, एवम् इहापि द्रष्टव्यम्. तस्मान् न प्रतिपत्तिर् इति. अथ यद् उक्तम् - द्वितीयाश्रवणाद् दण्डप्राधान्यम् इति. उच्यते, तथा युक्तं{*४/१९४*} चानीप्सितम् इति द्वितीया द्रष्टव्या. कुतः? मैत्रावरुणे चतुर्थीनिर्देशात्. संप्रदाने हि चतुर्थी भवति, संप्रदानं च कर्मणाभिप्रेयते. तत्र दण्डाद् अभिप्रेततरो मैत्रावरुण इति गम्यते.
SK
NOTES: *{४/१८९: E१,६ उन्द् E२ (Fन्.); E२ ओम्. कर्तृदण्डसंयोगो भवति}* *{४/१९०: E२: यथापूर्वं}* *{४/१९१: E२: प्रविशति}* *{४/१९२: E२: ५,५०; E६: २,२९}* *{४/१९३: Tऐत्. S. १.८.१८.१}* *{४/१९४: E२: तथायुक्तं}*
SK
कर्मयुक्ते च दर्शनात् // MS_४,२.१८ //
SK
दण्डी प्रैषान् अन्वाहेत्य् अनूद्यते, तेन प्रचरतो दण्डं प्रदर्शयति. तद् अर्थकरमणि सत्य् उपपद्यते. प्रतिपत्तौ तु दण्डो मैत्रावरुणाय दत्तस् ततो ऽपवृज्येत, कृतं च कर्तव्यम् इति न{*४/१९५*} तेन प्रयोजम् इति न धार्येत. तत्रैतद्दर्शनं नोपपद्यते, तथा, अहिस् त्वां दशतीति मैत्रावरुणं ब्रूयाद् अहिर् इव ह्य् एष इति, तथा{*४/१९६*}, मुशल्यन् वाहेति. मुशलशब्दश् च दण्डे प्रसिद्धः, यथा क्व नु खलु{*४/१९७*} मुशलिनो माणवका गङ्गां अवतरेयुर्{*४/१९८*} इति. तस्माद् अप्य् अर्थकर्म.
SK
NOTES: *{४/१९५: E२: ऽपवृज्येत. तत्कर्म कर्तव्यं च कृतम् इति न}* *{४/१९६: E२: इव येन द्रष्टव्य इति. तथा}* *{४/१९७: E२: कथं न खलु}* *{४/१९८: E२: नावतरेयुर्}*
SK
उत्पत्तौ येन संयुक्तं तदर्थं तच् छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् // MS_४,२.१९ //
SK
यद् उक्तम्, यथा कृष्णविषाणाप्रासनम् इति. तत्रोच्यते, युक्तं तत्रोत्पद्यमानं यत्, येन प्रयोजनेन संबद्धम् उत्पद्यते, [४८०]{*४/१९९*} तत् तदर्थम् एव न्याय्यम्. तस्यान्यत्र गमने प्रतिपत्तिर् इत्य् एतद् उपपद्यते, यदि न दृष्टं प्रयोजनं भवति. इह तु दृष्टं प्रयोजनं मैत्रावरुणस्य धारणए{*४/२००*}, तस्माद् विषमम् एतत्. अथवा - अधिकरणान्तरम्, विषाणायाः कण्डूयनं प्रासनं चोभयम् अपि प्रयोजकम् इति पूर्वः पक्षः, एकनिष्पत्तेः सर्वं समं स्याद् इति. उत्त्तरः पक्षः, कण्डूयने तृतीयानिर्देशाद् विषाणाया गुणभावः. प्रासने च द्वितीयानिर्देशात्, अन्यत्र च कृतार्थत्वात् प्राधान्यम् इति.
SK
NOTES: *{४/१९९: E२: ५,५१; E६: २,३०}* *{४/२००: E२: धारणम्}*
SK
सौमिके च कृतार्थत्वात् // MS_४,२.२० //
SK
अस्ति ज्योतिष्टोमे ऽवभृथः, वारुणेनैककपालेनावभृथम् अभ्यवपन्तीति{*४/२०१*}{*४/२०२*}. तत्राम्नायते, वरुणगृहीतं वैतद् यज्ञस्य यदृजीषं यद्ग्रावाण यदौन्दुवरी{*४/२०३*} यदभिषवणफलके, तस्माद् यत्किंचित् सोमलिप्तं द्रव्यं तेनावभृथं यन्तीति{*४/२०४*}. तत्र संशयः, किं सोमलिप्तानां द्रव्याणाम् अवभृथगमनं प्रतिपत्तिः, अथवार्थकर्मेति. किं तावत् प्राप्तम्? प्रतिपत्तिर् इति. कुतः? कृतार्थत्वात्, कृतार्थान्य् एतानि द्रव्याणि तत्र तत्र, तेषाम् अवभृथगमनं प्रतिपत्तिर् न्याय्या.
SK
NOTES: *{४/२०१: E२: अभ्यवयन्तीति}* *{४/२०२: Mऐत्. S. ४.८.५}* *{४/२०३: E२: यद् औदुम्बरी; E६: यदीन्दुवरी}* *{४/२०४: Mऐत्.S. ४.८.५}*
SK
अर्थकर्म वाभिधानसंयोगात् // MS_४,२.२१ //
SK
अर्थकर्म वा, अभिधानेन संयोगात्, तेनावभृथं यन्तीति. तेनावभृथसंज्ञकं निष्पादयन्तीति, तृतीया तेन [४८१] इति, द्वितीयावभृथम् इति. तस्मात् सोमलिप्तं गुणभूतम्, अवभृथः प्रधानभूत इति.
SK
प्रतिपत्तिर् वा तन् न्यायत्वाद् देशार्थावभृथश्रुतिः // MS_४,२.२२ //
SK
प्रतिपत्तिर् वा. कुतः? तन्न्यायत्वाद् एव. एष हि न्यायः, यद् अन्यत्र कृतार्थम् अन्यत्र प्रतिपाद्यते, तद् इह यदि सोमलिप्तं द्रव्यम् अवभृथे करणं विधीयते, ततो ऽर्थकर्म. अथ सोमलिप्तेन यानं विधीयते, ततः प्रतिपत्तिः. न ह्य् अत्र सोमलिप्तं विधीयते ऽवभृथे, तथा सत्य् अवभृथसोमलिप्तसंबन्धो ऽभ्यवयन्तीत्य् अनेनाख्यातेन विधीयेत. तत्र वाक्येन विधानं स्यात्, न तु श्रुत्या, याने ऽमुना विधीयमाने{*४/२०५*} श्रुत्या विधानम्. तत् परिगृहीतं भवति, श्रुतिश् च वाक्याद् बलीयसी, तस्मात् प्रतिपत्तिः. अथ यद् उक्तम्, अर्थकर्माभिधानेन संयोगाद् इति. तत्र ब्रूमः, एवं सति देशार्था अवभृथश्रुतिः, अवभृथं यन्तीति, अवभृथेन देशं लक्षयति, यस्मिन् देशे ऽवभृथः, तं देशं यन्तीति. तस्मात् प्रतिपत्तिर् इति.
SK
NOTES: *{४/२०५: E२: याने पुनर् विधीयमाने}*
SK
कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् // MS_४,२.२३ //
SK
इदं श्रूयते - पशुबन्धस्य यज्ञक्रतोः षड् ऋत्विजः{*४/२०६*}, दर्शपूर्णमासयोर् यज्ञक्रतोश् चत्वार ऋत्विजः{*४/२०७*}, चातुर्मास्यानां यज्ञक्रतूनां{*४/२०८*} पञ्च ऋत्विजः{*४/२०९*}, अग्निहोत्रस्य यज्ञक्रतोर् एक ऋत्विक्{*४/२१०*}, सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विजः{*४/२११*}, तथा, समे दर्शपूर्णमासाभ्यां यजेत, प्राचीनप्रवणे वैश्वदेवेन यजेत, पौर्णमास्यां पौर्णमास्या [४८२]{*४/२१२*} यजेत, अमावास्यायाम् अमावास्ययेति{*४/२१३*}. तत्र संदेहः, किं कर्तृदेशकाला विधीयन्ते, उतानूद्यन्त इति. किं तावत् प्राप्तम्? कर्तृदेशकालानाम् अचोदनम् अनुवादः{*४/२१४*}. कुतः? प्रयोगे नित्यसमवायात्, प्रयोगे नित्यसमवेता एत इति. न, ऋते कर्तृदेशकालेभ्यः, प्रयोगः सिध्यति, तेन प्रयोगचोदनयैव प्राप्तानाम् अनुवादः. ननु विषमादिप्रतिषेधार्थम् एतद् वचनं भविष्यति. नेति ब्रूमः, उपदेशकम् एवंजातीयकं वचनम्, न प्रतिषेधकम्. तस्माद् अनुवाद इति.
SK
NOTES: *{४/२०६: Tऐत्. Bर्. २.३.६.३}* *{४/२०७: Tऐत्. Bर्. २.३.६.२}* *{४/२०८: E२: यज्ञक्रतूनां}* *{४/२०९: Tऐत्. Bर्. २.३.६.२}* *{४/२१०: Tऐत्. Bर्. २.३.६.१}* *{४/२११: Tऐत्. Bर्. २.३.६.४}* *{४/२१२: E२: ५,५४; E६: २,३१}* *{४/२१३: E२: अमावास्यया यजेतेति}* *{४/२१४: E१ गिब्त् अनुवादः इन् Kलम्मेर्न्}*
SK
नियमार्था वा श्रुतिः // MS_४,२.२३ //
SK
उच्यते, न चैतद् अस्त्य् अनुवाद इति, अनुवादमात्रम् अनर्थकम्. यदि विधिः, एवम् अपूर्वम् अर्थं प्रकरिष्यति, तस्माद् विधिर् इति. ननु प्रयोगाङ्गत्वात् प्राप्त एवेति. उच्यते, नियमार्था श्रुतिर् भविष्यति. को ऽयं नियमः? अनियतस्य नियतता, प्रयोगाङ्गतया सर्वे देशाः प्राप्नुवन्ति, न तु समुच्चयेन. यदा समः, अन् तदा विषमः, यदा विषमः, न तदा समः. स एष समः प्राप्तश् चाप्राप्तश् च, यदा न प्राप्तः, स पक्षो विधिं प्रयोजयति. अतो विषमचिकीर्षायाम् अपि समो विधीयते. तस्माद् विषमस्याप्राप्तिर् विधौ सति भवतीति समो विधीयते. एवम् इतरेष्व् अपि, तस्माद् विधिर् इति.
SK
तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् // MS_४,२.२५ //
SK
अधिकरणप्रदेशो ऽयम्{*४/२१५*}. इदम् आममन्ति - वायव्यं श्वेतम् आलभेत भूतिकामः{*४/२१६*}. तथा, सोमारौद्रं घृते चरुं निर्वपेच् छुक्लानां व्रीहीणां ब्रह्मवर्चस्कामः{*४/२१७*}, तथा, नैरृतं चरुं निर्वपेत् कृष्णानां व्रीहीणाम् इति{*४/२१८*}. तत्र संदेहः, किं श्वेतादिवर्णो विधीयत उतानूद्यते, उतानूद्यत इति. किं प्राप्तम्? अनूद्यते, द्रव्यश्रुतिगृहीतत्वात्. विधिर् वा, पक्षे प्राप्तस्य नियमार्थ{*४/२१९*} इति. पक्षोक्तं प्रयोजनम् उभयोर् अप्य् अधिकरणयोः. NOTES: *{४/२१५: E२: अधिकरणातिदेशो ऽयम्}* *{४/२१६: Tऐत्. S. २.१.१.१}* *{४/२१७: Mऐत्. S. २.१.५}* *{४/२१८: Tऐत्.S. १.८.९.१}* *{४/२१९: E२: प्राप्तस्य वर्णस्य नियमार्थ}*
SK
संस्कारे च तत्प्रधानत्वात् // MS_४,२.२६ //
SK
अयम् अप्य् अधिकरणाप्रदेशः. दर्शपूर्णमासयोः श्रूयते - व्रीहीन् अवहन्ति, तण्डुलान् पिनष्टीति, तत् किम्, इमौ विधी, उतानुवादाव् इति. संशये ऽर्थप्राप्तत्वात्, अनुवादाव् इति प्राप्ते, नियमार्थत्वाद् विधी इति.
SK
यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् // MS_४,२.२७ //
SK
शेषविनियोग उक्तः, किं तत् प्रधानम्, यस्यैते शेषा इति. उच्यते, यजति ददाति जुहोतीत्य् एवंलक्षणम्. अथ किंलक्षणको यजतिजुहोतिर्{*४/२२०*} ददातिश् चेति. यजतिचोदना, तावद् द्रव्यदेवताक्रियम्, द्रव्यं देवता च, तस्य द्रवस्य क्रिया, यया{*४/२२१*} तयोः{*४/२२२*} संबन्धो भवति{*४/२२३*}. समुदाये, समुदितेष्व् एषु{*४/२२४*} यजतिशब्दो भवति. लोके, इष्टो ऽनेन पशुपतिर् इति. तेन मन्यामहे, द्रव्यदेवताक्रियस्यार्थस्य यजतिशब्देन प्रत्यायनं [४८४]{*४/२२५*} क्रियत इति. लक्षणकर्मणि प्रयोजनं न वक्तव्यम्, ज्ञानम् एवात्र प्रयोजनम् इति.
SK
NOTES: *{४/२२०: E२: यजतिर् जुहोतिर्}* *{४/२२१: E२: यथा}* *{४/२२२: E२: द्रव्यं देवताम् उद्दिश्य त्यज्यते, तस्य च क्रिया, यथा क्रियया तयोः}* *{४/२२३: E१ गिब्त् यया तयोः संबन्धो भवति इन् Kलम्मेर्न्}* *{४/२२४: E१ गिब्त् समुदितेष्व् एषु इन् Kलम्मेर्न्}* *{४/२२५: E२: ५,५६; E६: २,३३}*
SK
तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् // MS_४,२.२८ //
SK
अथ किंलक्षणको जुहोतिर् इति. तद् उक्ते यजत्य् उक्ते ऽर्थे{*४/२२६*} जुहोतिः श्रूयते, आसेचनाधिके. तस्माद् यजतिर् एवासेचनाधिको जुहोतिः, हुतम् अनेनेत्य् एवंजातीयके वक्तारो भवन्ति लोके. वेदे ऽपि यजतिचोदितं जुहोतिनानुवदति - संग्रामिणं चतुर्होत्रा याजयेत्, चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत, पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धम् इति. अथ ददातिः किंलक्षणक इति. आत्मनः स्वत्वव्यावृत्तिः परस्य स्वत्वेन संबन्धः. यजतिददातिजुहोतिषु सर्वेषूत्सर्गः समानः. तत्र यजतिर् देवताम् उद्दिश्योत्सर्गमात्रम्, जुहोतिर् आसेचनाधिकः, ददाति{*४/२२७*} उत्सर्गपूर्वकः परस्वत्वेन संबन्ध इत्य् एष एषां विशेष इति.
SK
[४८५]{*४/२२८*}
SK
NOTES: *{४/२२६: E१ गिब्त् यजत्य् उक्ते ऽर्थे इन् Kलम्मेर्न्}* *{४/२२७: E२,६: ददातिर्}* *{४/२२८: E२: ५,५६; E६: २,३३}*
SK
विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् // MS_४,२.२९ //
SK
ज्योतिष्टोमे श्रूयते - यद् आतिथ्यायां बर्हिः, तद् उपसदाम्, तद् अग्नीषोमीयस्येति. तत्र संदेहः, किं परद्रव्यस्योपदेशः, उत निरिष्टिकस्य{*४/२२९*}, अथवा धर्मविधिप्रदेशः, अथवा द्रव्यसाधारण्यम् इति. किं प्राप्तम्? परद्रव्यस्योपदेशः. कुतः? परद्रव्यस्योपदेशसदृशः शब्दः, यद् आतिथ्यायाम्, तद् उपसदाम् इति, यथा यो देवदत्तस्य गौः, स विष्णुमित्रस्य कर्तव्य इति देवदत्ताद् आच्छिद्य विष्णुमित्राय दीयत इति. अतः परद्रव्यस्योप्देश इति. न चैतद् अस्ति, तथा सत्य् आतिथ्यायां तस्य विधानं यत् पूर्वम्, तद् अनर्थकं स्यात्. एवं तर्हि निरिष्टिकस्योपदेशः{*४/२३०*}, तेनातिथ्यायां यद् विहितम्, आतिथ्यायां यद् उपात्तम् इति, तथा सत्य् अर्थवद् आतिथ्यायां तद् वचनम्. निरिष्टिकेन{*४/२३१*} तूपसदः कर्तव्या भवन्ति{*४/२३२*}. न चैष शिष्टानाम् आचारः. न च सर्वे चोदकप्राप्ता धर्मा भवेयुः, अतो ब्रूमः - विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात्. तद् बर्हिः परिसमाप्तायाम् आतिथ्यायाम् अपवृक्तम्, पूर्वं{*४/२३३*} तद् आतिथ्यायाः, उपसत्काले{*४/२३४*} आतिथ्यासंबन्धस् तस्य नास्ति. भूतपूर्वेणातिथ्यया कर्मणा लक्ष्येत. लक्षणा[४८६]{*४/२३५*}शब्दश् च न न्याय्यः. तस्माद् आतिथ्याबर्हिष आञ्जस्याभावाद् यद् धर्मकमातिथ्याबर्हिः, तद् धर्मकम् उपसदाम् अग्नीषोमीयस्य चेति न्याय्यम्.
SK
NOTES: *{४/२२९: E२: निरिष्टकस्य}* *{४/२३०: E२: निरिष्टकस्योपदेशः}* *{४/२३१: E२: निरिष्टकेन}* *{४/२३२: E२: भवन्तीति}* *{४/२३३: E२: अपवृक्तम् आसीत्, पूर्वं}* *{४/२३४: E२: आतिथ्यायाम् आसीत्, उपसत्काले}* *{४/२३५: E२: ५,५७; E६: २,३४}*
SK
अपि वोत्पत्तिसंयोगाद् अर्थसंबन्धो ऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् // MS_४,२.३० //
SK
अपि वेति पक्षो व्यावर्तते. उत्पत्तिसंयोग एवैषो ऽस्य बर्हिषः. यदि ह्य् उत्पन्नम् आतिथ्यायां बर्हिर् विशिष्टं स्यात्, तस्य धर्मा औपसदे बर्हिष्य् अतिदिश्येरन्, न तु तद् अस्ति केनचिद् वाक्येन. एवं{*४/२३६*} प्रकृत्य, बर्हिषो विशेषो वक्ष्यते. आश्ववालः प्रस्तरः, विधृती चैक्षव्याव् इति. तेन न परविहितं बर्हिर् उच्यते, न निरिष्टिकम्{*४/२३७*}, न कुतश्चिद् धर्मा प्रतिदिश्यन्ते. किं तर्हि? साधारणम् अमीषां बर्हिर् उच्यते, यद् आतिथ्यायां विधीयते, तद् एवोपसदाम्, अग्नीषोमीयस्य च विधीयत इति, अविशिष्टानां बर्हिषा संयोग एकेन सर्वेषाम्, यद् आदौ बर्हिर् लूयते, तल् लवनं सर्वेषाम् अर्थेन, साधारणो बर्हिषः प्रयोगः. एवं श्रुतिः शब्दस्य, परिगृहीता भविष्यति, इतरथा धर्मलक्षणा भवेत्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा. तस्मात् त्रयाणां साधारणं बर्हिर् इति, पक्षोक्तं प्रयोजनम्.
SK
[४८६]{*४/२३८*}
SK
NOTES: *{४/२३६: E२: वाक्येन. यदातिथ्यायाम् इत्य् एवं}* *{४/२३७: E२: निरिष्टकम्}* *{४/२३८: E२: ५,५९; E६: २,३४}*
SK
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् // MS_४,३.१ //
SK
यस्य खादिरः स्रुवो भवति, स छन्दसाम् एव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति. यस्य पर्णमयी जुहूर् भवति, न स पापं श्लोकं शृणोतीति. यस्याश्वत्थ्य् उपभृद् भवति, ब्रह्मणैवास्यान्नम् अवरुन्धे, यस्य वैकङ्कती ध्रुवा भवति, प्रत्य् एवास्याहुतयस् तिष्ठन्ति. अथो प्रैव जायते, यस्यैवंरूपाः स्रुवा{*४/२३९*} भवन्ति, सर्वाण्य् एवैनं रूपाणि पशूनाम् उपतिष्ठन्ते, नास्यापरूपम् आत्मन् जायत इति{*४/२४०*}. तथा ज्योतिष्टोमसंस्कारे{*४/२४१*} फलश्रुतिः, यदाङ्क्ते चक्षुर् एव भ्रातृव्यस्य वृङ्क्ते{*४/२४२*}, तथा, केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तति, स्नाति, मृता वा एषा त्वग् अमेध्यं वास्यैतद् आत्मनि शमलं तद् एवोपहते मेध्य एव मेधम् एवम् उपैति{*४/२४३*}. कर्मणि फलं श्रूयते, अभीषू वा एतौ यज्ञस्य यद् आधारौ, चक्षुषी वा एतौ यज्ञस्य यद् आज्यभागौ{*४/२४४*}, यत् प्रयाजानुयाजा इज्यन्ते, वर्म वा एतद् यज्ञस्य क्रियते, वर्म यजमानस्य भार्तृव्यस्याभिभूत्यै, इति{*४/२४५*}. अत्र संदेहः, किम् इमे फलविधयः, उतार्थवादा इति. किं प्राप्तम्? फलविधयः, प्रवृत्तिविशेषकरत्वात् फल[४८८]{*४/२४६*}विधेः, यथा खादिरं वीर्यकामस्य यूपं कूर्यात्, पालाशं ब्रह्मवर्चस्कामस्य, बैल्वम् अन्नाद्यकामस्येति{*४/२४७*}. यथैते फलविधयः, एवम् इहापि द्रष्टव्यम्. एवं प्राप्ते ब्रूमः. फलार्थवादा इति. कुतः? परार्थत्वात्, क्रत्वर्थान्य् एतानि. जुहूः प्रदाने गुणभूताः, उपभृद् उपधारणे, स्रुवा{*४/२४८*} आज्यधारणे, अञ्जनवपनादि च यजमाने, आघाराव् आज्यभागौ प्रयाजानुयाजाश् चाग्नेयादिषु. यदि फले ऽपि गुणभावः स्यात्, अन्यत्रोपदिष्टानाम् अन्यत्र पुनर् गुणभाव उपदिष्ट इति प्रतिज्ञायेत. न चैतन् न्याय्यम्, परार्थता हि गुणभावः, क्रत्वर्था चैषां शब्देन, जुह्वा जुहोति जुह्वा होमम् अभिनिर्वर्तयतीति{*४/२४९*}, एवं सर्वत्र. तस्मान् नैते पुरुषार्थाः.
SK
NOTES: *{४/२३९: E२: स्रुचो}* *{४/२४०: Tऐत्. S. ३.५.७.३}* *{४/२४१: E२: ज्योतिष्टोमे संस्कारे}* *{४/२४२: Tऐत्.S. ६.१.१.२}* *{४/२४३: Tऐत्.S. ६.१.१.२}* *{४/२४४: Tऐत्. S. २.६.२.१}* *{४/२४५: Tऐत्. S. २.६.१.५}* *{४/२४६: E२: ५,५९; E६: २,३५}* *{४/२४७: Aइत्.Bर्. २.१}* *{४/२४८: E२: ध्रुवा}* *{४/२४९: E२ गिब्त् जुह्वा होमम् अभिनिर्वर्तयति इन् Kलम्मेर्न्}*
SK
उत्पत्तेश् चातत्प्रधानत्वात् // MS_४,३.२ //
SK
अथोच्येत - पुरुषम् अपि प्रति गुणभाव उपदिष्टः, यस्य पर्णमयी जुहूर् भवति न स पापं श्लोकं शृणोतीत्येवमादिभिर् वाक्यैर् इति. तच् च न. कस्मात्? उत्पत्तेर् अतत्प्रधानत्वात्, तत्र{*४/२५०*}, पालाश्या जुह्वापापश्लोकश्रवणं{*४/२५१*} क्रियत इति न{*४/२५२*} कश्चिच् छब्द आह, एतावच् छ्रूयते, यस्यासौ भवति, न स पापं श्लोकं शृणोतीति, एतावद् अत्र शब्देन गम्यते, यस्यैवंलक्षणा{*४/२५३*} जुहूः, तस्यापापश्लोकश्रवणम् इति. तत्र जुह्वा तत् क्रियते, जुहूर् वा तदर्थेति, नैतच् छब्द आह. नन्व् अनुमानाद् एतद् गम्यते, ध्रुवं पालाश्या जुह्वा तत् क्रियते, यतस् तस्यां सत्यां तद् भवतीति. अत्रोच्यते, न, एवंजातीयकं कार्यकारणत्वे ऽनुमानं भवति, कार्यकारणसंबन्धो नाम स भवति, यस्मिन् सति यद् भवति, यस्मिंश् चासति यन् न भवति, तत्रैव कार्यकारणसंबन्धः. इह तु तद्भावे [४८९]{*४/२५४*} भावो ज्ञातः, नाभावे ऽभावः. यस्य पालाशी न भवति तस्यापापश्लोकश्रवणं नास्तीति, न, एवंजातीयकः शब्दो ऽस्ति, तेन न, नियोगतो ऽवगम्यते, तेनेदं क्रियत इति, लक्षणम् एतत् पुरुषस्य गम्यते, तस्मान् नानुमानम्. अपि च, यस्यापि जुहूः पालाशी भवति, तस्यापि पापश्लोकश्रवणं भवति. कथम् अवगम्यते? प्रत्यक्षतः. नन्व् एवं सत्य् अग्निहोत्रेणापि फलं न साध्येत. न{*४/२५५*} हुतामात्रेण फलं दृश्यत इति. नैष दोषः, न हि तत्रोच्यते, तावतैव फलं भवतीति. इह तु वर्तमानायां जुहूसत्तायां वर्तमानस्य पापश्लोकश्रवणस्य प्रतिषेधः. तस्मान् न तत्रानुमानम्, इदं कार्यम्, इदं कारणम् इति. अग्निहोत्रादिषु तु शब्देनैव कार्यकारणसंबन्ध उच्यते. तस्मात् तत्र तत्काले ऽदृश्यमाने ऽपि फले, कालान्तरे फलं भविष्यतीति गम्यते, न त्व् एवंजातीयकेषु, तस्मान् नैवंजातीयकेभ्यः फलम् अस्तीति. ननु यस्य पालाशी जुहूर् भवति, न स पापं श्लोकं शृणोतीत्य् एवम् उक्ते तत् एव तत् फलं भवतीति गम्यते, तस्माद् इहापि कालान्तरे फलं भविष्यतीति. उच्यते, सत्यं गम्यते, प्रमाणं तत्र किम् इति विचारयामः. न तावत् प्रत्यक्षम्, नानुमानम्, नेतरद् दृष्टविषयम् उपमानादि, नो खल्व् अपि शब्द इत्य् एतद् उक्तम्, वाक्यार्थो ऽपि पदार्थोपजनितो भवति, नान्यथा, तद् उक्तम् - तद्भूतानाम् क्रियार्थेन समाम्नाय इति{*४/२५६*}{*४/२५७*}. तस्माद् अप्रमाणमूलत्वान् मिथ्याविज्ञानम् एतत्. लौकिकेषु तु वाक्येष्व् अथैवं{*४/२५८*} गम्यते, तानि हि विज्ञाते ऽर्थे प्रयुज्यमानान्य् अध्याहार्यपदानि गौणानि विपरिणतव्यवहितार्थानि च प्रयुज्यन्ते. तस्मात् तत्सादृश्याद् वचनावगम्येष्व् अप्य् अर्थेषु भवति तत्त्वरूपो मिथ्याप्रत्ययः, यथा मृगतृष्णादिषु. [४९०]{*४/२५९*} अपि च, वर्तमानापदेशो ऽयम्, न च, अयम् अर्थो वर्तमानः, तस्मान् न खादिरस्रुवादिसद्भावे तत्फलं भवेत्. तद् एवम् आपतति, खादिरादौ सति भवति तत्फलं नापि भवति, असत्य् अपि भवति वा न वेति. नैवं विज्ञायते, कुतस् तत्फलम् इति. तस्माद् एवंजातीयकेषूच्चरितेषु न क्वचित् प्रवृत्तिर् न कुतश्चिन् निवृत्तिर् इत्य् आनर्थक्यम् अक्रियार्थत्वात्. अर्थवादे तु सति भवति प्रयोजनं खदिरादेः, स्रुवादिषु कर्मार्थेषु प्रयोजनवत्सु. यद्य् एषां क्रतुं प्रति प्रयोजनवत्ता न स्यात्, तत एतद् एव फलं कस्याचिच् छब्दवृत्त्या भवेद् वा न वेति विचार्येत. सति तु पारार्थ्ये नैव काचिच् छब्दप्रवृत्तिर् आश्रयितुं शक्यते. कैमर्थ्ये हि सा कल्प्येत. तस्माद् एवंजातीयका अर्थवादाः, अर्थवादत्वे चावर्तमाने लक्षणया वर्तमानशब्दः प्रशंसार्थ उपपत्स्यते.
SK
NOTES: *{४/२५०: E२: न तत्र}* *{४/२५१: E२: पर्णमय्या जुह्वापापश्लोकश्रवणं}* *{४/२५२: E२ ओम्. न}* *{४/२५३: E२: तस्यैवंलक्षणा}* *{४/२५४: E२: ५,६१; E६: २,३६}* *{४/२५५: E२ ओम्. न}* *{४/२५६: E२: समाम्नायो ऽर्थस्य तन्निमितत्वाद् इति}* *{४/२५७: MS १.१.२५}* *{४/२५८: E२ ओम्. अथ}* *{४/२५९: E२: ५,६१; E६: २,३६}*
SK
फलं तु तत्प्रधानायाम् // MS_४,३.३ //
SK
अथ यद् उक्तम्, यथा, खादिरं वीर्यकामस्य यूपं कुर्यात्, बैल्वम् अन्नाद्यकामस्य पालाशं ब्रह्मवर्चसकामस्येति, युक्तं तेषु, विधिविभक्तिः कुर्याद् इति वीर्यखादिरसंबन्धस्य विधात्री, न च वर्तमानापदेशिनी. तस्मात् तत्राविरोध इति. एवं हि पदवाक्यार्थन्यायविदः श्लोकम् आमनन्ति - कुर्यात्, क्रियेत, कर्तव्यम्, भवेत्, स्याद् इति पञ्चमम्/ एतत् स्यात् सर्ववेदेषु नियतं विधिलक्षणम्//इति.
SK
विधिविभक्तिं हि विधायिकां लिङ्गं मन्यमानाः श्लोकम् इमं समामनन्ति{*४/२६०*}. अस्ति चात्र विधिविभक्तिः. तस्माद् अनुपवर्णनम् एतद् इति.
SK
[४९१]{*४/२६१*}
SK
NOTES: *{४/२६०: E२: मन्यमानास् त एवं समामनन्ति}* *{४/२६१: E२: ५,६३; E६: २,३७}*
SK
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् // MS_४,३.४ //
SK
अस्ति ज्योतिष्टोमे नैमित्तिकम्, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुर् अश्मां{*४/२६२*} राजन्यस्य, रायोवाजीयं वैश्यस्येति, तथाग्नौ नैमित्तिकम्, साहस्रं प्रथमं चिन्वानश् चिन्वीत, द्विसाहस्रं द्वितीयम्, त्रिसाहस्रं तृतीयम् इति{*४/२६३*}, तथा दर्शपूर्णमासयोः श्रूयते, गोदोहनेन पशुकामस्य प्रणयेत्, कांस्येन ब्रह्मवर्चसकामस्य, मार्तिकेन प्रतिष्ठाकामस्येत्य् एतानि नैमित्तिकानि. तेषु संदेहः, किम् एतान्य् एव नैमित्तिकानि नित्यार्थे, उतान्यत् तत्र तत्र{*४/२६४*} नित्यार्थ इति. किं प्राप्तम् एतान्य् एवेति. कुतः? अत्र ब्रह्मसामादिभिर् अवश्यं भवितव्यम्, चोदितानि हि तानि, संनिहितानि साधनान्य् आकाङ्क्षन्ति. न च, एषां सन्ति विहितानि साधनानि, समीपतश् च नैमित्तिकान्य् उपनिपतन्ति, तैः प्रकृतैः संनिहितैर् एतानि निराकाङ्क्षीक्रियन्त इत्य् एतन् न्याय्यम्. कथम्? नैमित्तिकं हि संनिहितम्, वाक्याद् अवगम्यते नान्यच् छ्रूयते, यावांश् च श्रुतस्योत्सर्गे दोषः, तावान् एवाश्रुतकल्पनायाम्. आह, ननु निमित्तार्थानि तानि प्रकृतानि. उच्यते, नैष दोषः, अन्यार्थम् अपि प्रकृतम् अन्येन संबध्यते, यथा, शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश् च पानीयं पीयते, उपस्पृश्यते च. एवम् इहापि द्रष्टव्यम्. अथवा, अस्त्य् एवात्रावान्तरवाक्यम्, यथा, गोदोहनेन प्रणयेद् इति, तद् अकामसंबद्धं गोदोहनेन प्रणयनं प्रापयति. न च शक्यं श्रुतम् उत्स्रष्टुम्. यो ऽप्य् अयम्, [४९२]{*४/२६५*} पशुकामस्येति शब्दः, स पशुकामसंबन्धं शक्नुयात् कर्तुम्, नावान्तरवाक्यस्यार्थं निवारयितुम्, न च गम्यमानम्, विना कारणेन, अविवक्षितम् इति शक्यं वदितुम्. भवन्ति च द्विष्ठानि{*४/२६६*} वाक्यानि, यथा, श्वेतो धावति, अलम्बुसानां यातेति. तस्मान् नैमित्तिकान्य् एव नित्यार्थे भवितुम् अर्हन्तीति. एवं प्राप्ते ब्रूमः, नैमित्तिके श्रूयमाणे क्रत्वर्थम् अन्यत् स्याद् इति. कुतः? विकारत्वाद् विशेषे श्रुतत्वाद् इत्य् अर्थः{*४/२६७*}. विशेषे हि तत्र नैमित्तिकं श्रूयते, तद् असति तस्मिन् विशेषे न भवितुम् अर्हति. यद् उक्तम्, अवश्यकर्तव्यानीति. नैष दोषः, अवश्यं कर्तव्यत्वात् करिष्यन्ते. यत् तु नान्यद् एषां विहितं साधनम् इति, सामान्यविहितं भविष्यतीति न दोषः. किं तत्? अभीवर्तो ब्रह्मसाम, अष्टादशमन्त्रगतो ऽग्निः, वारणं प्रणयनपात्रम्. अथ यद् उक्तम्, संनिहितैः प्रकृतैर् नैमित्तिकैर् ब्रह्मसामादीनि संभत्स्यन्त इति. नेति ब्रूमः, न हि बार्हद्गिरादीनां प्रकरणम्. अथोच्येत, प्रकृतैः स्तोत्रादिभिः संबध्यन्त इति, एतद् अपि नोपपद्यते. यद्य् अपि प्रकृतानि नित्यानि स्तोत्रादीनि, तथापि वाक्येन निमित्तसंयोगे श्रूयन्ते बार्हद्गिरादीनि, वाक्यं च प्रकरणाद् बलीयः. यद् उक्तम्, संनिधानाद् वाक्याद् अवगतो ऽयम् अर्थ इति. न, एवंजातीयको वाक्यार्थः सामान्यं पदार्थं{*४/२६८*} बाधितुम् अर्हति. निमित्तसंयोगे हि बार्हद्गिरादीनाम् अर्थवत्ता. तस्मात् तत्र तत्रान्यन् नैमित्तिकाद् इति. अथ यद् उक्तम्, अवान्तरवाक्येन गोदोहनम् अपि प्रापितं न शक्यम् उत्स्रष्टुम्, ऋते कारणात्, अविवक्षितं कल्पयितुम्{*४/२६९*}, [४९३]{*४/२७०*} द्विष्ठं हि तद् भवतीति. उच्यते, कारणाद् अविवक्षितम्. किं कारणम्? न हि, इदं युगपद् भवति, परिपूर्णेन चार्थाभिधानम् अवान्तरवाक्येन चेति. कथम्? प्रणयतीति प्रपूर्वे नयतौ विधिविभक्तिः स्वपदगतम् अर्थं श्रुत्या विदधाति, प्रणयनादिसंबद्धम् अपि गोदोहनादि श्रुत्या, वाक्येन च. वस्तु फलस्य गोदोहनादेश् च संबन्धः. स हित्वा श्रुत्यर्थम्, केवलेन वाक्येन. अथ प्रणयनस्य गोदोहनादिसंबन्धम्, गोदोहनादेश् च फलेन संबन्धं वदतीत्य् उच्यते. न{*४/२७१*}, द्व्यर्थाभिधानाद् भिद्येत नितरां वाक्यम्, न चैतन् न्याय्यम्. यत् तु, श्वेतो धावतीत्येवमादि, भवेत् तत्र विशेषानवगमाद् उभयार्थावगतिः. इह तु गम्यते विशेषः कमिपदोच्चारणम्, स इह श्रौतो ऽर्थः. मन्येत, यदि गोदोहनादेः क्रियासंबन्धो विवक्ष्यते, कमिपदं प्रमादो भवेत्. न चायं प्रमादः, नैवावान्तरवाक्यार्थे विवक्षिते कमिपदसंबन्धो ऽवकल्पते. तस्मान् न द्विष्ठं वाक्यम्, गोदोहनादिकमिसंबन्ध एवात्राभिधीयते, न नित्यकार्ये भवितुम् अर्हतीति, एवं सर्वत्र.
SK
NOTES: *{४/२६२: E२: अश्मं; E१ (Fन्.): अस्यम्}* *{४/२६३: Tऐत्.S. ५.६.८.२}* *{४/२६४: E२ ओम्. तत्र}* *{४/२६५: E२: ५,६४; E६: २,३८}* *{४/२६६: E१ (Fन्.): द्विविधानि}* *{४/२६७: E१ गिब्त् विशेषे श्रुतत्वाद् इत्य् अर्थः इन् Kलम्मेर्न्}* *{४/२६८: E२: सामान्यपदार्थं}* *{४/२६९: E१ गिब्त् अविवक्षितं कल्पयितुम् इन् Kलम्मेर्न्}* *{४/२७०: E२: ५,६४; E६: २,३८}* *{४/२७१: E२: तन् न}*
SK
एकस्य तूभयत्वे संयोगपृथक्त्वम् // MS_४,३.५ //
SK
अग्निहोत्रे श्रूयते, दध्ना जुहोतीति, पुनश् च, दध्नेन्द्रियकामस्य जुहुयाद् इति. तथाग्नीषोमीये पशाव् आम्नायते, खादिरे बध्नातीति, पुनश् च, खादिरं वीर्यकामस्य यूपं कुर्याद् इति. तत्र संदेहः, किम् अत्राप्य् अन्यन् नित्यार्थम्, [४९४]{*४/२७२*} उत नैमित्तिकम् एवेति. किं प्राप्तम्? पूर्वेण न्यायेनान्यद् इति. एवं प्राप्ते ब्रूमः - एकस्योभयत्वे नित्यत्वे नैमित्तिकत्वे च{*४/२७३*} संयोगपृथक्त्वं कारणम्. तद् इह संयोगपृथक्त्वम् अस्ति, एकः संयोगो दध्ना जुहोतीति, एको दध्नेन्द्रियकामस्येति, तथैकः, खादिरे बध्नातीति, अपरः, खादिरं वीर्यकामस्येति. तस्मान् नित्यार्थे कामाय च दधिखादिरादीति.
SK
NOTES: *{४/२७२: E२: ५,६५; E६: २,३९}* *{४/२७३: E१ गिब्त् नित्यत्वे नैमित्तिकत्वे च इन् Kलम्मेर्न्}*
SK
शेष इति चेत् // MS_४,३.६ //
SK
इति चेत् पश्यसि, कस्मान् न पूर्वस्यायम् अपि शेषो भवति? यद् एतद् उक्तम्, दध्ना जुहोति, खादिरे बध्नातीति, तस्यैव तु दध्नः फलम् इन्द्रियम्, तथा खादिरस्य वीर्यम्. तच् चेदं चैकं वाक्यम् इति.
SK
नार्थपृथक्त्वात् // MS_४,३.७ //
SK
नैतद् एवम्, पृथग् एताव् अर्थौ, यश् च दधिहोमसंयोगः, यश् च दधीन्द्रियसंयोगः, तथा खादिरस्य बध्नातिना संयोगो वीर्येण च. द्वाव् एताव् अर्थौ, द्वाव् अपि च विधित्सितौ, अर्थैकत्वाच् चैकं वाक्यं समधिगतम्. इहार्थद्वयेन भिद्येत वाक्यम्. कथम्? जुहोतिसमभि[४९५]{*४/२७४*}व्याहृता विधिविभक्तिः, असंभवे श्रौतस्य होमविधानस्य{*४/२७५*}, गुणं समभिव्याहृतं विधातुम् अर्हति, तद् असंभवे गुणफलसंबन्धम्. तत्र ह्य् अत्यन्ताय श्रुतिर् उत्सृष्टा वाक्यानुरोधेन स्यात्, न च युगपत् संभवासंभवौ संभवतः. तस्माद् यद् एव नैमित्तिकं तद् एव नित्यार्थम् इति.
SK
NOTES: *{४/२७४: E२: ५,६६; E६: २,३९}* *{४/२७५: E२: श्रौतहोमविधानस्य}*
SK
द्रव्याणां तु क्रियार्थानाम् संस्कारः क्रतुधर्मः स्यात् // MS_४,३.८ //
SK
ज्योतिष्टोमे समामनन्ति - पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति{*४/२७६*}. तत्र संदेहः, किम् अयं पुरुषधर्मः, उत क्रतोर् इति. प्रकरणं बाधित्वा वाक्येन विनियुक्तः पुरुषस्येति. एवं प्राप्ते ब्रूमः, पुरुषाणां क्रियार्थानां शरीरधारणार्थो बलकरणार्थश् चायं संस्कारो व्रतं नाम, स क्रतुधर्मो भवितुम् अर्हति, प्रकरणानुग्रहाय. ननु वाक्यात् पुरुषधर्म इति. नेति ब्रूमः, तथा सति फलं कल्प्यम्, कॣप्तम् इतरत्र. प्रयोगवचनेनोपसंहृतं हि तत्प्रधानस्य. तस्मात् क्रतुधर्मः.
SK
NOTES: *{४/२७६: Tऐत्.S. ६.२.५.२-३}*
SK
पृथक्त्वाद् व्यवतिष्ठेत{*४/२७७*} // MS_४,३.९ //
SK
अथ पुरुषसंयोगः किम् अर्थः? व्यवस्थापनार्थ इति ब्रूमः, पयोव्रतं ज्योतिष्टोमस्य भवति, तत् तु ब्राह्मणकर्तृकस्यैव, नान्यकर्तृकस्येति. एवं सर्वत्र.
SK
[४९६]{*४/२७८*}
SK
NOTES: *{४/२७७: E२: व्यवतिष्ठेत्}* *{४/२७८: E२: ५,६७; E६: २,४०}*
SK
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते // MS_४,३.१० //
SK
इदम् आमनन्ति, तस्मात् पितृभ्यः पूर्वेद्युः करोतीति{*४/२७९*}, तथा, सर्वेभ्यो वा एष देवेभ्यः सर्वेभ्यश् छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानम् आगुरते, यः सत्रायागुरते, स विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेतेत्य्{*४/२८०*} एवंलक्षणके श्रुते, भवति संदेहः, किं निष्फलम् एतत् कर्ममात्रम्, उत सफलम् इति. किं प्राप्तम्? निष्फलम् इति. कुतः? फलाश्रुतेः, शब्दप्रमाणके कर्मण्य् एवंजातीयके. न ह्य् अशब्दं प्रतीयते. ननु वैदिकानि कर्माणि फलवन्ति भवन्तीत्य् एवम् उक्तम्. उच्यते, फलदर्शनात् तानि फलवन्तीत्य् उक्तम्, न वैदिकत्वात्. एवं तर्हि कर्तव्यतावगमात् फलवन्तीत्य् अध्यवस्यामः, सुखफलं हि कर्तव्यं भवतीति. उच्यते, प्रत्यक्षविरुद्धम् एवंजातियकस्य कर्तव्यत्वम्, साक्षाद् धि तद् दुःखफलम् अगच्छामः. न चैवंजातीयकं प्रत्यक्षविरुद्धं वचनं प्रमाणं भवति, यथाम्बुनि मज्जन्त्य् अलाबूनि, शिलाः प्लवन्ते, पावकः शीत इति. अपि च, अनुमानाद् अत्र सुखफलता, यस्मात् कर्तव्यम् अतः सुखफलम् इति, प्रत्यक्षं चानुमानाद् बलीयः. तस्मान् निष्फलम् एवंजातीयकम् इति. एवं ह्य् अत्र फलं कल्प्येत, यद्य् एतत् फलवत्, एवम् उपदेशो ऽर्थवान् भवतीति. उच्यते, कामं वाक्यम् अनर्थकम् इति न्याय्यं वचनं भवेत्, भवन्ति ह्य् अनर्थकान्य् अपि वचनानि, [४९७]{*४/२८१*} दश दाडिमानि, षडपूया{*४/२८२*} इत्य् एवंजातीयकानि. ननु विश्वजिद्व्यापारः सुखफल इति. उत्तरम्{*४/२८३*}, सुखफलं हि भवत्य् अपूर्वम्, न व्यापारः, न चायम् अपूर्वस्य कर्तव्यताम् आह, फलकर्तव्यतायां हि सत्यां तद् अवगम्यते, वाक्यार्थश् च फलस्य कर्तव्यताम् आह, न पदार्थः. न चात्र फलसंबद्धं वाक्यम् अस्ति. तस्मान् नायम् अपूर्वस्य विधायकः शब्दः, व्यापारमात्रम् एव{*४/२८४*} विदधाति, स च व्यापारो न तदात्वे सुखफलः, नाप्य् आयत्याम्, भङ्गित्वात्. तत्रापूर्वं कल्पयित्वा फलम् अवगम्येत, फलं च कल्पयित्वापूर्वम्. एवम् इतरेतराश्रयं भवति, इतरेतराश्रयाणि च न{*४/२८५*} प्रकल्पन्ते. तस्मान् निष्फलम् एवंजातीयकम् इति. आह, अध्याहरिष्यामहे फलवचनम्{*४/२८६*}. उच्यते, न शक्यं परिपूर्णे वाक्ये ऽध्याहर्तुम्, परिपूर्णं हीदं वाक्यम्, विश्वजिद्यागः कर्तव्य इति. न, किंचित् पदम् अस्ति साकाङ्क्षम्, येनाध्याहृत्य फलं संबध्येत, यथाक्षेमे ऽपि पथि{*४/२८७*}, भवति विप्रलम्भकोपदेशः{*४/२८८*}, क्षेमो ऽयम्, यथा गच्छतु भवान् अनेनेति. परिपूर्णम् एवेदं वाक्यम्, नाध्याहारम् अर्हति विप्रलम्भककर्तृकम्{*४/२८९*}, एवम् इदम् अपि परिपूर्णं वाक्यं नाध्याहारम् अर्हति. अपि च, अध्याह्रियमाणेनैवेदं वाक्यं संबध्येत, विश्वजिद्यागः कर्तव्यः, इदं च फलं भवतीति, द्वाव् इमाव् अर्थौ, एकार्थं च वाक्यं समधिगतम्. तस्माद् अनर्थकम् एवंजातीयकं कर्मेति.
SK
[४९८]{*४/२९०*}
SK
NOTES: *{४/२७९: Tऐत्.S. २.५.३.६}* *{४/२८०: Tऐत्.Bर्. १.४.७.७}* *{४/२८१: E२: ५,६८; E६: २,४१}* *{४/२८२: E२,६: षडपूपा}* *{४/२८३: E२ ओम्. उत्तरम्}* *{४/२८४: E१ (Fन्.): यागमात्रम् एष}* *{४/२८५: E२: च कार्याणि न}* *{४/२८६: E१ (Fन्.): फलम्}* *{४/२८७: E१ (Fन्.): क्षेमो ऽयं पन्था}* *{४/२८८: E२: विप्रलम्भकापदेशः}* *{४/२८९: E२: विप्रलम्भकत्वे ऽपि; E२ (Fन्.): विप्रलम्भककर्तृकम्}* *{४/२९०: E२: ५,६९; E६: २,४१}*
SK
अपि वाम्नानसामर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थवत्त्वेन वचनानि प्रतीयन्ते ऽर्थतो ह्य् असमार्थानाम् आनन्तर्ये ऽप्य् असंबन्धस् तस्माच् छ्रुत्येकदेशः सः // MS_४,३.११ //
SK
अपि वेति पक्षव्यावृत्तिः. न चैतद् अस्ति, अफलम् इति, फलचोदना, अर्थेन गम्येत. कतमेनार्थेन? कर्तव्यतावचनेन. आह, ननु व्यापारस्य प्रत्यक्षविरुद्धा कर्तव्यता. न व्यापारस्योच्यते. कस्य तर्हि? व्यापारेणान्यस्य कस्यचिद् इति, भवति तेनेदानीं वाक्यं साकाङ्क्षम्. तत्राध्याहारो ऽवकल्पते, भवति चाध्याहारेणापि कल्पना, यथा द्वारं द्वारम् इत्य् उक्ते, संव्रियताम् अपाव्रियताम् इति{*४/२९१*}. कथं पुनर् अवगम्यते, इहाध्याहारेण कल्पयितव्यम् इति. आम्नानसामर्थ्यात्, एवम् इदम् आम्नानम् अर्थवद् भविष्यति, शक्नोति चार्थम् अवगमयितुम्. तस्मान् नानर्थकम्. ननु यत् पदम् अध्याह्रियते, तत् पौरुषेयम्, तेनावगतं चाप्रमाणम्. उच्यते, नापूर्वम् अध्याहरिष्यामः, वैदिकेनैवास्य, सहान्यत्र समाम्नातेन, एकवाक्यताम् अध्यवसामः. आह, नैवं शक्यम्, अन्तिकाद् उपनिपतितं हि पदम्{*४/२९२*}, वाक्यार्थम् उपजनयितुम् अलं भवति, न दूराद् अवतिष्ठमानम्. अत्रोच्यते, व्यवहितम् अपि हि, पराणुद्य व्यवधायकम्, आनन्तर्येण मनसि विपरिवर्तमानम् अलम् एव भवति विशेषम् उपजनयितुम्. यथा - इतः पश्यसि धावन्तं दूरे जातं वनस्पतिम्/ त्वां ब्रवीमि विशालाक्षि या पिनक्षि जरद् गवम्// [४९९]{*४/२९३*} इति, इतः{*४/२९४*} पश्यसीति शब्दो बुद्धौ भवति, सः दूरे जातं वनस्पतिम्{*४/२९५*}, एतैः पदैर् व्यवहितेन जरद् गवम् इत्य् अनेन शब्देन व्यवधायकान्य् अपोद्य संबध्यमानः संबध्यते, अर्थानां ह्य् अर्थवत्त्वेन हेतुना व्यवहितान्य् अपि वचनानि संबध्यन्ते. यानि पुनर् अर्थतो ह्य् असमर्थानि, तान्य् आनन्तर्ये ऽपि सति न परस्परेण संबन्धम् अर्हन्ति, यथा या पिनक्षि जरद् गवम् इत्येवमादीनि. तस्मान् न पौरुषेयता भविष्यति. आह, नन्व् अत्राप्य् अपेक्षा पौरुषेयी. उच्यते, नापेक्षा वेदे, वेदार्थप्रतिपत्ताव् अभ्युपाय एष भवति, अननतरापेक्षायाम् असंभवन्त्याम् आम्नानसामर्थ्याद् इतरापेक्षावृत्तिर् आश्रीयते. तस्माच् छ्रुत्य् एकदेशः सः, फलकामपदं दूरे ऽपि सत् तस्य वाक्यस्यैकदेशभूतम् इत्य् अर्थः{*४/२९६*}.
SK
NOTES: *{४/२९१: E२: इति वा}* *{४/२९२: E२ ओम्. पदम्}* *{४/२९३: E२: ५,७०; E६: २,४२}* *{४/२९४: E२: अत्र, इतः}* *{४/२९५: E२: वनस्पतिम् इति}* *{४/२९६: E१ गिब्त् फलकामपदं दूरे ऽपि सत् तस्य वाक्यस्यैकदेशभूतम् इत्य् अर्थः इन् Kलम्मेर्न्}*
SK
वाक्यार्थश् च गुणार्थवत् // MS_४,३.१२ //
SK
इन्द्राय राज्ञे शूकर{*४/२९७*} इति{*४/२९८*} यथा वाक्यान्तरस्थेन विधिशब्देन गुणविधानं भवति, एवं फलविधानम् अपि भवितुम् अर्हतीति, यथा वरुणो वैतम् अग्रे प्रत्यगृह्णाद् इति{*४/२९९*} व्यवधारणकल्पना. एवम्{*४/३००*} इदम् अपि द्रष्टव्यम्.
SK
NOTES: *{४/२९७: E२: सूकर}* *{४/२९८: Tऐत्.S. ५.५.११.१}* *{४/२९९: E२: वैतं गृह्णातीति}* *{४/३००: E२: व्यवधारणकल्पनायाम् अपि प्रामाण्यम्. एवम्}*
SK
तत् सर्वार्थम् अनादेशात् // MS_४,३.१३ //
SK
तस्मात् पितृभ्यः पूर्वेद्युः करोतीति{*४/३०१*}. विश्वजिता यजेतेति फलवद् एवंविधं कर्मेत्य् एतत् समधिगतम्. इदं तु संदिह्यते, किं सर्वफलम् एतत् कर्म, उतैकफलम् इति. किं प्राप्तम्? तत् सर्वार्थम् इति. कुतः? अनादेशात्, [५००]{*४/३०२*} न किंचिद् इहातिदिश्यते, इदं नाम फलम् इति. अस्ति चेत्, विज्ञायेत. तस्मात् सर्वार्थम् अविशेषात्.
SK
NOTES: *{४/३०१: Tऐत्.S. २.५.३.६}* *{४/३०२: E२: ५,७१; E६: २,४३}*
SK
एकं वा चोदनैकत्वात् // MS_४,३.१४ //
SK
एकं फलं{*४/३०३*} स्यात्, न वा सर्वार्थम्. कुतः? चोदनैकत्वात्, सकाङ्क्षत्वाद् एतद् अर्थिपदेन संबध्यत इत्य् उक्तम्, यच् चानेकेनापि संबद्धुं शक्नोति, तद् एकेन संबध्यते, एकेन संबद्धं सन् निराकाङ्क्षं भवति, न तद् अपरेणापि संबन्धम् अर्हति. तस्माद् एकैव कर्तव्यताचोदना{*४/३०४*} न्याय्या, तस्माद् एकफलतेति.
SK
NOTES: *{४/३०३: E२,६: एकफलं}* *{४/३०४: E२: कर्तव्यचोदना}*
SK
स स्वर्गः स्यात्, सर्वान् प्रत्यविशिष्टत्वात् // MS_४,३.१५ //
SK
एवंजातीयकेष्व् एवोदाहारणेष्व्{*४/३०५*} एतत् समधिगतम्, एकं फलम् इति. इदम् इदानीं संदिह्यते, किं यत्किंचित्, उत स्वर्ग इति. यत्किंचिद् इति प्राप्तम्, विशेषानभिधानात्, तत उच्यते, स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात्, सर्वे हि पुरुषाः स्वर्गकामाः. कुत एतत्? प्रीतिर् हि स्वर्गः, सर्वश् च प्रीतिं प्रार्थयते. किम् अतः? यद्य् एवम्, अविशेषवचनः शब्दो न विशेषे व्यवस्थापितो भविष्यति, यजेत कुर्याद् इति. तस्मात् स्वर्गफलम् एवंजातीयकम् इति.
SK
NOTES: *{४/३०५: E२,६: एवोदाहरणेष्व्}*
SK
प्रत्ययाच् च // MS_४,३.१६ //
SK
भवति च, अनादिष्टफले कर्मणि स्वर्गः फलम् इति प्रत्ययो लोके, एवम् उच्यते, आरामकृद् देवदत्तः, नियतो ऽस्य स्वर्गः. [५०१]{*४/३०६*} तडागकृद् देवदत्तः, नियतो ऽस्य स्वर्ग इति. किम् अतः? यद्य् एवम्, इत्थम् अनेन न्यायेन स्वर्गे संप्रत्ययो भवति, यस्मात् स्वर्गफलेषु कर्मसु कर्तव्येषु फलवचनं नैवोच्चारयन्ति, गम्यत एवेति. तस्माद् अप्य् अवगच्छामः, एवंजातीयकेषु स्वर्गः फलम् इति.
SK
NOTES: *{४/३०६: E२: ५,७२; E६: २,४३}*
SK
क्रतौ फलार्थवादम् अङ्गवत् कार्ष्णाजिनिः // MS_४,३.१७ //
SK
रात्रीः प्रकृत्य श्रूयते, प्रतितिष्ठन्ति ह वैते, य एता उपयन्ति{*४/३०७*}. ब्रह्मवर्चस्विनो ऽन्नादा भवन्ति, य एता उपयन्तीति. तत्र संदेहः, किं ते फलार्थवादाः, उत फलविधय इति. किं प्राप्तम्? फलार्थवादा इति कार्षाजिनिर् मेने. कुतः? फलार्थवादसरूपा एते शब्दा इति. किं सारूप्यम्? विधिविभक्तेर् अभावः, अङ्गवत्{*४/३०८*}, यथा यस्य खादिरः स्रुवो भवति, स छन्दसाम् एव रसेनावद्यतीत्येवमादिषु{*४/३०९*}.
SK
NOTES: *{४/३०७: E२: वा य एता रात्रीर् उपयन्ति}* *{४/३०८: E२: भङ्गवत्}* *{४/३०९: Tऐत्.S. ३.५.७.१}*
SK
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् // MS_४,३.१८ //
SK
आत्रेयः पुनर् आचार्य एवंजातीयकेभ्यः, फलम् अस्तीति मेने, न फलार्थवाद इति. कुतः? अश्रुतफलत्वे ऽप्य् अमीषाम्, फलचोदनया वाक्यशेषभूतया भवितव्यम्. तस्माद् अन्या व्यवहिता सती, अव्यवहिता कल्पनीया, इयं त्व् अव्यवहिता कॣप्तैव, प्रतिष्ठया ब्रह्मवर्चससत्तया च समभिव्याहार आसां प्रत्यक्षः, विधिविभक्तिमात्रम् अन्यतो ऽपेक्ष्यम्. [५०२]{*४/३१०*} आह, कथं केवलं विधिविभक्तिमात्रम् अन्यतो भविष्यति? यद् अनेन प्रतिष्ठादिना धात्वर्थेन संभन्त्स्यत इति. उच्यते, सह धात्वर्थेन भविष्यति, न केवलम्. तस्माद् अदोषः. अथवा रात्रीणां या विधायिका विभक्तिः, सा इमम् अपि प्रतिष्ठादिविशेषं विधास्यति प्रयोगवचनेन, स्तुतिर् वा सह प्रतिष्ठादिभिर् विधात्री भविष्यतीति.
SK
NOTES: *{४/३१०: E२: ५,७३; E६: २,४४}*
SK
अङ्गेषु स्तुतिः परार्थत्वात् // MS_४,३.१९ //
SK
अथ यद् उक्तम्, यथा यस्य खादिरः स्रुवो भवतीत्येवमादिषु{*४/३११*} फलश्रुतिर् अर्थवादो भवति, एवम् इहापि स्याद् इति, युक्तं तत्र फलार्थवादः, फलविध्यसंभवात्, फलार्थवादसंबवाच् च. तद् उक्तम्, द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्याद् इति{*४/३१२*}.
SK
NOTES: *{४/३११: Tऐत्.S. ३.५.७.१}* *{४/३१२: MS ४.३.१}*
SK
काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः // MS_४,३.२० //
SK
काम्यानि कर्माण्य् उदाहरणम्, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इत्येवमादीनीति{*४/३१३*}{*४/३१४*}. तत्र संदेहः, किम् एषां स्वर्गः फलं कामश् च, उत काम एवेति. किं प्राप्तम्? काम्ये कर्मणि नित्यः स्वर्गः स्यात्. कथम्? सर्वपुरुषार्थाभिधायी सामान्यवचनः शब्दो न विशेषे ऽवस्थापितो भवति, शक्यते ह्य् अस्य दूरस्थेनापि स्वर्गकामशब्देन संबन्धः. आह, ननु विशेषकः शब्दः श्रूयते, ब्रह्मवर्चसकाम इति. नैष विशेषकः, उपाधिकर एषः, यथा काष्ठान्य् आहर्तुं प्रस्थित उच्यते, भवता शाकम् अप्य् आहर्तव्यम् इति, काष्ठाहरणे [५०३]{*४/३१५*} शाकाहरणम् उपाधिः क्रियत इति. किम् इदम् उपाधिः क्रियत इति. काष्ठाहरणाधिकारसमीपे द्वितीयं कर्मोपधीयते, सति काष्ठाहरणे, इदम् अपरं कर्तव्यम् इति. एवम् इहापि स्वर्गफले फलम् अपरम् उपधीयते, ब्रह्मवर्चसकामो यागेन स्वर्गम् अभिनिर्वर्तयेद् इति. न हि तत्र ब्रह्मवर्चसफलवचनं स्वर्गफलस्य प्रतिषेधकम्, यथा यज्ञाङ्गे क्रत्वर्थः, गोदोहनेन पशुकामस्य प्रणयेद् इति. यः पशुकामः स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति.
SK
NOTES: *{४/३१३: E२ ओम्. इति}* *{४/३१४: Tऐत्.S. २.३.२.३}* *{४/३१५: E२: ५,७४; E६: २,४५}*
SK
वीते च कारणे नियमात् // MS_४,३.२१ //
SK
वीते च कारणे, वीतायां फलेच्छायाम् अवाप्ते वा फले समाप्तिनियमो दृश्यते, वृष्टिकामेष्ट्याम्, यदि वर्षेत् तावत्य् एव जुहुयात्, यदि न वर्षेत्, श्वोभूते जुहुयाद् इति{*४/३१६*}. यदि न स्वर्गः, किम् अर्थः समाप्तिनियमो भवेत्. तस्मान् नित्यः स्वर्ग इति.
SK
NOTES: *{४/३१६: Tऐत्.S. २.४.१०.१}*
SK
कामो वा तत्संयोगेन चोद्यते // MS_४,३.२२ //
SK
कामो वा फलं भवेत्, न स्वर्गः, तत्संयोगेनास्य चोदना भवति, न स्वर्गकामसंयोगेन, आनुमानिको ऽस्य स्वर्गकामेनैकवाक्यभावः. प्रत्यक्षस् तु कामवचनेन, प्रत्यक्षं चानुमानाद् बलीयः. तस्मात् काम एव फलम् इति.
SK
अङ्गे गुणत्वात् // MS_४,३.२३ //
SK
अथ यद् उक्तम्, यथा यज्ञाङ्ग{*४/३१७*} इति, युक्तम् अङ्गे गुणत्वात्. प्रत्यक्षस् तत्र ऋतुना संयोगः, कामेन च. यः पशुकामः स्यात्, स गोदोहनेन प्रणयनम् अभिनिर्वर्तयेद् इति. न त्व् अत्र प्रत्यक्षः शब्दो ऽस्ति, यो ब्रह्मवर्चसकामः स्यात्, स यागेन [५०४]{*४/३१८*} स्वर्गम् अभिनिर्वर्तयेद् इति. कथं तर्हि? यो ब्रह्मवर्चसकामः स्यात्, स तद् यागेन निर्वर्तयेद् इति. तस्मान् नाङ्गवद् भवितुम् अर्हतीति.
SK
NOTES: *{४/३१७: MS ४.३.२०}* *{४/३१८: E२: ५,७५; E६: २,४५}*
SK
वीते च नियमस् तदर्थम् // MS_४,३.२४ //
SK
अथ यद् उक्तम्, वीतायां फलेच्छायाम्, अवाप्ते वा फले समाप्तिनियमो दृश्यत इति. तत्र ब्रूमः, वीते नियमस् तदर्थम्, वीते नियमो भवति, तस्मै प्रयोजनाय. कस्मै? शिष्टाविगर्हणाय. उपक्रम्यापरिसमापयतः, तदनन्तरम् एवैनं शिष्टा विगर्हयेयः, प्राक्रमिको ऽयं कापुरुष इति वदन्तः. ये हि देवेभ्यः संकल्प्य हविः, न यागम् अभिनिर्वर्तयन्ति, तान् शिष्टा विगर्हन्ते, तस्माद् अवश्यं समापयितव्यम्. तत्रैतद् दर्शनं युक्तं भविष्यति, यदि वर्षेत् तावत्य् एव जुहुयाद् इति{*४/३१९*}. तस्मात् काम्यानां काम एव फलम् इति.
SK
NOTES: *{४/३१९: Tऐत्.S. २.४.१०.१}*
SK
सार्वकाम्यम् अङ्गकामैः प्रकरणात् // MS_४,३.२५ //
SK
इदम् आम्नायते, एकस्मै वान्या इष्टयः कामायाह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ, एकस्मै वान्ये क्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्योतिष्टोम इति. तत्र संदेहः, किम् अङ्गकामैर् अङ्गाङ्गकामैश् च सह, अस्यानुवादः, अथवा विधिर् इति. किं प्राप्तम्? अनुवाद इति, यद् एतत् सार्वकाम्यम्, तद् अनूद्यते, अङ्गकामैश् चाङ्गाङ्गकामैश् च सह, सन्ति ह्य् अङ्गकामाश् चाङ्गाङ्गकामाश् च, यथा, आहार्यपुरीषां पशुकामस्य [५०५]{*४/३२०*} वेदिं कुर्यात्, खननपुरीषां प्रतिष्ठाकामस्येत्येवमादयः. तथा, यदि कामयेत, वर्षेत् पर्जन्य इति नीचैः सदो मिनुयाद् इति, तद् विहितम् एवेदम् अभिधीयत इत्य् अनुवादं न्याय्यं मन्यामहे.
SK
NOTES: *{४/३२०: E२: ५,३६; E६: २,४६}*
SK
फलोपदेशो वा प्रधानशब्दसंप्रयोगात् // MS_४,३.२६ //
SK
फलविधिर् वा. कुतः? प्रधानशब्देन फलसंयोगो भवति, सर्वेभ्यो दर्शपूर्णमासौ, सर्वेभ्यो ज्योतिष्टोम इति च, प्रधानाभिधानेन च प्रधानस्य सर्वफलवत्ता विहिता. तस्मान् नानुवादः. अथाङ्गकामान् अङ्गाङ्गकामांश् चापेक्षते, तथा लक्षणाशब्दः स्यात्, श्रुतिश् च लक्षणाया गरीयसी. तस्मात् प्रयोगवचनेन विधिर् इति.
SK
तत्र सर्वे ऽविशेषात् // MS_४,३.२७ //
SK
एवंजातीयकेष्व् एवोदाहरणेष्व् एतद् उक्तम्, प्रधाने सर्वकामानां विधिर् इति. इदम् इदानीं संदिह्यते, किं सकृत् प्रयोगे सर्वे कामाः, उत पर्यायेणेति. किं प्राप्तम्? सकृत् प्रयोगे सर्वे कामा इति. कथम्? सर्वेषां कामानां दर्शपूर्णमासौ निमित्तम्, ज्योतिष्टोमश् चेति, निमित्तं चेत् सर्वेषां कामानाम्, को ऽत्र खलु कामो न भविष्यतीति. तस्माद् यौगपद्येन सर्वे कामा इति.
SK
[५०६]{*४/३२१*}
SK
NOTES: *{४/३२१: E२: ५,७७; E६: २,४७}*
SK
योगसिद्धिर् वार्थस्योत्पत्त्यसंयोगित्वात् // MS_४,३.२८ //
SK
न चैतद् अस्ति, सर्वे युगपत् कामा इति, पर्यायो योगसिद्धिः, पर्यायेण भवेयुः कामा इति. कुतः? अर्थस्योत्पत्त्यसंयोगित्वात्, अर्था इमे कामा नाम, न सर्व एव युगपद् उत्पद्यन्ते, असंभवो युगपद् उत्पत्तेः सर्वेषाम्, विरोधात्. अथवा, उत्पत्त्यसंयोगित्वाद् इति, न, कामानाम् एतद् उत्पत्तिवचनम्, उत्पन्नानां लक्षणत्वेन वचनम्, ये सर्वे कामास् तेभ्यो दर्शपूर्णमासौ ज्योतिष्टोमश् चेति. न सर्वे कामाः कर्मणः श्रूवन्ते, ये सर्वे कामास् तेभ्यो हि कर्म विधीयते. तस्मान् न कामानां साहित्यं गम्यत इति.
SK
तत्र सर्वे ऽविशेषात् // MS_४,३.२७ //{*४/३२२*} काम्यानि कर्माण्य् उदाहरणम्, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः{*४/३२३*}, ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकामः{*४/३२४*}, चित्रया यजेत पसूकामः{*४/३२५*}, वैश्वदेवीं सांग्रहायणीं{*४/३२६*} निर्वपेद् ग्रामकाम इति{*४/३२७*}. तेषु संदेहः, किम् इह लोके कामाः, उतामुष्मिल् लोक इति. किं प्राप्तम्? तत्रामुष्मिल् लोके{*४/३२८*} कामाः, अविशेषात्, यथा स्वर्गः, एवम् इमे ऽपि, न ह्य् अनन्तरनिर्वृत्ते{*४/३२९*} कर्मणि फलम् उपलभ्यते पश्वादि, यच् चानन्तरम् उपलभ्यते, तत् तत इति विज्ञायते, यथा यत्कालं मर्दनम्, तत्कालं मर्दन[५०७]{*४/३३०*}सुखम्. यच् च कालान्तर उपलभ्यते, तस्याप्य् अन्यद् एव कारणम् अस्ति प्रत्यक्षम्{*४/३३१*}, शरीरग्रहणस्य तु नादृष्टादृते किंचित् कारणम् अस्ति. तस्माद् विशिष्टेन्द्रियशरीरादि फलं पशुसंबन्धसमर्थं पशुफलात् कर्मणो भवतीत्य् एवं बोद्धव्यम्. तद् धि दर्शयति, कैकयो यज्ञं विवित्सन् दाल्भ्यम् उवाच, अनया मा राष्ट्रप्रतिपादनीययेष्ट्या{*४/३३२*} याजयेति. सो ऽब्रवीत्, न वै सौम्य राष्ट्रप्रतिपादनीयां{*४/३३३*} वेत्थ, अमुष्मै कामाय यज्ञा आह्रियन्त इति जन्मान्तरफलतां दर्शयति. तस्माज् जन्मान्तरफलानि काम्यानीति.
SK
NOTES: *{४/३२२: Aल्तेर्नतिवौस्लेगुन्ग् वोन् MS ४.३.२७/२८ (E१,२,६)}* *{४/३२३: Tऐत्.S. २.३.२.३}* *{४/३२४: Tऐत्.S. २.२.१.१}* *{४/३२५: Tऐत्.S. २.४.६.१}* *{४/३२६: E१ (Fन्.): साग्रहिणीम्; E२: सांग्रहणीं}* *{४/३२७: Tऐत्.S. २.३.९.२}* *{४/३२८: E१ गिब्त् अमुष्मिल् लोके इन् Kलम्मेर्न्}* *{४/३२९: E२: अनन्तरं निर्वृत्ते}* *{४/३३०: E२: ५,७८; E६: २,४७}* *{४/३३१: E२: अस्ति प्रत्यक्षम्}* *{४/३३२: E२: स्वाराष्ट्रप्रतिपादनीययेष्ट्या}* *{४/३३३: E२: राष्ट्रप्रतिपादनं; E२ (Fन्.): राष्ट्रप्रतिपादनीयां}*
SK
योगसिद्धिर् वार्थस्योत्पत्त्यसंयोगित्वात् // MS_४,३.२८ //{*४/३३४*} इहैवैषां सिद्धिर् योगस्य, उत्पत्त्या योगो न संभवति, यः पशुभ्यः{*४/३३५*} कामयते, स एतेन यागेन कुर्याद् इति, नात्रैतद् गम्यते, इह जन्मनि न संभवतीति. यच् चानन्तरं नोपलभ्यत इति. तन् न, प्रत्यक्षानुमानाभ्यां न गम्यते, शब्देन त्व् अस्ति गतिः{*४/३३६*}. यत् तु कालान्तरे ऽन्यत् कारणम् इति. नैष दोषः, अन्यद् अपि भविष्यति, एतद् अपि. यच् चामुष्मै कामाय यज्ञा आह्रियन्त इति. अत्रोच्यते, एवम् अस्य ऋषेर् मतम्, इह यस्य फलं तेन त्वां न याजयामि, यस्यामुत्र फलं तेन च याजयिष्यामीति. तस्माद् एतत् परिहृतम् इति.
SK
NOTES: *{४/३३४: Sऊत्र fएह्ल्त् इन् E२}* *{४/३३५: E२: पशून्}* *{४/३३६: E२: अस्त्य् अवगतिः}*
SK
समवाये चोदनासंयोगस्यार्थवत्त्वात् // MS_४,३.२९ //
SK
अग्निं चित्वा सौत्रामण्या यजेत{*४/३३७*}, वाजपेयेनेष्ट्वा बृहस्पति[५०८]{*४/३३८*}सवेन यजेतेति{*४/३३९*}. तत्र संदेहः, किम् अङ्गप्रयोजनसंबन्ध एषः, उत कालार्थः संयोग इति. अङ्गप्रयोजनसंबन्ध इति ब्रूमः, एवं हि श्रुतिविनियुक्तो ऽर्थः, इतरथा कालो लक्ष्येत, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा. तस्माद् अग्न्यङ्गं सौत्रामणी, वाजपेयाङ्गं बृहस्पतिसव इति.
SK
NOTES: *{४/३३७: Tऐत्.S. ५.६.३.४}* *{४/३३८: E२: ५,७९; E६: २,४८}* *{४/३३९: Tऐत्.S. ५.६.३.४}*
SK
कालश्रुतौ काल इति चेत् // MS_४,३.३० //
SK
एवं चेत् पश्यसि, अङ्गप्रयोजनसंबन्ध इति, अथ कालविधानं कस्मान् न भवति? कालविधिरूपो हि शब्दः, चित्वा चयने ऽभिनिर्वृत्त{*४/३४०*} इति.
SK
NOTES: *{४/३४०: E१ गिब्त् चयने ऽभिनिर्वृत्त इन् Kलम्मेर्न्}*
SK
नासमवायात् प्रयोजनेन स्यात् // MS_४,३.३१ //
SK
नैतद् एवम्, असमवायात्. शब्दप्रयोजनेन शब्दार्थेनेत्य् अर्थः{*४/३४१*}
SK
NOTES: *{४/३४१: E१ गिब्त् शब्दार्थेनेत्य् अर्थः इन् Kलम्मेर्न्}*
SK
. शब्दार्थश् चयनम्, तेनासमवायः स्यात् सौग्रामण्या वाजपेयेन च बृहस्पतिसवस्य. प्रकरणं च बाध्येत, अग्निप्रकरणे श्रूयमाणो ऽग्नेर् धर्मो गम्यते यागः, वाजपेयप्रकरणे च वाजपेयस्य, इतरथा तयोः प्रकरणे ऽन्यस्य धर्मः कालो गम्येत. तस्माद् अङ्गप्रयोजनसंबन्ध इति.
SK
उभयार्थम् इति चेत्/७४.३.३२//
SK
दर्शपूर्णमासयोर् आमनन्ति, संस्थाप्य पौर्णमासीं वैमृधम् अनुनिर्वपतीति. तत्र संदेहः, किम् उभयाङ्गं वैमृधः, कालार्थः पौर्णमासीसंयोगः, उताङ्गप्रयोजनसंबन्ध इति. किं प्राप्तम्? एवं चेद् उभयार्थो वैमृधः. कुतः? प्रकरण [५०९]{*४/३४२*} उभयोर् आम्नानसामर्थ्यात्, कालविधिसारूप्याच् च संस्थाप्येति.
SK
NOTES: *{४/३४२: E२: ५,८०; E६: २,४८}*
SK
न शब्दैकत्वात् // MS_४,३.३३ //
SK
एकः शब्दः, अनुनिर्वपतीति, एकस्मिन्न् एव वाक्ये न द्वौ संबन्धौ शक्नोति विधातुम्. वैमृधस्य दर्शपूर्णमासाभ्याम्, पूर्णमासीकालेन च. एकार्थत्वाद् ध्य् एकं वाक्यं समधिगतम्.
SK
प्रकरणाद् इति चेत् // MS_४,३.३४ //
SK
प्रकरणाद् इति यद् उक्तम्, तत् परिहर्तव्यम्.
SK
नोत्पत्तिसंयोगात् // MS_४,३.३५ //
SK
नैतद् एवम्, एतद् एव वैमृधस्योत्पत्तिवाक्यम्, तद् दर्शपूर्णमासाभ्यां वा प्रकरणाद् एकवाक्यभावम् इयात्. प्रत्यक्षं वा पौर्णमास्या, तत्र प्रत्यक्षसंयोगः प्रकरणाद् बलवान्, प्रत्यक्षश् च पौर्णमास्या संयोगः, परोक्षः कालेन. तस्मात् पौर्णमास्याङ्गं वैमृध इति.
SK
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन संबन्धात् // MS_४,३.३६ //
SK
ज्योतिष्टोमे श्रूयते - आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्ति, प्रहृत्य परिधीञ् जुहोति हारियोजनम् इति. तत्र संदेहः, किम् अङ्गं विधीयते, उत काल इति. अङ्गविधाने श्रुतिः, कालविधाने लक्षणा. तस्माद् अङ्गविधानम् इति प्राप्ते [५१०]{*४/३४३*} ब्रूमः, अनुत्पत्तिवाक्ये कालः स्यात्, आग्निमारुतं सोमाङ्गम्, अनुयाजाः पश्वङ्गम्. तत्र न तयोः परस्परेण संबन्धः. तथा परिधयः पश्वङ्गम्, हारियोजनम् अन्यद् एव प्रधानम्. अनुयाजा आग्निमारुतं च प्राप्तम्. आनन्तर्यम् एव तयोर् न प्राप्तम्, तद् विधीयते. तथा हारियोजनस्य परिधिग्रहणस्य च. एवं च सति, न हारियोजनस्य परिधिप्रहरणेन कश्चिद् उपकारः क्रियते, हारियोजनेन वा परिधिप्रहरणस्य. ननु परिधिप्रहरणस्योपरिष्टाद् भावेन तस्योपक्रियेतेति. उच्यते, न ह्य् उपरिभावार्थं परिधिप्रहरणम् अनुष्ठेयम्. विद्यत एवैतत् पश्वर्थम्. तस्मिंश् च सति तस्योपरिभावो विद्यत एवेति. तस्मात् कालार्थः संबन्ध इति.
SK
NOTES: *{४/३४३: E२: ५,८१; E६: २,४९}*
SK
उत्पत्तिकालविषये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् // MS_४,३.३७ //
SK
इदम् आम्नायते, दर्शपूर्णमासौ{*४/३४४*} इष्ट्वा सोमेन यजेतेति{*४/३४५*}. तत्र संदेहः, किम् एतद् अङ्गस्य विधानम्, उत कालस्येति. किं प्राप्तम्? श्रुतेर् अङ्गस्य, इति प्राप्ते, उच्यते, अस्मिन् कालाङ्गविधानसंशये कालः स्यात्, वाक्यस्य तत्प्रधानत्वात्. कालप्रधानं ह्य् एतद् वाक्यम्, न यागविधानपरम्, अतत्परतास्य{*४/३४६*}, रूपावचनात्. कथं रूपावचनम्? देवताभावात्. कथम् अभावः? अश्रुतत्वात्. या हि यस्य श्रूयते, सा तस्य देवता भवति. श्रुत्या हि देवता गम्यते, न प्रत्यक्षादिभिः. तस्मान् नापूर्वस्य यागस्य विधानम्, कालार्थे ऽनुवादे नायं दोषः, विहितदेवताको ह्य् अनूद्यते. तस्माद् [५११]{*४/३४७*} अत्र कालार्थः संबन्ध इति. तच् च दर्शयति - एष वै देवरथो यद् दर्शपूर्णमान्सौ, यद् दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानाम् अवस्यतीति. प्रदर्शिते मार्गे रथेन यातुं{*४/३४८*} सुखं भवति. एवं दर्शपूर्णमासाव् इष्ट्वा सोमेन यष्टुं{*४/३४९*} सुखं भवति. दर्शपूर्णमासप्रकृतीनि तस्य दीक्षणीयादीनि स्वभ्यस् तानि भवन्ति. एवम् अर्थवादो ऽर्थवान् भवति.
SK
NOTES: *{४/३४४: E२: दर्शपूर्णमासाभ्याम्}* *{४/३४५: Tऐत्.S. २.५.६.१}* *{४/३४६: E२: कथम् अतत्परतास्य; E२ (Fन्.): कथं वाग्रूपावचनाद्}* *{४/३४७: E२: ५,८२; E६: २,५०}* *{४/३४८: E२: यातुः}* *{४/३४९: E२: यष्टुः}*
SK
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् // MS_४,३.३८ //
SK
वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति{*४/३५०*}. तत्र{*४/३५१*} संदेहः, किम् आत्मनिःश्रेयसाय, उत पुत्रनिःश्रेयसायेति. आत्मनिःश्रेयसायेति ब्रूमः, नेमानि फलदानि परस्य भवन्ति कर्माणि. कुतः? आधान आत्मनेपदनिर्देशात्, यथा यद्य् एकं कपालं नश्येद् एको मासः संवत्सरस्यापेतः स्यात्. अथ यजमानः प्रमीयेत द्यावापृथिवीयम् एककपालं निर्वपेत्. यदि द्वे नश्येयाताम्, द्वौ मासौ संवत्सरस्यापेतौ स्याताम्. अथ यजमानः प्रमीयेत, आश्विनं द्विकपालं निर्वपेत्. संख्यायोद्वासयति यजमानस्य गोपीथायेति{*४/३५२*}, कपालनाशे निमित्त आत्मनिःश्रेयसफलं कर्म दर्शयति. एवम् इहापि द्रष्टव्यम्, तस्माद् आत्मनिःश्रेयसार्थम् इति. [५१२]{*४/३५३*} एवं प्राप्ते ब्रूमः, फलसंयोगो न स्यात् पितुः, फलवचनं शेषभूतं पुत्रस्य, न पितुः. कथम्? एवं श्रूयते, वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते. यद् अष्टाकपालो भवति, गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन् नवकपालो भवति, त्रिवृतैवासमिंस् तेजो दधाति. यद् दशकपालो विराजैवास्मिन् अन्नाद्यं दधाति, यद् एकादशकपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति. यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति. यस्मिञ् जात एताम् इष्टिं निर्वपति, पूत एव स तेजस्व्य् अन्नाद् इन्द्रियावी पशुमान् भवतीति{*४/३५४*}. यो जातः, तत्र फलं श्रूयते, नास्ति वचनस्यातिभारः. तस्मात् पुत्रस्य फलम् इति. यद् उक्तम्, न परस्य फलदान्य् एतानि कर्माणीति. तद् उच्यते, यत् पुत्रस्य फलम्, आत्मनः सा प्रीतिः, तस्माद् आत्मनेपदं न विरुध्यते, एताम् एवात्मनः प्रीतिम् अभिप्रेत्य भवति वचनम्, आत्मा वै पुत्र इति. अङ्गाद् अङ्गात् संभवसि हृदयाद् अभिजायसे/ आत्मा वै पुत्रनामासि स जीव शरदः शतम्// इति.
SK
NOTES: *{४/३५०: Tऐत्.S. २.२.५.४}* *{४/३५१: E२: इति विधायाम्नायते, यस्मिञ् जात एताम् इष्टं निर्वपति पूत एव स तेजस्व्य् अन्नाद् इन्द्रियावी पशुमान् भवतीति. तत्र}* *{४/३५२: Tऐत्.S. २.६.३.६}* *{४/३५३: E२: ५,८३; E६: २,५०}* *{४/३५४: E२ ओम्. इति}*
SK
अङ्गानां तूपघातसंयोगो निमित्तार्थः // MS_४,३.३९ //
SK
अथ यद् उक्तम्, यद्य् एकं कपालं नश्येद् इत्येवमादि. तत्रोच्यते, अङ्गानाम् उपघातसंयोगो निमित्तार्थ उपपद्यते, नान्यथा. न हि कपाले नष्टे तद् अन्वेषणार्था इष्टिर् युक्ता. न हि काकिन्यां नष्टायां तद् अन्वेषणं कार्षापणेन क्रियते. एवं वा,
SK
अङ्गानां तूपघातसंयोगो निमित्तार्थः // MS_४,३.३९ //{*४/३५५*} वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जात इति{*४/३५६*}. तत्र संदेहः, किं जातमात्रे, उत कृते जातकर्मणीति. जातमात्र इति ब्रूमः, संप्राप्ते हि निमित्ते नैमित्तिकेन भवितव्यम्. एवं प्राप्ते ब्रूमः, कृते जातकर्मणीति. कुतः? सामर्थ्यात्. कृते हि जातकर्मणि प्राशनं तस्य विधीयते. यदि प्राग् जातकर्मणः, इष्टिः क्रियते, प्राशनकालो विप्रकृष्येत. तत्रास्य शरीरधारणं न स्यात्. अथ यद् उक्तम्, संप्राप्ते निमित्ते हि नैमित्तिकेन भवितव्यम् इति. उच्यते, अङ्गानाम् उपघातसंयोगो निमित्तार्थः, उपघातः पुत्रजन्म, तद् भूतं निमित्तम्. न तत्कालो ऽङ्गम्, तच् च निमित्तम्. कृते ऽपि जातकर्मणि नापैति. इतरस्मिन् पक्षे कालो ऽपेयात्, लक्षणा चास्मिन् पक्षे स्यात्. तस्मात् कृते जातकर्मणीति. अथ किम् अन्तर्दशाहे यस्मिन् कस्मिन् वाहनि, उत स्वकाल इति. किं प्राप्तम्? यस्मिन् कस्मिन् वाहनीति, एवम् अनियमः प्राप्तः. अत्रोच्यते, पौर्णमास्याम् अमावास्यायां वा. कुतः? श्रुतेः, एवं हि श्रूयते, य इष्ट्वा{*४/३५७*} पशुना सोमेन वा यजेत, स पौर्णमास्याम् अमावास्यायां वा यजेतेति. नातिभारो वचनस्य, इतरस्मिन् पक्षे कालो ऽपेयात्. लक्षणाप्य् अस्मिन् पक्षे स्यात्. अन्यस्यां तिथावन्तर्दशाहे वा कुर्वन् सर्वाण्य् अङ्गान्य् उपसंहर्तुं न शक्नुयात्. कालं शौचं च [५१४]{*४/३५८*} नोपसंगृह्णीयात्. तस्माद् अतीते दशाहे पौर्णमास्याम् अमावास्यायां वा कुर्याद् इति.
SK
NOTES: *{४/३५५: E२ wइएदेर्होल्त् MS ४.३.३९ निछ्त्}* *{४/३५६: Tऐत्.S. २.२.५.४}* *{४/३५७: E२: इष्ट्या}* *{४/३५८: E२: ५,८५; E६: २,५२}*
SK
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् // MS_४,३.४० //
SK
अग्निं चित्वा सौत्रामण्या यजेत{*४/३५९*}, वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति, अङ्गप्रयोजनसंबन्ध इत्य् उक्तम्. एतद् इदानीं संदिह्यते, किं चितमात्रे, तन्त्रमध्य एव कर्तव्यम्, उत स्वकाले कर्तव्यम् इति. तथा वाजपेये किं बृहस्पतिसवे, उत स्वकाल इति. मुख्यकालत्वम् अनयोः स्यात्. कुतः? प्रधानाकालत्वाद् अङ्गानाम्. एको हि कालः प्रधानानाम् अङ्गानां चेति वक्ष्यते{*४/३६०*}. अङ्गानि तु विधानत्वात् प्रधानेनोपदिश्येरन्न् इति. अग्निचयनं कृत्वा न तावत्य् एव स्थातव्यम्, सौत्रामणीसंज्ञको ऽपरो यागः कर्तव्य इति. तथा वाजपेयम् अभिनिर्वर्त्य नैतावता कृती स्यात्, बृहस्पतिसवसंज्ञकं यागम् अभिनिर्वर्तयेद् इति.
SK
NOTES: *{४/३५९: Tऐत्.S. ५.६.३.४}* *{४/३६०: Vग्ल्. MS ११.२.७}*
SK
अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् // MS_४,३.४१ //
SK
अपवृत्ते यागे चोद्यते यागान्तरम् इदम्, अपवृत्तिश् च सर्वेषु यागाङ्गेष्व् अकृतेषु न भवति. न यथा भवान् मन्यते, [५१५]{*४/३६१*} यागमात्रे निर्वृत्त इति. कुतः? करणविभक्त्या संयोगात्, वाजपेयेनेष्ट्या वाजपेयेन फलस्य व्यापारं कृत्वा{*४/३६२*}, साङ्गेन च व्यापारो गम्यते, न निरङ्गेन. भवेत् तन्त्रमध्ये प्रयोगः, वदि वाजपेयम् अभिनिर्वर्त्येतीप्सितभावो वाजपेयस्य स्यात्, ततः प्रधानमात्रं वाजपेयसंज्ञकम् अभिनिर्वर्त्येति गम्येत, न त्व् एवम् अस्ति. तस्माद् यथोक्तानि सर्वाण्य् अङ्गानि कृत्वेत्य् अर्थः. एवं चेत्, निर्वृत्ते प्रयोगे, अतिक्रान्ते वाजपेयकाले याग प्रयुज्यते. तस्य चोदनासामान्याज् ज्योतिष्टौमिके विध्यन्ते प्राप्ते स्वेन चोदकप्राप्तेन कालेन भवितव्यम्. सौत्रामण्याश् चोदनासामान्यात्, दर्शपूर्णमासकालेनेति. आह, वाजपेये तावद् इष्ट्वेतिवचनाद् यागम् अभिनिर्वर्त्येति गम्यते, अग्नौ तु नोपपद्यते. तत्र चित्वेतिवचनाच् चयनम् अभिनिर्वर्त्येत्य् अर्थः स्यात्. उच्यते, नैतद् एवम्. अग्निं चित्वेति हि श्रूयते, अग्नि चयनेन संस्कृत्येत्य् अर्थः{*४/३६३*}. अग्निर् इति ज्वलनो ऽभिधीयते. न तस्य स्थलस्थापनमात्रम् उपकारः, यदि स्थलस्थिते यागो भवति, ततश् चयनेनाग्नेर् उपकारो ऽस्ति. तम् अभिनिर्वर्त्येति स्थलस्थिते ऽग्नौ यागम् अभिनिर्वर्त्येति गम्यते. यावत् स्थलस्थिते ऽग्नौ यागो न भवति, न तावद् अग्निश् चयनेनोपक्रियते. येनाग्निर् यजमानस्योपकरोति, सो ऽग्नेर् उपकारो न स्थलस्थापनमात्रम्. तस्मात् तत्रापि यागम् अभिनिर्वर्त्येति गम्यते.
SK
[५१६]{*४/३६४*}
SK
NOTES: *{४/३६१: E२: ५,८६; E६: २,५२}* *{४/३६२: E१ गिब्त् वाजपेयेन फलस्य व्यापारं कृत्वा इन् Kलम्मेर्न्}* *{४/३६३: E१ गिब्त् अग्नि चयनेन संस्कृत्येत्य् अर्थः इन् Kलम्मेर्न्}* *{४/३६४: E२: ५,८७; E६: २,५३}*
SK
प्रकरणशब्दसामान्याच् चोदनानाम् अनङ्गत्वम् // MS_४,४.१. //
SK
सन्त्य् अनुमत्यादीन्य् ऐष्टिकानि कर्माणि, मल्हादयः पशवः, पवित्रादयः सोमाः, वल्मीकवपायां होम इत्येवमादीनि दार्विहोमिकानि. तथा यष्टौहीं दीव्यति, राजन्यं जिनाति, शौनःशेफम्{*४/३६५*} आख्यापयति, अभिषिच्यत इति, एतेषां सन्निधौ श्रूयते, राजसूयेन स्वाराज्यकामो यजेतेति, स एष रूपवतां यागानां संनिधाव्{*४/३६६*} अरूपः शब्दः श्रूयमाणः समुदायवाचकः समधिगतः. तत्र संदेहः, किं सर्वेषाम् अनुमत्यादीनां समुदायस्य राजसूयशब्दो वाचकः, उत केषांचिद् वाचकः केषांचिन् नेति. किं प्राप्तम्? सर्वेषां वाचक इति. कुतः? प्रकरणशब्दसामान्यात्, प्रकरणशब्दः सर्वेषां समानो राजसूयेनेति. राजा तत्र सूयते, तस्माद् राजसूयः. राज्ञो वा यज्ञो राजसूयः. तत् प्रकरणसंनिधाने सति, विशेषाभावे च सर्वेषां वाचको भवितुम् अर्हति. यश् च राजसूयशब्दितस् ततः फलं भवति. तस्मात् सर्वाणि प्रधानानीति.
SK
[५१७]{*४/३६७*}
SK
NOTES: *{४/३६५: E२: शौनःशेपम्}* *{४/३६६: E२,६: रूपवतां संनिधाव्}* *{४/३६७: E२: ५,८८; E६: २,५३}*
SK
अपि वाङ्गम् अनिज्याः स्युस् ततो विशिष्टत्वात् // MS_४,४.२ //
SK
अपि वेति पक्षव्यावृत्तिः. या अनिज्यास् ता अङ्गम्, यथा विदेवनादयः. राजसूयसंज्ञकेन यागेन स्वाराज्यं कुर्याद् इत्य् उच्यमाने यागेनैव स्वाराज्यं साध्यते, नायागेन. अयागाश् च विदेवनादयः. तस्माद् अङ्गं भवेयुः, इज्यानां फलवतीनां श्रूयमाना इति.
SK
मध्यस्थं यस्य तन्मध्ये // MS_४,४.३ //
SK
राजसूये ऽभिषेचनीयमध्ये, यष्टौहीं दीव्यतीति विदेवनादयः समाम्नाताः. ते किम् अभिषेचनीयस्याङ्गम्, उत कृत्स्नस्य राजसूयस्येति संशयः. उच्यते, मध्याम्नानाद् अभिषेचनीयस्येति, तथानन्तर्यम् अनुग्रहीष्यत इति.
SK
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये // MS_४,४.४ //
SK
सर्वासां चानुमत्यादीनां चोदनानाम् अङ्गं विदेवनादि स्यात्. कुतः? चोदनातः समत्वात्, समाना एता अनुमत्याद्याश् चोदनाः, ताः सर्वाः फलवत्यश् च प्रधानभूताः. सर्वासाम् आसां प्रकरणम्, न ह्य् अभिषेचनीयस्य केवलस्य. क्रमाद्{*४/३६८*} अभिषेचनीयस्य प्राप्नुवन्ति, प्रकरणात् सर्वासाम्, प्रकरणं च क्रमाद् बलीयः. तस्मान् नाभिषेचनीयस्य केवलस्येति. अभिषेचनीयस्य तु मध्ये स्थानं विदेवनादीनाम्, तत्र क्रियमाणाः सर्वासाम् उपकुर्वन्तीति.
SK
[५१८]{*४/३६९*}
SK
NOTES: *{४/३६८: E२: केवलस्य. कामाद् अभिषेचनीयस्य केवलस्य. कामाद्; E६: केवलस्य. कामाद्}* *{४/३६९: E२: ५,८९; E६: २,५४}*
SK
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् // MS_४,४.५ //
SK
राजसूय उपसदः प्रकृत्य श्रूयते, पुरस्ताद् उपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद् वैष्णवेनेति{*४/३७०*}. तत्र संदेहः, किम् उपसदङ्गं सौम्यादयः, उतोपसत्काला इति. उपसदङ्गम् इति ब्रूमः. कुतः? उपसत्संयोगस्य श्रुतत्वात्, कालविधौ सति लक्षणा स्यात्. तस्माद् उपसदङ्गम् इति. ननु कालवद् अङ्गं भविष्यति, तथा सत्य् उभयम् अनुगृह्येत, उपसत्संयोगश् च, पुरस्ताद् इति च कालाभिधानम्, उपसच्छब्दसंयोगाद् उपसदङ्गता भविष्यति. पुरस्ताच्छब्दसामर्थ्याच् च पूर्वादिषु प्रयोग इति. उच्यते, विप्रतिषिद्धं ह्य् उभयम्, न शक्नोत्य् उपसदाम् इत्य् एष शब्दः, सौम्यादींश् च विशेष्टुम्, एकस्मिन् वाक्ये, पूर्वादींश् च. भिद्यते हि तथा वाक्यम्. तस्मान् न कालवद् अङ्गम्.
SK
NOTES: *{४/३७०: Tऐत्.Bर्. १.८.१.२}*
SK
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेषस्य // MS_४,४.६ //
SK
अपि वेति पक्षव्यावृत्तिः. कालमात्रं स्यात्, नाङ्गप्रयोजनसंबन्धः. कुतः? अदर्शनाद् विशेषस्य, नान्यैः कालाभिधानैर् अस्य कश्चिद् विशेषो लक्ष्यते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीत्येवमादिभिः. अत्रापि हि सौम्यादयो विहिता उपसदो ऽपि. इदम् आनुपूर्व्यम् अविहितम्, तद् विधीयते. तस्मात् कालमात्रम् इति.
SK
[५१९]{*४/३७१*}
SK
NOTES: *{४/३७१: E२: ५,९०; E६: २,५५}*
SK
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् // MS_४,४.७ //
SK
वैश्वदेवीं सांग्रहायणीं निर्वपेद् ग्रामकाम इति. तत्रामनहोमाः श्रूयन्ते, आमनस्येति{*४/३७२*} तिस्र आहुतीर् जुहोतीति. अत्र संदेहः, किं समप्रधानभूता आमनहोमाः सांग्रहायणीष्ट्या, उताङ्गं तस्या इति. किं प्राप्तम्? समप्रधानभूता इति. कुतः? तुल्यहेतुत्वाद् इतरस्य. तुल्यं हि यजिमत्त्वम्. नन्व् अफला होमाः. उच्यते, ग्रामकाम इत्य् अत्रानुपज्यते{*४/३७३*}. तस्मात् समप्रधानभूता इति. एवं प्राप्ते ब्रूमः, फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात्. न चैतद् अस्ति, समप्रधानभूता होमा इष्ट्या इति. फलवद् ध्य् अफलस्य प्रधानम्, फलवती चेष्टिः, अफला होमाः. ननूक्तम्, अनुषङ्गो भविष्यतीति. उच्यते, नानुषङ्गः प्राप्नोति. कुतः? व्यवायात्. तद् उक्तम्, व्यवायान् नानुषज्येतेति. केन व्यवायः, परिधिमन्त्रैः, उग्रो ऽस्य् उग्रस्त्वं देवेष्व् अध्युग्रो ऽहं सजातेषु भूयासं प्रियः, सजातानाम् उग्रश् चेत् ता वसुविद् इत्येवमादिभिः, एतान् अनुक्रम्य, आमनस्येति{*४/३७४*} तिस्र आहुतीर् जुहोतीत्य् आमनन्ति. तस्मात् सांग्रहायण्या अङ्गम् आमनहोमा इति.
SK
[५२०]{*४/३७५*}
SK
NOTES: *{४/३७२: E२, E१ (Fन्.): आमनस्यामनस्य देवा इति}* *{४/३७३: E२: इत्य् एवानुपज्यते}* *{४/३७४: E२: आमनस्यामनस्य देवा इति}* *{४/३७५: E२: ५,९१; E६: २,५५}*
SK
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् // MS_४,४.८ //
SK
ज्योतिष्टोमे श्रूयते, यां वै कांचिद् अध्वर्युश् च यजमानश् च देवताम् अन्तरितः, तस्या आवृश्चेत, यत् प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्य् एवैनाम् इति{*४/३७६*}. तत्र संदेहः, किं नित्यो दधिग्रहः, उत नैमित्तिक इति. किं प्राप्तम्? दधिग्रहो नैमित्तिकः स्यात् श्रुतिसंयोगात्, देवतान्तराये निमित्ते श्रूयते, न च नित्यो ऽन्तरायः. तस्मान् नैमित्तिक इति.
SK
NOTES: *{४/३७६: Tऐत्.S. ३.५.९.१}*
SK
नित्यश् च ज्येष्ठशब्दात् // MS_४,४.९ //
SK
यद् उक्तम्, नैमित्तिक इति, तद् गृह्यते, किं तु नित्यश् च. कुतः? ज्येष्ठशब्दात्, ज्येष्ठशब्दो भवति, ज्येष्ठो वा एष ग्रहाणां यस्यैष गृह्यते, ज्यैष्ठ्यम् एव गच्छतीति{*४/३७७*}. ज्येष्ठशब्दश् च प्राधान्ये प्राथम्ये वा स्यात्. एष{*४/३७८*} प्रथमः, न प्रधानम्. यदि नित्यः, एवं प्रशस्यत्वाद् उपपद्यते, न जातु चलाचलं हि{*४/३७९*} प्रशंसन्ति. तस्मान् नित्यश् च नैमित्तिकश् चेति, विनापि निमित्तेन ग्रहीतव्यः, निमित्तेनापि पुनर् इति.
SK
NOTES: *{४/३७७: Tऐत्.S. ३.५.९.१}* *{४/३७८: E२: नैष}* *{४/३७९: E२ ओम्. हि}*
SK
सार्वरूप्याच् च // MS_४,४.१० //
SK
सर्वरूपता च श्रूयते, सर्वेषां वैतद् देवानां रूपं यद् एष ग्रहो यस्यैष गृह्यते सर्वाण्य् एवैनं रूपाणि पशूनाम् उपतिष्ठन्त इति{*४/३८०*}. न हि देवतारूपम् अस्माकं किंचिद् अन्यत् प्रत्यक्षम्, अन्यद् अतो नित्यत्वात्. तस्माद् अपि नित्यश् च नैमित्तिकश् चेति.
SK
NOTES: *{४/३८०: Tऐत्.S. ३.५.९.१}*
SK
नित्यो वा स्याद् अर्थवादस् तयोः कर्मण्य् असंबन्धाद् भङ्गित्वाच् चान्तरायस्य // MS_४,४.११ //
SK
यद् उक्तम्, नित्यो नैमित्तिकश् चेति, तत्र नित्य एव स्यात्, ज्येष्ठशब्दात् सार्वरूप्याच् च. यद् उक्तम्, देवतान्तराये निमित्ते श्रूयत इति. न देवतान्तरायो निमित्तत्वेन गम्यते. तयोर् अध्वर्युयजमानयोः{*४/३८१*} कर्मण्य् अन्तरायेण संबन्धात्. न ह्य् एतच् छ्रूयते, अध्वर्युणा देवतान्तरितव्या यजमानेन वेति, अनित्यो हि अन्तरायः. न चैवंशब्दो ऽस्ति, अन्तराये सति दधिग्रहो ग्रहीतव्य इति. विनैव संयोगेन, दधिग्रहस्य ग्रहणम्, अन्तरायसमाधानं त्व् अस्य प्रयोजनम् इति. तद् एतन् नित्यवद् ग्रहणम्, अनित्यं प्रयोजनम्. नित्यं गृह्णीयात्, अनित्यम् अन्तरायं समाधातुम् इति नावकल्पते. तत्र प्रयोजने ऽनित्यत्वाद् ग्रहणे नित्यवच् छ्रुतिर् बाध्येत, अर्थवादत्वे तु न बाध्यते. न हि तद् अन्तरायं समाधातुं गृह्यते. अन्यद् एव प्रयोजनम् अस्यास्तीति प्रशंसितुम् अभिधीयते. दधिग्रहस्य तु सोमाङ्गतैव प्रयोजनम् इति. भङ्गित्वाच् चान्तरायस्य, भङ्गी चान्तरायो ऽनित्यो नित्यप्रशंसार्थं संकीर्त्यते. तस्मान् नैष दोषः, नित्य एव दधिग्रह इति.
SK
NOTES: *{४/३८१: E१ गिब्त् अध्वर्युयजमानयोः इन् Kलम्मेर्न्}*
SK
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसंख्यत्वात् // MS_४,४.१२ //
SK
अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति{*४/३८२*}. तत्र श्रूयते, यो वै संवत्सरमुख्यम् अभृत्वाग्निं{*४/३८३*} चिनुते, यथा सामिगर्भो विपद्यते, तादृग् एव तदार्तिम् आर्च्छेत्, वैश्वानरं द्वादशकपालं पुरस्तान् निर्वपेत्. संवत्सरो वाग्निर् वैश्वानरः, यथा संवत्सरम् आप्त्वा काल आगते विजायते, एवम् एव संवत्सरम् आप्त्वा काल आगते ऽग्निं चिनुते, नार्तिम् आर्च्छेद् इति, एषा वाग्नेः प्रिया तनूर् यद् वैश्वानरः, प्रियाम् एवास्य तनूम् अवरुन्ध इति{*४/३८४*}. तत्र संदेहः, किं नित्यो वैश्वानरः, अथ नैमित्तिक इति. किं प्राप्तम्? अत्रापि नित्य एव. अर्थवादः, उख्यस्य संवत्सराभरणेन कृतो दोषः, वैश्वानरेण विहन्यत इति. नित्यैश् चास्य समानसंख्यत्वं भवति, त्रीण्य् एतानि हवींषि भवन्ति, त्रय इमे लोका एषां लोकानाम् आरोहायेति, लोकानां हविषां सामान्यं नास्ति. यदि यथा लोका नित्यास् त्रयः, एवम् इमानि हवींषि नित्यानि त्रीणि, एवं लोकैः संस्तवो घटते. तस्मान् नित्यो वैश्वानर इति.
SK
NOTES: *{४/३८२: Tऐत्.S. ५.५.२.१}* *{४/३८३: E२: अभूत्वाग्निं}* *{४/३८४: Tऐत्.S. ५.५.१.७}*
SK
पक्षे वोत्पन्नसंयोगात् // MS_४,४.१३ //
SK
उत्पन्नस्य निमित्त उख्याभरणे निर्घातेन संयोगः. नासंयुक्तस्योत्पन्नस्य दोषनिर्घातप्रयोजनता. तस्माद् इह न दधिग्रहवद् विरोधो ऽस्ति. तेन नार्थवादः, नैमित्तिक इति. अथ यद् उक्तम्, लोकैः समानसंख्यत्वं नित्यत्वाद् उपपद्यते, नान्यथेति. तत्र ब्रूमः, त्रित्वाल् लोकानां हविषां च सामान्याद् अर्थवादो भविष्यतीति.
SK
षट्चितिः पूर्ववत्त्वात् // MS_४,४.१४ //
SK
अस्त्य् अग्निः, य एवं विद्वान् अग्निं चिनुत इति{*४/३८५*}. तत्र [५२३]{*४/३८६*} श्रूयते, संवत्सरो वैनं प्रतिष्ठायै नुदति यो ऽग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश् चितयो भवन्ति. अथ षष्ठीं चितिं चिनुत इति{*४/३८७*}. तत्र संदेहः, किं यो ऽयं नित्य एवाग्निः स एवायं षट्चितिक उच्यते, उतैकचितिको नैमित्तिक इति. किं प्राप्तम्? तस्मिन्न् एव नित्ये ऽग्नौ षष्ठी चितिर् एषा विधीयते, नित्यायाम् एव षष्ठ्याम् एषो ऽर्थवादः. यो ऽपि न प्रतिष्ठार्हः, सो ऽप्य् अनया षष्ठ्या चित्या प्रतिष्ठातुम् अर्हतीति चितिप्रशंसा. किम् अर्थम् एवं वर्ण्यते? षष्ठीशब्दश्रवणात्. षण्णां हि पूरणी षष्ठी, एकस्यां हि चितौ षष्ठीशब्दो न सामञ्जस्येन स्यात्. तस्मात् षट्चितिको ऽग्निर् नित्य इति.
SK
NOTES: *{४/३८५: Tऐत्.S. ५.५.२.१}* *{४/३८६: E२: ५,९४; E६: २,५७}* *{४/३८७: Tऐत्.S. ५.४.२.२}*
SK
ताभिश् च तुल्यसंख्यानात् // MS_४,४.१५ //
SK
ताभिश् च पूर्वाभिर् अस्यास् तुल्यवत् प्रसंख्यानं भवति. कथम्? इयं वाव प्रथमा चितिः, ओषधयः पुरीषम्. अन्तरीक्षं वाव द्वितीया चितिः, वयांसि पुरीषम्. असौ वाव तृतीया चितिः, नक्षत्राणि पुरीषम्. यज्ञो वाव चतुर्था{*४/३८८*} चितिः, दक्षिणा पुरीषम्. यजमानो वाव पञ्चमी चितिः, प्रजाः पुरीषम्. संवत्सरो वाव षष्ठी चितिः, ऋतवः पुरीषम् इति{*४/३८९*}, तुल्यानां च तुल्यवद् अनुक्रमणं भवति, यथा - देवा ऋषयो गन्धर्वास् ते ऽन्यत आसन्. असुरा रक्षांसि पिशाचाः ते ऽन्यत आसन्न् इति{*४/३९०*}, तुल्यवच् चामूषां चितीनाम् अनुक्रमणम् अनया षष्ठ्या. तस्माद् एतया तत्तुल्यया भवितव्यम्. यदि च यस्मिन्न् एव क्रतौ [५२४]{*४/३९१*} ताः, तस्मिन्न् एवैषा, तत एताभिस् तुल्या. तस्माद् अपि स एव नित्यो ऽग्निः षट्चितिक इति.
SK
NOTES: *{४/३८८: E२,६: चतुर्थी}* *{४/३८९: Tऐत्.S. ५.६.१०.३}* *{४/३९०: Tऐत्.S. २.४.१.१}* *{४/३९१: E२: ५,९४; E६: २,५८}*
SK
अर्थवादोपपत्तेश् च // MS_४,४.१६ //
SK
अर्थवादश् च भवति, षट् चितयो भवन्ति, षट् पुरीषाणि, तानि द्वादश संपद्यन्ते, द्वादशा मासाः संवत्सरः, संवत्सर एव प्रतितिष्ठतीति{*४/३९२*}, तद् एकचितिके ऽग्नौ न सामञ्जस्येन वचनं भवति. तस्मान् नित्य एव षट्चितिकः.
SK
NOTES: *{४/३९२: Tऐत्.S. ५.६.१०.३}*
SK
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन // MS_४,४.१७ //
SK
एकचितिर् वा नैमित्तिकः{*४/३९३*} स्यात्. कुतः? अपवृक्ते हि यागे चोद्यते, अप्रतिष्ठया निमित्तेन. यो न प्रतितिष्ठति, तस्यैषा चितिर् उच्यते नैमित्तिकी, सा न नित्या भवितुम् अर्हति. अपि चापवृक्ते यागे चोद्यते सा, न वर्तमाने भवितुम् अर्हति. ननु चित्वेति चयने निर्वृत्ते, न यागे. उच्यते, नैतत् पदार्थे निर्वृत्ते चित्वेति. किं तर्हि? वाक्यार्थे. अग्निं चित्वेति, अग्नेश् चयनेनार्थम् अभिनिर्वर्त्येति. कृते च यागे चयनेनाग्नेर् अर्थो निर्वर्तितो भवति, नान्यथा. षष्ठीशब्दश् च, पञ्च पूर्वाश् चितय उक्ताः, ता अपेक्ष्यावकल्पिष्यते, तस्मान् निर्वृत्ते याग इत्य् उच्यते. तस्माद् वचनाद् एकचितिर् अग्निः.
SK
NOTES: *{४/३९३: E१ गिब्त् नैमित्तिकः इन् Kलम्मेर्न्}*
SK
विप्रतिषेधात् ताभिः समानसंख्यत्वम् // MS_४,४.१८ //
SK
द्वयोः सूत्रयोर् इदम् उत्तरम्, ताभिश् च तुल्यसंख्यानात्, [५२५]{*४/३९४*} अर्थवादोपपत्तेश् चेति{*४/३९५*}. ताभिर् नित्याभिः{*४/३९६*} समानसंख्यत्वं भविष्यति, अर्थवादश् चोपपत्स्यते. पञ्च पूर्वाश् चितयो भवन्ति, याभिर् असौ चितिभिर् न प्रतितिष्ठते, अथेयं षष्ठी प्रतिष्ठार्थम् इति. ताश् च सपुरीषा अपेक्ष्य द्वादशत्वेन संस्तवो भविष्यति. विप्रतिषेधाद् एकस्य, षट्संख्याया द्वादशसंख्यायाश् चेति. अतुल्यानाम् अपि तुल्यवद् अनुक्रमणं भवति, यथा - देवा मनुष्याः पितरस् ते ऽन्यत आसन्न् इति{*४/३९७*}.
SK
NOTES: *{४/३९४: E२: ५,९५; E६: २,५८}* *{४/३९५: E१ गिब्त् द्वयोः सूत्रयोर् इदम् उत्तरम्, ताभिश् च तुल्यसंख्यानात्, अर्थवादोपपत्तेश् चेति इन् Kलम्मेर्न्}* *{४/३९६: E१ गिब्त् नित्याभिः इन् Kलम्मेर्न्}* *{४/३९७: Tऐत्.S. २.४.१.१}*
SK
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् // MS_४,४.१९ //
SK
अस्त्य् आमावास्ये कर्मणि पितृयज्ञः, अमावास्यायाम् अपराह्णे पिण्डपितृयज्ञेन चरन्तीति{*४/३९८*}. तत्र संशयः, किम् आमावास्यस्य कर्मणः पिण्डपितृयज्ञो ऽङ्गम्, उतानङ्गम् इति. किं प्राप्तम्? अङ्गम्, फलवत् संनिधानान् निष्क्रयवचनाच् च. आह, ननु फलवत् संनिधाव् अफलं तदङ्गं भवति, फलवच् चेदं कल्प्येत स्वर्गेणेति. उच्यते, सत्यम्, अमानास्ययैकवाक्यत्वान् न शक्यः स्वर्गः कल्पयितुम् इति. आह, कालवचनत्वान् न कर्मणैकवाक्यत्वं संभवतीति. उच्यते, लक्षणयापि तावत् कर्मैकवाक्यत्वं संभवति. स्वर्गे कल्प्ये न लक्षणा, न श्रुतिः. एवं चामनन्ति, यत् पितृभ्यः पुर्वेद्युः करोति, पितृभ्य एतद् यज्ञं निष्क्रीय यजमानो देवेभ्यः प्रतनुत इति{*४/३९९*}, अमावास्यां प्रति निष्क्रेतुम्{*४/४००*} च श्रूयते, तस्मात् तदङ्गभूतम् इति. एवं प्राप्ते ब्रूमः, पितृयज्ञः स्वकालत्वाद् अनङ्गं{*४/४०१*} स्यात्, [५२६]{*४/४०२*} अनङ्गभूतः पिण्डपितृयज्ञः. कस्मात्? स्वकालत्वात्, स्वशब्दाभिहितेन कालेनास्य संबन्धः, न कर्मणा लक्षितेनेति, यथा - दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति{*४/४०३*}, यथा तद् एतत्{*४/४०४*} पुरस्ताद् उपसदां सौम्येन चरन्तीति{*४/४०५*} च, काल{*४/४०६*} एवायं मुख्यः शब्दो न कर्मणि, कर्मणि{*४/४०७*} लक्षणा, श्रुतिश् च लक्षणाया बलीयसी. यच् चोक्तम्, लक्सणया कर्मैकवाक्यता भविष्यतीति, तच् च न. कस्मात्? अनुवादे हि लक्षणा न्याय्या, न विधौ. विधिश् चायम्. तस्मान् नामावास्याकर्मणा संबन्धः, एकस्मिन् काले द्वे कर्मणी परस्परेणासंबद्ध इति.
SK
NOTES: *{४/३९८: Tऐत्.Bर्. १.३.१०.२}* *{४/३९९: Tऐत्.S. १.३.१०.२}* *{४/४००: E२: प्रतनितुं}* *{४/४०१: E२: अङ्गं}* *{४/४०२: E२: ५,९६; E६: २,५९}* *{४/४०३: Tऐत्.S. २.५.६.१; दzउ MS ४.३.३७}* *{४/४०४: E२ ओम्. तद् एतत्}* *{४/४०५: Tऐत्.Bर्. १.८.१.२; दzउ MS ४.४.५-६}* *{४/४०६: E२,६: अत्र काल}* *{४/४०७: E२ ओम्. कर्मणि}*
SK
तुल्यवच् च प्रसंख्यानात् // MS_४,४.२० //
SK
तुल्यवच् चान्यैः प्रधानैः प्रसंख्यायते, चत्वारो वै महायज्ञाः, अग्निहोत्रम्, दर्शपूर्णमासौ, ज्योतिष्टोमः, पिण्डपितृयज्ञ इति, महायज्ञैस् तुल्यवत् प्रसंख्यायते. कास्य महायज्ञता स्यात्, अन्यतः फलवत्तायाः. तस्माद् अनङ्गम्.
SK
प्रतिषिद्धे च दर्शनात् // MS_४,४.२१ //
SK
इतश् चानङ्गम्, प्रतिषिद्धे{*४/४०८*} आमावास्ये पिण्डपितृयज्ञं दर्शयति, पौर्णमासीम् एव यजेत भ्रातृव्यवान्, नामावास्याम्, हत्वा भ्रातृव्यम् अमावास्यया यजेत, पिण्डपितृयज्ञेनैवामावास्यायां प्रीणातीति{*४/४०९*}. असत्याम् अमावास्यायां पिण्डपितृयज्ञं दर्शयति, तदनङ्गत्व उपपद्यते. तस्माद् अपि नाङ्गं पिण्डपितृयज्ञ इति. किं प्रयोजनं चिन्तायाः? यदि पौर्णमास्याम् आधानम्, ततो ऽनन्तरायाम् अमावास्यायां न क्रियते, यथा पूर्वपक्षः. यथा तर्हि सिद्धान्तः, तथा कर्तव्यः. इदम् अपरं प्रयोजनम्, कुण्डपायिनामयने मासम् अग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां [५२७]{*४/४१०*} यजेतेति, यथा पूर्वः पक्षः, तथा कर्तव्यः पिण्डपितृयज्ञः. यथा सिद्धान्तः, तथा न कर्तव्य इति. श्लोकम् अप्य् उदाहरन्ति - आधानं पौर्णमास्यां चेद् वृत्ते दर्शे करिष्यते/ अनङ्गं पितृयज्ञश् चेत् तत्रैव{*४/४११*} न करिष्यते// इति.
SK
NOTES: *{४/४०८: E२: प्रतिषिद्धे ह्य्}* *{४/४०९: Tऐत्.S. २.५.४.३}* *{४/४१०: E२: ५,९७; E६: २,६०}* *{४/४११: E२: सत्रे च}*
SK
पश्वङ्गं रशना स्यात् तदागमे विधानात् // MS_४,४.२२ //
SK
ज्योतिष्टोमे श्रूयते, आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुम् उपाकरोतीति. तत्र संदेहः, किं पश्वङ्गं रशना, उत यूपाङ्गम् इति. किं प्राप्तम्? पश्वङ्गम्. कुतः? तदागमे विधानात्, पश्वागमे हि विधीयते. पशुनास्याः संबन्ध उत्पत्तिवाक्ये श्रूयते, परिव्याणं कृत्वोपाकरोति पशुं नान्यथेति. एवं श्रुतिर् भवति, कालवचने लक्षणा स्यात्, परिव्याणेन कालो लक्ष्येतेति.
SK
यूपाङ्गं वा तत्संस्कारात् // MS_४,४.२३ //
SK
ज्योतिष्टोमे प्रत्यक्षो हि यूपस्य संस्कारः, रशना हि या च यावतीं च द्रढिम्नो मात्रां यूपस्य संजनयति, द्रढिम्ना च प्रयोजनं यूपस्य. तस्माद् यूपस्यैव द्रढिम्ने रशना स्यात्. द्वितीया च विभक्तिस् तत्प्राधान्य एव भवति, रशनायां च तृतीया. तृतीया च गुणत्वे तस्याः, तस्माद् यूपाङ्गम्. यत् तु, तदागमे विधानाद् इत्य् उक्तम्, तत्परिहर्तव्यम्. उच्यते, तदागमे विधानं [५२८]{*४/४१२*} वाक्यम्{*४/४१३*}, द्वितीया च विभक्तिः श्रुतिः प्रत्यक्षं च, वाक्यं बाधेयाताम् इति. यत् तु लक्षणेति, श्रुत्यसंभवे लक्षणापि न्याय्यैव.
SK
NOTES: *{४/४१२: E२: ५,९८; E६: २,६०}* *{४/४१३: E२: वाक्यात्}*
SK
अर्थवादश् च तदर्थवत् // MS_४,४.२४ //
SK
एवं च मन्त्रार्थवादो ऽर्थवान् भविष्यति, युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः. तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति{*४/४१४*}. तस्माद् यूपाङ्गं रशनेति. किं प्रयोजनं चिन्तायाः? अग्नौ श्रूयते, एकयूप एकादश पशवो नियोज्या इति. प्रतिपशु रशना कार्या, यदि पूर्वः पक्षः. सिद्धान्ते द्वैरशन्यम् एव. श्लोकम् अप्य् उदाहरन्ति - पश्वङ्गं रशना चेत्, यद्य् एकस्मिन् बहून् नियुञ्जीत/ प्रतिपशु रशना कार्या, यूपे चेद् द्वैरशन्यं स्यात्// इति.
SK
NOTES: *{४/४१४: ṚV ३.८.४}*
SK
स्वरुश् चाप्य् एकदेशत्वात् // MS_४,४.२५ //
SK
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः सोमाङ्गभूतः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*४/४१५*}. तत्र श्रूयते, स्वरुणा स्वधितिना वा पशुम् अनक्तीति. तत्र संदेहः, किं यूपाङ्गं स्वरुः, उत पश्वङ्गम् इति. किं प्राप्तम्? यूपाङ्गम् इति ब्रूमः. कुतः? एकदेशत्वात्. एकदेशः स्वरुर् यूपस्येति श्रूयते, यूपस्य स्वरुं करोतीति स्वरुम् अन्तं यूपं कुर्याद् इत्य् अर्थः{*४/४१६*}. एवं स यूपो भवतीति, यथा चषालम्.
SK
[५२९]{*४/४१७*}
SK
NOTES: *{४/४१५: Tऐत्.S. ६.१.११.६}* *{४/४१६: E१ गिब्त् स्वरुं करोतीति स्वरुम् अन्तं यूपं कुर्याद् इत्य् अर्थः इन् Kलम्मेर्न्}* *{४/४१७: E२: ५,९९; E६: २,६१}*
SK
निष्क्रयश् च तदङ्गवत् // MS_४,४.२६ //
SK
यूपाङ्गम् इव स्वरुं निष्क्रयवादो दर्शयति, अपश्यन् ह स्म वै पुरा ऋषयो ये यूपं प्रापयन्ति, संभज्य स्रुवन्ते मन्यन्ते, यज्ञवैशसाय वा इदं कर्मेति, ते प्रस्तरं स्रुवनिष्क्रयम् अपश्यन्, यूपस्य स्वरुम् अयज्ञवैशसायेति, निष्क्रयश्रवणात् तदङ्गता विज्ञायते. तस्माद् यूपाङ्गम् इति.
SK
पश्वङ्गं वार्थकर्मत्वात् // MS_४,४.२७ //
SK
पश्वङ्गं वा, तस्य ह्य् अञ्जनार्थेन स्वरुणा प्रयोजनम्. तथा हि श्रूयते, स्वरुणा पशुम् अनक्तीति. तद् अञ्जनं पशोः, स्वरोर् उत्पत्तिं प्रयोजयति. यदि तदर्थ एषः स्वरुः, ततो दृष्टं प्रयोजनम्. अथ यूपार्थः, अदृष्टं प्रयोजनं{*४/४१८*} ततः कल्प्यम्. तस्मात् पश्वङ्गम् इति.
SK
NOTES: *{४/४१८: E२ ओम्. प्रयोजनं}*
SK
भक्त्या निष्क्रयवादः स्यात् // MS_४,४.२८ //
SK
कया भक्त्या? एवम् आह, यूपः किलाग्नौ पक्षेतव्यः, यत् स्वरुः प्रक्षिप्यते, तेन{*४/४१९*} यूपः प्रक्षिप्यत इति स एष निष्कय इव भवति, अनया भक्त्या स्तुतिर् इति. किं भवति प्रयोजनम्? एकयूप एकादश पशवो यदा नियुज्यन्ते, तदैकस्यैव पशोः समञ्जनम्, पूर्वस्मिन् पक्षे. सर्वेषां सिद्धान्ते. श्लोकश् च भवति - स्वरुर् यूपाङ्गम् इति चेद् एकस्मैव समञ्जनम्/ बहूनाम् एकयूपत्वे, सर्वेषां तु समञ्जनम्// इति.
SK
[५३०]{*४/४२०*}
SK
NOTES: *{४/४१९: E२: तेन तेन}* *{४/४२०: E२: ५,१००; E६: २,६२}*
SK
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् // MS_४,४.२९ //
SK
स्तो दर्शपूर्णमासौ, तत्र श्रूयन्ते, आग्नेयाग्नीषोमीयोपांशुयाजैन्द्राग्नसांनाय्ययागाः. तथा, आघाराव् आज्यभागौ, प्रयाजानुयाजाः, पत्नीसंयाजाः, समिष्टयजुः, स्विष्टकृद् इति. तत्र संदेहः, किं सर्वे यागाः प्रधानभूताः, उत केचिद् गुणभूता इति. किं प्राप्तम्? दर्शपूर्णमासयोर् यावत्य इज्यास् ताः सर्वाः प्रधानभूता इति. यजेत स्वर्गकाम इत्य् अविशेषेण यागेभ्यः फलं श्रूयते, फलवच् च प्रधानम्, सर्वे चामी यागाः. तस्मात् सर्वे प्रधानभूता इति.
SK
अपि वाङ्गानि कानिचिद् येष्व् अङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः{*४/४२१*} // MS_४,४.३० //
SK
अपि वा कानिचिद् अङ्गानि भवेयुः. कानि पुनस् तानि? येष्व् अङ्गत्वेन संस्तुतिः, यथा, अभीषू वा एतौ यज्ञस्य यद् आघारौ, चक्षुषी वैतौ यज्ञस्य यद् आज्यभागौ{*४/४२२*}, यत् प्रयाजानुयाजाश् चेज्यन्ते वर्म वा एतद् यज्ञस्य क्रियते, वर्म वा यजमानस्य भ्रातृव्यस्याभिभूत्यै, इति{*४/४२३*}. अभीशू रथस्याङ्गम्, चक्षुषी चक्षुष्मतः, वर्म वर्मवतः. सामान्यो ह्य् अभिसंस्तवो युक्तः. यदि चाङ्गानि तानि संस्तुतानि, ततः संस्तवो ऽर्थवान् भवति. तस्माद् अङ्गसंस्तुतान्य् अङ्गानीति.
SK
[५३१]{*४/४२४*}
SK
NOTES: *{४/४२१: E१ (Fन्.): सामान्येष्व् अभिसंस्तवः}* *{४/४२२: Tऐत्.S. २.६.२.१}* *{४/४२३: Tऐत्.S. २.६.१.५}* *{४/४२४: E२: ५,१०१; E६: २,६२}*
SK
तथा चान्यार्थदर्शनम् // MS_४,४.३१ //
SK
एवं च कृत्वान्यार्थदर्शनम् उपपन्नं भवति, प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*४/४२५*}. न च प्रयाजान् यजति, न चानुयाजान् यजतीति च.
SK
NOTES: *{४/४२५: Tऐत्.S. २.३.२.३}*
SK
अविशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् // MS_४,४.३२ //
SK
अविशिष्टम् एतत् कारणं संस्तवो नाम, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अस्ति, शिरो वैतद् यज्ञस्य यद् आग्नेयः, हृदयम् उपांशुयागः, पादाव् अग्नीषोमीय इति, शिरः शिरस्वतो ऽङ्गम्, हृदयं हृदयवतः, पादौ पादावत इति सर्वस्यैवाङ्गत्वेन संस्तुतिर् इति सर्वम् एवाङ्गं प्राप्नोति. तत्{*४/४२६*} प्रधानं न स्यात्. असति प्रधाने कस्याङ्गम्? तस्मान् नैतद् अङ्गम् इति.
SK
NOTES: *{४/४२६: E१ (Fन्.): तत्र}*
SK
नानुक्ते ऽन्यार्थदर्शनं परार्थत्वात् // MS_४,४.३३ //
SK
अथ यद् उक्तम्, अन्यार्थदर्शनं परार्थत्वात्, न तत् साधकं भवति. परार्थं हि तद् वाक्यम्, न दृश्यमानस्य प्रयाजादेः प्रापणार्थम्. तस्माद् अन्यद् अस्य प्रमाणम् अन्वेष्टव्यं श्रुत्यन्तरं न्यायो वा. तस्मिन्न् असति, मृगतृष्णादर्शनम् इव तद् भवति, संस्तुतिर् अप्य् असति न्याये, असाधिकैव.
SK
[५३२]{*४/४२७*}
SK
NOTES: *{४/४२७: E२: ५,१०१; E६: २,६३}*
SK
पृथक्त्वे त्व् अभिधानयोर् निवेशः, श्रुतितो व्यपदेशाच् च, तत् पुनर् मुख्यलक्षणं यत् फलवत्त्वम्, तत् संनिधाव् असंयुक्तं तदङ्गं स्यात्, भागित्वात् कारणस्याश्रुतश् चान्यसंबन्धः // MS_४,४.३४ //
SK
तुशब्दः पक्षं व्यावर्तयति. तद् उक्तम्, सर्वाणि समप्रधानानीति. नैतद् एवम्, दर्शपूर्णमासशब्दवाच्यानि प्रधानानि कर्माणि. कुतः? फलसंयोगात्, दर्शपूर्णमासशब्दकेभ्यः फलं श्रूयते, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति{*४/४२८*}. कानि पुनर् दर्शपूर्णमासशब्दकानि? येषां वचने पौर्णमासीशब्दो ऽमावास्याशब्दो वा, आग्नेयादीनि तानि. नन्व् अमावास्याशब्दकानां नैव फलं श्रूयते. उच्यते, पृथक्त्वे समुदाययोर् निवेश एतयोर् अभिधानयोः, पौर्णमासीति चामावास्या इति च, त्रिष्व् आग्नेयादिषु यः समुदायः, तत्र पौर्णमासीशब्दः, इतरेष्व् अमावास्याशब्दः. कथं पौर्णमास्य् अमावास्येति च द्विशब्दः श्रूयते? द्व्यर्थवद् व्यपदेशाच् च. कथं तद् व्यपदेशः? द्विवचन्निर्देशात्, दर्शपूर्णमासाभ्याम् इति, एकार्थौ च दर्शामावास्याशब्दौ. कथम्? दर्शो वा एतयोः पूर्वः, पूर्णमास उत्तरस् तयोर् अथ यत् पूर्णमासं पूर्वम् आरभते तद् अयथापूर्वं प्रक्रियते, दर्शपूर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत्, सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती, पूर्णमासः सरस्वान्. उभाव् एतौ यथापूर्वं कल्पयित्वारभत ऋद्ध्यै ऋध्नोत्य् एवार्थो मिथुनत्वायेति{*४/४२९*}. तत्र दर्शशब्देन प्रकृत्यामावास्याशब्देन ब्रुवन्न् एकार्थतां दर्शयति. शक्यते च चन्द्रस्यादर्शनेनामावास्या दर्श इति लक्षयितुम्, यथा चक्षुषोर् अभावे सति चक्षुष्मान् इति चक्षुर्भ्यां लक्ष्यते. [५३३]{*४/४३०*} एतस्माद् व्यपदेशाच् च श्रुतितश् च लोके श्रवणाद्{*४/४३१*} एकार्थताम् एवाध्यवस्यामः. तत् पुनर् मुख्यलक्षणम्, यत् फलवत्त्वम्, यद् अन्यत् तत् संनिधौ श्रूयते, तत् तद् अङ्गम्. कथम्? इतिकर्तव्यताकाङ्क्षस्य संनिधौ श्रूयमाणम्, इतिकर्तव्यताविशेषणत्वेन परिपूरणसमर्थं तदङ्गं भवितुम् अर्हति. अकल्प्यमाने वाक्यशेषे फलं कल्पयितव्यं स्याद् इति. आह, ननु दर्शपूर्णमासफलम् एवात्रानुषज्यते. उच्यते, शक्यम् अनुषक्तुम्, किं तु दर्शपूर्णमासवाक्यं साकाङ्क्षम् एव स्यात्. अन्यास्येतिकर्तव्यताश्रुता कल्प्येत. एषाम् अपि प्रयाजादीनाम् अन्या कल्प्येत. एतद् इतिकर्तव्यतावगम्यमानोत्सृज्येत, तेनाङ्गत्वम्, कारणं भागीति. एषां अन्येन फलेन संबन्धो ऽश्रुतः. तस्मान् न सर्वाणि समप्रधानानि, आघारादीनि गुणकर्माणीति.
SK
NOTES: *{४/४२८: Tऐत्.S. ३.५.१.४}* *{४/४२९: Tऐत्.S. ३.५.१.४}* *{४/४३०: E२: ५,१०२; E६: २,६४}* *{४/४३१: E१ गिब्त् लोके श्रवणाद् इन् Kलम्मेर्न्}*
SK
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते // MS_४,४.३५ //
SK
नामविशेषसंयुक्ताश् च गुणविशेषा विधीयन्ते, यथा - चतुर्होत्रा पूर्णमासीम्{*४/४३२*} अभिमृशेत्, पञ्चहोत्रामावास्याम् इति, सर्वेषु प्रधानेषु, अस्मिन् समुदाये चतुर्होत्रा, अस्मिन् पञ्चहोत्रेति विभागाविज्ञानाच् चेदं नोपपद्येत. भवति चैवंलक्षणकं गुणविधानम्. तस्माद् अस्मत्पक्ष एवेति. अपि चाङ्गत्वेनाधारादीनां संस्तुतिर् उपपन्ना भविष्यति.
SK
[५३४]{*४/४३३*}
SK
NOTES: *{४/४३२: E२: पौर्णमासीम्}* *{४/४३३: E२: ५,१०३; E६: २,६४}*
SK
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसंबन्धः // MS_४,४.३६ //
SK
अथ यद् उक्तम्, आग्नेयादीनाम् अप्य् अङ्गत्वेन संस्तुतिर् अङ्गत्वं ख्यापयेद् इति. तत् परिहर्तव्यम्.
SK
उत्पत्ताव् अभिसंबन्धस् तस्माद् अङ्गोपदेशः स्यात् // MS_४,४.३७ //
SK
नैष दोषः, प्रधानानाम्{*४/४३४*} अप्य् एषां सताम् उत्पत्त्यपेक्षा{*४/४३५*} शिरादिस्तुतिर् अभिविष्यतीति{*४/४३६*}. जायमानस्य{*४/४३७*} हि पुरुषस्याग्रे शिरो जायते, मध्ये मध्यम्, पश्चात् पादौ, एवम् आग्नेयो ऽग्रतः, उपांशुयाजो मध्ये, अग्नीषोमीयः पश्चाद् इति. एतस्मात् सामान्यादोषा स्तुतिर् इति.
SK
NOTES: *{४/४३४: E२: प्रधानाम्}* *{४/४३५: E२: उत्पत्त्यपेक्षया}* *{४/४३६: E२ ओम्. इति}* *{४/४३७: E२: यथा जायमानस्य}*
SK
तथा चान्यार्थदर्शनम् // MS_४,४.३८ //
SK
चतुर्दश पूर्णमास्याम् आहुतयो हूयन्ते, त्रयोदशामावास्यायाम् इति, इतरथा न चतुर्दश पौर्णमास्याम् आहुतयो भवेयुः, न वामावास्यायां त्रयोदशेति. तस्माद् आग्नेयादीनि प्रधानानि, आघारादीन्य् अङ्गानीति सिद्धम्.
SK
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् // MS_४,४.३९ //
SK
अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति. [५३५]{*४/४३८*} तत्र दीक्षणीयादयश् च यागा विद्यन्ते, सौत्ये चाहनि सोमयागः. तत्र संदेहः, किम् अत्र यागमात्र प्रधानम्, उत सोमयाग इति. किं प्राप्तम्? ज्योतिष्टोमे तुल्यानि सर्वाणि भवेयुः. कुतः? अविशिष्टं हि कारणम्, यागात् फलं श्रूयते, सर्वे चामी यागाः, फलवच् च प्रधानम्. तस्माज् ज्योतिष्टोमे सर्वे यागाः प्रधानम् इति.
SK
NOTES: *{४/४३८: E२: ५,१०३; E६: २,६५}*
SK
गुणानां तूत्पत्तिवाक्येन संबन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् // MS_४,४.४० //
SK
गुणानां तूत्पत्तिवाक्येन संबन्धो भवति. केषां गुणानाम्? ज्योतिषां स्तोमानाम्. कतमेनोत्पत्तिवाक्येन संबन्धो भवति? ज्योतिष्टोमेन स्वर्गकामो यजेतेति{*४/४३९*}, ज्योतिष्टोमाद् यागात् स्वर्गः श्रूयते, न यागमात्रात्. यत्र च ज्योतींषि स्तोमाः, स ज्योतिष्टोमः. कस्य ज्योतींषि स्तोमाः? स्तोमयागस्येति ब्रूमः. एवं ह्य् आम्नायते, कतमानि वैतानि ज्योतींषि, य एते तस्य स्तोमाः, त्रिवृत् पञ्चदशसप्तदशैकविंशा एतानि वा ज्योतींषि. तान्य् एतस्य स्तोमा इति{*४/४४०*}, सोमयागस्य स्तोमा अङ्गम्, समभिव्याहारात्, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकरोतीति, ते च स्तोमास् त्रिवृदादयः. कथम्? त्रिवृद् बहिष्पवमानम्, पञ्चदशान्य् आज्यानीत्येवमादिभिः श्रवणैः. तस्मात् त्रिवृदादिस्तोमकः सोमयागः, स ज्योतिष्टोम इति. यश् च ज्योतिष्टोमस् ततः फलम्, यतश् च फलं तद् एव प्रधानम् इति. कथं पुनस् त्रिवृदादयो ज्योतींषि? उच्यते, भवन्तु वा ज्योतींषि, मा वा भूवन्, ज्योतिःशब्देन तावद् उक्तानि. [५३६]{*४/४४१*} वचनमात्रेणापि शब्दो भवति, विशेषतो लक्षणायाम्. अपि च द्योततेर् वा दीप्तिकर्मणो ज्योतयतेर् वा{*४/४४२*} ज्योतिःशब्दं लभन्ते. द्योत्यते{*४/४४३*} हि तैः शब्दैः, द्योतयन्तीति वा स्तुत्याम्{*४/४४४*}. तस्मात् सोमयागो ज्योतिष्टोमः. स च प्रधानम्, गुणभूता दीक्षणीयादय इति.
SK
NOTES: *{४/४३९: Tऐत्.Bर्. १.५.११.२}* *{४/४४०: Tऐत्.Bर्. १.५.११.३}* *{४/४४१: E२: ५,१०५; E६: २,६५}* *{४/४४२: E६ ओम्. ज्योतयतेर् वा}* *{४/४४३: E२: द्योत्यन्ते}* *{४/४४४: E२: स्तुत्यम्}*
SK
तथा चान्यार्थदर्शनम् // MS_४,४.४१ //
SK
शिरो वा एतद् यज्ञस्य यद् दीक्षणीयेत्येवमादि च लिङ्गं दृश्यते. तथा गुणाश् च ज्योतिष्टोमविकारे दीक्षणीयादयो दृश्यन्ते, चतुर्विंशति मानं हिरण्यं दीक्षणीयायां दद्यात्, प्रापणीयायां द्वे चतुर्विंशतिमान इति, तुल्यत्वे न प्रवर्तयिष्यन्ते दीक्षणीयादयः. तस्माद् अपि सोमयागः प्रधानम् इति.
SK
[५३७]{*४/४४५*}
SK
NOTES: *{४/४४५: E२: ५,१०६; E६: २,६६}*
SK
श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात्//५.१.१//
SK
चतुर्थे ऽध्याये प्रयोजकाप्रयोजकलक्षणं वृत्तम्, तन् न प्रस्मर्तव्यम्. इहेदानीं क्रमनियमलक्षणम् उच्यते, तच् छ्रुत्यर्थपाठप्रवृत्तिकाण्डमुख्यैर् वक्ष्यते, श्रुत्यादीनां च बलाबलम्. आदितस् तु श्रुतिक्रमश् चिन्त्यते. किं यथाश्रुति पदार्थानां क्रम आस्थेयः, उतानियमेनेति. किं प्राप्तम्? एकत्वात् कर्तुः, अनेकत्वाच् च पदार्थानाम्, अवश्यं भाविनि क्रमे लाघवात् प्रयोगप्राशुभावाच् चानियम इत्य् एवं प्राप्ते ब्रूमः. श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वाद् इति. श्रुतिर् ग्रहणम्{*४/४४६*} अक्षराणाम्, तन् निमित्तं यस्य क्रमस्य, स साधुः क्रमः. श्रुतिप्रमाणका हि वैदिका अर्थाः, नैषाम् अन्यत् प्रमाणम् अस्तीत्य्{*४/४४७*} उक्तम्. किम् इहोदाहरणम्? सत्रे दीक्षाक्रमः{*४/४४८*}, य ऋत्विजस् ते यजमाना इत्य्{*४/४४९*} उक्त्वा, तेषां दीक्षाक्रमं विधत्ते, अध्व्यर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम्, ततो होतारम्, ततस् तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्रावरुणं होतुः, ततस् तं नेष्टा{*४/४५०*} दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीध्रं ब्रह्मणः, प्रतिहर्तारम् उद्गातुः, अच्छावाकं होतुः, ततस् तम् उन्नेता दीक्षयित्वा पदिनो{*४/४५१*} दीक्षयति, पोतारं [५३८]{*४/४५२*} ब्रह्मणः, सुब्रह्मण्यम् उद्गातुः, ग्रावस्तुतं होतुः, ततस् तम् अन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वाचार्यप्रेषित इति. अनियमेन क्रमः कर्तव्यः, यथा पूर्वः पक्षः. यथा तर्हि सिद्धान्तः, एष एव क्रमः कर्तव्य इति. तत्राह, अन्याय्यं श्रुतिवचनम् इति. उच्यते, किम् अयं{*४/४५३*} न साधुः? न, न साधुर् इति ब्रूमः. न्याय्यं तर्हि. न ब्रूमः, न साधुः क्रम इति. किं तर्हि? उक्तस्य पुनर्वचनम् अन्याय्याम् इति. उच्यते, साधोर् वचनं बहुशो ऽप्य् उच्यमानं न्याय्यम् एव. असाधोस् तु सकृद् अप्य् अन्याय्यम्. आह, सकृद्वचनेन ज्ञातस्य पुनर्वचने न प्रयोजनम् अस्तीति. उच्यते, भवत्य् अप्रस्मरणम्{*४/४५४*} अपि प्रयोजनम् इत्य् उक्तम्. वृत्तिकारेण तत् कार्यम् इति चेत्. सूत्रकारस्याप्य् अविशेषो वृत्तिकारेण. अथवा - अर्थान्तरम् एवेदम्, तत्र ह्य् अन्य एव संशयो विचारो निर्णयश् च, श्रुतिप्रमाणको धर्मः, अन्यप्रमाणक इति संशयः. प्रत्यक्षादीनाम् अधिगम्य निमित्तत्वान् न तत्प्रमाणकः, अतीन्द्रियत्वाच् चोदनालक्षण इति विचारः. चोदनालक्षण एवेति निर्णयः. इह तु सिद्धे तत्प्रामाण्ये व्यवहारक्रमस्य{*४/४५५*} साधुत्वावधारणम्. अथवा - श्रुतिविचारो{*४/४५६*} ऽयम्. किं पदार्थाः कर्तव्या इति विधानम्, किं वा क्रमो विधीयत इति. अनेकार्थविधानानुपपत्तेः क्रमे{*४/४५७*} ऽनुवादः पदार्थानां{*४/४५८*} विधिः. अवदानवाक्येष्व् इव, पदार्थविधानं श्रुत्या, क्रमविधानं वाक्येन, तस्मान् न क्रमो विधीयत इति पूर्वः पक्षः. नन्व् अवदानवाक्येषु क्रमो विधीयते. सत्यं विधीयते, पाठेन, न श्रुत्या, य{*४/४५९*} ऋत्विजस् ते [५३९]{*४/४६०*} यजमाना इति तु, दीक्षायाः प्राप्तत्वात्, क्रमविधानार्था श्रुतिर् इति सिद्धान्तः. तस्माद् अपुनरुक्तम् इति.
SK
NOTES: *{४/४४६: E२: श्रवणम्}* *{४/४४७: MS १.१.२}* *{४/४४८: E२: दीक्षाक्रमे}* *{४/४४९: E२: ये यजमानास् त ऋत्विज इत्य्}* *{४/४५०: E२: नेष्ठा}* *{४/४५१: E२,६: पादिनो}* *{४/४५२: E२: ५,१०७; E६: २,६६}* *{४/४५३: E२: एष}* *{४/४५४: E२: अस्मरणम्; E६: अपस्मरणम्}* *{४/४५५: E१,६, E२ (Fन्.); E२: व्यवहारः क्रमस्य}* *{४/४५६: E२: श्रुतिक्रमविचारो}* *{४/४५७: E१ (Fन्.), E२: क्रमो ऽनुवादः}* *{४/४५८: E२: दीक्षादीनां पदार्थानां}* *{४/४५९: E२ ओम्. य}* *{४/४६०: E२: ५,१०८; E६: २,६७}*
SK
अर्थाच् च//५.१.२//
SK
किम् एष एवोत्सर्गः सर्वत्र श्रुतिवशेनैव भवितुम् अर्हतीति. उक्तं हि, चोदनालक्ष्णो ऽर्थो धर्म इति{*४/४६१*}. एवं प्राप्ते ब्रूमः, अर्थाच् च सामर्थ्याच् च{*४/४६२*} क्रमो विधीयत इति, गुणभूतो हि पदार्थानां क्रमो भवति, यश् च यस्य निर्वर्त्यमानस्योपकरोति, स तस्य गुणभूतः. यस्मिंश् चाश्रीयमाणे पदार्थ एव न संपद्यते, न स गुणभूतः, विनापि तेन, न वैगुण्यम्. एवं प्रत्यक्षः क्रमस्य गुणभावो यत्र, तत्रार्थेन स एवाश्रयितव्यः, यथा जाते वरं ददाति, जातम् अञ्जलिना गृह्णाति, जातम् अभिप्राणितीति, अर्थात् पूर्वम् अभिप्राणितव्यम्, ततो ऽञ्जलिना ग्रहीतव्यः, ततो वरो देय इति. तथा विमोकः पूर्वम् आम्नातः, पश्चात् तद्योगः, अर्थाद् विपरीतः कार्यः. याज्यानुवाक्ये तु विपर्ययेणाम्नाते, विपर्ययेण कर्तव्ये. नात्र पाठक्रमो मीयते{*४/४६३*}. यतो देवतोपलक्षणार्थानुवाक्या, प्रदानार्था याज्या. अग्निहोत्रं जुहोतीति पूर्वम् आम्नातम्. ओदनं पचतीति पश्चात्. असंभवात् पूर्वम् ओदनः पक्तव्यः. प्रैषप्रैषार्थो तु विपर्ययेणाम्नातौ, तौ च विपर्ययेण कर्तव्यौ.
SK
[५४०]{*४/४६४*}
SK
NOTES: *{४/४६१: Vग्ल्. MS १.१.२}* *{४/४६२: E१ गिब्त् सामर्थ्याच् च इन् Kलम्मेर्न्}* *{४/४६३: E१ (Fन्.): ऽनुमीयते; E२: ऽनुष्ठीयते}* *{४/४६४: E२: ५,११०; E६: २,६८}*
SK
अनियमो ऽन्यत्र//५.१.३//
SK
अस्मिन् विषये क्रमस्य नियमो नास्ति, यथा दर्शपूर्णमासयोर् याजमानानां प्रयाजानुमन्त्रणादीनां नानाशाखान्तरसमाम्नातानां वसन्तम् ऋतूनां प्रीणामीत्येवमादीनाम्{*४/४६५*}, एको ममेत्येवमादीनां{*४/४६६*} च.
SK
NOTES: *{४/४६५: Tऐत्.S. १.६.२.३}* *{४/४६६: ŚPBर् १.५.४.११}*
SK
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात्//५.१.४//
SK
दर्शपूर्णमासयोर् आम्नातम्, समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर् यजति, स्वाहाकारं यजतीति{*४/४६७*}. तत्र संशयः, किम् अनियतेनैव क्रमेणैषाम् अनुष्ठानम्, उत यः पाठक्रमः स एव नियम्येतेति. किं प्राप्तम्? नियमकारिणः शास्त्रस्याभावाद् अनियम इति. एवं प्राप्ते ब्रूमः, क्रमेणैव नियम्येतैकस्मिन् क्रताव् इति. कुतः? तद्गुणत्वात्. तद्गुणत्वं हि गम्यते पदार्थानाम्, यथा - स्नायात्, अनुलिम्पेत्, भुञ्जीतेति च क्रमेणानुष्ठानम् अवगम्यते, वाक्यात् पदार्थानाम्. यथा चादृष्टार्थेषूपदिश्यमानेषु, कश्चिद् ब्रूयात्, देवाय धूपो देयः, पुष्पाण्य् अवकरितव्यानि चन्दनेनानुलेप्तव्य उपहारो ऽस्मा उपहर्तव्यः, एवं कृते देवस् तुष्यतीति. तम् अन्यः प्रतिब्रूते, नैतद् एवम्, न प्रथमं धूपो दातव्यः, प्रथमं पुष्पाण्य् अवकरितव्यानीति. एवं मन्यते, धूपदानस्य प्राथम्यम् अनेनोक्तम् इति. तस्माद् वाचनिक एषाम् एष क्रम इति.
SK
[५४१]{*४/४६८*}
SK
NOTES: *{४/४६७: Tऐत्.S. २.६.१.१}* *{४/४६८: E२: ५,१११; E६: २,६८}*
SK
अशाब्द इति चेत्, स्याद् वाक्यशब्दत्वात्//५.१.५//
SK
इति चेत् पश्यसि, अथैवं गम्यमाने ऽशब्द एव क्रमः. कथम्? पदार्थपूर्वको वाक्यार्थः, पदेभ्यश् च पदार्था एवावगम्यन्ते, न क्रमः. स्याद् एतद् एवम्, यदि पदार्थानां{*४/४६९*} समूहस्य श्रवणं प्रत्यायकम् अर्थस्य स्यात्, न तु समुदायः प्रत्यायकः, इत्य् उक्तं तद्भूतानां क्रियार्थेन समाम्नाय इत्य्{*४/४७०*} अत्र. तस्मात् क्रमस्य वाचकशब्दाभावाद् व्यामोह एष क्रमो ऽवगम्यते. एवं चापूर्वासत्तिर् अनुग्रहीष्यते, इतरथा सापि विप्रकृष्येत घटीयन्त्र इव. दर्शयिष्यति च, हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति. यदि नियामकः पाठक्रमः, ततो न विधातव्यम् एतत्, नियामके हि पाठक्रमे पाठक्रमाद् एव प्राप्नुयात्.
SK
NOTES: *{४/४६९: E१ (Fन्.), E२: पदानां}* *{४/४७०: Vग्ल्. MS १.१.२५}*
SK
अर्थकृते वानुमानं स्यात्, क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन संबन्धः, तस्मात् स्वशब्दम् उच्येत//५.१.६//
SK
एकस्मिन् क्रताव् एकत्वात् क्रतुः, अनेकस्मिन् पदार्थे ऽर्थकृतत्वात् क्रमस्य, तत्रैष एव क्रमो नियम्येतानुमानेन. कुतः? परार्थत्वाद् वेदस्य, परार्थो हि वेदो यद् यद् अनेन शक्यते कर्तुम्, तस्मै तस्मै प्रयोजनायैष समाम्नायते. शक्यते चानेन पदार्थो विधातुम्, शक्यते च क्रियाकाले प्रतिपत्तुम्. तस्माद् वेदः पदार्थांश् च विधातुम् उपादेयः, क्रियाकाले च प्रतिपत्तुम्. न गम्यते{*४/४७१*} विशेषः, विधातुम् अयं समाम्नायते, न प्रतिपत्तुम् इति. अगम्यमाने विशेष उभयार्थम् उपादीयत [५४२]{*४/४७२*} इति गम्यते. प्रतिपत्तुं चानेन क्रमेण शक्यते, नान्येन. अत एव च कृत्वा पाठक्रमापचारे, विनष्ट इत्य् उच्यते, इतरथा हि यद् यस्य प्रयोजनम्, तस्मिन् निर्वर्तमान एव किं नष्टं स्यात्. अदृष्टं कल्प्येत, तच् चान्याय्यं दृष्टे सति. तस्मात् स्वशब्दः क्रमः, य एव पदार्थानां वाचकः शब्दः, स एव क्रमस्यापि.
SK
NOTES: *{४/४७१: E२: गम्यते}* *{४/४७२: E२: ५,११२; E६: २,६९}*
SK
तथा चान्यार्थदर्शनम्//५.१.७//
SK
एवं चान्यार्थं दर्शयति, व्यत्यस्तम् ऋतव्या उपदधाति{*४/४७३*}. व्यत्यस्तं षोडशिनं शंसति{*४/४७४*}. आश्विनो दशमो गृह्यते, तं तृतीयं जुहोतीति. यद्य् अनियमेनोपधानं शंसनं च, व्यत्यस्तवचनम् अनर्थकं स्यात्. न हि कथंचिद् अव्यत्यास इति, तथाश्विनस्य तृतीयस्य होमानुवादो नावकल्प्येत, यदि पाठक्रमेण नियम{*४/४७५*} इति. तथा, अभिचरता प्रतिलोमं होतव्यम्, प्राणान् एवास्य प्रतीचः प्रतियौतीति{*४/४७६*} क्वचित् प्रतिलोमं विदधद् अनुलोमं दर्शयति, तद् उपपद्यते, यदि पाठक्रमेण प्रयोगः. इतरथा, सर्वम् अनुलोमं स्यात्, प्रतिलोमदर्शनं नोपपद्येत. तथा चतुर्थोत्तमयोः प्रतिसमानयतीत्य् उक्ते सति, अतिहायेडो बर्हिः प्रतिसमानयतीत्य् उच्यते, तेन बर्हिषश् चतुर्थतां दर्शयति, सा पाठक्रमे नियामके ऽवकल्पते.
SK
NOTES: *{४/४७३: Tऐत्.S. ५.३.१.१}* *{४/४७४: Tऐत्.S. ७.१.५.४}* *{४/४७५: E२: पाठक्रमेणानियम}* *{४/४७६: Tऐत्.S. ३.४.८.५}*
SK
प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्//५.१.८//
SK
वाजपेये सप्तदश प्राजापत्यान् पशून् आलभत इति श्रूयते. तेषु पशुषु चोदकप्राप्ताः प्रोक्षणादयो धर्माः. तत्र [५४३]{*४/४७७*} प्रथमः पदार्थो यतः कुतश्चिद् आरब्धव्यः, द्वितीयादिषु भवति संशयः. किं तत एव द्वितीयो ऽपि पदार्थ आरब्धव्यः, उत द्वितीयादिष्व् अनियम इति. किं तावत् प्राप्तम्? नियमकारिणः शास्त्रस्याभावाद् अनियम इति. एवं प्राप्ते ब्रूमः, यतः पूर्व आरब्धः, तत एव द्वितीयादयो ऽपि पदार्था आरब्धव्या{*४/४७८*} इति. कुत एतत्? तदुपक्रमात्, सर्वे हि पदार्थाः प्रधानकालान् न विप्रक्रष्टव्याः, प्रधानं हि चिकीर्षितम्, कृतं वा तेषां{*४/४७९*} निमित्तम्. सहवचनं हि भवति, पदार्थैः सह प्रधानं कर्तव्यम् इति, बहुपदार्थसमाम्नानात् त्व् अवश्यं भावी विप्रकर्षः, तथापि तु यावद्भिर् नाव्यवहितः शक्यः पदार्थः कर्तुम्, तावद्भिर् व्यवधानम् अवश्यं कर्तव्यम्, ततो ऽभ्यधिकेन{*४/४८०*} न व्यवधातव्यम् इति. यदि द्वितीयं पदार्थम् अन्यत आरभेत, ततो ऽधिकैर् अपि व्यवदध्यात्, तथा प्रयोगवचनं बाधेत. ननु तथा सति कश्चिद् अल्पैर् व्यवहितो भविष्यति. उच्यते, अनुमतानां व्यवधायकानां त्यागेन कश्चिद् अभ्यधिको गुणो भवतीति, तस्माद् यतः पूर्वपदार्थ आरब्धः, तत एवोत्तर आरम्भणीय इति.
SK
NOTES: *{४/४७७: E२: ५,११३; E६: २,७०}* *{४/४७८: E१ (Fन्.): द्वितीयो ऽपि पदार्थ आरब्धव्यः}* *{४/४७९: E२: तेषां तेषां}* *{४/४८०: E१ (Fन्.): ऽभ्यधिकैः}*
SK
सर्वम् इति चेत्//५.१.९//
SK
इति चेत् पश्यसि, प्रधानाविप्रकर्षेण प्रयोगवचनानुग्रह इति, सर्वं तर्हि गुणकाण्डम् एकस्मिन्न् अपवर्जयितव्यम्, यथा सौर्यादिषु.
SK
नाकृतत्वात्//५.१.१०//
SK
नैतद् एवम्, सहप्रयोग एव हि नानुष्ठितः स्यात्.
SK
[५४४]{*४/४८१*}
SK
NOTES: *{४/४८१: E२: ५,११५; E६: २,७०}*
SK
क्रत्वन्तरवद् इति चेत्//५.१.११//
SK
अथ यद् उक्तम्, यथा क्रत्वन्तरेषु सौर्यादिष्व् इति, तत् परिहर्तव्यम्.
SK
नासमवायात्//५.१.१२//
SK
न तेषाम् अर्थात् क्रमः प्राप्नोति, यो नियम्येत. अङ्गाश्रयो हि नियमो भवितुम् अर्हति, अनङ्गसमाश्रयस्य{*४/४८२*} स्वयमङ्गता कल्प्येत.
SK
NOTES: *{४/४८२: E२: अनङ्गसमाश्रितस्य}*
SK
स्थानाच् चोत्पत्तिसंयोगात्//५.१.१३//
SK
एकविंशेनातिरात्रेण प्रजाकामं याजयेत्, त्रिनवेनौजस्कामम्{*४/४८३*}, त्रयस्त्रिंशेन प्रतिष्ठाकामम्{*४/४८४*} इत्येवमादि श्रूयते. तत्रागमेन संख्यापूरणम् इति वक्ष्यते{*४/४८५*}. तत्रागमे क्रियमाणे, किम् अनियमजक्रमाः{*४/४८६*} सर्वा ऋच आगमयितव्याः, उत काण्डक्रमेभ्य इति{*४/४८७*}. किं प्राप्तम्? अनियमेनेति. कुतः? अतिरात्रे त्रिणवादिशब्दार्थेनैताः प्राप्नुवन्ति, तत्रैतासां प्राप्नुवतीनां पाठक्रमो नास्तीति. एवं प्राप्त उच्यते, यद् आसां समाम्नाये स्थानम्, तेनैता अत्र नियम्यन्ते. याः पूर्वं समाम्नाताः, ताः पूर्वम् एव प्रयोक्तव्याः. आनुपूर्व्यस्य हि दृष्टम् एतत् प्रयोजनम्, यद् उत्तरस्फुरणं{*४/४८८*} तद् अपि चिकीर्षितम् एवेति. त्रिनवादिशब्दैर्{*४/४८९*} अतिरात्रे यौगपद्येनासां प्राप्तेः पाठक्रमस्याविषय [५४५]{*४/४९०*} इत्य् अधिकरणान्तरम् इति भवति मतिः.
SK
समाम्नायपाठक्रमाद् एवात्र नियम इति पुनरुक्तता गम्यत इत्य् अन्यथा वर्ण्यते -
SK
NOTES: *{४/४८३: E२,६: त्रिणवेनौजस्कामम्}* *{४/४८४: Tऐत्.S. २.२.४.७}* *{४/४८५: Vग्ल्. MS १०.५.२६}* *{४/४८६: E१ (Fन्.), E२: अनियतक्रमाः}* *{४/४८७: E२: काण्डक्रमेणेति}* *{४/४८८: E१ (Fन्.): यद् उत्तरस्य स्मरणं}* *{४/४८९: E२: त्रिणवादिशब्दैर्}* *{४/४९०: E२: ५,११७; E६: २,७१}*
SK
स्थानाच् चोत्पत्तिसंयोगात्//५.१.१३//
SK
साद्यस्क्रे{*४/४९१*} श्रूयते, सह पशून् आलभत इति. तत्रैषो ऽर्थः समधिगतः, सवनीयकाले त्रयाणाम् आलम्भ इति. अथात्र पाठक्रमात्, किम् अग्नीषोमीयः पूर्वम् आलब्धव्यः, उत स्थानक्रमात् पूर्वं सवनीय इति. किं प्राप्तम्? पूर्वम् अग्नीषोमीय इति. कुतः? पाठक्रमात्. एवं प्राप्ते ब्रूमः, सवनीयः पूर्वम्, स्थानात्. यदि पूर्वम् अग्नीषोमीयः स्यात्, सवनीयस्थानं व्याहन्येत. आश्विनं गृहीत्वा त्रिवृता यूपं परिवीयेति. नन्व् इतरत्रापि पाठक्रमो बाध्येत. बाध्यताम्, तस्य हि प्रतिषेधार्थः सहशब्दः समाम्नातः{*४/४९२*}, अप्रतिषिद्धं चाश्विनग्रहस्थानम्. तन् न बाधितव्यम्.
SK
NOTES: *{४/४९१: E१ (Fन्.,K): साद्यस्क्रः सोमयागविशेषः}* *{४/४९२: E२: सहशब्दसमाम्नातः}*
SK
मुख्यक्रमेण वाङ्गानां तदर्थत्वात्//५.१.१४//
SK
सारस्वतौ भवतः, एतद् वै दैव्यं मिथुनम् इति{*४/४९३*} श्रूयते. तत्र संदेहः, किं स्त्रीदेवत्यस्य प्रथमं धर्माः, उत पुंदेवत्यस्येति. नियमकारिणः शास्त्रस्याभावाद् अनियमः. इति प्राप्ते ब्रूमः, मुख्यक्रमेण वा नियमः स्याद् इति, स्त्रीदेवत्यस्य हि पूर्वं याज्यानुवाक्ययोः समाम्नानम्, प्रणो देवी सरस्वतीति{*४/४९४*}. तस्मात् स्त्रीदेवत्यस्य पूर्वं प्रदानेन [५४६]{*४/४९५*} भवितव्यम्, तस्मात् स्त्रीदेवत्यस्य पूर्वं धर्माः कार्याः. तथा हि प्रधानकालता भवत्य् अङ्गानाम्, इतरथा, यैः पदार्थैर् व्यवधानं सामर्थ्याद् अनुज्ञातम्, तेभ्यो ऽधिकैर् अपि व्यवधानं स्यात्.
SK
NOTES: *{४/४९३: Tऐत्.S. २.४.६.१}* *{४/४९४: Tऐत्.S. १.८.२२.१}* *{४/४९५: E२: ५,११८; E६: २,७२}*
SK
प्रकृतौ तु स्वशब्दत्वाद् यथाक्रमं प्रतीयेत//५.१.१५//
SK
दर्शपूर्णमासयोः पूर्वमौषधधर्माः समाम्नाताः, तत आज्यस्य. तत्र संदेहः, किम् अग्नीषोमीयधर्मानाम्, मुख्यक्रमेण पूर्वम् आज्यस्य धर्माः कर्तव्याः, उत यथापाठम् इति. मुख्यक्रमानुग्रहेणाज्यस्य पूर्वाम्. इति प्राप्ते ब्रूमः, प्रकृतौ यथापाठं प्रतीयेत, स्वशब्दो हि तेषां पाठक्रमः, सो ऽन्यथा क्रियमाणे बाधितः स्यात्. सहत्वस्य पुनरुपसंग्राहकः प्रयोगवचनः, स्वक्रमेण पदार्थे संनिकृष्यमाणे न बाधितो भविष्यति. अपि च पाठक्रमे स्वशब्दः, स्वाध्यायो ऽध्येतव्य इति. मुख्यक्रमेण{*४/४९६*} प्रयोगवचनैकवाक्यता सूक्ष्मा.
SK
NOTES: *{४/४९६: E२: मुख्यक्रमे}*
SK
मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः//५.१.१६//
SK
दर्शपूर्णमासयोः, आग्नेयस्य पूर्वं मन्त्रपाठः, उत्तरो ब्राह्मणस्य. तत्र संदेहः, कतमः{*४/४९७*} पाठो बलीयान् इति. उच्यते, अनियमः, नियमकारिणः शास्त्रस्याभावाद् इति. [५४७]{*४/४९८*} एवं प्राप्ते ब्रूमः, मन्त्रपाठो बलीयान्. कुतः? प्रयोगरूपसामर्थ्यात्. प्रयोगाय मन्त्रस्य रूपसामर्थ्यम्. तद् अस्य सामर्थ्यं येन मन्त्रः प्रयुज्यते, तस्य च प्रयुज्यमानस्य क्रमो दृष्टाय भवति{*४/४९९*}. ननु च ब्राह्मणपाठस्यापि तद् एव प्रयोजनम्. उच्यते, उत्पत्तिदेशः सः, अपरम् अपि तस्य प्रयोजनं कर्मोत्पत्त्यर्थं भविष्यति.
SK
NOTES: *{४/४९७: E१ (Fन्.): कस्य}* *{४/४९८: E२: ५,११९; E६: २,७२}* *{४/४९९: E२: इष्टाव् अभवति}*
SK
तद्वचनाद् विकृतौ यथाप्रधानं स्यात्//५.१.१७//
SK
अस्त्य् अध्वरकल्पा नामेष्टिः, आग्नावैष्णवम् एकादशकपालं निर्वपेत्, सरस्वत्य् आज्यभागो स्याद् बार्हस्पत्यश् चरुर् इति{*४/५००*}. तत्र संदेहः, किम् आग्नेयविकारस्य बार्हस्पत्यस्य पूर्वं धर्माः कार्याः, चोदको बलवत्तरः, प्रयोगवचनात्. उतोपांशुयाजविकारस्य प्रयोगवचनो बलवत्तरः, चोदकाद् इति. किं प्राप्तम्? विकृताव् अस्याम्, यथाप्रधानं स्यात्, तद्वचनात्. तेषां साक्षाद् वचनक्रमो विकृतौ. तेन संनिहितानाम् उपसंहारकः{*४/५०१*} प्रयोगवचनो हि प्रत्यक्षः, तद्धर्माणां चानुमानिकः, चोदकेन हि स प्राप्तः. तस्मात् प्रत्यक्षः प्रयोगवचनो बलवत्तरः, तेन चोदक आनुमानिको बाध्यते.
SK
NOTES: *{४/५००: Tऐत्.S. २.२.९.१}* *{४/५०१: E२: अङ्गानाम् उपसंहारकः}*
SK
विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति//५.१.१८//
SK
मुख्याङ्गक्रमविप्रतिपत्तौ वा, यथा प्रकृतौ, तथैव विकृतौ भवितुम् अर्हतीति. कुतः? प्रकृत्यन्वयात्. यादृशाः प्रकृतौ धर्माः, तादृशा एव विकृतौ भवितुम् अर्हन्तीति, मुख्यक्रमेण क्रियमाणा न प्रकृतिवत् कृताः स्युः. चोदको हि प्रयोग[५४८]{*४/५०२*}वचनाद् बलवत्तरः, स ह्य् उत्पादयति प्रापयति च. प्रापितान् अभिसमीक्ष्य प्रयोगवचन उपसंहरति, स प्राप्तेषु उत्पन्नः प्राप्तिनिमित्तक उत्तरकालं{*४/५०३*} पूर्वप्राप्तं न बाधितुम् अर्हति चोदकम्, प्रत्यक्षो ऽपि सन्, बहिरङ्गत्वात्, यथाप्राप्तान् एवोपसंहरिष्यति. तस्मात् पूर्वं बार्हस्पत्यस्य धर्माः, तत आज्यस्येति.
SK
NOTES: *{४/५०२: E२: ५,१२१; E६: २,७३}* *{४/५०३: E२: उत्तरकालः}*
SK
विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथाशिष्टम्//५.१.१९//
SK
चातुर्मास्येषु साकमेधस् तृतीयं पर्व, तस्यावयवाः, अग्नये ऽनीकवते प्रातरष्टाकपालः, मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुः, मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम् इति{*४/५०४*}. तत्र संदेहः, किम् एता द्व्यहकाला इष्टयः, उत सद्यस्काला इति. किं प्राप्तम्? विकृतिस् तत्काला भवितुम् अर्हतीति, यथाशिष्टम्, यथा प्रकृतिर् उक्ता, तथा विकृतिः स्यात्. प्रकृतिधर्मा हि सा, तस्माद् या विकृतिः, सा द्व्यहकाला भवितुम् अर्हतीति{*४/५०५*}.
SK
NOTES: *{४/५०४: Tऐत्.S. १.८.४.१}* *{४/५०५: E१ (Fन्.): या या विकृतिः, सा सा द्व्यहकाला भवितुम् अर्हतीति}*
SK
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात्//५.१.२०//
SK
अह्नः कालेषु ये पदार्था उच्यन्ते, प्रातर् मध्यंदिने सायम् इति, क्रमेण त एकस्मिन्न् अहनीति प्रतीयन्ते, यथा देवदत्तः प्रातर् अपूपं भक्षयति, मध्यंदिने विविधम् अन्नम् अश्नाति, अपराह्णे [५४९]{*४/५०६*} मोदकान् भक्षयतीत्य् एकस्मिन्न् अहनीति गम्यते. तस्मात् सद्यस्काला एवंजातीयका विकृतयः, द्व्यैहकाल्यं हि चोदकप्राप्तम् आनुमानिकम्, प्रत्यक्षरूपया सद्यस्कालतया बाध्येत.
SK
NOTES: *{४/५०६: E२: ५,१२२; E६: २,७४}*
SK
कालोत्कर्ष इति चेत्//५.१.२१//
SK
इति चेत् पश्यसि, प्राप्तः साङ्गं श्रूयते, तथा मध्यंदिने सायं चेति, उत्कर्षो भविष्यति, यथैतेषु कालेषु साङ्गम्. न च द्व्यहकालताया बाधः, एकस्याह्नः प्रातर् अनीकवन्तम् उपक्रंस्यते, द्वितीयस्य प्रातर् यक्ष्येत. एवं सांतपनीया{*४/५०७*} पूर्वेद्युर् मध्यांदिन उपक्रंस्यते, अपरेद्युर् मध्यंदिने यक्ष्यते. तथा गृहमेधीये सायम् उपक्रमणं पूर्वेद्युः, सायं यागो ऽपरेद्युर् इति. ननु वाक्याद् एकम् अहर् गम्यत इत्य् उक्तम्. उच्यते, पदार्थसामर्थ्यजनितो हि वाक्यार्थो भवति. न चात्र पदार्थसामर्थ्यम् अस्ति, येनैकम् अहर् गम्येत.
SK
NOTES: *{४/५०७: E१ (Fन्.): सांतपनीयाः}*
SK
न तत्संबन्धात्{*४/५०८*}//५.१.२२//
SK
नैतद् एवम्. कस्मात्? तत्संबन्धात्, एककालसंबद्धानि प्रधानान्य् अङ्गैः सह श्रूयन्ते. कथम्? साङ्गं हि प्रधानं प्रातःकाले श्रूयते, तथा मध्यंदिने सायं च. नाङ्गानि प्रातःकालादिषु. तत्रान्यकालेष्व् अङ्गेष्व् अन्यकालेषु च प्रधानेषु, न साङ्गं तेषु कालेषु कृतं स्यात्. तस्मात् सद्यस्काला एवैता विकृतय इति. अपि च, द्व्य् अहं साकमेधैर् इति श्रूयते. तत् सद्यस्कालासूपपद्यते.
SK
[५५०]{*४/५०९*}
SK
NOTES: *{४/५०८: E१ (Fन्.): तत्संभवात्}* *{४/५०९: E२: ५, १२३; E६: २,७४}*
SK
अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात्//५.१.२३//
SK
ज्योतिष्टोमे श्रूयते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीत्य् उत्कर्षः, तथाग्नीषोमीये पशौ, तिष्ठन्तं पशुं प्रयजन्तीत्य् अपकर्षः. तत्र संदेहः, किम् उत्कर्षे ऽनुयाजमात्रम् उत्कृष्यते, अपकर्षे च प्रयाजमात्रम्, उतोत्कर्षे ऽनुयाजादि, अपकर्षे च प्रयाजान्तम् इति. किं तावत् प्राप्तम्? यावद् उक्तम्, उत्कर्षापकर्षयोः स्यात्. कुतः? अङ्गानां मुख्यकालत्वात्. एवम् अन्येषां प्रधानकालता भविष्यतीति. तत्र सहत्वस्य प्रापकः प्रयोगवचनो ऽनुग्रहीष्यते.
SK
तदादि वाभिसंबन्धात् तदन्तम् अपकर्षे स्यात्//५.१.२४//
SK
तदाद्य् उत्कर्षे, तदन्तम् अपकर्षे गम्येत. कुतः? अभिसंबन्धात्. यद्{*४/५१०*} अनुयाजानां परस्तात् समाम्नायते, तत् प्रधानाद् अन्तरं{*४/५११*} प्रयोगवचनेन प्राप्तं बाधित्वा पाठसामर्थ्याद् अनुयाजेभ्यः परस्तात् क्रियते, तथा यस् ततः परः, स ततः परस्तात्. एवम् एक उत्कृष्यमाणः सर्वं गुणकाण्डम् उत्कर्षति, तथापकृष्यमाणो ऽपकर्षतीति.
SK
NOTES: *{४/५१०: E१ (Fन्.): यदि}* *{४/५११: E२: अनन्तरं}*
SK
प्रवृत्त्या कृतकालानाम्//५.१.२५//
SK
ज्योतिष्टोमे श्रूयते प्रातरनुवाककाले, प्रतिप्रस्थातः सवनीयान् [५५१]{*४/५१२*} निर्वपस्वेति प्रेष्यतीति सवनीयानां निर्वापकालः. अस्ति च बहिष्पवमाने स्तुते, अग्नीद् अग्नीन् विहर, बर्हि स्तृणीहि, पुरोडाशान् अलंकुर्व् इति. तत्र संदेहः, किं प्रातरनुवाककाले सवनीयान् निरूप्य प्रचरणीहोमादयः सौमिकाः पदार्थाः, उत पौरोडाशाः{*४/५१३*} प्राग् अलंकरणाद् इति. किं प्राप्तम्? अनियमः, नियमकारिणः शास्त्रस्याभावात्. इत्य् एवं प्राप्ते ब्रूमः, प्रवृत्त्या कृतकालानाम्, ज्ञानकालानां पदार्थानां प्रवृत्त्या नियमः स्यात्, प्रयुज्यमानम् एव हि पूर्वपदार्थम् अभिनियच्छति. स तस्य परस्तात् समाम्नातः, परस्तात् कर्तव्यः. सौमिकस्य तु पदार्थस्य प्रचरणीहोमस्य वचनात् क्रमो बाधितः. अलंकरणं च बहिष्पवमानस्य परस्तात् समाम्नातम्, तस्मात् तस्य पूर्वः पदार्थो निर्वपणादीनाम् अन्तः. तत उत्तरे सौमिकाः पदार्थाः कर्तव्या इति.
SK
NOTES: *{४/५१२: E२: ५,१२५; E६: २,७५}* *{४/५१३: E२: पौरोडाशिकाः}*
SK
शब्दविप्रतिषेधाच् च//५.१.२६//
SK
शब्दश् च विप्रतिषिध्यते, अलंकुर्व् इत्य् उक्तः प्रोक्षणादीन् प्रतिपद्येत. अस्मत्पक्षे तु, अलंकुर्व् इत्य् उक्ते ऽलंकरणम् एव प्रतिपत्स्यते. तत्रालंकरणे प्राप्तकाले प्राप्तकालवचनो लोडन्तो ऽनुग्रहीष्यते. तस्माद् अत्र प्रावृत्तिकः क्रम इति.
SK
असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत//५.१.२७//
SK
अस्ति दर्शपूर्णमासप्रकृतिके पशाव् अग्नीषोमीये वैकृतं यूपकर्म, तत् प्रतिकृष्यते, दीक्षासु यूपं छिनत्तीति. तत् प्रतिकृष्यमाणम् अर्वाचीनान्य् अप्य् अग्नीषोमप्रणयनादीनि प्रति[५५२]{*४/५१४*}कर्षति, उत नेति संशये, प्रतिकर्षति, संबन्धाद् इति गम्यते{*४/५१५*}. तथा प्राप्ते ब्रूमः, विकृताव् अभ्यधिकं यत्, तत् प्रतिकृष्यमाणं ततो ऽर्वाचीनान्य् अप्य् अग्नीषोमप्रणयनादीनि न प्रतिक्रष्टुम् अर्हति. कथम्? असंयोगात्, पाशुकं यूपकर्म, ततः प्राचीनं सौमिकम्. न तयोः परस्परेण संबन्धः. न सौमिकः पदार्थः, पाशुकस्योपकारकः पशोर् वा. यदि हि तयोर् उपकारकः स्यात्, ततस् तस्योपकुर्वतः क्रमो ऽप्य् अस्य साहाय्यं कुर्वन् गुणभूतः स्यात्. न त्व् एतद् अस्ति, तस्मान् नैषां परस्परेण क्रमे नियमः. अतो यूपमात्रं प्रतिकृष्यते. अपि च यूपमात्रं प्रतिकृस्य कृतार्थे शब्दे सौमिकानां स्वक्रमबाधो न भविष्यतीति.
SK
NOTES: *{४/५१४: E२: ५,१२७; E६: २,७६}* *{४/५१५: E२ ओम्. गम्यते}*
SK
प्रासङ्गिकं च नोत्कर्षेद् असंयोगात्//५.१.२८//
SK
ज्योतिष्टोमे श्रूयते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीति. अनुयाजा उत्कृष्यमाणा दाक्षिणाग्निकौ होमाव् उत्कर्षन्ति, नेति संशयः. संबन्धाद् उत्कर्षन्ति. इति प्राप्ते उच्यते, नैवाव् उत्क्रष्टुम् अर्हन्ति, ये{*४/५१६*} तयोः स्व{*४/५१७*} ऽनुयाजाः, संबद्धास्{*४/५१८*} ते, न प्रयुक्ताः परकीयैः, तेषाम् अर्थो निर्वर्तित इति. पदार्थानां च क्रमो भवति, न पदार्थप्रयोजनानाम्, यौगपद्येन हि पदार्था उपकुर्वन्तीति वक्ष्यामः. पदार्थानां चोत्पत्तिः क्रमवती, पृथक्शब्दत्वाद् उत्पत्तेः, न पदार्थप्रयोजनस्य, युगपत् प्रयोगवचनेनाभिहितत्वात्. अतो ऽनुयाजोत्पत्तेर् उत्कर्षिकाया अभावाद् दाक्षिणाग्निकौ होमौ नोत्कृष्येयाताम् इति. अपि चानुयाजमात्रम् उत्कृष्य [५५३] कृतार्थे शब्दे दाक्षिणाग्निकयोर् होमयोः स्वक्रमबाधो न भविष्यतीति.
SK
NOTES: *{४/५१६: E२: येन}* *{४/५१७: E२: त्व्}* *{४/५१८: E२: संबन्धास्}*
SK
तथापूर्वम्//५.१.२९//
SK
दर्शपूर्णमासयोर् वेदिः, हविर् अभिवासनोत्तरकाले समाम्नाता. सामावास्यायां प्रतिकृष्यते, पूर्वेद्युर् अमावास्यायां वेदिं करोतीति. सा त्व् अपकृष्यमाणा ततो ऽर्वाचीनान् पदार्थान् अपकर्षति, नेति संशयः. उच्यते, संबन्धात् प्रतिकर्षति. इत्य् एवं प्राप्ते ब्रूमः, तथापूर्वम्, अप्रकृतिर् पूर्विकायाम् अमावास्यायां वेदिकरणं पूर्वेद्युर् आम्नातम्, उभयोर् अपि श्वोभूते हविर् अभिवासनम्. अभिवासनं कृत्वामावास्यायां वेदिः कर्तव्येति न श्रुत्यादीनाम् अन्यतमत्{*४/५१९*} कारणम् अस्ति. तस्मान् नाभिवासनान्ताः प्रतिक्रष्टव्या इति. अभिवासने चापकृष्यमाणे हवींषि भस्मीभवेयुः.
SK
NOTES: *{४/५१९: E२: अन्यतमं}*
SK
सांतपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात्//५.१.३०//
SK
चातुर्माद्येषु साकमेधावयवः सांतपनीया नामेष्टिः, मरुद्भ्यः सांतपनेभ्यो माध्यंदिने चरुं निर्वपतीति{*४/५२०*}, सा दैवान् मानुषाद् वा प्रतिबन्धाद्{*४/५२१*} उत्कृष्यमाणा अग्निहोत्रम् उत्कर्षेत्, न वेति संशये. उच्यते, सांतपनीया तूत्कर्षेद् अग्नि[५५४]{*४/५२२*}होत्रम् सवनवद् वैगुण्यात्. यदि नोत्कर्षेत्, अग्निहोत्रसवन ऽग्निहोत्रकाल{*४/५२३*} उद्धृते ऽग्नाव् अग्निहोत्रं विगुणं स्यात्. तस्माद् उत्क्रष्टव्यम्, सवनवत्, यथा प्रातःसवनं दैवान् मानुषाद् वा प्रतिबन्धाद्{*४/५२४*} उत्कृष्यमाणं माध्यंदिनं सवनम् उत्कर्षतीति, एवम् अत्रापि द्रष्टव्यम्.
SK
NOTES: *{४/५२०: Tऐत्.S. १.८.४.१}* *{४/५२१: E१ (Fन्.): प्रतिबलाद्}* *{४/५२२: E२. ५,१३०; E६: २,७७}* *{४/५२३: E२: अग्निहोत्रम् अनग्निहोत्रकाल}* *{४/५२४: E१ (Fन्.): प्रतिबन्लाद्}*
SK
अव्यवायाच् च//५.१.३१//
SK
एवं सांतपनीयम् अग्निहोत्रेण न व्यवहितं भविष्यतीति, तत्र क्रमो ऽनुग्रहीष्यते. क्रमभेदे च दोषः श्रूयते, अप वा एतद् यज्ञाच् छिद्यते{*४/५२५*}, यद् अन्यस्य तन्त्रे वितते ऽन्यस्य तन्त्रं प्रतीयत इति.
SK
NOTES: *{४/५२५: E१ (Fन्.), E२: यज्ञस्य छिद्यते}*
SK
असंबन्धात् तु नोत्कर्षेत्//५.१.३२//
SK
नाग्निहोत्रस्य सांतपनीयाङ्गम्, न सांतपनीयाया वाग्निहोत्रम्. तेन नासाव् अग्निहोत्रस्य पुरस्तात् कर्तव्या, अतो नाग्निहोत्रम् उत्क्रष्टव्यम्.
SK
प्रापणाच् च निमित्तस्य//५.१.३३//
SK
प्राप्तं चाग्निहोत्रस्य निमित्तम्, सायं जुहोति, प्रातर् जुहोति, उदिते जुहोति, अनुदिते जुहोति, प्रथमास्तमिते जुहोति, संधौ जुहोति, नक्षत्राणि दृष्ट्वा जुहोतीति{*४/५२६*}, तन् नातिक्रमितव्यम्, तस्माद् अपि नोत्कर्षः. यद् उक्तम्, वैगुण्यम् इति{*४/५२७*}, उत्कर्षे ऽपि वैगुण्यं कालान्यत्वात्. अङ्गाप्राप्तेर् जघन्यः कालविधिर् बाध्यताम् इति चेत्. न, कालस्य निमित्तत्वात्, [५५५]{*४/५२८*} तद् अपाये ऽश्रुतम् एव सर्वं क्रियेत, निमित्तं च{*४/५२९*}, अनुपादेयत्वेन श्रवणात्. सप्तमी ह्य् आधारादिष्व् असंभवान् निमित्तसप्तमी द्रष्टव्या. अथ यद् उक्तम् - सवनवद् उत्क्रष्टव्यम् इति{*४/५३०*}. तद् उच्यते -
SK
NOTES: *{४/५२६: Tऐत्.Bर्. २.१.२.७}* *{४/५२७: Vग्ल्. MS ५.१.३०}* *{४/५२८: E२: ५,१३१; E६: २,७७}* *{४/५२९: E२: तन्निमित्तत्वं च}* *{४/५३०: Vग्ल्. MS ५.१.३०}*
SK
संबन्धात् सवनोत्कर्षः//५.१.३४//
SK
संबद्धं हि सवनं सवनेन, एकक्रतुसंबन्धात्, तद् उत्कृष्यते.
SK
षोडशी चोक्थ्यसंयोगात्//५.१.३५//
SK
ज्योतिष्टोमे श्रूयते, षोडशिनं प्रकृत्य, तं पराञ्चम् उक्थ्येभ्यो विगृह्णातीति{*४/५३१*}{*४/५३२*}. यदा दैवान् मनुषाद् वा प्रतिबन्धाद्{*४/५३३*} उक्थ्यान्य् उत्कृष्यन्ते, किं तदा षोडश्य् उत्कृष्टव्यः{*४/५३४*}, नेति भवति संशयः. किं प्राप्तम्? नोत्क्रष्टव्यः. कुतः? एवं स्तोत्रं स्वस्मिन् काले षोडशिनः कृतं भविष्यतीति, समयाध्युषिते सूर्ये षोडशिनस्तोत्रम्{*४/५३५*} उपकरोतीति. तस्माद् अनुत्कर्ष इति. एवं प्राप्ते ब्रूमः, षोडशी चोत्क्रष्टव्यः. कस्मात्? उक्थ्यसंयोगात्, उक्थ्यसंयोगो हि षोडशिनो भवति, तं पराञ्चम् उक्थ्येभ्यो विगृह्णातीति{*४/५३६*}. तस्माद् उत्क्रष्टव्यः षोडशी. यद् उक्तम्, षोडशिनस्तोत्रकालेनावर्जनं{*४/५३७*} भविष्यतीति. उच्यते, स्तोत्रक्रमम् अनुरुध्यमानस्य प्रधानक्रमो विरुध्येत. तस्मान् न स्तोत्रक्रमो ऽनुरोद्धव्यः, उभयं न शक्यम् अनुगृहीतुम्{*४/५३८*}, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकरोतीति [५५६]{*४/५३९*} श्रूयते. तस्माद् उत्क्रष्टव्यः षोडशीति.
SK
NOTES: *{४/५३१: E२: गृह्णातीति}* *{४/५३२: Tऐत्.S. ६.६.११.६}* *{४/५३३: E१ (Fन्.): प्रतिबलाद्}* *{४/५३४: E२,६: उत्क्रष्टव्यः}* *{४/५३५: E२: षोडशिनः स्तोत्रम्}* *{४/५३६: E२: गृह्णातीति}* *{४/५३७: E२: षोडशिनः स्तोत्रकालेनावर्जनं}* *{४/५३८: E२,६: अनुग्रहीतुम्}* *{४/५३९: E२: ५,१३३; E६: २,७८}*
SK
संनिपाते प्रधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात्//५.२.१//
SK
वाजपेये, सप्तदश प्राजापत्यान् पशून् आलभत इति{*४/५४०*} श्रूयते, अग्नीषोमीये च पशौ पशुधर्माः समाम्नाताश् चोदकेन प्राप्ताः. तेषु संशयः, किम् एकस्यादेर् आरभ्य धर्मान् सर्वान् कृत्वा, द्वितीयस्य पुनरादित उपक्रमितव्याः, अथ प्रथमस् तावत् सर्वेषां कर्तव्यः, ततो द्वितीय इति. किं प्राप्तम्? एकैकस्य सर्वे ऽपवर्जयितव्या इति. कुतः? प्रधानासत्तेर् अनुग्रहाय, इतरथा प्रधानासत्तिर् विप्रकृष्येत. यथा बहुष्व् अश्वेषु प्रतिगृहीतेषु ये पुरोडाशाः, तेषु नैकजातीयानुसमयः, एवम् इहापीति.
SK
NOTES: *{४/५४०: Tऐत्.Bर्. १.३.४.३}*
SK
सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात्//५.२.२//
SK
एकजातीयानुसमयः कर्तव्यः. किम् एवं भविष्यति? सहत्वम् अनुग्रहीष्यते, तत्सहत्वं श्रूयते, वैश्वदेवीं कृत्वा पशुभिश् चरन्तीति, एकस्मिन् काले पशूनां प्रचारः. नन्व् एवं सति पूर्वस्य पदार्थस्योत्तरः पदार्थः पश्वन्तरव्यापारेण व्यवधीयते. नैष दोषः, एवम् अपि कृतम् एवानुपूर्व्यम्. यो ऽसौ पश्वन्तरे व्यापारः स एवासौ, न पदार्थान्तरम्, पदार्थान्तरेण व्यवधानं भवति.
SK
[५५८]{*४/५४१*}
SK
NOTES: *{४/५४१: E२: ५,१३४; E६: २,७९}*
SK
कारणाद् अभ्यावृत्तिः//५.२.३//
SK
अथ यद् उक्तम्, बहुषु पुरोडाशेषु नैकजातीयानुसमय इति, तत् परिहर्तव्यम्. अत्रोच्यते, युक्तं तत्र, यत्{*४/५४२*} कारणाद् अभ्यावृत्तिः, एकजातीयानुसमये हि क्रियमाणे सहस्रस्याधिश्रयणे कृते प्रथमः शुष्येत्, तस्य च प्रथमं न शक्येत कर्तुम्.
SK
अथवाधिकरणान्तरम् -
SK
NOTES: *{४/५४२: E२: तत्}*
SK
कारणाद् अभ्यावृत्तिः//५.२.३//
SK
अनेकसहस्राश्वप्रतिग्रहे तन्त्रानुष्ठानम् इति पूर्वः पक्षः. काण्डानुसमयो ऽभ्युपेतव्य इति सिद्धान्तः.
SK
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन//५.२.४//
SK
मुष्ट्यादिषु संशयः, किं मुष्टिनानुसमयः, उत चतुर्भिर् मुष्टिभिर् इति. किं प्राप्तम्? मुष्टिनेति. कुतः? एकमुष्टिनिर्वापो ह्य् एकः पदार्थः, न चतुर्मुष्टिनिर्वापः. कथम्? एकस्मिन् मुष्टौ निरुप्ते यतीभावः{*४/५४३*} पर्यवस्यति. न शक्यं वदितुम्, न किंचिन् निरुप्तम् इति. न च, निरुप्ते निर्वापो न कृतः स्यात्, न च मुष्टिमात्रेण निरुप्तेन न प्रयोजनम्. न ह्य् [५५९]{*४/५४४*} एकस्मिन्न् अनिरुप्ते चत्वारः संभवन्ति, मुष्टिसमानाधिकरणो हि चतुःशब्दः, तस्मान् मुष्टिनानुसमयः कार्यः. एवम्, कपालान्न् उपदधातीति. तथा, मध्याद् अवद्यति पूर्वार्धाद् अवद्यति, तथा, अङ्क्ते ऽभ्यङ्क्ते वपति पावयतीति.
SK
NOTES: *{४/५४३: E२: निर्वपतिभावः}* *{४/५४४: E२: ५,१३५; E६: २,७९}*
SK
सर्वाणि त्व् एककार्यत्वाद् एषां तद्गुणत्वात्//५.२.५//
SK
सर्वाणि तु परिसमाप्यानुसमेयात्, नैकमुष्टिनिर्वापः पदार्थः, चतुःसंख्यत्वान् निर्वापस्य. कथं चतुःसंख्यता? चतुःशब्दस्य निर्वपतिना संबन्धात्, एवं सह कर्मणा, अनेकगुणविधानं न्याय्यम्. इतरथा, मुष्टिसंबन्धे सति वाक्यभेदः प्रसज्येत. अनिर्वापाङ्गं च स्यात्. तथोपधानादिष्व् अपि, अष्टाकपालम् एकादशकपालं निर्वपतीति निर्देशात्. द्विर् अवद्यति{*४/५४५*}, त्रिर् अभ्यङ्क्ते, एकविंशत्या पावयतीति{*४/५४६*} संख्यादीनां क्रियागुणत्वं भवति. तस्मात् समुदायेनानुसमय इति.
SK
NOTES: *{४/५४५: ŚPBर् ४.४.३.९}* *{४/५४६: Tऐत्.S. ६.१.१.८}*
SK
संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात्//५.२.६//
SK
दर्शपूर्णमासयोः श्रूयते, द्विर् हविषो ऽवद्यतीति{*४/५४७*}. तत्र संशयः, किम् अवदानेनानुसमयः, उतावदानेन प्रदानान्तेनेति. किं प्राप्तम्? अवदानेनेति ब्रूमः. कुतः? पृथक्पदार्थत्वात्, पृथक् पदार्थो ह्य् अवदानम्, यतीभावस्य पर्यवसानात्, अवद्यतिवचनात्. एवं प्राप्ते ब्रूमः, संयुक्ते तु प्रक्रमात् तदङ्गं स्यात्, इतरस्य तदर्थत्वात्. नावदानं पृथक् पदार्थः, प्रदानस्य स उपक्रमः, इतरथावद्यतेर् अदृष्टार्थता [५६०]{*४/५४८*} स्यात्. संख्याविशेषविधानार्थं च पुनर्वचनम्. तस्मात् पदार्थावयवो ऽवदानम्, न चावयवसहत्वं प्रयोगवचनेनोच्यते, तस्मात् प्रदानान्तेनानुसमय इति.
SK
NOTES: *{४/५४७: ŚPBर् ४.४.३.९}* *{४/५४८: E२: ५,१३७; E६: २,८०}*
SK
वचनात् तु परिव्याणान्तम् अञ्जनादि स्यात्//५.२.७//
SK
ज्योतिष्टोमे ऽग्नीषोमीयपशौ यूपस्याञ्जनाद्याः पदार्थाः श्रूयन्ते, तेषु यूपैकादशिन्यां प्राप्तेषु संशयः, किम् अञ्जनादीनाम्{*४/५४९*} एकैकेनानुसमयः, उताञ्जनादिना परिव्याणान्तेनेति. किं प्राप्तम्? परिव्याणान्तम् अञ्जनादि स्यात्. कुतः? वचनात्, वचनम् इदं भवति, अञ्जनादि यजमानो यूपं नावमृजेद् आपरिव्याणाद् इति{*४/५५०*}. न च शक्यम्, बहुष्व् अञ्जनादिनानुसमयः कर्तुम्, न चानवस्रष्टुम्. तस्मात् परिव्याणान्तेनानुसमयः.
SK
NOTES: *{४/५४९: E२: अञ्जानादीनाम्}* *{४/५५०: Tऐत्.Bर्. ३.८.१९.१}*
SK
कारणाद् वानवसर्गः स्याद् यथा पात्रवृद्धिः//५.२.८//
SK
सहत्वस्य प्रापकः प्रयोगवचनो ऽनुग्रहीष्यत इति पदार्थेनानुसमयः. अनवसर्गश् च प्रकृताव् अर्थात् कृतः, साहाय्यं यजमानेनाध्वर्योः. एवं दृष्टार्थतानवसर्गस्य, इतरथादृष्टार्थता स्यात्. न च, अर्थात् कृतं चोदकः प्रापयति. तस्माद् यूपान्तरेणोच्छ्रयितव्येन{*४/५५१*} कारणेनावसृजेत्, यथा पृषदाज्येनानुयाजान् यजतीत्य् अर्थात् तस्य धारणार्थं पात्रं भिद्यते.
SK
[५६१]{*४/५५२*}
SK
NOTES: *{४/५५१: E१ (Fन्.): यूपान्तरेणोच्छ्रितव्येन}* *{४/५५२: E२: ५,१३७; E६: २,८१}*
SK
न वा शब्दकृतत्वान् न्यायमात्रम् इतरद् अर्थात् पात्रविवृद्धिः{*४/५५३*}//५.२.९//
SK
न वैतत्पदार्थेनानुसमय इति, परिव्याणान्तेन पदार्थकाण्डेनानुसमयः स्यात्. शब्दकृतं हि प्रकृताव् अनवसर्जनम्, शक्नोति ह्य् ऋते ऽपि यजमानात्, अध्वर्युर् यूपम् उच्छ्रयितुम्. सौकर्यम् इति चेत्. विधिशब्दो बाध्येत, दृष्टार्थतैवं हि नियम्येत, भोजने प्राङ्मुखतेव. अतो ऽसंभवात्, पदार्थकाण्डेनानुसमयः. प्रयोगवचनस्य च न्यायमात्रत्वम्, चोदकस् ततो बलीयान्. पात्रविवृद्धिस् त्व् अर्थात् कर्तव्या.
SK
NOTES: *{४/५५३: E२: पात्रं विवृद्धिः}*
SK
पशुगणे तस्य तस्यापवर्जयेत् पश्वेकत्वात्//५.२.१०//
SK
वाजपेये प्राजापत्याः पशवः. तेषु संदेहः, किम् एकैकस्य पशोर् दैवतान्य् अवदाय ततः सौविष्टकृतानि, तत ऐडानि. अथ दैवतैर् देवतानाम् अनुसमयः, सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति. किं तावत् प्राप्तम्? एकैकस्य कृत्स्नान्य् अवदाय ततो होतव्यम्, प्रकृतौ वचनात्, एतत् कृतं प्राजापत्येष्व् अपि चोदकेनैव प्राप्नोति.
SK
दैवतैर् वैककर्म्यात्//५.२.११//
SK
नैतद् एवम्, दैवतैर् देवतानाम्, सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति. कस्मात्? ऐककर्म्यात्. एवं सहकृतं भवति, यच् च वचनात् प्रकृतौ कृत्स्नावदानम् इति, दैवतान्य् [५६२]{*४/५५४*} अवदाय न तावत्य् एव होतव्यम्, सौविष्टकृतान्य् अवदेयानि. सौविष्टकृतान्य् अवदाय न तावत्य् एव होतव्यम्, ऐडान्य् अवदेयानीति प्रकृतौ श्रूयते. तद् इह दैवतैर् दैवतानाम् अनुसमयं कुर्वन् नैनं{*४/५५५*} प्राकृतं धर्मं बाधेत. दैवतान्य् अवदाय नैव जुहोति, सौविष्टकृतान्य् अवद्यतीति. अथ सौविष्टकृतान्य् अवदाय नैव जुहोति, ऐडान्य् अवद्यतीति. तस्मात् पदार्थमात्रेणानुसमय इति.
SK
NOTES: *{४/५५४: E२: ५,१३९; E६: २,८१}* *{४/५५५: E२: नैव}*
SK
मन्त्रस्य चार्थवत्त्वात्//५.२.१२//
SK
एवं मनोतामन्त्रस्{*४/५५६*} तन्त्रं भविष्यति, इतरथा पर्यायेणैव स्यात्. तस्माद् दैवतैर् दैवतानां सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति.
SK
NOTES: *{४/५५६: Vग्ल्. Tऐत्.S. ३.६.१०.१}*
SK
नानाबीजेष्व् एकम् उलूखलं विभवात्//५.२.१३//
SK
अस्ति राजसूये नानाबीजेष्टिः, अग्नये गृहपतये सुतीनाम्{*४/५५७*} अष्टाकपालं निर्वपेत्, सोमाय वनस्पतये श्यामाकं चरुम् इत्येवमादि{*४/५५८*}. अस्ति तु तत्र प्राकृतो ऽवहन्तिः. तत्र संदेहः, किं तत्रैकम् उलूखलं पर्यायेण, उत यौगपद्येन बहूनीति. कुतः संशयः? यदि कृष्णाजिनाधस्तरणादयः पृथक् पदार्थाः, ततो भेदः. अथ कृष्णाजिनास्तरणादिस् तण्डुलनिर्वृत्त्यन्त एकः पदार्थः, ततस् तन्त्रम् इति. किं तावत् प्राप्तम्? एकम् इति. कुतः? पर्यायेण विभवात्. एकस्योपादानेन सिद्धेर् द्वितीयस्योपादानम् अनर्थकं स्यात्. तस्मात् तन्त्रम् इति.
SK
[५६३]{*४/५५९*}
SK
NOTES: *{४/५५७: E२: ऽसितानाम्}* *{४/५५८: Tऐत्.S. १.८.१०.१}* *{४/५५९: E२: ५,१३९; E६: २,८२}*
SK
विवृद्धिर् वा नियमानुपूर्व्यस्य तदर्थत्वात्//५.२.१४//
SK
विवृद्धिर् उलूखलानां स्यात्, नियतं ह्य् आनुपूर्व्यं पाठकृतं सहत्वे सत्य् उपपद्यते, पदार्थानां चानुसमयः, पृथक्पदार्थाश् चाधस्तरणादयो यतीभावस्य पर्यवसानात्, अधस्तरणादिभिश्{*४/५६०*} च पदैर् अभिधानात्. तस्माद् विवृद्धिर् इति.
SK
NOTES: *{४/५६०: E२: अधस्तरणादेश्}*
SK
एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात्//५.२.१५//
SK
एकं वोलूखलं पर्यायेण स्यात्, एको ह्य् अधस्तरणादिस् तण्डुलपर्यन्तः पदार्थः, स्तरणादिर् हन्तेर् उपक्रमः फलीकरणान्तश् च तस्यैव शेषः{*४/५६१*}, यतो हन्तिस् तण्डुलनिष्पत्त्यर्थः. एवं स्तरणादीनां हन्तेश् च नादृष्टार्थता भविष्यति. तस्मात् तन्त्रम् इति.
SK
NOTES: *{४/५६१: E१ (Fन्.): फलीकरणादयश् च तस्यैव विशेषाः}*
SK
विकारे त्व् अनुयाजानां पात्रभेदो ऽर्थभेदात् स्यात्//५.२.१६//
SK
अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः, तत्र श्रूयते, पृषदाज्येनानुयाजान् यजतीति{*४/५६२*}. तत्र संदेहः, किं प्रयाजानुयाजानाम् एकं पात्रम् आज्यस्य पृषदाज्यस्य च धारणार्थम्, उत भिद्यते? किं प्राप्तम्? एकम् इति. कुतः? प्रकृताव् एकम्, प्रकृतिवद् इहाप्य् एकेन भवितव्यम्. एवं प्राप्ते ब्रूमः, पात्रभेदः स्यात्. कुतः? अर्थभेदात्, शुद्धस्य प्रयाजा अर्थः, पृषतो ऽप्य् अनुयाजाः, पृषति गृह्यमाणे [५६४]{*४/५६३*} प्रयाजानां वैगुण्यम्, शुद्धे ऽनुयाजानाम्. न चैकस्मिन् पात्रे विविक्तं शक्यं कर्तुम्. मर्यादायाम् अपि क्रियमाणायां प्रदीयमानं संसृज्येत. अपि चाकारभेदाद् उपभृत उपभृत्त्वं विहन्येत. प्राणिमात्रपुष्करा{*४/५६४*} हि सा, एकपुष्करा च. अथोच्येत, पृषदाज्यम् अप्य् आज्यम् एवेति न मिश्रत्वं दोषायेति. नैतद् एवम्, प्रकृताव् उत्पवनावेक्षणयोः प्रयोजनम् एतत्, यद् आज्यस्यापरेण द्रव्येणासंसर्गः. एवं चेद् अनुपपन्नम्, यत् प्रयाजा पृषदाज्येनेज्येरन्न् इति. अपि च, एवं सत्य् अवश्यं हविषः काचिन् मात्रापनीयते. न च शक्यम्, प्रयाजकार्ये ऽवसिते ऽनुयाजार्थं ग्रहीतुम्, प्रकृताव् एककालं ग्रहणम्. इहाप्य् एककालम् एव कर्तव्यम्. तस्मात् पात्रभेद इति.
SK
NOTES: *{४/५६२: Tऐत्.S. ६.३.११.६}* *{४/५६३: E२: ५,१४०; E६: २,८३}* *{४/५६४: E२: पाणिमात्रपुष्करा}*
SK
प्रकृते पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम्//५.२.१७//
SK
अग्नौ{*४/५६५*} नक्षत्रेष्ट्यां{*४/५६६*} श्रूयते, अग्नये कृत्तिकाभ्यः पुरोडाशम् अष्टाकपालं निर्वपेद्{*४/५६७*}. सो ऽत्र जूहोति, अग्नये स्वाहा, कृत्तिकाभ्यः स्वाहेत्येवमादि{*४/५६८*} होमाः समाम्नाताः. सन्ति तु प्रकृतौ नारिष्टहोमाः. तत्र संदेहः, किं नारिष्टहोमाः पूर्वम्, उतोपहोमा इति संशये उच्यते, प्राकृतं पूर्वम्, वैकृतम् अन्ते स्याद् इति. कुतः? चोदितस्य परिपूर्णस्य शेष आम्नायते, यथा जातस्य पुत्रस्य क्रीडनकम्.
SK
[५६५]{*४/५६९*}
SK
NOTES: *{४/५६५: E२ ओम्. अग्नौ}* *{४/५६६: E२: नक्षत्रेष्टिः}* *{४/५६७: E२: निर्वपेद् इति}* *{४/५६८: Tऐत्.Bर्. ३.१.४.१}* *{४/५६९: E२: ५,१४२; E६: २,८३}*
SK
मुख्यानन्तर्यम् आत्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात्//५.२.१८//
SK
आत्रेयो मन्यते स्म, मुख्यानन्तर्यं वैकृतस्य, पश्चात् तु प्राकृतं प्रयुज्येत. प्रधानानन्तरं वैकृतस्य पाठः प्रत्यक्षः, तस्मात् पूर्वम् उपहोमास् ततो नारिष्ठहोमा इति. प्राकृतानां व्यवायः स्यात्, यतस् ते न श्रूयन्ते.
SK
अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात्//५.२.१९//
SK
बादरायणस् त्व् आचार्यो मन्यते स्म, अन्ते वैकृतानां प्रयोग इति. कुतः? प्रधानशब्दगृहीतत्वात्, प्राकृतानाम् अङ्गानाम् प्रधानशब्दगृहीतत्वम्, तत्प्रधानशब्दगृहीतानि हि प्राकृतान्य् अङ्गानि, तस्माच् च प्रधानशब्दात् परम् एतत्, सो ऽत्र जुहोत्य् अग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्येवमादि. तस्मात् प्रत्यक्षाद् एव क्रमान् नारिष्टहोमेभ्यः परां चोपहोमा इति.
SK
तया चान्यार्थदर्शनम्//५.२.२०//
SK
अन्यार्थो ऽपि चैतम् अर्थं दर्शयति, अध्वरस्य पूर्वम् अथाग्नेर् उपप्रैत्य् एतत् कर्म, यद् अग्निकर्मेति. पश्चात् समाम्नातस्य पश्चात् प्रयोगं दर्शयति.
SK
कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् न्यायमात्रम् इतरत्//५.२.२१//
SK
राजसूये श्रूयते, अक्षैर् दीव्यति शौनःशेषम्{*४/५७०*} आख्यापयति, अभि[५६६]{*४/५७१*}षिच्यत इति. तत्र संदेहः, किं देवनादीनाम्{*४/५७२*} अन्ते प्रयोगः, उताभिषेकात् पूर्वम् इति. किं प्राप्तम्? अन्ते तु बादरायण इत्य् अन्ते प्रयोगः कर्तव्य इति. एवं प्राप्ते ब्रूमः, कृतदेशाद् अभिषेकात् पूर्वं तु प्रयोगः, कृतदेशो ह्य् अभिषेकः, माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यत इति प्रत्यक्षानुग्रहायाभिषेकात् पूर्वं प्रयोक्तव्यम्. न्यायमात्रम् इतरत्, अन्ते तु बादरायण इति.
SK
NOTES: *{४/५७०: E१: शौनःशेपम्; E६: शौनःशेफम्}* *{४/५७१: E२: ५,१४३; E६: २,८४}* *{४/५७२: E२: विदेवनादीनाम्}*
SK
प्राकृताच् च पुरस्ताद् यत्//५.२.२२//
SK
अस्ति अग्निः, य एवं विद्वान् अग्निं चिनुत इति{*४/५७३*}. तत्र दीक्षणीयायाः पूर्वं सावित्रहोमाः, उखासंभरणम्, इष्टकाः पशुश् चेत्य् एतद् आम्नातम्. किं तद् एव पूर्वं कर्तव्यम्, उत दीक्षणीयेति. किं प्राप्तम्? वैकृतानाम् अन्ते प्रयोगः, अन्ते तु बादरायण इति. एवं प्राप्ते ब्रूमः, पूर्वं सावित्रहोमाः, इष्टकाः, पशुर् उखासंभरणं च. कुतः? प्रत्यक्षपाठात्, पुनस् तत्र दीक्षणीयाम्नाता, तस्याश् च पुरस्तात् सावित्रहोमाः, इष्टकाः पशुर् उखासंभरणं च. तस्मात् तेषां पूर्वं प्रयोग इति.
SK
NOTES: *{४/५७३: Tऐत्.S. ५.५.२.१}*
SK
संनिपातश् चेद् यथोक्तम् अन्ते स्यात्//५.२.२३//
SK
अग्नौ दीक्षणीयायाः परतो रुक्मप्रतिमोचनाद्य् आम्नातम्, [५६७]{*४/५७४*} तस्मिन्न् एव क्रमे चोदकेन दीक्षितसंस्काराः प्राप्ताः. तत्र संदेहः, किम् अनियमः, उत पूर्वं रुक्मप्रतिमोचनादि, उत दीक्षितसंस्कारा इति. किं प्राप्तम्? अनियमः. अथवा, यथा प्रत्यक्षपाठक्रमाद् दीक्षणीयायाः पुरत उखासंभरणादयः, एवं रुक्मप्रतिमोचनादीनीति. एवं प्राप्ते ब्रूमः, दीक्षितसंस्काराः पूर्वं कर्तव्या इति. कुतः? दीक्षणीयां प्रति यः पाठक्रमः, यथा च चोदकः, तथोभये ऽपि परस्ताद् दीक्षणीयायाः कार्याः. यस् तेषां परस्परापेक्षः क्रमः, तत्र न कश्चिद् उखासंभरणस्येव प्रत्यक्षः पाठक्रमः पूर्वत्वं साधयति. अस्ति तु संस्कारणां प्रकृतौ पूर्वं पाठः, विकृतौ रुक्मप्रतिमोचनस्योत्तरः, तेन यथोक्त एव क्रमः स्यात्, अन्ते वैकृतम् इति. अथ किम् अर्थं संनिपात आशङ्क्यते? नन्व् अयं संनिपात एव व्यक्तः. असंदिग्धे संदिग्धवचनम् एतत्. यथा -
SK
ईजाना बहुभिर् यज्ञैर् ब्राह्मणा वेदपारगाः/ शास्त्राणि चेत् प्रमाणं स्युः, प्राप्तास् ते परमां गतिम्// इति.
SK
तस्मान् न दोष इति.
SK
NOTES: *{४/५७४: E२: ५,१४४; E६: २,८४}*
SK
============================================================================
SK
Aध्याय ५:
SK
[५६८]{*५/१*}
SK
NOTES: *{५/१: E२: ५,१४५; E६: २,८५}*
SK
विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्य तस्योपदिश्येत{*५/२*} // MS_५,३.१ //
SK
अग्नीषोमीये पशौ श्रूयते{*५/३*}, एकादश प्रयाजान् यजति{*५/४*}, एकादशानुयाजान् यजतीति{*५/५*}. चातुर्मास्येषु, नव{*५/६*} प्रयाजान् यजति, नवानुयाजान् यजतीति{*५/७*}. अग्नौ श्रूयते, षड् उपसद इति{*५/८*}. तत्र संदेहः, किं प्रति प्रयाजम् एकादशसंख्या प्रत्य् अनुयाजं च, तथा चातुर्मास्येषु नवसंख्या, तथाग्नौ चोपसत्सु षट्संख्या, उत सर्वसंपाद्या संख्येति. किं प्राप्तम्? प्रतिप्रधानं संख्या भिद्यत इति. कुतः? भिन्नानि हि तानि कर्माणि, तानि च प्रधानानि प्रति, संख्या श्रूयते. प्रधानसंनिधौ च गुणः शिष्यमाणाः प्रतिधानं भिद्यते, यथा{*५/९*} पृषदाज्येनानुयाजान् यजतीति प्रत्यनुयाजं पृषत्ता गुणो भिद्यते, एवम् इहापीति.
SK
NOTES: *{५/२: E२: तस्योपरिश्येत}* *{५/३: E२: श्रुवते}* *{५/४: Tऐत्.S. ६.३.७.५}* *{५/५: Tऐत्.S. ६.३.११.६}* *{५/६: E२: एव}* *{५/७: Tऐत्.S. १.६.३.३}* *{५/८: Tऐत्.S. ६.३.११.६}* *{५/९: E२: तथा}*
SK
अपि वा सर्वसंख्यत्वाद् विकारः प्रतीयेत // MS_५,३.२ //
SK
सर्वसंपाद्या संख्या कल्प्येत. कुतः? पृथक्त्वनिवेशिनी हि संख्यासति पृथक्त्वे ऽभ्यासेन कल्प्येत, यावत्य् असंभवो भेदस्य, तावत्य् एवाभ्यस्येत{*५/१०*}, यावति संभवति, तावति पृथक्त्वनिवेश एव न्याय्यः, तस्मात् सर्वसंपाद्यैव संख्या. यत् तु, पृषदाज्यवद् इति, न, पृषत्ता एकस्य न संभवति, नासौ पृथक्त्वनिवेषिनी. न च, एकस्य क्रियमाणा सर्वेषां तन्त्रेणोपकरोतीति{*५/११*}. [५६९]{*५/१२*} तस्माद् अवश्यं भेत्तव्या, तन्त्रेण तूपकरोति संख्या. इतरापेक्षा हि सा भवति. एवं सति सहत्वस्य प्रापकः प्रयोगवचनो ऽनुग्रहीष्यत इति.
SK
NOTES: *{५/१०: E२: एवाभ्यस्येन}* *{५/११: E२ ओम्. इति}* *{५/१२: E२: ५,१४६; E६: २,८६}*
SK
स्वस्थानात् तु विवृध्येरन्{*५/१३*} कृतानुपूर्व्यत्वात् // MS_५,३.३ //
SK
उपसत्सु संदेहः. किम् आवृत्तिर् दण्डकलितवत्, उत स्वस्थानाद् विवर्धन्त इति. किं तावत् प्राप्तम्? आवर्तनीयानाम् अर्थानाम् एष धर्मः, यद् उत दण्डकलितवत्. यो ह्य् उच्यते, त्रिर् अनुवाकः पठ्यताम् इति, स आदित आरभ्य परिसमाप्य पुनर् आदित आरभ्यते, तस्माद् दण्डकलितवद् आवृत्तिः. एवं प्राप्ते ब्रूमः, स्वस्थानाद् विवर्धितुम् अर्हति. कुतः? कृतानुपूर्व्यत्वात्, कृतम् आनुपूर्व्यम् उपसत्सु, प्रथमां कृत्वा मध्यमा कर्तव्या, तत उत्तमेति. तत्र यदि दण्डकलितवद् आवृत्तिः स्यात्, उत्तमां कृत्वा पुनराद्याया अभ्यासे क्रियमाणे ऽस्थाने सा विवृद्धिः कृता भवति. स्वस्थानविवृद्धौ नैष दोषः. तस्मात् स्वस्थाने विवृद्धिर् इति.
SK
NOTES: *{५/१३: E२: निवृध्येरन्}*
SK
समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिव्योर् अन्तराले समर्हणात् // MS_५,३.४ //
SK
दर्शपूर्णमासयोः सामिधेन्यः सामिधेनीर् अन्वाहेति{*५/१४*}. [५७०]{*५/१५*} तत्र काम्याः सामिधेनीकल्पाः, एकविंशतिम् अनुब्रूयात् प्रतिष्ठाकामस्येत्य्{*५/१६*}एवमादयः, तत्रागमेन संख्या पूरणं वक्ष्यते{*५/१७*}. तत्र संदेहः, किम् आगन्तूनाम् अन्ते निवेशः, उत समिध्यमानवतीं{*५/१८*} समिद्धवतीं{*५/१९*} चान्तरेण निवेश इति. किं तावत् प्राप्तम्? अन्ते निवेशः, अन्ते तु बादरायणः{*५/२०*}, इत्य् अनेन न्यायेनेति. एवं प्राप्ते ब्रूमः, समिध्यमानवतीं समिद्धवतीं चान्तरेण निवेश इति. कुतः? द्यावापृथिव्योर् अन्तराले समर्हणात् संस्तवाद् इत्य् अर्थः{*५/२१*}. इयं वै समिध्यमानवती{*५/२२*}, असौ समिद्धवती{*५/२३*}, यद् अन्तरा, तद् धाय्या, इत्य् अन्तरिक्षसंस्तुते{*५/२४*} ऽस्मिन्न्{*५/२५*} अन्तराले विधीयन्ते. तस्मान् नान्ते स्युर् इति.
SK
NOTES: *{५/१४: Tऐत्.S. २.५.८.२}* *{५/१५: E२: ५,१४७; E६: २,८६}* *{५/१६: Tऐत्.S. २.५.१०.२}* *{५/१७: Vग्ल्. zउ MS १०.५.२६}* *{५/१८: Vग्ल्. ṚV ३.२७.४}* *{५/१९: Vग्ल्. ṚV ५.२८.५}* *{५/२०: Vग्ल्. MS ५.२.१९}* *{५/२१: E१ गिब्त् संस्तवाद् इत्य् अर्थः इन् Kलम्मेर्न्}* *{५/२२: E२: समिध्यमानवती द्यौः}* *{५/२३: E२: समिद्धवती पृथिवी}* *{५/२४: E२: अन्तरिक्षसंस्तुत्या}* *{५/२५: E२: तस्मिन्}*
SK
तच्छब्दो वा // MS_५,३.५ //
SK
अथ वा या धाय्याशब्दिकाः, तास् तत्र भवितुम् अर्हन्ति. तेन हि शब्देन तत्र संस्तवः, संस्तवाच् च विधानम्, यथा, पृथुपाजवत्यौ{*५/२६*} धाय्ये, उष्णिक्ककुभौ ध्याय्ये इति. काः पुनर् एता धाय्या इति{*५/२७*} नाम? नास्य शब्दस्य प्रसिद्धिम् उपलभामहे. उच्यते, सामिधेन्यो ध्याय्याः. कुतः? एवं हि भगवतः पाणिनेर् वचनम् - पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीष्व्{*५/२८*} इति, अस्माद् वचनाच् छ्रुतिम् अनुमिमीमहे. कतमासु सामिधेनीष्व् इति. उच्यते, अविशेषात् सर्वास्वति गम्यते. इह तु समिध्यमानवतीं समिद्धवतीं चान्तरेण ध्याय्याः स्युर् इति. सर्वासु सामिधेनीषु सतीसु ध्याय्यावचनाद् विशिष्टानां सामिधेनीनां धाय्याशब्द इति गम्यते. ननु पाणिनिवचनाद् विशेषेण सर्वा धाय्याः. नेत्य् आह, विशिष्टास्व् अपि वचनम् उपपद्यत एव. यदि विशिष्टाः, ततः [५७१]{*५/२९*} का इति. उच्यते, यासु धाय्याशब्दः श्रूयते, तास् तावद् धाय्याः. तासु च धाय्यासु सतीषु वचनम् अर्थवद् भवति. अर्थवति च सति वचने नान्या धाय्याः, प्रमाणाभावाद् इति.
SK
NOTES: *{५/२६: Vग्ल्. ṚV ३.२७.५-६}* *{५/२७: E२ ओम्. इति}* *{५/२८: Vग्ल्. Pआण्. ३.१.२९}* *{५/२९: E२: ५,१४८; E६: २,८७}*
SK
उष्णिक्ककुभोर् अन्ते दर्शनात् // MS_५,३.६ //
SK
उष्णिक्ककुभोः च अन्ते प्रयोगो दृश्यते, यज् जगत्या परिदध्याद् अन्तं{*५/३०*} यज्ञं गच्छेत्, अथ यत् त्रिष्टुभा परिदधाति नान्तं गच्छतीति. ननु त्रिष्टुब् अत्रान्ते दृश्यते, नोष्णिक्ककुभाव् इति. उच्यते, त्रिष्टुभम् एवायम् उष्णिक्ककुमाव् इति ब्रूते. कथम्? त्रिष्टुभो वीर्यम् इत्य् एवं अन्ते{*५/३१*} संस्तुतेः, त्रिष्टुभो वा एतद् वीर्यं यद् उष्णिक्ककुभाव् इति कारणे कार्यवद् उपचारः कृतः//
SK
NOTES: *{५/३०: E२ ओम्. उष्णिक्ककुभोः च अन्ते प्रयोगो दृश्यतेम् यज् जगत्या परिदध्याद् अन्तं}* *{५/३१: E२ ओम्. अन्ते}*
SK
स्तोमविवृद्धौ बहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि इष्टं द्वादशाहे // MS_५,३.७ //
SK
सन्ति विवृद्धस्तोमकाः क्रतवः, एकविंशेनातिरात्रेण प्रजाकामं याजयेयुस्{*५/३२*} त्रिणवेनौजस्कामं त्रयस्त्रिंशेन प्रतिष्ठाकामम् इति{*५/३३*}. तत्रागमेन संख्या पूरणं वक्ष्यते{*५/३४*}. अथ बहिष्पवमाने वैकृतेष्व् आनीयमानेषु भवति संशयः. किं वैकृतानाम् अन्ते निवेशः, उत प्राक् पर्यासाद् इति. किं प्राप्तम्? पुरस्तात् पर्यासाद् आगन्तवः स्युः. तथा हि दृष्टं द्वादशाहे, स्तोत्रीयानुरूपौ तृचौ भवतः, वृषण्वन्तस्तृचा भवन्ति. तृच उत्तमः पर्यास इति, इहापि प्राक् पर्यासाद् आगन्तुभिर् भवितव्यम्.
SK
[५७२]{*५/३५*}
SK
NOTES: *{५/३२: E२: यजयेत्}* *{५/३३: Tऐत्.Bर्. २.२.४.७}* *{५/३४: Vग्ल्. MS १०.५.२६}* *{५/३५: E२: ५,१४९; E६: २,८८}*
SK
पर्यास इति चान्ताख्या // MS_५,३.८ //
SK
प्रयासशब्दश् चान्तवचनो लोके दृश्यते, यथा, क्षेत्रपर्यासः, नदीपर्यास इति. एवं पर्यासो ऽन्ते कृतो भविष्यति.
SK
अन्ते वा तद् उक्तम् // MS_५,३.९ //
SK
अन्ते वैवंजातीयकं वैकृतं स्यात्. उक्तम्, अन्ते तु बादरायण इति{*५/३६*}.
SK
NOTES: *{५/३६: Vग्ल्. MS ५.२.१९}*
SK
वचनात् तु द्वादशाहे // MS_५,३.१० //
SK
अथ यद् उक्तम्{*५/३७*}, तथा हि दृष्टं{*५/३८*} द्वादशाह इति, तत् परिहर्तव्यम्. अत्रोच्यते, वचनाद् द्वादशाहे भवति, स्तोत्रीयानुरूपौ तृचौ भवतः वृषण्वन्तस् तृचा भवन्ति, तृच उत्तमः पर्यास इति. न हि वचनस्यातिभारो ऽस्ति.
SK
NOTES: *{५/३७: Vग्ल्. zउ MS ५.३.७}* *{५/३८: E२: हीष्टं}*
SK
अतद्विकारश् च // MS_५,३.११ //
SK
न चायं तद्विकारः, यत् ततो धर्मान् गृहणीयाद् इति.
SK
तद्विकारे ऽप्य् अपूर्वत्वात् // MS_५,३.१२ //
SK
यो ऽपि तद्विकारः, तत्राप्य् अन्त एव निवेशः. कुतः? अपूर्वात्, वृषण्वतां तृचानाम्, वृषण्वन्त{*५/३९*} एव प्राक्पर्यासात्, यावद् वचनं वाचनिकम्, न सदृशम् उपसंक्रामति.
SK
NOTES: *{५/३९: E२: वृषण्वन्ताव्}*
SK
अन्ते तूत्तरयोर् दध्यात् // MS_५,३.१३ //
SK
इहापि विवृद्धस्तोमकाः क्रतव उदाहरणम्. तत्रोत्तरयोः [५७३]{*५/४०*} पवमानयोः साम्नाम् आगम इति वक्ष्यते{*५/४१*}. तत्रागम्यमानेषु सामसु संदेहः, किं तेषाम् अन्ते निवेशः, उत गायत्रीबृहत्यनुष्टुप्स्व् इति. किं प्राप्तम्? अन्त उत्तरयोर् दध्यात्. उक्तो ऽत्र न्यायः, अन्ते बादरायण इति{*५/४२*}. तस्माद् अन्ते निवेश इति.
SK
NOTES: *{५/४०: E२: ५,१५०; E६: २,८८}* *{५/४१: Vग्ल्. अध्याय १०}* *{५/४२: Vग्ल्. zउ MS ५.२.१९}*
SK
अपि वा गायत्रीबृहत्यनुषुप्सु वचनात् // MS_५,३.१४ //
SK
गायत्रीबृहत्यनुष्टूप्सु निवेशः. कस्मात्? वचनात्, त्रीणि ह वै यज्ञस्योदराणि गायत्रीबृहत्यनुष्टुब् इति. अत्र ह्य् एवावपन्ति, अत एवोद्वपन्तीति वचनेनास्त्य् उपालम्भः. तस्मान् नैषाम् अन्ते निवेश इति.
SK
ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् // MS_५,३.१५ //
SK
औपानुवाक्ये काण्डे ग्रहा इष्टकाश् च समाम्नाताः, एष वै हविषा हविर् यजते, यो दाभ्यं{*५/४३*} गृहीत्वा सोमाय यजत इति{*५/४४*}. तथा, परा वा एतस्यायुः प्राण एति यो ऽशुं गृह्णातीति. तथेष्टकाश् चित्रिणीर् उपदधाति, वज्रिणीर् उपदधाति{*५/४५*}, भूतेष्टका उपदधातीति{*५/४६*}. तत्र संदेहः, किं ग्रहेष्टकमौपानुवाक्यं सवनशेषश् चितिशेषश् च. अथ किं क्रतुशेषो ऽग्निशेषश् चेति. [५७४]{*५/४७*} किं प्राप्तम्? सवनचितिशेषः. कुतः? ग्रहैः सवनान्य् आरभ्यन्ते, इष्टकाभिश् चितयः, यच् च येनारभ्यते तत् तद् अङ्गम्.
SK
NOTES: *{५/४३: E२: ऽदाभ्यम्}* *{५/४४: Tऐत्.S. ३.३.४.३}* *{५/४५: Tऐत्.S. ५.७.३.१}* *{५/४६: Tऐत्.S. ५.६.३.१}* *{५/४७: E२: ५,१५१; E६: २,८९}*
SK
क्रत्वग्निशेषो वा चोदितत्वाद् अचोदनानुपूर्वस्य // MS_५,३.१६ //
SK
क्रत्वग्निशेषः स्यात्. कुतः? चोदितत्वात्, अग्निश् चेतव्यः श्रूयते, य एवं{*५/४८*} विद्वान् अग्निं चिनुत इति{*५/४९*}. न चितिश् चेतव्या, इष्टकाचयनेनाग्निश् चेतव्यः श्रूयते, अग्निम् इति द्वितीयानिर्देशात्. तथा, यो दाभ्यं{*५/५०*} गृहीत्वा सोमाय यजत इत्य् अदाभ्यस्य यजतिना संबन्धः, तथांशोः. तस्मात् सकृद् यागसंबन्धं कृत्वा कृतार्थः शब्दो भवति, श्रुतं संबन्धम् अभिनिर्वर्त्य. तथा सकृद् अग्निसंबन्धं कृत्वा कृती मन्येत, अचोदना चितिसवनयोः, न हि ते कर्तव्यतया चोद्येते, परार्थं हि तयोः श्रवणम्. किं प्रयोजनम्? सवनचितिशेषत्वे, प्रतिसवनं ग्रहणम्, प्रतिचिति चेष्टकोपधानम्. क्रत्वग्निशेषत्वे सकृद् ग्रहणोपधाने.
SK
NOTES: *{५/४८: E२: य च एवं}* *{५/४९: Tऐत्.S. ५.५.२.१}* *{५/५०: E२: ऽदाभ्यं}*
SK
अन्ते स्युर् अव्यवायात् // MS_५,३.१७ //
SK
औपानुवाक्ये श्रूयते, चित्रिणीर् उपदधाति, वज्रिणीर् उपदधातीति{*५/५१*}. तत्र संदेहः, किम् एताः पञ्चभ्यां चिताव् उपधेयाः, उत मध्यमायाम् इति. किं प्राप्तम्? पञ्चभ्याम् एवेष्टकाः कृतक्रमाः, अन्या नैताभिर् व्यवेष्यन्ते.
SK
NOTES: *{५/५१: Tऐत्.S. ५.७.३.१}*
SK
लिङ्गदर्शनाच् च // MS_५,३.१८ //
SK
आवपनं वोत्तमा चितिः. अन्या इष्टका उपदधातीति.
SK
[५७५]{*५/५२*}
SK
NOTES: *{५/५२: E२: ५,१५२; E६: २,९०}*
SK
मध्यमायां तु वचनाद् ब्राह्मणवत्यः // MS_५,३.१९ //
SK
नैवैतान्त्यायां चितौ. कस्यां तर्हि? मध्यमायाम्. कुतः? ब्राह्मणवत्य एता इष्टकाः, तासां मध्यमा चितिर् आम्नायते. यां वै कांचिद् ब्राह्मणवतीम् इष्टकाम् अभिजानीयात्, तां मध्यमायां चिताव् उपदध्याद् इति. ननु सर्वा एवेष्टका ब्राह्मणवत्यः. नेत्य् आह, अपरा लिङ्गक्रमात् समाख्यानाच् च. तस्माद् एता नान्ते स्युर् इति.
SK
प्राग् लोकंपृणायास् तस्याः संपूरणार्थत्वात् // MS_५,३.२० //
SK
औपानुवाक्ये काण्ड इष्टकाः समाम्नाताः, वज्रिणीर् उपदधाति, चित्रिणीर् उपदधाति{*५/५३*}, भूतेष्टका उपदधातीति{*५/५४*}. तत्रेदं समधिगतम्, मध्यमायां चिताव् उपधेया इति. तत्र संदेहः, किं प्राग् लोकांपृणायाः, उत पश्चाद् इति{*५/५५*}. किं प्राप्तम्? अन्ते तु बादरायण इति{*५/५६*}. एवं प्राप्ते, उच्यते, प्राग् लोकंपृणायाः तस्याः संपूरणार्थत्वात्, संपूरणार्थता तस्याः श्रूयते, यद् एवास्योनम्, यच् छिद्रम्, तद् अनया{*५/५७*} पूरयति, लोकं पृण, छिद्रं पृण इति{*५/५८*}. अपूर्वत्वाच् वार्थस्य{*५/५९*}, विधिर् एवायं संस्तवेनेति{*५/६०*} गम्यते. तस्मात् प्राग् लोकंपृणायाः स्यात्.
SK
[५७६]{*५/६१*}
SK
NOTES: *{५/५३: Tऐत्.S. ५.७.३.१}* *{५/५४: Tऐत्.S. ५.६.३.१}* *{५/५५: Vग्ल्. Tऐत्.S. ४.२.४.४}* *{५/५६: Vग्ल्. zउ MS ५.२.१९}* *{५/५७: E२: तद् एतया}* *{५/५८: Tऐत्.S. ४.२.४.४}* *{५/५९: E२: चार्थस्य}* *{५/६०: E२: संस्तवो नेति}* *{५/६१: E२: ५,१५२; E६: २,९०}*
SK
संस्कृते कर्म संस्काराणां तदर्थत्वात् // MS_५,३.२१ //
SK
आधाने सन्ति पवमानेष्टयः. सन्ति च नियतानि कर्माणि, अग्निहोत्रादीनि. अनियतानि चैन्द्राग्नादीनि. तत्र संदेहः, किं पवमानेष्टीः कृत्वा कर्माणि प्रतिपत्तव्यानि, उताहितमात्रेष्व् अग्निष्व् इति. किं प्राप्तम्? आहितपात्रेष्व् इति. कुतः? आहितमात्रेष्व् असाव् अग्निषु कर्माणि कर्तुं समर्थो भवति, यथा, आहिताग्निर् न क्लिन्नं दार्वा दध्याद् इति. दर्शयति{*५/६२*} च, अग्निं वै सृष्टम् अग्निहोत्रेणानुद्रवन्तीत्य् आहितमात्रेष्व् अग्निहोत्रं दर्शयति. तस्मान् न पवमानेष्टयः प्रतीक्षितव्या इति. एवं प्राप्ते ब्रूमः, पवमानेष्टिभिः संस्कृतेष्व् अग्निषु कर्माणि वर्तेरन्. कुतः? संस्काराणां तदर्थत्वात्, संस्कारशब्दा एत आहवनीयादयः, संस्कारस्य कस्यचिद् अभावेन, आहवनीयादिषु प्रतिपत्तिः स्यात्. तस्मात् संस्कृतेष्व् अग्निषु कर्माणीति.
SK
NOTES: *{५/६२: E२: क्लिन्नं दार्वभ्यादध्याद् इत्येवमादीन्य् आहिताग्निव्रताभ्याहितमात्रेष्व् एव भवन्तीति दर्शयति}*
SK
अनन्तरं व्रतं तद्भूतत्वात् // MS_५,३.२२ //
SK
यत् तु, आहिताग्निर् न क्लिन्नं दार्वा दध्याद्{*५/६३*}इत्येवमादि. युक्तम्{*५/६४*}, यद् आहितमात्रेषु क्रियते, आहिताग्नेस् तद्व्रतम् उच्यते. स च, आहितमात्रेष्व् आहिताग्निः संवृत्तः. तस्माद् अनन्तरं व्रतं स्यात्, तद्भूतत्वात्.
SK
NOTES: *{५/६३: E२: दार्वभ्यादध्याद्}* *{५/६४: E२: युक्तं तत्र}*
SK
पूर्वं च लिङ्गदर्शनात् // MS_५,३.२३ //
SK
अथ यद् उक्तम्, आहितमात्रेष्व् अग्निहोत्रं{*५/६५*} दर्शयति, पूर्वम् इष्टिभ्य इति, तस्य कः परिहार इत्य् आभाषान्तं सूत्रम्.
SK
[५७७]{*५/६६*}
SK
NOTES: *{५/६५: E२: अग्निहोत्रे}* *{५/६६: E२: ५,१५४; E६: २,९१}*
SK
अर्थवादो वार्थस्य विद्यमानत्वात् // MS_५,३.२४ //
SK
अर्थवाद एषः. कुतः? अर्थस्य विद्यमानत्वात्. विद्यमानो हि तत्रान्य एवाग्निहोत्रहोमः. कथं होतव्यम् अग्निहोत्रं न होतव्यम् इति मीमांसन्ते ब्रह्मवादिनः. यद् यजुषा जुहुयाद् अयथापूर्वम् आहुती जुहुयात्, यदि न जुहुयाद् अग्निः परापतेत्. तूष्णीम् एव होतव्यम् इति. तस्य तूष्णीं होमस्य प्रशंसार्थो ऽयम् अर्थवादः.
SK
न्यायविप्रतिषेधाच् च // MS_५,३.२५ //
SK
न्यायविप्रतिषेधश् च भवेत्. यद्य् अनन्तरम् अग्निहोत्रादयः स्युः, यः पूर्वोक्तो न्यायः{*५/६७*}, स विप्रतिषिध्येत, न वा तासां तदर्थत्वाद् इति. तस्मात् संस्कृते कर्माणि भवेयुर् इति.
SK
NOTES: *{५/६७: Vग्ल्. zउ MS ३.६.१२}*
SK
संचिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य // MS_५,३.२६ //
SK
अग्निचिद् वर्षति न धावेत्, न स्त्रियम् उपेयात्, तस्माद् अग्निचिता पक्षिणो नाशितव्या इत्येवमादयः पदार्थाः श्रूयन्ते. तेषु संदेहः, किं संचितमात्रे प्रतिपत्तव्या उत क्रत्वन्त इति. किं प्राप्तम्? संचितमात्र एवेति. अग्निं यश् चितवान् सो ऽग्निचिद् इति तस्य श्रूयमाणाश् चितवतो ऽनन्तरम् एव प्राप्नुवन्ति, प्राप्ते निमित्ते नैमित्तिकं कर्तव्यम्. तस्माद् अनन्तरम् एव.
SK
[५७८]{*५/६८*}
SK
NOTES: *{५/६८: E२: ५,१५५; E६: २,९२}*
SK
क्रत्वन्ते वा प्रयोगवचनाभावात् // MS_५,३.२७ //
SK
प्रयोगवचनो ह्य् अत्र तान् पदार्थान् प्रापयति, येषां क्रत्वर्थत्वम्. न चैषां क्रत्वर्थत्वम् अस्ति, पुरुषार्था ह्य् एते. कथम्? प्रतिषेधे पुरुषः श्रूयते, वर्षति न धावेत्, न स्त्रियम् उपेयाद् इत्येवमादि. न च क्रत्वर्था एते प्रसक्ताः, येन प्रतिषेधः क्रतोर् उपकुर्यात्.
SK
ननु पुरुषार्था अपि चितवतः श्रवणाच् चयनानन्तरं प्राप्ताः. नेति ब्रूमः,
SK
अग्नेः कर्मत्वानिर्देशात्{*५/६९*} // MS_५,३.२८ //
SK
अग्न्यर्थं चयनं तत्, यद् अग्नेः स्वं कार्यं कुर्वतः साहाय्ये वर्तते, तत् तदर्थम्. कश् च तस्य स्वार्थः? यागासिद्धिः, सिद्धे च यागे चयनेनोपकृतं भवति. तस्मात् सिद्धे यागे ऽग्निचित्, तेन क्रत्वन्त इति.
SK
NOTES: *{५/६९: E२: कर्मत्वानिर्देशात्}*
SK
परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसंबन्धात् // MS_५,३.२९ //
SK
ज्योतिष्टोमे श्रूयते, आग्नावैष्णवम् एकादशकपालं निर्वपेद् दीक्षिष्यमाण इति{*५/७०*}. तथा, दण्डेन दीक्षयति{*५/७१*}, मेखलया दीक्षयति, कृष्णाजिनेन दीक्षयतीत्य्{*५/७२*}एवमादि. तत्र संदेहः, किं सर्वैर् दीक्षितो भवति, अथ वेष्ट्यन्ते दीक्षित इति. किं तावत् प्राप्तम्? सर्वैर् इति. कुतः? दीक्षाभिसंबन्धात्, दीक्षासंबन्धो भवति, दण्डेन दीक्षयति, दीक्षाम् अस्य करोतीत्य् अर्थः{*५/७३*}. यदीष्ट्यन्ते दीक्षितः स्यात्, [५७९]{*५/७४*} कथम् अस्य दण्डेन दीक्षां कुर्यात्. तेनेष्ट्या न दीक्षितः. न च, अस्येष्ट्यन्ते दीक्षितशब्दं पश्यामः, आवेदने त्व् अस्य दीक्षितशब्दः, तस्मान् न तावति दीक्षितः स्यात्. न च संभवति सम्-उच्चये विकल्पो न्याय्यः, पक्षे बाधः स्यात्. तत्र प्रयोगवचनो बाध्येत. तस्माद् भिन्नेष्व् अपि दीक्षासंबन्धवाक्येषु प्रयोगवचनेन सहैकवाक्यतेत्य् आवेदनकाले दीक्षितः स्यात्.
SK
NOTES: *{५/७०: Tऐत्.S. ५.५.१.४}* *{५/७१: Tऐत्.S. ६.१.३.५}* *{५/७२: Tऐत्.S. ६.१.३.२}* *{५/७३: E१ गिब्त् दीक्षाम् अस्य करोतीत्य् अर्थः इन् Kलम्मेर्न्}* *{५/७४: E२: ५,१५६; E६: २,९२}*
SK
इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसंबन्धात् // MS_५,३.३० //
SK
इष्ट्यन्ते वा दीक्षितः स्यात्, तदर्था हि सा दीक्षणार्था{*५/७५*}. कथम्? दीक्षिष्यमाणस्य अदीक्षितस्य सा भवति, यदि तस्या उत्तरकाले दीक्षितः, एवं सा दीक्षिष्यमाणस्य. तस्माद् वाक्याद् अवगम्यते, भवति तदा दीक्षित इति, दीक्षाकारणे पदार्थे निर्वृत्ते किम् इति न दीक्षितः स्यात्? वाक्यं हि निरपेक्षं दीक्षित इति ज्ञापयति. यत् तु, दीक्षासंबन्धो दण्डेन दीक्षयतीति. कथं स दीक्षितत्वे स्याद् इति दण्डेनैवं दीक्षितं संपादयतीत्य्{*५/७६*} अवगच्छामः. यत् तु, अनन्तरं दीक्षितशब्दो नास्तीति. न शब्दस्याप्रयोगो ऽर्थाभावे हेतुः. सत्य् अप्य् अर्थे तदवसराभावान् न प्रयुज्यते शब्दः. अन्येन च दीक्षित इत्य् अवगम्यते वाक्येन, आग्नावैष्णवम् एकादशकपालं निर्वपेद् दीक्ष्यमाण इति. यच् च, आवेदनकाले दीक्षितशब्द इति. इष्ट्यन्ते ऽपि दीक्षितस्यासाव् अविरुद्धः, प्रयोगवचनश् चाविरुद्धः, यत एकं दीक्षाकारणम्, अन्यैर् दीक्षितं संपादयतीति गम्यते.
SK
[५८०]{*५/७७*}
SK
NOTES: *{५/७५: E१ गिब्त् दीक्षणार्था इन् Kलम्मेर्न्}* *{५/७६: E२: दण्डेनैनं दीक्षितं संपादयतीत्य्}* *{५/७७: E२: ५,१५७; E६: २,९३}*
SK
समाख्यानं च तद्वत् // MS_५,३.३१ //
SK
इतश् च पश्यामः, इष्टदीक्षणार्था, इष्ट्यन्ते च प्रवृत्तिर् इति. कस्मात्? समाख्यानं च तद्वद् इति यद्वन् न्याय उपदिष्टः. कथम्? दीक्षणीयेति तादर्थ्यकरी समाख्या भवति, यथा स्नानीयं भोजनीयं चेति. तस्माच् च पश्यामः, इष्टिर् दीक्षणार्था, इष्ट्यन्ते च प्रवृत्तिर् इति.
SK
अङ्गवत् क्रतूनाम् आनुपूर्व्यम् // MS_५,३.३२ //
SK
इह काम्या इष्टय उदाहरणम्. ऐन्द्राग्नम् एकादशकपालं निर्वपेद्{*५/७८*} इत्येवमादयः, गवादयः, सोमाः, सौम्यादयः, पशवः. तत्र संदेहः, किं येन क्रमेणाधीताः, तेनैव क्रमेण प्रयोक्तव्याः, उतानियम इति. किं तावत् प्राप्तम्? क्रतूनाम् आनुपूर्व्यं यत् पाठे, तद् एव प्रयोगे भवितुम् अर्हति. एवं पाठक्रमो ऽनुगृहीतो भविष्यति, इतरथा पाठक्रमो बाध्येत, तन् मा भूद् इति क्रमेणानुष्ठातव्यम्.
SK
NOTES: *{५/७८: Tऐत्.S. २.२.१.१}*
SK
न वासंबन्धात् // MS_५,३.३३ //
SK
न वा, अयं{*५/७९*} क्रमो नियम्येत. कुतः? असंबन्धात्. पृथक् पृथग् एषां कर्मणां प्रयोगवचनानि, तानि स्वपदार्थानाम् उपसंहारकाणि. यो यस्य नोपकारकः, स तस्य न क्रमेण, नोत्क्रमण. यो यस्योपकरोति कस्यचित्, तस्योपकुर्वतः क्रमः साहाय्ये वर्तते. न चैतानि कर्माण्य् अन्योन्यस्योपकुर्वन्ति. तस्मान् नैषां क्रमः साहाय्ये वर्तते. तस्माद् असंबन्ध इति.
SK
[५८१]{*५/८०*}
SK
NOTES: *{५/७९: E२: न चायं}* *{५/८०: E२: ५,१५८; E६: २,९४}*
SK
काम्यत्वाच् च // MS_५,३.३४ //
SK
काम्यानि चैतानि कर्माणि, कामाश् च क्रमेणोत्पद्यन्ते, तेन निमित्तस्याक्रमत्वान् न क्रमवन्त इति.
SK
आनर्थक्यान् नेति चेत् // MS_५,३.३५ //
SK
इति यद् उक्तं पूर्वपक्षे, तद् एव पुनर् उच्यते परिहर्तुम्. एवं क्रमेण पाठो ऽर्थवान् भविष्यतीति. एतद् आभाषान्तं सूत्रम्.
SK
स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् // MS_५,३.३६ //
SK
स्याद् अर्थवान् क्रमपाठः, असत्य् अपि प्रयोगे क्रमे, विद्याग्रहणार्थत्वात्, कर्मावबोधनार्थायां विद्यायां क्रमनियमादृष्टं तदाश्रयम् एव भविष्यतीति, यथा, त्वत्पक्षे, परेषु सर्वस्वारात्, यस्यापि क्रमो ऽङ्गम् इति पक्षः, तस्यापि सर्वस्वारात् परेषां सर्वस्वारेण यः क्रमस् तस्यादृष्टार्थतावश्यं कल्पनीया.
SK
य एतेनेत्य् अग्निष्टोमः प्रकरणात् // MS_५,३.३७ //
SK
ज्योतिष्टोमे श्रूयते, एष वाव प्रथमो यज्ञानां{*५/८१*} यज् ज्योतिष्टोमः, य एतेनानिष्ट्वाथान्येन यजेत गर्तपत्यम् एव तज् जायते प्र वा मीयत इति. तत्र संदेहः, य एतेनेति कस्य [५८२] अयं वाद इति प्रश्नेनैवोपक्रमः. उच्यते, य एतेनेत्य् अग्निष्टोमस्य वादः. कुतः? प्रकरणात्, तस्य हि प्रकरणे भवत्य् एतद् वचनम्. प्रकृतवाचीनि च सर्वनामानि भवन्ति.
SK
NOTES: *{५/८१: E२: यज्ञो यज्ञानां}*
SK
लिङ्गाच् च // MS_५,३.३८ //
SK
लिङ्गम् अपि भवति, तत्र श्रूयते, यस्य{*५/८२*} नवतिशतं स्तोत्रीया{*५/८३*} इति, अग्निष्टोमस्य हि भवन्ति नवतिशतं स्तोत्रीयाः. कथम्? त्रिवृद् बहिष्पवमानम्, पञ्चदशान्य् आज्यानि, तानि चत्वारि. सा एकोनसप्ततिः. पञ्चदशो माध्यंदिनः पवमानः, तेन चतुरशीतिः. सप्तदशानि पृष्ठानि, तानि चत्वारि साष्टषष्टिः, चतुरशीत्या सह द्विपञ्चाशच् छतम्. सप्तदश आर्भवः पवमानः, तेन षष्ट्यधिकं शतं नव च. एकविंशं यज्ञायज्ञीयम् इति तद् एतन् नवतिशतम् अग्निष्टोमस्य, तस्माद् अप्य् अग्निष्टोमः.
SK
NOTES: *{५/८२: E२: तस्य}* *{५/८३: Aइत्.Bर्. ३.४१}*
SK
अथान्येनेति संस्थानां संनिधानात् // MS_५,३.३९ //
SK
अथान्येनेति किं संस्थानां वादः, अथ ज्योतिष्टोमविकाराणाम् एवैकाहादीनाम् इति. किं तावत् प्राप्तम्? संस्थानाम् इति. कुतः? संनिधानात्, संनिहितास् तस्मिन् प्रकरणे संस्थाः, तासां वादः प्रकरणानुग्रहाय.
SK
तत्प्रकृतेर् वापत्तिविहारौ हि न तुल्येषूपपद्येते // MS_५,३.४० //
SK
तत्प्रकृतेर् वा गवादेर् वादः स्यात्, आपत्तिविहारौ हि प्रकृतिविकारमात्रेषूपपद्येते, न तुल्यशब्देष्व् एव ज्योतिष्टोम[५८३]{*५/८४*}शब्दकेषु. नैवम् अभिसंबन्धः क्रियते, अथान्येन ज्योतिष्टोमशब्दकेनेति. कथं तर्हि? अन्येनेति प्रकृताद् इतरद् ब्रवीति, न, स ज्योतिष्टोमेन विशिष्यते, न हि शब्दस्यार्थः समीपगतेन कृतप्रयोजनेनैकदेशे ऽवस्थापयितव्यो भवति, न हि वाक्येन श्रुतिर् बाध्यते. अथ, ज्योतिष्टोमाद् अन्येनेत्य् अभिसंबध्यते, ततो नतरां संस्थावादः. कथं पुनर् आपत्तिविहारौ? प्रजापतिर् वाग्निष्टोमः, स उत्तरान् एकाहान् असृजत ते सृष्ट्वा अब्रुवन्{*५/८५*}, न वै स्वेनात्मना प्रभवाम इति. तेभ्यः स्वातन्त्र्यं प्रायच्छत्, तथा च ते प्राभवन् तद्, यथा वा इदम् अग्नेर् जाताद् अध्यग्नयो{*५/८६*} विह्रियन्ते. एवं वा, एतस्माद् यज्ञाद् अन्ये यज्ञक्रतवो विह्रियन्ते, यो वै त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते, स तं दीपयति, यः पञ्चदशम्, स तम्, यः सप्तदशम्, स तम्, य एकविंशम्, स तम् इत्येवम् आहुर् एको यज्ञ इति. एते वै सर्वे ज्योतिष्टोमाः भवन्तीति. एवं वैकृतानां संकीर्तनात्, तेषाम् एव वाद इति गम्यते. कथम्? अथान्येनेति, यो ऽसाव् अन्यः, तत्र प्राकृतान् धर्मान् विहृतान् दर्शयति, अतो मन्यामहे, यस्य यतो विहृतिः, तेनान्येनेति.
SK
NOTES: *{५/८४: E२: ५,१६०; E६: २,९५}* *{५/८५: E२: ते सृष्टास् तम् अब्रुवन्}* *{५/८६: E२: अन्ये ऽग्नयो}*
SK
प्रशंसा वा विहरणाभावात् // MS_५,३.४१ //
SK
यद्य् एवं न तर्हि तद्विकाराणां वादः, तत्र न विहारो नापत्तिः प्रकरणादिभिः, ते धर्मा ज्योतिष्टोमस्य, यदि हि{*५/८७*} गवादयो{*५/८८*} विह्रियेरन् प्रकरणादीनि बाध्येरन्. तदापत्तिः प्रत्यक्षविरुद्धा, प्रशंसा त्व् एषा, आपत्तिविहाराभावात्.
SK
[५८४]{*५/८९*}
SK
NOTES: *{५/८७: E२: ते}* *{५/८८: E२: गवादिषु}* *{५/८९: E२: ५,१६१; E६: २,९५}*
SK
विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् // MS_५,३.४२ //
SK
अत्रोच्यते, यद्य् अप्य् आपत्तिविहारौ न विधीयेते, ते{*५/९०*} तथापि चोदकेन विधीयेते. ये प्रकृतौ कर्तव्याः, ते चोदकवचनाद् विकृताव् अपि कर्तव्या गम्यन्ते. तदापत्तिविहाराव् इव यत्र भवतः, तेनान्येनेति गम्यते. न ह्य् अकस्मात् प्रशंसा स्यात्, यो ऽसाव् अन्यः, स कथम् अनया प्रशंसया लक्ष्येतेत्येवमर्था प्रशंसा.
SK
NOTES: *{५/९०: E२ ओम्. ते}*
SK
एकस्तोमे वा क्रतुसंयोगात् // MS_५,३.४३ //
SK
य एतेनानिष्ट्वा, अथान्येन यजेतेति श्रूयते. तत्रैषो ऽर्थः समधिगतः, तद्विकाराणां वाद इति. अथेदानीं संदिह्यते, किम् एकस्तोमकस्य, अनेकस्तोमकस्य चेति. किं{*५/९१*} प्राप्तम्? एकस्तोमकस्य वादः. कुतः? क्रतुसंयोगात्, एकस्तोमे क्रतुसंयोगो भवति, यो वै त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते स तं दीपयति, यः पञ्चदशं{*५/९२*} स तम्, यः सप्तदशं{*५/९३*} स तम्, य एकविंशं{*५/९४*}, स तम्. त्रिवृदादय एकस्तोमकाः. तस्मात् तेषां वाद इति.
SK
NOTES: *{५/९१: E२: किम् एकस्तोमकस्य. क्रतोर् एष वाद उतैकस्तोमकस्यानेकस्तोमकस्य चेति. किं}* *{५/९२: E२: पञ्चदशः}* *{५/९३: E२: सप्तदशः}* *{५/९४: E२: एकविंशः}*
SK
सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् // MS_५,३.४४ //
SK
सर्वेषां चैष{*५/९५*} वादः, एकस्तोमकानाम् अनेकस्तोमकानां च. कुतः? अविशेषवचनाद् अन्यशब्दस्य. नन्व् एकस्तोमकाः क्रतवः संकीर्त्यन्ते. सत्यं संकीर्त्यन्ते, प्रशंसार्थम्, न [५८५]{*५/९६*} विशेषार्थम्. कः पुनः प्रशंसार्थः? यो वै त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते स तं दीपयति, चोदकप्राप्ता धर्मा अभ्यस्ताः प्रकृतौ, विकृतौ सुखं प्रतिपद्यन्ते.
SK
[५८६]{*५/९७*}
SK
NOTES: *{५/९५: E२: वैष}* *{५/९६: E२: ५,१६२; E६: २,९६}* *{५/९७: E२: ५,१६२; E६: २,९६}*
SK
क्रमको यो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च // MS_५,४.१ //
SK
इह पाठक्रमस्य श्रुत्यर्थक्रमाभ्यां सह बाधां प्रति विचारणम्{*५/९८*}. किं पाठक्रमस् ताभ्यां तुल्यः, उत बाध्यत इति. किं प्राप्तम्? तुल्यबलाव् एतौ, पाठो ऽपि हि कारणं श्रुत्यर्थाव् अपि. न च प्रामाण्ये कश्चिद् विशेषो ऽस्ति, तस्माद् अनियम इति. एवं प्राप्ते ब्रूमः, पाठक्रमो हि बाध्यते श्रुत्या, अर्थेन च. कुतः? श्रुतिविशेषात्, अर्थपरत्वाच् च. श्रुतिविशेषः कः? यत्र श्रवणं तत्र प्रत्यक्षं कारणम्, पाठक्रमस् त्व् आनुमानिकः, पाठक्रमेण स्मरणम्, एवम् अभिनिर्वर्तयितव्यम् इत्य् अवगम्यते. तस्यार्थवत्त्वेनैकयोपपत्त्या तस्यैवानुष्ठानम्{*५/९९*}. श्रुत्या पुनर् अनुष्ठानम् एव, एवं भवतीति प्रत्यक्षाद् अवगम्यते. तथार्थेन. कुतः? अर्थपरत्वात्, अर्थार्थं हि सर्वं प्रधानार्थम्{*५/१००*}, प्रधानम् अभिनिर्वर्तयतीति सर्वं क्रियते. तस्मात् पाठस् ताभ्यां बाध्यते. किम् उदाहरणं प्रयोजनं च? श्रुत्याम्{*५/१०१*} आश्विनो दशमो गृह्यते, तं तृतीयं जुहोति, अत्र पाठक्रमस्य बलीयस्त्वे तृतीयस्य ग्रहणम्, सिद्धान्ते तु दशमस्य. अर्थे, अग्निहोत्रहोमः पूर्वम् आम्नायते, पश्चाच् छ्रपणम्. एवं कर्तव्यम्, यदि पाठो बलवान्. सिद्धान्ते श्रपणं पूर्वम्, ततो होमः.
SK
[५८७]{*५/१०२*}
SK
NOTES: *{५/९८: E२: विचारणा}* *{५/९९: E२: तथैवानुष्ठानम्}* *{५/१००: E१ गिब्त् प्रधानार्थम् इन् Kलम्मेर्न्}* *{५/१०१: E२: श्रुतौ}* *{५/१०२: E२: ५,१६३; E६: २,९७}*
SK
अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्त्या स्यात् // MS_५,४.२ //
SK
स्तो दर्शपूर्णमासौ, तत्र पूर्वं दध्नो धर्माः समाम्नाताः, पश्चाद् आग्नेयस्य, प्रदानं चाग्नेयस्य पूर्वम्. तत्र संदेहः, किं प्रावृत्तिकेन क्रमेण पूर्वं दध्नो ऽवदानाभिघारणासादनानि, उत मुख्यक्रमेण पूर्वम् आग्नेयस्येति. किं प्राप्तम्? अनियम इत्य्. एवं प्राप्ते ब्रूमः, अवदानादिषु प्रावृत्तिकेन पूर्वं दध्न इति. कुतः? एवम् अनुज्ञातेभ्यो व्यवधायकेभ्यो नाभ्यधिको ऽन्यो वा व्यवधायकः कल्पितो भविष्यति, दर्शयति च दध्नः पूर्वम् एव देयम्{*५/१०३*} इति.
SK
NOTES: *{५/१०३: E२: पूर्वम् अवदेयम्}*
SK
यथाप्रदानं वा तदर्थत्वात् // MS_५,४.३ //
SK
यथाप्रदानं वा कर्तव्यानि, यस्य प्रदानं पूर्वम्, तस्यावदानानि पूर्वम्, तस्माद् आग्नेयस्य. कुतः? प्रदानचोदनागृहीतत्वाद्{*५/१०४*} अवदानादीनाम्, प्रदानोपक्रमा एते न पृथक्पदार्था एते{*५/१०५*} इत्य् उक्तम्. अभिघारणम् अवदानं च तस्य प्रदानचिकीर्षयैव क्रियते. आसादनम् अपि प्रदानार्थम् एवासन्न् अकरणम्{*५/१०६*}, एवं दृष्टार्थता भवति. तस्मान् मुख्यक्रमेणाङ्गानां प्रयोग इति. यत् तु, दध्नः पूर्वं प्रवृत्तिर् इति. अर्थात् पूर्वं प्रवृत्तिः, न पाठात्. प्रावृत्तिकाच् च मुख्यक्रमो बलीयान्, मुख्यक्रमे गृह्यमाणे प्रथम एकः पदार्थो विप्रकृष्टकालः स्यात्, प्रावृत्तिके पुनर् गृह्यमाणे सर्वेषां विप्रकर्षः. तस्मान् मुख्यक्रमो बलीयान् इति. अथ यल् लिङ्गम् उक्तम्, दध्नः पूर्वम् अवदेयम् [५८८]{*५/१०७*} इति. अत्रोच्यते, शृताभिप्रायम्{*५/१०८*} एतद् भविष्यति. तस्माद् अदोषः.
SK
NOTES: *{५/१०४: E२: प्रदानं चोदनागृहीतत्वाद्}* *{५/१०५: E२ ओम्. एते}* *{५/१०६: E१ गिब्त् आसन्न् अकरणम् इन् Kलम्मेर्न्}* *{५/१०७: E२: ५,१६४; E६: २,९८}* *{५/१०८: E२: श्रुताभिप्रायम्}*
SK
लिङ्गदर्शनाच् च // MS_५,४.४ //
SK
लिङ्गम् अप्य् अस्मिन्न् अर्थे भवति, स वै ध्रुवाम् एवाग्रे ऽभिघारयति, ततो हि प्रथमाव् आज्यभागौ यक्ष्यन् भवतीति. तस्माद् अपि मुख्यक्रमेण नियम इति.
SK
वचनाद् इष्टिपूर्वत्वम् // MS_५,४.५ //
SK
इष्टिपूर्वत्वं समानातम्. तत्र संदेहः, किम् इष्टिपूर्वत्वम्, सोमपूर्वत्वं वा विकल्पः{*५/१०९*}, अथवेष्टिपूर्वत्वम् एवेति. किं प्राप्तम्? इष्टिपूर्वत्वम् एव स्यात्. कुतः? वचनात्, वचनम् इदं भवति, एष वै देवरथो यद् दर्शपूर्णमासौ, यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानाम् अवस्यतीति{*५/११०*}, नास्ति वचनस्यातिभारः. तस्माद् इष्टिपूर्वत्वम् एवेति.
SK
NOTES: *{५/१०९: E२: विकल्प्यते}* *{५/११०: Tऐत्.S. २.५.६.१}*
SK
सोमश् चैकेषाम् अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् // MS_५,४.६ //
SK
इष्टिपूर्वत्वम् इत्य् एतद् गृह्णीमः, किं तु सोमश् चैकेषां{*५/१११*} पूरो{*५/११२*} दर्शपूर्णमासयोः स्यात्. कुतः? अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात्. यः सोमेन यक्ष्यमाणो ऽग्नीन् आदधीत, नर्तुं स{*५/११३*} प्रतीक्षेन् न नक्षत्रम् इति. यः सोमयागं कर्तुम् आदधीत्, स न प्रतीक्षेत नक्षत्रं नाप्य् ऋतुं तावत्य् एवादधीतेत्य् आनन्तर्यम् उच्यते. इतरथा, ऋतुनक्षत्रातिक्रमवचनम् अनर्थकं स्यात् [५८९]{*५/११४*}, आनन्तर्ये ऽनपेक्ष्यमाणे यस्यैवर्तुनक्षत्रे उक्ते तस्यैव तयोर् अनादरः कीर्तितः स्यात्, तस्माद् अस्ति सोमाधानयोर् आनन्तर्यम् इति. अपि च विस्पष्टा चाद्यतनी विभक्तिः, सोमेन यक्ष्यमाण इति, सा च नेष्टिपूर्वत्वम्{*५/११५*} अनुज्ञाय विवक्ष्यते, न तदाद्यतनकालविवक्षा, तत्रायं शब्दो विप्रतिषिध्येत. तस्माद् आनन्तर्यविवक्षेत्य् अवगम्यते.
SK
NOTES: *{५/१११: E२: चैषां}* *{५/११२: E२: पूर्वो}* *{५/११३: E२ ओम्. स}* *{५/११४: E२: ५,१६५; E६: २,९८}* *{५/११५: E२: यदा सेष्टिपूर्वत्वम्}*
SK
तदर्थवचनाच् च नाविशेषात् तदर्थत्वम् // MS_५,४.७ //
SK
इतश् च सोमाधानयोर् आनन्तर्यम्. कुतः? तदर्थवचनात्, यः सोमेन यजेत स अग्निम् आदधीतेति च. सर्वैर् अप्य् असौ यक्ष्यमाणो ऽग्निम् आधत्ते सोमेनाग्निहोत्रादिभिश् च, नासति सोमस्य विशेषे सोमार्थता स्यात्. अयम् असौ विशेषः स्यात्, यद् आनन्तर्यं सोमाधानयोर् इति.
SK
अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् // MS_५,४.८ //
SK
सोमेनायक्ष्यमाणस्य च पवमानहविषां कालो निर्दिश्यते, यः सोमेनायक्ष्यंआणो ऽग्निम् आदधीत, स पुरा संवत्सराद् धवींषि निर्वपेद् इति, न खलु कश्चिद् अयक्ष्यमाणः, सर्वस्य विहितत्वात्. तस्माद् अनन्तरम् अयक्ष्यमाण इति गम्यते.
SK
इष्टिर् अयक्ष्यमाणस्य, तादर्थ्ये सोमपूर्वत्वम् // MS_५,४.९ //
SK
इदं प्रयोजनसूत्रं वर्ण्यते. क्षीणम् अधिकरणम्. किं प्रयोजनं चिन्तायाः? इष्टिर् अयक्ष्यमाणस्य सोमेन निरभिसंधिक आधाने. तदर्थत्वे तु सोमपूर्वत्वम्{*५/११६*}, सोमार्थतायां त्व् आधानस्य सोमपूर्वत्वं स्यात्.
SK
[५९०]{*५/११७*}
SK
NOTES: *{५/११६: E२: तादर्थ्ये सोमपूर्वत्वम्}* *{५/११७: E२: ५,१६६; E६: २,९९}*
SK
उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् // MS_५,४.१० //
SK
अस्त्य् आधानम्, तत्रैषो ऽर्हः समधिगतः, इष्टिपूर्वत्वं सोमपूर्वत्वं चेति. इदानीं संदेहः, किं त्रयाणां वर्णानाम् इष्टिपूर्वत्वं सोमपूर्वत्वं वा, उत ब्राह्मणस्य सोमपूर्वत्वम् एव, उत केवला पौर्णमास्य् उत्कृष्यते, ब्राह्मणस्योभौ कल्पाव् इति. अथ वा कर्मान्तरम् इदम्, यद् ऊर्ध्वं सोमात्, अथ वैकं हविर् उत्कृष्यते, ब्राह्मणस्योभाव् एव कल्पाव् इति. किं प्राप्तम्? त्रयाणां वर्णानाम् इष्टिपूर्वत्वं सोमपूर्वत्वं वा. कुतः? अविषेशात्. न किंचिद् विशेषम् अवगच्छामः. एवं प्राप्ते ब्रूमः, ब्राह्मणस्य सोमपूर्वत्वं स्यात्. कस्मात्? उत्कर्षात्, उत्कर्षो हि श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीसोमीयो भवति. यद् एवादः पौर्णमासं हविः, तत्र ह्य्{*५/११८*} अनुनिर्वपेत्, तर्ह्य् उभयदेवत्यो भवतीति. किम् इव हि वचनं न कुर्यात्. तस्माद् ब्राह्मणस्य सोमपूर्वत्वम् एवेति.
SK
NOTES: *{५/११८: E२: तत् तर्ह्य्}*
SK
पौर्णमासी वा श्रुतिसंयोगात् // MS_५,४.११ //
SK
यद् उक्तम्, ब्राह्मणस्य सोमपूर्वत्वम् एवेति, तन् न, तस्याप्य् उभौ कल्पौ. कुतः? अविशेषात्, न हि कल्पयोर् ब्राह्मणस्य कश्चिद् विशेष आम्नायते. नन्व् इदानीम् एवोक्तम्, ब्राह्मणस्योत्कर्ष इति. नेति ब्रूमः, पौर्णमासीमात्रस्य तत्रोत्कर्षः. श्रुतिसंयोगः पौर्णमास्यास् तत्र, यद् एवादः पौर्णमासं हविर् इति, यावद् वचनं वाचनिकम्, तत्र न न्यायः क्रमते. तुल्ययोर् एकदेश उत्कृष्टे नूनम् अपरो ऽप्य् एकदेश उत्कृष्यत इति.
SK
[५९१]{*५/११९*}
SK
NOTES: *{५/११९: E२: ५,१६७; E६: २,१००}*
SK
सर्वस्य वैककर्म्यात् // MS_५,४.१२ //
SK
यद् उच्यते, केवला पौर्णमास्य् उत्कृष्यत इति. तन् न, कृत्स्नस्य दर्शपूर्णमासकर्मण उत्कर्षः, एवं फलेन संबन्धः, इतरथा न स्यात् फलम्. एकदेशत्वात् पौर्णमास्याः, केवलायाम् उत्कृष्यमाणायाम् अवशिष्टस्य पूर्वत्र क्रियमाणस्य न फलं स्यात्, एकदेशत्वात्, अफलत्वाच् चोक्तम् अपि न क्रियेत. समुदाये चोत्कृष्यमाणे भवति फलम्. तस्माद् अर्थात् समुदायस्योत्कर्षः, एवं कृत्स्नोपदेशो ऽर्थवान् भविष्यतीति. तस्मात् सर्वस्योत्कर्षः, सोमपूर्वत्वम् एव ब्राह्मणस्येति.
SK
स्याद् वा विधिस् तदर्थेन // MS_५,४.१३ //
SK
नैतद् अस्ति{*५/१२०*}, यद् एवं समुदायस्यासति वचन उत्कर्षः परिकल्प्येत, तस्माद् अन्यद् एवैवं नामकं कर्म, ऊर्ध्वं सोमात् स्यात्. एवम् एकदेशस्याश्रुतं फलं न कल्पयितव्यं भविष्यति. नामधेयं तु द्वयोः कर्मणोर् एकम्, अक्षाः पादाः माषा इति यथा. पौर्णमासधर्मकं वा कर्मान्तरं चोद्यत इति कर्मविधानम्, श्रुतेर् एतद् भवति, तद् वाक्यस्य बाधकम्. तस्मात् कर्मान्तरम् इति.
SK
NOTES: *{५/१२०: E२: नैतद् अस्ति कृत्स्नोत्कर्ष इति}*
SK
प्रकरणात् तु कालः स्यात् // MS_५,४.१४ //
SK
कर्मान्तरस्यैतद्वाचकम् इति प्रमाणाभावः. प्रकृतस्य कर्मणो वाचकम् इति प्रत्यक्षम्, यच् च सप्रमाणकम्, तद् ग्राह्यम्, अन्यायश् चानेकार्थत्वम्. धर्मग्रहणे लक्षणाशब्दः श्रुतिसंभवे कल्प्यः स्यात्. अपि चास्य रूपं न गम्यते, रूपावचनान् न कर्मान्तरम्. तस्मात् प्रसिद्धेन नाम्ना प्रकृतस्य कर्मणो ग्रहणं कालविधानार्थं स्यात्. फलवत्त्वाच् च कृत्स्नस्योत्कर्षः, ब्राह्मणस्य [५९२]{*५/१२१*} च तथैव. यत् तु, श्रुतिर् वाक्याद् बलीयसीति, अत्रोच्यते, यत्र फलं न श्रूयते, वाक्यार्थो ऽपि तावत् तत्र गृह्यते. न च, इह फलस्य श्रवणम् अस्ति. कल्प्यं फलम् इति यद् उच्यते, न तत्, फलवचनम्{*५/१२२*} अन्तरेण. तत्र फलवचनः शब्दः कल्प्येत, तेन च सहैकवाक्यता. कालवचनेन तु सह प्रत्यक्षेणैकवाक्यतेति. तस्मान् न कर्मान्तरम्. स्थितं तावद् अपर्यवसितम् अधिकरणम्{*५/१२३*}.
SK
NOTES: *{५/१२१: E२: ५,१८६; E६: २,१००}* *{५/१२२: E२: फलं वचनम्}* *{५/१२३: E२: अधिकरणम्. अन्तरा चिन्तान्तरं वक्ष्यते}*
SK
स्वकाले स्याद् अविप्रतिषेधात् // MS_५,४.१५ //
SK
यः सोमेन यक्ष्यमाणो ऽग्निम् आदधीत, नर्तुं स{*५/१२४*} प्रतीक्षेन्{*५/१२५*} न नक्षत्रम् इति. अत्र संदेहः, किम् आधानस्यायं कालविशेषबाधः, उत सोमस्येति. किं प्राप्तम्? आधानस्य कालबाधः, स्वकाले स्यात् सोमः. कुतः? अविप्रतिषेधात्, अङ्गम् आधानम्, तस्य कालबाधो न्याय्यः, न प्रधानस्य. अङ्गगुणविरोधे च तादर्थ्याद् इति वक्ष्यते{*५/१२६*}.
SK
NOTES: *{५/१२४: E२ ओम्. स}* *{५/१२५: E१ (व्.ल्.): सूक्ष्मेत}* *{५/१२६: Vग्ल्. zउ MS १२.२.२५}*
SK
अपनयो वाधानस्य सर्वकालत्वात् // MS_५,४.१६ //
SK
अपनयो वाधानात्{*५/१२७*} सोमकालस्य स्यात्. कुतः? आधानस्य सर्वकालत्वात्, नैवाधाने कश्चित् कालनियमो ऽस्ति, यद् अहर् एवैनं श्रद्धोपनमेत्{*५/१२८*} तद् अहर् आदधीतेति{*५/१२९*}. अप्राप्तम् एव तद् आधानस्य, यत् प्रतिषिध्यते. तस्मात् सोमस्य कालबाध इति.
SK
[५९३]{*५/१३०*}
SK
NOTES: *{५/१२७: E२ ओम्. आधानात्}* *{५/१२८: E१ (व्.ल्.): यज्ञ उपनमेत्}* *{५/१२९: ŚPBर् २.१.३.९}* *{५/१३०: E२: ५,१६९; E६: २,१०१}*
SK
पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् // MS_५,४.१७ //
SK
स्थिताद् उत्तरम्. न वैतद्{*५/१३१*} अस्ति, कृत्स्नौ दर्शपूर्णमासाव् उत्कृष्येते, ऊर्ध्वं सोमात्, केवला पौर्णमास्य् उत्कृष्यते. कुतः? वचनात्, वचनम् इदम्, यद् एवादः पौर्णमासं हविस् तत् तर्ह्य् अनुनिर्वपेद् इति, नास्ति वचनस्यातिभारः. तस्मात् पौर्णमासीमात्रम् उत्कृष्येत. यत् तु फलं नास्तीति, समुदायाद् एव फलं भविष्यतीति, वचनाद् एवं विज्ञानात्. तस्माद् अदोषः.
SK
NOTES: *{५/१३१: E२: चैतद्}*
SK
एकं{*५/१३२*} शब्दसामर्थ्यात् प्राक् कृत्स्नविधानात् // MS_५,४.१८ //
SK
एकं वा हविर् उत्कृष्येत, न कृत्स्ना पौर्णमासी. कुतः? शब्दसामर्थ्यात्, एकं हविर् उत्क्रष्टुं शब्दः समर्थः, यद् एवादः पौर्णमासं हविर् इति श्रूयते, यावद् वचनं वाचनिकम्, तावद् वचनेनोत्क्रष्टुं शक्यते, नान्यद् अपि. प्राक् सोमात् कृत्स्नं विधीयते. ततो यद् वचनेनोत्कृष्यते, तद् ऊर्ध्वं सोमात्, यन् नोत्कृष्यते, तत् प्राग् भवितुम् अर्हति. तस्माद् एकं हविर् उत्क्रष्टव्यम्, ब्राह्मणस्योभौ कल्पाव् इति.
SK
NOTES: *{५/१३२: E२: एकं वा}*
SK
पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् // MS_५,४.१९ //
SK
इदं श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीषोमीयो भवति, यद् एवादः पौर्णमासं हविस् तत् तर्ह्य् अनुनिर्वपेत्, तर्ह्य् उभयदेवत्यो भवतीति. यस्मात् तस्मिन् काले सो [५९४]{*५/१३३*} ऽग्नीषोमीयो भवति, न प्राचीने काले तस्माद् अदो हविर् अनुनिर्वपेद् इति, अग्नीषोमीयत्वं विधाय द्विदेवताकत्वं हेतुत्वेन निर्दिश्यते. तस्माद् अग्नीषोमीयं हविर् हेतुमत् स्यात्, नान्यदेवताकम्, तदासाव् अग्नीषोमौ यष्टुम् अर्हति, न प्राक् सास्य देवतेति भवति पुरुषस्यापि यष्टुर् देवताभिसंबन्धः. तस्मात् पुरोडाशो ऽग्नीषोमीयो नान्यद् धविर् इति सिद्धम्.
SK
NOTES: *{५/१३३: E२: ५,१७०; E६: २,१०१}*
SK
आज्यम् अपीति चेत् // MS_५,४.२० //
SK
इति चेत् पश्यस्य् अग्नीषोमीयत्वात् पुरोडाश इति, आज्यम् अपि ह्य् अग्नीषोमीयम्. तस्मात् तद् अप्य् उत्कृष्येत.
SK
न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् // MS_५,४.२१ //
SK
मिश्रदेवतं ह्य् आज्यम्, अग्नीषोमीयम्, प्राजापत्यम्, वैष्णवम् इति च. पुरोडाशस् त्व् अग्नीषोमीय एव. न त्व् अत्र मिश्रदेवतस्य वादः, मिश्रदेवतस्य हि प्राग् अपि भावो ऽवकल्प्यते. यद् अपि तदानीं यजमानो नाग्निषोमीयस् तद्देवतार्हः, तथाप्य् आज्यं हविः करिष्यत्य् एव, प्रजापतिं यक्ष्यति, विष्णुं वा. तस्मात् तस्योर्ध्वभावे न एष हेतुर् अग्नीषोमीयत्वं नाम. यथा चतुर्धाकरणं मिश्रदेवतत्वाद् ऐन्द्राग्नेन भवति, तद्वत् तत्राग्नेय इति, ऐन्द्राग्नो न शक्यते वदितुम्, तद् धितः साकाङ्क्षान् नोत्पद्यत इति. एवम् इहाग्नीषोमीयशब्देन न शक्यम् आज्यं वदितुम् अग्नीषोमीयो हि असौ{*५/१३४*}. तस्माच् छक्यं प्राग् यजमानेन कर्तुम् इति. तस्मान् न तस्योत्कर्षे ऽग्नीषोमीयता यजमानस्य हेतुर् इति, मिश्रदेवतस्य ग्रहणसामान्याद्{*५/१३५*} ऐन्द्राग्नवद् इत्य् उक्तम्.
SK
[५९५]{*५/१३६*}
SK
NOTES: *{५/१३४: E२: अनग्नीषोमीयो ऽप्य् असौ}* *{५/१३५: E२: मिश्रदेवतस्याग्रहणसामान्याद्}* *{५/१३६: E२: ५,१७१; E६: २,१०२}*
SK
विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् // MS_५,४.२२ //
SK
इह वैकृतानि कर्माण्य् उदाहरणम्, ऐन्द्राग्नम् एकादशकपालं निर्वपेद् इत्येवमादीनि. तत्र संदेहः, किम् एता विकृतयः सद्यस्कालाः, उत द्व्यहकाला इति. किं प्राप्तम्? विकृतिः प्राकृतान् धर्मांश् चोदकेन गृह्णाति, अतस् ते धर्मा आनुमानिकाः, पौर्णमासी चान्यः कालः. स यदि वा प्रकृत्या गृह्येत, यदि वा विकृत्या, असंभवे ऽन्यतरस्याः कालस् त्यक्तव्यः, तत्रानुमानिको वैकृतस्य त्यज्यताम्, न प्रत्यक्षश्रुतः प्राकृतस्येति न्याय्यम्. तस्मात् सद्यस्काला एता विकृतयो भवेयुर् इति.
SK
द्वैयहकाल्ये तु यथान्यायम् // MS_५,४.२३ //
SK
द्वैयहकाल्ये क्रियमाणे यथान्यायं कृतं भवति, तस्माद् द्वैयहकाल्यं स्यात्. चोदकस् तथानुगृहीतो भवति, प्रकृतौ हि श्रूयते, पूर्वेद्युर् अग्निं गृह्णाति, उत्तरम् अहर् देवतां यजतीति. तस्माद् द्व्यहकालम् एकम् अभिनिर्वर्त्यम्, तदहर् एवोपक्रम्यापरेद्युः परिसमापयेत्.
SK
वचनाद् वैककाल्यं स्यात् // MS_५,४.२४ //
SK
नैतद् एवम्, द्व्यहकाला विकृतयो भवेयुर् इति, सद्यस्कालाः स्युः. कस्मात्? वचनम् इदं भवति, इष्ट्या{*५/१३७*} पशुना सोमेनाग्रयणेन वा यक्ष्यमाणः स पौर्णमास्याम् अमावास्यायां वा यजेतेति, साङ्गस्यैतद् वचनम्. तस्मात् साङ्गं पौर्ण[५९६]{*५/१३८*}मास्याम् अमावास्यायां वा कुर्वीतेति गम्यते, तेन सद्यस्काला विकृतयः.
SK
NOTES: *{५/१३७: E२: न इष्ट्या}* *{५/१३८: E२: ५,१७२; E६: २,१०३}*
SK
सांनाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात् प्रकृतिवत् // MS_५,४.२५ //
SK
इह सांनाय्यविकाराश् चाग्नीषोमीयविकाराश् चोदाहरणम्, सांनाय्यविकारास् तावद् यथा, आमिक्षा{*५/१३९*} पशुर् इति, अग्नीषोमीयम्{*५/१४०*} एकादशकपालं निर्वपेच् छ्यामाकम्, ब्राह्मणो वसन्ते ब्रह्मवर्चस्काम इत्य्{*५/१४१*}एवमाद्यः. तत्र संदेहः, किम् एते प्राग् ऊर्ध्वं च सोमात्, उतोर्ध्वम् इति. किं प्राप्तम्? प्राग् ऊर्ध्वं च, विशेषानवगमात्. एवं प्राप्ते ब्रूमः, ऊर्ध्वं सोमाद् स्युर् इति, प्रकृतिर् ह्य् एषाम् ऊर्ध्वं सोमात्, चोदकेन एभिर् अपि ऊर्ध्वं सोमात् भवितव्यम्. सान्नाय्यस्य ऊर्ध्वं सोमात्, वचनेन, असोमयाजी संनयेद् इति. अग्नीसोमीयस्यापि, आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्ट्वा भवति{*५/१४२*}, यद् एवादः पौर्णमासं हविः, तत् तर्ह्य् अनुनिर्वपेद् इति, तर्हि स उभयदेवत्यो भवतीति, तद्विकृतिर् अपि सोमाद् ऊर्ध्वं भवितुम् अर्हति.
SK
NOTES: *{५/१३९: Vग्ल्. Tऐत्.S. १.८.२.१}* *{५/१४०: E२: अग्नीषोमीयविकाराः, अग्नीषोमीयम्}* *{५/१४१: Tऐत्.S. २.५.५.१}* *{५/१४२: E२: सोमेनेष्ट्वाग्नीषोमीयो भवति}*
SK
तथा सोमविकारा दर्शपूर्णमासाभ्याम् // MS_५,४.२६ //
SK
सोमविकारा गवादय एकाहाः. तेषु संदेहः, किं दर्शपूर्णमासात् प्राग् ऊर्ध्वं च प्रयोक्तव्याः, उतोर्ध्वम् इति. किं प्राप्तम्? अनियमः, अविशेषात्. एवं प्राप्ते ब्रूमः, तथा [५९७]{*५/१४३*} सोमविकाराः, दर्शपूर्णमासाभ्याम् ऊर्ध्वं स्युः, ज्योतिष्टोमो दर्शपूर्णमासाभ्याम् ऊर्ध्वं भवति, दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति{*५/१४४*}. चोदकेनैष धर्मो गवादिष्व् अप्य् एकाहेषु प्राप्नोति. तस्मात् ते ऽपि दर्शपूर्णमासाभ्याम् ऊर्ध्वं कर्तव्या इति.
SK
[५९८]{*५/१४५*}
SK
NOTES: *{५/१४३: E२: ५,१७३; E६: २,१०४}* *{५/१४४: Tऐत्.S. २.५.६.१}* *{५/१४५: E२: ५,१७३; E६: २,१०४}*
SK
द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः//६.१.१//
SK
दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादि समाम्नायते. तत्र संदेहः, किं स्वर्गो गुणतः, कर्म प्रधानतः, उत कर्म गुणतः, स्वर्गः प्रधानत इति. कुतः संशयः? इह स्वर्गकामो ऽपि निर्दिश्यते, यजेतेत्य् अपि. अत्र स्वर्गकामयागयोः संबन्धो गम्यते. तस्मिंश् च संबन्धे किं यागः साधनत्वेन संबध्यते, उत साध्यत्वेनेति भवति विचारणा. तत्र यदि स्वर्गकामस्य पुरुषस्य यागः कर्तव्यतया चोद्यते, स्वर्गकामेन यागः कर्तव्य इति, स्वर्गेच्छाविशिष्टस्य स सिध्यतीति गम्यते. स्वर्गेच्छा तत्र पुरुषस्य यागं प्रत्युपदिश्यते, तेन तस्य स सिध्यति नान्यस्येति. यः स्वर्गकामः, स शक्नोति पुरुषो यागं साधयितुम्. अथ स्वर्गकामस्य कामः कर्तव्यतया चोद्यते, ततो यागविशिष्टा कर्तव्यतेति यागः साधको ऽभ्युपगम्यते. स चायम् उभयोर् अप्य् अर्थ एकस्माद् उच्चरिताद् वाक्याद् गम्यते{*५/१४६*}, यागो वा कर्तव्यः कामो वेति. न चैतद् यौगपद्येन संभवति, यदा कामः, न तदा यागः, यदा यागः, न तदा कामः, वचनव्यक्तिभेदात्. उपपन्नः संशयः. [५९९]{*५/१४७*} तथेदम् अपरं संदिग्धम्. किं प्रीतिः स्वर्गः, उत द्रव्यम् इति. यदि द्रव्यं स्वर्गः, ततः प्रधानं कर्म, द्रव्यं गुणभूतम्. अथ प्रीतिः स्वर्गः, ततो यागो गुणभूतः, स्वर्गः प्रधानम् इति. कुतः संशयः? नास्त्य् अत्र कामस्य गुणत्वेन प्राधान्येन वा श्रुतिः, संबन्धमात्रं त्व् अस्य यागेन गम्यते, द्रव्यस्य तु कर्मार्थता स्वभावतः, पुरुषप्रयत्नस्य च फलार्थता. किं तावत् प्राप्तम्? स्वर्गो गुणतः, कर्म प्रधानत इति. तत्र तावद्{*५/१४८*} वर्णयन्ति, द्रव्यं स्वर्ग इति. कथम् अवगम्यते? सर्वेषाम् एव शब्दानाम् अर्थज्ञाने लौकिकः प्रयोगो ऽभ्युपायः, तस्मिंश् च लौकिके प्रयोगे द्रव्यवचनः स्वर्गशब्दो लक्ष्यते, कौशिकानि{*५/१४९*} सूक्ष्माणि वासांसि स्वर्गः, चन्दनानि स्वर्गः, द्व्यष्टवर्षाः स्त्रियः स्वर्ग इति. यद् यत् प्रीतिमद् द्रव्यम्, तत् तत् स्वर्गशब्देनोच्यते. तेन सामानाधिकरण्यात् प्रीतिमद् द्रव्यं स्वर्ग इति मान्यामहे, उपमानाच् छब्दप्रवृत्तिर् इति चेत्. न हि कस्मिंश्चिद् अनुपमिते{*५/१५०*} लोके प्रसिद्धः, यस्यैतद् उपमानं स्यात्, तस्मान् नोपमानम्. अतो द्रव्यं स्वर्ग इति. नेत्याह, प्रीतिः स्वर्ग इति, न द्रव्यम्, व्यभिचारात्, तद् एव हि द्रव्यं कस्यांचिद् अवस्थायां न स्वर्गशब्दो ऽभिधाति. प्रीतिं तु न कस्यांचिद् अवस्थायां न{*५/१५१*}, नाभिदधाति. तस्माद् अन्वयव्यतिरेकाभ्याम् एतद् अवगम्यते, प्रीतौ स्वर्गशब्दो वर्तत इति. नैतद् अस्ति, प्रीतेर् अभिधायकः स्वर्गशब्द इति. कुतः? विशेषणत्वात्{*५/१५२*}. यद् विशेषणम्, न तच् छब्देनोच्यते. तद् यथा, दण्डीति दण्डनिमित्तः पुरुषवचनः, दण्डो ऽस्य [६००]{*५/१५३*} निमित्तम्, नाभिधेयः. एवम् एष न प्रीतिवचनः प्रीतिसाधनवचनस् त्व् एष स्वर्गशब्द इति. ननु स्वर्गशब्दो लोके प्रसिद्धो विशिष्टे देशे. यास्मिन् नोष्णम्, न शीतम्, न क्षुत्, न तृष्णा, नारतिः, न ग्लानिः, पुण्यकृत एव प्रेत्य तत्र गच्छन्ति, नान्ये. अत्रोच्यते, यदि तत्र केचिद् अमृत्वा गच्छन्ति{*५/१५४*}, तत आगच्छन्त्य् अजनित्वा, न तर्हि स प्रत्यक्षो देश एवंजातीयकः, न त्व् अनुमानाद् गम्यते{*५/१५५*}. ननु{*५/१५६*} चान्ये सिद्धाः केचिद् दृष्टवन्तः, ते चाख्यातवन्त इति चेत्. न तत्र प्रमाणम् अस्ति, सिद्धा एवंजातीयकाः सन्ति, ते च दृष्ट्वाचक्षीरन्न् इति. तस्माद् एवंजातीयको देश एव नास्ति. ननु च लोकाद् आख्यानेभ्यो वेदाच् चावगम्यते, देश एवंजातीयकः स्वर्ग इति. तन् न, पुरुषाणाम् एवंविधेन देशेनासंबन्धाद् अप्रमाणं वचः. आख्यानम् अपि पुरुषप्रणीतत्वाद् अनादरणीयम्. वैदिकम् अपि स्वर्गाख्यानं विधिपरं नास्त्य् एव, भवति तु विध्यन्तरेणैकवाक्यभूतं स्तुतिपरम्. यद्य् अपि केवलसुखश्रवणार्थापत्त्या तादृशो देशः स्यात्, तथाप्य् अस्मत्पक्षस्याविरोधः, प्रीतिसाधने स्वर्गशब्द इति. तेन देशेन व्यवहाराभावात्, कुतस् तस्याभिधायकः स्वर्गशब्दो भविष्यतीति{*५/१५७*}. यदा प्रीतिमद् द्रव्यं स्वर्गः, तदा ब्रूमः, द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति, यागो ऽत्र कर्तव्य इति श्रूयते स्वर्गकामस्य. तत्रावश्यं स्वर्गस्य यागस्य च संबन्धः, तत्र भूतं द्रव्यम्, भव्यं कर्म. भूतस्य च भव्यार्थता न्याय्या, दृष्टार्थत्वात्. न तु भव्यस्य भूतार्थता, तत्र दृष्ट उपकारस् त्यज्येत. कथं पुनर् अवगम्यते, यागः कर्तव्यतया चोद्यत इति, [६०१]{*५/१५८*} यदा कामस्यापि कर्तव्यतास्माद् वाक्याद् अवगम्यते. उच्यते, कामस्य कर्तव्यता वाक्यात्, यज्यर्थस्य कर्तव्यता श्रुतेः, श्रुतिश् च वाक्याद् बलीयसी. तस्माद् अयम् अर्थः, स्वर्गकामो यागं कुर्याद् इति स्वर्गकामस्य यागः कर्तव्य इति. कर्तव्यश् च सुखवान्, अकर्तव्यो दुःखवान्. कर्तव्य इति चैनं ब्रूते. तस्मात् सुखफलो यागो भविष्यति, स तु यस्येच्छा, तस्य सिध्यति नान्यस्येति गम्यते. तेन स्वर्गेच्छा यागस्य गुणभूता, सर्वस्यापि कर्मणो द्रव्येच्छा भवति गुणभूता, तया द्रव्यम् आनेतुं यतते, दृष्टेनैव द्वारेण. इह तु स्वर्गसंज्ञकद्रव्येच्छैव नियम्यते, यथैव सा गुणभूता प्राप्ता. तथैव सति नियम्यते, दृष्टेनैव द्वारेण, नादृष्टेनोपकारेण. तेन स्वर्गेछया गुणभूतया स्वर्गद्रव्यं प्रति यतिष्यते यागं साधयितुम्. अथाप्य् अदृष्टेन, तथापि न दोषः.
SK
NOTES: *{५/१४६: E२: अवगम्यते}* *{५/१४७: E२: ५,१७५; E६: २,१०४}* *{५/१४८: E२: तत्रैवं तावद्}* *{५/१४९: E२: कौशेयानि}* *{५/१५०: E१ (व्.ल्.): नेत्य् आह, न हि कस्मिंश्चिद् अनुपमाने}* *{५/१५१: E२ ओम्. न}* *{५/१५२: E२: विशेषणत्वात् प्रीतेः}* *{५/१५३: E२: ५,१७७; E६: २,१०५}* *{५/१५४: E२: न गच्छन्ति}* *{५/१५५: E२: नाप्य् अनुमानाद् गम्यते}* *{५/१५६: E२: नान्येन. ननु}* *{५/१५७: E२ ओम्. इति}* *{५/१५८: E२: ५,१७८; E६: २,१०६}*
SK
असाधकं तु तादर्थ्यात्//६.१.२//
SK
तुशब्देन पक्षो व्यावर्त्यते. तत एतावत्{*५/१५९*} तावद् वर्णयन्ति, प्रीतिः स्वर्ग इति. कुतः? एवम् उक्तं भवता, प्रीतिविशिष्टे द्रव्ये स्वर्गशब्दो वर्तत इति. यद्य् एवम्, पूर्वं तर्हि प्रीतौ वर्तितुम् अर्हति. तां हि स न व्यभिचरति. व्यभिचरति पुनर् द्रव्यम्. यस्यैव प्रीतिसाधनस्य द्रव्यस्य वक्ता स्वर्गशबः, तद् एव यदा न प्रीतिसाधनं भवति, तदा न स्वर्गशब्देनाभिधीयते. तस्मात् प्रीतिवचनो ऽयम्. यत् तूक्तम्, दण्डिशब्दवद् इति, सो ऽपि प्रीते शब्दाद् दण्डे, दण्डिनि प्रत्ययम् आदधाति, अन्तर्गतस् तत्र दण्डशब्दः, स दण्डस्य वाचकः. इह पुनः स्वर्गशब्दः एव प्रीतेर् अभिधाता. प्रीतिवचनश् चेत्, यागो गुणभूतः प्रीतिः प्रधानम्. कुतः? तादर्थ्यात् पुरुषप्रयत्नस्य, प्रीत्यर्थं हि पुरुषो यतते, तेन न [६०२]{*५/१६०*} प्रीतिर् यागसाधनम् इति विज्ञायते. द्रव्यं हि यागसाधनम्, नर्ते द्रव्याद् यागो भवति, यस्माद् द्रव्यदेवताक्रिये यजतिशब्दो वर्तते. असत्याम् अपि प्रीत्यां भवति यागः. यदि च यागो न प्रीत्यर्थो भवेत्, असाधकं कर्म भवेत्, साधयितारं नाधिगच्छेत्. यो हि प्रीत्यर्थः, स शध्यते, नान्यः. ननु कर्तव्यतया यागः श्रूयते. उच्यते, सत्यं कर्तव्यतया श्रूयते, कामो ऽपि कर्तव्यतयावगम्यते. आह, श्रुत्या यागस्य, वाक्येन कामस्य. न चोभयोः, वाक्यभेदः प्रसङ्गात्{*५/१६१*}. उच्यते, यद्य् अपि यागः कर्तव्यः श्रूयते, तथापि न कर्तव्यः, सुखदः कर्तव्यो भवति, दुःखदो यागः. तस्मात् प्रत्यक्षेणाकर्तव्यः, प्रत्यक्षेण च दुःखदः. कर्तव्यतावचनाद् अनुमानेन सुखदो भवतीति. उच्यते, अनुमानं च प्रत्यक्षविरोधान् न प्रमाणम्. तस्माद् अकर्तव्यो यागः, यदि न प्रीत्यर्थः. अथान्येन{*५/१६२*} फलवचनेन संभन्त्स्यत इति. उच्यते, संबध्यमानो{*५/१६३*} ऽप्य् अविधीयमानो न समीपवचनमात्रेण फलवान् विज्ञायते. तस्माद् अनर्थको मा भूद् इति स्वर्गस्य कर्तव्यता गम्यते, पुरुषप्रयत्नश् च यागविशिष्ट इति यागस् तस्य करणं स्यात्. तस्मात् सुष्ठूक्तं यागो गुणभूतः, स्वर्गः प्रधानभूत इति.
SK
NOTES: *{५/१५९: E२: एतत्}* *{५/१६०: E२: ५,१८०; E६: २,१०६}* *{५/१६१: E२,६: वाक्यभेदप्रसङ्गात्}* *{५/१६२: E२: अथानर्थक्यपरिहाराय कल्पितेनान्येन}* *{५/१६३: E२: ततः संबध्यमानो}*
SK
प्रत्यर्थं चाभिसंयोगात् कर्मतो ह्य् अभिसंबन्धस् तस्मात् कर्मोपदेशः स्यात्//६.१.३//
SK
न केवलम् आनर्थक्यभयाद् यागस्य गुणभावं ब्रूमः. किं तर्हि? स्वर्गसंज्ञकम् अर्थं प्रति करणत्वेन यागो विधीयते. ननु यागः कर्तव्यतया श्रुत्या विधीयते. सत्यम् एवम्, आनर्थक्यं तु तथा भवति, स्वर्गं प्रत्यविहिते यागे, स्वर्गकामः, तस्मिन् निष्फले विधीयमानो ऽपि निष्प्रयोजनः स्यात्. तत्रास्य [६०३]{*५/१६४*} उपदेशवैयर्थ्यम्, द्वयोश् च विधीयमानयोः परस्परेणासंबद्धयोर् वाक्यभेदः प्रसङ्गः{*५/१६५*}. अतो न स्वर्गकामपदेन स्वार्थो विधीयते. किं तर्हि? उद्दिश्यते. तत्र वाक्याद् अवगतस्य कामस्य कर्तव्यतावगम्यते, यागस्य च करणता. एवं च यागकर्तव्यतायां{*५/१६६*} न प्रत्यक्षविरोधो भविष्यति. तस्मात् कर्मोपदेशः स्यात्, कर्म स्वर्गं प्रत्य् उपदिश्यते, न स्वर्गः कर्म प्रति. किम् अतो यदि स्वर्गो नोपदिश्यते? एतद् अतो भवति. न ह्य् अनुपदिष्टो ऽर्थप्राप्तश् च गुणो भवति. तस्मात् स्वर्गः प्रधानतः, कर्म गुणत इति. अपि च, यस्य स्वर्ग इष्टः स्यात्, स यागं निर्वर्त्येद् इत्य् असंबद्धम् इव, अन्यद् इच्छति, अन्यत् करोतीति{*५/१६७*}. अथ मतम्, ततः स्वर्गो भवतीति संबन्धाद् इदं गम्यत{*५/१६८*} इति. न शब्दप्रमाणकामाम् अन्तरेण शब्दम् अवगतिर् न्याय्या. वाक्याद् एवास्माद् इमं संबन्धम् अवगच्छामः, यथा काष्ठान्य् आहर्तुकामो ऽरण्यं गच्छेद् इति यदि ब्रूयात्, ब्रूयाद् एतत्, दृष्टं तत्र प्रमाणान्तरेणारण्यागमनस्य काष्ठाहरणसामर्थ्यं विद्यत इति. अथ मन्यते{*५/१६९*}, उपदेशानर्थक्यं मा भूद् इत्य् अर्थापत्तिर् भविष्यतीति. उच्यते, नोपदेशानर्थक्यस्यैतत् सामर्थ्यम्, यद् अन्तरेण फलवचनम्, यागस्य प्रीतिः फलम् अवगम्येत. कामम् अस्यानर्थक्यं भवतु{*५/१७०*}, न जातुचित् सामर्थ्यम् अस्य जायते. न हि दग्धुकामस्योदकोपादानम् असति दाहे ऽनर्थकम् इति दहनशक्तिम् अस्य जनयेत्. अथ वा, स्वर्गकामस्य यागो विधीयत इति पक्षान्तरावलम्बेनास्यार्थवत्ता भविष्यति. नन्व् इतरस्मिन्न् अपि पक्षे स्वर्गकामस्य यागो विधीयते, न यागात् स्वर्गः. नैतद् एवम्. तस्मिन् खलु पक्षे स्वर्गं प्रार्थयमानस्यानुष्ठानम् अनूद्य यागस् तस्योपायत्वेन विधीयत इति न [६०४]{*५/१७१*} दोषः. तद् अनुष्ठानं स्वर्गं प्रतीति नास्ति वचनम् इति चेत्. इष्टम् अर्थं प्रत्य् अनुष्ठानं भवति, स्वर्गकामस्य च स्वर्ग इष्टः, तदनुष्ठानविशेषग्रहणार्थम् एव स्वर्गकामविशेषणग्रहणम् इति निरवद्यम्. तस्मात् स्वर्गकामस्य यागकर्मोपदेशः स्यात्, अतः स्वर्गः प्रधानतः, कर्म गुणत इति स्वर्गकामम् अधिकृत्य, यजेतेति वचनम्. इत्य् अधिकारलक्षणम् इदं सिद्धं भवति.
SK
NOTES: *{५/१६४: E२: ५,१८३; E६: २,१०७}* *{५/१६५: E२,६: वाक्यभेदप्रसङ्गः}* *{५/१६६: Jह (२,९६९) स्छ्ल्äग्त् मित् एइनेर् HS एवम् अयागकर्तव्यतायां वोर्}* *{५/१६७: E२ ओम्. इति}* *{५/१६८: E२ (Fन्.): संबन्धाद् अवगम्यते}* *{५/१६९: E२ (Fन्.): मन्यसे}* *{५/१७०: E२: भवेत्}* *{५/१७१: E२: ५,१८३; E६: २,१०८}*
SK
फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात्//६.१.४//
SK
इदम् आम्ननन्ति, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादि. तत्र संदेहः, किं यावत् किंचित् सत्त्वम्, तत् सर्वम् अधिकृत्यैतद् उच्यते, उत समर्थम् अधिकृत्येति. किं प्राप्तम्? सर्वाधिकारः, अविशेषात्. ननु वृक्षादयो न किंचित् कामयन्ते, कथम् तेषाम् अधिकारः स्यात्? उच्यते, मा भूद् अचेतनानाम्, तिरश्चस् त्व् अधिकृत्य यजेतेति ब्रूयात्. ननु तिर्यंचो ऽपि न किंचित् कामयन्ते. नेति ब्रूमः, कामयन्ते सुखम्, एवं हि दृश्यते, धर्मोपतप्ताश् छायाम् उपसर्पन्ति, शीतेन पीडिता आतपम्. आह, ननु तिर्यंच आसन्नं फलं चेतयन्ते, न कालान्तरफलं प्रार्थयन्ते, कालान्तरफलानि च वैदिकानि कर्माणि. उच्यते, कालान्तरे ऽपि फलं कामयमाना लक्ष्यन्ते, शुनश् चतुर्दश्याम् उपवसतः पश्यामः, श्येनांश् चाष्टम्याम्. न चैषां व्याध्याशङ्का, नियतनिमित्तत्वात्, नानाहाराणाम् अपि तस्मिन् काले दर्शनात्, [६०५]{*५/१७२*} समानाहाराणाम् अप्य् अन्यस्मिन् काले ऽदर्शनात्. लिङ्गानि च वेदे भवन्ति, देवा वै सत्रमासतेत्य्{*५/१७३*}एवमादीनि देवतानाम् ऋषीणां वनस्पतीनाम् अधिकारं दर्शयन्ति. ननु कार्त्स्न्येन विधिम् उपसंहर्तुं न शक्नुवन्तीत्य् अनधिकृताः. उच्यते, यागं कर्तुं शक्नुवन्ति केचित्, तस्मात् यजेतेत्येवमादीन्य् अधिकरिष्यन्ति शक्नुवतः, विष्णुक्रमादिवचनानि{*५/१७४*} त्व् अशक्तान् नाधिकरिष्यन्ति. तत्र यो ऽनुपदिष्टविष्णुक्रमादिकः स केवलं यागं करिष्यति, कस् तस्य दोषः? द्रव्यपरिग्रहो ऽपि देवग्रामः, हस्तिग्रामः, ऋषभस्य ग्राम इत्य् उपचाराद् अस्त्य् एवेति. तस्माद् अमनुष्याणाम् अपि शक्नुवताम् अधिकार इति.
SK
NOTES: *{५/१७२: E२: ५,१८५; E६: २,१०९}* *{५/१७३: Tऐत्.S. १.६.११.३}* *{५/१७४: E२: विष्णुक्रमणादिवचनानि}*
SK
कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते//६.१.५//
SK
वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, तिर्यगादीनाम् अप्य् अधिकार इति. कस्य तर्हि? यः समर्थः कृत्स्नं कर्माभिनिर्वर्तयितुम्. न चैते शक्नुवन्ति तिर्यगादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्माद् एषां न सुखस्याभ्युपायः कर्मेति. कथं यो न शक्यते कर्तुम्, सो ऽभ्युपायः स्याद् इति. न देवानाम्, देवतान्तराभावात्, न ह्य् आत्मानम् उपदिश्य त्यागः संभवति, त्याग एवासौ न स्यात्, नर्षीणाम्, आर्षेयाभावात्. न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां सामर्थ्यं प्रत्यक्षम्. [६०६]{*५/१७५*} अपि च निर्यञ्चो न कालान्तरफलेनार्थिनः, आसन्नं हि ते कामयन्ते. ननु चोक्तम्, कालान्तरफलार्थिनस् तिरश्चः पश्यामः, शुनः श्येनांश् चतुर्दश्याम् अष्टभ्यां चोपवसत इति. उच्यते, न जन्मान्तरफलार्थिन उपवसन्ति. कथम् अवगम्यते? वेदाध्ययनाभावात्, ये वेदम् अधीयते त एतद् विदुः, इदं कर्म कृत्वा, इदं फलम् अमुत्र प्राप्नोतीति. न चैते वेदम् अधीयते, नापि स्मृतिशास्त्राणि, नाप्य् अन्येभ्यो ऽवगच्छन्ति. तस्मान् न विदन्ति धर्मम्. अविद्वांसः कथम् अनुतिष्ठेयुः? तस्मान् न धर्मायोपवसन्तीति. किम् अर्थं तर्ह्य् एषाम् उपवासः? उच्यते, रोगाद् अरुचिर् एषाम्. कथं पुनर् नियते काले रोगो भवति? उच्यते, नियतकाला अपि रोगा भवन्ति, यथा तृतीयकाश् चातुर्थकाश् चेति. तस्मान् मनुष्याणाम् अधिकार इति. न च तिरश्चां द्रव्यपरिग्रहः, न ह्य् एते द्रव्यं स्वेच्छयोपयुञ्जाना दृश्यन्ते. तस्माद् अनीशाना धनस्य. यत् तु, देवग्रामो हस्तिग्राम इति, उपचारमात्रं तत्. तस्माद् अपि न तिरश्चाम् अधिकार इति. यानि पुनर् लिङ्गानि, देवा वै सत्रम् आसतेत्येवमादीनि, अर्थवादास् ते विधिप्ररोचनार्थाः, विद्यते हि विधिर् अन्यस् तेषु सर्वेषु. न च विधेर् विधिनैकवाक्यभावो भवति, वचनव्यक्तिभेदात्. स्तुतिस् तु सा, इत्थं नाम सत्राण्य् आसितव्यानि, यत् कृतकृत्या अप्य् आसते देवाः, आसन्नचेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, किम् अङ्ग पुनर् विद्वांसो मनुष्या इति. ननु विष्णुक्रमादिष्व् अनधिकृताः केवलं यागं करिष्यन्ति. [६०७]{*५/१७६*} नैवम्, गुणा यागं प्रत्य् उपदिश्यन्ते, न कर्तारं प्रति, तेन यागमात्रे क्रियमाणे वैगुण्यम् इति न फलसंबन्धः स्यात्. कथं पुनर् यागं प्रत्य् उपदिश्यन्त इति चेत्. इतिकर्तव्यताकाङ्क्षस्य यागवचनस्यान्तिकाद् उपनिपतिताः शक्नुवन्ति तं निराकाङ्क्षीकर्तुम्, इतरथा हि कर्तॄन् अधिकुर्वत्सु गुणवचनेष्व् अनिवृत्ताकाङ्क्षं फलवचनम् अनर्थकम् एव स्यात्, अनुषङ्गश्{*५/१७७*} च फलवचनम् अभिविष्यत्, तत्र साकाङ्क्षत्वाद् वाक्यम् उपरोत्स्यते. अथैतद् एव वाक्यं समर्थानां सगुणं कर्म विधास्यति, असमर्थानां विगुणम् इति. तन् न, सकृद् उच्चारण उभयशक्तिविरोधाद् वाक्यं भिद्येत, साकाङ्क्षं हि तद् इतिकर्तव्यतां प्रति. तस्मात् साङ्गयागोपदेशः स इति निरङ्गयागोपदेशाभावः. तस्मान् मनुष्याणाम् एवाधिकार इति. प्रयोजनं पक्षोक्तम्, केचिद् आहुः सहस्रसंवत्सरं कर्म न नियोगतो दिवसेषु कल्पयितव्यम्, पूर्वपक्षे{*५/१७८*} तदायुषां देवतादीनां संभवातीति{*५/१७९*}, सिद्धान्ते तत्र संभवद् अपि{*५/१८०*} दिवसेष्व् एव कल्पयितव्यम् इति. तत् तूपरिष्टाद्{*५/१८१*} व्याख्यास्यामः.
SK
NOTES: *{५/१७५: E२: ५,१८६; E६: २,१०९}* *{५/१७६: E२: ५,१८७; E६: २,११०}* *{५/१७७: E२: अनुषङ्गतश्}* *{५/१७८: E२: कल्पयितव्यम् इति. पूर्वपक्षे}* *{५/१७९: E२: संभवाद् इति}* *{५/१८०: E२: सिद्धान्ते तदसंभवाद् इति}* *{५/१८१: Vग्ल्. zउ MS ६.७.३१-४०}*
SK
लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः//६.१.६//
SK
दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादि समाम्नायते. तत्र संदेहः, किं स्वर्गकामं पुमांसम् अधिकृत्य यजेतेत्य् एष शब्द उच्चरितः, अथ वानियमः, स्त्रियं पुमांसं चेति{*५/१८२*}. किं प्राप्तम्? पुंलिङ्गम् अधिकृतं मेने ऐतिशायनः. कुतः? लिङ्गविशेषनिर्देशात्. पुंलिङ्गेन विशेषेण निर्देशो [६०८]{*५/१८३*} भवति स्वर्गकामो यजेतेति{*५/१८४*}. तस्मात् पुमान् उक्तो यजेतेति, न स्त्री.
SK
NOTES: *{५/१८२: E२: वेति}* *{५/१८३: E२: ५,१८८; E६: २,१११}* *{५/१८४: E१ गिब्त् पुंलिङ्गेन विशेषेण निर्देशो भवति स्वर्गकामो यजेतेति इन् Kलम्मेर्न्}*
SK
तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते//६.१.७//
SK
अविज्ञाते गर्भे हते भ्रूणहत्यानुवादो भवति, तस्माद् अविज्ञातेन गर्भेण हतेन भ्रूणहा भवतीति. भ्रूणहा पापकृत्तमः, यश् चोभयोर् लोकयोर् उपकरोति, तस्य हन्ता भ्रूणाहा, यज्ञहन्ता भ्रूणहा, स यज्ञसाधनबधकारी{*५/१८५*}. तस्माद् यज्ञं भ्रूणशब्देनाभिदधाति. स हि बिभर्ति वा सर्वम्, भूतिं वानयति. अतो भ्रूणहा यज्ञबधकारी{*५/१८६*}, स पुंयुक्तत्वाद् अनुवादो ऽवकल्पते. अविज्ञाते गर्भे हन्यमाने कदाचित् पुमान् हन्येत, तत्र यज्ञाधिकृतस्य हतत्वाद् यज्ञबधो{*५/१८७*} भ्रूणहत्या स्यात्. इतरथा, यद्य् उभयोर् अधिकारः, ततो विज्ञाते चाविज्ञाते च यज्ञवधः{*५/१८८*} स्यात्. तत्राविज्ञातग्रहणम् अतन्त्रम् इति कल्प्येत. तस्माद् विवक्षिता पुंलिङ्गस्य वाचिका विभक्तिर् इति. तथा, आत्रेयीं हत्वा भ्रूणहा भवति, आत्रेयीम् आपन्नगर्भाम् आहुः, अत्र कुक्षाव्{*५/१८९*} अस्या विद्यत इत्य् आत्रेयी. तस्माद् अपि पुंसो ऽधिकारो गम्यते. यथा, पशुम् आलभेतेति{*५/१९०*} पुंपशुर् एवालभ्यते, लिङ्गविशेषनिर्देशात्{*५/१९१*}. एवम् इहापि द्रष्टव्यम् इति. एवं प्राप्ते ब्रूमः,
SK
NOTES: *{५/१८५: E२,६: यज्ञसाधनवधकारी}* *{५/१८६: E२,६: यज्ञवधकारी}* *{५/१८७: E२,६: यज्ञवधो}* *{५/१८८: E२,६: यज्ञवधः}* *{५/१८९: E१ गिब्त् कुक्षाव् इन् Kलम्मेर्न्}* *{५/१९०: Tऐत्.Bर्. १.५.९.७}* *{५/१९१: Vग्ल्. MS ४.१.१७}*
SK
जातिं तु बादरायणो ऽविशेषात्, तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्//६.१.८//
SK
तुशबः पक्षं व्यावर्तयति. नैतद् अस्ति, पुंसो एवाधिकार इति{*५/१९२*}, जातिं तु भगवान् बादरायणो{*५/१९३*} ऽधिकृतां मन्यते स्म. आह, किम् अयं [६०९]{*५/१९४*} स्वर्गकाम इति जातिशब्दः समधिगतः? नेत्य् आह. कथं तर्हि? यौगिकः, स्वर्गेच्छायोगेन वर्तते. केन तर्हि शब्देन जातिर् उक्ता, याधिकृतेति गम्यते? नैव च{*५/१९५*} वयं ब्रूमः, जातिवचन इह शब्दो ऽधिकारक इति. किं तर्हि, स्वर्गकामशब्देनोभाव् अपि स्त्रीपुंसाव् अधिक्रियेते इति, अतो न विवक्षितं पुंलिङ्गम् इति. कुतः? अविशेषात्, न हि शक्नोत्य् एषा विभक्तिः स्वर्गकामं लिङ्गेन विशेष्टुम्. कथम्? लक्षणत्वेन श्रवणात्, स्वर्गे कामो यस्य, तम् एष लक्षयति शब्दः, तेन लक्षणेनाधिकृतो यजेतेति शब्देनोच्यते. तच् च लक्षणम् अविशिष्टं स्त्रियां पुंसि च. तस्माच् छब्देनोभाव् अपि स्त्रीपुंसाव् अधिकृताव् इति गम्यते. तत्र केनाधिकारः स्त्रिया निवर्त्यते. विभक्त्येति चेत्. तन् न. कस्मात्? पुंवचनत्वात् स्त्रीनिवृत्ताव् अशक्तिः. पुंसो विभक्त्या पुनर्वचनम् अनर्थकम् इति चेन्. न, आनर्थक्ये ऽपि स्त्रीनिवृत्तेर् अभावः, परिसंख्यायां स्वार्थहानिः परार्थकल्पना प्राप्तबाधश् च. न चानर्थक्यम्, निर्देशार्थत्वात्. तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात्.
SK
NOTES: *{५/१९२: E२: पुंस एवाधिकार इति}* *{५/१९३: E२: भगवान् बादरायणो}* *{५/१९४: E२: ५,१८९; E६: २,१११}* *{५/१९५: E२ ओम्. च}*
SK
चोदितत्वाद् यथाश्रुति//६.१.९//
SK
अथ यद् उक्तम्, पशुम् आलभेतेति{*५/१९६*} पुंपशुर् आलभ्यते पुंलिङ्गवचनसामर्थ्यात्, एवम् इहापि पुंलिङ्गवचनसामर्थ्यात् पुमान् अधिक्रियते यागवचनेनेति. तत् परिहर्तव्यम्. अत्रोच्यते, नात्र जातिर् द्रव्यस्य लक्षणत्वेन श्रूयते, यदि हि लक्षणत्वेन श्रूयते, ततः स्त्रिया अपि याग उक्तो न पुंवचनेन निवर्त्येत, इदं तु पशुत्वं यागस्य विशेषणात्वेन श्रूयते. तत्र पशुत्वस्य यागस्य च संबन्धो न द्रव्ययागयोः, यथा पशुत्वं यागसंबद्धम्, [६१०]{*५/१९७*} एवं पुंस्त्वम् एकत्वं च, सो ऽयम् अनेकविशेषणविशिष्टो यागः श्रूयते. स यथाश्रुत्य् एव कर्तव्यः, उपादेयत्वेन चोदितत्वात्. यच् च, दोषश्रुतिर् अविज्ञाते गर्भे हते, आत्रेयां च पुंयुक्तत्वेनेति, तत् परिहर्तव्यम्. अत्रोच्यते, अविज्ञातेन गर्भेणेत्य् अनुवादः प्रशंसार्थः, आत्रेयी च न हन्तव्येति. इत्थं गर्भो न हन्तव्यः, यद् अव्यक्तेनाप्य् एनस्वी भवति. पुंलिङ्गविभक्तिः श्रूयमाणा न शक्नोति स्त्रियं निवर्तयितुम्. किम् अङ्ग पुनर् अविज्ञातगर्भवचनं लिङ्गम्. तथा गोत्रप्रशंसार्थम् आत्रेया अबधसंकीर्तनम्{*५/१९८*}. न चापन्नसत्त्वा आत्रेयी, गोत्रं ह्य् एतत्. न ह्य् अत्रशब्दादयं तद्धित उत्पन्नः, समर्थानां हि तद्धित उत्पद्यते. न चात्रशब्दस्य सामर्थ्यम् अस्ति.
SK
NOTES: *{५/१९६: Tऐत्.Bर्. १.५.९.७}* *{५/१९७: E२: ५,१८९; E६: २,११२}* *{५/१९८: E२,६: अवधसंकीर्तनम्}*
SK
द्रव्यवत्त्वात् तु पुंसां स्यात्, द्रव्यसंयुक्तम्, क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात्//६.१.१०//
SK
पुंसां तु स्याद् अधिकारः, द्रव्यवत्त्वात्, द्रव्यवन्तो हि पुमांसो न स्त्रियः, द्रव्यसंयुक्तं चैतत् कर्म, व्रीहिभिर् यजेत, यवैर् यजेतेत्येवमादि. कथम्? अद्रव्यत्वं स्त्रीणाम्, क्रयविक्रयाभ्याम्, क्रयविक्रयसंयुक्ता हि स्त्रियः, पित्रा विक्रीयन्ते, भर्त्रा क्रीयन्ते, विक्रीतत्वाच् च पितृधनानाम् अनीशियः. क्रीतत्वाच् च भर्तृधनानाम्. विक्रयो हि श्रूयते, शतम् अधिरथं दुहितृमते{*५/१९९*} दद्यात्, आर्षे गोमिथुनम्{*५/२००*} इति. न च, एतद् दृष्टार्थे सत्य् आनमने ऽदृष्टार्थं भवितुम् अर्हति. एवं द्रव्यैः समानयोगित्वं स्त्रीणाम्.
SK
NOTES: *{५/१९९: E२: अतिरथं दुहितृमृते}* *{५/२००: E२: गोमिथुनाम्}*
SK
तथा चान्यार्थदर्शनम्//६.१.११//
SK
या पत्या क्रीता सत्य् अथान्यैश् चरतीति क्रीततां दर्शयति.
SK
[६११]{*५/२०१*}
SK
NOTES: *{५/२०१: E२: ५,१९०; E६: २,११३}*
SK
तादर्थ्यात् कर्मतादर्थ्यम्//३.१.१२//
SK
आह, यद् अनया भक्तोत्सर्पणेन वा कर्तनेन वा धनम् उपार्जितम्, तेन यक्ष्यत इति. उच्यते, तद् अप्य् अस्या न स्वम्, यदा हि सान्यस्य स्वभूता, तदा यत् तदीयम्, तद् अपि तस्यैव. अपि च, स्वामिनस् तया कर्म कर्तव्यम्, न तत् परित्यज्य स्वकर्मार्हति कर्तुम्. यत् तयान्येन प्रकारेणोपार्ज्यते, तत् पत्युर् एव स्वं भवितुम् अर्हतीति. एवं स्मरति -
SK
भार्या दासश् च पुत्रश् च निर्धनाः सर्व एव ते/ यत् ते समधिगच्छन्ति, यस्य ते तस्य तद्धनम् इति//{*५/२०२*}
SK
NOTES: *{५/२०२: Mअनु}*
SK
फलोत्साहाविशेषात् तु//६.१.१३//
SK
तुशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, निर्धना स्त्रीति, द्रव्यवती हि सा, फलोत्साहाविशेषात्, स्मृतिप्रामाण्याद् अस्वया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात्, फलार्थिन्या यष्टव्यम्. यदि स्मृतिम् अनुरुध्यमाना परवशा निर्धना च स्यात्, यजेतेत्य् उक्ते सति न यजेत. तत्र स्मृत्या श्रुतिर् बाध्येत. न चैतन् न्याय्यम्. तस्मात् फलार्थिनी सती स्मृतिम् अप्रमाणीकृत्य द्रव्यं परिगृह्णीयाद् यजेत चेति.
SK
अर्थेन च समवेतत्वात्//३.१.१४//
SK
अर्थेन चास्याः समवेतत्वं भवति. एवं दानकाले संवादः क्रियते, धर्मे चार्थे च कामे च नातिचरितव्येति. यत् तूच्यते{*५/२०३*}, भार्यादयो निर्धना इति, स्मर्यमाणम् अपि निर्धनत्वम् अन्याय्यम् एव, श्रुतिविरोधात्. तस्माद् अस्वातन्त्र्यम् अनेन प्रकारेणोच्यते, संव्यवहारप्रसिद्ध्यर्थम्.
SK
[६१२]{*५/२०४*}
SK
NOTES: *{५/२०३: E२ ओम्. तु}* *{५/२०४: E२: ५,१९१; E२: २,११३}*
SK
क्रयस्य धर्ममात्रत्वम्//६.१.१५//
SK
यत् तु क्रयः श्रूयते, धर्ममात्रं तु तत्, नासौ क्रय इति. क्रयो हि उच्चनीचपण्यपणो{*५/२०५*} भवति. नियतं त्व् इदं दानं शतम् अतिरथम्{*५/२०६*}, शोभनाम् अशोभनां च कन्यां प्रति. स्मार्तं च श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते. तस्माद् अविक्रयो ऽयम् इति.
SK
NOTES: *{५/२०५: E२: उच्चनीचपुण्यपणो}* *{५/२०६: E२: अधिरथम्}*
SK
स्ववत्ताम् अपि दर्शयति//६.१.१६//
SK
पत्नी वै पारिणय्यस्येष्टे पत्यैव गतम् अनुमतं{*५/२०७*} क्रियते{*५/२०८*}. तथा, भसदा पत्नीः{*५/२०९*} संयाजयन्ति{*५/२१०*}, भसद्वीर्या हि पत्नयः, भासदा वा एताः परगृहाणाम् ऐश्वर्यम् अवरुन्धत इति.
SK
NOTES: *{५/२०७: E१ (व्.ल्.): पत्यैवम् अनुमतं}* *{५/२०८: Tऐत्.S. ६.२.१.१}* *{५/२०९: E२: जाघन्या पत्नीः}* *{५/२१०: E१ (व्.ल्.): पत्यैवम् अनुमतम्}*
SK
स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात्//६.१.१७//
SK
स्ववन्ताव् उभाव् अपि दंपती इत्य् एवं तावत् स्थितम्. तत्र संदेहः, किं पृथक् पत्नी यजेत, पृथग् यजमानः, उत संभूय यजेयाताम् इति. किं प्राप्तम्? पृथक्त्वेन{*५/२११*}. कुतः? एकवचनस्य विवक्षितत्वात्. उपादेयत्वेन कर्ता यजेतेति श्रूयते{*५/२१२*}. तस्माद् एकवचनं विवक्ष्यते, यथा न द्वौ पुरुषौ संभूय यजेयाताम्, तथात्रापि द्रष्टव्यम्. एवं प्राप्ते ब्रूमः, स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात्, वचनात् तयोः सहक्रिया. एवं हि स्मरन्ति, धर्मे चार्थे च कामे च [६१३]{*५/२१३*} नातिचरितव्येति, तथा सहधर्मश् चरितव्यः, सहापत्यम् उत्पादयितव्यम् इति. उच्यते, स्मृतिवचनेन न श्रुतिवचनं युक्तं बाधितुम्. नेति ब्रूमः, इह किंचित् कर्म स्त्रीपुंसकर्तृकम् एव, यथा दर्शपूर्णमासौ ज्योतिष्टोम इति, यत्र पत्न्यवेक्षितेन यजमानावेक्षितेन चाज्येन होम उच्यते, तत्रान्यतराभावे वैगुण्यम्. ननु पुंसो यजमानस्य यजमानावेक्षितम् आज्यम्, स्त्रिया यजमानायाः पत्न्यवेक्षितं भविष्यतीति. नेत्य् आह, नायम् ईक्षितृसंस्कारः, ईक्षितुः संस्कारो यदि, तदैवं स्यात्. आज्यसंस्कारश् चायम्, गुणभूताव् ईक्षितारौ, तत्रान्यतरापाये नियतं वैगुण्यम्, सर्वाङ्गोपसंहारी च प्रयोगवचनः. तत्रैतत् स्यात्, स्त्री यजमाना पुमांसं परिक्रेष्यत्य् आज्यस्येक्षितारम्, पुमांश् च स्त्रियं त्व् अवेक्षित्रीम् इति. तच् च न, पत्नीति हि यज्ञस्य स्वामिनीत्य् उच्यते, न क्रीता. पत्नीति संबन्धिशब्दो ऽयम्, यजमान इति च स्वामी, न क्रीतः. तस्मात् स्त्रीपुंसयोर् एकम् एवंजातीयकं कर्मेति. तत्र श्रुतिसामर्थ्याद् यः कश्चित्, यया कयाचित् सह{*५/२१४*} संभूय यजेतेति प्राप्ते, इदम् उच्यते, यस् त्वया कश्चिद् धर्मः कयाचित् सह कर्तव्यः, सो ऽनया सहेति, तेन न श्रुतिविरोधः स्मृतेर् इति गम्यते. अथ यद् उक्तम्, केवलस्य पुंसो ऽधिकारः, केवलायाश् च स्त्रिया यजेतेत्य् एकवचनस्य विवक्षितत्वाद् इति, तत् परिहर्तव्यम्. इदं तावद् अयं प्रष्टव्यः, यजेतेत्य् एकवचने विवक्षिते, कथं षोडशभिर् ऋत्विग्भिः सह यागो भवतीति. एवम् उच्यते, प्रति[६१४]{*५/२१५*}कारकं क्रियाभेदः, यजमानान् एव पदार्थान् परिक्रयादीन् कुर्वन्, यजत इत्य् उच्यते यजमानः, आध्वर्यवान् एव कुर्वन् अध्वर्युर् यजतीत्य् एवम् उच्यते, यथा संभरणम् एव कुर्वती स्थाली पक्तिं करोतीत्य् उच्यते, यस्य च कारकस्य य आत्मीयो व्यापारः, स एकवचने विवक्षित एकेन कर्तव्यो भवतीति. एवं चेद् यावान् व्यापारो यजमानस्य स{*५/२१६*} तावात्, न संभूय कर्तव्यः, एकेनैको याजमानो ऽपरेणापरः. द्वादशो वा शत एकेन षट्पञ्चाशत्, अपरेणापि षट्पञ्चाशद् इति. इह तु पत्नीव्यापारो ऽन्य एव, न तत्र पत्नी प्रवर्तमाना यजमानस्यैकत्वं विहन्ति, यथाध्वर्युर् आध्वर्यवेषु प्रवर्तमानः. अवश्यं च सह पत्न्या यष्टव्यम्, मध्यकं हीदं दंपत्योर् धनम्, तत्र यागो ऽवश्यं सह पत्न्या कर्तव्यः, इतरथान्यतरानिच्छायां त्याग एव न संवर्तेत, तथा हि द्वितीयया पत्न्या विना त्यागो नैवावकल्पते, यस्य द्वितीया पत्न्य् अस्ति, तत्र क्रत्वर्थान् एका करिष्यति. कर्तृसंस्कारार्थेषु नैव दोषः, संभवन्ति हि तानि सर्वत्रेति.
SK
NOTES: *{५/२११: E२: कुतः? पृथक्त्वेन}* *{५/२१२: E२ ओम्. श्रूयते}* *{५/२१३: E२: ५,१९२; E६: २,११४}* *{५/२१४: E२ ओम्. सह}* *{५/२१५: E२: ५,१९३; E६: २,११५}* *{५/२१६: E२ ओम्. स}*
SK
लिङ्गदर्शनाच् च//६.१.१८//
SK
लिङ्गं खल्व् अपि दृश्यते, योक्त्रेण पत्नीं संनह्यति, मेखलया यजमानं मिथुनत्वायेति{*५/२१७*}. यदि स्त्रीपुंसाव् एकत्र, योक्त्रस्य मेखलायाश् च विभागो वाक्याद् गम्यते, मिथुनसंस्तवश् च, तद् एतत् स्त्रीपुंससाधनके कर्मण्य् उपपद्यते, नान्यथा.
SK
NOTES: *{५/२१७: Tऐत्.S. ६.१.३.५}*
SK
क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते//६.१.१९//
SK
स्थिताद् उत्तरम् उच्यते. तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, यद् उक्तं स्ववती स्त्रीति, क्रीता हि सा, दृष्टार्थत्वाद् अधिरथशतदानस्य{*५/२१८*}, अतो यद् अस्याः स्वामित्वम् उच्यते, तद् भक्त्या, [६१५]{*५/२१९*} यथा पूर्णको ऽस्माकं बलीवर्दानाम् ईष्ट इति, एवं पत्न्य् अपि पारिणय्यस्येष्ट इति.
SK
NOTES: *{५/२१८: E२: अतिरथशतदानस्य}* *{५/२१९: E२: ५,१९५; E६: २,११६}*
SK
फलार्थित्वात् तु स्वामित्वेनाभिसंबन्धः//६.१.२०//
SK
नैतद् अस्ति, क्रयो मुख्यः, गौणं स्वामित्वम् इति, फलार्थिनी हि सा, स्मृतिर् नादरिष्यते, स्मृत्यनुरोधाद् अस्वा स्यात्, स्ववती श्रुत्यनुरोधात्.
SK
फलवत्तां च दर्शयति//६.१.२१//
SK
सं पत्नी पत्न्या सुकृतेन गच्छतां यज्ञस्य धुर्यायुक्ताव् अभूताम्. संजानानौ विजहीताम् अरातीर् दिवि ज्योतिर् अजरमारम् एताम् इति{*५/२२०*} दंपत्योः फलं दर्शयति. तस्माद् अप्य् उभाव् अधिकृताव् इति सिद्धम्.
SK
NOTES: *{५/२२०: Tऐत्.Bर्. ३.७.५.११}*
SK
द्व्याधानं च द्वियज्ञवत्//६.१.२२//
SK
अस्त्य् आधानम्, य एवं विद्वान् अग्निम् आधत्त इति. तत्रेदम् आमनन्ति, क्षौमे वसानाव् अग्निम् आदधीयाताम् इति. तत्रैषो ऽर्थः सांशयिकः, किं द्वौ पुरुषाव् आदधीयाताम् उतैकः पुरुष इति. कथं संशयः? उच्यते, इहैतच् छ्रूयते, वसानाव् आदधीयाताम् इति. तत्र वचनम् अर्थप्राप्तं पुनः श्रूयते, तत् किं पुंलिङ्गसंबन्धार्थम्, उत क्षौमविध्यर्थम् इति. उभयोर् विद्यमानत्वाद् भवति संशयः, यदि लिङ्गसंबन्धार्थम्, उभौ पुरुषाव् आधास्येते. अथ क्षौमसंबन्धार्थं तत एकः. किं प्राप्तम्? द्व्याधानं तु द्वियज्ञवत् स्यात्, यथा, एतेन द्वौ [६१६]{*५/२२१*} राजपुरोहितौ सायुज्यकामौ यजेयाताम् इति द्वयोः पुरुषयोर् द्वियज्ञो भवति, एवं द्व्याधानं द्वयोः पुरुषयोः स्यात्, ततो ऽविशेषात्, वसानाव् इति श्रवणाद् एव पुरुषौ गम्येते. न पदान्तरगतेन क्षौमेणास्य संबन्धः, श्रुत्यवगतं हि श्रवणाद् अवगतम्, पदान्तरसंबन्धं वाक्याद् अवगतम्, श्रुतिश् च वाक्याद् बलीयसी. वसानशब्दगतश् चार्थ आधानेन संबध्यते, न क्षौमशब्दगतः. आह, वसानाव् इति नायं केवलं पुंलिङ्ग एव, स्त्रीपुंसयोर् अप्य् अभिधायको भवति, यथा कुक्कुटश् च कुक्कुटी च कुक्कुटौ, शूकरश् च शूकरी च शूकराव् इति. एवं वसानश् च वसाना च वसानौ स्याताम् इति. अत्रोच्यते, यत्र नार्थः, प्रकरणं वा विशेषकम्, विधायकश् च शब्दः, नास्त्य् अनुवादस्{*५/२२२*}. तत्र द्वौ पुमांसौ गम्येते, यथा द्वाव् आनयेत्य् उक्तः पुमांसाव् आनयति. द्वे आनयेति स्त्रियौ, तेन स्त्रियो वाचकम् एकारान्तं द्विवचनम् इति गम्यते, औकारान्तम् अपि द्वयोः पुंसोर् वाचकम् इति. यत्रेदानीं स्त्रीपुंसयोः प्रयुज्यमानम् औकारान्तं दृश्यते, तत्र किं पुमान् सद्वितीयस् तस्य निमित्तम्, उत स्त्री सद्वितीया इति{*५/२२३*}. उच्यते, पुंसि सद्वितीये दृष्टः, यथा ब्राह्मणाव् आनयेति, इहापि पुमान् सद्वितीयो ऽर्थः. तस्मात् पुंनिमित्तम् इति गम्यते. अत्राह, प्रयोगो यदि दृस्टं प्रमाणं द्वयोः पुंसोर् दृष्टः, कथम् एकस्मिन् स्यात्? अत्रोच्यते, पुंसि च द्वित्वे च दृष्ट इति शक्यते वदितुम्, न द्वयोर् द्रव्ययोर् इति, पुंभावं द्वित्वं चैष शब्दो न व्यभिचरति, द्रव्यं पुनर् व्यभिचरति. अपि च युगपदधिकरणवचनाया{*५/२२४*} द्वंद्वस्मृतेर् द्विवचनबहुवचनोपपत्तेश् च, [६१७]{*५/२२५*} प्र मित्रयोर् वरुणयोर् इति च दर्शनात्. इतरेतरयोगे चार्थे समासविधानाद् द्वन्द्वापवादत्वाच् चैकशेषस्य, यथैव खदिरौ च धवलौ{*५/२२६*} चेति निर्दर्शनं क्रियते, एवम् अत्रापि द्रष्टव्यम्. तस्मात् पुंसि द्वित्वे च वर्तत इति गम्यते. न च स्त्रीद्वित्वे दृष्टः. अत्राह, नन्व् अत्रैव दर्शनात्, स्त्रीपुंसयोर् वाचक इति गम्यते. अत्रोच्यते, उक्तम् एतत्, अन्यायश् चोनेकार्थत्वम् इति पुमान् सद्वितीयो ऽस्यार्थो भविष्यति, स्त्रीपुंसौ चेत्य् अन्याय्यम्. अथेदानीं सद्वितीयस्य पुंसो विधौ को ऽन्यः सहाय{*५/२२७*} इति. स्त्रिया अनभिधेयत्वात्, अवश्यं भावित्वाच् च द्वितीयस्य, अपरः सद्वितीयः पुमान्, एवम् इतरो ऽपीतरेण सद्वितीयः, इतरो ऽपीतरेणेति द्वाव् एव पुमांसाव् उपादीयेते. तस्माद् इह द्वौ पुमांसाव् आधाने विधीयेत इत्य् उच्यते. ननु स्त्रीपुंसयोर् वाचकम् औकारान्तं द्विवचनं स्मरन्ति. नैषा स्मृतिर् अस्तीति ब्रूमः. आह, भगवतः पाणिनेर् वचनात् स्मृतिम् अनुमास्यामहे, पुमान् स्त्रिया{*५/२२८*} इति. उच्यते, न पाणिनेर् वचनम् कुक्कुटाव् इत्य् औकारः स्त्रीपुंसयोर् वाचक इति. कथं तर्हि? यत्र स्त्रीपुंसयोः सहवचनम्, तत्र सद्वितीयो वा पुमान् इति कृत्वाकारान्तस्यौकारः प्राप्नोति, सद्वितीया वा स्त्रीति कृत्वैकारः. पुंशब्दस् तत्र साधुर् न स्त्रीशब्द इति पाणिनेर् वचनम्. पुमान् शिष्यत इति च ब्रूते, तेन सुतरां गम्यते, पुंसोर् वाचक औकार इति. तस्माद् द्वयोः पुंसोर् अधिकार इति. ननु क्षौमविधानपरम् एतद् वाक्यम् स्यात्, क्षौमसंबन्धस्य [६१८]{*५/२२९*} अर्थवत्त्वात्{*५/२३०*}, इतरथा क्षौमवचनम् अनर्थकं स्यात्. अत्रोच्यते, वसानाव् आदधीयाताम् इत्य् अस्ति संबन्धः, न क्षौमे आदधीयाताम् इति. तस्मात् संनिकृष्टम् अपि न तत्संबद्धम् आधानेन. आह, वसानशब्देन सह संबध्यमानम् अर्थवद् भविष्यति. वसानसंनिकृष्टे अपि क्षौमे न विधीयते, विधायकस्य शब्दस्याभावात्. न हि वसानशब्दो विधायकः, न क्षौमशब्दः, नानयोः समुदायः. कस् तर्हि विधातुं शक्नोति? आदधीयाताम् इत्य् अत्र या लिङ्. आह, सा खलु विधास्यति? उच्यते, सा स्वशब्दगतम् आधानं शक्नोति विधातुम्, श्रवणात् विहितत्वाद् आधानस्य, आनर्थक्ये, वसानाव् इति शक्नोति वाक्येन विधातुम्, भवति हि वसानयोर् आधानसंबन्धः, तत्र नात्यन्ताय स्वार्थः परित्यक्तो भवति, क्षौमवसानसंबन्धे तु विधातव्ये, आदधीयाताम् इत्य् आधानम् उत्सृज्य विदधानो ऽत्यन्ताय श्रुतिं जह्यात्. आधानसंनिकृष्टे च लिङ्गे विधातव्ये श्रुतिर् विप्रकृष्टं न क्षौमवसानसंबन्धं विधातुम् उत्सहते, अर्थविप्रकर्षात्. अपि चोत्सृज्य श्रुतिम्, क्षौमवसानसंबन्धे विधीयमाने क्षौमं वसानस्याङ्गं स्यान् नाधानस्य. तत्र क्षौमाभावे ऽपि नाधानं विगुणम् इति क्षौमाभावे ऽप्य् आधानं स्यात्. आह, वसानगुणतायां तर्हि को ऽर्थो विवक्ष्यते? उच्यते, न कश्चित्, अत एवास्य पक्षस्य परित्यागः. आह, क्षौमवसानश्रवणम् इदानीं कथम्{*५/२३१*} इति. उच्यते, न शक्यत उभयं विधातुं क्षौमं लिङ्गं च, भिद्येत हि तथा वाक्यम्. तस्मात् अक्षौमयोः{*५/२३२*} क्षौमशब्दो ऽनुवादः, अर्थप्राप्ते च वसने, वसानौ पुमांसाव् इत्य् अर्थः. ते च प्रायेण विचेष्टमानस्य मलिने क्षौमसदृशे भवतः, विचेष्टमानस्य वा वसने शब्दवती भवत इति. तस्माद् द्वयोः पुंसोर् अधिकार इति.
SK
[६१९]{*५/२३३*}
SK
NOTES: *{५/२२१: E२: ५,१९५; E६: २,११६}* *{५/२२२: E२: नानुवादस्}* *{५/२२३: E२,६: सद्वितीयेति}* *{५/२२४: E२: युगपदधिकरणवचनायां}* *{५/२२५: E२: ५,१९७; E६: २,११७}* *{५/२२६: E२: धवौ}* *{५/२२७: E२: सहायत}* *{५/२२८: Pआण्. १.२.६७}* *{५/२२९: E२: ५,१९८; E६: २,११७}* *{५/२३०: E२,६: वाक्यम्, क्षौमसंबन्धस्यार्थवत्त्वात्}* *{५/२३१: E२: किम् अर्थम्}* *{५/२३२: E२: क्षौमाक्षौमयोः}* *{५/२३३: E२: ५,१९९; E६: २,११८}*
SK
गुणस्य तु विधानत्वात् पत्न्या{*५/२३४*} द्वितीयशब्दः स्यात्//६.१.२३//
SK
तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, यद् उक्तं द्वौ पुरुषाव् आदधीयाताम् इति, एक एवादधीत. वसन्ते ब्राह्मणो ऽग्निम्{*५/२३५*} आदधीतेति{*५/२३६*}, एकवचनं हि विवक्षितम्. तस्माद् एक एवादधीत. नन्व् इदं वचनं द्वौ पुमांसाव् आदधीयाताम् इति. नेत्य् आह, गुणस्य तु विधानत्वात्, क्षौमविधानम् अस्मिन् वाक्ये न्याय्यम्, तथा ह्य् अपूर्वो ऽर्थो विहितो भवति, गम्यते हि विशेषनियमः. इतरथा क्षौमवचनम् अनुवादमात्रं स्यात्, वादमात्रं चानर्थकम्. पक्षे चानुवादः, न चैकपक्षवचन एष शब्दः. गौणत्वे च साधारणं सादृश्यम्. तस्मात् प्रमादाध्ययनम्{*५/२३७*} अवगम्येत विनैव हेतुना. आह, ननु पुमांसौ विधेयौ, तद्विधाने च न क्षौमविधानम्, वाक्यभेदो हि तथा स्यात्, श्रुतिगम्यौ च पुमांसौ, वाक्यगम्यं च क्षौमं बाधेयाताम् इति. अत्रोच्यते, न पुमांसौ विधेयौ, प्राप्त एवात्र सद्वितीयः पुमान् सो ऽनूद्यते. कथम्? एको ऽत्र पुमान् श्रूयते, तस्य पत्न्या द्वितीयशब्दः स्यात्. न च, यत् प्राग् वचनाद् गम्यते, तद् विधेयं भवति. तस्मात् क्षौमविधानम्, न वाक्यभेदो भवति. यद् उच्यते, न क्षौमस्य विधायको ऽस्तीति. तद् उच्यते, आदधीयाताम् इति तद् विधास्यति. नन्व् एतद् आधानं श्रुत्या विधातुं समर्थम्, नान्यद् इति. उच्यते, शब्दान्तरेण विहितत्वाद् आधानस्य न विधायकम्, विहितत्वाच् च पुंसः स[६२०]{*५/२३८*}द्वितीयस्य, तस्यापि न विधायकम्, अतस् तदसंभवात् क्षौमस्य विधायिका लिङ् भविष्यति, वाक्यसामर्थ्यात्. यत् त्व् अस्मिन् पक्षे ऽत्यन्ताय स्वार्थं जहातीति. नात्यन्ताय हास्यति, आधाने वासः क्षौमं कुर्याद् इति. अस्मिन् पक्षे पुंशब्दः स्त्रीपुंसयोर् वृत्त इति गम्यते. अस्ति हि तत्र तस्य निमित्तं पुमान् सद्वितीयः, एवमादि च दृष्ट्वा भगवता पाणिनिना सूत्रं प्रणीतम्, पुमान् स्त्रिया{*५/२३९*} इति, तस्य विषयः पुंशब्दः शिष्यमाणः साधुर् भवति, न स्त्रीशब्द इति. तस्माद् एकः पुमान् आदधीत न द्वाव् इति.
SK
NOTES: *{५/२३४: E२: पत्न्यया; E१ (व्.ल्.): पत्न्याम्}* *{५/२३५: E२: ऽग्नीन्}* *{५/२३६: Tऐत्.Bर्. १.१.२.६}* *{५/२३७: E२: प्रमादाध्ययवचनम्}* *{५/२३८: E२: ५,२००; E६: २,११९}* *{५/२३९: Pआण्. १.२.६७}*
SK
तस्या यावद् उक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात्//६.१.२४//
SK
दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादिष्व् एतद् उक्तं स्त्रीपुंसयोः सहाधिकार इति. अथेदानीं संदिह्यते, किं सर्वं याजमानं पत्न्या कर्तव्यम्, उत यावद् उक्तम् आशीर् ब्रह्मचर्यं चेति. किं प्राप्तम्? सर्वं याजमानं पत्न्याः स्यात्, सापि हि यजमाना, तुल्यत्वात्. तस्मात् सर्वं तस्या इति. एवं प्राप्ते ब्रूमः, तस्या यावद् उक्तं स्यात्, वचनप्रामाण्यात्, आशीः ब्रह्मचर्यं च स्यात्. कस्मात्? अतुल्यत्वात्, अतुल्या हि स्त्रीपुंसाः, यजमानः पुमान् विद्वांश् च, पत्नी स्त्री चाविद्या च. किम् अतः? यद्य् एवं ह्य् एतद्{*५/२४०*} अतुल्यत्वम्. एतद् अतो भवति, [६२१]{*५/२४१*} क्रत्वर्थेषु यानि याजमानानि श्रवणानि, तेषूपादेयत्वेन श्रवणाद् विवक्षितं लिङ्गम्, तेन तेषु पत्नी न स्यात्, यानि च क्रत्वर्थानि समन्त्रकाणि तेष्व् अविद्यत्वात् पत्नी न स्यात्. तत् पत्न्या अध्ययनस्य प्रयोजकं स्याद् इति यद्य् उच्येत. तन् न, असत्य् अपि प्रयोजकत्वे तस्य निर्वृत्तिर् भविष्यति. अस्ति हि तस्य पुमान् निर्वर्तकः, यच् च कर्त्वर्थम्, तद् एकेन येन केनचिन् निर्वर्तयितव्यम्. तस्मात् प्रतिषिद्धस्य पत्न्या अध्ययनस्य पुनः प्रसवे, न किंचिद् अस्ति प्रमाणम्. अतस् तद् अपि पत्नी न कुर्यात्, यास् त्व् आशिषः, यच् च ब्रह्मचर्यम्, तत् पुरुषं प्रति गुणभूतम्, न तत्रान्यतरेण कृते सिध्यति, अन्यतरस्य हि संस्कारो हीयेत. न च तत्रोपादेयत्वेन यजमानस्य श्रवणम्. तस्माल् लिङ्गम् अप्य् अविवक्षितम्. अत आशीर् ब्रह्मचर्यं चोभयोर् अपि स्यात्. यच् चाहत्योच्यते, यथा, पत्न्याज्यम् अवेक्षत इति. तस्माद् अतुल्यत्वाद् असमानविधाना पत्नी यजमानेन भवितुम् अर्हतीति.
SK
NOTES: *{५/२४०: E२: यद्य् एतद्}* *{५/२४१: E२: ५,२०१; E६: २,११९}*
SK
चातुर्वर्ण्यम् अविशेषात्//६.१.२५//
SK
आग्निहोत्रादीनि कर्माण्य् उदाहरणम्, तेषु संदेहः, किं चतुर्णां वर्णानां तानि भवेयुः, उतापशूद्राणां त्रयाणां वर्णानाम् इति. किं तावत् प्राप्तम्? चातुर्वर्ण्यम् अधिकृत्य, यजेत, जुहुयाद् इत्येवमादि शब्दम् उच्चरति वेदः. कुतः? अविशेषात्, न हि कश्चिद् विशेष उपादीयते. तस्माच् छूद्रो न निवर्तते.
SK
[६२२]{*५/२४२*}
SK
NOTES: *{५/२४२: E२: ५,२०८; E६: २,१२०}*
SK
निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेये ह्य् असंबन्धः क्रतुषु, ब्राह्मणश्रुतिर् इत्य् आत्रेयः//६.१.२६//
SK
वाशब्दः पक्षं व्यावर्तयति, त्रयाणाम् अधिकारः स्यात्. कुतः? अग्न्याधेये निर्देशात्, अग्न्याधेये त्रयाणां निर्देशो भवति, वसन्ते ब्राह्मणो ऽग्नीन्{*५/२४३*} आदधीत, ग्रीष्मे राजन्यः, शरदि वैश्य इति{*५/२४४*}, शूद्रस्याधाने श्रुतिर् नास्तीत्य् अनग्निः शूद्रो ऽसमर्थो ऽग्निहोत्रादि निर्वर्तयितुम्. तस्माद् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादिषु शूद्रस्य प्रापिका श्रुतिर् नास्ति. ब्राह्मणादीन् एवाधिकृत्य सा प्रवर्तते, ते हि समर्था अग्निमत्त्वात्, आहवनीयादयो न शूद्रस्य, अविधानात्, संस्कारशब्दत्वाच् चाहवनीयादीनाम्. तस्माद् अनधिकृतो ऽग्निहोत्रादिषु शूद्र इत्य् आत्रेयो मन्यते{*५/२४५*} स्म.
SK
NOTES: *{५/२४३: E२: ऽग्नीन्}* *{५/२४४: Tऐत्.Bर्. १.१.२.६-७}* *{५/२४५: E२: आत्रेयो मुनिर् मन्यते}*
SK
निमित्तार्थेन बादरिस् तस्मात् सर्वाधिकारं स्यात्//६.१.२७//
SK
यद् उक्तम्, अनधिकारः शूद्रस्येति, तन् न, सर्वं ह्य् अर्थिनम् अधिकृत्य यजेतेत्य् उच्यते, सो ऽसति प्रतिषेधवचने शूद्रान् न व्यावर्तेत. यत् त्व् असमर्थो ऽग्न्यभावाद् इति, स्याद् एवास्याग्निर् अर्थप्राप्तः, कामश्रुतिपरिगृहीतत्वात्. अत्राह, नन्व् अग्न्याधेयचोदना ब्राह्मणादिसंयुक्ता न शूद्रस्येति. उच्यते, निमित्तार्थेन ताः श्रुतयो न प्रापिकाः. कथम्? निमित्तस्वभावा एते शब्दाः, ब्राह्मण आदधानो वसन्ते, राज्यन्यो{*५/२४६*} ग्रीष्मे, वैष्यः शरदीति ब्राह्मणादीनां वसन्तादिभिः संबन्धो गम्यते, तेन वसन्तादिसंबन्धार्था ब्राह्मणादय [६२३]{*५/२४७*} इत्य् एव गम्यते, तथा चादधातिर् न वाक्येन शूद्राद् व्यावर्तितो भविष्यति. तस्माद् बादरिः सर्वाधिकारं शास्त्रं मन्यते स्मेति गम्यते.
SK
NOTES: *{५/२४६: E२,६: राजन्यो}* *{५/२४७: E२: ५,२०९; E६: २,१२१}*
SK
अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत//६.१.२८//
SK
अपि वेति पक्षो व्यावर्त्यते. यथाश्रुत्य् एव प्रतीयेत, ब्राह्मणादयो ह्य् आधाने श्रूयन्ते, तेन ब्राह्मणादिकर्तृकम् आधानम्, वसन्तादिश्रवणाच् च वसन्तादिकालकम्. तथा च, इदं शूद्रवर्जितानाम् एवानुक्रमणं भवति, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्यं राजन्यस्य, रायोवाजीयं वैश्यस्येति, शूद्रस्य साम नामनन्ति. तथा पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति, तथाधाने ऽष्टसु प्रक्रमेषु ब्राह्मणो ऽग्निम् आदधीत, एकादशसु राजन्यः, द्वादशसु वैश्य इति. एवम् अब्रह्मसामकम् अव्रतकम् अप्रक्रमकं च शूद्रस्य प्रयुक्तम् अपि कर्म निष्फलं स्यात्. तस्मान् न शूद्रो जुहुयाद् यजेत वा.
SK
निर्देशात् तु पक्षे स्यात्//६.१.२९//
SK
नैतद् एवम्, शूद्रस्याग्न्यभावाद् अनधिकारो ऽग्निहोत्रादिष्व् इति. अस्ति हि शूद्रस्याधानम्, य एवं विद्वान् अग्निम् आधत्त इति शास्त्रं सामान्येन. इदम् अपि निमित्तार्थं भविष्यति, तस्मात् सर्वाधिकारं शास्त्रं भवितुम् अर्हतीति.
SK
वैगुण्यान् नेति चेत्//६.१.३०//
SK
अथ यद् उक्तम्{*५/२४८*}, अब्रह्मसामकम् अव्रतकम् अप्रक्रमकं च शूद्रस्य कर्म प्रयुक्तम् अपि फलं न साधयेद् विगुणम् इति, तत् परिहर्तव्यम्.
SK
[६२४]{*५/२४९*}
SK
NOTES: *{५/२४८: Vग्ल्. zउ MS ६.१.२८}* *{५/२४९: E२: ५,२१०; E६: २,१२१}*
SK
न काम्यत्वात्//६.१.३१//
SK
स एष परिहारः, क्राम्यत्वात्, कामयिष्यते शूद्रः, अभीवर्तं नाम ब्रह्मसाम{*५/२५०*}, तद् धि अनारभ्य किंचिद् आम्नातम् अविशेषेण, चक्षुर्विमित आदध्याद् इति{*५/२५१*}, अनियतप्रक्रमेषु शूद्रस्य नियम्यते. व्रते ऽपि, मस्तु शूद्रस्येति संबन्धदर्शनाद् अध्यवसीयते, मस्त्व् एव शूद्रस्य. तस्माच् चातुर्वर्ण्यम् अधिक्रियेत.
SK
NOTES: *{५/२५०: Vग्ल्. दzउ Tऐत्.S. ७.५.१.६}* *{५/२५१: Tऐत्.Bर्. १.१.४.१}*
SK
संस्कारे च तत्प्रधानत्वात्//३.१.३२//
SK
व्रते च विशेषो ऽवगम्यते तत्प्राधान्यं पुरुषप्राधान्यं हि व्रते{*५/२५२*}. किम् अतः, यत् पुरुषप्रधानता? एतद् अतो भवति, पुरुषप्रधानः संस्कारो न शक्नोत्य् अनुपसंह्रियमाणः, तस्याधिकारं व्यावर्तयितुम्. तत् कथम् इति. यजेतेति हि स्वर्गकामे ऽभिधीयमाने तत्कामः शूद्रो नाभिहित इति कथं गम्यते? किं हि स यागस्य पुरुषनिर्वर्त्यं न निर्वर्तयति. व्रतम् इति चेत्. न, सामर्थ्योपजननाय हि तद् यस्यैवोच्येत, तस्यैव तेन विना न सामर्थ्यम्, नान्यस्य. एष{*५/२५३*} एव हि व्रतस्याङ्गभावो यत्, कर्तारं समर्थं करोति. यस्य तु तेन प्रयोजनम्, स तदनपेक्ष्यैव यागम् अभिनिर्वर्तयति. तस्माद् अपि न शूद्रवर्जनम्.
SK
NOTES: *{५/२५२: E१ गिब्त् पुरुषप्राधान्यं हि व्रते इन् Kलम्मेर्न्}* *{५/२५३: E२,६: एवम्}*
SK
अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत//६.१.३३//
SK
एवं न प्रापकाणि श्रवणानीत्य् उक्तम्, शक्यते तु वक्तुं प्रापकाणीति, न च सूत्रकारेण तद् व्यपदिष्टम्. नैमित्तिकेष्व् अपि तेषु सत्सु शक्य एव शूद्रपर्युदासो वक्तुम् इति, न तदादृतम्, हेत्वन्तरं व्यपदिष्टम्. अपि वेति पक्षव्यावर्तनम्. [६२५]{*५/२५४*} एवम् अपि सति नैमित्तिके ऽपि ब्राह्मणादिश्रवणे सत्य् अपशूद्राणाम् एवाधिकारः. कुतः? वेदनिर्देशात्, वेदे हि त्रयाणां निर्देशो भवति, वसन्ते ब्राह्मणम् उपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम् इति, वेदाभावाद् असमर्थः शूद्रो यष्टुम्. तस्मान् नाधिक्रियेत.
SK
NOTES: *{५/२५४: E२: ५,२१२; E६: २,१२२}*
SK
गुणार्थित्वान् नेति चेत्//६.१.३४//
SK
गुणेनाध्ययनेनार्थः{*५/२५५*}, शूद्रो ऽनुपनीतः स्वयम् उपेत्याध्येष्यते, तथास्य सामर्थ्यं जनिष्यत इति.
SK
NOTES: *{५/२५५: E२: गुणेनाध्ययनेनार्थी}*
SK
संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः//६.१.३५//
SK
उच्यते, विद्यायाम् एवैषा पुरुषश्रुतिः, उपनयनस्य संस्कारस्य तदर्थत्वात्, विद्यार्थम् उपाध्यायस्य समीपम् आनीयते, नादृष्टार्थम्, कुड्यं{*५/२५६*} वा कर्तुम्, सैषा{*५/२५७*} विद्यायां पुरुषश्रुतिः. कथम् अवगम्यते? आचार्यकरणम् एतद् अभिधीयते. कुतः? आत्मनेपददर्शनात्, नयतिर्{*५/२५८*} आचार्यकरणे वर्तते, तदर्थसंबन्धाद् उपनयनम् आचार्यकरणप्रयुक्तम्, वेदाध्यापनेन चाचार्यो भवति. तस्माद् वेदाध्ययने ब्राह्मणादयः श्रुताः, शूद्रस्य न श्रुतं वेदाध्ययनम्, अतो ऽवेदात्वाद् असमर्थः शूद्रो नाभिक्रियत इति.
SK
NOTES: *{५/२५६: E२: नापि कटं कुड्यं}* *{५/२५७: E२: दृष्टार्थम् एव सैषा}* *{५/२५८: E२: कथं पुनर् नयतिर्}*
SK
विद्यानिर्देशान् नेति चेत्//६.१.३६//
SK
इति चेत् पश्यसि, अवैद्यत्वाद्{*५/२५९*} असामर्थ्याद् अनधिकृतः [६२६]{*५/२६०*} शूद्र इति. नैष दोषः, विद्यानिर्देशात्, विद्यां निर्देक्ष्यति, अनुक्ताम् अप्य् अध्येष्यत इति, शक्यते ह्य् अनुक्तम्{*५/२६१*} अप्य् अध्येतुम्. तस्माच् चातुर्वर्ण्यस्याप्य् अधिकारः//
SK
NOTES: *{५/२५९: E२: अवैधत्वाद्}* *{५/२६०: E२: ५,२१३; E६: २,१२३}* *{५/२६१: E२: अनुक्ताम्}*
SK
अवैद्यत्वाद्{*५/२६२*} अभावः कर्मणि स्यात्//६.१.३७//
SK
न चैतद् अस्ति, शूद्रो ऽध्येष्यत इति, प्रतिषिद्धम् अस्याध्ययनम्, शूद्रेण नाध्येतव्यम् इति, अधीयानस्याप्य् अध्ययनं सफलं{*५/२६३*} न भवति, दोषश् च जायते. अतो ऽवैद्यः शूद्रः, अस्याभावः कर्मणीति सिद्धम्. अथापि वैद्यत्वेन{*५/२६४*} सिध्येत्, तथाप्य् अनग्नित्वाद् अभावः कर्मणि स्यात्. अथ कथम् अनग्नितेति. प्रापकाणि हि ब्राह्मणादीनाम् आधाने वाक्यानि. ननु य एवं विद्वान् अग्निम् आधत्त इत्य् आधानस्य विधायकम्. तत्र ब्राह्मणस्य{*५/२६५*}, वसन्ते ऽग्निम् आदधीतेति निमित्तार्थानि वचनानीति गम्यते. अत्रोच्यते, ब्राह्मणो ऽग्निम् आदधीतेति श्रुत्या विधानं गम्यते. य एवं विद्वान् अग्निम् आधत्त इति स्तुत्या, तद् आनुमानिकं प्रत्यक्षश्रुताद् दुर्बलम्. तस्मात् प्रापकाणि वचनानि, अतः शूद्रस्यानधिकारः.
SK
NOTES: *{५/२६२: E२: अवैधत्वाद्}* *{५/२६३: E२: अध्ययनफलं}* *{५/२६४: E२: वैधत्वेन}* *{५/२६५: E२: ब्राह्मणो}*
SK
तथा चान्यार्थदर्शनम्//६.१.३८//
SK
अन्यार्थदर्शनं च भवति, यथा न शूद्रस्याध्ययनम् इति. किं लिङ्गं भवति? यद्यु वा एतत् श्मशानम्, यच् छूद्रः, तस्माच् छूद्रसमीपे नाध्येयम् इत्य् अनध्ययनं शूद्रस्य दर्शयति. तस्माद् अपशूद्राणाम् अधिकारः. नन्व् आहवनीयाद् विनापि, यागो वचनप्रामाण्याच् छूद्रस्य विधीयते. [६२७]{*५/२६६*} उच्यते, नात्र यागसद्भावो विधीयते स्वर्गकामस्य, किं तर्हि स्वर्गफलता विशिष्टस्य यागस्य. तस्माद् असंभवः शूद्रस्याग्निहोत्रादिषु.
SK
NOTES: *{५/२६६: E२: ५,२१४; E६: २,१२३}*
SK
त्रयाणां द्रव्यसंपन्नः कर्मणो द्रव्यसिद्धित्वात्//६.१.३९//
SK
अग्निहोत्रादिष्व् एव संदेहः, किम् अद्रव्यस्याधिकारो नेति. उच्यते, त्रयाणां द्रव्यसंपन्नो ऽधिक्रियेत, नाद्रव्यः. कुतः? न हि शक्नोत्य् अद्रव्यो द्रव्यसंयुक्तं कर्मानुष्ठातुम्. तस्माद् अद्रव्यस्यानधिकारः.
SK
अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः//६.१.४०//
SK
नैवं स्यात्, यद् उक्तम्, अद्रव्यस्यानधिकार इति. कुतः? अनित्यत्वात्, अनित्यो ऽद्रव्यसंयोगः{*५/२६७*}, न हि कश्चिज् जात्याद्रव्य एव पुरुषः. अस्त्य् उपायो येन द्रव्यवान् भवति. यः शक्नोति यष्टुम्, तस्य यजेतेति वाचको भवति, यो न कथंचिद् अपि शक्नोति यागम् अभिनिर्वर्तयितुम्, तं नाधिकरोति यजेत शबदः{*५/२६८*}. यस् तु केनचित् प्रकारेण शक्नोति, न तं वर्जयित्वा प्रवर्तते. अर्थाच् च द्रव्यसंयोगो भविष्यति, जीविष्यति विना धनेनेत्य् एतद् अनुपपन्नम्. तस्माद्{*५/२६९*} अर्थाद् एव द्रव्यसंयोगः{*५/२७०*}.
SK
[६२८]{*५/२७१*}
SK
NOTES: *{५/२६७: E२: ऽद्रव्यसंयोगः}* *{५/२६८: E२: यजेतेति शबदः}* *{५/२६९: E२: विप्रतिषिद्धम्. तद् इदम् अभिधीयते. तस्माद्}* *{५/२७०: E२ हत् नोछ्: अधिकारो ऽद्रव्यस्यापीति}* *{५/२७१: E२: ५,२१५; E६: २,१२४}*
SK
अङ्गहीनश् च तद्धर्मा//६.१.४१//
SK
अग्निहोत्रादिष्व् एवाङ्गहीनं प्रति संदेहः, किम् असाव् अधिक्रियते, उत नेति. तत्राप्य् अधिकरणातिदेशः. असमर्थ इति कृत्वा पूर्वः पक्षः, शक्तेर् विद्यमानत्वाद् उत्तरः. तद्{*५/२७२*} इदम् अभिधीयते, अङ्गहीनश् च तद्धर्मा{*५/२७३*}. किंधर्मा? अद्रव्यधर्मेति.
SK
NOTES: *{५/२७२: E२: इत्य् उत्तरः पक्षः. तद्}* *{५/२७३: E२: तद्धर्मेति}*
SK
उत्पत्तौ नित्यसंयोगात्//६.१.४२//
SK
यस्य त्व् अप्रतिसमाधेयम् अङ्गवैकल्यम्, तं प्रति विचारः, किम् अधिक्रियते, नेति, पूर्वाधिकरणेनाधिक्रियत इति प्राप्ते ब्रूमः, नाधिक्रियत इति. कुतः? शक्त्यभावात्, नासौ केनचिद् अपि प्रकारेण शक्नोति यष्टुम्, तस्मात् तस्याधिकारो न गम्यते. ननु यच् छक्नोति, तत्राधिक्रियत इति, चक्षुर् विकलो विनाज्यावेक्षणेन, विना विष्णुक्रमैः पङ्गुः, विना प्रैषादिश्रवणेन च बधिरः, एतान् पदार्थान् प्रति चक्षुर्विकलादीनाम् अनधिकार इति. नेत्य् उच्यते, नाज्यावेक्षणादि पुरुषं प्रति निर्दिश्यते, यदि हि तं प्रति निर्देश्येत, ततो विकलो ऽप्य् अधिक्रियेत, क्रतुं प्रत्य् एषाम् उपदेशः, प्रकरणाविशेषात्, पुरुषस्य चाख्यातेनानभिधानाद् इति. उक्तम्{*५/२७४*} एतद् विधिर् वा संयोगान्तराद्{*५/२७५*} इत्य् अत्र. तैश् च [६२९]{*५/२७६*} विना विगुणं कर्म प्रयुक्तम् अपि न फलं साधयेत्. तस्मात् तस्यानधिकारः.
SK
NOTES: *{५/२७४: Vग्ल्. zउ MS ३.४.१३}* *{५/२७५: MS ३.४.१३}* *{५/२७६: E२: ५,२१६; E६: २,१२४}*
SK
अत्र्यार्षेयस्य हानं स्यात्//६.१.४३//
SK
दर्शपूर्णमासयोः श्रूयते, आर्षेयं वृणीते, एकं वृणीते, द्वौ वृणीते, त्रीन् वृणीते, न चतुरो वृणीते, न पञ्चाति वृणीत इति. तत्र संदेहः, किम् अत्र्यार्षेयस्याधिकार उत नेति. किं प्राप्तम्? अत्र्यार्षेयो ऽप्य् अधिक्रियत इति. कुतः? आर्षेयं वृणीत इति सामान्यवचनम्, तस्माद् एकं वरिष्यति द्वौ वा, तच् च दर्शयति, एकं वृणीते द्वौ वृणीत इति, तथा प्रतिषेधति, न चतुरो वृणीत इति{*५/२७७*}, न पञ्चाति वृणीत इति. न ह्य् अप्राप्तस्य प्रतिषेधो ऽवकल्पते. तस्माद् अत्र्यार्षेयो ऽप्य् अधिक्रियेत{*५/२७८*}. एवं प्राप्ते ब्रूमः, यो न त्र्यार्षेयः, स नाधिक्रियेत. कुतः? त्रीन् वृणीत इति विशेषवचनात्, विधिश् चाप्राप्तत्वात्. नन्व् एकं वृणीत इत्य् अपि विशेषवचनम् अस्ति. नेत्य् उच्यते, विधायिकाया विभक्तेर् अभावात्. ननु स्तुत्या विधास्यन्ते, यथा, त्रीन् वृणीत इति. उच्यते, त्रयाणाम् एव स्तुतिः, सा त्रित्वं विधास्येति. एकं वृणीत इत्य् अवयुत्यवादो{*५/२७९*} ऽयं त्रयाणाम् एव. तत्रापि त्रित्वम् एव स्तूयते विधातुम्. एकम् एकवाक्येन विधानं भविष्यतीति. न चतुरो वृणीते, न पञ्चातिवृणीत [६३०]{*५/२८०*} इति नित्यानुवादो भविष्यति. तस्मात् त्र्यार्षेयस्याधिकारो नान्यस्येति.
SK
NOTES: *{५/२७७: E२ ओम्. इति}* *{५/२७८: E२: अधिक्रियेतेत्य्}* *{५/२७९: E२: अवयुत्यानुवादो}* *{५/२८०: E२: ५,२१७; E६: २,१२५}*
SK
वचनाद् रथकारस्याधाने ऽस्य सर्वशेषत्वात्//६.१.४४//
SK
आधाने श्रूयते, वर्षासु रथकार आदधीतेति. तत्र संदेहः, किं त्रैवर्णिकानाम् अन्यतमो रथकारः, आहोस्विद् अत्रैवर्णिक इति. किं प्राप्तम्? रथकारस्यात्रैवर्णिकस्याधानम् एतत्. कुतः? वचनात्, न{*५/२८१*} हि वचनस्य किंचिद् अकृत्यम् अस्ति{*५/२८२*}, सर्वशेषश् चात्रैवर्णिक आधाने, ब्राह्मणराज्यन्यविशाम्{*५/२८३*} उक्तम् आधानम्, परिशेषाद् अत्रैवर्णिको रथकार स्यात्.
SK
NOTES: *{५/२८१: E२: वचनात्. वचनम् इदं भवति, वर्षासु रथकार आदधीतेति. न}* *{५/२८२: E२: अलभ्यं नाम. सर्वशेषश्}* *{५/२८३: E२,६: ब्राह्मणराजन्यविशाम्}*
SK
न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धत्वात्//६.१.४५//
SK
न्याय्यो वा स्यात्, त्रैवर्णिको रथकारः रथकर्मणा विशेषेणोच्यते, शूद्रो ह्य् असमर्थत्वात् प्रतिषिद्धः. तस्मात् त्रैवर्णिको रथकारः स्यात्.
SK
अकर्मत्वात् तु नैवं स्यात्//६.१.४६//
SK
नास्ति त्रैवर्णिको रथकारः, प्रतिषिद्धं हि तस्य शिल्पोपजीवित्वम्, अत्रैवर्णिकस् त्व् अस्ति. तस्माद् वचनप्रामाण्यात् स आधास्यते{*५/२८४*}.
SK
[६३१]{*५/२८५*}
SK
NOTES: *{५/२८४: E२: आधास्यति}* *{५/२८५: E२: ५,२१८; E६: २,१२६}*
SK
आनर्थक्यं च संयोगात्//६.१.४७//
SK
ब्राह्मणादिषु वसन्तादयो नियताः, तान् प्रति वर्षा उच्यमाना अप्य् असंबन्धाद् आनर्थक्यं प्राप्नुयुः. तस्माद् अत्रैवर्णिको रथकार इति.
SK
गुणार्थेनेति चेत्//६.१.४८//
SK
एवं चेत् पश्यसि, नास्ति त्रैवर्णिको रथकारः, प्रतिषिद्धत्वाच् छिल्पोपजीवित्वस्येति. गुणार्थेन कश्चिद् भविष्यति रथकारो वैतथ्येन, तस्येदम्{*५/२८६*} आधानं विज्ञायते.
SK
NOTES: *{५/२८६: E२: रथकारः, आपदि जीवनं चैतस्य. वाक्येन तस्येदम्}*
SK
उक्तम् अनिमित्तत्वम्//६.१.४९//
SK
उक्तम्, एतद् अस्माभिः, न निमित्तार्थान्य् एतानि श्रवणानीति. किम् अतो यदि न निमित्तार्थानि. एतद् अतो भवति, प्रापकाणीति, प्राप्तित्वात् तेषाम् आधानस्य, पुनः प्रापकम् अनर्थकम्, तेन यस्याप्राप्तम्, तस्य भविष्यतीति. अथोच्येत, एतद् एकं निमित्तार्थं भविष्यतीति. नैतद् एवम् अवकल्पते, वसन्तादिसंयुक्तं तत् कथम् इव वर्षाभिः संबध्येत. अपि च, प्रापकपक्ष आधानं विधीयते श्रुत्या, निमित्तपक्षे पुनर् वर्षा विधातव्या वाक्येन, श्रुतिश् च वाक्याद् बलीयसीति. तस्माद् अत्रैवर्णिकस्येदम् आधानम् इति.
SK
सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन्//६.१.५०//
SK
न तु सर्व एवात्रैवर्णिको रथकारः, सौधन्वना इत्य् एष [६३२]{*५/२८७*} जातिवचनः शब्दः. सौधन्वना नाम जातिर् अभिधीयते, हीनास् तु किंचित् त्रैवर्णिकेभ्यः, जात्यन्तरम्, न तु शूद्राः, न वैश्याः, न क्षत्रियाः, तेषाम् इदम् आधानम्. कथम् अवगम्यते? प्रसिद्धेर् मन्त्रवर्णाच् च, मन्त्रवर्णो हि भवति, सौधन्वना ऋभवः सूरचक्षस{*५/२८८*} इति, ऋभूणां त्व् इति रथकारस्याधानमन्त्रः. तस्मात् सौधन्वना ऋभव इति, ऋभवश् च रथकाराः. अपि च, नेमिं नयन्त्य् ऋभवो यथेति{*५/२८९*} ये नेमिं नयन्ति त ऋभव इत्य् उच्यन्ते. रथकाराश् च नेमिं नयन्ति. तस्माद् अत्रैवर्णिकानाम् अशूद्राणाम् एतद् आधानम् इति.
SK
NOTES: *{५/२८७: E२: ५,२१९; E६: २,१२६}* *{५/२८८: ṚV १.११०.४}* *{५/२८९: ṚV ८.७५.५}*
SK
स्थपतिर् निषादः स्याच् छब्दसामर्थ्यात्//६.१.५१//
SK
वास्तुमध्ये रौद्रं चरुं निर्वपेत्, यत्र रुद्रः प्रजाः शमयेद् इत्य् एताम् इष्टिं प्रकृत्योच्यते, एतया निषादस्थपतिं याजयेद् इति. निषादस्थपतिं प्रति संदेहः, किम् अधिकृतानाम् अन्यतमः, उतान्य एवेति. अन्यतम इति ब्रूमः, स हि समर्थः, विद्वत्त्वाद् अग्निमत्त्वाच् च, अन्यो ऽविद्वत्त्वाद् अनग्नित्वाद् असमर्थ इति. ननु निषादस्थपतिशब्दस् तत्र नोपपद्यते. उच्यते, न, नोपपद्यते, निषादानां स्थपतिर् इति षष्ठीसमासो भविष्यति, श्रेष्ठो निषादानाम्. तस्माद् अधिकृताधिकारम् एतच् छास्त्रम् इति. एवं प्राप्ते ब्रूमः, स्थपतिर् निषादः स्यात्, शब्दसामर्थ्यात्{*५/२९०*}, निषाद{*५/२९१*} एव स्थपतिर् भवितुम् अर्हति. कस्मात्? शब्दसामर्थ्यात्, निषादं हि निषादशब्दः{*५/२९२*} शक्नोति वदितुं{*५/२९३*} श्रवणेनैव, निषादानां तु स्थपतिं लक्षणया ब्रूयात्. श्रुतिलक्षणा[६३३]{*५/२९४*}विशये च श्रुतिर् न्याय्या, न लक्षणा. अथोच्यते, नैष दोषः, निषादशब्दो निषादवचन एव, षष्ठी संबन्धस्य वाचिकेति. तन् न, षष्ठ्यश्रवणात्. नात्र षष्ठीं शृणुमः. आह, लोपसामर्थ्यात् षष्ठ्यर्थो ऽवगम्यत इति. सत्यम् अवगम्यते, न तु लोपेन. केन तर्हि? निषदशब्दलक्षणया, तस्याश् च दौर्बल्यम् इत्य् उक्तम्. समानाधिकरणसमासस् तु बलीयान्. तत्र हि स्वार्थे शब्दौ वृत्तौ भवतः. द्वितीया च विभक्तिस् तन्त्रेणोभाभ्यां संबध्यते, तेन द्वितीयानिर्दिष्टो निषादो गम्यते. तत्र षष्ठ्यर्थं कल्पयन्न् अश्रुतं गृहणीयात्. तस्मान् निषाद एव स्थपतिः स्यात्.
SK
NOTES: *{५/२९०: E२ ओम्. शब्दसामर्थ्यात्}* *{५/२९१: E६ ओम्. निषाद}* *{५/२९२: E२: विषादशब्दः}* *{५/२९३: E२: नदितुं}* *{५/२९४: E२: ५,२२०; E६: २,१२७}*
SK
लिङ्गदर्शनाच् च//६.१.५२//
SK
लिङ्गं दृश्यते, कूटं दक्षिणेति{*५/२९५*} निषादस्य द्रव्यं दर्शयति. कूटं हि निषादानाम् एवोपकारकम्, नार्याणाम्, एवं स्वम् एव तन् निषादानाम् इति.
SK
[६३४]{*५/२९६*}
SK
NOTES: *{५/२९५: Tऐत्.S. १.८.९.१}* *{५/२९६: E२: ५,२२१; E६: २,१२८}*
SK
पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात्//६.२.१//
SK
द्वादशाहेन प्रजाकामं याजयेत्, ऋद्धिकामा उपेयुः. तथा, तत्र तत्रैवंकामाः सत्रम् उपेयुः, सप्तदशावराश् चतुर्विंशतिपरमाः सत्रम् आसीरन्न् इति. तेषु संदेहः, किं तस्य तस्य कृत्स्नेन फलेनार्थिनः सत्रे ऽधिकारः, उत पर्षदो ऽर्थिन्या अधिकार इति. आह, नन्व् अर्थिनो बहुसंख्याविशिष्टा निर्दिश्यन्ते, कथम् एषाम् एकशो{*५/२९७*} ऽधिकारो भविष्यतीति. उच्यते, ऋद्धिकामा इत्येवमादि विधीयमानम् ऋद्धिलक्षितेषु समस्तेषु व्यस्तेषु च प्राप्तम्, न शक्यं बहुवचनेन विशेषे ऽवस्थापयितुम्, तेन तं तम् अधिकुर्यात् पर्षदं वेति भवति संदेहः. किं तावत् प्राप्तम्? एकैको न समर्थो बहुकर्तृकं सत्रं रचयितुम्, पर्षदं तु कर्त्रीम् अर्थिनीम् अवगच्छामः. न चाकर्तुः फलं भवति, न चैकः कर्तोच्यते, तस्मात् समस्तानां फलम्. एकैकस्य फलावययः, मध्यकं स्यात् कृत्स्नं फलम् इति. एवं प्राप्ते ब्रूमः, तस्य तस्यार्थिनः कृत्स्नं फलं सत्रान् निर्वर्तते. कुतः? पुरुषार्थस्यैकैकस्य सिद्धिर् यतो भवति, सहक्रियमाणे सर्व एकैकः पुरुषार्थं साधयति तन्त्रेण, कर्तॄणां फलं च भवति, एकैकश् चात्र कर्ता. [६३५]{*५/२९८*} आह, नन्व् एतद् उक्तम्, एकैको न शक्नोति बहुकर्तृकं कर्तुं इति. उच्यते, शक्नोत्य् एकैकस्य स्वातन्त्र्यविवक्षायाम्, यदैकैकः स्वातन्त्र्येण प्रवर्तते, तदान्यान् संख्यानिर्वृत्त्यर्थं सामादिभिः प्रयोक्ष्यते. एकम् एकः पुरुषार्थं साधयति, इतर इतरश् च, तेन सर्वे कर्तारः सव्यपेक्षा भविष्यन्ति. सर्वे चेत् कर्तारः, पृथक् पृथग् एव फलेन संभन्त्स्यन्ते.
SK
NOTES: *{५/२९७: E२: एकैकशो}* *{५/२९८: E२: ५,२२३; E६: २,१२८}*
SK
अपि चोत्पत्तिसंयोगाद् यथा स्यात् सत्त्वदर्शनम्, तथा भावो ऽविभागे{*५/२९९*} स्यात्//६.२.२//
SK
अपि च, नैतद् विरुद्धम्, यद् एकं कर्म बहुभिः क्रियत इति. यद्य् उच्यते, विरुद्धम्, एकेन कर्मणि कृते द्वितीयः किं कुर्याद् इति. अत्रोच्यते, पर्यायेण क्रियायाम् एवं दोषः, तन्त्रेण तु क्रियायां भवति क्वचित् संभवः, यथा स्यात् सत्त्वदर्शनं तथा भावो ऽविभागे{*५/३००*} स्यात्, यथैकैकस्य सत्त्वस्य हस्तिनो ऽश्वस्य वा दर्शनम् एकैकेन कृत्स्नम् अभिनिर्वर्त्यते. एवम् एव सत्रे तन्त्रभावो भवेत्, सर्वेषां मध्यकं द्रव्यम्, मध्यकस्याहवनीयस्योपर्य् अध्वर्युर् अपविध्यति{*५/३०१*}. तत्र सर्वे कर्तारस् तन्त्रेण भवन्ति. न चात्रोत्पन्नसंयोगः, उत्पत्त्यैव तु संख्यया कर्म संयुज्यते. यदि ह्य् उत्पन्नं संयुज्येत, ततो ऽनेकसंबन्धार्थम् इति वचनं गम्येत, उत्पत्तिसंयोगे त्व् एतन् नास्ति. तस्माद् एकैकस्य कृत्स्नेन फलेनाभिसंबन्ध इति.
SK
NOTES: *{५/२९९: E२: ऽविभागे}* *{५/३००: E२: ऽविभागे}* *{५/३०१: E२: उपविध्यति}*
SK
प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात्//६.२.३//
SK
दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्ग[६३६]{*५/३०२*}कामो यजेतेति श्रूयते. अत्र संदेहः, किम् अनियमेन, एको द्वौ बहवो वा यजेरन्, अथवैक एव यजेतेति. ननु तृतीय उक्तम्{*५/३०३*}, शास्त्रफलं प्रयोक्तरीति. यदा प्रयोक्तरि, तदा विवक्षितम् एकत्वं यथा, तथा वक्ष्यामः, इह तु तद् एवाक्षिप्यते, पुनश् च निर्णेष्यत इति. किं प्राप्तम्? यथाकामी प्रयोगे स्यात्. कुतः? पुरुषश्रुतेः, पुरुषः श्रूयते, पुरुषे यागं श्रावयित्वा कृतार्थः शब्द एकस्य द्वयोर् बहूनां वा यागं न वारयति. नासौ पुरुषो यागे श्रूयते, यागम् अभिनिर्वर्तयेत्, यागेन वा फलम् अभिनिर्वर्तयेद् इति. कथं तर्हि? यागेन फलं प्राप्नुयाद् इति. यागस्य वा फलनिर्वृत्तेर् वा नाङ्गं पुरुषः. यदि ह्य् अङ्गम् अभविष्यद् यागे फलनिर्वृत्तौ वा, तदा संख्या गुणभूता तदङ्गं पुरुषं परिच्छिन्द्यात्. अथ पुनर् अङ्गभूतं पुरुषं{*५/३०४*} प्रकाशयन् लक्षणत्वेनैव पुरुषे ऽभिसंबध्येत{*५/३०५*}, न गुणवचनतया. तत्र चाविवक्षितं संख्यावचनम्, यावान् अर्थी समर्थश् च तावन्तं सर्वम् अधिकृत्यैतद् उच्यमानं न शक्यते एकेन वचनेन विशेषयितुम्. कथं च पुरुषप्राधान्यम्? न फलोत्पत्त्या किंचित् प्रयोजनम् अस्ति, न यागोत्पत्त्या, आत्मा तु फलसंबद्धः सर्वस्येष्टः, तदर्थं कर्म कर्तव्यम्, इतरथोच्यमानम् अपि न क्रियेत, तत्र वचनार्थक्यं स्यात्, तस्माद् याथाकाम्यं स्यात्, एको द्वौ बहवो वा यजेरन्न् इति. तथा च दर्शयति, युवं हि स्थः स्वर्पती{*५/३०६*} इति द्वयोर् यजमानयोः प्रतिपदं कुर्याद् इति, एते{*५/३०७*} असृग्रम् इन्दव{*५/३०८*} इति बहुभ्यो यजमानेभ्य इति द्वयोर् बहूनां च यागं प्रदर्शयति.
SK
NOTES: *{५/३०२: E२: ५,२२४; E६: २,१२९}* *{५/३०३: Vग्ल्. zउ MS ३.७.१८}* *{५/३०४: E२ ओम्. पुरुषं}* *{५/३०५: E२: पुरुषशब्दः संबध्येत}* *{५/३०६: ṚV ९.१९.२}* *{५/३०७: E२: तथैते}* *{५/३०८: ṚV ९.६.२.१}*
SK
प्रत्यर्थं श्रुतिभाव इति चेत्//६.२.४//
SK
इति चेत्, इदं{*५/३०९*} चेत् पश्यसि, प्रत्यर्थं{*५/३१०*} श्रुतिभावः स्यात्, [६३७]{*५/३११*} यागम् अभिनिर्वर्तयेत्, ततश् च फलं प्राप्नुयाद् इति. कुतः? एतद् उभयं ह्य् एतस्माद् अवगम्यते, कतरद् अत्र जहीम इति नाध्यवस्यामः. तस्माद् उभयम् अपि प्रत्येतव्यम्. आह, नन्व् एकार्थवचनता न न्याय्येति. उच्यते, यद् अवगम्यते तन् न्याय्यम्, उभयं च प्रतीयते. तस्माद् उभयार्थवचनतैव न्याय्या. यागं प्रति च गुणभावाद् विवक्षितम् एकवचनम्.
SK
NOTES: *{५/३०९: E२: एवं}* *{५/३१०: E२: चेद् भवान् पश्यत्व् अविवक्षितम् एकत्वम् इति. प्रत्यर्थं}* *{५/३११: E२: ५,२२६; E६: २,१३०}*
SK
तादर्थ्ये न गुणार्थतानुक्ते ऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात्//६.२.५//
SK
नैतद् एवम्, तादर्थ्ये पुरुषे प्रधानभूते सति नाङ्गभूतः पुरुषः प्रतीयते, अनुक्ते हि न्याये न प्रतीमः, अर्थान्तरं यतो गुणभावात् प्रधानभावः, प्रधानभूतश् चात्र कर्ता, वचनस्यार्थवत्त्वात्. अतो न गुणभावः कर्तुर् अवकल्पते, चोदनैकत्वात्. एका हि विधायिका चोदना, सा यदि फलोत्पत्तिं यागोत्पत्तिं वा विधत्ते, तदा कर्ता न स्वार्थेन, यदा पुनः स्वार्थेन, तदा यागः फलं वा तादर्थ्येन. न चैतद् यौगपद्येन भवति, स्वार्थ एकः, तदर्थ इतरो वैपरीत्येन वेति, यथोभाभ्यां बाहुभ्याम् इषून् अस्यति देवदत्त इति गम्यते, न च यौगपद्येन, यदा दक्षिणेनास्यति, तदा सव्येन धनुःपृष्ठं नमयति, न तेनाप्य् अस्यतीति गम्यते, तत्र व्यापृतत्वात्. एवं यदा पुरुषप्राधान्यम्, तदा यागस्य फलस्य वा गुणभावो गम्यते. तत्र व्यापृतत्वान् न तयोः प्राधान्यम् अपि गम्यते. तस्मान् न यागे फले वा पुरुषस्य गुणभावः. अतो याथाकाम्यं स्यात्, एको द्वौ बहवो वा यजेरन्न् इति.
SK
[६३८]{*५/३१२*}
SK
NOTES: *{५/३१२: E२: ५,२२७; E६: २,१३०}*
SK
अपि वा कामसंयोगे संबन्धात् प्रयोगायोपदिश्येत, प्रत्यर्थं हि विधिश्रुतिर् विषाणावत्{*५/३१३*}//६.२.६//
SK
अपि वेति पक्षव्यावृत्तिः, प्रयोगायोपदिश्येत कर्ता, न स्वार्थेन. कथम्? यजेतेत्य् अस्यार्थः यागं कुर्यात्, यागेन वा कुर्याद् इति, सत्ताभिव्यक्तिमात्रं गम्यते, न फलस्य कर्ता धाता{*५/३१४*} वा, स्वर्गकामशब्दश् च स्वर्गकाममात्रे वर्तते, न विशेषम् अवलम्बते, आत्मनः परस्य वेति, शब्दप्रमाणकाश् च वयम् ईदृशेष्व् अर्थेषु. कथं तर्हि कामस्यात्मसंबन्धो ऽवगम्यते? संबन्धात्, फलकामो ऽनुक्ते ऽपि शब्देन, आत्मन एव फलं कामयते, न परस्य. यत्र तूभाव् अर्थौ वक्तव्यौ भवतः, प्रत्यर्थं तत्र विधिः श्रूयते, यथा, कृष्णविषाणया कण्डूयति, चात्वाले कृष्णविषाणां प्रास्यतीति{*५/३१५*}. यत्रैवं द्वे श्रुती विधात्र्यौ भवतः, तत्र गुणभावः प्राधान्यं च गम्यते. न त्व् अत्रैवं द्वे विधायिके श्रुती विद्येते. गुणभूतस् तु पुरुषः श्रूयते भावयेद् इति, तत्र यज्यर्थः करणं, कर्म वा. संबन्धात् तु पुरुषप्राधान्यम्, न कस्यचित् सुखेनोत्पन्नेन प्रयोजनम्, सुखसंबन्धेनात्मनस् तु कृत्यम्. तस्मात् संबन्धात् पुरुषप्राधान्यं गम्यते, न श्रुतेः. अतो गुणभूतस्य पुरुषस्य संख्या विवक्षितेति.
SK
NOTES: *{५/३१३: E२: विषाणवत्}* *{५/३१४: E२: धारता}* *{५/३१५: Tऐत्.S. ६.१.३.८}*
SK
अन्यस्य स्याद् इति चेत्//६.२.७//
SK
इति चेद् भवान् पश्यति, एवं सति यदि स्वर्गकामो ऽन्यस्यापि स्वर्गं कामयमानो भवति, अन्यस्य स्वर्गं कामयमानो ऽप्य् अन्यो यजेत. तत्र पूर्वोक्तो न्यायः प्रत्युद्धृतो भवति, शास्त्रफलं प्रयोक्तरीति{*५/३१६*}.
SK
[६३९]{*५/३१७*}
SK
NOTES: *{५/३१६: MS ३.७.१८}* *{५/३१७: E२: ५,२२९; E६: २,१३१}*
SK
अन्यार्थेनाभिसंबन्धः//६.२.८//
SK
न परस्य स्वर्गकाम इत्य्{*५/३१८*} एवं न यजेत, न, अन्यस्य{*५/३१९*} स्वर्गकामशब्दो न वाचक इति. कथं तर्हि? फलम् असौ न प्राप्नोतीति. कथं पुनः फलस्याप्राप्तिः? उपग्रहविशेषश्रवणात्, यजेतेति. यद् वाधाने, ब्राह्मणो वसन्ते ऽग्निम् आदधीतेति, तदा तु कामश्रुताव् उपग्रहो ऽनुवाद एव.
SK
NOTES: *{५/३१८: E२: स्वर्गकामो नेत्य्}* *{५/३१९: E२: नाप्य् अन्यस्य}*
SK
फलकामो निमित्तम् इति चेत्//६.२.९//
SK
एवं चेद् भवान् मन्यते, न स्वर्गकामशब्दो न वाचक इति, अन्यो न यजेत फलाभावात्, नास्य याग इति, सूक्तवाकफलार्थितया{*५/३२०*} तर्हि यजेत, आशास्ते ऽयं यजमानः आयुर् आशास्त इति{*५/३२१*} प्रयोजयितारं निर्देक्ष्यति होता, फलविधिश् च सूक्तवाकेन प्रस्तरं प्रहरतीति विधानात्, यदि फलविधिर् अयं मान्त्रवर्णिकः, तर्हि{*५/३२२*} सूक्तवाकेन प्रस्तरः प्रहृतो भवति, इतरथादृष्टं कल्प्येत. तस्माद् आनुषङ्गिकफलार्थम् अन्यस्य स्वर्गकामो ऽन्यो यजेतेति.
SK
NOTES: *{५/३२०: E२: सूक्तवाकफलार्थं}* *{५/३२१: Tऐत्.Bर्. ३.५.१०.४}* *{५/३२२: E२: मान्त्रवर्णिकी देवता, ततः}*
SK
न नित्यत्वात्//६.२.१०//
SK
नैतद् अस्ति, यस्यैव प्रधानकर्मफलम्, तस्यैवानुषङ्गिकम् अपि भवितुम् अर्हति, एवं स्वार्थेनाधानं कृतं भवति. न ह्य् आधानस्य स्वार्थतायाम् अस्ति विशेषः, प्रधानफलं वानुषङ्गिकं वा सर्वम् एवाधातरि समवेतुम् अर्हति, नित्यकाम्यता च विरुध्येत, यद्य् आयुरादिकामो{*५/३२३*} यजेत, न तर्हि नित्यम्, यदि नित्यं नायुरादिकामः. तस्मान् नावस्थितो न्यायः प्रत्युद्ध्रियेत{*५/३२४*}, न{*५/३२५*} च पुरुषः प्रधानभूतश् चोद्यते गुणभावात् त्व् अस्य विवक्षितम् एकत्वम्. तस्माद् एक एव यजेत.
SK
[६४०]{*५/३२६*}
SK
NOTES: *{५/३२३: E२: आयुरदिकामो}* *{५/३२४: Vग्ल्. zउ MS ३.७.१८}* *{५/३२५: E२ ओम्. न}* *{५/३२६: E२: ५,२३०; E६: २,१३२}*
SK
कर्म तथेति चेत्//६.२.११//
SK
अथ यद् उक्तम्, द्वयोर् बहूनां च यागं दर्शयति, युवं हि स्थः स्वःपती{*५/३२७*} इति{*५/३२८*} द्वयोर् यजमानयोः प्रतिपदं कुर्यात्, एते असृग्रम् इन्दव इति{*५/३२९*} बहुभ्यो यजमानेभ्यः प्रतिपदं कुर्याद् इति, द्वियजमानके बहुयजमानके च कर्मणि प्रतिपद् विधाने कर्म तथा युक्तं{*५/३३०*} स्याद् इति, तत् परिहर्तव्यम्.
SK
NOTES: *{५/३२७: E२: स्वर्पती}* *{५/३२८: ṚV ९.१९.२}* *{५/३२९: ṚV ९.५२.१}* *{५/३३०: E२: तथायुक्तं}*
SK
न समवायात्//६.२.१२//
SK
नैतद् एवम्, समवेतं हि कर्म विद्यते द्वाभ्यां यजमानाभ्यां बहुभिश् च यजमानैः, वचनेन, यथाहीनाः, तेषु प्रतिपद् विधानम् अर्थवद् भविष्यति. तस्माद् एको यजेतेति.
SK
प्रक्रमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात्{*५/३३१*}//६.२.१३//
SK
प्रजाकामो यजेत, ग्रामकामो यजेतेत्येवमादि कर्म समाम्नायते. तत्र संदेहः, किं प्रक्रान्तं नियोगतः समापनीयम् उतेच्छया कार्यं हेयं वेति. किं प्राप्तम्? नियोगतः परिसमापयितव्यम् इति. कुतः? एवं हि श्रूयते, इदं कामो यजेतेति, एवं तस्याख्यातस्यार्थम् उपदिशन्ति, उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् आहेति, उपक्रमाद् आरभ्य यावत् परिसमाप्तिर् इत्य् एतावान् व्यापारविशेषस् तस्यार्थः, न यथा पाकस् त्याग इति. तत्र हि पाकसत्तामात्रं निर्दिश्यते, नारभ्य परिसमापयितव्यम् [६४१]{*५/३३२*} इति. एवं चाख्यातार्थं लौकिका अपि प्रतिपद्यन्ते, तत्र नारम्भे पुरुषप्रयत्नश् चोद्यत इति गम्यते. यतश् चोदितं न नियोगत आरभन्ते, नियोगतः पुनः परिसमापयन्ति, तेन नोभे आरम्भपरिसमाप्ती{*५/३३३*} शब्दार्थः. किं तर्हि? परिसमाप्तिः शब्दार्थः, परिसमाप्त्याम् अर्थप्राप्तत्वाद् आरम्भस्य. तस्मात् परिसमाप्तिः शब्दार्थ इति गम्यते. सा चेच् छब्दार्थः, सा कर्तव्यतया चोद्यते, आरम्भे नास्ति कर्तव्यतावचनम्. तेन न नियोगत आरम्भः, नियोगतस् तु परिसमाप्तिः. तेनोपक्रान्ते कर्मणि यदि वीयात् फलेच्छा, अवाप्नोति वा फलम्, तस्याम् अप्य् अवस्थायाम्, कर्तव्यम् एवोपक्रान्तस्य परिसमापनम्.
SK
नन्व्{*५/३३४*} अर्थिनो यो ऽर्थः, सो ऽत्र कर्तव्यतयोच्यते. नैतद् एवम्, वाक्यार्थो हि स भवति, यागस्य तु कर्तव्यता श्रुत्या गम्यते. तस्माद् ग्रामकामेन{*५/३३५*} याग आरब्धः परिसमापनीयः. ग्रामादिकामनावचनं निमित्तत्वेन तदा भवति, निमित्ते चोत्पन्ने यत् कर्तव्यम् इत्य् उच्यते, तद्विनष्टे ऽपि निमित्ते कर्तव्यम् एव, उपक्रान्तस्य समापनं कर्तव्यम्, न हि तद्विनष्टम् अनुत्पन्नं भवति. उत्पत्तिश् च निमित्तम्, न भावः. तस्माद् वीतायाम् अपि फलेच्छायाम् उपक्रान्तं परिसमापयितव्यम्. क्रियाया हि निमित्तम् आरम्भः, सो ऽपि परिसमाप्तेर् इति.
SK
NOTES: *{५/३३१: E२: क्रियानियम्यत्वात्}* *{५/३३२: E२: ५,२३१; E६: २,१३२}* *{५/३३३: E२: आरम्भपरिसमाप्ति}* *{५/३३४: E२: कर्तव्यम् इति चोद्यते यद् इष्टफलम्. नन्व्}* *{५/३३५: E२: ग्रामादिकामेन}*
SK
फलार्थित्वाद् वानियमो यथानुपक्रान्ते//६.२.१४//
SK
वाशब्दः पक्षं व्यावर्तयति. अनियमो वा. कस्मात्? फलार्थित्वात् फलार्थिनः फलं चिकीर्षमाणस्योपायो{*५/३३६*} ऽयं विधीयते, न कर्तव्यता, सा हि विधीयमाना फलस्य वा यागस्य वा स्यात्. फलस्य न तावद् वक्तव्या, न हि यो यत् कामयते तस्य तत् कर्तव्यतोपदेष्टव्या, वेदैवासौ{*५/३३७*} मयैवैतत् कर्तव्यम्{*५/३३८*} [६४२]{*५/३३९*} इति, उपायं तु न वेद, तम् आकाङ्क्षते. इदम् उपदिश्यते, याग उपाय इति, यागेन क्रियत इति. न च यागस्य कर्तव्यता, प्रत्यक्षविरोधात्, प्रत्यक्षस् तु क्लेशो यागः, यदि यागेनान्यस्य कर्तव्यता, तदा न विरोधः. यागकर्तव्यतायां फलं कल्प्यम्, न च कल्प्यमानस्य प्रमाणम् अस्ति. कर्तव्योपदेशश् च शक्यादिष्व् अर्थेषु भवति, तस्मान् न यागः कर्तव्यः. फलकामस्य यद् इष्टं तत् कर्तव्यम् अनूद्य यथाप्राप्तं यागस्य साधनता विधीयते, तेन नावश्यं समापनीयं भवति, यथानुक्रान्तं नावश्योपक्रमितव्यम्, एवम् उपक्रान्तं नावश्यं समापयितव्यम्. यत् तु वाक्यार्थः श्रुत्या बाध्यत इति, यत्र श्रुत्यर्थो न संभवति, तत्र वाक्यार्थो गृह्यत इत्य् उक्तम् एव. तस्माद् अनियमः.
SK
NOTES: *{५/३३६: E१ गिब्त् फलं चिकीर्षमाणस्य इन् Kलम्मेर्न्}* *{५/३३७: E२: वेदैवासो}* *{५/३३८: E२: मयैतत् कर्तव्यम्}* *{५/३३९: E२: ५,२३२; E६: २,१३३}*
SK
नियमो वा तन्निमित्तत्वात् कर्तुस् तत् कारणं स्यात्//६.२.१५//
SK
आरम्भो हि निमित्तं समाप्तेः. कथम्? तत् कर्तुः कारणं स्यात्. किं कारणम्? सत्यसंकल्पता यो ह्य् आरब्धम् एवंजातीयकं समापयति, न तं{*५/३४०*} शिष्टा विगर्हन्ते, प्राक्रमिको ऽयम् असंव्यवहार्य इति, शिष्टविगर्हणा च दोषः. तस्माद् आरभ्य समापयितव्यम्. आह, शिष्टाः पुनः किम् अर्थं विगर्हन्त इति. उच्यते, विगर्हन्ते तावत्, किं नो विदितेन कारणेनेति.
SK
[६४३]{*५/३४१*}
SK
NOTES: *{५/३४०: E२: न समापयति, तं}* *{५/३४१: E२: ५,२३३; E६: २,१३४}*
SK
लोके कर्माणि वेदवत् ततो ऽधिपुरुषज्ञानम्//६.२.१६//
SK
केनचिद् गृहम् उपक्रान्तं भवति शकटं रथो वा, वीतास्य फलेच्छा, अवाप्नोति वा फलम्. तत्र संदेहः, किं तेन नियोगतः परिसमापयितव्यम्, उतेच्छयोत्स्रष्टव्यम् अपीति. किं प्राप्तम्? लोके कर्माण्य् एवंजातीयकान्य् उपक्रम्य परिसमापयितव्यानि, यथैव वैदिकानि तथैव तानि नियोगतः परिसमापयीयानि. कुतः? ततो ऽधिपुरुषज्ञानम्, ततस् तत्पुरुषज्ञानं भवितुम् अर्हति. कुतः? शास्त्रात्, आम्नायते हि तक्ष्णां शास्त्रम्, तत्रापि देवताव्यापारो ऽङ्गीक्रियते, पूर्वस्यां दिश्य् एता देवता इतरास्व् एता इति, यदि{*५/३४२*} शास्त्रकृते देवताव्यापार उपकम्यापरिसमाप्यमाने शिष्टविगर्हणम्, एवम् इहापि भवितुम् अर्हति.
SK
NOTES: *{५/३४२: E२: यथा}*
SK
अपराधे ऽपि च तैः शास्त्रम्//३.२.१७//
SK
तेषां च लौकिकानाम् अपराधे तैस् तक्षभिः प्रायश्चित्तशास्त्रम् आम्नायते, आरे भग्न इन्द्रबाहुर् बद्धव्यः पायसं च ब्राह्मणो भोजयितव्य इति. प्रायश्चित्तं च यद्य् अदृष्टार्थम्, न शास्त्रादृते. अथ प्रसङ्गपरिहारार्थम्, ततो ऽप्य् अदृतम् एव तद् इति गम्यते.
SK
[६४४]{*५/३४३*}
SK
NOTES: *{५/३४३: E२: ५,२३३; E६: २,१३४}*
SK
अशास्त्रा तूपसंप्राप्तिः{*५/३४४*} शास्त्रं स्यान् न प्रकल्पकम्, तस्माद् अर्थेन गम्येताप्राप्ते वा शास्त्रम्{*५/३४५*} अर्थवत्//६.२.१८//
SK
तुशब्दः पक्षं व्यावर्तयति. अशास्त्रा त्व् एषाम् उपसंप्राप्तिर् इति ब्रूमः. स्मृतेर् अस्याः शास्त्रं भवतानुमीयते, न शास्त्रम् अन्तरेण स्मृतिः, न च स्मृतिम् अन्तरेण तक्ष्णां ग्रन्थ उपपद्यत इति. अत उच्यते, भवत्य् अत्र स्मृतिः, एवम् इदं गृहादि कर्म रमणीयं भवतीति, नास्मात् कर्मणो ऽदृष्टं किंचिद् इति. या चासौ रमणीयता सान्तरेणापि शास्त्रम्, शक्या ज्ञातुम्, ज्ञात्वा च स्मर्यते. तस्मात् नास्याः स्मृतेः शास्त्रं प्रकल्प्यम्. यद्य् अन्तरेण शास्त्रम्, न प्राप्येत, ततः शास्त्रम् अत्रार्थवद् इति प्रकल्प्येत. तस्मान् नेदं शास्त्रोक्तम्, शास्त्रोक्ते च सामिकृते त्यक्ते ऽत्यन्तं शिष्टा गर्हन्ते, देवताश्रये च. नन्व् अत्रापि देवताः परिगृहीताः, अस्यां दिशीयं देवता यक्ष्यते ऽस्याम् इयम् इति. उच्यते, पुरुषम् अनु देवताः शिष्टाः स्मर्यन्ते, न ग्रहम् अनु, तस्माद् अदोष इति.
SK
NOTES: *{५/३४४: E२: तूपसंप्राप्ति}* *{५/३४५: E२,६: वा शास्त्रम्}*
SK
प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम्//६.२.१९// इदं ह्य् उपदिशन्ति, न कलञ्जं भक्षयितव्यम्, न लशुनं न गृञ्जनं चेति. तत्र संदेहः, किम् एवंजातीयकं फलकामेन न भक्षयितव्यम्, निष्कामेणाद्यम्, अथ वा नियोगतो वर्जयितव्यम् एवेति. किं प्राप्तम्? फलार्थिना न भक्षयितव्यम्, अनर्थिनो ऽनियम इति. कुतः? नियमो ह्य् अयम् उच्यते, इदं न भक्षयितव्यम् इति, एवम् उक्ते द्वयम् आपतति, [६४५]{*५/३४६*} यदि वाभक्षणं कर्तव्यम् इति, यदि वा भक्षणं न कर्तव्यम् इति, यदि नञ्विशिष्टं भक्षणं कर्तव्यम् इत्य् अभ्युपगम्यते, ततो ऽभक्षणं श्रुत्या तव्यो विदधाति, नञ् भक्षयति विशेषणम्. तद्व्यापाराच् च कर्तव्यतया नञ् न संबध्यते{*५/३४७*}. अथ नञर्थः कर्तव्यः, ततो वाक्येन निधानम्, भक्षयतिश् च नञ्विशेषणम्, श्रुतिश् च वाक्याद् बलीयसी. तस्माद् अभक्षणं कर्तव्यम् इति गम्यते, अभक्षणं च भक्षणाभावः, न तस्य कर्तव्यतास्ति. तस्माद् यस् तत्र मानसो व्यापारः, स इहोपदिश्यते, येनोपायेन नञ्विशिष्टं भक्षणं भवति. पूर्वं नञ्भक्षयत्योः संबन्धः, ततो विधानम्. यथा, नोद्यन्तम् आदित्यम् ईक्षेतेत्येवमादिषु प्रजापतिव्रतेषु कुर्वतः फलम्, अकुर्वतो न फलं न दोषः, एवम् इहापि, विभक्तत्वाद् अकर्मणाम्, नात्र कर्म प्रतिषिध्यते, अकर्ममात्रम् उपदिश्यते, अन्यद् धि कर्म भक्षणं प्रतिषिध्यमानम्, अन्यद् अकर्म मानसः संकल्प इति.
SK
NOTES: *{५/३४६: E२: ५,२३४; E६: २,१३५}* *{५/३४७: Jह स्छ्ल्äग्त् वोर्, मित् MS नञ् संबध्यते zउ लेसेन्}*
SK
शास्त्राणां त्व् अर्थवत्त्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः//६.२.२०//
SK
उपवर्णनापरिहारस् तावद् उच्यते, युक्तं यत् प्रजापतिव्रतेषु शास्त्राणाम् अर्थवत्त्वेन पुरुषार्थो विधीयते. तत्र नियमः कर्तव्यतयोपदिश्यते, यश् च कर्तव्यः, स कल्याणोदयः, यो न कर्तव्यः स पापोदयः. कथं पुनः प्रजापतिव्रतेषु नियमः कर्तव्यतया चोद्यत इति. उच्यते, तस्य व्रतम् इति प्रकृत्य प्रजापतिव्रतानि समाम्नातानि, व्रतम् इति च मानसं कर्मोच्यते. इदं न करिष्यामीति यः संकल्पः. कतमत् तद् व्रतम्? नोद्यन्तम् आदित्यम् ईक्षेतेति, यथा तदीक्षणं न भवति, तथा मानसो व्यापारः कर्तव्यः, तस्य च पालनम्. तत्र तस्मात् पुरुषार्थो ऽस्तीत्य् अवगन्तव्यम्. तत्र चैतान्य् एव [६४६]{*५/३४८*} प्रकृत्योच्यते, एतावता हैनसायुक्तो भवतीति, एतावता कृतेनायुक्त एनसा भवतीति{*५/३४९*}. अथेह तयोर् असमवायित्वम्, इह क्रिया प्रतिषिध्यते, नाक्रियोपदिश्यते, न हि कलञ्जं भक्षयन् प्रतिषेधाविधिं नातिक्रामति, इह पुनर् आदित्यं पश्यन् नातिक्रामति विधिम्, न हि तस्य दर्शनं प्रतिषिद्धम्. नियमस् तत्रोपदिष्टः, यस् तं नियमं करोति, स फलेन संबध्यते, इह तु प्रतिषिध्यते कलञ्जादि. कथम् अवगम्यते? नात्र तस्य, व्रतम् इति प्रकृत्य वचनम् अस्ति. न च, न भक्षयितव्यम् इत्य् अस्य मानसो व्यापारो ऽर्थः, भक्षयितव्यम् इति च भक्षणं कर्तव्यं शब्देनोच्यते, नेति तत् प्रतिषिध्यते श्रुत्यैव. एवं प्रसिद्धो ऽर्थो ऽनुगृहीतो भवति, इतरथा लक्षणा स्यात्, श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या न लक्षणा. तस्माद् इह प्रतिषेधः. उच्यते, अस्तु प्रतिषिद्धं{*५/३५०*} नाम, दोषो ऽत्र न श्रूयते. तस्मात् प्रतिषिद्धम् अप्य् अनुष्ठातव्यम् इति. कल्पयिष्यत इति चेत्, न, प्रमाणाभावात्. अर्थापत्तिः प्रमाणम्, उपदेशवैयर्थप्रसङ्गाद्{*५/३५१*} इति यद्य् उच्येत. नैतद् एवम्, व्यर्थो ऽपि ह्य् उपदेशो ऽज्ञानात् संभवति. तस्मान् न कल्प्यो दोष इत्य्. उच्यते, सत्यं न कल्पनीयः, किं तु कॢप्त एव. कथम्? अनन्तरम् एवैनं शिष्टा वर्जयेयुः, पतितः कर्मफलेभ्य इति वदन्तः, महांश् चैष दोषः, यच् छिष्टा वर्जयन्ति. तस्मान् नियोगतः कलञ्जादि न भक्षयितव्यम् इति, यथा, न सर्पायाङ्गुलिं दद्यात्, तत्र दोषदर्शनान् नियोगतो न सर्पायाङ्गुलिर् दीयते, कण्टको वा न पादेनाधिष्ठीयते, एवम् इदम् अपीति.
SK
[६४७]{*५/३५२*}
SK
NOTES: *{५/३४८: E२: ५,२३६; E६: २,१३६}* *{५/३४९: E१ गिब्त् एतावता कृतेनायुक्त एनसा भवति इन् Kलम्मेर्न्}* *{५/३५०: E२: उच्यते. आह, प्रतिषिद्धं}* *{५/३५१: E२,६: उपदेशवैयर्थ्यप्रसङ्गाद्}* *{५/३५२: E२: ५,२३७; E६: २,१३७}*
SK
तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन्//६.२.२१//
SK
इह स्मार्ताः पदार्था उदाहरणम्, प्रत्युपस्थितनियमाश् चाचाराः, गुरुर् अनुगन्तव्यो ऽभिवादयितव्यश् च, वृद्धवयाः प्रत्युत्थेयः संमन्तव्यश् चेति. तत्र संदेहः, किं जातमात्राणाम् इमे पदार्था उतोपनीतानाम् इति. किं प्राप्तम्? अविशेषोपदेशात् जातमात्राणाम्. कुतः? पुरुषे ते शिष्यन्ते, जातमात्रश् च पुरुषो भवति. तस्माज् जातमात्राणाम् इमे पदार्थाः, इत्य् एवं प्राप्ते ब्रूमः,
SK
अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन्//६.२.२२//
SK
अपि वेति पक्षव्यावृत्तिः. उपायेन प्रवर्तेरन् उपनयनेन सह प्रवर्तेरन्{*५/३५३*}, वेदतुल्यत्वात्. वेदतुल्या हि स्मृतिः, वैदिका एव पदार्थाः स्मर्यन्त इत्य् उक्तम्{*५/३५४*}. वैदिकाश् च पदार्था उपनयनोत्तरकाले समाम्नाताः, स्मार्ताश् चैते वैदिका एव, तस्माद् उपनयनोत्तरकाला एत इति.
SK
[६४८]{*५/३५५*}
SK
NOTES: *{५/३५३: E१ गिब्त् उपनयनेन सह प्रवर्तेरन् इन् Kलम्मेर्न्}* *{५/३५४: Vग्ल्. zउ MS १.३.१}* *{५/३५५: E२: ५,२३८; E६: २,१३७}*
SK
अभ्यासो ऽकर्मशेषत्वात् पुरुषार्थो विधीयते//६.२.२३//
SK
इदम् आम्ननति, यावाज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति पुरुषार्थो ऽयं यागो विधीयते{*५/३५६*}, नायम् अभ्यासः कर्मशेष इत्य् उक्तम्. इहेदानीं संदिह्यते, किं सातत्येन होतव्यम्, उत न सातत्येनेति{*५/३५७*}. किं प्राप्तम्? पुरुषं प्रत्युपदिष्टत्वात् सातत्येन, अयं पुरुषः इति सातत्येनानुष्ठातव्यम्. ननु प्रदोषम् अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति श्रूयते, पौर्णमास्यां पौर्णमास्येन{*५/३५८*} यजेत, अमावास्यायाम् अमावास्ययेन{*५/३५९*} यजेतेति. नैष सर्वाङ्गोपसंहारेण प्रयोगः. अतः कालमात्रे हीने न दोषः.
SK
NOTES: *{५/३५६: Vग्ल्. देन् zwएइतेन् अध्याय}* *{५/३५७: E२: उतासातत्येनेति}* *{५/३५८: E२: पौर्णमास्या}* *{५/३५९: E२: अमावास्यया}*
SK
तस्मिन्न् असंभवन्न् अर्थात्//६.२.२४//
SK
नैतद् अस्ति, यत्, जुहुधि जुहुधीत्य् एव होतव्यम् इति, यथा शक्नोति, तथा जुहुयाद् इत्य् उच्यते, न च सातत्येन शक्यते, अवश्यम् अनेन आहारविहाराः कर्तव्याः. तस्माद् अर्थाविरुद्धेषु कालेषु सततं होतव्यम्{*५/३६०*} इति.
SK
NOTES: *{५/३६०: E२: सततं होतव्यम्}*
SK
न कालेभ्य उपदिश्यन्ते//६.२.२५//
SK
न चैतद् अस्ति, यद् उक्तम्, अर्थाविरुद्धेषु कलेषु सततं होतव्यम् इति, काल एषः श्रूयते, प्रदोषम् अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति. तथा, पौर्णमास्यां पौर्णमास्येन{*५/३६१*} यजेत, अमावास्यायाम् अमावास्ययेन{*५/३६२*} यजेतेति. तस्मान् न [६४९]{*५/३६३*} सातत्यम् इति. आह, ननु विगुणस्यापि प्रयोगान् न काल आदरणीय इति. अत्रोच्यते, न कालो गुणः, निमित्तं ह्य् एतद् इत्य् उक्तम्. तस्माद् अन्येषु कालेष्व् अविहितत्वात् कृतम् अप्य् अकृतं स्यात्. तस्माद् आश्रितकालस्य यावज्जीवं प्रयोग इति.
SK
NOTES: *{५/३६१: E२: पौर्णमास्या}* *{५/३६२: E२: अमावास्यया}* *{५/३६३: E२: ५,२३८; E६: २,१३८}*
SK
दर्शनात् काललिङ्गानां कालविधानम्//६.२.२६//
SK
लिङ्गं च भवति, अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावस्यां वातिपातयेद् इति{*५/३६४*}. यदि सर्वस्मिन् काले होमः, तदा कस्यातिपत्तिः स्यात्. तस्माद् अपि न सततम् अभ्यासः.
SK
NOTES: *{५/३६४: Tऐत्.S. २.२.५.४}*
SK
तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत//६.२.२७//
SK
प्रदोषे{*५/३६५*} अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातर् इति, तथा, पौर्णमास्यां पौर्णमास्येन{*५/३६६*} यजेत, अमावास्यायाम् आमावास्ययेन{*५/३६७*} यजेतेति. तत्र संदेहः, किं सकृत् प्रदोष होतव्यम्, उत प्रदोषे प्रदोष इति, तथा सकृद् व्युष्टायां प्रातः, उत व्युष्टायां व्युष्टायाम् इति, तथा किं सकृत् पौर्णमास्याम् अमावास्यायां वा, उतागत आगते काल इति. किं प्राप्तम्? सकृत् कृत्वा कृतार्थः शब्दः, न नियमः पौनःपुन्ये. इत्य् एवं प्राप्ते ब्रूमः, आगमेन प्रवर्तेत, आगत आगते काले प्रयोगः कर्तव्य इति. कुतः? तेषाम् औत्पत्तिकत्वात्, उत्पद्यमानं कर्म कालसंयुक्तम् एवोत्पद्यते, तद् उक्तम्, निमित्तार्थाः [६५०]{*५/३६८*} कालश्रुतय इति, निमित्ते च संप्राप्ते नैमित्तिको ऽर्थः कर्तव्यो भवति. तस्माद् आगत आगते काले प्रयोगः कर्तव्यः.
SK
NOTES: *{५/३६५: E२: प्रदोषम्}* *{५/३६६: E२: पौर्णमास्या}* *{५/३६७: E२: आमावास्यया}* *{५/३६८: E२: ५,२३९; E६: २,१३८}*
SK
तथा हि लिङ्गदर्शनम्//६.२.२८//
SK
अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावास्यां वातिपातयेद् इति{*५/३६९*}, आगत आगते काले प्रयोगं दर्शयति.
SK
NOTES: *{५/३६९: Tऐत्.S. २.२.५.४}*
SK
तथान्तःक्रतुप्रयुक्तानि//६.२.२९//
SK
भिन्ने जुहोति, स्कन्ने जुहोतीति दर्शपूर्णमासयोः श्रूयते. तत्र संदेहः, सकृद् भिन्ने स्कन्ने च हुत्वा कृतार्थः, उत भिन्ने भिन्ने, स्कन्ने स्कन्ने चेति. तत्राधिकरणातिदेशः, यः पूर्वत्र{*५/३७०*} पूर्वः पक्षः, स इह पूर्वः{*५/३७१*}, य उत्तरः स इहोत्तर इति. सकृत् कृत्वा कृतार्थ इति पूर्वः पक्षः, निमित्तत्वात् पुनः प्रयोग इत्य्{*५/३७२*} उत्तरः.
SK
NOTES: *{५/३७०: E२ ओम्. पूर्वत्र}* *{५/३७१: E२: पूर्वः पक्षः}* *{५/३७२: E२: निमित्तत्वाद् आगत आगते काल इत्य्}*
SK
आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात्//६.२.३०//
SK
गुरुर् अनुगन्तव्यो ऽभिवादयितव्यश् च, वृद्धवयाः प्रत्युत्थेयः संमन्तव्यश् चेति. तत्र संदेहः, किम् आगत आगते गुरौ, वृद्धवयसि च, यद् उक्तम्, तत् कर्तव्यम्, उत सकृत् कृते कृतार्थेति. आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वाद् इत्य् अधिकरणातिदेशः. तत्र यः पूर्वः पक्षः, स इह पूर्वः{*५/३७३*}, य उत्तरः स उत्तरः, सकृत् कृत्वा कृतार्थ इति पूर्वः [६५१]{*५/३७४*} पक्षः, निमित्तत्वात् पुनः प्रयोग इत्य् उत्तरः.
SK
NOTES: *{५/३७३: E२: पूर्वः पक्षः}* *{५/३७४: E२: ५,२४०; E६: २,१३९}*
SK
ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवक्येन संयोगात्//६.२.३१//
SK
इदं श्रूयते, सोमेन यजेत{*५/३७५*}, गर्भाष्टमेषु ब्राह्मणम् उपनयीत, प्रजाम् उत्पादयेद् इति. तत्र संदेहः, किं नित्यान्य् एतान्य् उतानित्यानीति. किं प्राप्तम्? कामसंयोगाद् अनित्यानि. इति प्राप्त उच्यते, ब्राह्मणादीनां सोमादीनि नित्यानीति. कुतः? ऋणवाक्येन हि संयोगो भवति, जायमानो ह वै ब्राह्मणस् त्रिभिर् ऋणवा जायते, यज्ञेन देवेभ्यो ब्रह्मचर्येण ऋषिभ्यः{*५/३७६*} प्रजया पितृभ्य इति, स वै तर्ह्य् अनृणो यदा यज्वा ब्रह्मचारी प्रजावान् इति{*५/३७७*}, ऋणसंस्तवो ऽवश्यकर्तव्यानां भवति, तस्मान् नित्यानीति. ननु लिङ्गम् असाधकम्, न्याय उच्यताम्, यस्यैतद् द्योतकम् इति. उच्यते, अकामसंयुक्तान्य् एषां पृथग् वाक्यानि भवन्ति, वसन्ते वसन्ते ज्योतिषा यजेत, यावज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेत. तथा, विद्याम् अधीयीत. तथा, प्रजा उत्पादयितव्येति. एवं नित्यतायाः प्राप्ताया इदं लिङ्गं भवतीति.
SK
अथ वा, अयम् अन्यो ऽर्थः, ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात्, सोमादयो नियताः किं ब्राह्मणस्यैव, [६५२]{*५/३७८*} राजन्यवैश्ययोर् अनियताः, उत सर्वेषां नियता इति. किं प्राप्तम्? ब्राह्मणस्यैव नियता नेतरयोर् इति. कुतः? एवं श्रूयते, जायमानो ह वै ब्राह्मण इति, ब्राह्मणस्य नियमो दृश्यते, नेतरयोः, ब्राह्मणसंकीर्तनात्. एवं प्राप्ते ब्रूमः, सर्वेषां नियमः. कुतः? अविशेषेण नियमविधानं यत्, तद् अकामसंयुक्तं वचनं नियामकम्, तद् अविशिष्टं सर्वेषाम्, तस्मात् सर्वेषां नियम इति. ननु जायमानो ह वै ब्राह्मण इति ब्राह्मणस्य संकीर्तनम्. उच्यते, भवत्य् अस्मिन् वचने ब्राह्मणसंकीर्तनम्, न त्व्{*५/३७९*} एतन्{*५/३८०*} नियमस्य विधायकम्, एतैर् अकामसंयुक्तैर् वचनैर् विहितभ्य नियमस्यानुवादो ऽयम् अवदानस्तुत्यर्थः, तस्मान् नात्र ब्राह्मणसंकीर्तनेन राजन्यस्य वैश्यस्य वानियमो विज्ञायते. ब्राह्मणग्रहणं तु प्रदर्शनार्थम्, जायमानो{*५/३८१*} ब्राह्मणो राजन्यो वैश्यो वेति{*५/३८२*}, तथा जायमानो जातश् चेति.
SK
[६५३]{*५/३८३*}
SK
NOTES: *{५/३७५: Tऐत्.S. २.५.६.१}* *{५/३७६: E२ हत् यज्ञेन देवेभ्यः नछ् ऋषिभ्यः}* *{५/३७७: Tऐत्.S. ६.३.१०.५}* *{५/३७८: E२: ५,२४१; E६: २,१३९}* *{५/३७९: E२: ह्य्}* *{५/३८०: E२: एतद् वचनं}* *{५/३८१: E२: यजमानो}* *{५/३८२: E२: वैश्यश् चेति}* *{५/३८३: E२: ५,२४२; E६: २,१४०}*
SK
सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात्//६.३.१//
SK
बह्वृचब्रह्मणे श्रूयते, यावज्जीवम् अग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति, नित्यम् अग्निहोत्रम्, नित्यौ च दर्शपूर्णमासौ. तत्र यद् एतत् कामश्रवणाद् अन्यद् अकामश्रवणं{*५/३८४*} द्वितीयम्, तत्र संदेहः, किं यः कार्त्स्न्येन विधिम् उपसंहर्तुं शक्नोति, तस्यैवाधिकारः, उत विगुणम् अपि तत् प्रयोक्तव्यम् इति. एकादशे{*५/३८५*} कामसंयुक्ते प्रथमे श्रवणे चिन्तयिष्यते साङ्गे, इह नित्ये श्रवणे द्वितीय इति. किं प्राप्तम्? सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात्, यः कार्त्स्न्येन विधिम् उपसंहर्तुं शक्नोति, स एवानुतिष्ठेत्, तथाभूतोपदेशात्, यथाभूतं हि तत् कामसंयुक्तं श्रुतम्, तथाभूतम् एव नित्यम् अप्य् उपदिश्यते. तस्मात् सर्वाङ्गोपहारेण प्रयोगः कर्तव्यः. दर्शपूर्णमासशब्दश् च साङ्गस्यैव वाचकः. कथम्? पौर्णमास्याम् अमावास्यायां च साङ्गं विधीयते. यच् च पौर्णमास्यां विहितम्, [६५४]{*५/३८६*} सा च पौर्णमासी. यद् अमावास्यायां विहितम्, सा चामावास्येति, साङ्गम् अमावास्यायां विहितम्, पौर्णमास्यां च, तस्मात् साङ्गं दर्शपूर्णमासशब्देनोच्यत इति जैमिनिर् मन्यते स्म{*५/३८७*}.
SK
NOTES: *{५/३८४: E२: अन्यकामश्रवणं}* *{५/३८५: Vग्ल्. MS ११.१.११-१९}* *{५/३८६: E२: ५,२४३; E६: २,१४०}* *{५/३८७: E२ गिब्त् जैमिनिर् मन्यते स्म इन् Kलम्मेर्न्}*
SK
अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिवृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात्//६.३.२//
SK
अपि वेति पक्षव्यावृत्तिः. अप्य् एकदेशे ऽङ्गानां स्याद् एव प्रयोगः, यतः साङ्गस्याप्य् अनङ्गस्यापि प्रयुज्यमानस्य प्रधानाद् एवायम् अर्थो निष्पद्यते, गुणमात्रं सर्वाङ्गप्रयोगेण भवति. को गुणः? साङ्गात् स्वर्गाभिनिर्वृत्तिः, प्रधानमात्राद् इदम् अन्यत् फलम्. तस्मात् स्वर्गप्राप्त्यर्थं संपूर्णाङ्गं करिष्यामीत्य् आरब्धम्. यदि कानिचिद् अङ्गानि न शक्नोति कर्तुम्, तथाप्य् अस्माद् एकदेशाङ्गगुणयुक्तात् प्रधानात् फलं भविष्यति. तस्मात् प्रधानमात्रस्य प्रयोगम् आह, नाङ्गानाम्. दर्शपूर्णमाशब्दको ऽग्निहोत्रशब्दकश् च प्रधानपदार्थो ऽन्यान्य् अङ्गानि तदर्थानीति.
SK
तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसंबन्धात्//६.३.३//
SK
प्रधानातिक्रमे दोषः श्रूयते, अप वा एष स्वर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीम् अमावास्यां वातिपातयेद् इति{*५/३८८*} प्रधानातिक्रमे दोषं ब्रुवंस् तस्य नित्यतां दर्शयति.
SK
NOTES: *{५/३८८: Tऐत्.S. २.२.५.४}*
SK
कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति//६.३.४//
SK
यद् उक्तम्, नास्ति भेदः, इमान्य् अङ्गानि, इमानि प्रधानानि [६५५]{*५/३८९*} इति, प्रयोगवचनैकत्वाद् इति जैमिनिर् आह स्म. सर्वेषाम् उपदेशकः, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावास्यया यजेतेति.
SK
NOTES: *{५/३८९: E२: ५,२४७; E६: २,१४१}*
SK
अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु//६.३.५//
SK
एकाङ्गप्रयोगे ऽपि स्याद् विगुणाद् अपि फलम् इत्य् अर्थः. कुतः? अर्थस्य व्यपवर्गित्वात्. व्यपवृक्तम् अङ्गेभ्यः प्रधानम्, अग्निहोत्रसंज्ञकाद् दर्शपूर्णमाससंज्ञकाच् च फलम् इह भवति. तद् धि कर्तव्यतयोपदिश्यते. यत् पौर्णमास्याम् उपदिष्टम्, सा पौर्णमासी, यद् अमावास्यायां सामावास्या, यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति{*५/३९०*}. तस्माद् अग्नये पुरोडाशो ऽग्नीषोमाभ्यां च, आज्यं चाग्नीषोमादिभ्यः पौर्णमास्याम्. आग्नेयसांन्याय्यादीनाम् अमावास्यायाम्{*५/३९१*}. यद् उक्तम्, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावास्यया यजेतेति साङ्गस्य विधानात् साङ्गं दर्शपूर्णमासशब्देनाभिधीयत इति. नैतद् एवम्, सिद्धे हि दर्शार्थे पूर्णमासार्थे च साङ्गं फले विधीयते. तस्मान् न साङ्गम् अग्निहोत्रपदवाच्यं दर्शपूर्णमासपदवाच्यं च{*५/३९२*}. यच् चाग्निहोत्रं तद् इह चोद्यते कर्तव्यतया, यौ च दर्शपूर्णमासौ. तस्माद् विगुणम् अपि कर्तव्यम् एवाग्निहोत्रं दर्शपूर्णमासौ च. यथा क्रत्वन्तरेषु प्रकृतिविकृतिषु परस्य धर्माः परस्य न भवन्ति, एवं न कामसंयुक्तस्य धर्मा नित्यस्य भवितुम् अर्हन्ति.
SK
NOTES: *{५/३९०: Tऐत्.S. २.६.३.३}* *{५/३९१: E२: अमावास्यया}* *{५/३९२: E२ ओम्. च}*
SK
विध्यपराधे च दर्शनात् समाप्तेः//६.३.६//
SK
विध्यपराधेषु च समाप्तिं दर्शयति, तद् एव यादृक्{*५/३९३*} तादृग् होतव्यम् इति{*५/३९४*} विगुणस्य समाप्तिं दर्शयति.
SK
[६५६]{*५/३९५*}
SK
NOTES: *{५/३९३: E२ ओम्. यादृक्}* *{५/३९४: Tऐत्.Bर्. १.४.३.५}* *{५/३९५: E२: ५,२४९; E२: २,१४२}*
SK
प्रायश्चित्तविधानाच् च//६.३.७//
SK
विध्यपराधे च प्रायश्चित्तानि विधीयन्ते, निमित्ते कर्माङ्गभूतानि, यथा भिन्ने जुहोतीति. विगुणे निष्फले सति कस्याङ्गभूतैः प्रयोजनं स्यात्? तस्मात् विगुणानाम् अपि प्रयोगः कर्तव्य इति.
SK
काम्येषु चैवम् अर्थित्वात्//६.३.८//
SK
ऐन्द्राग्नम् एकादशकपालं निर्वपेत् प्रजाकामः{*५/३९६*}, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चस्कामः{*५/३९७*}, वैश्वदेवीं सांग्राहायणीं{*५/३९८*} निर्वपेद् ग्रामकाम{*५/३९९*} इत्येवमादिषु संदेहः, किं विगुणम् अपि फलवत्, उताविगुणम् एव फलवद् इति. किं प्राप्तम्? काम्येषु चैवं स्यात्, विगुणम् अपि फलवद् इति. कुतः? अर्थित्वात्. यदि विगुणम् अपि फलवद् एवम् अर्थिमात्रम् अधिकृतं भविष्यति, अन्यथा सामान्यशब्दो ऽन्तरेण विशेषम्, विशेषे ऽवस्थापितो भविष्यति. असमर्थत्वान् नाधिक्रियत इति चेत्. साङ्गं न समर्थः कर्तुम्, प्रधानमात्रं तु शक्नोति, प्रधानमात्रे ऽधिकरिष्यति.
SK
NOTES: *{५/३९६: Tऐत्.S. २.२.१.२}* *{५/३९७: Tऐत्.S. २.३.२.३}* *{५/३९८: E२: सांग्रहणीं}* *{५/३९९: Tऐत्.S. २.३.९.२}*
SK
असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात्//६.३.९//
SK
तुशब्दात् पक्षो विपरिवर्तते. नैवं स्यात्, यद् उक्तं विगुणम् अपि फलवद् इति, असंयोगात् प्रधानमात्रस्य फलेन, साङ्गाद् [६५७]{*५/४००*} धि फलं श्रूयते प्रधानात्, न केवलात्. तेन यद्य् अपि केवलम् उच्यते, तथापि नैवंजातीयकं तत् कुर्यात्, न केवलस्य फलेन संयोग इति, शब्दप्रमाणकश् चायम् अर्थो विधीयते. शब्दश् च साङ्गात् फलम् आहेति वक्ष्यामः{*५/४०१*}. तस्मान् न विगुणं कर्म कर्तव्यम् एवंजातीयकम् इति.
SK
NOTES: *{५/४००: E२: ५,२४९; E६: २,१४२}* *{५/४०१: Vग्ल्. zउ MS ११.१.१.ff}*
SK
अकर्मणि चाप्रत्यवायात्//६.३.१०//
SK
न चात्र प्रधानमात्रस्याकर्मणि प्रत्यवाय उच्यते, यथा दर्शपूर्णमासयोः. तस्माद् अपि न विगुणम् एवंलक्षणकं कर्म प्रयोक्तव्यम् इति.
SK
क्रियाणाम् आश्रितत्वात् द्रव्यान्तरे विभागः स्यात्//६.३.११//
SK
दर्शपूर्णमासयागः पुरोडाशेनोक्तः, स च पुरोडाशो व्रीहिमयः कर्तव्य इति श्रूयते. तत्रैतच् चिन्त्यते, यदि नीवारमयेन पुरोडाशेन यागः क्रियेत, किं स एव यागः स्यात्, उतान्य इति. किं प्राप्तम्? द्रव्यान्तरे विभागः स्यात्, अन्यो यागः{*५/४०२*}. कुतः? आश्रितत्वात्, आश्रयभेदाद् धि गम्यते विशेषः. अयम् अन्यो नीवाराश्रयो व्रीह्याश्रयाद् इति. आश्रयभेदस् तावद् विस्पष्ट एव, तद्भेदाद् रूपम् अपि भिन्नं गम्यते. तस्माद् अन्यो यागो द्रव्यान्तर इति.
SK
NOTES: *{५/४०२: E१ गिब्त् अन्यो यागः इन् Kलम्मेर्न्}*
SK
अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐकर्म्यं स्यान् नामधेयं च सत्त्ववत्//६.३.१२//
SK
अपि वेति पक्षव्यावृत्तिः. ऐककर्म्यं स्याद् द्रव्या[६५८]{*५/४०३*}न्तरे ऽपि, यदा क्रिया भवति चलनं पतनं वा, तदापि तावान् एव सो ऽर्थः, न च कश्चित् तत्र व्यतिरिक्तो विशेषो हीनो वा, नो खल्व् अप्य् अन्यद् एव रूपम्, न च शब्दान्तरं वाचकम्. नन्व् आश्रयभेदो विस्पष्टः. उच्यते, भिन्नम् एव वयम् आश्रयं प्रतिजानीमहे, न तु तद्भेदाद् आश्रितस्य भेदः, अन्यत्वत्. न हि स्रजि वासति वा भिन्ने तद्भेदात् पुरुषभेदो गम्यते. सो ऽपि तस्यात्मा भिन्न इति चेत्. नैतद् एवम्, विशेषम् उपलभमानैर् एवं शक्यं वक्तुम्. न चास्य विशेष उपलभ्यते. नन्व् अयम् एव विशेषो यत्, एको ऽपि{*५/४०४*} विनष्टः, एको ऽपि{*५/४०५*} वर्तते. न विनष्ट इति यद् उच्यते, तन् न, प्राग् अस्योपलम्भनात्, सत्त्वे प्रमाणं नास्ति, तस्माद् विनष्टः. न च, प्रत्यभिज्ञायते तद्द्रव्यातिरिक्तः, भेदानुपलम्भात्. कथं तर्हि चलतीति प्रत्यय इति चेत्. उच्यते, देशान्तरे संप्रतिपत्तिदर्शनात्, तद् देशान्तरं गच्छद् आगच्छच् च चलतीत्य् उच्यते, तत्र गन्तापि प्रत्यक्षः, देशानत्रम् अपि, तेन गत इति चोच्यते, आगत इति चोच्यते. सत्यम्, [६५९]{*५/४०६*} विनष्टाद् अविनष्टो ऽन्यः, यो ऽपि त्व् असावन्यः, सो ऽपि यजतिशब्दवाच्य एव, यजतिसामान्यं न भिद्यते, न च शब्देन नोच्यते. तस्माद् यो ऽपि नीवारैर् यागं कुर्यात्, तेनापि चोदितम् एव कृतम्, चोदितं च कुर्वत ईप्सितं भवति, नापूर्वकृतम्. नामधेयं च दर्शयति, दर्श इति वा पूर्णमास इति वास्यैव सामान्यस्य, यथा सत्त्वेषु सामान्यस्य नामधेयम्{*५/४०७*}, न व्यक्तीनाम्. किं प्रयोजनं चिन्तायाः? उत्तरेणाधिकरणेनैतद् विचार्यते.
SK
NOTES: *{५/४०३: E२: ५,२५०; E६: २,१४३}* *{५/४०४: E२ ओम्. ऽपि}* *{५/४०५: E२ ओम्. ऽपि}* *{५/४०६: E२: ५,२५१; E६: २,१४४}* *{५/४०७: E२,६: सामान्यस्य नामधेयम्}*
SK
श्रुतिप्रमाणत्वाच् छिष्टाभावे नागमो ऽन्यस्याशिष्टत्वात्//६.३.१३//
SK
अग्निहोत्रादीनि नित्यानि कर्माण्य् उदाहरणम्. तेषु श्रुतद्रव्यापचारे भवति संदेहः, किं प्रतिनिधिम् उपादाय प्रयोगः कर्तव्यः, उत तदन्तं कर्मोत्स्रष्टव्यम् इति. किं प्राप्तम्? शिष्टस्याभावे नागमो ऽन्यस्य, तदन्तम् एवोत्स्रष्टव्यम्. कुतः? अशिष्टत्वात्, यद् व्रीहियवगुणकं श्रुतं फलवत्, तन् नीवारगुणकं क्रियमाणम् अफलकं भवति. तस्मात् तदन्तं एवोत्स्रष्टव्यम् इति.
SK
क्वचिद् विधानाच् च//६.३.१४//
SK
क्वचिद् विधीयते, यदि{*५/४०८*} सोमं न विन्देत् पूतीकान् अभिषुणुयाद् इति. यदि च प्रतिनिधिम् उपादाय प्रयोगः कर्तव्यः स्यात्, न विधीयेत, विधीयते तु. तस्माद् यच् च न विधीयते, न तत्र प्रतिनिधिर् इति.
SK
[६६०]{*५/४०९*}
SK
NOTES: *{५/४०८: E२: यथा, यदि}* *{५/४०९: E२: ५,२५२; E६: २,१४४}*
SK
आगमो वा चोदनार्थाविशेषात्//६.३.१५//
SK
आगमो वा प्रतिनिधेयस्य द्रव्यस्य. कुतः? चोदनार्थाविशेषात्, यजतिचोदनाचोदितो ह्य् अर्थो न विशिष्यते वीहिभिर् नीवारैर् वा क्रियमाणः, यागश् चावश्यकर्तव्यो नित्येष्व् अनित्येषु च प्रारब्धेषु.
SK
नियमार्थः क्वचिद् विधिः//६.३.१६//
SK
अथ यद् उक्तम्, क्वचिद् विधानाद् इति{*५/४१०*}. उच्यते, नियमार्थः क्वचिद् विधिः, सोमाभावे बहुषु सदृशेषु प्राप्तेषु नियमः क्रियते, पूतीका{*५/४११*} एवाभिषोतव्या इति. तस्मात् प्रतिनिधिम् उपादाय प्रयोगः कर्तव्य इति. NOTES: *{५/४१०: Vग्ल्. MS ६.३.१४}* *{५/४११: E२: पूतिका}*
SK
तन् नित्यं तच्चिकीर्षा हि//६.३.१७//
SK
कथं पुनर् इदम् अवगम्यते, नियमार्थम् एव तद् वचनम् इति. उच्यते, यतः प्राप्ताः पूतीकाः. कथं च ते प्राप्ताः? तच्चिकीर्षा हि, तत्र सादृश्यचिकीर्षेत्य्{*५/४१२*} एतद् वक्ष्यामः{*५/४१३*}. तच्चिकीर्षया च प्राप्ताः पूतीकाः. तस्मात् तन् नित्यम्, वचनम् एतन् नियमाय नित्यम् इति गम्यते.
SK
NOTES: *{५/४१२: E२: सादृश्यं चिकीर्षेत्य्}* *{५/४१३: Vग्ल्. zउ MS ६.३.२७}*
SK
न देवताग्निशब्दक्रियम् अन्यार्थसंयोगात्//६.३.१८//
SK
देवता आग्नेयो ऽष्टाकपाल{*५/४१४*} इत्येवमाद्याः, अग्निः, यद् आहवनीये जुह्वति तेन सो ऽस्याभीष्टः प्रीतो भवतीति{*५/४१५*}. शब्दो मन्त्रः{*५/४१६*}, बर्हिर् देवसदनं दामीत्येवमादिः{*५/४१७*}, क्रियाः [६६१]{*५/४१८*} समिधो यजति, तनूनपातं यजतीत्येवमाद्याः. तत्र संदेहः, देवताग्निशब्दक्रियाणाम् अपचारे प्रतिनिधिर् उपादेयः, उत नेति. किं प्राप्तम्? पूर्वाधिकरणन्यायेन प्रतिनिधायान्यत्, प्रयोगः कर्तव्य इति. एवं प्राप्ते ब्रूमः, न देवताग्निशब्दक्रियाणाम् अपचारे प्रतिनिधिना भवितव्यम् इति. कुतः? अन्यार्थसंयोगात्, प्रतिनिधीयमानम् अन्यद् एतेभ्यः, अन्यच् च तेषाम् अर्थं न शक्नुयात् कर्तुम्. कश् च तेषाम् अर्थः? देवता तावद् उद्देशेनार्थं साधयति, अग्निम् उद्दिश्य, अष्टाकपालः पौर्णमास्याम् अमावास्यायां च त्यज्यते. यच् चान्येषु हविःषु विहितम्, न ततो दर्शपूर्णमासौ भवतः. तत्रान्योद्दिश्यमाना न श्रुताया उद्देश्याया अर्थं कुर्यात्. न ह्य् अन्यस्याम् उद्दिश्यमानायां दर्शपूर्णमासौ भवतः. तस्मान् न देवता प्रतिनिधीयते. तथा, यद् आहवनीये जुह्वतीत्य् आवहनीयापचारे नान्यो ऽग्निः प्रतिनिधातव्यः, अन्यद् वा द्रव्यम् इति. कुतः? अन्यार्थसंयोगात्, प्रतिनिधीयमानम् आहवनीयकार्ये न वर्तते. कथम्? अदृष्टम् आहवनीयस्य कार्यम्, आहवनीयस्योपरि त्यज्यमाने यद् भवति, न तद् अन्यस्योपरि. न हि, यजतिशब्देन सामर्थ्यात् तद् गृह्यते, यस्योपरि त्यज्यते, न हि, उपरि यज्यमानस्य देशः किंचिद् उपकरोतीति. तस्मान् नाग्नेः{*५/४१९*} प्रतिनिधिः. तथा, मन्त्रापचारे नान्यो मन्त्रः प्रतिनिधीयते. मन्त्रस्य{*५/४२०*} ह्य् एतत् प्रयोजनम्, यत्, स्मारयति क्रियां साधनं वा, असति स्मरणे न क्रिया संवर्तेत, तद् अपचरिते मन्त्रे यदि तस्यार्थे [६६२]{*५/४२१*} ऽन्यं शब्दम् उच्चारयति पूर्वं प्रतीते ऽर्थे शब्दम् उच्चारयन्, न शब्देनार्थं प्रतीयात्. अथ प्रतीतम् अपि पुनः प्रतिनिधिशब्दोच्चारणेन प्रतीयाच् छब्दात् प्रतीतिं कुर्यात्{*५/४२२*}, एवं च प्रतिनिधिशब्दोच्चारणानुरोधो ऽनर्थकः स्यात्. न हि, शब्देन प्रत्यापयितव्यम् इति किंचित् प्रमाणम् अस्ति. यद् अस्ति, तद् विशेषेणैवानेन शब्देन बर्हिरादिनेत्य् एवम्, तदभावे शब्दान्तरानुरोधो ऽनर्थकः स्यात्. तस्मान् न शब्दस्य प्रतिनिधिः. क्रियापचारे न{*५/४२३*} क्रियान्तरम्, अन्यार्थसंयोगात्{*५/४२४*}, समिद्यजिमन्तौ दर्शपूर्णमासौ कर्तव्यौ, ताव् अन्यस्यां क्रियमाणायां न तद्वन्तौ भवतः. तस्मात् क्रियायां न प्रतिनिधिर् इति.
SK
NOTES: *{५/४१४: Tऐत्.S. २.६.३.३}* *{५/४१५: Tऐत्.Bर्. १.१.१०६}* *{५/४१६: E१ गिब्त् मन्त्रः इन् Kलम्मेर्न्}* *{५/४१७: Tऐत्.S. २.६.१.१}* *{५/४१८: E२: ५,२५५; E६: २,१४५}* *{५/४१९: E२: तस्मान्न् अग्नेः}* *{५/४२०: E२: प्रतिनिधीयते. कुतः? अन्यार्थसंयोगात्. मन्त्रस्य}* *{५/४२१: E२: ५,२५६; E६: २,१४५}* *{५/४२२: E१ गिब्त् छब्दात् प्रतीतिं कुर्यात् इन् Kलम्मेर्न्}* *{५/४२३: E२ ओम्. न}* *{५/४२४: E२: क्रियान्तरम् प्रतिनिदध्यात्. अन्यार्थसंयोगात्}*
SK
देवतायां च तदर्थत्वात्//६.३.१९//
SK
देवतायाम् अपरो विशेषः, येन न प्रतिनिधीयते, देवता नाम, यद् अर्थं किंचिच् चोद्यते, सा. अन्या तस्याः स्थाने प्रतिनिधीयमाना न देवता स्यात्. चोदिता हि देवता भवति, नाचोदिता, संबन्धिशब्दश् चैषः. या यद् अर्थं चोद्यते, सा तस्यैव देवता, नान्यस्य. देवतेति संबन्धिशब्दो न जातिशब्दः. तस्माद् अपि न देवतायाः प्रतिनिधिर् इति.
SK
प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः//६.३.२०//
SK
अथ यत् प्रतिषिद्धम्, अयज्ञिया वै वरकाः कोद्रवाः, अयज्ञिया वै माषा इति. किं तच् छ्रुतद्रव्यापचारे प्रति[६६३]{*५/४२५*}निधातव्यम्, उत नेति. किं प्राप्तम्? प्रतिनिधेयम्{*५/४२६*} इति, आगमो वा चोदनार्थाविशेषाद्{*५/४२७*} इति. एवं प्राप्ते ब्रूमः, प्रतिषिद्धं च न प्रतिनिधातव्यम् इति, अविशेषेण ह्य् एतद् उच्यते, न यज्ञार्हा माषा वरकाः कोद्रवाश् चेति, यज्ञसंबन्ध एषां प्रतिषिध्यते. नैते यज्ञाङ्गभावं नेतव्या इति, प्रतिनिधीयमानाश् चाङ्गभावं नीताः स्युः. तस्मान् नैते प्रतिनिधातव्या इति.
SK
NOTES: *{५/४२५: E२: ५,२५७; E६: २,१४६}* *{५/४२६: Vग्ल्. zउ MS ६.३.१५}* *{५/४२७: MS ६.३.१५}*
SK
तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात्//६.३.२१//
SK
अग्निहोत्रादीनि कर्माण्य् उदाहरणम्. तेषु स्वामिन्य् अपचरति संदेहः, किम् अन्यः प्रतिनिधातव्यो नेति. किं प्राप्तम्? प्रतिनिधातव्य इति. कुतः? आगमो वा चोदनार्थाविशेषाद्{*५/४२८*} इति. एवं प्राप्ते ब्रूमः, तथा स्वामिनः स्यात्. को ऽर्थः? न प्रतिनिधिः. कुतः? फलसमवायात्. यो ऽर्थी स्वत्यागेनर्त्विजः परिक्रीणीते, यश् च स्वं प्रदेयं त्यजति, स स्वामी. यदि स प्रतिनिधीयते, स्वामिना यत् कर्तव्यम्, तत् सर्वं कुर्यात्, तत् सर्वं कुर्वन्, स्वाम्य् एव स्यात्, न प्रतिनिधिः. स एव हि फलेन संबध्यते. य उत्सर्गं करोति, स फलवान् भवति. तद् उक्तम्, शास्त्रफलं प्रयोक्तरीति{*५/४२९*}. तस्मान् न स्वामिनः प्रतिनिधिर् इति.
SK
[६६४]{*५/४३०*}
SK
NOTES: *{५/४२८: MS ६.३.१५}* *{५/४२९: Vग्ल्. MS ३.७.१८}* *{५/४३०: E२: ५,२५८; E६: २,१४७}*
SK
बहूनां तु प्रवृत्ते ऽन्यम् आगमयेद् अवैगुण्यात्//६.३.२२//
SK
सत्राण्य् उदाहरणम्, सप्तदशावराः सत्रम् आसीरन्न् इति. तेषु कस्मिंश्चित् स्वामिन्य् अपचरति संदेहः, किं तत्रान्यः प्रतिनिधातव्यः, उत नेति. किं प्राप्तम्? न स्वामिनः प्रतिनिधिर् इति. एवं प्राप्ते ब्रूमः, बहूनां यजमानानां प्रवृत्ते कर्मणि, अपचरिते कस्मिंश्चित् स्वामिन्य् अन्यम् आगमयेत्. कुतः? एवम् अवैगुण्यं भवतीति, स्वामिगता सप्तदशादिसंख्या तत्राङ्गम्, तया विना कर्म विगुणम्, तत्संपादनायान्य आगमयितव्यः. ननु स्वामिगता संख्या, न त्व् आगम्यमानः स्वामीति वक्ष्यामः. तेनाशक्यैव सा संख्योपादातुम् इति. उच्यते, स्वामिगता न हि भविष्यति. न हि सा शक्या कर्तुम् इति. इदं तु शक्यं कर्तुम्, ये स्वामिनां पदार्थाः, त इह सप्तदशावरैः कर्तव्या इत्य् एतद् उपपादितं भविष्यति. तस्मात् प्रतिनिधातव्यं तत्रेति.
SK
स स्वामी स्यात् तत्संयोगात्//६.३.२३//
SK
तस्मिन्न् आगम्यमान इदानीं संदेहः, किम् असौ स्वामी, उत कर्मकर इति. किं प्राप्तम्? स स्वामी स्यात्. कस्मात्? तत्संयोगात्, तेन स्वामित्वेन{*५/४३१*} संयोगः. यो ह्य् असाव् आनीयते, स स्वामी क्रियते, स्वामिन्य् अपचरिते ऽन्यो यदि स्वामी क्रियते, ततः स प्रतिनिधिः कृतो भवति. तस्मात् स्वामीति.
SK
[६६५]{*५/४३२*}
SK
NOTES: *{५/४३१: E१ गिब्त् स्वामित्वेन इन् Kलम्मेर्न्}* *{५/४३२: E२: ५,२५९; E६: २,१४७}*
SK
कर्मकरो वा भृतत्वात्//३.३.२४//
SK
कर्मकरो वा स स्यात्. कुतः? भृतत्वत्, भृतो ह्य् असौ तैः शिष्टैः स्वामिभिः प्रयुक्तः, परिक्रीयमाणो न स्वामी भवति. यः फलं प्राप्नोति, स स्वामी, यः परस्योपकारे वर्तते, स कर्मकरः, नैवासौ फलं प्राप्नोति. कुतः? यो ह्य् आरभ्य परिसमापयति, स फलवान्, एष ह्य् आख्यातार्थः, स ह्य् उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् आह. ननु ते ऽपि तत्र विगुणं कुर्वन्ति, सप्तदशानां स्वामिनाम् अभावात्. तस्मात् ते ऽपि न स्वामिनः, नो चेत् स्वामिनः, न फलं प्राप्नुवन्ति. उच्यते, न सप्तदशावराः फलसमवाये भवेयुर् इति श्रूयते, न संख्या फलपरिग्रहे गुणभूता. किं तर्हि? पदार्थेषु, सप्तदशावरैर् याजमानाः पदार्थाः कर्तव्या इति, ते च प्रतिनिहितेन क्रियन्ते, अफलत्वे ऽपि च सत्यं संकल्पं कर्तुम् अन्यम् आनयन्ति. आनीयमानस्य च न तेन प्रयोजनम्.
SK
तस्मिंश् च फलदर्शनात्//६.३.२५//
SK
तस्मिंश् च दिष्टां गतिं गते फलं दर्शयति, यो दीक्षितानां प्रमीयेतापि तस्य फलम् इति. तस्मात् कर्मकर इति.
SK
स तद्धर्मा स्यात् कर्मसंयोगात्//६.३.२६//
SK
बहूनां कस्मिंश्चिद् अपचरिते प्रतिनिधेयो ऽन्य इत्य् एतत् [६६६]{*५/४३३*} समधिगतम्. इदम् इदानीं तत्र संदिग्धम्, किम् असौ स्वामिधर्मा स्यात्, उतर्त्विग्धर्मा? किं प्राप्तम्? ऋत्विग्धर्मा. कुतः? परार्थं हि स यजति, यश् च परार्थं यजति, स ऋत्विग् इति. एवं प्राप्ते ब्रूमः, स तद्धर्मा स्यात्, स्वामिधर्मा{*५/४३४*}, तस्य हि कार्ये शूयते, यश् च यस्य कार्यम् अधितिष्ठति, स तद्धर्मैः संबध्यते, यथा स्रुग्धर्मैः{*५/४३५*} स्वधितिर् इति.
SK
NOTES: *{५/४३३: E२: ५,२६०; E६: २,१४८}* *{५/४३४: E१ गिब्त् स्वामिधर्मा इन् Kलम्मेर्न्}* *{५/४३५: E२: स्रुवधर्मैः}*
SK
सामान्यं तच्चिकीर्षा हि//६.३.२७//
SK
श्रुते द्रव्ये ऽपचरति प्रतिनिधिम् उपादाय प्रयोक्तव्यम् इति स्थितम्. तत्र संदेहः, किं यत्किंचिद् द्रव्यम् उपादाय प्रयोगः कर्तव्यः, उत सदृशम् इति. किं प्राप्तम्? यत्किंचिद् उपादायेति. एवं प्राप्ते ब्रूमः, सामान्यं यत्र गृह्यते, तद् उपादातव्यं सदृशम् इति. कुतः? सर्वे ह्य् आकृतिवचनाः शब्दाः, आकृतिश् च यद्य् अप्य् अङ्गभावेन श्रूयते, तथापि न साक्षात् तस्याः क्रियां प्रत्यङ्गभावः. यत् तु क्रियासाधनं द्रव्यम् अर्थाद् अङ्गभूतं प्राप्तम्, तत् परिच्छिन्दती क्रियायाम् अङ्गभावं याति, व्यक्तेश् चाकृत्या विशेषाः परिच्छिद्यन्ते, ते विशेषा अङ्गभूताः. अथ तस्याम् आकृताव् अपचरितायाम् अर्थप्राप्तं द्रव्यं ग्रहीतव्यम् एव, यस्मिंश् च सदृशे गृह्यमाणे तेषां विशेषाणां केचित् संगृहीता भवन्ति, स तत्र लाभो लभ्यत इति, तत्सदृशं द्रव्यम् उपादातव्यं भवति. तस्माद् व्रीहीणाम् अपचारे नीवाराः प्रतिनिधेया इति.
SK
[६६७]{*५/४३६*}
SK
NOTES: *{५/४३६: E२: ५,२६२; E६: २,१४९}*
SK
निर्देशात् तु विकल्पे यत्प्रवृत्तम्//६.३.२८//
SK
अस्ति ज्योतिष्टोमे पशुर् अग्निषोमीयः, यो दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति{*५/४३७*}, तत्र श्रूयते, खादिरे पशुं बध्नाति पालाशे बध्नाति रौहितके बध्नातीति. तत्र कदाचित् खदिरगुणके प्रयोग आरब्धे खदिरो विनष्टः, तत्र संदेहः, किं वैकल्पिकस्योपादानम् उत खदिरसदृशस्येति. किं प्राप्तम्? वैकल्पिकस्येति. कुतः? स हि श्रुतः, खदिरसदृशो न श्रूयते, तस्माद् वैकल्पिकस्योपादानम् इति. एवं प्राप्ते ब्रूमः, विकल्पे यत् प्रवृत्तम्, तत्सदृशम् उपादेयम्, यत् प्रवृत्तं यस्मिन् प्रयोगे, तन् निर्दिष्टम्, तद् अङ्गभूतम्, वैकल्पिकम् अनङ्गम्. आश्रितखदिरे प्रयोगे पलाशरौहितकाव् अनङ्गबूतौ, तौ न शक्येते यदा खदिरः, तदैव कर्तुम्, अशक्यं चाश्रुतम्. तस्माद् आश्रितखदिरे प्रयोग इतरौ नोपादेयौ, अनङ्गभूतत्वात्. खदिरस्य सदृशम् अन्वेषितव्यम् इति.
SK
NOTES: *{५/४३७: Tऐत्.S. ६.१.११.६}*
SK
अशब्दम् इति चेत्//६.३.२९//
SK
इति चेत् पश्यसि, खदिरसदृशम् उपादेयम् इति, अशब्दम् एवं कृतं भवति. तस्माच् छब्दवत्त्वाद् वैकल्पिकम् उपादेयम्.
SK
नानङ्गत्वात्//६.३.३०//
SK
नैतद् एवम्, अनङ्गं तस्मिन् प्रयोगे वैकल्पिकम्. आश्रितखदिरो [६६८]{*५/४३८*} हि स प्रयोगः, यो निर्दिष्टः, तस्य निर्देशाद् इतराव् अश्रुतौ. ननु निर्देशाभावे ऽङ्गभावविरोधः. तेन श्रुताव् इति. किम् अतः? यद्य् एवं यदोपात्तस्याभावः, तदा श्रवणम्. नैतद् एवम्, नैमित्तिकं हि तथा प्रतिज्ञायेत, सति वचने निमित्ते, असति खदिर इतरौ श्रुताव् इति. तत्र को दोषः? स एवापेक्षितो ऽनपेक्षितश् चेति विरोधो भवेत्, संस्काराश् च खदिरे कर्तव्याः. खदिरसदृशे तद्बुद्ध्या गृह्यमाणे श्रुतबुद्ध्या कृता भवन्ति, वैकल्पिकेन तु श्रुतेनासंबद्धाः. तस्माद् उपात्तसदृशो ग्राह्य इति.
SK
NOTES: *{५/४३८: E२: ५,२६२; E६: २,१४९}*
SK
वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य//६.३.३१//
SK
इदम् आमनन्ति, यदि न सोमं विन्देत्{*५/४३९*} पूतीकान् अभिषुणुयाद् इति. तत्र संदेहः, किम् अयम् अभावे निमित्ते विधिः, उत प्रतिनिधिनियम इति. किं प्राप्तम्? अभावे विधिर् इति. कुतः? विधानात्, न हि प्रतिनिधिर् विधीयते, साध्यसिद्धये साधनं स्वयम् एवोपादीयते, इदं तु विधीयते, तत् कल्पान्तरपेक्षे ऽर्थवद् भवति. तस्मान् न प्रतिनिधिः. इत्य् एवं प्राप्ते ब्रूमः, प्रतिनिधिः स्यात्. कुतः? विनष्टे हि साधने साध्यसिद्ध्यर्थं साधनान्तरम् उपादीयते, श्रुतस्याभावात्. नन्व् अन्याय्याः पूतीकाः, अन्यद् धि सदृशान्तरम् अस्तीति. तद् उच्यते, वचनात्. सदृशे प्राप्ते, बहुषु वासदृशेषु पूतीका अल्पसदृशा नियम्यन्ते. कथम्? तद् धि [६६९]{*५/४४०*} प्रक्रान्तं कर्मावश्यं कर्तव्यम्, तस्याम् अवस्थायाम् अन्तरेणैव वचनं प्रतिनिधेयं द्रव्यान्तरं प्राप्तम् एव, प्राप्ते वचनं न विधिर् इति गम्यते. प्राप्तस्यानुवादो भवितुम् अर्हति. किम् अर्थम् अनुवाद इति चेत्. उच्यते, अल्पसादृश्यम् अप्राप्तम्, तद्विधानार्थम् अनुवादः. प्रयोजनं पक्षोक्तम्, प्रतिनिधिपक्षे सोमसदृशस्योपादानं पूतीकविनाशे, द्रव्यान्तरविधौ पूतीकसदृशम् उपादेयम्.
SK
NOTES: *{५/४३९: E२: आमनन्ति, सोमं न विन्देत}* *{५/४४०: E२: ५,२६३; E६: २,१५०}*
SK
न प्रतिनिधौ समत्वात्//६.३.३२//
SK
इदं विचार्यते, श्रुते द्रव्य उपात्ते ऽपचरिते प्रतिनिधिम् उपादाय प्रयोगः प्राप्तः, यदा सो ऽपि विनष्टः प्रतिनिहितः, तदा किं प्रतिनिधिसदृशम् उपादेयम्, उतोपात्तस्य विनष्टस्येति. किं प्राप्तम्? प्रतिनिहिते विनष्टे तत्सदृशम् उपादेयं पूर्वेण न्यायेन{*५/४४१*}. एवं प्राप्ते ब्रूमः, प्रतिनिधौ न स्यात् प्रतिनिधिर् इति. कुतः? समत्वात्, यथैवासौ पूर्वः प्रतिनिहितः श्रुतचिकीर्षया, न प्रतिनिधिचिकीर्षया, एवम् अयम् अपि श्रुतचिकीर्षया, न प्रतिनिधिचिकीर्षया. तस्मान् न प्रतिनिधिसदृशम् उपादेयम् उपात्तनष्टस्यैव सदृशो ऽन्वेषितव्य इति.
SK
NOTES: *{५/४४१: E२: न्यायेनेति}*
SK
स्याच् छ्रुतिलक्षणे नियतत्वात्//६.३.३३//
SK
अथ श्रुतिलक्षणे कथम्? यथा, यदि सोमं न विन्देत् पूतीकान् अभिषुणुयाद् इति, पूतीकेषु विनष्टेषु पूतीकसदृशम् उपा[६७०]{*५/४४२*}देयम् उत सोमसदृशम् इति. किं प्राप्तम्? स्याच् छ्रुतिलक्षणे प्रतिनिधौ प्रतिनिधिसदृशस्योपादानं कर्तव्यम्, सोमाभावे पूतीकव्यक्तयो विहिताः, स चायं श्रुतः सोमाभावः{*५/४४३*}. तस्मात् पूतीकव्यक्तय उपादेया इति.
SK
NOTES: *{५/४४२: E२: ५,२६४; E६: २,१५१}* *{५/४४३: E२: सोमाभावे}*
SK
न, तदीप्सा हि//६.३.३४//
SK
नैतद् एवम्, न हि पूतीकव्यक्तीनाम् ईप्सा, पूतीकेषु यत् सोमसादृश्यम्, तन् नियम्यते, तथा हि पूतीकविधानं दृष्टार्थम् असदृशविधाने ऽदृष्टं कल्प्येत. अतो यस्मिंस् तद् अपूतीकसदृशे ऽपि द्रव्ये भवति तद् ग्रहीतव्यम्, न पूतीकसादृश्यम् आद्रियेतेति.
SK
मुख्याधिगमे मुख्यम् आगमो हि तदभावात्//६.३.३५//
SK
अथ यत्र विनष्टे श्रुते प्रतिनिधिम् उपादातुं प्रस्थितो मुख्यम् एवोपलभते, तत्र किं प्रतिनिधिम् एवोपाददीत, उत तम् एव मुख्यम् इति. किं तावत् प्राप्तम्? प्रतिनिधिम् उपादातव्यः इति, एवं संकल्पितवान् असौ प्रतिनिधिम् उपाददान एव सत्यसंकल्पो भवति. तस्मात् प्रतिनिधातव्यम् इति. एवं प्राप्ते ब्रूमः, मुख्याधिगमे तम् एवोपाददीत. अभावे हि श्रुतस्य, अनुकल्पः प्रतिनिधिः, श्रुते हि सकला व्यक्तयः, प्रतिनिधौ विकलाः. अथ यद् उक्तम्, संकल्पभेददोष इति, श्रुतेष्व् असौ शिष्टविगर्हणायां वा.
SK
[६७१]{*५/४४४*}
SK
NOTES: *{५/४४४: E२: ५,२६५; E६: २,१५१}*
SK
प्रवृत्ते ऽपीति चेत्//६.३.३६//
SK
अथाग्निहोत्रादिषु कर्मसु श्रुतद्रव्यापचारे प्रतिनिधाव् उपात्ते कृतेषु केषुचित् संस्कारेषु यदि तद् एव श्रुतम् उपलभ्येत, किं श्रुतम् उपादीयेत, उत तेनैव प्रतिनिहितेन समापयितव्यम् इति. किं प्राप्तम्? श्रुतम् उपादीयेत प्रवृत्ते ऽपि. तद् उक्तम्, आगमो हि तदभावाद्{*५/४४५*} इति. तस्मान् न प्रतिनिधातव्यम् इति.
SK
NOTES: *{५/४४५: MS ६.३.३५}*
SK
नानर्थकत्वात्//६.३.३७//
SK
नैतद् एवम्, येन हि खदिराभावे कदरे पशुर् नियुक्तो भवति, अथ खदिरम् उपलभते, प्रवृत्ते ऽर्थे किं खदिरेण कुर्यात्? अर्थार्थं हि खदिरोपादानं न खदिरोपादानार्थम् एव. तस्मान् न श्रुतम् उपादीयेत.
SK
द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्//६.३.३८//
SK
प्रवृत्ते पशुकर्मणि, यूपकाले ऽस्ति महत् कदरं द्रव्यं तक्षणादिसंस्कारक्षमम्, अस्ति खदिरद्रव्यम् अनेवंजातीयकम्. तत्र किम् उपादेयम् इति. संस्कारा न परिलोप्स्यन्त इति कदर उपादीयेतेति. एवं प्राप्ते ब्रूमः, द्रव्यसंस्कारविरोधे द्रव्यं प्रत्य् आद्रियेरन्, न संस्कारान्. कुतः? तदर्थत्वात्, संस्कारा हि द्रव्यं कर्मयोग्यं कुर्वन्ति. तत्र संस्कारपरिलोपे द्रव्यम् अपि तावद् गृह्यते, द्रव्याभावे न द्रव्यम्, न संस्काराः. द्रव्यं तेषां द्वारम्, वचनप्रामा[६७२]{*५/४४६*}ण्यात्, तदभावे नष्टद्वारं नापूर्वं गच्छेयुः. तस्मात् खदिरम् उपाददीरन्न् इति. NOTES: *{५/४४६: E२: ५,२६६; E६: २,१५२}*
SK
अर्थद्रव्यविरोधे ऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात्//६.३.३९//
SK
अस्ति यूपकाले खदिरलता पशोर् अप्रागल्भ्ये{*५/४४७*} न समर्थाः{*५/४४८*}, कदरद्रव्यं तु तत्समर्थम्. तत्र संदेहः, किम् उपादेयं खदिरद्रव्यम्, उत कदरद्रव्यम् इति. खदिरद्रव्यम् इत्य् आह, तद् धि श्रुतम्, तदुपादानः शास्त्रविहितं करोति, प्रतिनिधाव् अश्रुतकारी स्यात्. तस्मान् न प्रतिनिधातव्यम् इति. एवं प्राप्ते ब्रूमः, अर्थद्रव्यविरोधे ऽर्थं प्रत्य् आदर्तव्यम्, तदर्थं हि द्रव्योपादानं नियोजनात्, अप्रागलभ्यं पशोर् भविष्यतीति, न द्रव्यम् एवोपादीयेतेति, कदरम् उपाददानो द्रव्यश्रुतिं बाधते. अर्थं त्व् अनुगृह्णाति, खदिरलताम् उपाददान उभयं बाधते. तस्मात् कदरद्रव्यम् उपादेयम्, द्रव्याभावे हि तदुत्पत्तिः, प्रतिनिधेर् उत्पत्तिर्{*५/४४९*} उक्ता, द्रव्याण्य् अर्थं प्रति शेषभूतानि.
SK
NOTES: *{५/४४७: E२: पशोप्रागल्भ्ये}* *{५/४४८: E२,६: समर्था}* *{५/४४९: E१ गिब्त् प्रतिनिधेर् उत्पत्तिर् इन् Kलम्मेर्न्}*
SK
विधिर् अप्य् एकदेशो स्यात्//६.३.४०//
SK
सन्ति व्रीहयः, यावन्तो द्व्यवदानमात्रं निर्वर्तयन्ति, तथा सन्ति नीवाराः शेषकार्याणाम् अपि पर्याप्ताः, तत्र किम् उपादेयम् इति. किं प्राप्तम्? अप्य् एकदेशे द्व्यव[६७३]{*५/४५०*}दानमात्रे ऽपि निर्वर्त्यमाने प्रतिनिधिर् उपादेयः. किं कारणम्? शेषकार्याणां संपत्तिर् भविष्यतीति.
SK
NOTES: *{५/४५०: E२: ५,२६७; E६: २,१५३}*
SK
अपि वार्थस्य शक्यत्वाद् एकदेशेन{*५/४५१*} निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात्//६.३.४१//
SK
अपि वेति पक्षव्यावृत्तिः. एकदेशेन व्रीहीणां प्रधानमात्रं निर्वर्तयितव्यम्. कुतः? अर्थस्य शक्यत्वात्, यो ऽत्रार्थः, येन कार्यं तत् तावत् निर्वर्त्यते, शेषकार्याणि यदि न शक्यानि, नाङ्गानुरोधेन प्रधानस्य गुणो बाधितव्यः. तद् ध्य् अङ्गम्, यत् प्रधानस्योपकरोति, न यद् अपकारे वर्तते. तत्र च शेषकार्याणि क्रियमाणानि प्रधाने व्रीहित्वं गुणं विहन्युः. व्रीहित्वं च प्रधाने साक्षाद् अङ्गभूतं श्रूयते, व्रीहिभिर् यजेतेति. तस्मान् न तेष्व् अनुरोधः कार्यः, असति ह्य् अङ्गप्रधानविभाग{*५/४५२*} एतद् एवं स्यात्, अस्ति ह्य् असौ. तस्मान् न प्रतिनिधिर् इति. तथा चान्यार्थदर्शनम् अपि भवति, तद् एव यादृक् तादृग् होतव्यम् इति.
SK
NOTES: *{५/४५१: E२: एकदेशे}* *{५/४५२: E२: अङ्गभूप्रधानविभाग}*
SK
============================================================================
SK
Aध्याय ६:
SK
[६७४]{*६/१*}
SK
NOTES: *{६/१: E२: ५,२६८; E६: २,१५३}*
SK
शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् // MS_६,४.१ //
SK
दर्शपूर्णमासयोः श्रूयते: यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां वाचुयतो{*६/२*} भवति{*६/३*} इति. तत्र यदि द्व्यवदानमात्रम् उद्धृतं व्यापद्यते, किं शेषात् पुनर् अवदेयम्, नेति भवति संशयः. किं प्राप्तम्. द्व्यवदाननाशे, शेषात् पुनर् अवदेयम्. कुतः? तदर्थत्वात्, अग्न्यर्थं हि तद् धविः, अग्नये यागो निर्वर्तयितव्य इति, तदवदाने विनष्टे यागः कर्तव्य{*६/४*} एवावतिष्ठते, प्रयोजनं च यागेन. स चाग्नेयेन क्रियमाणः श्रुत एवाभिनिर्वर्तितो भवतीति किम् इति न क्रियेत. तस्माच् छेषाद् अवदातव्यम् इति.
SK
NOTES: *{६/२: E१,६; E२: चाच्युतो}* *{६/३: TS २.६.३.३}* *{६/४: E२ (व्.ल्.): कर्तव्येत्य्}*
SK
निर्देशाद् वान्यद् आगमयेत् // MS_६,४.२ //
SK
अथ वान्यद् धविर् आगमयेन् न शेषाद् अवदातव्यम्. कुतः. निर्देशात्, निर्देशो हि भवति, मध्यात् पूर्वार्धाद् अवदेयम् इति, द्व्यवदानं च होमसंबद्धम्{*६/५*}, द्व्यवदानं जुहोतीति. तत्रान्यच् छिष्टं मध्यस्य पूर्वार्धस्य विशेषणार्थम्. यच् च तद् धोमसंयुक्तं तद्विनष्टम्, तच् छेषेण क्रियमाणम् अमध्येनापूर्वार्धेन च कृतं स्यात्. नन्व् अवत्ते यच् छिष्टं ततो मध्यात् पूर्वार्धाच् च ग्रहीष्यते. उच्यते, कृत्स्नस्य यत् मध्यं पूर्वार्धं च तच् चोदितम्, न इतरस्य. अथ वा निर्देशाद् इति, विनष्टे ह्य् अन्यद् द्रव्यं निर्दिश्यते, यस्य सर्वाणि हवींषि नश्येयुर् दुष्येयुर् वापहरेयुर् वा[६७५]{*६/६*}आज्येन ता देवताः परिसंख्याय यजेरन्न् इति, हविषो नाश आज्यं प्राप्तम्. तेन न शेषाद् अवदातव्यम् इति. अपर आह, शेषनिर्देशाद् इति, निर्दिश्यते हि तच् छिष्टम् अपरेभ्यः शेषकार्येभ्य इति. तन् नोपपद्यते, न हि तानि शेषकार्याणि हवींषि प्रयोजयन्ति, न चानिवृत्तप्रयोजनं हविर् अन्यत्र प्रतिपाद्यम्. तस्मान् नायम् अर्थः.
SK
NOTES: *{६/५: E१,६; E२: होमसंनद्धम्}* *{६/६: E२: ५,२६९; E६: २,१५४}*
SK
अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् // MS_६,४.३ //
SK
अथ स्विष्टकृद् अर्थम् अवत्तं यदि विनश्यति, तत्र किं शेषाद् अवदेयम् उत नेति. किं प्राप्तम्? पुनः शेषाद् अवदेयम् इति. कुतः? नात्र कृत्स्नस्योत्तरार्धाद् अवदीयते{*६/७*}. कस्य तर्हि? संनिहितस्य, सति हि प्रयोजने संनिहितस्यावदेयम् इति, तस्माद्{*६/८*} अवदीयमाने श्रुतं कृतं भवति. तस्मात् शेषाद् अवदेयम् इति. एवं प्राप्ते ब्रूमः, शेषभाजां स्याल् लोपः. कुतः? विशिष्टकारणात्, विशिष्टं हि कारणं तस्यावदाने, कथं प्रतिपाद्येतेति. प्रतिपत्तिश् च विविक्तकरणेनोपकरोति, तस्य विविक्तकरणाय प्रतिपाद्यमानस्य नियमो ऽयं स्विष्टकृद् धोमेन प्रतिपादयितव्यः. तथा हि स प्रतिपादितो भवति. स यदि होमायोद्धृतो विपद्येत, कृते विवेके न पुनर् ग्रहणं प्रयोजयेत्, प्रतिपाद्यमानश् च स्विष्टकृद् धोमेन प्रतिपादयितव्य इति. प्रतिपाद्यमानाभावाल् लोप एव स्विष्टकृतः स्यात्, प्रधाने कृते शिष्टं [६७६]{*६/९*} सर्वशेषकार्यसाधारणम्. तत्रैकस्योद्धृतौ शिष्टम् अन्यत्र प्रतिपादनीयम्.
SK
NOTES: *{६/७: E१ (व्.ल्.): उत्तरार्धो गृयते}* *{६/८: E१ (व्.ल्.): तस्य}* *{६/९: E२: ५,२७७; E६: २,१५४}*
SK
निर्देशाच् छेषभक्षो ऽन्यैः प्रधानवत् // MS_६,४.४ //
SK
स्तो दर्शपूर्णमासौ, तत्र भक्षाः{*६/१०*} प्राशित्रचतुर्धाकरणशंयुवाककालाः. तेषु संदेहः, किम् अन्य एव तेषां भक्षयितारः, उत प्रकरणगता इति{*६/११*}. किं प्राप्तम्? शेषभक्षो ऽन्यैर् अप्रकरणस्थैः कर्तव्यः. कुतः? निर्देशात्, निर्दिश्यन्ते{*६/१२*} ह्य् अध्वर्यादय इडाभक्षे, यजमानपञ्चमा इडां भक्षयन्तीति. सर्वेषु भक्षयितृषु{*६/१३*} प्राप्तेषु परिसंख्यानार्थो निर्देशः क्रियते. इडाम् एवैते भक्षयेयुर् इति, यथाग्नेयो ऽष्टाकपाल{*६/१४*} इति सर्वस्मिन्न् अवयविनि यागानियमे प्राप्ते द्व्यवदानमात्रं श्रूयते, विधिर् वा न{*६/१५*}, प्राप्तत्वात्, नानुवादो ऽनर्थकत्वात्, परिसंख्या त्व् अर्थवत्ताय, एवम् एषां परिसंख्येति. अपि च यदि प्रकृता एव भक्षयेयुः, अश्वमेधे दोषः स्यात्, बहुत्वाद् भक्षाणाम्, भक्षयन्तो म्रियेरन्.
SK
NOTES: *{६/१०: E१,६; E२: भक्षः}* *{६/११: E१,६; E२: प्रकरणगताः पुरुषा इति}* *{६/१२: E२,६: निर्देश्यन्ते}* *{६/१३: E१,६; E२: भक्षयितव्येषु}* *{६/१४: TS २.६.३.३}* *{६/१५: E१,६; E२: स विधिर् न}*
SK
सर्वैर् वा समवायात् स्यात् // MS_६,४.५ //
SK
सर्वैर् वा प्रकृतैर् एव भक्ष्येत. तद् धि भक्षणं पुरुषसंस्कारार्थम्, पुरुषाः संस्कृताः प्रचरिष्यन्तीति. तेषु विनिगमनाया अभावाद् यावन्तः प्रकरणे समवेताः, ते सर्वे भक्षयेयुर् इति.
SK
निर्देशस्य गुणार्थत्वम् // MS_६,४.६ //
SK
अथ यद् उक्तम्, निर्देशाद्{*६/१६*} इति, गुणार्थः सः, अन्ये कर्म[६७७]{*६/१७*}करत्वाद् एव प्राप्ताः, तत्र यजमानस् तेषां पञ्चमो वचनात् निर्दिश्यते. तत्प्राप्त्यर्थं चेदं वचनम्. ततो न परिसंख्या.
SK
NOTES: *{६/१६: Vग्ल्. MS ६.४.४}* *{६/१७: E२: ५,२७१; E६: २,१५५}*
SK
प्रधाने श्रुतिलक्षणम् // MS_६,४.७ //
SK
यत् तु द्व्यवदानमात्रं प्रधाने निर्दिश्यते, तद् वचनप्रामाण्यात् परिसंख्यानार्थम्. न हि तत्र कस्यचिद् अपूर्वस्य विधिः, इह यजमानो विधीयते, विधिपरिसंख्यासंशये विधिर् ज्यायान्. तत्र स्वार्थे शब्दः, परिसंख्यायां त्रयो दोषाः, स्वार्थहानम्, अस्वार्थपरिग्रहः, प्राप्तबाधश् चेति. तस्मात् प्राकृता एव भक्षयेयुर् इति.
SK
अर्थवद् इति चेत् // MS_६,४.८ //
SK
अथ यद् उक्तम्, अश्वमेधे विरोधः स्यात्, बहुत्वाद् भक्षाणाम्{*६/१८*} इति, तत् परिहर्तव्यम्//
SK
NOTES: *{६/१८: Vग्ल्. Ś अद् MS ६.४.४}*
SK
न चोदनाविरोधात् // MS_६,४.९ //
SK
अश्वमेधे न सर्वं बक्षयिष्यन्ति, अर्थात् सर्वं भक्षयन्तो ऽश्वमेधं न समापयेयुः. तत्राश्वमेधश्रुतिः प्रत्यक्षा, सा विरुध्यमाना चोदकप्राप्तं सर्वभक्षणं बाधते. प्रकृतौ तु न विरोधः. तस्मात् सर्वं प्रकृता भक्षयेयुर् इति.
SK
अर्थसमवायात् प्रायश्चित्तम् एकदेशे ऽपि // MS_६,४.१० //
SK
स्तो दर्शपूर्णमासौ, तत्रामनन्ति, भिन्ने जुहोति, स्कन्ने जुहोतीति. तत्र संदेहः, किं कृत्स्ने भिन्ने स्कन्ने च [६७८]{*६/१९*} प्रायश्चित्तम्, उतैकदेशे ऽपि भिन्ने स्कन्ने चेति. किं पुनः सर्वभिन्नम्, किम् एकदेशभिन्नम् इति, चूर्णीकृतम् अयोग्यं प्रयोजनाय, कृत्स्नभिन्नम्{*६/२०*}. यच् छकले विगते ऽपि प्रयोजनसमर्थम्, तद् एकदेशभिन्नम् इति. किं प्राप्तम्. एकदेशभिन्ने ऽपि प्रायश्चित्तम्. कस्मात्. अर्थसमवायात्, समवेतं तत्र भेदनम्, एकदेशभिन्नम् अपि भिन्नम् इति, एवं प्राप्ते निमित्ते नैमित्तिकं कर्तव्यं भवति.
SK
NOTES: *{६/१९: E२: ५,२७२; E६: २,१५६}* *{६/२०: E१,६; E२: तत् कृत्स्नभिन्नम्}*
SK
न त्व् अशेषे वैगुण्यात् तदर्थं हि // MS_६,४.११ //
SK
तुशब्दः पक्षं व्यावर्तयति. नाशेषे भिन्ने{*६/२१*} प्रायश्चित्तं स्यात्. विनष्टसंस्कारार्थं हि प्रायश्चित्तम्. कुतः. एतद् भेदनवता प्रयोजनम् अस्ति, न होमेन, तेन संस्कृतेन{*६/२२*} प्रयोगः करिष्यन्त इति प्रायश्चित्तं क्रियते. न च, तेन चूर्णीकृतेन प्रयोगः शक्यते कर्तुम्. तस्मात् प्रायश्चित्तम् अनर्थकम्. एकदेशभिन्नेन तु संस्कृतेन शक्यते प्रयोगः, तस्माद् एकदेशभिन्ने प्रायश्चित्तं स्याद् इति.
SK
NOTES: *{६/२१: E१,६; E२: नाशेषे ऽपि भिन्ने}* *{६/२२: E१,६; E२: चूर्णीकृतेन}*
SK
स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हि तस्य गुणार्थेनानित्यत्वात् // MS_६,४.१२ //
SK
स्याद् वा प्रायश्चित्तम्, कृत्स्नभिन्ने ऽपि. कुतः. प्राप्तनिमित्तत्वात्, प्राप्तं हि निमित्तं भेदनम्, प्राप्ते च निमित्ते नैमित्तिकं कर्तव्यम्. यच् च उक्तम्, व्यापन्नसंस्कारार्थं प्रायश्चित्तम् इति, नायं तस्य धर्मः. कुतः. नित्यसंयोगात्, नित्यवद् धोमः. अनित्यं हि भेदनम्, न हि नित्यम् अनित्यस्योपकर्तुं चोद्यते. यदि नित्यं दर्शपूर्णमासयोर् अङ्गं नानित्यस्योपकाराय. कुतः. कदाचिद् अनित्यं नैव स्यात्, तत्र कथं तस्योपकारकं भवेत्. तत्र को दोषः. न शक्यं [६७९]{*६/२३*} नित्येनोपकर्तुम्{*६/२४*}, तेन नित्यम् उपकुर्याद् इति वचनं प्रलाप एव. अथ नैमित्तिकम्, न दोषो भवति. तस्माद् अस्मत्पक्ष एव. अस्मिन् पक्षे यदा भिन्नम्, तदा होमः. यदा न भिन्नम्, तदा नैव होमो विधीयते. भवदीये पक्षे भवति दोषः, नित्यानित्ययोर् नास्ति संबन्ध इति. तस्मात् भिन्नमात्रे प्रायश्चित्तम् इति.
SK
NOTES: *{६/२३: E२: ५, २७४; E६: २,१५६}* *{६/२४: E१,६; E२: नित्यस्योपकर्तुम्}*
SK
गुणानां च परार्थत्वाद् वचनाद्{*६/२५*} व्यपाश्रयः स्यात् // MS_६,४.१३ //
SK
अस्ति वचने न गुणो गुणार्थो भवितुम् अर्हति{*६/२६*}, प्रकरणतः सर्वं प्रधानार्थम्. भिन्नम् अपि होमो ऽपि, न च भिन्नम् आधारभावेनोपदिश्यते. भिन्नस्याधारभावे हि न होमान्तरं विधीयेत. प्रधानस्यैव हि तदा भिन्नो गुण इति गम्यते. तत्राहवनीयसंयोगो बाध्येत. वचनाद् विकल्प इति चेत्. न, निमित्तत्वेन संभवात्, होमस्य च श्रुत्या विहितत्वात्. यदा होमो विधीयते, तदा श्रुत्या, यदा भिन्नो गुणः, तदा वाक्येन. तस्मान् नाधारो भिन्नः. यद्य् उच्येत, निमित्तपक्षे ऽपि न होमान्तरम्, प्रकृतस्यैव होमस्य निमित्तं विधीयेतेति. तन् न, अनुपादीयमानं हि निमित्तम् इत्य् उच्यते. यदि हि विधीयेत, निमित्तम् एव तन् न स्यात्. यदि च यस्यापि निमित्तं सो ऽप्य् उद्दिश्येत, तत्र द्वयोर् उद्दिश्यमानयोः संबन्ध एव न स्यात्. न चात्र भेदनं कुर्याद् इति विधीयते. भेदने निर्वृत्ते यद् अन्यच् छ्रूयते, तद् विधीयते.
SK
NOTES: *{६/२५: E१,६; E२ ओम्. वचनाद्}* *{६/२६: E२ (व्.ल्.): न गुणा गुणार्था भवितुम् अर्हन्ति}*
SK
भेदार्थम् इति चेत् // MS_६,४.१४ //
SK
अथोच्यते, एवम् उपायं तत्कपालं संधीयते. गायत्र्या [६८०]{*६/२७*} त्वा शताक्षरया संदधीतेति{*६/२८*} तत्कपालं संदध्याम्{*६/२९*} इति. तत्र वक्ष्यामः,
SK
NOTES: *{६/२७: E२: ५,२७६; E६: २,१५७}* *{६/२८: E२ (व्.ल्.): गायत्र्या संदधीतेति}* *{६/२९: E२ (व्.ल्.): कपालं संदध्याम्}*
SK
शेषभूतत्वात्{*६/३०*} // MS_६,४.१५ //
SK
न भेदनस्य शेषभूतं युज्यते, न तत् संधातुं शक्यते होमेन मन्त्रेण वा. मृदापि संधीयमानस्य भिन्नबुद्धिर् नैवापेयात्.
SK
NOTES: *{६/३०: E२: नाशेषभूतत्वात्; E२ वेर्zएइछ्नेत् इन् देर् Fउßनोते fएर्नेर् दिए Lएसर्त् शेषभूतत्वात् देर् गेद्रुच्क्तेन् Aउस्गबेन्}*
SK
अनर्थकश् च सर्वनाशे स्यात् // MS_६,४.१६ //
SK
सर्वनाशे च श्रूयते, भिन्नं कपालम् अप्सु प्रवहन्तीति{*६/३१*}, तत्रानर्थकः संस्कारः. ननु तत उद्धृत्योपधायिष्यते. नेति ब्रूमः, अन्यद् उपदधातीति ह्य् आमनन्ति. तसान् नैमित्तिकं कर्माङ्गं भिन्ने जुहोतीति.
SK
NOTES: *{६/३१: E१,६,E२ (व्.ल्.); E२: प्रहरतीति}*
SK
क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् // MS_६,४.१७ //
SK
दर्शपूर्णमासयोः श्रूयते, अथ यस्य पुरोडाशौ क्षायतस् तं यज्ञं वरुणो गृह्णाति. यदा तद् धविः संतिष्ठेत, अथ तद् एव हविर् निर्वपेत्. यज्ञो हि यज्ञस्य प्रायश्चित्तिर् इति. तत्र संदेहः. किं सर्वक्षामे प्रायश्चित्तम्, उतैकदेशक्षाम इति. किं प्राप्तम्. प्राप्तनिमित्तत्वात् कृत्स्ने वैकदेशे वा. एवं प्राप्ते ब्रूमः, क्षामे तु सर्वदाहे स्याद् इति. तुशब्दः पक्षं व्यावर्तयति, क्षामे सर्वदाहे प्रायश्चित्तं स्यात्. कुतः. एकदेशस्यावर्जनीयत्वात्, न शक्यत{*६/३२*} एकदेशक्षामता{*६/३३*} वर्जयितुम्. नियतम् अग्निसंयोगे दाह्यस्य सूक्ष्मा{*६/३४*} अवयवाः क्षीयन्ते. तप्तेषु च [६८१]{*६/३५*} कपालेष्व् अधः पाकार्थं पुरोडाशो ऽधिश्रीयते, उपरि चाङ्गारा अभ्युह्यन्ते, तद् अवर्जनीयम्. निमित्तत्वेनापि श्रूयमाणं नित्यम् एव स्यात्. तत्र यस्येति निमित्तश्रवणं विवक्षितं स्यात्. तस्मात् सर्वक्षामे प्रायश्चित्तम् इति.
SK
NOTES: *{६/३२: E२ (व्.ल्.): न शक्य}* *{६/३३: E२: एकदेशक्षामो}* *{६/३४: E२ (व्.ल्.): नियमेनाग्निसंयोगे ह्य् अस्य सूक्ष्मा}* *{६/३५: E२: ५,२७७; E६: २,१५८}*
SK
दर्शनाद् वैकदेशे स्यात् // MS_६,४.१८ //
SK
न चैतद् अस्ति, सर्वदाहे प्रायश्चित्तम् इति, एकदेशे क्षायति भवितुम् अर्हति. निमित्तं ह्य् उपसंप्राप्तं{*६/३६*} क्षाणं नाम. एकदेशक्षाणम् अपि क्षाणम् एव. यदि तत्र न क्रियते, श्रुतं न क्रियेत. न चैतद् युक्तम्. अपि च दर्शयति, यदा तद् धविः संतिष्थेत{*६/३७*}, अथैतद्{*६/३८*} एव हविर् निर्वपेद् इति, तेनैव हविषा संस्थानं दर्शयति. तत् सर्वक्षाणे नावकल्पते. तस्माद् एकदेश एव क्षायति प्रायश्चित्तम् इति.
SK
NOTES: *{६/३६: E२ (व्.ल्.): ह्य् उभयं प्राप्तं}* *{६/३७: E१,६; E२: संतिष्थते}* *{६/३८: E१,६; E२: अथ तद्}*
SK
अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः // MS_६,४.१९ //
SK
वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, यद् उक्तम्, एकदेशे ऽपि क्षायति{*६/३९*} प्रायश्चित्तम् इति, किं तर्हि. कृत्स्नक्षाम एव प्रायश्चित्तम्. उपसंप्राप्तं हि निमित्तम्, यच् छास्त्रोक्तं पुरोडाशौ क्षायत इति, कृत्स्नस्य क्षातिर्{*६/४०*} नावयवस्य. न चैकदेशक्षामे, तस्यावर्जनीयत्वात्. अथ यद् उक्तम्, क्षामेण हविषा समाप्तिर् दृश्यते, यदा तद् धविः संतिष्ठेतेति. उच्यते, संस्थाने निमित्ते प्रायश्चित्तम्. यदाप्य् अन्येनापि हविषा तत् संस्थाप्यते, तदापि प्रायश्चित्तम् इति न दोषः.
SK
[६८२]{*६/४१*}
SK
NOTES: *{६/३९: E१,६,E२ (व्.ल्.); E२: एकदेशे क्षायति}* *{६/४०: E२: क्षतिर्}* *{६/४१: E२: ५,२७७; E६: २,१५८}*
SK
तद्धविःशब्दान् नेति चेत् // MS_६,४.२० //
SK
एवं चेद् उच्यते, अन्येन हविषा यदा संस्थाप्यत इति. नैवम्. तद्धविःशब्दात्, तद्धविःशब्दो ऽत्र भवति. यदा तद्धविः संतिष्ठेतेति. अत्रान्येन हविषा संस्थाप्यमाने तद्धविःशब्दो नावकल्प्येतेति.
SK
स्याद् अन्यायत्वाद्{*६/४२*} इज्यागामी हविःशब्दस् तल्लिङ्गसंयोगात् // MS_६,४.२१ //
SK
स्याद् इज्यागामी{*६/४३*} हविःशब्दः. तद्धविः संतिष्ठेत तद्धविष्क कर्म संतिष्ठेतेति{*६/४४*}. ननु मुख्याभावे गौणो गृह्यते, नान्यथेति. उच्यते, मुख्याभाव एवायम्. कथम्. यदा संतिष्ठेत, तत् कर्म तेन हविषेति वाक्यं भिद्येत. अवाचकं च स्यात्. कर्मैव हि संतिष्ठते, न हविः, तेन निमित्तम्{*६/४५*}. तद् धविर् इत्य् अनुवादः. अनुवादश् चेद् अन्यहविष्के ऽपि कर्मणि संस्थिते प्रायश्चित्तम् इति गम्यते. कथं पुनर् हविःशब्दः कर्मणि वर्तत इति. तल्लिङ्गसंयोगात्, हविःसंबद्धं कर्म हविःशब्देन हविःसंबन्धाद्{*६/४६*} अवगम्यते, यथा प्रसह्यकारितया देवदत्तसंबद्धया{*६/४७*} लक्ष्यते सिंहः. एवं हविषापि कर्म लक्ष्यते. तस्मात् कृत्स्नक्षामे प्रायश्चित्तम् इति.
SK
NOTES: *{६/४२: E१ (Fन्.): २ HSS हबेन् अन्यायत्वात् निछ्त्}* *{६/४३: E२: इज्यगामी}* *{६/४४: E१ हत् तद्धविष्क कर्म सन्तिष्ठेत इन् Kलम्मेर्न् गेसेत्zत्}* *{६/४५: E२: तेन संस्थानं निमित्तम्}* *{६/४६: E१ (व्.ल्.): हविःष्व् एव बुद्धिसंबन्धाद्}* *{६/४७: E१,६; E२: देवदत्तसंबद्ध्या}*
SK
यथाश्रुतीति चेत् // MS_६,४.२२ //
SK
दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रूयते, तत्र [६८३]{*६/४८*} इदम् अस्ति वचनम्, यस्योभयं हविर् आर्तिम् आर्च्छेद् ऐन्द्रं पञ्चशरावमोदनं निर्वपेद्{*६/४९*} इति. तत्र संदेहः, किम् उभयस्मिन्न्{*६/५०*} आर्ते पञ्चशरावो निर्वप्तव्यः, उतान्यतरस्मिन्न् इति. किं प्राप्तम्. इति चेत् पश्यसि, एवंजातीयक एकस्मिन्न्{*६/५१*} इति. तत्र ब्रूमः, उभयोर् इति. कुतः. यथाश्रुति भवितुम् अर्हति, यद् यच् छ्रूयते, तद् अवगम्यते. उभयोश् चार्तौ श्रूयते, श्रूयमाणं च विवक्षितुं न्याय्यम्, इतरथा यावद् एव हविर् इति तावद् एवोभयं हविर् इति स्यात्. तस्माद् उभयोर् आर्त्यां पञ्चशराव इति.
SK
NOTES: *{६/४८: E२: ५,२७८; E६: २,१५९}* *{६/४९: Tऐत्Bर्. ३.७.१.८}* *{६/५०: E१ (व्.ल्.): उभयस्य}* *{६/५१: E१ (व्.ल्.): एवंजातीयके कस्यार्त्याम्; E२: एवंजातीयक एकस्यार्त्याम्}*
SK
न तल्लक्षणत्वाद् उपपातो हि कारणम् // MS_६,४.२३ //
SK
नैतद् एवम्. उपपातो ह्य् आर्तिसंबद्धं द्रव्यम्, तत्कारणम्. तस्य लक्षणं हविर् आर्तिः, तद् व्यस्तं समस्तं च निमित्तम्. न ह्य् उभयशब्देन शक्यं विशिष्टुम्, विशिष्यमाणे{*६/५२*} हि वाक्यम् भिद्येत, हविष आर्तौ पञ्चशरावः. स चोभयस्य हविष इति. आह, यदि विशेषणं न मृष्यते, हविषापि ते विशेषणं न प्राप्नोति. तद् अभिधीयते, मृष्यामहे हविषा विशेषणम्, अविशेष्यमाणे ऽनर्थकं स्यात्. यस्यार्तिम् आर्च्छेद् इत्य् अविशेषे यत्किंचिद् इति गम्यते{*६/५३*}. तत्र सर्वस्यैव किंचिद् आर्तिम् ऋच्छति, अन्ततश् चरितं निमिषितं चिन्तितम्{*६/५४*} इति. तत्र यस्येति निमित्तवचनं नित्यम् अनुपपन्नं{*६/५५*} गम्यते. तस्माद् अवश्यम् आर्तिर् विशेष्टव्या. सा च हविषा विशिष्यते, तथा हविः [६८४]{*६/५६*} आर्तिसंबन्धनिर्वृत्तिर् अनिमित्तं पञ्चशरावस्य. शक्नोति हि श्रुत्या तं संबन्धं वक्तुम्. हविर् उभयसंबन्धं तु वाक्येन ब्रूयात्, दुर्बलं च वाक्यं श्रुतेः. ननु हविर् आर्तिसंबन्धो ऽपि वाक्येनैव. उच्यते, आर्तिनिर्वृत्तिर् अपि तत्र गम्यते. सा च श्रुत्या, हविर् उभयसंबन्धे ऽत्यन्तं श्रुतिर् अवहीयते{*६/५७*}. तस्मान् न तत्संबन्धो निर्वर्त्यमानो निर्दिश्यत इति. कथं तर्ह्य् उभयशब्दः. उभयम् इति नित्यानुवादः, एकस्मिन्न् अप्य् आर्ते ऽपरस्मिन्न् अपि. तस्माद् उक्तं यस्योभयं हविर् आर्तिम् आर्च्छेद् इति.
SK
अथ कस्मान् न पदद्वयविशिष्टार्तिर् निमित्तं प्रतीयत इति, यस्योभयगुणविशिष्टं हविर् आर्तिम् आर्च्छेद् इति. अत्रोच्यते, कथं तावद् भवान् मन्यते, विशिष्टेनार्थेन विशिष्टार्तिर् निमित्तम् इति. आह, विशिष्टार्थस्य संनिधानाद् विशिष्टो ऽर्थ आर्तिसंनिहितः. किं पुनः स्यात्, यद्य् एवं भवेत्. तत उभयविशिष्टार्तिर्{*६/५८*} निमित्तम् इति गम्यते. अत्रोच्यते, इदं तावद् देवानांप्रियः प्रष्टव्यः. यस्यापि हि विशिष्टार्थ आर्तिसंनिहितो भवति. किं तस्याविशिष्टो दण्डैः पराणुद्यते. किम् अतो यन् न पराणुद्यते. एतद् अतो भवति, अविशिष्टगताप्य्{*६/५९*} आर्तिर् निमित्तं{*६/६०*} पञ्चशरावस्य भवति. ननूभयशब्दो हविर् विशेक्ष्यति{*६/६१*}. न, हविःशब्देनासंबध्यमानस् तन् न शक्नोति विशेष्टुम्. आनन्तर्यात् संभन्त्स्यते, तर्हि तथापि न समर्थः. न ह्य् असौ निवृत्तिं प्रयोजयति{*६/६२*}. आह, विशेषवचनत्वात् तन्निर्वर्तको भविष्यति, यथा शुक्ला गौरानीयताम् इति. न, एवम् अभिहिते कृष्णाम्{*६/६३*} आनयन्ति. शुक्लशब्द एनां गां कृष्णादिभ्यो निवर्तयति. उच्यते, विषम उपन्यासः, न तत्र गवाकृत्या द्रव्यं लक्षयित्वा, तस्यानयनम् उच्यते, तत्रापि चेद् एवम् अभविष्यत्, नैव एनां [६८५]{*६/६४*} शुक्लशब्दो{*६/६५*} व्यशेक्ष्यत. उभयविशेषणविशिष्टं तु तत्रानयनं प्रधानम् उच्यते. इह पुनर् आर्तिहविष्ट्वलक्षिते द्रव्ये पञ्चशरावः{*६/६६*}. किं पुनः कारणम्. प्रधानभूत आख्यातार्थे संहत्य विशेषणं भवति, परार्थे पुनर् वियुज्येति{*६/६७*}. उच्यते, प्रधानभूत आकृतिर् गुणो वा तत्संबन्धार्थम् उच्यते, तत्रोभयविशेषणविशिष्ट{*६/६८*} एकस्माद् वाक्याद् अवगम्यते. तद् विशिष्टं च कृत्वा कृती भवति. अन्यतरविशिष्टं कुर्वन्न् अश्रुतं कुर्यात्. यत्र पुनर् आकृतिलक्षिते द्रव्य आख्यातार्थः कीर्त्यते, तत्र सर्वेष्व् एव तज्जातीयेषूक्तो भवति. न तत्रैकस्मिन् निर्वृत्ते कृतं{*६/६९*} मन्येत. अपरस्मिन्न् अपि ह्य् आकृतिलक्षिते तद् उक्तम् एव. तत्रोक्तम् अप्रतिषिद्धं च किम् इति न क्रियेत. आख्यातार्थे पुनः प्रधाने न तस्याकृतिलक्षितेन संबन्धः. तत्र तदाकृतिकान्तरे ऽनुपसंह्रियमाणे ऽपि कृतम् एव प्रधानम्, सगुणं च प्रधानं भवति. न च किंचिच् छ्रुतं हीयेतेति. तस्मात् तत्र विशेषणं युक्तम्, न त्व् इह तथा. इह हि हविर् आकृतिकस्य द्रव्यस्यार्तौ पञ्चशराव इत्य् उक्तम्. तन् न शक्यं विशेषवचनेन प्रतिषेधावाचकेन निवर्तयितुम्. अपि चोभयशब्दे हविषा संबध्यमाने ऽपि नैवोभयविशिष्टार्तिः प्रतीयते. किं कारणम्. हविषोभयशब्दः संबध्यते. नार्तिम् आर्च्छेद् इत्य् अनेन पदेन. तत्र संनिहिते ऽप्य् उभयशब्दे हविःशब्दस्य यावानर्थः, तावतैवार्तिः संबध्यते. अविशिष्टश् च तत्रार्थः{*६/७०*}. तस्मान् नोभयविशिष्टार्तिर् निमित्तम् इति. अथार्त्याश्रयविभक्तियोगाद् उभयशब्दस्य, उभयविशिष्टार्तिर् इत्य् उच्यते. तन् न, विभक्तिसंयोगो हि हविर् विशेषणम् उभयशब्दं शक्नुयात् कर्तुम्, समभिव्याहारात्, नार्तिविशेषणम्. न ह्य् अस्यार्त्या हविर् विशिष्टस्य समभिव्याहारो ऽस्ति. [६८६]{*६/७१*} अथोच्यते, असत्य् अपि समभिव्याहार आर्तिशब्दसंनिधानात् तद्विशिष्टैवार्थिः प्रत्येष्यत इति. तन् न, असत्यां ह्य् आकाङ्क्षायां संनिधानम् अकारणं भवति, यथा भार्या रज्ञः, पुरुषो देवदत्तस्येति. एकवाक्यगतत्वात् तद्विशिष्टं गम्यत इति चेत्. नैतद् एवम्. एकस्मिन्न् अपि वाक्ये तदवयवभूतस्यानपेक्षितस्य नैव भवति संबन्धः, यथा, अश्वेन व्रजति, श्वेतेन पटेनावृत इति, नानपेक्षितस्याश्वस्य श्वैत्यं विशेषणं भवति. अथोच्यते, आर्तिविशिष्टेन हविषोभयस्य{*६/७२*} संबन्ध इति. तद् अपि नोपपद्यते. न ह्य् आर्तिम् आर्च्छेद् इति हविर् विशेषणत्वेनोपादीयते. किं तर्हि. पञ्चशरावस्य निमित्तत्वेन, हविर् आर्तेर् उभयपञ्चशरावसंबन्धे यौगपद्येनाभ्युपगम्यमाने वाक्यं भिद्येत. अथ हविर् आकृतिलक्षितेन संबद्धं आर्च्छेद् इति पुनर् हविर् विशिष्टेनोभयशब्देन संबध्येत. तथापि वाक्यं भिद्येत. तस्मान् नोभयविशिष्टार्तिर् निमित्तम्. आह, यथैवाख्यातार्थप्राधान्य उभयविशिष्तोच्यत इति नान्यतरविशिष्टा निमित्तम् गम्यते. एवम् इतरस्मिन्न् अपि पक्षे उभयविशेषणविशिष्टा सा उच्यते, इति यद्य् अपि स्वेन आत्मनाविशिष्टाविशिष्टा, तथाप्य् अन्यतरविशिष्टा भवन्ती न निमित्तं भवितुम् अर्हतीति. को विशेष{*६/७३*} इति. तद् अभिधीयते, मत्पक्ष उपादेयत्वेन विशेषणद्वयम्, त्वत्पक्षे पुनर्लक्षणत्वेन. आह, किम् अतः, यल् लक्षणत्वेन. उच्यते{*६/७४*}, एतद् अतो भवति. हविराकृत्या लक्ष्यते द्रव्यम्, तस्य किंचिद् वक्तव्यम् इति. तद् अलक्षितम् उच्यमानं न विज्ञायेत कस्य स्याद् इति. अथवा सर्वस्यैव द्रव्यस्येति गम्येत. तस्मिन्न् उभयस्मिन्न् अप्य् अविशिष्टे{*६/७५*} सति तस्याश्रयं लक्षयितुं हविराकृतिर् उच्यते. [६८७]{*६/७६*} तत्र द्वयम् आपतति. यद् धविराकृतिकं तदार्तम् इति, यद् वा यद् धविराकृतिकम्, तद् उभयम् इति. यदि तावद् यद् धविराकृतिकं तदार्तम् इत्य् अपेक्ष्यते. ततो हविराकृतिकम् उभयम् अनुभयं वार्तं निमित्तं गम्यते. अथ यद् धविराकृतिकं तद् उभयम् इति ततो नार्तिर् हविषा विशेष्यते. हविषाविशिष्यमाणायम्{*६/७७*} अर्ताव् उभयशब्दो हविर् विशेक्ष्यतीति, नैतद् अवकल्पते. कथम् इति. एवं किल विशेष्येत, यद् धविराकृतिकम् उभयम् इति, तत्र पुनर् वक्तव्यम्, यद् धविराकृतिकम् उभयम्, तच् चेद् आर्तम् इति. कथं तेन विशिष्टेनार्तिः संबध्येतेति, न{*६/७८*} पुनर् उभयहविःशब्दौ चार्तिविशेषणार्थम्{*६/७९*} उच्चार्येयाताम्. अथ पुनरुच्चारणं न क्रियते, तथा यद्य् अपि हविःशब्दस् तन्त्रेणार्त्युभयाश्रयलक्षणार्थं{*६/८०*} नोच्चार्येत. अविशिष्टम्{*६/८१*} आर्तेर् लक्षणं स्यात्, अविशिष्टम् उभयस्य. विशिष्टे इष्टे पुनरुच्चारणं कर्तव्यम्. तत्र वाक्यभेदः. एवम् उभयशब्दो यद्य् आर्च्छतिना संबध्येत, न हविर्विशिष्टं स्यात्, तत्राविशिष्टस्य हविष आर्तिर् निमित्तम् स्यात्. अथ हविःशब्देन संबध्येत, पुनरार्तिसंबन्धार्थं हविःशब्दसहितम् उच्चार्येत, तच् चैतद् इति वा सर्वनाम्ना निर्दिश्येत, तत्र स एव वाक्यभेदः. उपादेयत्वे पुनर् नान्योन्यविशेषणत्वेन प्रयोजनम्. द्वयम् अप्य् आर्तिं विशेष्टुम् उच्चार्येत. तत्र नान्यतरविशिष्टार्तिर् निमित्तं भविष्यति. लक्षणत्वे त्व् अन्यतरविशिष्टा भवतीत्य् एष विशेषः. अपि च, सर्वस्वैव पदस्य पदान्तरसंबन्धे सति च, शब्दाद् ऋते तृतीयेन पदेन सत्यां गतौ संनिहितेनापि संबन्धो न युक्तः, न हि भवति, भार्या राज्ञः पुरुषो देवदत्तस्येत्य् अत्र राजा पुरुषविशेषणम्. असत्यां तु गताव् उपादेयस्यानेकस्यापि प्रधानेन संबन्धो ऽवकल्पते व्यवहितेनापि. व्यव[६८८]{*६/८२*}धानाद् अर्थो बलीयान् इति, लक्षणत्वे तु लक्षणद्वयसंनिपाते ऽवश्यं हेये ऽन्यतम् अस्मिन्{*६/८३*} व्यवहितो गुणो वा हातव्यो भवति.
SK
NOTES: *{६/५२: E१,६; E२: विशेष्यमाणे}* *{६/५३: E१ (व्.ल्.): अविशेषाद् यत्किंचिद् इति गम्यते}* *{६/५४: E१ (fन्.): Eइनिगे HSS हबेन्: चिन्तितम् निछ्त्}* *{६/५५: E१,६; E२: नित्ये ऽनुपपन्नं}* *{६/५६: E२: ५,२८१; E६: २,१६०}* *{६/५७: E१,६; E२: एव हीयते}* *{६/५८: E२ (व्.ल्.): उभयार्थेत विशिष्टार्तिर्}* *{६/५९: E१,६; E२: अविर्विशेष्टगताप्य्}* *{६/६०: E१,६; E२: निमित्त}* *{६/६१: E१,६; E२: हविशेक्ष्यति (?)}* *{६/६२: E२ (व्.ल्.): प्रत्याययति}* *{६/६३: E१,६; E२: एवम् अभिहिते न कृष्णाम्}* *{६/६४: E२: ५,२८२; E६: २,१६०}* *{६/६५: E१ (व्.ल्.): अशुक्लशब्दात्}* *{६/६६: E१,६,E२ (व्.ल्.); E२: पञ्चशरावः कर्तव्यः}* *{६/६७: E२ (व्.ल्.): वियुत्येति}* *{६/६८: E१,६; E२: तत्रोभयविशेषणविशिष्टम्}* *{६/६९: E१,६, E२ (व्.ल्.); E१ (व्.ल्.), E२: कृती}* *{६/७०: E२ (व्.ल्.): तस्यार्थः}* *{६/७१: E२: ५,२८४; E६: २,१६१}* *{६/७२: E२ (व्.ल्.): हविषोभयशब्दस्य}* *{६/७३: E१,६; E२: को वा विशेष}* *{६/७४: E२ (व्.ल्.): तद् उच्यते}* *{६/७५: E१,६,E२ (व्.ल्.); E२: निर्दिष्टे}* *{६/७६: E२: ५,२८५; E६: २,१६२}* *{६/७७: E२: हविषाविशेष्यमाणायम्}* *{६/७८: E२ ओम्. न}* *{६/७९: E२: पुनश् चोभयहविःशब्दाव् आर्तिविशेषणार्थम्}* *{६/८०: E१,६,E२ (व्.ल्.); E२: तन्त्रेणार्त्युभयाश्रयलक्षणत्वे}* *{६/८१: E१,६; E२: तथाप्य् अविशिष्टम्}* *{६/८२: E२: ५,२८७; E६: २,१६३}* *{६/८३: E१,६; E२: ऽन्यतरस्मिन्}*
SK
होमाभिषवभक्षणं च तद्वत् // MS_६,४.२४ //
SK
ज्योतिष्टोमे श्रूयते, हविर्धाने ग्रावभिर् अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्{*६/८४*} भक्षयन्तीति. तत्रान्येन वचनेनाभिषव उक्तः, यजतिना होमः. तौ तावन् न विधीयते, न च तयोः क्रमः. अर्थाद् एव हि स प्राप्तः. तस्माद् एककर्तृकं होमाभिषवाभ्यां भक्षणं विधीयते. अभिषवे कृते होमे च तत्कर्तृभिः भक्षणं कर्तव्यम् इति. तत्रैष संदेहः. किम् उभयं यः कर्यात् स एव भक्षयेत्, उतान्यतरेणापि भक्षणम् इति. किम् प्राप्तम्. होमाभिषवभक्षणं च तद्वत्, तद्वद् एव स्यात्, यद्वद् धविष आर्तिः. कथम्. नैतद् एवं संबध्यते, अभिषुत्य ततो हुत्वा ततो भक्षयेद् इति. नानेनाभिषवस्य होमस्य च क्रमः कीर्त्यते, अभिषुत्य ये जुह्वति, ते भक्षयन्तीति. वाक्यं ह्य् एवं भिद्येत, अभिषुत्य भक्षयन्ति, हुत्वा भक्षयन्तीति. तस्माद् धोमाभिषवयोः परस्परेण संबन्धो नास्तीत्य् एकेनापि भक्षणं संबध्येत. अपरेणापि, अभिषुत्य भक्षयन्तीति{*६/८५*}. तस्माद् अन्यतरेण निमित्तेन भक्षणं भवतीति.
SK
NOTES: *{६/८४: E२ हत् भक्षान् इन् Kलम्मेर्न्}* *{६/८५: E१ (व्.ल्.): अपरेणापि, हुत्वा भक्षयन्तीति}*
SK
उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् // MS_६,४.२५ //
SK
उभाभ्यां वा निमित्ताभ्यां भक्षयेत्. न भक्षणं होमाभिषवयो[६८९]{*६/८६*}र् धर्मो विधीयते. किं हि स्याद् यदि तयोर् धर्मो विधीयेत. होमाभिषवौ{*६/८७*} प्रधानम् इति भक्षणं गुणः प्रतिप्रधानं भिद्येत. अथ पुनर् उभाभ्यां निमित्ताभ्यां भक्षणं विधीयते. तस्मिन् विहित एको ऽर्थो विहितो भवति. तेनैकं वाक्यम्, तद् एतावति पर्यवसितं भवति, अभिषुत्य हुत्वा भक्षयन्तीति. तत्रैतद् अवान्तरं वाक्यम्, हुत्वा भक्षयन्तीति. न च महावाक्ये सत्य् अवान्तरवाक्यं प्रमाणं भवति, पदान्तरस्य बाधनात्, यथा, नोद्यन्तम् आदित्यम् ईक्षेतेति प्रतिषेधो गम्यते महावाक्यात्, अवान्तरवाक्याद् ईक्षणविधानम्. तस्माद् अन्यतरनिमित्तं भक्षणम् अश्रुतम्. महावाक्याद् इदम् अवगम्यते द्वे निमित्ते भक्षणस्येति. भक्षणं चान्यथा कुर्वञ् छ्रुतं परित्यजेत्. तस्माद् उभाभ्यां भक्षणम्{*६/८८*} इति.
SK
NOTES: *{६/८६: E२: ५,२८८; E६: २,१६३}* *{६/८७: E१,६; E२: ततो होमाभिषवौ}* *{६/८८: E१,६,,E२ (fन्.); E२ उभाभ्यां निमित्ताभ्यां भक्षणम्}*
SK
पुनराधेयमोदनवत् // MS_६,४.२६ //
SK
अग्निहोत्रे श्रूयते, यस्योभाव् अनुगताव् अग्नी{*६/८९*} अभिनिम्लोचेत्, यस्य वाभ्युदियात् पुनराधेयम् एव तस्य प्रायश्चित्तिर् इति. तत्र संदेहः. किम् अन्यतरानुगमने पुनराधेयम्, उतोभयानुगमन इति. किं प्राप्तम्. पुनराधेयमोदनवत् स्यात्, यथा पञ्चशरावो ऽन्यतरस्यार्तौ{*६/९०*} भवति. एवं पुनराधेयम् अन्यतरानुगमने भवितुम् अर्हति, वाक्यभेदप्रसङ्गाद् इति, यथेह यक्ष्ये, इह सुकृतं करिष्यामीत्य् एवम् एवाभिसंबन्ध{*६/९१*} इति.
SK
[६९०]{*६/९२*}
SK
NOTES: *{६/८९: E१,६; E२: यस्योभाव् अग्नी अनुगताव्}* *{६/९०: E१,६; E२: ऽन्यतरस्यार्तो}* *{६/९१: E१ (व्.ल्.): इत्य् एवैनम् एव तत् समिन्धत}* *{६/९२: E२: ५,२८९; E६: २,१६४}*
SK
द्रव्योत्पत्तेर् वोभयोः{*६/९३*} स्यात् // MS_६,४.२७ //
SK
द्रव्ये विनष्टे तस्यैव द्रव्यस्योत्पत्तिर् अत्र प्रायश्चित्तम्. तस्य{*६/९४*} दृष्टं प्रयोजनम्, कथं द्रव्यं भवेद् इति पुनराधानं क्रियते, तत्रैष धर्मः, द्वाव् अग्नी सहोत्पद्येते, न पृथक्त्वेन. तत्रान्यतरानुगमने न शक्यत एक एवाधातुम्. विगुणं स्यात्{*६/९५*}. अथ द्वितीयम् अप्य् आदधीत. स यदि तावद् आहवनीयः. तत्राहवनीयो ऽन्यो होमार्थो विद्यत एवेति न स होमाय स्यात्. यश् च होमार्थम् उत्पाद्यते स आहवनीयः, यत एष संस्कारशब्दः{*६/९६*}, संस्कारशब्दश् चैकेनापि संस्कारेण विना न भवति. एषो ऽपि च संस्कारः, यद् धोमार्थता, यद् आहवनीये जुहोतीति{*६/९७*} श्रूयते{*६/९८*}, तद् एकस्मिन्न् अनुगते, एकस्मिन्न् आधीयमाने वैगुण्यम्, द्वयोर् अपि हि{*६/९९*} वैगुण्यम् एव. तस्मान् नैकस्मिन्न् अनुगते पुनराधेयम् अशक्यत्वाद् इति.
SK
NOTES: *{६/९३: E२ (व्.ल्.): द्रव्योत्पत्तेश् चोभयोः}* *{६/९४: E१ (व्.ल्.): तस्या}* *{६/९५: E१,६; E२: विगुणं हि स्यात्}* *{६/९६: E१,६; E२: संस्कारः}* *{६/९७: Tऐत्.Bर्. १.१.१०.५}* *{६/९८: E१,६; E२: जुहोतीति हि श्रूयते}* *{६/९९: E२ ओम्. हि}*
SK
पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् // MS_६,४.२८ //
SK
दर्शपूर्णमासयोः श्रूयते, यस्योभयं हविर् आर्तिम् आर्च्छेद् ऐन्द्रं पञ्चशरावमोदनं निर्वपेद्{*६/१००*} इति. तत्र संदेहः. किं हविष्य् आर्ते पञ्चशरावः प्रतिनिधिः, उत निमित्ते कर्मान्तरम् इति. कथं प्रतिनिधिः, कथं कर्मान्तरम् इति. यद्य् एवम् अभिसंबन्धो भवति, पञ्चशरावं निर्वपेत् कुयाद्{*६/१०१*} इति, [६९१]{*६/१०२*} ततः सांन्यायस्य कार्ये पञ्चशरावः प्रतिनिधिर् इति. अथ न पञ्चशरावो निर्वपतिना{*६/१०३*}, किं तु देवतया संबध्यते{*६/१०४*} पञ्चशरावम् ऐन्द्रं कुर्याद् इति, ततो निमित्ते यजतिर् विधीयते. किं तावत् प्राप्तम्. पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात्. पञ्चशरावः सांन्याय्यस्य{*६/१०५*} प्रतिनिधिः. कुतः. द्रव्यश्रुतेः, द्रव्यस्य निर्वापे श्रवणम्, नेन्द्रसंबन्धः{*६/१०६*}. कुतः. एवं निर्वापविधिर् भविष्यति, तत्र श्रुतिर् विधायिका, इतरथा द्रव्यदेवतासंबन्धे वाक्यं स्यात्, तच् च{*६/१०७*} दुर्बलं श्रुतेः. तस्मात् प्रतिनिधिर् इति.
SK
NOTES: *{६/१००: Tऐत्.Bर्. ३.७.१.८}* *{६/१०१: E१ सेत्zत् कुयाद् (कुर्याद्?) इन् Kलम्मेर्न्; E२,६: निर्वपेत् कुर्याद् इति}* *{६/१०२: E२: ५,२९०; E६: २,१६४}* *{६/१०३: E१,६; E२: पञ्चशरावो ततो निर्वपतिना}* *{६/१०४: E१ (व्.ल्.): पञ्चशरावो देवतया संबध्यते; पञ्चशरावो न निर्वपतिना संबध्यते}* *{६/१०५: E१; E२,६: सांनाय्यस्य}* *{६/१०६: E१,६; E२: नेन्द्रसंबन्धे}* *{६/१०७: E१; E२,६: तत्र}*
SK
चोदना वा द्रव्यदेवताविधिर्{*६/१०८*} अवाच्ये हि // MS_६,४.२९ //
SK
निमित्ते वा यजतिः कर्मानतरम्, द्रव्यदेवताविधिः{*६/१०९*}. द्रव्यदेवतम् इह श्रूयते, पञ्चशरावम् ऐन्द्रं कुर्याद् इति. इतरथा ह्य् ऐन्द्रम् इति प्रमादपाठो ऽवगम्येत. ऐन्द्रमाहेन्द्रयोर् वायथार्थानुवाद ऐन्द्रम् इति स्यात्. अवाच्ये हि ते देवते, ऐन्द्रशब्देनेन्द्रो महेन्द्रश् च न शक्यो ऽनुवदितुम्. विशेषणत्वे वाक्यभेदः. ननु श्रुतिर् बलीयसीत्य् उक्तम्. सत्यम् एवम्, किं त्व् इतरस्मिन् पक्षे बाध्यतेतरां श्रुतिः, ऐन्द्रशब्दस्यातन्त्रत्वात्//
SK
NOTES: *{६/१०८: E१,६,E२ (व्.ल्.); E२: द्रव्यदेवताविधेर्}* *{६/१०९: E१,६,E२ (व्.ल्.); E२: निमित्ते वाङ्गभूतं कर्मानतरं यजतिः, द्रव्यदेवताविधेः}*
SK
स प्रत्यामनेत् स्थानात् // MS_६,४.३० //
SK
स एष नैमित्तिको यागः, किम् अमावास्यां प्रत्यामनेत्, [६९२]{*६/११०*} नेति. किं प्राप्तम्. स प्रत्यामनेत्, स्थानात्, स एष यागो ऽमावास्यां प्रत्याम्नातुम् अर्हति. कुतः. स्थानात्, यागे विनष्टे याग एष श्रूयमाणो यदि न नष्टस्याङ्गम्, ततो ऽर्थवान् भवति. अथाङ्गम्, निष्प्रयोजनस्यार्थं{*६/१११*} क्रियमाणं निष्प्रयोजनम् एव भवितुम् अर्हति, विगुणं च निष्प्रयोजनम् एव, विनष्टम् आमावास्यम् इति प्रत्यक्षम्. इदम् अपि कर्तव्यम् इति शाब्दम्, यद् विनष्टम्, तन् निष्फलम् इति न कर्तव्यम्. इदं च कर्तव्यम् इति प्रत्याम्नायो ऽवगम्यते.
SK
NOTES: *{६/११०: E२: ५,२९१; E६: २,१६५}* *{६/१११: E२: निष्प्रयोजनस्यार्थे; E६: निष्प्रयोजनस्याथ}*
SK
अङ्गविधिर् वा निमित्तसंयोगात् // MS_६,४.३१ //
SK
अङ्गं वैतद् विधीयते. हविष्य् आर्तौ निमित्ते यागः श्रूयते, तत्र त्रयम् आपतति. यद् वा निमित्ते स्वतन्त्रं कल्प्यं फलम्, यद् वामावास्याया यत् कार्यं तद् अस्य, यद् वा तस्याङ्गम् इति. स्वप्रधानं तावन् न{*६/११२*}, कल्प्यत्वात् फलस्य. नामावास्यायाः कार्ये. किं कारणम्. अश्रवणात्, नैवं श्रूयते, तस्याः कार्ये वर्तत इति, कर्तव्योपदेशेनापि नान्यतमाध्यवसानं त्रिष्व् एषु पक्षेषु, तेषु च पक्षेषु विवक्षितेषु{*६/११३*} कर्तव्योपदेशो ऽवकल्प्यते. नन्व् एवम् अभिसंबन्धो भविष्यति, यस्योभयं हविर् आर्तिम् आर्च्छेत् स एतेन यागेन साधयेत्, यत् साधयितुकामः. किं चासौ साधयितुकामः, यद् अमावास्यायाः फलम् इति. अत्रोच्यते, फलपदेन संबन्धाभावात् संबन्धस्य विधायकं वाक्यम्. श्रुत्या च यागकर्तव्यता विधीयते, सा च वाक्याद् बलीयसी. तस्मान् न तत्कार्ये वर्तत इति. किं{*६/११४*} तर्हि प्रयोजनम्. तस्या अमावास्याया अङ्गम्. नन्व् एतद् अपि नास्ति तस्या अङ्गम् इति. अत्रोच्यते{*६/११५*}, तत्संबन्धेन समाम्नानात्{*६/११६*} तत्प्रयोगवचनेन गृह्यते, दर्शपूर्णमासाभ्यां फलं [६९३]{*६/११७*} साधयेत् सर्वैर् अङ्गैः सह. अस्यां चार्ताव् एष याग इतिकर्तव्यतेति. तस्माद् एवम् अवगम्यते, विनष्टे हविष्य् आमावास्यं यन् न शक्नोति स्वकार्यं कर्तुम्, तद् अनयेतिकर्तव्यतया सहितं शक्नोतीति. तस्मान् निमित्ते कर्माङ्गम् इति.
SK
NOTES: *{६/११२: E१,६; E२: स्वातन्त्र्यां पावन् न}* *{६/११३: E१,६,E२ (व्.ल्.); E२: त्रिष्व् अपि पक्षेषु विवक्षितेषु}* *{६/११४: E२ ओम् किं}* *{६/११५: E१,६; E२: तत्रोच्यते}* *{६/११६: E१ (व्.ल्.): तत्संनिधि समाम्नानात्}* *{६/११७: E२: ५,२९२; E६: २,६९३}*
SK
विश्वजित्त्वप्रवृत्ते{*६/११८*} भावः कर्मणि स्यात् // MS_६,४.३२ //
SK
एतद् आम्नायते, सर्वाभ्यो वा एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्यः, आत्मानम् आगुरते, यः सर्वत्रायागुरते, विश्वजितातिरात्रेण सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेत, सर्वाभ्य एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्यः, आत्मानं निष्क्रीणीत इति. सर्वत्रागोरणे{*६/११९*} निमित्ते विश्वजिच् छ्रूयते. तत्र संदेहः. किं सर्वत्रागूर्य यः सर्वत्रं प्रयुङ्क्ते, तस्य विश्वजित्, उत यो न प्रयुङ्क्ते तस्येति. किं तावत् प्राप्तम्. यश् च प्रयुङ्क्ते, यश् च नेत्य् अविशेषात्. अथवा प्रयुञ्जानस्य{*६/१२०*}. कुतः. निमित्ते कर्माङ्गम् एवंजातीयकम् इत्य् उक्तम्. तद् अप्रयुज्यमानस्य कथम् अङ्गं स्याद् इति. एवं प्राप्ते ब्रूमः, विश्वजित् त्व् अप्रवृत्ते भवेत्, सर्वस्य क्रियाया अभावे विश्वजित्. किं कारणम्. एवं हि श्रूयते, यः सत्रायागुरते, स विश्वजितातिरात्रेण यजेतेति. यः सत्रं करिष्यामीत्य् एवम् आगुरते, स विश्वजिता यागेन साधयेद् इति. यद् अर्थम् असौ सत्रं कर्तुम् इच्छति, तद् अर्थम् इति गम्यते. कथम्. य आगुरते, स तेन यजेत, यागेन निर्वर्तयेद् इति वाक्यार्थो गम्यते, न यागं निर्वर्तयेद् इति. कुतः. यागस्य गुणत्वेन श्रवणात्. कथं तस्य गुणत्वम्. [६९४]{*६/१२१*} तृतीयानिर्देशात्, प्राधान्ये हि फलं कल्प्येत. इतरस्मिंस् तु पक्षे प्रत्यक्षाद् वाक्यात् फलावगमः.
SK
NOTES: *{६/११८: E२ (व्.ल्.): विश्वजिदप्रवृत्ते}* *{६/११९: E१,६,E२ (व्.ल्.); E२: सर्वत्रागूरणे}* *{६/१२०: E१,६; E२: प्रयुञ्जानस्येति}* *{६/१२१: E२: ५,२९४; E६: २,१६६}*
SK
निष्क्रयवादाच् च // MS_६,४.३३ //
SK
एवं तत्र श्रूयते, सर्वाभ्यो वा एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्य यद्{*६/१२२*} आत्मानं निष्क्रीणीत इति. निष्क्रयद्वारेण च संस्तवः प्रवृत्ते न युज्यते. तस्माद् अप्रवृत्ते विश्वजिद् इति. अथ कस्मान् नैवम् अभिसंबन्धः क्रियते. आगूर्य सत्राय विश्वजिता यजेतेति. विश्वजितः सत्रस्य च संबन्धो विज्ञायेत{*६/१२३*}, आगोरणवेलायाम्{*६/१२४*} इति. नैवम्, आगोरणविशेषणं{*६/१२५*} हि सत्रं सत्रविश्वजित्संबन्धे व्यवहितकल्पना स्यात्. श्रुतिश् च पुरुषेण विश्वजितं संबन्धयति, विश्वजिता यजेत पुरुष इति, न सत्रेण. सत्रस्य विश्वजिद् याग इति, आगूर्येति च. एवं श्रवणम् अर्थवद् भवति. सत्राङ्गत्वे त्व् अर्थप्राप्तं न वक्तव्यम्. न च, आगूर्य यजेतेत्य् आगोरणानन्तर्यं{*६/१२६*} शक्यं विधातुम्. अशब्दार्थो हि तदाश्रीयेत, समानकर्तृकता हि शब्दवती, पूर्वकालभावस्य चार्थप्राप्तत्वान् न वक्तव्यता. तस्माद् आगूर्येत्य् अत्रैव विश्वजितः संबन्धः{*६/१२७*}. स चेत्, आगूर्य{*६/१२८*} न सत्रेण यजेत, तस्य विश्वजिद् इति.
SK
NOTES: *{६/१२२: E२ ओम्. यद्}* *{६/१२३: E१,६; E२: विज्ञायते}* *{६/१२४: E१,६; E२: आगुरणवेलायाम्}* *{६/१२५: E१,६; E२: आगूरणविशेषणं}* *{६/१२६: E१,६; E२: आगूरणानन्तर्यं}* *{६/१२७: E१,६; E२: विश्वजितो ऽभिसंबन्धः}* *{६/१२८: E१,६; E२: चेत्, य आगूर्य}*
SK
वत्ससंयोगे व्रतचोदना स्यात् // MS_६,४.३४ //
SK
दर्शपूर्णमासयोः श्रूयते, बर्हिषा वै पौर्णमासे व्रतम् उपयन्ति, वत्सेनामावास्यायाम्{*६/१२९*} इति. तत्र संदेहः, किं [६९५]{*६/१३०*} वत्ससाधनकं व्रतं विधीयते, उत व्रतस्य काल इति. अथ वत्सो व्रताङ्गम् इति. किं प्राप्तम्. वत्ससाधनकं व्रतं विधीयत इति. अमानास्यायां वत्सैर् व्रतं कुर्याद् इति, वत्सव्रतसंयोगो ऽपूर्वः. स विधीयते, तस्मिंश् च विधीयमान उभयम् अपि विहितं भवति, वत्सो व्रतं च.
SK
NOTES: *{६/१२९: E१,६; E२: वत्सैर् अमावास्यायाम्}* *{६/१३०: E२: ५,२९५; E६: २,१६७}*
SK
कालो वोत्पन्नसंयोगाद् यथोक्तस्य // MS_६,४.३५ //
SK
यथोक्तस्य वचनान्तरेण प्राप्तस्य{*६/१३१*} कालो ऽयं विधीयते. कुतः. उत्पन्नसंयोगात्, उत्पन्नसंयोगो ऽयं व्रतस्य, नोत्पत्तिसंयोगः. कथम्. अमाषममांसं बहुसर्पिष्कं व्रतं व्रतयन्तीति विहितं पूर्वं व्रतम्. अप्रज्ञातश् च कालः. तस्मात् कालविधिर् इति.
SK
NOTES: *{६/१३१: E१ सेत्zत् वचनान्तरेण प्राप्तस्य इन् Kलम्मेर्न्}*
SK
अर्थापरिमाणाच् च // MS_६,४.३६ //
SK
न च शक्यो{*६/१३२*} ऽत्रार्थः परिमातुम्, वत्सेन व्रतम् उपयन्तीति किं वत्सो ऽत्र व्रतयितव्य एवं वत्सेन व्रतम् उपगतं भवति{*६/१३३*}, किं वत्सेन हस्तस्थानीयेन व्रतयितव्यम् इत्य् एवं तद् उपेतं भवति{*६/१३४*}, उत वत्सं संनिधाय तद् उपेयाद्{*६/१३५*} इति. नैव व्यवतिष्ठते शास्त्रार्थः. करणं ह्य् एतन् निर्दिष्टम्, नेतिकर्तव्यता. एतावद् उक्तम्, वत्ससाधनं व्रतं कुर्यात्. कथम् इत्य् एतद् अविशेषाकाङ्क्षम् एवावतिष्ठेत. नैवार्थः परिच्छिद्यते, व्रते किं वत्सेन क्रियत इति. अथवा यद् वा तद् वेति. तथा वत्सो व्रतेन संबध्यमान इष्टः स्यात्, अपरार्थताम् आपद्येत, परार्थतां चास्य द्योतयति विभक्तिस् तृतीया. साधकतमे हि सा भवति. तस्माद् अपि कालार्थः संयोगः.
SK
NOTES: *{६/१३२: E२ (व्.ल्.): न च सत्यम् एतत्, शक्यो}* *{६/१३३: E१ हत् एवं वत्सेन व्रतम् उपगतं भवति इन् Kलम्मेर्न्}* *{६/१३४: E१ हत् एवं तद् उपेतं भवति इन् Kलम्मेर्न्}* *{६/१३५: E१,६; E२: संनिःधायान् यद् एतम् उपेयाद्}*
SK
वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् // MS_६,४.३७ //
SK
यद् उक्तम्, विहितत्वाद् व्रतस्यानुवाद इति, सत्यम् एतत्{*६/१३६*}. [६९६]{*६/१३७*} यद्{*६/१३८*} उक्तम्, कालविधानार्थ इति. तन् न, वत्सस् तदङ्गत्वेन विधीयते. कुतः. श्रुतिसंयोगात्, वत्से ऽङ्गे विधीयमाने श्रुतिर् निमित्तम्, काले लक्षणशब्दः{*६/१३९*} स्यात्. श्रुतिलक्षणाविशये च श्रुतिर् न्याय्या. तस्माद् अङ्गं वत्स्य इति.
SK
NOTES: *{६/१३६: E१,६,E२ (व्.ल्.); E२: सत्यम् एवम्}* *{६/१३७: E२: ५,२९६; E६: २,१६८}* *{६/१३८: E१,६; E२: यत् तूक्तम्}* *{६/१३९: E१,६; E२: लक्षणाशब्दः}*
SK
कालस् तु स्याद् अचोदना // MS_६,४.३८ //
SK
कालस् त्व् एष निर्दिश्यते, न वत्सो ऽङ्गं विधीयते. नैष चोदना, बर्हिषा वै पौर्णमासे व्रतम् उपयन्ति. वत्सेनामावास्यायाम्{*६/१४०*} इति. कथम् अवगम्यते. विधिनैकवाक्यत्वात्, परस्ताच् च विधिः समाम्नायते, पुरा वत्सानाम् उपाकर्तोर् दंपती अश्रीयताम्{*६/१४१*} इति. यद्य् एषो ऽपि विधिः स्यात्, वाक्यम् भिद्येत. अनुवादश् च तथाभूतस्यार्थस्य भवति. न च वत्साङ्गता अप्राप्ता{*६/१४२*}, अप्राप्तस्{*६/१४३*} तु कालः.
SK
NOTES: *{६/१४०: E१,६; E१: वत्सैर् अमावास्यायाम्}* *{६/१४१: E१,६; E२: अश्नीयासाम्}* *{६/१४२: E१,६,E२ (व्.ल्.); E२: प्राप्ता}* *{६/१४३: E१,६,E२ (व्.ल्.); E२: प्राप्तस्}*
SK
अनर्थकश् च कर्मसंयोगे // MS_६,४.३९ //
SK
न च शक्यो वत्सो ऽत्र व्रतयितुम्, कर्मसंयोगे वत्सेन नार्थः शक्यते कश्चित् कर्तुम्. तस्माद् अपि न वत्सो ऽङ्गम्.
SK
अवचनाच् च स्वशब्दस्य // MS_६,४.४० //
SK
न चैतद् उच्यते, विश्वस्य{*६/१४४*} श्रपितं वत्सं व्रतयिष्यत इति. न च, अस्यार्थस्य स्वशब्दः श्रूयते. वत्स इत्य् आकृतिशब्दो मांसे न वर्तते. तस्माद् एष काल इति//
SK
NOTES: *{६/१४४: E१,६; E२: विशस्य}*
SK
कालश् चेत् संनयत्पक्षे तल्लिङ्गसंयोगात् // MS_६,४.४१ //
SK
कालार्थः संयोग इत्य् एतत् समधिगतम्, इदानीं संदेहः. [६९७]{*६/१४५*} किं संनयत्पक्ष एव कालः, उतासंनयतो ऽपीति. किं प्राप्तम्. संनयत्पक्षे. कुतः. एवं श्रूयते, पुरा वत्सानाम् अपाकर्तोर् इति. न चासंनयतो वत्सापाकरणम् अस्ति. तस्मात् संनयत्पक्ष एष कालः. अपाकरणं लिङ्गम् इति//
SK
NOTES: *{६/१४५: E२: ५,२९६; E६: २,१६९}*
SK
कालार्थत्वाद् वोभयोः प्रतीयेत{*६/१४६*} // MS_६,४.४२ //
SK
वाशब्दः पक्षं व्यावर्तयति, न संनयत्पक्ष एव, असंनयतो ऽप्य् एष कालः स्यात्. कुतः. कालार्थत्वात्, न वत्सापाकरणेन व्रते किंचित् प्रयोजनम् अस्ति. कालेन तु प्रयोजनम्, येन च तत्र प्रयोजनम्, स लक्ष्यते. कथं पुनर् वत्सापाकरणं कालार्थम् इति, परार्थत्वात्. पयसे हि ते ऽपाक्रियन्ते, तथा हि दृष्टार्थता भवति, इतरथादृष्टार्थता स्यात्. तस्मान् नोपादेयत्वेन वत्सापाकरणं श्रूयत इति. यत् तूक्तम्, तल्लिङ्गसंयोगात् संनयत्पक्ष एवेति. तन् न, असंनयतो ऽपि कालाहानात्. यस्यापि न सांनाय्यम्, तस्यापि वत्सापाकरणम् एव न स्यात्, न तु वत्सापाकरणकालो ऽपि, कालेन च नः प्रयोजनम्, न वत्सापाकरणेन. यथा शङ्खवेलायाम् आगन्तव्यम् इति. यस्मिन्न् अपि ग्रामे शङ्खो नाध्मायते तस्मिन्न् अपि स तथाकालो{*६/१४७*} ऽस्तीति, नागमनं परिहास्यते. एवम् इहाप्य् असत्य् अपि वत्सापाकरणे तत्काले भिद्यमाने व्रतम्, तस्मिन् काले न परिहास्यत इति.
SK
NOTES: *{६/१४६: E१,६; E२: प्रतीयते}* *{६/१४७: E१,६; E२: अपि शङ्खाध्मानकालो}*
SK
प्रस्तरे शाखा श्रयणवत् // MS_६,४.४३ //
SK
दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति. तत्र श्रूयते, सह शाखया प्रस्तरं प्रहरतीति. तत्र संदेहः. किं शाखा [६९८]{*६/१४८*} प्रस्तरस्याङ्गभूता, अङ्गप्रयोजनसंबन्धस् तयोः. अथ कालार्थः संयोगः, प्रस्तरप्रहरणकाले शाखा प्रहर्तव्येति. किं प्राप्तम्. प्रस्तरे शाखा श्रयणवत्. प्रस्तरस्याङ्गभूता शाखा. कुतः. सह शाखया प्रस्तरं प्रहरतीति. सहयुक्ते ऽप्रधाने तृतीया विभक्तिर् भवति. सा च शाखायां तृतीया. तस्मात् प्रस्तरस्य शाखा गुणभूता, प्रस्तरे च द्वितीया, सहयोगे च तृतीया{*६/१४९*}, तृतीया गुणतः, द्वितीया प्रधानतः. ननु न शाखया प्रस्तरस्य कश्चिद् उपकारः क्रियते. सत्यं न दृष्टं क्रियते, किं त्व् अदृष्टं क्रियते, श्रयणवत्, यथा पयसा मैत्रावरुणं श्रीणातीति द्वितीयातृतीयासंयोगाद् अदृष्टश् चोपकारो गम्यते. एवम् इहापीति.
SK
NOTES: *{६/१४८: E२: ५,२९७; E६: २,१६९}* *{६/१४९: E१,६; E२ ओम्. तृतीया}*
SK
कालविधिर् वोभयोर् विद्यमानत्वात् // MS_६,४.४४ //
SK
कालविधिर् वा स्यात्. कुतः. उभयोर् विद्यमानत्वात्. प्रस्तरस् तावत् स्रुग्धारणार्थः प्राप्तो विद्यते, तस्य प्रहरणम् अपि विशिष्टे काले वाक्यान्तरेण विहितम्. ततः शाखायाः प्रतिपादनार्थम्, तस्यैतत् पुनर्वचनम्. उच्यते, भवतु प्रस्तरस्य पुनर्वचनम्, शाखा त्व् अत्र विधीयत इति. उच्यते, उभयोर् अपि विद्यमानत्वात्, शाखा पूर्वं{*६/१५०*} विहिता वत्सापाकरणार्था, इदानीं पुनः किं गुणभूता चोद्यते, उत प्रतिपाद्यत इति. प्रतिपाद्यमानायां दृष्टं प्रयोजनम्, देशवियोगात् प्रचरितुम् अवकाशः स्याद् या यावती च मात्रा, देशान्तरसंयोगस्य न दृष्टं किंचिद् अस्ति. तस्मात् प्रहरणं प्रतिपत्तिस् तस्याः, तस्मात् परतः प्रयोजनाभावात् कालनियमः{*६/१५१*} क्रियते{*६/१५२*}. ननु तृतीया ऽप्रधानो भवति, सा च शाखायाम्. अत्रोच्यते, यासौ [६९९]{*६/१५३*} शाखायां तृतीया, सा द्वितीयार्थे. या च प्रस्तरे द्वितीया, सा तृतीयार्थे. कथम् अवगम्यते. सहयोगे एकस्मिन्{*६/१५४*} काल उभयम् अपि प्रहर्तव्यम् इति. अत्र यस्य निर्ज्ञातः कालः, तस्यानुवादः, यस्य त्व् अनिर्ज्ञातः, तस्य विधिः. शाखायाश् चानिर्ज्ञातः, प्रस्तरस्य निर्ज्ञातः, तस्य पुनरुच्चारणम् अनिर्ज्ञातार्थम्, तद् अप्रधानम्. इतरस्योच्चारणं प्रधानम्, प्राधान्यं च द्वितीयार्थः, तत्र तृतीया. पारार्थ्यम् अपि तृतीयार्थः, तत्र द्वितीया. तस्माद् अयथार्थं विभक्तिवचनम्.
SK
NOTES: *{६/१५०: E१,६; E२: शाखापि हि पूर्वं}* *{६/१५१: E२ (व्.ल्.): प्रयोजनवत्त्वात् कालनियमः}* *{६/१५२: E१ (व्.ल्.): श्रूयते}* *{६/१५३: E२: ५,२९८; E६: २,१७०}* *{६/१५४: E१,६,E२ (व्.ल्.); E२: सहयोग एषः, एकस्मिन्}*
SK
अतत्संस्कारार्थत्वाच् च // MS_६,४.४५ //
SK
न च, शाखया प्रस्तरस्योपकारो दृष्टः क्रियते. काष्टं दह्यमानस्य तृणस्य नोपकारे वर्तते. तृणं तु काष्ठस्योपकुर्यात्. तस्मान् न शाखा प्रस्तरार्था.
SK
तस्माच् च विप्रयोगे स्यात् // MS_६,४.४६ //
SK
किं भवति प्रयोजनम्, यदि प्रस्तरस्य गुणभूता, तथापि प्रस्तरप्रहारकाले शाखा प्रतिपाद्यत{*६/१५५*} इति. उच्यते, यदि प्रस्तरस्य प्रह्रियमाणस्याङ्गभूता शाखा, ततो विना{*६/१५६*} प्रस्तरेण, न प्रहर्तव्या भवति. अथाङ्गभूता विनापि प्रस्तरेण प्रहर्तव्या. अस्माभिर् उक्तं प्रस्तरकाले प्रहर्तव्येति, तस्माच् च विप्रयोगे स्यात्, तस्माद् एव कारणात् प्रस्तरविप्रयोगे ऽपि शाखायाः प्रहरणं स्याद् इति.
SK
NOTES: *{६/१५५: E१,६,E२ (व्.ल्.); E२: प्रक्षिप्यत}* *{६/१५६: E१,६; E२: विनापि}*
SK
उपवेषश् च पक्षे स्यात् // MS_६,४.४७ //
SK
यथा पूर्वः पक्षः, तथा सति, सांन्याय्ये सत्य् असति च शाखा [७००]{*६/१५७*} विद्यत इत्य् उपवेषो सति चासति{*६/१५८*} च स्यात्. यथा तु सिद्धान्तः, तथा सांन्याय्यपक्षे शाखा सती हि प्रतिपाद्यत इति. तत्रैवोपवेषो नान्यत्रेति.
SK
[७०१]{*६/१५९*}
SK
NOTES: *{६/१५७: E२: ५,३००; E६: २,१७१}* *{६/१५८: E२ ओम्. च}* *{६/१५९: E२: ५,३००; E६: २,१७१}*
SK
अभ्युदये कालापराधाद् इज्याचोदना स्यात् यथा पञ्चशरावे // MS_६,५.१ //
SK
इदम् आमनन्ति, वि वा एनं प्रजया पशुभिर् अर्धयति, वर्धयत्य् अस्य भ्रातृव्यम्, यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति{*६/१६०*} त्रेधा{*६/१६१*} तण्डुलान् विभजेत्, ये मध्यमाः स्युः, तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं निर्वपेत्, ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधंश् चरुम्, ये क्षोदिष्टाः, तान् विष्णवे शिपिविष्टाय शृते चरुम्{*६/१६२*} इति. तत्र संदेहः. किं कालापराधे यागान्तरम् इदं चोद्यते, उत तेष्व् एव प्रकृतेषु कर्मसु निमित्ते देवतापनयन इति. किं प्राप्तम्. अभ्युदये, यः कालापराधः, तत्रेज्याचोदना स्यात्. कथम्. पुरोडाशम् अग्नये दात्रे मध्यमान् कुर्वते{*६/१६३*}, ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधनि चरुं कुर्यात्, क्षोदिष्ठान् विष्णवे शिपिविष्टायेति, यजतिस्{*६/१६४*} तु फलभोक्तृसंयोगाद्{*६/१६५*} इति विधानं{*६/१६६*} गम्यते. यथा पञ्चशरावे द्रव्यदेवतासंबन्धेन कर्मान्तरं गम्यते, यथा पशुकामेष्ट्याम्, यः पशुकामः स्यात्, सो ऽमावास्यायाम् इष्ट्वा वत्सान् अपाकुर्यात्, ये स्थविष्ठाः, तान् अग्नये सनिमते ऽष्टाकपालं निर्वपेत्, ये मध्यमाः, तान् विष्णवे शिपिविष्टाय शृते चरुं ये ऽणिष्ठाः, तान् इन्द्राय प्रदात्रे दधंश् चरुम् इति. एवम् इहापीति. अपि च न प्रकृते द्रव्ये देवता [७०२]{*६/१६७*} श्रूय्ते, शृते चरुम् इति हि तत्र भवति वचनम्. न चाभ्युदयकाले श्रपणं कृतम् अस्ति, तस्मात् कर्मान्तरम्.
SK
NOTES: *{६/१६०: E१,६; E२: अभ्युदियात्}* *{६/१६१: E१,६; E२: स त्रेधा}* *{६/१६२: Tऐत्.S. २.५.५.२}* *{६/१६३: E१,६; E२: कुर्यात्}* *{६/१६४: E१,६; E२: शिपिविष्टाय शृते चरुम् इति. यजतिस्}* *{६/१६५: E१,६; E२: द्रव्यफलभोक्तृसंयोगाद्}* *{६/१६६: E१,६; E२: यागविधानं}* *{६/१६७: E२: ५,३०१; E६: २,१७१}*
SK
अपनयो वा विद्यमानत्वात् // MS_६,५.२ //
SK
देवतापनयो वा. कुतः. विद्यमानत्वात्, विद्यन्ते हि कर्माणि प्रकृतानि, तेषु विद्यमानेषु पुनर् देवतासंबन्धो हविषो नोपपद्यते. यस्यानुपपत्त्या यागः कल्प्येत. तस्मान् न यागान्तरम्, तेष्व् एव हविःषु देवतान्तराणि विधीयन्ते.
SK
तद्रूपत्वाच् च शब्दानाम् // MS_६,५.३ //
SK
देवतापनयसरूपाश् चामी शब्दा भवन्ति, ये मध्यमाः, तेषां देवतान्तरं विधीयते. तत्र द्रव्यं प्राप्तम्, अप्राप्ता देवता विधीयते. कथं पुनर् देवताविधानार्थे नानेकगुण्विधानदोषो जायेतेति. उच्यते, नैवात्रानेको गुणो विधीयते कस्मिंश्चिद् वाक्ये. तण्डुलान्{*६/१६८*} विभजेद् इत्य् अत्र तावद् विभागमात्रं विधीयते. अन्यत् सर्वम् अनूद्यते, तस्माद् अदोषः. ये मध्यमाः, तेषाम् अग्निर् देवता विधीयते, अन्यत् पुरोडाशाद्य् अनूद्यते. ये स्थविष्ठाः, तेषां दधिसहितानाम् इन्द्रो देवतास्मिन् वाक्ये विधीयते. तत्रार्थप्राप्ते{*६/१६९*} श्रपणे सति चरुता, सह सप्तम्यर्थेनार्थप्राप्तेनैवास्मिन् वाक्ये ऽनूद्यते. ये क्षोदिष्ठाः, तेषां शृतसहितानां विष्णुः शिपिविष्टो देवता विधीयते, अन्यत् सर्वम् अनूद्यते. तस्माद् अदोषः.
SK
NOTES: *{६/१६८: E१,६; E२: त्रेधा तण्डुलान्}* *{६/१६९: E१,६; E२: तत्रार्धप्राप्ता}*
SK
आतञ्चनाभ्यासस्य दर्शनात् // MS_६,५.४ //
SK
आतञ्चनाभ्यासं च दर्शयति. कथम्. एवं श्रूयते, यदि [७०३]{*६/१७०*} बिभीयाद् अभिमोदेष्यतीति महारात्रे हवींषि निर्वपेत्. फलीकृतैस् तण्डुलैर् उपासीत, अर्धं दधि हविर् आतञ्चनार्थं निदध्यात्, अर्धं न. यद्य् अभ्युदियाद् अनेनातच्य{*६/१७१*} प्रचरेत्, यद्य् उ न{*६/१७२*}, ब्राह्मणं{*६/१७३*} भोजयेद् इति. यदि कर्मान्तरम्, उपादेयत्वेन तदा तण्डुला दधि शृतं च. तस्माल् लौकिकान्य् उपादेयानि, न ह्य् एष तदा प्रकृतानां व्यापारः, तत्राविनष्टे दधनि, अपरेद्युर् आमावास्ये क्रियमाणे विद्यते दधीति नातञ्चनम् आवर्तेत. तस्याम् एवाभ्युदितेष्टौ दधि विद्यत इति नातञ्चनं स्यात्. अथ निमित्ते देवतापनयः, ततस् तस्मिन् दधनि चरुः कृत इति, पुनर् आमावास्ये दोहे आतञ्चनेन कार्यम्, एवम् आतञ्चनाभ्यासस्य दर्शनं देवताविधाने युज्यत इति.
SK
NOTES: *{६/१७०: E२: ५,३०३; E६: २,१७२}* *{६/१७१: E१,६; E२: अभ्युदि. यात् तेनातञ्च्य}* *{६/१७२: E२: यदि न}* *{६/१७३: E१,६; E२: प्रातरेतेन ब्राह्मणं}*
SK
अपूर्वत्वाद् विधानं स्यात् // MS_६,५.५ //
SK
अथ यद् उक्तम्, यथा पशुकामेष्ट्यां कर्मान्तरम्, यः पशुकामः स्यात्, सो ऽमावास्याम् इष्ट्वा वत्सान् अपाकुर्याद् इति. तत् परिहर्तव्यम्. तत्रोच्यते, युक्तं यत् तत्र कर्मान्तरविधानम्. कुतः. अपूर्वत्वात्, न तत्र कश्चित् पूर्वप्राप्तो यागो विद्यते, सो ऽमावास्याम् इष्ट्वेति हि परिसमाप्ते तस्मिन्न् इदम् आरभ्यते. तत्र द्रव्यदेवतासंयुक्तो निर्वपतिशब्दो नान्तरेणोत्सर्गम्, द्रव्यदेवतयोः संबन्धो विद्यत{*६/१७४*} इति यजतिं गमयति. न त्व् इहैवम्, इह हि यागः प्रकृतो गम्यते, तस्मिन्न् एव विद्यमानस्य द्रव्यस्य देवतासंबन्धमात्रं विधीयत इति न दोषो भवति.
SK
NOTES: *{६/१७४: E१,६,E२ (व्.ल्.); E२: घटत}*
SK
पयोदोषात् पञ्चशरावे ऽदुष्टं हीतरत् // MS_६,५.६ //
SK
अथ यद् उपवर्णितम्, यथा पञ्चशरावे कर्मान्तरं विधीयते, [७०४]{*६/१७५*} एवम् इहापीति, तत् परिहर्तव्यम् इति. अत्रोच्यते, युक्तं पञ्चशरावे कर्मान्तरम्. दुष्टं हि तत्र द्रव्यम्, यस्य देवता विधीयते. तत्रावश्यं द्रव्यम् उपादेयत्वेन चोदयितव्यम्, तस्मिन्न् उपादीयमाने देवतान्तरे चापूर्वः संबन्धो विधीयते, तद् यागान्तरं भवतीति. इतरद् इह द्रव्यम् अदुष्टम्, तद् अनूद्य, प्रकृते यागे देवता विधीयत इत्य् उक्तम्, तस्माद् अदोष इति.
SK
NOTES: *{६/१७५: E२: ५,३०४; E६: २,१७३}*
SK
सांन्याय्ये ऽपि तथेति चेत् // MS_६,५.७ //
SK
एवं चेत् पश्यसि, सांन्याय्ये ऽपि दोषः. तद् अपि ह्य् अभ्युदये तत्कालापभ्रंशाद् दुष्टम् इति.
SK
न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् // MS_६,५.८ //
SK
नैतद् एवम्, पञ्चशरावे हि दुष्टं द्रव्यम्, इह तादृशम् एवावतिष्थते. ननु कालापभ्रंशेन दुष्टम्. न दुष्यति, अविशिष्टं हि कारणम्. अभ्युदये प्रायश्चित्तविधानं दुष्टे ऽप्य् उपपद्यते, कालापराधे ऽदुष्टे{*६/१७६*} ऽपि तत्. अकाले ह्य् अभिप्रवृत्तस्य शक्यते देवताविधानम्, न तु विनष्टस्य.
SK
NOTES: *{६/१७६: E१,६,E२ (व्.ल्.); E२: कालापराधेनादुष्टे}*
SK
लक्षणार्था शृतश्रुतिः // MS_६,५.९ //
SK
अथ यद् उक्तम्, न प्रकृते द्रव्ये देवता श्रूयते, शृते चरुम् इति तत्र भवति वचनम्, न चाभ्युदयकाले श्रपणं कृतम् अस्तीति, तत् परिहर्तव्यम्. अत्रोच्यते, लक्षणार्थेयं शृतश्रुतिः, धर्मलक्षणार्था{*६/१७७*} शृते, शृतसहचरितधर्मक इति.
SK
[७०५]{*६/१७८*}
SK
NOTES: *{६/१७७: E१ हत् धर्मलक्षणार्था इन् Kलम्मेर्न्}* *{६/१७८: E२: ५,३०५; E६: २,१७४}*
SK
उपांशुयाजे ऽवचनाद् यथाप्रकृति // MS_६,५.१० //
SK
तस्मिन्न् एवाभ्युदये संशयः. किम् उपांशुयागे ऽपि देवतापनयो भवेन् नेति. किं प्राप्तम्. उपांशुयाजो यथाप्रकृति स्यात्. कस्मात्. अवचनात्, यथामीषु वचनम्, मध्यमानाम् अग्नये दात्रे पुरोडाशाः{*६/१७९*} स्थविष्ठानाम् इन्द्राय प्रदात्रे दधनि चरुः, क्षोदिष्ठानां विष्णवे शिपिविष्टाय शृते चरु इति. नैतद् उपांशुयाजे ऽस्ति. तस्मात् स यथादेवतं स्यात्.
SK
NOTES: *{६/१७९: E१,६; E२: पुरोडाशः}*
SK
अपनयो वा प्रवृत्त्या यथेतरेषाम् // MS_६,५.११ //
SK
वाशब्दः पक्षं व्यावर्तयति. उपांशुयाजस्यापनयः. केन कारणेन. प्रवृत्त्या, अकाले तन्त्रप्रवृत्तिर् देवतापनयस्य कारणम्. कुत्ः. न ह्य् अत्राभ्युदये सति तण्डुला विभागार्थम् उपादीयन्ते. किं तर्हि. अभ्युदितस्य हविषो विभाग उच्यते, अभ्युदयेनापराह्नस्येति{*६/१८०*}. कथम् अवगम्यते. यस्याभ्युदियाद् इत्यविशेषश्रवणात्, सर्वस्यैव ह्य् अपराधेनाभ्युदेति, अपराधश् चाकाले तन्त्रप्रवृत्तिः. एवं च सति न तद् धविस् तण्डुलैः शक्यं विशेष्टुम्. तस्माद् उपांशुयागस्यापि{*६/१८१*} विभागः. त्रेधा तण्डुलान् विभजेद् इति ह्य् अनेन वाक्येन देवतापनयः क्रियते, विधिर् ह्य् अत्र विभजेद् इति. विभागं कुर्याद् इत्य् अर्थः{*६/१८२*}. कथम् इति. विभागे विशेषपराण्य् उत्तराणि वाक्यानि. इदम् इदं च द्रव्यम् अस्यै देवतायै, इदम् इदं चास्या इति. यस्य द्रव्यस्य विशेषविभागो नास्ति, तस्यापि विभजेद् इति सामान्यविभागः. तस्माद् यथैवेतरेषां विभागः, एवम् उपांशुयाजस्यापीति. अथवा, उपांशुयाजद्रव्यात् [७०६]{*६/१८३*} पूर्वेण वाक्येनापनीता देवता. न तद् अपरेण वाक्येन देवतान्तरे{*६/१८४*} संयोजितम्. तस्मात् प्रहीणम् एव तत्.
SK
NOTES: *{६/१८०: E१; E२: अभ्युदयेनापराद्धस्येति; E६: अभ्युदयेनापराह्णस्येति}* *{६/१८१: E१,६; E२: उपांशुयाजस्यापि}* *{६/१८२: E१ हत् विभागं कुर्याद् इत्य् अर्थः इन् Kलम्मेर्न्}* *{६/१८३: E२: ५,३०६; E६: २,१७४}* *{६/१८४: E१,६; E२: देवतान्तरेण}*
SK
निरुप्ते स्यात् तत्संयोगात् // MS_६,५.१२ //
SK
अस्मिन्न् एवोदाहरणे संशयः. किं यदि निरुप्ते ऽभ्युदयो ऽवगम्यते, तदाभ्युदितेष्टिः, उतानिरुप्ते ऽपीति. किं प्राप्तम्. निरुप्ते ऽवगते ऽभ्युदितेष्टिः स्यात्. कुतः. तत्संयोगात्, निर्वापसंयोगो हि भवति, यस्य हविर् निरुप्तम् इति. तस्माद् अनिरुप्ते नैतद् विधानम् इति.
SK
प्रवृत्ते वा प्रापणान् निमित्तस्य // MS_६,५.१३ //
SK
वाशब्दः पक्षं व्यावर्तयति. अकाले तन्त्रप्रवृत्तिमात्रे स्याद् एतद् विधानम्. प्राप्तं हि तावत्य् एव निमित्तम्, यस्य हविर् अभ्युदेतीति हविर् ग्रहणं लक्षणत्वेन. यस्य हविर् अभ्युदेतीति हविर् लक्षित उदयो निमित्तम्, प्रवृत्तं हविर् लक्षयति, नोदासीनम्. तस्मात्, हविर् अभ्युदेतीत्य् उच्यमाने प्रवृत्तं हविर् अभ्युदेतीति गम्यते. न हि तन् निरुप्तम् इत्य् एतेन शक्यं विशेषयितुम्. भिद्येत हि तदा वाक्यम्. यस्य हविर् निरुप्तम्, नानिरुप्तम्{*६/१८५*} इत्य् एवम् अपेक्ष्यंआणे हविर् अभ्युदेतीति न शक्यते विधातुम्. तस्माद् अनिरुप्ते ऽपीष्टिर् इति.
SK
NOTES: *{६/१८५: E१,६,E२ (व्.ल्.); E२ ओम्. नानिरुप्तम्}*
SK
[७०७]{*६/१८६*}
SK
NOTES: *{६/१८६: E२: ५,३०७; E६: २,१७५}*
SK
लक्षणमात्रम् इतरम् // MS_६,५.१४ //
SK
अथ यद् उक्तम्, निरुप्तसंयोगो भवति, यस्य हविर् निरुप्तम् इति, लक्षणमात्रम् एतन् निरुप्तम् इति. कस्मिंश्चित् पदार्थे तस्य प्रवृत्त इत्य् अर्थः.
SK
तथा चान्यार्थदर्शनम् // MS_६,५.१५ //
SK
अन्यार्थो ऽपि चैतम् अर्थं दर्शयति, स यद्य् अगृहीतं हविर् अभ्युदियात्, प्रज्ञातम् एव. तदैषा व्रतचर्या, यत् पूर्वेद्युर् दुग्धं दधि हविर् आतञ्चनं तत् कुर्वन्ति, प्रतिमुञ्चन्ति वत्सान्, तान् एव तत् पुनर् अपाकुर्वन्ति, तान् अपराह्णे पर्णशाखयापाकरोति. तद् यथैवादेः प्रज्ञातम् आमावास्यं हविर् एवम् एव तद् यद्य् उ व्रतचर्यां वा नोदाशंसेत, गृहीतं वा हविर् अभ्युदियाद् इतरथा तर्हि कुर्यात्, एतान् एव तण्डुलान् सकृत्फलीकृतान्{*६/१८७*} इति, अगृहीते हविष्य् अन्यं विधिं ब्रुवन् गृहीते ऽप्य् अनिरुप्ते वाभ्युदये प्रायश्चित्तं दर्शयति.
SK
NOTES: *{६/१८७: E१,६; E२: सुफलीकृतान्}*
SK
अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् // MS_६,५.१६ //
SK
प्रवृत्तमात्रं निमित्तम् इति स्थितम्. नैमित्तिकस् तु देवतापनयो देवतान्तरसंयोगश् च, किं निर्वापोत्तरकालं तण्डुलावस्थे हविषि कर्तव्यो निर्वापस् तु प्राकृतीभ्य एव स्यात्, ज्ञाते ऽभ्युदये, उत वैकृतीभ्य एवेति संशयः. किं तावत् प्राप्तम्. [७०८]{*६/१८८*} अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्य आचार्यो मन्यते स्म. कुतः. तण्डुलभूतेष्व् अपनयात्. तण्डुलभूतेष्व् अपनयः श्रूयते, यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति त्रेधा तण्डुलान् विभजेद् इत्य् अभ्युदयावगमाद् अनन्तरं तण्डुलविभागम् आह. सो ऽतण्डुलभूतेषु नावकल्पते. तस्माद् अनिरुप्ते तण्डुलाभावाद् अनपनीता देवताः प्राकृत्य इति प्राकृतीभ्य एव निर्वपेद् इति.
SK
NOTES: *{६/१८८: E२: ५,३०८; E६: २,१७५}*
SK
व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य // MS_६,५.१७ //
SK
तुशब्दः पक्षं व्यावर्तयति. व्यूर्ध्वं या भजन्ते कर्म, ताभ्यो निर्वपेद् इत्य् आलेखन आचार्यो मन्यते स्म. कुतः. तत्कारित्वाद् देवतापनयस्य, यस्माद् अकाले तन्त्रप्रवृत्तिकारितो देवतापनयः, तस्माद् अपनीता देवतेति व्यूर्ध्वभाग्भ्यो निर्वप्तव्याः.
SK
विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् // MS_६,५.१८ //
SK
अथ प्रारब्धे चतुर्मुष्टिर्निर्वापे ऽपरिसमाप्ते भवति संशयः, यन् निरुप्तं तन् निरुप्तम् एव, अवशिष्टं किं प्राकृतीभ्यो निर्वप्तव्यम्, किं वैकृतीभ्यः, उत तूष्णीम् एवेति. किं प्राप्तम्. विनिरुप्ते सामिनिरुप्त इत्य् अर्थः{*६/१८९*}. न तत्र देवतापनयः स्यात्. कुतः. तद्गुणत्वात्, निर्वापस्य गुणो देवता, न मुष्टीनाम्, [७०९]{*६/१९०*} स च निर्वापस् तद् देवताकः. कुतः. चतुःसंख्यापूरणार्थत्वाद् अभ्यासमात्रं कर्तव्यम्. तच् चाभ्यासमात्रं पुनः क्रियते, पूर्वम् एव कृते तस्मिन् निर्वापे न देवतापनीता. स एवायं पुनः क्रियते, पुनर् अपि क्रियमानस्यानपनीतैव देवता भवितुम् अर्हतीति प्राकृतीभ्य एव निर्वप्तव्यम्. न चोत्तरो मुष्टिः पृथक् पदार्थः, येन देवतापनयो भवेत्. कृतस्य निर्वापस्य संख्यापूरणम् एतत् क्रियते. तस्माद् अनपनय इति.
SK
NOTES: *{६/१८९: E१ हत् सामिनिरुप्त इत्य् अर्थः इन् Kलम्मेर्न्}* *{६/१९०: E२: ५,३०९; E६: २,१७६}*
SK
अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् // MS_६,५.१९ //
SK
न प्राकृतीभ्यो निर्वप्तव्यम्. काभ्यस् तर्हि. वैकृतीभ्यः. कुतः. अप्राकृतेन देवताविशेषेण संयोगः श्रूयते, नाधिकृतेन, त्रेधा तण्डुलान् विभजेद् इति प्राकृतीभ्य आच्छिद्य वैकृतीभ्यो निर्वप्तव्यो विधीयते, ता इदानीं तत्स्थानीयाः. तस्माद् विनिरुप्ते निवृत्ता देवता अन्याः, अन्याश् चोपजाताः. तस्माद् वैकृतीनां संयोगेन निर्वापशेषः कर्तव्य इति.
SK
अभावाच् चेतरस्य स्यात् // MS_६,५.२० //
SK
अभावाद् इतरस्यार्धस्य देवतासंयुक्तस्य, न निर्वापो भवति देवतासंयुक्तः. यदि निर्वापो ऽर्धं{*६/१९१*} अन्यदेवत्यो ऽर्धो ऽप्य् अन्यस्यै देवतायै, नैव निर्वाप इतरदेवताको वेतरदेवताको वा{*६/१९२*}. तस्मात् तूष्णीम् एव निर्वप्तव्यम्, अवश्यम् अन्यतरत्र संकल्पभेदो भवति.
SK
[७१०]{*६/१९३*}
SK
NOTES: *{६/१९१: E२: निर्वापे ऽर्धो}* *{६/१९२: E१,६; E२: इतरदेवताकः प्राकृत इतरदेवताको वा}* *{६/१९३: E२: ५,३१०; E६: २,१७७}*
SK
सांनाय्यसंयोगान् नासंनयतः स्यात् // MS_६,५.२१ //
SK
अभ्युहितेष्टिर्{*६/१९४*} एवोदाहरणम्. तत्र श्रूयते, दधनि चरुं, शृते चरुम् इति. तत्र संदेहः. किं संनयतो भवत्य् अभ्युदये प्रायश्चित्तम्, उताविशेषेणेति. किं प्राप्तम्. संनयतो ऽभ्युदये प्रायश्चित्तम्. कुतः. सांनाय्यसंयोगात्, संन्याय्यसंयोगो हि भवति, शृते चरुम्, दधनि चरुम् इति, शृताद्यभावात्, नासंनयतो भवितुम् अर्हति, वैगुण्यं हि तथा स्यात्.
SK
NOTES: *{६/१९४: E१; E२,६: अभ्युदितेष्टिर्}*
SK
औषधसंयोगाद् वोभयोः // MS_६,५.२२ //
SK
वाशब्दः पक्षं व्यावर्तयति. उभयोर् अपि स्यात्, न केवलस्य संनयतः, औषधसंयोगात्{*६/१९५*}, ये मध्यमा ये स्थविष्ठा ये क्षोदिष्ठा इति भवत्य् औषधसंयोगः, स च शक्यो ऽसंनयतापीति. तस्मान् नासति कारणे ऽसंनयतो निवर्तेत. उभयोर्{*६/१९६*} अपि पक्षयोः प्रायश्चित्तम् इति.
SK
NOTES: *{६/१९५: E१,६; E२: संनयतः. कुतः. औषधसंयोगात्}* *{६/१९६: E१,६; E२: अत उभयोर्}*
SK
वैगुण्यान् नेति चेत् // MS_६,५.२३ //
SK
इति यद् उक्तम्, असंनयतो दध्नः शृतस्य चाभावात् तदधिकरणता नास्ति. तस्माद् वैगुण्यं तस्मिन् पक्ष इति, तत् परिहर्तव्यम् इति.
SK
नातत्संस्कारत्वात्/७६.५.२४//
SK
नैतद् एवम्. न हि दध्यधिकरण चरोः श्रपणे श्रूयते. किं तु यथा स्थविष्ठा इन्द्राय प्रदात्रे, एवं दध्य् अपि देवतासंबन्धार्थं [७११]{*६/१९७*} विधीयते, न चरुसंबन्धार्थम् इति. भिद्येत हि तथा वाक्यम्, स्थविष्ठा देवतायै, दधनि च ते कर्तव्या इति. सप्तमीसंयोगस् तु प्राप्ते ऽर्थे ऽनुवादः. तस्माद् अविवक्षितं तेषां साहित्यम्, लक्षणत्वेन हि ते श्रूयन्त इति, न हि पयो दधि च नास्तीति स्थविष्ठानां न देवतापनयो भवति. असंनयतो ऽप्य् अर्थाद् अप्सु श्रपयिष्यत इति.
SK
NOTES: *{६/१९७: E२: ५,३११; E६: २,१७७}*
SK
साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् // MS_६,५.२५ //
SK
इदम् आमनन्ति, यदि सत्राय दीक्षिता अथ{*६/१९८*} साम्युत् तिष्ठेरन्, सोमम् अपभज्य विश्वजिता अतिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेरन्न् इति. तत्र संदेहः. किं क्रीतराजकस्योत्थाने विश्वजित्, उत प्रवृत्तमात्रस्येति. किं प्राप्तम्. साम्युत्थाने विश्वजित् क्रीते स्यात्. कुतः. विभागसंयोगात्, सोमम् अपभज्य विश्वजिता यजेरन्न् इति. ये ह्य् अक्रीते राजन्य् उत्तिष्टन्ति, तेषां सोमविभागाभावाद् वैगुण्यं स्यात्. तस्मात् क्रीतराजका उत्तिष्ठन्तो विश्वजितं कुर्युः.
SK
NOTES: *{६/१९८: E२: दीक्षितानां; E२ (व्.ल्.), E१,६: दीक्षिता अथ}*
SK
प्रवृत्ते वा प्रापणान् निमित्तस्य // MS_६,५.२६ //
SK
वाशब्दः पक्षं व्यावर्तयति. प्रवृत्तमात्रस्योत्थाने स्यात्. कुतः. प्रापणान् निमित्तस्य, साम्युत्थानं निमित्तं विश्वजितः, [७१२]{*६/१९९*} तच् च प्राप्तम्, न च तच् छक्यं विशेषयितुम्, क्रीते सोमे{*६/२००*} साम्युत्थानम् इति.
SK
NOTES: *{६/१९९: E२: ५,३१२; E६: २,३१२}* *{६/२००: E१,६; E२: क्रीते यदि}*
SK
आदेशार्थेतरा श्रुतिः // MS_६,५.२७ //
SK
अथ यद् उक्तम्, अक्रीते राजन्य् उत्तिष्ठन्तो विभागाभावाद् विगुणं कुर्युर् इति. तत् प्रतिहर्तव्यम्. अत्रोचयते, न विभागो विधीयते. भिद्येत हि तथा वाक्यम्. साम्युत्थाने विश्वजिता यजेरन्, सोमस्य त्व् अपभागं{*६/२०१*} कृत्वेति. तेनापभज्येत्य् अनुवादः. कथम् प्राप्तिर् इति चेत्. अर्थाद् उत्तिष्ठतां विभागो भवति धनस्य. सो ऽयं सर्वद्रव्याणां विभागः सोमविभागेन लक्ष्यते, सोमं विभज्यान्यानि च द्रव्याणीत्य् आदेशार्थेतरा श्रुतिर् भवति. तस्मात् क्रीते चाक्रीते च राजन्य् उत्तिष्ठतां विश्वजिद् इति.
SK
NOTES: *{६/२०१: E१,६; E२: विभागं}*
SK
दीक्षापरिमाणे यथाकाम्यविशेषात् // MS_६,५.२८ //
SK
ज्योतिष्टोमं प्रकृत्य श्रूयते, एका दीक्षा, तिस्र उपसदः, पञ्चमीं प्रसुत{*६/२०२*} इति. तिस्रो दीक्षाः, द्वादश दीक्षा इति बहूनि दीक्षापरिमाणान्य् आम्नातानि. तेषु संदेहः. किम् अनियमः, यद् वा तद् वा परिमाणम् उपादेयम्, उत द्वादश दीक्षा इति. किं प्राप्तम्. दीक्षापरिमाणे यथाकामी स्यात्. नास्ति नियमः. कुतः. अविशेषात्, न कश्चन [७१३]{*६/२०३*} विशेष उपादीयते. तस्माद् यत्किंचित् परिमाणम् उपादेयम् इति. NOTES: *{६/२०२: E१,६; E२: पञ्चमी प्रसृत}* *{६/२०३: E२: ५,३१४; E६: २,१७९}*
SK
द्वादशाहस् तु लिङ्गात् स्यात् // MS_६,५.२९ //
SK
द्वादशाह एव परिमाणम् उपादीयेत. कुतः. लिङ्गात् सामर्थ्याद् इत्य् अर्थः{*६/२०४*}. किं सामर्थ्यम्. द्वादश रात्रीर् दीक्षितो भृतिं वन्वीतेति{*६/२०५*} नित्यवद् आम्नायते, न पाक्षिकम्. तद् एव नित्यं कुर्वन्, न शक्नोत्य् अन्यत् परिमाणम् उपादातुम्. तस्माद् द्वादशाह एव परिमाणं नियम्येत, अन्यानि परिमाणानि विकृतौ भविष्यतीति नैषाम् आनर्थक्यम् इति.
SK
NOTES: *{६/२०४: E१ हत् सामर्थ्याद् इत्य् अर्थः इन् Kलम्मेर्न्}* *{६/२०५: E१,६; E२: न्वतीवेति(?)}*
SK
पौर्णमास्याम् अनियमो ऽविशेषात् // MS_६,५.३० //
SK
गवामयने श्रूयते, पुरस्तात् पौर्णमास्याश् चतुरहे दीक्षेरन्न् इति. तत्र संदेहः. कस्याः पौर्णमास्या इति. किं प्राप्तम्. पौर्णमास्याम् अनियम इति. कुतः. अविशेषात्, नात्र कश्चिद् विशेषवचनः शब्द उपादीयते.
SK
आनन्तर्यात् तु चैत्री स्यात् // MS_६,५.३१ //
SK
तुशब्दः पक्षं व्यावर्तयति. नैतत्, अनियम इति, चैत्री, पौर्णमासी तु भवेत्. कुतः. आनन्तर्यात्, पौर्णमासीम् उक्त्वानन्तरं वाक्यशेषे चैत्री संकीर्त्यते, पुरसात् पौर्णमास्याश् चतुरहे दीक्षेरन्. ऋतुमुखं वैषा पौर्णमासी संवत्स[७१४]{*६/२०६*}रस्य, या चैत्री पौर्णमासीति. अत्र संदिग्धेषु वाक्यशेषाद्{*६/२०७*} इति चैत्री नियम्येत.
SK
NOTES: *{६/२०६: E२: ५,३१५; E६: २,१७९}* *{६/२०७: MS १.४.२९}*
SK
माघी वैकाष्टकाश्रुतेः // MS_६,५.३२ //
SK
वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति चैत्रीति. किं तर्हि. माघीति. कुतः. एकाष्टकाश्रुतेः, क्रये ह्य् एकाष्टकाश्रुतिर् भवति. तेषाम् एकाष्टकायां क्रयः संपद्यत इति. तस्मान् माघ्याः पुरस्ताच् चतुरहे दीक्षितस्यैकाष्टकायां क्रयः शक्यते कर्तुम्, न चैत्याः. तद् एतत् सामर्थ्यं नाम लिङ्गम्, तत् वाक्यस्य बाधकं भवति. तस्मान् माघी पौर्णमासीति.
SK
अन्या अपीति चेत् // MS_६,५.३३ //
SK
इति चेत् पश्यसि, माघी पौर्णमासी, एवम् एकाष्टकायां क्रयः संपत्स्यत इति. तन् न, असर्वा अष्टम्य{*६/२०८*} एकाष्टकाः, द्वादशैकाष्टका इति, तेन न दोषः.
SK
NOTES: *{६/२०८: E१,६; E२: सर्वा अप्य् अष्टम्य}*
SK
न भक्तित्वाद् एषा हि लोके // MS_६,५.३४ //
SK
नैतद् एवम्, भाक्तो ह्य् अन्यास्व् अष्टमीष्व् एकाष्टकाशब्दः. एषा हि मुख्या, या माघ्यां वृत्तायाम्{*६/२०९*}, मुख्यगौणयोश् च मुख्ये संप्रत्ययः. तस्मान् माघ्य् एव पौर्णमासीति.
SK
NOTES: *{६/२०९: E१,६; E२: वृत्ता}*
SK
दीक्षापराधे चानुग्रहात् // MS_६,५.३५ //
SK
एकाष्टकायां दीक्षेरन्, एषा वै संवत्सरस्य पत्नी, यद् एकाष्टका{*६/२१०*}, इत्य् उक्त्वा पुनः, चतुरहे पुरस्तात् पौर्णमास्या दीक्षां विधाय, तेषाम् एकाष्टकायां क्रयः संपद्यते, तेनैकाष्टकां [७१५]{*६/२११*} न छंवट् कुर्वन्तीति, दीक्षातः प्रच्युताम् एकाष्टकां क्रयेण तु गृह्णन् माघ्याः पौर्णमास्या अधिकारं दर्शयति. अस्यां च माघ्याम् अष्टम्याम् अभीज्यमानायां भवति मन्त्रः,
SK
यां जनाः प्रतिनन्दन्ति रात्रीं धेनुम् इवायतीम्/ संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली//
SK
इत्य्{*६/२१२*} अष्टकायै सुराधसे स्वाहेति, यासौ माघ्य् अष्टमी, ताम् एकाष्टकां दर्शयति.
SK
NOTES: *{६/२१०: Tऐत्.S. ७.४.८.२}* *{६/२११: E२: ५,३१६; E६: २,१८०}* *{६/२१२: E२ ओम्. इति}*
SK
उत्थाने चानुप्ररोहात् // MS_६,५.३६ //
SK
उत्थाने चानुप्ररोहं दर्शयति. तान् उत्तिष्ठत औषधयो वनस्पतयो ऽनुत्तिष्ठन्तीति{*६/२१३*}, वसन्त उत्थानं दर्शयति. तस्मिन्न् ओषधयो वनस्पतयश् चोत्तिष्ठन्ति. तस्माद् अपि सा नियम्यते.
SK
NOTES: *{६/२१३: Tऐत्.S. ७.४.८.३}*
SK
अस्यां च सर्वलिङ्गानि // MS_६,५.३७ //
SK
आर्तं वा एते संवत्सरस्याभिदीक्षन्ते, य एकाष्टकायां दीक्षन्त{*६/२१४*} इति. आर्ता यस्मिन् काले भवन्ति, स आर्तः कालः. शीतेन चार्ता भवन्ति. तस्मान् माघ्य् अष्टम्य् एकाष्टकेति. तथा, व्यस्तं वा एते संवत्सरस्याभिदीक्षन्ते, य एकाष्टकायां दीक्षन्त इति. अयनपरिवृत्तिर् व्यस्तशब्देनोच्यते. तथा, अपो नाभिनन्दन्तो ऽवभृथम् अभ्यवयन्तीति चैत्र्यां दीक्षिता अभिनन्दन्तो ऽभ्यवेयुः. तस्माद् अपि माघी पौर्णमासीति.
SK
[७१६]{*६/२१५*}
SK
NOTES: *{६/२१४: Tऐत्.S. ७.४.८.१}* *{६/२१५: E२: ५,३१६; E२: २,१८०}*
SK
दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् // MS_६,५.३८ //
SK
इदं श्रूयते, तस्माद् दीक्षितो न ददाति, न पचति, न जुहोतीति, ज्योतिष्टोमे समामनन्ति. यदि{*६/२१६*} तु दैवान् मानुषाद् वा प्रतिबलाद् दीक्षिताकाल उत्कृष्यते, तत्र संदेहः. किं दानहोमपाकानाम् उत्कर्षः, उत नेति. किं प्राप्तम्. अनुत्कर्षः, नियता हि दानहोमपाकाः, यावज् जीवम्, अग्निहोत्रं जुहोतीत्येवमादिभिः श्रुतिभिस् तेषाम् अपवादः, येष्व् अहःसु साङ्गो ज्योतिष्टोमो विहितः, तावन्त्य् अहानि मुक्त्वान्येष्व् अहःसु कर्तव्याः. ज्योतिष्टोमविधानकालात् परतो ऽप्रतिषिद्धाः. तस्मात् कर्तव्याः, प्राप्तो हि तेषां काल इति.
SK
NOTES: *{६/२१६: E१,६; E२: समामनन्ति, तिष्टो दीक्षा इत्येवमादि. यदि}*
SK
उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् // MS_६,५.३९ //
SK
वाशब्दात् पक्षो विपरिवर्तते. यद् उक्तम्, नैषम् उत्कर्ष इति, नैतद् एवम्. उत्कृष्टव्याः{*६/२१७*}. कुतः. दीक्षितत्वात्, दीक्षितस्य ते प्रतिषिद्धाः, न दीक्षितो यस्मिन् काले. लक्षणा हि एवं स्यात्, यथा तु वयं ब्रूमः, तथा श्रुतिः कारणम्. प्राक् चावभृथात्, अयं दीक्षित एव. अविशिष्टं हि कारणम्, यद् एव ज्योतिष्टोमविधानकाले, तद् एवातिक्रान्ते ऽपि. उभयत्र हि दीक्षितत्वं हि कारणम्. तस्मात् तेषाम् उत्कर्ष इति.
SK
[७१७]{*६/२१८*}
SK
NOTES: *{६/२१७: E२: उत्क्रष्टव्याः}* *{६/२१८: E२: ५,३१७; E६: २,१८१}*
SK
तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम् // MS_६,५.४० //
SK
तत्रोत्कृष्यमाणे ज्योतिष्टोमे{*६/२१९*}, अकृतेषु होमेषु किं परिसंख्याय होमाः कर्तव्याः, उत नेति. किं प्राप्तम्. परिसंख्याय होमाः क्रियेरन्. किं कारणम्. अवश्यकर्तव्यतया हि ते विहिता होमाः. अतिपन्ना अपि कर्तव्या एव. तथा ह्य् एषाम् अवश्यकर्तव्यता अनुगृहीता भविष्यति. प्रधानमात्रं तु नियतम्, नात्र कालानुरोधः कर्तव्यः, नदीवेगस्थानीयत्वात्. यद्य् अप्य् अतिक्रान्ताः कालाः, अतिक्रान्तानां परिसंख्याय प्रधानमात्राणि कर्तव्यानि, यथावश्यकर्तव्यं भुक्तिभृतकदानादि, यद् अतिक्रान्तं भवति, तत् परिसंख्याय क्रियते, एवम् इदम् अपीति. एवं प्राप्ते ब्रूमः, तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम्, कर्तव्यम् अकृत्वा कुर्यात्, नाकर्तव्यम्. अकर्तव्याश् चैते, प्रतिषिद्धत्वात्, यथा पूर्वेषाम् असति कालातिक्रमे ऽकृतानां न प्रतिहोमः, एवम् एषाम् अपीति.
SK
NOTES: *{६/२१९: E१ (व्.ल्.) ज्योतिष्टोमकाले}*
SK
कालप्राधान्याच् च // MS_६,५.४१ //
SK
कालप्राधान्यं च भवति, निमित्तत्वेन तस्य श्रुतत्वात्. तदभावे विहितम् एव न भवति. प्रधानमात्रं यद्य् अपि नियम्येत, तथापि निमित्ते काले. स च नदीवेगस्थानीयः काले ऽतिक्रान्तः, अतो न प्रतिहोमः कर्तव्य इति.
SK
[७१८]{*६/२२०*}
SK
NOTES: *{६/२२०: E२: ५,३१८; E६: २,१८२}*
SK
प्रतिषेधाच् चोर्ध्वम् अवभृथाद् एष्टेः{*६/२२१*} // MS_६,५.४२ //
SK
ऊर्ध्वम् अवभृथाद् आ उदवसानीयाया इष्टेर् ये होमाः, तेष्व् अतिपन्नेषु दैवेन मानुषेण वा प्रतिबलेन भवति संशयः. किं प्रतिहोमः कर्तव्यः, उत नेति. किं प्राप्तम्. कर्तव्य इति, उन्मुक्तदीक्षो हि स तदा भवति, दीक्षाणाम् उन्मोचनार्थो ह्य् अवभृथः. तस्मात् कर्तव्याः, ते न कृता इति. एवं प्राप्ते ब्रूमः, ऊर्ध्वम् अवभृथात्, आ उदवसानीयाया इष्टेः, अतिपन्नानां न प्रतिहोमः स्यात्. कुतः. प्रतिषेधात्, प्रतिषेधो हि भवति, एतया पुनराधेयसस्मितयेष्ट्याग्निहोत्रं{*६/२२२*} होतव्यम् इति, प्राग् उदवसानीयायाः, होमस्य प्रतिषेधः. यावद् उदवसानीयोत्कृष्यते, तावत् प्रतिषेधः. एवं श्रुतिः, इतरथा लक्षणा स्यात्. तस्माद् अकर्तव्याः, ते न कृता इति, न स्यात् प्रतिहोम इति.
SK
NOTES: *{६/२२१: E६ (?); E२,६: इष्टेः}* *{६/२२२: E१,६; E२: आधेयसंमितयेष्ट्वाग्निहोत्रं}*
SK
प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् // MS_६,५.४३ //
SK
एतेष्व् एवोदाहरणेषु भवति संशयः. किं प्रतिहोमे सायम् अग्निहोत्रप्रभृतीन्य् आरभ्येरन्{*६/२२३*}, उत प्रातरग्निहोत्रप्रभृतीनीति. ननु नास्त्य् एव प्रतिहोम इति स्थितम्. उच्यते, अस्तीति कृत्वा चिन्तयामः. कृत्वा चिन्तेयम्, अन्येषु सदृशन्यायेषूदाहरणेष्व् अस्याः प्रयोजनम् अस्ति [७१९]{*६/२२४*} इति चिन्त्यते. किं प्राप्तम्. अनियमः, अर्थकृतत्वात्. एवं प्राप्ते ब्रूमः, यदि प्रतिहोमः क्रियते, सायम् अग्निहोत्रप्रभृतीनि हूयेरन्. कुतः{*६/२२५*}. सायम् अग्निहोत्राद् आरभ्यातिपन्नानि, तेनैवानुपूर्वेण प्रतिहोतव्यानीति.
SK
NOTES: *{६/२२३: E१ (व्.ल्.) हूयेरन्}* *{६/२२४: E२: ५,३१९; E२: २,१८२}* *{६/२२५: E२ ओम्. सायम् अग्निहोत्रप्रभृतीनि हूयेरन्. कुतः}*
SK
प्रातस् तु षोडशिनि // MS_६,५.४४ //
SK
षोडशिसंस्थे सोमो ऽतिपन्नेषु{*६/२२६*} होमेषु संदेहः, किं सायम् अग्निहोत्रेणेति, उत प्रातर् इति{*६/२२७*}. किं प्राप्तम्. सायम् अग्निहोत्रेणेति पूर्वस्मिन्न् अधिकरण उक्तम्, उत्सर्गेण सर्वत्रैवम् इति प्राप्तम्. तथा प्राप्त उच्यते, प्रातस् तु षोडशिनि, षोडशिसंस्थे प्रातरग्निहोत्रादीन्य् अतिपन्नानीति प्रातरग्निहोत्राद् एव समारभ्यानीति.
SK
NOTES: *{६/२२६: E१,६; E२: ज्योतिष्टोमे ऽतिपन्नेषु}* *{६/२२७: E२: अग्निहोत्रेण प्रतिहोतव्यम् उत प्रातर् अग्निहोत्रेणेति}*
SK
प्रायश्चित्तम् अधिकारे सर्वत्र दोषसामान्यात् // MS_६,५.४५ //
SK
दर्शपूर्णमासयोः श्रूयते, भिन्ने जुहोति स्कन्ने जुहोतीति. तत्र किं दर्शपूर्णमासयोर् एवैतत्, भिन्ने स्कन्ने च प्रायश्चित्तम् उत यत्र भिद्यते स्कन्दति चेति. किं प्राप्तम्. [७२०]{*६/२२८*} प्रकरणे यत् प्रायश्चित्तम् एवंजातीय्कं किंचिद् उत्पन्नम्, तत् सर्वत्र यत्र यत्र भिद्यते स्कन्दति वा, तत्र तत्र स्यात्. कस्मात्. दोषसामान्यात्, समानं निमित्तं स्कन्दनं भेदनं वा. स एवात्र दोष इत्य् अभिप्रेतम्. प्रकरणाद् दर्शपूर्णमासयोः प्रायश्चित्तम्, वाक्याद् अन्यत्रापि, प्रकरणाच् च वाक्यं बलीयः. तस्मात् सर्वत्र स्कन्ने भिन्ने च प्रायश्चित्तम् इति.
SK
NOTES: *{६/२२८: E२: ५,३१९; E६: २,१८३}*
SK
प्रकरणे वा शब्दहेतुत्वात् // MS_६,५.४६ //
SK
प्रकरण एव भिन्ने स्कन्ने वा प्रायश्चित्तम्. कुतः. शब्दहेतुत्वात्, तेन प्राकृतेनार्थेन सहैकवाक्यता, एषां होमानाम्. ततो होमवतो यागस्य प्रत्यायने प्रकृतो यजेतेति शब्दो हेतुः. एवं चेत् तदुपकारेणार्थवान् भविष्यतीति, इतरथा विना वाक्येन, फलं कल्पयितव्यं स्यात्. तस्मात् वाक्यं फलाभावेनैव बाधितम् इति कृत्वा प्रकरणम् अनुगृहीतव्यम् इति.
SK
अतद्विकारश् च // MS_६,५.४७ //
SK
न च, अतद्विकारो ऽग्निहोत्रं ज्योतिष्टोमो वा. न दर्शपूर्णमासविकारः. यदि तद्विकारो भवेत्, तत्रापि स्कन्ने भिन्ने वा प्रायश्चित्तं स्याद् इति.
SK
व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत // MS_६,५.४८ //
SK
व्यापन्नम् अप्सु प्रहरतीति श्रूयते. किं व्यापन्नम् इत्य् उच्यत इति तद् अभिधीयते, व्यापन्नम्, दूषितं येन कार्येन [७२१]{*६/२२९*} क्रियते. किं तत्. यद् अभोज्यम् आर्याणाम्, केशकीटाव् अपन्नम्{*६/२३०*} अन्येन वोपघातेनोपहतम्, तद् व्यापन्नम् इति.
SK
NOTES: *{६/२२९: E२: ५,३२०; E६: २,१८३}* *{६/२३०: E१,६; E२: अभिधीयते, केशकीटाव् अपन्नम्, अन्येन वोपघातेनोपहतम्, तद्व्यापभोज्यम् आर्याणाम्, शेशकीटाव् अपन्नम्}*
SK
विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते // MS_६,५.४९ //
SK
प्रस्तोत्रुद्गात्रोर्{*६/२३१*} उद्गातृप्रतिहर्तोर् वा यत्रापच्छेदः{*६/२३२*}. किं तत्र प्रायश्चित्तं स्यात्, नेति भवति संशयः. किं तावत् प्राप्तम्. प्रायश्चित्तं यौगपद्ये न विद्यते. कुतः. विभागश्रुतेः, विभक्ते ऽपच्छेदे प्रायश्चित्तम् आमनन्ति. अपच्छेदश् चायं विभागः, स उभाभ्यां साध्यते, इह चैकेन साध्यमाने श्रूयते प्रायश्चित्तम्, उद्गात्रा प्रतिहर्त्रा वा. न च यद् अपरेण सह क्रियते, तत् केवलेन कृतं भवति. यदि हि केवलेन कृतं स्यात्, तेन कृतम्{*६/२३३*}, अपरः किं कुर्यात्. तस्मान् न युगपद् अपच्छिन्नयोः प्रायश्चित्तम् इति.
SK
NOTES: *{६/२३१: E१,६; E२: ज्योतिष्टोमे प्रस्तोत्रुद्गात्रोर्}* *{६/२३२: E१,६; E२: यत्र युगपद् अपच्छेदः}* *{६/२३३: E१,६; E२: कृते}*
SK
स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् // MS_६,५.५० //
SK
स्याद् वा प्रायश्चित्तं यौगपद्ये ऽपि. प्राप्तं हि निमित्तम् अपच्छेद उद्गातुः प्रतिहतश्{*६/२३४*} च. यत्र हि द्वयोर् अपच्छेदः, तत्र द्वाव् अप्य् अपच्छिन्नौ, एको ऽप्य् अपरो ऽपि. संयुक्तस्य हि पृथग्भावो ऽपच्छेदः, स चोभयस्थो ऽपि. एकेनापि तत्रापच्छेदः क्रियते ऽनपेक्ष्यापरम्, अपरेणापि. कालमात्रं तु तत्रैकम्, न च [७२२]{*६/२३५*} कालैक्याद् अपच्छेदयोर् ऐक्यं भवति. तस्मात् प्रायश्चित्तं युगपद् अपच्छेदे ऽपि.
SK
NOTES: *{६/२३४: E१; E२,६: प्रतिहर्तुश्}* *{६/२३५: E२: ५,३२१; E६: २,१८४}*
SK
तत्र विप्रतिषेधाद् विकल्पः स्यात् // MS_६,५.५१ //
SK
यद्य् उद्गातृप्रतिहर्त्रोः युगपद् अपच्छेदो भवति, तत्र संदेहः. किम् अदाक्षिण्यम्, सर्वस्वं वा विकल्पः{*६/२३६*}, उत समुच्चय इति. किं प्राप्तम्. तत्र विप्रतिषेधाद् विकल्पः स्यात्. विरुद्धौ ह्य् एतौ कल्पौ, सर्वस्वम् अदाक्षिण्यं च. तस्माद् विकल्पो भवितुम् अर्हति.
SK
NOTES: *{६/२३६: E१,६; E२: वेति भवति विकल्पः}*
SK
प्रयोगान्तरे वोभयानुग्रहः स्यात् // MS_६,५.५२ //
SK
वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, विकल्प इति, उभयोर् विधानात्. सर्वाङ्गोपसंहारी प्रयोगवचन एवम् उपपद्यते. विकल्पे हि पक्षे बाधः, तस्मात् समुच्चयः. अथ यद् उक्तम्, विरोधाद् विकल्प इति. उच्यते, प्रयोगान्तरे वोभयानुग्रहः स्यात्, तेन पुनर् यजेतेत्य् उच्यते. द्विस् तस्य प्रयोगः. तत्रैकस्मिन् प्रयोगे, एकः कल्पः. अन्यस्मिन्न् अपरो भविष्यति. एवम् अविरोधः, तस्माद् उभयं प्रायश्चित्तम् इति.
SK
न चैकसंयोगात् // MS_६,५.५३ //
SK
न चैतद् एवम्. कुतः. एकसंयोगात्, स एव यागः पुनः क्रियेत. यद्य् अन्यतरेण विना वैगुण्यम् इत्य् अवधार्येत, सर्वस्वे क्रियमाणे ऽदक्षिण्याभावाद् विगुणः स्यात्. नान्यस्मिन् प्रयोगे क्रियमाणे ऽन्यः प्रयोगो ऽनुगृह्यते, न चादाक्षिण्यस्य [७२३]{*६/२३७*} सर्वस्वदानस्य च प्राधान्यम्, गुणवता प्रयोगेण कर्म संबन्धयितव्यम्. तस्माद् विकल्पः.
SK
NOTES: *{६/२३७: E२: ५,३२१; E६: २,१८५}*
SK
पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् // MS_६,५.५४ //
SK
यत्रानुपूर्वेण भवत्य् अपच्छेदः, तत्र किं पूर्वनिमित्तं प्रायश्चित्तम्, उतोत्तरनिमित्तम् इति भवति संशयः. किं प्राप्तम्. पूर्वस्य बलीयस्त्वम्, पूर्वापच्छेदे यन् नैमित्तिकं प्राप्तम्, तस्मिन् सति तद्विरुद्धं न शक्यं कर्तुम्. न चाशक्यम् उपदेशार्हं भवति, पूर्वविज्ञानं प्राप्तम् इति न संशयः. तस्मात् तदविरोधेनान्यत् कार्यं न विरुद्धम्. क्व तर्हि तत् स्यात्. यत्र केवलं निमित्तम्. तस्मात् पूर्वविज्ञानं बलवत्. एवं प्राप्ते ब्रूमः, पौर्वापर्ये पूर्वदौर्बल्यं स्यात्. कुतः. आख्यातेन हि यो ऽर्थः कर्तव्य इत्य् उच्यते, तत्रैतद् अनुबुद्धं यथा शक्येत, तथेति. तत् पूर्वविज्ञानबाधेन{*६/२३८*} शक्यते, नान्यथा. तेन पूर्वविज्ञानं बाधित्वेदं कर्तव्यम् इति भवति शब्दार्थः. ननु पूर्वविज्ञान इदं उपपद्यते, यद् अन्यद् विरोधकं विज्ञानं भविष्यति, तन् मिथ्येति. अभूतं हि तन् न{*६/२३९*} शक्यम् आश्रयितुम्, इदं नाम तद् इति. न च, अप्रतिषिद्धे तस्मिन् न पूर्वविज्ञानं संभवति. तस्माद् अप्रतिषिद्धं भविष्यत्{*६/२४०*}, यदा तु तद् भवति, तदा पूर्वविज्ञानं बाधमानम् एवोत्पद्यते. तद् इदानीं बाधितं न शक्नोत्य् उत्तरं बाधितुम् इति, प्रकृतिवत्. यद् धि प्राकृतं वैकृतेन बाध्यते, तत्राप्य् एतद् एव कारणम्. नाबाधित्वा पूर्वविज्ञानं वैकृतं संभवतीति, प्राकृतं च पूर्वम्, यतो विकृतौ तद् अपेक्षा. प्रत्यक्षत्वाद् वैकृतम् आनुमानिकं प्राकृतं बाधत इति [७२४]{*६/२४१*} चेत्. प्रत्यक्षत्वे ऽपि सति नैव बाधेत, यदि यथावर्णितो ऽयम् आख्यातार्थो न भवेत्. सति पूर्वविज्ञाने ऽशक्यत्वात् प्राकृतं{*६/२४२*} बाधेतैव. तस्मात् परबलीयस्त्वं न्याय्यम् एवेति.
SK
NOTES: *{६/२३८: E२ (व्.ल्.): पूर्वविज्ञानं बाधित्वा}* *{६/२३९: E१,६; E२: तत्र}* *{६/२४०: E१,६; E२: भविष्यति}* *{६/२४१: E२: ५,३२३; E६: २,१८४}* *{६/२४२: E१,६; E२: ऽशक्यत्वात् प्रत्यक्षं प्राकृतं}*
SK
यद्य् उद्गाता जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् // MS_६,५.५५ //
SK
यदा प्रतिहर्तुः पूर्वम् अपच्छेदः तत उद्गातुः, तत्रादक्षिणेनेष्ट्वा{*६/२४३*} पुनर् यष्टव्यम्. तत्र संदेहः. पुनर् यागे किं द्वादशशतं दातव्यम् उत सर्वस्वम् इति. किं प्राप्तम्. द्वादशशतम्. कुतः. एवं ह्य् आम्नायते, तत्र तद् दद्यात्, यत् पूर्वस्मिन् दास्यन्{*६/२४४*} स्यात्{*६/२४५*}. पूर्वस्मिंश् च प्रयोगे ज्योतिष्टोमदक्षिणैव प्राप्ता. तस्माद् द्वादशशतम् इति. एवं प्राप्ते ब्रूमः, तत्र पुनर्यज्ञे सर्वं{*६/२४६*} दद्यात्, यथेतरस्मिन् पूर्वस्मिन्न् अहनि सर्वस्वम्{*६/२४७*}. कथं तत्र सर्वस्वम् इति चेत्{*६/२४८*}. प्रतिहर्तुर् अपच्छेदात्. प्रतिहर्तर्य् अपच्छिन्ने द्वादशशतं बाधित्वा सर्वस्वं दास्यन्{*६/२४९*} भवति. ननु पूर्वस्मिन्न् अहनि द्वादशशतम् अप्य् असौ दास्यन्न् आसीत्. सत्यम्, सर्वस्वदानेन त उभयं{*६/२५०*} प्रदत्तं भवति. तस्मात् तद् देयं. नन्व् अर्वाग् अपि द्वादशशतात् सर्वस्वम्. नैतद् एवम्, अधिकृते{*६/२५१*} द्वादशशते सर्वस्वम् अप्य् अधिकं भवति. अपि च पूर्वस्मिन्न् अहनि नैव द्वादशशतं दास्यन्{*६/२५२*} भवतीति{*६/२५३*}. एतावद् दास्यन्न्{*६/२५४*} इत्य् उच्यते, यस्योत्तरकाले तावद् दानं{*६/२५५*} भवति. न च, पूर्वस्मिन्न् अहनि द्वादशशतं दीयते, तस्मान् न तद् दास्यन्न्{*६/२५६*} इत्य् अवगम्यते, मिथ्याबुद्धिः सा, तत्त्वेन व्यवहारः. [७२५]{*६/२५७*} ननु च सर्वस्वम् अपि प्रतिषिद्धं भवति, तद् अप्य् असौ न दास्यन्न् इति, साप्य् अस्य मिथ्याबुद्धिः. नेत्य् आह, साभ्यासस्य ज्योतिष्टोमस्य प्रयोगः. तत्र प्रथमप्रयोगे ऽदाक्षिण्यविरोधात् सर्वस्वं बाध्यते. द्वितीयप्रयोगे तद्दानं चोद्यते. तत्र विरोधो नास्ति, तस्यैव यज्ञस्य स एव प्रयोगः. प्रतिहर्ता च तस्मिन्न् अपच्छिन्न इति द्वादशशतं बाधित्वा सर्वस्वम् एव दास्यन्{*६/२५८*} भवति. तस्मात् सर्वस्वं तत्र देयम् इति.
SK
NOTES: *{६/२४३: E१,६; E२: तत्रादाक्षिण्येनेष्ट्वा}* *{६/२४४: E१,६; E२: दास्यं}* *{६/२४५: E१,६; E२: स्याद् इति}* *{६/२४६: E१,६; E२: सर्वस्वं}* *{६/२४७: E१ हत् पूर्वस्मिन्न् अहनि सर्वस्वम् इन् Kलम्मेर्न्}* *{६/२४८: E१,६; E२: चेन् न}* *{६/२४९: E१,६; E२: दास्यं}* *{६/२५०: E१,६; E२: तूभयं}* *{६/२५१: E१,६; E२: अङ्गीकृते}* *{६/२५२: E१,६; E२: दास्यं}* *{६/२५३: E२ ओम्. इति}* *{६/२५४: E२: एतावद् धि दास्यम्}* *{६/२५५: E२: दास्यं; E२ (व्.ल्.), E१,६: दानं}* *{६/२५६: E१,६; E२: दास्यम्}* *{६/२५७: E२: ५,३२४; E६: २,१८६}* *{६/२५८: E१,६; E२: दास्यं}*
SK
अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्मपृथक्त्वात् // MS_६,५.५६ //
SK
अहर्गणे यदा भवति कस्मिंश्चिद् अहन्य् उद्गातुर् अपच्छेदः, तदा संदेहः. किं कृत्स्नो ऽहर्गण आवर्तते, उत तद् एवाहर् इति. किं प्राप्तम्. कृत्स्नो ऽहर्गणः. कुतः. अपरैर् अहोभिर् विना, तदा{*६/२५९*} विगुणं{*६/२६०*} भवति, तस्माद् गण{*६/२६१*} एवावर्तेतेति. एवं प्राप्ते ब्रूमः, यस्मिन्न् अपच्छेदः, तद् एवावर्तेत. कुतः. कर्मपृथक्त्वात्, पृथग् एतानि कर्माणि, नान्यद् अहर् अन्यस्य गुणभूतम्, इष्ट्वेति च यागं परिसमाप्येति गम्यते, न साङ्गम् इति. यान्य् अहरन्तराणि साहाय्येनोपकरिष्यन्ति, विद्यन्त एव तानि. अतः{*६/२६२*} साहाय्यं करिष्यन्तीति. तस्मात् तद् एवावर्तेत.
SK
NOTES: *{६/२५९: E२: असौ; E२ (व्.ल्.), E१,६: तदा}* *{६/२६०: E१,६; E२: विगुणो}* *{६/२६१: E१,६; E२: अहर्गण}* *{६/२६२: E२ (व्.ल्.) ततः}*
SK
[७२६]{*६/२६३*}
SK
NOTES: *{६/२६३: E२: ५,३२५; E६: २,१८७}*
SK
संनिपाते ऽवैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् // MS_६,६.१ //
SK
सत्राण्य् उदाहरणम्, सप्तदशावराः सत्रम् आसीरन्, य एवं विद्वांसः सत्रम् आसते य एवं विद्वांसः सत्रम् उपयन्तीति. तत्र संदेहः. किं समानकल्पानाम् भिन्नकल्पानां च सहाधिकार उत समानकल्पानाम् एवेति. के पुनः समानकल्पाः. राजन्यात्रिबध्र्यश्ववसिष्ठवैन्यशुनकानां कण्वकश्यपसंकृतीनां नाराशंसो द्वितीयः प्रयाजः, तनूनपाद् इतरेषाम्. एवं केचिन् नाराशंसकल्पाः, केचित् तनूनपात्कल्पाः. तत्र किं तावत् प्राप्तम्. संनिपाते बहूनां यजमानानां य एव तुल्यकल्पाः{*६/२६४*}, त एव सह सत्रम् आसीरन्. कुतः. अवैगुण्यात्, इतरथा यस्य कल्पो नोपसंह्रियेत, तस्य वैगुण्यं स्यात्. यथा प्रकृताव् एव विना साद्गुण्येन, फलाभाव एवम् इहापीति.
SK
NOTES: *{६/२६४: E१,६; E२: तुल्याः}*
SK
वचनाद् वा शिरोवत् स्यात् // MS_६,६.२ //
SK
वाशब्दात् पक्षो विपरिवर्तते. न चैतद् अस्ति, भिन्नकल्पानाम् अनधिकार इति, ते ऽप्य् अधिक्रियेरन्. कुतः. अविशेषेण{*६/२६५*} सर्वेषां यजमानानां प्राप्तिः. न च भिन्नकल्पानां प्रतिषेधः. ननु वैगुण्यं भिन्नकल्पानाम्. अत्रोच्यते, [७२७]{*६/२६६*} वचनात्, सामान्यवचनेन भिन्नकल्पा अपि गृहीताः. तत्र शिरोवद् भाधः स्यात्, यथा, पुरुषशीर्षम् उपदधातीति{*६/२६७*} वचनसामर्थ्याच् छवशिरसां स्पर्शनं स्मृतिविप्रतिषिद्धम् अपि क्रियते, एवम् इहापि. अथवा, आशिरवत्, यथा, ऋतपेये घृतव्रतो भवतीति वचनाद् व्रतदुहि निवृत्तायाम् अन्यामाशिरे गां कल्पयन्ति. एवम् एतद् अपि वचनाद् भविष्यति.
SK
NOTES: *{६/२६५: E१,६; E२: कुतः. अविशेषात्. अविशेषेण}* *{६/२६६: E२: ५,३२६; E६: २,१८७}* *{६/२६७: Tऐत्.S. ५.२.९.२}*
SK
न वानारभ्यवादत्वात् // MS_६,६.३ //
SK
नैतद् अस्ति, यद् उक्तम्, भिन्नकल्पानाम् अप्य् अधिकार इति, समानकल्पा एवाधिक्रियेरन्. कुतः. अवैगुण्यात्. अथ यद् उक्तम्, वचनाद् वैगुण्येनापि{*६/२६८*} सेत्स्यतीति. तन् न, अनारभ्यवादत्वात्, तद् धि वचनात् प्रकल्प्यते, यस्मिन्न् अकल्प्यमाने वचनम् अनर्थकं भवति. यदि ह्य् आरभ्य भिन्नकल्पान्, एतद् उच्येत, ततो वचनम् अनर्थकं भवतीति भिन्नकल्पानाम् अपि सत्रम् अभ्युपगम्येत, न त्व् आरभ्य भिन्नकल्पान् एतद् उच्यते. समानकल्पेष्व् अर्थवत्तास्य वचनस्य भविष्यति. तस्मान् न भिन्नकल्पानाम् अधिकार इति.
SK
NOTES: *{६/२६८: E२ (व्.ल्.): वैगुण्ये ऽपि}*
SK
स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् // MS_६,६.४ //
SK
स्याद् वा भिन्नकल्पानाम् अधिकारः. कुतः. यज्ञार्थत्वात् कल्पस्य. वसिष्ठादीनां नाराशंसकल्पो यज्ञस्य साधकः. स च यज्ञः सर्वेषां साधारणः, परकल्पेनापि सिद्धः सिद्धो{*६/२६९*} भवति. यथा, यजमानेन संमायौदुम्बरीं{*६/२७०*} परिवासयन्तीति यस्य कस्यचित् परिमाणेन सिद्धो यज्ञो ऽन्येषाम् अपि सिद्धो भवति. उच्यते, ननु प्रयाजस्य वाक्येन पुरुषसंबन्धः. स च प्रकरणप्राप्तां यागार्थतां बाधिष्यत इति. नेति ब्रूमः. फलं [७२८]{*६/२७१*} हि तदा कल्पयितव्यम्. नन्व् इतरथाप्य् अदृष्टम् अवश्यं कल्पनीयम्. तत्रोच्यते, सत्यं कल्पनीयम्. प्रमाणेन तु प्रयोगवचनैकवाक्येन, द्वितीये तु पक्षे कल्पयित्वा शब्दम्, तेनैकवाक्यता स्यात्. अथोच्येत, क्वचित् समाम्नातेन सहैकवाक्यता भविष्यति. तथाप्य् अप्रकृतेन व्यवहितेन च कल्प्यमाना प्रकृतकल्पनाया गुरुतरा स्यात्.
SK
NOTES: *{६/२६९: E२ (व्.ल्.): सिद्ध्ये}* *{६/२७०: E१,६,E२ (व्.ल्.); E२: संमिताम् औदुम्बरीं}* *{६/२७१: E२: ५,३२७; E६: २,१८८}*
SK
न, तत्प्रधानत्वात् // MS_६,६.५ //
SK
नैतद् एवम्, तत्प्रधानत्वात्. पुरुषार्थो ह्य् एष कल्पः. कथम्. वसिष्ठादीनां{*६/२७२*} नाराशंसो यज्ञाङ्गम् इति. यच् च यस्य यज्ञाङ्गम्, तेन सह फलदं कर्म तस्य भवति. तेनैवम् अभिसंबन्धः क्रियते, वसिष्ठानां{*६/२७३*} नाराशंसेन सहितं कर्म फलदं भवतीति.
SK
NOTES: *{६/२७२: E१,६; E२: वासिष्ठादीनां}* *{६/२७३: E१,६; E२: वासिष्ठानां}*
SK
औदुम्बर्याः परार्थत्वात् कपालवत् // MS_६,६.६ //
SK
अथ यद् उपवर्णितम्, यथौदुम्बरी तथेहेति. पारार्थ्यम्{*६/२७४*} औदुम्बर्याः, यजमानो गुणत्वेन श्रूयते. ननु तत्रापि प्रयोगवचनः पुरुषप्राधान्यं कुर्यात्. नैष दोषः, एकेनापि यजमानेन संमिता चेयं सर्वेषां यजमानसंमिता भवति. न त्व् इहैकस्य संगृहीते{*६/२७५*} सर्वेषां संगृहीतः. तस्माद्{*६/२७६*} औदुम्बर्याः पारार्थ्यम्, कपालवत्, यथा, पुरोडाशकपालेन तुषा उपवपन्तीति{*६/२७७*} परार्थकपालेन तुषा उपवप्तव्या इत्य् उपादीयते, एवम् एतद् अपीति.
SK
NOTES: *{६/२७४: E२: परार्थत्वाद्; E२ (व्.ल्.), E१,६: पारार्थ्यम्}* *{६/२७५: E१,६; E२: इहैकस्य कल्पे संगृहीते}* *{६/२७६: E१,६; E२: संगृहीतो भवति. तस्माद्}* *{६/२७७: E१,६; E२: तुषान् उपवपतीति}*
SK
अन्येनापीति चेत् // MS_६,६.७ //
SK
एवं चेद् भवान् पश्यति, यजमानेन संमानम्, तत् प्रयो[७२९]{*६/२७८*}जनं स्वेनान्येन{*६/२७९*} वा यजमानेनेति. तथा प्रयोगान्तरे यो यजमानस् तेनापि संमानं प्राप्नोति.
SK
NOTES: *{६/२७८: E२: ५,३२८; E६: २,१८९}* *{६/२७९: E१,६; E२: न स्वेनान्येन; E२ (व्.ल्.): तत्स्वेनान्येन}*
SK
नैकत्वात् तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् // MS_६,६.८ //
SK
अत्रोच्यते, न प्रयोगान्तरस्य यजमानः प्रसज्यते. न तु यजमानशब्दे कश्चिद् विशेषः, यतो यजमानशब्दाद् व्यवस्था स्यात्. किं तर्हि. एकत्वस्य विवक्षितत्वात्, न द्वाभ्यां याजमानानि कर्तव्यानीति नान्य आनीयते. आह, अन्य एव तर्हि सर्वयाजमानेषु भवतु. नैवम्, कामिनं ह्य् अधिकृत्य, साङ्गस्य यागस्य वचनम्. यजमानशब्दश् चाविभक्त इहौदुम्बर्याः संमाने. तस्मान् नान्यो भविष्यति.
SK
संनिपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये // MS_६,६.९ //
SK
तुशब्दः पक्षं व्यावर्तयति. बहुषु यजमानेषु संनिपातान् निमित्तविघातः स्यात्. कुतः. विभक्तिशिष्टत्वात्, वसिष्ठनिर्वर्त्ये प्रयोगे नाराशंसो नैमित्तिकः. अन्यस्मिंस् तनूनपान् नैमित्तिकः. यत्रेदानीम् उभये कर्तारः समहायेन, तत्र निर्वृत्तिर् न केवलेन. तस्मान् न केवलः कर्ता. न चेद् वासिष्ठः केवलः कर्ता, तस्मात् तन्निमित्तं तत्र न कर्तव्यम्, न चेतरनिमित्तम्, उभयोर् अप्य् अन्योन्येन विघातः, बृहद्रथन्तरवत्, तद् यथा, बृहद्रथन्तरं पृष्ठं भवतीति न बृहद्साधनकम्, न रथन्तरसाधनकम् इति, नैव तत्र बृहन् निमित्तं भवति, न रथन्तरं वा. एवम् इहापीति.
SK
[७३०]{*६/२८०*}
SK
NOTES: *{६/२८०: E२: ५,३२९; E६: २,१८९}*
SK
अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत{*६/२८१*} स्वामित्वेनाभिसंबन्धात् // MS_६,६.१० //
SK
अपि वेति पक्षं व्यावर्तयति. कृत्स्नं प्रति केवलस्य कर्तृत्वेन संयोगो भवति, तस्माद् अविघातः नैमित्तिकानाम्. कथं पुनः कार्त्स्न्येन कर्तव्यत्वम्{*६/२८२*}. स्वामित्वेनाभिसंबन्धात्, कर्म प्रति स्वामित्वेन केवलानां वसिष्ठादीनाम् अभिसंबन्धो भवति, कर्म पुरुषाणम् उपकारकम्, तद् ध्य् एकैकस्य शक्नोति फलं निर्वर्तयितुम्. तस्माद् एकैकः कृत्स्नस्य कर्तेति तन् नैमित्तिकं सर्वं प्राप्नोति. यथा तुण्डमात्रे दीयताम् इति. यद्य् अपि सा तुण्डडपित्थयोर् माता, तथापि तस्यै दीयते. कार्त्स्नेन हि तस्य सा माता भवति. न हि व्यासज्यते मातृत्वम्. तद्वद् इहापि द्रष्टव्यम्. तस्माद् असमानकल्पानाम् अनधिकारः.
SK
NOTES: *{६/२८१: E१; E२,६: प्रतीयते}* *{६/२८२: E१,६; E२: कर्तृत्वम्}*
SK
साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् // MS_६,६.११ //
SK
अथ यद् उक्तम्, बृहद्रथन्तरवद् इति, तत् परिहरणीयम्. बृहद्रथन्तरयोः साम्नोर् नैमित्तिककर्मवृद्ध्यैकदेशेन संयोगो भवति. तत्र ह्य् उभयोः साधकत्वम् नैकस्य. स्तोत्रैकदेशेन तु तत्र साम्नोः संबन्धः, न कृत्स्नेन स्तोत्रेण. गुणत्वेन हि तत्र साम श्रूयते, स्तोत्रं प्राधान्येन. तस्मात् तत्र विघातः स्यात्.
SK
वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणित्वम् // MS_६,६.१२ //
SK
इदं समामनन्ति, एतेन राजपुरोहितौ सायुज्यकामौ [७३१]{*६/२८३*} यजेयाताम् इति. तत्र संदेहः. किं राज्ञो द्वौ पुरोहितौ यजेयाताम्, उत राजा च पुरोहितश् चेति. किं प्राप्तम्. राज्ञो द्वौ पुरोहिताव् इति. कुतः. पुरोहितशब्दात् परं द्विवचनं श्रूयते, तच्छब्दवाच्यस्य द्वित्वं शक्नोति वदितुम्. पुरोहितश् च तच्छब्दवाच्यः श्रुत्या, न राजा. पुरोहितवचनः पुरोहितशब्दः. लक्षणया युगपद् अधिकरणवचनतायां हि तद् भवति. नन्व् एकस्य द्वौ पुरोहितौ न स्तः. पुरोहितं वृणीत इति ह्य् उपादीयमानस्य विवक्षितम् एकत्वम् इति. उच्यते, वचनाद् एतद् भविष्यति. किं हि वचनं न कल्पयेत्. एतेनैव कारणेन द्वौ भविष्यतः, यथा वचनेनाञ्जलिना जुहोतीत्य् एकस्यैव द्वौ पाणी भवतः, यद्य् अपि सव्यो प्राप्तस्{*६/२८४*} तथापीति. NOTES: *{६/२८३: E२: ५,३३०; E६: २,१९०}* *{६/२८४: E१; E२,६: सव्यो ऽप्राप्तस्}*
SK
अर्थाभावात् तु नैवं स्यात् // MS_६,६.१३ //
SK
तुशब्दात् पक्षो विपरिवर्तते{*६/२८५*}. नैवं स्यात्, द्वौ पुरोहिताव् इति. कुतः. अर्थाभावात्, नैवायम् अर्थो ऽस्ति, द्वौ पुरोहिताव् इति. एकस्य राज्ञ एक एव पुरोहित उपादेयत्वेन हि श्रूयते, पुरोहितं करोतीति, एकत्वं विवक्षितम्. ननु वचनाद् इत्य् उक्तम्. उच्यते, न तु वचनाद् एतच् छक्यम्, संस्कारनिमित्तत्वात् पुरोहितशब्दस्य. क्रियमाणो ऽपि न पुरोहितः स्यात्.
SK
NOTES: *{६/२८५: E२ (व्.ल्.): व्यावर्त्यते}*
SK
अर्थानं च विभक्तत्वान् न तच्छ्रुतेन संबन्धः // MS_६,६.१४ //
SK
अर्थानां च विभक्तत्वं श्रूयते, तेजःसंस्तवो ब्राह्मणस्य, वीर्यसंस्तवो राजन्यस्य. ताभ्यां वर्णाभ्यां तेन तेन फलेन संबन्धो ऽनूद्यते. तस्माद् अपि न द्वौ पुरोहिताव् इति{*६/२८६*}.
SK
[७३२]{*६/२८७*}
SK
NOTES: *{६/२८६: E१,६; E२: पुरोहिताव् एकस्य राज्ञ इति}* *{६/२८७: E२: ५,३३१; E६: २,१९१}*
SK
पाणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत // MS_६,६.१५ //
SK
अथ यद् उक्तम्, एतस्माद् एव कारणाद् एकस्यैव पुरुषस्य द्वौ पाणी भवत इति. युक्तं तत्र, पाणेः प्रत्यङ्गभूतत्वात्, अञ्जलिं प्रत्यङ्गभूतो{*६/२८८*} दक्षिणस्य पाणेः स्वयः पाणिः. तेन विनाञ्जलिर् एव न भवति. न हि द्वाभ्यां दक्षिणाभ्याम् अञ्जलिर् इत्य् उच्यते. तस्माद् राजा च पुरोहितश् च स्यात्. ननु तत्र राजपुरोहितश् च राजपुरोहितश् च राजपुरोहितौ यजेयाताम् इति. उच्यते, न तौ सायुज्यकामौ भवतः. स राजा पुरोहितेन सहैककार्यो भवति, न तु पुरोहितः पुरोहितेन. उभाव् अपि तौ हि राजानम् अभिचरन्तौ पुरोहिताव् इत्य् उच्येते, न हि ताव्{*६/२८९*} इच्छन्तौ, संस्कारशब्दो हि पुरोहित इति. ननु लक्षणा भवति भवत्पक्षे. उच्यते, श्रुत्यभावे लक्षणयापि व्यवहारो भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठतीति. तस्माद् राजा च पुरोहितश् च राजपुरोहिताव् इति.
SK
NOTES: *{६/२८८: E१,६; E१ (व्.ल्.): अञ्जलौ प्रत्यङ्गभूतौ; E२: अञ्जलौ प्रत्यङ्गभूतो}* *{६/२८९: E१,६; E१ (व्.ल्.),E२: तम्}*
SK
सत्राणि सर्ववर्णानां अविशेषात् // MS_६,६.१६ //
SK
इह सत्राण्य् उदाहरणम्. य एवं विद्वांसः सत्रम् आसते, य एवं विद्वांसः सत्रम् उपयन्तीति. तत्र संदेहः. किं सत्राणि त्रयाणाम् अपि वर्णानाम्, उत ब्राह्मणानाम् एवेति. किं प्राप्तम्. सत्राणि सर्ववर्णानां भवेयुर् इति. [७३३]{*६/२९०*} कस्मात्. अविशेषात्, न हि कश्चिद् विशेष आश्रीयते. अमीषां वर्णानां सत्राणि भवन्ति, अमीषां नेति. तस्मात् त्रयाणाम् अपि वर्णानाम् अधिकार इति.
SK
NOTES: *{६/२९०: E२: ५,३३१; E६: २,१९१}*
SK
लिङ्गदर्शनाच् च // MS_६,६.१७ //
SK
इतश् च पश्यामः, त्रयाणां सत्राणीति. कुतः. लिङ्गदर्शनात्. किं लिङ्गं भवति. एवम् आह, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्यं{*६/२९१*} राजन्यस्य रायोवाजीयं वैश्यस्येति द्वादशाहे भवति वचनं ब्राह्मसामविधानपरम्, तस्मिन् राजन्यवैश्यानां दर्शनं भवति. तस्माद् अपि सर्ववर्णानाम् अधिकार इति.
SK
NOTES: *{६/२९१: E१; E२,६: पार्थुरश्मं}*
SK
ब्राह्मणानां वेतरयोर्{*६/२९२*} आर्त्विज्याभावात् // MS_६,६.१८ //
SK
वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, त्रयाणाम् अपि वर्णानाम् इति{*६/२९३*}. किं तर्हि. ब्राह्मणानाम् एव स्यात्. कुतः. इतरयोर् आर्त्विज्याभावात्. इतरयोर् हि वर्णयो राजन्यवैश्ययोर् आर्त्विज्यं प्रतिषिद्धम्. स्वयम् एवार्त्विज्येन च विना विगुणत्वम्. तस्माद् ब्राह्मणानाम् एव स्यात्.
SK
NOTES: *{६/२९२: E१,६; E२: चेतरयोर्}* *{६/२९३: E१,६; E२: वर्णानाम् अधिकार इति}*
SK
वचनाद् इति चेत् // MS_६,६.१९ //
SK
इति चेत् पश्यसि, राजन्यवैश्ययोर् वैगुण्यम् आपद्यत इति. वचनाद् यजमानाः सन्त ऋत्विजो भविष्यन्ति, ये यजमानास् त ऋत्विज इति. के पुनर् यजमानाः. ये तत्र फलं{*६/२९४*} कामयमानाः सत्रकर्मणि प्रवृत्तास् ते राजन्या अपि वैश्या अपि. तेषाम् ऋत्विक्कर्म विधीयते. तत्रैतत् स्यात्, येषाम् आर्त्विज्यं शक्यं कर्तुम्, तेषाम् एव तद् ब्राह्मणानाम्{*६/२९५*}. प्रतिषिद्धं [७३४]{*६/२९६*} हि राजन्यवैश्यानाम्, न तेषाम् इदम् आर्त्विज्यविधानम् इति. नैतद् एवम्, यथैव ब्राह्मणानां यजमानानाम् अप्राप्तं वचनविधानाद् भवति, एवम् अब्राह्मणानां अपि यजमानानां वचनप्रामाण्याद् एव भवितुम् अर्हतीति. तस्माद् आर्त्विज्यसंस्कृता राजन्यवैश्या अपि सत्रम् आसीरन्न् इति.
SK
NOTES: *{६/२९४: E१,६; E२: सत्रफलं}* *{६/२९५: E१,६; E२: ब्राह्मणानां शक्यम्}* *{६/२९६: E२: ५,३३३; E६: २,१९२}*
SK
न स्वामित्वं हि विधीयते // MS_६,६.२० //
SK
नैतद् एवम्. स्वामित्वम् अनेन वचनेन विधीयते, एवंकामाः सत्रम् आसीरन्न् इति विधीयते, नार्त्विज्यम्. अथ ये यजमानास् त ऋत्विज इत्य् अनेन वचनेन विहितम् आर्त्विज्यम् इति. उच्यते, तद् अपि न. कथम्. नात्रैषा वचनव्यक्तिः. ये यजमाना इत्य् उद्देशपदम्{*६/२९७*}, ऋत्विज इति विधेयपदम्. तथा हि सति, आर्त्विज्यम् अङ्गं यजमानसंस्कारकं विधीयेत, न यजमाना आर्त्विज्यस्याङ्गम्. तत्र प्राकृतार्थता नैषाम् आर्त्विज्यानां स्यात्, संस्कारश् चादृष्टः कल्प्येत. स च यजमानविषय इति, पुनर् अदृष्टम्. तस्मान् न यजमानानां सताम् आर्त्विज्याः पदार्था विधीयन्ते. किं तर्हि. आर्त्विजानां पदार्थानाम् अनन्यकर्तृकता. एषा च वचनव्यक्तिः, ऋत्विज इत्य् उद्देशपदम्. त इति विधीयते, ये यजमानास् त एवर्त्विजो भवन्ति, नान्य इति, आर्त्विजेषु पदार्थेषु यजमानाः कर्तारो विधीयन्ते, प्रत्याम्नानात्. अन्ये निवर्तन्ते. एवं सति प्राकृतप्रयोजना एवार्त्विजाह् पदार्थाः. न यजमानसंस्कारो ऽदृष्टो विधीयत इति. यजमानकर्तृकल्पनायाम् अप्य् एषाम् अदृष्टम् इति यदि कल्प्येत. तत्र ब्रूमः, इतरस्मिन्न् अपि पक्षे यजमानविषयः सो ऽदृष्टः संस्कार इति [७३५]{*६/२९८*} अवश्यं कल्पनीयम्. यश् चोभयोः पक्षयोर् दोषो न तम् एकश् चोद्यो भवति.
SK
NOTES: *{६/२९७: E१,६; E२: उद्देश्यपदम्}* *{६/२९८: E२: ५,३३४; E६: २,१९३}*
SK
गार्हपते{*६/२९९*} वा स्याताम् अविप्रतिषेधात् // MS_६,६.२१ //
SK
गार्हपते{*६/३००*} पदार्थे राजन्यवैश्यौ भविष्यतः, न च, तत्रार्त्विजप्रयोजनम्. तस्माद् अविप्रतिषेधस् तेषाम् इति.
SK
NOTES: *{६/२९९: E२ (व्.ल्.): गार्हपत्ये}* *{६/३००: E२ (व्.ल्.): गार्हपत्ये}*
SK
न वा कल्पविरोधात् // MS_६,६.२२ //
SK
न चैतद् अस्ति, गार्हपते वा पदार्थे राजन्यवैश्याव् इति. कल्पविरोधो हि स्यात्, यजमानचमसः सोममय एकेषाम्, फलमयचमस{*६/३०१*} एकेषाम्. तथा, ब्रह्मसाम बार्हद्गिरं ब्राह्मणानाम्, पार्थुरश्मं राजन्यानाम्, रायोवाजीयं वैश्यानाम्. तस्माद् गार्हपते निवेश इत्य् एतद् अपि नास्ति.
SK
NOTES: *{६/३०१: E१,६; E२: फलचमसमय}*
SK
स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् // MS_६,६.२३ //
SK
अथ यद् उक्तम्, लिङ्गदर्शनाद् इति. तत् परिहर्तव्यम्. अत्रोच्यते, अहीनम् एव सत्रशब्देन वक्ष्यति, यतः स्वामित्वम् ऋत्विजां विधीयते. अत ऋत्विजां स्वामित्वाद् राजन्यवैश्यानां सत्रं नावकल्पत इति. तस्माद् अहीने लिङ्गदर्शनम्.
SK
वासिष्ठानां वा ब्रह्मत्वनियमात् // MS_६,६.२४ //
SK
एतत् समधिगतं ब्राह्मणानाम् एव सत्रम्, न राजन्यवैश्यानाम् [७३६]{*६/३०२*} इति. अथेदानीम् इदं संदिग्धम्, किं सर्वेषां ब्राह्मणानाम्, उत वासिष्ठानां स, उत भृगुशुनकवसिष्ठान् वर्जयित्वान्येषाम् इति. किं प्राप्तम्. सर्वेषाम् अविशेषात्. न हि कश्चिद् विशेष आश्रीयते ऽमीषां ब्राह्मणानां सत्रम् अमीषां नेति. तस्मात् सर्वेषाम् इति. एवं प्राप्ते ब्रूमः, वासिष्ठानां ब्रह्मत्वस्य नियमात्, वासिष्ठानां सत्रं स्यात्, नान्येषाम्. कुतः. ब्रह्मत्वस्य नियमो भवति, वासिष्ठो ब्रह्मा भवतीति, अतो वासिष्ठानाम्, तत् समानकल्पानां च सत्रं स्याद् इति.
SK
NOTES: *{६/३०२: E२: ५,३३४; E६: २,१९३}*
SK
सर्वेषां वा प्रतिप्रसवात् // MS_६,६.२५ //
SK
सर्वेषां वा सत्रं स्यात्, अविशेषात्. ननु वासिष्ठो ब्रह्मेत्य् उच्यते. नेत्य् आह. पुनः प्रतिसूयते, य एव कश्चन स्तोमभागम् अधीयीत स एव ब्रह्मा भवेद् इति. वासिष्ठोपदेश इदानीं किम् अर्थ इति चेत्. स्तोमभागप्रशंसार्थः, स्तोमभागान् अधीयानो ऽवासिष्ठो ऽपि वासिष्ठकार्यं समर्थः कर्तुम् इति.
SK
विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः // MS_६,६.२६ //
SK
भृग्वादीनाम् अनधिकारः स्यात्. कुतः. वैश्वामित्रस्य हौत्रं नियम्यते, विश्वामित्रो होता भवतीति. तस्माद् वैश्वामित्राणाम्, तैश् च समानकल्पानाम् अधिकार इति.
SK
[७३७]{*६/३०३*}
SK
NOTES: *{६/३०३: E२: ५,३३५; E६: २,१९४}*
SK
विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् // MS_६,६.२७ //
SK
सत्राण्य् एवोदाहरणम्, य एवं विद्वांसः सत्रम् आसते, य एवं विद्वांसः सत्रम् उपयन्तीति. तेषु संदेहः. किं साग्नीनाम् अन्ग्नीनां च तानि भवन्ति, उत साग्नीनाम् एवेति. किं प्राप्तम्. साग्नीनाम् अनग्नीनां च. कुतः. विहारस्य प्रभुत्वात्. प्रभवति हि परकीयो ऽपि विहारः सर्वेषाम् उपकर्तुम्. कर्तव्यो{*६/३०४*} हि तेन सिध्यतीति, स यदीयेन तदीयेन वा सिद्धिम् उपैति. तस्माद् अनग्नीनाम् अपि भवितुम् अर्हतीति.
SK
NOTES: *{६/३०४: E१,६,E२ (व्.ल्.); E२: क्रत्वर्थो}*
SK
सारस्वते च दर्शनात् // MS_६,६.२८ //
SK
सारस्वते च सत्रे भवति दर्शनम्. पररथैर् वा एते स्वर्गं लोकं यन्ति, ये ऽनाहिताग्नयः सत्रम् आसत इति. अनाहिताग्नीनां सत्रं दर्शयति. तस्माद् अपि सर्वेषाम्.
SK
प्रायश्चित्तविधानाच् च // MS_६,६.२९ //
SK
प्रायश्चित्तं विधीयते, अग्नये विविचये ऽष्टाकपालं पुरोडाशं निर्वपेत्, यस्याहिताग्नेर् अन्यैर् अग्निभिर् अग्नयः संसृज्येरन्न् इति, संसर्गे ऽग्नीनां प्रायश्चित्तं दर्शयति. स एवं स्याद् अनाहितैः, नान्यथा. तस्माद् अप्य् अनग्नीनां सत्राणीति.
SK
साग्नीनां वेष्टिपूर्वत्वात् // MS_६,६.३० //
SK
साग्नीनां वा सत्राणि, नानग्नीनाम्. कस्मात्. इष्टिपूर्वत्वात्, इष्टिपूर्वत्वं सोमानाम् आम्नातम्, दर्शपूर्णमासाव् इष्ट्वा सोमेन यजेतेति ज्योतिष्टोमस्येष्टिपूर्वत्वम्. तच् चो[७३८]{*६/३०५*}दकपरम्परया सत्राणि प्रति प्राप्तम्. तस्माद् अनग्नीनां तानि भवेयुर् इति.
SK
NOTES: *{६/३०५: E२: ५,३३६; E६: २,१९५}*
SK
स्वार्थेन च प्रयुक्तत्वात् // MS_६,६.३१ //
SK
स्वार्थेन चाग्नयः प्रयुक्ताः. कथम्. उपग्रहविशेषात्, उपग्रहविशेषो हि भवति, अग्नीन् आदधीतेति. तस्माद् अन्यस्याग्निभिर् अन्यस्य न सिद्धिः, यद्य् अपि क्रत्वर्था अग्नय इति.
SK
संनिवापं च दर्शयति // MS_६,६.३२ //
SK
सावित्राणि होष्यन्तः संनिवपेरन्न् इति, तेनापि साग्नयः सत्राण्य् उपासत इति गम्यते. एवं लिङ्गपरिहाराव् अशिष्टे ऽधिकरणे ऽन्यच् चिन्त्यते.
SK
जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत // MS_६,६.३३ //
SK
किं जुह्वादीनि पात्राणि कस्यचिद् एव यजमानस्य, उपादाय प्रयोगः कर्तव्यः, उतान्यानि साधारणानि कर्तव्यानि. किं{*६/३०६*} प्राप्तम्. यस्य{*६/३०७*} कस्यचिद् एव यजमानस्योपादाय प्रयोगः कर्तव्यः. कुतः. न हि स्वं पात्रं यजमानः प्रयुङ्क्ते. स्वेन पात्रेण प्रयोगः कर्तव्य इति. तस्मात् परकीयपात्रैर् अन्ये यजेरन्न् इति.
SK
NOTES: *{६/३०६: E१,६; E२: कर्तव्यानीति. अस्मिन् संशये, उच्यते. किं}* *{६/३०७: E१,६; E२: प्राप्तम् जुह्वादिषु यथाकामी भवेत्. यस्य}*
SK
अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृतत्वात् // MS_६,६.३४ //
SK
अपि वेति पक्षव्यावृत्तिः. नैतद् एवम्, अन्यानि हि पात्राणि साधारणानि कर्तव्यानि. कस्मात्. विप्रतिषेधात्, विप्रतिषेधो भवति{*६/३०८*}. कदाचित् तानि पात्राण्य् उपात्तानि भवेयुः. अथ मरणं कस्यचिद् यजमानस्यापद्येत, तत्र विप्रतिषेधः स्यात्, आहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेति, यदि तं तैर् दहेयुः, इतरेषां यज्ञो विरुध्येत. अथ तैर् यज्ञं समापयेयुर्{*६/३०९*} इतरस्य शरीरसंस्काराः परिलुप्येरन्{*६/३१०*}, अन्येषु पुनः साधारणेषूपादीयमानेषु न किंचिद् अपि विरुध्येत. तस्मात् तथा कार्यम्{*६/३११*} इति.
SK
NOTES: *{६/३०८: E१,६; E२: विप्रतिषेधो हि भवति}* *{६/३०९: E१ (व्.ल्.): तं पक्षं समवर्धेयुर्}* *{६/३१०: E२: शरीरसंस्कारः परिलुप्येत; E२ (व्.ल्.), E१,६: शरीरसंस्काराः परिलुप्येरन्}* *{६/३११: E१ (व्.ल्.): न तथा कार्यम्}*
SK
प्रायश्चित्तम् आपदि स्यात् // MS_६,६.३५ //
SK
अथेदानीं पूर्वोक्तस्य लिङ्गस्य परिहार उच्यते. प्रायश्चित्तम् अस्मत्पक्षे परिकल्पिष्यते. कथम्. अरण्ये कान्तारे गच्छतां स्थितानां वा दस्युभयात् श्वापदभयाद् वा त्रासे जाते दावाग्निना वा संसृज्येरन्, मिथो वा स विषयः प्रायश्चित्तस्य भविष्यतीति.
SK
[७४०]{*६/३१२*}
SK
NOTES: *{६/३१२: E२: ५,३३७; E६: २,१९६}*
SK
पुरुषकल्पेन वा विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् // MS_६,६.३६ //
SK
अधरकल्पा{*६/३१३*} उदाहरणम्, आग्रयणेष्टिः पशुर् इत्येवंलक्षणकानि कर्माणि, येषु सप्तदश सामिधेन्यः, तेषु संदेहः. किं त्रयाणाम् अपि वर्णानाम् एभिः कर्मभिर् अधिकारः, उत वैश्यस्यैवेति. किं प्राप्तम्. एतस्यां विकृतौ पुरुषकल्पेन कर्ता नियम्येत. कुतः. यज्ञो{*६/३१४*} ऽयम् अध्वरकल्पादिः, एतत् संख्यागुणकः. इयं च संख्या वैश्यस्योक्ता, तेन{*६/३१५*} वैश्य एव एतत् कर्म कृत्स्नं कर्तुं समर्थः. सप्तदशगुणकम् एतत् कर्म, तच् च साप्तदश्यम् अवैश्येन क्रियमाणम् असाधु. इतरान् प्रति हि तन् न चोद्यते. तेन यजेतेत्य् असामर्थ्याद् ब्राह्मणक्षत्रियान् नाधिकरिष्यतीति.
SK
NOTES: *{६/३१३: E१,६; E२: अध्वरकल्पा}* *{६/३१४: E१,६; E२: कुतः. यज्ञस्य तद्गुणत्वात्. यज्ञो}* *{६/३१५: E१,६; E२: वैश्यस्योक्ता, सप्तदशानुब्रूयाद् वैश्यस्येति. तेन}*
SK
लिङ्गाच् चेज्याविशेषवत् // MS_६,६.३७ //
SK
लिङ्गं च भवति, यथा वैश्यस्य साप्तदश्यम् इति, सप्तदशो वैश्य{*६/३१६*} इति. तेन वैश्यस्य{*६/३१७*} साप्तदश्यम्. अतो वैश्यस्यैवंजातीयकानि कर्माणि, यथेज्याविशेषो वैश्यस्य भवति, वैश्यो वैश्यस्तोमेन यजेतेति, वैश्यसंबन्धात्. एवं साप्तदश्यं तस्यैवेति.
SK
NOTES: *{६/३१६: E१,६; E२: सप्तदशो वै वैश्य}* *{६/३१७: E१,६,E२ (व्.ल्.); E२: नावैश्यस्य}*
SK
न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना // MS_६,६.३८ //
SK
न चैतद् अस्ति. पृथग् एतौ संयोगौ, एकं वाक्यं सप्तदश वैश्यस्य [७४१]{*६/३१८*} अनुब्रूयाद् इति. वाक्यान्तरम् अध्वरकल्पादिषु सप्तदशानुब्रूयाद् इति, स च गुण इज्याप्रधानो भवति, नेज्या गुणार्था. किम् अतः. यद्य् एवं यत्रेज्या, तत्र तद्गुणेन भवितव्यम्. न यत्र गुणः, तत्रेज्यया, वैश्यस्य गुणानुरोधेनेज्यापि. त्रयाणां वर्णानाम् इज्या. सा तत्र गुणम् आकाङ्क्षतीति{*६/३१९*}. अपि चेज्यागुणभूतस्यापरा चोदना{*६/३२०*}, न सा वैश्यसंयुक्ता. सा त्व् अवैश्यकं गुणं प्रत्याययति. प्रथमं सवैश्यकम् इति चेत्. न, वैश्यस्य प्रधानत्वात्. प्रधानभूतस् तत्र वैश्यः श्रूयते. तस्मात् सर्वाधिकारः.
SK
NOTES: *{६/३१८: E२: ५,३३८; E६: २,१९६}* *{६/३१९: E१,६,E२ (व्.ल्.); E२: आकर्षतीति}* *{६/३२०: E२ (व्.ल्.): अपि च या गुणस्यापरा चोदना}*
SK
इज्यायां तद्गुणत्वाद् विशेषेण नियम्येत // MS_६,६.३९ //
SK
अथ यद् उक्तम्, वैश्यस्तोमे यथा, तथेहापीति. युक्तं तत्र, इज्या वैश्यस्य श्रूयते. तत्र वाचनिकेनैव विशेषेण नियम्येत. तस्मात् तत्रादोष इति.
SK
[७४२]{*६/३२१*}
SK
NOTES: *{६/३२१: E२: ५,३३९; E६: २,१९७}*
SK
स्वदाने सर्वम् अविशेषात् // MS_६,७.१ //
SK
इदम् आमनन्ति विश्वजिति, सर्वस्वं ददातीति. तत्र संदेहः, किं यावत् किंचित् स्वशब्देनोच्यते, यथा माता पितेत्येवमाद्य् अपि सर्वं{*६/३२२*} देयम्, उत यत्र प्रभुत्वयोगेन स्वशब्दस् तद् एव देयम् इति. किं प्राप्तम्. अविशेषात्, माता पितेत्येवमाद्य् अपि दातव्यम्. ननु दानम् इत्य् उच्यते स्वत्वनिवृत्तिः, परस्वत्वापादनं च. तत्र पित्रादीनाम् अशक्यं स्वत्वं निवर्तयितुम्. न हि कथंचित् पिता न पिता भवति. उच्यते, सत्यं नासौ न पिता भवति. शक्यते तु परविधेयः कर्तुम्, परस्वत्वापादनं च दानम्. अर्थाच्{*६/३२३*} च स्वत्वत्यागः. तस्मात् सर्वं देयम् इति.
SK
NOTES: *{६/३२२: E१,६,E२ (व्.ल्.); E२: अपि तत् सर्वं}* *{६/३२३: E१,६,E२ (व्.ल्.); E२: दानं ददातेर् अर्थः. अर्थाच्}*
SK
यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् // MS_६,७.२ //
SK
वाशब्देन पक्षो विपरिवर्तते. यस्य प्रभुत्वयोगेन स्वत्वम्, तद् एव देयं नेतरत्. कस्मात्. प्रभुत्वयोगिनः शक्यत्वात्, इतरस्य चाशक्यत्वात्. न हि पित्रादीनां शक्यते स्वत्वं परित्यक्तुम्. ननु चोक्तं परविधेयीकरणं तस्य शक्यम् इति. उच्यते, प्रभुत्वयोगिनः स्वस्यात्र दीयमानस्य सर्वत्वम् उच्यते. नाप्रभुत्वयोगिनः स्वस्य दानम्, न चैतन् न्याय्यम्, यत् पित्रादीनां परिचारकत्वम्. यस्य चैतन् न्याय्यम् अपि भवेत्, स दद्याद् अपि. [७४३]{*६/३२४*} अत्राह, ननु यत्र स्वशब्दो वर्तते, तद् देयम् इत्य् उक्ते पित्रादयो दातव्या गम्यन्ते. तस्मात् तान् प्रति प्रभुत्वाय स्मृतिं बाधित्वापि यतितव्यम् इति. अत्रोच्यते, स्वशब्दो ऽयम् आत्मीयधनज्ञातीनां प्रत्येकं वाचको न समुदायस्य. तत्रात्मीये सर्वतायां कृतायां कृते शास्त्रार्थे, नाशक्येषु ज्ञातिषु{*६/३२५*} सर्वता कल्पनीया, नापि स्मृतिर् बाधितव्या. अपि च गवादीनाम् आत्मीयानां चोदकेन प्राप्तौ सत्याम् अवश्यम् आत्मीयगता सर्वतोपदेया. तस्यां चोपात्तायां कृतः शास्तार्थ इति ज्ञातीनाम् उपादाने न किंचित् कारणम् अस्ति, तस्मान् न पित्रादयो{*६/३२६*} देयाः. तस्माद् यत्रैव प्रभुत्वयोगेन स्वत्वम्, तद् एव देयम् इति.
SK
NOTES: *{६/३२४: E२: ५,३४०; E६: २,१९८}* *{६/३२५: E२ (व्.ल्.): नाशक्यज्ञातिषु}* *{६/३२६: E२ (व्.ल्.): मातापित्रादयो}*
SK
न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् // MS_६,७.३ //
SK
अत्रैव सर्वदाने संशयः, किं भूमिर् देया, नेति. का पुनर् भूमिर् अत्राभिप्रेता. यद् एतन् मृदारब्धं द्रव्यानत्रं पृथिवीगोलकम्, न{*६/३२७*} क्षेत्रमात्रं मृत्तिका वा. तत्र किं प्राप्तम्. अविशेषाद् देया. प्रभुत्वसंबन्धेन हि तत्र स्वशब्दो वर्तते, शक्यते च मानसेन व्यापारेण स्वस्य स्वता{*६/३२८*} निवर्तयितुम् इति. एवं प्राप्ते ब्रूमः, न भूमिर् देयेति. कुतः. क्षेत्राणाम् ईशितारो मनुष्या दृश्यन्ते, न कृत्स्नस्य पृथिवीगोलकस्येति. आह, य इदानीं सार्वभौमः, स तर्हि दास्यति. सो ऽपि नेति ब्रूमः. कुतः. यावता भोगेन{*६/३२९*} सार्वभौमो भूमेर् ईष्टे, तावतान्यो ऽपि. न तत्र कश्चिद् विशेषः, सार्वभौमत्वे ऽस्य{*६/३३०*} त्व् एतद् अधिकम्, यद् असौ पृथिव्यां संभूतानां व्रीह्यादीनां रक्षणेन [७४४]{*६/३३१*} निर्विष्टस्य कस्यचिद् भागस्येष्टे, न भूमेः. तन्निर्विष्टाश् च ये मनुष्याः, तैर् अन्यत् सर्वप्राणिनां धारणविक्रमणादि{*६/३३२*} यद् भूमिकृतम्, तत्रेशित्वं प्रति न कश्चिद् विशेषः. तस्मान् न भूमिर् देया.
SK
NOTES: *{६/३२७: E१,६,E२ (व्.ल्.); E२: पृथिवीगोलकं नाम, न}* *{६/३२८: E१,६,E२ (व्.ल्.); E२: स्वस्वतं}* *{६/३२९: E१,६,E२ (व्.ल्.); E२: भूमिभोगेन}* *{६/३३०: E१,६; E२: सार्वभौमम् अस्य}* *{६/३३१: E२: ५,३४१; E६: २,१९९}* *{६/३३२: E१,६,E२ (व्.ल्.); E२: धारणं चक्रमणादि}*
SK
अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् // MS_६,७.४ //
SK
विश्वजित्य् एव संदेहः. किम् अश्वादयो देयाः, नेति. किं प्राप्तम्. सर्वस्य विहितत्वात्, देया अश्वा इति. एवं प्राप्ते ब्रूमः, यस्य च दानम् अकार्यम्, तच् च न देयम्, यथाश्वानाम्. तेषां हि दानम् अकार्यम्. एष हि विशेषो ऽश्वानाम्, अन्येभ्यो द्रव्येभ्यः, यद् एषां दानं प्रतिषिध्यते, न केसरिणो ददाति नोभयतोदतः प्रतिगृह्णातीति विश्वजित्य् एव समाम्नायते. तस्मान् नाश्वा देया इति.
SK
नित्यत्वाच् चानित्यैर् नास्ति संबन्धः // MS_६,७.५ //
SK
विश्वजित्य् एव संदेहः सर्वस्वं ददातीति, किम् अर्जयित्वोपकरणानि यावन्ति मनुष्यस्य, यावन्ति च शक्नोत्य् उपार्जयितुम्, सर्वाणि तानि दद्यात् कृतभाण्डादीनि{*६/३३३*}, उत यान्य् एवास्य विद्यन्ते, तानि सर्वाणि देयानि, नाविद्यमानानि कर्तव्यानीति. कुतः संशयः. उभयथा वचनव्यक्तेः संभवात्, [७४५]{*६/३३४*} यदि वैवं वचनं व्यज्यते, यानि सर्वाणि स्वानि, कानि तानि, यानि पुरुषस्योपकारकाणि शयनादीनि, तानि सर्वाणि दद्याद् इति विधीयते. यद् वा यानि स्वानि पुरुषस्य दाने शक्यानि, तानि सर्वाणीति सर्वत्वं विधीयते. यदि दानं विधीयते, ततो ऽप्राप्तदानानां कृतभाण्डकानाम् अपि दानम्. अथ सर्वता{*६/३३५*} विधीयते, ततो विद्यमानानाम् एव. किं तावत् प्राप्तम्. कृतभाण्डकानि देयानीति, तथा दानविधाने श्रुतिर् अनुगृह्यते, इतरथा वाक्यम्. तयोश् च श्रुतिर् बलीयसी. तस्मात् कृतभाण्डकानि देयानीति. एवं प्राप्ते ब्रूमः, नित्यत्वाच् चानित्यैर् नास्ति संबन्धः, चशब्दो ऽन्वादेशे. नाश्वा दातव्या इत्य् उक्तम्, कृतभाण्डकानि च न देयानीति. नित्यं हि विश्वजिति दानं चोदकेन प्राप्तम् अनूद्यते. अनित्यानि च कृतभाण्डकानि{*६/३३६*}, न शक्यानि सर्वाणि विश्वजिति क्रियमाण उपसंहर्तुम्. तत्र कृतभाण्डकानां स्यात्, न{*६/३३७*} नित्यम्, नित्यवच् च तच् चोदकेन विधीयते, न निमित्तसंयोगेन. तस्माद् अवश्यम् एतद् अभ्युपगन्तव्यम्, साकल्प्यं देयानां प्राप्तानां विधीयत इति, श्रुत्यसंभवे च वाक्यार्थो गृहीतव्य एव भवति, तस्मान् न कृतभाण्डकानि दातव्यानि.
SK
NOTES: *{६/३३३: E१,६,E२ (व्.ल्.); E२: कृतभाण्डकानि}* *{६/३३४: E२: ५,३४१; E६: २,१९९}* *{६/३३५: E१,६; E२: सर्वतो}* *{६/३३६: E१,६,E२ (व्.ल्.); E२: कृतभाण्डकानीति}* *{६/३३७: E१,६; E२: विश्वजिति दानं प्रतीक्षेत. नैमित्तिकं तस्मान् न}*
SK
शूद्रश् च धर्मशास्त्रत्वात् // MS_६,७.६ //
SK
विश्वजित्य् एव संदिह्यते, किं परिचारकः शूद्रो देयः, नेति. किं प्राप्तम्. सर्वस्य स्वस्य{*६/३३८*} विहितत्वाद् देय इति. [७४६]{*६/३३९*} एवं प्राप्ते ब्रूमः, शूद्रश् च न देय इत्य् अन्वादेशः. कुतः. धर्मशास्त्रत्वात्, धर्मशासनोपनतत्वात्{*६/३४०*} तस्य. एवम् असौ तस्मै त्रैवर्णिकायोपनत इदं शुश्रूषमाणो धर्मेण संभन्त्स्यत इति. सो ऽन्यस्मै दीयमाणो नेच्छेद् अपि. न चानिच्छतस् तस्य स प्रभवति, न च बलात् स्वीकर्तव्यः. यस् त्व् अन्यायेन स्वीकुर्यात्, स दद्याद् अपि. धर्मोपनतमात्रेण तु न शक्यो दातुम्.
SK
NOTES: *{६/३३८: E२ (व्.ल्.): सर्वस्वस्य}* *{६/३३९: E२: ५,३४२; E६: २,१९९}* *{६/३४०: E२ (व्.ल्.): धर्मशासेनोपनतत्वात्}*
SK
दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद् दानसंयोगात् // MS_६,७.७ //
SK
विश्वजित्य् एव संदेहः. किं प्राग् दक्षिणाकालात्, विद्यमानं नियोगतो दक्षिणाकाले निधातव्यम्{*६/३४१*}, ऊर्ध्वं च दक्षिणाकालाद् भविष्यद् अनागतम् अपि दक्षिणाकाले देयम्, उत यद् एव दक्षिणाकाले विद्यते, तद् एव देयम् इति. किं प्राप्तम्. यस्यापि प्राग् ऊर्ध्वं च स्वता, तद् अपि देयम्, स्वमात्रस्य दानविधानत्. एवं प्राप्ते ब्रूमः, दक्षिणाकाले यत् स्वं विद्यते, तद् एव देयम्, न यत् प्राग् ऊर्ध्वम् च. कुतः. स्वस्यात्र दानम् अनूद्य साकल्यं विधीयते. तच् च दानं दक्षिणाकाले प्राप्तत्वात् तस्मिन्न् एव काले ऽनूद्यते. तस्माद् दक्षिणाकाल एव विद्यमानं देयम् इति.
SK
[७४७]{*६/३४२*}
SK
NOTES: *{६/३४१: E१,६; E२: दक्षिणाकाले दातुं विधातव्यम्}* *{६/३४२: E२: ५,३४३; E६: २,२००}*
SK
अशेषत्वात् तदन्तः{*६/३४३*} स्यात् कर्मणो द्रव्यसिद्धित्वात्{*६/३४४*} // MS_६,७.८ //
SK
तस्मिन्न् एव विश्वजिति संदेहः. किं दक्षिणाकाल एव विश्वजिद्{*६/३४५*} उत्स्रष्टव्यः, उत न सर्वं{*६/३४६*} दातव्यम्, परिसमापनीय इति. किं प्राप्तम्. उत्स्रष्टव्य इति. कुतः. अशेषत्वात्. कथम् अशेषता. विश्वजिति सर्वस्वं ददातीति, न च शक्यम् अन्तरेण द्रव्यम्, परिसमापयितुम्. तस्मात् तदन्तः स्यात्.
SK
NOTES: *{६/३४३: E१,६; E२: अशेषत्वाद् अन्तः}* *{६/३४४: E२ (व्.ल्.): द्रव्यसिद्धत्वात्}* *{६/३४५: E१,६; E२: एव सर्वस्वं दत्त्वा विश्वजिद्}* *{६/३४६: E१,६,E२ (व्.ल्.); E२: सर्वस्यं}*
SK
अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् // MS_६,७.९ //
SK
अपि वेति पक्षव्यावृत्तिः. शेषकर्म स्यात्, न सर्वस्वं दक्षिणाकाले देयम्, यावता तत्कर्म परिसमाप्यते, तावच् छेषयितव्यम्. कुतः. क्रतोः प्रत्यक्षशिष्टत्वात्. क्रतोः परिसमाप्तिः प्रत्यक्षशिष्टा, विश्वजिता यजेतेति विश्वजितम् उपक्रम्य, परिसमापयेद् इत्य् अर्थः. परिसमापयता यच् छक्यते दातुम्, तावत् सर्वम् इत्य् अर्थः. तस्मान् न तदन्तम् उत्स्रष्टव्यम् इति.
SK
तथा चान्यार्थदर्शनम् // MS_६,७.१० //
SK
एवं च कृत्वान्यार्थदर्शनम् उपपद्यते, अवभृथाद् उदेत्य वत्सत्वचमाच् छादयतीति शेषे सत्य् अवकल्पते.
SK
अशेषं तु समञ्जसादानेन शेषकर्म स्यात् // MS_६,७.११ //
SK
तुशब्दः पक्षं व्यावर्तयति. एतत् समञ्जसाभूतम्, यद् अशेषं [७४८]{*६/३४७*} प्रतीयत इति, एवं सर्वस्वं ददातीइत् शब्द उपपन्नो भवतीति. यत् तु प्रत्यक्षा समाप्तिर् इति. तत्र ब्रूमः, आदानेन शेषकर्म भविष्यतीति. उच्यते,
SK
NOTES: *{६/३४७: E२: ५,३४४; E६: २,२०१}*
SK
नादानस्य नित्यत्वात् // MS_६,७.१२ //
SK
आदानं त्व् अनुइत्यम्, नित्यं च शेषकर्म. न हि तयोः संबन्धो ऽवकल्पते. तस्माच् छेषयितव्यं किंचिद् इति.
SK
दीक्षासु तु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् // MS_६,७.१३ //
SK
तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, किंचिच् छेषयितव्यम् इति. दीक्षासु तु विनिर्देशो भवति, प्रकृताव् एव ज्योतिष्टोमे. स इह चोदकेन प्राप्तः, इदं क्रत्वर्थम्{*६/३४८*}, इदं भक्ष्यार्थम्, इदम् आनमनायेति. तद् इह यद् आनमनाय दातव्यम्, तस्यायं विकारः सर्वता नाम. कुत एतत्. यतः स्वं ददातीत्य् अनूद्यते, सर्वतैव{*६/३४९*} विधीयते. तेन नादातव्यस्य दानं विधीयते, न च भक्ष्यार्थं{*६/३५०*} क्रत्वर्थं च दातव्यम्. तस्माद् अविरोधो भविष्यतीति.
SK
NOTES: *{६/३४८: E२ (व्.ल्.): इदं मे क्रत्वर्थम्}* *{६/३४९: E२ (व्.ल्.): सर्वता}* *{६/३५०: E१,६; E२: भक्षार्थं; E२ (व्.ल्.): मुक्त्यर्थं}*
SK
अहर्गणे च तद्धर्मा स्यत् सर्वेषाम् अविशेषात् // MS_६,७.१४ //
SK
अस्त्य् अहर्गणो ऽष्टरात्रः, अथैतस्याष्टरात्रस्य विश्वजिद् अभिजिताव् एकाहाव् अभितः, उभयतो ज्योतिर् मध्ये षडहः, पशुकामो ह्य् एतेन यजेतेति. तत्र संदेहः. किम् अहर्गणस्थस्यापि सर्वस्वम् एव दक्षिणा{*६/३५१*} स्यात्, आहो{*६/३५२*} द्वादशं शतम् इति. किं प्राप्तम्. सर्वस्वम्. कुतः. सर्वेषां विश्वजिताम् अविशेषात्. य एव प्रकृतौ विश्वजितो धर्मः, स एव चास्य चोदकेन भविष्यति. तस्मात् सर्वस्वं देयम् इति.
SK
NOTES: *{६/३५१: E१,६; E२: दक्षिणाः}* *{६/३५२: E१,६; E२: आहोस्वित्}*
SK
द्वादशशतं वा प्रकृतिवत् // MS_६,७.१५ //
SK
द्वादशशातं वा देयम् इति. प्रकृतिवत् कर्तव्यम्. ज्योतिष्टोमश् च प्रकृतिः. तत्र धर्मा विहिताः, न विश्वजिति कृत्स्नाः प्रतीयन्ते. तस्माद् द्वादशशतम् अत्र देयम् इति.
SK
अतद्गुणत्वात् तु नैवं स्यात् // MS_६,७.१६ //
SK
तुशब्दः पक्षं व्यावर्तयति. नैवं भवितुम् अर्हति. कुतः. नैव{*६/३५३*} यतो विश्वजितो गुणो द्वादशशतम्. नामधेयेन ह्य् अत्र धर्मग्रहणम्. तस्माद् विश्वजितो भविष्यति{*६/३५४*}, न ज्योतिष्टोमाद् इति.
SK
NOTES: *{६/३५३: E१,६; E२: नैष}* *{६/३५४: E१,६,E२ (व्.ल्.); E२: ग्रहीष्यति}*
SK
लिङ्गदर्शनाच् च // MS_६,७.१७ //
SK
लिङ्गं खल्व् अपि दर्शयति. किं लिङ्गं भवतीति. एवम् आह, हीयते वा एष पशुभिर् यो विश्वजिति सर्वं{*६/३५५*} न ददातीति नियतं सर्वस्वदानं दर्शयत्य् अहर्गणे.
SK
[७५०]{*६/३५६*} NOTES: *{६/३५५: E१,६,E२ (व्.ल्.); E२: सर्वस्वं}* *{६/३५६: E२: ५,३४६; E६: २,२०२}*
SK
विकारः सन्न् उभयतो ऽविशेषात् // MS_६,७.१८ //
SK
विश्वजिति सर्वस्वं ददातीति. तत्रैषो ऽर्थः सांशयिकः, किं यस्य द्वादशशतम् अधिकम्, ऊनं वा विद्यते, तस्यापि विश्वजिताधिकारः{*६/३५७*}, उत यस्य सकलम् अधिकं वा तस्यैवेति. किं प्राप्तम्. विकारः सन्न् उभयतो ऽविशेषात्. न विशेषः कश्चिद् आश्रीयते. यस्य द्वादशशतम् अधिकम्, ऊनं वास्तीति. तस्मात् सर्वस्य विश्वजिताधिकार{*६/३५८*} इति.
SK
NOTES: *{६/३५७: E१,६,E२ (व्.ल्.); E२: विश्वजित्य् अधिकारः}* *{६/३५८: E१,६,E२ (व्.ल्.); E२: विश्वजित्य् अधिकार}*
SK
अधिकं वा प्रतिप्रसवात् // MS_६,७.१९ //
SK
न चैतद् अस्ति, सर्वस्य विश्वजिताधिकार{*६/३५९*} इति. कस्य तर्हि. यस्य द्वादशशतम् अस्ति, अधिकं वेति. कुतः. प्रतिप्रसवात्. प्रतिप्रसवो हि ज्योतिष्टोमे सर्वस्वस्योच्यते. द्वादशशतं विधायाह, एतावता वाव ऋत्विज आनेया अपि वा सर्वस्वेनेति. यदि एतावता नेच्छेयुः, सर्वस्वेनाप्य् आनमयितव्या इति. तद् यदि द्वादशेन शतेन नेच्छन्ति{*६/३६०*}, नेच्छन्तितरां ततो न्यूनेन. तस्माद् द्वादशशतं ज्योतिष्टोमे. यद् वा सर्वस्वम्, तद् इहोभयम् अपि प्राप्तम्. तत्रैकः पक्षो नियम्यते, सर्वस्वं देयम् इति. स एष न विधिः, प्राप्तत्वात्. अनियतप्राप्तस् तु नियम्यते. स चेन् नियम्यते, यादृशस् तत्र, तादृश एवेह. तत्र च द्वादशशतम् अधिकं वा सर्वस्वम्. इहापि तद्वद् एव. तस्मान् न न्यूनधनस्याधिकार इति.
SK
NOTES: *{६/३५९: E१,६,E२ (व्.ल्.); E२: विश्वजित्य् अधिकार}* *{६/३६०: E२ ओम्. नेच्छन्ति}*
SK
अनुग्रहाच् च पादवत् // MS_६,७.२० //
SK
चशब्देनान्वाचयः. इतश् चाधिकं सर्वस्वम्, अधिके हि [७५१]{*६/३६१*} दीयमाने तदन्तर्गतत्वाद् द्वादशशतम् अपि दत्तं भवति, पादवत्, यथा, कार्षापणे दीयमाने पादो ऽपि दत्तो भवति, एवम् इहापीति.
SK
NOTES: *{६/३६१: E२: ५,३४६; E६: २,२०३}*
SK
अपरिमिते शिष्टस्य संख्याप्रतिषेधस् तच् छ्रुतित्वात् // MS_६,७.२१ //
SK
आधाने श्रूयते, एका देया, षड् देयाः, द्वादश देयाः, चतुर्विंशतिर् देयाः, शतं देयम्, सहस्रं देयम्, अपरिमितं देयम् इति. तत्र संदेहः. किं यत् परिमितम् एका देयेत्येवमादि, तन् न दातव्यम् इति प्रतिषेधो विधीयते, उतापरिमितं नाम किंचित्, तस्य दानं विधीयत इति. किं प्राप्तम्. अपरिमिते श्रूयमाने ब्रूमः, शिष्टस्यैकादेः संख्येयस्य या संख्या, सा प्रतिषिध्यते. कुतः. तच्छ्रुतित्वात्, परिमितशब्दश्रवणाद् गणितम् अवगम्यते. तच् चैकादिकम्, तस्य नशब्देन प्रतिषेधः क्रियते. तत्र श्रुतो ऽर्थः कृतो भवति, इतरथापरिमितशब्दे प्रसिद्धिस् त्यज्येत. लक्षणया बहुत्वम् अस्यार्थः कल्प्येत. तस्मात् अप्रिमितस्य प्रतिषेध इति.
SK
कल्पान्तरं वा तुल्यवत् प्रसंख्यानात् // MS_६,७.२२ //
SK
कल्पान्तरं वा स्यात्. अपरो दानकल्पो विधीयते, यथैका देयेति दानविधिकल्पः. एवम् एषो ऽपि दानविधिकल्प एव स्यात्. तेन{*६/३६२*} हि पूर्वेण, तुल्यम् एवेदं प्रसंख्यायते. कास्य पूर्वेण तुल्यता. प्रतिज्ञातस्यार्थस्यावगमिका [७५२]{*६/३६३*} श्रुतिर् अस्तीति. पूर्वत्र हि देयशब्दश्रुत्या दानं विधीयत इति, इहापि देयशदश्रुतिः. सा श्रूयमाणा{*६/३६४*} शक्नोति दानं विधातुम्. प्रतिषेधे हि विधीयमाने वाक्यस्य{*६/३६५*} व्यापारः. तच् च दुर्बलं श्रुतिं प्रति{*६/३६६*}. तस्मात् कल्पान्तरम्. यच् चापरिमितशब्दे प्रसिद्धिर् बाध्यत इति, समुदायप्रसिद्धिर् अवयवप्रसिद्धेर् बाधिकैव समधिगता. ननु नात्र प्रसिद्धिः, लक्षणेयम्. यद् बहु, तन् न शक्यं परिमातुम्. तस्माद् अपरिमितत्वेन लक्ष्यते बहुत्वम् इति. तच् च न, अनेकस्मिन्न् अशक्यपरिमाणे सति बहुषु रूढः. अपरिमितम् अस्य धनम्, बह्व् इति गम्यते. यथा, कुशलः, प्रवीण इति. बहुषु कुशानां लातुर्गुणेषु सत्सु निपुणतायाम् एव कुशलशब्दो रोहाद् रूढिशब्द{*६/३६७*} एव भवति. बहुषु च वीणाव् आदस्य गुणेषु सत्सु निपुण एव प्रवीणशब्दो वर्तमानो रूढ इत्य् उच्यते. तस्मात् सत्य् अपि लक्षणात्वे श्रुतिसामर्थ्याद् रोहतिशब्दः. तस्मात् समुदायप्रसिद्ध्यापरिमितशब्दे ऽवयवप्रसिद्धिर् बाध्यते, अश्वकर्णशब्दवत्. अतः कल्पानतरम् इति.
SK
NOTES: *{६/३६२: E१,६; E२: स्यात्, तुल्यवत् प्रसंख्यानात्. तेन}* *{६/३६३: E२: ५,३४७; E६: २,२०३}* *{६/३६४: E२ (व्.ल्.): श्रवणेन}* *{६/३६५: E१,६,E२ (व्.ल्.); E२: वाक्यं}* *{६/३६६: E२ (व्.ल्.): श्रुतेः}* *{६/३६७: E१,६; E२: कुशलशब्दप्रयोगाद् रूढिशब्द}*
SK
अनियमो ऽविशेषात् // MS_६,७.२३ //
SK
अपरिमिते कल्पानतरम् इति समधिगतम्. अथेदानीं संदिह्यते{*६/३६८*}. किं सहस्राद् ऊनम् अपरिमितम्, उत सहस्राद् अधिकम् इति. किं तावत् प्राप्तम्. अनियमो ऽविशेषात्. न कश्चिद् इह बहुत्वे विशेष{*६/३६९*} आस्रीयते, सहस्राद् ऊनम् अधिकं वेति. अनाश्रीयमाणे यथाकृतं तथा साधु{*६/३७०*}. तस्माद् अनियमः.
SK
[७५३]{*६/३७१*}
SK
NOTES: *{६/३६८: E१,६; E२: अथेदानीम् इदं संदिह्यते}* *{६/३६९: E२ (व्.ल्.): कश्चिद् अत्र बहुत्वविशेष}* *{६/३७०: E२ (व्.ल्.): यथाकामं स्यात्, यथाकृतं साधु}* *{६/३७१: E२: ५,३४८; E६: २,२०४}*
SK
अधिकं वा स्याद् बह्वर्थत्वाद् इतरेषां{*६/३७२*} संनिधानात् // MS_६,७.२४ //
SK
वेति पक्षव्यावृत्तिः. नैतद् अस्ति, अधिकम् ऊनं वा सहस्राद् इति. किं तर्हि. अधिकम् एवेति. कुतः. बह्वर्थत्वाद् अपरिमितशब्दस्य, बहुषु हीमं शब्दम् उपचरन्तीत्य् एतद् उक्तम्. बहुत्वं चापेक्षिकम्, किंचिद् अपेक्ष्य ततो ऽधिकं बह्व् इत्य् उच्यते. असत्याम् अपेक्षायाम् अप्ररिपूर्णम् एतत्, यथा, पुत्र इति किंचिद् अपेक्ष्य भवति, नान्यथा. तत्र प्रकृतं संनिहितं चापेक्ष्य निर्णयः, सहस्रं च संनिहितम्. तस्मात् ततो ऽधिकम् अपरिमितम् इति.
SK
NOTES: *{६/३७२: E२ (व्.ल्.): इतरैर्}*
SK
अर्थवादश् च तद्वत् // MS_६,७.२५ //
SK
कथम् एवम्. तत्रोत्कृष्टं वै अपरिमितम् इति तदूनतां सहस्रस्य दर्शयति.
SK
परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् // MS_६,७.२६ //
SK
इह परकृतयः पुराकल्पाश् चोदाहरणम्. यथा, इति ह स्माह बकुर्वाष्णिर् माषान् मे पचत, न वा एतेषां हविर् गृह्णन्तीति. पुराकल्पः, उल्मुकैर् ह स्म पूर्वे समाजमुस्तान् ह असुरा रक्षांसि निर्जघ्नुर् इत्येवमादयः. तेषु संदेहः. किम् एते मनुष्यधर्मा विधयः, उत तद्गोत्राणाम्. अथवा [७५४]{*६/३७३*} अर्थवादा इति. किं तावत् प्राप्तम्. मनुष्यधमा विधय इति. कुतः. अर्थाय प्रयोजनायानुकीर्तनम् एतद् भवति. कर्तृमनुष्यसंबन्धकीर्तनेन क्रिया प्रशस्ता भवति. प्रशस्तं च प्रतिपाद्यम्. स एष विधिर् एव, अनेन प्रकारेण. अतः परैर् अपि मनुष्यैः कर्तव्य इति गम्यते.
SK
NOTES: *{६/३७३: E२: ५,३४९; E६: २,२०५}*
SK
तद् उक्ते च प्रतिषेधात् // MS_६,७.२७ //
SK
एवंजातीयकस्य विधेः प्रतिषेधो भवति, तद् उ{*६/३७४*} तथा न कुर्याद् इति, प्रसक्तस्य च प्रतिषेधो न्याय्यः. तस्माद् अपि विधय इति.
SK
NOTES: *{६/३७४: E२ ओम्. उ}*
SK
निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् // MS_६,७.२८ //
SK
मनुष्यधर्मो ऽयं विधिर् एवंजातीयक इति गृह्यते. तत्र तु विशिष्टगोत्राणां निर्देशात् तेषाम् एव धर्म इति गम्यते. स्तुत्या ह्य् अयं कर्तव्य इति ज्ञायते, स च विशिष्टगोत्राणां श्रूयते, तस्मात् तद्गोत्राणाम् एव कर्तव्यः, पञ्चावत्तवत्, यथा, पञ्चावत्तं जमदग्नीनाम्{*६/३७५*} इति तद्गोत्राणाम् एव भवति, एवम् इहापीति.
SK
NOTES: *{६/३७५: E१,६,E२ (व्.ल्.); E२: जामदग्नीनाम्}*
SK
विधौ तु वेदसंयोगाद् उपदेशः स्यात् // MS_६,७.२९ //
SK
तुशब्दाद् एषो ऽपि पक्षो व्यावर्तते{*६/३७६*}. विधाव् एतेषाम् उपदेशः स्यात्. विधौ वेदेन स्तुतिनिर्देशः कृतः, न विध्याश्रये पुरुषे. पुरुषग्रहणं विधिप्रशंसार्थम्. विधिर् इति क्रियामाह. एतस्याः [७५५]{*६/३७७*} क्रियाया भावो यस्माद् अनेन पुरुषेण क्रियते, तस्मात् साधुर् इति. न त्व् अत्र पुरुषः क्रियासंबन्धेन निर्दिश्यते, किं तु स्तोतव्यत्वेन. कुत एतत्. स्तुतिपदस्यान्यस्याभावात्. अपि च क्रियानिर्देशे श्रुत्या विधानम्, क्रियापुरुषसंबन्धनिर्देशे वाक्येन, अतश् च{*६/३७८*} दुर्बलम्. तस्मात् पुरुषमात्रस्य विधानं प्राप्नोति, न तद्गोत्राणाम् इति.
SK
NOTES: *{६/३७६: E१,६,E२ (व्.ल्.); E२: व्यावर्त्यते}* *{६/३७७: E२: ५,३५०; E६: २,२०५}* *{६/३७८: E१,६,E२ (व्.ल्.); E२: तच् च}*
SK
अर्थवादो वा विधिशेषत्वात् तस्मान्{*६/३७९*} नित्यानुवादः स्यात् // MS_६,७.३० //
SK
एषो ऽपि पक्षो वाशब्दाद् विनिवृत्तः{*६/३८०*}. नायं तद्गोत्राणां विधिः. न मनुष्यमात्रस्य वा विधिः, विधिर् एव वेति, अयम् अर्थवादस्{*६/३८१*} तु. कुतः. विधिशेषत्वात्, अन्यं त्व् अत्र विधिम् आमनन्ति, परकृत्युदाहरणे तावत्, तस्माद् आरण्यम् एवाश्नीयाद् इति, पुराकल्पोदाहरणे, गृहपतेर् एवाग्रिषु निर्मथ्य निर्वपेरन्न् इति. न च द्वयोर् विध्योर् एकवाक्यभावो ऽस्ति. विधिना हि संबध्यमानयोः परकृतिपुराकल्पवचनयोर् अन्या वचनव्यक्तिः. अन्या तु स्तुत्यर्थप्रवृत्तयोः. न चोभयं यौगपद्येन संभवति. तस्माद् अर्थवाद इति.
SK
NOTES: *{६/३७९: E१ (व्.ल्.): तस्मिन्}* *{६/३८०: E२ (व्.ल्.): निर्वर्तते}* *{६/३८१: E१,६,E२ (व्.ल्.); E२: वेति. अर्थवादस्}*
SK
सहस्रसंवत्सरं तदायुषाम् असंभावान् मनुष्येषु // MS_६,७.३१ //
SK
अस्ति सहस्रसंवत्सरम्, पञ्चपञ्चाशतस्{*६/३८२*} त्रिवृतः संवत्सराः, पञ्चपञ्चाशतः पञ्चदशाः, पञ्चपञ्चाशतः सप्तदशाः, पञ्चपञ्चाशत एकविंशा विश्वसृजामयनं सहस्रसंवत्सरम् इति. तत्र [७५६]{*६/३८३*} संदेहः. किं ये सहस्रायुषस् तेषाम् अनेन अधिकारः, उत मनुष्याणाम् इति. यदापि मनुष्याणाम्, तदापि बहवो विकल्पा वक्ष्यमानाः{*६/३८४*}, अथवा दिवसेषु संवत्सरशब्द इति. किं प्राप्तम्. सहस्रायुषां भवितुम् अर्हति. कुतः. असंभवान् मनुष्येषु, न मनुष्याणाम् एतावद् आयुर् विद्यते, गन्धर्वादयस् त्व् एतावद् आयुष इति भवति स्मृतिः. उपचारो ऽन्यार्थदर्शनं च. प्रजापतिं वै प्रजाः सृजमानं पाप्मा मृत्युर् अभिजघान, स तपो ऽतप्यत सहस्रसंवत्सरान् पाप्मानं विजिहासन्न् इति. विस्पष्टं चेदं सहस्रसंवत्सरम्. तस्मान् न मनुष्याणाम् इति.
SK
NOTES: *{६/३८२: E१,६; E२: सहस्रसंवत्सरम् सत्रं विश्वसृजामयनम्, पञ्चपञ्चाशतस्}* *{६/३८३: E२: ५,३५०; E६: २,२०६}* *{६/३८४: E१ हत् यदापि मनुष्याणाम्, तदापि बहवो विकल्पा वक्ष्यमानाः इन् Kलम्मेर्न्}*
SK
अपि वा तदधिकारान् मनुष्यधर्मः स्यात् // MS_६,७.३२ //
SK
अपि वेति पक्षव्यावृत्तिः. न गन्धर्वादीनाम्, मनुष्याणाम् एवाधिकार इति. कुतः. तदधिकारात्, मनुष्याधिकारं शास्त्रं समधिगतम् इति. ते हि शक्नुवन्ति कार्त्स्न्येन यथोदितं विधिम् उपसंहर्तुम् इति. आह, ननु नैतावद् आयुषो मनुष्याः. उच्यते, रसायनैर् आयुर् दीर्घं प्राप्स्यन्तीति.
SK
नासामर्थ्यात् // MS_६,७.३३ //
SK
न रसायनानाम् एतत्{*६/३८५*} सामर्थ्यं दृष्टम्, येन सहस्रसंवत्सरं जीवेयुः. एतानि ह्य् अग्नेर् वर्धकानि, बलीपलितस्य नाशकानि{*६/३८६*}, स्वरवर्णप्रसादकानि, मेघाजननानि. नैतावद् आयुषो दातॄणि दृश्यन्ते. ननु स्वरवर्णप्रसादादिदर्शनाद् एव ज्योग्जीवनम्{*६/३८७*} अप्य् अनुमास्यते. नेति ब्रूमः. कुतः. शतायुर् वै पुरुष [७५७]{*६/३८८*} इत्य् अनुवादः. स{*६/३८९*} एवं ज्योग्जीवे{*६/३९०*} नावकल्पते. अत्रोच्यते, शतान्य् आयुर् अस्येति विग्रहीष्यामः. नैवं संख्याशब्दानां समास इष्यते. न च गमकानि भवन्ति, द्विवचनबहुवचनान्तानाम् असमास इति चाभियुक्तवचनात्.
SK
NOTES: *{६/३८५: E१,६,E२ (व्.ल्.); E२: एतावत्}* *{६/३८६: E२ (व्.ल्.): बलीपलितनाशकानि}* *{६/३८७: E१: ज्योग्जीवनं चिरकालं जीवनम् (Gलोस्से एइनेर् HS)}* *{६/३८८: E२: ५,३५१; E६: २,२०७}* *{६/३८९: E२ ओम्. स}* *{६/३९०: E१,६; E२: ज्योग्जीवेन}*
SK
संबन्धादर्शनात् // MS_६,७.३४ //
SK
न ह्य् एतावद् आयुषा रसायनानां संबन्धो दृष्टपूर्वः, न च संबन्धादर्शने ऽनुमानम् अस्ति. ननु सामान्यतोदृष्टं भविष्यति. दृश्यन्ते तावद् अल्पस्य स्थिरभावस्य कारकाणि. एवम् अभ्यस्यमानानि वीर्यवत्तमानि स्थिरशरीरताम् उत्पादयिष्यन्ति. शतायुः पुरुष इति सत्य् अपि वचने, अधिकं जीवनं दृश्यत एवेति. अत्रोच्यते, नायम् एकान्तः, कदाचिद्याम् च यावन्तीं च शरीरस्थिरताम् उत्पादयेयुः, न प्राग् अप्य् अदृष्टकालाम्, यथा प्रक्रामन्तो ऽभ्यासात् प्रक्रमाणां वृद्धेर् यां च यावन्तीं च मात्रां प्राप्नुवन्ति, न त्व् अभ्यस्यन्तः पुरुषायुषेणापि योजनमात्रं प्रक्रमेयुः. एवम् इहापि संबन्धाभावात् सहस्रायुष्ट्वं प्राप्नुयुर् न वेति संदिग्धम्. संदिग्धं चेत्, सामान्यतोदृष्टं न प्रमाणम्, न चादृष्टो ऽर्थः प्रमाणम् अन्त्रेण शक्यो ऽभ्युपगन्तुम्. तस्माद् असंशयं नैतावद् आयुषः सन्तीति पुरुषवचनेनोक्तम्. कथं तर्हीति.
SK
स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् // MS_६,७.३५ //
SK
स मनुष्याधिकारपक्षे कुलकल्पो भविष्यतीत्य् एवं कार्ष्णाजिनिर् आचार्यो मन्यते स्म. कुतः. एकस्मिन्न् असंभवात्, पुरुषाणाम् इदम् अनुशासनम्, न चैतद् एकः शक्नोति पारयितुम्. यथा शक्यते, तथा पारयितव्यम् इति गम्यमाने, बहवः शक्नुवन्तः प्रवर्तेरन्. अन्ये ऽपि तत्कुलीना अन्येनारब्धं समापयेयुर् इति.
SK
अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् // MS_६,७.३६ //
SK
शास्त्रफलं हि प्रयोक्तरि{*६/३९१*} समधिगतं{*६/३९२*}, यश् च कार्त्स्न्येन विधिं उपसंहर्तुं समर्थः. स एवाधिक्रियत इति. तस्मान् न कुलकल्पो ऽवकल्प्यते. कथं तर्हि. संप्रदायमात्रेण धर्म इत्य् अध्यवसीयते. एवं श्रूयते, स्वाध्यायो ऽध्येतव्य इति. एवं तर्ह्य् एतद् अध्यवसेयम्, वचनप्रामाण्याद् एतत् कर्म कुर्वताम् आयुर् वर्द्धत इति. तच् च न, प्रमाणाभावात्. न ह्य् एतस्मिन्न् अर्थे वाक्यम् अन्यद् वा प्रमाणम् अस्ति. नन्व् अर्थापत्तिः, अन्यथानर्थक्यं भविष्यतीति. उच्यते, नानर्थक्यम्, अध्ययनाद् एव ह्य् अदृष्टं भविष्यति. तथा हि सामान्येनादृष्टं कल्पयितुम् लघीयः, न तु कर्मणायुर् वर्धत इति विशेषादृष्टकल्पना. अथवानर्थक्यम् एवाभ्युपगम्येत, नायुक्ति फलं कल्प्यम्{*६/३९३*}. अथोच्येत, अर्धतृतीयानि शतानि दीक्षिष्यन्ते, चतुभिर् वर्षैः समाप्यन्त{*६/३९४*} इति. एवम् अपि नियतपरिमाणं हीयेत{*६/३९५*}, चतुर्विंशतिपरमाः सप्तदशावराः सत्रम् आसीरन्न् इति. वचनस्य त्व् आनर्थक्यपरिहाराय परिमाणं हापयिष्यत इति चेत्. तद् अयुक्तम्, अध्ययनात् फलम् अस्ति. तस्मान् नैषा कल्पनेति. कथं तर्हि. एवम्,
SK
[७५९]{*६/३९६*}
SK
NOTES: *{६/३९१: E२: प्रयोक्तरीति}* *{६/३९२: Vग्ल्. MS ३.७.१८ ff}* *{६/३९३: E१,६; E२: फलकल्पनम्}* *{६/३९४: E१,६; E२: समाप्यत}* *{६/३९५: E१; E२,६: हीयते}* *{६/३९६: E२: ५,३५४; E६: २,२०८}*
SK
विप्रतिषेधात् तु गुण्यन्यतरः{*६/३९७*} स्याद् इति लावुकायनः // MS_६,७.३७ //
SK
अन्यतरो ऽत्र गौणः शब्दः स्यात्. यदि वासंवत्सरे संवत्सरशब्दः, यदि वा पञ्चपञ्चाशत इति शब्दो गौण इति. कुत एतत्. विप्रतिषेधात्, विप्रतिषेधो हि भवति, उभयस्मिन् विहिते. कथम्. वाक्यं हि भिद्येत. यदि पञ्चपञ्चाशतस् त्रिवृतः, न संवत्सराः. अथ संवत्सरास् त्रिवृतः, न पञ्चपञ्चाशतः. तस्माद् विरोधाद् अन्यतरद् वचनं गौणम् इति लावुकायन आचार्यो मन्यते स्म. आचार्यग्रहणं पूजार्थम्, नात्मनः प्रतिषेधार्थम्{*६/३९८*}.
SK
NOTES: *{६/३९७: E१ (व्.ल्.): गुणाद् अन्यतरः}* *{६/३९८: E१,६; E२: नात्मीयमतप्रतिषेधार्थम्}*
SK
संवत्सरो विचालित्वात् // MS_६,७.३८ //
SK
एतद् उक्तम्, अन्यतरद् गौणम्{*६/३९९*} इति. तद् अवधारयित्वयम्. तद् उच्यते, संवत्सरवचनं गौणम् इति. कुतः. विचालित्वात्, विचाली हि संवत्सरशब्दः सावनो ऽपि गणितदिवसकः, शीतोष्णवर्षालक्षणो ऽपि, चान्द्रमसो ऽपि. स एवंलक्षणको ऽनुवादः शक्यते कल्पयितुम्. पञ्चपञ्चाशत इत्य् अयं तु व्यक्तपरिमाणस्यार्थस्य{*६/४००*} वाचकः, एकेनाप्य् ऊने न भवति.
SK
NOTES: *{६/३९९: E१,६; E२: अन्यतरद् वचनं गौणम्}* *{६/४००: E१ (व्.ल्.): उक्तपरिमाणस्यार्थस्य}*
SK
सा प्रकृतिः स्याद् अधिकारात् // MS_६,७.३९ //
SK
गवामयने मासाः प्रकृताः, मासेषु च संवत्सरशब्द उक्तः, यो वै मासः संवत्सर इति. तस्मात् पञ्चपञ्चाशतो मासा इति. नन्व् एतस्मिन् पक्षे सहस्रसंवत्सरशब्दो नावकल्पते. उच्यते, नामधेयम् एतत् सहस्रसंवत्सरशब्द [७६०]{*६/४०१*} इति, न गुणविधिः. नामधेयं च न विधीयते, अविधीयमानं च येन केनचिद् गुणेनावकल्प्यते{*६/४०२*}. नैषो ऽपि पक्षो युज्यते, अत्रापि हि स एव दोषः, न तावज् जीवनम् अस्ति, यावतैतद् अवकल्प्येत{*६/४०३*} दाराग्निकालसोमपूर्वत्वापेक्षयेति. तेनैतस्मिंश् च क्रियमाणे ऽपरिसमाप्त एवायुः{*६/४०४*} पर्युपयुक्तं स्यात्. तथा चाध्ययनाद् एवादृष्टं कल्प्येत. एवं तर्हि, द्वादशाहः प्रकृतिर् इति पञ्चपञ्चाशतो द्वादशाहा भविष्यन्तीति. तथा च दृश्यते द्वादश वै रात्रयः संवत्सरस्य प्रतिमा इति. तत्र स दोषो न भविष्यति. नैवम्, तत्र संवत्सरशब्दस्य साक्षात् प्रतिमाशब्देन संयोगात्{*६/४०५*}. अपि च, पञ्चपञ्चाशतस् त्रिवृत इत्य् उक्तम्, त्रिवृच् छब्दश् च द्वादशाहे दिवसे दृष्टः, न द्वादशरात्रे. तस्मान् नैवम्.
SK
NOTES: *{६/४०१: E२: ५,३५४; E२: २,२०८}* *{६/४०२: E१,६; E२: गुणेनावकल्पिष्यते}* *{६/४०३: E१,२ (व्.ल्.): अवरुध्येत}* *{६/४०४: E१,६; E२: एवास्यायुः}* *{६/४०५: E१ (व्.ल्.): न ह्य् अत्र संवत्सरशब्दः साक्षात्, प्रतिमाशब्देन संयोगात्; नैवम्, न ह्य् अत्र रात्रिशब्दः संवत्सरशब्दस्यापेक्ष्यः प्रतिमाशब्देन संयोगात्}*
SK
अहानि वाभिसंख्यत्वात् // MS_६,७.४० //
SK
वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, पञ्चपञ्चाशतो द्वादशरात्रा इति. अहान्य् एव त्रिवृच् छब्देनाख्यायन्ते. तस्माद् अहःसु संवत्सरशब्द इति. अथवा, वाशब्दः पक्षान्तरं{*६/४०६*} व्यावर्तयति, न पञ्चपञ्चाशातो मासाः. किं तर्हि दिवसाः. द्वादशाहे त्रिवृदहः प्रकृतम्. तत्र संवत्सरशब्दो दृश्यते. आदित्यो वा सर्व ऋतवः, स यदैवोदित्यथ{*६/४०७*} वसन्तः, यदा संगवो ऽथ ग्रीष्मः, यदा मध्यंदिनो ऽथ वर्षा, यदापराह्नो ऽथ शरत्, यदास्तमेत्य् अथ हेमन्तशिशिराव् इति, सर्वान् ऋतून् अहनि संपादयति. सर्वे चर्तवः संवत्सरः. तस्माद् आहः [७६१]{*६/४०८*} संवत्सरशब्देनोच्यते. अपि च पञ्चपञ्चाशतस् त्रिवृत इति त्रिवृतां पञ्चपञ्चाशत्त्वम्. न च द्वादशरात्रस् त्रिवृत्, एकं हि द्वादशाहे त्रिवृदहः, न तत्र त्रिवृत् संख्याया द्वादशरात्रेण मुख्यया वृत्त्या सामानाधिकरण्यम्. त्रिवृदहः संबन्धलक्षणया स्यात्. अभिसंख्यं त्रिवृदहः, तेन श्रुत्यैव सामानाधिकरण्यम्, श्रुतिश् च लक्षणाया ज्यायसी. तस्मात् पञ्चपञ्चाशद् अहानि संवत्सरः स्याद् इति.
SK
[७६२]{*६/४०९*}
SK
NOTES: *{६/४०६: E२ (व्.ल्.): पक्षं}* *{६/४०७: E१; E२,६: यदैवोदेत्यथ}* *{६/४०८: E२: ५,३५५; E६: २,२०९}* *{६/४०९: E२: ५,३५७; E६: २,२१०}*
SK
इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् अपूर्वो अप्य् आधानस्य सर्वशेषत्वात् // MS_६,८.१ //
SK
इह चतुर्होतृष्व् आम्नायते, प्रजाकामं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं गृहीत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयात्, तदुत्तरेणार्धम्{*६/४१०*} इति. तत्र संदेहः. किं पवमानेष्टिसंस्कृतेषु अग्निष्व् एवमादयः, उत असंस्कृतेष्व् अपि{*६/४११*}. तथा पक्षान्तराश्रयणम् अपि वक्ष्यमानं विचारयिष्यते. किं तावत् प्राप्तम्. संस्कृतेष्व् अग्निष्व् एवंजातीयको ऽक्रतुशेषो ऽपि होमः स्यात्. यद्य् अप्य् अपूर्वा दर्विहोमा न कुतश्चिद् धर्मान् आकाङ्क्षन्ति, तथाप्य् आहवनीयादयो होमादीन् आकाङ्क्षन्ति{*६/४१२*}, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीत्येवमादिभिः श्रुतिभिः. एवम् इष्टिपूर्वत्वात् सर्वहोमानाम्, संस्कृताग्निवृत्तित्वम्{*६/४१३*} एवंजातीयकानाम् इति.
SK
NOTES: *{६/४१०: E१ (व्.ल्.): उत्तरेणार्धम्}* *{६/४११: E१,६; E२: इति}* *{६/४१२: E१ (व्.ल्.): होमादीनाकाङ्क्ष्यन्ते}* *{६/४१३: E१ (व्.ल्.): संस्कृताग्निनिर्वर्त्यत्वम्}*
SK
इष्टित्वेन तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति // MS_६,८.२ //
SK
तुशब्दात् पक्षो विपरिवर्तते. चतुर्होतृहोमा असंस्कृतेष्व् अग्निषु भवेयुः. तथा हि दर्शयति, एषा वानाहिताग्ने[७६३]र्{*६/४१४*} इष्टिर् यच् चतुर्होतार इति, अनाहिताग्नेर् इष्टयो न विद्यन्ते. ये त्व् एते चतुर्होताराः, तस्यैषैवेष्टिर् इति, अनाहिताग्नेर् एवंजातीयकान् होमान् दर्शयति. तस्माद् असंस्कृतेषु भवेयुः. ननु लिङ्गम् असाधकम्, प्राप्तिर् वक्तव्येति. तद् उच्यते,
SK
NOTES: *{६/४१४: E२: ५,३५७; E६: २,२१०}*
SK
उपदेशस् त्व् अपूर्वत्वात् // MS_६,८.३ //
SK
एवं तर्हि, अक्रतुशेषाणां विधिर् एषा{*६/४१५*} भविष्यति, एषा अनाहिताग्नेः{*६/४१६*} क्रियेति. एवम् अर्थवद्वचनं भविष्यति. वादमात्रम् अनर्थकं भवति, अस्य चास्ति विधिसामर्थ्यम्. तस्माद् विधिर् असंस्कृतेष्व् इति.
SK
NOTES: *{६/४१५: E१,६; E२: एष; E२ (व्.ल्.): एव}* *{६/४१६: E१,६; E२: एषा वानाहिताग्नेर्}*
SK
स सर्वेषाम् अविशेषात् // MS_६,८.४ //
SK
आह, एतद् गृह्यते विधिर् इति. यत् तु, अक्रतुशेषाणाम् इति, तन् न, सर्वेषां क्रतुशेषाणाम् अक्रतुशेषाणां च चतुर्होतृहोमानाम्. कुतः. अविशेषात्, न क्रतुशेषाणाम् एवायं धर्म{*६/४१७*} उच्यते, नाक्रतुशेषाणाम् इति. तस्मात्{*६/४१८*} सर्वेषाम्.
SK
NOTES: *{६/४१७: E१,६,E२ (व्.ल्.); E२: अविशेषात्. चतुर्होतॄणाम् अयं धर्म}* *{६/४१८: E१,६; E२: न विशेषः क्रतुशेषाणाम् अक्रतुशेषाणां चेति. तस्मात्}*
SK
अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः // MS_६,८.५ //
SK
अपि वेति पक्षव्यावृत्तिः. अक्रतुशेषाणाम् एवायं धर्मो न क्रतुशेषाणाम्. कुतः. अनाहिताग्नेः क्रत्वभावात्. न ह्य् अनाहिताग्नेः क्रतवः सन्ति. न च क्रत्वङ्गं केवलं प्रयुज्यमानं कस्मैचित् प्रयोजनाय स्यात्. न चास्यान्यत् फलं प्रकल्प्येत{*६/४१९*}, प्रमाणाभावात्. वचनस्य ह्य् अन्यद् अपि प्रयोजनम् अस्ति. न चानेन वचनेन शक्यते ऽनाहिताग्नेः क्रतुः कल्पयितुम्. तस्माद् अक्रतुशेषाणाम् अयं धर्म इति.
SK
[७६४]{*६/४२०*}
SK
NOTES: *{६/४१९: E२ (व्.ल्.): चास्मात् फलं कल्प्येत}* *{६/४२०: E२: ५,३५८; E६: २,२११}*
SK
जपो वानग्निसंयोगात् // MS_६,८.६ //
SK
वाशब्दात् पक्षो विपरिवर्तते. नासंस्कृतेष्व् अग्निष्व् एवंजातीयका होम्ःआः स्युः. कुतः. आधानस्य सर्वशेषत्वात्{*६/४२१*}. ननु वचनम् इदम्, एषा अनाहिताग्नेर्{*६/४२२*} इष्टिर् इति. नेति ब्रूमः, जपार्थवद एष भविष्यति. ये जपरूपास् तेषाम् अर्थवादः{*६/४२३*}, न सर्वेषां चतुर्होतॄणाम्, एवं यदाहवनीये जोहोतीत्येवमादीनां वचनानाम् अर्थवत्ता भविष्यति.
SK
NOTES: *{६/४२१: E२ (व्.ल्.): सर्वशेषत्वाद् एव}* *{६/४२२: E१,६; E२: वानाहिताग्नेर्}* *{६/४२३: E२ (व्.ल्.): ये जपस् तेषाम् अयम् अनुवादः}*
SK
इष्टित्वेन तु संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् // MS_६,८.७ //
SK
यद् उक्तम्, एषा वानाहितताग्नेः क्रिया इष्टितुल्येति जपानाम् एष वाद इति. तन् न, नैषा{*६/४२४*} वचनव्यक्तिः. यैषानाहिताग्नेः क्रिया, सेष्टितुल्येति. किं कारणम्. सादृश्यमात्रानुवादो ऽनर्थकः स्यात्. इतरस्मिन् पक्षे विधिर् अर्थवान्. येयम् इष्टिः, एषानाहिताग्नेर् इति, तदिष्टिसंस्तवाद् धोमानाम् एव वादः. कथम्. इष्टिर् यागः, स एवासेचनाधिको होमः. यद् उक्तम्, सर्वहोमार्थ आहवनीय इति. तन् न, चतुर्होतॄन् एवाधिकृत्योच्यते. किं त्व् अविशेषेण होमान्. स चतुर्होतृष्व् असंभवाद् अन्येषु भविष्यति. चतुर्होतृषु चानाहिताग्नेर् उच्यमानेष्व् आहवनीयो नाङ्गम् इति.
SK
NOTES: *{६/४२४: E१,६; E२: न. कथम्. नैषा}*
SK
उभयोः पिटृयज्ञवत् // MS_६,८.८ //
SK
नैतद् अस्ति, अनाहिताग्नेर् एव चतुर्होतार इति. उभयोः स्युः, पित्र्यज्ञवत्, यथा पितृयज्ञ आहिताग्नेर् अनाहिताग्नेश् च, [७६५]{*६/४२५*} एवं चतुर्होतारो ऽपि. कथम् अवगम्यते. वर्णितम् एतत्. यदानुवादपक्षः, तदाहिताग्नेः, यदा विधिपक्षः, तदानाहिताग्नेः. उभयथा वचनव्यक्तिः प्रतीयते. न च प्रतीयमानो ऽर्थः शक्यते ऽपह्नोतुम्. तस्माद् उभयोश् चतुर्होतार इति.
SK
NOTES: *{६/४२५: E२: ५,३५९; E२: २,२११}*
SK
निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् // MS_६,८.९ //
SK
न चैतद् अस्ति, उभयोश्{*६/४२६*} चतुर्होतारो भवेयुर् इति. कथम्. एष ह्य् अनाहिताग्निनिर्देशः. एषा वेष्टिर् अनाहिताग्नेर् इति वचनेनाधिकृतः, नाहिताग्निः, निर्देशसामर्थ्यात्. अर्थवादे चोपक्षीणं तत्रैव न विरुध्यत इति. यदाहवनीये जुहोतीति वचनं न चतुर्होतॄन् एवाधिकृत्योच्यत इत्य् उक्तम्. तस्माद् अनाहिताग्नेर् एवंजातीयका होमाः.
SK
NOTES: *{६/४२६: E१,६; E२: अस्ति, पितृयज्ञवद् उभयोश्}*
SK
पितृयज्ञे संयुक्तस्य पुनर्वचनम् // MS_६,८.१० //
SK
अथ यद् उक्तम्, पितृयज्ञवद् इति, युक्तं पितृयज्ञे. तत्राहिताग्निसंयुक्तस्य पुनर् एतद्वचनं भवति, अप्य् अनाहिताग्निना कार्य इति. एतद्वचनम् अनाहिताग्नेर् अपीत्य् अनाहिताग्नाव् अन्वाहार्यकं करोति{*६/४२७*}, इह तथा नास्ति वचनम्. नियोगत एको निर्देशः, एषा वानाहिताग्नेर् इति. नात्रापिशब्दो ऽस्ति. तस्मात् पितृयज्ञेनातुल्यम् एतत्.
SK
NOTES: *{६/४२७: E१,६,E२ (व्.ल्.); E२: अनाहिताग्निनान्वाचयं करोति}*
SK
उपनयन्न् आदधीत होमसंयोगात् // MS_६,८.११ //
SK
इदम् आमनन्ति, उपनयंस् तिसृभिर् जुहुयाद् इति. तत्र [७६६]{*६/४२८*} संदेहः. किम् अयं होम आधानसंस्कृतेष्व् अग्निषु, उतासंस्कृतेष्व् इति. किं प्राप्तम्. उअपनयन्न् आदधीतेति. कुतः{*६/४२९*}. होमसंयोगाद् आहवनीयस्य, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीति. तस्माद् आधानोत्तरकाला एते होमा इति स्थितिः{*६/४३०*}.
SK
NOTES: *{६/४२८: E२: ५,३६०; E२: २,२१२}* *{६/४२९: E१,६; E२: आदधीतेति. संस्कृतेष्व् इति. कुतः}* *{६/४३०: E२ ओम्. स्थितिः}*
SK
स्थपतीष्टिवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् // MS_६,८.१२ //
SK
न चैतद् अस्ति, आधायैवंजातीयकं होतव्यम् इति. किं तर्हि. लौकिक एव प्रवर्तेतेति. कुतः. विद्याकर्मानुपूर्वत्वात्. विद्याग्रहणार्था इमे होमाः. विद्यावतश् चाधानेनाधिकारः{*६/४३१*}, सामर्थ्यात्. अत आधानोत्तरकालता नैषाम् अवकल्पते, यथा स्थपतीष्ट्याम्.
SK
NOTES: *{६/४३१: E१,६,E२ (व्.ल्.); E२: चाधानाधिकारः}*
SK
आधानं च भार्यासंयुक्तम् // MS_६,८.१३ //
SK
आधानं च भार्यासंयुक्तं श्रूयते. विद्याग्रहणोत्तरकालश् च दारसंग्रहः. तस्माद् अपि नावकल्पते पूर्वकालताधानस्य.
SK
अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः // MS_६,८.१४ //
SK
तत्राह, या पूर्वम् आधानाद् दारक्रिया, सा कर्मार्था भविष्यति, वचनाच् चोर्ध्वम् आधानात्, अपत्यार्था. द्वयोर् अपि कालयोः, पिण्डपितृयज्ञवन् नैष दोषो भविष्यतीति. अत्रोच्यते, अकर्म च दारक्रिया, याधानोत्तरकाले{*६/४३२*}. कुतः. आहवनीयादिसमवायो हि कर्मभिर् भवति, स्वार्थण् च [७६७]{*६/४३३*} अग्नय आधातव्या इति नियमः. तस्माद् उभयस्मिन्न् अपि काले दारसंग्रह इत्य् एतत् नास्ति.
SK
NOTES: *{६/४३२: E१,६; E२: दारक्रियाया आधानोत्तरकाले}* *{६/४३३: E२: ५,३६१; E६: २,२१३}*
SK
श्राद्धवद् इतित् चेत् // MS_६,८.१६ //
SK
नैवम्, श्रुतिविप्रतिषेधो हि भवति, एवं क्रियमाणे दारकर्मणि विद्याग्रहणोत्तरकालं श्रूयमाणम्, पूर्वं क्रियत इति विप्रतिषिद्धम्. अर्थाद् अन्यद् एवेदम् इति चेत्. न, अर्थप्राप्तस्यैव कालनियम एषः. उपनयनं च कर्मार्थम्. तद् द्वितीयस्यां विप्रतिषिध्येत.
SK
सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् // MS_६,८.१७ //
SK
अथोच्यते, प्रागाधानाच् च, कर्मार्थैव, ऊर्ध्वं चापत्यार्थैवास्य भविष्यति. तेनैवं सत्य् अस्य न किंचिद् विरोत्स्यत इति. उच्यते, नैतद् एवम्. स्वार्था हि सा, न केवलम् अपत्यार्थताम् एष्यति. तद् उक्तम्, फलोत्साहाविशेषाद् इति. तस्माद् अपि न द्विर् दारसंग्रहः. अपि चैवं स्मर्यते, धर्मे चार्थे च कामे च नातिचरितव्येति. एवं सत्य् अतिचरिता स्यात्. अतो न{*६/४३४*} द्विर् दारसंग्रहः. एकैव भार्या कर्मार्थापत्यार्था च. तस्याश् च विद्याग्रहणोत्तरकालता. अतो नाधानसंस्कृतेष्व् एते होमा इति.
SK
[७६८]{*६/४३५*}
SK
NOTES: *{६/४३४: E१,६; २: अतो ऽपि न}* *{६/४३५: E२: ५,३६१; E६: २,२१३}*
SK
सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत्{*६/४३६*} // MS_६,८.१८ //
SK
गृह्यत एतत्, प्रागुपनयनान् नास्ति पत्नीति. यद् उक्तम् एकैव पत्नीति. तन् न मृष्यते, यथैव स्मृतिः, धर्मे चार्थे च कामे च नातिचरितव्येति. धर्मप्रजासंपन्ने दारे नान्यां कुर्वीतेति च. एवम् इदम् अपि स्मर्यत एव, अन्यतरापाये ऽन्यां कुर्वीतेति. तस्माद् यस्य न धर्मसंपन्ना, न प्रजासंपन्ना वा पत्नी, सो ऽन्यां कुर्वीतेति. सोमपानाद् इति चार्थवादं व्यपदिशति स्म. सोमपो न द्वितीयां जायाम् अभ्यषूयत इति द्वितीयाम् अपि जायां दर्शयति.
SK
NOTES: *{६/४३६: E१ (व्.ल्.): उपयच्छेत}*
SK
पितृयज्ञे तु दर्शनात् प्रागाधानात् प्रतीयेत // MS_६,८.१९ //
SK
अथ कथं पितृयज्ञस्य द्वौ कालाव् इति. उच्यते, वचनं हि तत्र दृश्यते. अप्यनाहिताग्निना कार्य् इति. तस्मात् प्रागाधानात् पितृयज्ञ इति.
SK
स्थपतीष्टिः प्रयाजवद् अग्न्याधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत // MS_६,८.२० //
SK
अस्ति स्थपतीष्टिः, एतया निषादस्थपितं याजयेतेति. तत्र संदेहः. किम् आधानसंस्कृतेष्व् अग्निषु स्यात्, उत लौकिकेष्व् इति. किं प्राप्तम्. संस्कृतेष्व् इति. कथम्. [७६९]{*६/४३७*} यदाहवनीये जुहोतीत्येवमादिवचनात्. ननु शूद्रस्याहवनीयाभावान् नास्ति तस्य श्रुतिर् इति. उच्यते, सा ह्य् आहवनीयं प्रयोजयेत्, यथा प्रयाजान् अश्रुतान् प्रयोजयति. एवं चोदकसामर्थ्याद् इति. तादर्थ्याच् चापवृज्येत. स्थपतीष्ट्यर्थं चाहिता अग्नयः. तस्याम् अपवृक्तायाम्{*६/४३८*} अपवृज्येरन्. धारणं हि तेषां दृष्टकार्यम् आम्नातम्, अतिक्रान्ते कार्ये न स्याद् इति.
SK
NOTES: *{६/४३७: E२: ५,३६३; E६: २,२१४}* *{६/४३८: E१,६; E२: अप्रवृक्तायाम्}*
SK
अपि वा लौकिके ऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् // MS_६,८.२१ //
SK
अपि वेति पक्षव्यावृत्तिः. लौकिकेष्व् अग्निषु स्यान् न संस्कृतेषु. कुतः. आधानस्यासर्वशेषत्वात्. सर्वकर्मशेषभूता अग्नयः, तदङ्गम् आधानम्, न कर्माङ्गम्. श्रुत्यादीनाम् अभावान् न कर्मप्रयुक्ताधानस्य, वाक्यसामर्थ्याच् चाग्निप्रयुक्तत्वम्. यच् च दर्शपूर्णमासप्रयुक्तम्, तच् चोदकेन प्राप्यते, न द्रव्यप्रयुक्तम्. तस्माल् लौकिकेष्व् अग्निषु स्थपतीष्टिर् इति.
SK
अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकालत्वात् // MS_६,८.२२ //
SK
अस्त्य् अवकीर्णिपशुः, ब्रह्मचार्यवकीर्णी नैरृतं गर्दभम् आलभेतेति. तत्र संदेहः. किं तदर्थम् आधानं कर्तव्यम्, उत लौकिकेष्व् अग्निषु तद् वर्तेतेति. अवकीर्णिपशुश् च [७७०]{*६/४३९*} तद्वद् इत्य् अधिकरणातिदेशः. पूर्वस्याधिकरणस्य यः पूर्वः पक्षः{*६/४४०*}, सो ऽत्र पूर्वः पक्षः. यः सिद्धान्तः, स सिद्धान्तः. सर्वार्थम् आधानम्, तस्माद् आहिताग्निष्व् इति पूर्वः पक्षः. आधानस्याप्राप्तकालत्वाद् इति सिद्धान्तः. अप्राप्तो ऽयम् आधानस्य काल इत्य् एतद् उक्तम्. तस्माद् इदम् अपि कर्म लौकिकेष्व् इति.
SK
NOTES: *{६/४३९: E२: ५,३६४; E६: २,२१५}* *{६/४४०: E१,६; E२: पूर्वपक्षः}*
SK
उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात् // MS_६,८.२३ //
SK
दैवानि कर्माण्य् उदाहरणम् उपनयनप्रभृतीनि. तत्र संदेहः. किम् अनियते काले दैवानि कर्तव्यानि, उतोदगयनपूर्वपक्षाहः पुण्याहेष्व् इति. अनियत इति प्राप्ते, उदगयनादिष्व् इत्य् उच्यते. कुतः. एवं स्मरन्ति, तेषु कालेषु दैवानीति. रूपार्थवादश् च. एतद् वै{*६/४४१*} देवानां रूपम्, यद् उदगयनम्, पूर्वपक्षो ऽह इति{*६/४४२*}. न च वयं देवादीनां रूपम् विद्मः. अथ त्व् एषु कालेषु दैवानि क्रियन्ते, तत एतेन{*६/४४३*} संबन्धेन रूपवचनम् अवकल्पते. अन्यार्थं च वाक्यम् एतद् दर्शयति, पूर्वाह्नो वै देवानाम्, मध्यंदिनो मनुष्याणाम्, अपराह्नः पितॄणाम् इति. तस्माद् एतेषु कालेषु दैवानि स्युर् इति.
SK
NOTES: *{६/४४१: E१ (व्.ल्.): एतद् वा}* *{६/४४२: E१,६,E२ (व्.ल्.); E२: पूर्वपक्षाहर् इति}* *{६/४४३: E१,६; E२: तद् एतेन}*
SK
अहनि च कर्मसाकल्यम् // MS_६,८.२४ //
SK
अहनि च विशेषः, सकलं कर्माहन्य् एव शक्यते कर्तुम् इति, न रात्रौ करिष्यति.
SK
[७७१]{*६/४४४*}
SK
NOTES: *{६/४४४: E२: ५,३६५; E६: २,२१५}*
SK
इतरेषु तु पित्राणि{*६/४४५*} // MS_६,८.२५ //
SK
श्राद्धादीन्य् अपरपक्षे ऽपराह्ने च, स्मृतिरूपान्यार्थदर्शनात्.
SK
NOTES: *{६/४४५: E१; E२,६: पित्र्याणि}*
SK
याञ्चाक्रयणम् अविद्यमाने लोकवत् // MS_६,८.२६ //
SK
इदं समाम्नायते ज्योतिष्टोमे, द्वादश रात्रीर् दीक्षितो भृतिं वन्वीतेति. तथा सोमं क्रीणातीति. तत्र संदेहः. किं यस्य न विद्यते भृतिः, तेन वनितव्या, यस्य च न विद्यते सोमः, तेन क्रेतव्यः, उतोभथापि{*६/४४६*} सति चासति च. किं प्राप्तम्. याञ्चाक्रयणम् अविद्यमाने भृतिधने सोमे च स्यात्. कस्मात्. द्रव्यसद्भावार्थं{*६/४४७*} याञ्चाक्रयणम्, तद्{*६/४४८*} विद्यमाने ऽनर्थकम्. अनर्थकं चोक्तम् अपि न कर्तव्यम्. तस्माद् अविद्यमाने भवेत्, लोकवत्. यथा{*६/४४९*} यस्य लोके नास्ति द्रव्यम्, स याचते क्रीणाति च. एवम् इहापि द्रष्टव्यम्.
SK
NOTES: *{६/४४६: E१,६; E२: उतोभयथापि; E२ (व्.ल्.): उतोभयम् अपि}* *{६/४४७: E१,६,E२ (व्.ल्.); E२: द्रव्यसंभवार्थं}* *{६/४४८: E१,६; E२: याञ्चाक्रयणम् अर्थवद् भविष्यति. तद्}* *{६/४४९: E१,६; E२: तथा}*
SK
नियतं वार्थवत्त्वात् स्यात् // MS_६,८.२७ //
SK
नियतं वा याञ्चाक्रयणम्, तद् विद्यमाने ऽविद्यमाने च द्रव्ये स्यात्. एवं याञ्चाक्रयणम् अर्थवद् भवति{*६/४५०*}. ज्योतिष्टोमप्रयुक्तं हि तच् छ्रूयते, न द्रव्यप्रयुक्तम्. तच् च नित्यं ज्योतिष्टोमस्य. नैवं वचनं भवति, यदा द्रव्यं नास्ति, तदा कर्तव्यम् इति. [७७२]{*६/४५१*} ज्योतिष्टोमस्य च नित्यम् अङ्गम् उक्तम्, द्रव्याभावो निमित्तम् उक्तम् इति परिकल्प्येत, कल्पनायां शब्दो बाध्येत. अतो याञ्चाक्रयणसंस्कृतं द्रव्यम् इहोपयोक्तव्यम्, अन्यथा वैगुण्यं भवति. तस्मात् सति चासति च द्रव्ये याञ्चाक्रयणम् अनुष्टातव्यम् इति. अथ यद् उक्तम्, लोकवद् इति. लोके कर्म अर्थलक्षणं भवति, न शब्दलक्षणम्, यथार्थः, तथा क्रियते. न, यथा शब्दः. वेदे तु शब्देनैवार्थो ऽवगम्यते, तथैवानुष्ठेयम् इति. तस्माद् विद्यमाने ऽपि कर्तव्यम्.
SK
NOTES: *{६/४५०: E२ (व्.ल्.): भविष्यति}* *{६/४५१: E२: ५,३६६; E२: २,२१६}*
SK
तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् // MS_६,८.२८ //
SK
ज्योतिष्टोमे श्रूयते, पयो व्रतं ब्राह्मणस्य यवागू राजन्यस्य, आमिक्षा वैश्यस्येति. तथा दर्शपूर्णमासयोः प्रैषः, प्रोक्षणीर् आसादय, इध्मं बहिर् उपसादय स्रुचः संमृड्ढि{*६/४५२*} पत्नीं संनह्याज्येनोदेहीति. तथा वाजपेये श्रूयते, दर्भमयं वासो भवतीति. पशौ संज्ञप्तहोमः, यत् पशुर् मायुम् अकृतोरो{*६/४५३*} वा पद्भिर् आहत अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्वं हस इति. तथा, यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इति वचनम्. एतान्य् उदाहरणवचनानि. तेषु संदेहः. किं यस्यापरं भोजनं न विद्यते, स पयो व्रतयेत्, यवागूम् आमिक्षां वा, उत{*६/४५४*} विद्यमाने ऽपीति. तथा यो प्रेषितः प्रैषार्थं न प्रतिपद्यते, स प्रेषितव्यः, उत प्रतिपद्यमानो ऽपीति. तथा, यस्य सूत्रमयं वासो नास्ति, स दर्भमयं परिदधीत, उत विद्यमाने ऽपीति. तथा, यस्य पशुर् मायुम् कुर्यात्, उरो वा पादौ वा हन्यात्{*६/४५५*}, स एतेन मन्त्रेण जुहुयात्, उतान्यो ऽपीति. तथा, यो द्वेष्टि किंचित्, [७७३]{*६/४५६*} अन्येन च द्विष्यते, स एव मन्त्रं ब्रूयात्, यो ऽस्मान् द्वेष्टीति, उताद्विषन्न् अद्विष्यमाणश् चापीति. तत्राधिकरणातिदेशो ऽयम्. तत्र यः पूर्वस्मिन्न् अधिकरणे पूर्वः पक्षः, स इह पूर्वः पक्षः. यस् तत्र सिद्धान्तः, स इह सिद्धान्तः. अविद्यमाने कुर्याद् इति पूर्वः पक्षः. नियतं वार्थवत्त्वाद्{*६/४५७*} इत्य् उत्तरः. स एवात्र न्यायः, यः पूर्वत्र{*६/४५८*}.
SK
NOTES: *{६/४५२: E१,६; E२: स्रुवं च स्रूवश् च संमृड्ढि}* *{६/४५३: E१,६; E२: अकुतोरो}* *{६/४५४: E१,६; E२: व्रतयेत्, स प्रेषितव्यः, उत}* *{६/४५५: E१,६,E२ (व्.ल्.); E२: वा पाद्भिर् हन्यात्}* *{६/४५६: E२: ५,३६७; E६: २,२१७}* *{६/४५७: MS ६.८.२७}* *{६/४५८: Vग्ल्. ŚBह् अद् MS ६.८.८}*
SK
अनर्थकं त्व् अनित्यं स्यात् // MS_६,८.२९ //
SK
ज्योतिष्टोमे श्रूयते, मध्यंदिने ऽपररात्रे वा{*६/४५९*} व्रतं व्रतयतीति. तत्र संदेहः. किं नियतम् अपररात्रे व्रतम्, उतानियतम् इति. किं प्राप्तम्. नियतं चार्थवत्त्वात्{*६/४६०*} स्याद् इति. एवं प्राप्ते ब्रूमः, अनर्थकं त्व् अनित्यं स्यात्. यदैवम् मन्येत, अस्मिन् काले व्रतं मे जरिष्यतीति, तदा व्रतयेत्. यदा तु खलु मन्येत, न सम्यग् जरिष्यतीति, तदा तद्व्रतं क्रियमाणम् अनर्थकं स्यात्. यदि ह्य् अजीर्णेन यजमानो म्रियेत, तदा तन्त्रलोपः, तन्त्रलोपे च सर्वलोपः. तस्माद्{*६/४६१*} अनियतं{*६/४६२*} तस्मिन् काले व्रतं व्रतयितव्यम् इति.
SK
NOTES: *{६/४५९: E१,६; E२: च}* *{६/४६०: E१,६; E२: वार्थवत्त्वात्}* *{६/४६१: E१,२,E२ (व्.ल्.); E२: तदा सर्वतन्त्रलोपः स्यात्. तस्माद्}* *{६/४६२: E१,६; E२: न नियतं}*
SK
पशुचोदनायाम् अनियमो ऽविशेषात् // MS_६,८.३० //
SK
ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो{*६/४६३*} दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति. तत्र संदेहः. किं यः कश्चित् पशुर् आ[७७४]{*६/४६४*}लम्भीयः, उत छाग इति. वक्ष्यमाणेनाभिप्रायेण भवति संशयः. नन्व् एकेषाम् आम्नायते, अजो ऽग्नीषोमीय इति. सर्वशाखाप्रत्ययं चैकं कर्मेति. अत्रोच्यते, प्रतिशाखं भिन्नानि कर्माणीति कृत्वा चिन्ता. किं तावत् प्राप्तम्. पशुचोदनायाम् अनियमः. उत्सर्गे कर्तव्ये द्रव्यं शक्यत उत्स्रष्टुम्, न पशुत्वम्. द्रव्यं हि साधकम्. अतो ऽत्र द्रव्यम् अन्त्रेणोत्सर्गो न संभवतीति द्रव्यम् उपादीयते. तस्मिन्न् उपादीयमाने ऽनियमः, यत्किंचिद् उत्स्रष्टव्यम् इति. कुत एतत्. अविशेषात्. न हि पशुत्वसंबद्धेषु कश्चिद् विशेष उपलभ्यते. तस्माद् यः कश्चित् पशुर् इति.
SK
NOTES: *{६/४६३: E१,६,E२ (व्.ल्.); E२: ज्योतिष्टोमे श्रूयते, यो}* *{६/४६४: E२: ५,३६८; E६: २,२१७}*
SK
छागो वा मन्त्रवर्णात् // MS_६,८.३१ //
SK
वाशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति. यत्र क्वचन द्रव्ये पशुत्वम् उपादेयम् इति. अस्त्य् उत्स्रष्टव्यस्य नियमकारणं मन्त्रवर्णः. अग्नये छागस्य वयाया{*६/४६५*} मेदसो ऽनुब्रूहीति, छागप्रकाशनसमर्थो मन्त्रवर्णः समाम्नायते. यदि छागो नोपादेयः, ततस् तत्प्रकाशनसमर्थस्योपादानम् अनर्थवत्. तेनावगम्यते, छागम् अधिकृत्योत्सर्गं विदधातीति. मान्त्रवर्णिको द्रव्यनियमविधिर् इति.
SK
NOTES: *{६/४६५: E१; E२: मन्त्रवर्णः. छागस्य वपाया; E६: मन्त्रवर्णः. अग्नये छागस्य वपाया}*
SK
न, चोदनाविरोधात् // MS_६,८.३२ //
SK
नैतद् एवम्. न शक्नोति मन्त्रवर्णश् चोदनायां प्रत्यर्थिन्यां द्रव्यं नियन्तुम्. यत्र हि द्रव्यस्य प्रकाशकं न श्रूयते, तत्राप्रकाशितम् एव तत् कर्तव्यम् इति. तस्मान् न मन्त्रवर्णात् प्रकाश्यनियमविधिः कल्प्यते, एवम् अत्र प्रकाश्यं प्रकाशयितव्यम् इति. [७७५]{*६/४६६*} अत्र पुनः शब्देनावगम्यते, पशुत्वेन प्रकाशयितव्यम् इति. तस्मान् न मन्त्रवर्णस् तत्सद्भावे समर्थः. मन्त्रवर्णाद् धि कल्प्या प्रयोगवचनश्रुतिः{*६/४६७*}. इह कॢप्ता प्रयोगवचनेनोपसंहर्तव्या. अन्य एव पशुशब्दस्यार्थः पशुत्वम्. अन्यो मन्त्रवर्णेन नियम्यते छागः. तस्मान् न मन्त्रवर्णश् चोदनाविरोधेन नियन्तुम् अर्हतीति.
SK
NOTES: *{६/४६६: E२: ५,३६९; E६: २,२१८}* *{६/४६७: E१,६,E२ (व्.ल्.); E२: प्रयोगवचने श्रुतिः}*
SK
आर्षेयवद् इति चेत् // MS_६,८.३३ //
SK
इति चेत् पश्यसि, न पशुत्वम् अन्येभ्यः पशुभ्य आच्छेतव्यम् इति. यथा, आर्षेयं वृणीते, त्रीन् वृणीत इति, सामान्यश्रुतिस् त्रिष्व् एवावतिष्ठत इति. त्रित्वं विशेषो{*६/४६८*} विवक्षितो नान्ये विवक्षिता इति. एवम् इहापि पशुत्वम्, छागं प्रकल्पयितुम् विवक्षितम्, नान्यान् विशेषान् इति.
SK
NOTES: *{६/४६८: E१,६; E२: त्रित्वविशेषो}*
SK
न, तत्र ह्य् अचोदितत्वात् // MS_६,८.३४ //
SK
नैतद् एवम्. तत्र ह्य् अचोदितं द्रव्यम् उत्स्रष्टव्यम्, मन्त्रवर्णे. वरणे पुनश् चोदितम्. तत्र त्रित्वसंख्यासंबन्धस्य वरणे चोदितत्वात्, नान्या संख्या क्रियते. आर्षेयशब्दाद् अपि नानार्षेयम्. त्रिशब्दस्य हि तत्सामर्थ्यम्, येनार्षेयशब्दो विशिष्टसंख्याविषयो नियम्यते. इह न मन्त्रस्य सामर्थ्यम्. तस्माद् अनियम इति.
SK
नियमो वैकार्यं ह्य् अर्थभेदाद् भेदः पृथक्त्वेनाभिधानात् // MS_६,८.३५ //
SK
नियमो वा. ऐकार्थ्यं हि पशुछागशब्दयोः, सामान्यं पशुर् इति, छागादयो विशेषा उच्यन्ते. कथम्. तैः सामानाधिकरण्यात्, पशुश् छागः, पशुर् उष्ट्रः, पशुर् मेषः, पशुर् उस्र इति. एवं सति न मन्त्रवर्णः पशुशब्देन विरुध्यते. तेन छागो [७७६]{*६/४६९*} ऽप्य् आलब्धव्यश् चोदितः. मन्त्रवर्ण उपादीयमाने, इदम् अवगम्यते. छागं विवक्षित्वायं पशुशब्द उच्चरित इति, नान्यान् विशेषान् इति. छागोपकरणम् अस्योपदंशितम्. यद् उपदंशने पशुशब्दश् छागाभिप्राय इति गम्यते, यथा युगवरत्र उपदंशिते{*६/४७०*}, ईषाचक्रादिसंनिधाने चेद्{*६/४७१*} अक्षमानयेत्य्{*६/४७२*} उच्यते{*६/४७३*}, तदा, यानाक्षम् अधिकृत्य ब्रूत इति गम्यते, न तु विदेवनाक्षम् इति. यदि ह्य् अर्थभेदो भवेत् पशुछागशब्दयोः, पृथक्त्वेनाभिधानम्, ततो भेदः स्यात्, न छाग एव नियम्येत. अविहितश् छागार्थ इत्य् अश्वोपादानम्. अपि च छागपक्षे तं मन्त्रवर्णः प्रकाशयेत्. छागार्थाभिधाने पुनः पशुशब्दस्य, छागप्राप्ताव् अन्येषाम् अप्राप्तिर् इत्य् अन्यस्मिन् प्राप्ते लिङ्गेन नियमः क्रियत इति.
SK
NOTES: *{६/४६९: E२: ५,३७०; E६: २,२१९}* *{६/४७०: E१,६,E२ (व्.ल्.); E२: युगवरत्रोपदंशिते}* *{६/४७१: E१,६; E२: च}* *{६/४७२: E१,२; E६: अक्षमानयत्य्}* *{६/४७३: E१,६; E२: उक्ते}*
SK
अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् // MS_६,८.३६ //
SK
अनियमो वा. यः कश्चित् पशुर् उपादेयः, अर्थान्तरत्वात्. अर्थान्तरं पशुत्वम्, अर्थान्तरं छागत्वम्, अर्थयोर् अत्र सामानाधिकरण्यम्, न शब्दयोः. कथं पुनर् अर्थान्तरं गम्यते. व्यतिरेकाच् छब्दभेदाच् च, व्यतिरेको{*६/४७४*} हि भवति, कश्चित् पशुर् न छागः. तथा छागः पशुर् इति शब्दभेदः. शब्दभेदाद् एवार्थभेदो न्याय्यः. एकस्मिन् वाक्ये समवायात्, पशुं छागम् आनयेति. इतरथा, अन्यतरेण कृतार्थत्वाद् अन्यतरो वाक्ये न समवेयात्, समवैति च. तस्माद् अन्यत् पशुत्वम्, अन्यच् छागत्वम्. तस्माद् अनियमः, यः कश्चित् पशुर् उपादेय इति{*६/४७५*}. तत्रोत्सूत्रिका{*६/४७६*} पक्षव्यावृत्तिः, अन्यत्वे ऽपि सति नियम एव. [७७७]{*६/४७७*} कुतः. मन्त्रस्य प्रयोगवचनेन गृहीतत्वात्. मन्त्रसाधनं हि कर्मेति गम्यते. यदि छागम् उपादास्यामहे, सगुणं कर्म शक्षामः{*६/४७८*} कर्तुम्, मन्त्रम् उपाददानाः, मन्त्रस्यापाक्षिकत्वात्. अथान्यम् उपादास्यामहे, मन्त्रस्य विषयाभावान् मन्त्रम् अपजहतो न सगुणं कर्म निर्वर्तयेम, अतो{*६/४७९*} न च श्रुतिं बाधामहे, अन्यस्मिन् पशुशब्दो वर्तत इति. न चान्यम्{*६/४८०*} उपादास्यामहे, वैगुण्याद् बिभ्यतः. तस्माच् छाग एवोपादातव्य इति. नन्व् अश्वम् उपाददाना{*६/४८१*} नैव मन्त्रवर्णम् अपहास्यामः. स एवाश्वश् छागो भविष्यति. यश् छिन्नगमनो ऽश्वः, स छागः, छिदेर् गमेश् च च्छागशब्दः प्रसिद्धः{*६/४८२*}.
SK
NOTES: *{६/४७४: E२ (व्.ल्.): व्यतिरिक्तो}* *{६/४७५: E२ ल्äßत् हिएर् MS ६.८.३७ fओल्गेन्, दिए Zäह्लुन्ग् वेर्स्छिएब्त् सिछ् गेगेन्üबेर् E१/६ देम्नछ् उम् एइने Nउम्मेर्. MS ६.८.३७ (नछ् E२): न वा प्रयोगसमवायित्वात्}* *{६/४७६: E१ (व्.ल्.): मन्त्रोत्सूत्रिका}* *{६/४७७: E२: ५,३७१; E६: २,२१९}* *{६/४७८: E१; E२,६: शक्ष्यामः}* *{६/४७९: E१ (व्.ल्.): तेन; E१ (व्.ल्.): एवं}* *{६/४८०: E१,६; E२: वान्यम्}* *{६/४८१: E१,६; E२: अश्वम् अप्य् उपाददाना}* *{६/४८२: E२ ओम्. प्रसिद्धः}*
SK
रूपाल् लिङ्गाच् च // MS_६,८.३७ //{*६/४८३*} क्वचिन्{*६/४८४*} मुष्करा भविश्यन्तीति श्रूयते. यद्य् अन्तरेण वचनम्, अमुष्करास् तदेदम् उपपद्यते. तस्माच् छिन्नगमनो ऽश्वो ऽपि छाग इति कर्माख्या भविष्यति{*६/४८५*}. अत्रोच्यते:
SK
NOTES: *{६/४८३: E२: ६.८.३८}* *{६/४८४: E१ (व्.ल्.): लिङ्गं च क्वचिन्}* *{६/४८५: E१,६,E२ (व्.ल्.); E२: भविष्यतीति}*
SK
छागे न कर्माख्या रूपलिङ्गाभ्याम् // MS_६,८.३८ //{*६/४८६*} छागे कर्माख्या रूपलिङ्गाभ्यां नावकल्पते. न हि छागशब्दश् छिन्नगमनवचनः, समुदायो ह्य् असौ पृथग् अर्थान्तरे प्रसिद्धः, नासाव् अवयवप्रसिद्ध्या बाधितव्यः. तस्मान् नाश्वश् छागः.
SK
NOTES: *{६/४८६: E१,६; E२: ६.८.३९}*
SK
रूपान्यत्वान् न जातिशब्दः स्यात् // MS_६,८.३९ //{*६/४८७*} इदम् अन्यपदोत्तरं{*६/४८८*} सूत्रम्. अथ कस्मान् न वयोवचनो [७७८]{*६/४८९*} भवति वयोवचना ह्य् एते शब्दाः, छागश् छागलो वत्स इति. तेनाश्वो ऽपि वयोवचनो भविष्यतीति. उच्यते, नैतद् एवम्, सत्यं वयोवचनः. अजापतिगतं{*६/४९०*} तु वयो वदितुम् शक्नोति, यथा शोण इति वर्णवचनो ऽश्वजातिगतं वर्णं वदति, नान्यम्. तस्माद् रूपान्यत्वान् न वयोमात्रवचनः, किं तु जातिशब्दः स्यात्. जात्याश्रयं वयो वदेत्. अतश् छाग एव नियम्यते.
SK
NOTES: *{६/४८७: E२,६: ६.८.४०}* *{६/४८८: E१,६,E२ (व्.ल्.); E२: पदोत्तरं}* *{६/४८९: E२: ५,३७२; E६: २,२२०}* *{६/४९०: E१,६,E२ (व्.ल्.); E२: अजजातिगतं}*
SK
विकारो नोत्पत्तिकत्वात्{*६/४९१*} // MS_६,८.४० //{*६/४९२*} इदम् अपि पदोत्तरम्. इहाश्वादीनां विकारश् छागशब्दः. किंचिद् अत्राश्वादीनाम् उच्चार्यते, न{*६/४९३*} किंचिद् अन्यद् एव. तस्माद् आश्वो ऽपि छाग इति. न, उत्पत्तिकत्वात्{*६/४९४*}. औत्पत्तिको हि नामिनाम्नोः संबन्ध इत्य् उक्तम्{*६/४९५*}, नाख्याविकारः संभवतीति. तस्मान् नाश्वश् छागः. अतश् छाग एवोपादात्वय इति.
SK
NOTES: *{६/४९१: E१; E२,६: नौत्पत्तिकत्वात्}* *{६/४९२: E२: ६.८.४१; E१ (व्.ल्.): विकार इति चेत् // MS_६,८.४० //, नोत्पत्तिकत्वात् // MS_६,८.४१//}* *{६/४९३: E२ ओम्. न}* *{६/४९४: E१; E२,६: औत्पत्तिकत्वात्}* *{६/४९५: Vग्ल्. MS १.१.५ उन्द् ŚBह् अद् १.१.५}*
SK
स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् // MS_६,८.४१ //{*६/४९६*} पदोत्तरम् एवेदं सूत्रम्. अथ कस्मान् न छिद्रनिमित्तश् छागशब्दो भवति. एवं श्रूयते, शुषिरो{*६/४९७*} वा एतर्हि पशुः. यर्हि वपाम् उत्खदन्तीति{*६/४९८*}. नेत्य् उच्यते, छिद्रत्वस्य गुणस्य पशोर् अचोदितत्वात्. अव्यङ्गं पशुम् आलभेतेति हि चोद्यते. तस्माद् अच्छिद्रः पशुः. न चावयवप्रसिद्ध्या समुदायप्रसिद्धिर् बाध्यत इत्य् उक्तम् एव. तस्माच् छाग एवोपादेयो नाश्वादय इति.
SK
[७७९]{*६/४९९*}
SK
NOTES: *{६/४९६: E२: ६.८.४२}* *{६/४९७: E१,६; E२: सुषिरो}* *{६/४९८: E१,६; E२: उत्खदतीति}* *{६/४९९: E२: ५,३७३; E६: २,२२१}*
SK
जातेर् वा तत्प्रायवचनार्थवत्त्वाभ्याम् // MS_६,८.४२ //{*६/५००*} वाशब्दो ऽवधारणायाम्. यस्माद् अवयवप्रसिद्ध्या समुदायप्रसिद्धिर् न बाध्यते. तस्माज् जातेर् एव छागशब्दो वाचकः. एवं समुदायस्यार्थवत्तानुगृहीता भविष्यतीति तत्प्रायवचनम्{*६/५०१*} उपपद्यते. विश्वेषां देवानाम् उस्राणां छागानां मेषाणां वपानां मेदसो ऽनुब्रूहीति जातिप्राये वचनम् उपपद्यते. प्रायेणापि हि नियमः क्रियते, यथा, अग्र्यप्राये लिखितं दृष्ट्वाग्न्यो ऽयम् इति बुद्धिर् भवति. तस्माच् छाग एवोपादातव्य इति. कृत्वाचिन्तायां प्रयोजनं न वक्तव्यम्.
SK
NOTES: *{६/५००: E२: ६.८.४३}* *{६/५०१: E१,६,E२ (व्.ल्.); E२: भविष्यति. तस्मात् तत्प्रायवचनम्}*
SK
============================================================================
SK
Aध्याय ७: [१]
SK
श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् // MS_७,१.१ //
SK
पूर्वेणाध्यायषट्केन प्रत्यक्षविहितधर्मणां कर्मणां दर्शपूर्णमासादीनाम् इतिकर्तव्यता चिन्तिता. उत्तरेणेदानीम् अविहितेतिकर्तव्यताकेष्व् ऐन्द्राग्नादिषु चिन्तयितुम् इष्यते. तत्र यदि दर्शपूर्णमासादीनां प्रकरणे ये विहिता धर्माः, ते सर्वकर्मसु विहिता भवन्ति, ततस् तैर् एव धर्मैर् ऐन्द्राग्नादयो ऽपि धर्मवन्त उक्ताः, तथा कर्तव्याश् चेति. नार्थ उत्तरेण षट्केन. अथ ये यस्य प्रकरण उच्यन्ते, ते तत्रैवोक्ता भवन्ति, ततो ऽधर्मकाण्य् ऐन्द्राग्नीदीनि. तेषु{*७/१*} चिन्ता भवति, किम् एषां धर्माः सन्ति, उत नेति. यदा च सन्ति, तदा के कियन्तो वा कथं चानुष्टातव्या इति. तद् अर्थम् उत्तरः षट्कः प्रवर्तनीयः{*७/२*}. तत्र सप्तमेन तावत् सन्ति धर्मा इत्य् उच्यते. अष्टमेन चेमे ऽस्येति. इत्थं प्रयोक्तव्या इति नवमेन. दशम् ऐकादशद्वादशैर् एतावन्तः प्रयोक्तव्याः, नातो ऽधिका इति. तत्रेदं विचार्यते, किं यजिप्रयुक्ता एते धर्माः, कथं यजिर् गुणवान् स्याद् इत्य् एवम् अर्थम् आम्नायन्ते, आहोस्विद् अपूर्वप्रयुक्ताः. कथम् अपूर्वं स्याद् इति. यदि यजिप्रयुक्ताः, [२]{*७/३*} ततः सर्वार्थाः. अथापूर्वप्रयुक्ताः, ततो यथाप्रकरणं व्यवतिष्ठन्ते. किं पुनर् अत्र युक्तम्. अपूर्वप्रयुक्ता इति. अपूर्वं हि फलवत्. अफलो यजिः. फलवति च प्रयासो विधीयमानो ऽर्थवान् भवति. तस्माद् अपूर्वप्रयुक्ता धर्माः{*७/४*}. अतः परमाचार्यस्य सूत्रोपन्यासः, श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्याद् इति. मुख्यान्य् अपूर्वाणि. तानि हि फलवत्त्वात् प्रधानानि, प्रधाने च मुख्यशब्दः. तेषां भेद उक्तः शब्दान्तरादिभिर् हेतुभिः. तस्मिन् मुख्यभेदे सति यथाधिकारं भावः स्यात्, शेषाणाम्. ये यस्यापूर्वस्याधिकारे प्रकरणे{*७/५*} शिष्यन्ते, ते तस्यैव भवेयुः. श्रुतिप्रमाणत्वाद् अयम् अस्यापूर्वस्य शेषः, अयम् अस्येत्य् अत्र श्रुतिर् एव प्रमाणं क्रमते. न प्रत्यक्षादीनाम् अन्यतमत्. श्रुत्या च ये यस्य प्रकरणे श्रूयन्ते, ते तस्यैव भवितुम् अर्हन्ति. न चान्यस्योक्तो ऽर्थो ऽन्यस्य भवति. न हि यद् देवदत्तस्य ग्रामाच् छादनादिकम्, तद् यज्ञदत्तस्य भवति. तस्माद् यथाप्रकरणं व्यवस्था धर्माणाम्.
SK
NOTES: *{७/१: E२: ऐन्द्राग्नीदीनीति तेषु}* *{७/२: E२ ओम्. प्रवर्तनीयः}* *{७/३: E२: ५,३७५, E६: ३,१}* *{७/४: E२: धर्मा इति}* *{७/५: E१ हत् प्रकरणे इन् Kलम्मेर्न्}*
SK
उत्पत्त्यर्थाविभागाद् वा सत्ववदैकधर्म्यं{*७/६*} स्यात् // MS_७,१.२ //
SK
अथ वा, नैतद् एवम्, यथाप्रकरणं धर्माणां व्यवस्था इति. किं तर्हि. ऐकधर्म्यं स्याद् इति, समानधर्मता. सर्वे धर्माः सर्वार्थाः. कुतः. उत्पत्त्यर्थाविभागात्. उत्पत्तिर् इति यजिं ब्रूमः, अपूर्वस्योत्पादनात्. अर्थ इत्य् अपूर्वं ब्रूमः, यजिप्रयोजनत्वात्. तयोर् अविभागः. सर्वाण्य् अपूर्वाणि यजिमन्ति. यजिसंयोगेन धर्माः शिष्यन्ते, यजेतेत्य् उक्त्वोक्ताः. ते यजौ न संभवन्ति, तस्याफलत्वात्. [३]{*७/७*} तत्रासंभवन्तस् तत्संबद्धेष्व् अपूर्वेषु विज्ञायन्ते. स च यजिसंबन्धः सर्वेषाम् अपूर्वाणां तुल्यः. तस्मात् सर्वार्था भवन्ति, सत्वधर्मवत्{*७/८*}. यथा सत्वधर्माः{*७/९*}, गौर् न पदा प्रष्टव्य{*७/१०*} इति गोत्वसंबन्धेन श्रूयमाणास् तत्रासंभवन्तस् तत्संबद्धेषु पिण्डेषु विज्ञायन्ते, तस्य च गोत्वसंबन्धस्याविशेषात् सर्वगवीषु शुक्लनीलकपिलकपोतिकासु भवन्ति. एवम् इहापि. उच्यते, विषम उपन्यासः. तत्र गोसामान्यसंबन्धेन धर्मा विधीयन्ते. गौर् न पदा प्रष्टव्य{*७/११*} इति. इह पुनर् यजिविशेषसंबन्धेन धर्मा विधीयन्ते. दर्शपूर्णमासाभ्यां यजेतेति{*७/१२*}, ज्योतिष्टोमेन यजेतेति. विशिष्टयजिसंबद्ध एवापूर्वे भवितुम् अर्हन्ति, न सर्वत्रेति. तत्र ब्रूमः, दर्शपूर्णमासाभ्यां यजेतेत्थम् इति{*७/१३*}. यदि यजिर् विधीयेत, न धर्मैः संबध्येत. न हि द्वयोर् विधीयमानयोः परस्परेण संबन्धो भवति. अनुवादश् च सन्न् अविशेषात् सर्वयागानुवादः. तस्मात् सर्वथा धर्माः. ननु दर्शपूर्णमासशब्दो विशेषको भविष्यति. न दर्शपूर्णमासशब्दः शक्नोति यागं विशेष्टुम्. अयं हि विधिर् वा स्याद् अनुवादो वा. यदानुवादः, तदा धर्मसंबन्धार्थः. स च धर्मसंबन्धो यागानुवादेनैव तयोः सिद्धः.
SK
ननु निवृत्तिकरो भविष्यति, दर्शपूर्णमासाव् एवेत्थं कुर्यान् नान्यान् इति. नैवं शक्यम्. यत् कारणम्, न तस्यान्यनिवृत्तिः अर्थः. ननु परिसंख्यया करिष्यति. नात्र परिसंख्या युज्यते. यद्य् अन्येन वाक्येन यागमात्रे धर्मप्रसङ्गः कृतः{*७/१४*} स्यात्, तत एतत् पुनर्वचनं परिसंख्यां कुर्यात्. अथ पुनर् असति प्रसङ्गे ऽनेनैव प्रसङ्गो ऽनेनैव निवृत्तिर्{*७/१५*} इत्य् अतिभार एकस्यैव वाक्यस्य भवति. [४]{*७/१६*} एवं तर्हि, नात्र यजेतेति शब्दो धर्मविधिभिः संबध्यते, यजेतेत्थम् इति. केन तर्हि. दर्शपूर्णमासशब्देन. प्रत्यक्षो हि तेनास्य संयोगः, दर्शपूर्णमासाभ्यां यजेतेति, परोक्षो धर्मविधिभिः. कस् तदा वाक्यार्थः. दर्शपूर्णमासौ कुर्याद् इति. नैवं शक्यम्. एवं सति धर्मा असंबद्धाः पारिप्लवा भवन्ति. कथं कृत्वा. येयम् आख्यातिकी विभक्तिः यजेतेति, सा दर्शपूर्णमासयोः कर्तव्यतां विदधाति. तत्र कथं यागमात्रेण यागविशेषेण वा धर्मसंबन्धः स्यात्. विधायिका विभक्तिर् नास्तीत्य् असंबद्धा धर्मा भवन्ति. नैष दोषः. न वयं वाक्येन धर्माणां संबन्धं करिष्यामः. केन तर्हि. प्रकरणेन. कथम्. कर्तव्यतायां चोदितायाम् इतिकर्तव्यताकाङ्क्षा भवति, कथं कुर्याद् इति. प्रकरणेन धर्माः संबध्यन्त इत्थं कुर्याद् इति. नैवं शक्यम्. यदा हि दर्शपूर्णमासौ कर्तव्यतया चोद्यते{*७/१७*}, तदेतिकर्तव्यताकाङ्क्षैव नास्ति. प्रज्ञातेतिकर्त्यव्यतत्वात्{*७/१८*} तयोः. असत्यां चेतिकर्तव्यताकाङ्क्षायां प्रकरणम् एव नास्ति. एवं ह्य् उक्तम्, असंयुक्तं प्रकरणाद् इतिकर्तव्यतार्थित्वाद्{*७/१९*} इति. एवं तर्हि, नैवात्र यागे धर्मा विधीयन्ते. नापि दर्शपूर्णमासयोः कर्तव्यतोच्यते. किं तर्हि. दर्शपूर्णमासाभ्यां यजेतेति पदद्वयेन विशिष्टं यागम् अनूद्यात्र धर्मा विधीयन्ते, दर्शपूर्णमासाभ्यां यजेतेत्थम् इति. एवम् अपि दर्शपूर्णमासाभ्याम् इत्य् अनुवादो न युज्यते. तृतीयार्थस्यासिद्धत्वात्. पूर्वान् अनुवादो भवति, अपूर्वश् च तृतीयार्थः. सो ऽवश्यं विधातव्यः. तस्मिंश् च विधीयमाने ऽन्यद् एवासंबद्धम् आपद्यते, दर्शपूर्णमासौ यजेः करणम् इति. तस्मात् स एव प्रथमः पक्षो ऽस्तु, यागानुवादेन धर्माणां विधिर् इति. ननु तत्रापि दर्शपूर्णमासाभ्याम् इत्य् एतन् न संबध्यते. [५]{*७/२०*} ननु संभन्त्स्यते. कालवचनः सन् प्रायिको नित्यानुवादो भविष्यति. प्रायेण यागानां दर्शपूर्णमासकालत्वात्. तृतीया च कालस्यार्थकृतं गुणभावम् आलोच्योपपद्यते. तथा चेत् सर्वे धर्माः सर्वार्थाः भवन्ति.
SK
NOTES: *{७/६: E२,६: सत्त्ववदैकधर्म्यं}* *{७/७: E२: ५,३७७; E६: ३,२}* *{७/८: E२,६: सत्त्वधर्मवत्}* *{७/९: E२,६: सत्त्वधर्माः}* *{७/१०: E२,६: स्प्रष्टव्य}* *{७/११: E२,६: स्प्रष्टव्य}* *{७/१२: E२ ओम्. इति}* *{७/१३: E२ उन्द् E६ लेसेन्: दर्शपूर्णमासाभ्यां यजेतेत्य् अत्र न शक्यन्ते यागविशेषे धर्मा विधातुम्. किं कारणम्. यदा यजौ धर्मा विधीयन्ते तदा यजिर् अनूद्यते. यजेतेत्थम् इति}* *{७/१४: E२: कुतः}* *{७/१५: E२: प्रसङ्गेन निवृत्तिर्}* *{७/१६: E२: ५,३७९; E६: ३,३}* *{७/१७: E२: चोद्येते}* *{७/१८: E२: प्रज्ञातेतिकर्त्यव्यतात्वात्}* *{७/१९: MS ३.३.११}* *{७/२०: E२: ५,३८०; E६: ३,३}*
SK
चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात् // MS_७,१.३ //
SK
कर्मचोदनायाः शेषभूतो धर्मसमाम्नाय एकदेशभूत इत्य् अर्थः{*७/२१*}, दर्शपूर्णमासाभ्यां यजेत, अनयाग्न्यवाधानादिकयेतिकर्तव्यतयेति. तस्यां चोदनायां यजेर् गुणभावः श्रूयते, दर्शपूर्णमासशब्दो यजिवचनः{*७/२२*}. करणभावो ऽत्र यजेः श्रूयते. दर्शपूर्णमासाख्येन यागसमुदायेनान्यत् कुर्याद् इति. यत् ततो ऽन्यत्, तत्कर्तव्यतया चोद्यते, न यजिः. अपूर्वं च तत्. ननु फलम् अत्र वाक्ये श्रूयते, स्वर्गकामो यतेत{*७/२३*} इति. तत्कर्तव्यं स्यात्. सत्यं श्रूयते, न तु तद्यजिना क्रियते. विनष्टे यजौ तद् भवति. अपूर्वं तु तेन क्रियते. तस्मात् तस्य कर्तव्यता उच्यते. यस्य कर्तव्यता, तद् इतिकर्तव्यतया संबध्यते. तस्माद् अपूर्वार्था धर्माः. तेषां चापूर्वाणां भेदः{*७/२४*}. अतस् तद्भेदाद् यथाप्रकरणं व्यवतिष्ठन्ते धर्मा इति. अथैतस्मिन् पक्षे कथं दर्शपूर्णमासशब्देन यागो विशेष्यते. उच्यते, नैवात्र यागो विशिष्यते. किं तर्हि. अपूर्वभावनैवोभयपदविशिष्टोच्यते{*७/२५*}. यथारुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति{*७/२६*} इति. विषम उपन्यासः. तत्र ह्य् अन्यद् द्रव्यम्, अन्यो गुणः. तेन तत्रोभयविशेषणत्वं युज्यते{*७/२७*}. इह पुनर् यागः एव तौ दर्शपूर्णमासौ. तेनेहोभयविशेषणत्वं{*७/२८*} [६]{*७/२९*} न युज्यते. उच्यते, इहापि यजेतेति सामान्यम्, दर्शपूर्णमासाव् इति विशेषः, अन्यच् च सामान्यम् अन्यो विशेषः. एवम् अपि श्रुत्या सामान्येन{*७/३०*} भावना, वाक्याद् विशेषेण{*७/३१*}. न चैतद् युगपद् भवतीति. एवं तर्हि, नैवात्र श्रुत्यर्थे परिगृह्यते. किं तर्हि. वाक्यार्थः. किं कारणम्. श्रुत्यर्थे परिगृह्यमाणे दर्शपूर्णमासशब्दो ऽनर्थको भवति. यजतिश् चानुवादः. यजत्य् आत्मकत्वाद् दर्शपूर्णमासयोः. यजतिसामानाधिकरण्याच् च दर्शपूर्णमासशब्दस्य.
SK
NOTES: *{७/२१: E१ हत् एकदेशभूत इत्य् अर्थः इन् Kलम्मेर्न्}* *{७/२२: E२: श्रूयते, दर्शपूर्णमासाभ्याम् इति. दर्शपूर्णमासशब्दो हि यजिवचनः}* *{७/२३: Tआण्ड्. Bऋ. १६.१५.५}* *{७/२४: E२: भेद उक्तः}* *{७/२५: E२: अपूर्वभावनैवोभयपदाविशिष्टोच्यते}* *{७/२६: Tऐत्. S. ६.१.६}* *{७/२७: E२: तत्रोभयविशेयणत्वं युज्यते}* *{७/२८: E२: तेनेहोभयपदविशेषणत्वं}* *{७/२९: E२: ५,३८१; E६: ३,४}* *{७/३०: E२: सामान्यस्य}* *{७/३१: E२: विशेषस्य}*
SK
सत्वे{*७/३२*} लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत // MS_७,१.४ //
SK
यत् तु सत्ववद्{*७/३३*} इति. अत्र गवाकृतौ धर्मः श्रूयते. आकृतेः पदार्थत्वात्. न च तत्र संभवति. अतो ऽसाव् आकृतिः सहचारिपिण्डलक्षणार्था विज्ञायते, यथा गङ्गायां गाव{*७/३४*} इति. तच् च साहचर्यम्, सर्वपिण्डानाम् अविशिष्टम् इति, सर्वपिण्डेषु विहितं भवति. तस्मात् तत् सार्वत्रिकं प्रतीयेत. इह तु यजेर् गुणभवेन श्रवणान् नैव यजौ धर्माः श्रूयन्ते. किं{*७/३५*} तर्हि. अपूर्व इत्य्. एवम् अपदिष्टो हेतुः. तस्माद् अनुपन्यासः सत्ववद्{*७/३६*} इति.
SK
NOTES: *{७/३२: E२,६: सत्त्वे}* *{७/३३: E२,६: सत्त्ववद्}* *{७/३४: E२: घोष}* *{७/३५: E२: क्व}* *{७/३६: E२,६: सत्त्ववद्}*
SK
अविभागात् तु नैवं स्यात् // MS_७,१.५ //
SK
अथ तुशब्दः पक्षव्यावृत्तौ. नैतद् एवम्, अपूर्वप्रयुक्ता धर्मा [७]{*७/३७*} इति. यजिप्रयुक्ता एव. कुतः. अविभागात्. यजिनाविभागो धर्माणाम्, प्रत्यक्षं केचिद् द्रव्ये श्रूयन्ते, केचिद् देवतायाम्, केचिन् मन्त्रेषु. एष च यजिः, यद् द्रव्यं देवताम् उद्दिश्य मन्त्रेण त्यज्यते. स एष प्रत्यक्षो यजिना संबन्धो धर्माणाम्. अपूर्वेण त्व् आनुमानिकः. फले ऽपि यजेः प्रत्यक्षश्रुतो गुणभावः, स्वर्गकामो यजेतेति. आनुमानिको ऽपूर्वेण. अनुमानाच् च प्रत्यक्षं बलीयः. तस्माद् यज्यर्थाः धर्माः. ननु यजिर् भङ्गित्वात् कालान्तरे फलं दातुम् असमर्थः. तत्र कृता धर्मा असमर्था एव भवतीत्य् उक्तम्. अत्र स्थितस्य न्यायस्याक्षेपेण प्रत्यवस्थानं क्रियते. तैलपानवद् एतद् भविष्यति. यथा तैलपानं घृतपानं वा भङ्गित्वे ऽपि सति कालान्तरे मेधास्मृतिबलपुष्ट्यादीनि फलानि करोति. एवं यजिर् अपि करिष्यति, किं नो ऽदृष्टाश्रुतेनापूर्वेण कल्पितेनेति.
SK
NOTES: *{७/३७: E२: ५,३८३; E६: ३,५}*
SK
द्व्यर्थत्वं च विप्रतिषिद्धम् // MS_७,१.६ //
SK
एवं च सति सर्वे धर्माः सर्वार्था भवन्ति. तथा चैन्द्राग्नादिषु प्रयाजादयः सन्ति. तत्र सौर्ये कर्मणि प्रयाजानां दर्शनम् उपपद्यते. प्रयाजे प्रयाजे कृष्णलं जुहोति{*७/३८*} इति. इतरथा प्रयाजाश् च विधातव्याः. प्रयाजेषु च कृष्णलहोमः. तथा च द्व्यर्थं तत् स्यात्{*७/३९*}. द्व्यर्थत्वं च विप्रतिषिद्धम्. तस्माद् यजिप्रयुक्ता धर्मा इति.
SK
NOTES: *{७/३८: Tऐत्. S. २.३.२}* *{७/३९: E२: तस्यात्}*
SK
उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात् // MS_७,१.७ //
SK
नैतद् एवम्, यजिप्रयुक्ता धर्मा इति. चोदनायां प्रवृत्तिः [८]{*७/४०*} स्यात्. चोदनेत्य् अपूर्वं ब्रूमः, चोदनार्थत्वाद् अपूर्वार्थत्वाद् अपूर्वप्रयुक्ता धर्माः. फलवत्त्वाद् इत्य् उक्तो हेतुः. यत् तु प्रयक्षो यजिसंबन्धो धर्माणाम् इति. अत्र ब्रूमः, उत्पत्तौ विध्यभावात्. उत्पत्तिर् इति यजिं ब्रूमः. उत्पत्तौ यजौ नास्ति विधिः. यज्यर्था धर्मा इति. केवलं यजौ श्रूयन्ते, क्रियन्ते च. नैतावता तदर्था भवन्ति. यथा वाससि रागः श्रूयते, वासो रञ्जयतीति, वाससि च क्रियते. न चासौ तदर्थः. स्त्र्यर्थः पुरुषार्थो वा भवति. एवम् इहापि यजौ श्रूयमाणाः क्रियमाणाश् चापूर्वार्था भवेयुर् अर्थवत्त्वाय. ततश् च कर्मभेदः स्यात्. यतो ऽपूर्वार्था इति. यत् तु यजेः प्रत्यक्षम्{*७/४१*}, फले गुणभाव इति. न कृत्वापूर्वं{*७/४२*} भवतीति, प्राणालिको विज्ञायते. प्रणाड्यापि च येन क्रियते, तत् कारणं भवति. यथा गोमयैः पचति, तुषपक्वा भवन्तीति. यत् तु, तैलपानवद् यजितः फलं भवतीति. अत्र ब्रूमः, तैलपानस्यापि न कालान्तरे फलं भवति. धातुसाम्यं तस्य फलम्. तच् च तत्कालम् एव. यच् च फलं बलपुष्ट्यादि, तत् सम्यग् आहारपरिणामाद् भवति. तस्माद् विषम उपन्यासः.
SK
NOTES: *{७/४०: E२: ५,३८४; E६: ३,५}* *{७/४१: E२: प्रत्यक्षः}* *{७/४२: E२: स नाकृत्वापूर्वं}*
SK
यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात् // MS_७,१.८ //
SK
यद्य् अप्य् अपूर्वं प्रयोजकं धर्माणाम्, तथापि सर्वधर्मः स्यात्, स स पदार्थः, अभिधानवत् सामान्यात्. अभिधानं तावद् एतेषां समानम्. अपूर्वम् इत्य् अभिधानवद् धर्मेणाप्य् अस्य समानेन भवितव्यम्, वाहीकवत्. यथा वाहीको ऽतिथिर् आगतः, यवान्नम् अस्मै प्रक्रियताम् इत्य् उक्ते, यो यो वाहीकस् तस्य तस्य यवान्नं क्रियते. यथा वा, अक्ष्यामये मुद्गौदनो भोक्तव्यः, उदरामये पयः [९]{*७/४३*} पातव्यम् इति. सर्वत्र च ह्य् अक्ष्यामये मुद्गौदनो भुज्यते, उदरामये ऽपि पयः पीयते. एवम् इहाप्य् एकस्यापूर्वस्य ये धर्माः श्रुतास् ते सर्वापूर्वाणां भवितुम् अर्हन्ति. अपि च, अरुणपराशरा नाम शाखिनः. तेषां परिचरेषु स्मृतिरूपं ब्राह्मणं भवति. ये दर्शपूर्णमासयोर् धर्माः, ते सर्वेष्टीनाम् अग्नीषोमीयस्य चेत्य् आरभ्य, यावत् सर्वाः प्रकृतिविकृतयो ऽनुक्तान्ता इति. तच् चानुक्रमणम् एतम् एव न्यायं सूचयति. तस्माद् अपूर्वप्रयुक्तत्वे ऽपि सर्वे धर्माः सर्वार्था इति.
SK
NOTES: *{७/४३: E२: ५,३८५; E६: ३,६}*
SK
अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात् // MS_७,१.९ //
SK
उपवर्णनापरिहारस् तावद् उच्यते. यद् उक्तम्, वाहीकवद् इति, अत्र ब्रूमः, अर्थस्य त्व् अविभक्तत्वात्, तथा स्याद् अभिधानेषु. अर्थो वाहीकत्वम्, तद्देशसंबन्धः, सो ऽविभक्तः. सर्ववाहीकेष्व् अनुगत इत्य् अर्थः. तन्निमित्तश् च प्रीतिविशेषो न पुरुषनिमित्तः. कथं ज्ञायते. पूर्ववत्त्वात् प्रयोगस्य. पूर्ववान् अत्र प्रयोगः, बहुशो वाहीकाश् चावाहीकाश् च भोजिताः. तत्रान्वयव्यतिरेकाभ्यां ज्ञतम् एतत्, देशनिमित्तेयं यवान्न् अप्रियता, न पुरुषनिमित्तता. तस्मात् तथा स्याद् वाहीकादिष्व् अभिधानेषु. अथेह कर्मणः शब्दभाव्यत्वम्. नान्यतः{*७/४४*} शक्यम् एतज् ज्ञातुम्. कस्यापूर्वस्य{*७/४५*} धर्मा इति. शब्देन च व्यवस्थिता विज्ञाता धर्माः. अपूर्वाणां च विभागः, अतः शेषाणाम् अन्यत्र विहितानाम् अन्यत्राप्रवृत्तिः स्यात्.
SK
[१०]{*७/४६*}
SK
NOTES: *{७/४४: E२: शब्दभाव्यत्वान् नान्यतः}* *{७/४५: E२: ज्ञातुम्, के कस्यापूर्वस्य}* *{७/४६: E२: ५,३८६; E६: ३,७}*
SK
स्मृतिर् इति चेत् // MS_७,१.१० //
SK
अथ यद् उक्तम्, स्मृतिर् इति. तस्य कः परिहारः.
SK
न, पूर्ववत्त्वात् // MS_७,१.११ //
SK
पूर्ववती हीयं स्मृतिः. चोदकं धर्मग्राहकं वक्यति, विध्यन्तो वा प्रकृतिवद् इति. तेन प्रापितानां धर्माणाम् अयम् अनुवादः. एतन् न्यायपूर्विका, नाप्राप्तानां विधायिका. यत् कारणं व्यवस्था धर्माणाम् एतेन न्यायेन भवति.
SK
अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात् // MS_७,१.१२ //
SK
इदं निगमनसूत्रम्. निगमनं च प्रतिज्ञाया हेतोश् च पुनर्वचनम्. तद् इदम् उच्यते, यस्माद् एवम्, तस्माद् अर्थस्याग्न्यन्वाधानादेः शब्दभाव्यत्वात्, प्रतिप्रकरणं च निबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात्. यथा गन्धर्वाप्सरसो वा, एतम् उन्मादयन्ति, य उन्माद्यत्य् एता वै गन्धर्वाप्सरसो यद्राष्ट्रभृतम्. तस्मै स्वाहा ताभ्यः स्वाहेति जुहोतीत्य् अग्निप्रकरणे उत्पन्नानां राष्ट्रभृताम् उद्वाहे उपदेशः. एतेषां राष्ट्रभृतो जुहोत्य् अभ्यातानां जुहोतीति. अस्त्य् एतस्मिन् वचने यथाधिकारं व्यवतिष्ठेरन् धर्मा इति. एवं च सत्य् अधर्मकाण्य् ऐन्द्राग्नादीणि. तदर्थम् उत्तरो ऽध्यायषट्कः प्रारब्धव्य इति. तत्र सप्तम् एन तावद् ऐन्द्राग्नादीनां कर्मणां धर्माः सन्तीत्य् उच्यते. ते चातिदेशेनेति. अतिदेशो नाम ये परत्र विहिता धर्मास् तम् अतीत्यान्यत्र तेषां देशः. यथा देवदत्तस्य भोजनविधिं कृत्वा, शालिसूपमांसापूपैर् देवदत्तो भोजयितव्य [११]{*७/४७*} इति. तम् एव विधिं यज्ञदत्ते ऽतिदिशति, देवदत्तवद् यज्ञदत्तो भोजयितव्य इति. श्लोकम् अपि उदाहरन्ति, प्रकृतात् कर्मणो यस्मात् तत्समानेषु कर्मसु/ धर्मप्रदेशो येन स्यात् सो ऽतिदेश इति स्थितिः// इति. स च नाम्ना वचनेन वा. तत्र नाम त्रिविधम् अतिदेशकम्, कर्मनाम्, संस्कारनाम्, यौगिकम् इति. वचनं पुनर् द्विविधम्, प्रत्यक्षश्रुतम्, आनुमानिकं च. तयोर् आनुमानिकम् उपरिष्टाद् वक्ष्यते. प्रत्यक्षश्रुतं त्व् इदानीम् एव चिन्त्यते. अस्तीषुनाम् ऐकाहः, अपरः श्येनः. तौ द्वाव् अप्य् आभिचारिकौ. तत्रेषौ कांश्चिद् धर्मान् विधायाह, समानम् इतरच् छ्येनेनेति. एतच् चिन्त्यते. किम् अयम् अनुवादः, विधिर् इति. यदि विधिः, ततो ऽतिदेशः. श्येनधमान् इषाव् अतिदिशति. अथानुवादः, ततो नेति. तत्र किं प्राप्तम्. तत् सूत्रेणैवोपक्रम्यते,
SK
NOTES: *{७/४७: E२: ५,३८६; E६: ३,८}*
SK
समाने पूर्ववत्त्वाद् उत्पन्नाधिकारः स्यात् // MS_७,१.१३ //
SK
समानम् इतरच् छ्येनेनेति. अत्रोत्पन्नाधिकारः स्यात्. अनुवाद इत्य् अर्थः. कुतः. पूर्ववत्त्वात्. अयम् इषुः पूर्ववान्, ज्योतिष्टोमपूर्वकः. ज्यौतिष्टोमिको ऽत्र विध्यन्त इत्य् अर्थः{*७/४८*}. अत्र चोदकेनोत्पन्ना ज्यौतिष्टोमिका धर्माः सन्ति. श्येनो ऽपि ज्योतिष्टोमपूर्वकः. तत्रापि ते सन्ति. ये इषौ श्येने [१२]{*७/४९*} च समाना भन्ति, तान् अधिकृत्यायं वादो युज्यते. तस्माद् उत्पन्नाधिकारत्वाद् अनुवादः. किं चेतरद् इति चाभावे नोपपद्यते. इतरशब्दश् चासन्निहिते ऽनुपपन्नः, सन्निहित एव भवति. यथा, इतर आधारो{*७/५०*} दीयताम्. इतरः कम्बलो दीयताम् इति सन्निहितो दीयते, न प्रावारमात्रं कम्बलमात्रं वा. ज्यौतिष्टोमिकाश् च सन्निहिताः. तस्मात् तेषां वादः. तेषां चेदम् अनुवादः.{*७/५१*} विहिता हि ते चोदकेनेति.
SK
NOTES: *{७/४८: Ṣअड्वि. Bर्. ४.३}* *{७/४९: E२: ५,३८७; E६: ३,८}* *{७/५०: E२: प्रावारो}* *{७/५१: E२ ओम्. तेषां चेदम् अनुवादः}*
SK
श्येनस्येति चेत् // MS_७,१.१४ //
SK
इति चेत् पश्यसि, ज्यौतिष्टोमिकानाम् अनुवाद इति. नैवम्. श्येनस्य वैशेषिकाणां लोहितोष्णीषादीनां धर्माणां विधिः{*७/५२*}. कुतः. श्येनग्रहणसामर्थ्यात्. एवं श्येनग्रहणम् अर्थवत् भविष्यति, धर्मान् विशेषयत्. इतरथानर्थकं स्यात्. सर्वेषां ह्य् एकाहाहीनसत्राणां ते समानाः. तत्र यावद् उक्तं स्यात्, समानम् इतरद् इति, तावद् एव समानम् इतरच् छ्येनेनेति.
SK
NOTES: *{७/५२: Vग्ल्. Ṣअड्वि. Bर्. ४.२.२२}*
SK
नासन्निधानात् // MS_७,१.१५ //
SK
नायं श्येनवैशेषिकाणां वादो युज्यते. कस्मात्. असन्निधानात्. अयम् इतरशब्दः सन्निहिते भवति, न च श्येनशब्देन वैशेषिका इषौ सन्निहिताः{*७/५३*}. यत् तु श्येनशब्दो वैशेषिको भवतीति, विधिपक्षे ऽवैशेषिकत्वं दोषः स्यात्. अनुवादपक्षे तु नैव कश्चिद् विधीयते, किं विशेष्यति. ज्यौतिष्टोमिकास् तु सर्वसाधारणाः सन्तः श्येनस्यापि भवन्तीत्य् अनुवादो युज्यते. तस्माज् ज्यौतिष्टोमिकानाम् एवानुवादः.
SK
[१३]{*७/५४*}
SK
NOTES: *{७/५३: E२: इषौ धर्माः संनिहिताः}* *{७/५४: E२: ५,३८८; E६: ३,९}*
SK
अपि वा यद्य् अपूर्वत्वाद् इतरद् अधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात् // MS_७,१.१६ //
SK
अपि वेति पक्षान्तरपरिग्रहे. विधिर् अयं श्येनवैशेषिकाणाम्, ज्यौतिष्टोमिकानाम्{*७/५५*} अनुवादः. कुतः. अपूर्वत्वात्. एवम् अपूर्वम् अर्थं विधास्यति. तथा प्रवृत्तिविशेषकरो भविष्यति. अनुवादः सन्न् अप्रवृत्तिविशेषकरो ऽनर्थकः स्यात्. नन्व् इतरशब्दो ऽयं सन्निहिते भ्वति. उच्यते, इतरद् अधिकार्थे, समानम् इतरत्, समानम् अधिकम् इत्य् अर्थः. ननु सन्निहितवचनो ऽयं नाधिकार्थ इति{*७/५६*}. उच्यते, न केवलम् अयं सन्निहितवचन एव. पूर्वोक्तसदृशम् असन्निहितम् अपि ब्रूते. अवशिष्टं च. यदा हि वस्त्राण्य् अनुक्रम्येतरशब्दः प्रयुज्यते, देवदत्ताय कम्बलो दीयताम्, विष्णुमित्राय कौशेयम्, यज्ञदत्ताय क्षौमम्, इतरच् चैत्रायेति, तदा वस्त्रम् एव प्रदीयते, न हिरण्यं रजतं वा. इह ज्यौतिष्टोमिकेभ्यो ऽधिकान् धर्मान्{*७/५७*} अनुक्रम्येतरशब्दः प्रयुक्तः. तेनात्राप्य् अधिकान् एव वक्तुम् अर्हति. तथाधिकवचनो भ्वति. अथ ज्यौतिष्टोमिकान् ब्रूते, तथा सन्निहितवचनः. तत्रावश्यम् अन्यतरद् धेयम्. यद्य् अधिकार्थतां हित्वा सन्निहितार्थताश्रीयते, अनुवादमात्रम् अनर्थकं भवति. श्येनशब्दश् चाविवक्षितार्थः. अथ सन्निहितार्थतां हित्वाधिकार्थता गृह्यते, न कश्चिद् दोषो भवति. तस्मात् सूत्रकार आह, इतरद् अधिकार्थ इति. अतो ज्यौतिष्टोमिकाद् विधेर् अधिकाः श्येनवैशेषिका ये, त इहातिदिश्यन्ते. तद्वाचकं [१४]{*७/५८*} समानं स्यात्. समानशब्दः स्याद् इत्य् अर्थः. भवति श्येनशब्दश् च विवक्षितः. चातुर्मास्यानां वैश्वदेव आग्नेयादीनि{*७/५९*} हवींषि सार्थवादवाक्यैर् विहितानि. धर्माश् च तेषाम् उक्ताः. वरुणप्रघासेषु केवलानि हवींष्य् आम्नाय, यद् वैश्वदेविकानां ब्राह्मणम्, तत् तेषाम् अतिदिश्यते, एतद् ब्राह्मणान्य् एव पञ्च हवींषि, यद् ब्राह्मणानीतराणि{*७/६०*} इति. तत्र{*७/६१*} किम् अर्थवादमात्रस्यायम् अतिदेशः, उत सार्थवादकस्य सविधिकस्य काण्डस्येति{*७/६२*}. कथं पुनर् अर्थवादमात्रस्यातिदेशो भवति. यथा पम्पाकुलायप्रतिमाश् च वृक्षा इति. के पुनर् विधयः, के अर्थवादाः. त्रेधा सन्नद्धं बर्हिर् भवति{*७/६३*}, त्रेधा सन्नद्ध इध्मः{*७/६४*}, नव प्रयाजा नव अनुयाजा इत्येवमादयो विधयः. वार्तघ्नानि वैतानि हवींषीत्य् अर्थवादाः. तत्रेदम् उच्यते,
SK
NOTES: *{७/५५: E२: न ज्यौतिष्टोमिकानाम्}* *{७/५६: E२: नाधिकार्थवचन इति}* *{७/५७: E२: ऽधिकान् लोहितोष्णादीन् धर्मान्}* *{७/५८: E२: ५,३८९; E६: ३,१०}* *{७/५९: E२: वैश्वदेवे पुण्याग्नेयादीनि}* *{७/६०: Tऐत्. Bर्. १.६.७.५}* *{७/६१: E२ ओम्. तत्र}* *{७/६२: E२: सविधिकस्य कृत्स्नस्य काण्डस्येति}* *{७/६३: Tऐत्. Bर्. १.६.३.१}* *{७/६४: Mऐत्. S. १.१०.७}*
SK
पञ्चसंचरेष्व् अर्थवादातिदेशः सन्निधानात् // MS_७,१.१७ //
SK
पञ्चतानि हवींषि सर्वपर्वसु संचरन्तीति पञ्चसंचराणीत्य् उच्यन्ते. तेषु पञ्चसंचरेष्व् अर्थवादमात्रस्यातिदेश इति. कुतः. सन्निधानाद् धविषां सन्निहिता अर्थवादाः. विधिभिर्{*७/६५*} एकवाक्यसंबद्धत्वात्, न धर्मविधयः. किम् अतः. अत एतद् भवति, यत् पूर्वेषां ब्राह्मणम् इति व्यपदेशो युज्यते. [१५]{*७/६६*} तद् धि तेषां ब्राह्मणम्, येन विधीयन्ते. को ऽन्यो हविषां ब्राह्मणस्य च संबन्धो ऽन्यत्र विधेयविधायकभावात्. अर्थवादैश् चैतानि विधीयन्ते, न धर्मविधिभिः. धर्मविधिभिस् तु यानि विधीयन्ते, न तानि हवींषि. तस्माद् अर्थवादानाम् अतिदेशो न धर्मविधीनाम्. अपि च वरुणप्रघासेष्व् अपि केचिद् वैश्वदेविका धर्मा विधीयन्ते. यथा, अग्निं मथ्नन्ति प्रसुवो भवन्तीति. तेषाम् अतिदेशेन विहितानां पुनर् आम्नानम् अनर्थकं स्यात्, यदि विधयो ऽतिदिश्येरन्. तस्माद् अर्थवादातिदेश इति.
SK
NOTES: *{७/६५: E२: हविर् विधिभिर्}* *{७/६६: E२: ५,३९०; E६: ३,१०}*
SK
सर्वस्य वैकशब्द्यात् // MS_७,१.१८ //
SK
नैतद् एवम्, अर्थवादमात्रस्यातिदेश इति. सविधिकस्य सार्थवादकस्य काण्डस्यातिदेश{*७/६७*} इति. कुतः. ऐकशब्द्यात्. समानशब्दत्वाद् इत्य् अर्थः. समानो ऽयं ब्राह्मणम् इति शब्दो विधीनाम् अर्थवादानां च. स यथार्थवादान् गृह्णाति, एवं{*७/६८*} विधीन् अपि गृह्णाति चेत्, तान् अप्य् अतिदिशति. यत् तु विधीनां हविर्भिः संबन्धो नास्तीति. विधेयविधायकसंबन्धो नास्ति, उपकारलक्षणः संबन्धो भविष्यति. क उपकारः. यस् एषाम् अङ्गानि विदधाति. अस्ति चेत् संबन्धः, ब्राह्मणशब्दश्रुत्या सर्वातिदेशो न्याय्य इति.
SK
NOTES: *{७/६७: E२: सार्थवादकस्य कृत्स्नस्य काण्डस्यातिदेश}* *{७/६८: E२: एव}*
SK
लिङ्गदर्शनाच् च // MS_७,१.१९ //
SK
लिङ्गं च विधीनाम् अतिदेशं दर्शयति. किं लिङ्गम्. वरुणप्रघासेषु त्रिंशदाहुतयो वाजिनो{*७/६९*} यजन्त्य् आहुतीनां संपत्त्यै त्रिंशत्त्वाय{*७/७०*} इति वरुणप्रघासे{*७/७१*} त्रिंशतम् आहुतीर् दर्शयति. यदि विधयो नातिदिश्येरन्, ता न स्युः. तस्माद् अतिदिश्यन्ते.
SK
[१६]{*७/७२*}
SK
NOTES: *{७/६९: E२: वरुणप्रघासेषु श्रूयते, त्रिंशदाहुतयो हूयेरन्. वाजिनो}* *{७/७०: Kआठक S. ३६.२}* *{७/७१: E२,६: वरुणप्रघासेषु}* *{७/७२: E२: ५,३९१; E६: ३,११}*
SK
विहिताम्नानान् नेति चेत् // MS_७,१.२० //
SK
विहिताम्नानाद् इति यद् उक्तम्, तस्य कः परिहारः. आभाषान्तं{*७/७३*} सूत्रम्{*७/७४*}.
SK
NOTES: *{७/७३: E२: परिहार इति, आभाषान्तं}* *{७/७४: E१ हत् आभाषान्तं सूत्रम् इन् Kलम्मेर्न्}*
SK
नेतरार्थत्वात् // MS_७,१.२१ //
SK
अत्रोच्यते, विध्यतिदेशे ऽपि सति नाग्निमन्थनादीनाम् आम्नानम् अनर्थकम्. इतरस्य हविषो ऽर्थेन भविष्यति, दक्षिणवैहारिकस्य मारुत्याः{*७/७५*}. तस्मान् नैतज् ज्ञापकम्, विधीनाम् अनतिदेशस्य भविष्यति.
SK
NOTES: *{७/७५: Tऐत्. Bर्. १.६.५.१}*
SK
एककपालैन्द्राग्नौ च तद्वत् // MS_७,१.२२ //
SK
वैश्वदेवे एककपाल आम्नातः, द्यावापृथिवीय एककपाल इति, वरुणप्रघासेष्व् अपि काय एककपाल इति. तत्रापरः, ऐन्द्राग्नो द्वादशकपालो मारुत्यामिक्षा{*७/७६*} इति. तथा साकमेधेष्व् अप्य् एककपालैन्द्राग्नाव् आम्नातौ, ऐन्द्राग्न एकादशकपाल इन्द्राय वृत्रघ्ने चरुः वैश्वकर्मण एककपाल इति. तत्रेदम् आम्नातम्. एतद् ब्राह्मण ऐन्द्राग्नः, एतद् ब्राह्मण एककपालः{*७/७७*}, यद् ब्राह्मण इतर इतरश् चेति. तत्रेदम् उच्यते, एककपालैन्द्राग्नौ च तद्वत्, यद्वत् पञ्चसंचराणि. अत्रापि सविधिकस्य सार्थवादकस्य काण्डस्यातिदेशः. तेनैव न्यायेनेति. प्राप्तिसूत्रम् एतद् उत्तरचिन्तार्थम्.
SK
[१७]{*७/७८*}
SK
NOTES: *{७/७६: Mऐत्. S. १.१०.१}* *{७/७७: Tऐत्. Bर्. १.६.७.५}* *{७/७८: E२: ५,३९२; E६: ३,११}*
SK
एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात् // MS_७,१.२३ //
SK
साकमेधे श्रूयते, एतद् ब्राह्मण{*७/७९*} एककपाल इति. तत्र चिन्त्यते, वैश्वदेविकस्यैककपालस्येदं ग्रहणम् उत वारुणप्राघासिकस्येति. किं प्राप्तम्. वैश्वदेविकस्येति ब्रूमः. किं कारणम्. तस्य विहिता धर्माः, अलंकृत्याभिपूर्योपांशु यष्टव्यः, आविः पृष्टः कार्य{*७/८०*} इत्येवमादयः. वारुणप्राघासिकस् त्व् अधर्मकः. यस्य विहिता धर्माः, तत्रैतद् युज्यते वक्तुम्, तद्वद् इदं कर्तव्यम् इति. तस्माद् वैश्वदेविकस्य ग्रहणम्. नन्व् ऐन्द्राग्नसमुच्चारणाद् एककपालो ऽपि वारुणप्राघासिक एव स्यात्. न, अवश्यम् एकपर्वणोर् एव समुच्चारणेन भवितव्यम्, नानापर्वणोर् अपि समुच्चारणम् अविरुद्धम्. तस्माद् वैश्वदेविकस्य ग्रहणम्. इति प्राप्ते उच्यते, वारुणप्राघासिकस्यैककपालस्य ग्रहणम् इति. कुतः. तत{*७/८१*} एककपालानां वैश्वदेविकः प्रकृतिः. कथं ज्ञायते. आग्रयणे सर्वहोमापरिवृत्तिदर्शनात्. आग्रयणे द्यावापृथिवीयस्यैककपालस्य सर्वहोमम् अपर्यावृत्तिं{*७/८२*} च दर्शयति. यत् सर्वहुतं करोति, सा त्व् एका परिचक्षा, हुतो हुतः{*७/८३*} पर्यावर्तते, सा द्वितीया. आज्यस्यैव द्यावापृथिव्यौ यजेति{*७/८४*} इति, आज्ययागविधिपरे वाक्य एककपालस्य सर्वहोमम् अपर्यावृत्तिं च प्राप्तां दर्शयति. एतस्माद् दर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात्. अवभृते चावधारणं भवति, इदम् एवैककपालस्य द्विर् अवद्यतीति. तेन ज्ञायते, नूनम् अन्यत्र न द्विर् अवदानम् इति. तच् चैतत् सर्वं वैश्वदेविक एककपाले विहितम्. तस्माद् एककपालानां वैश्वदेविकः प्रकृतिः. किम् अतः. साकमेधिके ऽप्य् एककपाले वैश्वदेविका धर्माः प्राप्ताः, तेषाम् अतिदेशो ऽनर्थकः. वारुणप्राघासिकस्य ये धर्माः वैशेषिका अप्राप्ताः, तेषाम् अतिदेशो ऽर्थवान्. तस्माद् वारुणप्राघासिकस्यैककपालस्येदं ग्रहणम् इति. उच्यते, लिङ्गम् एतत्. कुतः प्राप्तिर् इति. प्राप्तिम् उत्तरत्र वक्ष्यामः, स्वरसामैककपालामिक्षं चेत्य् अत्र. के पुनस् ते धर्माः. हिरण्यमयः स्रुवः शमीमयो{*७/८५*} वेत्येवमादयः.
SK
[१९]{*७/८६*}
SK
NOTES: *{७/७९: E२: ब्राह्मणं}* *{७/८०: Mऐत्. S. १.१०.७}* *{७/८१: E२: यत}* *{७/८२: ŚPBर्. २.४.३.६}* *{७/८३: E२: ऽहुतः}* *{७/८४: ŚPBर्. २.४.३.९}* *{७/८५: E२: स्रुवो भवन्ति, शमीमयो}* *{७/८६: E२: ५,३९४; E६: ३,१३}*
SK
साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् // MS_७,२.१ //
SK
इदं श्रूयते, रथन्तरम् उत्तरयोर् गायति{*७/८७*}, कवतीषु रथन्तरं गायति{*७/८८*} इत्येवमादीनि समाम्नायन्ते. तत्र चिन्ता, किम् इहातिदिश्यते इति. ननु यद् रथन्तरादिभिः शब्दैर् उच्यते, तद् अतिदिश्यते. बाढम्. तद् एव तु न ज्ञायते किम् एभिः शब्दैर् उच्यत इति. ननु सिद्धम् एतत्, गीतेषु सामाख्या{*७/८९*} इति. तथा सिद्धस्याक्षेपः करिष्यते. स एव तु निर्णयो भविष्यति. यदिओ स एव निर्णयः, किम् अर्थः आक्षेपः. दार्ढ्यार्थः, स्थूणानिखननवत्. तत्र किं प्राप्तम्. तद् उच्यते, स स्तोभस्वरकालाभ्यासविकारायां हिङ्कारप्रणवप्रस्तावोद्गीथप्रतिहारोपद्रवनिधनवत्याम् ऋचि गीतौ{*७/९०*} सामशब्दो ऽभियुक्तैर् उपचर्यते{*७/९१*}. तस्मात् संशयः. उच्यते, ननु गीतौ सत्यां भावाद् नानाख्यस्य संस्कारकर्मणो वाचका एते शब्दा इत्य् उक्तम्. तद् एवेदम् उक्तम् आक्षिप्यते. नेमे संस्कारस्य वाचकाः. किं कारणम्. अकर्मकाले प्रयोगात्. अकर्मकाले साम प्रयुज्यते. न च संस्कारकर्मणि प्रोक्षणावक्षेपणपर्यग्निकरणादीन्य् अकर्मकाले प्रयुज्यन्ते. प्रयोजनाभावात्. अथ नु [२०]{*७/९२*} मन्त्रा एते, ततो ऽन्व् अहं स्वाध्यो ऽध्येतव्य इति नियमाद् अकर्मकाले प्रयोगो युज्यते. तस्माद् ऋचां नामानि. किं च, संज्ञाभेदात्. संज्ञाभेदश् च भवति, रथन्तरं बृहद् इत्येवमादिः. स एकत्वात् संस्कारकर्मणो अनर्थकः. एकेनैव हि तदा पर्याप्तम्. यथा गीतिर् इति. अथर्चां नामानि, ततस् तासां भेदात् संज्ञापृथक्त्वं युक्तम्. अपि च. यदि गानं रथन्तरं गानं च बृहत्, इदं रथन्तरम् इदं बृहद् इति पृथक्त्वेन संज्ञानिवेशो नोपपद्यते. ऋङ्नामत्वे तूपपद्यते. किं च, विकारपृथक्त्वात् तु. प्रतिसाम च विकारपृथक्त्वात्. प्रतिसाम च विकारपृथक्त्वं दृश्यते. तद् एकत्वाद् गानस्य, अनुपपन्नम्. संस्कारभेदे हि विकारपृथक्त्वं दृष्टम्. तद् यथा, अवहन्तेस् तण्डुलीभावः, पिषेश् चूर्णम्. न त्व् एकस्य तण्डुलीभावश् चूर्णनं च. अथर्ङ्नामान्य् एतानि. तत ऋचां भेदाद् विकारपृथक्त्वं युज्यते. तस्माद् ऋङ्नामानीति. तत उत्तरं पठति, साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् इति. साम्नो ऽभिधानशब्देन यथाशिष्टम् प्रवृत्तिः स्यात्. यच् छिष्टं प्रवक्तृभिः शिष्येभ्यः. किं च शिष्टम्. स्तोमादिविशिष्टा ऋक् साम, सा प्रवर्तेत. किं कारणम्. तस्या रथन्तरादि नामधेयम् इति.
SK
NOTES: *{७/८७: SV ६८०, ६८१}* *{७/८८: Tआण्ड्. Bर्. ११.४.२; एबेन्सो zउ ŚBह् अद् MS ७.२.२-३, ८-९, १२, २१}* *{७/८९: MS १.४.३}* *{७/९०: E२ ओम्. गीतौ}* *{७/९१: Cह्U २.१०.१-४}* *{७/९२: E२: ५,३९४; E६: ३,१३}*
SK
शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरे ऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसंबन्धः // MS_७,२.२ //
SK
तुशब्दः पक्षनिवृत्तौ. न त्व् एवं स्यात्, ऋचः प्रवृत्तिर् इति. कथम्. इह कवतीषु रथन्तरं गायतीति कवतीनां वा कार्ये ऽभिवत्यो{*७/९३*} ऽतिदिश्येरन्, कवतीनां{*७/९४*} वोपर्य् [२१]{*७/९५*} आधार्याधेयभावेन{*७/९६*}. तत्र कार्ये तावद् अतिदेशो न घटते. कुतः. शब्दैर् अर्थविधित्वात्. शब्दानाम् अर्थविधानं कार्यम्. न च, कवतीषु रथन्तरं गायतीति कवतीभिर् यो ऽर्थो ऽभिधीयते, तम् अभिवत्यः शक्नुवन्ति वक्तुम्. तस्मान् न कर्यातिदेशः. आधेयत्वे ऽपि न संभवति, पृथग्भावात्. न हि शब्दः शब्दे समवैति, पृथग् एवावतिष्ठते. अभि त्वा, कया न इति{*७/९७*}. क्रियाया हि गानक्रियायाः{*७/९८*} शब्देनाभिसंबन्धो भवेत्, न शब्दस्य. तस्माद् आधेयत्वेनापि नातिदेशः. अतो नायम् ऋचः प्रदेश इति.
SK
NOTES: *{७/९३: Vग्ल्. ṚV ७.३२.२२}* *{७/९४: Vग्ल्. ṚV ४.३१.१}* *{७/९५: E२: ५,३९५; E६: ३,१३}* *{७/९६: E२: आधेयभावेन}* *{७/९७: ṚV ७.३२.२२ उन्द् ४.३१.१}* *{७/९८: E१ हत् गानक्रियायाः इन् Kलम्मेर्न्}*
SK
स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन् // MS_७,२.३ //
SK
स्वार्थ वा प्रवर्तमाना अभिवत्यः कवतीनाम् अङ्गभावेनोपदिश्येरन्. कथं पुनः कवतीषु गायतीत्य् अङ्गभावः शक्य उपदेष्टुम्. शक्यो यथा, येन कर्मणेर्त्सेत् तत्र जयान् जुहुयाद्{*७/९९*} इति. किं पुनः प्रयोजनं कवतीनाम् अभिवत्यो निर्वर्तयन्तीति. उच्यते, प्रयोजनम् अदृष्टं कल्प्यम्. कुतः. क्रियायाः. यस्मात् क्रिया श्रूयते, कवतीषु रथनतरं गायतीति, यथा प्रयाजादीनां प्रयोजनं क्रियायाः. उच्यते, अयम् एवास्मिन् पक्षे दोषः, यत् प्रयोजनं क्रियायाः कल्पयितव्यम्. तस्माद् अयम् अपि पक्षो दुःश्लिष्टः.
SK
NOTES: *{७/९९: Vग्ल्. अद् MS ३.४.२५-२७}*
SK
शब्दमात्रम् इति चेत् // MS_७,२.४ //
SK
इति चेत् पश्यसि, कवत्यङ्गभावेनाभिवतीनाम् उपदेशो दुःश्लिष्ट इति, तेन तर्हि शब्दमात्रं प्रदिश्यताम्. रथ[२२]{*७/१००*}न्तरशब्दं कवतीषु प्रयुञ्जीत. कवतीः रथन्तरशब्देनाभिलपेद् इति. किं कारनम्. शब्द उच्चरिते. तत्र तावन् मुख्या प्रतिपत्तिः. शब्दे कार्यस्यासंभवात्, अर्थे कार्यं विज्ञायते, यथा गाम् आनयेति. इह तु शब्द एव कार्यं संभवति, नार्थे. अतो ऽत्र शब्दं विज्ञास्यामः.
SK
NOTES: *{७/१००: E२: ५,३९६; E२: ३,१४}*
SK
नौत्पत्तिकत्वात् // MS_७,२.५ //
SK
पूर्वस्माद् एष वादः पापीयान्. कस्मात्. औत्पत्तिकत्वात्. औत्पत्तिको हि नामिनाम्नोः संबन्धः. यः शब्दो यस्मिन् अर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धः. न स ततो ऽन्यं प्रत्याययितुं शक्नोति. न हि गोशब्देनाश्वो ऽभिधातुं शक्यते.
SK
शास्त्रं चैवम् अनर्थकं स्यात् // MS_७,२.६ //
SK
एवं च सत्य् अतिदेशशास्त्रम् अनर्थकं स्यात्, अशक्यार्थत्वात्. तस्मान् न शब्दस्यापि प्रदेशो युक्तः. वृत्तिकारस् तु मेने, गानशास्त्रम् औक्थिक्यम् अनर्थकं स्याद् इति. तस्याभिप्रायः, सत्यां गतौ नैतावान् प्रयासः शिष्टानाम् अफलो ऽभ्युपगन्तुं न्याय्य इति.
SK
स्वरस्येति चेत् // MS_७,२.७ //
SK
इति चेत् पश्यसि, नाम्नो ऽतिदेशो ऽयुक्त इति. तेन [२३]{*७/१०१*} तर्हि स्वरस्यातिदेशो भवतु. स्वरः सामशब्देन लोके ऽभिधीयते. सुसामा देवदत्त इति. सुस्वरो देवदत्त इति. स्वरो घोषो नाद{*७/१०२*} इति समानार्थाः. स सामशब्देनोच्यते, साम च रथन्तरम्. तस्मात् तस्यातिदेशः.
SK
NOTES: *{७/१०१: E२: ५,१९६; E६: ३,१५}* *{७/१०२: Vग्ल्. Nइघण्टु ११}*
SK
नार्थाभावाच् छ्रुतेर् असंबन्धः // MS_७,२.८ //
SK
नैतद् एवम्, स्वरस्यातिदेश इति. कुतः. अर्थाभावाद् अर्थस्याभावत्. अर्थस्याभिवतीस्वरस्य कवतीष्व् अभावात्. नन्व् असन्न् एवासाव् अतिदेशेन भाव्यते. उच्यते, भावयितुम् अपि न शक्यते. न ह्य् अभिवत्यक्षराणाम् अभिव्यञ्जको नादः कवतीषु भावयितुं शक्यः. यदि भाव्येत, न कवत्यो भवेयुः. न चेद् भाव्यते, न भूतः. कवतीषु रथन्तरं गायतीत्य् एतस्याः श्रुतेः पदान्तरेणाभिसंबन्धो{*७/१०३*} न स्यात्. तस्मान् न स्वरस्यातिदेशः.
SK
NOTES: *{७/१०३: E२: श्रुतेः पदानां परस्परेणाभिसंबन्धो}*
SK
स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात् // MS_७,२.९ //
SK
तुशब्दः पक्षान्तरपरिग्रहे. यद्य् अभिवतीस्वरस्य कवतीषु प्रदेशो नोपपद्यते, अनुवादो भवतु, कवतीषु रथन्तरं गायतीति. कथम्. तद् उच्यते, इह कवतीषु रथनत्रं गायतीत्य् अस्य वाक्यस्य द्वे वचनव्यक्ती भवतः. कवतीषु यद् रथन्तरम्, तद् गायतीत्य् एका. रथन्तरं यत्, तत् कवतीषु गायतीत्य् अपरा. तयोर् यैषा द्वितीया, रथन्तरं यत् तत् कवतीषु गायतीति. सा स्वरस्य सामत्वे न संभवतीत्य् उक्तम्. न ह्य् अभिवतीस्वरः कवतीषु समावेशयितुं शक्य इति. पूर्वा तु संभवति. कवतीषु यद् रथन्तरम्, तद् गायतीति. ननु सापि न संभवति. न हि कवतीषु रथन्तरम् अस्ति. [२४]{*७/१०४*} अतः परम् उच्यते, स्वरस् तूत्पत्तिषु स्यात्. स्वरस् त्व् अभिवतीस्वरः, कवतीनाम् उत्पत्तिषूच्चारणेषु स्यात्. कथम्. मात्रावर्णाविभक्तत्वात्. बहवो मात्रावर्णाश् चाभिवतीनां कवतीनां चाविभक्ता अभिभवतीष्व् अपि विद्यन्ते, कवतीष्व् अपि. सो ऽसाव् अभिवतीस्वरः कवतीषु साधारणवर्णसमवेतो विद्यते, तस्यानुवादो ऽयं घटते, कवतीषु रथन्तरं गायतीति. तस्मात् स्वरस्यानुवादः.
SK
NOTES: *{७/१०४: E२: ५,३९७; E६: ३,१६}*
SK
लिङ्गदर्शनाच् च // MS_७,२.१० //
SK
लिङ्गं च दृश्यत एतस्मिन्न् अर्थे. अस्ति रथन्तरम् उत्तरयोर्{*७/१०५*} इति. किं तल्लिङ्गं भवति. एवम् आह, रथन्तरम् उत्तरयोर् न पश्यामि{*७/१०६*} इति विश्वामित्रस् तपस् तेपे, बृहद् उत्तरयोर् न पश्यामीति वसिष्ठ इति. यच् च विद्यमानं न दृश्यते, तद्दर्शनाय यत्नः. क्रियते, यथा घटं न पश्यामीति प्रदीपं करोति, न शशविषाणं न पश्यामीति. तस्माद् अस्त्य् उत्तरयो रथन्तरं बृहच् च. तयोर् अनुवाद इति. NOTES: *{७/१०५: SV ६८०, ६८१}* *{७/१०६: SV ८०९-८१०}*
SK
अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति // MS_७,२.११ //
SK
तुशब्दः पक्षं व्यावर्तयति. नैतद् एवम्, स्वरस्यानुवाद इति. कुतः. एवं सत्य् उत्तरासु विकारो न कश्चिच् छ्रुतो भवति. तदोत्तरा यथाश्रुताः प्रयोक्तव्याः. यथा स्वाध्यायकाले श्रुताः. तत्र रथन्तरम् उत्तरयोर् गायतीत्य् एतद् अनुवादमात्रम् अप्रवृत्तिविशेषकरम् अनर्थकम् एवापवद्यते. अतो न स्वरस्यानुवादो युक्तः. [२५]{*७/१०७*}
SK
NOTES: *{७/१०७: E२: ५,३९८; E६: ३,१६}*
SK
शब्दानां चासामञ्जस्यम् // MS_७,२.१२ //
SK
रथन्तरादीनां च सामशब्दानाम् असामञ्जस्यं स्यात्. रथन्तरम् उत्तरयोः, बृहद् उत्तरयोर् इति. कथम्. तद् उच्यते, अयं रथन्तरशब्दो बृहच्छब्दो वा स्वरस्य सामशब्दत्वे स्वरसमुदाय आनुपूर्व्या व्यवस्थिते{*७/१०८*} स्वरविशेषे प्रयुक्तः. स एकदेशे भिन्नानुपूर्व्ये वासमञ्जसो{*७/१०९*} भवति. तस्मात् नैतद् युक्तम्. स्वरस्य सामशब्दः, तस्य चानुवाद इति. अत्राह, एवं भवता सर्वे पक्षा निरुद्धाः. ततः किम् अप्रवृत्तिर् एवेति. उच्यते, ऋच एव प्रदेशो भवतु. ननूक्तम्, न शक्या ऋच ऋगन्तरे प्रदेष्टुम् इति. बाढम्, देशलक्षणा भविष्यति. कवतीषु रथन्तरं गायतीत्य् उच्यते. न च शक्यते कवतीषु रथन्तरं गातुम्. तत्र देशलक्षणा भवति कवतीदेश इति. यथा, अग्नौ तिष्ठति, कूपे तिष्ठतीति. धर्मलक्षणा वा स्यात्. रथन्तरधर्मा वा कवतीषु रथन्तरशब्देनातिदिश्यन्ते. यथा, रथन्तरे प्रस्तूयमाने पृथिवीं मनसा ध्यायेद्{*७/११०*} इत्येवमादयः. यथाचार्ये प्रोषिते, आचार्यानी भवताम् आचार्य{*७/१११*} इत्य् आचार्यशुश्रुषाचार्यान्याम् अतिदिश्यते.
SK
NOTES: *{७/१०८: E२: अवस्थिते}* *{७/१०९: E२: चासमञ्जसो}* *{७/११०: Tआण्ड्. Bर्. ७.७.१५}* *{७/१११: ĀDह्S १.२.७}*
SK
अपि तु कर्मशब्दः स्याद् भावो ऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टो ऽन्यैः // MS_७,२.१३ //
SK
अपि तु नैवं स्यात्, ऋचः सामशब्दः. तस्याश् च प्रदेश इति. तथा देशलक्षणा धर्मलक्षणा वाश्रयणीया. अगतिश् चैषा यल्लक्षणापरिग्रहः. किं तर्हि. कर्मशब्दः स्यात्. रथन्तरादिर् गानाख्यस्य संस्कारकर्मणो वाचकः. कुतः. उक्तो न्यायो गीतिषु सामाख्या{*७/११२*} इत्य् अत्र. तत्र गीति[२६]{*७/११३*}विशिष्टायाम् ऋचि, एष शब्दो दृष्टः. न चागृहीतविशेषणा विशेष्ये बुद्धिर् उत्पद्यते. तस्माद् विशेषणं तावद् अभिधीयते. विशेषणप्रत्ययाच् च सहचरिते विशिष्टे प्रत्ययः. अतो नास्त्य् ऋचः शब्देन संस्पर्श इति. तेनैव न्यायेन गीतिनामधेयम् इति ब्रूमः. किं च प्रसिद्धग्रहणत्वात्. अयं च गायतीति शब्दो गानक्रियायां प्रसिद्धः. का पुनर् असौ शब्दस्योच्चारणविशेषः. गायति गानं करोतीति, तद्ग्रहणश् च रथन्तरादिशब्दः. तद्वचन इत्य् अर्थः. तेन समुच्चारणाद् द्वितीयासामर्थ्याच् च. यथा, आसारितकं गायतीति, वर्धमानकं गायतीति. ननु शब्दवचनेनापि समुच्चारणं भवति, गाथां गायति, ऋचं गायति{*७/११४*} इति. सत्यम्, विपरिणम्य तु शब्दम्, गानेन ऋचं संस्करोतीति यथानिपतितेनार्थेन न संबध्यते गानं करोतीत्य् ऋचम् इति. तस्माद् गीतिवचनः. इतश् च गीतिवचनः. कुतः. विकारो ह्य् अविशिष्टो ऽन्यैः. विकारश् चात्रर्ग्द्रव्यस्य दृश्यते. ह्रस्वानाम् अक्षराणां दीर्घता, दीर्घाणां च ह्रस्वत्वम्. विवृतानां संवृतत्वम्, संवृतानां विवृतत्वम्. सो ऽविशिष्टो ऽन्यैः संस्कारकर्मभिः. यथावहन्तिना व्रीहीणां तण्डुलीभावः, पिषिणा तण्डुलानां पिष्टीभावः. तस्माच् छब्दानां संस्कारो गानाख्यो रथन्तरादिभिः शब्दैर् उच्यते. तस्यायं प्रदेशः, रथन्तरम् उत्तरयोर् गायतीत्येवमादिः.
SK
NOTES: *{७/११२: MS १.४.३}* *{७/११३: E२: ५,३९९; E६: ३,१७}* *{७/११४: ŚPBर्. ८.१.३.३}*
SK
अद्रव्यं चापि दृश्यते // MS_७,२.१४ //
SK
अपि चाद्रव्यं साम दृश्यते. द्रव्यशब्दश् छन्दोगैर् ऋक्ष्व् आचरितः. अद्रव्यम् अनृचम् इत्य् अर्थः. अनृचं साम दृश्यते, प्रजापतेर् हृदयम् अनृचं गायति{*७/११५*} इति. प्रजापतिहृदयं [२७]{*७/११६*} नाम साम. तद् अनृच्य् उत्पन्नम्. यद्य् ऋचि सामशब्दः, कथं प्रजापतिहृदयम् अनृचं स्यात्. अथ गीतेः{*७/११७*} सामशब्दः, ततो विनाप्य् ऋचा गीतिर् भवति. तत्रैतद् उपपद्यते, प्रजापतेर् हृदयम् अनृचं गायतीति. तस्माद् अपि गीतिः साम. ननूक्तम्, संस्कारकर्मत्वे ऽनर्थको ऽकर्मकाले प्रयोग इति. तत्र ब्रूमः,
SK
NOTES: *{७/११५: Mऐत्. S. ३.३.५}* *{७/११६: E२: ५,३९९; E६: ३,१८}* *{७/११७: E२: गीताव् एव}*
SK
तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात् // MS_७,२.१५ //
SK
तस्य क्रियाकर्मकाले ग्रहणार्था शिक्षितुम् अभ्यसितुम् च. नानार्थेषु नानाभूतेष्व् अर्थेषु भिन्नेष्व् इत्य् अर्थः{*७/११८*} विरूपित्वात्, आश्रयभेदाद् विविधरूपं तद्गानं भवति. तत् प्रत्य् ऋचं शिक्षितव्यम् अभ्यसितव्यं च प्रयोगप्राशुभावाय. भूमिरथिकवत्, तद् यथा, भूमिरथिको भूमौ रथम् आलिख्य योग्यां करोति. सा तस्य योग्या{*७/११९*} प्रयोगकाले सौकर्यम् उत्पादयति. अर्थो ह्य् आसां रथन्तरादिसंज्ञानां न लौकिके व्यवहारे सिद्धः, यथावहन्त्यादीनाम्. कुतः. विधानाद्. विधीयते ह्य् असौ शिष्योपाध्यायसंबन्धेन, एवंरूपं रथन्तरं भवतीति. न लौकिको विज्ञायते. तस्मान् न परिचोदनैषा, अकर्मकाले प्रयोगाद् इति.
SK
अथ यद् उक्तम्, संज्ञापृथक्त्वाद् इति. तत्रोच्यते,
SK
NOTES: *{७/११८: E१ हत् इत्य् अर्थः इन् Kलम्मेर्न्}* *{७/११९: E२ ओम्. योग्या}*
SK
तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात् // MS_७,२.१६ //
SK
तस्मिन्न् एकस्मिन्न् अपि गानाख्ये संस्कारे संज्ञाविशेषा भवेयुः. कुतः. विकारपृथक्त्वात्. तुल्ये ऽपि गाने विशेषो{*७/१२०*} [२८]{*७/१२१*} भवति. गानविशेषाच् च संज्ञापृथक्त्वम्. यथा, आसारितकम्, वर्धमानकम् इति{*७/१२२*}, अन्यथालक्षणासारितकगीतिः. अन्यथालक्षणा वर्धमानकगीतिः. एवम् इहाप्य् अन्यथालक्षणा रथन्तरगीतिः, अन्यथालक्षणा बृहद्गीतिः. तस्मात् संज्ञापृथक्त्वम्.
SK
NOTES: *{७/१२०: E२: गानत्वे गानविशेषो}* *{७/१२१: E२: ५,४००; E६: ३,१८}* *{७/१२२: E२: वर्धमानकगीतिः}*
SK
योनिशस् याश् च तुल्यवद् इतराभिर्विधीयन्ते // MS_७,२.१७ //
SK
योनिश् चासौ शस्या च योनिशस्या. योनिशस्याश् चर्चस् तुल्यवद् इतराभिर् अयोनिशस्याभिर् विधीयन्ते. याम्याः शंसति, शिपिविष्टवन्तीः शंसति{*७/१२३*}, रथन्तरस्य योनिम् अनुशंसति, बृहतो योनिम् अनुशंसति{*७/१२४*} इति. का तत्र तुल्यता. शंसतिशब्देनाभिधानम्{*७/१२५*}. इहैतौ स्तौतिशंसतिशब्दौ समाने ऽपि स्तुत्यर्थत्वे व्यवस्थितविषयौ. प्रगीतेषु मन्त्रवाक्येषु स्तौतिशब्दः, अप्रगीतेषु शंसतिशब्दः, यथा, प्रüगं शंसति, निष्केवल्यं{*७/१२६*} शंसतीति. आज्यैः स्तुवते, पृष्ठैः स्तुवन्त इति. अतः शंसतिशब्देन विधानाद् अप्रगीताम् ऋचं रथन्तरस्य योनिं दर्शयति. यदि च गीतिः रथन्तरम्, ततस् तस्याप्रगीता ऋग्योनिः. अन्यथायं व्यपदेशो नोपपद्यते, रथन्तरस्य योनिम् इति. तस्माद् गीतिषु सामाख्या.
SK
NOTES: *{७/१२३: ṚV ७.१००.६}* *{७/१२४: ṚV ४.३१.१; SV १६९}* *{७/१२५: E२: विधानम्}* *{७/१२६: E२: निष्कैवल्यं}*
SK
अयोनौ चापि दृश्यते ऽतथायोनि // MS_७,२.१८ //
SK
अयोनौ च साम दृश्यते. स्थाल्यां सक्त्व् अवधीयत इत्य् आहुर् यद् बृहद् गायत्रीषु क्रियते ऽपि चैनां रुजति. न चास्यां संभवतीति, बृहतो बृहती योनिः. तस्य गायत्रीषु प्राप्तिर् नास्ति, [२९]{*७/१२७*} यद्य् ऋचः सामशब्दः. अथ नु गीतेः, ततः सा बृहद्गीतिर् गायत्रीषु वचनात् प्राप्ता, तस्या अयम् अनुवादो घटते, यद् बृहद् गायत्रीषु क्रियत इति. अतथायोनि च साम दर्शयति. यादृशी यस्य योनिः, ततो ऽन्यादृशे, यो वै विच्छन्दसि सामोहति, स ऋचं संशृणाति, साम वा विलिशति, साम संशृणाति, ऋचं विलिशतीति यतरद् वर्षीयः, तस्य संशरः{*७/१२८*}, तच् च गीताव् एव साम्नि युज्यते, नर्चि. ऊहतिशदश् च गीताव् एव समर्थः, नर्चि. ऋक् चेत्, सैव यथाम्नायं पद्यते. तत्र नास्त्य् ऊहप्रसङ्गः. तस्माद् अपि गीतौ सामशब्दः.
SK
NOTES: *{७/१२७: E२: ५,४०१; E६: ३,१९}* *{७/१२८: E२: तस्य विलेशः. यतरद् वर्षीयस् तस्य संशरः}*
SK
एकार्थ्ये नास्ति वैरूप्यम् इति चेत् // MS_७,२.१९ //
SK
यद् उक्तम्, तस्य क्रिया ग्रहणार्थेति. तत्र परिचोद्यते. ऐकार्थ्ये नास्ति वैरूप्यम् इति. रथन्तरगीतेर् बृहद्गीतिर् अर्थान्तरम्. तेन रथन्तरगीतौ गृहीतायां बृहद्गीतिर् अगृहीता भवतीति युक्तो रथन्तरे गृहीते बृहतः शिक्षार्थम् अकर्मकाले प्रयोगः. रथन्तरगीतेस् त्व् एक एवार्थः. तस्य योन्यां प्रयोगे शिक्षिते पुनर् उत्तरासु न शिक्षितव्यम्. तास्व् अकर्मकाले प्रयोगः संस्कारकर्मत्वे न युक्तो भवति. तस्मान् न संस्कारस्य सामशब्द इति स्थितायां प्रतिज्ञायां सूत्रेण परिचोदयति.
SK
स्याद् अर्थान्तरेषु अनिष्पत्तेर् यथा पाके // MS_७,२.२० //
SK
स्याद् वैरूप्यम्. कुत एतत्. अर्थानत्रेष्व् अनिष्पत्तेः. ऋगन्तरेष्व् आश्रयभेदात्. यथा{*७/१२९*} पाके, यथैक एवायम् अर्थः [३०]{*७/१३०*} पाको नाम. तस्यार्थान्तरे वैरूप्यं भवति. अन्यथालक्षण ओदनस्य पाकः, अन्यथालक्षणो गुडस्य, येनौदनपाको गृहीतः, नासाव् अशिक्षित्वा गुडं पक्तुं जानाति. तस्मात् तस्याप्य् अकर्मकाले प्रयोग उपपद्यते.
SK
NOTES: *{७/१२९: E२: आश्रयभेदाद् भिद्यते. यथा}* *{७/१३०: E२: ५,४०२; E६: ३,२०}*
SK
शब्दानां च सामञ्जस्यम् // MS_७,२.२१ //
SK
एवं च सामशब्दानाम् ऋक्शब्दानां च सामञ्जस्यं भवति. कवतीषु रथन्तरं गायति{*७/१३१*} इति कवतीशब्द ऋच एव{*७/१३२*} वक्षति, रथन्तरशब्दश् च साम. इतरथा कवतीशब्दे वा देशलक्षणा स्यात्. रथन्तरशब्दे वा धर्मलक्षणा. तस्माद् गीतौ सामशब्द इति.
SK
NOTES: *{७/१३१: Tआण्ड्. Bर्. ११.४.२}* *{७/१३२: Tआण्ड्. Bर्. ११.४.२}*
SK
उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र धर्मप्रदेशाः स्यात् // MS_७,३.१ //
SK
नाम्ना धर्मप्रदेशं वक्ष्याम इत्य् आदौ प्रतिज्ञातम्, सो ऽयम् उच्यते. कुण्डपायिनामयने श्रूयते, मासम् अग्निहोत्रं जुहोति{*७/१३३*} इति. तत्रैतत् समधिगतम्, नैयमिकाद् अग्निहोत्रात् कर्मान्तरम् एतद् इति. अधुनाग्निहोत्रशबश् चिन्त्यते, कथम् अयं प्रयुक्त इति. तदर्थम् आरभ्यते, उक्तम् क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्याद् इति. उक्तम् आदौ, क्रियाभिधानं कर्मनामधेयम् अग्निहोत्रशब्द इति तत्प्रख्यं चान्यशास्त्रम् इत्य् अत्र. तस्यान्यत्र श्रुतौ कौण्डपायिनाम् अयनीये जुहोतौ विधिप्रदेशः स्यात् धर्मप्रदेशः{*७/१३४*}. नैयमिकस्याग्निहोत्रस्य ये धर्मास् ते ऽस्मिन्न् अनेन नाम्नातिदिश्येरन्. किं कारणम्. उच्यते, परशब्दो ऽयं परत्र वृत्तः, परशब्दस्य परत्र वृत्तौ तद्वद्भावो गम्यते. स यत्र विज्ञातो भवति तत्रानूद्यते. यथा सिंहो देवदत्त इति. यत्राविज्ञातस् तत्र विधीयते. यथा अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम् इति. इह चाविज्ञातो ऽस्य जुहोतेर् अग्निहोत्रवद्भावः. तस्मात् स विधीयते. मासम् अग्निहोत्रं जुहोतीति, अग्निहोत्रवज् जुहोतीति. कथं पुनर् असति वतिप्रत्यये [३२]{*७/१३५*} वत्यर्थः शक्यो ऽवगन्तुम् इति. उच्यते, साहचर्यात्, अग्निहोत्रशब्दो ऽयं कर्मणा संबद्धः, तत्सहचरितदोहनादिधर्मवत्तां लक्षणया शक्नोति गमयितुम्. शक्नोति चेद् गमयितुम्, प्रदेष्टुम् अपि शक्नोति{*७/१३६*}. एवम् अनत्रेणापि वतिम्, वत्यर्थः शक्यो ऽवगन्तुम् इति.
SK
NOTES: *{७/१३३: Aद् MS २.३.२४}* *{७/१३४: Vग्ल्. Tआण्ड्. Bर्. २५.४.१}* *{७/१३५: E२: ५,४०३; E६: ३,१३}* *{७/१३६: E२: अपि शक्ष्यति}*
SK
अपूर्वे वापि भागित्वात् // MS_७,३.२ //
SK
वापीति विपर्यासेन प्रयुक्ते. अपि वेत्य् अर्थः. अपि वापूर्वे एते उभे अपि कर्मणी स्याताम्, न कौण्डपायिनाम् अयनीयो जुहोतिर् नैयमिकपूर्वः, साधारणं च नामधेयम् उभयोः. कुतः. भागित्वात्. अयम् अपि जुहोतिर् भागी एतस्य नामधेयस्य. यथैव तत्राग्निहोत्रं जुहोतीति समुच्चारणम्, एवम् इहापि, तत्र तुल्ये समुच्चारणे तस्यैवैतन् नामधेयम्, नास्येत्य् अत्र विशेषहेतुर् नास्ति. तस्माद् उभयोः साधारणं नामेति, नास्ति धर्मप्रदेशः. नैतद् युक्तम्. कुतः.
SK
नाम्नस् त्व् औत्पत्तिकत्वात् // MS_७,३.३ //
SK
औत्पत्तिको हि नामिनाम्नोः सम्बन्धः. यन् नाम यस्मिन्न् अर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धम्, तस्मिन्न् एव सदा विज्ञेयम्, नान्यत्र च. तथाव्यवस्थायां शब्दार्थे विश्वासो न स्यात्. उक्तम्, अन्यायश् चानेकार्थत्वम् इति. यदा च नोभयार्थः, तदा नैयमिकं तावद् आह. तत्सादृश्यविधानार्थं चेतरत्रापि प्रयोग उपपद्यत इति नास्तीतराभिधानत्वे हेतुः. तस्माद् विधिप्रदेशः स्यात्.
SK
[३३]{*७/१३७*}
SK
NOTES: *{७/१३७: E२: ५,४०४; E६: ३,१४}*
SK
प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावे ऽप्रसिद्धं स्यात् // MS_७,३.४ //
SK
नैयमिके ऽग्निहोत्रे प्रत्यक्षो गुणसंयोगः. प्रत्यक्षविहिता धर्माः सन्ति. इत्थं दोग्धीत्थं श्रपयति, चतुर् उन्नयति{*७/१३८*}, खादिर्य् अग्निहोत्रसमिद् भवति{*७/१३९*}, इत्थं जुहोति, एवं प्रत्यक्षाद्{*७/१४०*} गुणसंयोगात्, नैयमिकस्य तन् नामधेयम् इह प्रयुज्यमानम्, दोहनादि क्रियाभिधानं स्यात्, धर्मप्रदेशकम् इत्य् अर्थः. अस्य पुनर् जुहोतेर् न केचिद् धर्माः सन्ति. तदभावे तेषां धर्माणाम् अभावे, अप्रसिद्धं स्यात्, न प्रज्ञायेत, किम् अर्थम् अयम् अग्निहोत्रशब्द इह प्रयुक्त इति. एवं वा. प्रत्यक्षो गुणासंयोगो, नैयमिकस्य द्रव्यदेवतासंयोगः. दध्ना जुहोति{*७/१४१*}, पयसा जुहोति{*७/१४२*}, अग्नये च प्रजापतये च सायं जुहोति{*७/१४३*} इति. एतस्मात् प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात्. कर्मनामधेयम्, इत्थंरूपो जुहोतिर् अग्निहोत्राख्य इति. अथेतरजुहोतेः रूपं नास्ति. तदभावे ऽप्रसिद्धं स्यात्, न ज्ञायेत्, कीदृशं तदग्निहोत्रम् इति. ननु मासो ऽस्य रूपं भविष्यति. न, मासः कर्माङ्गम्, कर्तृधर्मः सः. अपि च, अग्निहोत्रं तु मासे विधीयते, न मासेनाग्निहोत्रं रूप्यते. तस्मान् नैयमिकस्यैतन् नामधेयम्, इतरत्र तद्वद् अतिदेश इति. किम् एष एवोत्सर्गः, सर्वं कर्मनाम, अन्यत्र श्रूयमाणं धर्माणां ग्राहकम् इति. एवं खलु प्राप्तम्. एवं प्राप्त इदम् आरभ्यते,
SK
[३४]{*७/१४४*}
SK
NOTES: *{७/१३८: Tऐत्. Bर्. २.१.५.७}* *{७/१३९: Bहरद्वाज ŚS. १.५.२}* *{७/१४०: E२: जुहोति, एतस्मिन् काले जुहोतीत्य् एवं प्रत्यक्षाद्}* *{७/१४१: Mऐत्. S. ४.७.७}* *{७/१४२: Tऐत्. S. ५.४.९}* *{७/१४३: Mऐत्. S. १.८.७}* *{७/१४४: E२: ५,४०५; E६: ३,२२}*
SK
अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् // MS_७,३.५ //
SK
गवामयने श्रूयते, वैश्वानरो ज्योतिष्टोमः, प्रायणीयम् अहर् भवति{*७/१४५*} इति. अस्ति तु द्वादशाहे प्रथमम् अहः प्रायणीयम् नाम, प्रायणीयो ऽतिरात्र{*७/१४६*} इति. तयोर् नानात्वं तेनैव न्यायेन सिद्धम्, प्रकरणान्तरे प्रयोजनान्यत्वम्{*७/१४७*} इति. तत्रायं प्रायणीयशब्दः परत्रापि श्रूयमाणो न धर्माणां ग्राहकः, किं तर्हि. गुणार्थैषा श्रुतिः. कथम्. लक्षणया नामधेयं धर्माणां ग्राहकम् उक्तम्. असति च श्रुत्यर्थे लक्षणार्थो ग्राह्यः. इह तु श्रुत्यर्थ एव संभवति. गुणार्थ एष{*७/१४८*} शब्दः. गुणेन क्रियायोगेन. तस्मिन् कर्मणि श्रुत्यैव प्रयुज्यते. प्रयन्त्य् अनेनेति प्रायणीयम्, प्रवर्तते{*७/१४९*} ऽनेन सत्रम् इति. वाक्यशेषश् चास्यैतम् एवार्थम् आह, ज्योतिर् एव पुरस्ताद् दधाति{*७/१५०*} इति. येन ज्योतिः प्रायणीयं भवति, तेन ज्योतिः पुरस्तात् क्रियत इत्य् अर्थः, ज्योतिर् एव पुरस्ताद् दधातीति. तस्मान् नायम् अतिदेशः.
SK
NOTES: *{७/१४५: ṚV ३.२६.१}* *{७/१४६: Tआण्ड्. Bर्. ४.२.१}* *{७/१४७: प्रकरणान्तरे प्रयोजनान्यत्वम्, MS २.३.२४}* *{७/१४८: E२: एव}* *{७/१४९: E२: प्रवर्तन्ते}* *{७/१५०: Tऐत्. S. ७.४.६}*
SK
विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः // MS_७,३.६ //
SK
विश्वजित् सर्वपृष्ठो भवति{*७/१५१*} इति श्रूयते. तत्र विचार्यते, किम् अयम् अनुवादः, विधिर् इति{*७/१५२*}. किं प्राप्तम्. अनुवाद इति. कुतः. यो ह्य् असर्वपृष्ठः, तस्य सर्वपृष्ठता विधेया. यस् तु सर्वपृष्ठ एव, तस्य तया किं विहितया. अयं च [३५]{*७/१५३*} सर्वपृष्ठ एव. कथम्. तत्पूर्वकत्वाज् ज्योतिष्टोमपूर्वकत्वात्{*७/१५४*}. ज्यौतिष्टोमिकानि स्तोत्राण्य् अत्र प्राप्यन्ते. तेषु माहेन्द्रस्तोत्रादीनि चत्वारि सन्ति. तानि सर्वाण्य् अस्य, तैर् अयं सर्वपृष्ठो भवति. ननु न तानि पृष्ठानि. उच्यते, अस्ति च पृष्ठशब्दः. तेष्व् अस्ति पृष्ठशब्दः, सप्तदशानि पृष्ठानीति. तस्माद् अनुवादः.
SK
NOTES: *{७/१५१: Tऐत्. S. ७.२.५}* *{७/१५२: E२: विधिर् वेति}* *{७/१५३: E२: ५,४०६; E६: ३,२३}* *{७/१५४: E१ हत् ज्योतिष्टोमपूर्वकत्वात् इन् Kलम्मेर्न्}*
SK
षडहाद् वा, तत्र हि चोदनाः // MS_७,३.७ //
SK
नायम् अनुवादः. किं तर्हि. विधिः. अनुवादो ऽप्रवृत्तिविशेषकरो ऽर्थकः{*७/१५५*} स्यात्. अपि च ज्योतिष्टोमे न पृष्ठबहुत्वम् अस्ति, यस्यायम् अनुवादः स्यात्. षडहे तु तद् अस्ति. तत्र हि चोदनाः, पृष्ठानां रथन्तरं पृष्ठं भवति{*७/१५६*} इत्येवमाद्याः. तस्मात् षाडहिकानाम् अतिदेशको{*७/१५७*} विधिर् इति.
SK
NOTES: *{७/१५५: E२: ऽनर्थकः}* *{७/१५६: Tऐत्. Bर्. १.२.२.३}* *{७/१५७: E२: आतिदेशिको}*
SK
लिङ्गाच् च // MS_७,३.८ //
SK
लिङ्गं चैतम् अर्थं दर्शयति. पवमाने रथन्तरं करोत्य् आर्भावे बृहत्, मध्य इतराणि, वैरूपं होतुः साम, वैराजं मैत्रावरुणस्य, रैवतं ब्राह्मणाच् छंसिनः, शाक्वरमच् छावाकस्येति विनिवेशपरे वाक्ये षाडहिकानि पृष्ठानि{*७/१५८*} दर्शयति.
SK
NOTES: *{७/१५८: Tऐत्. Bर्. १.२.२.३}*
SK
उत्पन्नाधिकारो ज्योतिष्टोमः // MS_७,३.९ //
SK
अथ यद् उक्तम्, अस्ति च पृष्ठशब्द इति. तत्र ब्रूमः, न तु एष औत्पत्तिकः पृष्ठशब्दः, उत्पन्नानां स्तोत्राणाम् असाव् अधिकारः, यान्य् एतानि पृष्ठानीति. ज्ञाते च तेषां पृष्ठत्वे तद् उपपद्यते. न च तत्र ज्ञातं. कथं तर्हि अयम् अनुवादः. [३६]{*७/१५९*} लिङ्गसमवायात्. एकं तत्र पृष्ठं{*७/१६०*} माहेन्द्रस्तोत्रम् इति. षाडहिकानां पुनः पृष्ठत्वं ज्ञातम्. कथम्. तत्र हि चोदनेत्य् उक्तम्. तेषां वादे, श्रौतः पृष्ठशब्दस्यार्थः परिगृहीतो भवति. इतरथा लाक्षणिकः. तस्मात् षाडहिकानां प्रदेश इति.
SK
NOTES: *{७/१५९: E२: ५,४०७; E६: ३,३६}* *{७/१६०: E२ ओम्. पृष्ठं}*
SK
द्वयोर् विधिर् इति चेत् // MS_७,३.१० //
SK
इति चेत् पश्यसि, षाडहिकानां पृष्ठानां विधिर् इति. नैतद् युक्तम्. किं कारणम्. द्विकर एवं सर्वपृष्ठशब्दो ऽभ्युपगम्यते{*७/१६१*}, पृष्ठानि च विदधाति. तेषां च सर्वत्वम्. अस्तु, को दोषः. असंभव इत्य् आह. यदि पृष्ठशब्दः पृष्ठानि विदधाति, सर्वशब्देन न शक्यते विशेषयितुम्. अथानुवदति, तथा शक्यते. पृष्ठानि त्व् अविहितानि भवन्ति. तेष्व् असत्सु कस्य इदं सर्वत्वं विधीयते. उभयक्रियायाश् चासंभवः. अथात्र बृहद्रथन्तरयोर् विकल्पेन प्राप्तयोः सामस्त्यं केवलं विधीयते, सर्वपृष्ठो भवति{*७/१६२*} इति. उभे अपि बृहद्रथन्तरे भवतः{*७/१६३*}, नैकम् इति. ततो ऽयं दोषो न भवति. तस्माद् द्वयोर् अधिकारः.
SK
NOTES: *{७/१६१: E२: ऽभ्युपगतो भवति}* *{७/१६२: E१ हत् सर्वपृष्ठो भवति इन् Kलम्मेर्न्}* *{७/१६३: Tऐत्. S. ३.७.१}*
SK
न व्यर्थत्वात् सर्वशब्दस्य // MS_७,३.११ //
SK
नैवम् एतत्. कुतः. व्यर्थत्वात् सर्वशब्दस्य. एवं सति सर्वशब्दो व्यर्थो भवत्य् अर्थशून्यः{*७/१६४*}. अयं हि बहुविषयो द्वयोर् न युज्यते. षाडहिकानां तु विधाने नैष दोषः. ननु च तत्रापि द्विकरः शब्दो भविष्यति. उच्यते, न भविष्यति. सर्वत्वं केवलं पृष्ठानां विधास्यति{*७/१६५*}, न पृष्ठानि. ननूक्तम्, पृष्ठेष्व् असत्सु कस्येदं स्र्वत्वं विधीयत इति. उच्यते, पृष्ठानां सर्वत्वं हि विहितम्, तत् संपादयितव्यम्. न च पृष्ठान्य् अकुर्वता, तत् संपादयितुं शक्यते. तत्रार्थात् पृष्ठानि करिष्यति. एवं न [३७]{*७/१६६*} द्व्यर्थः शब्दो भविष्यति. सर्वशब्दश् च समर्थितः. तस्मात् षाडहिकानाम् अतिदेश इति.
SK
NOTES: *{७/१६४: E१ हत् अर्थशून्यः इन् Kलम्मेर्न्}* *{७/१६५: E२: विधारयति}* *{७/१६६: E२: ५,४०८; E६: ३,२४}*
SK
तथावभृथः सोमात् // MS_७,३.१२ //
SK
वरुणप्रघासेषु श्रूयते, वारुण्या निष्कासेन तुषैश् चावभृथं यन्ति{*७/१६७*} इति. तत्र संदेहः, किं दार्शपूर्णमासिके ऽपां व्युत्सेके तुषनिष्कासं विधीयते, उत सौमिकाद् अवभृथाद् धर्मातिदेश इति. किं युक्तम्. दार्शपूर्णमासिके गुणविधिः. एवं सन्निहितप्रत्ययो ऽनुगृह्यते. सन्निहितो ह्य् असौ चोदकेन प्रापितः. ननु नासाव् अवभृथः. उच्यते, अस्ति तत्रावभृथशब्द इति. एष वै दर्शपूर्णमासयोर् अवभृथ{*७/१६८*} इति. एवं प्राप्त इदम् आह, तथावभृथः सोमात्, यथा षडहात् पृष्ठानाम् अतिदेशः. एवं सौमिकाद् अवभृथाद् इह धर्मातिदेशः. कुतः. अभिहितो न्यायः, उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्याद्{*७/१६९*} इति.
SK
NOTES: *{७/१६७: Tऐत्. Bर्. १.६.५.५; Mऐत्.S. ४.५.९}* *{७/१६८: Tऐत्. S. ७.२.१०}* *{७/१६९: MS ७.३.१}*
SK
प्रकृतेर् इति चेत् // MS_७,३.१३ //
SK
अथ यद् उक्तम्, दार्शपौर्णमासिके ऽवभृथे गुणविधिर् भवत्व् इति, तस्य कः परिहार इत्य् आभाषान्तं सूत्रम्.
SK
न भक्तित्वात् // MS_७,३.१४ //
SK
नैतद् युक्तम्. कुतः. यतो नास्ति दर्शपूर्णमासयोर् अवभृथः. ननु, एष वै दर्शपूर्णमासयोर् अवभृथ{*७/१७०*} इति श्रूयते. [३८]{*७/१७१*} सत्यं श्रूयते, न त्व् एवम् अवभृथत्वम् अस्य भवति. कथम्. उच्यते, एष वै दर्शपूर्णमासयोर् अवभृथ इत्य् एतस्य वाक्यस्य द्वयी वचनव्यक्तिः. निर्ज्ञातावभृथत्वस्य पदार्थस्य वा दर्शपूर्णमाससंबन्ध{*७/१७२*} उच्यते, यथा देवदत्तो यज्ञदत्तस्य पुत्र इति निर्ज्ञातपुत्रत्वस्य देवदत्तस्य यज्ञदत्तसंबन्धः उच्यते. निर्ज्ञातसंबन्धस्य वानिर्ज्ञातावभृथत्वस्यावभृथत्वम्, यथा, अयम् आम्रो यज्ञदत्तस्य पुत्र इति, निर्ज्ञातयज्ञदत्तसंबन्धस्याम्रस्य पुत्रत्वम् उच्यते. तद् अस्यापां व्युत्सेकस्य दर्शपूर्णमानसंबन्धः प्रकरणान् निर्ज्ञातः, नावभृथत्वम्. अतो ऽस्यावभृथत्वम् उच्यते. न चायम् अवभृथः. नन्व् अयम् अप्य् अवभृथो भवतु. नैतद् युक्तम्. अन्यायो ह्य् अनेकार्थत्वम्. कथं तर्हि शब्दप्रयोगः. सादृश्यात्. किं सादृश्यम्. अप्सु संबन्धः. स एष भक्त्या प्रशंसावादो ऽपां व्युत्सेकस्य, अवभृथ इवायम् इति, यथाम्रे पुत्रवादः. तस्मान् नास्ति दर्शपूर्णमासयोर् अवभृथः. अतो नात्र गुणविधिः.
SK
NOTES: *{७/१७०: Tऐत्. S. ७.२.१०}* *{७/१७१: E२: ५,४०९; E६: ३,२५}* *{७/१७२: E२: निर्ज्ञातावभृथत्वस्य वा पदार्थस्य दर्शपूर्णमाससंबन्ध}*
SK
लिङ्गदर्शनाच् च // MS_७,३.१५ //
SK
लिङ्गं चैतम् अर्थं दर्शयति. किं लिङ्गं भवति. एवम् आह, नायुर्दां जुहोति, न साम गायति, न वा गमनमन्त्रं जपति{*७/१७३*} इति. सौमिकावभृथधर्माणां प्रतिषेधं ब्रूवंस् तद्धर्मप्राप्तिं दर्शयति. तस्मात् सौमिकाद् अवभृथाद् धर्मप्रदेश इति.
SK
[३९]{*७/१७४*}
SK
NOTES: *{७/१७३: Āपस्त्.ŚS ८.७.१७}* *{७/१७४: E२: ५,४१०; E६: ३,२५}*
SK
द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात् // MS_७,३.१६ //
SK
वारुणप्राघासिको ऽवभृथः, सौमिकाद् अवभृथाद् धर्माणां ग्राहक इत्य् युक्तम्. तत्रेदं चिन्त्यते, किं पुरोडाशद्रव्यको ऽसौ, उत तुषनिष्कासद्रव्यक इति. किं प्राप्तम्. पुरोडाशद्रव्यक इति. कुतः. नाम्ना पुरोडाशः प्राप्यते. ननु प्रत्यक्षश्रुतं तुषनिष्कासम्. सत्यं प्रत्यक्षश्रुतम्, न तु शक्यते विधातुम्. अवभृथो ऽत्र विधीयते, अवभृथं यन्तीति. यदि तुषनिष्कासम् अपरं विधीयेत, ततो वाक्यं भिद्येत. अवभृथं यन्ति, तच् च तुषनिष्कासेनेति. तुषनिष्कासश्रवणम् इदानीं किम् अर्थम्. अनर्थकम्, संबन्धाभावात्. एवं प्राप्ते ब्रूमः, द्रव्यादेशे तद्द्रव्यः. द्रव्यादेश एतस्मिन्, तुषनिष्कासेनावभृतं यन्तीति. तद्द्रव्यः स्यात्, तुषनिष्कासद्रव्यः. कुतः. श्रुतिसंयोगात्, तुषनिष्कासं प्रत्यक्षश्रुतम्, पुरोडाशस् त्व् आनुमानिकः, अतिदेशेन प्राप्यते. ननु पुरोडाशो ऽपि प्रत्यक्षश्रुतो नाम्ना. यद्य् अपि प्रत्यक्षश्रुतः, सामान्येन तु प्राप्यते, तुषनिष्कासं तु विशेषेण. बाध्यते च सामान्यं विशेषेण. अपि च लक्षणया पुरोडाशो गम्यते, श्रुत्या तुषनिष्कासम्. श्रुतिलक्षणयोश् च श्रुतिर् न्याय्या. तस्मात् तुषनिष्कासद्रव्यक इति. अथ यद् उक्तम्, न संबध्यते ऽवभृथेन तुषनिष्कासम्, वाक्यभेदप्रसङ्गाद् इति. तत्र ब्रूमः, यद्य् अवभृथं विहाय तुषनिष्कासं विधीयते, ततो वाक्यभेदः स्यात्. तुषनिष्कासद्रव्यको ऽपूर्वो ऽवभृथश् चोद्यते. तथा सगुणकर्मविधानम् अविरुद्धम्. अविधीयमाने च तुषनिष्कासे तद्ग्रहणम् अनर्थकम् एव स्यात्. तस्मात् तुषनिष्कासद्रव्यकः. पुरोडाशस् त्व् अनादेशे [४०]{*७/१७५*} तत्प्रकृतित्वात्. यद्य् अत्र प्रत्यक्षश्रुतं न द्रव्यं स्यात्, ततः पुरोडाशस् तुषप्रकृतित्वात् स्यात्. अत्र तु प्रत्यक्षश्रुतं तुषनिष्कासम्, तस्मान् न पुरोडाशः. आतिथ्ये श्रूयते, वैष्णवो नवकपालो भवति{*७/१७६*} इति. तथा राजसूये, पूर्वस्मिंस् त्रिसंयुक्ते वैष्ण्वस् त्रिकपाल इति. तत्र विचारः, यो ऽयं त्रिसंयुक्ते वैष्णवस् त्रिकपाल इति वैष्णवशब्दः, अयम् आतिथ्यधर्माणां ग्राहकः, नेति. किं युक्तम्. ग्राहक इति. कुतः. विहितधर्मके कर्मणि दृष्टः शब्दो ऽन्यस्मिन्न् अविहिते{*७/१७७*} श्रूयमाणो ग्राहक{*७/१७८*} इत्य् उक्तम्, उक्तं क्रियाभिधानम्{*७/१७९*} इति{*७/१८०*}. तत्रायम् अपि विहितधर्मक आतिथ्ये दृष्टः. इदानीम् अविहितधर्मके त्रिसंयुक्ते दृश्यते. तस्माद् धर्माणां ग्राहक इति. एवं प्राप्ते ब्रूमः,
SK
NOTES: *{७/१७५: E२: ५,४१०; E६: ३,४०}* *{७/१७६: Tऐत्. S. ६.२.१}* *{७/१७७: E२: अविहितधर्मके}* *{७/१७८: E२: धर्माणां ग्राहक}* *{७/१७९: उक्तं क्रियाभिधानम्, व्ग्ल्. MS ७.३.१}* *{७/१८०: E२: इत्य् अत्र}*
SK
गुणविधिस् तु न गृह्णीयात् समत्वात् // MS_७,३.१७ //
SK
गुणविधिर् अयम्. आतिथ्यस्य गुणं विष्णुदेवतासंयोगं विदधाति. स एष धर्मान् ग्रहीतुं न शक्नोति. कुतः. समत्वात्. समो ह्य् अयम् आतिथ्ये त्रिसंयुक्ते च. यथा तत्र विष्णुं देवतां{*७/१८१*} विदधाति, एवम् अत्रापि. श्रुत्यर्थासंभवाच् च लक्षणया धर्माणां ग्राहकः कल्प्यते. इह च प्रत्यक्षश्रुत्यर्थ एव संभवति देवताविधिः. तस्मान् नायं ग्राहक इति.
SK
NOTES: *{७/१८१: E२,६: विष्णुदेवतां}*
SK
निर्मन्थ्यादिषु चैवम् // MS_७,३.१८ //
SK
पशाव् अग्नीषोमीये धर्मवान् निर्मन्थ्यो ऽग्निर् आम्नातः. साध्या [४१]{*७/१८२*} वै देवा{*७/१८३*} इत्य् आरभ्याग्नौ श्रूयते, निर्मन्थ्येनेष्टकाः पचन्तीति. तथा, दर्शपूर्णमासयोर् बर्हिराज्ये धर्मवती{*७/१८४*}. पशौ श्रूयते, बर्हिषा यूपावटम् अवस्तृणातीति, आज्येन यूपम् अनक्ति{*७/१८५*} इति. तत्र संदेहः. किं निर्मन्थ्यादयः शब्दाः धर्माणां ग्राहकाः, नेति. तत्राधिकरणातिदेशः क्रियते. निर्मन्थ्यादिषु चैवम्, यथा वैष्णवशब्दे. अत्राप्य् अयं यौगिको निर्मन्थ्यशब्दः सद्योनिर्मथितम् अग्निम् आह. तथा बर्हिर् आज्यम् इति द्रव्यशब्दौ. ते त्रयो ऽपि स्वार्थं विधाय कृतार्था भवन्ति, धर्मान् ग्रहीतुं न शक्नुवन्ति. तस्मान् न ग्राहकाः.
SK
चातुर्मास्येषु श्रूयते, द्वयोः प्रणयन्ति, तस्माद् द्वाभ्याम् एति{*७/१८६*} इति. अस्ति तु सोमे प्रणयनं धर्मवत्, तथा दर्शपूर्णमासयोर् अधर्मकम्. तत्र संदेहः. किं सौमिकम् एतत् प्रणयम्, उत दार्शपौर्णमासिकम् इति. तत्र सूत्रेणैवोपक्रमः.
SK
NOTES: *{७/१८२: E२: ५,४११; E६: ३,२७}* *{७/१८३: Mऐत्. S. ३.९.५ (१५)}* *{७/१८४: Tऐत्. Bर्. ३.७.५.१०}* *{७/१८५: Tऐत्. S. ६.३.३}* *{७/१८६: ŚPBर्. ११.५.३.२,५,८}*
SK
प्रणयनं तु सौमिकम् अवाच्यं{*७/१८७*} हीतरत् // MS_७,३.१९ //
SK
सौमिकम् एतत् प्रणयनम्. किं कारणम्. अवाच्यं हीतरद् दार्शपौर्णमासिकम्{*७/१८८*}, चोदकेन प्राप्तत्वात्. कथं पुनर् अयं प्रणयतिशब्दः, प्रणयनमात्रवचनः सन् सौमिकं प्रणयनविशेषं शक्नोति वक्तुम्. लक्षणयेति ब्रूमः, तीर्थशबवत्, तद् यथा, तीर्थशब्दः, तीर्थमात्रवचनः सन् तीर्थविशेषं धर्मसाधनं कदाचिद् ब्रूते, तीर्थयात्रां गत इति. [४२]{*७/१८९*}
SK
NOTES: *{७/१८७: E२: सौमिकं तु प्रणयनम् अवाच्यं}* *{७/१८८: E१ हत् दार्शपौर्णमासिकम् इन् Kलम्मेर्न्}* *{७/१८९: E२: ५,४१२; E६: ३,२८}*
SK
उत्तरवेदिप्रतिषेधश् च तद्वत् // MS_७,३.२० //
SK
न वैश्वदेव उत्तरवेदिम् उपवयन्ति न सुनासीरीय{*७/१९०*} इति, प्राप्तिपूर्वको हि प्रतिषेधो भवति. सौमिके च प्रणयन उत्तरवेदिर् न दार्शपौर्णमासिके.
SK
NOTES: *{७/१९०: E२: शुनासीरीय}*
SK
प्राकृतं वानामत्वात् // MS_७,३.२१ //
SK
प्राकृतं वैतत्{*७/१९१*} प्रणयनम्, दार्शपौर्णमासिकं. कुतः. अनामत्वत्. प्रणयनशब्दः सौमिकस्य प्रणयनस्य न नामधेयम्. नैतत् तस्य वाचकम् इत्य् अर्थः. यद्य् अयं तस्य वाचकः स्यात्, ततस् तद् इह ब्रूयत्. इदं तु पदार्थनामधेयम्, पदार्थस्य प्राङ्नयनस्य वाचकम्. यस्य वाचकं तद् इह शक्नोत्य् अग्नेः प्राचीनं नयनं वक्तुम्. तच् चेहास्त्य् एव. तस्मात् तस्य वाचकः. एवं{*७/१९२*} सन्निहितप्रत्यो न बाधितो भवति. अथ यद् उक्तम्, तीर्थशबवद् भविष्यतीति. अत्र ब्रूमः, तीर्थशब्दो ऽपि तीर्थमात्रम् एव ब्रूते. तीर्थयात्रां गत इति त्व् उक्त्वा कानिचित् तीर्थान्य् अनुक्रान्तानि. यतो ऽसौ तद्विशिष्टार्थो विज्ञायते. यत्र तु केवलः प्रयुज्यते, तत्र तीर्थमात्रम् एव ब्रूते. यथा, तीर्थे स्नाति, तीर्थम् एव हि समानानां भवतीति. अपि च संभवति श्रुत्यर्थे, लक्षणार्थो ऽग्राह्यः. संभवति चात्र श्रुत्यर्थः. तस्मान् न लक्षणार्थो ग्राह्य इति.
SK
NOTES: *{७/१९१: E२: चैतत्}* *{७/१९२: E२: एव}*
SK
परिसङ्ख्यार्थं श्रवणं गुणार्थम् अर्थवादो वा // MS_७,३.२२ //
SK
तत्राह, यद् उक्तम् अवाच्यं हीतरद्{*७/१९३*} इति, तस्य कः [४३]{*७/१९४*} परिहारः. उच्यते, परिसङ्ख्यार्थं वा स्यात्. द्वयोः प्रणयन्ति, न चतुर्ष्व् इति. गुणार्थम् अर्थवादार्थं वा. तस्माद् द्वाभ्याम् एतीति. तत्र परिसङ्ख्यायां तावत् त्रयो दोषाः. गुणो ऽपि न कश्चिद् विधीयते, परिशेषाद् अर्थवादार्थम्. नन्व् अर्थवादो ऽपि निष्प्रयोजनः, प्रणयनस्य प्राप्तत्वात्. अर्थवादस्य प्रयोजनम्, उत्तरस्मिन्न् अधिकरणे वक्ष्यामः, मध्यमयोर् वा गत्यर्थवादाद् इति.
SK
NOTES: *{७/१९३: MS ७.३.१९}* *{७/१९४: E२: ५,४१५; E६: ३,२८}*
SK
प्रथमोत्तमयोः प्रणयनम् उत्तरवेदिप्रतिषेधात् // MS_७,३.२३ //
SK
द्वयोः प्रणयन्तीति श्रूयते. तत्र संदेहः. कतरयोर् द्वयोर् इति. अनियमे प्राप्ते, उच्यते, प्रथमोत्तमयोः प्रणयनम्. कुतः. उत्तरवेदिप्रतिषेधात्. तत्रोत्तरवेदिः प्रतिषिध्यते, न वैश्वदेव उत्तरवेदिम् उपवयन्तीति, न सुनासीरीय{*७/१९५*} इति. अस्मिन् प्रणयने उत्तरवेद्याम् अग्निनिधानं विहितम्. अतो यत्र प्रणयनम्, तत्रोत्तरवेदिप्राप्तिः. प्राप्तौ च सत्यां प्रतिषेधः, प्रथमोत्तरयोश् चासौ. तस्मात् तयोः प्रणयनम् इति.
SK
NOTES: *{७/१९५: E२: शुनासीरीय}*
SK
मध्यमयोर् वा गत्यर्थवादात् // MS_७,३.२४ //
SK
मध्यमयोर् वा पर्वणोः प्रणयनम्. कुतः. गत्यर्थवादात्. गत्यर्थवादेनैतद् द्वयोः प्रणयनम् उच्यते. तस्माद् द्वाभ्याम् एतीति. ऊरुसंस्तुते वैते{*७/१९६*} पर्वणी, ऊरु वैतौ यज्ञस्य, यद् वरुणप्रघासाश् च{*७/१९७*} साकमेधाश् च{*७/१९८*} इति. ऊरु च गमनसाधने, तत्रैवं स्तुतिसंबन्धो विज्ञायते. ऊरु यज्ञस्य, वरुणप्रघासाश् च साक[४४]{*७/१९९*}मेधाश् चेति, तयोर् द्वयोः प्रणयन्ति. तस्माद् द्वाभ्याम् ऊरुभ्यां यज्ञः समाप्तिं यान्ति. प्रणयनेन हि तौ बलवन्तौ भवतः, अङ्गभूयस्त्वाद् इति. एतत् तदर्थवादस्य प्रयोजनम्.
SK
अथ यद् उक्तम्, उत्तरवेदिप्रतिषेधाद् इति. तत्र ब्रूमः,
SK
NOTES: *{७/१९६: E२: चैते}* *{७/१९७: E२ ओम्. च}* *{७/१९८: ŚPBर्. ११.५.२.३,५}* *{७/१९९: E२: ५,४१६; E६: ३,२९}*
SK
औत्तरवेदिको नारभ्यवादप्रतिषेधः{*७/२००*} // MS_७,३.२५ //
SK
अनारभ्य किंचित् पर्वविशेषम्, चातुर्मास्येषूत्तरवेदिर् आम्नाता, उपात्र वपन्ति{*७/२०१*} इति. तस्यानारभ्यविधेर् अयं प्रतिषेधः. ननु वरुणप्रघासानां गुणवाक्यप्राप्ताव् एवायं तेषाम् एव, अत्रेति वादः स्यात्. नैतद् एवम्, प्रकरणाच् चातुर्मास्यानाम् एव. यदि वरुणप्रघासानां वादः स्यात्, तत्र प्रतिषेधे त्रीण्य् अपि पर्वाण्य् उत्कीर्तयेत्. अथोच्येत, द्वयोः पर्वणोर् वादो भवत्व् इति. अत्र ब्रूमः, न द्वयोः पर्वणोः प्रकरणम्, चातुर्भास्यानां वा प्रकरणम्{*७/२०२*}, वरुणप्रघासानां वा. वरुणप्रघासानां द्वयोः प्रकरणे पर्वणोर् उत्कीर्तनं प्रतिषेधे न स्यात्. तस्माच् चातुर्मास्यानाम् एव वादः. ननु एवम् अप्य् अर्थवादेनैतज् ज्ञातम्, मध्यमयोः प्रणयनम् इति. किम् अर्थं प्राप्तस्य प्रणयनस्य पुनःश्रवणम् इति. अत्र प्रयोजनं नोक्तम्. असति प्रयोजने ऽन्यस्मिन् परिसङ्ख्यार्थम् एव भवति. तत्र दोषा उक्ताः. तस्माद् गुणार्थम् एवैतच् छ्रवणम्. ननु नास्ति कश्चिद् गुणः. उच्यते, गुणः श्रूयते, उत्तरवेद्याम् अग्निनिधानम्. तस्मात् तदर्था पुनः श्रुतिः.
SK
[४५]{*७/२०३*}
SK
NOTES: *{७/२००: E२,६: ऽनारभ्यवादप्रतिषेधः}* *{७/२०१: Mऐत्र्. S. १.१०.१३}* *{७/२०२: E२ ओम्. चातुर्भास्यानां वा प्रकरणम्}* *{७/२०३: E२: ५,४१६; E६: ३,३०}*
SK
स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् // MS_७,३.२६ //
SK
गवामयने श्रूयते, अभितो दिवाकीर्त्यम् अहस्त्रयः स्वरसामानो भवन्ति{*७/२०४*} इति. तेषां विशेषधर्मा आम्नाताः, यथा, सप्तदशा भवन्ति{*७/२०५*}, सन्तततयातिग्राह्या गृह्यन्त{*७/२०६*} इत्येवमादयः. पुनर् अन्यत्र श्रूयते, पृष्ठ्यः षडहो द्वौ स्वरसामानाव् इति. तथा वैश्वदेवे श्रूयते, द्यावापृथिव्य एककपाल इति. तत्राम्नाता विशेषधर्माः, सर्वहुतं जुहोत्य्{*७/२०७*} अपर्यावर्तयञ् जुहोति{*७/२०८*} इति. पुनर् अपरत्र, काय एककपाल इति. तत्रैव श्रूयते, वैश्वदेव्याभिक्षेति. तत्रापि विशेषधर्माः केचिद् आम्नाताः. पुनर् अन्यत्र, मैत्रावरुण्य् आमिक्षेति. तत्र संदेहः. किं स्वरसामशब्दो ऽन्यत्र श्रूयमाणो गवामयनिकेभ्यः स्वरसामभ्यो धर्माणां ग्राहकः, उत नेति. एवम् एककपालामिक्षाशब्दाव् अपि. तत्र गुणविधिस् तु न गृह्णीयात् समत्वाद्{*७/२०९*} इत्य् अग्रहणे प्राप्ते. इदम् उच्यते, स्वरसामैककपालामिक्षं च धर्माणां ग्राहकम्. किं कारणम्. लिङ्गदर्शनात्. लिङ्गं तत्र तादृशं दृश्यते. येन ज्ञायते, सर्व एते धर्माणां ग्राहका इति. स्वरसामसु तावत् पृष्ठ्यः षडहो द्वौ स्वरसमानाव्{*७/२१०*} इत्य् उक्त्वाह. तत्र यत् तृतीयं सप्तदशम् अहस् तत् त्रयस्त्रिंशस्य स्थानम् अभिपर्याहरन्ति, स उत्तराणां स्तोमानाम् अव्यवायाय, त्रयाणां च सप्तदशानाम् अनूचीनतायाइ{*७/२११*} [४६]{*७/२१२*} इति. यद्य् एतौ स्वरसामानौ, गवामायनिकानां धर्माणां ग्राहकौ, तत्रैताव् अपि सप्तदशौ. तथात्र त्रयः सप्तदशा अनूचीना भवन्ति. तत्रैतद् वचनं युज्यते, त्रयाणां सप्तदशानाम् अनूचीनताया इति. तथाग्रयणे, द्याव् आपृथिव्यम् एककपालं विधायाह, यत् सर्वहुतं करोति, सा त्व् एका परिचक्षा, हुतो हुतः{*७/२१३*} पर्यावर्तते, सा द्वितीया. आज्यस्यैव द्याव् आपृथिव्यौ यजेत{*७/२१४*} इति, आज्यविधिपरे वाक्ये सर्वहोमम् अपर्यावृत्तिं च वैश्वदेविकौ धर्मौ प्राप्तौ दर्शयति. तथा मैत्रावरुण्याम् आमिक्षायाम्, न वाजिनेन प्रचरन्ति{*७/२१५*} इति वाजिनेज्यां वैश्वदेविकं धर्मं प्रतिषेधंस् ततो धर्मप्राप्तिं दर्शयति. एतेभ्यो लिङ्गेभ्यो एतज् ज्ञायते, यथास्वं धर्माणां ग्राहका इति. प्रतिपत्त्यर्थकर्म वाजिनेज्यां स्विष्टकृत्तुल्यां मत्वैतद् उक्तम्. आह, लिङ्गम् अपदिष्टम्, कुतः प्राप्तिर् इति. उच्यते, लक्षणया प्राप्तिर्, लिङ्गात् तु लक्षणापरिग्रहः.
SK
NOTES: *{७/२०४: Tऐत्. S. ७.३.१०}* *{७/२०५: Tआण्ड्. Bर्. ४.५.५; Tऐत्. Bर्. १.२.२.१}* *{७/२०६: Tऐत्. Bर्. १.२.२.३,४}* *{७/२०७: Mऐत्. S. १.१०.७}* *{७/२०८: Āपस्त्.Ś.S. ६.३०.१}* *{७/२०९: MS ७.३.१७}* *{७/२१०: E२,६: स्वरसामानाव्}* *{७/२११: Tआण्ड्. Bर्. ४.५.१४}* *{७/२१२: E२: ५,४१७; E६: ३,३०}* *{७/२१३: E२: ऽहुतः}* *{७/२१४: ŚPBर्. २.४.३.९}* *{७/२१५: Tऐत्. S. १.८.१९}*
SK
चोदनासामान्याद् वा // MS_७,३.२७ //
SK
स्वरसामत्वसामायात्, एककपालत्वसामान्यात्, आमिक्षासामान्याद् वा. यस्य लिङ्गम् अर्थसंयोगाद्{*७/२१६*} इत्य् अनेन प्राप्तिर् इति.
SK
क्वचिच् छ्रूयते, वासो ददाति{*७/२१७*}, अनो ददातीति. तत्र विचार्यते, किम्, वाससः, अनसश् च क्रिया प्राप्यते, उत नेति. तत्राह, एवं तावन् नः परीक्ष्यम्. किम् कर्मनिमित्ताव् एतौ [४७]{*७/२१८*} शब्दौ, उताकृतिनिमित्ताव् इति. यदि कर्मनिमित्तौ, ततः प्राप्यते. अथाकृतिनिमित्तौ, ततो नेति. किं तावत् प्राप्तम्. कर्मनिमित्ताव् इति. कुतः. कर्मागमे तद्दर्शनात्. यदा तस्मिन् द्रव्ये दारुणि सूत्रे वा दारुकारेण तन्तुवायेन वा कर्म कृतं भवति, तदैतौ शब्दौ प्रवर्तेते, न प्राक्. अतो विज्ञायते, कर्मनिमित्ताव् इति. यदा कर्मनिमित्तौ, तद् एतद् आरभ्यते,
SK
NOTES: *{७/२१६: MS ८.१.२}* *{७/२१७: Tऐत्. Bर्. १.१.६.११}* *{७/२१८: E२: ५,४१८; E६: ३,३१}*
SK
कर्मजे कर्म यूपवत् // MS_७,३.२८ //
SK
कर्मज एतस्मिन् वास, आदौ द्रव्ये श्रूयंआणे, कर्म प्राप्यते. कथम्. यूपवत्, यथा यूपशब्दो जोषणादिक्रियानिमित्तः, स यत्र श्रूयते, तत्र जोषणाद्याः क्रियाः प्राप्यन्ते, एवम् इहापीति.
SK
रूपं वाशेषभूतत्वात् // MS_७,३.२९ //
SK
अत्रोच्यते, नैतौ कर्मनिमित्तौ. किं कारणम्. ये नैमित्तिकाः शब्दाः, ते निमित्तम् उपलभ्य प्रयुज्यन्ते, यथा दण्डी छत्रीति. इमौ त्व् अनुपलभ्य क्रियाम्, आकृतिमात्रे प्रयुज्येते. तस्मान् नैतौ क्रियानिमित्ताव् इति. अत्रोच्यते{*७/२१९*}, आकृत्या क्रियाम् अनुमाय ततः शब्दं प्रयुङ्क्त इति. अत्र ब्रूमः, प्रत्यक्षां निमित्ततां{*७/२२०*} गम्यमानाम् उत्सृज्य, अदृष्टायां क्रियायां निमित्तत्वकल्पनायां हेतुर् नास्तीति. यत् तूक्तम्, क्रियोत्तरकालं प्रवृत्तिदर्शनाद् इति. अत्र ब्रूमः, प्राक् क्रियाया आकृतिर् अनभिव्यक्ता, सा क्रिययाभिव्यज्यते, यतः क्रियोत्तरकालं शब्दप्रयोगः. तस्माद् आकृतिनिमित्तौ. यदैवम्{*७/२२१*}, तदा सिद्धं रूपं देयम्. कुतः. अशेषभूतत्वात्, नात्र क्रिया [४८]{*७/२२२*} शेषभूता, क्रियावाचिनः शब्दस्याभावात्. यूपे तु प्रत्यक्षविहिता जोषणाद्याः क्रियाः. तस्माद् यूपवद् इत्य् अतुल्योपन्यासः.
SK
NOTES: *{७/२१९: E२: अथोच्येत}* *{७/२२०: E२: अकृतिनिमित्ततां}* *{७/२२१: E२: यद् एवं}* *{७/२२२: E२: ५,४१९; E६: ३,३१}*
SK
विशये लौकिकः स्यात् सर्वार्थत्वात् // MS_७,३.३० //
SK
गर्गत्रिरात्र आज्यदोहानि सामानि प्रकृत्य श्रूयते, अग्निम् उपनिधाय स्तुवत{*७/२२३*} इति. तत्र{*७/२२४*} विशयः, किं लौकिको ऽग्निर् उपनिधेयः{*७/२२५*}, उत वैदिक इति. किं प्राप्तम्. वैदिक इति. कुतः. सर्वकर्मार्थ उत्पन्नो ऽसौ. यान्य् अहं कर्माणि करिष्ये यैश् चास्म्य् अधिकृत इति, अतो वैदिक उपनिधेय इति. एवं प्राप्ते उच्यते, विशये लौकिकः स्यात् सर्वार्थत्वात्. एतस्मिन् विशये लौकिकं वैदिकम् इति, लौकिकः स्यात्.
SK
अथ यद् उक्तम्{*७/२२६*}, वैदिकं सर्वकर्मार्थम् उत्पन्नम्, तस्मात् तदुपनिधेयम् इति. अत्र ब्रूमः,
SK
NOTES: *{७/२२३: Tआण्ड्. Bर्. २१.२.९}* *{७/२२४: E२,६: अत्र}* *{७/२२५: E२: उपविधेयः}* *{७/२२६: E२: लौकिकः स्यात्. कुतः सर्वार्थत्वात्. लौकिकः सर्वार्थः. न तस्य कार्यं किंचिन् निर्दिष्टम्. अतो यद् यद् अग्निना कर्तव्यं दृष्टम् अदृष्टं वा तत् तद् उपादीयमानम् अविरुद्धम्. तस्माल् लौकिकः स्यात्. अथ यद् उक्तम्}*
SK
न वैदिकम् अर्थनिर्देशात् // MS_७,३.३१ //
SK
न वैदिकम् अग्निद्रव्यं शास्त्रेणोत्पादितम्. तस्य शास्त्रेणैव कार्यं निर्दिष्टम्, यदाहवनीये जुहोतीतीय् आरभ्य. तस्मिन् सर्वार्थे कल्प्यमाने निर्देशो ऽनर्थकः स्यात्. तस्माल् लौकिको ऽग्निर् उपनिधेयः. सर्वार्थत्वं चैषां स्वे स्वे कार्ये वर्तमानानां भविष्यति. एवम् उभयम् अविरुद्धम्, सर्वार्थत्वं निर्देशश् चेति. अथ धैष्णा अग्नयः कस्मान् नोपनिधीयन्ते. अत्रोच्यते,
SK
तथोत्पत्तिर् इतरेषां समत्वात् // MS_७,३.३२ //
SK
इतरेषाम् अप्य् अग्नीनां धैष्ण्यानां तथोत्पत्तिः, न सर्वार्थ [४९]{*७/२२७*} इत्य् अर्थः. कुतः. समत्वात्. एते ऽपीतरैर् अग्निभिः समाः. एतेषाम् अपि निर्दिष्टं कार्यं, प्राग् आसीनो धिष्ण्यान् आघारयति{*७/२२८*} इति. अतस् ते नोपनिधेया इति.
SK
NOTES: *{७/२२७: E२: ५,४२०; E६: ३,३२}* *{७/२२८: Tऐत्. S. ६.३.१}*
SK
संस्कृतं स्यात् तच्छब्दत्वात् // MS_७,३.३३ //
SK
एकादशिन्यां श्रूय्ते, उपशयो यूपो भवतीति. तत्र संदेहः. किम् एतद् उपशयद्रव्यं संस्कृतम्, जोषणादयः संस्कारा अत्र कर्तव्याः, उत नेति. किं युक्तम्. संस्कृतं स्यत्. कर्तव्या अत्र जोषणादयः संस्काराः. कुतः. तच्छब्दत्वात्. अयं यूपशब्दः संस्कारनिमित्तः. स एषो ऽसत्सु संस्कारेषु नोपपद्यते. तस्मात् ते कार्या इति.
SK
भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात् // MS_७,३.३४ //
SK
न वा कर्तव्याः. कुतः. अयज्ञशेषत्वाद्. एते संस्कारा अस्मिन् काष्ठे क्रियन्ते. एतेन द्वारेण यजतिना संभत्स्यन्ते. इत्थं संस्कृते काष्ठे नियुक्तेन पशुना यजिः क्रियमाणो ऽपूर्वं निर्वर्तयति{*७/२२९*}. अस्मिंश् चोपशये न पशुर् नियुज्यते, तत्र कृताः संस्कारा अनर्थकाः स्युः. ननु वचनसामर्थ्याद् अदृष्टार्था भविष्यन्ति. उच्यते, नात्र वचनम्, यूपः कर्तव्य इति. वर्तमानापदेशो ऽयम्. ननु वर्तमानापदेशो ऽपि न घटते, संस्काराणाम् अभावे. उच्यते, भक्त्या भविष्यति. यथा, यज[५०]{*७/२३०*}मानो वै यूप इति. आह, तत्र सादृश्यात्. इह पुनः कथम् इति. उच्यते, गुणानाम् अभिधानत्वात्. यूपगुणानां यूपसंस्काराणाम्{*७/२३१*} अभिधानत्वाद् यूपसंस्काराः. तत्र केचिद् अर्थप्राप्ताश् छेदनादयस् तूष्णींकृताः सन्ति. तैर् अयम् अभिधीयते, यूप इत्य् अयूपः सन्. यथा स्नाता कन्यानलंकृता मालागुणेनाप्य् अलंकृतेति. एवम् एकदेशेनापि संस्काराणां संस्कृत इति स्तुत्याभिधीयते.
SK
अग्नौ श्रूयते, पृष्ठैर् उपतिष्ठन्त{*७/२३२*} इति. तत्र चिन्त्यते, किं पृष्ठधर्माः कर्तव्याः, उत नेति. के पुनस् ते. सामान्यधर्मा हिंकारादयः, विशेषधर्माः, रथन्तरे प्रस्तूयमाने पृथिवीं मनसा ध्यायेद् बृहति समुद्रम् इत्येवमादयः. किं तावत् प्राप्तम्. तत आह, एतत् तावन् नः परीक्ष्यम्. किम् अयं प्ष्ठशब्दः कर्मणो वाचकः, उत द्रव्यस्येति. ननु सिद्धम् एतत् कर्मनामधेयं पृष्ठशब्द इति, यस्मिन् गुणोपदेशः प्रधानतो ऽभिसंबन्ध इत्य् अत्र. तास्व् एव चोदनास्व् एतद् उक्तम्, सप्तदशानि पृष्ठानि, वैरूपं पृष्ठं{*७/२३३*} वैराजं पृष्ठम्{*७/२३४*} इति. इदानीम्, पृष्ठैर् उपतिष्ठन्त{*७/२३५*} इत्य् अस्यां चिन्त्यते. किं पुनर् अत्र युक्तम्. तत आह,
SK
NOTES: *{७/२२९: E२: निर्वर्तयतीति}* *{७/२३०: E२: ५,४२१; E६: ३,३३}* *{७/२३१: E१ हत् यूपसंस्काराणाम् इन् Kलम्मेर्न्}* *{७/२३२: Tऐत्. S. ५.५.८; औछ् ŚBह् अद् MS ७.३.३५, ३६}* *{७/२३३: Vग्ल्. Tआण्ड्. Bर्. १४.९.७ वैरूपपृष्ठम्}* *{७/२३४: Vग्ल्. Tआण्ड्. Bर्. १२.१०.१०: वैराजः पृष्ठः}* *{७/२३५: E२: उपतिष्ठत}*
SK
कर्मणः पृष्ठशब्दः स्यात् तथाभूतोपदेशात् // MS_७,३.३५ //
SK
कर्मणः पृष्ठशब्दः{*७/२३६*} स्यात्. कुतः. तथाभूतोपदेशात्. [५१]{*७/२३७*} तथाभूतः{*७/२३८*} सन्न्{*७/२३९*} उपदेशः, यत्रायं पृष्ठशब्दः कर्मनामाधिगतः{*७/२४०*}. तथाभूतो ऽयम् अपि. किम् अस्य तथात्वम्. पृष्ठशब्दसामान्यम्. पृष्ठशब्दस् तत्र कर्मवचनो ऽधिगतः. स एवायम्. तस्माद् इहापि तद्वचन एवावगन्तव्यः विशेषाभावात्. यद्य् अन्यार्थः{*७/२४१*} कल्प्यते, एकः शब्दो ऽनेकार्थः स्यात्. तत्र को दोषः. शब्द उच्चरिते संशयः स्यात्, नार्थप्रत्ययः. तत्र व्यवहारो न सिध्येत्. व्यवहारार्थश् च शब्दप्रयोगः. कारणान्तरं च प्रकरणाद्यपेक्ष्यम्. एकार्थत्वे तु निरपेक्षो ऽर्थप्रत्ययः. तस्माद् अनेकार्थत्वम् अन्याय्यम्. तस्मात् कर्मनाम पृष्ठशब्दः. यदा कर्मनाम, तदा यदि तावत् तानि कर्माणीहोपदिश्यन्ते, तत्रोत्पत्तिर् एषाम् अनर्थिका. अथ मा भूद् एष दोष इत्य् एतद् उपस्थानं तत्र विज्ञायते. तत इदं प्रकरणं बाध्येत. तस्मात् सादृश्यविधिर् अयम्. पृष्ठेर् उपतिष्ठन्ते{*७/२४२*}, पृष्ठसदृशैः कर्मभिर् उपतिष्ठन्त{*७/२४३*} इति, तत्सादृश्यं च धर्मैर् भवति. तस्मात् कर्तव्या धर्मा इति.
SK
NOTES: *{७/२३६: E२: कर्मणो वाचकः पृष्ठशब्दः}* *{७/२३७: E२: ५,४२२; E६: ३,३३}* *{७/२३८: E२: यथाभूतः}* *{७/२३९: E२: स}* *{७/२४०: Hइएर्zउ उन्द् zउम् Fओल्गेन्देन् व्ग्ल्. अद् MS १.४.३}* *{७/२४१: E२: यद्य् अत्रान्यार्थः}* *{७/२४२: E२: उपतिष्ठते}* *{७/२४३: E२: उपतिष्ठत}*
SK
अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात् // MS_७,३.३६ //
SK
न चैतद् एवम्, कर्मणः पृष्ठशब्द इति. किं तर्हि. द्रव्येषु पृष्ठशब्दः स्यात्. ऋग्द्रव्येष्व् अभित्वा शूर नोनुम इत्येवमादीनाम् ऋचां वाचकः. कुतः. अभिधानोपदेशात्. अभिधानोपदेशो ऽयं पृष्ठैर् उपतिष्ठन्त{*७/२४४*} इति, पृष्ठैर् अभिदधातीत्य् अर्थः. कथम् पुनर् अयम् उपस्थानवचनो ऽभिधानार्थः शक्यो{*७/२४५*} विज्ञातुम्. उच्यते, उपग्रहविशेषात्, मन्त्रकरण उपतिष्ठतेर् आत्मनेपदं भवति. मन्त्रस् त्व् अभिधानस्य करणम्, नोप[५२]{*७/२४६*}स्थानस्य. उपस्थानं शरीरेण क्रियते, मनसा वा. तस्माद् अभिधानार्थः. स एष विप्रतिषेधः. यदि पृष्ठशब्दः कर्मसु कल्प्यते, आत्मनेपदं बाध्यते. न हि तदा मन्त्रः करणं भवति. अथात्मनेपदम् अनुरुध्यते, उपस्थानविप्रतिषेधः, तदाभिधानार्थतापतति. तत्रात्मनेपदानुरोधो न्याय्यः. पृष्ठशब्दो हि लक्षणया पृष्ठसाधनं मन्त्रं ब्रुवन्न् अर्थवान् भवति{*७/२४७*}. आत्मनेपदं तु मन्त्रकरणेनैवोपपद्यते. अतः पृष्ठसाधनेषु मन्त्रेषु पृष्ठशब्दः. आह, नैतद् युक्तम्. उपस्थानार्थता हि श्रुत्योपतिष्ठतेः. आत्मनेपदाल् लिङ्गाद् अभिधातार्थता. न च लिङ्गेन श्रुतिर् बाधितव्या. उच्यते, नैवात्र श्रुतिर् बाध्यते. स्वार्थम् एवोपतिष्ठतिर् आह समीपस्थानम्. तत् त्व् अभिधानाय, अभिधानं निर्वर्तयितुम् अग्निसमीपे तिष्ठेद् इति तिष्ठतिर् आह, आत्मनेपदात्. ततो ऽविरोधः. आह, एवम् अप्य् अभिधानस्य मन्त्रः करणम्, नोपतिष्ठतेः. तत्रासंबन्ध एवोपस्थानस्य मन्त्रेण. तथा, पृष्ठैर् उपतिष्ठन्त{*७/२४८*} इति समुच्चारणम् अनर्थकं स्यात्. उच्यते, अभिधानम् अभिनिर्वर्तयन् मन्त्र उपस्थानस्य करणं भवति. यतो ऽस्य प्रयोजनं निर्वर्तयति. न हि निष्प्रयोजनम् अनुष्ठीयते. तस्मान् मन्त्रेष्व् एव पृष्ठशब्दः. मन्त्रेषु चेत्, नास्ति धर्माणां प्राप्तिः. न हि मन्त्राणां धर्माः, अधर्मकास् त इति.
SK
[५३]{*७/२४९*}
SK
NOTES: *{७/२४४: E२: उपतिष्ठत}* *{७/२४५: E२: ऽभिधानार्थशक्यो}* *{७/२४६: E२: ५,४२३; E६: ३,३४}* *{७/२४७: E२ ओम्. भवति}* *{७/२४८: E२: उपतिष्ठत}* *{७/२४९: E२: ५,४२४; E६: ३,३५}*
SK
इतिकर्तव्यताविधेर् यजतेः पूर्ववत्त्वम् // MS_७,४.१ //
SK
अनारभ्य किंचिच् छ्रूयते, सौर्यं चरुं{*७/२५०*} निर्वपेद् ब्रह्मवर्चसकाम{*७/२५१*} इति. तत्रैषो ऽर्थः समधिगतः, यागो ऽयं चोद्यत{*७/२५२*} इति, यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एषां{*७/२५३*} कर्मसंबन्धाद्{*७/२५४*} इति. तथेदम् अप्य् उक्तम्, कर्मफलयोः संबन्धे कर्म गुणतः, फलं प्रधानत इति, प्रत्यर्थं चाभिसंयोगात् कर्मतो ह्य् अभिसंबन्धः, तस्मात् कर्मोपदेशः स्याद् इति. इदम् अपि चोक्तम्, यजिर् अपूर्वं साधयति. ततश् चापूर्वात् कालान्तरे फलं भवतीति, चोदना पुनर् आरम्भ इत्य् अत्र. एवम् एतस्मिन् सति सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम{*७/२५५*} इत्य् अत्र सौर्ययागेनापूर्वं कृत्वा ब्रह्मवर्चसं साधयेद् ब्रह्मवर्चसकाम इत्य् एवं विज्ञायते. आह, यत्र तृतीयायुक्तो यजिः, तत्र युक्तो गुणभावाभ्युपगमः. यथा, ज्योतिष्टोमेन स्वर्गकामो यजेति{*७/२५६*} इति. इह त्व् असत्यां तृतीयायां कथं तृतीयार्थो गम्यत इति. उच्यते, किम् अत्र तृतीयानिर्दिष्टेन यजिना कार्यम्. यदा स्वभावसिद्धः कर्मणां फलं प्रति गुणभावः. यत्राप्य् असौ श्रुतः, तत्राप्य् अकिंचित्कर एव, गतार्थत्वात्. तथा, यत्रापि द्वितीया श्रुतिः, यथाग्निहोत्रं जुहुयाद् इति, तत्रापि विभक्तिव्यत्ययो वा, ईप्सितत्वस्य{*७/२५७*} वाविवक्षा कामं वानर्थक्यं स्यात्. न तु कथंचिद् अपि कर्मणः प्रति गुणभावः शक्यो ऽपह्नोतुम्. तस्माद् यागेनापूर्वसाधनम् अत्रोच्यते. तत्र यागो विज्ञायते. [५४]{*७/२५८*} लौकिको ऽसौ पदार्थः. तेन तु कथम् अपूर्वं साध्यत इत्य् एतन् न विज्ञायते. इह तु यागेनापूर्वं साधयेद् इत्य् एतावद् एवोक्तम्. कथं साधयेद् इतीतिकर्तव्यता नोक्ता. येषां चार्थानां ज्ञायत एवेतिकर्तव्यता, तेषां कर्तव्यत्वमात्रम् उपदिश्यते, यथा, ओदनं पचेद् इति. येषां तु न ज्ञायते, ते सहेतिकर्तव्यतयैवोपदिश्यन्ते. यथा दर्शपूर्णमासौ. एवं चेन् नूनं ज्ञायते, यागेनापूर्वनिर्वृत्ताव् इतिकर्तव्यता यस्माद् उक्ता{*७/२५९*} तस्मान् नूनम् असाव् अस्तीति. आह, यद्य् अस्ति लोके, ततो ज्ञायेतैव. अथ नास्त्य् एव, कथं शक्या ज्ञातुम् इति. उच्यते, बाढम् अस्ति, लौकिकी वैदिकी च. लौकिकी तावत् पार्वणस्थालीपाकादिषु, वैदिकी दर्शपूर्णमासादिषु. यदि तत्पूर्वा एताश् चोदनास् तदपेक्षाः, सौर्ययागेनापूर्वं साधयेत्, यथाज्ञातयेतिकर्तव्यतयेति, ततो युक्त इतिकर्तव्यताया अविधिः. न च विधीयते. अत इतिकर्तव्यताया अविधेर् यजतेः पूर्ववत्त्वं, विहितेतिकर्तव्यताकत्वम् इति.
SK
अथ य आहुः, यजेत यागं कुर्याद् इति. जुहुयाद् होमं कुर्याद् इति. तेषां किं नैव धर्माकाङ्क्षा भवति. भवतीति ब्रूमः. यद्य् अपि प्रज्ञातेतिकर्तव्यतो{*७/२६०*} यजिर् द्रव्यं देवतां प्रत्युत्सृज्यत इति. तथापि यदा फलार्थः क्रियते, तदा धर्मान् आकाङ्क्षति. न ह्य् अधर्मात्{*७/२६१*} फलं भवति. कथं ज्ञायते. यो ह्य् अमेध्यं द्रव्यम् उच्छिष्टः शयानो वा प्रौढपादो वामेन हस्तेन वा पादेन यथाकथंचिद्{*७/२६२*} देवतायै{*७/२६३*} उत्सृजति, तस्य फलं न भवतीति शिष्टाः स्मरन्ति. यस् तु मेध्यं द्रव्यं शुचौ देशे प्रयतः प्राङ्मुखो दक्षिणेन हस्तेन समाहितमना [५५]{*७/२६४*} मन्त्रवन् नियमवच् च देवतायै{*७/२६५*} उत्सृजति, तस्य फलं भवतीति स्मरन्ति. तस्माद् यावान् यजतिः फलायाम्नायते, स सर्वो धर्मान् आकाङ्क्षति. अतस् तेषाम् अप्य् अस्ति धर्माकाङ्क्षा. सत्याम् आकाङ्क्षायां सन्निहितैर् धर्मैर् अविप्रतिषिद्धः संबन्धः प्रकृतौ, विकृतौ{*७/२६६*} त्व् आनुमानिकैः.
SK
NOTES: *{७/२५०: E२: चरूर्}* *{७/२५१: Vग्ल्. Mऐत्र्.S. २.२.२; Tऐत्. S. २.३.२}* *{७/२५२: Vग्ल्. अद् MS २.३.१४}* *{७/२५३: E२: एतेषां}* *{७/२५४: Vग्ल्. अद् MS ६.१.३}* *{७/२५५: Vग्ल्. Mऐत्र्.S. २.२.२; Tऐत्. S. २.३.२}* *{७/२५६: Āपस्त्.Ś.S. १०.२.१}* *{७/२५७: E२: ईप्सिततमत्वस्य}* *{७/२५८: E२: ५,४२५; E६: ३,३५}* *{७/२५९: E२: यस्मान् नोक्ता}* *{७/२६०: E२: प्रज्ञातेतिकर्तव्यताको}* *{७/२६१: E२: अधर्मकात्}* *{७/२६२: E२: पादेन वा यथाकथंचिद्}* *{७/२६३: E२: देवताया}* *{७/२६४: E२: ५,४२६; E६: ३,३६}* *{७/२६५: E२: देवताया}* *{७/२६६: E६ ओम्. विकृतौ}*
SK
स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् // MS_७,४.२ //
SK
अधुनैवं चिन्त्यते, किम् अनियमो लौकिकी वैदिकी वेतिकर्तव्यता, उत लौकिक्य् एव, आहोस्विद् वैदिकीति{*७/२६७*}. अत्र विशेषाभावाद् अनियमे प्राप्ते. उच्यते, स लौकिकः स्यात्. स खलु कर्तव्यतोपायो लौकिकः स्यात्. कुतः. दृष्टप्रवृत्तित्वात्. दृष्टा ह्य् अस्य तत्र तत्र प्रवृत्तिः, यथा पार्वणस्थालीपाके, अष्टकाचरौ, आग्रहायणीयकर्मणि{*७/२६८*}, इत्य् एवं यत्र यत्र यागेनापूर्वं साध्यते, तत्र तत्रास्य प्रवृत्तिर् दृष्टा. अतो ऽन्वयाद् विज्ञायते, यागस्यापूर्वं साधयतो ऽयम् अभ्युपाय इति. अयं चापि यागः. तस्माद् अस्यापि स एवाभ्युपायः.
SK
NOTES: *{७/२६७: E२: वैदिक्य् एवेति}* *{७/२६८: E२: आग्रहायणे कर्मणि}*
SK
वचनात् तु ततो ऽन्यत्वम् // MS_७,४.३ //
SK
आह, किम् एष एवोत्सर्गः, सर्वत्र लोकिकीतिकर्तव्यतेति. एवं खलु प्राप्तम्. एवं प्राप्ते ब्रूमः, वचनात् तु ततो ऽन्यत्वम् इति. यत्र प्रत्यक्षं वचनं वैदिक्याः, तत्र न लौकिकी स्यात्, वचनसामर्थ्याद् वैदिकी एव स्यात्, यथोपसत्सु गृहमेधीये च.
SK
[५६]{*७/२६९*}
SK
NOTES: *{७/२६९: E२: ५,४२८; E६: ३,३७}*
SK
लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् // MS_७,४.४ //
SK
लिङ्गेन वेतिकर्तव्यता नियम्येत. कतरा. यस्या लिङ्गम्, वैदिक्याश् च लिङ्गम्. तस्माद् वैदिकी. किं पुनर् लिङ्गम्. सौर्ये तावच् चरौ श्रूयते, प्रयाजे{*७/२७०*} कृष्णलं जुहोति{*७/२७१*} इति. तथा, ऐन्द्रबार्हस्पत्ये, अर्धं बर्हिषो लुनाति, अर्धं न स्वयं दितम् अर्धं वेद्यां करोत्य् अर्धं न{*७/२७२*} इति. तथा पितृयज्ञेन होतारं{*७/२७३*} वृणीते नार्षेयम् इति. एतैर् लिङ्गैर् ज्ञायते वैदिकीतिकर्तव्यतेति. कथम्. तद्गुणत्वात्{*७/२७४*}. एते हि प्रयाजादयो वैदिकस्यापूर्वस्य गुणाः. यदि च तदीयेतिकर्तव्यता प्रवर्तिता, तत एतेषु कर्मस्व् एते सन्ति. तत्रैतानि वचनान्य् उपपद्यन्ते, प्रयाजे प्रयाजे कृष्णलं जुहोतीत्येवमादीनि. तस्माद् वैदिकीतिकर्तव्यता नियम्येत.
SK
NOTES: *{७/२७०: E२: प्रयाजे पर्याजे}* *{७/२७१: Tऐत्. S. २.३.२}* *{७/२७२: Kआठक S. १५.५}* *{७/२७३: E२: पितृयज्ञे, न होतारं}* *{७/२७४: E२: लिङ्गस्य सद्गुणत्वात्}*
SK
अपि वान्यायपूर्वत्वाद् यत्र नित्यानुवादवचनानि स्युः // MS_७,४.५ //
SK
अपि वा नैवं स्यात्, वैदिकीतिकर्तव्यतेति. यत् कारणम् एतैर् लिङ्गैर् न शक्यते वैदिकी नियन्तुम्. कुतः. अन्यायपूर्वत्वात्. न्यायपूर्वकं हि वचनं तत्साधकं भवति. न चैतानि न्यायपूर्वाणि. न हि वैदिक्याः प्रवृत्तिर् युक्ता, निबद्धा हि सा प्रकरणादिभिः कारणैर् दर्शपूर्णमासादिषु. कथं तर्ह्य् एतानि लिङ्गानि. उच्यते, यत्र नित्यानुवादवचनानि स्युः. इह तावद् अर्धं बर्हिषो लुनात्य् अर्धं नेति, बर्हिर् यत्रैव{*७/२७५*} भवैष्यति. यत् कारणम्, सतो बर्हिष उच्यते{*७/२७६*}. न चेहास्ति बर्हिः. न होतारं वृणीते नार्षेयम् इति नित्यानुवादो भविष्यति. [५७]{*७/२७७*} ननु नित्यानुवादः सन्न् अनर्थको भवति. किं क्रियताम्, यस्यार्थो नास्ति. प्रयाजे प्रयाजे कृष्णलं जुहोतीतिवचनं प्रयाजानां भविष्यति. कथं पुनर् अत्र प्रयाजाश् च कृष्णलहोमश् च शक्यो वक्तुम्{*७/२७८*}. भिद्यते हि तथा वाक्यम्. एवं तर्हि न प्रयाजान् वक्ष्यति. प्रयाजे कृष्णलहोमं विधास्यति. न चासत्सु प्रयाजेषु कृष्णलहोमः शक्यते कर्तुम् इत्य् अर्थात् प्रायाजान् करिष्यति. तस्मान् न लिङ्गेन वैदिक्या नियमः. यथोक्तेन न्यायेन लौकिकीतिकर्तव्यतेति.
SK
NOTES: *{७/२७५: E२: यत्र बर्हिस् तत्रैव}* *{७/२७६: E२: बर्हिष एतद् उच्यते}* *{७/२७७: E२: ५,४२८; E६: ३,३७}* *{७/२७८: E२: च युगपच् छक्यो वक्तुम्}*
SK
मिथो विप्रतिषेधाच् च गुणानां यथार्थकल्पना स्यात् // MS_७,४.६ //
SK
तत्राह, अथ कस्मान् नोभे अपीतिकर्तव्यते सह प्रवर्तेते इति. किम् एवं भविष्यति. एवं तुल्यापेक्षा कर्मणाम् अन्यतरतो न बाधिता भवति. उच्यते, सहप्रवृत्ताव् एकया चेत् कर्म निरपेक्षं कृतम्, द्वितीयस्याः प्रवृत्तिर् विप्रतिषिद्धा. अतो मिथः प्रवृत्तेर् विप्रतिषेधाद् यथार्थकल्पना स्यात्. एकस्याः प्रवृत्तिः स्याद् इति अर्थः. कथम् एकस्याः प्रवृत्तेर् धर्माणां यथार्थकल्पना भवति. ये धर्मा येषु कार्येषु प्रवृत्ताव् उत्पन्नाः, त इहापि तेष्व् एव भवन्ति. इतरथा द्वितीयस्या धर्मा अयथार्था भवेयुः पूर्वैर् धर्मैः, तेषां कार्याणां निर्वर्तितत्वात्. एवम् एकस्याः प्रवृत्तेर् यथार्थकल्पना भवति. अतो यथार्थकल्पना स्याद् इत्य् अनेनैकस्याः प्रवृत्तिर् इत्य् उक्तं भवेत्. एकस्याः प्रवृत्तौ यथोक्तेनैव न्यायेन लौकिक्याः प्रवृत्तिर् इति.
SK
[५८]{*७/२७९*}
SK
NOTES: *{७/२७९: E२: ५,४२९; E६: ३,३८}*
SK
भागित्वात् तु नियम्येत गुणानाम् अभिधानत्वात्, संबन्धाद् अभिधानवद् यथा धेनुः किशोरेण // MS_७,४.७ //{*७/२८०*} तुशब्दः पक्षनिवृत्तौ. न त्व् एवं स्यात्, लौकिकीतिकर्तव्यतेति. किं तर्हि. वैदिकी नियम्येत. कुतः. भागित्वात्. वैदिक्य् अपि भागिनी प्रवृत्तेः. सापि ह्य् अपूर्वस्येतिकर्तव्यता. समाने च भागित्व उभयोर् वैदिक्य् एव स्यात्. गुणानाम् अभिधानत्वात्. गुणा एते प्रयाजादयः सौर्यादिषु दृश्यमाना अभिधायका भवन्त्य् एतस्यार्थस्य. यथा वैदिक्य् अत्रेतिकर्तव्यतेति बोधका भवन्तीत्य् अर्थः. कस्मात्. संबन्धात्. एते हि तयेतिकर्तव्यतया संबद्धाः. अतः साहचर्यात् तां गमयन्ति. अभिधानवत्. यथा कौण्डपायिनामयन अग्निहोत्रम् इत्य् अभिधानं कर्मणो वाचकम्, तत्कर्मसहचरितान् धर्मान् आनयति, तेष्व् असत्स्व् एतद् अभिधानम् इह न युज्यत इति तेषां धर्माणां तत्र भावो विज्ञायते. एवम् इहापि प्रयाजादीनां दर्शनम् असत्यं वैदिक्यां न युज्यत इति, तस्या अपीह भावो विज्ञास्यते. नन्व् असति न्याये लिङ्गम् अकारणम्. सत्यम् एवम्, उक्तस् तु न्यायो भागित्वाद् इति. यत् तु दृष्टप्रवृत्तिर् लौकिकीति. तत्र ब्रूमः, यद्य् अपि दृष्टप्रवृत्तिः स्यात्, तथापि वैदिक्य् एव नियम्येत. कथम्. यथा धेनुः किशोरेण, तद् यथा, कृष्णकिशोरा धेनुर्{*७/२८१*} इति. यद्य् अपि धेनुशब्दो गोधेन्वां दृष्टप्रवृत्तिः, तथाप्य् अभिधानसामान्याद् अश्वधेन्वाम् अपि भागीति किशोरेण लिङ्गेनाश्वधेन्वां विज्ञायते. एवम् इहापि यद्य् अपि लौकिकी दृष्टप्रवृत्तिः, तथापीतिकर्तव्यतासामान्येन भागित्वाल् लिङ्गेन वैदिकी विज्ञेया.
SK
[५९]{*७/२८२*}
SK
NOTES: *{७/२८०: E२ लिएस्त् वोर् MS७.४.७ नोछ्: तर्हि न प्रयाजाव् अन्वयति. प्रयाजेषु कृष्णलहोमं विधास्यति. न चासत्सु प्रयाजेषु कृष्णलहोमः शक्यः कर्तुम् इत्य् अर्थात् प्रयाजान् करिष्यतीति}* *{७/२८१: Aमर २.८.४६}* *{७/२८२: E२: ५,४३०; E६: ३,३९}*
SK
उत्पत्तीनां समत्वाद् वा यथाधिकारं भावः स्यात् // MS_७,४.८ //
SK
अथ वा नैव लिङ्गेन नियम इति. कुतः. उत्पत्तीनां समत्वात्. धर्माणां प्रयाजादीनाम् उत्पत्तयः समाः सर्वेषाम् आग्नेयाद्यङ्गभावेन, न परस्पराङ्गत्वेन. किम् अतः. यदि प्रयाजादीनाम् अनुयाजादयो ऽङ्गानि स्युः, ततो यत्र प्रधानम्, तत्राङ्गानीति प्रयाजदर्शनेनानुयाजादयो ऽनुमीयेरन्, यदा तु समप्रधाना एते, तदा प्रयाजदर्शनेन कामं प्रयाजा अनुमीयेरन्, प्रयाजधर्मा वा. न त्व् अनुयाजादयः. तस्माल् लिङ्गम् अनियामकम्. यत् त्व् अभिधानवद् इति. अत्र ब्रूमः, युक्तं तत्र. तत्र{*७/२८३*} हि परशब्दः परत्र प्रयुक्तः सन् धर्मान्{*७/२८४*} अतिदिशतीत्य् उक्तम्. अपि च, विधिर् असौ. अग्निहोत्रवद् धोतव्यम् इति. अयं पुनर् अनुवादः. तेनात्र प्रयाजादीनाम् एव नास्ति प्राप्तिः, कुतो ऽनुयाजादीनाम्. तस्माद् विषम उपन्यासः, अभिधानवद् इति. अतो यथाधिकारं भावः स्यात्. ये धर्मा यस्यापूर्वस्याधिकार आम्नातास् ते तत्रैव भवेयुः. एवं तर्हि, सौर्यं चरुं निर्वपेद्{*७/२८५*} इत्य् अनेनाख्यातेन प्रधानस्य विधानोत्पत्तिः, शेषाणां च वचनं भवतु. कथं कृत्वा. नानङ्गं प्रधानम् उच्यमानं कस्मैचित् प्रयोजनाय कल्पत इति. तेन च प्रापितानाम् अङ्गानाम् एतेभ्यो लिङ्गेभ्यो विशेषावधारणं भविष्यति. तत्रेदम् उच्यते,
SK
NOTES: *{७/२८३: E२: यत्र}* *{७/२८४: E२: संस् तद्धर्मान्}* *{७/२८५: Vग्ल्. Mऐत्र्.S. २.२.२; Tऐत्. S. २.३.२}*
SK
उत्पत्तिशेषवचनं च विप्रतिषिद्धम् एकस्मिन् // MS_७,४.९ //
SK
एकस्मिञ् शब्दे प्रधानस्योत्पत्तिर् अङ्गानां च वचनं न [६०]{*७/२८६*} संभवति. किं कारणम्. उत्पन्नं हि प्रधानम् अङ्गान् अपेक्षते. अपेक्षया च तानि गृह्यन्ते. तस्मान् नैतद् अपि युक्तम्. यदि च निर्वपेद् इत्य् अनेन शब्देनाङ्गान्य् अपि विधीयेरन्, ततस् तेषाम् अपि फलसंबन्धः स्यात्. तथाङ्गत्वम् एव व्याहन्येत. ततो ऽयम् अपि वादो न घटते. तस्माद् यथोक्तो लौकिक एवाभ्युपायः.
SK
NOTES: *{७/२८६: E२: ५,४३१; E६: ३,३९}*
SK
विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेत, तथा हि लिङ्गदर्शनम् // MS_७,४.१० //
SK
विध्यन्तो वा सौर्यादिकायां चोदनायां प्रवर्तेत, न धर्मा लौकिकाः. कः पुनर् अयं विध्यन्तो नाम. विधेर् अन्तो विध्यन्तः. अथ विधिः कः. यद् वाक्यम् उपलभ्य पुरुषः कस्मिंश्चिद् अर्थे प्रवर्तते, कुतश्चिद् वा निवर्तते, स विधिः. विधीयते ह्य् अनेनार्थः. यथा लोके देवदत्त गाम् अभ्याज शुक्लाम्{*७/२८७*} इति, तस्याभ्याजेत्यादिः{*७/२८८*}. इतरो ऽन्तः. वेदे ऽपि दर्शपूर्णमासाभ्यां यजेतेति विध्यादिः. विध्यन्तो ऽपि प्रधानविधिवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम्. तेन समेतो ऽयं विध्यादिर् विशिष्टापूर्वनिर्वृत्तिं प्रति पुरुषं प्रवर्तयति. तस्मात् सो ऽस्यान्तः. तथा सोमेन यजेत{*७/२८९*} इति विध्यादिः. सौमिकम् अपि ब्राह्मणं विध्यन्तः. एष विध्यन्तो नाम. एतेषु च सौर्यादिषु विध्यादिर् अस्ति, विध्यन्तो नास्ति. एतेष्व् अपि स विध्यन्तः कल्प्येत. कथं कृत्वा. अपरिपूर्णं यद् वाक्यम्, तद् अध्याहारेण वा पूर्येत, व्यवहितकल्पनया वा. तत्राध्याहाराद् व्यवहितकल्पना ज्यायसी. अध्याहारे ह्य् अश्रुतः कल्प्येत{*७/२९०*}. इतरत्र श्रुतेन संबन्धः. तस्माद् व्यवहितो ब्राह्मणावयवो ऽस्य परिपूरकः कल्प्यते. यथा वसन्ताय कपिञ्जलान् आलभते{*७/२९१*}, ग्रीष्माय कलविङ्कान् आलभत{*७/२९२*} इति. तेन वैदिकीतिकर्तव्यता प्राप्यते. यदि{*७/२९३*} तद् ब्राह्मणम् अस्यान्तः कल्प्यते, तत्र न भवति. तद् एतन्मयूरनृत्यम् आपद्यते. तद् यथा, मयूरस्य नृत्यतो ऽन्यदपाव्रियते ऽन्यत् संव्रियते. एवम् इहापीदं संव्रियते तदपाव्रियते. नैष दोषः. प्रत्यक्षस् तस्य तत्र भावः. इह पुनर् आनुमानिकः. न चानुमानिकं प्रत्यक्षं बाधते. इह तर्हि न प्राप्नोति, प्रत्यक्षविरोधात्. स्याद् एवम्, यदि विरोधः स्यात्. न त्व् अस्ति विरोधः. तत्रापि भविष्यति, इहापि तद् एतद् उक्तम्, विध्यन्तो वा प्रकृतिवच् चोदनायां प्रवर्तेतेति. उच्यते, प्रकृतिवद् इति किम्. आह, अष्टमे प्रकृतिनियमं करिष्यति. इयम् अस्य प्रकृतिर् इति. तद् उच्यते, विध्यन्तो वा प्रकृतेर् इव प्रवर्तेत. या या तस्य कर्मणः{*७/२९४*} प्रकृतिर् इति यस्याग्नेयः प्रकृतिः, तस्याग्नेयाद् एव. यस्याग्नीषोमीयः, तस्याग्नीषोमीयाद् इत्य् एवं सर्वत्र. अथ कस्मान् न लौकिको विध्यन्तः कल्प्यते. उच्यते, लौकिकस्य विधेर् अभावाद् विध्यन्त एव नास्ति. कुतस् तत् कल्पनेति. आह, लौकिकीतिकर्तव्यता प्राप्यताम्, किं विध्यन्तकल्पनयेति. उच्यते, वैदिकी ह्य् अत्रेतिकर्तव्यता न लौकिकी. कस्मात्. तथा हि लिङ्गदर्शनं प्रयाजादि समर्थितं भवति.
SK
NOTES: *{७/२८७: Mअहाभाष्य १.१.३.९२}* *{७/२८८: E२: तस्याभ्याजेति विध्यादिः}* *{७/२८९: Tऐत्. S. ३.२.२}* *{७/२९०: E२: अश्रुतः शब्दः कल्प्येत}* *{७/२९१: Vआज. S. २४.२०}* *{७/२९२: Vआज. S. २४.२०}* *{७/२९३: E२: ननु यदि}* *{७/२९४: E२: यो यस्य कर्मणः}*
SK
लिङ्गहेतुत्वाद् अलिङ्गे लौकिकं स्यात् // MS_७,४.११ //
SK
यदि लिङ्गाद् वैदिको ऽभ्युपायो भवति, तेन तर्ह्य् अलिङ्गे लौकिकं स्यात्. यत्र कर्मणि किंचिल् लिङ्गं नास्ति, तत्र लौकिकं स्याद् विधानम्. यथा, ऐन्द्राग्नम् एकादशकपालं निर्वपेत्, यस्य सजातावीयुर् इति.
SK
[६२]{*७/२९५*}
SK
NOTES: *{७/२९५: E२: ५,४३३; E६: ३,४१}*
SK
लिङ्गस्य पूर्ववत्त्वाच् चोदनाशब्दसामान्याद् एकेनापि निरूप्येत यथा स्थालीपुलोकेन // MS_७,४.१२ //
SK
अत्रोच्यते, स्याद् एवम्, यदि लिङ्गहेतुको वैदिक उपायः स्यात्. न त्व् असौ लिङ्गहेतुकः. किंहेतुकस् तु. विध्यन्तहेतुकः. विध्यन्तो ऽपि न्यायपूर्वः, स च न्यायस् तुल्यः सर्वेषां कर्मणां वैकृतानां लिङ्गवताम्{*७/२९६*} च. कुतः. चोदनाशब्दसामान्यात्. कर्मचोदनायां शाब्दः समानः. सर्वत्र विध्यादिर् अस्ति, न विध्यन्तः. तुल्यश् चापेक्षयान्यत्र श्रुतेन विध्यन्तेन संबन्धः. तद् एतन् न्यायपूर्वकं लिङ्गम् एकत्रापि दृश्यमानम्, तुल्यन्यायानां सर्वेषां धर्मवत्तां ज्ञापयति. यथा स्थाल्यां तुल्यपाकानां पुलाकानाम् एकम् उपमृद्यान्य् एषाम् अपि सिद्धतां जानाति, तुल्यो हेतुर् अस्य चान्येषां च सिद्धत्वस्येति. तस्मात् सर्वत्र वैदिकीतिकर्तव्यता. अथ यद् उक्तम्, दृष्टप्रवृत्तिर् लौकिकीतिकर्तव्यतेति. अत्र ब्रूमः, सामान्यतोदृष्टम् एतद् उपदिश्यते. सामान्यतोदृष्टं च यद् अव्यभिचारि, तत् प्रमाणम्. सव्यभिचारं चैतत्. दृष्टा हि गणयागादयो ऽनेवमितिकर्तव्यताकाः. तस्माद् दृष्टप्रवृत्तित्वाद् इत्य् अहेतुः. यत् तु वैदिक्या भागित्वात् तत्पूर्वकाणि लिङ्गानि भविष्यन्तीति. अत्र ब्रूमः, भागित्वस्यापूर्वेतिकर्तव्यताकत्वं{*७/२९७*} किल हेतुः. तद् भावश् च तस्याः शब्दपूर्वः. शब्देन च दर्शपूर्णमासयोर् असौ विज्ञायते{*७/२९८*}, न सर्वत्रेति. तस्मान् न भागित्वम्. अतो विध्यन्तेनैवेतिकर्तव्यता प्राप्यते, नान्यथा. अथ कस्माद् एतानि वैकृतानि वाक्यानि न्यूनान्य् एव नानुमन्यन्ते, किम् एभिः पूरितैः. न्यूनान्य् अनर्थकानि भवन्ति. भवन्तु, को [६३]{*७/२९९*} दोषः. शिष्टैर् एषां संपरिग्रहो न युज्यते. प्रमादाद् भविष्यतीति. नास्त्य् अक्षरे मात्रायां वा प्रमादः. कुतो एतावति ग्रन्थे भविष्यति. कथम्. तुल्यं च सांप्रदायिकम्{*७/३००*} इत्य् उक्तम्. व्यामोहो ऽपि विदुषां युगसहस्राणि बहूनि नानुवर्तेत. युज्यते चैषाम् अपेक्षया पूरणम्. तस्माद् ऊनानि नानुमन्यन्ते. अतो वैदिकीतिकर्तव्यतेति सिद्धम्.
SK
NOTES: *{७/२९६: E२: लिङ्गवताम् अलिङ्गवतां}* *{७/२९७: E२: भागित्वस्यापूर्वेतिकर्तव्यतात्वं}* *{७/२९८: E२: असाव् इति ज्ञायते}* *{७/२९९: E२: ५,४३४; E६: ३,४२}* *{७/३००: तुल्यं च साम्प्रदायिकम् (MS १.२.८)}*
SK
द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वाद् ऐकाहिकम् अधिकागमात् तदाख्यं स्याद् एकाहवत् // MS_७,४.१३ //
SK
प्रजाकामा गवामयनम् उपेयुर्{*७/३०१*} इति सत्रं विधायाम्नायते, ज्योतिर् गौर् आयुर्{*७/३०२*} इति, गवामयने द्वादशाहिको विध्यन्त इति वक्ष्यति{*७/३०३*}, गणेषु द्वादशाहस्य{*७/३०४*} इति. तत्र चोदकेन द्वादशाहिका धर्माः प्राप्यन्ते. एकाहानाम् अपि यथा स्वं नामभिः प्रातिस्विकाः. ये तत्र द्वादशाहिका ऐकाहिकैर् अविरुद्धाः, ते यथाप्राप्तं क्रियन्ते. विरुद्धेषु संशयः. किं द्वादशाहिको धर्मः कर्तव्यः, उतैकाहिक इति. किं प्राप्तम्. तत्र सूत्रेणैवोपक्रमः. द्वादशाहिकम् अहर्गणे तत्प्रकृतित्वात्. द्वादशाहप्रकृतित्वाद् विध्यन्तेनैव प्राप्यन्ते. नन्व् एवं नामधेयं बाध्यते. न बाधिष्यते नामधेयं ज्योतिर् आदि. अधिकागमाद् भविष्यति. ये ज्यौतिष्टौमिकेभ्यो ऽधिकाः स्तोत्रशस्त्रविकाराः, तदागमात्, एकाहवत्. यथा तस्मिन्न् एव ज्योतिष्य् एकाहे ज्योतिःशब्दो ऽधिकागमाद् भवति. सत्सु ज्यौतिष्टौमिकेषु ज्योतिष्टोमे ऽभावात्. अधिकधर्मार्थो ऽयं शब्दः, [६४]{*७/३०५*} न चाधिकानां द्वादशाहिकैर् विरोधो ऽस्ति. तस्माद् द्वादशाहिकं धर्मजातं विरुद्धं कर्तव्यम् इति. अधिकागमात् तदाख्यं स्याद् एकाहवद् इत्य् एतस्यापरा व्याख्या. ये द्वादशाहे ऽधिका ऐकाहिकेभ्यः केचिद् धर्मा उच्यन्ते. अभिप्लवो ऽन्वहं भवति{*७/३०६*}, गोरिवीतम्{*७/३०७*} अन्वहं भवतीति. तेषाम् अधिकानाम् आगमात् तदाख्यं स्यात्. एतद् द्वादशाहिकम् अहर्ज्योतिराख्यम् आयुराख्यं वा{*७/३०८*}. कथम्. एकाहवत्. यथा तस्मिन्न् एवैकाहे ऽयं ज्योतिरादिशब्दो ज्यौतिष्टौमिकेभ्यो ऽधिकेषु वैशेषिकेषु धर्मेष्व् आगतेषु भवति, एवम् इहाप्य् अधिकागमसामान्याद् गौणो भविष्यति. यथा षाडहिकानां पृष्ठानां भावाद् एकाहो विश्वजित् षडह{*७/३०९*} इत्य् उक्तम्. तम् एकाहं षडह इत्य् आचक्षत{*७/३१०*} इति. एवम् इहापि. गौणश् चेन् न प्रापकः. तस्मान् नास्ति नामधेयाद् धर्मप्राप्तिर् इति.
SK
NOTES: *{७/३०१: Tआण्ड्. Bर्. ४.१.४,७}* *{७/३०२: Aइत्. Bर्. १८.१५; Tऐत्. S. ७.४.४}* *{७/३०३: Aद् MS ८.१.१७}* *{७/३०४: MS ८.१.१७}* *{७/३०५: E२: ५,४३५; E६: ३,४२}* *{७/३०६: Tआण्ड्. Bर्. ५.८.४}* *{७/३०७: E२: गौरिवीतम्}* *{७/३०८: Aइत्. Bर्. १८.१५}* *{७/३०९: Tआण्ड्. Bर्. १६.५.२४}* *{७/३१०: Vग्ल्. अद् MS ७.३.६ ff}*
SK
लिङ्गाच् च // MS_७,४.१४ //
SK
लिङ्गाच् चैतज् ज्ञायते, यथा द्वादशाहिकं कर्तव्यम् इति. किं लिङ्गं भवति. द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्याम् असृग् द्वाभ्यां मांसम्{*७/३११*} इति. एवं षड्द्विकान् अनुक्रम्याह, यद् द्वादशोपसदो भवन्ति, आत्मानम् एतन् निर्वद्यत इति द्वादशाहिकं धर्मं द्वादशोपसत्त्वं दर्शयति. तद् उपपद्यते, यदि द्वादशाहिकं धर्मजातं विरोधि कर्तव्यम्. इतरथा चैकाहिकं षडुपसत्त्वं{*७/३१२*} स्यात्{*७/३१३*}. तस्मात् पश्यामः, द्वादशाहिकं कर्तव्यम् इति. तथेदम् अपरं लिङ्गम्. यस्यातिरिक्तम् एकादशिन्याम् आलभेरन् न प्रियं{*७/३१४*} भ्रातृव्यम् अतिरिच्येत. अथ यद् द्वौ पशू समस्येयुः, कनीय आयुः कुर्वीरन्{*७/३१५*}. यद्य् एते ब्राह्मणवन्तः पशव आलम्भन्ते नाप्रियं भ्रातृव्यम् अत्यतिरिच्यते [६५]{*७/३१६*} न कनीय आयुः कुर्वीतेति{*७/३१७*}, एकादशिन्यां विहारं द्वादशाहिकं धर्मं दर्शयति. कथम्. विहारे सत्य् अतिरेकः पशूनाम् आपद्यते. अतिरेकभयाच् च द्वयोर् द्वयोः समासः. एकाहधर्मप्राप्तौ विहारो न स्यात्. तत्रैतद्दर्शनं न युज्यते. तस्माद् द्वादशाहिकं कार्यम्.
SK
NOTES: *{७/३११: Tऐत्. S. ७.४.९}* *{७/३१२: E२: त्र्युपसत्त्वं}* *{७/३१३: Tऐत्. S. ६.२.५}* *{७/३१४: E२: अप्रियं}* *{७/३१५: Tऐत्. Bर्. १.२.५.३}* *{७/३१६: E२: ५,४३६; E६: ३,४३}* *{७/३१७: E२: कुर्वत इति}*
SK
न वा क्रत्वभिधानाद् अधिकानाम् अशब्दत्वम् // MS_७,४.१५ //
SK
न वा द्वादशाहिकं कार्यम्. किं तर्हि. एकाहिकम्. किं कारणम्. चोदकेन द्वादशाहिकं प्राप्नोति, नामधेयेनैकाहिकम्. नामधेयं च चोदकाद् बलीयः. कुतः. प्रत्यक्षत्वात्. प्रत्यक्षं नामधेयम्, चोदकं त्व् आनुमानिकम्. ननु विध्यन्तो ऽपि प्रत्यक्षः. सत्यं प्रकृतौ प्रत्यक्षो विध्यन्तः, विकृतौ त्व् आनुमानिकः, नामधेयं पुनर् विकृताव् अपि प्रत्यक्षम्, प्रत्यक्षं चानुमानाद् बलीयः, तस्माद् ऐकाहिकं कार्यम्. नन्व् अधिकार्यं नामधेयम् इत्य् उक्तम्. अत्रोच्यते, अधिकानाम् अशब्दत्वम्. अधिकानां शब्दो नास्ति. इमे ज्योतिरादयः शब्दाः कर्मनामधेयानीत्य् उक्तम्. अपि वा नामधेयं स्याद् यद् उत्पत्ताव् अपूर्वम् अविधायकत्वाद्{*७/३१८*} इति. यत् तु, अधिकागमात् तदाख्यं स्याद् इति. तत्र ब्रूमः, वचनाद् अधिकागमो न नामधेयेन. यत् तु, तेष्व् असत्सु शब्दस्याभावाद् इति. नैते कदाचिद् आयुरादिषु न सन्ति. कथं तेषाम् अभावे शब्दस्याभावो दृष्टः. यत् तु, ज्योतिष्टोमे नास्ति ज्योतिरादिः शब्द इति. कर्मान्तरत्वात्. ज्योतिष्टोम आयुरादिः शब्दो नास्ति, न धर्माभावात्. तस्माद् ऐकाहिकं विरुद्धं धर्मजातं कर्तव्यम् इति. अधिकागमात् तदाख्यं स्यात्. एकाहवद् इत्य् एतस्य द्वितीयव्याख्यापरिहारः. गौणः सन्न् अनु[६६]{*७/३१९*}वादमात्रम् अनर्थकं स्यात्. तस्मात् पूर्वोक्तेन न्यायेन नामधेयं धर्माणां प्रापकम् इति.
SK
NOTES: *{७/३१८: MS १.४.२}* *{७/३१९: E२: ५,४३७; E६: ३,४४}*
SK
लिङ्गं संघातधर्मः स्यात् तदर्थापत्तेर् द्रव्यवत् // MS_७,४.१६ //
SK
अथ यल् लिङ्गम् उपदिष्टम्, द्वादशोपसत्त्वदर्शनम्, तस्य परिहार उच्यते. लिङ्गं संघातधर्मः स्यात्. लिङ्गम् एतत्संघातधर्मः स्यात्. द्वादशाहो ऽहःसंघातः. स फलाय चोद्यते. द्वादशाहम् ऋद्धिकामा उपेयुर् इति. गवामयनम् अपि अहःसंघातान्तरम्. तस्मिन्न् एव कार्ये फलसिद्धौ विधीयते. तस्य तत्कार्यापत्त्या द्वादशाहधर्मान् गृह्णाति, न चोदकेन, द्रव्यवत्. यथा द्रव्ये व्रीहौ धर्माः श्रुतास् ते तत्कार्यापन्नेषु प्रतिनिधिभूतेषु{*७/३२०*} प्राप्यन्ते, न चोदकेन तद्वत्.
SK
NOTES: *{७/३२०: E२: तत्कार्यापन्नेषु नीवारेषु प्रतिनिधिभूतेषु}*
SK
न वार्थधर्मत्वात् संघातस्य गुणत्वात् // MS_७,४.१७ //
SK
नैतद् युक्तम्. कुतः. अर्थधर्मत्वात्. अपूर्वधर्मत्वाद् इत्य् अर्थः. अपूर्वधर्मो द्वादशोपसत्त्वं न संघातधर्मः. कस्मात्. संघातस्य गुणत्वात्. अहान्य् अत्र प्रधानानि. द्वादशाहेनेति द्वादशत्वं{*७/३२१*} तेषां गुणः. विशेषणम् इत्य् अर्थः. विशिष्य एव कार्यं प्रतीयते, न विशेषणे. यथा राजपुरुष आनीयताम् इत्य् उक्ते पुरुष आनीयते, न राजा. यथा च, मृष्टं भुङ्क्ते देवदत्त इत्य् उक्ते, न शाकं सूपो वा प्रतीयते. यद् एव प्रधानं तत् प्रतीयते. किम् अतः. अतो ऽहानि फलवन्ति, न संघातः. फलवतश् च धर्माः. तस्मान् न द्वादशोपसत्त्वं संघातधर्मः. एवं [६७]{*७/३२२*} चेन् न गवामयने कार्यापत्तितो धर्माः प्राप्यन्ते. अतो ऽपरिहारो ऽयम्.
SK
NOTES: *{७/३२१: E२: द्वादशाहत्वं}* *{७/३२२: E२: ५,४३८; E६: ३,४४}*
SK
अर्थापत्तेर् द्रव्येषु धर्मलाभः स्यात्//६.४.१८//
SK
यद् उक्तम्{*७/३२३*}, द्रव्यवद् इति. युक्तं द्रव्येषु. तत्र हि व्रीहिकार्यापन्ना नीवाराः कार्यापत्तितस् तद्धर्मांल् लभन्ते. इह पुनर् द्वादशोपसत्त्वं नैव संघातधर्म इत्य् अपदिष्टो हेतुः. तस्माद् अदृष्टान्तो द्रव्यवद् इति. आह, कथं तर्हि इदं लिङ्गदर्शनम्. अत्रोच्यते,
SK
NOTES: *{७/३२३: E२: यच् चोक्तम्}*
SK
प्रवृत्त्या नियतस्य लिङ्गदर्शनम् // MS_७,४.१९ //
SK
गवामयने द्वादशाहिकं प्रथमम् अहः, प्रायणीयो ऽतिरात्रः. तस्य धर्मो द्वादशोपसत्त्वम्. तदुपादाने मुख्यस्यानुग्रहः. षडुपसत्त्वोपादाने जघन्यानां ज्योतिरादीनाम्, मुख्यस्य प्राप्तकालम् अनुग्रहम् अतिक्रमितुम् किंचित् कार्यं{*७/३२४*} नास्ति. अतस् तदनुग्रहार्थं द्वादशोपसत्त्वं भवति. तथा मुख्यया{*७/३२५*} प्रवृत्त्या नियतस्यैतद्दर्शनम्, न चोदकप्राप्त्या. यस्माच् चोदको नामधेयाद् अबलः. वक्ष्यति च, विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मत्वम्{*७/३२६*}. मुख्यं वापूर्वचोदनाल् लोकवद्{*७/३२७*} इति. अथ यद् द्वितीयं लिङ्गदर्शनम् उक्तम्, एकादशिन्यां विहारदर्शनम्. तत्रोच्यते,
SK
[६८]{*७/३२८*}
SK
NOTES: *{७/३२४: E२: कारणं}* *{७/३२५: E२: तस्मान् मुख्यया}* *{७/३२६: MS १२.२.२४}* *{७/३२७: MS १२.२.२५}* *{७/३२८: E२: ५,४३९; E६: ३,४५}*
SK
विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थत्वात् // MS_७,४.२० //
SK
अनारभ्यैकादशिन्यां विहारः शिष्टः. तदादिप्रभवाः पशवः{*७/३२९*} स्युः. तथा{*७/३३०*} तान् एवानूचीनान् अहरहर् आलभेरन्, आग्नेयम् एव प्रथमे ऽहन्य् आलभेरन्, सारस्वतीं मेषीं द्वितीये, सौम्यं बभ्रुं तृतीये, वारुणम् अन्ततः. अथ पुनः पर्यावर्तेष्व्{*७/३३१*} आग्नेयम् एव प्रथमे ऽहन्य् आलभेरन्, सारस्वतीं मेषीं द्वितीये, सौम्यं बभ्रुं तृतीये, वारुणम् अन्तत इति. तद् अनारभ्यवादानां प्रकृत्यर्थत्वाज् ज्योतिष्टोमं प्रविष्टम्. तत्राह्नां बहुत्वस्याभावाद् असंभवाद् अपरां प्रकृतिं द्वादशाहम् आगतम्. तत्रापि पुनर् ज्योतिरादीनां पर्यावर्तेष्व् इत्य् एतन् न युज्यत इति तृतीयां प्रकृतिं गवामयने प्रविष्टम्{*७/३३२*}. एवम् आगतस्यैतद् दर्शनम् इति.
SK
NOTES: *{७/३२९: E२: यथा हि प्रभवः पशवः; F२ (fन्.): ते यदि प्रभवः पशवः}* *{७/३३०: E२ ओम्. तथा}* *{७/३३१: E२: पुनर् ज्योतिरादीनां पर्यावर्तेष्व्}* *{७/३३२: E२: गवामयनम् आपन्नम्}*

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Jaimini: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya (sa_jaimini-mImAMsAsUtra-1-7-comm.htm).

Source