The Garland of the Jewel Mantra

Cinmantramālinī

The Garland of the Jewel Mantra

Cinmantramālinī

SK
प्. ४०) चिन्मन्त्रमालिनी अथ पञ्चदशनित्यानां उपसनाक्रमोलिख्यते - प्रतिपदारभ्यपर्वान्तं क्रमेण कामेश्वर्यादिचित्रीतं तत्तत्तिथौ तद्विद्यां घटिक्षर क्रमेणणष्टि संख्याजपन् सन्ध्यात्रयेऽपि कुर्यात् | तद्यथा - प्रातःस्नान वेलायां तत्तद्विद्यां त्रि जप्त्वा अपःपीत्वा तत्तद्विद्या जप्त्वाद्भिरात्मानंमभिषिच्यांत्र्य पूर्वं वस्त्रयरधान संध्यावंधनादिकं कृत्वा शुचौ देशे स्वगृहे वा मृदुलासने प्राङ्मुखः उपविश्य पद्मासनः सन् प्राणायाम भूतशुद्ध्यादिकं कृत्वा कर्पूरवासितांगारको भूत्वा स्वशिरसिगुरुंध्यात्वा प्रीणयित्वानमस्कृत्यमातृकान्यासं कृत्वा प्रथमायां तिथौ श्रीमहात्रिपुरसुन्दरी प्रीतिकामोऽहं कामेश्वरी नित्या विद्याजपं करिष्ये | इति संकल्प्य ऐं हृदयाय नमः सकलह्रीं शिरसे स्वाहा | प्. ४१) नित्याशिखायैवषट्किन्ने कवचाय हुं | मद्रद्रवे नेत्रत्रयाय वौषट् | सौः अस्त्राय फट् | एवं कराङ्गयोर्विन्यस्य ऐं सकलह्रीं इति नेत्रयोः नित्य इति श्रोत्रयोः क्लिन्न इति नासिकायां जिह्वायां हृदि इ नाभौवे गुह्येसौः इति सर्वांगेषु स्थानेष्वेकैकमेवंविन्यस्य समस्तेन व्यापकं कृत्वा ध्यायेत् | बालार्ककोटिसङ्काशां माणिक्यमकुटोज्ज्वलाम् | हारग्रैवेयकाञ्चीभिरूर्मिकानूपुरादिभिः | मण्डितां रक्तवसनां रक्ताभरण शोभिताम् | षड्भुजां त्र्यक्षणामिन्दुकलाकलितमौलिकाम् | पञ्चाष्टषोडशद्वन्द्वषट्कोण चतुरश्रगाम् | मन्दस्मितलसद्वक्त्रां दयामन्थर वीक्षणाम् | पाशांकुशे च पुण्ड्रेक्षु चापां पुष्पशिलीमुखाम् | रत्नपात्रसीथुपूर्णं वरदं बिभ्रती करैः | एवं ध्यात्वा योनिमुद्रां कृत्वा यथा संकल्पितं जपं कृत्वा पुनः षडङ्गान् विधाय श्रीविद्योपासनं कुर्यात् | मूलमन्त्रं ऐंसकलकह्रीं नित्यक्लिन्नेमदद्रवेसौः | अयं कामेश्वरीमूलमंत्रः |
SK
द्वितीयायां पूर्ववत् प्रातः स्नानादिकं कृत्वाभगमालिनीविद्यां जपेत् | गुरुवन्दनादि मातृकान्यासं कृत्वा | ऐं हृदयाय नमः भगभगावहे अस्त्राय फट् | एवं कराङ्गयोः विन्यस्य समस्तेन व्यापकं कृत्वा ध्यायेत् अरुणामरुणाकल्पां सुन्दरि सुस्मिताननां त्रिनेत्रो बाहुभिः षड्भिरूपेतां कमलासनीकल्हार पाशपुण्ड्रेक्षुकेदंडान्नामबाहुभिः दधानां दक्षिणैः पद्ममंकुशं पुष्पसायकान् तथाविधाभिः प्. ४२) परितो वृतीशक्तिगणैः स्तुताम् | एवं ध्यात्वा योनिमुद्रां बध्वा यथा सङ्कल्पितं जपं कृत्वा पुनः षडङ्गं विधाय श्रीविद्योपासनं कुर्यात् || ऐं भगभुगेभागेनि भगोदरे भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनी सर्वभगवशंकरी भगरूपे नित्यक्लिन्ने भगस्वरूपिणी सर्वाणि भगानि मेह्यानयवरदेरेतेसुरेते भगक्लिन्नेक्लेदय द्रावय अमोघे भगविच्चे क्षुभक्षोभय सर्वसत्वान् भगेश्वरी ऐं ल्लूं ज्ञें व्लूं पें ल्लूं म्ॐ व्लूं ऐं क्लिन्नेसर्वाणि भगानिमेवशमानय स्वाहा स्त्रींहरलें ह्रीं इति भगमालिनीमन्त्रः || तृतीयायां पूर्ववत्प्रातःस्नानादिकं विधाय नित्यक्लिन्नाविद्यां जपेत् | गुरुवन्दनादि मातृकान्यासं कृत्वा ह्रीं हृदयाय नमः नित्याशिरसे स्वाहा | क्लिन्ने शिखायै वषट् | मदकवचायहुम् | द्रवे नेत्रत्रयाय वौषट् स्वाहा अस्त्राय फट् | अरुणा मरुणा कल्पां मरुणां शुकधारिणीं अरुणस्राग्विलेपां च चारुस्मेरमुखाम्बुजम् | नेत्रत्रयोल्लयद्वक्त्रां फालघर्मांवुमौक्तिकैः | विराजमानां मुकुट लसदर्धेन्दुशेखराम् | चतुर्भिर्बाहुभिः पाशमंकुशं पात्रकंकरैः | अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम् || एवं ध्यात्वा योनिमुद्रां बध्वासंकल्पितं जपम् | कृत्वा | पुनः षडङ्गं विधाय श्रीविद्योपासनं कुर्यात् | ह्रीं नित्यक्लिन्ने मदद्रवे स्वाहा इति नित्यक्लिन्नामूलमन्त्रः | चतुथ्यां पूर्णवत्स्नानादिकं कृत्यं विधाय गुरुवन्दनादि मातृकान्यासं कृत्वा क्रांहृदयाय नमः | ह्रैं शिरसे स्वाहा | क्रौं शिखायै प्. ४३)
SK
ह्रौं कवचाय हुं च्छ्रौं नेत्रत्रयान्वितां ज्रौं अस्त्राय एवं करयोर्विन्यस्य तप्तकाञ्चनसङ्काशां हारनेत्रत्रयान्विताम् | चारुस्मितान्वितमुखीं दिव्यालङ्कारभूषिताम् || ताटङ्कहारकेयूररक्तवस्त्रविभूषिताम् | वसना नूपुरोर्म्यादि भूषणैरति सुन्दराम् || पाशांकुशौ चर्मखड्गौ गदावन्हिधनुःशरान् | करैर्दधानामासीनां पूजयाम्यन्यथा स्थिताम् || एवं ध्यात्वा योनिमुद्रां बध्वा संकल्पितं जपं कृत्वा पुनः षडङ्गानि विधाय श्रीविद्योपासनं कुर्यात् || ॐ क्रौं ह्रौं क्रौं छ्रौं ज्रौं स्वाहा इति भेरुण्डामन्त्रः || पञ्चम्यां पूर्ववत् स्नानादिकं विधाय गुरुवन्दनादिमातृकान्यासं कृत्वा ह्रामित्यादिषडङ्गः | तप्तकाञ्चनसंकाशां नवयौवनसुन्दराम् | चारुस्मेरमुखांभोजां विलसन्नयनत्रयाम् | अष्टभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम् | रक्ताब्जकं च पुण्ड्रेक्षु चाप चाप पूर्णेन्दुमणुलाम् | दधानां बाहुभिर्वामे कल्हारं हेमभृङ्गकम् | पुष्पेषु मातुलुङ्गं च दधानां दक्षिणैः करैः | स्वरमानाभिरभितः शक्तिभिः परिवारिताम् || एवं ध्यात्वा योनिमुद्रां बध्वासंकल्पितं जपं कृत्वा पुनः षडङ्गं विधाय श्रीविद्योपासनं कुर्यात् | || ॐ ह्रीं वह्निवासिन्यै नमः इति वन्हिवासिनीमन्त्रः || षष्ठ्यां पूर्ववत्स्नात्वा स्नानादिकं विधाय महाविद्येश्वरीविद्यां जपेत् | प्. ४४) गुरु वन्दनादि मातृका न्यासं कृत्वा ह्रीं क्लीं नें ह्रीं हृदयाय नमः | ह्रीं ऐं ह्लीं श्रीं शिरसि | ह्रीं क्रौं ह्रीं शिखायै वषट् ह्रीं नित्य ह्रीं कवचाय | ह्रीं मद ह्रीं नेत्र ह्लीं द्रवे ह्रीं अस्त्राय | रक्तां रक्तांबरां रक्तगन्धमालाविभूषिताम् | चतुर्भुजां त्रिनयनां माणिक्यमकुटोज्ज्वलम् || पाशांकुशाचिक्षुचापं दाडिमीसायकं तथा | तधानी वाहुभिर्नेर्दया मदसुशीतलाम् | एवं ध्यात्वा योनिमुद्रां बद्ध्वा संकल्पितं जपम् | कृत्वा पुनः षडङ्गं विधाय श्रीविद्योपासनं कुर्यात् ||
SK
ह्रीं क्लिन्ने ऐं क्रौंनित्य मदद्रवे ह्रीं इति महाविद्येश्वरी मन्त्रः | सप्तम्यां पूर्ववत्प्रातः स्नानादिकं विधाय गुरुवन्दनादिमातृकान्यासं विधाय ह्राः इत्यादि षडङ्गः | निदाघकाल मध्यान्हदिवाकर समप्रभाम् | नवरत्नकिरीटाञ्च त्र्यक्षणामरुणांवराम् | नवाभरणसंपन्नां देहकान्ति विराजिताम् | शुचिस्मितामष्टभुजां स्तूयमानां महर्षिभिः | पाशं खेटं टङ्कधरां चषकं वाम बाहुभिः | दक्षिणैरंकुशंखड्गं कुठारं कमलं तथा || दधानां साधकाभीष्टदानोद्यमसमन्विताम् | एवं ध्यात्वा योनिमुद्रां बध्वा संकल्पितं जपम् | कृत्वा समर्प्य श्रीविद्योपासनं कुर्यात् | ह्रीं शिवदूत्यै नमः | इति शिवदूती मन्त्रः | अष्टम्यां पूर्ववत्स्नानादिकं कृत्वा गुरुवन्दनादि मातृकान्यासं कृत्वा स्वे च हृदयाय चे छे शिरसेछेक्षा शिखायै वषट् | क्षस्त्रीं कवचाय प्. ४५) स्त्रीं हं नेत्रत्रयाय हं खक्षें अस्त्राय फट् | एवं कराङ्गयोर्न्यासः श्यामवर्णां शुभकारा नवयौवनशोभिनीम् | द्वित्रिक्रमादृष्टभागैः कल्पिताभरणोज्ज्वलाम् | ताटंकमेगदं तद्वद्रशना नूपुरान्वितैः | विप्र क्षत्रियविट शूद्राजातिभिर्भीमविग्रहाम् | वल्लवांशुकसंवीतां शिखिपिञ्छकृतैः शुभैः | चलयैर्भूषितभुजां माणिक्यमकुतोज्ज्वलम् | बर्हिबर्हकृतांचूडां तत्पत्रा तत्पताकिनीम् | गुञ्जागुणलसद्वक्षःकुचां कुंकुममण्डिताम् | त्रिनेत्रां चारुवदनां मन्दस्मितमुखांबुजाम् | पाशांकुशवरान्मीति लसद्भुज चतुष्टयाम् || एवं ध्यात्वा योनिमुद्रां बध्वा संकल्पितं जपं कृत्वा समर्प्य श्रीविद्योपासनं कुर्यात् | ॐ ह्रीं हुं खे च छे क्ष स्त्रीं हं क्षें हीं फट् इति त्वरिता | अङ्गन्यासं कृत्वा लोहितां लोहितांगार शक्तिवृन्दनिषेविताम् | लोहितां शुकभूषास्रक् लेपनाषण्मुखांबुजाम् | प्रतिवक्त्रत्रिनयनां तथा चारुस्मिताननाम् | अनर्घ्यरत्नघटितमाणिक्कमुकुटोज्ज्वलाम् | एवं ध्यात्वा योनिमुद्रां बध्वासंकल्पितं जपं कृत्वा समर्प्य श्री विद्योपासनं कुर्यात् | ऐं क्लीं सौः इति कुल सुन्दरी मन्त्रः ||
SK
दशम्यां प्रातः स्नानादिकं कृत्वा गुरुवंदनमातृकान्यासं कृत्वा ह्यामितिषडंगं कृत्वा - उद्यद्भास्करसंकाशां माणिक्यमकुटोज्ज्वलाम् | पद्मराग कृताकल्पामरुणांशुकधारिणीम् | प्. ४६) प्रमादात् परित्यक्तः नात्रग्रन्थपातः प्. ४७) चारुस्मितलसद्वक्त्रपद्वरोज विराजितम् | एवं ध्यात्वा योनिमुद्रां बद्ध्वा सङ्कल्पितं जपम् कृत्वा समर्प्य श्रीविद्योपासनं कुर्यात् | हसकलरडैंहसकलरण्डीहसकलरडौः इति नित्यामन्त्रः || एकादश्यां प्रातःस्नानादिकं कृत्वा गुरुवन्दनमातृकान्यासं कृत्वा ह्रीं फ्रें हृदयाय स्क्तं क्र्ॐ शिरसे स्वाहा आंक्लीं शिखायै वषट् | ऐं व्लूं कवचाय हुम् | नित्यमदद्रवे नेत्रत्रयाय क्षें प्रें ह्रीं अस्त्राय || इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम् पञ्चवक्त्रां त्रिनयनां मरुणांशुक धारिणीम् | एवं ध्यात्वा योनिमुद्रां बद्ध्वासंकल्पितं जपं कृत्वा समर्प्य श्रीविद्योपासनं कुर्यात् | ह्रीं फ्रें स्रुं क्र्ॐ आंक्लीं ऐं व्लूं नित्यमदद्रवेहुंफेंहीं इति नीलपताकामन्त्रः | द्वादश्यां प्रातः स्नानादिकं विधाय गुरुवन्दनमातृकान्यासं कृत्वा भां हृदयाय भे शिरसे ई शिखायै क्षें यैं कवचाय ॐ नेत्रत्रयाय वौ एव मङ्गन्यासः | पञ्चवक्त्रां दशभुजां प्रतिवक्त्रं त्रिलोचनाम् | भास्वन्मुकुटविन्यस्त चन्द्ररेखा विराजिताम् | शङ्खं खेटञ्चपाशौ कल्हारं वामबाहुभिः | चक्रं तथाङ्कुशं खड्गंसायकंमातुलुङ्गकम् | दधाना दक्षिणैर्हस्तैः सौम्यां चैव सुखासनाम् | एवं ध्यात्वा योनिमुद्रां बद्ध्वासङ्कल्पितं जपं कृत्वा समर्प्य श्री विद्योपासनं कुर्यात् | प्. ४८) ह्रीं फ्रें स्रुं क्र्ॐ आं क्लीं ऐं व्लूं नित्य मदद्रवे हुं फें हां इति नीलपताकामन्त्रः भमरय औं ॐ इति विजयामन्त्रः || त्रयोदश्यां प्रातः स्नानादिकं कृत्वा गुरुवन्दनं मातृकान्यासं विधाय सामिदिषडङ्गः |
SK
सुवर्ण वर्णं रुचिरां मुक्तामाणिक्यभूषिताम् | माणिक्य मकुटां नेत्रद्वय प्रेंख ठप्पापरां | द्विभुजां स्वासनां पद्मेत्वष्ट पोडशतद्वये | पत्रैरुपेते स चतुर्द्वारभ्रूसद्मयुग्मे | नातुलिंगफलं दक्षे दधानां करपङ्कजे | वामेन निजभक्तेभ्यः प्रयच्छन्तीं दधनादिकम् | स्वसमानाभिरभितः शक्तिभिः परिवारिताम् | एवं ध्यात्वा योनिमुद्रां बद्ध्वा सङ्कल्पितं जपम् | कृत्वा सर्मार्थ श्रीविद्योपासनं कुर्यात् | स्वौः इति सर्वमङ्गला मन्त्रः | चतुर्दश्यां प्रातः स्नानादिकं कृत्वा गुरुवन्दनं मातृकान्यासं विधाय ॐ हृदयाय नमः शिरसे स्वाहा भगवति शिखायै ज्वालामालिनी कवचाय हुं देवी नेत्रत्रयाय सर्वभूतसंहारके अस्त्रायज्वलनसङ्काशां माणिक्कमकुटोज्ज्वलाम् | षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम् | पाशाङ्कुशौ खटखड्गौ चापबाणौ गदाधरौ | शूलं वह्निवराभीतिदधानां करयंकजैः | स्वसमाभिरभितः शक्तिभिः परिवारिताम् | एवं ध्यात्वा योनिमुद्रां बद्ध्वासङ्कल्पितं जपं कृत्वा समर्प्य श्रीविद्योपासनं कुर्यात् | प्. ४९) ॐ नमो भगवति ज्वालामालिनि देवि सर्वभूतसंहारकारिके जातवेदसे ज्वलंती ज्वल ज्वल प्रज्वलप्रज्वल ह्रां ह्रीं ह्रूं र र र र र र र ज्वालामालिनि हुं फट् स्वाहा | इति ज्वालामालिनीमन्त्रः | पञ्चदयां पंचदश्यां प्रातः स्नानादिकं कृत्वा गुरुवंदनादि मातृकान्यासं विधाय चामित्यादिषडङ्गं कृत्वा- उद्यदादित्यबिंबाभां नवरत्नविभूषिताम् | नवरत्नकिरीटञ्च चित्रपट्टांशुकोमलाम् | चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखाम् | सर्वानन्दमयीं नित्यां समस्तसितदायिनीम् || (स्तेप्सि) चतुर्भुजां भुजैः पाशमंकुशं वरदाभये | दधानां मङ्गलां पद्मां कर्णिकानवयोनिगाम् | एवं ध्यात्वा योनिमुद्रां बद्ध्वासङ्कल्पितं जपं कृत्वा समर्प्य श्रीविद्योपासनं कुर्यात् ||
SK
क्त्वौं इति चित्रामूलमन्त्रः | कादिमते तु शुक्लेकृष्णेपि प्रतिपदादिपञ्चदश्यन्तं कामेश्वर्यादि चित्रान्तं क्रमेण तत्तत्तिथौ तत्तन्नित्याभजनं कुर्यादिति नियमः | तस्मात्तासां न्यास मन्त्रध्यानानि लिखितानि | पञ्चदशनित्याश्च परदेवतांशभूतत्वात्तासां ऋषिच्छन्दसी मूलदेवता तद्यथा दक्षिणामूर्ति ऋषिः पङ्क्तिश्च्छन्द्रः कामेश्वरी नित्या देवता यथा तथा कुर्यात् इति वत् तत्तन्नाम्ना कुर्यादिति उपदेशक्रमः | प्. ५०) इति श्री प्रकाशानन्द विरचितायां चिन्मन्त्रमालिन्यां नित्योपासनाक्रमः समाप्तः संवत् १७१९ राम०

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. cinmantramālinī [E0002].

Source