Heart of the Perfection of Wisdom, Expanded Version

Prajñāpāramitāhṛdayasūtra, vistaramātṛkā · Pरज्ञापारमिताहृदयसूत्र, विस्तरमातृका

Heart of the Perfection of Wisdom, Expanded Version

Prajñāpāramitāhṛdayasūtra, vistaramātṛkā

Pरज्ञापारमिताहृदयसूत्र, विस्तरमातृका

SK
Pरज्ञापारमिताहृदयसुत्रम् | [विस्तरमातृका]
SK
| नमः सर्वज्ञाय ||
SK
एवं मया श्रुतम् | एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन | तेन खलु समयेन भगवान् गम्भीरावसंबोधं नाम समाधिं समापन्नः | तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं व्यवलोकयति स्म | पञ्च स्कन्धांस्तांश्च स्वभावशून्यं व्यवलोकयति ||
SK
अथायुष्मान् शारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वमेतदवोचत् - यः कश्चित् कुलपुत्रो [वा कुलदुहिता वा अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, कथं शिक्षितव्यः? एवमुक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं शारिपुत्रमेतदवोचत् - यः कश्चिच्छारिपुत्र कुलपुत्रो व कुलदुहिता वा [अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, तेनैवं व्यवलोकितव्यम् - पञ्च स्कन्धांस्तांश्च स्वभावशून्यान् समनुपश्यति स्म | रूपं शून्यता, शून्यतैव रूपम् | रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम् | यद्रूपं सा शून्यता, या शून्यता तद्रूपम् | एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता | एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः | तस्मात्तर्हि शारिपुत्र शून्यतायां न रूपम्, न वेदना, स संज्ञा, न संस्काराः, न विज्ञानम्, न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनो न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्मः | न चक्षुर्धातुर्यावन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः | न विद्या नाविद्या न क्षयो यावन्न जरामरणं न जरामरणक्षयः, न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः | तस्माच्छारिपुत्र अप्राप्तित्वेन बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य (PPहृद्व्, Vऐद्य ९९) विहरति चित्तावरणः | चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः | त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः | तस्माद् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रः अनुत्तरमन्त्रः असमसममन्त्रः सर्वदुःखप्रशमनमन्त्रः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः | तद्यथा - गते गते पारगते पारसंगते बोधि स्वाहा | एवं शारिपुत्र गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्त्वेन ||
SK
अथ खलु भगवान् तस्मात्समाधेर्व्युत्थाय आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य साधुकारमदात् - साधु साधु कुलपुत्र | एवमेतत् कुलपुत्र, एवमेतद् गम्भीरायां प्रज्ञापारमितायां चर्यं चर्तव्यं यथा त्वया निर्दिष्टम् | अनुमोद्यते तथागतैरर्हद्भिः ||
SK
इदमवोचद्भगवान् | आनन्दमना आयुष्मान् शारिपुत्रः आर्यावलोकितेश्वरश्च बोधिसत्त्वः सा च सर्वावती परिषत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन् ||
SK
इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम् |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Prajñāpāramitāhṛdayasūtra, vistaramātṛkā (sa_prajJApAramitAhRdayasUtravistaramAtRkA.htm).

Source