Verses on the Rice Stalk

Śālistambakakārikā · Śआलिस्तम्बककारिका

Verses on the Rice Stalk

Śālistambakakārikā

Śआलिस्तम्बककारिका

SK
Nआगार्जुन: Āर्यशालिस्तम्बककारिका
SK
आर्यमञ्जुश्रिये नमः
SK
अनन्ताचिन्त्यगुण्यं हि सम्बुद्धं करुणात्मकम् / प्रणिपत्य प्रवक्ष्यामि शालिस्तम्बककारिकाम् / १ //
SK
मुनी राजगृहस्यैव गृध्रनामकपर्वते / भिक्षूणां बोधिसत्त्वानां संघैः सार्धं व्यवस्थितः
SK
हेतुप्रत्ययसंभूतं शालिस्तम्बं विलोक्य च / हेतुप्रत्ययजं तद्वद् द्वादशाङ्कक्रमोद्गतम्
SK
प्रतीत्यमिति यः प्रश्येत् धर्मं बुद्धं च पश्यति / इत्युक्त्वा नायका भिक्षून् तूष्णीभावमवस्थितः
SK
भिक्षुः शारिसुत्रः श्रुत्वा गत्वा मैत्रेयसन्निधौ / तथागतो ऽद्य मैत्रेय उक्त्यर्थं न विभज्य च
SK
तूष्णीं भावे स्थितश्चात्र तदर्थो गम्यते कथम् / किं प्रतीत्यं च को धर्मो बुद्धो ऽपि कतमस्तथा
SK
प्रतीत्यं तु कथं दृष्ट्वा धर्म बुद्धं च पश्यति / सन्देहो मे ऽत्र ब्रूहीति ऊचे शारिसुतो ऽजितम्
SK
भावात्मिका हि मैत्री स्यात् मैत्रेयो ऽब्रूत् निर्णयम् / द्वादशाङ्गमविद्यादि मरणान्तं यथाक्रमम्
SK
तस्मात्तर्हिभवन्त्येव दुःखस्कन्धा हि केवलम् / धर्मश्चाष्टाङ्गिको मार्गः फलं निर्वाणमुच्यते
SK
सर्वस्याधिगमादेवं धर्मजं बुद्धमेव च / तथोक्तमार्यं दुष्टत्वात् यः पश्यति स पश्यति
SK
प्राणादिरहिताद् यश्च व्युपशान्त्यन्तसंयुतम् / प्रतीत्यं धर्मबुद्धौ च शुद्धबुद्धया वि पश्यति
SK
प्रतीत्यलक्षणं तावत् सहेत्वादिपदान्वितम् / बुद्धोत्पादो भवेन्नो वा स्थितेयं धर्मता यतः
SK
बाह्य आध्यात्मिकश्चापि द्विविधो हेतुप्रत्ययः / बाह्यो हेतुस्तु बीजादिः प्रत्ययः षड्विधो मतः
SK
बीजाङ्कुरप्रकाण्डादिः फले यद्वत् प्रवर्तते / प्रत्ययस्तु पृथिव्यादिकालान्तो हि यथाक्रमम्
SK
धारणं स्नेहनं पाको धान्यवृद्धिरनावृतिः / परिणामस्तथा तेषां कार्यं तद्वत् प्रवर्तते
SK
नो चेत् प्रत्ययसामग्री बीजे भूते ऽपि नाङ्कुरः / बीजाभावे तु सत्येव प्रत्ययभावो ऽपि तादृशः
SK
हेतवः प्रत्ययास्तद्वद् आत्मग्राहादिवर्जिता / हेतुप्रत्ययसमग्र्या न नश्येत् कर्मणः फलम्
SK
न स्वतो परतो नापि न द्वयोः कर्तृकालतः / ईश्वरादिकृतं नैवं स्वभावान्नाप्यहेतुतः
SK
हेतुप्रत्यययोर्वृत्तिर्भासते ऽनादिकालतः //
SK
पञ्चभिर्हेतुभिर्बाह्यः प्रतीत्योत्पाद इष्यते
SK
शाश्वततो न चोच्चेदान् न संक्रन्तेः परीत्ततः / हेर्तोर्महाफलावाप्तिः सदृशानुप्रबोधतः
SK
अङ्कुरो बीजवनेष्टो निर्हेतुर्नो ऽङ्कुरोद्भवः / समो निरोध उत्पादस्तुलोन्नामावनामवत्
SK
तथैवाध्यात्मिकस्यापि हेतुश्च प्रत्ययो द्विधा / आदिहेतुरविद्यास्य मृत्युरन्त्यो यथाक्रमम्
SK
समजन्मक्लेशकर्मात्मा द्वादशाङ्कस्त्रिकाण्डकः / हेतुप्रत्ययसम्भूतः कर्तेत्यादिविवर्जितः
SK
अविद्या यदि नादौ स्यादन्ते मृत्युर्न संभवेद् / तेभ्यो भिन्नो न कुत्रापि ह्यात्मात्मीयश्च विद्यते
SK
अविद्यासंभवादादावन्ते मृत्युश्च भासते / हेतोराध्यात्मिकस्यैवं प्रत्ययाः षड्प्रकारकः
SK
प्रत्ययो ऽध्यात्मिकस्त्वन्ते विज्ञानं चादिके धरा / काठिन्यं संग्रहः पाकः श्वासवृद्धिरनावृतिः
SK
ज्ञानरूपानुवृत्तिश्च पञ्चविज्ञानसंयुतम् / तस्मात् क्लिष्टं मनश्चापि हीमे ऽध्यात्मिकप्रत्ययाः
SK
धातूनां सन्निपाताद्वै शरीरोत्पाद इष्यते / आत्मात्मीयविकल्पानामुत्पादस्तैर्न मन्यते
SK
तेषु सत्सु समुत्पादस्तेष्वसत्सु न संभवः / नैवात्मादिमयास्ते हि नाप्यन्यच्चापि किञ्चन
SK
यैकपिण्डादिसंज्ञा साविद्यात्रिभवछादिका / रागो द्वेषश्च मोहादिः प्रवृत्ताः सन्त्यविद्यया
SK
ततः संस्कृतभावानां ज्ञप्तिर्विज्ञानसंभवा / विज्ञानेन सहोद्भूताश्चतुस्कन्धा अरूपिणः
SK
नामरूपमुपादाय चेन्द्रियायतनोद्भवः / विषयेन्रियविज्ञानसंघातात् स्पर्शसम्भवः
SK
वेदना स्पर्शजा ज्ञेया तृष्णा च वेदनोद्गता / तृष्णावृद्धिरुपादानम् उपादानोद्गतो भवः
SK
स्कन्धोत्पादो भवाज्जातिर्जातेरेवं जरापि च / स्कन्धाभावो जराया यः स मृत्युश्चेत्युदीर्यते
SK
मूढे तु मरणाच्छोकः सतृष्णे दाह आन्तरः / शोकतश्चापलापो यो दौर्मनस्यं स उच्यते
SK
दौर्मनस्यसमुद्भूतं पञ्चविज्ञानकायिकम् / आसातदुःखमित्युक्तं कायसौख्यविघातकम्
SK
दुःखं मनसिकाराख्यं मनसस्तूपधातकम् / दौर्मनस्यं च तज्ज्ञेयमन्योपक्लेशहेतुक्रम्
SK
तमो ऽभिज्ञानामरूपायतस्पर्शवित्तर्षतः / तृष्णादानभवोत्पाद पाकनाशविशोकतः
SK
वचनादिकायसंपीडाचित्तदुर्मानसास्तथा / क्लेशादन्वर्थकं नाम यथाक्रममुदीरितम्
SK
पुनस्तत्त्वपरिज्ञानादविद्यादेश्च यथाक्रमम् / पूर्वपूर्वेभ्य उत्पादो ऽप्याख्यातश्चोत्तरोत्तरः
SK
द्वादशाङ्गौत्रिप्रवृत्ती नित्योच्छेदौ ह्यनादिजौ / प्रवृत्तेर्जलधारावद् वर्तते ऽनादिकालतः
SK
तथाप्येते तु चत्वारः संघातकरहेतवः / अविद्या च तृषा कर्म विज्ञानं क्रमशो मताः
SK
हेतोर्विज्ञानबीजं हि कर्मक्षेत्रमुदीरितम् / प्रथमः च तृषा प्रोक्ते हेतुः क्लेशस्वभावतः
SK
कर्मक्लेशास्तुविज्ञानबीजत्वेन व्यवस्थिताः / कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति च
SK
विज्ञाननामकं बीजं तृष्णया स्निह्यते परम् / विज्ञानबीजं चाविद्या किरति स्नेहनेन वै
SK
कर्म तृष्णा तथाविद्या क्षेत्रंस्नेहो ऽवकीर्णनम् / विज्ञाने न करोमीदं न विज्ञानमितो मतम्
SK
तथापि बीजविज्ञानें कर्मक्लेशप्रतिष्ठिते / विज्ञानं बीजमित्युक्तं कीर्णे ऽविद्यास्ववस्करे
SK
तृष्णाजलेन संसिक्ते हेतुतो नामरूपयोः / अङ्कुरोत्पादभासो हि न स्वपरोभयादितः
SK
नामरूपमिदंजातं पितुर्मातुःसमागमात् / अविरोधादृतोश्चापि किञ्चिदास्वादवेधितम्
SK
बीजविज्ञानमित्युक्तं मातृगर्भे क्रमाच्चयः / नामरूपाङ्कुरोत्पादस्त्ववैकल्याच्च प्रत्ययैः
SK
अविरोधत्वाच्चहेतूनां मायानैरात्म्यनिग्रहे / उत्पादो ऽपि न संभाव्यः चक्षुर्विज्ञानमप्यतः
SK
पञ्चभिर्हेतुभिर्जातं चक्षूरूपावभासनैः / नभस्तज्जमनस्कारैः पञ्चवैकल्यतस्तथा
SK
चक्षुर्विज्ञानमुद्भूतं मया ते जनिता इति / विकल्पो न यथोदेति श्रोत्रज्ञानादिकाखिलम्
SK
उत्पादस्य क्रमश्चैवं हेतुप्रत्ययसङ्ग्रहात् / कर्त्रादीनां च वैकल्याद् अहङ्कारवियोगतः
SK
उत्पादो ऽपि यथापूर्व तथ चापि प्रतीत्यजम् / हेतुमत्संविजानीयाद् अस्माल्लोकात् परं नहि
SK
कश्चिद्धमः क्वचिद् गन्ता हेतुप्रत्ययतस्तथा / कर्मणः फलमभ्येति, यथा दर्शे विशोधिते
SK
दृश्यन्ते मुखबिम्बानि दर्पणे ऽपि च बिम्बकम् / संक्रामितं भवेत्रैव तदन्योन्याविकल्पनम्
SK
कर्तृक्रियाविहीनं तत् तथोत्पादावभासनम् / पूर्ववृद्धिक्रमाच्च स्याद् दूरस्थश्चन्द्रमा यथा
SK
परीत्तोदकपात्रान्ते दृश्यते न च क्रामति / अस्ति क्रिया च कर्मापि तथा चास्माच्च्युतिर्न हि
SK
जन्माभासो ऽप्यसंल्लोके नोपादानं विनानलः / ज्वलेत् सकल उज्ज्वालो हीनोपादानहानितः
SK
स्कन्धत्वप्रतिसन्धिःस्यात्, सन्ति ते कल्पनात्मकाः / बाह्यं कर्म क्रिया हेतुरध्यात्मपरतन्त्रतः
SK
पञ्चविज्ञानसंभवाःपरमार्थो ऽविचार्यतः / परिनिष्पन्न आख्यातःसहेतुप्रत्ययोद्भवः
SK
सर्वदा द्विविधो ज्ञेयः कर्त्रादिरहितस्तथा / तुच्छशून्यादितिःसारःप्रज्ञयैवं य ईक्षितः
SK
किं कथं वा कुतो केन कल्पवादादिहानितः / उदचन्द्रस्य यथा बिम्बं ततः कश्चिच्च न च्युतः
SK
लोके जन्मापि चाभाति यथा पादपसङ्गतः / वह्निस्त्रोतः प्रवृतिःस्याद् हेतुवैकल्पतस्तथा
SK
नानुप्रवर्तते ह्यग्नितद्वत्संक्लेशबीजके / दग्धे ज्ञानाग्निना हेतोरभावान्नफलं तथा
SK
क्रिया कर्मापि नैवास्तिअनन्ताचिन्त्यगुण्यकम् / शान्तधर्मात्मकं कायमादिमध्यान्तवर्जितम्
SK
ज्ञात्वा प्राप्नोति बुद्धत्वं य एवं तथताक्षमः / तस्मै व्याक्रियते नूनं मैत्रेयस्तु स्वयं तथा
SK
उवाच शारिपुत्राय शालिस्तम्बोपमा कृता / शारिपुत्रस्तु तच्छ्रुत्त्वा देवसंघानुमोदितः
SK
संस्तुतो धृतसारश्च गत्वोत्थाय प्रहर्षितः / आख्यातवांश्च भिक्सुभ्यः
SK
आर्यानागार्जुनविरचिता आर्यशालिस्तम्बकसूत्रकारिका समाप्ता /
SK
भावतीयोपाध्यायेन धर्मश्रीभद्रेण महासंशोधकलोकचक्षुस्साधुमतिज्ञानकुमाराभ्याम् चानूदितः / पश्चात् श्रीकुटीरक्षितेन संशोध्य निर्णीतः //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Śālistambakakārikā (sa_nAgArjuna-zAlistambakakArikA.htm).

Source