Śrīkarabhāsya

Śrīkarabhāsya

SK
श्रीकरभाष्यम् वेदान्तसूत्राणां वीरशैवभाष्यम् �ष्रीपतिपण्डिताचार्यैः प्रणीतम् सि. हयवदन राव् बें�न्गलूर सिटि बेंगलूर् प्रेस इति ख्यापित मुद्राक्षरश्wआलायां मुद्रितम् १९३६ अथ श्रीकरभाष्ये पञ्चपादिकाया विषयानुक्रमणी प्रथमाध्याये प्रथमः पादः आनन्दमयाधिकरणम् (अवतारिका) सूत्रार्थविचारः पूर्वपक्षः सिद्धान्तः - शिवस्य परब्रह्मणः आनन्दमयशब्दवाच्यत्वप्रतिपादनपूर्वकं शारीरस्य जगत्कारणत्वनिराकरणम् | अन्तरधिकरणम् (षड्लिङ्गस्थलनिरूपणम्) शिवस्थ परब्रह्मणः महालिङ्गात्मकत्वप्रतिपादनम् प्राभाकरमुख्यशरीरात्मकस्य परशिवब्रह्मणः सर्वान्तरत्वेन महालिङ्गात्मकत्वकथनम् कप्यासपदस्य अर्थनिर्णयः अकाशाधिकरणम् परमशिवस्य ब्रह्मणः प्रसादलिङ्गात्मकत्वप्रतिपादनम् प्राणाधिकरणम् शिवस्य चरलिङ्गात्मकत्वनिरूपणम् ज्योतिरधिकरणम् परमशिवस्य शिवलिङ्गात्मकत्वप्रतिपादनम् शिवस्य गुरुलिङ्गात्मकत्वनिरूपणम् गायत्र्याः गुरुलिङ्गात्मकत्वनिरूपणम् शिवस्य आचारलिङ्गात्मकत्वनिरूपण पुरुषसूक्तस्य शिवपरत्वप्रतिपादनम् हरि-हरयोः प्रकृतिपुरुषत्वकथनम् प्राणाधिकरणम् शिवस्य बाह्येष्ट(प्राण)लिङ्गात्मकत्वप्रतिपादनम् शिवस्य इष्ट-प्राण-भावलिङ्गात्मकत्रिविधोपास्यत्वप्रतिपादनम् प्रथमाध्याये द्वितीयः पादः
SK
सर्वत्रप्रसिध्यधिकरणम् बाह्यलिङ्गधारणसिद्धान्तप्रतिपादनम् अन्तर्लिङ्गधारनप्रतिपादनम् परशिवस्य ब्रह्मणः दशविधलिङ्गात्मकत्वप्रतिपादनम् लिङ्गधारणस्य वैदिकत्वनिरूपणम् वीरशैवाष्टावरणानि शूद्राणां ब्रह्मविद्याधिकारनिराकरणम् रुद्राहुत्यवसरे रुद्रस्य अमङ्गलार्थत्वनिरसनम् शिवस्य परब्रह्मणः उपास्यत्वं नारायणस्योपासकत्वकथनम् ब्राह्मणलक्षणम् लिङ्गदर्शनधारणयोः सर्वोत्कृष्टत्वप्रतिपादनम् गौतमस्मृत्युक्तब्राह्मणलक्षणम् लिङ्गाङ्गिनां लिङ्गार्चने सूतकनिराकरणम् पञ्चब्रह्ममन्त्राणां षट्त्रिंशत्तत्वरूपत्वप्रतिपादनम् वामपाण्यधिकरणकलिङ्गपूजादेः श्रौतत्वप्रतिपादनम् परमेश्वरस्य स्थूलसूक्ष्मकारणशरीराद्युपाधिवशात् इष्टादिलिङ्गश्रयात्मना परिच्छिन्नत्व निरूपणम् भस्मधारणस्य श्रौतत्वप्रतिपादनम् रुद्राक्षधारणस्य श्रौतत्वनिरूपणम् पादोदकप्रसादस्वीकारस्य वैदिकत्वकथनम् शिवप्रसादस्वीकारस्य श्रौतत्वप्रतिपादनम् पादोदकविधिः विष्णुप्रसादस्वीकरस्याश्रौतत्व निरूपणम् परमशिवस्य ब्रह्मणः भक्तानुग्रहार्थं शरीरपरिग्रहत्वकथनम् जीवब्रह्मणोः भेदाभेदत्वप्रदर्शनम् अतृत्वाधिकरणम् परशिवस्य सर्वसंहर्तृत्वकथनम् गुहाधिकरणम् - परमेश्वरस्य गुहाहितत्वनिर्वचनम् जीवब्रह्मणोः बिम्ब-प्रतिबिम्बभावनिराकरणम् अन्तराधिकरणम् परमशिवस्य चक्षुर्मध्योपास्यत्वप्रतिपादनम् परमेश्वरस्य अक्षिपुरुषत्वकथनम् परमशिवस्य ब्रह्मणः शक्तिवैशिष्ट्यनिरूपणे श्रुतिप्रामाण्यं प्रदर्शनम् अन्तयाम्याधिकरणम् परमशिवस्य सर्वान्तरोपास्यत्वप्रतिपादनम् महेश्वरस्यैव सर्वान्तर्यामित्वनिरूपणम् अदृश्यत्वाधिकरणम् परमेश्वरस्य सर्वाधिकत्वव्यवस्थापनम् वैश्वनराधिकरणम् परमशिवस्य जाठराग्निरूपेण सर्वोपास्यत्वनिरूपणम् प्रथमाध्याये तृतीयः पादः
SK
द्युभ्वाद्यधिकरणम् परमशिवस्य ब्रह्मणः द्युभ्वाद्यायतनत्वप्रतिपादनम् मुक्तस्वरूपनिरूपणम् विशिष्टाद्वैतात् विशेषाद्वैतस्य वैशिष्ट्यम् जीवपरिमाणत्वकथनम् भेदाभेदात्मकविशेषाद्वैतस्य सर्वोत्तरत्वनिरूपणम् विशेषाद्वैतशब्दनिर्वचनम् जगतः सत्यत्वप्रतिपादनम् भूमाधिकरणम् परमेश्वरस्य भूमशब्दवाच्यत्वप्रतिपादतम् अक्षराधिकरणम् चिच्छक्तिविशिष्टस्य परमशिवस्य अक्षरशब्दवाच्यत्वनिरूपणम् परमशिवस्य शक्तिविशिष्टत्वप्रतिपादनम् ईक्षतिकर्माधिकरणम् परमशिवस्य कृष्णपिङ्गलत्वकथनम् दहराधिकरणम् महेश्वरस्य भक्तससारताणार्थ दहरात्मकत्वकथनम् नारायणोक्तभेदाभेदशक्तिविशिष्टशिवाद्वैतप्रसङ्गः अनुकृत्यधिकरणम् दहरात्मकस्य परमेश्वरस्य स्वयम्प्रकाशकत्वस्थूलसूक्ष्मचिदचित्प्रकाशकत्वप्रदर्शनम् षड्विधतात्पर्यलिङ्गैः भगवद्गीतायाः शिवपरत्वप्रतिपादनम् प्रमिताधिकरणम् परमेश्वरस्य रूपोपन्यासत्वनिरूपणम् ब्रह्मविद्याधिकारनिरूपणम् देवताधिकरणम् देवानां ब्रह्मविद्याधिकारविचारः ब्रह्मविद्याधिकारे आचार्यान्तरकृताक्षेप निरासपूर्वकस्वमतकथनम् अपशूद्राधिकरणम् शूद्राणां ब्रह्मविद्याधिकारनिराकरणम् कम्पनाधिकरणम् शिवस्य परब्रह्मणः साधाकानुग्रहाय मनुष्यहृदयप्रमितत्वनिरूपणम् ज्योतिरधिकरणम् दहरादिषु उपास्यत्वेन प्रतिपादितस्य परब्रह्मणः शिवस्य प्राप्यत्वकथनम् शिवस्य ब्रह्मणः पुरुषोत्तमत्वप्रतिपादनम् अर्थान्तरत्वादिव्यपदेशाधिकरणम् सुषुप्त्यधिकरणम् प्रथमाध्याये चतुर्थः पादः
SK
आनुमानिकाधिकरणम् प्रधानजगत्कारणत्वनिराकरणपूर्वकं परमशिवस्य सर्वोपास्यत्वप्रतिपादनम् चमसाधिकरणम् संख्योपसंग्रहाधिकरणम् पञ्चविशतितत्वापेक्षया षट्त्रिंशत्तत्त्वग्रहणस्य युक्ततानिष्कर्षः षट्त्रिंशत्तत्वानां नामतो ग्रहणम् कारणत्वाधिकरणम् परमशिवस्य पञ्चमहाभूतकारणत्वकथनम् बालाक्यधिकरणम् शुद्धाद्वैतमतनिराकरणम् जीवमुख्यप्राणलिङ्गादित्रिविधोपासनस्मरणम् वाक्यान्वयाधिकरणम् परमतनिराकरणपूर्वकस्वसिद्धान्तस्थिरीकरणम् संयुक्तभेदमतनिरूपणम् अद्वैतवादिमतनिरूपणम् सर्वश्रुत्यभिप्रेतवेदान्तसिद्धान्तसम्मतविशेषाद्वैतराद्धान्तः प्रकृत्यधिकरणम् जगद्ब्रह्मणोः भेदाभेदत्वप्रतिपादनम् शक्तिविशेषविशिष्टशिवाद्वैतपदनिर्देशः ब्रह्मणः निर्विशेषत्व सविशेषत्वनिरूपणम् परमशिवस्य उभयकारणत्वप्रतिपादनम् सर्वव्याख्यानाधिकरणम् भेदाभेदप्रधानविशेषाद्वैतमतस्य परमशिवे समन्वयः द्वितीयाध्यायस्य प्रथमः पादः
SK
स्मृत्यनवकाशाधिकरणम् सांख्यस्मृतिनिराकरणम् योगप्रत्युक्त्यधिकरणम् योगस्मृतिनिराकरणम् न विलक्षणत्वाधिकरणम् परशिवब्रह्मणः सर्वविलक्षणत्वादिप्रतिपादनम् जगज्जीवेश्वरमिथ्यावादप्रधानस्मार्तैकदेशाद्वैतमतनिरासः शाक्योलूक्याक्षपादकापिलादितर्काणां तत्वार्थनिश्चयाभावप्रदर्शनम् ज्ञानकर्मणोः समसमुच्चयत्वप्रतिपादनम् शिष्टापरिग्रहाधिकरणम् जैमिनीयमिथ्याद्वैतादि अवैदिकवादनिरसनम् भोक्तापत्याधिकरणम् परब्रह्मणः विश्वाधिकत्वप्रतिपादनम् आरम्भणाधिकरणम् कार्यकारणयोरनन्यत्वप्रतिपादनम् जगत्सत्यस्वप्रतिपादनम् इतरव्यपदेशाधिकरणम् जीवब्रह्मवादिमतनिराकरणम् श्रीकण्ठोपज्ञविशिष्टाद्वैतमतनिराकरणम् उपसंहारदर्शनाधिकरणम् परमेश्वरस्य अघटिअघटनासामर्थ्यप्रदर्शनम् कृत्स्नप्रसक्त्यधिकरणम् परमशिवस्य ब्रह्मणः मूर्तामूर्तोभयात्मकत्वप्रतिपादनम् निरवमवस्यापि ब्रह्मणः जगत्कारणत्वप्रतिपादनम् निरवयवस्यापि ब्रह्मणः जगत्कारणत्वप्रतिपादनम् ब्रह्मणः सर्वशक्तिविष्टत्वप्रतिपादनम् ब्रह्मणः निर्विशेषत्ववादनिरसनम् परमेश्वरः स्वलीलार्थमेव जगत्सृजति वैषम्यनैर्घृण्याधिकरणम् परमकारुणिकस्य परमेश्वरस्य वैषम्यनैर्घृण्यादिदोषनिराकरणम् जगन्मिथ्यात्ववादनिरसनम् सर्वधर्मोपपत्यधिकरणम् द्वितीयाध्यायस्य द्वितीयः पादः
SK
द्वितीयपादावतारिका १ रचनानुपपत्यधिकरणम् २ अनुमानसाध्यं प्रधानं न जगत्कारणम् २ महद्दीर्घाधिकरणम् १३ वैशेषिकनैयायिकमतनिराकरणम् १३ परमाणुजगत्कारणत्वाधिकरणम् १५ परमाणुजगत्कारणत्ववादनिराकरणम् १५ समुदायाधिकरणम् १९ बौद्धमतनिराकरणम् १९ नाभावाधिकरणम् २९ निर्विशेषाद्वैतवासिष्ठमतनिराकरणम् २९ स्वप्नप्रपञ्चस्य सत्यत्वप्रतिपादनम् ३२ सर्वथानुपपत्यधिकरणम् ३३ शून्याद्वैताख्यसान्दीपनमतनिराकरणम् ३३ एकस्मिन्नसम्भवाधिकरणम् ३७ जैनमतनिराकरणम् ३७ पत्यधिकरणम् ४२ शैवमताभासक-मिश्र-रौद्र-पाशुपत-गाणापत्य-सौर-शाक्त- śivasya jagadubhayakāraṇatvapratipādanam 45 utpatyasambhavādhikaraṇam 57 pāñcarātrāgamoktaviśiṣṭādvaitamatanirākaraṇam 57 rudrasya tāmasatvāmaṅgalatvanirākaraṇam 59 śivasya brāhmaṇatvapratipādanam 60 viṣṇoḥ kṣatriyatvanirūpaṇam 62 vīreśvarasya rāmānujakalpitaveṅkaṭeśvaratvapratipādam | veṅkaṭeśvarasyābhāsaviṣṇutvam | 62 vyāsabhujastambhanavicāraḥ 67 brāhmaṇalakṣaṇam 70 viṣṇoḥ śivaliṅgārādhakatvapratipādanam 73 rudrahomānantaraṃ apa upspṛśye tyakteḥ nā'maṅgalātmakatvamapi tu tadantardhānārthakatvamiti pratipādanam 74 śivadīkṣāvatāṃ avasānekhananameva na dahanaṃ iti pratipādanam 76 vedamayasya vīraśaivasya samutkṛṣṭatvapratipādanam 80 liṅgadhāribrāhmaṇānāṃ dānapātratvasamarthanam 81 dvitīyādhyāyasya tṛtīyaḥ pādaḥ
SK
वियदधिकरणम् ८६ आकाशस्य ब्रह्मकारणकत्वप्रतिपादनम् ८६ मातरिश्वाधिकरणम् ९१ वायोः ब्रह्मकारणकत्वप्रतिपादनम् ९१ तेजोऽधिकरणम् ९३ वह्न्यादीनां ब्रह्मजन्यत्वप्रतिपादनम् ९३ अवधिकरणम् ९४ जलस्य ब्रह्मजन्यत्वनिरूपणम् ९४ पृथिव्यधिकरणम् ९५ पृथिव्याः ब्रह्मजयत्वं दर्शयति ९५ तदभिध्यानाधिकरणम् ९७ विपर्ययाधिकरणम् ९८ पञ्चानामपि भूतानां ब्रह्मविलीनत्वं दर्शयति ९८ अन्तराविज्ञानाधिकरणम् १०० चराचरव्यपाश्रयाधिकरणम् १०१ आत्माधिकरणम् १०३ आत्मा नोत्पद्यते श्रुत्यभावात् १०३ ज्ञाधिकरणम् १०७ चेतनत्वाज्जीवस्याजन्यत्वप्रतिपादनम् १०७ उत्क्रान्तिगत्यधिकरणम् १०९ जीवस्य अणुत्वसमर्थनम् १०९ कर्त्रधिकरणम् ११६ जीवात्मनः कर्तृत्वसमर्थनम् ११६ परायत्ताधिकरणम् १२१ जीवस्य पुण्यापुण्यकर्तृत्वं परशिवप्रेरणया सम्भवति १२१ नारायणपदस्य शिवपरत्वप्रतिपादनम् १२२ अंशाधिकरणम् १२७ जीवस्य शिवांशत्वप्रतिपादनम् १२७ जीवबहुत्वसमर्थनम् १३० शिवस्य विष्णुवल्लभत्वप्रतिपादनम् १३१ द्वितीयाध्यायस्य चतुर्थः पादः प्राणोऽत्पत्यधिकरणम् १३९ सप्तगत्यधिकरणम् १४३ प्राणाणुत्वाधिकरणम् १४७ वायुक्रियाधिक्रणम् १४९ ज्योतिराद्यधिकरणम् १५४ महेश्वरस्यैव जीवकृतकर्मानुसारेण इन्द्रियप्रेरकत्वप्रतिपादनम् १५४ त इन्द्रियाणि तद्व्यपदेशाधिकरणम् १५७ प्राण-मनसोः इन्द्रियादधिकत्वप्रतिपादनम् १५७ संज्ञामूर्तिकॢप्त्यधिकरणम् १५९ त्रिवृत्करणकर्तु परमात्मनः शिवस्य चराचरसृष्टिहेतुत्वसमर्थनम् १५९ त्रिवृत्करणस्वरूपनिरूपणम् १६३ तृतीयाध्यायस्य प्रथमः पादः
SK
तदन्तरप्रतिपत्यधिकरणम् १६९ जीवस्य लोकान्तरगमनागमनविचारः १६९ पञ्चाग्निक्रमेण गर्भोत्पत्तिप्रकारः १७२ भक्तादिशरणान्तपञ्चस्थलेषु द्वैतसिद्धिः ऐक्यस्थलेऽद्वैतसिद्धिश्च १७६ कृतात्ययाधिकरणम् १७८ कर्मावशेषस्सन् जीवो मृत्युलोकं प्रत्यवरोहति १७८ चरणशब्दार्थविचारः १८० आचारप्राशस्त्यम् १८१ सुकृतदुष्कृते एव चरणशब्दाभिधेये १८२ अनिष्टादिकार्याधिकरणम् १८४ दुष्कृतिनः नरके महद्दुःखमनुभूय कर्मविशेषेण पापयोनिं लभन्ते १८४ जीवानां यमाज्ञाधारकत्वव्यपदेशात् न जडस्य कर्मणः स्वातन्त्र्यम् १८५ शिवस्य परब्रह्मणः वैवस्वतादि-कर्तृत्वप्रतिपादनम् १८५ तत्स्वाभाव्यापत्याधिकरणम् १९३ पुण्यकर्मिणां स्वर्गात् पुनरागमनप्रकारः १९३ नातिचिराधिकरणम् १९४ व्योमादौ सत्वरत्वं व्रीह्यादौ किञ्चित्कालविलम्बनम् १९४ अनन्याधिष्ठिताधिकरणम् १९५ ब्रीह्यादिषु दुष्कृतलब्ध-जडशरीरेण तद्भोगमनुभूय पुनः सुकृतविशेषेण पुण्ययोनिपरिग्रहः १९५ छागपशुप्रत्याम्नायत्वेन पिष्टपशुग्रहणस्याविरोधता १९७ तृतीयाध्यायस्य द्वितीयः पादः
SK
स्वप्नप्रपञ्चदृष्टान्तेन जगन्मिथ्यात्ववादिनिराकरणम् २०२ सन्ध्याधिक्रणम् २०२ स्वप्नस्य भविष्यच्छुभाशुभफलसूचकत्वदर्शनात् स्वप्नस्यापि सत्यत्वप्रतिपादनम् २०२ जीवान्तर्यामितया स्वप्नप्रपञ्चस्य कर्तृत्वमीश्वरस्य २०४ जडप्रधानस्य परमशिवाभिन्नशक्तिरूपस्य तद्विशिष्टस्य बद्धजीवस्य च स्वप्नप्रपञ्चकर्तृत्वम् २०५ जीवस्य पाशमायातिरोहितत्वपाशमोक्षयोश्च परमेश्वरायत्तत्वात् स्वप्नकर्तृत्वमपि नेतरस्य २०६ शिवाचार्यकृपालब्धशक्तिपातमहिम्ना जीवस्य शिवाज्ञाननिरोधकात् ममत्वादिकं उत्पाट्यते २०७ शक्तिपातस्वरूपः २०७ शक्तिपातस्तु तीव्रमन्दादिभेदेन भक्ताद्यैक्यान्तेषु स्थलेषु षड्विधोऽभूत् २०८ मिथ्यात्वसमर्थनपरत्वे श्रुतिः सूत्र विरोधो दुर्निवारः २०९ तदभावाधिकरणम् २१३ सुप्तिगमनहेतुत्वं शिवस्यैव २१३ जीवस्य राजसादृश्यप्रतिपादनम् २१३ कर्मानुस्मृतिशब्दविध्यधिकरणम् २१८ सुषुप्तौ संसरन् जीवः परशिवारण्यं ज्योतिर्लिङ्गं उपसंपद्य आश्वस्तः पुनर्भोगायोत्तिष्ठति २१८ मुग्धाधिकरणम् २२० सुषुप्त्यवस्था-मूर्छावस्थयोः परस्परवैलक्षण्यकथनम् २२० उभयलिङ्गाधिकरणम् २२२ परब्रह्मणः शिवस्य मूर्तामूर्तोभयलिङ्गत्वप्रतिपादनम् २२२ अन्तर्लिङ्गधारणम् २२३ लिङ्गधारिब्राह्मणलक्षणम् २२३ बाह्यलिङ्गधारणम् २२३ परमेश्वरस्य दहरोपास्यत्वसमर्थनम् २२३ उभयात्मकत्वप्रतिपादनम् २२३ लिङ्गधारणस्थानानि निरूप्यन्ते २२५ प्रकृतैतावत्वाधिकरणम् २३६ परमशिवस्य ब्रह्मणः उभयलिङ्गत्वसमर्थनम् २३६ आराधकः आराध्यशब्दार्थनिर्वचनम् २३८ स्वानुभवज्ञानस्य फलहेतुत्वप्रदर्शनम् २४१ उपासनस्य सर्वाधिक्यप्रतिपादनम् २४१ अहिकुण्डलाधिकरणम् २४३ जीवब्रह्मणोः भेदाभेदस्वरूपप्रतिपादनम् २४३ पराधिकरणम् २४८ जीवब्रह्मणोः भेदाभेदसमर्थनम् २४८ तथान्यप्रतिषेधाधिकरणम् २५३ जीवब्रह्मणोः प्राप्य-प्रापकत्वनिर्णयः २५३ विष्णोः शिवशक्त्यंशत्वप्रतिपादनम् २५४ फलाधिकरणम् २५७ जैमिनिमतनिराकरणम् २५७
SK
सर्ववेदान्तप्रतिपत्यधिकरणम् २६२ परमशिवोपासनगुणाः उपन्यस्यन्ते २६२ सर्वशाखाप्रतिपाद्यसजातीयशिवप्रधानदहराद्युपासननिरूपणं २६२ शिरोव्रतम् २६३ शिरोव्रतस्वरूपनिरूपणम् २६४ परमशिवस्य दहरादिसकलविद्योपास्यत्वप्रतिपादनम् २६५ उपासनायाः प्रयोजनं दर्शयति २६६ अन्यथात्वाधिकरणम् २६८ फलैकत्वादत्रापि विद्यैक्यं दर्शयति २६८ दहरादिविद्यानां फलैक्यात् विद्यैक्यं २७१ निष्कामनया शिवार्पितधिया कृतानां ज्योतिष्टोमादीनां परम्परया ब्रह्मप्राप्तिः दहराद्युपासकानां तु साक्षात् ब्रह्मप्राप्तिहेतुत्वम् २७२ पुण्यकर्मणामावश्यकत्वम् २७४ सर्वाभेदाधिकरण २७६ न चात्र विद्याभेदः शिवाधिष्ठानत्वात् सर्वत्र २७६ आनन्दाद्यधिकरणम् २७८ परमशिवस्य ब्रह्मणः अनन्तकल्याणगुणविशिष्टत्वप्रतिपादनम् २७८ सर्वेषां मुमुक्षूणां शिवोपासनस्यैव कर्तव्यतानिर्णयः २८३ कार्याख्यानाधिकरणम् २८४ सगुणोपासकानां सर्वेषां निर्गुणब्रह्मप्राप्त्युपायसाधनपरत्वनिष्कर्षः २८४ समानाधिकरणम् २८८ ब्रह्मसाक्षात्कारैकफलकशाण्डिल्यादिसर्वविद्यानां विद्यैक्यत्वसमर्थनम् २८८ सम्बन्धाधिकरणम् २९१ परस्पराङ्गाङ्गिसम्बद्धसगुणनिर्गुणोपासनैक्याद्विद्यैक्यत्वनिर्णयः २९१ सम्भृत्यधिकरणम् २९४ सकलगुणविशिष्टब्रह्मोपासनस्य परशिवब्रह्मलोकप्राप्तिसाधनत्वसमर्थनम् २९४ पुरुषविद्याधिकरणम् २९६ मानस-क्रियामय-ज्योतिष्टोमयोः चित्तशुद्धिद्वारा परम्परया मोक्षहेतुत्वनिर्णयः २९६ वेदाद्यधिकरणम् २९८ शं नो मित्रः शुक्रं प्रविध्य इत्यादिमन्त्रद्वयपारायणप्राप्यशिवलोककाम्यफलावाप्त्योः निर्णयः २९८ हान्यधिकरणम् ३०० हान्यधिकरणम् ३०० सगुणपरशिवब्रह्मोपासनालभ्योत्कृष्टफलनिर्णयः ३०० साम्परायाधिकरणम् ३०३ वीरशैवदीक्षाकाले शिवदीक्षापूर्वकालिकपुण्यापुण्यकर्मविनाशः प्राणोत्क्रमणानन्तरं दीक्षानन्तरकालिकस्वाभाविकसुकृत-दुष्कृतविनाशविचारः ३०३ शिवैकनिष्ठानां पुण्यनिराकरणपूर्वकशिवलोकप्राप्तिः शिवत्वप्राप्तिश्च ३०७ अनियमाधिकरणम् ३१०
SK
मूर्ताप्राकृतदिव्यपरशिवब्रह्मोपासकप्राप्यचिद्विलासानन्दानुभवविचारः ३१० अक्षराद्यधिकरणम् ३१२ निरवयवब्रह्मसाक्षात्कारवतां विदेहकैवल्यप्राप्तिनिर्णयः ३१२ अन्तरत्वाधिकरणम् ३१६ परशिवस्य ब्रह्मण एव सर्वान्तरुपास्यत्वनिर्णयः ३१६ कामाद्याधिकरणम् ३२२ परशिवस्यैव प्रणवायतनत्वादिसमर्थनम् ३२२ शक्ति-शिवयोः विष्णु-ईश्वरयोः तादात्म्यसामरस्यप्रतिपादनम् ३२४ सामरस्यमुक्ति सारूप्यमुक्तिविवेकः ३२८ परिशेषशब्दार्थः ३२८ तन्निर्धारणानियमाधिकरणम् ३३० परशिवे भययुक्तमुक्तित्रयविलक्षणसायुज्यमुक्तिप्रार्थनाविधिः ३३० प्रदानाधिकरणम् ३३४ परशिवे ब्रह्मणि ईषणात्रयत्यागपूर्वक-सर्वसमर्पणयुक्त- prājñādhikārilakṣaṇam 336 mandaprajñādhikārilakṣaṇam 337 ṛju-kuṭilena vā mārgeṇa sarvāsāṃ vidyānāṃ brahmaprāptiparatvam 337 liṅgabhūyastvādhikaraṇam 339 liṅgadharmapracuraḥ paraśivabrahmaṇaḥ sarvavidyopāsyatvasamarthanam 339 pūrvavikalpādhikaraṇam 342 sālokyādicaturvidhamuktīnāṃ ekakāle paraśivopāsakaprāpyatvasamarthanam 342 mānasasyāpyagnicayanasya svātantryeṇa paraśivabrahmalokaprāptisādhanatvavicāraḥ 346 eka ātmādhikaraṇam 346 pāramārthikabhedābhedavajjīva brahmaṇormadhye jīvasya brahmopāsanāyuktatānirākaraṇam 348 mumukṣvanuṣṭheyanairantaryānanyabhāvayuktaparaśivabrahmopāsanasya sarvavidyābhipretatvanirṇayaḥ 350 aṅgāvabaddhādhikaraṇam 351 sarveṣāmupāsakānāṃ sarvavidyādhikārayuktatānirṇayaḥ 351 sarveṣāṃ brahmopāsakānāṃ sarvaśākhāgatabrahmavidyopāsanādhikāraucityavivaraṇam 352 bhūmnaḥ kratuvajjyāyastvādhikaraṇam 353 samastopāsanasyaiva nyāyyatā bhūmākhyabrahmopāsanādhikyavicāraḥ 353 nānāśabdādibhedādhikaraṇam 356 mokṣaphalaikagamyasarvopāsanānāṃ sarvavidyāsamanvayasamarthanam 356 vidyāprabhedāḥ 356 vikalpādhikaraṇam 358 daharādyupāsanāsu madhye sveṣṭānusāreṇekaikapuruṣasya ekaikopāsanamavicchedenopāsanatvakartavyanirṇayaḥ 358 aṅgeṣu
SK
यथाश्रयभावाधिकरणम् ३६० ब्रह्मप्राप्त्यङ्गभूतान्नमयाद्युपासनेषु पुरुषाणां ज्योतिष्टोमादिवत् परम्परया मुक्तिहेतुत्व निर्णयः ३६० समाहाराधिकरणम् ३६२ दृढचित्तानां मुमुक्षूणामेव शिवयोगेन शिवसाक्षात्कारसमर्थनम् ३६२ न वा तत्सहभावाधिकरणम् ३६७ अङ्गावबद्धोपासनानामपि दहरादिप्रतीकोपासनानामिव समुच्चयस्य अनुपपन्नतानिर्णयः ३६७ तृतीयाध्यायस्य चतुर्थः पादः
SK
पुरुषार्थाधिकरणम् ३७० ब्रह्मचर्याद्याश्रमचतुष्टयधर्मनिरूपणम् ३७० ब्रह्मविद्याया कर्माङ्गत्वानुपपत्तिः ३७० लिङ्गाङ्गिनां निष्कामकर्माणि विहितानि ३८० ऊर्ध्वरेतस्काधिकरणम् ३८४ शैवागमविहितशैवचतुराश्रमि लिङ्गधारणनिर्णयः ३८४ शैवः पञ्चविवर्जयेत् ३८५ न विद्या कर्माङ्गम् ३८५ चतुर्विधास्तु विज्ञेया मिक्षवो वृत्तिभेदतः ३८५ शैवानां चतुराश्रमिणां लिङ्गधारणोपदेशविधानम् ३८९ एकोरामशब्दर्थनिर्वचनम् ३८९ ऊर्ध्वरेतस्कानां ब्रह्मचारिणामेव संन्यासाश्रमानुष्ठेयतानिर्णयः ३९० लिङ्गधारिसंन्यासिस्वरूपकथनम् ३९१ मुमुक्षूणां इष्टलिङ्गधारणवत् ब्रह्मदण्डधार्यतानिर्देशः ३९२ गुरुरपि गृहस्थाश्रमावश्याश्रयणीयतानिर्णयः ३९४ स्तुतिमात्राधिकरणम् ३९५ कर्माङ्गब्रह्मचर्यादिवत् संन्यासाश्रमस्य विधेयता ३९५ परिप्लवार्थाधिकरणम् ३९८ ब्रह्मविद्याप्रकरणपठितानां उपाख्यानानामपि ब्रह्मविद्यानुकूलत्वप्रतिपादनम् ३९८ अग्नीन्धनाद्यधिकरणम् ४०० ब्रह्मसाक्षात्कारे आधानादिकर्मणां मुख्यहेतुतायाः असङ्गतता ४०० सर्वापेक्षाधिकरणम् ४०२ चित्तशुद्धि वैराग्य-भक्ति-जीवकारुण्यं श्रवण मन्नादिपरम्परया स्वाश्रमविहितकर्मणां परशिवब्रह्मसाक्षात्कारहेतुत्वप्रतिपादनम् ४०२ शमाद्यधिकरणम् ४०४ सर्वाश्रमिणां ब्रह्मविद्याङ्गत्वेन शमदमादीनामवश्यानुष्ठेयतानिर्णयः ४०४ सर्वान्नानुमत्यधिकरणम् ४०६ ब्रह्मविदामपि प्राणसंशय एव सर्वान्नानुमतिः विहिता ४०६ विहितत्वाधिकरणम् ४०९ ज्ञानकर्मसमुच्चयानुष्ठानं सर्वेषामाश्रमिणां विधेयम् ४०९ सदाचारनिष्ठानां सर्वाश्रमिणां बाह्याभ्यन्तरलिङ्गधारण पूजादिकमनवद्यम् ४१० विधुराधिकरणम् ४१२ आश्रम अनाश्रमसाधारण्येन सर्वेषां मुमुक्षूणां ब्रह्मविद्याधिकारनिर्णयः ४१२ तद्भूताधिकरणम् ४१५ कृतप्रायश्चित्तानां जैमिन्यभिमतः ब्रह्मविद्याधिकारविषयः ४१५ यतिकृतानां मानसिक-स्वाप्निकपापानां प्रायश्चितस्य तैरेव कृतानां आहाङ्कारिकस्थूलदेहज पापानां प्रायश्चित्तविरतेश्च शास्त्रीयतानिर्णयः ४१७ व्रतभ्रष्टानां
SK
यतीनां ब्रह्मविद्याधिकारनिषेधः ४१७ स्वाम्यधिकरणम् ४१९ शिवस्यैव कर्म-ब्रह्मोपासनाफलदातृत्वप्रतिपादनम् ४१९ सहकार्यन्तरविध्यंधिकरणम् ४२२ आश्रमधर्मवत् पाण्डित्यमौनादीनां विद्यासहकारितानिर्णयः ४२२ ब्रह्मचर्याद्याश्रमिणामपि ब्रह्मविद्याधिकारस्य अविरोधितानिर्णयः गुरुशब्दार्थ निर्वचनञ्च ४२४ सर्वाश्रमिणां ब्रह्मविद्याधिकारस्य युक्तता ४२५ मौनाधिकरणम् ४२७ अत्याश्रमिलक्षणम् ४२७ पूर्वापाशुपत-महापाशुपतस्वरुपम् ४२७ निराभारवीरशैवलक्षणम् ४२८ अनाविष्काराधिकरणम् ४२९ शिवयोगिनां बालादिवद्गुप्तशिवज्ञानवैभवत्वं स्वाभाविकम् ४२९ ऐहिकाधिकरणम् ४३२ जगद्वासनायुक्तानां जडभरतादिवत् कालांतरेण मुक्ति निर्वासनायुक्तशिवैकनिष्ठानां वामदेवादिवत् इह जन्मन्येव मोक्षः ४३२ मुक्तिफलाधिकरणम् ४३४ ब्रह्मविद्योपासकानां स्वेच्छानुसारेण सशरीराशरीरमुक्तिद्वयप्राप्तिनिरूपणम् ४३४ चतुर्थाध्यायस्य प्रथमः पादः
SK
आवृत्यधिकरणम् ४३९ सर्वविद्याफलनिरूपणम् ४३९ निरंन्तरमतन्यभावानुगतश्रवणमननादिसाधकतदुपासनकर्तव्यतानिर्णयः ४३९ आत्माधिकरणम् ४४३ सन्ततशिवभावनाजन्यशिवत्वसाक्षात्कार तत्प्राप्तिविचारश्च ४४३ उपासनात्रैविध्यप्रदर्शनम् ४४३ प्रतीकाधिकरणम् ४४७ शिवोत्पन्नचेतनेषु शिवदृष्ट्युपासनस्य शिवसाक्षात्कारहेतुत्वम् ४४७ आदित्यादिमत्यधिकरणम् ४५० आसीनाधिकरणम् ४५२ आसनोपविष्टस्यैव शिवैसध्यानार्हतानिर्णयः ४५२ तदधिगमाधिकरणम् ४५६ जगद्वासनायुक्तानां विदुषां आगामि-सञ्चित-कर्मक्षयात् अनुभवेन प्रारब्धनाशः निर्जगद्वासनायुक्तानां तु चतुर्विधकर्मक्षयविचारश्च ४५६ इतराधिकरणम् ४६० शक्तिपातमहिमाफलभूत-शिवज्ञानोतरकालिक-पुण्याऽपुण्यकर्मसंस्मृष्टता जीवस्य ४६० अनारब्धकार्याधिकरणम् ४६२ शास्त्राव्यायतजन्य-शिवज्ञानप्राप्य-कालान्तरभावि मुक्तिफल निर्वासनाजन्यशिवज्ञानप्राप्य-सशरीरपरशिवस्वरूपफलावाप्त्योः विस्तारः ४६२ अग्निहोत्राधिकरणम् ४६४ निर्वासनावासितान्तःकरणपरिपूरितः निराभारपरमविरक्तधर्माश्रमिणां कर्मत्यागौचित्यस्य तद्भिन्नानां शिवोपासकानामपि तत्त्वज्ञानौचित्यस्य विनिर्णयः ४६४ शतरुद्रीयजपमाहात्म्यम् ४६५ भोगाधिकरणम् ४६८ मुक्तेः पुण्यपापफलानुभोगसमनन्तरप्राप्यतानिर्णयः ४६८ चतुर्थाध्यायस्य द्वितीय पादः
SK
वागधिकरणम् ४७० त्वंपदार्थभूतजीवोत्क्रान्तिदशाविशेषफलप्रदर्शनम् ४७० सर्वसाधारणमरणावस्थानिरूपणम् ४७० मनोऽधिकरणम् ४७३ भसनः प्राणे लयविचारः ४७३ अध्यक्षाधिकरणम् ४७५ प्राणस्य जीवे लयसम्पत्तिविचारः ४७५ भूताधिकरणम् ४७७ जीवस्य सर्वभूतात्मके शिवे लयसम्पत्तिः ४७७ आसृत्युपक्रमाधिकरणम् ४७९ मूर्तब्रह्मोपासकलिङ्गशरीरोत्क्रान्त-मुक्तजीवलभ्य-निरतिशयसालोक्यादि- sarvasampatyadhikaraṇam 485 jīva-brahmaṇoḥ svarūpaikyasthānanavadhānatā 485avibhāgādhikaraṇam 488 amūrtaśivajñānaniṣṭhajīva-paraśivayoḥ jale jalavadapṛthaktatānirṇayaḥ488 tadikograjvalanādhikaraṇam 490 śivasya sarvajīvahṛdayapuṇḍarīke sthititva-mumukṣujanadhyeyatvaniścayaḥ 490 raśmyanusārādhikaraṇam 494 akhaṇḍajyotirmayaraśmyanusāriṇaḥ śivopāsakasya śivaprakāśadvārā śivalokāvāptivivaraṇam 494 niśādhikaraṇam 496 ahorātra-raśmināḍyorapṛthagbhāvatāpratipādanam 496 dakṣiṇāyanādhikaraṇam 498 niśi mṛtasyeva dakṣiṇāyanamṛtasyā'pi paraśivabrahmalokāvāptivicāraḥ 498 caturthādhyāyasya tṛtīyaḥ pādaḥ arcirādhikaraṇam 502 arcirādigatiphalam 502 viduṣāmarcirādi mārgeṇaivaparaśivabrahmalokāvāptinriṇayaḥ 502 vāyvadhikaraṇam 505 saṃvatsarādūrdhva ātmanaḥ vāyulokapraveśavicāraḥ 505 varuṇādhikaraṇam 507 vāyulokājjivasya taṭillokapraveśavicāraḥ 507 ātivāhikādhikaraṇam 509 paraśivapreritātivāhikajīvaiḥ daharādisarvavidyopāsakapuruṣasya mahākailāsānayanakramavicāraḥ 509 kāryādhikaraṇam 512 parabrahmopāsanālabdha-muktimārgagāmino jīvasya bādarerapyanumataḥ śivalokagamanakāryavicāraḥ 512 paraśivasyaivopāsyatānirṇayaḥ 518 caturthādhyāyasya caturthaḥ pādaḥ
SK
सम्पद्याविर्भूताधिकरणम् ५१९ अविभागाधिकरणम् ५२७ अमूर्तपरशिवोपासकानां ब्रह्माभिन्नत्वस्थितिविचारः ५२७ सङ्कल्पाधिकरणम् ५३३ मूर्तपरशिवब्रह्मोपासकानां निरतिशयानन्दवैभवप्रकाशः ५३३ बादरेः केवलाद्वैतमतोपन्यासः ५३५ जैमिनेः जगत्सत्यत्व परस्परभेदवत्वयोः उपन्यासः ५३६ बादरायणानुमत-श्रुतिसिद्धज्ञान कर्मोभयात्मकमुभयविध- sandhyādhikaraṇam 539 bhedā'bhedadṛṣṭāntena śivasya jagatkāraṇatvapratipādanam 539 parameśvaravat muktasyāpi nānālokanirmātṛtva- जगद्व्यापाराधिकरणम् ५४७ मुक्तपाप्यं जगत्सृष्ट्यादि पञ्चकृत्यवर्ज- anāvṛttiśśabdādhikaraṇam 554 mūrtabrahmopāsakānāṃ amūrtabrahmopāsakānāṃ ca apunarāvṛttiniścayaḥ 554 śropatipaṇḍitabhagavatpādāśāryaviracitaṃ - brahmamīmāṃsāsūtra - śrīkarabhāṣyam prathamāadhyāye prathamapādaḥ oṃ namo liṅgarūpāya jagajjanmādihetave | nigamāgamavedyāya bhaktasiddhipradāyine || 1 || yat sandarśanamātrajarjaritabhaktānīkapuryaṣṭakaṃ dvaitādvaitaviśiṣṭabauddhamatamattebhendrakaṇṭhīravaḥ | śaivādvaitavivekasāravilasatsiddhāntapakṣapradaṃ śambhostaccaraṇaṃ bhavābdhitaraṇaṃ manye jagatpoṣaṇam || 2 || śiva tvaddāsadāso yastaddāso'smīti yā sudhīḥ | tāṃ datvā kṛpayā pāhi janmajanmāntare'pi mām || 3 || śivasya tattvaṃ śiva eva vetti nandī ca viṣṇurnagajākumāraḥ | śivaprasādācchivatattvamāpustebhyo namaḥ śaṅkaratattvavidbhyaḥ || 4 || natvā nandīśamukhyādīn śivatattvopadeśakān | śivāgamāttavijñānānpāraṃparyamihocyate || 5 || sadāśivaṃ śaktidharaṃ sukeśaṃ caṇḍīśvaraṃ bhṛṅgiriṭiṃ śilādam | kumbhodbhavaṃ cinmayavāmadevaṃ śrīrevaṇāsiddhaguruṃ prapadye || 6 || śrīmacchivācāravicāradīkṣaṃ svaśiṣyasatprīṇanapūrṇapakṣam | durvārakāmādividāradakṣaṃ bhajāmyahaṃ revaṇakalpavṛkṣam || 7 ||
SK
श्रीमत्सर्वकलासु कोविदतमः प्रालेयशैलात्मजाजानेः पूर्णकृपाविशेषनिचयप्रज्ञानधीर्यो बभौ | सम्यग्रेवणदेशिकेन्द्रधृतषड्लिङ्गावधानोज्ज्वलं सिद्धार्यं मरुलप्रभुं बुधनुतं तं मन्महे श्रेयसे || ८ || एकोरामाख्यसिद्धं प्रथितगुणगणागण्यपुण्योदयश्रीसम्यक् संसेव्यमानं बुधनुतचरितं द्वापराचार्यवर्यम् | उद्यद्व्दान्तशास्त्रोभयगतविलसच्छैवसंस्थापनाढ्यं पूर्वाचार्यप्रशिष्यं शरणमहमिमं देशिकेन्द्रं प्रपद्ये || ९ || वातूलान्तिमकामिकादिशिवशास्त्रज्ञानषाण्मातुरो मीमांसाद्वयतत्त्वबोधकवचस्संरम्भणाम्भोजजः | तर्कव्याकरणादिशास्त्रनिचये साक्षाद्भवानीपतिस्तस्मै श्रीगुरुमूर्तये शिवमताचार्याय तुभ्यं नमः || १० || श्रीमद्दण्डशिखोपवीतविलसत्कन्थाजिनालङ्कृतः काषायाम्बरकुण्डिकाप्रणवपात्रच्छत्रमौञ्जीधरः | वेदान्तोभयवाक्प्रबोधितलसच्छ्रीभस्मघुण्टीयुतश्चैकोरामयतीन्द्र- śrīvaiyāsikasūtravarṇapadamukhyārthaṃ śivānugrahādbhāṣyaṃ śrīkaranāmakaṃ bhavaharaṃ durvādigarvāpaham | sarvānarthavināśakaṃ budhanutaṃ tattvārthabodhākaraṃ śrīmacchrīpatipaṇḍitendrayatinā vyātanyate sāmpratam || 12 || aśeṣopaniṣatsāraviśeṣādvaitamaṇḍanam | śivajñānapradaṃ sūtrabhāṣyaṃ jayatu sarvadā || 13 || vedāgamārthatattvajñaśaivānāṃ mokṣakāṅkṣiṇām | vaidikānāṃ viśuddhānāmetadbhāṣyaṃ hi kalpakam || 14 || śrutyekadeśaprāmāṇyaṃ dvaitādvaitamatādiṣu | dvaitādvaitamate śuddhe viśeṣādvaitasaṃjñake | vīraśaivaikasiddhānte sarvaśrutisamanvayaḥ || 15 || viśabdenocyate śambhurhaṃsahaṃsetimantrataḥ | śeṣaśabdena śārīro yathāgne riti mantrataḥ | advaitena bhavedyogo yathānadya iti śruteḥ || 16 || agastyamunicandreṇa kṛtāṃ vaiyāsikīṃ śubhām | sūtravṛttiṃ samālokya kṛtaṃ bhāṣyaṃ śivaṃkaram || 17 || jijñāsādhikaraṇam athopaniṣadbrahmamīmāṃsāṃ darśayiṣyāmaḥ -
SK
विषय-संशय-पूर्वपक्ष-सिद्धान्त-प्रयोजन- sūtrānukūlaśrutyādisahalikhitapadapariṣkṛtasūtrapadādhiṣṭhānatve sati upakramopasaṃhārādiṣaḍvidhatātparyaliṅgaprakāśakatvaṃ bhāṣyatvam | garbhāṣṭamaprayuktaśivadīkṣāsaṃskārasiddhaśrutyarthopadeṣṭṭadeśikamukhodita- धर्मजिज्ञासादर्शने स्वभावनियमनियतप्रयोजकतया यत् पूर्वभावित्वं विधीयते यत्पुरुषव्यापारतन्त्राभ्युदयफलं यदसन्दिग्धमप्रयोजनं घटवन्न तत्प्रेक्षाविषयः अप्रयोजकत्वात् करटदन्तवत् | विषयस्सोपाधिको निरुपाधिको वा प्रसिद्धोऽप्रसिद्धो वा युष्मदस्मत्प्रत्ययविषयाराध्याराधकयोः शिवजीवयोर्भेदो वा न वा भेदे यथा नद्यः इत्यादि श्रुतिशतविरोधापत्तिः अभेदे द्वासुपर्णा इत्यादि श्रुतिवैय्यर्थ्यप्रसङ्गः | मुख्यत्वेन प्रामाण्यम् यावच्छ्रुतीनां यत्किञ्चिच्छ्रुतीनां वा यन्नियमनियतपूर्ववृत्तधर्मविशिष्टो ह्यधिकारी यदवच्छिन्नविशेषार्थित्वादयो धर्माः यदनन्तरमेतदारम्भः इत्याद्यनेकसंशयविशिष्टमुमुक्षुस्वान्तचिन्ताशूकविध्वंसनार्थं परमकारुणिकेन सर्वशास्त्रविज्ञानशिखामणिना महापाशुपतदीक्षाविशिष्टेन पाराशर्येण पुनरावृत्तिरहितचरमशाश्वतपुरुषार्थफलप्रदर्शकमिदं सूत्रं निरूपितम् | अथातो ब्रह्मजिज्ञासा || १ || इति | अत्र जिज्ञासापदेन संशयप्रयोजने दर्शयति | संशयश्च सूत्रप्रतिपादितं ब्रह्म अस्ति वा न वा इति | ब्रह्म वा इदमग्र आसीत् असद्वा इदमग्र आसीत् इत्यादिभिः सत्त्वासत्त्वप्रतिपादनात् | अत्र पूर्वपक्सः - ब्रह्म नास्ति | घटादिवच्चाक्षुषादिविषयत्वायोगात् जीवानां जन्मान्तरज्ञानादर्शनात् परलोकगतपुरुषपुनरागत्यनुभवाभावात् भस्मीभूतस्य देहस्य पुनरागमनं कृतः | तस्मात्सर्वप्रयत्नेन ऋणं क्र्त्वा घृतं पिबेत् || इति शास्त्रदर्शनाच्च | सुधाहरिद्राचूर्णवैशिष्ट्येनारुणरूपोत्पत्तिवत् गोमयादिषु कीटोत्पत्तिवच्च पृथिव्यादि भूतवैशिष्ट्येन चेतनाचेतनोत्पत्तिः तद्वियोगो नाशः न तस्माज्जीवः शरीरभिन्नः |
SK
किञ्च - मतान्तरवैदिकवादे शरीरभिन्नजीवसत्त्वपक्षेऽपि तज्जीवनियामकेश्वरो नास्ति | तथाहि - विधिमन्त्रार्थवादभ्देन श्रुतिस्त्रिविधा | तत्र - ज्योतिष्टोमेन स्वर्गकामो यजेत इति विधिवादो मुख्यः मन्त्रवादोह्यनुष्ठेयार्थप्रकाशनविषयः अर्थवादः स्तुतिविषयः | जीवान स्वकर्मानुसारेण सुखदुःखादिकमपूर्वमेव दास्यति | तस्मान्न ब्रह्मजिज्ञासा सम्भवति | किञ्च - उपनिषच्छास्त्रमनारम्भणीयं संशयप्रयोजनसद्भावाभावात् | सन्धिग्धं हि विचरविषयः सन्धिग्धे न्यायः प्रवर्तते इति न्यायात् | संशयस्तु परशिवात्मनि शरीरात्मनि वा नाद्यः - सत्यं ज्ञानमनन्तं ब्रह्म एको हि रुद्रो न द्वितीयाय तस्थुः रुद्रमेकत्वमाहुः शाश्वतं वै पुराणं इत्यादि श्रुतिशतेन परशिवात्म स्वरूपस्य निश्चितत्वात् | अहम्प्रत्ययेन शारीरात्मद्योतनान्न द्वितीयः | किञ्च - तद्विचारस्य तद्विषयज्ञानं हि फलं ज्ञेयपरिच्छेदो हि ज्ञानं तदा अनेन ब्रह्म परिच्छेद्यं न वा परिच्छेदे हि अपरिच्छेद्यत्वविधायकश्रुतिशतविरोधः घटवदनित्यत्वप्रसङ्गश्च | अपरिच्छेदे यथार्थसाक्षात्काराभावेनाप्रसिद्धिप्रसङ्ग | न च प्रयोजनं - अजामेकां लोहितशुक्लकृष्णां ज्ञाज्ञौ द्वावजावीशनीशौ इत्यादिभिः स्वाभाविकशारीरप्रकृत्योरविनाशित्वावगमेन ब्रह्मज्ञानेनापि मुक्तेरसम्भवात् | ननु - अयमात्मा ब्रह्म तत्त्वमसि इत्यादिभिर्जीवब्रह्मणोरेकत्वप्रतिपादनात् अहम्प्रत्ययेन भेदप्रतिपादनाच्च संशयः किं स्यात् इति चेन्न - अबाधिताहम्प्रत्ययविरोधेनैक्यश्रुतीनामुपचरितार्थत्वात् न च परमात्मविषयेऽप्यहम्प्रत्ययस्य दुर्बलत्वं स्वयंप्रकाशेऽपि ब्रह्मण्यनाद्यविद्यावशादहम्प्रत्ययेन मनुष्योऽहं इत्याद्यध्यासानुभवदर्शनात् | न हि दृष्टेऽनुपपन्नं नाम इति न्यायात् आध्यासानुपपत्तावनिर्मोक्षप्रसङ्गः |
SK
किञ्च - तमःप्रकाशवद्भेदाभेदयोः परस्परविरुद्धस्वभावत्वादेकपक्षावलम्बनं युक्तम् | अतः - यतो वाचो निवर्तन्ते इत्यादिना ब्रह्मणोऽविषयत्वदर्शनाच्च वेदान्तशास्त्रमनारम्भणीयम् | इति प्राप्ते ब्रूमः - सर्वोपनिषत्सिद्धद्धैताद्वैतविधायकब्रह्ममीमांसाशास्त्रारम्भो युक्तः | ब्रह्मसत्वे प्रत्यक्षानुमानागमप्रमाणदर्शनात् | तथा हि - एको हि रुद्रो न द्वितीयाय तस्थुः इत्यादि बह्वागमदर्शनादागमप्रमाणम् | सूर्यचन्द्रर्तुसमुद्रकालादीनामीश्वरापेक्षावशात् स्वधर्मप्रवृत्तिद्योतनात् लोके धनधान्यविद्यादिपूर्णसहायसम्पन्नानामपि स्वाभीष्टसर्वकार्यसिद्ध्यदर्शनात् तत्सहायरहितानामपि कदाचित्काले दुर्घटकार्यसिद्धेर्दृष्टत्वाचा सर्वज्ञेश्वरसत्वे जीवानां जन्मसत्वे चेदमेव प्रत्यक्षं प्रमाणम् | लोके रथगोपुरप्रासादप्राकारादिकार्यजातस्य चेतनकर्त्रपेक्षादर्शनात् तद्वद्वियदादिजडाजऽप्रपञ्चस्यापि कर्ता परमेश्वरोऽस्तीति विवेकिभिरनुमीयते | सुधानिशाचूर्णसंयोगे लोहितरूपप्राप्तिवत् पृथिव्यादिभूतचतुष्टयसंयोगेनैव चेतनाचेतनसृष्टिः स्वतो भविष्यति इति यदुक्तं तदयुक्तं | केवलपृथिव्यादिभूतसंयोगेन पशुपक्षिमृगाद्युत्पत्यदर्शनात् एकशरीरावच्छेदेन पशुमनुष्यादिधर्मविशिष्टभूतोप्तत्तिश्च किं न स्यात् गोमयादिषु गुप्तजीवस्य ईश्वरेण स्थापितत्वात् सर्वसहायसम्पन्नस्य महाराजस्यापि अनपेक्षिताधिव्याधिजरामरणदरिद्रत्वादिप्रातिदर्शनात् जीवानां जन्मान्तरकृतपुण्यापुण्यकर्मानुसारेण प्रभुवत् फलप्रदायकेश्वरोऽस्तीति निश्चीयते | जडस्यापूर्वस्य जीवकृतपुण्यापुण्यकर्मानुकूलफलदातृत्वायोगात् जारचोरादिकर्मणामेव तत्तत्कर्मानुसारेण फलदातृत्वादर्शनाच्च धर्ममीमांसावादोऽप्यविचारितरमणीयः | एतेन कपिलकणादादीनां जडजगत्कारणवादोऽपि निरस्तः |
SK
असद्वा इदमद्र आसीत् इति श्रुतावसच्छब्देन सूक्ष्मत्वमुपदिष्टम् | नो चेत् ततो वै सदजायत इत्युत्तरवाक्याविरोधो दुर्निवारः | अत्रासच्छब्देन स्वपुष्पशशशृङ्गादिवच्छून्यत्वाङ्गीकारे वन्ध्यापुत्रेण सत्पुरुषोत्पत्तिः किं न स्यात् अतः पूर्वोक्तमेव युक्तं असदिति चेन्न प्रतिषेधमात्रत्वात् इति सूत्रे वादरायणेनैवायमर्थो बहुधा प्रपञ्चितः | किञ्च - संशयप्रयोजनसद्भावादपि शास्त्रारम्भो युक्तः वेदागमोभयवेदान्तप्रतिपादितस्वाभाविकानन्तशक्तिविशिष्टजगदुभयकारण- anādisvābhāvikamāyāpāśabaddhaghorāpāranissārasaṃsāravyāpāratāpatrayānaladanda hyamānanānāśarīrapraveśanirgamanavarṇāśramābhimānaviśiṣṭakāma- परस्परविरुद्धस्वभावयोरजन्ययोरविनाशिस्वभावयोरेतयोः तत्त्वमसि अहं ब्रह्मास्मि | ब्रह्म वेद ब्रह्मैव भवति इत्यादिभिरभेदव्यपदेशात् सन्देहः | ब्रह्मणस्सविशेषत्वे परिच्छेद्यत्वमिति यदुक्तं तदयुक्तम् | घटवत्परिच्छेद्यत्वाभावेऽपि नेति नेति अस्थूलमनण्वह्रस्वमदीघं इत्यादि व्यावर्तकलक्षणेन परिच्छेदः योग्यत्वात् | लक्ष्यविषयत्वाल्लक्षणपरिच्छेदस्य तदलक्षणसजातीयविजातीयस्थूलसूक्ष्मप्रपञ्चव्यावृत्ततया ब्रह्म वेदान्तवाक्यैर्निरूप्यते | तस्मात्तद्विचारो युक्तः | ब्रह्मविदाप्नोति परम् ज्ञात्वा शिवं शान्तिमत्यन्तमेति ईशं तं ज्ञात्वा अमृता भवन्ति ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः शिव एको ध्येयः शिवङ्करस्सर्वमन्यत्परित्यज्य क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः | तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं ज्ञात्वा देवं मुच्यते सर्वपाशैः इत्यादिष्व्द्वितीयषट्स्थलपरशिवब्रह्मज्ञानेन स्वाभाविकमलत्रयात्मकमायापाशदुःखनिवृत्तिपूर्वकपरमपुरुषार्थ-
SK
भ्रमरकीटलोहरसादिषु स्वाभाविकभेदनिवृत्तिदर्शनात् तत्त्वमस्याद्यभेदश्रुतिषु सुख्यार्थवाधाभावान्न गौणार्थलक्षणार्थस्वीकारः | यथा नद्यः स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय | तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् इत्यादि श्रुतावसन्दिग्धतया प्राप्यप्रापकत्वोपदेशात् न चैतच्छ्रूतेरुपचरितार्थत्वम् | उपक्रमादि षड्विधतात्पर्यलिङ्गसहकृतानेकश्रुतीनामुपचरितार्थत्यस्य वक्तुमयुक्तत्वात् | मुख्यार्थपरित्यागे ईक्षत्याधिकरणविरोधः | न चाध्यासानुपपत्तावनिर्मोक्षप्रसङ्गः | तद्विधायकप्रात्यक्षिकश्रुत्यदर्शनात् | अहमज्ञः इत्यनुभवस्य शरीरेन्द्रियादिविशिष्टमायापाशबद्धजीवलक्षणत्वात् | निर्विशेषचिन्मात्रब्रह्मणस्तद्भिन्नमायोपाधित्वं कथमुपपद्यते यस्सर्वज्ञस्सर्ववित् प्रज्ञानं ब्रह्म इत्यादि श्रुतिषु तस्य सर्वज्ञत्वप्रज्ञानत्वादिधर्मोपदेशान्न जीववदज्ञत्वादिधर्मप्रसङ्गः | तस्याऽविद्याङ्गीकारे ब्रह्मत्वभङ्गप्रसङ्गः | तस्याविद्यासत्वे अविद्यैव मानमिति चेत् अन्येन्याश्रयदोषः | किञ्च - अप्राणो ह्यमनाश्शुभ्रः इति श्रुतौ तस्य मनःप्राणसम्बन्धाभावदर्शनात्तद्विहीनस्य भ्रमः कथमुपपद्यते किञ्च जीववत्तस्याज्ञत्वस्वीकारे तदज्ञाननिव्र्तकब्रह्मान्तरमवश्य मङ्गीकर्तव्यम् | तथा चेदमनवशाप्रसङ्गः | ब्रह्मणः मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् तमेव विदित्वाऽतिमृत्युमेति ब्रह्मविदाप्नोति परं इत्यादि श्रुतिषु तस्य तमःपरत्वं तद्ज्ञानस्य जीवानां मुक्तिहेतुत्वं चोपदिश्यत इति न तद्युक्तम् |
SK
शुक्तिरजतवत्तस्य जीवत्वं भ्रान्तिमात्रमिति चेन्न सर्वत्र पदार्थचतुष्टयसद्भावे भ्रान्तिः सम्भवति | अत्र ब्रह्मेतरवस्त्वभावान्न भ्रान्त्युपपत्तिः वस्त्वन्तराङ्गीकारे ह्यद्वैतहानिः | अनङ्गीकारे भ्रान्त्यनुपपत्तिः | न स्वप्नवत् प्रपञ्चस्य मिथ्यात्वं अर्थसिद्धिक्रियासिद्धिदर्शनात् | विधिनिषेधरूपशास्त्रार्थाचार्योपदेशादीनां कर्तव्यत्वायोगेन बुद्धमतप्रवेशापत्तेश्च | नाभाव उपलब्धेः वैधर्म्याच्च न स्वप्नादिवत् इति द्वितीयेऽध्याये स्वप्नेन्द्रजालवत् प्रपञ्चमिथ्यात्ववादो बहुधा निरस्तः | असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् | अपरस्परसम्भूतं किमन्यत्कामहेतुकम् || ८ || एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः | प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः || ९ || इत्यादिना कृष्णगीतायां चैतन्मतं बहुधा निरस्तम् | किञ्च - लक्षणप्रमाणाधीना हि वस्तुसिद्धिः | इति न्यायेन निर्विशेषब्रह्मसत्वे किं मानं श्रुतिरस्तिचेत् तस्या जगदन्तःपातित्वेन मिथ्यात्वात् तत्प्रतिपाद्यस्य ब्रह्मणोऽपि मिथ्यात्वं स्यात् | वेदसत्यत्वाङ्गीकारे अद्वैतहानिः असत्यत्वे तु ब्रह्मसत्वे सत्प्रमाणान्तरः भावात् वन्ध्यापुत्रादेरिव ब्रह्मणोऽपि मिथ्यात्वं स्यात् | किञ्च - अध्यासानङ्गीकारे मुक्तेर्बाधकाभावः तदङ्गीकारे स्वाभाविकत्वेन सर्वश्रुतीनां समन्वयायोगः | न चाध्यासे अविद्यैव मानं स्वप्रकाशकत्वभङ्गप्रसङ्गात् | न च अविद्याविशिष्टं चैतन्यमिति वाच्यं अन्योन्याश्रयप्रसङ्गात् | जीवोऽहं मनुष्योऽहम् इत्यादि भ्रमप्रत्ययस्यापि परमेश्वराधीनत्वात् एष एव साधु कर्म कारयति इत्यादिषु परमेश्वरस्यैव सर्वकर्मकारयितृत्वोपदेशात् | ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || इति कृष्णगीतायां तथैवोपदेशात् | वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं इति श्रुतावपवाददर्शनादध्यासो ग्राह्य इति चेन्न वाचारम्भणादिश्रुतीनां शिवोपादानत्वात् प्रपञ्चस्य तत्तादात्म्यबोधकत्वं विधीयते न मिथ्यात्वबोधकत्वम् |
SK
वाचारम्भणवाक्यानि तदनन्यत्वबोधनात् | न मिथ्यात्वाय कल्पन्ते जगतश्शिवरूपतः || इति स्मृतेश्च | अत एव भगवता व्यासेन जगन्मिथ्यात्ववारणाय तदनन्यत्वमारम्भणशब्दादिभ्यः इति सूत्रे तज्जन्यप्रपञ्चस्य तत्स्वरूपत्वं निर्दिष्टम् | अध्यारोपस्तु तस्य तदन्यस्य वा नाद्यः - ब्रह्मणश्शरीरेन्द्रियादिशून्यत्वात् | न द्वितीयः - सदेव सोम्येदमग्र आसीत् इत्यादौ सृष्टेः प्राक् द्वितीयवस्तुनिषेधदर्शनात् तदन्यस्वीकारे शुद्धाद्वैतभङ्गप्रसङ्गाच्च | तमःप्रकाशवद्विरोधाभावाद्भेदाभेदो युक्तः | द्वैता द्वैतात्मकशरीरशारीरपरमात्मनां तादात्म्यभावे व्यवहारायोगादद्वैतिनामध्यासासम्भवात् |
SK
न च ब्रह्मज्ञानपर्यन्तमेव प्रपञ्चस्य सत्यत्वं तदूर्ध्वमपि क्षुप्तिपासादिद्वैतकर्मद्योतनात् | न चैकपक्षो युक्तः - अभेदस्वीकारे द्वा सुपर्णा इत्यादि भेदश्रुतिविरोधः भेदस्वीकारे तत्त्वमसि इत्याद्यभेदश्रुतिविरोधः | द्वैताद्वैतस्यैव स्वाभाविकत्वेन सर्वश्रुतिसमन्वयात् तत्त्वमसि इत्याद्यभेदश्रुतिविरोधः | द्वैताद्वैतस्यैव स्वाभाविकत्वेन सर्वश्रुतिसमन्वयात् श्रुतिसङ्कोचे मानाभावात् यत्किञ्चिच्छ्रुतिप्रामाण्याङ्गीकारे बौद्धादिवद्वेदबाह्यत्वप्रसङ्गात् यतो वा इत्यादिना द्वैताद्वैतात्मकप्रपञ्चब्रह्मणोः कार्यकारणत्वदर्शनात् प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः इत्यादि सूत्रत्रयेण भेदादिमतत्रयस्यैवात्र विवक्षितत्वात् | उभयव्यपदेशात्त्वहिकुंडलवत् इति सूत्रेण भेदाभेदस्यैवाविरोधित्वेन निर्दिष्टत्वात् भेदाभेदस्तथाऽभेदो भेद एते मतास्त्रयः इति सूतसंहितायां ध्रुवं कश्चित् ब्रूते सकलमपरस्त्त्वध्रुवमिदं परो ध्रौव्याध्रौव्ये इति महिम्नस्तवादिषु च भेदादिमतत्रयस्यैव निर्देशाच्च | यतो वाचो निवर्तन्ते इत्यादिश्रुतीनां गुरुकटाक्षरहितप्राकृतजीवपरत्वं नो चेत् - आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति इत्युत्तरवाक्यविरोधः तन्माहात्म्यज्ञापनपरत्वं वा अन्यार्थत्वे ब्रह्मविदाप्नोति परं ब्रह्म वेद ब्रह्मैव भवति इत्यादिब्रह्मानुभवविधायकबहुश्रुतिविरोधश्च | किञ्च - नावेदविन्मनुते तं बृहन्तं नैषा तर्केण मतिरापनेया तं त्वौषनिषदं पुरुषं पृच्छामि शास्त्रयोनित्वात् इत्यादिश्रुतिसूत्रेषु ब्रह्मणो मानान्तरनिपेधदर्शनाच्च सर्वश्रुतिसमन्वितभेदाभेदब्रह्ममीमांसारम्भो युक्तः | अत्राथशब्देनानन्तर्यार्थो विवक्षितः | अथ शब्दानुशासनं अथ योगानुशासनं अथैष ज्योतिरथैष विश्वज्योतिः इत्यादाविवाथशब्दस्य नाधिकारार्थत्वम् |
SK
जिज्ञासाया अनधिकार्यत्वात् | ननु जिज्ञासापदस्य विचारलक्षकत्वात् विचारस्य च प्रत्यधिकरणं वर्तिष्यमाणत्वेन करिष्यमाणत्वेन (ख, घ, ज)] अधिकृतत्वसम्भव इति चेन्न - आनन्तर्याभिधानमुखेन विध्यपेक्षिताधिकारिविशेषसमर्पकत्वेन साधकत्वं विधीयते तदनपेक्षिताधिकारार्थकत्वस्यायोगात् | अथ शब्दानुशासनं इत्यादेर्विधिमूलकत्वाभावात् नाधिकार्यपेक्षितृत्वम् | मङ्गलस्य जिज्ञासायामन्वयासम्भवान्न पूर्वाचार्यानुचारस्थापनार्थं वर्णध्वनिमात्रेण मङ्गलार्थकत्वम् | ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा | कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ || इति स्मृतेः | अथातश्शेषलक्षणं इतिवन्न पक्षान्तरं पूर्वमेकस्याप्रकृतत्वात् | अदीक्षितस्य मलत्रयविध्वंसाभावान्न साधनचतुष्टयानन्तर्यम् | न च अनियतभोजनगमनादिवत् यत्किञ्चित्पूर्ववृत्तत्वं नियमविधिदर्शनात् यत्पूर्वभावित्वं नियमनियतप्रयोजकतया मुमुक्षूणां मलत्रयविध्वंसने विधीयते तत्पूर्वकत्वं ब्रह्मविचारशास्त्रास्येति निर्णीयते | अस्य विषयः श्रूयते तैत्तिरीयशाखायाम् - ब्रह्ममेधाकामस्य तत्प्राप्तिसाधनं किमित्याकाङ्क्षायामाह - यश्छन्दसामृषभो विश्वरूपः | छन्दोभ्योऽध्यमृतात् सम्बभूव | स मेन्द्रो मेधया स्पृणोतु | अमृतस्य देवाधरणो भूयासं | शरीरं मे विचर्षणम् | जिह्वा मे मधुमत्तमा | कर्णाभ्यां भूरि विश्रुवं | ब्रह्मणः कोशोऽसि मेधया पिहितः | श्रुतं मे गोपाय इति | अस्यार्थः - यः - शिवः छन्दसामृषभः - सर्वविद्याप्रभुः ईशानस्सर्वविद्यानां इति श्रुतेः | विश्वरूपः - प्रपञ्चमयः सर्वो ह्येष रुद्रः इति श्रुतेः | यः - छन्दोभ्यः -
SK
आम्नायेभ्यः अमृतात् अधिसम्बभूव - वेदोपनिषदागमादीताममृतरूपत्वात् तत्प्रतिपाद्यः वचनव्यत्ययश्छान्दसः स इन्द्रः - परमैश्वर्यशाली शिवः मा - मां मेधया - प्रज्ञया स्पृणोति - प्रीणयतु बलयतु वा | तद्विज्ञानार्थं प्रज्ञाबलं हि प्रार्थ्यते | अमृतस्य - मोक्षाय देवधारणः - देवस्य - लिङ्गरूपशिवस्य धारणं यस्य सोऽहं देवधारणः भूयासं - भवेयं | चिच्छक्तिप्रकटीकृतपरशिवेष्टलिङ्गधारी भूयासमित्यर्थः | अतः मे शरीरं विचर्षणं किल्विषरहितं भूयादित्यर्थः | मे जिह्वा मधुमत्तमा - मधुमती अतिशयेन मधुरसंभाषिणी भूयात् कर्णाभ्यां - शोत्राभ्यां भूरि विश्रुतं - शिवज्ञानयोग्यकार्यकारणसङ्गातरूपो भूयासमित्यर्थः | तन्मेधा च तदर्थमेव प्रार्थ्यते | ब्रह्मणः - शिवस्य कोशोऽसि - असेरिवोपलब्ध्यधिष्ठानमित्यर्थः | मेधया - लौकिकप्रज्ञया पिहितः - आच्छादितः सामान्यप्रज्ञया अविदितसत्व इत्यर्थः | नावेदविन्मनुते तं बृहन्तं नैषा तर्केण मतिरापनेया इति श्रुतेः श्रुतं - श्रवणपूर्वकं भक्तिज्ञानादिकं मे - मम गोपाय - रक्ष तत्प्राप्त्यविस्मरणादिकं कुर्विति भावः | देवधारणो भूयासमित्यत्र बाह्यलिङ्गधारणं अन्तर्लिङ्गधारणं प्रणवधारणं वा इति सन्देहः | तं दैवतानां परमं च दैवतं तस्माद्देवश्शिवः स्मृतः देव्या युतं देवतनुं युवानं इत्यादौ देवशब्दस्य परशिवपरत्वेन बहुशः प्रयोगदर्शनात् अन्यदेवधारण कर्तव्यताविधायकशास्त्रादर्शनादाचाराभावाच्च | धारणशब्दस्य कर्तरि ल्युडन्तत्वेन देवं धरतीत्यर्थेसिद्धे सति अमृतस्य - मुक्त्यर्थं देवधारणो भूयासं तस्मात् मां मेधया स्पृणोतु - संयोजयतु इत्यादिना लिङ्गधारणप्रतीतेः भूयासमित्यत्र लिङ्गोऽपि सत्वेन विध्यर्थोपपतेश्च ब्रह्ममेधाकामस्य लिङ्गधारणावश्यकत्वं प्रतीयते |
SK
किञ्च यश्छन्दसामृषभो विश्वरूपः इत्यादिना प्रणवपरत्वमपि सूचितम् | यो वेदादौ स्वरः प्रोक्तः इत्यनेन छन्दोवृषभत्वं ॐ तत्सर्वं इत्यादिना विश्वरूपत्वादिकं ब्रह्मणः कोशोऽसि इत्यत्र परब्रह्माधिष्ठानत्वं च तस्यैवोपपन्नमिति अन्तर्धाणविधायकत्वपरत्वमपि सूचितम् | यमाद्यष्टाङ्गयोगेषु वैदिकानामन्तर्धारणस्य विधेयत्वाच्च | पूर्वपक्षस्तु - विश्वरूप इति ब्रह्मलिङ्गस्य निरुपपदब्रह्मपदस्य च परिच्छिन्नलिङ्गपरत्वायोगात् देवधारण इत्यत्र देव इति पदच्छेदाभावे गोपायेत्यन्वयस्यासम्भवात् भूयासमित्यत्र आशीर्लिङ्त्वेन विध्यर्थकत्वासम्भवात् लिङ्गिनं चक्रिणं दृष्ट्वा इत्यादिना बाह्यलिङ्गधारणस्य निषिद्धत्वात् लिङ्गमध्ये जगत्सर्वं प्राणेष्वन्तर्मनसो लिङ्गमाहुः ज्योतिर्लिङ्गः भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः लिङ्गं ब्रह्मैव केवलं इत्यादिषु शिवस्य परब्रह्मणः लिङ्गरूपत्वोपदेशात् तैत्तिरीयकैवल्यादिषु दहरं विपाप्मं परवेश्मभूतं हृत्पुण्डरीकं विरजं विशुद्धम् इत्यादिनान्तर्लिङ्गधारणस्यैव निर्दिष्टत्वात् शाखान्तरेष्वपि बाह्यलिङ्गधारणाऽदर्शनात् न बाह्यलिङ्गधारणस्य वैदिकत्वं सिध्यति |
SK
ननु - विश्वाधिको रुद्रो महर्षिः त्वं देवेषु ब्राह्मणः त्वं देवीनां ब्राह्मणानामधिपतिः क्षत्रियाणामधिपतिर्विष्णुः इत्यादिश्रुतिष्वद्वितीयस्य शिवत्य विश्वाधिकत्वब्राह्मणत्व-ब्राह्मणाधिपतित्वदर्शनात् तत्प्रणीतकामिकादिवातूलान्तागमविरुद्धमन्वादिस्मृतिपुराणानाम् मानत्वाभावात् यजुर्वेदसंहितायां त्रिपुरसंहारे - तेषामसुराणां तिस्रः पुर आसन् इत्यारभ्य सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानि इत्यादिना ब्रह्मविष्ण्वादिदेवेषु पशुत्वस्य शिवे पशुपतित्वस्य तेषु शिवलिङ्गभस्मरुद्राक्षादिशैवलाञ्छनधारणस्य च श्रूयमाणत्वात् लोके आराध्याराधकप्रभुभृत्ययोस्तथादर्शनात् सर्वलिङ्गं स्थापयति इत्यादिभिश्च बाह्यलिङ्गधारणस्य विधेयत्वदर्शनात् रागद्वेषादिपाशबद्धानां पशुभावमापन्नानां मुमुक्षूणां भक्तानामस्माकं पतिलाञ्छनात्मकपरशिवेष्टलिङ्गधारणं किमु वक्तव्यम् इति चेन्न | शिवोक्तकामिकाद्यागमानां यावज्जीवलिङ्गधारणविधायकत्वात् न हि कर्मणि- niravakāśatvāt dīkṣitasya sūtakādiniṣedhadarśanena sāpiṇḍyādyuttarakarmaṇāṃ vaiyarthyaprasaṅgāt śaivadīkṣānantaraṃ jīvatvapretatvābhāvena svajātyāśramadharmāṇāṃ prayojanābhāvāt na kuryānniṣphalaṃ karma iti nyāyena vidhiniṣedhaniravakāśatvena vedabāhyamatapraveśāpātāt variṣṭhādibrahmaniṣṭhānāṃ muktātmanāmapi jyotiṣṭomādisarvakarmārambhaśravaṇāt yadvai kiñca manuravadattadbheṣajaṃ ityādi śrutau manvādismṛtīnāmauṣadhavadvidheyatvadarśanāt brahmādīnāṃ liṅgadhāraṇadīkṣāvidhāyakaśrutismṛtyāgamapurāṇopabṛṃhaṇābhāvāt śraddhābhaktidhyānayogādavehi iti kaivalye śraddhābhaktyavacchinnadhyānayogasyaiva
SK
मोक्षसाधनत्वेनोपदेशात् तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये इत्यादिश्रुतिषु मोक्षस्य ज्ञानहेतुकत्वोपदेशात् ऐश्वर्यमीश्वरादिच्छेन्मोक्षमिच्छेज्जनार्दनात् इत्यादिना जनार्दनस्यैव मोक्षप्रदातृत्वश्रवणात् सर्वलिङ्गं स्थापयति इत्यत्र लडन्तत्वेन विध्यभावात् अनेकविधाने वाक्यभेददोषाच्च | स्थापयतीति धात्वर्थेन स्थावरलिङ्गस्थापनपरत्वद्योतनात् तच्च लिङ्गं पाणिना अभिमन्त्रितं पाणिमन्त्रं इत्यर्थलाभाच्च निर्मलान्तःकरणस्य बाह्यकर्माचरणे प्रयोजनाभावात् राजनिष्ठश्वेतच्छत्रादिलाञ्छनानां भृत्येष्वदर्शनात् परमेश्वरनिष्ठगरलभक्षणभुजगभूषणादिधर्माणां भयहेतुत्वेन धर्तुमशक्यत्वात् मङ्गलाचरणवन्मानाभावेऽपि निखिलवैदिकशिष्टाचाराभावात् सगुणोपासनस्य निर्गुणसाक्षिचैतन्यप्रापकत्वाभावात् कामिकादीनामालयोत्सवप्रतिष्ठाद्यंशेष्वेव प्रमाणत्वात् प्रात्यक्षिकश्रुतिस्मृत्याचारविरुद्धस्य लिङ्गधारणस्य स्मृत्यनवकाशन्यायेन साङ्ख्यस्मृतिवन्न विधेयत्वं इति चेत् | अत्र ब्रूमः - लिङ्गधारणसिद्धान्तस्तु - प्रात्यक्षिकश्रुतिस्मृत्यागमपुराणेतिहासविहितत्वेन लिङ्गधारणस्याग्निहोत्रादिवद्वैदिकत्वं सिद्धम् | तस्माद्दीक्षानन्तरं ब्रह्मजिज्ञासा विधीयते | यश्छन्दसामृषभो विश्वरूपः इत्यत्र शिवस्य भक्तोपासनार्थं परिच्छिन्नत्वं युक्तम् | नारायणीये निधनपतये नमः इत्यादिना लिङ्गस्य सर्वात्मकत्वमुक्त्वा सर्वलिङ्गं स्थापयति इत्यनेन तस्यैव परिच्छिन्नलिङ्गधारणविधायकत्वदर्शनात् | सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयः | सर्वव्यापी स भगवांस्तस्मात्सर्वगतश्शिवः || प्राञ्चः प्रत्यञ्चोऽहं इत्यादि श्वेता᳚ष्वतराथर्वशिरःप्रभृतिषु श्रवणाच्च प्राणेष्वन्तर्मनसो लिङ्गमाहुः लिङ्गे सुषुप्तिः लिङ्गं ब्रह्म सनातनम् इत्यथर्वशिरोहंसोपनिषल्लिङ्गपुराणादिषु निरुपपदब्रह्मपदस्य हस्त-कर- śrutaṃ me gopāya iti vākye deveti padavibhāge
SK
अपरिमिताधिकरणन्यायेन सन्निधिश्रुतधारणशब्दान्वयं परित्यज्य व्यवहिते सोपायेत्यत्र अन्वयायोगात् ब्रह्मणः कोशोऽसीति सन्निहितब्रह्मपदस्यैव विभक्तिविपरिणामेनान्वयसम्भवात् धारणशब्दस्य संयोगार्थकत्वेन अमृतपदवाच्यस्य मोक्षस्य अन्यथायोगात् | लिङ्गाङ्गसङ्गिनो वत्स ! पुनर्जन्म न विद्यते | युगपद्-ज्ञानसिद्धिस्स्यात्ततो मोक्षमवाप्नुयात् || इति शङ्करसंहितावचनेन तस्यैव मोक्षोपदेशात् शरीरं मे विचर्षणं इत्यादिना बाह्यपदार्थफलविशेषविधानात् अत्याश्रमस्थस्सकलेन्द्रियाणि अत्याश्रमी सर्वदा सकृद्वा जपेत् व्रतमेतत्पाशुपतं पशुपाशविमोक्षाय व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति तस्मात् तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय तेषामेवैतां ब्रह्मविद्यां वदेत तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति कैवल्याथर्वशिरःकालाग्निरुद्रमुण्डकश्वेताश्वतरादिषु पाशुपतव्रतस्थस्यैव ब्रह्मविद्याधिकारित्वोपदेशाच्च लिङ्गधारणदीक्षितस्यैव ब्रह्मविद्याधिकारित्वं सिद्धम् | ननु - कैवल्यश्वेताश्वतराद्युपनिषत्सु लिङ्गधारणविधायकवाक्यादर्शनात् पाशुपतव्रतस्य भस्मधारणपरत्वमेव इति चेन्न | पाशुपतदीक्षितस्यैव लिङ्गिनस्तदङ्गत्वेन भस्मधारणविधायकत्वोपदेशात् - लिङ्गाङ्गसङ्गिनां चैव पुनर्जन्म न विद्यते | एष पाशुपतो योगः पशुपाशनिवृत्तये || सर्व वेदान्तसारोऽयमत्याश्रम इति श्रुतिः | परब्रह्माभिधं लिङ्गं पशुपाशविमोचकम् || यो धारयति सद्भक्त्या स पाशुपत उच्यते | शरीरत्रितये भक्त्या लिङ्गं परशिवात्मकम् || यो धृत्वा विचरेद्भूमौ स पाशुपत उच्यते | लिङ्गं शिवो भवेत् क्षेत्रमङ्गं संयोग आश्रयः || तस्माल्लिङ्गाङ्गसंयुक्तो यस्तु सोऽत्याश्रमी भवेत् | ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा | यस्तु लिङ्गाङ्गसंयुक्तः स एवात्याश्रमी भवेत् ||
SK
इत्यादित्यलैङ्गस्कन्दकूर्मपुराणेषु पाशुपतात्याश्रमिशब्दयोर्लिङ्गधारिपर्यायत्वेन निर्देशात् तत्परत्वमेवेति सिद्धम् | किञ्च - सामजैगीषीयशाखायां सदानन्दोअनिषदि - अन्तर्धारणशक्तो वा ह्यशक्तो वा द्विजोत्तमः | संस्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरस्थले || धार्यं विप्रेण मुक्त्यर्थमेवं वेदविदो विदुः || अथर्वणे ऐश्वर्यशाखायां - यो वामहस्तार्चितलिङ्गमेकं परात्परं धारयते सततं विप्रः क्षत्रियो वा | तस्यैव लभ्यः परमेश्वरोऽसौ निरञ्जनः परमं साम्यमुपैति दिव्यम् || इत्यादिमन्त्रेषु परमेश्वरध्यानधारणमेव मुमुक्षूणां विधेयमिति श्रूयते | रुद्राध्याये - अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् इत्यनेन परशिवस्यैव जननमरणप्रवाहरूपसंसाररोगनिवर्तकत्वं सूचितम् | अत एव वेदपुरुषेणापि लिङ्गधारणस्यैव पशुपाशविमोचकत्वं ऋग्यजुस्सामादिषूपदिश्यते | ऋग्वेदे - अयं मे हस्तो भगवानयं मे भगवत्तरः | अयम्मे विश्वभेषजोऽयं शिवाभिमर्शनः || अयं माताऽयं पिताऽयं जीवातुरागमत् | इदं तव प्रसर्पणं सुबन्धवेहि निरीहि || इत्यनेन वेदपुरुषस्य प्राणलिङ्गधारणं निर्दिष्टम् | शिवाभिमर्शनः इत्यत्र स्थावरलिङ्गस्पर्शो विवक्षित इति चेत् - शिवमभितस्सर्वदा स्पृशतीत्यर्थलाभात् सार्वकालिकस्पर्शानुपपत्या नान्यार्थो युक्तः | एतदेव वातूले श्रूयते - धारयेद्यस्तु हस्तेन लिङ्गाकारं शिवं सदा | तस्य हस्तस्थितं विद्धि मत्पदं सम्पदां पदम् || इति | अग्न्यवच्छिन्नायःपिण्डस्य तन्निष्ठदाहकत्वप्रकाशकत्वोपदेशात् लिङ्गधारणेनैव तत्करस्य भगवत्तरत्वविश्वभेषजत्वादिपरमेश्वरधर्माः प्रतिपाद्यन्ते | तथा कामिके - अयं मे हस्तो भगवानिति मन्त्रेण सर्वदा | पाणिलिङ्गधृतिर्वेदपुरुषस्य समीरिता || इति | यजुर्वेदे - या ते रुद्र शिवा तनूरघोराऽपापकाशिनी | तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि || त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् | उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ||
SK
सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् | अवश्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् || इत्यादिमन्त्राणामुपबृंहणं श्रूयते लैङ्गे - या ते शिवा तनू रुद्र लिङ्गं मङ्गलदायकम् | लिङ्गं शिवा तनूः प्रोक्ता मूर्तिर्घोरा तनुः स्मृता || अपापेषु च भक्तेषु तयोर्मध्ये शिवा तनूः | काशते परमेशस्य शिष्टास्ते लिङ्गधारिणः || तया शंतमया सौख्यकारिण्या लिङ्गरूपया | अभिचाकशीहि तन्वा गिरिशन्ताभिरक्ष माम् || त्रियम्बकं विरूपाक्षं लिङ्गं ब्रह्म सनातनम् | यजामहे धारयामः सुगन्धिं पुष्टिवर्धनम् | उर्वारुकं यथा बन्धान्मृत्योर्मुक्षीयमामृतात् || प्रथमाष्टे यजुर्वेदे प्रश्ने चरमसंज्ञके | लिङ्गधारणमाख्यातं वेदपुंसां महात्मनाम् || सोमारुद्रा युवमेतान्यस्मे अस्मभ्यमेव हि | विश्वानि भेषजानीष्टप्राणभावात्मकानि च || तनूषु देहत्रितये बद्धं मायामलात्मकम् | कृतं यदेनो दुरितं मनोवाक्कायकर्मजम् || तदस्मदस्मत्तस्तूर्णं मुख्यतोऽवस्यतं युवाम् | मुञ्चतं कृपया सम्यक् प्रभोचयतमीश्वरौ || इति || सोमारुद्रा - सोमारुदौ देवताद्वन्द्वे च इति पूर्वपदस्य दीर्घः सुपां सुलुक् इत्यादिना आत्प्रत्ययः | तत्रैव परमेश्वरस्य मूर्तिद्वयं श्रूयते | रुद्रो वा एष यदग्निस्तस्यैते तनुवै घोराऽन्या शिवान्या इति | तस्मात्सोमरुद्रशब्दाभ्यां घोराघोरमूर्तिद्वयमुक्तम् | युवं - युवामित्यर्थः | विश्वे - विश्वेति टाबन्तमेतत् विश्वानीत्यर्थः | एतानि भेषजानिः भवरोगहराणि इष्ट-प्राण- tanūṣu - śarīratritaye dhattaṃ - dhārayataṃ naḥ tanūṣu baddhaṃ - anādyavidyāvāsitaṃ ata eva kṛtaṃ enaḥ - duritaṃ yadasti tat asmat - asmattaḥ yuvāṃ avasyataṃ mukhyataḥ muñcataṃ -
SK
मोचयतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् इत्यादिष्वद्वितीयस्य शिवस्य परब्रह्मणो मूर्तिद्वयप्रतिपादनादत्र सोमारुद्रा इति मन्त्रे तद्वदुभयं निरूपितम् | उमया सहितः सोमः - पञ्चोपनिषन्मयदिव्यमङ्गलविग्रहः रुद्रम् - भक्तसंसारदुःखं द्रावयतीति रुद्रः युवामेतावुभौ अस्मच्छरीरेषु इष्टादिलिङ्गस्वरूपाणि धारयित्वा अस्मच्छरीरावच्छिन्नमलत्रयात्मककिल्विषं नाशयतमित्यर्थः | विश्वे देवं विदुषा वेदितव्यं शैवं लिङ्गं प्रधृतं सर्वदेवैः | तदात्मसिद्धेर्मुनिभिर्मुक्तिकामैः कण्ठे हस्ते मस्तके वा भवतु धार्यम् इति सामवेदेऽपि | अत एव भवभेषजात्मकशिवलिङ्गधारणादिकं मुमुक्षूणामावश्यकम् | पवित्रं ते इति ऋग्वेदमन्त्रस्य - ऋगित्याह पवित्रं ते विततं ब्रह्मणस्पते | तस्मात् पवित्रं तल्लिङ्गं धार्यं शैवमनामयम् || ब्रह्मेति लिङ्गमाख्यातं ब्रह्मणस्पतिरीश्वरः | पवित्रं तद्धि विख्यातं तत्सम्पर्कात्तनुः शुचिः || अतप्ततनुरज्ञो वै ह्यामसंस्कारवर्जितः | दीक्षया रहितः साक्षान्नाप्नुयाल्लिङ्गमुत्तमम् || (सि-शि. परि-६) इति सिद्धान्तशिखामणौ श्रीरेणुकाचार्येण लिङ्गधारेणवस्वेन निर्देशात् | भक्तस्याविभ्रतो लिङ्गं यावत्प्राणविधारणम् | श्वमांसभक्षणं तावदन्नेन रचितं भवेत् || लिङ्गस्य धारणं यस्य स्थूलदेहे न विद्यते | तद्देहं निष्फलं ज्ञेयं जीवत्यक्तशरीरवत् || तस्मात्तद्धारणं प्रोक्तं यावज्जीवाग्निहोत्रवत् | यथा श्मशानगं काष्ठमनर्हं सर्वकर्मसु | तथा लिङ्गविहीनस्तु सर्वकर्मबहिष्कृतः || इति वातूलस्कान्दलैङ्गादिषु सन्ध्यावन्दनादिवदकरणे प्रत्यवायदर्शनाच्च लिङ्गधारणस्य नित्यत्वं सिद्धम् | किञ्च - भूयासमित्यत्रापि मेधावी भूयासम् ब्रह्मवर्चस्वी भूयासम् अहमेकः प्रथममासं इत्यादिष्विव विध्यर्थोपपत्तेः देवतान्तरधारणविधायकप्रमाणाचारादर्शनात् दीक्षाऽकरणे शरीरत्रयगताणवादिमलत्रयध्वंसाभावात् |
SK
वैदिकत्वं यथा वह्नेः सर्ववेदप्रमाणतः | तथा वेदैकसिद्धत्वाद्वैदिकं लिङ्गधारणम् || वेदवेदान्तशास्त्रेषु पुराणेष्वागमेषु च | ब्राह्मणस्य समाख्यातं लिङ्गधारणमुत्तमम् || इत्यारभ्य वेदोत्तमे यजुर्वेदे तैत्तिरीये विशेषतः | मोक्षार्थिनां मुक्तिहेतुर्लिङ्गधारणमीर्यते || छन्दोभ्यस्सर्ववेदेभ्यो ह्यमृतात्सम्बभूव हि | इन्द्रस्तु परमैश्वर्यशाली साम्वस्त्रिलोचनः || मां मेधया प्रज्ञया च स्पृणोतु प्रीणयत्वथ | अमृतस्य मोक्षलाभाय सर्वदेहेषु सर्वदा || देवस्य लिङ्गरूपस्य शिवस्य परमात्मनः | धारणं तद्धृतिर्यस्य देवधारण इष्यते || तस्माच्छरीरं मे लोके विचर्षणमकिल्विषम् | जिह्वा मे रसना भूयान्मधुरालापभाषिणी || कर्णाभ्यां श्रोत्रयुग्मेन भूरि व्यश्रुवमस्म्यहम् | ब्रह्मणः पार्वतीशस्य कोशोऽधिष्ठानमेव हि || असेरिव यथा लोके प्रज्ञया मेधया वृतः | श्रुतं तच्छ्रवणादीनि मे गोषाय प्रयत्नतः || इत्यादिना लैंङ्गे एतदुपबृंहणश्रवणात् बिभेत्यल्पश्रुताद्वेदो मामयं प्रह (त) रेदिति | इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत् || वेदार्थो यः स्वयं ज्ञातस्तत्राज्ञानं भवेदपि | ऋषिभिर्निश्चिते तस्मिन् का शङ्का स्यान्महात्मनाम् || इत्यादिस्मृतौ स्वतन्त्रतया वेदार्थनिरूपणनिषेधदर्शनाच्च नान्यार्थो युक्तः | लिङ्गिनं चक्रिणं दृष्ट्वा इत्यादि निषेधकस्मृतीनां प्रात्यक्षिकवेदमूलकत्वाभावात् सांख्यस्मृतिवन्न विधायकत्वं श्रौतविधेर्बलीयस्त्वात् | उदिते जुहोति - अनुदिते जुहोति इति वचनद्वयविरोधे शाखान्तरविषयवन्मूलानुट्टङ्कितधूर्तस्मार्तमायावादिकल्पितनिषेध- grāhyam cakripadasāmānādhikaraṇyadarśanāt | śrautaliṅgaviṣayatve liṅgadhāryuttamādhikārivyavasthāpakaśrutismṛtipurāṇāgamādīnāṃ dattajalāñjalitvaprasaktyā vedabāhyamatapraveśaḥ syāt | śrautāśrautavibhedena dvidhā liṅgasya dhāraṇam | ṣaḍadhvaśuddhaliṅgantu śrautamityabhidhīyate | aśrautaṃ taptaliṅgādidhāraṇaṃ procyate śive ||
SK
श्रौतानां वीरशैवानां वेदमार्गैकवर्तिनाम् | तप्तलिङ्गपरिग्राहे प्रत्यवायो महान् भवेत् || इति सिद्धान्तागमे दर्शनात् | यावज्जीवाग्निहोत्रदीक्षितस्य तदितरश्रौतयागदीक्षाविरोधाभाववल्लिङ्गधारणदीक्षाया अपि नित्यविधिप्राप्तत्वेन नहि कर्मणि कर्मान्तरारम्भः इति नियमस्य सावकाशदीक्षाविषयत्वम् | शैवदीक्षाया अग्निष्टोमादिदीक्षावत् प्रतिप्रयोगापवर्गित्वाभावात् तया सह विरोधाभावात् समुच्चयोपपत्तेः शैवानां ऋत्वनुष्ठानमावश्यकमेव उभयोः श्रौतत्वात् | निषेधस्य प्रतिप्रयोगापवर्गियावज्जीवनिषिद्धदीक्षान्तरनिषेधपरत्वादवैदिक- jātāśaucamṛtāśaucādau svakartṛkayāvajjīvāgnihotradīkṣitasya svanityopāsanādhikāravat śaivadīkṣitasya jātāśaucādāvapi liṅgapūjāmātrādhikāravattvam | ata eva sarvaliṅga sthāpayati ityatra pavitraśabdena dhṛtaliṅgasya sarvakāladhāraṇapūjādhikārayogyatvaṃ sūcitam | śaivaṃ devārcanaṃ yasya yasya cāgniparigrahaḥ | brahmacāriyatīnāñca śarīre nāsti sūtakam || liṅgārcanaratā nārī sūtikā vā rajasvalā | raviragniryathā vāyustathā koṭiguṇojvalā | jātake mṛtake vā'pi na tyājyaṃ śivapūjanam || ityādi pārāśarasmṛtisiddhāntaśikhāmaṇyādau liṅgāṅgidehasya pavitratvavyapadeśālliṅgadhāraṇapūjāderna virodhaḥ | nanu pramāṇācārasatve'pi pratyakṣaviruddhatvāt rajassūtakādikālakṛtapūjādhāraṇādikamanupapannam iti cenna - jyotiṣṭomātirātrapauṇḍarīkādiyāgīyapaśuviśasanamāṃsabhakṣaṇasurāpāna- ननु - शैवनां पञ्चसूतकाभावे वर्णचतुष्टयातीतत्वप्रसङ्गात् तत्कृतपाकादिपरिग्रहप्रसक्तेश्च वैदिकानां लिङ्गधारणमनर्हमिति चेन्न | स्वेष्टलिङ्गैकपूजायां नैवाशौचं विधीयते | पौण्डरीके रजः स्त्रीणां स्वाग्निहोत्रे यथा तथा || अकरस्पर्शयोग्याऽपि यथा जिह्वा महेश्वरि | मन्त्रोच्चारणमात्रस्य पूना भवति भूतले || तथा सूतकिनः शैवाः पूजामात्रसुनिर्मलाः | नान्यस्पर्शानुकूलाः स्युरिति वेदानुशासनम् ||
SK
इति सिद्धान्तागमादिषु शिवपूजामात्रयोग्यताश्रवणात् शैवदीक्षानन्तरं प्रेतत्वजीवत्वाभावेऽपि शिवागमेषु शैवानां स्ववर्णाश्रमोचितपूर्वापरकर्मकर्तव्यताया विधेयत्वादकरणे प्रत्यवायदर्शनाच्च विधिविहितयावत्कर्मानुष्ठानमावश्यकमेव | स्वजातिविहितं धर्म कुर्वन्तः पूजयन्ति ये | भक्त्या श्रीकण्ठमनिशं ते वै माहेश्वरा स्मृताः || कर्म विध्युक्तमुत्सृज्य स्वजातिविहितन्नराः | येऽर्चयन्ति शिवं तेषां पूजां गृह्णाति नेश्वरः || वर्णाश्रमसदाचारः शिवेन कथिताः पुरा | ये तानुल्लङ्घ्य वर्तन्ते शिवस्याज्ञापलापिनः || राजाज्ञाभङ्गकृन्नॄणां यथा दण्डो भविष्यति | शिवाज्ञाभङ्गकृन्नॄणान्दण्डो हि नरकस्तथा || साम्बेन शम्भुनाऽऽज्ञप्तं धर्म त्यक्त्वार्चयेच्छिवम् | यस्तस्मै कुप्यति स्थाणुः स्वाज्ञाभङ्गविधायिने || चोदनालक्षणं धर्मं शिवेनाज्ञप्तमत्यजन् | शङ्करं पूजयेद्यस्तु तस्मै साम्यः प्रसीदति || (शङ्करसं अ - १८५, ७८-८३) अन्धपङ्गुवदन्योन्यसापेक्षे ज्ञानकर्मणी | फलोत्पत्तौ विरक्तस्तु तस्मात्तद्द्वयमाचरेत् || ज्ञाने सिद्धेऽपि विदुषां कर्मापि विनियुज्यते | फलाभिसन्धिरहितं तस्मात् कर्म न सन्त्यजेत् || आचार एव सर्वेषामलङ्काराय कल्पते | आचारहीनः पुरुषो लोके भवति निन्दितः || ज्ञानेनाचारयुक्तेन प्रसीदति महेश्वरः | तस्मादाचारवान् ज्ञानी भवेदादेहपातनम् || (सि. शि. परि - १६) इति शङ्करसंहितासिद्धान्तशिखामण्यादौ कर्मकर्तव्यतादर्शनात् स्वप्रयोजनाभावेऽपि भृत्यानां राजाज्ञाभङ्गभयात् तदुदीरितकर्माचरणवत् शैवदीक्षितानां कर्मकरणे प्रयोजनाभावेऽपि शिवाज्ञापालनार्थमवश्यं तत्कर्तव्यमेव | भीषाऽस्माद्वातः पवते | भीषोदेति सूर्यः इत्यादिश्रुतौ पवनप्रभाकरादिदेवानां शिवज्ञानाधिकानामपि परमेश्वराज्ञाभङ्गभयेन सकलजगदनुकूलम्वोचितकर्मानुष्ठानश्रवणात् किं वक्तव्यमल्पज्ञानिनां मनुष्याणाम् | किञ्च लैङ्गे - वयं ब्रह्मादयस्सर्वे पशवःपरिकीर्तिताः | त्वमस्माकं पतिर्यस्मात्तस्मात्पाशुपतिः शिवः ||
SK
इत्युक्त्वा देवताः सर्वाः शिवलिङ्गादिधारणम् | कृत्वा पाशुपताः सर्वे तस्मात्पशुपतिः शिवः | अतो ब्रह्मादिदेवानामुपास्यः शिव एव हि || तथा विभूतिरुद्राक्षलिङ्गधारणदेहिनः | शुद्धस्फटिकमालाभिर्बद्धहस्ताम्बुजानपि || ब्रह्मविष्ण्वादिदेवांश्च दृष्ट्वा साम्बस्त्रिलोचनः | त्रिपुरासुरसंहारमकरोद्भक्तवत्सलः || ब्रह्मविष्ण्वादिदेवाश्च मुनयो गौतामादयः | धारयन्ति सदा लिङ्गमुत्तमाङ्गे विशेषतः || किञ्च स्कान्दे शङ्करसंहितायां - उरस्थले हरिर्लिङ्गं धृत्वा मूर्ध्नि पितामहः | लिङ्गस्थम्मां समाराध्य स्वं स्वं पदमवापतुः || इत्याद्युपबृंहणवाक्ये ब्रह्मादीनां शिवलिङ्गादिधारणदर्शनात् लोके अनन्तपद्मनाभविठलेश्वरादिक्षेत्रेषु नारायणस्यापि पाणि-शिरोदेशेषु प्रत्यक्षशिवलिङ्गधारणदर्शनाच्च न सन्देहकलङ्कप्रसङ्गः | श्रद्धाभक्तिध्यानयोगादवेहि इत्यादिषु ध्यानज्ञानयोरेव मोक्षहेतुत्वव्यपदेशात् बाह्यलिङ्गधारणादिना न किञ्चित्प्रयोजनमिति चेन्न - तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः इति श्रुतौ तस्य - हरस्य अभिध्यानात् - अन्तरनुसन्धानात् योजनात् - संयोगात् बाह्यधारणात् तत्त्वभावात् - तत्त्वसाक्षात्कारात् सकलमायानिवृत्तिर्भवतीति श्रवणात् श्रुतिसङ्कोचे मानाभावात् जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादश्रितत्वादिह तद्योगात् इत्यादौ भगवता व्यासेनापि त्रिविधोपासनाव्यपदेशात् | तथा स्कान्दे - मानसोपासनं कुर्यात् हृदये दहरेऽपि वा | पञ्चाक्षर्या च गायत्र्या रुद्रसूक्तादिभिस्तथा || वाचिकोपासनं प्रोक्तं धृतलिङ्गे शिवात्मके || पाणिपीठे तथा वह्नौ स्थण्डिले वा विधानतः | कायिकोपासनं कुर्यात् श्रद्धाभक्तिसमन्वितः || एवं त्रिकरणैर्नित्यमीश्वरोपासनं द्विजः | कुर्वन्मुक्तिमवाप्नोति वैदिको नान्यहेतुना || इत्यादिना मनस्येकं वचस्येकं कर्मण्येकं महात्मनां इति न्यायेन च मानसयज्ञसंन्यासादीनां प्रवर्तकत्वदर्शनात् अन्तर्धारणमात्रत्वे बाह्याङ्गस्य निष्फलत्वात् तद्गतकार्मिकमलध्वंसाभावप्रसङ्गाच्च |
SK
किञ्च - प्रागुपनयनदीक्षितस्यैव स्वाध्यायोऽध्येतव्यः अहरहस्सन्ध्यामुपासीत इत्यादिवाक्यविहितस्वा यायादिकर्माधिकारवत् लिङ्गधारणदीक्षितस्यैव शिवध्यान- vahnivat mokṣasya liṅgadīkṣāyā mukhyasādhanatvāt tadasvīkāre pūrvodāhṛtaśrutismṛtyāgamapurāṇavairidhyena vedabāhyatvaprasaṅgāt | śivadhyānaparo bhūtvā śivaliṅgāṅgasaṃyutaḥ | śivetaraparityāgī dhyānayogī sa ucyate || mukhe mantro hṛdi dhyānaṃ mastake liṅgadhāraṇam | śikhā sūtraṃ tathā bhasma caitadbrāhmaṇalakṣaṇam || iti manugautamādismṛtiṣu śivaliṅgadhāraṇasya vedavihitatvena dṛṣṭatvācca vaidikānāmavirodhaḥ | mokṣamicchejjanārdanāt iti nārāyaṇasyaiva mokṣapradātṛtvopadeśāttasyopāsanameva mumukṣūṇāmāvaśyakamiti cenna - tathāvidhaśrutyabhāvāt śiva eko dhyeyaśśivaṅkarassarvamanyaptarityajaya jñātvā śivaṃ śāṃtimatyantameti īśaṃ taṃ jñātvā amṛtā bhavanti kṣaraṃ pradhānamamṛtākṣaraṃ haraḥ kṣarātmānāvīśate deva ekaḥ tasyābhidhyānādyojanāttattvabhāvādbhūyaścānte viśvamāyāanivṛttiḥ eko hi rudro na dvitīyāya tasthuḥ yo devānāṃ prathamaṃ purastādviśvādhiko rudro maharṣiḥ tamakratuṃ paśyati vītaśoko dhātuḥ prasādānmahimānamīśam ityādi śrautavidherbalīyastvāt nārāyaṇasya brāhmaṇadevatātvābhāvāt śrutiviruddhasmṛteḥ prāmāṇyābhāvāt tādṛśasmṛtīnāṃ samakṣajalanyāyena paramparayā śivopāsanādvārā mokṣahetutāparatvasya siddhatvāt | sāṅkhyayogasahasreṇa janmanā dvaitago bhavet | tanmatasya sahasreṇa saurammatamupāśnute || tatsahasrasamabhyāsādgāṇāpatyamatī bhavet | tatsahasraṇa bhūloke vaiṣṇavaṃ matamīryate || tadvaiṣṇavasahasreṇa śākto bhavati sarvadā | tatsahasrānmahābhāga śaivasāmānya ucyate || tatsahasreṇa viprendra vīraśaivamatībhavet | tenaiva muktimāpnoti nānyathā bahuyatnataḥ ||
SK
इति स्कान्दे दर्शनाच्च | विष्णुलोकं प्राप्तानां विष्णुसारूप्यमापन्नानां शिवशर्मादीनां शिवोपासनद्वारा मोक्षप्राप्तिः काशीखण्डे श्रूयते | व्यासोऽपि स्वभुजस्तम्भनानन्तरं शिष्यैस्सह शाम्भवदीक्षां लब्ध्वा मोक्षाधिकार्यभूदिति तत्रैव श्रूयते | महिम्नस्तवेऽपि त्रयी साख्यं इत्यारभ्य त्वमसि पयसामर्णव इव इत्यन्तेन ऋजुकुटिलत्वेन स्वमतमन्यमतानि च निरूप्य शिव एव सर्वेषां प्राप्यस्थानमित्युपदिष्टम् | सर्वलिङ्गं स्थापयति इत्यत्र लडन्तत्वेऽपि व्रीहीन् प्रोक्षति व्रीहीनवहन्ति इत्यादिवद्विध्यर्थत्वोपपत्तिः | न चानेकविधाने वाक्यभेददोषः यदाग्नेयोऽष्टाकपालः इतिवत् सर्वेषामप्राप्तत्वेन विधेयत्वात् अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः इति स्मृतिदर्शनात् स्थापयतीत्यत्र भूमावेवेति विनिगमकाभावात् श्रुतेः सङ्कोचासहिष्णुत्वादुभयथा प्रमाणाचारदर्शनाच्च | न च पाणिना मननात्पूजनात्त्रायत इत्यर्थसम्भवेन लिङ्गधारणासिद्धिरिति वाच्यम् - मानसादीनां पूजाकरणत्वदर्शनेन पाणिशब्दस्य वैय्यर्थ्यप्रसङ्गात् पाणिना अभिमन्त्रितं पाणिमन्त्रमित्यप्यसङ्गतं मन्त्रशब्दस्य गौणार्थस्वीकारे ईक्षत्यधिकरणविरोधप्रसङ्गः एतन्मन्त्रार्थस्तु लैङ्गोत्तरभागे एकविंशाध्याये भगवता वेदव्यासेन स्पष्टमुक्तः | यजुरप्याह सर्व वै लिङ्गं स्थापयतीति च | तस्माद्धार्य महालिङ्गं पाणिमन्त्रेति मन्त्रतः || पाणौ लिङ्गं विनिक्षिप्य दीक्षाकाले गुरुः शिवम् | येन स्मरति तन्मन्त्रं पाणिमन्त्रं वदन्ति हि || पवित्रत्वान्महेशस्य शिवस्य प्रतिपादनात् | पवित्रीकरणात् पुंसां पवित्रमिति कथ्यते || अतस्सर्वेषु कालेषु धारयेल्लिङ्गमुत्तमम् | गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि | शुचिर्वाप्यशुचिर्वापि लिङ्गं सर्वत्र धारयेत् || लिङ्गधारी सदा शुद्धो निजलिङ्गं मनोहरं | आर्चयेद्गन्धपुष्पाद्यैः करपीठे समाहिताः || नित्यानि कर्मवृन्दानि तथा नैमितीकानि च | शिवार्पणधिया कुर्यात्सम्यग्ज्ञानाभिवृद्धये || इति (लिं. पु. उ. भा - अ. २१)
SK
ननु वृश्चिकादिविषमात्रेण म्रियमाणस्य कालकूटभक्षणे शक्त्यभावात् रज्जुदर्शनेन सर्पभ्रान्त्या पलायमानस्य भुजगधारणे शक्त्यभावात् यत्किञ्चिल्लाञ्छनधारणे प्रमाणाभावाच्च शिवलिङ्गभस्मरुद्राक्षधारणं मुमुक्षूणां राजभृत्यवन्नाङ्गीकर्तव्यमिति चेदुच्यते - भक्तानां स्वसायुज्यसिध्यर्थं स्वनिष्ठभस्मरुद्राक्षशिवलिङ्गचिह्नामकरणे प्रत्यवायजनकनित्यविधिविषयत्वेन परमेश्वरोपदिष्टत्वात् लोके राजाज्ञाविहितराजचिह्नानामेव भृत्यैः स्वीकारदर्शनात् पूर्वोक्तवेदशास्त्रपुराणागमादिषु शिवलिङ्गभस्मरुद्राक्षधारणविधायकविध्युपदेशात् भुजगधारणविषभक्षणविध्यदर्शनात् ब्रह्मविष्ण्वादीनां सर्वेषां पूर्वभक्तानां शिवलिङ्ग-भस्म-रुद्राक्ष-धारणस्यैव दर्शनात् शिवाज्ञापालनार्थाय शिवभक्तः शिवव्रती | लिङ्गरुद्राक्षभस्मानि शिवचिह्नानि धारयेत् || राजाज्ञोल्लङ्घनाल्लोके यथा दण्डो विधीयते | शिवाज्ञोल्लङ्घनाद्दण्डो रौरवं नरकं तथा || इति लैङ्गे दर्शनाच्च | सगुणस्य मिथ्याभूतत्वात् कथं तदुपासनस्य निर्गुणचैतन्यप्रापकत्वमिति चेन्न - munirgacchati bhūtayoniṃ samastasākṣiṃ tamasaḥ parastāt iti kaivalyaśvetāśvatarādyupaniṣatsu saguṇopāsanasyaiva heyaguṇarahitasarvasākṣicaitanyaprāpakatvopadeśāt sthirebhiraṅgaiḥ purūrupa ugraḥ iti rudrasūktādiṣu parameśvaraśarīrasya nityatvopadeśācca | na cāgamānāmālayotsavapratiṣṭhāṃśa eva prāmāṇyamiti vācyam | gāyatryādisarvamantrāṅganyāsakaranyāsadhyānamudrākuṇḍamaṇṭapādīnāmā- ब्रह्मविद्यायां शाम्भवदीक्षितस्यैवाधिकारित्वमिति निर्णीयते |
SK
ननु - यस्यैते चत्वारिशत्संस्कारा न चाष्टावात्मगुणा न स ब्रह्मणस्सायुज्यं सालोक्यं च गच्छति इत्यादिना गर्भाधानादिसकलकर्मणां दुरितक्षयद्वारा परमेश्वरप्रापकत्वोपदेशात् विद्यां चाविद्यां च यस्तद्वेदोभयं सह तेनैति ब्रह्मवित्पुण्यकृत्त्तैजसश्च सत्येन लभ्यस्तपसाह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यं इत्यादि ज्ञानकर्मसमुच्चयश्रुतिदर्शनाच्च धर्मजिज्ञासानन्तर्यं युक्तम् | किञ्च - तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते इत्यादिना कर्मफलानामनित्यत्वं परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन इत्यादिना कर्मफलेषु वैराग्यं शान्तो दान्तः इत्यादिना शान्त्यादिकं न स पुनरावर्तते इत्यादिना मोक्षस्य नित्यत्वं चाअगम्यते | अतस्तत्रेच्छासंभवान्मुमुक्षुत्वं सूचितम् | तस्मादेतत्साधनचतुष्टयानन्तरं वा ब्रह्मजिज्ञासा कर्तव्या | लिङ्गधारणस्यापि कर्मत्वेन मोक्षोपयोगित्वाभाव इति चेन्न | नास्त्यकृतः कृतेन इति वाक्येन प्राकृतस्यैव कर्मणो निषिद्धत्वात् अमृतस्य देवधारणो भूयासं तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति | तस्मात् तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् इति तैत्तिरीय-श्वेताश्वतर-कालाग्निरुद्रादिषु शिवलिङ्गध्यानधारणादीनामप्राकृतकर्मणां मोक्षहेतुत्वोपदेशात् | गर्भाधानादिप्राकृतकर्मणां मोक्षसाधनत्वविधायकश्रुतिस्मृतीनां साधनचतुष्टयानन्तर्यब्रह्मविद्याधिकारित्वोपदेशकवाक्यानां च अन्नं ब्रह्म इत्यादिवाक्यानामिव स्थूलारुन्धतीन्यायेन च परम्परया साधन्त्वं युक्तम् | सन्दिग्धेषु वाक्यशेषात् इति न्यायेन अमृतस्य देवधारणो भूयासं इति वाक्ये असन्दिग्धत्वेन ब्रह्मविद्याधिकारित्वनिरूपणात् पूर्वोदाहृतज्ञानकर्मसमुच्चयसाधनचतुष्टयप्रतिपादकश्रुतीनां सन्दिग्धत्वं सिद्धम् | शङ्करसंहितायां भगवता व्यासेन-
SK
न त्यज प्राणलिङ्गं त्वं यावज्जीवं प्रतिज्ञया | पुनर्भवो न ते वत्स ! विद्यते मातृयोनिषु || इत्यन्तेन साधनचतुष्टयसम्पद्विशिष्टस्य लिङ्गधारणमुक्त्वा ततो ब्रह्मज्ञानोपदेशविधिर्निर्दिष्टः | रेणुकभगवत्पादाचार्येणापि पिण्डता पिण्डविज्ञानं इत्यारभ्य एतानि शिवभक्तस्य कर्तव्यानि प्रयत्नतः इत्यन्तेन सिद्धान्तशिखामणौ तथैवोपदिष्टम् | न च लिङ्गधारणमात्रेण मुक्तिसम्भवे तदेवालं किमौपनिषदशास्त्रविचारप्रयासेन इति वाच्यं आत्मा वा अरे द्रष्टव्याः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः वेदान्तश्रवणं कुर्यात् इत्यादिना मायापाशविमुक्तानामपि प्रारब्धप्रतिभासनाशपर्यन्तं परमेश्वराज्ञापालनस्य कर्तव्यश्रवणात् तदभावे लिङ्गाङ्गज्ञानदृढप्रत्ययाभावात् पुनः कामक्रोधादीनामन्तःकरणप्रवेशावकाशहेतुत्वात् आसुत्पेरामृतेः कालं नयेद्वेदान्तचिन्तया | कामादिपरिहाराय शिवज्ञानाभिवृद्धये || इति स्मृतेश्च | कारणतया स्वतन्त्रविध्यन्तररहितसौत्रामणीबृहस्पतिसवादेरग्निचयनवाजपेयाद्यङ्गत्वेन उभयविधिवलादुभयसिद्धिवत् लिङ्गधारणब्रह्मजिज्ञासयोर्न विरोधः | न च ज्योतिष्टोमादिवल्लिङ्गधारणस्यापि कर्मत्वेन परम्परया मुक्तिहेतुत्वमिति वाच्यम् पूर्वोदाहृतप्रात्यक्षिकश्रुतिविरोधात् | श्रवणादीनामपि कर्मत्वेन तेषामपि मुक्तिहेतुत्वं न स्यात् | तत्स्वीकारे मायापाशनिवृत्तौ मुख्यकारणाभावात् ब्रह्मजिज्ञासाशास्त्रस्य प्रसक्त्यसम्भवप्रसङ्गः | तथा चेन्मूलच्छेदी तव पाण्डित्यप्रकर्षः | ब्रीहिप्रोक्षणादिकं दर्शपूर्णमासोत्पत्त्यपूर्वहेतुतया स्वर्गे यथा समुच्चीयते तथा परमेश्वरार्पितपुराकृतज्योतिष्टोमादिसर्वकर्माणि साधनचतुष्टयादिकं च शिवज्ञानशिवलिङ्गधारणप्रयोजकतया मोक्षे समुच्चीयन्ते |
SK
ननु - लिङ्गधारण-ब्रह्मविचारशास्त्रयोः कर्त्रैक्याभावात् कथं क्रमनियमः कर्त्रैक्यमिह आधारदर्शपूर्णमासवदङ्गाङ्गित्वेन वा पञ्चप्रयाजवदेकाङ्गिप्रयुक्तानेकाङ्गत्वेन वा गोदोहनादिवदधिकारान्तरप्रयुक्त्युपजीवित्वेन वा षड्यागवदौषध्यादिवच्च फलैक्येन वा भवति इति चेदुच्यते - पूर्वोक्ततैत्तिरीयश्वेताश्वतरकैवल्यजाबालकठवल्यादिश्रुतिस्मृतिपुराणागम- nanau - liṅgadhāraṇasya nityatvamastu jaiminisūtravihitavidhitraye ko vidhirāśriyate apūrvavidhiḥ niyamavidhiḥ parisaṅkhyāvidhirva vrīhīn prokṣati iti vannāpūrvavidhiḥ liṅgadhāraṇasya pavitraṃ te vitataṃ brahmaṇaspate ityādibahuśrutivihitatvāt vrīhīnavahanti itivanna niyamavidhiḥ śivaliṅgetaraśikhāyajñopavītabhasmarudrākṣadhāraṇasya satvāt pañca pañcanakhā bhakṣyāḥ itivanna parisaṅkhyāvidhiḥ liṅgadhāraṇādikartavyatvākartavyatvayorekadā samuccayaprasaktyasambhavāt | ato liṅgadhāraṇasya na vaidikatvamiticennavidhitrayeṇāpi siddhatvāt | amṛtasya devadhāraṇo bhūyāsaṃ ityatrāpūrvavidhiḥ | liṅgadhāraṇasya sarvaliṅgaṃ sthāpayati ityādi bahuśrutivihitatvena nāpūrvavidhiriti cet - upajīvyopajīvakabhāvanyāyena sarvaliṅgaṃ sthāpayati ityādivākyānāṃ phaladhāraṇaśabdāyogena upajīvitvaṃ amṛtasya devadhāraṇo bhūyāsaṃ ityatra mokṣaphaladhāraṇavidhāyakatvaśravaṇādupajīvyatvaṃ ato na doṣaḥ | niyamavidhiśca - tāntrikataptaliṅgaśūlaḍamarugaśaṅkhacakrāṅkananiṣedhapūrvakaśrautabhasmarudrā liṅgadhāraṇādividhānaśravaṇāt | parisaṅkhyāvidhirapi - tāntrikataptaliṅgaśūlaḍamaruśaṅkhacakrāṅkananiṣedhapūrvakaśrautaśikhāsūtra- भस्मरुद्राक्षादिवच्छिवस्यैव शिखासूत्रधारणश्रवणाच्छिवलाञ्छनमिति सिद्धम् | यश्छन्दसां इत्यादि लिङ्गधारणविधायकश्रुतीनां परमेश्वरानुग्रहलब्धसर्ववेदार्थवेदिभिः सर्वज्ञव्यासदूर्वासोरेणुकश्वेतोपमन्युदधीचिकुम्भसम्भवादि- śrutiyuktyanubhūtivādinaḥ bauddhādivanna yuktimātrāvalambinaḥ |
SK
निगमागमोभयवेदान्तप्रतिपादितभक्तिक्रिया- atrānantaryābhidhānamukhenāthaśabdenaiva hetutvārthasiddheḥ kuto'taḥśabdaḥ iti cenna apāmasomamamṛtā abhūma ityādau prākṛtakarmaphalasyāpi nityatvaśravaṇāt omityekāksaraṃ brahma asāvādityo brahma nārāyaṇaparaṃ brahma annaṃ brahmeti vyajānāt ityādau nānāvidhopāsanadarśanāt kathaṃ paraśiveṣṭaliṅgadhāraṇānmuktissambhavatīti śaṅkānirāsāya hetutvadṛḍīkaranārthamataḥśabdo nirdiṣṭaḥ | prākṛtakarmaphalasyānityatve puṇyacito lokaḥ kṣīyate ityādi bahuśrutīnāṃ vidyamānatvāt karmaprakaraṇapaṭhitaśrutyapekṣayā brahmaprakaraṇapaṭhitāyā amṛtasya devadhāraṇo bhūyāsaṃ ityādiśruterbalavattvāt śiva eko dhyeyaśśivaṅkarassarvamanyatparityajya eko hi rudro na dvitīyāya tasthuḥ asaṅkhyātāssahasrāṇi smaryate na ca dṛśyate tvaṃ devānāṃ brāhmaṇānāmadhipatirviṣṇuḥ kṣatriyāṇāmadhipatirbrāhmaṇānāṃ brāhmanairāśrayata ityādiśrutiṣu śivopāsanasyaiva vidheyatvāt yo vai svāṃ devatāmatiyajate prasvāyai devatāyai cyavate na parāṃ prāpnoti pāpīyān bhavati iti śrutau svadevatāparityāge pratyavāyaśravaṇāt | brāhmaṇānāṃ śivo devaḥ kṣatriyāṇāṃ tu mādhavaḥ | vaiśyānāṃ tu tathā brahmā śūdrāṇāṃ suranāyakaḥ || brāhmaṇo bhagavān rudraḥ kṣattriyaḥ paramo hariḥ | pitāmahastathā vaiśyo vṛṣalastu puraṃdaraḥ || ityādipārāśaryapurāṇādiṣu vaidikabrāhmaṇānā śivadevatvaśravaṇāt apāmetyādiśruteḥ abhūtasamlavaṃ sthānamamṛtatvaṃ hi bhāṣyate ityādismṛtyā bhūtapralayāvadhyapekṣitāmṛtatvapratipādanatātparyāvadhāraṇācca |
SK
यतोऽसाधारणकारणत्वेन अमृतस्य देवधारणं विधीयते अतः पशुपतिस्वरूपब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्यः | सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादिषु ब्रह्मजिज्ञासाविधिः श्रूयते | प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इत्यादिश्रुतिष्वात्मन् शब्दस्य परशिवप्रतिपादकत्वदर्शनान्नान्यार्थकत्वम् | अत्र - ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति कर्मणि सष्ठी न शेषषष्ठी | जिज्ञासाया जिज्ञास्यापेक्षत्वात् | शेषषष्ठीपरिग्रहणेऽपि ब्रह्मणो जिज्ञासाकर्मत्वमुपदिश्यते | सम्बन्धसामान्यस्य विशेषनिष्ठत्वात् | एवमपि ब्रह्मणः प्रत्यक्षं कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् प्रधानपरिग्रहे तदपेक्षितानामप्यर्थात् सिद्धत्वात् | अत्र सूत्रे कर्तव्योति पदाध्याहारो नाङ्गीकर्तव्यः विषयप्रयोजनज्ञानादेव पुरुषव्यापारसम्भवात् सिद्धान्ते कार्यान्विते पदशक्त्यनङ्गीकाराच्च | नह्यनुवाददोषः अप्राप्तानुवादे दोषाभावात् | कर्तव्यपदाध्याहारमात्रेण कथमनुवाददोषपरिहारः विष्णुरुपांशुयष्टव्योऽजामित्वाय इत्यादौ तव्यप्रत्ययेऽप्यनुवाददर्शनात् अप्राप्तस्यानुवादस्य कर्तव्यपदाध्याहारं विनापि तत्त्वमसि अयमात्मा ब्रह्म इत्यादिवदनुवादत्वसम्भवान्नानुवादपरिहारायाध्याहारः | न च श्रवणविध्यपेक्षितन्यायविचारार्थत्वादस्य सूत्रस्य श्रुतिसूत्रयोरैकरूप्याथमध्याहारः श्रवणविधेरनङ्गीकारात् | विधित्वप्रयोजकरूपसम्पत्त्यभावेन न तावदपूर्वविधिः | विचारस्य निर्णयहेतुत्वस्य तात्पर्यग्राहकस्य लोकसिद्धवात् | न च ब्रह्मसाक्षात्कारहेतुत्वं न प्राप्तमिति वाच्यम् | विचारमात्रस्य विचार्यनिर्णयहेतुत्वस्य ब्रह्मप्रमाणस्य तत्साक्षात्कारहेतुत्वस्य च प्राप्तौ विचारितवेदन्तिज्ञानरूपश्रवणस्य तद्धेतुत्वप्राप्तेः |
SK
नापि नियमविधिः व्यावर्त्याभावात् | न च गुरुविरहितविचारो व्यावर्त्यः परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन | तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं इति विज्ञानार्थं विधीयमानगुरूपसदनदृष्टद्वारसम्भवे अदृष्टकलनायोगात् | वेदान्तविचारेणैव विज्ञानार्थः पर्यवस्यतीति स्वतन्त्रविचारव्यावृत्तेरुपगम विधिनैव सिद्धत्वात् | न परिसङ्ख्याविधिः साधनान्तरस्य समुच्चित्य प्राप्त्यभावात् | न च व्यापारान्तरस्य निवृत्त्यर्थं यावज्जीवं वेदान्तविचारः कर्तव्यः | न च व्यापारन्तरनिवृत्तिस्सम्भवतीति वाच्यं तत्रैव दोषापातात् | किञ्च - सन्यासिनोऽसंन्यासिनो वा व्यापारान्तरनिवृत्तिः नान्त्यः अशक्यत्वात् | नाद्यः - सन्यासविधायकवाक्येनैव सिद्धत्वात् | ब्रह्मसंस्थोऽमृतत्वमेति इति छान्दोग्येऽप्यनन्यव्यापारस्यैव मुक्तिसाधकत्वश्रवणात् सम्पूर्वकतिष्ठतेस्समाप्तिवाचकत्वस्य अग्निष्टोमसंस्था इत्यादौ दर्शनात् ब्रह्मसंस्थशब्दिताया ब्रह्मणि समाप्तेरनन्यव्यापाररूपत्वात् तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ इत्याथवर्णिके कण्ठत एव व्यापारान्तरनिषेधाच्च आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया इति स्मृतेश्च | तस्माद्विध्यन्तरसिद्धस्य व्यापारान्तरनिषेधस्य नात्र त्रैदोष्यमङ्गीकृत्यविधानमङ्गीकर्तव्यम् | अत एव सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विद्यादिवत् इत्यधिकरणे कैवल्यचन्द्रोदये परमाराध्याः - न चापूर्वविधिः प्राप्तेरनन्योपायतो न च | नियमः परिसंख्या वा श्रवणादिषु सम्भवेत् || इत्याहुः | तस्माच्छ्रवणविध्यभावान्न तदैकरूप्याय लक्षणाध्याहारौ | अस्तु वा श्रवणविधिः तथापि न लक्षणात्याहारौ | सर्वत्र श्रुतिसूत्रयोरैकरूप्यस्यानुमानिकत्वात् | तस्माद्विषयप्रयोजनप्रतिपादनार्थमिदं सूत्रं ब्रह्मज्ञानस्य इष्यमाणतया प्रयोजनत्वं ब्रह्मणश्च विषयत्वं श्रौतम् | इष्यनाणं ब्रह्मज्ञानं न विचारमन्तरेणेति विचारः कर्तव्य इत्युपदिश्यते |
SK
सदा ब्रह्मणो न निर्विशेषत्वं - परास्य शक्तिर्विविहैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति श्रुतिदर्शनात् जिज्ञास्यब्रह्मणः सदा मूर्तामूर्तत्वम् | द्वेवाव ब्रह्मणो रूपे तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतं | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं | ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इत्यादिषू यव्यपदेशात् शृतुसंकोचे मानाभावात् | ननौ - निर्विशेषब्रह्मज्ञानस्यैव तत्त्वज्ञानत्वात् तदेव पशुपाशमोचकं न तु सगुणज्ञानम् |धर्माणां बाध्यत्वात् अथात आदेशो नेति नेतीति एतद्वै तदक्षरं गागिं ब्राह्मण अभिवदन्त्यस्थूलमणण्वह्रस्वं इत्यादिना सर्वधर्मनिषेधश्रवणात् एकमेवाद्वितीयं नेह नानास्ति किञ्चन इत्यादिनाऽद्वितीयत्वबोधनात् साक्षी चेता केवलो निर्गुणश्च इति श्रुतौ गुणनिषेधाच्च | इति चेन्न - नेति नेतीति वाक्यस्य पूर्ववाक्यप्राप्तमूर्तामूर्तोभयप्रपञ्चनिषेधपरत्वात् ब्रह्मधर्माणामनिषिद्धत्वाच्च | तथा च सूत्रं - प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः इति | अन्यथा आनन्दादीनामपि निषेधः स्यात् | अद्वितीयादिवाक्यानां च सदेव सौम्येदमग्र आसीत् इति पूर्ववाक्यैकवाक्यतया सृष्टेः पूर्वकाले अद्वितीयत्वपरत्वप्रतीतेः निर्गुणश्रुतेरपि सत्वादिगुणत्रयाभावपरत्वात् अन्यथा यस्सर्वज्ञस्सर्ववित् इत्यादिवाक्यविरोधाच्च | रेवणसिद्धमरुलसिद्धादिपूर्वाचार्याणां वैदिकानां सृष्टेः पूर्वकाले व्यक्ताव्यक्तोभयप्रपञ्चोत्पत्तेरभावादद्वैतब्रह्मवाक्यानि तद्विषयाणीति तात्पर्यम् | तथा च श्वेताश्वतरे -
SK
यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः अथर्वशिरसि च - अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तः ऐतरेयके - आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् इति | सर्ववेदान्तेषु गतिसामान्यन्यायेन ब्रह्मणि सृष्टिपूर्वकाल एवाद्वैतत्वमवगन्तव्यम् सृष्ट्युन्मुखस्य ब्रह्मणः कामनया बहुभावश्रवणात् | तथा च श्रुतिः - सोऽकामयत बहुस्यां प्रजायेयेति इति | निर्भेदवाक्यान्यपि सृष्टेः पूर्वकाले प्रतियोगिसापेक्षभेदस्याभावात्तद्विषयाण्येव | अभेदवाक्यान्यपि ऐतदात्म्यमिदं सर्वं सर्वोह्येष रुद्राः आत्मैवेदं सर्वं इत्यादीनि स्वेच्छया बहुभावमापन्नस्य ब्रह्मणो विश्वाभेदपराणि | कार्यकारणयोरभेदश्च मृदादिदृष्टान्तेन एकविज्ञानेन सर्वविज्ञानप्रतिज्ञया च | यो मां वेद स सर्वान् देवान् वेद इत्यथर्वशिरसि शिवतत्त्वज्ञानेन सर्वविज्ञानसिद्धिरिति सिद्धम् | सृष्टेः पूर्वकाले जगदुपादानकारणप्रकृतेस्सत्वात् कथमद्वैतमिति चेन्न | तस्या ईश्वरशक्तित्वेन तदभिन्नत्वात् | अयस्कान्तस्य लोहाकर्षणशक्तिवत् | वह्नेर्दाहशक्तिवच्च प्रकृतिस्ततोऽभिन्ना दृश्यते | तथा च श्रुतिः - देवात्मशक्तिं स्वगुणैर्निगूढां इति | पराऽत्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति च पराशक्तिश्च शिवस्यैवासाधारणीति श्रुत्यागमपुराणादिषु प्रसिद्धिः | अतो मुमुक्षुभिरवैदिकजगन्मिथ्यात्वाद्वैतवादो नाङ्गीकर्तव्यः |
SK
नेति नेति इत्यादि शुतीनां न केवलं निषेधमुखेन निरवयवब्रह्ममात्रनित्यत्वबोधकत्वं स्थिरेभिरङ्गैः पुरुरूप उग्रः इत्यादि श्रुतिष्वप्राकृतपरमशिवलीलादिव्यमङ्गलविग्रहाणामपि नित्यत्वश्रवणात् | सदा शेषशेषित्वव्यवस्थापकसंयुक्ताद्वैतपाञ्चरात्रादिवत् न चाङ्गाङ्गित्वेन वयं सावयवत्ववादिनः | जीववत्सुखदुःखभोक्तृत्वप्रसङ्गात् आकाशवत्सर्वगतश्च पूर्णः इत्यादि श्रुतिशतभङ्गप्रसङ्गाच्च | सदा घटपटवन्नात्यन्तभेदवादिनः येनाश्रुतं श्रुतं भवति इत्यादिप्रतिज्ञादृष्टान्त श्रुतिभङ्गप्रसङ्गात् | न च रज्जुसर्पवदेकतरमिथ्यात्ववादिनः | सत्यकामः सत्यसङ्कल्पः इति श्रुतिसिद्धस्वाभाविकानन्तकल्याणगुणभङ्गप्रसङ्गात् यतो वा इमानि भूतानि जायन्ते इत्यादि श्रुतिविहितजगज्जन्मादिकारणत्वभङ्गप्रसङ्गात् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविधायकश्रुतिविरोधात् मूर्तामूर्तोभयब्रह्मोपासनावैफल्यप्रसङ्गाच्च | तस्माद्वयं स्वाभाविकसर्वश्रुतिसमन्वयसिद्धभेदाभेदवादिन इति राद्धान्तः | ज्ञाज्ञौ द्वावजावीशनीशौ प्रधानक्षेत्रज्ञपतिर्गुणेशः इत्यादि श्रुतिष्वद्वितीयस्य शिवस्य परब्रह्मणः सर्वज्ञत्वाद्यसाधारणधर्म्ॐपदेशाच्छुद्धचिद्रूपत्वम् | स्वाभाविकाविद्यापाशबद्धत्वाज्जीवस्य किञ्चिज्ज्ञत्वं सर्वानुभवसिद्धं महदादिजगदुपादानकारणत्वाद्गुणत्रयात्मकप्रकृतेरचिद्रूपत्वम् | सर्वाधिष्ठानस्य सर्वव्यापकस्य परमशिवस्य कथं मूर्तामूर्तत्वमिति चेन्न | मूर्तत्वेन पवनस्य दिगेकदेशवर्तित्वं अमूर्तत्वेन निखिललोकव्यापकत्वं प्रधानस्य महदहङ्कारकलाकाशवायुरूपेणामूर्तत्वं तेजस्सलिलपृथिवीरूपेण मूर्तत्वं च दृश्यत इति | अनन्तशक्तिविशिष्टस्य अघटितघटनासमर्थस्य परशिवस्य किमु वक्तव्यम् ? विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः इत्यादि बहुश्रुतिवाक्यदर्शनात् | शक्तेः सङ्कोचभावेन सृष्टेः पूर्वं महेश्वरः | निरंशो निर्गुणश्चेति वेदान्तेषु प्रगीयते ||
SK
शक्तेर्विकासभावेन ह्यनन्तगुणवानिति | प्रोच्यते भगवान् रुद्रः पशुपाशविमोचकः || मूर्तामूर्तस्वरूपेण यथा वायुर्विराजते | सदाशिवस्तथा भाति सर्वानुग्रहकारकः || मूर्तामूर्तजगद्रपा यथा माया तथा शिवः | मूर्तामूर्तस्वरूपं स्यादिति वेदान्तडिण्डिमः || एतद्वेदान्तहृदयमज्ञात्वा मोहिताः परे | श्रुतेरपार्थं कुर्वन्ति लोके पन्डितमानिनः || इत्यादिना शैवागमेषु वेदैकदेशमतनिन्दाश्रवणान्न तद्विद्वत्परिग्राह्यम् | न च तमः प्रकाशवद्भेदाभेदो विरुद्धः - किं तदेककालेन वा दिवारात्रवत्कालभेदेन वा नाद्यः रूपजाति-शब्दार्थ-गुणगुणि- ghaṭaḥ priyaḥ ityatra nāmarūpāstibhātipriyāṇāmekatra dyotanāt cidānandādyātmakādvaitabrahmaṇyanṛtajaḍaduḥkhasvabhāvaprakṛteḥ kāryakāraṇatvena darśanāt tadambīkāre na hi dṛṣṭe'nupapannaṃ nāma iti nyāyavirodhāt marumarīcikādivadbhrāntimātratve hyarthasiddhikriyāsiddhivirodhācca | na dvitīyaḥ dvāsuparṇā ityādiśrutyanubhavadarśanāt | saṃsāradaśāyāṃ jīvabrahmaṇorbhedaḥ tattvamasi ityādyanekaśrutyanubhavadarśanāmnokṣadaśāyāmabhedaśca yukta eva | satyakāmaḥ iti śrutau śivasya parabrahmaṇaḥ sṛṣṭisthitipralayatirodhānānugraharūpakāmasya satyatvena vyavasthāpanāt aindrajālaśuktirajatavatprapañcasya na vyavahāragātrasatyatvam | na cādhyāsopapattiḥ kāraṇasatyatvena kāryastyatvamiti niyamāt | nirviśeṣasya niṣkriyasya brahmaṇo jijñāsyatvāyogāt | tatrāropitapradhānasattvaguṇapratibimbitamithyābhūteśvaraśabalabrahmaṇo jijñāsyatvaṃ yuktamiti cenna - yanmanasā na manute yenāhurmano mataḥ | tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ityādiśruteḥ pūrvavākyopāttavāgindriyādyagrāhyatvapratipādanadvārā pradhānavākyaikavākyatayā sarvendriyasākṣibhūtabrahmastutiparatvāt saguṇopāsanasyāṣyupakramādisiddhatvāt anyathā gāruḍamāntrikayorapyasambhavaprasaṅgācca |
SK
सगुणब्रह्मत्वेश्वरत्वादिकं कल्पितमितिचेत् - तद्विधायकप्रात्यक्षिकवेदवेदान्तेतिहासपुराणागमादीनां भक्तिक्रियाज्ञानशास्त्राणां दत्तजलाञ्जलित्वप्रसक्तिः स्यात् | असति कल्पिते अविद्यकेश्वरे कृत्रिमसालग्राम इव भक्तिश्रद्धाविश्वासाः कस्य वा भवेयुः कथं कल्पितेश्वरो नानाविधकर्माराधितस्सन् विचित्रफलदाता भवेत् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव इत्यादिविधयोऽपि परित्यक्ता इत्यसंभाष्यत्वमायातम् | एवं चैतन्ये अध्यस्तेश्वरत्वविशिष्टेश्वराद्रज्जुसर्पादिवद्भयमपि न स्यात् | श्रूयते चापरोक्षविद्यावतामपि सूर्यादीनां भयं भीषाऽस्माद्वातः पवते | भीषोदेति सूर्यः इत्यादौ | ज्ञाज्ञौ द्वावजावीशनीशौ अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोन्यः इत्यादिश्रुतिषु जीवब्रह्मणोरजन्यत्वप्रदर्शनेन कल्पितत्ववादो ह्यवैदिकः | किञ्च - निर्विशेषब्रह्मणि किं प्रमाणं प्रवर्तते न तावच्छब्दः शब्दस्य शक्यतावच्छेदकलक्ष्यतावच्छेदकपुरस्सरं शक्तिलक्षणयोः प्रवृत्तेः | नाप्यनुमानं अनुमानस्य पक्षतावच्छेदकव्यापकतावच्छेदकादिपुरस्सरं प्रवृत्तेः | तदनुकूलतर्काणां च व्याप्तिमूलत्वेन व्याप्यतावच्छेदकादिपुरस्सरं प्रवृत्तेः | निर्विशेषज्ञानस्य संशयविपर्ययादिनिवर्तकत्वाभावात् | समानप्रकारकसमानविषयकनिश्चयस्यैवविपर्ययादिनिवर्तकत्वात् | अन्यथा द्रव्यत्वेन घटनिश्चये गेहे घटोऽस्ति न वा इति संशयो न स्यात् |
SK
ईश्वरः स्वनिष्ठवाध्यधर्मातिरिक्तधर्माश्रयः स्वज्ञानाबाध्यधर्माश्रयो वा धर्मित्वात् - घटवत् आत्मत्वात् - देवदत्तवत् सत्यकामत्वादयः न ब्रह्मसाक्षात्कारबाध्याः ईश्वरेतरावृत्तित्वात् ईश्वरत्ववत् | न चाप्रयोजकत्वं निर्धर्मके वस्तुनि साधकप्रमाणसत्वासत्वाभ्यां मम माता वन्ध्या इतिवद्वचनव्याघातेन सर्वव्यवहारोच्छेदप्रसङ्गस्यैव विपक्षबाधकत्वात् | आत्मा वा अरे द्रष्टव्यः इति श्रुतौ परमात्मसाक्षात्कारफलमनूद्य तत्साधनत्वेन श्रवणं विधीयत इत्यनुपपन्नं श्रु - श्रवणे - इति धातोश्शब्दकर्मतया श्रावणज्ञानार्थकत्वात्तस्य चाविधेयत्वादध्ययनविध्यवच्छिन्नवेदाध्यनादेव श्रावणज्ञानस्य वृत्तत्वात् न च - वेदार्थं श्रुणोति इत्यादि प्रयोगदर्शनात् अर्थज्ञानेऽपि धातोश्शक्तिरिति वाच्यं तत्र लक्षणयैवोपपत्तौ शक्तिद्वयाकल्पनात् | वीणानादं शृणोति इत्यादावर्थज्ञानाभावेन वैपरीत्यशङ्कानवकाशात् | अस्तु वा अर्थज्ञानेऽपि शक्तिः - तथापि तदपि च न विधेयं अधीतसा᳚गाध्ययनस्य विदितपदपदार्थसङ्गतेः सत्यं ज्ञानमनन्तं ब्रह्म इत्यादि वाक्येनैव ज्ञातत्वात् | ननु - आपातप्रतिपत्तिस्सा अवधारणात्मकं तु ज्ञानमध्ययनमात्रान्न प्राष्यते इति चेन्न - तस्यापि भ्रमरकीटवत् स्वाभाविकाविद्यानिवृत्तिपूर्वकगुरुकरुणाकटाक्षप्राप्तत्वेन विध्यनर्हत्वात् | न च अत एव विचारः श्रवणशब्देन विवक्षित इतिवाच्यं - विधौ लक्षणापत्तैः |
SK
अत्राहुः - न वा अरे पत्युः कामाय पतिः प्रियो भवति इत्यारभ्य आत्मनस्तु कामाय स्र्वं प्रियं भवति इत्यन्तेन आत्मन एव निरतिशयसुखस्वरूपत्वेन परमपुरुषार्थत्वमुक्त्वा आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितं एतावदरे खल्वमृतत्वं इत्युपसंहारादात्मज्ञानमेव तत्प्राप्त्युपाय इति निश्चीयते तथा च तादृशमात्मज्ञानं द्रष्टव्यः इत्यनूद्य तत्साधनाकांक्षायां श्रोतव्यः इत्यादिना साधनविधिरिति निश्चीयते | शब्दज्ञाने ह्यसाधारणकारणतया विचार एव लक्षणया विधेयो ह्यवगम्यते | तं त्वौपनिषदं पुरुषं पृच्छामि नावेदविन्मनुते तं बृहन्तं नैषा तर्कण मतिरापनेया इत्यादिना श्रुतिमात्रवेद्यत्वेन प्रतिपादिते ब्रह्मणि मानान्तराभावात् द्रष्टव्य इत्यत्र दर्शनसाधनाकाङ्क्षायां वेदान्तवाक्यमेव तत्साधनम् | तच्चाविचारितं न निश्चयाधायकम् | मनननिदिध्यासनसहकृतं विचारितवेदान्तवाक्यमात्मसाक्षात्कारहेतुरित्ययमर्थः सम्पद्यते | न च विधौ लक्षणा क्वाष्यदृष्टचरी अर्धमन्तर्वेदि मितोत्यर्धं बहिर्वेदि इत्यत्र देशविशेषलक्षणायाः जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यत्र वयोशेषलक्षणायाः उच्चै ऋचा क्रियते इत्यादौ ऋगादिपदेन वेदलक्षणायाः यावतोऽश्वान् प्रतिगृह्णीयत् इत्यत्र णिजर्थलक्षणायाः नेक्षेतोद्यन्तमादित्यं नार्षेयं वृणीते इत्यादौ पर्युदासलक्षणायाः न कलञ्जं भक्षयेत् इत्यादिपुरुषार्थनिषेधेषु बलवदनिष्टसाधनतालक्षणायाश्च बहुश उपलब्धेः | तस्माल्लक्षणाया विचारविधिर्युक्तः | ननु - विचारोऽपि विचार्यनिर्णयहेतुत्वेन लोकसिद्धत्वात् कथं विधेय इति चेन्न | अपूर्वविध्यसम्भवेऽपि नियमविधेरवकाशात् | तथाहि विधिस्त्रिविधः - अपूर्वविधिः नियमविधिः परिसंङ्क्याविधिश्चेति | तत्र कालत्रयेऽपि मानान्तराप्राप्तस्य प्राप्तिफलो विधिराद्यः
SK
यथा व्रीहीन् प्रोक्षति इत्यत्र विधिव्यतिरेकेण प्रोक्षणं केनापि न प्राप्तम् | पक्षप्राप्तस्य अप्राप्तांशपरिपूरणफलो विधिर्द्वितीयः यथा व्रीहीनवहन्ति इत्यत्र विध्यभावेऽपि पुरोडाशप्रकृतिद्रव्याणां वीहीणां तण्डुलहोष्याक्षेपादेवावहननं प्राप्यत इति नापूर्वविधिः किन्त्वाक्षेपान्नखविदलनमपि प्राष्नुयादिति तदानीमप्यवहननप्राप्त्यर्थः | द्वयोरेकत्र नित्यप्राप्तावितरनिवृत्तिफलकविधिस्तृतीयः यथा इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यत्र लिङ्गादेव मन्त्रो रशनाग्रहणे नित्यं प्राप्नोतीति नापूर्वनियमविधी किन्तु लिङ्गाविशेषादश्वाभिधान्यामिव गर्दभाभिधान्यामपि मन्त्रः प्राप्नयादिति तन्निवृत्यर्थः | एवं च व्रीहीनवहन्ति इतिवत् श्रोतव्यः इति नियमविधिः | न च व्यावर्त्याभावः शारीरात्मविचारस्य व्यावर्त्यत्वात् | न च तस्य मोक्षसाधनज्ञाने प्राप्त्यभावः - द्वा सुपर्णा द्वे ब्रह्मणी इत्यादिवाक्यादापातप्रतिपत्तिदशायां तस्यापि प्राप्तिसंभवात् | न च वस्तुतस्साधनान्तरप्राप्तावेव नियमविधिः अपूर्वीयव्रीहिषु नखविदलनस्याप्राप्तेर्नियमो न स्यात् | कथञ्चित्तण्डुलीभावमात्रे तत्प्राप्त्या नियभोऽत्राष्यात्मज्ञानत्वेन जीवात्मविचारत्वप्राप्त्या परमात्मविचारे नियमविधिरस्तु |
SK
इहात्मन् शब्दस्य इदं सर्वं यदयमात्मा आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितं इत्यादिप्रकरणपर्यालोचनया परमात्मपरत्वावगमात् समन्वयसूत्रे एकोआमसिद्धभगवत्पादाचार्यैः श्रोतव्यः इत्यत्रात्मज्ञानविधिर्निराकृतः | न तु ज्ञानो द्देशेन विचारविधिरिति तदविरोध इति निर्णीयते | तस्माद्विचारविधौ न किञ्चिद्बाधकमित्येवं स्थिते श्रवणविधेरपेक्षिताधिकारिविषयफलत्रयपरमित्यागमिकन्यायेन निर्णीतमिदं सूत्रं अथातो ब्रह्मजिज्ञासा इति | अत्रानुवादपरिहाराय शास्त्रेषु पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहर्तव्यम् | जिज्ञासापदेन विचारो लक्षणीयः | ननु जिज्ञासापदेन लक्षणा युक्ता प्रकृतिप्रत्ययसमुदायस्याशक्ततया समुदायलक्षणानुपपत्तेः इति चेन्न | सन्प्रत्ययेन जहल्लक्षणया विचारो बोध्यते प्रकृत्या च साध्यज्ञानमजहल्लक्षणयोच्यते | कैश्चित् - प्रकृतेस्सिद्धज्ञानमात्रपरत्वमङ्गीकृत्य साध्यज्ञानेऽपि जहल्लक्षणैवेत्युक्तम् | सिद्धतयोपस्थितौ साधनान्वयायोगेन साध्यतयोपस्थितेरावश्यकत्वात् प्रकृतिलक्षणाऽऽवश्यकीति लक्षणाद्वयमेव शाम्भवानन्दशिवाराध्याभिप्रेतम् |
SK
अत्र केचित् - प्रकृतिप्रत्ययसमुदाये एकैव लक्षणा न च वाक्ये लक्षणा न दृष्टचरी अर्धमन्तर्वेदि इत्यत्र विषं भुङ्क्ष्व इत्यादौ च दृष्टत्वात् | न च शक्यसंबन्धाभावः समुदायशक्त्यभावेऽपि समुदायिशक्यसंम्बन्धादेव तदुपपत्तेः | सा चाजहतीति | न च एकरूपेणैकक्रियान्वयाभावान्न चैकस्य लक्षणेति वाच्यं - तस्या अप्रामाणिकत्वात् | छत्रिणो गच्छन्ति इत्यत्रापि छत्रित्वेनाच्छत्रित्वेन चैकान्वयित्वं न गमनकर्तृत्वेन गन्तारो गच्छन्ति इति प्रसङ्गात् | शाब्दधियोऽवच्छेदकप्रकारतानियमात् | गन्तृत्वस्यावच्छेदकत्वे मुख्यार्थस्यापि लक्ष्यत्वप्रसङ्गात् | न चेष्टापत्तिः | मुख्यार्थसम्बन्धाभावादेतदतिरेकेण मुख्यार्थकल्पनाप्रसङ्गात् | अतो नैकरूपेणैकक्रियान्वयित्वम् | किन्तु छत्रित्वेनाच्छत्रित्वेन च नानारूपेणैव | अत एव काकेभ्यो दधि रक्ष्यतां इत्यत्रापि काकत्वाद्याकारेणैव क्रियान्वयः न दध्युपघातकत्वाद्याकारेण | न च एकवृत्युपस्थापिनां परस्परमनन्वयात् विचारज्ञानयोरनन्वयः स्यादिति वाच्यम् | तयोर्भिन्नवृत्युपस्थाप्यत्वात् | मुख्यार्थस्य लक्ष्यत्वाभावेनाजहल्लक्षणास्थले सर्वत्र वृत्तिद्वयाङ्गीकारात् | न च सकृदुच्चरितस्य वृत्तिद्वयमव्युत्पन्नं गङ्गायां घोषमत्स्यौ इत्यत्र दृष्टत्वात् | न च तीरस्य बोधने गङ्गापदस्य न व्यापारः - तात्पर्यपर्यवसानात् | तात्पर्यपर्यवसानस्यैव बोधकता | तस्मात्समुदाये अजहल्लक्षणायां न किञ्चिब्दाधकम् | वस्तुतस्तु - जिज्ञासापदं तन्त्रेणोपात्तं तत्रैकेन जहल्लक्षणया विचारो बोध्यते | इतरेण इष्यमाणं ज्ञानमभिधया बोध्यत इति न किञ्चिदनुपपन्नम् | एवमेकलक्षणयैवोपपत्तौ न लक्षणाद्वयं गौरवात् | प्रत्ययलक्षणायाः क्वाप्यदृष्टचरत्वाच्च |
SK
किञ्च - इष्यमाणज्ञानत्यागेन तस्यैव पुनस्वीकारात् वान्तभोजनन्यायप्रसङ्गः | ज्ञानस्य फलवत्वाच्च | अनुपपत्तौ हि साध्यत्वं लक्ष्यं तत्र मोक्षसाधनस्यैव सफलत्वमिति | तदंशोऽपि लक्ष्यते | न चेष्टापत्तिः - तस्यार्थिकत्वकथनविरोधात् | प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थाभिधायकत्वनिश्चयाच्च | जिज्ञासापदेनेति ग्रन्थविरोधाच्चाहुः | वाक्ये तावन्नैकलक्षणा सम्भवति | शक्यसम्बन्धस्य लक्षणात्वात् शक्यान्वयबाधे शब्दोपस्थितस्यैव विषयत्वप्रसक्त्या सर्वशक्तिकल्पने गौरवात् | अनयलभ्यस्य शब्दार्थत्वात् | शक्यसबन्धेनोपस्थितस्यापि तात्पर्यवशाद्विषयत्वमङ्गीक्रियत इति शक्यभेदे तत्सम्बन्धानामपि भेदान्न लक्षणाया एकत्वम् | एवं चार्थवादादिस्थलेऽपि पादानामेव वाक्यार्थद्वारा प्राशस्त्यादिलक्षकत्वं प्रत्येकमेव | न तु वाक्ये कदाचिद्व्यासज्यवृत्तिलक्षणा | पदानां तदर्थानां तत्सम्बन्धानां च नानात्वे लक्षणाया एकत्वासम्भवात् | एवञ्च - वाक्यार्थसम्बन्धेन यत्र वस्त्वन्तरं पदैर्लक्ष्यते तत्र वाक्यलक्षणा | यथा अर्धमन्तर्वेदि इत्यादौ तद्भिन्ना पदलक्षणेति शास्त्रे व्यवहारः | एवं स्थिते प्रकृतेऽपि समुदाये नैकलक्षणा | सामुदायिशक्यसम्बन्धादेव तदुपपत्तिरिति वदतां च कथमेकत्वम् समुदायिनां भेदेन तत्सम्बन्धस्यापि भेदात् | न च एकप्रतीतिजनकत्वेन लक्षणानामेकत्वं इष्टापत्तेः | तथा सत्यन्यतरलक्षणयैव विचारोपस्थितौ लक्षणाद्वयेनापि तदुपस्थित्यङ्गीकारे वैय्यर्थ्यात् | यत्तु - छत्रिणो गच्छन्ति इत्यत्र छत्रित्वादिनैवान्वयबोध इति तच्चिन्त्यं - प्राणभृत उपदधाति सृष्टेरुपदधाति इत्यत्रेव समुदायस्य लक्ष्यत्वात् | छत्रिणो गच्छन्ति इति च छत्र्यच्छन्निसमुदायो गच्छतीत्यर्थः न च बहुवचनानुपपतिः गङ्गायां घोषमत्स्यौ इत्यत्र वृत्तिद्वयवचनानामेकवचनस्यैव साधुत्वोपपतेः | अदितिः पाशान् इत्यत्रेवावयवबहुत्वेन वा साधुत्वात् |
SK
न च शक्यसम्बन्धाभावः - समुदायसमुदायिनोरभेदसम्बन्धात् - तयोरभेदेऽपि प्रत्यययोर्वैचित्र्यस्य सर्वसम्प्रतिपत्तेः | शक्यतावच्छेदकभिन्नधर्मेणोपस्थितेरेव लक्ष्यत्वप्रयोजकत्वात् | न च जहल्लक्षणातो भेदप्रसङ्गः - रूपान्तरेणोपस्थितस्यापि स्वार्थस्य क्रियान्वयात् | काकेभ्यो दधि रक्ष्यतां इत्यत्र दध्युपघातकत्वप्रकारकबोधस्यानुभविकस्य अन्यथोपपादयितुमशक्यत्वाच्च | वस्तुतस्तु - यत्र छत्र्यच्छत्रिसमुदायत्वेन रूपेण गमनान्वयप्रतिपत्त्यर्थं छत्रिणो गच्छन्ति इति वाक्यप्रयोगः तत्राजहल्लक्षणया शक्याशक्योपस्थितिर्दुर्वारा | अत एव गुहाधिकरणे मञ्चनपण्डितीये ऋतं पिबन्तौ इत्यत्र पिबदपिबत्समुदायलक्षणाया अजहल्लक्षणता प्रतिपादिता | एवं च लिङ्गसमवायाधिकरणे उपाधानयोगितया गणे स्वार्थोऽष्यन्तर्भूत् इति न वृत्तिद्वयविरोध इत्युक्तं कैवल्यप्रकाशे व्याख्यातं च परमशिवाराध्यभट्टाचार्येण | उपधानयोगितया गणस्य लक्ष्यता इति | यदि च वृतिद्वयमपि तात्पर्यवशात्सकृदुच्चरितस्याष्यङ्गीकृत्य छत्रित्वाच्छत्रित्वप्रकारकबोधेच्छया छत्रिणो गच्छन्तीति वाक्यमङ्गीकृत गङ्गायां घोषमर्त्स्यौ इत्यत्रेव वृतिद्वयव्यापारोऽप्यङ्गीक्रियते अङ्गीक्रियताम् | न चैतावता उक्तस्थले लक्षणया शक्याशक्योपस्थितिर्वारयितुं शक्येत्यवश्याभ्युपेयत्वात् | अजहल्लक्षणादिरासायासवैफल्यमिति दिक् | एवं स्थिते प्रकृतेऽजहल्लक्षणाङ्गीकारे एकवृत्युपस्थितयोर्विचारज्ञानयोः वषट्कर्तुः प्रथमभक्षः इत्यत्रेव उद्देश्यविधेयभावेनान्वयो न स्यात् | दर्शितश्च तादृशान्वयः ज्ञानाय विचारः कर्तव्यः इति परमशिवानन्दाराध्य स्वामिना शिवज्ञानचन्द्रोदये | न च प्रकृते वृत्तिद्वयमेवाङ्गीक्रियते नाजहल्लक्षणेति वाच्यम् | तथा सत्यजहल्लक्षणोक्तिविरोधात् | गङ्गायां घोषमत्स्यौ इत्यादौ वृत्तिद्वयस्थले अजहल्लक्षणाव्यवहाराभावात् |
SK
आस्तां तावज्रहस्त्त्वाजहत्वविचारः वृत्तिद्वयाङ्गीकारेऽपि प्रकृतेर्नैकलक्षणया निर्वाहः - तथाहि - ज्ञानस्य साध्यत्वोपस्थ्तिर्व्यतिरेकेण तावन्न साध्यतयान्वयः न चेच्छाविषयत्वमात्रं साध्यत्वम् | अनिच्छाविषयस्यापि दुःखस्य साध्यत्वात् | असाध्यस्यापि इच्छाविषयत्वात् | विधुरस्यातीतभार्यायामिच्छौत्कट्यदर्शनात् | इष्टसाध्यशब्दयोरपर्यायत्वाच्च | अत एवेष्टत्वेन साध्यत्वानुमानं निरस्तम् | व्यभिचारस्योक्तत्वात् | अस्तु वा साध्यत्वानुमानं तथापि प्रकृते नाप्युअयोगः - वृत्युपस्थितस्यैव शाब्दान्वयबोधविष्यत्वनियमात् | अन्यथा विचारेऽपि लक्षणा न स्यात् | इष्यमाणज्ञानसाध्यत्वन अनुमानादिनोपस्थितस्य अन्वयाद्धीविषयत्वसम्भवात् | किञ्च - प्रत्ययार्थविशेषणत्वेनोपस्थितस्य ज्ञानस्य स्वातन्त्र्येणैव तदुपस्थितिर्नास्ति | गौर्नित्या इत्यादौ गोत्वस्य स्वतन्त्रोपस्थितये लक्षणया अङ्गीकारात् | तस्मात् प्रकृत्या साध्यावस्थं ज्ञानं लक्षणीयमेवेति लक्षणाद्वयस्यावश्यकत्वात् प्रत्यय एव विचारलक्षणा युक्ता न तु समुदाये एतेन तत्कल्पनापि निरस्ता | एकेन विचारलक्षणाया इतरेणापि साध्यावस्थज्ञानलक्षणाया अप्युक्तक्रमेणावश्यकत्वेन पदद्वयं कल्पयित्वा पदद्वयेऽपि लक्षणाङ्गीकायपेक्षया एकस्मिन् श्रुतपदे प्रकृतिप्रत्ययलक्षणाद्वयकल्पनात् द्वयोरेव लघुतरत्वात् | विचारलक्षणापि न समुदाये युक्ता | उक्तयुक्तेः प्रकृतेः प्रत्ययस्य वा तल्लक्षकत्वादन्यतरवैयर्थ्यादिति |
SK
यत्तु सन्प्रत्ययस्य लक्षकत्वं न दृष्टमिति तन्न | सक्तून् जुहोति इत्यत्र द्वितीयायाः करणत्वलक्षकत्वस्य प्रयाजशेषेण हवींष्यभिघारयति इत्यत्र तृतीयाद्वितीययोः कर्मचाधारत्वलक्षकत्वस्य आख्यातस्य कृत्यर्थकत्ववादिनां रथो गच्छति इत्यत्र व्यापारलक्षकत्वस्य फलानुकूलव्यापारार्थकत्ववादिनामपि जानाति - इच्छति- jñānādyāśrayatvapratīteḥ naśyati ityādau ca nāśapratiyogitvapratīterāśrayatvapratiyogitvalakṣakatvasya ca bahulamupalabdheḥ | guhādhikaraṇapūrvapakṣe ṛtaṃ pibantau ityatra buddhikṣetrajñasādhāraṇārthaśatṛpratyayasyakatṛtvaśaktasya kārakatvamātralakṣaṇāyā dūrvāsīme pratipādanācca | na ca pratyayāntarasya lakṣakatve'pi sanpratyaye kvāpi lakṣaṇā na dṛṣṭeti vācyam | śvā mumūrṣati kūlaṃ pipatiṣati ityādau vyāpāramātre lakṣaṇāyā dṛṣṭatvāt | ata eva dhātoḥ karmaṇassamānakartṛkādicchāyāṃ vā iti sūtre āśaṅkāyāmacetaneṣūpasaṅkyānaṃ ityupasaṃṅkhyānaṃ codayitvā na vā tulyakāraṇatvādicchayā vā pravṛttita upalabdheḥ iti vātikena icchākārye vyāpāre lakṣaṇayā prayoga ityukteracetane icchāvattadicchākāryasyāpyabhāvāt | tatra kracā - upamānādvā iti vārtikena icchāsadṛśe vyāpāre gauṇaḥ prayoga iti patañjalibhāṣye prapañcitam | kaiyaṭaśca - tathā sati gauṇamukhyayormukhye kāryasampratyayaḥ iti nyāyena icchāsadṛśe prayogo na syādityāśaṅkya gauṇamukhyanyāyaśca kvacillakṣyānurodhenāpyaṅgīkriyata iti samādadhe | īkṣatyadhikaraṇe kūlaṃ pipatiṣati ityatra dūrvāsabhagavatpādācāryairlakṣaṇāyā aṅgīkārācca | tasmāt sanpratyaye lakṣaṇā nāstīti vacoriktam | yadapi vāntabhojananyāya iti tanna | pratyayasya vicāralakṣakatvena na bodhyate sādhyatā kintu lakṣaṇayā prakṛtyaiveti bodhakabhedasvīkāramātreṇa vāntabhojananyāyāsambhavāt | sādhyatvasyātyāgena tyakta punaḥsvīkārābhāvāt |
SK
यदत्रार्थिकत्वकथनं विरुद्धमिति तदपि न | ज्ञानाय विचारः कर्तव्यः इति ज्ञानं साध्यत्वेनोद्दिश्य साधनं विचारो विधीयते | तत्र सिद्धत्वेनोपस्थितौ साधनाकाङ्क्षा नेति साध्यतामात्रं लक्ष्यते | यावता विना शब्दान्वयापर्यवसानं तावन्मात्रं लक्षणीयम् | तस्मिन् पर्यवसिते विधेः पुरुषप्रवृत्तिपर्यवसितत्वात्तस्याश्च निष्फलाया असम्भवात् फलवत्वसिद्धये मोक्षसाधनत्वं ज्ञानस्य कल्प्यत इत्यार्थिकत्वम् | तत्र भवतामेव तु तद्दृष्ट्या दुरुत्तरम् | ज्ञानस्य प्रत्ययार्थेच्छयां विषयत्वेनान्वये ज्ञानमात्रस्य निष्प्रमाणत्वेन विषयत्वासन्भवान्मोक्षसाधनब्रह्मज्ञानस्यैवेष्यमाणत्वेन श्रौतत्वप्रसङ्गात् | एवञ्च - इदमप्यपरं प्रत्यये विचारलक्षणायां बीजम् | यदाचार्याणां मोक्षसाधनत्वस्यार्थिकत्वकथनं अन्यथा उक्तरीत्या श्रौतत्वप्रसङ्गात् | यदपि प्रत्ययानामित्यादि तदपि न | अपेक्स्.इतविचारस्य प्रकृत्यर्थज्ञानं प्रति साधनत्वेनान्वयात् | इच्छाया विषयविषयिभावेनान्वयः विचारस्य तु साध्यसाधनभावेनेति प्रकृत्यर्थान्वितस्वार्थाभिधाने न कश्चिद्विशेषः | यदपि जिज्ञासापदेन विरोध इति तन्न | प्रकृतिप्रत्यययोर्द्वयोरपि लक्षकत्वे पदस्य सकलस्य लक्षकत्वात्तदभिधातोपपत्तेः | ज्ञानस्य प्रकृत्यर्थस्य साध्यत्वलक्षणायाविचारलक्षणाकथनेनैव कथितप्रायत्वात् तामनभिधाय विचारमनपेक्ष्यति विचारलक्षणाभिधानोपपत्तेश्च | तस्माल्लक्षणाद्वयमेव परमानन्दाराध्येन निर्णीतम् | एकोरामसिद्धाराध्यभगवत्पादाचार्यादिभिः स्वीकृतत्वादेतदेव सम्यगुपादेयम् | शिवस्य परब्रह्मत्वकथनम् ननु - असद्वा इदमग्र आसीत् ततो वै सदजायत अमूलमनाधारमिमाः प्रजाः प्रजायन्ते न कदाचिदनीदृशं जगत् इत्यादिना जगतः
SK
असत्करणत्वानादित्वे प्रतिपादिते तस्मात्तस्य न कर्त्रपेक्षिता समुचिता | ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादौ यागादिकर्मणां जीवकर्तृकत्वफलदातृत्वदर्शनात् चेतनशारीरव्यतिरिक्तेश्वरसद्भावे मानाभावात् तेन प्रयोजनादर्शनात् अदृष्टद्वारा जीवानामेव कर्तृत्वाङ्गीकारात् लोके सुखदुःखभोक्तृत्वदर्शनात् परमेश्वरकर्तृकत्वे वैषम्यनैर्घृण्यापत्या ईश्वरत्वभङ्गप्रसङ्गाच्च ईश्वरेण न किञ्चित्प्रयोजनं सिध्यति | किञ्च - जडकर्मणां जीवानां च फलदातृत्वासंभवात् सर्वज्ञेश्वरसद्भावे क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत् इत्यनुमानेअ ईश्वरस्याङ्गीकारे आत्मा वा इदमेक एवाग्र आसीत् ब्रह्म वा इदमग्र आसीत् हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ओमित्येकाक्षरं ब्रह्म असावादित्यो ब्रह्म नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि गणानां त्वा गणपतिं हवामहे विश्वस्मादिन्द्र उत्तरः एको ह वै नारायण आसीत् न ब्रह्मा नेशानो नापो नाग्निष्टोमौ नेमे द्यावापृथवी अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेति नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं मनो वै ब्रह्मेति चक्षुर्वै ब्रह्मेति श्रोत्रं वै ब्रह्मेति प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म अन्नं ब्रह्म इत्यादिना बहुविप्रतिपत्तिदर्शनात् शिवस्यैकस्यैव कथं ब्रह्मत्वं इति चेन्न | अग्नीषोमीयं पशुमालभेत इत्यत्र द्विपदाश्चतुष्पदाश्च पशवः इति श्रुत्या द्विपदां चतुष्पदां च पशुशब्दवाच्यत्वेन निर्देशात् सन्देहे छागस्य वपायां मेदसः इति श्रुत्यन्तरेण छागपशुत्वनिर्णयवत् शिवस्य ब्रह्मत्वं ग्राह्यम् | अतः - यतो वा इमानि भूतानि जायन्ते इत्यादिषु जगञ्जन्मादिकारणत्वं ब्रह्मलक्षणमुक्तं परमेश्वरस्य | त्रिगुणात्मकशक्त्यवच्छिन्नहिरण्यगर्भनारायणकालरुद्रादीनां नेश्वरत्वम् | तेषामेकैककर्तृत्वेन जगज्जन्मादिकर्तृत्वाभावात् | अत एव सूत्रकारेण जन्माद्यस्य यतः इति निर्दिष्टम् | ब्रह्मोत्तरखण्डे -
SK
यस्याज्ञया जगत्सृष्टा विरिञ्चिः पालको हरिः | संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने || इति जगदुत्पत्त्यादीनां प्रयोजककर्तृश्शिवस्यैवेश्वरत्वं निर्दिष्टम् | किञ्च - मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं | तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् इति | मायां - प्रकृतिं कारणं विद्यात् मायिनं तु महेश्वरं विद्यात् इत्यनेन मायायाः परमेश्वराधीनत्वमुक्तम् | अत एव वशीकृतमायत्वात् स्वतन्त्र इति तस्यांशभूतैः ब्रह्मविष्णुकालरुद्रादिभिश्चैतद्व्याप्तं सर्वमिदं जगदित्युक्तम् | तथा अथर्वशिरसि - देवा ह वै स्वर्गं लोकमगमन् ते देवा रुद्रमपृच्छन् को भवानिति | सोऽत्रवीदहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चन मत्तो व्यतिरिक्तः इत्यादिना शिवस्यैव त्रैकालिकाबाध्यत्वं सर्वान्तर्यामित्वं सर्वकारणत्वं सर्वशब्दवाच्यत्वं सर्वेश्वरत्वं सर्वात्मकत्वं ब्रह्मत्वं च प्रतिपादितम् | काण्वशाखायां - यः ऋथिव्यां तिष्ठन् इत्यादिना पृथिव्याद्यष्टमूर्तिस्वरूपस्यैव ब्रह्मत्वकथनान्नान्यस्याश्शङ्खचक्रविशिष्टदेवताया भूतभौतिकसृष्टिकर्तृत्वेनेश्वरत्वम् | न चावयवव्युत्पन्त्या विष्णोरपि पृथिव्यादिशरीरत्वमन्तर्यामित्वं च सम्भवतीति वाच्यम् | अष्टमूर्तित्वं हि शिवस्यैव प्रसिद्धत्वात् विष्णोरन्तर्यामित्वाप्रसिद्धेः | न चोभयोः शिवकेशवयोरन्तर्यामित्वमष्टमूरित्वं च वक्तुं युक्तं उभयोरेकशरीराभावात् | स्वतन्त्रयोरुभयोरपि नियन्तृत्वे जगतामुत्पत्तिस्थितिसंहाराणां युगपत्संभवे विश्वविलयापत्तेः | सोन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् यो रुद्रोऽग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु इत्यादि श्रुतिशतेषु शिवस्यैव सर्वात्मकत्वसर्वान्तर्यामित्वदर्शनात् | यो वेदादौ स्वरः प्रोक्तः इत्यारभ्य यः परस्समहेश्वरः इत्यन्तेन अकारोकारमकारवाच्यब्रह्मविष्णुरुद्राणां महेश्वरे विलयः प्रतिपादितः तस्मान्नेतरेषां ब्रह्मत्वम् |
SK
किञ्च - ईशानः सर्वविद्यानां इत्यारभ्य सदाशिवो इत्यन्तेन तस्यैव ब्रह्मत्वं प्रणवपर्तिपाद्यत्वं चोक्तम् | तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च देवतम् | पतिं पतीनां प्रथमं परस्ताद्विदाम देवं भुवनेशमीड्यम् इति श्वेताश्वतरे ब्रह्मविष्णुरुद्रादिदेवानां नियन्तृत्वेनेश्वरं विदामो - जानीमः नान्यथेश्वरं जानीम इति निर्णीयते | सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः | जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः इति ऋग्वेदे बुध्यादिविष्ण्वन्तर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः इति ऋग्वेदे बुध्यादिविष्ण्वन्तजगत्कारणत्वं तस्यैवोपपादितम् | सोमप्रकरणपठितत्वान्न सोमलतापरत्वम् अचेतनसोमलतायास्सर्वकारणत्वासम्भवात् | अथर्वशिखायां च - ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैर्न कारणं कारणानां ध्याता कारणं तु ध्येयस्सर्वैश्वर्यसम्पन्नस्सर्वेश्वरश्शम्भुराकाशमध्ये ध्रुवं सर्वाधिकं इत्युपक्रम्य शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य इत्यन्तेन मुमुक्षूणामितरनिषेधपूर्वकं शिवोपासनमेव विहितम् | उतामृतत्वस्येशानः सर्वमिदं शिव एव विजानीमहि शुद्धो निरञ्जनो विभुरद्वयं शिवमेकं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः शिवोऽद्वैतः एको हि रुद्रो न द्वितीयाय तस्थुः न सन्न चासच्छिव एव केवलः विश्वाधिको रुद्रो महर्षि इत्यादिश्रुतिभिश्शिवस्याद्वितीयत्वप्रतिपादनाच्छिव एव पर इति निश्चीयते | किञ्च - ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् | ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः || इत्यादिना नीललोहितस्य शिवस्य परब्रह्मत्वमुक्तम् |
SK
प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यते उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् स ब्रह्मा स शिवस्सहरिस्सेन्द्रस्सोक्षरः परमः स्वराट् इत्यादिना शिवस्य मूर्तित्रयातीतपरब्रह्मत्वप्रतिपादनात् तदन्येषां कारणत्वाभावान्नान्येषां ब्रह्मत्वं युक्तम् | अन्नं ब्रह्म इत्यादि तु स्तुतिमात्रमेव | किञ्च - सर्वो वै रुद्रः सर्वं खल्विदं ब्रह्म त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिवः || मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् इत्यादिना हस्तकरपाणिशब्दवत् ब्रह्मात्मशिवशब्दानां पर्यायत्वश्रवणात् माण्डूक्योपनिषदि उपक्रमे - सर्वं ह्येतद्ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा इत्युक्त्वा अन्ते शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इत्युक्त्वा अद्वितीयब्रह्मप्रकरणे उपक्रमोपसंहारयोरेकार्थप्रतिपादकत्वादुपक्रान्तस्य ब्रह्मण उपसंहारगताद्वैतशिवस्य चाभिन्नत्वोपदेशाच्च जगज्जन्मादिकारणत्वेन परब्रह्मत्वं तस्यैव सिद्धम् | अन्यथा शिवब्रह्मात्मादीनां श्रुत्या जगत्कारनत्वप्रतिपादनात्तेषां प्रत्येकमीश्वरत्वाङ्गीकारे ईश्वरनानात्वप्रसक्त्या सकलमतविरोधः सकलश्रुतिविरोधश्च स्यात् | एवं सर्ववेदान्तार्थज्ञैर्जैमिन्याचार्यैः स्वकृतवेदपादस्तवे सकलवेदवाक्यानां शिवपरत्वमुक्तम् | तथा च चतुर्वेदपारङ्गतैः ज्योतिर्नाथघण्टानाथभीमनाथभट्टभास्करादिभिर्वैदिकैर्वेदमार्गप्रतिष्ठापन् आचार्यैरपि पाषण्डपाञ्चरात्रबौद्धाद्वैतादिदुर्मतनिराकरणानन्तरं - महादेवो देवः सकलजगदाराध्यचरणस्त्रयीमार्गो मार्गः कुमतिमतवृत्तिप्रमथनः | तयोर्यो वा ब्रूते वृजिनमनयोस्तस्य निदधे शिरस्यघ्रिं वादिप्रलयदहनोऽहं नृपसभे ! ||
SK
इत्यादिना शिवस्यैव परब्रह्मत्वं व्यवस्थापितम् | तस्माच्छास्त्रे ब्रह्मजिज्ञासेत्यत्र शिवस्यैव स्वरूपजिज्ञासेति निर्दिष्टम् | एवं ब्रह्मणो यज्जगत्कारणत्वं तच्छिवस्यैवेति सूत्रसन्दर्भरूपे ब्रह्मेति व्यवहारः | ब्रह्मविदाप्नोति परं ब्रह्म वेद ब्रह्मैव भवति शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य इत्यत्र शिवङ्करोतीति शिवङ्करः - भावप्रधानो निर्देशः तस्मादात्यन्तिकपाशनिवृत्तिपूर्वकशिवत्वप्राप्तिरेव मुक्तिरित्युपदिश्यते | न च आगन्तुकत्वेनानित्यत्वात् कथं शिवत्वप्राप्तिरेव मुक्तिरिति वाच्यम् | भ्रमरकीटन्यायेन सत्यक्रिमेः सत्यभ्रमरत्वप्राप्तिदर्शनात् | सत्यात्मकस्य जलस्य स्वभावनिवृत्तिपूर्वकसत्यमौक्तिकत्वप्राप्तिदर्शनात् किमर्थं बन्धमिथ्यात्वकल्पनमिति विवेकिभिर्बोद्धव्यम् | ननु - मरुमरीचिकायां भासमानस्यासत्यस्य तोयज्ञानस्य सत्यं मरीचिकाज्ञानं निवर्तकमिति व्याप्तिबलात् ज्ञानेन सत्यस्य कथं निवृत्तिः इति चेन्न | सत्यस्य पूर्वज्ञानस्योत्तरज्ञानेन स्मृत्वा संस्कारस्य शिवस्मरणेन पापस्य प्रियस्मरणेन दुःखस्य प्रत्यधिकरणं संशयस्य - पूर्वपक्षनिर्णयेन पूर्वपक्षस्य च सिद्धान्तेन निवृत्तिदर्शनात् | ननु - अजामेकां लोहितशुक्लकृष्णां इत्यादौ प्रधानस्य जगत्कारणत्वनिर्देशात् ब्रह्मणो जगत्कारणत्वे विकारित्वप्रसङ्गाच्च | अथ-अतः - अब्रह्मजिज्ञासा इति अब्रह्मणः प्रधानस्य जिज्ञासा कर्तव्येति - चेन्न - तज्जिज्ञासाविधायकश्रुत्यदर्शनात् नोपास्यौ प्रकृतिजीवौ इति श्रुतौ तदुपासनानिराकरणदर्शनात् प्रधानवन्निरधिष्ठानशक्तेरभावाच्च | प्रधानस्य जगत्कारणत्वप्रतिपादकश्रुतीनां शस्त्रं छिनत्ति श्रोत्रं श्रुणोति इति वाक्यानामिव तदन्यकर्तुत्वं सूचितम् | जडस्य जगत्कारणत्वासम्भवात् मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं इत्यादौ मायायाः शिवाधीनत्वदर्शनात् | इति श्रीकरभाष्ये आद्यं जिज्ञासाधिकारणम् जन्माद्यधिकरणम्
SK
लक्षणप्रमाणाधीना हि वस्तुसिद्धिः इति न्यायेन प्रथमं ब्रह्मणः प्राधान्यलक्षणार्थमिदं सूत्रं प्रदर्श्य निर्विशेषत्वसविशेषत्वसंशयविपर्ययनिराकरणार्थं जिज्ञास्य ब्रह्मणो लक्षणमाह - जन्माद्यस्य यतः || २ || इति - यतो वा इमानि भूतानि जायन्ते | येन जातानि जीवन्ति | यत्प्रयन्त्यभिसंविशन्ति | तद्विजिज्ञासस्व | तद्ब्रह्मेति इति | तैत्तिरीये श्रूयतेऽस्य विषयः प्रयन्ति म्रियमाणानि सन्ति अभिसंविशन्तीति वाक्यार्थः | अतः पूर्वाधिकरणे सन्दिग्घत्वेन ब्रह्मणो विचार्यत्वसम्भवादाक्षेपसङ्गतिः | सर्वत्र दृष्टान्तप्रयुदाहरणसङ्गती च सम्भवतः | यथा सन्दिग्धत्वहेतुना ब्रह्म विचार्यं तथा जन्मादीनां जगन्निष्ठत्वेन हेतुना न ब्रह्मणो लक्षणमिति दृष्टान्तसङ्गतिः | अत्र तटस्थलक्षणत्वेन न तथा सम्भवतीति प्रत्युदाहरणसङ्गतिः | जन्म आदिर्यस्येति तद्गुणसंविज्ञानबहुव्रीहिः | अत्र ब्रह्मेति पदमनुवर्तते तच्छब्दस्याध्याहारः | जन्मादि - अस्य - यतः - इति पदविभागः | जन्मादि - सृष्टिस्थितिलयतिरोधानानुग्रहात्मककृत्यपञ्चकं अस्य चिदचित्प्रपञ्चविलासस्य यतो - यस्मात् स्वाभाविकानन्तशक्तिविशिष्टब्रह्मणः सम्भवति तद्ब्रह्मेति सूत्रार्थः | अस्येत्यनेन चाक्षुषप्रत्यक्षविषयीभूतचेतनाचेतनप्रपञ्चस्य कार्यत्वं यत इत्यनेन ब्रह्मणो जन्मादिपञ्चकृत्यकारणत्वं च निर्दिष्टम् | परशिवस्य ब्रह्मणो जगज्जन्मादिपञ्चकृत्यानां श्रुतिसिद्धत्वाज्जीवानां तदुपासकत्वं विधीयते | कारणस्य ब्रह्मणह् कर्तृमकर्तुं च शक्यमेव | अत्र - यतो वेति श्रुतावभिसंविशन्तीत्यनेन आविर्भावतिरोधाने सूचिते | विज्ञाते ब्रह्मणि तटस्थादिलक्षणानुपपत्तिः अविज्ञाते प्रवृत्तिरेव न स्यात् | अतस्तत्र कथं लक्ष्यलक्षणप्रवृत्तिरिति न शङ्कनीयम् | गुरूपदिष्टशाम्भवदीक्षितस्यापातज्ञानसम्भवात् | तन्निश्चयार्थं लक्ष्यलक्षणविचारप्रवृत्तिर्न विरुध्यते |
SK
विशयस्तु - कारणत्वं सर्वाधिष्ठानस्य ब्रह्मणः तत्रारोपितप्रधानसत्वगुणप्रतिबिम्बितकल्पितेश्वरस्य वा सर्वाधिष्ठानस्य ब्रह्मणो निर्गुणत्वाज्जगतश्च नित्यत्वात्तन्न सम्भवति | सावयवस्य कल्पितस्य मिथ्याभूतस्य सुतरां न सम्भवति | किञ्च - ज्ञाज्ञौ द्वावजावीशनीशौ न कदाचिदनीदृशं जगत् इत्यादिना जगज्जीवयोरजातत्वनित्यत्वव्यपदेशात् कथं परमेश्वरस्य कारणत्वम् कारणत्वे उत्पत्त्यसम्भवात् इति सूत्रे भगवता सूत्रकारेण श्रुतिस्मृतिविरुद्धत्वेन जीवोत्पत्तिप्रधानवैष्णवमतस्य निराकृतत्वात् तन्न सम्भवति | अकारणत्वे - यतो वा इमानि इत्यादिशुतिविरोधः स्यात् | असद्वा इदमग्र आसीत् | ततो वै सदजायत सदेव सोम्येदमग्र आसीत् न सन्न चासच्छिव एव केवलः इत्यादिश्रुतिषु असत्कारणत्वसत्कारणत्वसदसद्व्यतिरिक्तपरशिवकारणत्वश्रवणात् बहुविप्रतिपत्तिर्दृश्यते | पूर्वपक्षस्तु - न च परमेश्वरस्य जगत्कारणत्वं निर्गुणत्वात् | तथात्वे जगद्विलक्षणत्वेन तदन्तर्यामित्वेन वा साकारस्य निराकारस्य वा नाद्यः - सर्वव्यापकत्वभङ्गप्रसङ्गात् निरुपाधिकत्वेन निराधारत्वेन च कुलालकुविन्दादिभ्यो घटपटाद्युत्पत्तेरसम्भवाच्च | न द्वितीयः - घटादिवत्परिच्छिन्नत्वप्रसङ्गात् आधेयत्वप्रसक्तैश्च | न तृतीयः - सावयवस्य ब्रह्मणः निरवयवाकाशादिकल्पनायोगात् पूर्ववत्परिच्छिन्नत्वप्रसङ्गाच्च | नापि चतुर्थः - निरवयवस्य सावयवप्रपञ्चकल्पनासम्भवात् निष्कलं निष्क्रियं शान्तं निरवद्यं निञ्जनं इत्यादि श्रुतिविरोधप्रसङ्गाच्च | किञ्च - सत्यज्ञानानन्दात्मकपरशिवजन्यत्वाङ्गीकारे जगतोऽपि सच्चिदानन्दात्मकत्वं स्यात् | तदङ्गीकारे जगतो जन्मादिकं अनृतजडदुःखात्मकत्वं च न स्यात् मृदादिवद्विकारित्वप्रसङ्गश्च | किञ्च -
SK
किञ्च - तद्द्विविधकारणत्वं ब्रह्मणः प्रधानस्य वा नाद्यः - निमित्तत्वे सर्वं खल्विदं ब्रह्म सर्वो वै रुद्रः इत्याद्यद्वैतश्रुतिभङ्गप्रसङ्गात् | न द्वितीयः - एको हि रुद्रो न द्वितीयाय तस्थुः एकमेवाद्वितीयं इत्यादिश्रुतिसिद्धाधिष्ठात्रन्तरनिरासासम्भवात् | न तृतीयः - तमःप्रकाशवत्परस्परविरुद्धस्वभावत्वात् | प्रधानस्याङ्गीकारे अचेतनत्वादसत्वाच्च | कुलालादिवन्निमित्तोपादानत्वासम्भवः विरुद्धत्वात्तदुभयत्वासम्भवः | किञ्च - आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते सदेव सोम्येदमग्र आसीत् न सन्नचासच्छिव एव केवलः इत्यदिश्रुतिसिद्धानन्दादीनां ब्रह्मत्वे विकल्पस्सस्मुच्चयो वा विकल्पत्वे कृतहानाकृताभ्यागमप्रसङ्गोऽव्यवस्था च | व्यवस्थाविकल्पे अनेकब्रह्मत्वप्रसङ्गश्च | समुच्चये तेषामानन्दादीनां धर्मरूपत्वात् जगज्जन्मादिकारणत्वासम्भवः | किञ्च - क्षीरादिवत्परिणाम्युपादानत्वाङ्गीकारे ब्रह्मनिष्ठानन्दादिभङ्गप्रसङ्गः | सुवर्णकुण्डलादिवदारम्भोपादानत्वे पूर्ववद्विकारित्वप्रसङ्गः | प्रागसद्रूपप्रधानादिप्रपञ्चस्य रज्जुसर्पवद्विवर्तत्वाङ्गीकारे शशशृङ्गादीनां किं न स्यात् अतः प्रपञ्चस्य नोत्पत्तिर्विधीयते | तथाइ अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति पूर्वाचार्योक्तन्यायमनुसृत्य शिष्यबोधार्थं वेदप्रामाण्यसिद्ध्यर्थं च अजामेकां लोहितशुक्लकृष्णां इत्यादिश्रुतावचेतनमायाया जगत्कारणत्वोपदेशात्तस्या एवोपाआनकारणत्वं वक्तुं शक्यम् | ब्रह्माध्यस्तप्रकृतिसत्त्वगुणप्रतिबिम्बितकल्पितेश्वरस्य वा तत्कारणत्वं इति चेद्ब्रूमः |
SK
सिद्धान्तस्तु - सर्वाधिष्ठानसच्चिदानन्दषट्स्थलपरशिवब्रह्मण एव जगज्जन्मादिकारणत्वं युक्तम् | अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः | अहं विजानाभि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् आकाशशरीरं ब्रह्म | सत्यात्मप्राणारामं मन आनन्दम् सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते | आकाशं प्रत्यस्तं यन्ति आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा इत्यादिश्रुतिकदम्बेन निरवयवस्यापि ब्रह्मणो बाह्यकरणनिरपेक्षतया सर्वकर्तृत्वं सूचितम् | आकाशशरीरं ब्रह्म इत्यत्र आकाशशब्देन तत्स्वाभाविकचिच्छक्तिरुच्यते न भूताकाश जडस्य तस्य कारणत्वासम्भवात् | सत्यात्मा - सत्यस्वरूपः ऋतं सत्यं इति श्रुतेः प्राणशब्देन सकलजगदधिष्ठानचिच्छक्तिर्व्यपदिश्यते | तस्यां रमते यः स प्राणारामः | मनश्शब्देन पराशक्तिरुच्यते तस्यामानन्दो यस्य | अनेन बाह्यकरणनिरपेक्षता सूचिता | निरवयवस्य वायोर्वृक्षादिकम्पनशक्तिदर्शनात् निरवयवस्य जीवस्य स्वाप्निकप्रपञ्चोत्पत्तिदर्शनाच्च | अनन्तशक्तिविशिष्टस्याघटितघटनासामर्थ्यं किमु वक्तव्यम् मूर्तस्य प्रभाकरस्य ह्यमूर्तकालकल्पनदर्शनात् | भक्तानुग्रहार्थं घृतकाठिन्यवद्दिव्यमङ्गलविग्रहधरस्य महेश्वरस्य मूर्तामूर्तप्रपञ्चकल्पनेऽप्यदोषः | सर्वं खल्दिं ब्रह्म तज्जलानिति शान्त उपासीत इति श्रुतौ समुद्रोत्पन्नफेनतरङ्गादिवत् सर्वजगतस्तदुत्पत्तिस्थितिलयकर्मतया तदात्मकत्वमिति श्रूयते | जगदुपादानपरमेश्वरशक्तेस्तु तदेकदेशवृत्तित्वं पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इति श्रुत्या प्रदर्शितम् | तस्मान्महाकाशान्तर्भूतपवनादीनामिव परमेश्वरान्तर्भूतजगतां परमेश्वरकारणत्वम् | लिङ्गमध्ये जगत्सर्वं लिङ्गवाह्यात्परं नहि इति श्रुत्यापि तथा सूचितम् |
SK
यतो वा इमानि भूतानि जायन्ते इत्यनेन शिवस्य ब्रह्मणो निमित्तकारणत्वं यत्प्रयन्ति इत्यनेन नोपादानकारणत्वं चोपदिश्य्सते | तस्मादविरुद्धमभिन्ननिमित्तोपादानकारणत्वम् | न त्वेककारणत्वं नाध्यारोपत्वं न मिथ्यात्वं च विधीयते | ननु - ज्ञाज्ञौ द्वावजावीशनीशौ इत्यादिना परमेश्वरवज्जीवस्याव्यजत्वोपदेशात् यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुत्या परमेश्वरस्य पञ्चमहाभूतमात्रकारणत्वमिति चेन्न | सृष्टेः प्राक् स्वात्मनि कुसूलधान्यवद्वर्तमानजीवानां बहिर्निर्गमनादिकर्तृत्वदर्शनात् जन्यत्वाजन्यत्वविधायकश्रुतीनां न विरोधः | मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं | तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ममैवांशो जीवलोके जीवभूतस्सनातनः इत्यादिश्रुतिस्मृतिदर्शनात् | शक्तिसंकोचतया सृष्टेः प्राक् परमेश्वरस्य निर्गुणत्वात् निष्कलं निष्क्रियं शान्तं इत्यादि निर्गुणश्रुतीतं तत्कालपरत्वम् | स ईक्षां चक्रे इत्यादि सगुणश्रुतीनां सृष्टयुन्मुखपरमेश्वरशक्तिविकासकालपरत्वम् | सत्यज्`नानानन्दसरूपस्य शिवस्य ब्रह्मणो जगत्कारणत्वे मृदादिवद्विकार्तिवं स्यादिति चेत् - मायां तु प्रकृतिं विद्यात् इत्यादिश्रुतिषु मायाया जगदुपादानत्वं परमेश्वरस्य निमित्तत्वं चोपदिश्यत इति न विरोधः | चिदात्मकपरशिवे कथं जडप्रपञ्चकल्पनमिति चेन्न - यथोर्णनाभिस्सृजते गृह्णते च इत्यादिश्रुअतौ चेतनोर्णनाभेरचेतनतन्तूत्पत्तिदर्शनात् | अघटितघटनाशक्तिविशिष्टपरमेश्वरस्य किमु वक्तव्यम् तस्माज्जडचेतनयोः प्रपञ्चपरशिवयोः कार्यकारणभावस्य ऐक्यस्य च पूर्वोदाहृतैः सर्व स्वल्विदं ब्रह्म तज्जलानिति शान्त उपासीत इत्यादिश्रुतिवचनैः प्रतिपादितत्वात् स एव वैदिकसिद्धान्त इति घण्टाघोषः |
SK
अध्यारोपापवादाङ्गीकारे - सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति एकोऽहं बहुस्यां प्रजायेय द्यावापृथिवी जनयन् देव एकः द्वा सुपर्णा सयुजा सखाया प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् सर्वो वै रुद्रः इत्यादि बहुश्रुतिविरोधात् बौद्धदिवद्वेदबाह्यमतप्रवेशः स्यात् | जडाजडयोरेकत्त्वासम्भवात्प्रपञ्चस्याध्यासिकत्वेन मिथ्यात्वं सम्भवतीति यत् तत्तुच्छम् | तथा हि - अन्यत्रान्यधर्मारोपः खल्वध्यासः | तत्र आत्मन्यनात्मप्रपञ्चारोपो वा अनात्मन्यात्मारोपो वा नाद्यः - पूर्वदृष्टसत्यसर्पसंस्कारेण रज्जुसर्पभ्रान्तिरुपपद्यते | तद्वदात्मव्यतिरिक्तसत्यप्रपञ्चानङ्गीकारात् तदतिरिक्तप्रदेशाभावाच्च | न द्वितीयः - अनात्मन्यात्मारोपे आरोपितात्मस्वरूपस्य ब्रह्मणे मिथ्यात्वापत्तेः जडत्वादिबहुदोषप्रसक्तेश्च | न च पूर्वदृष्टत्वमेव नियामकमिति वाच्यम् | बीजाङ्कुरन्यायवत्पूर्वत्पूर्वाध्यासस्योत्तरोत्तराध्यासहेतुत्वात् अध्यासस्सम्भवति इति चेत् तर्ह्यनवस्थाप्रसङ्गः |
SK
किञ्च यत्र यद्दृष्टं तत्र न तस्यारोपः इति नियमात् तद्दृष्टप्रपञ्चस्यतस्मिन्नारोपः कथमुपपद्यते सर्पे सर्पत्वारोपासम्भवादेअनुपपत्तिर्दुर्वारा | अपि च ब्रह्मप्रपञ्चयोरनादित्वे - यतो वा इमानि भूतानि जायन्ते इत्यादिबहुश्रुतिविरोधात् कार्यकारणत्वप्रयुक्तपौर्वापर्यनियमप्रतिपादकयुक्तिभङ्गप्रसङ्गश्च | दृश्यत्वेन प्रपञ्चस्य मिथ्यात्वाङ्गीकारे ब्रह्मणोऽपि मिथ्यात्वापत्तिः दृश्यत्वाविशेषात् | दृश्यत्वानङ्गीकारान्नोक्तदोषः इति चेत् - लोके ब्रह्मानुभूतिर्न स्यात् | किञ्च - अस्मत्प्रत्ययविषयत्वादपरोक्षत्वाच्च | प्रत्यगात्मप्रसिद्धेः इत्युक्तिविरोधात् नाहम्प्रत्ययविषयो ब्रह्म इति चेन्न | जीवब्रह्मणोः भेदानङ्गीकारात् | कश्चिद्धीरः प्रत्यगात्मानमैक्षत् तरति शोकमात्मवित् | आत्मा वा अरे द्रष्टव्यः दृश्यते त्वग्र्यया बुद्ध्या पश्य मे योगभैश्वरं शिवात्मकमिदं सर्वं सदा पश्यन्ति सूरयः इत्यादिश्रुतिस्मृतिपुराणवचनैर्ब्रह्मदृश्यत्वप्रतिपादनाच्च | ब्रह्मणो व्यावहारिकदृश्यत्वाङ्गीकारे निरधिष्ठानभ्रमप्रसङ्गः | तस्मान्नाध्यासोऽङ्गीकरणीयः | ननु - मायाभासेन जीवेशौ करोति इति कल्पितश्रुत्या जगतो मिथ्यात्वमङ्गीक्रियते इति चेन्न | ज्ञाज्ञौ द्वावजावीशनीशौ ममैवांशो जीवलोके जीवभूतस्सनातनः इत्यदि श्रुतिस्मृतिविरोधप्रसङ्गात् अचेतनस्य प्रधानस्य चेतनजीवेश्वरकर्तृत्वासम्वाच्च | अन्तवत्वमसर्वज्ञता वा इति सूत्रविरोधः कृतनाशाकृताभ्यागमप्रसङ्गश्च | परमेश्वरसत्तावशात्प्रधानस्य जगत्कारणत्वमिति चेन्न - ईक्षत्यधिकरणे तदैक्षत इत्यादि श्रुतिप्रामाण्यमङ्गीकृत्य वेदबाह्यत्वेन प्रधानजगत्कारणत्वमतस्य निराकृतत्वात् | किञ्च - मिथ्यात्वं नाम - असत्वं अनिर्वचनीयत्वं बाध्यत्वं वा नाद्यः - वेदाप्रामाण्यप्रसङ्गात् | न द्वितीयः - मौनत्वापत्तेः | न तृतीयः - किमिदं बाध्यत्वं त्रैकालिकनिषेधप्रतियोगित्वं ज्ञाननिव्र्त्यत्वं वा नाद्यः - pūrvakālaniṣedhaḥ anubhujyamānatvānna vartamānakālaniṣedhaḥ
SK
सङ्कोचरूपेण वेदराशेः प्रलयेऽपि परमेश्वरे सत्वान्न भविष्यत्कालनिषेधः न द्वितीयः - ज्ञानिनां पूर्ववत्प्रपञ्चस्य भासमानत्वात् तेषां क्षुप्तिपासादिकस्य दृष्टत्वाच्च | न च - दग्धपटन्यायेन जीवन्मुक्तस्य देहेन्द्रियादिभेदज्ञानसम्बन्ध इति वाच्यम् | मरुमरीचिकादौ भ्रान्तिनाशेऽपि जलत्वेन प्रतीयमानत्वमिव | प्रकृते न वक्तुं शक्यं यथा दग्धपटोऽपि पटवद्भासते शीतनिवारकत्वादि - क्रियासिद्ध्यभावात् लोके मरुमरीचिका जलवद्भासते पिपासाशान्त्यादि - धर्माणामयोग्यत्वात् तद्वज्जीवन्मुक्तानां भेदज्ञानसत्त्वेऽपि शरीरकम्पनक्षुत्पिपासादिकं न सम्बध्येत | लोके दण्डनाशेऽपि तज्जन्यभ्रमणवदविद्यानाशेऽपि तत्कार्यप्रारब्धशरीरादेभोगैकनाश्यत्वमिति चेन्न | तन्तुपटादिवदविद्याया उपादानकारणत्वात् तस्मात्तथा न युक्तम् | तथा दूर्वासीये - अनाद्यविद्यया बद्धं ब्रह्म तत्कालकारणम् | स्वाविद्यया संसरति मुक्तिः कल्पितवाक्यतः || एवं प्रतारणं शास्त्रं सर्वमाहात्म्यनाशकम् | उपेक्ष्यं शिवभक्तैस्तु श्रुतिस्मृतिविरोधतः || फलनाशादिदं तस्य फलं वै मुख्यतस्तमः | ज्ञाननाश्यत्व सिध्यर्थं तदेव हि निरूपितम् || तदन्यथैव संसिद्धं विद्याऽविद्यानिरूपणैः | तन्मायिकत्वकथनं पुराणेषु प्रदृश्यते | तथेन्द्रजालपक्षेऽपि मतान्तरमिदं ध्रुवम् || नास्ति श्रुतिषु तद्वार्ता दृश्यमानासु कुत्रचित् | वाचारम्भणवाक्यानि तदनन्यत्वबोधनात् | न मिथ्यात्वाय कल्पन्ते शिवोपादानकारणात् || ज्ञानार्थमर्थवादश्चेज्जगत्सृष्ट्यादिकारिणि | शक्तेरनङ्गीकरणाद्विधिमाहात्म्ययोर्न तत् || अपवादार्थमेवैतदारोपो वस्तुतो न हि | दृढप्रतीति सिध्यर्थमिति चेत्तन्न युज्यते || मुख्यार्थबाधकं नास्ति कार्यदर्शनतश्श्रुतेः | ऐन्द्रजालिकपक्षेऽपि तत्कर्तृत्वं तदीरितम् || मायादीनां च कर्तृत्वं श्रुतिसूत्रैर्न बोध्यते | अकर्तृत्वं च यत्तस्य माहात्म्यज्ञापनाय वै ||
SK
विरुद्धमध्यारोपादि न युक्तिस्तस्य कारणम् | मायिकत्वं पुराणेषु मोहार्थमुपपद्यते | तस्मादविद्यामायात्वकथनं मोहनाय वै || असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् | अपरस्परसम्भूतं किमन्यत्कामहेतुकम् || (भ. गी. १६-८) सेश्वराद्वैतभावे तु सर्वं शिवमयं जगत् | ज्ञानाद्विकल्पबुद्धिस्तु लीयते न स्वरूपतः || भिन्नत्वं नैव युञ्जीत शिवोपादानतः क्वचित् | एवं वैदिकसिद्धान्तः सेव्यो नान्य इति श्रुतिः || इति | एवमविद्यामायाप्रतिबिम्बितजीवेश्वरवादोऽपि न युक्तः | तथा हि - अस्मत्प्रत्ययगोचरश्शारीरस्तु अविद्याप्रतिबिम्बितः अन्तःकरणप्रतिबिम्बितो वा अविद्यावच्छिन्नचैतन्यं अनतःकरनावच्छिन्नचैतन्यं वा ईश्वरस्तु मायाप्रतिबिम्बितः मायावच्छिन्नो वा उभयोस्स्वाभाविकत्वं औपाधिकत्वं वा तदुपाधिस्तु माया अविद्या अन्तःकरणं वा न तु स्थूलोपाधिः परलोकगमनानुपपत्तेः | कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः इत्युक्तेः तत्प्रतिबिम्बपक्षोऽपि न युक्तः | ब्रह्मणो नीरूपत्वेन मायाया असत्पदार्थत्वेन तत्प्रतिबिम्बो न स्यात् | न च जलाकाशप्रतिबिम्बवत् इति वाच्यम् | दृष्टानुसारिणी कल्पना इति न्यायेन नीरूपस्याकाशस्य प्रतिबिम्बासम्भवात् | तत्प्रतिबिम्बप्रतीतिस्तु भ्रान्तिरेव | जलादौ मूर्तात्मकसूर्यादिप्रतिबिम्बदर्शनात् | अन्यथा वायोरपि प्रतिबिम्बापत्तेः | दर्पणरेखावद्यत्र यदस्ति तत्र तत्प्रतिबिमो नास्तीति नियमात्सर्वगतस्य ब्रह्मणस्सर्वगतमायायां प्रतिबिम्बः कथमुपपद्यते न च विभुपदार्थयोस्संयोगासम्भवात्प्रतिबिम्बाभावोऽयुक्त इति वाच्यम् | संयुक्तस्यापि प्रभामण्डलस्य तथा तद्दर्शनात् | गुहां प्रविष्टौ परमे परार्धे गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् इत्यादिश्रुतिसूत्राभ्यां जीवेश्वरयोरेकत्र स्थितेर्निर्णीतत्वात् बिम्बप्रतिबिम्बयोरेकत्र निवेशासम्भवात्तत्पक्षो न युक्तः |
SK
किञ्च - मायाऽविद्यायोर्ब्रह्मप्रतिबिम्बौ जीवेश्वरौ | मायाऽविद्यानाशस्तयोर्मोक्षः खलु तदङ्गीकारे जीवेश्वरनाश एव मोक्ष इति सम्पद्यते | अतः पाषण्डबौद्धमतप्रवेश आत्महन्नमपुरुषार्थ इति मोक्षस्यापुरुषार्थत्वमापद्येत | जीवेश्वरयोरलीकत्वं स्यात् | तथात्वे पारलौकिकप्रयत्नं कोऽपि न कुर्यात् | मुमुक्षुहि मोक्षार्थं न येतत | उभयस्वरूपस्य मिथ्यात्वात् सर्वस्य ह्यैहिकप्रवृत्तिरेव स्यात् | सर्वाप्रवृत्तौ प्रवृत्तिमात्रोच्छेदः स्यात् | सर्वेऽपि विधिनिषेधयोर्मिथ्यात्वाविशेषात् कुत्रापि न प्रवर्तरन् | तथा सति सन्मार्गोच्छेदश्च स्यात् | जीवस्य प्रतिबिम्बत्वेनालीकत्वात् ऐतदात्म्यम् इत्यारभ्य स आत्मा इत्यन्तेन तत्त्वम्पदार्थं निरूप्य न तत्त्वमसि इत्येव वदेत् | दर्पणप्रतिफलितवह्न्यादिवदर्थक्रियाकारित्वं न सम्भवत्येव | किञ्च - यो विज्ञाने तिष्ठन् इत्याद्यन्तर्यामिब्राह्मणविरोधः | निखिलोपाधौ प्रतिबिम्बस्यैकत्वेन जीवैक्याद्बन्धमोक्षसुखदुःखादिव्यवस्थानुपपत्तेः तस्मात्प्रतिबिम्बपक्षोऽप्यनुपपन्नः | जडान्तःकरणावच्छिन्नचैतन्यस्य जीवत्वाङ्गीकारे घटपटावच्छिन्नचैतन्यस्यापि जीवत्वमुपपद्येत | तस्मादवच्छेदपक्षोऽपि पूर्वोक्तदूषणग्रस्तत्वान्न युक्तः | एकधा बहुधा चैव दृश्यते जलचन्द्रवत् इति श्रुतिरसाधुरेव | पूर्वोदाहृतश्रुतीनां बलिष्ठत्वात् | न हि दृष्टान्ते सर्वसम्भवः इति न्यायेन ब्रह्मणः सर्वगतत्वे दृष्टान्त उपलभ्यते |
SK
मायाभासेन जीवेशौ करोति इति वाक्येन न जीवेशयोः कल्पितत्वमुपपद्यते ज्ञाज्ञौ द्वावजावीशनीशौ इत्यादि बहुश्रुतियुक्त्यनुभवविरोधात् | मं - शिवं अयतीति माया अय-पय-गतौ इति धातोः प्राप्त्यर्थकत्वात् मः शम्भौ धातृचन्द्रयोः इति निघण्टुश्रवणात् प्रणवार्थविवरणे अकारो ब्रह्मा उकारो विष्णुः मकारो रुद्रः इति श्रुतेश्च | माया-परशिवशक्तिः आभासेन - परमेश्वरसमप्रकाशेन जीवेशौ करोति - प्रकटीकरोतीत्यर्थः | अन्यथा सर्वश्रुतिभङ्गप्रसङ्गः | पूर्वोक्तसत्यानन्दादीनां जगत्कारणत्वे न दोषः | तेषां परमेश्वरस्वरूपत्वात्तद्धर्मात्वाच्च | अग्नेर्लौहित्यौष्ण्यप्रकाशवत् | तस्मात्प्रपञ्चस्य कर्तृजन्यत्वं घटादिवद्वक्तुं शक्यम् | यद्यपि जन्मादिकं जगन्निष्ठं व्यधिकरणत्वान्न तद्ब्रह्मस्वरूपलक्षणम् | तथापि जगत्कारणत्वं परमेश्वरस्योपदेशात्तटस्थलक्षणम् | स्वरूपभिन्नत्वे सति व्यावर्तकत्वं तटस्थलक्षणम् | यद्यप्यव्यभिचाराज्जगज्जन्मादिकं प्रत्येकं लक्षणं सम्भवति तथाप्युत्पादकत्वमात्रं निमित्ते अत उत्पत्तिस्थितिग्रहणं न लयग्रहणम् | कदाचिदपि निमित्तकारणे न कार्यस्य लयस्सम्भवति | न च तावतैवोपादानत्वलाभादुत्पत्तिस्थितिग्रहणं व्यर्थमिति वाच्यम् | न ह्युपादानत्वं सकलधर्मितयोच्यते | किन्तु प्रकृतिविकारन्यायेनाभेदप्रतिपत्त्यै | भवतु ब्रह्म जगदुपादानं उत्पत्तिस्थित्योरन्य एवाधिष्ठाता स्यात् कुम्भकार इव कुम्भोत्पत्तौ राज्यवच्च राजावस्थानमिति | प्राशंसिकमुत्पत्तिस्थितिग्रहणमिति |
SK
स्वरूपलक्षणं तु सत्यं ज्ञानमनन्तं ब्रह्म इति श्रुतिप्रतिपादितं सत्यादिस्वरूपत्वम् | ननु सत्यत्वादेः परमशिवस्वरूपाद्भेदेन परमशिवस्वरूपलक्षणत्वं अभेदे वाक्यार्थसिद्धिः गुणप्रधानभावापन्नपदार्थसंसर्गो हि सर्वत्र वाक्यार्थः न चाभेदे तत्सम्भवति इति तत्सम्भवति इति चेन्न | यत्र पदार्थप्रमितिः तत्र संयोगो वाक्यार्थः | यत्र पदार्थप्रमितिपरः तत्र संयोगो वाक्यार्थः | यत्र पदार्थप्रमितिपरः पदसन्दर्भः तत्राखण्डपदार्थ एव वाक्यप्रतिपाद्यः | यथा - अस्मिन् ज्योतिर्मण्डले कश्चन्द्रः इति प्रश्ने प्रकृष्टप्रकाशश्चन्द्रः इति वाक्यमखण्डचन्द्रस्वरूपप्रतिपत्तिपरम् | न च प्रकृष्टप्रकाशवैशिष्यं वाक्यप्रतिपाष्टद्यं प्रमेयं मानान्तरसिद्धत्वात् | नापि चन्द्रत्ववैशिष्ट्यं एकव्यक्तिकतया चन्द्रत्वजातेरभावात् | न च चन्द्रशब्दवाच्यत्ववैशिष्ट्यं तस्याप्यदृष्टत्वात् | स्वरूपमात्रप्रश्ने तस्याभिधानानौचित्यात् | वस्तुतस्तु - वाक्यानां सर्वत्र श्रूयमाणपदार्थसंसर्गपरत्वनियमोत्सादनाय पदार्थमात्रनिष्ठत्वमपि क्वचिदस्तीति व्युत्पाद्यत् | तच्च लक्षणावाच्यम् | तत्र लोके पदानां विशिष्टशक्तित्वेन पदार्थः सर्वोऽपि सखण्ड एव तथापि न दृष्टान्तासिद्धिः | पदार्थमात्रनिष्टत्वे वाक्यम् दृष्टान्तत्वसम्भवात् | एवं चापि सत्यादिपदान्येकब्रह्मपदार्थनिष्ठानि ब्रह्मपदार्थश्च न विशिष्टः अभेदश्रुतिसहस्रात् | ननु विशिष्टवाचकैस्सत्यादिपदैः कथमखण्डबोधः इति चेत् तल्लक्षणयेति गृहाण | उक्तञ्च शिवाद्वैतप्रकाशे - उपायस्तु वैशिष्ट्यं अखण्डचन्द्रप्रतिपत्तौ तच्च विरोधाच्चन्द्रे न ज्ञायते सत्यादिवाक्ये त्वनन्तादिपदैर्वैशिष्ट्यं बाध्यते इति एतेन सेनावनादिलक्षणस्य नाखण्डार्थकत्वम् सेनावनादीनां समुदायरूपत्वेनाखण्डार्थत्वाभावादिति न लक्षणामात्रस्याखण्डार्थत्वम् इति निरस्तम् | तत्रापि पदार्थमात्रनिष्ठत्वस्याविवादात् |
SK
ननु लक्षणयैकत्वपरत्वे सत्यादिवाक्यानामेकेनैव तादृगर्थबोधात्पदान्तरवैय्यर्थ्यं पर्यायत्वप्रसङ्गश्च इति चेन्न | विशिष्टशक्तानां शक्यार्थेऽपर्यायाणामेव लक्षणयैकार्थपरत्वस्यार्थवादानांप्राशस्त्यपरत्वस्येवाविरोधात् | न च वैय्यर्थ्यं व्यावृत्तिभेदात् | सत्यपदेनासत्यव्यावृत्तिः ज्ञानपदेन जडव्यावृत्तिः अनन्तपदेन परिच्छिन्नव्यावृत्तिरिति | सर्वत्र व्यावृत्तिभेदात् न पौनरुक्त्यम् | ननु किं व्यावृत्तयोऽपि ब्रह्मभिन्ना अभिन्ना वा आद्ये ह्यैक्यश्रुत्यनुपपत्तिः द्वितीये तदेव पदान्तरवैय्यर्थ्यं इति चेन्न | एकस्मिन् प्रतियोग्यनुयोगिकारणव्यापकादिशब्दवदवैय्यर्थ्योपपत्तेः | न हि कारणतादिकं धर्मान्तरम् | एवं व्यावृत्तीनां ब्रह्माभेदेऽपि प्रतियोगिभेदादवैय्यर्थम् | एतदभिप्रायेणैव शिवाद्वैतप्रकाशे सङ्ग्रहः - अविशिष्टमपर्यायानेकशब्दप्रकाशितम् | एकं वेदान्तनिष्ठितमखण्डं प्रतिपेदिरे || इति तस्मात्सत्यत्वादिकं स्वरूपलक्षणमिति सिद्धम् | ननु आद्यस्य ब्रह्मणः चतुर्मुखस्य | यतो जन्म तद्ब्रह्म इति चेन्न | श्रुतियुक्त्यनुभवविरोधात् | चतुर्मुखस्याद्यत्वं नाम सर्वकार्यपेक्षया चेतनापेक्षया वा नाद्यः - आत्मन आकाशस्सम्भूतः इति भूतसृष्टेः प्रथममभिधानात् | न च हिरण्यगर्भजननान्तरमेव भूतसृष्टिरिति वाच्यम् | समष्टिलिङ्गशरीराभिमानिनो हिरण्यगर्भस्य भूतसृष्ट्यनन्तरं जननावश्यक्त्वेन ततः पूर्वमुत्पत्तौ मानाभावात् | तथापि जनकत्वेऽस्य ज्ञेयब्रह्मलक्षणत्वासिद्धेः रामकृष्णादेरिव चतुर्मुखस्यैव जनकापेक्षया उत्कृष्टतापत्तेश्च | विष्णोरेव हिरण्यगर्भोत्पत्तिरिति विनिगमकाभावात् |
SK
यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्तु || अस्यार्थः - महर्षिः - वेदकर्ता यः - सर्वज्ञत्वादिना विश्वस्मात् - चिदचित्प्रपञ्चात् अधिको रुद्रः - परमश्शिवः सर्वेषां देवनामिन्द्रादीनां प्रथमं हिरण्यगर्भं - चतुर्मुखं स्वसङ्कल्पेन प्रकृतिरूपात्मना जायमानं सकलवेदोपदेशार्थमनुग्रहदृष्ट्या पश्यन् स शिवः नः - अस्मानपि शुभया - संसारपाशमोचिकया परमानन्दस्वरूपया वेदवेदान्तागमसिद्धया स्मृत्या - दीक्षया संयुनक्तु - संयोजयत्विति तात्पर्यम् | यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु इत्यादिना महेश्वरोत्पन्नत्वं हिरण्यगर्भस्यावगम्यते तस्मात्तदर्थो न विधीयते | ननु एको ह वै नारायण आसीत् न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी इति महोपनिषदि नारायणस्यैव सर्वातिशायित्वस्य सृष्टेः प्राक् सत्ताया दर्शनात् नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते इत्यादिना सर्वकारणत्वदर्शनात् अथ कस्मादुच्यते ब्रह्मबृहन्तो हस्मिन् गुणाः इत्यादिना तस्यैव पूर्णगुणत्वावगमात् तदेव ब्रह्म परमं कवीनां अन्तस्समुद्रे मनसा चरन्तं इत्यादिना समुद्रशायित्वादिधर्माणां विद्वद्रूढ्या तस्यैव मुख्यत्वात् न सन्नचा सच्छिव एव केवलः ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सदेव सोम्येदमग्र आसीत् इत्यादिवाक्यानां छागपशुन्यायेन सामान्यविशेषयोरेकत्वसिद्धिवत्तत्परत्वस्यैव युक्तत्वात् गच्छतीति गौः इति व्युत्पत्या नानार्थबोधकत्वेऽपि गवि रूढिवत् ब्रह्मशब्दस्यापि चतुर्मुखब्रह्मप्रणवब्राह्मणादिषु प्रवृत्तत्वेऽपि अनन्तकल्यानगुणविशिष्टे नारायण एव योगरूढत्वाच्च जगज्जन्मादिकारणत्वं तस्यैव समुचितं - इति चेद्ब्रूमः |
SK
विष्णोर्जगत्कारणत्वेऽपि न तद्ब्रह्मलक्षणं सूक्ष्मसृष्ट्यनन्तरभाविदेवादिसृष्टेः पूर्वं तज्जन्मश्रवणात् | विष्णोरुत्पत्तिः ऋग्वेदे श्रूयते विष्णुरित्था परमस्य विद्वान् जातो बृहन्नभिपाति तृतीयम् इति | अस्यार्थः - अस्य - महेश्वरस्य इत्था - इत्थम्भावेन विद्वान् - वेत्ता बृहन् - विष्णुः आदिविष्णुः जातस्सन् तृतीयं - कैलासं अभिपाति - रक्षति | बृहच्छब्देन आदिविष्णुरेव व्यपदिश्यते | नमो विष्णवे बृहते करोमि बृहत्ते विष्णो सुमतिं भजामहे इत्यादिषु दर्शनात् अजातपरमेश्वरमेवमुपस्थितं परित्यज्य अनुपस्थितकल्पने मानाभावात् अजात इत्येवं कश्चिद्भीरुः प्रतिपद्यते | रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् इति श्वेताश्वतरोपनिषदि महेश्वरस्यैवाजातत्वश्रवणाच्च शम्भोरादिविष्णुजनकत्वं युक्तमेव | ऋग्वेदे सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः | जनिताऽग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोऽत विष्णोः इति | ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते इत्यादिषु शिवस्यैव सर्वकारणत्वं श्रूयते शिव एव केवलः इति वाक्यस्य सनातनसृष्टिपरत्वं नारायणाद्ब्रह्मा जायते इति वाक्यस्यावान्तरसृष्टिपरत्वमिति | तदुक्तं वायवीयसंहितायां - त्रयस्ते कारणात्मानो जातास्साक्षान्महेश्वरात् | चराचरस्य विश्वस्य सर्गस्थित्यन्तहेतवः || पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु | ब्रह्मा सर्गे हरिस्त्राणे रुद्रस्संहारणे पुनः || तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिनः | तपसा तोषयित्वा स्वं पितरं चन्द्रशेखरम् || लब्धा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः | ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरेऽसृजत् || कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः | विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः | नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः ||
SK
स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमः स्वराट् इत्यादिश्रुतिशतेन मूर्तित्रयव्यतिरिक्तस्यैव ब्रह्मत्वोपदेशात् नारायणाद्युपनिषत्सु मूर्तित्रयातीतत्वेन नारायणस्य व्यपदेशाभावात् प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयश्शिवोऽद्वैतं ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरद्रेन्द्रास्ते सम्प्रसूयन्ते इत्यादिषु शिवस्यैव त्रिमूर्त्यतीतत्वेन व्यवस्थापनाच्च तस्यैव ब्रह्मत्वम् | आनुशासनिकेऽपि - सोऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् | वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः || हृदयात्कालरुद्राख्यं || इत्युपदेशात् रुद्रोत्पत्तेः कालरुद्रोत्पत्तिपरत्वम् अन्यथा अजात इत्येवं कश्चिद्भीरुः प्रतिपद्यते इति श्रुतिविरोधात् | न च विष्णोरुत्पत्तिरवतारपरा | विष्णुरित्था इति पूर्वोक्तश्रुतिविरोधात् | किञ्च - अथर्वशिखायां अकारणं कारणं तु ध्येयः इति तु शब्देन पूर्वोक्तवैलक्षण्यं प्रतिपाद्य शम्भोः परमकारणत्वोपदेशात् नारायण आसीत् इति लडन्तेन अनद्यतनभूतभवनक्रियावाचिना भगवतो नारायणस्य प्रथमोत्पतिमात्रं प्रतिपाद्यते | शक्तेरासीत्पराशरः इत्यादिवत् छागपशुन्यायेनैव सदात्मादिशब्दानां नारायणादिशब्दानामपि शिवपरत्वमेव | सर्वो वै रुद्राः इति श्रुतेः स एव विष्णुस्सप्राऽः स कालोऽग्निस्स चन्द्रमाः इति कैवल्योक्तेः अहमेकः प्रथममासं वर्तामि च भविष्यामि च | नान्यः कश्चिन्मत्तो व्यतिरिक्तः इत्यथर्वशिरोवचनात् यानि नामानि गोविन्द तव लोके महान्ति वै | तान्येव मम नामानि नात्र कार्या विचारणा ||
SK
इति हरिवंशे कृष्णं प्रति शिववचनात् जैमिनिभट्टभास्कराचार्यादिभिर्वैदिकैश्चतुर्वेदतात्पर्यानुसारेण शिवस्यैव परब्रह्मत्वव्यवस्थापनात् | भगवता व्यासेनापि सूतसंहितायां सर्तवेदान्ततात्पर्येण शिवे परब्रह्मत्वनिर्देशात् | ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सोमः पवते जनिता मतीनां क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् एको हि रुद्रो न द्वितीयाय तस्थुः य इमाṁल्लोकानीशत ईशनीभिः येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते निधनपतये नमः | निधनपतान्तिकाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः इत्यादिश्रुतिकदम्बेन परमशिवस्यैव जगज्जन्मादिहेतुत्वव्यपदेशाच्च ब्रह्मलक्षणं जगज्जन्मादिकारणत्वं शिवस्य निष्प्रत्यूहम् | स्वशक्त्यवच्छिन्नराजसगुणविशिष्टेन भवाभिधानेन सर्वजगन्निर्माणं सात्त्विकगुणास्पदमृडाभिधानेन पालनं तामसावच्छिन्नहराभिधानेन सर्वसंहारं च कुर्वन् शिवः त्रिगुणात्मकप्रकृतेः स्वचिच्छक्तौ लयं कृत्वा स्वयं स्वभावचिच्छक्त्या एक एव भासते | तदुक्तं महिन्मस्तवेऽपि - विपुलरजसे विश्वोत्पत्तौ भवाय नमो नमः इति | अत एव शैवागमे - सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः | अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य || यद्भक्तस्थलमित्याहुस्तत्सर्वज्ञत्वमुच्यते | यन्माहेश्वरं नाम सा तृप्तिर्मम शाङ्करि || यत्प्रसादामिदं नाम तद्बोधो मे निरंकुशः | यत्प्राणलिङ्गकं नाम तत्स्वातन्त्र्यमुदाहृतम् || यदस्ति शरणं नाम ह्यलुप्ता शक्तिरुच्यते | यदैक्यस्थलमूर्ध्वस्थं ह्यनन्ताशक्तिरुच्यते || एतदङ्गस्थलं देवी गुह्याद्गुह्यतरं परम् | इति | सर्वज्ञत्वादिधर्माणां शिवस्यैव सम्भवान्नेतरेषां जगज्जन्मादिकारणमिति सिद्धम् |
SK
इति जन्माद्यधिकरणम् || शास्त्रयोनित्वाधिकरणम् || जिज्ञास्यब्रह्मणो लक्षणं पसाध्य प्रमाणमाह - शास्त्रयोनित्वात् || ३ || अस्य महतोभूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदस्सामवेद इत्यादिवाक्यमस्य सूत्रस्य विषयः | शास्त्रं - ऋग्वेदादि | तस्य योनिः - कारणं शिवः | शिवोमावेव पितरौ इति श्रुतेः | अत एव निगमागमानां प्रामाण्यम् | अतो जगज्जन्मादिहेतुः शिव एव | अत्र श्रौतप्रतिज्ञासङ्गतिः | शिवोमावेव पितरौ इत्यादौ वेदानां परमेश्वरकारणत्वं वाचा विरूपनित्यया इत्यादौ नित्यत्वं च दर्शितम् | परशिवस्य ब्रहम्णो निगमागमकारणत्वं युक्तं न वेति सन्दिह्यते - अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा | आदौ वेदमयी दिव्या यतस्सर्वाः प्रवृत्तयः || इत्यादिस्मृतौ वेदस्य नित्यत्वश्रवणात् परमेश्वरजन्यत्वे पौरुषेयत्वेनाप्रामाण्यानित्यत्वप्रसङ्गाच्च | तस्मात् परमेश्वरवद्वेदानामजन्यत्वम् त्रैकालिकाबाध्यत्वं चेति प्राप्ते ब्रूमः - वेदानां स्वयम्भवत्वे शिवोमावेव पितरौ इति श्रुतिविरोधात् सामशाखागतचरणव्यूहे तेषां शरीरगोत्रवर्णादिनिरूपणात् पूर्वपूर्वस्योत्तरोत्तरज्ञानविषयहेतुत्वात् तेषां शब्दात्मकगुणत्वेन व्योमकारणत्वात् आत्मन आकाशस्सम्भूतः इत्यादिना आकाशादिपञ्चभूतानां परमेश्वरकारणत्वनिर्देशाच्च कथं वेदानां स्वयम्भवत्वम् तथा च स्मृतिः - अष्टादशानामेतासां विद्यानां ब्रह्मवर्त्मनाम् | आदिकर्ता शिवस्साक्षाच्छूलपाणिरिति श्रुतिः || सद्योजातेन ऋग्वेदं वामदेवेन याजुषम् | अघोरेण तथा साम पुरुषेण त्वथर्वणम् || ईशानेन मुखेनैव कामिकाद्यागमांस्तथा | जनयामास विश्वेशः सर्वसिद्धिप्रदायकः || विमर्शरूपिणी शक्तिः शिवस्य परमात्मनः | निगमागमरूपा स्यात् सर्वतत्त्वप्रकाशिनी || तस्माद्वेदागमार्थेषु यः कुर्याद्भेदभावनाम् | स सहस्रकुलं घोरे नरके पतति ध्रुवम् ||
SK
इति परमेश्वरस्य इगमागमादिसर्वविद्याकर्तृत्वप्रतिपादनात् सृष्टेः प्राक् स्वात्मविलीनभूतस्वशक्त्यात्मकवेदागमादीन् निश्वसितवदयत्नेन पूर्वपूर्वानुपूर्वीवर्णरूपरचनया बहिराविष्करोति | तस्मान्निगमागमादीनामपौरुषेयत्वमीश्वरकारणकत्वं च युक्तमेव | जन्यत्वाजन्यत्वविधायकश्रुतीनामतो न विरोधः | ननु न सन्नचासच्छिव एव केवलः नान्यत् किञ्चनमिषत् नेह नानास्ति किञ्चन न तु तत्द्वितीयमस्ति इत्यादिश्रुतिषु द्वितीयवस्तुनिषेधव्यपदेशात्कथं वेदानां नित्यत्वं इति चेन्न | सर्वं खल्विदं ब्रह्म सर्वो वै रुद्रः इत्यादिश्रुतिषु चराचरप्रपञ्चस्य ब्रह्मोपादानत्वेन ब्रह्मत्वव्यपदेशात् पूर्वोक्तश्रुतीनां न जगन्मिथ्यात्वपरत्वम् | सृष्टेः प्रागपि सङ्कुचितरूपेण निगमागमात्मकविमर्शरूपपराशक्तेर्बीजाङ्कुरवत्परमेश्वरे स्थितत्वात् शक्तिशक्तिमतोरभेदाच्च | परास्य शक्तिर्विविधैवश्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति श्रुत्या परमेश्वरस्य स्वाभाविकत्वेन शक्तेरुपदेशात् जगन्मिथ्यात्वे श्रुत्यभावात्तदयुक्तम् | ननु - शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वेन शब्दात्मकस्य वेदस्य कथं नित्यत्वं इति चेन्न | कारणनित्यत्वे कार्यनित्यत्वं इति न्यायेन कारणरूपसर्ववेदात्मकविमर्शशक्तेर्नित्यत्वात् कार्यरूपवेदस्यापि नित्यत्वं निष्प्रत्यूहमेव | किञ्च - नित्यमुक्तबुद्धशुद्धस्वभावस्य स्वतःप्रमाणभूतस्य परमाप्तस्य महेश्वरस्य वचनं प्रमाणमेव | यत् पौरुषेयं तदप्रमाणं इति नियमस्तु रागद्वेषादिपाशबद्धमानुषविषयक एव | किञ्च - वेदा अपि शाम्भवदीक्षां लब्ध्वा शिवप्रसादमहिम्ना परमेश्वरानन्तकल्याणगुणस्तुतिपाठककवय इव तन्महिमातिशयं विधिलक्षणमुखेन स्तुवन्ति जगतां पतये नमः नमो हिरण्यबाहवे इत्यादिना स्तुतिं च कुर्वन्ति | तस्मात् परमेश्वरविमर्शात्मकशक्तितया वेदागमानां परशिवप्रामाण्ये मुख्यत्वमुपपद्यते |
SK
ननु - षड्ढोता वै भूत्वा प्रजापतिरिदं सर्वमसृजत | ऋचो यजूंषि सामानि इत्यादिना चतुर्मुखादेरपि वेदकर्तृत्वावगमात्कथं महेश्वरस्यैव तत्कर्तृत्वम् इति चेन्न | यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै इत्यादिश्रुतौ हिरण्यगर्भोत्पत्तेः प्रागेव वेदसद्भावावगमात् हिरण्यगर्भाय सर्ववेदोपदेशकत्वं परमेश्वरस्यैवेति दर्शनाच्च स एव सर्वाधिक इत्युच्यते | तथ च श्रुतिः - यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं पश्यत जायमानं स नो देवः शुभया स्मृत्या संयुनक्तु इत्यादिना चिदचित्प्रपञ्चाधिकत्वं हिरण्यगर्भोत्पादकत्वं च परमेश्वरस्यैव निर्दिशति | ननु - सर्ववेदवेदान्तोक्तसकलपदार्थाभिज्ञत्वरूपं हि सर्वज्ञत्वम् उपमन्युदधीचिगौतमदूर्वासादीनामपि तद्दर्शनात् कथं परमेश्वरस्यैकस्यैव इति चेन्न - परमेश्वरोपासनावशात् तत्कृपालब्धयक्तिञ्चित्सर्वज्ञत्वस्य तेषां सत्वान्न विरोधः | खद्योतप्रभाकरयोस्तेजस्त्वेनैकत्वेऽपि प्रकाशवैलक्षण्यवत् सर्ववस्त्त्ववभासकश्रुतीनां परमेश्वरकर्तृकतया तस्यैव सर्वाधिकज्ञानमुपपद्यते | शास्त्रप्रवर्तकापेक्षया शास्त्रप्रणेतॄणां विशेषज्ञानदर्शनात् | किञ्च - सकलजगद्व्यापकत्वेन सर्वान्तर्यामित्वेन सर्वज्ञत्वं नान्येषां सम्भवति | सर्वज्ञत्वादिषड्विधधर्माणामनन्यसाधारणत्वात् | ननु - पूर्वसूत्रेणैव जगज्जन्मादिकारणत्वेन शास्त्रकारणत्वसर्वज्ञत्वादीनामपि सिद्धत्वात् किमस्य सूत्रस्य प्रयोजनम् ? इति चेन्न | पूर्वसूत्रेण अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत् इत्यनुमानेन ब्रह्मप्रामाण्यद्योतनात् तच्छङ्कानिरासार्थमेतत्सूत्रप्रवृत्तेस्सम्भवात् भगवता व्यासेन शास्त्रयोनित्वात् इति सूत्रं निर्दिष्टम् |
SK
शास्त्रं - निगमागमादिकं योनिः - प्रमाणं यस्य तथात्वात् | न च पुनरधिकरणान्तरनिरूपणे वाक्यभेदादिदोष इति वाच्यम् | सूत्रस्य सूचनात्मकत्वेन श्लोककाव्यवत् वाक्यभेदादिदोषाभावात् पुनरधिकरणान्तरं युक्तम् | तं त्वौपनिषदं पुरुषं पृच्छामि नावेदविन्मनुते तं बृहन्तं नैषा तर्केण मतिरापनेया ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् | ऊर्ध्वरेतं विरुपाक्षं विश्वरूपाय वै नमो नमः प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिवाक्यान्यस्य विषयः | न चक्षुषा गृह्यते नापि वाचा तंत्वौपनिषदं पुरुषं पृच्छामि यतो वाचो निवर्तन्ते इति विषयत्वाविषयत्वविधायकश्रुतिदर्शनाद्ब्रह्मणो वेदान्तवेद्यत्वं युक्तं न वेति संशयः | पूर्वपक्षस्तु - न ब्रह्मणो वेदान्तवेद्यत्वं न चक्षुषा गृह्यते नापि वाचा यन्मनसा न मनुते येनाहुर्मनो मतं यतो वाचो निवर्तन्ते | अप्राप्य मनसा सह | आनन्दं ब्रह्मणो विद्वान् | न बिभेति कुतश्चनेति इत्यादिश्रुतिदर्शनात् | प्रपञ्चः सकर्तृकः कार्यत्वात् घटवदित्यनुमानेन सर्वज्ञत्वादिषड्विधधर्मावच्छिन्नः परमेश्वरस्साध्यते तस्य प्रमाणान्तरविषयत्वदर्शनान्न वेदान्तशास्त्रैकवेद्यं परं ब्रह्म इति प्राप्ते ब्रूमः |
SK
सिद्धान्तस्तु - जगज्जन्मादिकारणं ब्रह्म उपनिषच्छास्त्रप्रतिपाद्यमेव | नावेद विन्मनुते तं बृहन्तं नैषा तर्केण मतिरापनेया इत्यादिना ब्रह्मणो मानान्तरनिषेधदर्शनात् तं त्वौपनिषदं पृच्छामि इति श्रुत्या उपनिषन्मात्रवेद्यत्वसासनाच्च वेदान्तशास्त्रानुकूलत्वेन अनुमानस्य प्रामाण्यं न तु स्वातन्त्र्येण रथमण्टपगोपुरप्रासादादिनिर्माणे नानाकर्तृकत्वदर्शनात् न चानुमानेन कर्त्रेकत्वसिद्धिः | ब्रह्मनिष्ठसत्यसङ्कल्पसत्यज्ञानानन्दादि स्वरूपधर्मज्ञानासम्भवप्रसङ्गात् जगदुभयकारणत्वासम्भवाच्च ब्रह्मणो वेदान्तवेद्यत्वं निष्प्रत्यूहम् | यतो वाचो निवर्तन्ते इत्यादि वाक्यानां तन्माहात्म्यज्ञापनार्थं विवक्षितम् | अन्यथा ब्रह्मविदाप्नोति परम् इत्यादिवाक्यानां वैयर्थ्यप्रसङ्गः | ननु - अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकल्प्यते | राजसेषु च माहात्म्यमाधिकं ब्रह्मणो विदुः || सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः | तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् || इति मात्स्ये शिवपुराणानां तामसत्वप्रतिपादनात् सत्त्वात्संजायते ज्ञानं इत्यारभ्य बन्धं मोक्षं च या वेत्ति बुद्धिस्सा पार्थ सात्त्विकी इत्यन्तेन सात्त्विकबुद्धेरेव मुक्तिहेतुत्वदर्शनात् | अग्नेश्शिवस्य माहात्म्यं तामसं मोहकारकम् | तयोरुपासनादेव प्रत्यवायो भवेद्ध्रुवम् ||
SK
इति पाञ्चरात्रागमवचनदर्शनाच्च शिवतत्त्वप्रतिपादकपुराणानां तामसत्वं सिद्धम् | अतस्तत्पुराणानामप्रामाण्यात् तत्प्रतिपाद्यस्य परमेश्वरस्य वेदान्तवेद्यत्वं कथमुपपद्यते इति चेन्न | शिवपुराणानां तामसत्वे प्रात्यक्षिकश्रुत्यभावात् कल्पितप्रच्छन्नबौद्धवाक्यानां प्रामाण्याभावाच्च | किञ्च - तमोगुणविशिष्टदेवताविषयकत्वेन तमोगुणविशिष्टव्यासकर्तृकत्वेन तमोगुणावसरजन्यत्वेन वा शिवपुराणानां तामसत्वम् नाद्यः - ऋगादिसर्ववेदवेदान्तानामपि रुद्राग्निप्रतिपादकत्वेन तेषामपि तामसत्वापत्या अप्रामाण्यप्रसक्तिसम्भवात् बौद्धागमत्वप्रसङ्गस्स्यात् | न द्वितीयः - व्यासप्रोक्तविष्णुपुराणादीनामपि तामसत्वं स्यात् | न तृतीयः - सात्त्विकेन विष्णुराणकल्पने तामसेन शिवपुराणकल्पने च मानाभावात् सर्ववेदवेदान्तसारस्यैव पुराणरूपेण व्यासेन प्रपञ्चितत्वाच्च | ननु मत्स्ये - मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च | आग्नेयं च षडेतानि तामसानि निबोध मे || अग्नेश्शिवस्य माहात्म्यं तामसं मोहकारकम् इति | यत्र यत्र जगन्नाथं मुकुन्दं विष्णुमव्ययम् | वदन्ति तानि शास्त्राणि सात्त्विकानि मतानि वै || यत्र यत्र ह्युमानाथं शङ्करं भैरवं यमं | दुर्गां गणपतिं कालं वदन्ति यानि तानि च | तामसानि मुनिश्रेष्ठ विविधानि फलानि वै || पञ्च पूजांश्च देवांश्च तथा देवीं सरस्वतीम् | वदन्ति यानि शास्त्राणि राजसानि मतानि वै || इत्यादिमात्स्य-हारीत-पाञ्चरात्रागमादिवचनेषु शिवपुराणानां तामसत्वव्यपदेशात् कथं तत्प्रतिपाद्यस्य परमेश्वरस्य परब्रह्मत्वम् संहारस्य रुद्रधर्मत्वेन तामसत्वं तस्य
SK
निष्प्रत्यूहमिति चेन्न | अग्नेश्शिवस्य माहात्म्यं तामसं मोहकारकं | इत्यादिवचनानां मात्स्यपुराणोक्तत्वेन मत्स्यपुराणस्य तामसपुराणप्रकरणपटितत्वेन तद्वाक्यानामप्रामाण्यात् | ब्रह्मेन्द्रसूर्यचन्द्राग्निपरा राजससम्भवाः इत्यादिना पाञ्चरात्रागमे अग्नेः राजसत्वनिरूपणात् मात्स्यपाञ्चरात्रागमवचनानां परस्परविरोधदर्शनाच्च द्वयोरप्यप्रामाण्यं सिद्धम् | किञ्च - ब्राह्मणानां अग्निरग्रे प्रथमो देवतानां यावज्जीवमग्निहोत्रं जुहोति अर्चत प्रार्चत त्र्यम्बकं यजामहे अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया गृभ्णन्ती जिह्वया यो वै स्वां देवतामतियजते इत्यादिना रुद्रवैश्वानरोपासनमेव कर्तव्यमिति चोदनादर्शनात् अकरणे प्रत्यवायदर्शनात् त्वं देवानां ब्राह्मणानामधिपतिर्विष्णुः क्षत्रियाणामधिपतिः इत्यादिना स्वदेवतोपासनातिक्रमेण नरकप्राप्त्युपदेशात् रुद्रवै᳚ष्वानरोपासनापरित्यागे वर्णचतुष्टयातीतत्वप्रसङ्गाच्च | एतत्कल्पितवाक्यानां वेदविरुद्धत्वेन वेदवादिभिस्तानि नाङ्गीकरणीयानि | यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः अत्ता चराचरग्रहणात् इत्यादिश्रुतिसूत्रेषु संहारस्य परब्रह्मधर्मत्वेन निर्देशात् तदनङ्गीकारे विष्णोरब्रह्मत्वप्रसङ्गाच्च | रुद्रो वा एष यदग्निः तस्यैते तनुवौ घोराऽन्था शिवान्या अघोरेभ्योऽथ घोरेभ्यः इत्यादिना तस्यैवाघोरमुखेन सृष्टिस्थितिकर्तृत्वस्य घोरमुखेन संहारकर्तृत्वस्य चोपदेशात् तस्यैव जगज्जन्मादिकारणत्वेन परब्रह्मत्वं सिद्धम् | किञ्च - या ते रुद्र शिवा तनूरघोराऽपापकाशिनी इत्यादिना परमेश्वरस्य शुद्धसात्त्विकशिवशरीरप्रार्थनादर्शनात् प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं इत्यादिना शिवस्यैव परमशान्तत्वोपदेशाच्च केवलतामसत्वप्रतिपादकवाक्यानां कालरुद्रपरत्वमेव | कालरुद्रस्यापि शिवांशत्वेन विष्णोरधिकत्वं वेदशास्त्रेषु प्रसिद्धम् | तथा च श्रुतिः -
SK
परात्परतरो ब्रह्म यत्परात्परतो हरिः | तत्परात्परतोऽधीशस्तन्मे मनश्शिवसङ्कल्पमस्तु || इति | अजामेकां लोहितशुक्लकृष्णां वह्वीं इत्यादिश्रुतौ परमेश्वरप्राकृतशक्तेर्गुणत्रयात्मकत्वं निर्दिष्टं | अतस्सत्त्वगुणावलम्बनेन नारायणस्य ब्रह्मत्वे अयुक्तत्वप्रसङ्गात् अप्राकृतब्रह्मत्वविधायकसर्ववैदिकशास्त्रभङ्गप्रसङ्गः स्यात् | शुक्लध्यानपरायणः इति जाबालोपनिषदि शुक्लशरीररुद्रध्यानस्यैव मुमुक्षूणां विधेयत्वेन दर्शनात् | सूतसंहितायां सूतगीतासु - अस्ति रुद्रस्य विप्रेन्द्रा अन्तस्सत्वं बहिस्तमः | विष्णोरन्तस्तमस्सत्वं बहिरस्ति रजोगुणः || अन्तर्बहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः | रजसा तमसाऽऽक्रान्तौ ब्रह्मनारायणौ खलु || ३-४१ || शिवधर्मशास्त्रे - अन्तस्सत्वगुणोपेतो बहिस्तामससंयुतः | शुद्धसात्त्विक इत्युक्तश्शङ्करो लोकशङ्करः || अन्तस्तामससंयुक्तो बहिस्सत्त्वगुणान्वितः | शुद्धतामस इत्युक्तो विष्णुस्साक्षाच्छ्रियःपतिः || इति निर्देशात्तस्यैव ब्रह्मविष्ण्वादेरप्यधिकत्वम् | शङ्करसंहितायां शिवरहस्यखण्डे - दश शैवपुराणानि सात्त्विकानि विदुर्बुधाः | श्रद्धेयानि द्विजवरैस्तेषां धर्मास्तु तत्र यत् || सत्त्वं शुद्धं समादिष्टं सुखज्ञानास्पदं तु यत् | विद्योपदेष्टा योगिभ्यः शुद्धः स्फटिकसन्निभः || न निद्राति शिवः क्वापि ब्राह्मणाधिपतिः शिवः | ब्रुवन्त्येवं पुराणानि ब्राह्मणानां कथाः शुभाः || दश शैवपुराणानि हिंसादोषपराणि च | वैष्णवानि च चत्वारि तामसानि मुनीश्वराः || क्षत्त्रियाणां श्रुता धर्मास्तेषु तद्देवता हरिः | तमः कृष्ण उदासीनः कूटकर्मविशारदः || निद्रालस्यप्रमादाद्यास्तद्गुणाः परिकीर्तिताः | कृष्णो विष्णुः स्मृतः शेषशायी भक्तविमोहकः || ब्राह्मे तु राजसे वैश्यधर्मैस्सर्वत्र सम्मते | दुःखास्पदं रक्तवर्णं चञ्चलं च रजः स्मृतम् || गुणत्रयसमायुक्तमाग्नेयं सौरमेव च | तस्माच्छैवानि विप्राणां पुराणानि हितानि वै || इति शिवपुराणामेव सात्त्विकत्वोक्तेः |
SK
किञ्च - शिवपुराणां कल्पान्तरप्रसक्तिरिति चेत् तदसङ्गतमेव | मात्स्ये - पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा कृतम् | अनन्तरन्तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः | पुराणमेकमेवासीच्छतकोटिप्रविस्तरम् || इत्यादिना ब्रह्मकृतब्राह्मपुराणमेव द्वापरान्ते वेदव्यासेन सङ्कोच्य चतुर्लक्षात्मना संक्षेपितमिति प्रतिपादनात् | धर्मसंहितायाम् - ब्राह्ममेव कृते चाद्ये पुराणं श्रुतिसम्मतम् | अष्टादशविधं तस्य कृतं कोटिप्रभेदतः || द्f १८६, प्. ७८) इति दर्शनाच्च | अत एव शैवपुराणानां कल्पान्तरविषयत्वमित्यसङ्गतम् | ननु नारायणस्यैव मत्स्यकूर्मवराहादिरूपेण सकलभूभारनिवर्तकत्वदर्शनात्परमसात्त्विकत्वं तस्यैवोपपन्नमिति चेन्न | कौर्मे - एकादश्यां तु मध्याह्ने माघमासे महानटः | सर्वलोकहितार्थाय विषं भुक्त्वा ततः शिवः || शिवयोगेन तद्रात्रौ स्थित्वा चन्द्रकलाधरः | परिवेष्टितविष्ण्वादीन् दृष्ट्वा तत्पादसेवकान् || उपोषितमहाभक्तान् द्वादश्यां नीललोहितः | समुद्रमंथनोद्भूतसुधापानार्थमादरात् | आज्ञां चक्रे महादेवस्सर्वलोकभयावहः || इत्यादिना परमेश्वरस्य अनन्यसाधारणकालकूटभक्षणान्धकासुरजलन्धरासुरत्रिपुरासुर- śaivavaiṣṇavānāmekādaśīvratāvaśyakatvaṃ dṛśyate | taduktaṃ śivadharmaśāstre - śaivavaiṣṇavayorgrāhyamekādaśyāmupoṣaṇam | nandīśaviṣṇupramukhā yato vratamathācaran || śeṣaṃ pradhānaṃ smārtānāmekādaśyāmupoṣaṇam | sāyaṃ pradhānaṃ śaivānāṃ vedamārgaikavartinām || iti | tathā siddhāntāgame - pradoṣavyāpinī śaivī samyagekādaśī smṛtā | nānyā śaivaiḥ parigrāhyā śaivaśāstraikaśāsanāt || iti | vīrāgame ca - sarveṣāṃ vīraśaivānāṃ śrautasmārtānuvartinām | pradoṣavyāpinī grāhyā samyagekādaśī śive || śaivavratānāṃ sarveṣāṃ sāyaṃ prādhānyameva hi | anyathācaraṇe devi pratyavāyo mahān bhavet || iti |
SK
किञ्च - पद्मपुराणादीनां विष्णुप्रधानत्वेऽपि तत्रापि शिवामाहात्म्यकथनात्तेषामै तामसत्वं किं न स्यात् | त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन इति गीतावाक्येन वेदानामपि त्रिगुणात्मकत्वदर्शनान्मूर्तित्रयप्रतिपादकश्रुतीनां गुणत्रयात्मकत्वमुपपन्नमिति चेन्न | वाचा विरूपनित्यया इति श्रुतिदर्शनान्नित्यरूपस्य वेदस्य गुणत्रयात्मकत्वमयुक्तं श्रौतविधेर्बलवत्वात् | शिवं प्रशान्तममृतं ब्रह्मयोनिं इत्यादिना शिवस्य वेदेषु परमसात्त्विकत्वोपदेशात् | वेदानां गुणत्रयात्मकत्वकथनमधिकारिभेदेन स्थूलसूक्ष्मकारणात्मकपरमेश्वरोपासनापरत्वेन सांख्ययोगशास्त्रेषु विवक्षितत्वादन्यार्थो न युक्तः | किञ्च - किमिदं तामसत्वं (१) तमोगुणजन्यत्वं (२) स्वेतरगुणासंसृष्टतमोगुणजन्यत्वं वा (३) इतरानभिभूततमोगुणजन्यत्वं (४) तमोगुणजन्यत्वविशिष्टत्वं (५) तमोविशिष्टकर्तृकत्वं (६) तमोगुणविशिष्टप्रतिपाद्यत्वं (७) तमोगुणप्रधानप्रतिपादकत्वं अन्यद्वा नाद्यः - गुणत्रयातीतपरमेश्वरनिश्वसितरूपाणां वेदानां अनित्यत्वमोहकत्वपौरुषेयत्वादिप्रसङ्गात् | सर्वचिदचित्प्रपञ्चस्य गुणत्रयात्मकप्रधानजन्यत्वेन विष्णुपुराणादीनामपि तामसत्वप्रसङ्गात् | न च तमोमात्रजन्यत्वं | एकस्य अनारम्भकत्वेनासिद्धेः | न द्वितीयः - सर्वस्य गुणस्य गुणान्तरयुक्तस्यैव जनकत्वेन इतरासंसृष्टतमोगुणजन्यत्वस्याप्रसिद्धत्वात् | न तृतीयः - यदा तमस्तन्न दिवा न पत्रिर्न सन्न चसच्छिव एव केवलः इत्यादिश्रुतिसिद्धस्य शिवस्य नित्यशुद्धत्वेन प्रकृतेरसिद्धेः | न चतुर्थः - अष्टादशपुराणानां कर्ता सत्यवतीसुतः | आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः || पुराणसंहितां चक्रे पुराणार्थविशारदः | इति विष्णुपुराणवचनाद्व्यासकृतानां सर्वेषां पुराणानामपि तामसत्वाभावात् अन्यथा त्वदभिमतानामपि तामसत्वप्रसङ्गात् तुल्यन्यायत्वाच्च |
SK
न पञ्चमः - रुद्रस्य संहारकर्तृत्वेन संहारस्य तमोगुणकार्यत्वेन सर्वशास्त्रप्रसिद्धत्वादिति चेन्मैवम् | विष्णोः संहारकत्वाभावेनानीश्वरत्वप्रसङ्गात् या ते रुद्र शिवा तनूः इति श्रुत्या शिवशरीरस्य तामसत्वनिषेधाच्च | त्रैगुण्यविषया वेदाः इत्यनेन त्रिगुणात्मकप्रवृत्तिधर्मप्रतिपादकत्वेन गुणवैशिष्ट्यं न युक्तम् | ननु - तमोगुणप्रचुरेषु कल्पेषु तद्विशिष्टत्वेन ब्रह्मकृतपुराणानि तामसानि तत्प्रतिपाद्यत्वाच्छिवस्यापि तामसत्वं इति चेन्न | तामसेषु कल्पेषु चतुर्मुखकृतानां पुराणानामस्मिन् वर्तमाने श्वेतवराहकल्पे अनुवर्तमानत्वे प्रमाणाभावात् अस्मिन्नपि कल्पे अष्टाविंशतितमेन व्यासेन इदानीं पुराणकरणस्य श्रूयमाणत्वाच्च | तदुक्तं विष्णुपुराणे - वैवस्वतान्तरे तस्मिन् द्वापरेषु पुनः पुनः | वेदव्यासोऽवतीर्णोऽभूदष्टाविंशतिसत्तमः || इति | वर्तमानस्य पराशरात्मजस्य व्यासस्य प्रवर्तमानसर्वपुराणकर्तृत्वं च तत्रैव श्रुतं पुराणसंहितां चक्रे पुराणार्थविशारदः इति | तान्यष्टादशपुराणानि तत्रैव गमयित्वा उत्पत्तिक्रमापेक्षया क्रमः उक्तः - एतद्वैष्णवसंज्ञं वै पाद्मस्य समनन्तरं इति | एअं समस्ता अपि वर्तमानकल्पस्था रामकृष्णाद्यवतारा रघुवंशादिसम्भवत्वात् दक्षाध्वरध्वंसादीनामेतत्कल्पमध्यस्थत्वात् एतत्कल्पस्यशैववैश्णवप्रतिपादकानामेतत्कल्पजातेनाष्टाविंशतितमेन वेदव्यासेन कृतानां पुराणानां परस्परं बलाबलचिन्तायां बहुकालव्यवहितानां तामसादिब्रह्मकल्पनोपन्यासो निरर्थकः |
SK
ननु - पुराणकराणां पुराणकर्तृत्वं ब्रह्मणस्सकाशात्पुरुषार्थानधिगम्यैव इत्युक्तं सत्यम् | तत्रातीतकल्पस्थाः पुराणार्था ब्रह्मणा पुराणकारश्च तथैव प्रतिपाद्यन्ते यथा पद्मकल्पे मार्कण्डेयस्य परमेश्वरानुग्रहः | ये तु वर्तमानकल्पस्थाः पुराणार्था रामकृष्णवराहावतारप्रभृतयः तथा कालकूटभक्षणदक्षाध्वरध्वंसादयः तेऽपि एतत्कल्पस्थत्वेनैव ब्रह्मणोपदिश्यन्ते पुराणकारैरपि तथैव प्रतिपाद्यन्ते | तेषां परस्परविरोधे स्वाभिमतपुराणाधिक्यनिर्णयहेतुत्वं निरर्थकम् | बहुकालव्यवहितानामतीतकल्पानां सात्विकतामसत्वद्युपन्यासः कुत्र केन सङ्गत इति न जानीमः | नापि षष्ठः - रुद्रसम्बन्धिनो घोरशरीरस्य संहारकत्वेन तमोविशिष्टत्वेऽपि तच्छरीरिणः परमेश्वरस्य तमोऽतीतत्वात् | तथा च कैवल्ये - उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् | ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इति | यद्यपि देवदत्तादौ तमोगुणप्रधानशरीरादिविशिष्टे तामसत्वव्यवहारो दृष्टः तथापि तत्र तन्मात्रविशिष्टत्वेन तथा व्यवहारः | प्रकृते तु परमेश्वरसम्बन्धिनां तमोऽतीतानामलौकिकप्रकाशस्वरूपाणामनेकेषां विग्रहाणाम् प्रमाणसिद्धत्वान्न तथा | स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्लेभिः पिपिशे हिरण्यैः इत्यत्र शुक्लेभिरिति शुक्लशब्देन सत्वमयत्वमुच्यते लोहितशुक्लकृष्णां इत्यादिवत् | अन्यथा विष्ण्वाधिक्यवादिनां मते तमोविशिष्टविष्णुप्रतिपादकत्वेन वैष्णवादिपुरानानामपि तामसत्वप्रसङ्गः | कथमन्यथा विष्णोर्भूभारहरणाय यादवकौरवदैत्यादिसंहारकत्वम् कथं वा दैत्यव्यामोहनाय महामोहारव्यपुरुषरूपेण दैत्यव्यामोहकबुद्ध-जिनादिशास्त्रप्रणेतृत्वम् तदुक्तं विष्णुपुराणे - इत्युक्त्वा भगवांस्तेभ्यो महामोहशरीरतः | समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमाः || मायामोहोऽयमखिलान् दैत्यांस्तान् मोहयिष्यति | ततो बध्या भविष्यन्ति वेदमार्गबहिष्कृताः || इति |
SK
न हि स्वस्य तामसत्वाभावे महामोहाख्यं प्रति उपादानत्वमुपपद्यते स्वस्य मोहिनीशरीरस्य तामसत्वात् | ननु - विष्णोः कार्यार्थं तमोगुणसाहित्येऽपि तस्य सत्त्वेनाभिभूतत्वान्न प्राधान्यम् | रुद्रस्य तु तमसाभिभूतत्वात्तद्विशिष्टतया संहारकर्तृत्वेन प्रतिपाद्यत्वमिति | सप्तमः पक्षः कक्षीक्रियतां - इति चेन्मैवम् - शत्रुसंहारमात्रप्रयोजनप्रवृत्तेषु नृसिंहाद्यवतारेषु तत्प्राधान्येन तामसत्वप्रसङ्गात् शिवस्य निरस्ततमस्कत्वाद्विपक्षे बाधकसत्वाच्च | नान्त्यः - यस्संहारकर्ता स तामसः - तस्यापि कश्चित्संहारकोऽस्ति न वा अस्ति चेत्तामसत्वेऽपि स एव सर्वाधिकः सर्वसंहारकः स्वतन्त्रत्वात् | नास्ति चेदयमेव तामसस्सर्वाधिक इति तामसत्वं सर्वसंहारकर्तृत्वं सर्वाधिकत्वेन व्याप्तमिति विरुद्धो हेतुः | तस्मात् रुद्रः सर्वाधिकः सर्वसंहर्तृत्वात् | व्यतिरेकेण जीववत् | न चाप्रयोजको हेतुः | प्रबलदुर्बलभावं विना बाध्यबाधकभावस्यैवासम्भवात् | सात्त्विकस्य बाध्यत्वे प्राप्ते संहारं प्रति विरुद्धत्वात् | मृदुः सर्वत्र बाध्यते इति न्यायेन च साध्याप्रसिद्धिः विश्वाधिको रुद्रः इति पक्षे प्रसिद्धेः | तदनुग्राहकत्वादनुमानस्य न सिद्धसाधनत्वम् | एवं सात्त्विकत्वमुक्तप्रकारेण विकल्प्य दूषणीयम् | किञ्च - विष्ण्वाधिक्यप्रतिपादकानां मार्कण्डेयादिपुराणानां सात्त्विकत्वप्रसङ्गः स्यात् रुद्राधिक्यप्रतिपादकानां पद्मपुराणादीनां तामसत्वप्रसङ्गः स्यात् | पद्मपुराणे पूर्वोत्तरखण्डाभ्यां हरिहरयोराधिक्यवर्णनात्
SK
तदंशे तामसत्वमिष्टमिति चेद् रामायणभागवतादावपि तदंशे तामसत्वप्रसङ्गात् | रामायणबालकाण्डे - त्वां वै धारयितुं वीर नान्यं पश्यामि शूलिनः इति उमापतिः पशुपतिः सर्वलोकनमस्कृतः इति युद्धकण्डे एतदस्त्रबलं घोरं मम वा त्र्यम्बकस्य वा इत्युत्तरकण्डे च | कैलासयात्रारावणनिग्रहेन्द्रजिदनुग्रहादिवर्णनस्य बहुतरत्वात् रावणविनाशार्थस्य रुद्राग्निनिमित्तत्ववर्ननात्तस्यापि तामसत्वप्रतीतेः | तस्माच्छिवपुराणानां तामसत्वकल्पने वेदबाह्यबौद्धप्रसङ्गः स्यादित्यलमतिविस्तरेण | अत्र प्रथमाधिकरणे शैवदीक्षितानां परमैकान्तिना भक्तानां जिज्ञासेति पदेन जीवब्रह्मणोर्भेदाभेदो निरूपितः | ब्रह्म वेद ब्रह्मैव भवति ईशं ज्ञात्वा तत्रैकीभवन्ति इत्यादिश्रुतावुपास्योपासकयोरभेदसिद्धिव्यपदेशात् | द्वितीयाधिकरणे - ब्रह्मणस्सविशेषत्वं जगद्ब्रह्मणोः सृष्टिस्थित्यवसरे भिन्नत्वं लयावसरे नदीसमुद्रवदभिन्नत्वं निरूपितम् | तृतीयाधिकरणे - परमेश्वराविर्भूतभेदाभेदबोधकवेदवेदान्तागमशास्त्रमेव ब्रह्मसत्वे प्रमाणमिति दर्शितम् | इति तृतीयं शास्त्रयोनित्वाधिकरणम् | समन्वयाधिकरणम् षट्स्थलपरशिवब्रह्माविर्भूतवेदवेदान्तानामिन्द्रोपेन्द्रचन्द्रादिनानादेवता- tadativyāptinivāraṇāya sarvasya tatraiva sindhupravāhanyāyena samanvayādavyabhicāra iti caturthādhikaraṇamārabhyate - tattu samanvayāt || 4 || tacchabdena - sarvādhiṣṭhānaṃ sarvakāraṇaṃ vedāntavedyaṃ pūrvanirdiṣṭaṃ ṣaṭsthalaparaśivabrahmaiva vyapadiśyate | tu śabdena pratyakṣādipramāṇāntaraṃ nirasyate | samanvayaśabdena tadantarbhūtacandropendradinendrādipratipādakavākyānāṃ sthūlārundhatīnyāyena upakramopasaṃhārādiṣaḍvidhatātparyaliṅgaiḥ tatraiva tātparyamupadiśyate | tadbrahma pratyakṣādi pramāṇāntaranirākaraṇapūrvakaṃ sarvavedāntaiḥ ṣaḍvidhatātparyaliṅgopetaiḥ pratipādyata iti sūtrārthaḥ |
SK
अत्र सर्ववेदवेदान्तागमवाक्यान्यस्य विषयः - सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं एको हि रुद्रो न द्वितीयाय तस्थुः असङ्ख्याता सहस्राणि स्मर्यते न च दृश्यते देवा ह वै स्वर्गं लोकमगमन् ते देवा रुद्रमपृच्छन् को भवानिति सोऽब्रवीत् - अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोन्तरादन्तरं प्राविशत् ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं | ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वे वेदा यत्पदमामनन्ति इति | भेदाभेदविधायकसर्ववेदान्तवाक्यानां सर्वजगदुभयकारणषट्स्थलपरशिवब्रह्मपरत्वं कर्मशेषभूतेन्द्रोपेन्द्रादिनानादेवतोपासनपरत्वं वा तदुपादानभूतप्रधानादिप्रतिपादकत्वं वा इति बहुधा सन्दिह्यते | पूर्वपक्षस्तु - न सर्वथा ब्रह्मणः परशिवस्य सर्ववेदान्तप्रतिपाद्यत्वं सम्भवति तेषां विधिपरत्वात् | उभयपरत्वे वाक्यभेदापत्तिः | जगद्ब्रह्मणोः कार्यकारणत्वदर्शनादनुमानेन ब्रह्मसिद्धिरुपपद्यते | तस्मान्न वेदान्तैकप्रतिपाद्यत्वम् | किञ्च - नानादेवतोपासनापरत्वमपि युक्तम् | अग्निरग्रे प्रथमो देवतानां असावादित्यो ब्रह्म नारायणपरं ब्रह्म इत्यादिश्रुतिदर्शनात् | अपि च - सैषा विचित्रा सुदृढा बह्वङ्कुरा स्वयं गुणभिन्ना अंकुरेष्वपि गुणभिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी अजामेकां लोहितशुक्लकृष्णां वह्नीं प्रजां जनयन्तीं सरूपाम् इत्यादिना सर्वदेवतामयत्वस्य सर्वकारणत्वस्य च प्रधानस्यैव निर्देशात्तत्परत्वमपि युक्तम् | किञ्च - अयं घटः अयं ऽटः इत्यादिलोकव्यवहारस्य परम्परावृद्धव्यवहारज्ञानसापेक्षत्वात् निरस्तसमस्तोपद्रवसर्वमङ्गलाधारसिद्धब्रह्मपरत्वे निष्प्रयोजनत्वसापेक्षत्वयोः प्रसङ्गात्तदुभयदोषवारणाय वेदान्तानां विध्युपासनपरत्वं विधीयते | अथवा कर्तृदेवताप्रतिपादनद्वारा कर्मपरत्वं सिद्धम् | इति प्राप्ते ब्रूमः -
SK
सिद्धान्तस्तु - वेदान्तानां ब्रह्मपरत्वं ब्रह्मन्यानविधिपरत्वं चोपपद्यते | अतो न वाक्यभेददोषप्रसङ्गः | तदुभयविधेर्दर्शनात् | तथा हि - उपक्रमादिषड्विधतात्पर्यलिङ्गेन ब्रह्मपरत्वम् आत्मा वा अरे द्रष्टव्यः इत्यादिषु तध्यानविधिपरत्वं च दृश्यते | उपक्रमोपसंहारावभ्यासोऽपूर्णता फलम् | अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये || इति स्मृतावुपक्रमोपसंहारादिभिर्वेदान्ततात्पर्यनिर्णयश्रवणमित्यभिधीयते | अज्ञानप्रभवं दुःखं ज्ञानं तस्य निवर्तकम् | सर्ववेदान्तवाक्यानां श्रवणं तत्प्रव्र्तकम् || श्रवणं नाम वाक्यानां वैदिकानां परात्परे | उपक्रमादिभिर्लिङ्गे कृतस्तात्पर्य निर्णयः || इत्युपक्रमोपसंहारावेकं लिङ्गम् सदेव सोम्येदमग्र आसीत् इत्युपक्रमः | स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहारः | पुनः तत्त्वमसि इत्यभ्यासः | तं त्वौपनिषदं पुरुषं पृच्छामि इति मानान्तरागम्यत्वेनापूर्वत्वम् | येनाश्रुतं श्रुतं भवति इत्यादिना एकविज्ञानेन सर्वविज्ञानं फलम् | सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता | अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति इत्यादिसृष्टिस्थितिसंहारतिरोधानानुग्रहादिपञ्चकृत्यान्यर्थवादाः | यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् इति मृदादिदृष्टान्ता उपपत्तयः | एवमन्यत्रापि |
SK
नारायणबीजे - अणोरणीयान् महतो महीयान् इत्युपक्रमः | सर्वो ह्येष रुद्रः इत्युपसंहारः | यः परस्समहेश्वरः अम्बिकापतय उमापतये पशुपतये नमो नमः इत्याद्यभ्यासः | विश्वाधिको रुद्रो महर्षिः इत्यादौ विश्वाधिकत्वादेर्मानान्तराप्राप्तत्वादपूर्वता | परामृतात्परिमुच्यन्ति सर्वे इति फलम् | सहस्रशीर्षं इत्यर्थवादः | यस्मात्परं नापरमस्ति किञ्चित् इत्युपपत्तिः | एवं सर्ववेदान्तेषु द्रष्टव्यम् | तस्मात् स्वरूपव्यावर्तकतटस्थलक्षणत्रयेण सर्ववेदान्तानां ब्रह्मप्रतिपादकत्वं युक्तम् | रूपप्रत्यक्षकारणस्य नेत्रस्य द्रव्यसिद्धिवत् विधिपरत्वेन वेदान्तानां सर्वासिधिष्ठानपरशिवब्रह्मसिद्धिः | तस्मान्नोभयपरत्वविरोधः | नैषा तर्केण मतिरापनेया इति श्रुत्याऽनुमानप्रमाणस्य निरस्तत्वात् अनुमानेन कर्त्रैकतसिध्येभावाच्च ब्रह्मप्रामाण्येनानुमानं विधीयते | विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् | सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु इत्यादिना सर्वजगदुपादानकारणत्वाज्जगन्मयत्वम् | उमासहायं परमेश्वरं प्रभुं इत्यारभ्य स एव विष्णुस्स प्राणस्स कालोऽग्निस्स चन्द्रमाः स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् | ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये इत्यन्तेन परशिवस्य ब्रह्मणः सर्वदेवतामयत्व मुक्त्वा तदुपासनस्यैव मोक्षहेतुत्वोपदेशदर्शनात् यो रुद्रो अग्नौ इत्यादिना शिवस्यैव सर्वान्तर्यामित्वोपदेशाच्च सर्वदेवतामयत्वादिकं तस्यैव सिद्धम् | उत्तममध्यमाधमाधिकारिभेदेन नानादेवतोपासनं न विरुद्धम् | भेदाभेदात्मिका शक्तिर्ब्रह्मनिष्ठा सनातनी इति स्मृतौ शक्तेर्वह्निशक्तेरिव ब्रह्माधिष्ठानत्वोपदेशात् निरधिष्ठानशक्तेरभावात् शक्तिशक्तिमतोरभेदाच्च तत्कर्तृत्वं तदात्मकत्वं च तस्यैवोपपन्नमिति न प्रधानस्य सर्वकर्तृत्वम् |
SK
पुत्रादिकुशलवार्ताश्रवणवत् सिद्धज्ञानस्यापि प्रवृत्तिहेतुत्वदर्शनात् न वृद्धव्यापारस्यैव प्रवृत्तिहेतुत्वम् | बालानां मातृपित्रादिभिः अयं घटः अयं पटः इति निर्देशेन सिद्धार्थज्ञानोत्पत्तेस्सम्भवात् काव्यालङ्कारज्ञैस्तच्छिष्याणां तदुपदेशेन सर्वार्थज्ञानदर्शनात् | तस्माद्वेदान्तवाक्यानां ब्रह्माणि प्रामाण्यमिति सिद्धम् | ननु - सिद्धब्रह्मविषये शास्त्राणां प्रयोजनादर्शनाद्वेदान्तानां कर्मविधिशेषत्वं युक्तम् न च पाशनिवृत्तिः फलम् | स च पाशः तद्भिन्नो वा तदभिन्नो वा पुनस्स सत्यो वा मिथ्या वा नाद्यः - शक्तिविशिष्टशिवाद्वैतहानेः | न द्वितीयः - मायापाशस्य सत्यत्वात्सर्वदा संसारापत्या मुक्तेरसम्भवात् | मायानिवृत्तौ न कोऽपि यत्नं कुर्यात् | अत एव न तृतीयः | नान्त्यः - परमेश्वरस्य नित्यसिद्धत्वेन मुमुक्षुप्रवृत्यसम्भवात् बधमोक्षदशायां वैषम्याभावाच्च सर्वथा वेदान्तशास्त्रप्रवृत्तिर्न सम्भवति इति चेन्न | गुणत्रयात्मकपाशस्तु परमेश्वराद्भिन्न एव | तस्मात्तन्निवृत्तौ स्वाभाविकचिच्छक्त्यवच्छिन्नशिवाद्वैतहानिर्न सम्भवति | मायापाशस्य सत्यत्वेऽपि नानिर्मोक्षप्रसङ्गः | द्वैताद्वैतमताङ्गीकारात् | न च तत्र मानाभावः - बह्म वेद ब्रह्मैव भवति ब्रह्मभवनकामो ब्रह्मवेदनं कुर्यात् इत्यादिश्रुतिप्रमाणसद्भावात् | अविद्याया मोहकारित्वेन चिच्छक्तेर्भिन्नत्वात्तन्निवृत्तिश्शिवोपासनेनैव सम्भवत्येव | निवृत्तिर्नाम तत्कारणीभूतचिच्छक्तौ लयः नाशः कारणलयः इति न्यायात् | चराचरप्रपञ्चस्योपादानकारणत्वादविद्यायास्तन्निवृत्तिः कदापि न सम्भवति | अतः ब्रह्मविदामपि संसारप्रवृत्तिस्सम्भवति - इति चेन्मैवम् |
SK
अनीशया शोचति मुह्यमानः ब्रह्म वेद ब्रह्मैव भवति न च पुनरावर्तते न च पुनरावर्तते इत्यादिश्रुतिशतेषु ब्रह्मविदां तदात्मकत्वस्य पुनरावृत्तिरहितत्वस्य चोपदेशात् | न च ब्रह्मवाचकपदेन तदज्ञानसम्भवान्न विधेः प्रयोजनमिति वाच्यम् | मन्त्राध्ययनमात्रेण होतव्यद्रव्यदेवताज्ञाने सिद्धेऽपि तद्धोमावसरे मन्त्रैरनुस्मर्तव्यं इति प्रयोगविधिदर्शनात् | तथात्र वेदान्तवाक्यविधेर्न विरोधः | नन्वत्र उत्पत्तिविनियोगाधिकारविधीनामदर्शनात्कथं प्रयोगविधिस्सम्भवति इति चेन्न | अमृतस्य देवधारणो भूयासं इत्यादौ प्रकरणादपरिहारेणोत्पत्तिविधेस्सिद्धत्वात् परशिवलिङ्गधारणदीक्षां लब्ध्वा परमात्मानं पश्येदिति विनियोगविधिरुपपद्यते | तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ज्ञात्वा देवं मुच्यते सर्वपाशैः इत्यादौ परशिवध्यानधारणयुक्तो मोक्षाधिकारी विधीयते | तस्मान्मोक्षकामो भस्मरुद्राक्षशिवलिङ्गधारणात्मकशाम्भवदीक्षां लब्ध्वा षट्स्थलपरशिवब्रह्मज्ञानं सम्पादयेदिति रात्रिसत्रन्यायेन प्रयोगविधिरुपपद्यते | ननु - आत्मा वा अरे द्रष्टव्यः इत्यादौ ब्रह्मज्ञानस्य विधिर्न सम्भवति | निर्विकारस्य ब्रह्मणः कर्मकारकत्वप्रसङ्गात् | विधिसम्भवेऽपि उत्पत्तिप्राप्तिविकृतिसंस्कारभावो न युज्यते | किञ्च सक्तुन्यायेन स्वतन्त्रफलाय सक्तुभिर्जुहोति इतिवत् - आत्मना पश्येत् इति कारणत्वविपरिणामेन वक्तुमयुक्तम् | निर्विकारस्य ब्रह्मणोऽवैषम्यान्न ब्रह्मज्ञानविधिरुपपन्नः - इति चेन्न | सर्वाधिष्ठानस्य परमात्मनः उत्पत्तिविनियोगाधिकारविधित्रयासम्भवेऽपि मुमुक्षोर्मोक्षफलाय विधिर्न विरुध्यते | अत्र को विधिराश्रीयत इति चेत् - विधित्रयमप्यूहनीयम् |
SK
ननु - चक्षुषा घटसिद्धिवत् वेदान्तानां न तथा ब्रह्मसिद्धिः निरपेक्षतया चक्षुस्संयोगेन अयं घटः इति वस्तुज्ञानमुपपद्यते | शब्दानां तात्पर्यपर्यवसानेन प्रामाण्यम | अतो वेदान्तवाक्यानां ब्रह्मज्ञानविधायकत्वं ब्रह्मप्रमापकत्वं चायुक्तमिति चेन्मैवम् | समिधो यजति इत्यादिवाक्यानां पञ्चप्रयाजविधायकत्वतदनुष्ठानविधायक त्वयोरुभयोरपि विधिबलात्सिद्धिवद्वेदान्तानामपि ब्रह्मप्रमाकत्वं मोक्षोपकारकब्रह्मज्ञानं प्रति विधायकत्वं च सम्भवत्येव | ननु - वेदान्तवाक्यादेव ब्रह्मज्ञानसिद्धिदर्शनात्तद्विधिना न किञ्चित्प्रयोजनं तदज्ञानादेव विधिप्रयोजनसम्भवात् इति चेन्न | वेदान्तवाक्यैः परोक्षत्वेन तद्ज्ञाने सिद्धेऽपि तदपरोक्षज्ञानाय तद्विध्युपपत्तेः | वेदान्तशब्दजन्यज्ञानादेव न ब्रह्मसाक्षात्कारो विधीयते | सद्गुरुकरुणाकटाक्षलब्ध तदुपासनात्मकज्ञानादेव तत्साक्षात्कारसिद्धिः | अयमेव श्रौतमार्गः | ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः श्रद्धाभक्तिध्यानयोगादवेहि ब्रह्मवेद ब्रह्मैव भवति ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः ज्ञात्वा देवं मुच्यते सर्वपाशैः ईशं तं ज्ञात्वा अमृता भवन्ति आत्मन्येवात्मानं पश्येत् शम्भुराकाशमध्ये ध्येयः तज्जलानिति शान्त उपासीत इति प्राचीनयोग्योपास्व इत्यादिषु मोक्षफलाय परमेश्वरोपासनात्मकज्ञानं मुख्यकारणत्वेन विधीयते | तथा च स्मृतिः - श्रोतव्यश्श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः | ध्यात्वा च सततं ध्येयमेतद्दर्शन हेतुतः || ज्ञानं वस्तुपरिच्छित्तिर्ध्यानं तद्भावकारणम् | तस्माज्जीवो भवेच्छम्भुः क्रिमिवात्कीटचिन्तनात् || इत्यादिना श्रवणमननविशिष्टध्यानानुगतनिदिध्यासनं षट्स्थलपरशिवसाक्षात्कारे तत्तादात्म्ये च परमकारणमिति निर्दिशति |
SK
तस्मात् सर्वकाम्यकर्मनिषेधपूर्वकशिवमुखोद्गतनिगमागमोभयवेदान्त- śivāpitasakalakarmānuṣṭhānasampannacittaśuddhilabdhāvyabhicāraparama- सर्वोपनिषत्प्रतिपाद्यसकलजगदुभयकारणषट्स्थलपरशिवोपासनस्य विधेयत्वात् तदुपास्व इत्यादिश्रुतिभिर्ज्ञानोपासनाविधिस्तेषामेवोपपद्यते | शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य इत्यथर्वशिखायां मुमुक्षूणां शिवातिरिक्तोपासनं निरस्तम् | तस्मान्नान्यथा संसारमायापाशनिवृत्तिस्सम्भवति | क्षरं प्रधानममृताक्षरं हरः क्षरात्मनावीशते देव एकः तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः | तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति || इत्यादिश्रुतिषु शिवध्यानधारणज्ञानादेव मोक्षरूपफलं विधीयते | तस्माच्छिव एव परब्रह्म मोक्षकामैर्धारणीयो ज्ञातव्यो ध्यातव्यः श्रोतव्यो मन्तव्योऽर्चनीय इति षड्विधलिङ्गतात्पर्येण ब्रह्मपरा वेदान्तास्तदुपासनपराश्चेति निर्णयः | ननु - ब्रह्म सत्यं जगन्मिथ्या इति न्यायेन सर्ववेदान्तविचारलब्धजगन्मिथ्यात्वज्ञानपूर्वकस्वस्वरूपज्ञानमेव मुक्तिरिति चेन्न - सर्ववेदवेदान्तबाह्यत्वप्रसङ्गात् | किं नाम जगन्मिथ्यात्वं ब्रह्मज्ञानबाध्यत्वं त्रैकालिकनिषेधो वा नाद्यः - बाध्यबाधकभावस्यैव तयोरसम्भवात् न ब्रह्मज्ञानेन प्रपञ्चनिषेधो विधीयते | सर्वो वै रुद्रः सर्वं खल्विदं ब्रह्म इत्यादिना सर्वप्रपञ्चस्य शिवात्मकत्वोपदेशात् |
SK
किञ्च - यत्र नान्यत्पश्यति नान्यच्छृणोति इत्यादिश्रुत्या मुक्तात्मनां इदन्तारूपघटपटात्मकप्रपञ्चत्वेन व्यवहृतमायापाश एव सर्वशिवात्मकताज्ञानेन तिरोधीयते | शिवो दाता शिवो भोक्ता शिवस्सर्वमिदं जगत् इत्यादिशास्त्रोक्तसर्वशिवात्मकतासम्पूर्णज्ञानेन घटपटादौ घटत्वादिबुद्धिर्निवर्तते न तु घटादिः तस्य शिवात्मकत्वात् | तस्मान्न ब्रह्मज्ञाननिवर्त्यत्वं प्रपञ्चस्य | अतो मिथ्यात्वमयुक्तम् | तत्स्वीकारे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाश्रुतेर्दत्तजलाञ्जलित्वप्रसङ्गः | ब्रह्मोपादानकारणकत्वात्प्रपञ्चस्यैकविज्ञानेन सर्वविज्ञानप्रतिज्ञा श्रूयते | अत एव - सर्वं खल्विदं ब्रह्म ऐतदात्म्यमिदं सर्वं सर्वो वै रुद्रः इत्यादिश्रुतिः सर्वस्य शिवात्मकत्वमुपदिशति | तस्मान्न ब्रह्मज्ञानेन प्रपञ्चबाधः | जनकादिब्रह्माविदामपि पूर्ववदेव व्यवहारो दृश्यते | तेषां न प्रपञ्चबाधः | जीवन्मुक्तानां शरीरधारणादिव्यवहारानुपपत्तिश्च | किञ्च - akhaṇḍādvaitabhāve tu sarvaṃ brahmaiva nānyathā | jñānādvikalpabuddhistu līyate na svarūpataḥ || bhinnatvaṃ naiva yuñjīta brahmopādānataḥ kvacit | vācārambhaṇamātratvādbhedaḥ kenopajāyate | tasmādavidyāmātratvakathanaṃ mohanāya hi || iti jaganmithyātvavādināṃ nindā śrūyate | asatyamapratiṣṭhaṃ te jagadāhuranīśvaram iti gītāyāṃ ca śrūyate | na dvitīyaḥ - amūlamanādhāramimāḥ prajāḥ prajāyante na kadācidanīdṛśaṃ jagat ityādinā jagato nityatvapratipādanāt | nanu - asadvā idamagra āsīt tato vai sadajāyata sadeva somyedamagra āsīdekamevādvitīyaṃ brahma ityādiśrutiśatena sṛṣṭeḥ pūrvaṃ prapañcasyāsatvopadeśāt kathaṃ tasya traikālikasatyatvaṃ iti cenna - asadvā idamagra āsīt ityatra sṛṣṭeḥ pūrvaṃ prapañcasya nāmarūpavibhāgānarhatvena brahmaṇi sūkṣmarūpeṇa sthitatvādasatvaṃ tato vai sadajāyata ityanena nāmarūpavibhāgārhatvena prapañcasya janyatvaṃ copadiśyate |
SK
किञ्च - असत्पदेन गगनारविन्दवदभावत्वाङ्गीकारे वन्ध्यापुत्रादीनामपि जगत्कारणत्वं किं न स्यात् सदेवेत्यवधारणेन न सविशेषत्वनिषेधः | किन्तु असतो भ्रान्तिप्रसक्तत्वात्तत्कारणत्वनिषेधः | किञ्च - सदेव सोम्येदमग्र आसीत् इति श्रुतौ कथं सविशेषत्वनिषेधः अग्रे इति कालविशेषः आसीत् इति क्रियाविशेषश्च दृश्यते | एकमेवेत्यवधारणेनाधिष्टात्रन्तरनिषेधः अद्वितीय पदेन ब्रह्मणो जगदुभयकारणत्वं विधीयते | एको हि रुद्रो न द्वितीयाय तस्थुः || इत्यादावप्येवं बोद्धव्यम् | अत एव विश्वाधिको रुद्रो महर्षिः इति श्रूयते | तस्मान्न त्रैकालिकनिषेध इति रहस्यम् | जगद्व्यावहारिकत्वखण्डनम् ननु प्रपञ्चस्य व्यावहारिकमात्रसत्यत्वं न तु पारमार्थिकत्वमिति चेन्न | किमिदं व्यवहारसत्यत्वं १) व्यवहारमात्रगम्यत्वं २) बाधितव्यवहारगम्यत्वं ३) त्रिचतुरकक्ष्यास्वबाध्यत्वं वा ४) तत्त्वावेदकप्रमाणविरुद्धत्वं ५) अर्थक्रियाशून्यप्रतीतिगोचरत्वं ६) करणदोषोपहितज्ञानविषयत्वं वा नाद्यः - ब्रह्मणोऽपि व्यहारगम्यत्वेनातिव्याप्तेः | अन्यथा गुरुशिष्ययोर्मौनमौढ्यापत्तेः | अथातो ब्रह्मजिज्ञासा सदेव सोम्येदमग्र आसीत् सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिरूपेण प्रवृत्तायाः श्रुतिसूत्रफक्किकाया अभित्तिचित्रकर्मतापाताच्च | सर्वापीयं फक्विका सविशेषविषया निर्विशेष न कस्यापि व्यवहारस्य गोचरं इति चेदव्याहतमेतत् | न गोचरः इति व्यवहारं प्रत्येव गोचरत्वात् | वेदान्तानां निर्विशेषविषयत्वाभावसमर्थनेन अस्मदनुकूलं च तेषामपि व्यवहाररूपत्वात् |
SK
नापि बाधितव्यवहारगम्यत्वमिति द्वितीयः - ब्रह्मण्यतियाप्तेर्दुर्वारत्वात् | सर्वोऽपि व्यवहारो बाधित एव प्रपञ्चान्तर्गतत्वात् | न च बाधित्वं व्यवहारगम्यत्वस्य विशेषणमिति शङ्क्यम् | तर्हि बाधितत्वस्यैव लक्षणत्वे शेषवैयर्थ्यात् | न चेष्टापत्तिः | प्रातिभासिकेऽतिव्याप्तेः | न च ब्रह्मातिरिक्तविषयकज्ञानाबाधितत्वे सति बाधितत्वमिति परिष्कारस्साधुः ज्ञानाबाधितत्वस्य ज्ञानजन्यध्वंसाप्रतियोगित्वरूपत्वे उत्तरज्ञानजन्यध्वंसप्रतियोगिषु पूर्वज्ञानेषु लक्षणाव्याप्तेः | ज्ञानानपहृतधीविषयत्वरूपत्वे तु घटो नास्ति पटो नास्ति इति ज्ञानापहृतधीविषयेषु घटपटादिष्वव्याप्तिः | तेषां ज्ञानानां ब्रह्मातिरिक्तविषयकत्वात् | विस्तरेण चोपरिष्टान्निराकरिष्यामः | किञ्च - नीलपृष्ठत्वादिसत्ताया अपि ब्रह्मरूपतया तद्विषयकज्ञानबाध्येषु रजतादिष्वतिव्याप्तिर्दुर्वारैव | तेषामपि ज्ञानानां ब्रह्मातिरिक्तविषयत्वाभावात् | न च नीलपृष्ठत्वादीनामब्रह्मरूपाणां तद्ज्ञानविषयत्वान्नातिप्रसङ्गः इति वाच्यम् | तर्हि निर्विशेषत्वप्रपञ्चमिथ्यात्वादिब्रह्मातिरिक्तविषयकज्ञानस्यैव प्रपञ्चनिवर्तकतया व्यावहारिकमात्रे लक्षणासम्भवप्रसङ्गात् | निर्विशेषत्वादीनां सप्रतियोगिकानां निष्प्रतियोगिकब्रह्मस्वरूपमात्रत्वं दुस्साध्यम् | स्वरूपमात्रज्ञानस्याध्याससहस्वप्रकाशानतिरिक्तविषयतया निवर्तकत्वासम्भवेनासम्भवापादकं च | अनतिरिक्तविष्यविज्ञाने वृत्तित्वं निवर्तकतावच्छेदकमित्यभ्युपगमे जडाया वृत्तेर्निर्वत्यत्वे ज्ञानबाध्यत्वसिद्धान्तव्याहतिः | कथंचित् ज्ञानत्वाङ्गीकारेऽपि स्वस्वरूपज्ञानसाधारणस्य ज्ञाननिवर्तकतानवच्छेदकत्वादपसिद्धान्तश्चेत्यास्तां विस्तरः | नापि त्रिचतुरकक्ष्या स्वबाध्यत्वमिति तृतीयः - ब्रह्मण्येवातिव्याप्तेः | अबाध्यं हि ब्रह्म त्रिचतुरकक्ष्याऽबाध्यमेव | न च त्रिचतुरकक्ष्यास्वबाध्यत्वं तथा सति प्रातिभासिकविशेषेऽतिव्याप्तेः | सम्भवन्ति हि दीर्घकालानुवृत्तभ्रमविषयाणि प्रातिभासिकानि वस्तून्यलातचक्रगन्धर्वनगरादीनि |
SK
किञ्च - कक्ष्याशब्दोऽयं युक्तिपरः कालपरः विपरीतप्रमापरो वा नाद्यः - प्रपञ्चो मिथ्या दृश्यत्वात् इत्येकयैव | कक्ष्यया प्रपञ्चस्य बाधेनासम्भवात् | तत्परत्वापरत्वाच्च निर्दोषत्वाच्च वैदिकम् | पूर्वस्य बाधकम् इत्येकयुक्त्यनुसन्धानेनापि बाधेन तदापत्तेश्च | न द्वितीयः - दीर्घकालभ्रमविषये प्रातिभासिकेऽतिव्याप्तेः | न तृतीयः - विपरीतप्रमाविषयश्च भवत्यबाधितश्चेति | व्याघातात् | न च बाधः पदार्थनिवृत्तिरिति युक्तम् | मुद्गरादिनिवर्त्येषु घटादिषु त्रिचतुरविपरीतज्ञानानिवर्त्यत्वे सति विपरीतज्ञाननिवर्त्यत्वस्वभावेनाव्याप्तेः | अपि च - त्रिचतुरयुक्त्यबाध्यत्वे सति बाध्यत्वमिति प्रथमकल्पं ब्रह्मण्यतिव्याप्तिः तस्यापि युक्तिपाधितत्वात् | ज्ञानाज्ञानयोरेकविषयत्वेन यद्विषयकमज्ञानं तद्विषयकमेव ज्ञानं तादृशज्ञाननिवर्तकम् | प्रकृते ब्रह्मविषयकाज्ञानस्य ब्रह्मविषयकज्ञानेनैव निवृत्तिः | तथा हि - ब्रह्म दृश्यमदृश्यं वा दृश्यत्वे मिथ्यात्वमवर्जनीयम् | अदृश्यत्वे ब्रह्मव्यवहारमात्रोच्छेदः तस्य दृगेकसाध्यत्वात् | अविद्यानिवृत्तिश्च न स्यात् समानविषयकदृगभावात् | न च ज्ञानत्वारोपमात्रेण वृत्तिः ज्ञानकार्याणि कर्तुमर्हति | गुञ्जाधिष्ठानवह्नेरपि दाहकत्वप्रसङ्गात् | न च ज्ञानावच्छेदकतया मुख्यमेव ज्ञानत्वमिति शङ्क्यम् | अवच्छेद्यावच्छेदकभावेन ज्ञानभेदस्यैव समर्थनेन व्याघातात् घटेऽप्यवच्छेदकतापत्तेश्च | घटवद्ज्ञानं इत्यत्र घटोऽप्यवच्छेदकः |
SK
किञ्च - वृत्तेर्ज्ञानपदमुख्यार्थत्वे ब्रह्मणो ज्ञानभिन्नतैव स्यात् | न च ब्रह्मवृत्योरनुगतं किञ्चित्प्रवृत्तिनिमित्तमस्ति | येनोभयत्र मुख्यं स्यात् | न च ज्ञानत्वं असिद्धेरित्युक्तेः | न हि ज्ञानाज्ञानपरिणामानुगतं ज्ञानत्वं प्रामाणिकम् | स्वव्यापकस्वप्रकाशत्वनिवृत्या ज्ञानत्वनिवृत्तेश्च | निर्विशेषे चिन्मात्रे तदभावे अज्ञानत्वप्रसङ्गाच्च | नाप्यविद्यानिवर्तकत्वं ज्ञानत्वस्य स्वव्यापकस्य निवृत्या स्वस्यापि निवृत्तेः | अध्याससहे चिन्मात्रे तदभावेनाव्याप्तेश्च | नापि प्रवृत्तिनिवृत्तिद्वयेनोभयमुख्यत्वं अनेकार्थत्वकल्पनाप्रसङ्गात् | वृत्यवच्छिन्नचैतन्यस्य जगदाभ सकल्पनावैयर्थ्यात् | ब्रह्मणो दृश्यत्वेन मिथ्यात्वापादनस्य वज्रलेपत्वापाताच्च | ज्ञानाज्ञानयोर्ज्ञानपदमुख्यार्थत्वसमर्थनाय प्रवृत्तिनिवृत्तिद्वयकल्पने घटपटयोर्घटपदमुख्यार्थत्वापत्तेश्च | एवञ्च वृत्तेर्ज्ञानत्वाभावेन ब्रह्मणो निर्विषयत्वस्वरूपप्रकाशस्यापि स्वविषयत्वाद्ब्रह्मणस्तुच्छत्वं सर्वेषां चैतन्यानां स्वाविषयब्रह्माभिन्नतया मिथो व्यवहारानुपपत्तेश्च | वृत्तेर्मुख्यज्ञानत्वे स्वप्रकाशस्वविषयत्वे वा ब्रह्मणो मिथ्यात्वमवर्जनीयम् | कल्पितभेदमादाय देवदत्तादीनां मिथो व्यवहारे चैतन्यस्य चैतन्यविषयतया मिथ्यात्वमवर्जनीयम् | न च - मिथ्याभूतभेदवच्चैतन्यविषयत्वं न मिथ्यात्वप्रयोजकं प्रपञ्चेऽपि तदसिद्धेः | जीवस्य विशिष्टरूपेण मिथ्यात्वमिष्टं निष्कृष्टरूपं तु न चिद्विषयं इति वाच्यम् | तर्हि वृत्तिविशिष्टमपि ज्ञानं मिथ्यात्वान्न मुख्या दृगिति न प्रपञ्चेऽपि दृश्यत्वमिति जितमस्माभिः | विशिष्टान्यत्वे तस्यापि वृत्तिविषयत्वान्मिथ्यात्वं अनन्यत्वे विशिष्टस्य मिथ्यात्वात्तस्य शुद्धाभिन्नत्वात्प्रपञ्चस्य सत्यत्वं ब्रह्मणो मिथ्यात्वमिति विपरीतवृत्तिः | तस्माद्विशिष्टानन्यत्वान्यत्वाभ्यां प्रपञ्चब्रह्मणोः सत्यत्वमिथ्यात्वविपरीतवृत्तिर्दुर्वारैव |
SK
किञ्च - निर्विशेषं ब्रह्म किमस्ति उत नास्ति द्वितीये - माध्यमिकमतप्रवेशः | प्रथमे - ब्रह्मास्तीति प्रतिज्ञायां प्रवृत्तिनिमित्तभेदे निर्विशेषत्वव्याहतिः | न च प्रतिज्ञा प्रवृत्तिनिमित्तयोः | कल्पितत्वेन परिहारः निर्विशेषं ब्रह्मास्तीति प्रतिज्ञायास्सविशेषविषयकत्वाकथनस्य उन्मत्तप्रलापत्वात् अस्ति शब्दप्रवृत्तिनिमित्तभूतायाः सत्तायास्त्वन्मते मिथ्यात्वायोगाच्च | ब्रह्मत्वस्य कल्पितत्वे निर्विशेषस्याब्रह्मतापाताच्च | यत्र ब्रह्मत्वं प्रकल्पितं तदेव ब्रह्मेत्युक्तेर्व्याहतत्वाच्च | निर्विशेषस्य कल्पितसम्बन्धायोगाच्च | प्रवृत्तिनिमित्ताभेदे तु सामानाधिकरण्यायोगः | भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यं इति वृद्धाः | अभावरूपधर्मप्रवृत्तिनिमित्तकतायामप्ययमेव दोषः | अभावानां स्वरूपानतिरेके सामानाधिकरण्यहानेः अतिरेके सिद्धान्तहानेः | एतेन निर्विशेषः प्रतिज्ञादीनामविषयोऽपि स्वतस्सिध्यतीति निरस्तम् | दुस्साध्येषु सर्वेष्वर्थेषु स्वतस्सिद्धेर्दुर्वारत्वापातात् | एतेन श्रुत्या निर्विशेषसिद्धिरपास्ता | प्रकृतिप्रत्ययभेदभिन्नायाः श्रुतेस्तत्र प्रामाण्यासम्भवात् | पूर्वोक्तदृश्यत्वानुमानग्रासाच्च | अपि च - मिथ्यार्थब्रह्मणोर्भेदः परमार्थः उतापरमार्थः प्रथमविकल्पे भेदसत्यत्वाङ्गीकारात्सिद्धान्तहानिः | द्वितीये सत्यस्य ब्रह्मणोऽपि मिथ्यात्वं दुर्वारम् | ययोर्भेदो मिथ्या तयोरैक्यमिति व्याप्तेः | घटस्य स्वस्माद्भेदे मिथ्याभूते ह्यभेदः परमार्थः | न च भेदाभेदयोर्मिथ्यात्वान्न दोष इत्यपि साधु परस्परविरोधे प्रकारान्तरानवथितेः | यद्येवं स्यात्तर्हि भेदाभेदयोरपक्षपातिना भवता जीवब्रह्मणोस्तदुभयमिथ्यात्वं किं न स्वीक्रियेत न चाभेदश्रुतिप्राबल्यात्तदसम्भवः | सर्वं खल्विदं ब्रह्म इत्यादीनामेव प्रपञ्चब्रह्माभेदश्रुतीनामत्रापि सत्त्वात् |
SK
किञ्च - निर्विशेषं ब्रह्मज्ञानमज्ञानं वा द्वितीये अपसिद्धान्तः | प्रथमे तु सविषयं निर्विषयं वा निर्विषयत्वे त्वदभिमतज्ञानत्वव्याघातः | सविषयत्वे विषयनित्यताप्रसङ्गः | नित्यज्ञानस्य नित्यविषयावश्यंभावात् | तथा न मुक्तावपि सप्रपञ्चताप्रसङ्गः | तदा विषयाणां निवृत्तत्वान्निर्विषयमिति चेत् तर्हि ज्ञानत्वमेव न स्यात् | निरालम्बनत्वज्ञानत्वयोर्व्याघातात् | न च - अतीतादिविषयज्ञानवद्विषयनित्यत्वपरिहारः | तद्वदतीतत्वादिकिञ्चित्प्रकारकत्वेन किञ्चिदालम्बनत्वेन वा निर्विशेषत्वव्याघातात् | विषयसम्बन्धनित्यताया एवापाद्यत्वेन दोषापाताच्च | निर्विषया निराश्रया च संविदनुभवसिद्धेति तुच्छम् | घटमहं जानामि अयं घटः इति सानुबन्धत्वेनैवोपलम्भात् | अन्या तु संवित् त्वदभिमता गगनकुसुमादिसिद्धिकालं विना न सिध्यतीति दिक् | अपि च - द्रव्यमद्रव्यं वा द्रव्यं चेद्गुणाश्रयत्वप्रसङ्गः | उत्पत्तिकालावच्छिन्नघटवदुपपत्तिरिति फल्गु | आद्यक्षणसंयोगस्य तत्रापि सत्त्वात् | तद्वत्कदाचिद्गुणाश्रयत्वेऽपि अगुणाश्रयत्वव्याहतेः | गुणानां कल्पितत्वेऽपि निर्विशेषत्वव्याहतिः | अविद्योपादानं विना बुद्धेस्तदसिद्धेः | अद्रव्यं चेद्द्रव्याश्रितत्वप्रसङ्गः | तथा च स्वे महिम्नि इत्यादिश्रुतिविरोधः | आश्रयसम्बन्धान्निर्विशेषत्वभङ्गाच्च | तस्मादेवंविधाभिः खण्डनयुक्तिभिः प्रथमद्वितीयकक्ष्यान्तराल एवाबाधितस्य ब्रह्मणोऽपि तदुपरितनकक्ष्यासु बाध्यत्वसम्भवात्तदतिव्याप्तिर्दुर्वारैवेति दिक् |
SK
नापि तत्त्वावेदकप्रमाणविरुद्धत्वमिति तुरीयः - ताल्वादिषु श्रोत्रादिषु च तत्त्वावेदकप्रामाण्यव्यञ्जितेषु तत्स्वरूपविरोधादर्शनात् | अथ तत्प्रमेयविरुद्धत्वमित्यपि न वेदत्वेनैव तत्त्वावेदकत्वे नेह नानास्ति इत्यादीनामपि यस्मिन् द्यौः इत्यादितत्त्वावेदकप्रमाणविरुद्धार्थकतया तदर्थप्रपञ्चाभावेऽपि व्यावहारिकत्वप्रसङ्गात् | प्रपञ्चाभावस्यातिरिक्तस्य सत्यत्वे द्वैतप्रसङ्गेन मिथ्यात्वे तद्बोधकप्रमाणस्य तत्त्वावेदकत्वव्याघातेन च ब्रह्मभेदस्याङ्गीकार्यतया ब्रह्मन्यतिव्याप्तेश्च | किञ्च - अत्र तत्त्वावेदकतदन्ययोर्भेदः सिद्धो वाऽसिद्धो वा असिद्धौ स्वोक्तिव्यावातः सिद्धौ तु अप्रमाणेन विषयासिद्धौ प्रमाणगोचरस्य भेदस्य सत्यत्वप्रसङ्गेन प्रपञ्चव्यावहारिकत्वभङ्गः | तदसत्वे तु स एव तत्त्वावेदकाभेदादुक्तित्र्याघातः | यद्भेदस्य मिथ्यात्वं तदभेदस्सत्य इति ह्युक्तं प्राक् | नापि - अर्थक्रियाशून्यप्रतीतिविषयत्वमिति पञ्चमः - तथा सति त्वदीयायाः प्रवृत्तेर्लोकवेदगोचरायाः सर्वस्या अपि गगनकुसुमायमानत्वप्रसङ्गेन स्वक्रियास्ववचनव्याघातदण्ड एव दुष्टफणिनमिव त्वां नर्तनान्निवर्तयिष्यति | अथायमभिप्रायः - नञः प्रश्लेषेण अर्थक्रियाशून्यत्वं अर्थक्रियाशून्यत्वाभावः इति | तथासति सर्वार्थमूलकन्दे ब्रह्मण्यतिव्याप्तिः | न च अविद्यावच्छिन्नस्य ब्रह्मणोऽर्थक्रियाकारित्वं न शुद्धस्येति अविच्छिन्नस्य च व्यावहारिकत्वमिष्टमिति वाच्यम् | विशिष्टस्य ज्ञानेन निव्र्त्यत्वं तर्हि प्रसज्येतेति विशेषस्यापि निवृत्तौ शून्यवादसाम्राज्यप्रसङ्गः | न हि विशिष्टं विशेषणविशेष्यसम्बन्धेभ्योऽतिरिच्यते | अपि चाविद्यानिवृत्तिरूपार्थक्रियाहेतौ चरमान्तःकरणवृत्तिविषयशुद्धब्रह्मण्यतिव्याप्तेः | प्रकाशत्वेनाविद्यानिवृत्तित्वेन कार्यकारणभावः | अनात्मविषयप्रकाशत्वेन अनात्मविषयाविद्यानिवृत्तित्वेन चापरः | तथा च सति स्वविषयतां विनापि ब्रह्मणः स्वरूपप्रकाशः अविद्यां निवर्तयतीति त्वत्सिद्धान्तः |
SK
किञ्च - प्रातिभासिके रज्वधिष्ठानसर्पादौ भयकम्पाद्यर्थक्रियाकारिण्यतिव्याप्तिः | उत्पन्न प्रध्वस्तेषु घटादिषु चाव्याप्तिः | प्रचयाव्यवहितपूर्वक्षणोत्पन्नेषु तेषु च क्षणेष्वव्याप्तिः | अर्थक्रियायास्तेष्वदर्शनात् | स्वप्नेषु च शुभाशुभसूचकेषु तत्कालीनार्थक्रियाहेतुष्वतिव्याप्तिः | व्यावहारिकार्थक्रियाविवक्षायां त्वात्माश्रयदोष एव | न च कटकमुकुटादिपरिणामोऽर्थक्रियादिपदार्थ इत्युक्तावपि दोषपरिहारः | स्वाप्नेष्वतिव्याप्तेरुत्पन्नध्वस्तेषु चाव्याप्तेर्दुष्परिहरत्वात् | अथ - कारणतावच्छेदकजातीयत्वेनातिव्याप्तिपरिहारः | तथा सति प्रातिभासिकेऽतिव्याप्तेः | न च तत्र तादृशजात्यभावः | तथा सति तत्र त्वदीयरजतादिव्यवहारस्याकस्मिकत्वप्रसङ्गात् | स्वप्नेष्वर्थक्रियाया अभावप्रसङ्गाच्चेत्यन्यत्र विस्तरः | नापि करणदोषोपहितज्ञानविषयत्वमिति षष्ठः - शुक्तिरजतादिष्वतिव्याप्तेः अबाधितसर्वजनप्रतीतिविषयेष्वदुष्टेन्द्रियगोचरेषु घटादिष्वसम्भवात् | यतो वा इमानि भूतानि जायन्ते आत्मन आकाशस्सम्भूतः यस्मिन् द्यौः पृथिवी इत्याद्यदुष्टश्रुतिजन्यज्ञानविषयत्वाच्च प्रपञ्चे लक्षणासम्भवः | अथ अविद्यादोषमूला श्रुतिरपि तस्मान्नासम्भवः इति मनुषे तर्हि ब्रह्मण्यति व्याप्तिः तादृशश्रुतिजन्यज्ञानविषयत्वात्तस्य | न च ब्रह्मणः प्रमाणान्तरैरबाधान्न तद्विषयश्रुतिजन्यज्ञातं करणदोषोपहितमिति वाच्यम् | अथात आदेशो नेति नेति नासदासीन्नो सदासीत्तदानीं न सन्नासन्न सदसत् इत्यादिश्रुतिभिः पूर्वप्रपञ्चितकर्त्रनुगृहीताभिर्ब्रह्मणोऽपि बाधात् | श्रुतीनां ब्रह्मनिषेधं विनाऽर्थान्तरवर्णनं प्रपञ्चचनिषेधं विनाऽर्थान्तरस्य तत्रापि वर्णनादकिञ्चित्करम् |
SK
किं च - अधिष्ठानसत्तारूपे सर्वप्रत्ययवेद्ये ब्रह्मण्यतिव्याप्तिः | न च ज्ञानप्रकारत्वमिति विवक्षितुं शक्यं घटादिष्वव्याप्तेः | तेषां ज्ञानविशेष्यत्वात् | सद्रूपस्यपि ब्रह्मणः घटस्सन् इत्यादि प्रतीतौ प्रकारित्वात् | ब्रह्मणि प्रपञ्चः इति ज्ञाने प्रकारत्वाच्च | न चाध्यस्तत्वं विषयविशेषणमिति युक्तम् | तावन्मात्रस्यैव सम्यक्त्वे शेषवैयर्थ्यात् | प्रातिभासिके अतिव्याप्त्यवारणाच्च | तस्माद्व्यावहारिकमेव विश्वस्य सत्यत्वमिति यत् - तस्य श्रुतियुक्त्यनुभवविरुद्धत्वात् प्रच्छन्नबौद्धवान् एवायं मायावाद इति श्रौतशैवघण्टाघोषः | किं च - तत्त्वमस्यादिमहावाक्येषु च न निर्विशेषब्रह्मैक्यमुपदिश्यते | त्वन्तत्पदयोस्सविशेषजीवब्रह्मपरत्वव्यपदेशात् | तदैक्षत बहुस्यां इत्यादिषु तच्छब्दवाच्चस्य जगत्कारणस्य परमेश्वरस्य ब्रह्मणः सविशेषत्वोपदेशाच्च | ननु मायाऽविद्यावच्छिन्नसर्वज्ञत्वकिञ्चिद्ज्ञत्वधर्मानुगतेश्वरजीवयोर्गोशुनोरिव एकत्वासम्भवात् जहदजहल्लक्षणोक्तत्यागात्यागविधायकसोऽयंदेवदत्तवन्मायाविद्योपाधि- brahma veda brahmaiva bhavati brahma kāmo brahmavedanaṃ kuryāt parañjyotirupasampadya svena rupeṇābhiniṣpadyate śiva eko dhyeyaḥ śivaṅkarassarvamanyat parityajya dhyātvā munirgacchati bhūtayāni samastasākṣiṃ tamasaḥ parastāt śraddhābhaktidhyānayogādavehi ityādau bhramarakīṭavaptarameśvaropāsanātmakadhyānajñānavaśāt jīvasya śivatvaprāptyupadeśāt | eṣa eva sādhu karma kārayati ityādiśrutiṣu sarvakarmakārayitṛtvasālokyādicaturvidhamuktipradāyaktvayoḥ parameśvarasyaivābhidhānāt | tadaikṣata bahusyām ityupakramavākyavirodhāt ekavijñānena sarvavijñānapratijñābhaṅgaprasaṅgācca |
SK
ननु - उपासनाविधिना परमेश्वरसाक्षात्कारो नोपपद्यते | यद्दृश्यं तन्नश्यं इति न्यायेन घटवन्नाशप्रसङ्गात् | तदभावे ध्यानस्य निष्प्रयोजनत्वात् किञ्च सर्वज्ञत्वादिषड्विधधर्मावच्छिन्नस्य परशिवस्य ब्रह्मणः शिवशर्वशङ्करानन्दज्ञानानन्तादिशब्दानां हस्तकरपाण्यादिशब्दवप्तर्यायत्वात् अखण्डज्ञानस्वरूपपरमशिवावलोकी शुद्धजीवस्तु तद्भिन्नस्तदभिन्नो वा नाद्यः - प्रभाकरप्रभाभासमानस्य घटपटादिप्रपञ्चस्य स्वभासकप्रभाकरप्रकाशकत्वासम्भववत् परमशिवप्रेरितस्य तद्वेत्तृत्वासम्भवात् | न द्वितीयः - चक्षुरिन्द्रियवत् स्वसाक्षाक्तारासम्भवात् | जीवस्य तद्भिन्नज्ञानस्वरूपत्वेन तत्साक्षात्कारसिद्धिरिति चेन्न | जीवस्य तत्साक्षात्कारकर्तृत्वं तदुत्कृष्टज्ञानात्मकत्वेन तत्समानज्ञानात्मकत्वेन तदपकृष्टज्ञानात्मकत्वेन वा नाद्यः श्रुतियुक्त्यनुभवविरोधात् | न द्वितीयः - तदुपासनासम्भवात् | पूर्वोक्तदोषापत्तेश्च | न तृतीयः - ज्ञाज्ञौ द्वावजावीशानीशौ प्रधानक्षेत्रज्ञपतिर्गुणेशः ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां इत्यादिश्रुतियुक्त्यनुभवसिद्धत्वेन तदपकृष्टत्वं सम्भवति | तथापि प्रभाकरप्रभामध्यस्थदीपवत् तत्साक्षात्कारासम्भवात् | तस्मादुपासनाज्ञानेन न ब्रह्मसाक्षात्कारसिद्धिरिति चेन्न | प्रभाकरांशचक्षुर्मात्रेणैव प्रभाकरसाक्षात्कारसिद्धिवत् गुरुदीक्षाशुद्धस्य जीवस्यैव परमेश्वरानुग्रहात्तत्साक्षात्कारसिद्धेरविरोधात् | नो चेत् ज्ञात्वा शिवं शान्तिमत्यन्तमेति ब्रह्म वेद ब्रह्मैव भवति एषोऽणुरात्मा चेतसा वेदितव्यः इत्यादिश्रुतिशतभङ्गप्रसङ्गः | लोके गुरुशिष्यवोधप्रचारोऽपि न स्यात् | तस्मात्पूर्वोक्तार्थ एव सर्ववेदान्ततात्पर्यमिति सिद्धान्तः | इति चतुर्थं समन्वयाधिकरणम् | ईक्षत्यधिकरणम् || ५ || न चाध्यायचतुष्टयतात्पर्यं तु सूत्रचतुष्टयेन द्योतनात् कथमन्येषां सूत्राणां प्रयोजनमिति वाच्यम् | उक्तब्रह्मलक्षणस्य प्रधानादावतिव्याप्तिमाशंक्य भगवान् बादरायणः परिशेषसूत्राणां प्रयोजनं दर्शयति |
SK
निर्विकारस्य ब्रह्मणः जगज्जन्मादिकारणत्वासम्भवात् अयस्कान्तसूचीन्यायेन ब्रह्मसत्तावशात्तत्प्रधानस्य जगज्जन्मादिकारणत्वं समुचितम् उत स्वतन्त्रेण वा प्रधानस्येति साङ्ख्याद्वैतमतपूर्वपक्षमाशङ्क्य तन्मतं इराकरोति - ईक्षतेर्नाशब्दम् || ५ || अशब्दं - साङ्ख्याद्वैतकल्पितं जडं प्रधानं जगत्कारणं न भवति | कुतः - ईक्षतेः - ईक्षणपूर्वकजगज्जन्मादिकारणत्वस्य सच्छब्दवाच्ये परमेश्वरे एव दर्शनादिति सूत्रार्थः | छान्दोग्ये श्रूयतेऽस्य विपयः | सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं - ब्रह्म तदैक्षत बहु स्यां प्रजायेयेति इत्यादि | अन्यत्र - आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् | तदैक्षत लोकान्नुसृजा इति स इमान् लोकानसृजत इति | तथा - सैषा लोकानसृजत इति | तथा षोडशकलं पुरुषं प्रकृत्या क्वचित् स ईक्षां चक्रे स प्राणमसृजत इत्यादिश्रुतिकदम्बे परमेश्वरस्य वीक्षणपूर्वकजगज्जन्मादिकारणत्वदर्शनात् | अत्र जगत्कारणत्वं सच्छब्दवाच्यत्वं च प्रधानस्य वा ब्रह्मणो वेति संशयः | पूर्वपक्षस्तु - निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् इत्यादिषु परमेश्वरस्य निष्क्रियस्य निर्विकारत्वोपदेशात् | जगज्जन्मादेरीक्षितृत्वस्य च विकारधर्मरूपत्वात् | अजामेकां लोहितशुक्लकृष्णां वह्नीं प्रजां जनयन्तीं सरूपाम् | अजो
SK
ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः | सैषा विचित्रा सुदृढा वह्वङ्कुरा स्वयं गुणभिन्ना अङ्कुरेष्वपि गुणभिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी इत्यादिश्रुतिषु पधानस्य बहुप्रजाजनकत्वोपदेशात् स्वत एव वा तत्सत्ताप्राधान्येन वा प्रधानस्य जगत्कारणत्वमुपपद्यते | सत्त्वरजस्तमोगुणात्मके ज्ञानक्रियाशक्तिसम्बन्धावच्छिन्नं सर्वज्ञत्वं विधीयते | सत्त्वात्सञ्जायते ज्ञानं इति स्मृत्या ज्ञानहेतुत्वं तस्यैव सूचितम् | मृदादिव त्परिणामस्याचेतनप्रधानधर्मत्वात् | चेतनस्य तदसम्भवाच्च | जगत्प्रधानयोः कार्यकारणत्वं युज्यते | तस्मात् सदेव सोम्येदमग्र आसीत् इत्यत्र सच्छब्दवाच्यत्वेन तदेव व्यवह्रियते | कार्यकारणयोरननन्यत्वमत एव सत्यम् | एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिश्च | किञ्च - यथा सोम्येकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्यादिना सत्यमृत्पिण्डादितत्कार्यदृष्टान्तदार्ष्टान्तिकयोरेकरूपत्वं प्रतिपाद्यते | अत एव कपिलौडुलोम्यादयः प्रधानस्य प्रतिज्ञादृष्टान्तश्रुत्युपपत्या जगत्कारणत्वं व्यवस्थापयन्ति | तस्मात्तद्भिन्नस्य सच्छब्दवाच्यत्वं जगत्कारणत्वं च नोपपद्यते इति प्राप्ते ब्रूमः |
SK
सिद्धान्तस्तु - इक्षतेर्नाशब्दम् सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति इति श्रुतिसूत्राभ्यां सच्छब्दवाच्यस्य परब्रह्मणश्शिवस्यैव ईक्षतिधातोः श्रवणादचेतनस्य प्रधानस्येक्षितृत्वासम्भवात् | ऋतṁ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् | उर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः | सत्यं ज्ञानमनन्तं ब्रह्म सत्यात्मप्राणारामं मन अनन्दं इत्यादिश्रुतिषु सर्वज्ञस्य परमशिवस्य ब्रह्मणस्सच्छब्दवाच्यत्वं सकलजगदुपादान्निमित्तकारणत्वं च श्रूयते | गुणत्रयसाम्यावस्थात्मकस्य प्रधानस्य सत्पदवाच्यत्वं जगत्कारणत्वं च नोपपद्यते | यन्मोहात्मकमचेतनं तदेव प्रधानमिति तदेव जडं मोहात्मकं प्रधानमिति च तापनीयादिषु प्रधानस्य जडत्वव्यपदेशात् | प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् | तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् इत्यादि श्रुतिशयेन प्रधानपरमेश्वरयोनियाम्यनियामकत्वकथनात् | किं च - उपक्रमे तदैक्षत इत्यनेन उपादानस्य चेतनत्वं बहुस्यां इत्यनेन तस्य जगदुपादानत्वं च निर्दिश्यते | परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति श्रुतिदर्शनात्सर्वज्ञस्य परमेश्वरस्य ज्ञानक्रियादिसर्वशक्तिवैशिष्ट्यं स्वभावसिद्धमेव | अतो जगत्कारणवाक्यानि न प्रधानपराणि | प्रतिज्ञादृष्टन्तयोगात्प्रधानस्य जगत्कारणत्वमिति यदुक्तं तत्तुच्छम् ईक्षणस्य चेतनैकधर्मत्वात् | सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत | इति वाक्ये सर्वं ब्रह्मेत्युपदेशात् नेतरस्य कारणत्वम् | गुणत्रयसाम्यावस्थायां प्रकृतेः सर्वज्ञानशक्तिमत्वेन सत्वधर्मावच्छिन्नं सर्वज्ञत्वं सम्भवतीति चेत् तदसंगतं गुणत्रयसाम्यात्मकस्य प्रधानस्य तमःपृथक्त्वेन रजस्सत्त्वगुणसम्बन्धाभावात् | गुणत्रयसाम्यावस्था प्रकृतिः इत्यङ्गीकाराच्च |
SK
जगदुपादानकारणत्वे परमशिवस्य ब्रह्मणो विकारित्वापत्तिरिति यदुक्तं तन्न रमणीयम् | परमशिवचिच्छक्त्यंशभूतस्य मायापाशस्य कार्यत्वं चिच्छक्त्यवच्छिन्नपरमशिवस्य कारणत्वं चेति निर्देशान्न विकारित्वशंकाकलङ्कः | सृष्टिकामस्य रजस्तमोव्यपाश्रयत्वात् किञ्चिज्ज्ञत्वं प्रसज्येत इति चेत् - यथाग्निसिद्धस्य तद्दाहकत्वभयाभावः तद्वद्वशीकृतमायाशक्तेः परशिवत्य तत्कृतदोषानुपपत्तिः | ननु - अप्राणोह्यमनाश्शुभ्रः इत्यादिना परमशिवस्य ब्रह्मणश्शरीरेन्द्रियमनःप्राणसंबन्धस्य निरस्तत्र्वात्कथमीक्षितृत्वं सम्भवति इति चेन्न | साधनान्तरनिरपेक्षतया प्रभाकरस्य स्वयं प्रकाशत्ववच्छिवस्य ब्रह्मणश्शरीरेन्द्रियादिसाधनान्तरनैरपेक्ष्येण सर्वेक्षितृत्वसम्भवात् | तथा च श्रुतिः - अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुस्सशृणोत्यकर्णः | स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् अपाणिपादोऽहमचिन्त्यशक्तिः | पश्याम्यचक्षुस्स शृणोम्यकर्णः | अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् इति श्वेताश्वतरकैवल्याद्युपनिषत्सु श्रूयते | न च - नान्योऽनोस्ति द्रष्टा नान्योऽतोस्ति श्रोता इत्यादिश्रुतिदर्शनात्परमेश्वरातिरिक्तशारीरसद्भावे प्रमाणाभाव इति वाच्यम् | द्वा सुपर्णा सयुजा सखाया ज्ञाज्ञौ द्वावजावीशनीशौ इत्यादिश्रुतिषु जीवब्रह्मणोर्भेदव्यपदेशात् नान्योऽतोऽरितद्रष्टा इति श्रुतौ तद्व्यतिरिक्तब्रह्मविष्ण्वादिजीवानां तत्समानद्रष्टृत्वश्रोतृत्वादिनिषेधमात्रमेवोपदिश्यते | अन्यथा पूर्वोक्तशिवजीवभेदप्रतिपादकश्रुतिभङ्गप्रसङ्गः स्यात् | अत एतदेव रमणीयम् | तत्तेजः ऐक्षत ता आप ऐक्षन्त इत्यादिश्रुतिषु अचेतनयोरप्तेजसोरीक्षितृत्वश्रवणात् तद्वदेव प्रधानस्यापि गौणेक्षितृत्वमङ्गीकृत्य जगज्जन्मादिकारणत्वं युक्तं इत्याशङ्क्य निराकरोति - गौणश्चेन्नात्मशब्दात् || ६ ||
SK
प्रधानस्याप्तेजसोरिव ईक्षणं गौणमिति चेन्न | कुतः आत्मशब्दात् | सदेव सोम्येदमग्र आसीत् इत्युपक्रम्य तदैक्षत तत्तेजोऽसृजत इत्यादिना तेजः प्रभृति चेतनाचेतनकारणत्वं निर्दिश्य ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा इति सच्छब्दप्रतिपादितस्यात्मशब्देन व्यपदेशात् | किञ्च - ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा इति जडाजडप्रपंचात्मकत्वेन स्वत आत्मओपदेशाज्जडप्रधाने तदसंभवाच्च गौणार्थोऽपि न संगच्छते | अत्पेजःप्रभृतीनां शब्दानामष्टमूर्त्यात्मकपरमशिववाचकत्वमेवोपदिश्यते | अतो न विरोधः | नन्वात्मशब्दस्य चेतने जीवे मुख्यत्वात्तस्यैवेक्षितृत्वपूर्वकं जगत्कारणत्वं इति चेन्न | सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति इति श्रुतावात्मना सहानुप्रवेशदर्शनात् | स आत्मा तत्त्वमसि श्वेतकेतो इत्यत्र चेतनाचेतनप्रपञ्चात्मकपरमशिवे जीवानामैक्योपदेशाच्च | न जीवस्य जगत्कारणत्वं सर्वेक्षितृत्वं चोपपद्यते | एकविज्ञानेन सर्वविज्ञानभङ्गप्रसङ्गश्च | नामरूपे व्याकरवाणि इत्यत्र परमेश्वरकर्तृत्वदर्शनात् | न च - चेतनत्वाज्जीवस्य आत्मशब्दप्रयोगदर्शनाद्यत्किंचिन्मुख्यकारणत्वं इति वाच्यम् | प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः इत्यादिश्रुतौ - ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || इति स्मृतावपि च जीवस्य परमेश्वरमायापाशपराधीनत्वव्यपदेशात् |
SK
ननु - अचेतनेन्द्रियभूतशरीरादावात्मशब्दप्रयोगदर्शनात् कूलं पिपतिषति इत्यत्र चेतनधर्मपतनेच्छायाः कूले सम्भवाच्च मुख्येऽक्षणपूर्वकजगत्कर्तृत्वं जडप्रधानस्यापि सम्भवति इति चेन्न | ममात्मा सोमभद्रः इत्यादावात्मशब्दप्रयोगेऽपि भृत्यस्य न यथा सर्वस्वातन्त्र्यं तथा प्रधानस्यात्मशब्दप्रयोगेऽपि न स्वातन्त्र्यम् | कूलं पिपतिषति इत्यत्रापि पतनौन्मुख्यमात्रात्प्रतीतिमात्रमेव कूलस्य पतनेच्छाया न पारमार्थिकत्वम् | अत्र चेतनस्य परशिवस्य मुख्येक्षणपूर्वकजगत्कारणत्वोपदेशाद्गौणार्थत्वमपि न सम्भवति | किञ्च - श्रोत्रं श्रुणोति शस्त्रं छिनत्ति इत्यादिप्रयोगाणां यथा चेतनविषयत्वं तथा प्रधानकर्तृत्वप्रतिपादिकानां अजामेकां इत्यादिश्रुतीनां परमेश्वरकर्तृत्वपरत्वमेव | ज्योतिश्शब्दस्य ऋतुज्वलनादिविषये मुख्यत्ववत् आत्मशब्दस्यापि चेतनाचेतनविषयत्वेऽपि परमात्मनि मुख्यत्वमेव | पुनर्हेत्वन्तरमाह - तन्निष्ठस्य मोक्षोपदेशात् || ७ || स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्यत्र सदणिमानमादाय तत्त्वमसि श्वेतकेतो इति चेतनेश्वेतकेतोरेव ब्रह्मतादात्म्यमुपदिश्य तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पास्य इति इति शरीरपातानन्तरं भ्रमरकीटन्यायवत् ब्रह्मप्राप्तिलक्षणो मोक्ष इत्युपदेशात् न प्रधानशारीरयोः तत्त्वमसि इति वाक्ये तादात्म्यनिर्देशः | यथा क्रतुरस्मिन् लोके पुरुषो भवति तदेतः प्रेत्य भवति इति श्रुत्या जडप्रधाननिष्ठस्य तत्सम्पत्तिरेव स्यात् | ब्रह्मात्म्यैक्योपदेशशास्त्रस्य सर्वस्य वैरुध्यं स्यात् | ननु - आग्नीध्रशालान्यायेन शालास्थितऋत्विगादीनामप्याग्नीध्रशब्दवत् प्रधानेप्यात्मशब्दप्रयोगदर्शनात् स्थूलारुन्धतीन्यायेन तध्यानानन्तरमेव परशिवध्यानान्मुक्तिः |
SK
इति चेन्न - नोपास्यौ प्रकृतिजीवौ ज्ञात्वा शिवं शान्तिमत्यन्तमेति तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य इत्यादिना शिवेतरध्यानस्य मुमुक्षूणां निषिद्धत्वात् शिवध्याननिष्ठस्यैव मायापाशनिवृत्तिपूर्वकमुक्त्युपदेशात् | विश्वप्रकाशकविभाकरावलोकनस्य यथा न दीपिकासापेक्षत्वं तद्वत् स्थूलारुन्धतीन्यायेनापि परशिवध्यानसाक्षात्कारस्य न प्रधानध्यानापेक्षा युक्ता | अथवा - जडप्रधानस्य सच्छब्दवाच्यत्वे तत्त्वमसि श्वेतकेतो | इति चेतनश्वेतकेतोरचेतनत्वसिद्धिस्स्यात् | तथात्वे पाशनिवृत्तिपूर्वकशिवत्वप्राप्तिरूपमुक्तिर्हन्येत | शास्त्रस्यानर्थक्यं उन्मत्तप्रलपितत्वं चानिष्टं स्यात् | तस्मादत्रात्मशब्द᳚ष्चेतनपरशिववाचक एव | ननु - स्वाभाविकजीवत्वस्य निवृत्त्यसम्भवात् तत्त्वमसि इति वाक्ये तस्मात्त्वमसि इति तत्प्रकारकोऽसि इति ज्ञातव्यम् अथवा स्थूलसूक्ष्मचिदचित्प्रपञ्चविशिष्टकार्यकारणयोरभेद इति वा वक्तव्यम् | इति चेन्न - मोक्षदशायामपि पारतन्त्र्यसद्भावात्पारतन्त्र्यस्य दुःखहेतुत्वात् | अभयं वै जनक प्राप्तोऽसि न बिभेति कुतश्चनेति इत्यादिना मुक्तस्यामयत्वोपदेशात् मुक्तिसंसारयोर्वैलक्षण्याभावाच्च | ऐतदात्म्यमिदं सर्वं इत्युपक्रम्य जडप्रपञ्चस्य ब्रह्मात्मकत्वमुक्त्वा तत्त्वमसि इति तच्छब्देन पूर्वपरामर्शिना पूर्वनिर्दिष्टं ब्रह्म Pअगे णो. १०६, १०७ मिस्सिन्ग् पूर्वदले पुण्ये मतिः आग्नेये निद्रालत्यादयो भवन्ति याम्ये क्रूरे मतिः नैरुते पापे मनीषा वारुण्यां क्रीडा वायव्ये गमनादौ बुद्धिः सौम्ये रतिप्रीतिः ईशाने द्रव्यादानं मध्ये वैराग्यं केसरे जाग्रदवस्था कर्णिकायां स्वप्नः लिङ्गे सुषुप्तिः पद्मत्यागे तुरीयम् इति हृदयपुण्डरीकावच्छिन्नान्तरप्राणलिङ्गे सर्वेषां जीवानां सुषुप्तौ लय इति स्पष्टमुक्तम् | सुषुप्तौ शङ्करे लयः इति स्मृतिरपि श्रूयते |
SK
किञ्च - यथा सुषुप्तः स्वप्नं न कथं चन पश्यति अथास्मिन् प्राण अवैकधा भवति तस्माद्वा आत्मनः प्राणा यथाऽऽयतनं संप्रतिष्ठन्ते यथा त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा दंशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति इति | तथा सुषुप्तो जीवः प्राज्ञेनात्मना सम्परिष्वक्त इति च सच्छब्दवाच्यत्वं सर्वजीवलयाधिष्ठानत्वं च तस्यैव निर्दिष्टम् सर्वातीतं परानन्दं सत्तामात्रन्तु चिन्मयम् इत्यादिश्रुत्यन्तरेष्वपि प्रधानादीनां सतस्सत्वं प्रतिज्ञातम् | यथोर्णनाभिस्सृजते गृह्णते च इति श्रुतौ परशिवस्य ब्रह्मणोऽपि स्थूलसूक्ष्मचिदचित्प्रपञ्च्दाविर्भावतिरोधानयोर्दर्शनात् | किञ्च - प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं इति श्रुत्यन्तरे च सुषुप्तिदशायां जीवानां स्वान्तःकरणेन सह परशिवब्रह्मानुप्रवेशदर्᳚षनात्सच्छब्दवाच्यः सर्वातीतः सर्वज्ञः सर्वनियन्ता परशिव इति सिद्धम् | ततः रज्जुसर्पवत् जगज्जीवमिथ्यात्वबोधकं शुद्धाद्वैतं जडप्रधानस्य जगत्कारणत्वबोधकं साङ्ख्यमपि च पूर्वोक्तश्रुतिस्मृतिविरुद्धत्वान्मुमुक्षुभिर्नाङ्गीकरणीयम् | प्रधानस्य जगत्कारनत्वाभावे तद्गुणत्रयावच्छिन्नब्रह्मेन्द्रोपेन्द्रादीनां जगत्कारणत्वविधायकश्रुतीनां का गतिः इत्याशङ्कायामाह - गतिसामान्यात् || ११ || गतिः - सर्वेषां ब्रह्मेन्द्रोपेन्द्रचन्द्रदिनेन्द्रादिजगत्कारणत्वप्रतिपादकवेदान्तानां भेदाभेदबोधकानां मूर्तित्रयातीतसद्रूपपरमशिवे ब्रह्मणि पर्यवसानम् | तस्य सामान्यात् - समन्वयादित्यर्थः | तस्मान्न क्वचिदपि प्रधानकारणत्वविधायकश्रुतीनां ब्रह्मादिनानादेवताकारणत्वप्रतिपादकश्रुतीनां च विरोधः |
SK
यथाऽग्नेर्ज्वलतस्सर्वा दिशो विस्फुलिङ्गाः प्रतिष्ठेरन् एवमेवैतस्मादात्मनस्सर्वे प्राणाः यथायतनं संप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः आत्मा वा इदमेवाग्र आसीन्नान्यत्किञ्चन भिषत् | स ईक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च अजामेकां लोहितशुक्लकृष्णां वह्वीं प्रजां जनयंतीं सरूपाम् प्रजापतिर्वा इदमेक - एवाग्र आसीत् नारायणाद्ब्रह्मा जायते एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेति पुरुषो ह वै नारायणः - अमूलमनाधारमिमाः प्रजाः प्रजायन्ते एष सर्वभूतान्तरात्माऽपहतपात्मा दिव्यो देव एको नारायणः इत्यादिश्रुतीनां सच्छब्दवाच्ये परशिवे ब्रह्मण्येव समन्वयो ह्यविरुद्धः | विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् | सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु | देवा ह वै स्वर्गं लोकमायन् ते रुद्रमपृच्छन् को भवानिति सोऽब्रवीत् अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति | सोऽन्तरादन्तरं प्राविशत् इत्यारभ्य यो वै रुद्रस्सभगवान् यश्च ब्रह्मा तस्मै वै नमो नमः | यो वै रुद्रस्सभगवान् यश्च विष्णुस्तस्मै वै नमो नमः | इत्यादिना अथर्वशिरसि ब्रह्मविष्णुरुद्रेन्द्रचन्द्रदिनेन्द्रादिशब्दानां परशिववाचकत्वेन व्यवस्थापनात् | कैवल्ये - उमासहायं परमेश्वरं प्रभुं इत्यारभ्य स ब्रह्मा स शिवस्सेन्द्रस्सोऽक्षरः परमस्वराट् | स एव विष्णुस्स प्राणस्य कालोऽग्निस्स चन्द्रमाः | स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् || इत्यादिना शिवस्यैव सर्वात्मकत्वोपदेशाच्च |
SK
शिवोऽद्वैतः प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते इत्यादिश्रुतिषु मूर्तित्रयातीतत्वं कारणत्वं च तस्यैवोपदिश्यत इति नेतरस्य तद्विधीयते | ननु - क्वचिदवान्तरप्रलये चतुर्मुखादीनां जगत्कारणत्वप्रतिपादकपुराणवचनानां का गतिरिति चेन्न | अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || इति श्रुतिस्मृतिषु सर्वभूतानुप्रविष्टतया सर्वनियामकत्वं तस्यैव दृश्यत इति तत्कर्तृत्वं तदन्तर्यामितयावस्थितस्य परशिवपरमेश्वरस्यैव | किञ्च - विश्वामित्रादिवत् परशिवोपासनालब्ध सृष्ट्यादिशक्तिमत्वान्न विरोधः | तस्मात्सर्वदेवताजगत्कारणत्वबोधकश्रुतीनां परशिवबोधकत्वं सिद्धम् | तथापि भवशर्वेशानपशुपतिरुद्रोग्रभीममहादेवाभिधानानि शिवस्य परब्रह्मणो मुख्यानि | तथाहि - ऋतुṁ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् सत्यं ज्ञानमनन्तं ब्रह्म सदेव सोम्येदमग्र आसीत् इत्यादिना भवशब्दवाच्यत्वं भूधातोस्सत्तार्थकत्वात् सर्वत्र सदा भवतीति - भवः | परशिवस्यैव सर्वोपादानत्वात् घटस्सन् पटस्सन् इति चराचरप्रपञ्चे सदात्मकत्वं दृश्यते नमस्सर्वभूतदमनाय नमो मनोन्मनाय नमः
SK
नमः यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः इत्यादिना सर्वसंहर्तृत्वं च तस्यैवोपदिश्यत इति शर्वशब्दाभिधेयत्वम् | शॄ - हिंसायां इति धातोः | इमान् लोकानीशत ईशनीभिः ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानाम् इत्यादिना सर्वनियामकत्वश्रवणादीशानशब्दवाच्यत्वम् | ईशधातोः शिक्षार्थकत्वात् | येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः उमापतये पशुपतये नमो नमः इत्यादिना मायापाशबद्धब्रह्मविष्ण्विन्द्रादिपशूनामधिपतित्वेन पशुपतिशब्दवाच्यत्वम् | क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः | तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः प्रधानेक्षेत्रज्ञपतिर्गुणेशस्संसारबन्धस्थितिमोक्षहेतुः तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् इत्यादिना परशिवोपासनयैव सर्वमायापाशनिवृत्तिदर्शनात् ब्रह्मविष्ण्विन्द्रादिभक्तपशुत्वहेतुभूतमायापाशात्मक रुद्रं द्रावयतीति रुद्रशब्दवाच्यत्वम् | न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः तं देवा ज्योतिषां ज्योतिः इत्यादिना तदितरतेजोनभिभूतत्वप्रतिपादनादुग्रशब्दवाच्यत्वम् | भीषास्माद्वातः पवते इत्यादिना सकलभयहेतुत्वोपदेशाद्भीमशब्दवाच्यत्वम् | अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ता ज्ञानेन भजन्ति अनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः इत्यथर्वशिरसा ज्ञानैश्वर्यमहिमातिशयितत्वेन निर्देशान्महादेवशब्दवाच्यत्वम् | तस्मादष्टाभिधानानि परशिवस्यैव मुख्यानि अतश्शिव एव जगज्जन्मादिकारणम् | पुनर्हेत्वतन्तरमाह - श्रुतत्वाच्च || १२ ||
SK
यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितम् अस्मिन् कामास्समाहिताः एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघित्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः सोऽन्वेषितव्यस्स जिज्ञासितव्य इति | श्वेताश्वतरे - न तस्य कश्चित्पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् | स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् || पतिं पतीनां प्रथमं परस्ताद्विदाम देवं भुवनेशमीड्यम् इत्यादिना सर्वज्ञत्वसर्वनियामकत्वसर्वाधिष्ठानत्वसर्वोपास्यत्वानि महेश्वरस्य परब्रह्मणश्श्रूयन्ते | अथातो ब्रह्म जिज्ञासा इत्यारभ्य जिज्ञास्यस्य ब्रह्मणः सर्वशक्तिमत्वेन सर्वकारणत्वादिधर्मान्निर्दिश्य ईक्षतेर्नाशब्दम् इत्यादिना प्रधानस्य जगत्कारणत्ववादिमतं निरस्य ब्रह्मणश्शिवस्यैव स्वशक्तिसङ्कोचेन निर्गुणत्वं शक्तिविकासेन सगुणत्वं च प्रसाधितम् | गतिसामान्योपन्यासेन सकलनिष्कलप्रतिपादकयावद्वेदान्तवाक्यानि परमकारणपराण्येवेति व्याख्यातम् | तस्मात्परिशिष्टब्रह्ममीमांसायां सर्वाधिष्ठानस्य सर्वकारणस्य परशिवस्य सावयवत्वनिरवयवत्वोपासनं फलं च निर्णीयते | ननु - तमः प्रकाशवत्परस्परविरुद्धस्वभावसावयवत्वनिरवयवत्वप्रतिपादनं कथमेकस्य परशिवस्य सम्भवति इति चेन्न - सच्चत्यच्चाभवत् - निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् ऋतṁ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् | ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् द्वावेतौ ब्रह्मणो रूपे मूर्तं चामूर्तमेव च इत्यादिना परब्रह्मणश्शिवस्य पवनवन्मूर्तामूर्तत्वव्यपदेशात्तदुभयं युक्तमेव | वयं श्रुतिप्रमाणवादिनः न युक्तिं बहु मन्महे इति पूर्वाचार्योक्तेः |
SK
नामरूपविभागार्हत्वं सत्त्वम् | नामरूपविभागानर्हत्वे सति सद्गुरुकरुणाकटाक्षलब्धसूक्ष्मदृष्टिगोचरत्वं असत्त्वमिति | असद्वा इदमग्र आसीत् ततो वै सदजायत इत्यादिषु वेदितव्यम् | सामवेदप्रथममन्त्रे तपश्च ते इत्युपक्रम्य कर्माधिपतये नमः इत्यन्तेन विरूपाक्षोऽसि इति स्तुत्वा त्वां प्रपद्ये त्वया सूत इदं करिष्यामि तस्यै समृध्यतां तस्मादुपपद्यतां इत्यादिना सर्ववैदिककर्माणि रुद्राज्ञावशेनैव कुर्यादित्युपदेशाद्वैदिकैस्सर्वकर्मारम्भे तद्वदेव कर्तव्यम् | अन्यत्र च एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा | कर्माध्यक्षस्सर्वभूताधिवासस्साक्षी चेता केवलो निर्गुणश्च स पर्यगाच्छुक्रमकायमव्रणमस्नाविरṁ शुद्धमपापविद्धम् इति मूर्तामूर्तत्वं कर्माध्यक्षत्वं इत्यादीनि परमेश्वरधर्मा इति श्रूयते | किञ्च - सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयः | सर्वव्यापी स भगवांस्तस्मात्सर्वगतश्शिवः || उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं | ध्यात्वा मुनिर्गच्छति बूतयोनिं समस्तसाक्षिं तमसः परस्तात् | इत्यादि श्रुतिषु तमःपरत्वसाक्षित्वसर्वगतत्वसर्वान्तर्यामित्वादिलिङ्गानां परशिवासाधारणधर्मत्वावगमान्नान्यपरत्वम् | तथा स्मृतिरपि - वैदिकस्सर्वकर्माणि शिवमुद्दिश्य कारयेत् | तान्त्रिकस्सर्वकर्माणि विष्णूद्देशेन कारयेत् || इति |
SK
तस्माद्भेदाभेदविधायकसर्ववेदान्तवाक्यानां आराध्याराधकलक्षणो व्यवहारः | तेषु स्थूलारुन्धतीन्यायेन कानिचिद्वाक्यानि सालोक्यसामीप्यादिमुक्तिप्रदर्शकानि | कानिचिच्छिवोपासनापराणि | कानिचित्परमशिवस्थूलोपासनात्मकज्योतिष्टोमादिकर्मपराणि | कानिचित्परमेश्वरसूक्ष्माराधनात्मकदहरशाण्डिल्यादिविद्याविधायकानि | तासामधिकारिभेदेन फलविशेषोपाधिभेदाद्भेदः | प्रवाहसमुद्रन्यायेन सर्वाणि वेदान्तवाक्यानि ऋजु कुटिलमार्गेण परशिवप्रति पादकान्येव | तथापि शिवोपासकानामेव सद्योमुक्तिः | तदंशभूतेन्द्रोपेन्द्राद्युपासकानां निष्कामानामनेकजन्मार्जितपुण्यफलेन शिवोपासनद्वारा मुक्तिः | तथा शिवगीतायां - कोटिजन्मार्जितैः पुण्यैश्शिवे भक्तिः प्रजायते | तेनैव मुक्तिमाप्नोति नान्यथा जन्मकोटिभिः || इति | तथा महिम्नस्तवे - त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च | रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव || इति | सौरगाणापत्यवैष्णवादिनानादेवतोपासकानां तत्तद्देवतान्तर्यामित्वेन तत्तत्फलानि शिव एव दास्यति | तथा च शैवपुराणे - अहं हि सर्वहविषां भोक्ता सर्वफलप्रदः | सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्थितः || इति | तस्मान्निर्विशेषचिन्मात्रब्रह्मवादिमतं श्रुतिसूत्रविरुद्धत्वान्न मुमुक्षुग्राह्यम् | जिज्ञास्यब्रह्मणः पारमार्थिकमुख्येक्षणपूर्वकजगत्कारणत्वादिधर्मोपदेशात्तन्मते उपनिषत्प्रतिपाद्यसर्वसाक्षित्वमप्यपारमार्थिकम् | तथापि चेतनमिति वदन्ति तदप्यविचारितरमणीयम् | चेतनत्वं नाम चैतन्यगुणविशिष्टत्वम् | तस्मादीक्षणगुणरहितत्वेन प्रधानवज्रडत्वमुपपद्यते |
SK
किञ्च - निर्विशेषप्रकाशमात्रब्रह्मवादकस्य प्रकाशत्वं च न सम्भवति | प्रकाशस्तु स्वपरव्यवहारानुकूलतासम्पादकपदार्थविशेषः | निर्विशेषस्य वस्तुनः स्वपरप्रकाशकत्वासम्भवाद्घटादिवज्जडत्वमेव | तदुभयत्वाभावेपि तस्य प्रकाशत्वमस्तीति चेन्न - तत्प्रकाशत्वं हि तत्सामर्थ्यमेव | सामर्थ्यवतोऽपि सगुणत्वेन निर्विशेषवादभङ्गप्रसङ्गह् | वेदप्रामाण्याद्यश्च कश्चन गुणोऽङ्गीक्रियत इति चेत् तर्हि सर्वज्ञत्वसर्वशक्तिमत्त्वसर्वेश्वरत्वसत्यसङ्कल्पत्वादिधर्माणामपि श्रुतिविहितत्वेन सर्वेप्यङ्गीकर्तव्याः | कारणत्वं हि कार्यविशेषानुकूलशक्तिविशिष्टत्वम् | तच्च कार्यैकनिरूपणीयम् | कार्यविशेषस्य प्रपञ्चस्य मिथ्यात्वे कारणत्वमपि निष्प्रमाणमेव | किञ्च - प्रत्यक्षानुमानोपमानशब्दानुभवानां सविशेषगोचरत्वेन वस्तुवादिनो वस्तुत्वमपि निष्प्रमाणकम् | तस्माज्जगदुभयकारणमहेश्वर एव जिज्ञास्यं ब्रह्मेति सिद्धम् | इति ईक्षत्यधिकरणं समाप्तम् | उत्तमाधिकारिणं प्रति ईक्षत्यन्तैव ब्रह्मविद्या (शिवाद्वैतमञरी) आनन्दमयाधिकरणम् || ६ || अवान्तरसृष्टिकर्तृब्रह्मादीनां जगज्जन्मादिहेतुत्वं मास्तु | समष्टिस्थूलसूक्ष्मकारणशरीरावच्छिन्नविराड्ढिरण्यगर्भाव्याकृतानां जगज्जन्मादिहेतुत्वं भवेत् - इत्याशङ्कायां अधिकरणान्तरेण निराकरोति - आनन्दमयोभ्यासात् || १३ ||
SK
तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इत्यारभ्य तस्माद्वा एतस्माद्विज्ञानमयात् अन्योन्तर आत्माअऽनन्दमयः इति तैत्तिरीये श्रूयतेऽस्य विषयः | अत्रानन्दमयशब्देन किं शारीरोऽभिधीयते उत परशिव एवेति सन्दिह्यते | तदुभयधर्मवाहुल्यद्योतनात् | अधीहि भगवो ब्रह्मेति इति भृगोरेवात्र ब्रह्मज्ञानाय प्रश्नप्रतिवचननिरूपणात् | यतो वा इमानि इत्यारभ्य तद्विजिज्ञासस्वतद्ब्रह्मेति इति जगज्जन्मादिकारणत्वस्य ब्रह्मलक्षणतयाऽत्रोपदेशाच्च | पृथिव्या ओषधयः ओषधीभ्योऽन्नं अन्नात्पुरुषः स वा एष पुरुषोऽन्नरसमयः इत्यादिना सावयवत्वोपदेशात् अन्नमयादिपञ्चकोशान्तर्वर्तित्वेन पञ्चकोशमयत्वस्य जीवे एव समुचितत्त्वाच्चेति | पूर्वपक्षस्तु - अत्रानन्दमयश्शारीर एव | तस्यैव एव शारीर आत्मा इत्यानन्दमयस्य शारीरत्वद्योतनात् | आनन्दमयस्याप्यन्नमयाद्यमुख्यात्मप्रकरणपठितत्वात् | अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम् इति शुद्धिप्रार्थनादर्शनाच्च | मयट्प्रत्ययस्य विकारार्थकत्वात् त्यागभोगयोगाङ्गावच्छिन्नमायापाशबद्धस्य शारीरस्य संसारिणो निरतिशयानन्दासम्भवात् | आनन्दो ब्रह्म इति श्रुतौ परमेश्वरस्य निरतिशयानन्दश्रवणात् आनन्दमयस्तत्कार्यभूतश्शारीर एव आनन्दमय इति व्याचक्षते | अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः इति श्रुतौ प्रियाप्रियविलक्षणत्वमशरीरत्वं च परशिवब्रह्मणो व्यपदिश्यत इति तस्यानन्दमयत्वं न सम्भवति | ननु - जगत्कारणस्य परशिवस्यैव सुलभप्रतिपत्यर्थं अन्नं ब्रह्म इत्युपक्रम्य आनन्दो ब्रह्मेति व्यजनात् इत्यन्तेन आनन्दमयत्वं विश्वकारणत्वं चोपदिशति | तस्मान्न जीवप्रकरणम्
SK
इति चेन्न - जीवव्यतिरिक्तेश्वरस्याप्रामाणिकत्वात् | अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति तत्त्वमसि श्वेतकेतो इत्यादिना जीवब्रह्मणोः सोऽयं देवदत्तः इतिवदभेदनिर्देशात् तदैक्षत इति श्रुतिनिर्दिष्टेक्षणपूर्वकं जगत्कारणत्वं चेतनस्य जीवस्य समुचितमेव | सत्यं ज्ञानमनन्तं ब्रह्म इति अचिद्व्यतिरिक्तस्वरूपलक्षणमुच्यते | तस्मात् ब्रह्मविदाप्नोति परं इति श्रुतौ जीवस्य स्वस्वरूपज्ञानमेव मोक्ष इत्युपदिश्यते | किञ्च - शाखाचन्द्रन्यायेन आत्मस्वरूपनिर्देशार्थं अन्नमयः पुरुषः इति स्थूलशरीरं निर्दिश्य अन्योऽन्तर आत्मा प्राणमयः अन्योन्तर आत्मा मनोमयः अन्योन्तर आत्मा विज्ञानमयः इति स्थूलशरीराधारप्राणकोशं तदन्तर्भूतत्वेन निर्दिश्य तस्यान्तर्भूतं मनस्तदन्तर्गतं विज्ञानं बुद्धिं निश्श्रेणीन्यायेन निरूप्य सर्वान्तर्भूतं जीवात्मानं अन्योन्तर आत्माङन्दमयः इति निर्दिश्य तस्यैवोपसंहारात् ब्रह्मविदाप्नोति परं इत्युपक्रान्तं ब्रह्म जीव एव तत्स्वरूपज्ञानमेव मुक्तिः स एवानन्दमय इत्युपदिष्टम् | ननु - ब्रह्म पुच्छं प्रतिष्ठा इत्यत्र तस्य पुच्छत्वोपदेशात् निरवयवस्य पुच्छत्वासम्भवात् आनन्दमयव्यतिरिक्तस्यैव ब्रह्मत्वम् | इति चेन्न - ब्रह्मविदाप्नोति परम् इत्युपक्रम्य ब्रह्मपुच्छं प्रतिष्ठा इत्युपसंहृतत्वात् उपक्रमोपसंहारयोरेकलिङ्गत्वात् पुरुषविधत्वं ब्रह्मणस्स्वभावसिद्धम् | अतः शिरःपक्षपुच्छात्मना व्यपदेशो युक्तः | अन्नमयशरीरावयववत् ब्रह्मापि स्वस्मादनतिरिक्तप्रियमोदप्रमोदावयवानामखण्डाश्रयतया
SK
आनन्दमयं पुच्छं प्रतिष्ठेति स्मर्यते | ब्रह्मविदाप्नोति परं इत्युपक्रान्तं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म इतीतरव्यावर्तकलक्षणद्वारा प्रसाध्य तस्माद्वा एतस्मादात्मनः इत्यात्मशब्देन व्यपदिश्य तस्य सर्वात्मकत्वेन आत्मत्वं प्रतिपाद्य अन्योऽन्तर आत्माङन्दमयः इत्यात्मशब्देन निर्दिश्यमानस्यानन्दमये उपसंहृतत्वादान्दमयश्ब्देन जीवादनतिरिक्तं ब्रह्मैवानन्दमय इत्युच्यत इति प्राप्ते प्रचक्ष्महे आनन्दमयोऽभ्यासात् इति | सिद्धान्तः - अत्रानन्दमयश्शिव एव | कस्मात् अभ्यासात् | पुनः पुनः श्रवणमभ्यासः | शिवस्य परब्रह्मणः एव बहुशो वेदान्तेष्वानन्दशब्दप्रयोगदर्शनात् नेतर आनन्दमयशब्दवाच्य इति सूत्रार्थः | आनन्दमयं प्रस्तुत्य रसो वै सः इति रसत्वव्यपएशात् रसṁ ह्येवायं लब्ध्वाङन्दी भवति को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति सैषाङन्दस्य मीमाṁसा भवति एतमानन्दमयमात्मानमुपसंक्रामति आनन्दं ब्रह्मणो विद्वान् आनन्दो ब्रह्मेति व्यजानात् इति | श्रुत्यन्तरे च - आनन्दमयो ह्यानन्दभुक् आनन्दं ब्रह्मैव इति ब्रह्मणश्शिवस्यैवानन्दशब्दो निर्णीतः | किञ्च - सैषानन्दस्य मीमाṁसा भवति इत्युपक्रभ्य मानुषादिप्रजापतिपर्यन्तं शतगुणितमानन्दातिशयमुपदिश्य स एको ब्रह्मण आनन्दः इति परमानन्दातिशायित्वं ब्रह्मणश्शिवस्यैवेति व्यवस्थापनात् | मलत्रयविशिष्टतनुत्रयावच्छिन्नस्य शारीरस्य निरतिशयानन्दशिरस्कत्वासम्भवादानन्दमयश्शिव एव | आनन्दमयस्य ब्रह्मणश्शिरःप्रभृत्यवयवनिरूपणं भक्तोपासनार्थमेव | हंस हंसेति यो ब्रूयात् हंसो नाम सदाशिवः | यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् ||
SK
इत्यादिश्रुतिस्मृतिषु परब्रह्मणश्शिवस्य हंसरूपत्वव्यपदेशाच्च अवयवकल्पनमविरुद्धम् | श्रोतृबुध्यनुसारेणान्नमयादिसर्वान्तरत्वादानन्दमयस्य उत्तरोत्तरमात्मत्वेनानन्दमयान्तमुपदेशात् अन्नमयाद्यमुख्यात्मविज्ञानाभावे आनन्दमयमुख्यात्मविवेकासम्भवाच्च स्थूलारुन्धतीन्यायेन समक्षप्रवाहन्यायेन च मुख्यात्मप्रबोधार्थममुख्यात्मविवेकोऽविरुद्धः | जडत्वादन्नमयप्राणमयमनोमयपर्यन्तमेव मयट्प्रत्ययस्य विकारार्थकत्वम् | चेतनत्वाद्विज्ञानमयो विज्ञानप्रचुरो जीवः | आनन्दमय आनन्दप्रचुरः परमेश्वरः | गोश्वाग्निब्राह्मणान् स्पृष्ट्वा अपस्स्पृशेत् इत्यापस्तम्बसूत्रे - रजस्वलाग्निगोविप्रान् पातिव्रत्यस्त्रियं तथा | शवामेध्यब्रह्मबन्धून् स्पृष्ट्वा स्नानं समाचरेत् || इति वृद्धशातातपे च पवित्रापवित्रपदार्थानां साहचर्योपदेशान्न प्रकरणैकत्वं दोषः | सुषुप्तिकाले सकले विलीने तमोऽभिभूतस्सुखरूपमेति इत्यादिश्रुतौ सुषुप्तावानन्दमयपरमेश्वरे तत्साक्षात्कारप्रतिबन्धकतमोरूपपाशेन सह शारीरस्य विलीनत्वात्तन्निवृत्तिरूपप्रार्थनायास्समुचितत्वान्न विरोधः | ज्ञाज्ञौ द्वावजावीशनीशौ इत्यादि श्रुतिदर्शनात् मृन्मयो घटः इत्यादिवदानन्दमय-आनन्दविकारो जीव इति वादो न श्रौतः | विद्याविद्ये ईशते यस्तु सोऽन्यः क्षरात्मानावीशते देव एकः पृथगात्मानं प्रेरितारं च मत्वा द्वासुपर्णा सयुजा सखाया द्वे ब्रह्मणी वेदितव्ये परं चापरं च नित्यो नित्यानां चेतनश्चेतनानां अन्तः प्रविष्टश्शास्ता जनानां अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया संनिरुद्धः जुष्टं यदा पश्यत्यन्यमीशम् प्रधानक्षेत्रज्ञपतिर्गुणेशः ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां येषामीशे पशुपतिः पशूनां यः आत्मनि तिष्ठन् यस्यात्मा शरीरं इत्यादिश्रुतिशतेषु जीवब्रह्मणोः परस्परवैलक्षण्यव्यवस्थापनात् नानाशरीरप्रवेशनिर्गमनव्यापारः सांसारिकस्य शारीरस्यैव न ब्रह्मत्वमुपपद्यते |
SK
किन्तु - ब्रह्म वेद ब्रह्मैव भवति तत्त्वमसि इत्यादिश्रुतिषु स्वभावसिद्धजीवस्य भ्रमरकीटन्यायेन परमेश्वरोपासनया तदात्मत्वमुपदिश्यते नो चेत् श्रुतियुक्त्यनुभवविरोधप्रसङ्गः | किञ्च - नोपास्यौ प्रकृतिजीवौ इत्यादिश्रुतिषु शारीरोपासनाया निन्दाश्रवणात् न जीवस्य स्वस्वरूपज्ञानेन मुक्तिः | ज्ञात्वा शिवं शान्तिमत्यन्तमेति ब्रह्मविदाप्नोति परं तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्थाविद्यतेऽयनाय इत्यादिश्रुतौ जीवस्य परमेश्वरोपासनयैव मुक्तिव्यपदेशात् प्रधानस्य ब्रह्मत्ववादवत् जीवस्य ब्रह्मत्ववादोऽप्यवैदिकः | विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च इति श्लोकवशात् विज्ञानशब्देन न बुद्धिरुच्यते | अचेतनाया बुद्धेः कर्मकर्तृत्वासंभवात् | धर्मवाचकशब्दो हि गवादिशब्दवत् धर्मिग्राहकोऽपि भवति | अतो विज्ञानशब्दस्य धर्मिग्राहकत्वाज्जीववाचकत्वम् | किञ्च - विज्ञानं चाविज्ञानं च इति विज्ञानशब्देन विज्ञानगुणकं चेतनमुपदिशति | तथाऽन्तर्यामिब्राह्मणे - यो विज्ञाने तिष्ठन् इति काण्वपाठगतस्य पर्यायस्य स्थाने माध्यंदिनाः - य आत्मनि तिष्ठन् इति काण्वशाखापाठगतविज्ञानशब्दनिर्दिष्टं जीवात्मेति स्फुटीकुर्वन्ति | विज्ञानमिति च नपुंसकलिङ्गत्वं वस्तुत्वामिप्रायकम् | तदेवं विज्ञानमयाज्जीवादन्यस्तदन्तर्गतः परमात्माङन्दमयः कृत्यल्युटो बहुलं इति कर्तरि ल्युडाश्रीयते | अत एव विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च इति यज्ञादिकर्तृत्वं विज्ञानस्यैव श्रूयते | तस्मान्न भावल्युटोऽङ्गीकारः | ननु - जीवस्य चेतनत्वात् तदैक्षत बहु स्यां प्रजायेयेति इत्यादि श्रुतिनिर्दिष्टजगत्कारणत्वस्योपपत्तेः कारणस्य परमेश्वरस्य जीवात्मत्वासम्भवे अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति इत्यादिश्रुतिविरोधः -
SK
इति चेन्न | सत्यकामस्सत्यसङ्कल्पः इत्यादिश्रुतिसिद्धानां सत्यकामत्वादिधर्माणां तापत्रयबद्धे किञ्चिज्ज्ञे जीवे असम्भवान्न तस्य जगत्कारणत्वं सदेव सोम्येदमग्र आसीत् इत्यादिना सृष्टेः पूर्वकाले नामरूपविभागशून्यत्वं बहुस्यां इत्यादिना विश्वोत्पत्तौ जगदुभयकारणत्वं च सच्छब्दवाच्यस्य परमेश्वरस्यैव निर्दिष्टम् | प्रलये स्वान्तर्गुप्तबद्धजीवानां स्वांशत्वात् स्वात्मनानुप्रवेशेन नामरूपव्याकरणकर्तृत्वं च युक्तमेव | निर्विशेषस्योपासनाऽसंभवात् | ब्रह्मपुच्छं प्रतिष्ठा इदं पुच्छं प्रतिष्ठा अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा महः पुच्छं प्रतिष्ठा इत्यादौ परमेश्वरस्योपासनार्थमधिकारिभेदेन सावयवत्वमुपदिश्यते | सावयवोपासनाया अपि निरवयवप्राप्तिरेव फलम् | तथा कैवल्ये - उमासहायं इत्यारभ्य ध्यावा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इत्यन्तेन सावयवोपासकस्य निरवयवोपासनफलसिद्धिमाचक्षते | अतो न विरोधः | अन्नमयादिमयट्प्रत्ययप्रवाहप्रकरणपठितत्वादानन्दमयस्यापि मृन्मयो घटः इत्याइवत् विकारार्थकत्वमेवेत्याशङ्कायामाह - विकारशब्दान्नेतिचेन्न प्राचुर्यात् || १४ || अन्नमयादौ मयट्प्रत्ययस्य विकारार्थकत्वादानन्दमय इत्यत्रापि विकारार्थकत्वमेव समुचितमिति चेन्न | कुतः प्राचुर्यात् | ब्रह्मण आनन्दप्राचुर्यात् | अन्नमयो यज्ञः अंशुमयस्सूर्यः विप्रमयो ग्रामः विहङ्गममयो वृक्षः इत्यादौ प्राचुर्यार्थेऽपि मयट्प्रत्यस्य दर्शनादत्रानन्दमयशब्देनानन्दप्रचुरः परमेश्वर एवोच्यते सैषानन्दस्य मीमाṁसा भवति इत्युपक्रम्य मानुषविशेषादिप्रजापतिपर्यन्तमुत्तरोतरानन्दस्य शतगुणमतिशयितानन्दत्वमभिधाय स एको ब्रह्मण् आनन्दः इति ब्रह्मानन्दो निरतिशयत्वेनाभ्यस्यते | तस्मात्प्राचुर्यार्थे मयडिति सिद्धम् |
SK
ननु - मयट्प्रत्ययस्य अन्नमयो यज्ञः इत्यादिवत् प्राचुर्यार्थकत्वाङ्गीकारेऽपि न जीवादन्यत्वमुपपद्यते | आनन्दप्रचुरत्वे दुःखाल्पत्वस्यार्थसिद्धत्वात् जीवस्यैव सुखदुःखाश्रयत्वात् | तस्माद्विकारार्थकत्वमेव समुचितम् | अन्नमयः इत्युपक्रमे विकारार्थकत्वदर्शनात् लोके मृन्मयः दारुमयः रजतमयः ताम्रमयः इत्यादिषु वेदे पर्णमयी जुहूः शमीमय्यस्स्रुचः दर्भमयी रशना इत्यादिष्वपि मयटो विकारार्थत्वार्शनात् जीवस्यैवात्रानन्दमयत्वमुभयथापि सम्भवति - इति चेन्न - आनन्दप्रचुरत्वं हि प्रभूतानन्दत्वम् | तच्च त्रैकालिकदुःखात्यन्ताभाववत्त्वं तापत्रयविशिष्टस्य जीवस्य तदसम्भवान्नानन्दमयत्वम् | चेतनस्य मृदादिवत् परिणामित्वाङ्गीकारे श्रुतिस्मृतिविरोधप्रसङ्गः स्यात् | अतो न विकारार्थत्वं मयटः | पुनर्हेत्वन्तरमाह - तद्धेतुव्यपदेशाच्च || १५ || को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति इत् सर्वजीवानन्दहेतुत्वेनानन्दमयो ह्याख्यायते | लोके विद्वानेव विद्वांसं करोति धनवानेव धनवन्तं करोति स्वयंप्रकाशस्सूर्यादिरेव स्वान्यान् प्रकाशयति तद्वदानन्दमयः परमेश्वरसर्वजीवान् सुषुप्तौ स्वकीयानन्दं दत्वा आनन्दयति | तस्मादानन्दमयो नेतरः | तस्य जीवानन्दस्य आनन्दमयः परमेश्वरो हेतुरिति व्यपदेशाच्च कीर्तनाच्च | जीवानन्दं पति तस्य प्रकृत्यानन्दस्य हेतुत्वव्यपदेशाद्वा | यदा सः आनन्दमयः हेतुः यज्जीवानन्दस्य सः तद्धेतुरिति सूत्रार्थः | ननु - ब्रह्मणो निर्विशेषत्वादानन्दमयत्वमानन्दप्रदायकत्वं चानुपपन्नम् | अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चितम् इति पूर्वाचार्योक्तन्यायमनुसृत्य प्रपञ्चस्य व्यवहारमात्रसत्यत्वाङ्गीकारादौपचारिकत्वेनानन्दमयत्वमङ्गीकर्तव्यम् - इति चेन्न - व्यावहारिकसत्यत्वं नाम कालान्तरानवस्थायिवस्तुत्वं सदसद्विलक्षणत्वं वा सत्त्वासत्त्वाभ्यां निर्वक्तुशक्यत्वं वा
SK
नाद्यः - यत्किञ्चित्कालान्तरानवस्थायिवस्तुत्वस्य घटपटादावस्माभिरङ्गीकारादंशतस्सिद्धसाधनात् गौरनाद्यन्तवती इत्युक्तायाः प्रकृतेस्सर्वकालावस्थायितया अव्याप्तेश्च | कालान्तरावस्थायित्वावच्छिन्नसामान्याभावविवक्षायां द्वितीयक्षणस्यापि कालान्तरतया तदनवस्थायित्वसाधनेन वैभाषिकाङ्गीकृतं क्षणिकत्वमेव साधितं स्यात् | न तु स्वदेशकालनिष्ठात्यन्ताभावप्रतियोगित्वरूपं मिथ्यात्वमिति स्वसिद्धान्तविरोधः प्रातिभासिके अतिव्याप्तिश्च | न द्वितीयः - सदसदात्मकस्य प्रतियोगिनोऽप्रसिद्ध्या तद्विलक्षणस्याप्रसिद्धेः | नापि सत्त्वावच्छिन्नासत्त्वावच्छिन्नाभ्यां भिन्नत्वं सति असति चातिव्याप्तेः | एको न द्वौ इति प्रतीत्या सदसद्भ्यां भिन्नत्वात् | नापि सत्त्वावच्छिन्नभिन्नत्वे सति असत्वावच्छिन्नभिन्नत्वम् | सत्त्वावच्छिन्नस्य कस्यचित् सत्त्वावच्छिन्नकिञ्चिद्भिन्नत्वेनातिव्याप्तेः | नापि सत्त्वावच्छिन्नप्रतियोगिताकभेदवत्वे सतीत्यादिविवक्षा युक्ता | तथापि निर्धर्मके ब्रह्मण्यतिव्याप्तेः | न च निर्धर्मकत्वादेव नातिव्यात्पिरिति वाच्यम् | हेतुसाध्ययोरपक्षधर्मत्वप्रसङ्गात् | अथ सद्रूपभिन्नत्वम् तदपि न | सदन्तरमादाय सिद्धसाधनात् | यावत्सद्रूपान्यत्वविवक्षायामप्येकैकस्य यावत्सद्रूपान्यत्वेन सैव सिद्धसाधनता | अथ सद्रूपावच्छिन्नसामान्योन्याभावो विवक्षितः - इति मतम् तदपि ब्रह्मण्यतिव्याप्तेरेव दुष्टम् | अथ यावन्तस्सद्रूपास्तावत्पर्तियोगिकतत्तद्धर्मावच्छिन्नान्योन्याभावकूटा- yāvatāṃ sadrūpāṇāṃ bhavanmate aprasidhyā tatpratiyogikabhedakūṭāprasiddheḥ | brahmaṇi rātibhāsike cātivyāpteśca | na ca brahmānyatve sati asadvilakṣaṇatvam | siddhasādhanatāyā durvāratvāt | kiñca san ghaṭaḥ ityādipratītyā ghaṭādīnāṃ na sadvilakṣaṇatvaṃ yuktamityasambhavo lakṣaṇasya |
SK
न च - नेह नानास्ति किञ्चन इति शुत्या प्रत्यक्षबाधः | यजमानः प्रस्तरः आदित्यो यूपः सोमेन यजेत कृष्णलं यजमान एककपालः तत्त्वमसि इत्यादिषु शतशः प्रत्यक्षविरुद्धानां श्रुतीनामेव प्रतिज्ञातार्थबाधदर्शनात् | ननु - सद्घटयोरभेदे घटे कलशवत् सामानाधिकरण्यासम्भवः भेदेऽपि घटः पटः इतिवत्सामानाधिकरण्यासंभव एव | तस्मात्तादात्म्यमेव सद्घटयोः प्रतीतिरियं विषयीकरोति | तच्च - भिन्नत्वे सत्यभिन्नसत्ताकत्वम् | तस्मात्सद्भेद एव घटादीनां प्रतीतिसिद्धः इति चेत् अत्र ब्रूमः - यदि भिन्नत्वे सत्यभिन्नसत्ताकत्वं तादात्म्यम् तर्हि नेदं रजतं इति बाधानन्तरं इदं रजतं इति प्रतीत्यापत्तिः विशेषणप्रतीतेर्विशिष्टप्रतीतिं प्रत्यबाधकत्वात् | ननु - इदं रजतं इत्यत्र यत्तादात्म्यं प्रतीतं तस्य नेति निषेधे सति कथं पुनस्तादात्म्यप्रतीतिः इति चेत् - त्यज तर्हि भेदस्य तादात्म्यशब्दार्थे प्रवेशम् | न हि इदं रजतं इति बुद्धेस्सम्स्पर्शतया तादात्म्यविषयत्वे नेदं रजतं इत्यस्य प्रकारतया तादात्म्यैकदेशविषयत्वेऽपि बाध्यबाधकभावोऽस्ति | प्रत्युत मानान्तरसंवादरूपतया भ्रान्तिदार्ढ्यापादकत्वमेव | अन्यथा - रूपवान् रूपसमवायवान् इत्यादि प्रतीतीनां मिथो बाध्यबाधकभावप्रसङ्गात् | न चेष्टापत्तिः अपसिद्धान्तात् तादात्म्यव्याघाताच्च | अधिष्ठानभिन्नसत्ताकप्रतियोगिक एवाभावोऽधिष्ठानाद्भिद्यते अन्यस्तु न भिद्यते | तस्मात् रजतस्याभावोऽधिष्ठानान्न भिद्यते इत्युक्तिव्याहतिश्च नेअं रजतं इति शाब्दबुद्धौ शब्दादुपस्थिताभिन्नसत्ताकत्वनिषेधाभावेन प्रत्यक्षबुद्धावपि तन्निषेधायोगाच्च | न च पदद्वयसामानाधिकरण्यबलात्तत्रापि तदुपस्थितिरिति वाच्यम् | निर्विशेषं ब्रह्मेत्यत्रापि तदापत्तेः |
SK
किञ्च - अत्यन्ताभावप्रतीतिरियं नान्योन्याभावप्रतीतिरपि - इदं रजतं न इति प्रतीतेः | अभिन्नसत्ताकत्वनिषेधरूपत्वे रूपं घटो न इति बुद्धेरपि तथा स्यात् | तदा च तन्मते तस्यां दशायां नीलो घटः इति बुद्धिर्न स्यात् | किञ्च - अभिन्नसत्ताकत्वनिषेधेऽपि पुरोवर्तिनिष्ठाभेदस्य इष्टतावच्छेदकसंसर्गस्य वा निषेधाभावात् भ्रान्तिप्रयुक्तं कार्यं दुर्वारं स्यात् | नहीष्टतावच्छेदकवैशिष्ट्यादिकं अबाधितत्वात्प्रवृत्तिं निरोद्धुं शक्नोति | न च - अभिन्नसत्ताकत्वनिषेध एवाभेदनिषेधकः | तर्ह्यभिन्नसत्ताकत्वमभेद एव स्यादिति भिन्नत्वे सतीति विशेषणविरोधः | अभिन्नसत्ताकत्वमित्यत्र किमभिन्नसत्ताकत्वम् सत्तावत्सत्ताकत्वम् मत्वर्थे बहुवीहिविधानेन मत्वर्थस्य दण्डवान् पुरुषः दण्डी इत्यनुरोधेन भेदरूपतया स्वभिन्नसत्ताकत्वस्य तत्राबाधात् | नापि तादात्म्यं मत्वर्थ इति वक्तुं युक्तम् | अत्राश्रयदूषणतल्लक्षणे तत्प्रवेशायोगात् | सत्तान्तराध्यासं विना प्रथमसत्तायास्तादात्म्यानुपपत्त्या घटाधिष्ठानसत्तायाः मिथ्यात्वे अपसिद्धान्तश्च | न हि पदार्थान्तरेण सम्बध्यमानाधिष्ठानता तां व्यभिचरति न च - सत्तावत्त्वं सत्तया साकमभेदः | मत्वर्थस्याभेदत्वायोगात् | अन्यथा दण्डपुरुषयोरभेदापत्तेः | घटाकाशे पटभेदस्य सत्तासम्बन्धरूपत्वे जडाजडयोरैक्यप्रसङ्गाच्च | न च - अत एव सत्तायामभेदसत्तासम्बन्धो घटभेद इति वाच्यम् | वैरूप्यप्रसङ्गात् | तादात्म्यस्य घटे सत्तासम्बंधत्वपरित्यागेन घट्टकुटीप्रभातन्यायाच्च | अभिन्नसत्ताकत्वघटकं सत्तावत्त्वं क्वचिदभेदेन क्वचिदधिष्ठानतयेति प्रतिपादनेऽप्यननुगमाच्च | अभेदस्य मत्वर्थत्वायोगेन बहुव्रीह्यनुपपत्तेरुक्तत्वाच्च | तादात्म्यावगाहिन्योः नीलो घटः सन् पटः इति प्रतीत्योस्तादात्म्याश्रय एव वैरूप्यकल्पनायोगाच्च |
SK
अपि चैवं घटः पटः रसो घटः इत्यादिप्रयोगास्त्वन्मते दुर्वारास्स्युः | अभिन्नत्वे सत्यभिन्नसत्ताकयोस्तया प्रतीत्यभावानुपपत्तेः | न हि - यत्तत्त्वेऽपि यन्न ज्ञायते तदेव तस्य नियामकमित्यस्मत्तो ब्रवीषि न च घटः पटः इत्यादिप्रतीत्यभावास्तादात्म्यमेव नेति वाच्यम् | घटपयोर्भेदस्य ब्रह्मसत्तासत्ताकत्वस्य त्वयापह्नोतुमशक्यत्वात् | यद्येवमप्यपह्नवः तर्हि लाघवाद्भिन्नत्वमात्रमेव समानाधिकरणप्रतीतिनियामकम् घटः पटः इत्यादिप्रतीत्यभावस्तु भेदस्य कथंचिदप्यभावादित्येव किमिति नोच्यते यदि तु प्रत्यक्षादिसिद्धापलापायोगेन न भेदमात्रस्य प्रतीतिनियामकत्वम् तर्हि सिद्धान्तस्य त्वदीयस्य त्वयैव त्यागायोगेन तादात्म्यस्य विह्निवं परित्यजय तस्य सामानाधिकरण्यप्रतीतिनियामकत्वमेव त्यज्यताम् | अथ अन्वयव्यभिचारो नियाम्यनियामकयोरयुतसिध्यादिनियामकान्तरकल्पनेनोद्ध्रियेत तर्हि त्यज्यतामजागलस्तनायमानं तादात्म्यरूपं नियामकम् | तत एव तादृक्प्रतीत्युपपत्तेः | अथ - अध्यस्यमानाभ्यां घटपटाभ्यामधिष्ठानसत्ता भिद्येत तर्हि भिद्येत गुणगुणिभ्यामपीति | किञ्च - सन् पटः इत्यत्र तादात्म्यभाने इदं रजतं इत्यत्रापि भासेतैव तत् | तथा च इष्टभेदघटिते तादात्म्ये ज्ञाते कस्यापि रजतार्थिनश्शुक्तौ प्रवृत्तिर्न स्यात् | इष्टभेदज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वात् | न च अभिन्नसत्ताकत्वज्ञानं पृथगेव प्रवर्तकमिति वाच्यम् | प्रवृत्तिनिवृत्त्योर्यौगपद्यस्य विरुद्धकारणयौगपद्येन परस्परप्रतिवन्धे कार्यमात्रानुपपत्तेर्दुर्वारत्वात् | अभिन्नसत्ताकत्वज्ञानस्य प्रवर्तकत्वे घटपटयोस्तद्दशायां घटार्थिनः पटप्रवृत्तिप्रसङ्गाच्च | अथ अभिन्नसत्ताकत्वविशेषणान्तरदाने तत्परिहारस्याप्यज्ञातस्य तस्य प्रवर्तकत्वेऽतिप्रसङ्गात् | ज्ञात(न)स्य प्रवृत्तिदशायामवर्जनीयत्वं स्यात् | अपि च इष्टपुरोवर्तिविशिष्टज्ञाने भेदाग्रहः कारणमिति निर्विवादम् | साक्षिरूपभ्रमवादिनामपि इमाविष्टपुरोवर्तिनौ
SK
भिन्नौ इति ज्ञाने सति प्रवृत्तिदर्शनेन कश्चिदुपयोगोऽस्य वक्तव्यः | तथाचापेक्षितभेदाग्रहविरोधिना भ्रमेण कथं भवन्मते प्रवृत्तिर्निवृत्तिर्वा स्यात् | अपि चैवं वह्निव्याप्यधूमवान् पर्वतः पर्वते वह्निव्याप्यो धूमः इति प्रतीतिरपि समानाधिकरणप्रतीतित्वेन तादात्म्यमवगाहमाना वह्निव्याप्यधूमयोर्भेदं विषयीकुर्यात् | तथा च नानुमितिर्जायते किन्तु प्रतिबध्यत एव | अपि च इदं रजततया जानामि इत्यनुव्यवसायवत् इदं रजतभिन्नतया जानामि इदं रजतभिन्नसत्ताकतया जानामि इत्यपि कदाचिदनुव्यवसायस्स्यात् | न हि ज्ञातं कदाचिदपि नानुसन्धीयते | एतावन्तं कालं रजतभेदज्ञानं वृत्तं इदानीं बाधेन निवृत्तं इत्यपि प्रतीयेत | इदं रजतं इति वाक्यात् शाब्दबोधोऽपि न स्यात् अयोग्यज्ञानादिति दिक् | तस्मान्न घट इति प्रतीतिबलात्सदसद्विलक्षणत्वसिद्धिः | नापि - सच्चेन्न बाध्येत असच्चेन्न प्रतीयेत इति ख्यातिबाधान्यथानुपपत्या तस्या विपरीतसाधकत्वात् | बाधो हि नास्तीति प्रतीतिः | सा तु असत्तामेव साधयेत् | ख्यातिरप्यस्तीकारा सापि सत्तामेव साधयेत् | ततश्च सदसदात्मकं वस्तु सिध्येत् न सदसद्विलक्षणम् | ननु - सदसदात्मकत्वं विरोधात्साधयितुमशक्ता अर्थात् सदसद्विलक्षणत्वं साधयिष्यति इति चेत् - तर्हीदममि विरोधादेव न साधयेत् | सदसदात्मकत्वस्येव सदसद्विलक्षणत्वस्यापि विरुद्धत्वात् | परस्परविरोधे हि न प्रकारान्तरस्थितिः इति हि नीतिविदः | न हि घटाघटोभयविलक्षणं वस्तूयलभ्यते | घटभिन्नस्य सर्वस्य अघटत्वेन क्रोडीकारात् | कोटिद्वयविनिर्मुक्तानुपलम्भ इति चेत् सद्भिन्नस्य सर्वस्यासत्त्वेन क्रोडीकारात्कोटिद्वयविनिर्मुक्तासम्भवः प्रकृतेऽपि तुल्यः | अथ सच्छब्दस्तद्विशेषपर इति शङ्क्येत तर्हि किञ्चित्सद्विलक्षणत्वं सत्यसद्विलक्षणत्वं सदन्तरेऽप्युपपन्नमित्यस्मदिष्टसिद्धिरेव |
SK
ननु - बाधेन असत्वं सिध्यतीति भवद्भिरेवाभ्यधायि तदेव सद्विलक्षणत्वम् | सदर्थासंस्पर्शतौल्यात् | रव्यातिरपि सत्तां साधयन्ती सत्ताया एवासद्वैलक्षण्यरूपतया तद्व्यापक्तया तुच्छाद्वैलक्षण्यं साधयति | तथा च प्रमाणसिद्धेऽर्थे विरोधोऽपि कथंचित्समाधीयते इति चेत् भ्रान्तिप्रलपितमेतत् | बाधेनाधिकरणान्तरे सत्त्वविरहिणोऽपि वस्तुनोऽधिकरणान्तरे सत्ताया निष्प्रत्यूहत्वात् | सिद्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यते इति सार्वजनीनम् | अतो बाधस्सत्तामेव साधयेत् | प्रतीतिरपि ख्यातिपदाभिधेयतया तामेव प्रथयति | संविदेव हि भगवती विषयसत्त्वोपगमे शरणम् इत्युक्तेः | तथा च सदसद्विलक्षणे प्रमाणानुपलम्भात्तद्बलेन सद्विलक्षणत्वासद्विलक्षणत्वयोर्विरोधशान्तिप्रयत्नः अजागलस्तनोपलम्भजनितः क्षीराभिपातसम्भ्रमः | यदत्रोक्तम् - सत्त्वासत्त्वे पदार्थधर्मौ स्वरूपं वा नाद्यः - असत्वकाले पदार्थसद्भावप्रसङ्गात् | अनित्यधर्मस्य आश्रयादृते अनवस्थानात् | नित्यधर्मत्वे सत्त्वव्याघातात् | न द्वितीयः - एकस्य सदसदात्मकत्वविरोधात् | ननु कालभेदादविरोधे इति चेन्न | धर्मस्य हेतुसमाजाद्व्यत्यतो न तु स्वरूपस्य | न चाभावः कालभेदेन भावो भवति | इतः पूर्वमसदित्यसतोऽप्यनुपपत्तेश्च | तस्य निस्स्वभावस्य अवच्छेदककालासम्भवात् | तस्मात् यत्तिञ्चित्कालमसत्सर्वदा असदेव यत्सत् तत् सदा सदेव इति | तदप्यसत् | पक्षद्वयेऽपि दोषाभावात् | न च - अनित्यधर्मस्याश्रयं विनाऽनवस्थानादसत्ताकालेऽपि सत्तारूपस्य धर्मस्याश्रयाक्षेपकत्वप्रसङ्गः | तदानीं सत्तारूपधर्मस्याप्य भावेन आश्रयं विनाऽनुपपत्यभावात् | अन्यथा स्वाश्रयध्वंसशब्दस्य ध्वंसप्रतियोगिनां रूपादीनां घटे सत्तऽऽपादकताप्रसङ्गात् | त्वन्मतेऽपि मुक्तिकाले अविद्यमानानां अन्तःकरणादीनामविद्याक्षेपकत्वप्रसंगाच्च |
SK
अथ - अविद्यमानानामाश्रयं विनानुपपत्तिर्हीयते तर्हि प्रकृतेऽपि दीयतां दृष्टिः | एतेन सत्त्वधर्मित्वे असत्त्वव्याघातो निरस्तप्रायः | सत्त्वस्य तदानीमभावेन तद्धर्मत्वाभावात् | अन्यथा श्यामधर्मिणः तद्विरुद्धरक्तधर्मगुणधमित्वाभावेन श्यामरक्तयोर्धर्मिद्वयगतत्वप्रसङ्गात् | यदि श्यामनाशकालघटितं तद्धर्मत्वं तुल्यमितरत्रापि सत्वधर्मित्वमन्यथ नेति सुवचत्वात् | ननु सत्तवदसत्त्वमपि धर्मः | असावप्याश्रयं विना कथमवतिष्ठते तथा च असत्त्वदशायामाश्रयसत्ताप्रसङ्ग इति चेत् - स्यादेवं यद्यसत्त्वमभावातिरिक्तं न तु तत्तथा | तथाचाभाव एव स च कालदेशाद्यधिकरण एवेति शान्तायामाश्रयाकांक्षायां कथं प्रतियोगिसत्तां तदर्थमाक्षिपेत् | अन्यथा त्वदभिमतयोर्विद्यमानत्वाविद्यमानत्वयोः का गतिः तावपि सत्त्वासत्त्वरूपावेव द्विविधसत्तायामिति धात्वर्थानुस्मृतेः | उक्तं हि त्वया व्याघातमजानता सत्ताशून्यस्यापि प्रतियोगिनो विद्यमानतामात्रेणाभावसत्यत्वोपपत्तिरिति | एतेन - प्रतियोगित्वस्याश्रयं विना कथमवस्थानमित्यपि शङ्का गलहस्तिता | अविद्यमानत्वप्रतियोगितायामाश्रयं विनानुपपत्तेः | पूर्वकाले विद्यमानतामात्रेण चेत्तस्या उपपत्तिः तर्हि सैवोपपत्तिरिति | वस्तुतस्तु - अतीतत्वभविष्यत्वादिकं स्वभावादविद्यमानपदार्थाश्रयमेव न विद्यमानाश्रयं अनुभवानुरोधित्वात्कल्पनायाः | विरोधाविरोधावप्यनुभवानुरोधेनैव व्यवस्थाप्यौ | तथा च यदाऽविद्यमनत्वादनाश्रयत्वमतीतत्वादीनां तदा ज्ञानविषयता न स्याच्च ज्ञानकर्मत्वम् | एवमुत्पत्यादिषु कर्मभूतानां घटादीनां कारणता न स्याच्चाविद्यानिवृत्तिप्रतियोगित्वमविद्यायाः निराश्रयस्य प्रतियोगित्वस्यानवस्थानात् |
SK
वस्तुतस्तु - असत्त्वात्प्रतियोगितां प्रत्यनाश्रयत्वे जगत एव सर्वदेशकालनिष्ठात्यन्ताभावप्रतियोगिनोसत्वात्पदार्थमात्रेणाश्रयत्वप्रसङ्ग इत्यलं आस्तां विस्तरेण | तस्मान्न प्रपञ्चस्य व्यावहारिकमात्रसत्यत्वम् | अतः परमेश्वरस्यानन्दमयत्वं स्वाभाविकमेव | तथापि - ब्रह्म पुच्छं प्रतिष्ठा इति श्लोके ब्रह्माधारत्वेन शारीरस्य निर्देशात् तद्भिन्नत्वेन तस्यास्स्वातन्त्र्याज्जगज्जन्मादिहेतुत्वविरोधः तस्माच्छारीर एवायमानन्दमय इत्याशङ्क्याह - मान्त्रवर्णिकमेव च गीयते || १६ || अत्रानन्दमयः परमेश्वर एव | ब्रह्मविदाप्नोति परं इत्युपक्रम्य सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् | सोऽश्नुते सर्वान् कामांत्सह ब्रह्मणा विपश्चितेति इत्यन्तेन ब्रह्मविदामेव सर्वकामावाप्तिं प्रदर्श्य तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इत्यादिना तस्य स्थूलसूक्ष्मचिदचित्प्रपञ्चकारणत्वमभिधाय तत्सृष्ट्व तदेवानुप्राविशत् इत्यादिना तदन्तर्यामित्वमुपदिश्य अन्योऽन्तर आत्मा प्राणमयः इत्यादिकोशपञ्चकान्तरत्वं व्यवस्थाप्य तत्राप्यानन्दमयस्य मुख्यात्मत्वोपदेशादुपक्रमोपसंहारयोरेकलिङ्गत्वेन सत्यं ज्ञानमनन्तं ब्रह्म इति मन्त्रवर्णोपकान्तः परशिव एवानन्दमय इति अन्योन्तर आत्माङन्दमयः इत्यत्र च व्याचक्षते | मन्त्रब्राह्मणयोरुपजीव्योपजीवकत्वादेकार्थत्वं युक्तम् |
SK
ब्रह्म पुच्छं प्रतिष्ठा इति वाक्ये ब्रह्मपदस्य प्रणवार्थकत्वेन तदाधारत्वं तत्प्रतिपाद्यत्वं तदात्मकत्वं च परमेश्वरस्योपदिश्यते | ननु - ॐ तद्ब्रह्म इत्यादिना प्रणवस्यैव सर्वात्मकत्वेन परब्रह्मत्वोपदेशात्तदाधारत्वादिकं तस्य कथमुपदिश्यत इति चेन्न - ईशानस्सर्वविद्यानां इत्युपक्रम्य सदाशिवोम् इत्यन्तेन परमेश्वरस्यैव प्रणवात्मकत्वोपदेशात् यो वेदादौ स्वरः प्रोक्तः इत्यारभ्य यः परस्स महेश्वरः इत्यन्तेन शिवस्यैव प्रणवप्रतिपाद्यत्वावगमात् | तस्मात्परमेश्वरश्चिच्छक्त्यात्मकः परमाकाशरूपो ह्यानन्दमय इति निर्दिश्यते | को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् इत्यादिना परमाकाशरूपत्वमानन्दमयस्यावगम्यते | तस्मात् स एको ब्रह्मणः इति निरतिशयानन्दस्य ब्रह्माश्रयत्वदर्शनात् आनन्दो ब्रह्मेति व्यजानात् इत्यनेनानन्दस्य ब्रह्मात्मकत्व जगदुभयकारणत्वोपदेशाच्च आनन्दब्रह्मणोर्भेदाभावात् आनन्दमयोऽभ्यासात् इति सूत्रं व्यासेन निर्दिष्टम् | ननु - आनन्दशब्दस्य ब्रह्मण्येव बहुशः प्रयोगदर्शनाद्युक्तं तत्परत्वम् | आनन्दमयशब्दस्य ब्रह्मण्यभ्यासादर्शनात् कथं तत्परत्वम् इति चेन्न - वसन्ते वसन्ते ज्योतिषा यजेत इत्यत्र ज्योतिशब्दस्य ज्योतिष्टोमपरत्ववदानन्दपदस्याप्यानन्दमयपरत्वान्न दोषः | किञ्च - सैषा भार्गवी वारुणी विद्या | परमे व्योमन् प्रतिष्ठिता इत्युपसंहारे परमाकाशरूपचिच्छक्त्यपरपर्याये ब्रह्मधर्मस्वरूपे वारुणविद्यासमाप्तिदर्शनादानन्दमयः परमेश्वर इति निष्प्रत्यूहम् | ननु - अस्माल्लोकात्प्रेत्य एतमन्नमयमात्मानमुपसंक्रम्य इत्यादावन्नमयादीनां पृथक्चेतनवाचकश्रुतिबलाद्देहोत्क्रान्तस्य तदुपासकस्य क्रममुक्तेर्द्योतनान्मुमुक्षूणां स्वान्नमयकोशाद्युपासनमेवात्र विधीयते |
SK
इति चेन्न - नोपास्यौ प्रकृतिजीवौ इत्यादिशुतिशतेषु जीवस्य स्वोपासननिषेधात् | किन्तु अन्नमयादिकोशपञ्चकाधिष्ठानदेवतात्मकब्रह्मविष्णुरुद्रेश्वरसदाशिव- paramaśivakailāsaniśśreṇimārgātmakasadyojātādipañcavyūhātītaparaśivākhye brahmaṇi jīvānāṃ sāyujyamuktyupadeśānna virodhaḥ | tasmādannamayādyātmādhārasya sadāśivasyānandamayasyāpi kāraṇaṃ paramaśivākhyaṃ brahma tatpratiṣṭhā ityupadiśyate | sadāśivaparaśivayorekatvādānandamayasya brahmatvavyapadeśaḥ | ata ānandamayo netara iti siddham | sahasraśīrṣā puruṣaḥ ityādinā virāṭpuruṣasya sarvasthūlaśarīrātmakatvopadeśāttasyaiva jagajjanmādihetutvaṃ kiṃ na syādityāśaṃkya nirākaroti - netaro'nupapatteḥ || 17 || itaraḥ - paramaśivādanyaḥ virāṭpuruṣaḥ nānandamayaḥ kasmāt anupapatteḥ so'kāmayata bahu syāṃ prajāyeyeti sa tapo'tapyata sa tapastaptvā idaṁ sarvamasṛjata ityādinā sṛṣṭeḥ pūrvaṃ īkṣaṇasṛṣṭyātmakasṛṣṭihetutvadharmāṇāṃ sthūlaprapañcātmakavirāṭpuruṣasyāsambhavāditi sūtrārthaḥ | kiñca - tasmādvirāḍajāyata ityādau virāṭpuruṣasya paramaśivādutpannatvadarśanāt virāṭpuruṣasya śarīrasādhyatvācca sṛṣṭeḥ prāgīkṣaṇānupapattirbodhyā | śrutau tapaśśabda īkṣaṇaparaḥ | tasmādānandamayaḥ paraśiva eva netara iti siddham | yataḥ prasūtā jagataḥ prasūtī toyena jīvān vyasasarja bhūmyām | yadoṣadhībhiḥ puruṣān paśūṁśra viveśa bhūtāni carācaraṇāni || iti mahānārāyaṇīyopaniṣadvākye jagatkāraṇatvaṃ hiraṇyagarbhasyaiva vyapadiśyate | kiñca - antaḥ samudre kavayo nicikyuḥ prajāpatiścarati garbhe antaḥ ityupakrame tasyaiva sarvānupraviṣṭatvamavagamyate | tadupasaṃhāre sūryācandramasau dhātā yathāpūrvamakalpayat divaṃ ca pṛthivīṃ cāntarikṣamatho suvaḥ ityādinā tasyaiva viśvakāraṇatvavyavasthāpanāt | hiraṇyagarbhassamavartatāgre bhūtasya jātaḥ patireka āsīt ityādinā sṛṣṭeḥ prāgavasthānadarśanācca tasyaivānandamayatvaṃ ityāśaṅkya nirākaroti -
SK
भेदव्यपदेशाच्च || १८ || यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमानṁ स नो देवश्शुभया स्मृत्या संयुनक्तु यस्मात्परं नापरमरित किञ्चित् इति महानारायणीये यो देवानां प्रथमश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं जनयामास पूर्वं इति श्वेताश्वतरे च हिरण्यगर्भकारणत्वं शिवस्यैवोपदिश्यते | अजात इत्येवं कश्चिद्भीरुः प्रपद्यते रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् एक एव रुद्रो न द्वितीयाय तस्थे इत्यादिना श्वेताश्वतरे अजन्यत्वाद्वितीयत्वादिधर्माणां परमेश्वरस्यैव श्रवणात् पूर्वोक्तश्रुतिनिविष्टप्रजापत्यादि शब्दप्रतिपाद्यत्वं परशिवस्यैव समुचितम् | तद्धर्मबाहुल्यात् | भेदेन व्यापदेशो भेदव्यपदेशः जीवसमष्टिरूपहिरण्यगर्भपरशिवयोः जन्यत्वाजन्यत्वभेदनिर्देशादत्रानन्दमयो न हिरण्यगर्भः | किञ्च - रसो वै सः - रसṁ ह्येवायंलब्ध्वाङन्दी भवति इति सकलजीवसमष्ट्यात्मकहिरण्यगर्भपरमेश्वरयोर्भेदमुपदिशति | ननु - अन्योऽन्तर आत्म प्राणमयः इत्यादिवाक्यनिविष्टान्यशब्दानां कथं हिरण्यगर्भादन्यत्वप्रतिपादकत्वम् आनन्दमयादन्यस्य ब्रह्मत्वं कथं नोपपद्यते | इति चेन्न - जीवसमष्टिरूपहिरण्यगर्भात्मकविज्ञानमयादन्यत्वस्यानन्दमयस्यैवोप- brahmatvavyavasthāpanādarśanāt | tadanyatvāṃgīkāre anavasthādoṣaprasaṅgāccānandamayassākṣāt paraśiva eveti siddham | nirdharmakasya parameśvarasya jagajjanmādihetutvāsaṃbhavādavaskāntasūcīnyāyena tatrāropitapradhānasyaiva tatsattāvaśatkāraṇatvaṃ sambhavatītyāśaṅkāyāmāha - kāmācca nānumānāpekṣā || 19 ||
SK
अजामेकां लोहितशुक्लकृष्णां प्रजापतिरकामयत प्रजास्सृजेयेति एको ह वै नारायण आसीत् नारायणाद्ब्रह्मा जायते नारायणाद्रुद्रो जायते इत्यादिश्रुतिषु प्रधानस्य तत्रैगुण्यात्मकचतुर्मुखादीनां च जगत्कारणत्वावगमेऽपि परमेश्वरस्य जगत्कारणत्वे अनुमानापेक्षा युक्त्यपेक्षा नास्ति | तत्प्रधानादिकामस्य अवान्तरसृष्टिविषयत्वात् शिवस्य परब्रह्मणः प्रधानहिरण्यगर्भादिसर्वात्मनाऽवान्तरसृष्टिकर्तृत्वमप्युपद्रिश्यते | संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् इत्यत्र अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति इति प्रधानहिरण्यगर्भादिसर्वात्मना जगदनुस्यूतस्य परशिवस्य नमरूपकर्तृत्वश्रवणात् | किञ्च - सोऽकामयत बहु स्यां प्रजायेयेति तत्सृष्ट्वा तदेवानुप्राविशत् मायां तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरं तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् प्रधानक्षेत्रज्ञप्रतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः एक एव रुद्रो न द्वितीयाय तस्थुः तुरीयमिमां लोकमीशत ईशनीयं जनयेयुर्यस्सर्वान् लोकानीशत ईशनीभिः परमशक्तिभिः ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां इत्यादिश्रुतिशतेषु परब्रह्मणश्शिवस्यैव निरपेक्षतया सर्वकर्तृत्वासर्वनियामकत्व सर्वान्तर्यामित्वासर्वज्ञत्वादिधर्माणामनन्यसाधरणत्वेन व्यपदेशात्स एवानन्दमय इति सिद्धम् | प्रधानादिकारणत्वमीक्षत्यधिकरणनिराकृतमपि प्रधानप्रसङ्गात् गतिसामान्यप्रपञ्चनार्थं पुननिराकृतमिति वेदितव्यम् | अस्मिन्नर्थे पुनर्हेत्वन्तरमाह - अस्मिन्नस्य च तद्योतं शास्ति || २० ||
SK
अस्मिन्नानन्दमये परशिवे अस्य जीवस्य च शब्देन प्रधानप्रपञ्चयोरपि तद्योगं - सिन्धुसैन्धववदैक्यं शास्ति - शास्त्रं प्रतिपादयतीति भावः | यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय | तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् || ब्रह्म वेद ब्रह्मैव भवति तत्त्वमसि अहं ब्रह्मास्मि इत्यादि श्रुतिषु तद्भावापत्तिर्मुक्तिरित्युपदिश्यते | इहोपनिषदि ब्रह्मविदाप्नोति परं इत्युपक्रमे ब्रह्मणो वेद्यत्वं प्राप्यत्वं च जीवस्य वेदितव्यत्वं प्राप्तृत्वं चोपदिश्यते तस्मात् जीवब्रह्मणोभिन्नत्वाराध्याराधकत्वव्यापकत्वाल्पत्वकिञ्चिज्ञत्व- tadbhāvāpattissambhavatīti siddhāntaḥ | nanu - svābhāvikasya nimbakaṣāyanyāyavannivṛttissarvadā na sambhavati | tadaṅgīkāre'pi jalauṣṇyavadāgantukatvasyānityatvameva syāt | tasmānmokṣasyāpyanityatvameva syāt iti cenna - bhramarakīṭa-śuktisalilādiṣu svābhāvikasya sarvathā nivṛttidarśanat bhedābhedamatameva vaidikamiti siddham | kiñca - yadāhyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṃ pratiṣṭhāṃ vindate - atha so bhayaṃ gato bhavati - yadā hyevaiṣa etasminnudaramantaraṃ kurute - atha tasya bhayaṃ bhavati iti muktadaśayāṃ yadā etasminnānandamaye paraśive anyamantaraṃ atādātmyarūpaṃ paśyati tadājanmabhayānna nivartate yadā hyetasminnānandamaye upāsanākāle tādātmyo napaśyati tadā saṃsārabhyādvimucyate | nanu - ānandamayasya brahmatve ardhajaratīnyāyena annamayādīnāmapi brahmatvaṃ kiṃ na syāt iti cenna - sa vā eṣa puruṣo'nnamayaḥ | tasmādvā etasmādannarasamayāt | anyo'ntara ātmā prāṇamayaḥ | tasmādvā etasmātprāṇamayāt | anyontara ātmā manomayaḥ | tasmādvā etasmānmanomayāt anyo'ntara ātmā vijñānamayaḥ | tasmādvā etasmādvijñānamayāt anyontara ātmānandamayaḥ iti sarvāntaratvena niratiśayatvna cānandamayasyaiva vyapadeśat netaratvabrahmatvaṃ sidhyati |
SK
केचिद्भ्रान्ताः रज्वारोपितसर्पवत् ब्रह्मणि जीवत्वभ्रान्तिमारोपयन्ति | मुक्तिदशायां जीवभावमापन्नस्य ब्रह्मणः कण्ठाभरणदर्षनविवेकसन्धानादिवत् स्वस्वरूपज्ञानमेव मोक्ष इति वदन्ति | श्रुत्युक्त्यनुभवविरुद्धत्वेन तन्मतं श्रौतैर्मुमुक्षुभिर्ना᳚गीकरणीयम् | स्मार्तान् सर्वमतभ्रष्ठान् जगन्मिथ्यात्वसाधकान् गणिकामार्गसञ्चारान् पाषण्डान् परिवर्जयेत् | दुर्वासोगौताव्यासदधीच्यादिमहर्षिभिः शप्तान् शैवैकविद्वेषान् पाषण्डान् परिवर्जयेत् || इति पूर्वाचार्योकैः | किञ्च - ब्रह्मविदाप्नोति परं इत्याद्युपक्रमादिसिद्ध वेद्यत्वप्राप्यत्वादिविरोधः | सोऽश्नुते सर्वान् कामान् सह इति तदुपासकानामवाप्तसकलकामत्ववैरुध्यं च | सर्वज्ञस्य ब्रह्मणः भ्रान्त्यारोपणे सर्वज्ञस्य ब्रह्मणः भ्रान्त्यारोपणे सर्वज्ञत्वादिभङप्रसङ्गश्च | ज्ञाज्ञौ द्वावजावीशनीशौ इत्यादिश्रुतिशतविरोधश्च स्यादिति न विद्वद्रमणीयम् | अत्र केचित् - अस्मिन्नानन्दमये ब्रह्मणि जीवस्यास्य तद्योगं शेषत्वसबन्धं शास्तिशास्त्रं प्रतिपादयतीति विशिष्टाद्वैतमेव मुख्यमिति जल्पन्ति तत् अवैदिकत्वान्नमुमुक्षुग्राह्यम् | वैदिकमीमांसाकर्तृभिर्भट्टभास्करादिपूर्वाचार्यैः स्वसिद्धान्तस्थापनावसरे पूर्वपक्षस्यात्त्ययोग्यत्वेनोपेक्षितत्वात् | विशिष्टमद्वैतमित्युक्तिविरोधात् | विशिष्टस्य दुर्निरूपत्वेन मिथ्यात्वाच्च | विशिष्टं नाम विशेषणविशेष्यसम्बन्ध एव वा तदतिरिक्तं वा नाद्यः त्रयाणामनेकत्वेन अद्वयत्वासम्भवात् | एते दण्डपुरुषसम्बन्धाः इति समूहालम्बनस्य दण्डीति विशिष्टप्रत्ययत्वानतिरिक्तविषयत्वात् | न द्वितीयः - विशेष्यरूपपरमात्मनोऽप्यन्यत्वेन विशिष्टाभिमतपरमात्मनो विशिष्टाद्वैतासिद्धिः केवलपुरुषाद्दण्डिपुरुषस्यान्यत्वाङ्गीकारात् | अन्यथा केवलपुरुषे दण्डीति प्रत्ययस्य वा दण्डिनि पुरुषे केवलपुरुषा इति प्रत्ययस्य वा प्रसङ्गात् | त्रितयातिरिक्तस्य विशिष्टस्य एतद्दण्डविशिष्टत्वं वा एतदतिरिक्तदण्ड विशिष्टत्वं वा
SK
नाद्यः - त्रितयातिरिक्तत्वासिद्धेः | विशेषणस्यापि विशिष्टशरीरत्वात् | न द्वितीयः - kiñca - daṇḍipuruṣasyānyatve kluptaśuklaśoṇitādisāmagrīṃ vinā jātasya sthāṇupuruṣavanmithyātvāpatteḥ | ajanyatve ca tasya nityatvena daṇḍāpanayane'pi daṇḍīpuruṣa iti pratītiprasaṅgācca | viśiṣṭasya nityatvāt viśiṣṭasya tritayādanyatvena dehādiviśiṣṭasyaivātmanassukhaduḥkhādikāraṇatvena kevalasyātmanassukhaduḥkhādiguṇakatvaṃ na sidhyet | tritayādanyasya viśiṣṭasyānupalabdhiparāhatatvācca | upalabdhau vā tasya sthāṇupuruṣatulyatvācca | viśiṣṭasya tritayābhede ca daṇḍapuruṣayorabhedaprasaṅgācca | tadabhinnābhinnasya tadabhinnatvaniyamāt | dūrasthavanaspatitritayagocaraikatvabuddhivat tritayagocaraikatvabuddherapi bhrāntitvena viśiṣṭasyāpyaprāmāṇikatvāpatteḥ | tasmādviśiṣṭasya viśeṣaṇaviśeṣyasambandhebhyaḥ sattvāsattvābhyāṃ durnirūpakatvena mithyātvāt tacchivādvaitameva grāhyam | ata eva mukhyavedāntibhiḥ jagadubhayakāraṇatvaṃ parameśvarasyāṅgīkṛtam | ata evārambhaṇādhikaraṇe bhagavatā vyāsena vācārambhaṇaśrutīnāṃ kāraṇādanyatvaṃ kāryasya tadananyatvamārambhaṇaśabdādibhyaḥ iti sūtre nirdiṣṭam | tasmāt śūdrabrāhmaṇaḥ itivat viśiṣṭādvaitaṃ iti matamaviduṣāmeva śobhate | kiñca - viśeṣaṇaviśeṣyatvāderapi durnirūpatvaṃ ca | na tāvadvyāvṛttibuddhijanakatvaṃ viśeṣaṇatvaṃ viśeṣyādāvapi tatasmbhavāt | anekakāraṇasya daṇḍādestanmātrāsādhāraṇakāraṇatvāsambhavācca | atra hi kiṃ viśeṣaṇam kiṃ viśeṣyam ko vā sambandha iti vivecanīyam | na tāvajjīvo viśeṣaṇam paramātmāviśeṣyamiti śakyaṃ vaktum |
SK
तन्मते अणुजीवानामेकत्वे एकजीवभावप्रसङ्गः अनेकत्वे अनेकजीवविशिष्टस्य परमात्मनो दण्डकुण्डलादिविशिष्टस्याद्वयानुपपत्तेः | न हि दन्डविशिष्ट एव कुण्डलविशिष्टः | दण्डकुण्डलविशिष्टत्वाकारेण भेदात् | तयोरभेदे च कुण्डलाभावे दण्डिनि कुण्डलीत्यपि विशिष्टप्रतीतिप्रसङ्गात् | विशेषणभेदाद्विशिष्टभेदांगीकारे च अनन्तजीवविशिष्टस्य परमात्मनः कथं विशिष्टाद्वैतत्वम् किञ्च - विशेषणविशेष्ययोस्सम्बन्धो वक्तव्यः | असम्बद्धस्य विशेषणत्वानुपपत्तेः | न तावज्जीवपरमयोस्समवायसम्बन्धः युतसिद्धत्वात् | नापि स्वरूपसम्बन्धः स्वरूपद्वयात्मकस्य स्वरूपसम्बन्धस्य सम्बन्धिरूपत्वात्सम्बन्धसम्बन्धिनोरेकत्वानुपपत्तेः | स्वरूपद्वयात्मकसम्बन्धस्य स्ववृत्तित्वे आत्माश्रयप्रसङ्गात् | स्वरूपद्वयस्य स्ववृत्तित्वासम्भवात् अन्यवृत्तित्वासम्भवाच्च | तस्मान्न जीवपरयोः स्वरूपसम्बन्धः | नापि संयोगसम्बन्धः | व्याप्यवृत्तिसंयोगांगीकारे तादात्म्यापत्त्या जीवपरयोरभेदप्रसङ्गात् | निष्प्रदेशयोस्तयोरव्याप्यवृत्तिसंयोगस्यासम्भवात् | तत्रौपाधिकप्रदेशाङ्गीकारे उपाधिसम्बन्धस्याप्युपाध्यन्तरसम्बन्धापेक्षतयाऽनवस्थापातात् | आत्मत्वावच्छेदेनापि संयोगतदभावयोः वृत्यङ्गीकारे च भावाभावविरोधस्य दत्तजलाञ्जलित्वप्रसङ्गात् संयोगस्य मिथ्यात्वापत्तेश्च | तस्माज्जीवपरमयोः सम्बन्धानिरूपणाद्विशेषणविशेष्यभावप्रेर्यप्रेरकभावासम्बन्धेन जीवविशिष्टस्य परस्याद्वैतप्रसक्तिरेव नास्ति | तस्मात्सर्वश्रुतिसिद्धविशेषाद्वैतमेव पुनरावृत्तिरहितमुक्तिप्रदायकमिति सिद्धम् | केचित्तु - ब्रह्म पुच्छं प्रतिष्ठा इत्यत्र पुच्छवत् पुच्छं - प्रतिष्ठा परायणं - लौकिकसर्वानन्दानामधिष्ठानमिति वदन्ति | स एको ब्रह्मण आनन्दः इति ब्रह्मानन्दस्यैव सर्वाधिकत्वेन व्यपदेशात् राजमार्गे विशेषाद्वैतपक्षे मदीयसिद्धान्ते न विरोधः | इत्यानन्दमयाधिकरणं समाप्तम् || अथ षड्लि᳚ण्गस्थलनिरूपणम् अन्तरधिकरणम् || ७ ||
SK
जगज्जन्मादिहेतुभूतस्य सर्वज्ञत्वादिषड्विधधर्मावच्छिन्नस्य सर्वव्यापकस्य पवनादिवन्मूर्तामूर्तस्य शिवस्य परब्रह्मणः आनन्दमयत्वं प्रसाध्य निखिलभक्ततारणार्थमस्य सर्वब्रह्माण्डातीतमहाकैलासवासस्य पञ्चोऽपनिषन्मयाप्राकृतदिव्यमङ्गलविग्रहस्य भक्तपरिवेष्टितस्य हिरण्मयस्य सदाशिवस्य प्रकारमुख्यशरीरत्वं प्रसाधयितुमधिकरणान्तरमारभते - अथ शिवस्य परब्रह्मणः महालिङ्गात्मकत्वप्रतिपादनम् अन्तस्तद्धर्मोपदेशात् || २१ || छान्दोग्ये दृश्यते अस्य विषयः - अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद तस्यर्कसाम च गेष्णौ तस्मादुद्गीथस्तस्मात्वेवोद्गीतैतस्य हि गाता स एष येचामुष्मात्प्राञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतं अथाध्यात्मम् अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्कसाम तदुक्तं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदुमुष्यरूपं यावदमुष्यगेष्णौ तौ गेष्णै यन्नाम तन्नाम इति | अत्र संशयः - विद्यातिशयकर्मोत्कृष्टत्वप्राप्तातिशयः कश्चिद्देवताविशेषो वा नारायणो वा साक्षात्परशिवोवेति | पूर्वपक्षस्तु - प्रभाकरमण्डले चक्षुषि च सर्वोपास्यत्वेन व्यपदिष्टः पुरुषो न महेश्वरः | कस्मात् हिरण्यश्मश्रुरित्यादिना सशरीरत्वश्रवणात् | अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सशृणोत्यकर्णः अशब्दमस्पर्शमरूपमव्ययम् आकाशवत्सर्वगतश्च पूर्णः खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इत्यादिश्रुतिशतेषु परमेश्वरस्य शिवस्य स्वाधिष्ठानत्वसावयवत्वनिषेधो दृश्यते | य एषोन्तरादित्ये य एषोन्तरक्षिणी इति तस्यादित्याधारत्वोपदेशात् | देवतान्तरपरत्वमेव युक्तम् | परमेश्वरस्य भक्तोपासनार्थं रूपवत्वाङ्गीकारे स्वेच्छया जीववच्छरीरवत्वेन दुःखानुभूतिर्व्यपदिस्यते |
SK
किञ्च - आदित्यमण्डले चक्षुषि च उपास्यः पुरुषो नारायण एव | पुण्डरीकाक्षत्वलोचनद्वयवत्वादिधर्मणां तस्यैव समुचितत्वात् | साङ्ख्यस्मृतौ - ध्येयस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासनसन्निविष्टः | केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः || इत्यादिना भगवता कपिलाचार्येण महर्षिणा सौरमण्डलान्तर्वर्तित्वहिरण्मयत्वादिधर्माणां नारायणस्यैव व्यपदेपात् | परमेश्वरपरत्वे अक्षिणी इति द्विवचनबाधापि दृश्यते | अपि च - कप्यासं पुण्डरीकमेवमक्षिणी इति तस्य निकृष्टमर्कटासनतुल्यपुण्डरीकसादृश्यस्याक्ष्णोर्व्यपदेशात्सर्वथा न परमेश्वरपरत्वं इति प्राप्ते ब्रूमः - सिद्धान्तस्तु - अन्तस्तद्धर्मोपदेशात् अन्तः - य एषोऽन्तरादित्ये य एषोन्तरक्षिणि इत्यादित्याक्ष्णोरन्तः श्रूयमाणः पुरुषः साक्षात्परशिव एव | कुतः तद्धर्मोपदेशात् | तस्य महेश्वरस्य ये धर्माः इहोपदिष्टाः तेषामस्मिन् वाक्ये उपदेशात् | तद्यथा तस्योदिति नाम - स एष सर्वेभ्यः पाप्मभ्यः उदितः उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद इति वाक्ये तस्योदितिनामेति दर्शयित्वा सर्वकिल्विषरहितत्वेन तद्धर्मश्रवणात् तस्मात्तदेव निर्वचनमक्षिपुरुषस्याप्युपदिशति | य आत्माऽपहतपाप्मा इत्यादौ च सर्वकिल्विषशून्यत्वं परमेश्वरस्यैव श्रूयते | तथाक्षिपुरुषे सैवर्कसाम तदुक्तं तद्यजुस्तद्ब्रह्म इति वाक्ये तस्यैव ऋक्सामाद्यात्मकत्वं व्यपदिशति | ज् किञ्च - एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय इत्यादावनितरसाधारणाः परमेश्वरधर्मा बहवो निर्दिष्टाः | भक्तानुग्रहार्थं सर्वव्यापकस्य शिवस्य परब्रह्मणो हिरण्यश्मश्रुत्वादिधर्मविशिष्टदिव्यमङ्गलविग्रहात्मकत्वेन दुःखलेशप्रसङ्गः त्रिगुणातीतशुद्धसत्त्वप्रधानचिच्छक्त्यात्मकत्वात् | जलाग्निस्तम्भनशक्तिमतां तत्प्रतिबन्धकत्वादर्शनाच्च सर्वशक्तिविशिष्टस्य वशीकृतमायाशक्तेः परमेश्वरस्य किमुवक्तव्यम्
SK
तस्माच्छरीरसम्बन्धेऽपि सर्वपापराहित्यं भगवती श्रुतिरेव प्रतिपादयति | नारायणस्य प्रभाकराक्ष्यन्तर्वर्तित्वं न सम्भवति | सूर्यस्य अष्टमूर्तेश्शिवस्य मुख्यशरीरत्वेन श्रुतिस्मृतिप्रसिद्धत्वात् | रुद्राध्याये - असौ योऽवसर्पति नीलग्रीवो विलोहितः उतैनं गोपा अदृशं न दृशन्नुदहार्यः इत्यादिना यो विलोहितस्सन् रुद्रः अर्कमण्डलवर्ती भूत्वा अवसर्पति - उदयास्तमये सम्पादयितुं प्रवर्तते | तत्राभिव्यक्तं पुरुषं रुद्रं श्रुतिपारगा उपासते | तथा च स्मृतिः - सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् | नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् || सूर्यो मुख्यशरीरंस्याच्छिवस्य परमात्मनः | तस्मात्तदन्तरे नित्यं ध्यायेद्योगी सदाशिवम् || सूर्याक्षिदहरेष्वेव साम्बं चन्द्रकलाधरम् | फुल्लाब्जनयनद्वन्द्वं ध्यायेद्योगी निरन्तरम् || इत्यादि गौतमबृहच्छातातपादिषु सूर्यमण्डलान्तर्वर्तित्वस्य परमेश्वरस्यैव निर्देशान्नान्यार्थ्ॐ युक्तः | किञ्च - सूतसंहितायां ज्ञानयोगखण्डे भगवता व्यासेन परमेश्वरपरत्वं स्पष्टमुक्तम् | वेदार्थोऽयं स्वयं ज्ञात्वा तत्राज्ञानं प्रचक्षते | श्रुतिस्मृतिपुराणेभ्यो वेदार्थमुपबृंहयेत् || इत्यादिस्मृतिषु वेदार्थस्य स्वयं वेत्तृत्वनिषेधव्यवस्थापनात् | अथवाऽऽकाशमध्यस्थे भ्राजमाने सुशोभने | आदित्यमण्डले पूर्णे लक्षयोजनविश्रुते || सर्वलोकविधातारमीश्वरं हेमरूपिणम् | हिरण्मयश्मश्रुकेशं हिरण्मयनखं तथा || कप्याद्यासनवन्नेत्रं नीलग्रीवं त्रिलोचनम् | आगोपादिप्रसिद्धान्तमम्बिकार्धशरीरिणम् || सोऽहमित्यादरेणैव ध्यायेद्योगी महेश्वरम् || इति वृद्धशातातपे - सौरमण्डलमध्यस्थं विष्णुवल्लभमव्ययम् | ऊर्ध्वरेतं विरूपाक्षं सर्वकारणकारणम् || हिरण्मयश्मश्रुकेशं हिरण्मयनखान्वितम् | कं जलं किरणैस्सम्यक्पिबतीति प्रभाकरः || कपिशब्देन निर्दिष्टो वेदवेदान्तपारगैः | आसं विकसनं प्रोक्तं योगिभिः पारमार्थिकैः ||
SK
तस्मादुत्फुल्लवनजनयनद्वयशोभितम् | चिदचिद्विश्वरक्षार्थं कृपया पद्मकोशवत् || मुकुलीकृतसद्वह्निनेत्रं शूलधरं विभुम् | ध्यायेद्योगी महादेवं जगज्जन्मादिकरणम् || इत्यादिना शिवस्यैव सौरमण्डलान्तर्वर्तित्वदर्शनात् | नीलकण्ठभगवत्पाद- - kapyāsaṃ puṇḍarīkamevamakṣiṇī iti vākye tasya parameśvarasya lokānugrahārthaṃ sūryacandrātmakanetradvayaṃ vikasitaṃ mukulīkṛtaṃ tṛtīyalocanamiti vyākhyātam | tadyathā - kaṃ - jalaṃ raśmibhiḥ pibatīti kapiḥ - sūryaḥ tena āsaṃ - āsitaṃ - vikasitamityarthaḥ | puṇḍarīkaṃ yathā sphurati tathā maheśvarasya locanadvayam | tṛtīyalocanantu mukulīkṛtasvabhāvaṃ vikasitapuṇḍarīkasadṛśaṃ na bhavati kintu mukulīkṛtapuṇḍarīkasadṛśamityabhiprāyeṇa akṣiṇī iti dvivacanasya na tṛtīyalocanābhāvaparatvam | putratritayavantaṃ brāhmaṇaṃ prati dvau putrāvasyāgnikalpau ityukte dviputrasaṅkhyāgrahaṇaṃ na śeṣaputraniṣedhaparam kintu putradvayasyāgnisādṛśyaparaṃ evaṃ loke bahuśo veditavyam | paramaśivāsādhāraṇānāṃ hiraṇmayatvādiliṅgānāṃ nārāyaṇasyānupapatteḥ | sandhigdheṣu vākyaśeṣāt iti nyāyena sūtraviṣayasya sandigdhatvādatra vākyaśeṣoṅgīkriyata iti cet - mahopaniṣadi spaṣṭamuktam - ādityo vā eṣa etanmaṇḍalaṃ tapati ityanuvādavākyena prabhākaramaṇḍalaṃ nirdiśya ya eṣa etasmin maṇḍale'rcirdīpyate ityādinā''dityamaṇḍalaprabhāmupadiśya ya eṣa etasmin maṇḍalerciṣi puruṣaḥ iti maṇḍalābhimāniprabhākaraṃ pradarśya ya eṣo'ntarāditye hiraṇyamayaḥ puruṣaḥ ityādināntaryāmiṇaṃ nirdiśya punaḥ ādityo vai teja ojo balaṃ yaśaḥ ityādinā tasya prabhākarasya vibhūtimabhidhāya ya eṣa puruṣa eṣa bhūtānāmādhipatiḥ iti bhūtapatitvena vyapadiśya punaḥ kīdṛśaḥ puruṣaḥ ityākāṅkṣāyāṃ namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye'mbikāpataya umāpataye paśupataye namo namaḥ ityupasaṃhṛtam |
SK
शतरुद्रीये - नमो हिरण्यवाहत्वे सेनान्ये इत्यादिश्रुतिसिद्धहिरण्मयत्वोमावेपतित्वपशुपतित्वादिदह्र्माणामनन्य- kamalalocanā nārī kamalākṣaḥ puruṣaḥ iti loke prayogadarśanāt sāmānyaviśeṣaliṅgayoḥ parasparavirodhe viśeṣaliṅgānusāreṇa vyākhyānaṃ nirṇetavyamiti nyāyāt śrutiviruddhasmṛteḥ prāmāṇyābhāvāt sāṅkhyasmṛteravaidikatvena smṛtyanavakāśādhikaraṇe bhagavatā vyāsena nirastatvācca atrodgīthavidyopāsyo hiraṇmayaḥ puruṣaḥ paramaśiva eveti siddham | mṛtyuñjayaṃ parityajya ye'nyadaivamupāsate | te mṛtyumukhamāviśya jāyante ca punaḥ punaḥ || kadannamapyanannasya pāyasānnamitīryate | adṛṣṭaśivapādasya tadviṣṇoḥ paramaṃ padam || ityādismṛtiṣu śivānyadevatopāsanasyaiva nirastatvāt sarvadā sūryamaṇḍalākṣyādisthāneṣu sākṣātcchiva eva mumukṣūṇāṃ dhyeya iti rāddhāntaḥ | asāvādityo brahma ityādiśrutau prabhākarasyāpi brahmatvopadeśādādityamakhaṇḍalāntarvartī hiraṇmayaḥ puruṣo hlāditya evetyāśaṅkāyāmāha - bhedavyapadeśāccānyaḥ || 22 || prabhākaracakṣurantaśśrūyamāṇaḥ puruṣo hyādityaśarīrābhimānijīvādanya eva | kasmāt bhedavyapadeśāt | antaryāmibrāhmaṇe ādityaparameśvarayorbhaidena vyapadeśāt | ādityahiraṇyagarbhanārāyaṇādipaśupāśabaddhajīvānāṃ sadā parabrahmatvaṃ nopapadyate | ya āditye tiṣṭhannādityādantaro yamādityo na veda yasyādityaśśarīraṃ ya ādityamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ityādinā sarvāntaryāmitvenātra paramaśiva eva vyapadiśyate | yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayati yopsu tiṣṭhanadbhyo'ntaro yamāpo na viduryasyāpaśśarīraṃ yo'pontaro yamayati ityādinā pṛthivyādyaṣṭamūrtyantaryāmitvamaṣṭamūrtyātmakatvaṃ netareṣāṃ asambhavāt |
SK
किञ्च - अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तोव्यतिरिक्तः सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् सोऽहं नित्यानित्योऽहं व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं इत्यादिना आथर्वणश्रुतौ रुद्रस्य परब्रह्मणः ब्रह्मविष्णुकालरुद्रादिसर्वात्मकत्वस्य सर्वान्तर्यामित्वस्य च व्यवस्थापनात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनान्याविवेश तस्मै रुद्राय नमो अस्तु इत्यादौ च तथा व्यपदेशात् परमशिवासाधारणामृतत्वादिलिङ्गानामनितरसाधारणत्वात् शतरुद्रीयप्रशंसापरजाबालोपनिषदि एतानि वा अमृतस्य नामधेयानि इत्यमृतपदस्य शिवपरत्वेन निर्देशाच्च अक्ष्यादित्यान्तः पुरुषः परमशिव एवेति सिद्धम् | असावादित्यो ब्रह्म इत्यादिश्रुतीनां अन्नं ब्रह्मेति व्यजनात् इत्यादिवदौपचारिकत्वम् | लोके शरीरवाचकपदानां शरीरिबोधकत्वान्न दोषः | न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इत्यादिश्रुतिषु सूर्यादीनां परमेश्वरप्रकाशेन प्रकाश्यत्वं स्पष्टमुक्तम् | भीषाऽस्माद्वातः पवते इत्यादौ पवनसूर्याग्नीन्द्रमृत्युप्रभृतीनां परमेश्वराज्ञाभयात् स्वस्वव्यापारप्रवृत्तिदर्शनात् सूर्यादीनां जीवानां स्वतो ब्रह्मत्वं नोपदिश्यते | ननु - सुबालोपनिषदि यस्यात्मा शरीरं यस्यापश्शरीरं यस्याव्यक्तं शरीरं इत्यारभ्य एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको | नारायणः इत्यादिना नारायणस्य सर्वात्मकत्वावगमात् रुद्रेश्वरमहेश्वरपरमेश्वरशिवादिशब्दानां नारायणपरत्वेनैव समञ्जसत्वात् नारायणोअनिषदि तस्यैव परमकारणत्वव्यदेशाच्च नेतरस्य परब्रह्मत्वम् | यज्ञदत्त उत्पन्नो घटो नष्टः इत्यादिवदतिप्रसङ्ग इति चेत् न प्रकरणादिवशेनान्यार्थकत्वात् | शरीरवाचकानां शरीरिवाचकत्वव्याप्तौ शरीरपदे व्यभिचार इति चेत् निष्कर्षकेतरपदत्वेन विशेषणात् |
SK
किञ्च - अयुतसिद्धप्रकारवाचकानां शुक्लः पटः नीलमुत्पल इत्यादीनां पदानां प्रकरणे मुख्यत्वावगमात् अगत्प्रकाशकं ब्रह्म सर्वपदवाच्यं इति चेतनाचेतनसर्वजगदुपादानस्य ब्रह्मणः सर्वपदवाच्यत्वम् घटाद्युपादानपृथिव्यादिवाचकत्ववत् इति चेत् - अत्र ब्रूमः - यो यच्छरीरवाचकत्वेन सङ्केतितः स शरीरवाचकः इति विशेषव्याप्तिर्विवक्षिता उत सामान्यव्याप्तिर्वा नाद्यः - शरीरपदे व्यभिचारात् | न च निष्कर्षकेतरपदत्वे सतीति विशेषणं देयम् | निष्कर्षकेतरत्वस्य वक्तुमशक्यत्वात् | तत्किं विशेषवाचकभिन्नत्वं वा शरीरवाचकभिन्नत्वं वा विशेषणमात्रवाचकत्वं वा नाद्यः - शरीरपदस्यापि शरीरत्वविशिष्टशरीरवाचकत्वात् | न द्वितीयः अप्रसिद्धेः | शरीरशब्दस्यापि तव मते सर्वशब्दवाच्चेश्वरवाचकत्वात् | अत एव न तृतीयः - शरीरपदस्यापि शरीरत्वविशिष्टशरीरवाचकत्वेन विशेषणमात्रवाचकत्वासम्भवेन व्यभिचारतादवस्थ्यात् | नापि सामान्यव्याप्तिः सन्धिकाशरीरवाचकाशरीरवाचक इति व्याप्तौ शरीरपदस्य शरीरान्त्यावयविचेष्टा भोगेन्द्रियाश्रयः इति न्यायशास्त्रोक्तशरीरलक्षणानुसारेण घटादावप्रवृत्तेरीश्वरशरीरत्वासिद्धिः | न च नियम्यत्वमेव शरीरत्वं वक्तव्यम् | स्वामिनियम्यभृत्यवाचकभृत्यादिपदे स्वामिवाचकत्वाभावेन व्यभिचारात् | न चान्तःप्रविश्य नियम्यत्वं शरीरत्वं अन्तःप्रविष्टेन शिल्पिना नियम्ये दारुप्रतिमादौ व्यभिचारात् | न चापृथक्सिद्धत्वं नियामकविशेषणं अन्तःपदवैयर्थ्यात् | न च तावदेवास्तु साधकमिति वाच्यम् | अपृथक्सिद्धदेवदत्तनियम्यहस्तादि वाचकेषु हस्तादिपदेषु व्यभिचारात् | न चापृथक्सिद्धप्रकारत्वं रूपादिपदे घटादिवाचकत्वाभावेन व्यभिचारात् | एतेन अपृथक्सिद्धप्रकारवाचकानां प्रकारिवाचकत्वं इति व्याप्तिः प्रत्युक्ता | प्रकारत्वस्य निर्वक्तुमशक्यत्वात् | घटादिधर्मवाचकेषु व्यभिचारात् | अनिष्कर्षपदत्वस्यात्रापि विशेषणत्वे पूर्वोक्तदोषापत्तेश्च |
SK
ननु घटादिपदानां पक्षत्वात् देवमनुष्यादिपदानां दृष्टान्तत्वात् शरीरवाचकत्वसाध्यतायां सामान्यव्याप्तौ कथं व्यभिचारः शरीरादिपदानामपि ईश्वरवाचकत्वेन पक्षतुल्यत्वात् | इति चेन्मैवम् - व्याप्तिग्रहणं प्रत्येव व्यभिचारज्ञानस्य प्रतिबन्धकत्वात् | अन्यथा कार्यत्वेन शरीरजन्यत्वे साध्ये घटादौ व्याप्तिग्रहे सति अङ्कुरादावपि शरीरजन्यत्वसिद्धिः स्यात् अङ्कुरादिव्यभिचारस्थलस्य पक्षतुल्यत्वेन अतीन्द्रियशरीरस्य कल्पयितुं शक्यत्वात् | व्यभिचारहेतुत्वाभासमात्रोच्छेदापत्तेः | व्याप्तौ व्याप्तभागे शरीरपदवैयर्थ्यात् व्याप्यत्वासिद्धिः सर्वपदानां भगवद्वाचकत्वेन व्यभिचारस्थलाभावात् | एतेन तद्वारणाय शरीरपदस्याप्रयोजकत्वं च स्यात् | पृथिव्यादिपदानां शरीरवाचकत्वेऽपि शरीरिपर्यन्तत्वे विपक्षबाधकत्वाभावात् | न च ब्रह्मणि मुख्यत्वानुपपत्तिर्विपक्षबाधिका नानार्थगवादिपदानामिव स्वतन्त्रशक्त्यन्तरकल्पनेऽपि मुख्यत्वोपपत्तौ विशिष्टशक्यसिद्धिः | न चेष्टापत्तिः अपसिद्धान्तात् | किञ्च - पदार्थमात्रशक्तिवादिना त्वया यथा व्यवहारकाले भाव्न गृहीतापि कार्यान्विते शक्तिः अन्यलभ्यत्वप्रतिसन्धाने सति परित्यक्ता | यथा त्वया गृहीतापि सर्वपदानां शरीरविशिष्टात्मशक्तिर्गौरवान्यलभ्यत्वाभ्यां परित्याज्या | अन्यथा कार्यान्विते शक्तिरपि न त्याज्या स्यात् | किञ्च - यथा शरीरवाचकानां शरीरिपर्यन्तत्वं कल्पितं एवं शरीरिवाचकानामपि शरीरवाचकत्वं कुतो न कल्प्यते देवमनुष्यादिपदेषु तथात्वदर्शनात् | अभेदवाक्येषु मुख्यसमानाधिकरण्योपपादानरूपफलस्य तुल्यत्वात् | ननु - विष्णोस्सर्वपदवाच्यत्वं पुराणेषु श्रुतं इति चेन्न | यतो वाचो निवर्तन्ते इति ब्रह्मणि वाच्यत्वनिवृत्तेरपि प्रत्यक्षश्रुतिसिद्धत्वात् | एतैरेव दोषैः प्रकारवाचकानां प्रकारिपर्यन्तत्वमिति व्याप्तिर्निरस्ता वेदितव्या |
SK
किञ्च - अन्तर्यामिब्राह्मणे यस्यात्मा शरीरं इति वाक्यं न शरीरत्वविधायकम् | यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् | तच्छब्द एवकारश्च स्यादुपादेयलक्षणम् इति न्यायेन विधिशक्तिप्रतिबन्धात् | न च - यदाग्नेयोऽष्टाकपालः इतिवद्विधायकत्वं युक्तम् तस्य लोकप्राप्तार्थत्वात् | अन्यस्य विधेयस्याभावाच्च | इह तु एष त आत्माऽन्तर्याम्यमृतः इति विधिभागस्य विद्यमानत्वात् दलद्वयेनापि स्वप्रतिपादने अनेकार्थविधाने वाक्यभेदापत्तेः | जामितार्थवादयोगेन उपांशुयाजमन्तरा यजति इत्यस्य विधित्ववत् तच्चेत्वं याज्ञवल्क्य सूत्रमविद्वान् तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति इत्यर्थवादयोगादन्तर्यामित्वस्य ज्ञेयतया विधेयत्वात् | तथा चान्यतः प्राप्तं शरीरत्वमनुवाद्यम् तच्च न लोकप्रसिद्धम् भोगायतनत्वं पृथिव्यादौ तदभावात् | किन्तु नियम्यत्वमात्रम् | तच्च व्यभिचारित्वादसारमित्युक्तम् | वस्तुतस्तु - अन्तर्यामिब्राह्मणे अन्तर्यामित्वविधानममृतपदवाच्यस्य शिवस्यैव न तु विष्णोरित्युक्तम् प्राक् | एतानि ह वा अमृतस्य नामधेयानि इति शतरुद्रीयविषयकजाबालवाक्येन अमृतपदस्य रुद्रवाचकत्वावधरणात् किं जप्येनामृतत्वं ब्रूहीति सहोवाच याज्ञवल्क्यश्शतरुद्रीयेणेति इत्युपक्रमात् | ननु - एष सर्वभूतान्तरात्मा इति विष्णोरेवान्तर्यामित्वं विधीयत इति चेन्न | सोऽन्तरादन्तरं प्राविशत् यो रुद्रो अग्नौ इत्यादिना रुद्रस्यैव परब्रह्मणः अन्तर्यामित्वप्रतिपादनात् | तस्य बहुश्रुतिसंवादित्वात् | विष्णोरपि रुद्रशरीरत्वात् | तथा हि -
SK
ब्रह्मवादिनो वदन्ति यन्न देवतायै जुहोति | वसोर्धारेति अग्निर्वैवसुस्तस्यैषा धारा विष्णुर्वसुस्तस्यैषा धारा आग्नावैष्णवयर्चा वसोर्धारां जुहोति भागधेयेनैवैनौ समर्थयति अधो एतामेवाहुतिमायतनवतीं करोति यत्काम एनां जुहोति तदेवावरुन्धे प्राप्नोति | रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोरान्या शिवान्या | यच्छतरुद्रीयं जुहोति यैवाऽस्य घोरा तनुस्तां तेन शमयति यद्वसोर्धारां जुहोति यैवास्य शिवा तनूस्तां तेन प्रीणति इति | यजुस्संहितायां श्रूयते | तत्र प्रीतिवाचकेन समर्थयति | अत्राग्नेर्विष्णोश्च रुद्रशरीरत्वाभागे तदुभयदेवताकवसुधाराहुत्या रुद्रतनुः कथं प्रीता भवति विनियुक्तविनियोगविरोधात् | तदुक्तं शैवपुराणे - घोरा तनूस्तव ब्रह्मन्नापो धर्मश्च चन्द्रमाः | शिवा तनूंस्तव ब्रह्मन् सूर्यो विष्णुर्हुताशनः || इति | कैवल्ये - उमासहायं परमेश्वरं प्रभुं इत्यारभ्य स एव विष्णुस्सप्राणस्स कालोऽग्निस्स चन्द्रमाः | स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् इत्यन्तेन सर्वात्मकत्वं शिवस्यैव व्यवस्थापितम् | विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् | सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु इत्यादिश्रुत्यन्तरेष्वपि स्पष्टमुक्तम् |
SK
ननु - शिवातनूरिति शब्दान्तराल्लोकव्यवहारसिद्धनामधेयभेदाच्च | अग्निविष्णुभ्यां शिवातनूर्भिन्ना इति चेन्मैवम् ताभ्यां सह शिवा तनूर्भिन्नेत्यङ्गीकारे वसुधाराऽऽहुत्या रुद्रतनुप्रीतिः कथमुपपद्यते विनियुक्तविनियोगविरोधात् निराकाङ्क्षत्वात् मन्त्रलिङ्ग्विरोधात् वाक्यभेदापत्तेश्च | अभेदाङ्गीकारे न कश्चिद्दोषः | अन्यथा तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनं इत्यत्र द्रव्यरूपगुणात्कर्मभेदवत् देवतारूपगुणादपि कर्मभेदापत्या वसुधाराहोमभेदोऽपि स्यात् | अपूर्वार्धत्वात् द्रव्यदेवतयोः कर्मस्वरूपत्वाविशेषात् | रुद्रो वा एष यदग्निः इत्यादेर्वसुधारार्थवादत्वेऽपि देवताधिकरणन्यायेन मानान्तरसंवादप्रतिसंवादयोरभावे मन्त्रार्थवादयोः स्वार्थे प्रामाण्याङ्गीकारात् | अत्यन्तपरोक्षार्थत्वपरिहाराय निरालम्बनस्तुत्ययोगाच्च सर्वोत्कृष्टरुद्रशरीरत्वेनैवाग्निविष्णुस्तुतिसम्भवात्तद्द्वारा वसुधाराहुतिस्तुतिरिति सिद्धं | विष्णोरपि रुद्रशरीरत्वम् | कौर्मे ईश्वरगीतासूक्तम् - यो हि नारायणोऽनन्तो लोकानां प्रभुरव्ययः | ममैषा परमा मूर्तिः करोति परिपालनम् || इति | तत्रैव च विष्णुवाक्यम् - अस्यैव चापरां मूर्तिं विश्वयोनिं सनातनीम् | वासुदेवाभिधानां तां मामवेहि पितामह || इति | तस्माद्विष्णुर्न सर्वशब्दवाच्यः | तथा च प्रयोगः - विवादाध्यासितास्सर्वे शब्दास्ते विष्णुवाचकाः इत्युभ्यवादिसिद्धविष्णुवाचकशब्दत्वावच्छिन्नभिन्नत्वात् घटवत् | न चाप्रयोजकत्वं सर्वेषां विष्णुवाचकत्वे सर्वेषां शब्दानां पर्यायत्वप्रसङ्गात् | न च विशिष्टशक्तिभेदेन अपर्यायत्वं विशिष्टशक्त्यसंभवस्योक्तत्वात् इत्यलमतिविस्तरेण | तस्मादक्ष्यादित्यान्तर्वतित्वं नेतरस्य सम्भवति | इति सप्तमं अन्तरधिकरणम् अथ परमशिवस्य प्रसादलिङ्गात्मकत्वप्रतिपादनम् | एवं परमशिवस्य ब्रह्मणः नामरूपादिवशादन्यत्रातिव्याप्तिमाशङ्क्याह - आकाशाधिकरणम् || ८ || आकाशस्तल्लिङ्गात् || २३ ||
SK
छान्दोग्ये श्रूयतेऽस्य विषयः - अस्य लोकस्य का गतिरित्याकाश इति होवाच - सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायान् आकाशः परायणम् इति | अत्राकाशशब्देन भूताकाशः परमशिवो वा विवक्षित इति सन्दिह्यते | कुतः उभयोरपि श्रुतिनिर्देशात् | तथापि भूताकाशे लोके वेदेषु चाकाशशब्दस्य पङ्कजादिवदूढत्वात् | परमशिवैकपरत्वे विनिगमकाभावात् | मुख्यार्थपरित्यागे ईक्षत्यधिकरणविरोधापत्तेश्च मानाभावाच्च | आकासाद्वायुः इत्यादौ आकाशस्यैव जगत्कारणत्वव्यपदेशात् | खं ब्रह्म आकाश आत्मा यदेश आकाश आनन्दो न स्यात् इत्यादावकाशस्यैव ब्रह्मत्वोपदेशात् | यतो वा इमानि भूतानि जायन्ते इत्यादि श्रुतिविहितजगज्जन्मादिकरणत्वमाकाशस्यैवावगम्यते | सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादिना तस्यैव स्पष्टमुक्तत्वात् | सदेव सोम्येदमग्र आसीत् आत्मा वा एदमेक एवाग्र आसीत् इत्यादिश्रुतिसिद्धसदात्मशब्दवाच्यत्वं तस्यैवेति आत्मन आकाशस्सम्भूत इत्यादिनाऽऽकाशस्यात्मजन्यत्वकथनमौपचारिकमेव | आप्नोतीत्यात्मेति व्युत्पत्या तस्यैवात्मशब्दवाच्यत्वं निष्प्रत्यूहम् | तस्मादाकाशएव सर्वकारणं परं ब्रह्मेति प्राप्ते ब्रूमः - आकासस्तल्लिङ्गात् अत्र आकाशस्साक्षाच्छिव एव कृतः तल्लिङ्गात् - तस्य परमेश्वरस्य लिङ्गात् जगज्जन्मादिकारणत्वलिङ्गात् न भूताकाश इत्यर्थः | तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इत्यादौ परमेश्वरजन्यत्वनिर्देशादाकाशस्य खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च इत्यादिना पञ्चमहाभूतविलक्षणत्वनिर्देशादात्मनः परशिवस्य अचेतनभूताकाशे ईक्षणपूर्वकजगत्कारणत्वादिचेतनधर्मासम्भवात् | आकाशाद्वायु इत्यादि श्रुतावपि तदनुप्रविष्ट-ईशा नादिसद्योजातान्तपञ्चब्रह्मात्मकपरशिवकारणत्वं श्रूयते |
SK
किञ्च - सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यनेन निमित्तकारणत्वं आकाशं प्रत्यस्तं यन्ति इत्यनेनोपादानकारणत्वं चाभिधीयते | अतो जडभूताकाशे जगदुभयकारणत्वरूपपरमेश्वरलिङ्गासम्भवात् ज्यायान् पृथिव्याज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः इति श्रुतौ परब्रह्मणशिवस्येतरानपेक्षतया सर्वकारणत्वपरायणत्वव्यपदेशात् उपक्रमे सदेव सोम्येदमग्र-आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति सोऽकामयत बहुस्यां प्रजायेयेति इत्यादिवाक्यगत सत्यसंकल्पत्वादिलिङ्गानां भूताकाशे समन्वयासंभवात् | परमशिव एवाकाशशब्दवाच्य इति सिद्धम् | इत्यष्टममाकाशाधिकरणम् अथ शिवस्य चरलिङ्गात्मकत्वनिरूपणम् अथ प्राणाधिकरणम् || ९ || ननु आकाशस्य परब्रह्मत्वे उपक्रमोपसंहारविरोधात् मास्तु ब्रह्मत्वमाकाशस्य प्राणस्य जगज्जन्मादिकारणत्वव्यपदेशाद्ब्रह्मत्वमस्तु इत्याशङ्कायामाह - अत एव प्राणः || २४ ||
SK
छान्दोग्ये पठ्यतेऽस्य विषयः प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता इति प्रस्तुत्य - कतमा सा देवतेति प्राण इति होवाच सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यः मूर्धा ते विपतिष्यति इति | अत्रोद्गीथविद्योक्तप्राणशब्दस्य प्राणवायुः परमेश्वरो वा वाच्य इति संशयः | तदुभयविधलिङ्गदर्जनात् | प्राणबन्धनं हि सौम्यमनः प्राणस्य प्राणः सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणं प्रयन्त्यभिसंविशंतीति नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि विजिज्ञासीत वक्तारं विद्यात् प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति यदा वै पुरुषस्स्वपिति तत्प्राणस्तर्हि वागप्येति प्राणश्चक्षुः प्राणश्श्रोत्रं प्राणो मनः स यदा बुध्यते जीवः प्राणादेवाथ पुनर्ज्जायते इति प्रात्यक्षिकश्रुतिशतेन भूतप्राणवायोरेव सर्वकारणत्व सर्वाधिकत्वव्यवस्थापनात् श्रुतिस्मृतिपुराणशतेषु प्राणशब्दस्य भूतवायुपरत्वनिर्देशदर्शनात्तस्यैव साक्षात्परब्रह्मत्वम् | इति चेदुच्यते - प्राणशब्देनात्र षट्स्थलात्मकपरशिव एव व्यपदिश्यते पूर्ववदत्रापि परमशिवलिङ्गबाहुल्यदर्शनात् | परमशिवधर्मावच्छिन्नभूतसंवेशनोद्गमनकर्मत्वं वाक्यशेषे दृश्यते | यदा वै पुरुषस्स्वपिति प्राणं तर्हि वागप्येति इति वाक्ये सर्वव्यापारशून्यसुषुप्तिदशायां प्राणव्यापारसद्भावेऽपि पुरुषव्यापारदर्जनात् अचेतनस्य प्राणस्य जाग्रदवस्थायां सर्वेन्द्रियनियामकत्वं सुषुप्तौ कारणशरीरानुप्रवेशित्वं सर्वथा न सम्भवति तस्मात्प्राणशब्दस्य परमशिवपरत्वं निष्प्रत्यूहम् | तथा कैवल्ये - उमासहायं परमेश्वरं प्रभुं इत्यारभ्य स एव विष्णुस्स प्राणस्स कालेऽग्निस्स चन्द्रमाः इत्यादिना परमशिवस्यैव सर्वात्मकत्वनिर्देशात्प्राणशब्देनात्र नेतरोऽभिधीयते | इति नवमं प्राणाधिकरणम्
SK
अथ परमशिवस्य शिवलिङ्गात्मकत्वप्रतिपादनम् ज्योतिरधिकरणम् || १० || अन्तस्तद्धर्मोपदेशात् इत्यनेन परशिवस्य ब्रह्मणस्सर्वांतरत्वेन महालिङ्गात्मकत्वं प्रसाध्य आकाशस्तल्लिङ्गात् इत्यनेन तस्यैवाकाशान्तरत्वेन प्रसादलिङ्गत्वं निर्दिश्य अथ एव प्राणः इति सूत्रे तस्यैव प्राणप्रकृतिक चरलिङ्गत्वमुपदिश्य पुनस्सूत्रत्रयेण शिवलिङ्ग-गुरुलिङ्गाचारलिङ्गानि दर्शयति - ज्योतिश्चरणाभिधानात् || २५ || छांन्दोग्ये श्रूयतेऽस्य विषयः - अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषु लोकेष्विदं वाव तत् यदिदमस्मिन्नन्तः पुरुषे ज्योतिः इति | अत्र ज्योतिश्शब्देन वैश्वानर-सूर्यचन्द्रादिदेवतान्तरं निर्दिश्यते उत प्रभाकरादिस्थूल-सूक्ष्मचिदचित्प्रपञ्चप्रकाशकः परमेश्वरः इति विशयः | तदुभयविधलिङ्गबाहुल्यात् | तथापि सूर्यचन्द्रादिज्योतिषां ज्योतिष्ट्वं युक्तम् | तमोनिवारकत्वदर्शतादादित्यादिज्योतिषः | तहा दीप्यते ज्योतिशब्देन प्रभाकारादितेजोनिर्देशाच्च | निर्विशेषस्य शिवलिङ्गात्मकस्य परब्रह्मणः न मुख्यत्वेन दीप्यमानत्वं संभ्वति | श्रुत्युक्तद्युमर्यादायास्तेषामेव सिद्धत्वात् | सर्वात्मकस्य सर्वाधिष्ठानस्य सर्वकारणस्व सर्वथा द्युमर्यादाविरोधात् पूर्वोक्तमेव समंजसम् | ननु परो दिवो ज्योतिर्दीप्यते इति वाक्येन परज्योतिर्व्यपदेशात् कार्यभूतज्योतिषां तथात्वाभावात् सर्वव्यापकतया ब्रह्मण एव द्युमर्यादावत्वं समञ्जसत्वाद्भक्तोपासनाप्रयोजनत्वाच्च व्यपदिश्यते न तु त्रिवृत्कृतज्योतिःपरत्वम् - इति चेन्न - अग्निरग्रे प्रथमो देवतानां असावादित्यो ब्रह्म इत्यादिश्रुतिषु वैश्वानराद्युपासनस्य सप्रयोजनत्वदर्शनात् तासां त्रिवृतं त्रिवृतमेकैकां
SK
करवाणीति इति श्रुतौ त्रिवृत्ज्योतिषो झखण्डत्वदर्शनाल्लोके व्योमान्तरत्वम् | तस्यैव मुख्यत्वात् नान्यार्थकत्वम् | सर्वत्र प्रकाशमानस्य वैश्वानरादिज्योतिः परदिव्यशब्दौ मुमुक्षूपासनार्थमुपदिष्टौ | तस्मान्नान्तरविशेषविरोधः | सर्वाधिष्ठानस्य शिवसिङ्गात्मकस्य परब्रह्मणः प्रादेशमात्रविशेषकल्पनायोगात् | सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु इति प्रदेशविशेषकल्पानाश्रुतिः कार्यरूपवैश्वानरादिज्योतिःपरत्वमेव निर्दिशति | ननु इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः इति कौक्षेयज्योतिषिपरज्योतिष्ट्वपरमात्मत्वोपदेशादत्रापि ज्योतिश्शब्दः परमात्मपरः इति चेन्न | सारूप्यमात्रं ह्यत्रोपदिश्यते | किञ्च - यथा तस्य भूरिति शिरः एकṁ हि शिरः एकमेतदक्षरं इति श्रुतौ सावयवत्वोपदेशात् कौक्षेयस्य तेजसः प्राकृततेजःपरत्वं निष्प्रत्यूहम् | तस्यैषा दृष्टिर्यत्रैतदस्मिन् शरीरे संस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपि गृह्य निनदमित्र नदधुरिवाग्नेर्ज्वलत उपशृणोति | तदेतदृष्टं च श्रुतं चेत्युपासीत चक्षुष्यश्श्रुतो भवति य एवं वेद य एवं वेद इति औष्ण्यघोष दर्शनश्रवणादिधर्माणां परमशिवपरत्वासम्भवात् | अथवा परो दिवो ज्योतिः इति वाक्ये पुरुषान्तर्वर्तित्वेन निर्दिश्यमानो जाठराग्निर्वा स्यात् | सर्वथा परमेश्वरपक्षो न विधीयते | इति चेत् - अत्रोच्यते - ज्योतिश्चरणाभिधानात्
SK
अत्र ज्योतिश्शब्देन शिवलिङ्गात्मकषट्स्थलब्रह्मैव व्यपदिश्यते | कस्मात् चरणाभिधानात् | पादाभिधानादित्यर्थः | एतावानस्य महिमा अतो ज्यायाṁश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इति पूर्वस्मिन् वाक्ये पादोऽस्य विश्वा भूतानि इत्यनेन ज्योतिषः परमशिवस्य एकांशतया विश्वभूतात्मककार्यविभूतिर्व्यपदिश्यते | त्रिपदिस्यामृतं दिवि इत्यनेन चतुष्पादस्येत्यत्र त्रिपादमृतं द्युसंबन्धिरूपं नित्यैश्वर्यं कारणविभूतिर्निर्दिश्यते | द्युशब्दस्याकाशवाचित्वात् परो दिवो ज्योतिरित्याकाशान्तर्वर्तित्वस्य सूर्यादीनां सम्भवेऽपि निरतिशयदीप्तिमत्वस्यासंभवात् तत्परिग्रहे प्रकृतहानाप्रकृतप्रक्रियादोषप्रसङ्गात् ज्योतिश्शब्देन ब्रह्मैव निर्दिश्यते | न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सर्वं | तस्य भासा सर्वमिदं विभाति हिरण्मये परे कोशे विरजं ब्रह्मनिष्कलं तच्छुभ्रं ज्योतिषां ज्योतिर्यत्तदात्मविदो विदुः तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् इत्यादिश्रुतिशतेन परमशिवस्यैव परज्योतिष्ट्वव्यवस्थापनात् | किञ्च - शाण्डिल्यविद्यायां परज्योतिस्स्वरूपत्वं परमेश्वरस्यैवोपदिश्यते | कार्यज्योतिषि द्युमर्यादत्वसम्भवेऽपि अस्य ब्रह्मप्रकरणत्वात् जाठराग्निसूर्यादिपिरिच्छिन्नकार्यज्योतिषां सर्वद्युसम्बन्धित्वं सर्वान्तरत्वं च सर्वथा न सम्भवति | ननु येन सूर्यस्तपति तेजसेद्धः इति श्रुत्या चक्षुर्ग्राह्यप्रत्यक्षज्योतिष्येव ज्योतिश्शब्दो ह्यनुवर्तते | इति चेन्न - तथा विनिगमकाभावात् | वा चैवायं ज्योतिषाश्ते मनो ज्योतिर्जुषतां इत्यादौ ततोऽन्यत्रापि प्रयोगदर्शनात् | य्त् स्थूल सूक्ष्मचिदचित्प्रपञ्चावभासकं तत् ज्योतिर्वापयेन बोध्यते | निरवयवस्यापि परब्रह्मणो भक्तोपासनार्थं हृदयादिप्रदेशेषु सावयवत्वोपासनं न विरुध्यते | तदुभयस्यापि ब्रह्मणस्वाभाविकत्वात् | द्वेवावो ब्रह्मणो रूपे इति | श्रुतिदर्शनात् |
SK
किञ्च - हृत्पुण्डरीकṁ विरजं विशुद्धं इत्यादिना हृदयपुण्डरीकं प्रदर्श्य उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रषान्तं | ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इत्यन्तेन सावयवपरमेश्वरोपासनस्य निरवयवसाक्षिचैतन्यप्रापकत्वोपदेशात् कौक्षेयश्रुतिविहितज्योतिः प्रतीकोपासनमप्यविरुद्धम् | जाठराग्निसूर्यादीनां पादचतुष्टयवत्वादर्शनात् परमेश्वरपरत्वे श्रुत्युक्तयावद्धर्मसंभवात् ज्योतिश्शब्दस्य तत्प्ररत्वं निष्प्रत्यूहम् | अथ शिवस्य गुरुलिङ्गात्मकत्वनिरूपणम् गायत्री वा इदं सर्वं इति श्रुतौ सर्वात्मकत्मपादचतुष्टयवत्त्वयोर्गायत्रीदेवतायां दर्जनात्सैवात्र ज्योतिश्शब्देन व्यपदिश्यते इत्याशंक्याह - छन्दोभिधानान्नेतिचेन्न तथा चेतोर्पणनिगमात्तथा हि दर्शनम् || २६ || पूर्वसूत्रे ज्योनिश्शब्देन शिवलिङ्गाख्यं परं ब्रह्म प्रसाध्य परमशिवविमर्शशक्त्यात्मकगायत्रीवाक्यद्वारा गुरुलिङ्गमुपदिशति | गायत्री वा इदं सर्वं इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीर-हृदय- tadetadṛcāmyanūktaṃ tāvānasya mahimā ityādinā tasyāssarvātmakatvādidharmānnirdiśya yadvai tadbrahma iti candaso brahmaśabdavyavasthāpanāt pūrvasūtroktaḥ paramaśiva evātra na vyapadiśyayate iti tenna - tathāceterpaṇanigamāt ceto'rpaṇasya citāvikṣepasya nigamāt kathanāt gāyatrīśabdenātra na hi chandomātragāyatryupadiśyate | chandomātragāyatryāḥ sarvātmakatvāsambhavāt paramaśivasyaiva gāyatrīcetorpaṇamiha nigamyate | brahmaṇaḥ paraśivasya gāyatrīsādṛśyānusandhānaṃ phalāyopadiśyata ityarthaḥ |
SK
सम्भवति च पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इति चतुष्पदो ब्रह्मणश्चतुष्पदया गायत्र्या सादृश्यम् | चतुष्पादा गायत्री च क्वचिद्दृश्यते तद्यथा तथाहि दर्शनं अन्यत्रापि बाह्याभ्यान्तरेषु दहरपुण्डरीकसूर्याक्ष्यादिस्थानेषु सावयवत्वेन लिङ्गरूपेण अण्वादिरूपेण च परब्रह्मोपासनं दृश्यत इति दर्शनं दृष्टमिति भावः | कैवल्ये - हृत्पुण्डरीकं विरजं विशुद्धम् इत्यारभ्य हृदयपुण्डरीकं परमात्मस्थानत्वेन निरूप्य उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं | ध्यात्वा मुनिर्गच्छति इत्यादिना परमेश्वरस्य सावयवात्मकं रूपं मुमुक्षूणां ध्येयमिति निरूपितम् | यजुश्शाखायां निधनपतये नमः इत्यारभ्य एतत्सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् इत्यन्तं लिङ्गस्य परब्रह्मात्मकत्वेन सर्वैरुपास्यत्वप्रकटनाय प्रतिपदं नमस्कारपूर्वकं श्रुतिर्हि प्रतिपादयति | अतःशिवलिङ्गाराधनमपि श्रोत्रियैर्वैदिकैर्ब्राह्मणैरवश्यं कर्तव्यम् | अणोरणीयान् महतोमहीयानात्मा गुहायां निहितोऽस्य जन्तोः | तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं इत्यनेनाणुरूपोपासनमपि परमेश्वरस्य बहुधान्यत्र दृष्टम् | तस्मात् गायत्री वा इदṁ सर्वम् इति श्रुतौ नाक्षरावच्छिन्नमात्रगायत्र्याः सर्वात्मकत्वमुपदिश्यते किन्तु गायत्र्यवच्छिन्नजगत्कारणं ब्रह्मैवेह सर्वं इति व्यपदिश्यते | अथ गायत्र्याः गुरुलिङ्गात्मक्त्वनिरूपणम् | ननु - यो देवस्सवितास्माकं धियो धर्मार्थगोचराः | प्रेरयेदस्य यद्भर्गस्तद्वरेण्यमुपास्महे ||
SK
इति स्मृतौ तस्यास्सूर्यप्रतिपादकत्वदर्शनात् कथं शिवप्रतिपादकत्वम् इति चेन्न - nighaṇṭuvaśādbhargapadasya śive rūḍhatvāt saviturvareṇyamiti sūryādidevatātvasya āsatyena agniṃ dūtaṃ kadrudrāya ityādergrahayajñe bodhāyanoktasya vivakṣitatvāt | vareṇyapadasya sasambandhikatvena sambandhisākāṅkṣatvāt sannihetena savitṛpadena janitānvayabodhakatvāt | yacchabdasyāpi viśeṣaṇapadatvena samānaliṅgavibhaktivacanaviśeṣyasākāṅkṣatvāt bhargapadasya tādṛśatvena tadanvayayogyatvāt | tatra napuṃsakatvasya yo bhargaḥ - saḥ dhiyaḥ dharmādigocarāḥ prerayet | saviturvareṇyaṃ taddhīmahīti vākyānvayasambhavāt | anyathā yacchabdasya viśeṣyādhyāhāraṃ vināṅanvayādadhyāhārasya ca jaghanyatvādasya mantrasya sūryatejaḥparatve brahmavidyātvābhāvāt vareṇyapadena brahmatejo lābhe ṣaṣṭhyantasavitṛpadavirodhāt adhiṣṭhānatvavivakṣāyāṃ adhikaraṇatvasyopayuktatvādanyatvābhāvena śeṣaṣaṣṭhyāpi saṃgrahābhāvāt saptamyantena savitṛpado na sammataḥ kintu tadadhidevaśivapraḥ | tasyaivānādiprajñāprerakatvāt | taduktaṃ mantropaniṣadi - yadā tamastaṃ na divā na rātrirna sannacāsacchiva eka kevalaḥ | tadakṣaraṃ tatsaviturvareṇyaṃ prajñā ca tasmātprasṛtā purāṇī iti | gītāsu ca - tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī iti - smṛtivākyārthastu savitā - pūñ - prāṇiprasave iti dhātoḥ sakalaprāṇijanakaḥ dīvyatīti devaḥ sakalapāpabhañjakatvādbhargo haraḥ asmākaṃ dhiyaḥ - buddhīḥ dharmādigocarāḥ prerayatu | yasya bhargasya vareṇyaṃ viśvādhikaṃ yatsvarūpaṃ hiraṇmayaṃ ya eṣontarāditye hiraṇmayaḥ puruṣaḥ asau yo'vasarpati nīlagrīvo vilohitaḥ iti śruteśca nīlagrīvatvādiviśiṣṭamupāsmahe iti | taduktaṃ kūrme vyāsagītāsu vyāsena - prapadyetatparaṃ tattvaṃ vareṇyaṃ savituśśivam | prapadye tvāṃ virūpākṣaṃ bhūrbhuvassvassvarūpiṇam || iti |
SK
न च सवितृपदरूढित्यागदोषः | मन्त्रपदरूढित्यागापेक्षया स्मृतिवाक्यस्य पदरूढित्यागस्य श्लाध्यत्वात् | तत्पक्षे मन्त्रस्थसवितृपदरूढिलक्षणे ब्रह्मविद्यात्वानुपपत्तेरुक्तत्वात् | ससम्बन्धिकवरेण्यपदस्याविवक्षितार्थत्वं त्वप्तक्षे श्रुतिस्मृत्योस्समानमित्येवैको दोषः | अत्र केचित् - गायत्रीमन्त्रस्थपदानामेवं पदयोजनां कुर्वन्ति | देवस्य दीप्यमानस्य सवितुस्सूर्यस्य मध्ये यो भर्गः परमशिवः सः अस्माकं धियः धर्मादिगोचराः बुद्धीः प्रचोदयात् - प्रेरयति वरेण्यं वरणीयं उपास्यमित्यर्थः | ब्रह्म धीमहि ध्यायेमेत्यन्वयो बोध्यः अत्र सवितुर्मध्ये इत् मध्यपदमध्याहर्तव्यम् | श्रुत्यन्तरे तथा दर्शनात् | य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते इत्यादि | अपरे - प्राभाकरस्यापि शिवोपासकत्वमतं मन्त्रे व्याचक्षते | यो भर्गः परमशिवः नोऽस्माकं धियः धर्मादिगोचराः शेमुषीः प्रचोदयात् प्रेरयति तत् तमित्यर्थः छान्दसत्वान्नदोषः सवितुस्सूर्यस्य वरेण्यं वरणीयं उपास्यमित्यर्थः | परमशिवं धीमहि ध्यायेम | आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः | कस्य विभ्यति देवाश्च जातरोषस्य संयुगे || एतदिच्छाम्यहं श्रोतुं (रामा बाल. १, ४) इति रामायणादिषु लोङ्गव्यत्ययस्य दृष्टत्वात् प्रभुसंमिते वेदे लिङ्गव्यत्ययवचनव्यत्ययादीनां किमु वक्तव्यम् इति | अन्ये केचित् - रूढिर्योगमपहरतीति न्यायमुल्लंब्य रूढ्या अकुण्ठितशक्तिकं मूकशब्दतुल्यं योगमाश्रित्य शिवपरमिव ईश्वरे रूढं भर्गपदं अशिवे अपरमेश्वरे वर्णयन्ति गोपङ्कजादिशब्दनां खरशैवालादिवाचकत्ववत् | अन्यथा अर्थान्तरकल्पने गायत्र्युपासनाया विपरीतफलापत्तेः | किञ्च - यथेन्द्रशत्रुस्स्वरतोऽपराधात् इतिवत् स्वरभङ्गप्रसङ्गस्त्यात् | तदुक्तं चतुर्वेदवेदान्तभाष्यकारेण हरदत्ताचार्येण - श्रीकण्ठभर्गपदमप्यनघं तवाद्यं तेजः परं भवति चेध्रुवमाद्युदात्तम् | तस्माददन्त इति कोशवशादवैमि मार्ताण्डमण्डलगतश्शिव एव नान्यः || इति |
SK
हे श्रीकण्ठ ! तव अनघं पापरहितं आद्यं भर्गपदमपि तेजः परं भवति चेत् भर्गो देवस्य इत्याद्युदात्तं ध्रुवं किल तत्प्रेरकत्वोदात्तत्वे सति शिष्टस्वरेण गकारात्परस्याकारस्यानुदात्तत्वे च श्रूयमाणस्वरभङ्गापत्तेः | भर्गशब्दस्याकारन्तत्वे तु भकारात्पराकारस्य अनुदात्तत्वे सति शिष्टस्वरेण अनुदात्तत्वे उदात्तस्य परानुदात्तस्य स्वरितत्वे च श्रूयमाणस्स्वरस्सिद्धः | तस्माददन्त इति | तस्मात् उदात्तत्वकारणात् अदन्त इति कोशवशात् अभिधानशास्त्रादवैमि | अतो मार्ताण्डमण्डलगतश्शिव एव | किञ्च मैत्रावरुणशाखायां - भर्गो देवस्य धीमहि सविता वै देवः - यस्य भर्गाख्या तं चिन्तयामि इति | तथैव एषरुद्र भर्गाख्यो ब्रह्मवादिनो वदन्ति इति श्रुत्यन्तरेपि कस्सविता का सा गायत्री इति प्रश्नमुपक्रम्य तस्यैव प्रथमः पादः द्वितीयः पादो भर्गमयः इत्यत्राप्यदन्त एव बोध्यते | तस्मात्प्रात्यक्षिकसर्वश्रुतिविरुद्धा योदेवस्सविताऽस्माकं इति | सांख्यस्मृतिस्तु सूर्यपरत्वेऽपि मुख्यवृत्या परशिवबोधिकेति न दोषः | तथापि सांख्यस्मृतित्त्वात्तान्त्रिकपरिग्राह्यैव | किञ्च - भर्गो देवस्य रुद्रात्मने शिखायै वषट् इत्यादौ तत्प्रकरणे परशिवपरत्वं स्पष्टमुक्तम् ननु - आकाशाप्ततितं तोयं यथा गच्छति सागरम् | सर्वदेवनमस्कारः केशवं प्रति गच्छति || इत्यादौ नारायणस्य सर्वदेवताधिपतित्वदर्शनात् भर्गपदवाच्यत्वे तस्यैवेति चेन्न | पञ्चशीर्षोपनयने विनियोगः इति सन्ध्यावन्दनस्य पञ्चशीर्षविशिष्टे उपनयने उपरि नयनं यस्य तस्मिन् त्रिलोचने परमशिवे विनियोगदर्शनात् तदुपक्रमे परमेश्वरप्रीत्यर्थमिति तदुद्देशविन्यासाच्च |
SK
किञ्च - गायत्र्यात्मकशक्तेः परमशिवाभिन्नशक्तित्वात्परमेश्वरधर्माणामत्र भूयस्त्वाच्च भर्गशब्दवाच्यो नेतरः | किञ्च - सर्वदेवनमस्कारः केशवं प्रति गच्छति इति स्मृतिरपि सांख्यस्मृतिप्रकरणपठितत्वान्नाङ्गीकरणीया | स्मृत्यनवकाशाधिकरणे भगवता व्यासेन निराकृतत्वात् विनियोगानुसारेणार्थगौरवं युक्तम् | तद्भिन्नदेवतान्तरपरत्वे - मुक्ताविदुमनीलहेमधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्ताबिन्न्दुनिबद्ध- gāyatrīṃ varadābhayāṃkuśakaśāśśubhraṃ kāpālaṃ gadāṃ śaṅkhaṃ cakramahāravindayugalaṃ hastairvahantīṃ bhaje || iti gāyatrīdhyānaśokavirodho durnivāraḥ | gāyatryāḥ bhargapadavācyatve sāvitrīte kutaḥ prasiddhiḥ iti cet - savitṛpadaprayogāt prabhākarasyāpi śivātmakatvaṃ asau yo'vasarpati ityādinā pūrvamevoktam stomaṃ vo adya rudrāya sikvase kṣayadvīrāya namasā vidhiṣṭanā iti sāmaśrutau sarvadevatānamaskārastotrayoḥ paraśivaparatvena nirdeśāt sa eva viṣṇussa prāṇaḥ iti kaivalye tasyaiva sarvātmakatvopadeśācca na namaskārādhipatitvaṃ nārāyaṇasya | nocecchṛtivirodhaprasaṅgaḥ | śrautavidherbalīyastvāt | loke amātyādisamapitadravyādhipatitvaṃ śivasyaiva niṣpratyūham | upanayane viniyogaḥ ityatra kecit upasṛtyaṃ nayati prāpayatītyarthāntaraṃ kalpayanti | tadasaṅgataṃ pūrvavākye pañcaśīrṣa iti taduttaratra ca netratrayāya vauṣaṭ ityananyasādhāraṇadharmaśravaṇāt | gāyatrīprakaraṇe bhargaśabdasya rudravācakatvaṃ adantatvaṃ ca śrutisaṃmatam | tasmādgāyatrīpratipādyatvaṃ dyusambandhitvaṃ ca tasyaiveti siddham | atha śivasya acāraliṅgātmakatvanirūpaṇam evaṃ gāyatrīpratipādyatvena guruliṅgātmakatvaṃ parameśvarasya prasādhya tadvadācāraliṅgātmakatvaṃ sūtrāntareṇāha - bhūtādipādavyapadeśopapatteścaivam || 27 ||
SK
अत्र गायत्रीवाक्योपदिष्टगुरुलिङ्गात्मकपरशिव एवाचारलिङ्गात्मत्वेन व्यवह्नियते | कुतः भूतादिपादव्यपदेशोपपत्तेः | न ह्यक्षरसन्निवेशात्मकगायत्र्याः भूतादिपादव्यपदेशोपपत्तिरुपपद्यते | एता एते पञ्चब्रह्मपुरुषाः इति श्रुतिः - पूर्वं परब्रह्मणश्शिवस्यप्रकरणत्वेन सङ्गच्छते | तद्यथा गायत्र्यात्मकस्य परशिवस्य हृदयपुण्डरीकावच्छिन्नोपासनाङ्गत्वेन सद्योजातादिपञ्चब्रह्मव्यूहविध्यर्थं तस्य वा एतस्य हृदयस्य पञ्च देवसुषयः इत्यादिवाक्यं तत्र ते वा एते पञ्च ब्रह्मपुरुषाः | इति श्रुतम् | तथाचोपासनाङ्गान सद्योजातादिपञ्चब्रह्मपुरुषाणां दहरपुण्डरीकसुषिरेषु स्थितानां पञ्चब्रह्मत्वोक्तेः | दहरच्छिद्रेष्वपि तेषां परब्रह्मसम्बन्धोऽवगम्यते | पञ्चप्राणपञ्चभूताधिदैवसद्योजातादिपञ्चब्रह्मव्यूहेभ्यः परं ब्रह्म परशिव इत्युच्यते | स एव पशुपाशविमोचनस्सर्वोपास्यः | गायत्रीमात्रपरत्वे तदङ्गानां पञ्चब्रह्मपुरुषाणां ब्रह्मात्मकत्वविरोधो दुर्निवारः | तस्माद्दहरसुषिरेषु पञ्चब्रह्मसम्बधात्तत्रस्थापञ्चब्रह्मणां परमशिवसम्बन्धसद्भावात् पञ्चब्रह्मपुरुषश्रुत्युपपत्तिः | हृदयपुण्डरीकस्य प्राग्दक्षिणपश्चिमोत्तरोर्ध्वमुखस्थास्सद्योजातादिपञ्चब्रह्मपुरषाः | तस्माद्गायत्रीवाक्ये ब्रह्मैव प्रतिपाद्यते | ज्योतिर्वाक्ये द्युसंबन्धात्तदेव प्रत्यभिज्ञायत इति सिद्धम् | भूतादीनां पादानामवयवानां व्यपदेशस्य ब्रह्मण्योपपत्तेः उपपन्नत्वाच्च | एवं गायत्रीशब्देन गायत्र्यवच्छिन्नं ब्रह्मैवोच्यत इति सूत्रार्थः | ननु - पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इति पुरुषसूक्तेऽपि भूतादिपादचतुष्टयवत्त्वं नारायणस्यैव व्यपदिश्यत इति तस्मिन्नपि द्युसम्बन्धित्वद्योतनात् वेदाहमेतं पुरुषं महान्तम् इत्यादिना तस्यैव तमःपरत्वनिर्देशात् नान्यः पन्था विद्यतेऽयनाय इत्यादिना तज्ज्ञानस्यैव मोक्षकारणत्वोपदेशाच्च तत्परत्वमेव युक्तम् |
SK
ननु - पुरुषो वै रुद्रः इत्यादौ रुद्रस्यापि पुरुषशब्दव्यपदेशात्तत्परत्वं किं न स्यादिति चेन्न | ह्रीश्चते लक्ष्मीश्च पत्न्यौ अहो रात्रे पार्श्वे इति वाक्ये अनितरसाधारणलक्ष्मीपतित्वलिङ्गदर्शनात् | छान्दोग्यब्राह्मणे इदं विषुः पक्षः सविष्णुः प्रकाव्यमुशनेव ब्रुवाणः इति वाराहमन्त्यं पुरुषं व्रतेतत् इति च | एषा वैष्णावी नाम संहिता एतां प्रयुञ्जन् विष्णुः प्रीणाति इति वैष्णवसंहितात्वनिर्देशेन आथर्वणाष्टादशमहाशान्तिषु तत्तद्दैवत्वमन्त्रविनियोजनावसरे वैष्णव्यां पुरुषसूक्तम् इति वैष्णव्यां शान्तौ विनियोजनेन शौनकबोधायनादिस्मृतिषु बहुधा नारायणसमाराधने विनियोजनेन विष्णुपुराणादिषु पुरुषसूक्तार्थप्रक्रियया नारायणस्तुतिदर्शनेन च तदर्थप्रकाशकल्लान्दोग्यस्यापि तत्परत्वमेव युक्तं इति चेत् | अथ पुरुषसूक्तम् शिवपरत्वप्रतिपादनम् अत्रोच्यते - उपक्रमोपसंहारादिषड्विधताप्तर्यलिङ्गैः पुरुषसूक्तमपि शिवैकपरत्वेन निर्दिश्यते | पुरुषो वै रुद्रः पुरुषं कृष्णपिङ्गलं पुरातनोऽहं पुरुषोऽहमीशः इत्यादिश्रुतिशतेन पुरुषशब्दस्य शिवपरत्वेन व्यवस्थापनात् तत्रेशानपदस्य शिवे रूढत्वाच्च | किञ्च - शिवकेशवयोः पुरुषत्वप्रकृतित्वे श्रुतिस्मृतिपुराणागामसिद्धे सामान्नायरुद्रसूक्ते एकैव शक्तिः परमेश्वरस्य प्रयोजनार्थाय चतुर्विधाऽभूत् | भोगे भवानी पुरुषेषु विष्णुः क्रोधे च काली समरेच दुर्गा || इति आदित्यपुराणे विष्णुं प्रति शिववचनम् - प्रकृतिस्त्वं सुरश्रेष्ठ पुरुषोऽहं न संशयः | त्वन्मयं मन्मयं सर्वमव्यक्तपुरुषात्मकम् || इति स्कान्दे - पुरुषो नाम सम्पूर्णस्साम्बमूर्तिस्सनातनः | वासुदेवः पराशक्तिरिति वेदे प्रपञ्चितम् || इति गीतायां - वासुदेवः परा प्रकृतिः इति प्रकृतिः परमो विष्णुः पुरुषः परमः शिवः इति कूर्मे |
SK
किञ्च - शिवरहस्यखण्डान्तर्भूतासुरकाण्डादिषु नारायणस्य स्त्रीरूपत्वं शिवस्य पुरुषत्वं तयोः शास्तृभैरवविधातॄणामुत्पत्तिश्च बहुधा प्रपञ्चिता | अतः सहस्रशीर्षा पुरुषः इत्युपक्रमवाक्यस्य पुरुषशब्दस्य शिवपरत्वम् | यज्ञेन यज्ञमयजन्त देवा इति मध्यगतवाक्येनापि तत्परत्वमेवावगम्यते | यज्ञो वै विष्णुः इति श्रुतौ नारायणस्य यज्ञात्मकत्वनिर्देशात् | यज्ञेन - यज्ञशब्दवाच्यविष्ण्वात्मकपश्वाद्युपकरणेन यज्ञं - परशिवाराधना- āvorājānamadhvarasya hotāraṃ rudraṃ iti śrutau yajñeśvaratvaṃ parameśvarasyaiva spaṣṭam darśitam | ṛgvede'pi gādhapatiṃ medhapatiṃ rudraṃ jalāmiṣaṃ ityādinā spaṣṭamuktam | tathā sūtasaṃhitāyām - yajñarūpaṃ mahāviṣṇuṃ yajñe paśyanti ye dvijāḥ | prādhānyena mahādevo yajñadevo na cāparaḥ || iti jñātvā yajante ye te vai vijñānamāpnuyuḥ || iti | ata eva parameśvarāṣṭamūrtīnāṃ madhye yajvana ekamūrtitvaṃ nirdiṣṭam | nṛsiṃhapurāṇe - viyajvalanabhūvāyucandrasūryodakāni ca | dīkṣitaśceti gaurīśa tavāṣṭatanavaḥ kramāt || iti | kiñca - yajñakartṛtvayajñabhoktṛtvayajñapatitvādikaṃ tasyaiva | yāvadvaidikāgnihotrādikarmaṇāṃ rudraśeṣatvenaiva darśanāt | aṣṭamūrteḥ parameśvarasya vehnerekāṅgatvāt | antaryāmitvena vahnimaṇḍale parameśvarasadbhāvānnetarasyāgnihotrādisarvakarmaśeṣitvam | yajurvede - rudro vā eṣa yadagnistasyaite tanuvau ghorānyā śivānyā iti | yo rudro agnau yo'psu ya oṣadhīṣu iti tathā ca smṛtau - agnau jvālāvṛtaṃ rudraṃ vahnimaṇḍalamadhyagam | dhyāyetkalādaśayutaṃ śaktisvastikadhāriṇam ||
SK
इति रुद्रस्य वह्न्यात्माअत्ववह्निमण्डलान्तर्यामित्वदर्शनात् | किञ्च - यागीयपुरोडाशादिद्रव्याणि देवाश्शिवानुज्ञया पश्वालम्बनं कृत्वा शिवात्परिशेषमेव भुञ्जन्ति | तथा यजुर्वेदे - इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे सुकृतस्य मध्ये | अनुमन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम् || इति | अयं सोमः कपर्दिनः इत्यादिषु बहुशः स्मरणात् | किञ्च - सामवेदप्रथममन्त्रे तपश्चते जपश्च ते इत्युपक्रम्य कर्माधिपतये नमः इत्यन्ते तत्र विरूपाक्षोऽसि इति सर्ववैदिककर्माधिदैवत्वं परब्रह्मणश्शिवस्य प्रसाध्य स्तुत्वा त्वां प्रपद्ये त्वया स्यूतमिदं करिष्यामि तस्यै समृध्यतां तस्मादुपपद्यताम् इत्यादौ सकलवैदिककर्मणां रुद्रानुज्ञया कर्तव्यत्वेन विधिश्रवणात् यज्ञादिसकलवैदिककर्मणां मुख्यदैवत्वं परमेश्वरस्यैवेति सिद्धम् | किञ्च - श्रुत्यन्तरे आखुस्ते रुद्र पशुस्तं जुषस्वैषते रुद्र भागस्सह स्वस्राम्बिकया इति अस्यार्थः - आखुः आसमन्तात् खनतीत्याखुः - महावराहरूपो विष्णुः हे रुद्र ते - तुभ्यं पशुः यागीयमशुरूप अभूत् | तं पशुं स्वस्त्रा - प्रागभावाभावसहजसिद्धानुस्यूतया अम्बिकया - पार्वत्या सह जुषस्व - भुङ्क्ष्व | ते - तुभ्यं भागः - यागभाग इत्यर्थः | तथा वृद्धशातातपे - आखुरूपं महात्मानं हिरण्याक्षप्रभञ्जनं | यागीयपशुरूपं तं मयायज्ञवराहकम् || पार्वत्या सह देवेश विश्वनाथ सदाशिव जुषस्व कृपया विष्णुं शंखचक्रगदाधरम् ||
SK
इति श्रमणात् | एव एवाभ्यासः तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये इत्यर्थवादः | अस्यार्थः - यज्ञं - यज्ञप᳚ष्वात्मकं विष्णुं बर्हिषि सवने प्रौक्षन् आलम्भनार्थं असिंचन अग्रतः - सृष्टेः पूर्वकाले जातं विद्यमाने पुरुषं-रुद्रांतेन पशुना देवाः ब्रह्मादयः साध्याः ऋषयश्च - अयजन्त यजन्ते इत्यर्थः | स्कान्दे - तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् इति | तथा भागवत द्वितीयस्कन्धे तद्वदुपदिष्टम् | अत एव लोके आदिवराह इति प्रसिद्धम् | आदित्यवर्णं तमसः परस्तात् इत्यपूर्वता | आदित्यवर्णत्वं हिरण्मयत्वं तद्धिण्मयत्वं अन्तरधिकरणे स्पष्टमुक्तं | कैवल्येऽपि उमासहायं इत्यारभ्य तमसः परस्तात् इत्यन्तेन तस्यैव तमःपरत्वस्य विवक्षितत्वात् तमेवं विद्वानमृत इह भवति इति वाक्य फहमुपदिष्टम् | अत्रामृतशब्दः जाबालाद्युपनिषत्सु परशिवपरत्वेन निर्दिष्टः | तस्माद्गतिसामान्यन्यायेन षड्विधलिङ्गैः पुरुषसूक्तस्य परशिवपरत्वमेव ज्ञेयम् | किञ्च - सर्वात्मकस्य शिवस्य सहस्रशीषत्वं सहस्राक्षत्वं सहस्रपादत्वं सहस्रबाहुत्वं च युक्तम् | सहस्राक्षाय मीडुषे सहस्राणि सहस्रधा वाह्वोस्तव हेतयः इति रुद्रसूक्त्या सहस्राक्षत्वसहस्रबाहुत्वादिकं रुद्रस्यैव निर्दिष्टम् |
SK
ननु - प्रजापतिश्चरतिगर्भे अन्तः इति श्रुतौ नारायणस्यैव ब्रह्मजनकत्वव्यपदेशात् | मोक्षमिच्छेज्जनार्दनात् इति मोक्षप्रदत्वस्याऽपि तस्यैव समुचितत्वात् कथं पुरुषसूक्तप्रतिपाद्यत्वं शिवस्य इति चेन्न - विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं जनयामास पूर्वं इत्यादि श्रुत्यन्तरेष्वपि मुख्यवृत्या हिरण्गर्भजनकत्वं शिवस्यैव व्यपदिश्यते | अथर्वशिखायां च शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य इति शिवङ्करत्वं मुक्तिप्रदत्वमेव | तच्च तस्यैव नान्यस्य अशिवत्वात् | तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये | तमीशानं पुरुषमीड्यं निचाय्योत्तारं शान्तिमत्यन्तमेति || तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् | इत्यादिश्रुतिषु शिवस्यैव मोक्षप्रदत्वप्रतिपादनात् गातुं यज्ञाय गातुं यज्ञपतये इति यज्ञेश्वरे परमशिवे उपसंहारात् पुरुषसूक्तं शिवस्योक्तमित्यवगम्यते रुद्रं पुरुषसूक्तं च जपेत्तिर्यक् त्रिपुण्ड्रकः | रुद्रप्रीत्यर्थमनिशं वैदिको वेदपारगः || इति रुद्रसूक्तसहपाठात् | ननु - ह्रीश्च ते लक्ष्मीश्च पत्न्यौ इति वाक्ये लक्ष्मीपतित्वासाधारणलिङ्गस्योपसंहारे दर्शनादुपक्रमवाक्यस्थपुरुषशब्दस्यापि विष्णुपरत्वमेव इति चेन्न | सामान्यशक्त्यैव प्रयोगोपपत्तेः | ह्रीश्चते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे इति वाक्यद्वयसिद्धं गङ्गापतित्वं पार्वतीपतित्वं च शिवस्यैव घटते | तदुक्तं स्कान्दे - हिमाद्रेरपतन्मौलौ गङ्गा रुद्रस्य वेगतः | तदीयभारसंभ्रान्तो ह्यवादीत्तां सदाशिवः || ह्रीमती भव नात्युच्चैर्वर्तस्व प्राप्य मामिह | पुरुषं पुरुषश्रेष्ठं ब्रह्मविष्णादिकारणम् | सा तं नत्वा महादेवं तदा प्रभृतिभक्तितः | ह्रिया जटासु मिलिता ह्रीरिति प्रोच्यते बुधैः || इति | रुद्रयामिले - तस्याङ्कमण्डलारूढा शक्तिर्माहेश्वरी परा | महालक्ष्मीति विख्याता श्यामा सर्वमनोहरा |
SK
तस्मात्तेजःकणाज्जाता लक्ष्मीवाक्कोटयः पुरा || शिवतेजस्समुद्भूता हरिब्रह्मादिकोटयः || क्षीयन्ते पुनरेवैते तत्र येऽनुगतास्सदा || इति | कूर्मे - ह्रीशब्देन भवेद्गङ्गा सर्वपापप्रभञ्जिनी | लक्ष्मीर्गौरीति विख्याता महालक्ष्मीर्महेश्वरी || गङ्गालक्ष्मीपतित्वं च शिवस्य परमात्मनः | साधारणं त्रिलोकेषु प्रसिद्धं वेदचोदनात् || तस्मात्तद्दक्षिणः पाश्श्वौ ह्यहस्साम्यं प्रपद्यते | वामभागस्तु तस्यैव देवी पार्श्वौतया सदा | रात्रिसादृश्यमाप्नोति महादेवस्य शूलिनः || इति | तथा स्कान्दे - ह्रीरभ्रगा सरिदुभे शिवधर्मपत्न्यौ गङ्गा च शैलतनयेति हिमाद्रिकन्या | गङ्गापतित्वमपि साधयितुं समर्थैः द्वैमातुरादिगणनाथपदेन शास्त्रैः || इति | ननु - वाजसनेयके ह्रीश्चते लक्ष्मीश्च पत्न्यौ इति पठ्यते इति चेत् - किं ततः श्रीशब्दस्यापि समानप्रकरणाम्नातहृल्लेखात्वेन पर्यवसानात् | न च वैपरीत्यं शक्यम् | ह्री शब्दस्य कमलायां प्रयोगस्यादृष्टत्वात् | श्रीशब्दस्य श्रियं लक्ष्मींमौपलामम्बिकां मां षष्ठीं जयामिन्द्रसेनेत्युदाहुः इत्यायुष्यसूक्ते गौर्या दृष्टप्रयोगत्वात् ह्रीश्च ते इति मन्त्रस्य ग्रहयज्ञे सामाद्यधीतायाः गौर्याः पूजायां विनियोगस्य समृत्पर्णवादिषूक्तत्वेन ह्रीशब्दस्य गौरीपरत्वाश्यंभावाच्च | तस्मात् प्रथमश्रुतानुगुण्येन लक्ष्मीश्च पत्न्यौ इत्यस्य तस्याङ्कमण्डलारूढा शक्तिर्माहेश्वरी परा | महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा | इति शिवपुराणोक्तशिवाङ्कस्थिताम्बिकात्मकलक्ष्मीपरत्वमेव | सूक्तस्य नारायणपरत्वेन तत्पूजादौ विनियोगेऽपि शिवपरत्वे बाधकं नास्त्येव | अग्निर्मूर्धा दिवः ककुत्पतिः इत्यादिमन्त्राणामभिधानश्रुतिबलादाग्नेयादीनामेव सतां ग्रहयज्ञे तत्रत्याराधने तत्तद्देवत्यमन्त्रविनियोगावसरे भौमादिपूजायां विनियोगस्य बहुशस्तत्प्रीणनजपादौ विनियोगस्य च संप्रतिपत्तेः | अन्यथा - यजेत्पुरुषसूक्तेन धनदं विश्वरूपिणम् | अथ नारयणाभ्यां वा पूजयेद्भक्तिमान्नरः ||
SK
इत्यादौ विनियोगान्तरेणाप्यन्यतरत्वौपपत्तेः लिङ्गपुराणेऽपि - द्यौर्मूर्धा तु विभोस्तस्य खं नाभिः परमेष्ठितः | चन्द्रसूर्याग्नयो नेत्रं दिशश्श्रोतं पिनाकिनः || तदा लोका मुखाद्वेदा प्राणाद्वायुरजायत | वक्त्राद्वै ब्रह्मणा जाता ब्रह्मा च भगवान् प्रभुः || इन्द्रविष्णू भुजाभ्यां च क्षत्रियाश्च महात्मनः | वैश्याश्चोरुप्रदेशे तु शूद्राः पादात्पिनाकिनः || इति भगवता वादरायणेन शिवपरत्वेन व्याख्यानात् | तद्वच्छान्दोग्येऽपि परमेश्वरलिङ्गबाहुल्यात्तत्परत्वमेव निर्णीयते | ननु - पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इत्यत्र द्युसम्बधित्वप्रत्यभिज्ञानात् परो दिवो ज्योतिर्दीप्यते इत्यत्र दिवःपरत्वनिर्देशात्कथमुभयोर्वाक्ययोः परमेश्वरपरत्वं इत्याशङ्कायामाह - उपदेशभेदान्नेतिचेन्नोभयस्मिन्नप्यविरोधात् || २८ || यत्पूर्वमन्त्रे - पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि इति सप्तम्या द्यौरधिष्ठानत्वेन निर्दिश्यते तत्पुनः यदतः परो दिवो ज्योतिर्दीप्यते इति पञ्चम्या व्योमातीतत्वमुपदिश्यते किञ्च - यदतः परो दिवो ज्योतिः इति वाक्ये जगदन्तर्यामित्वजगद्विलक्षणत्वोपदेशात् ज्योतिर्वाक्येन परमेश्वरप्रत्यभिज्ञानं न सम्भवति इति चेन्न | कस्मात् - उभयस्मिन्नप्यविरोधात् | विभक्तिव्यत्ययार्थव्यत्ययोभयसम्भवेऽपि परमेश्वरप्रत्यभिज्ञाया अविरोधात् पूर्वापरमध्यपरार्शविरोधाभावादित्यर्थः | सौधाग्रे मयूरः सौधाग्रात्परतो मयूरः इत्यादौ यथा तद्वद्वाक्यद्वयेन दिवः परत्वमेव प्रत्यभिज्ञायते | किञ्च - जगद्विलक्षणत्वं जगदन्तरत्वमपि व्योमवद्व्यापकस्य परमेश्वरस्यैवोपपद्यते | अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः सर्वाननशिरोग्रीवस्सर्वभूतगुहायः | सर्वव्यापी स भगवांस्तस्मात्सर्वगतश्शिवः ||
SK
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इत्यादौ परशिवस्य जगद्विलक्षणत्वं जगदन्तर्यामित्वं च घण्टाघोषेण स्पष्टमुक्तम् | तस्माद्व्यापकस्य परशिवस्य महालिङ्गाद्याचारलिङ्गान्तषड्विधलिङ्गात्मकत्वं चरमशरीरकभक्तोपासनार्थं समुचितम् | तस्मान्निजैकांशविशिष्टस्थूलसूक्ष्मचिदचित्प्रपञ्चप्रकाशकं साधनान्तरनिरपेक्षस्वयंप्रकाशपरंज्योतिः परशिव एव | इति दशमं ज्योतिरधिकरम् || अथ शिवस्य बाह्येष्ट (प्राण) लिङ्गात्मकत्वप्रतिपादनम् प्राणाधिकरणम् || ११ || पूर्वं जगज्जन्मादिहेतुभूतस्य सर्ववेदान्तप्रतिपाद्यस्य निरतिशयानन्दात्मकस्य शिवस्य षड्विधलिङ्गात्मकत्वं पूर्वत्र प्रसाध्य तस्यैव सर्वमुमुक्षूपास्यबाह्यप्राण (इष्ट) लिङ्गात्मकत्वमधिकरणान्तरेण दर्शयति - प्राणस्तथाऽनुगमात् || २९ || कौषीतकीब्राह्मणोपनिषदि इन्द्रप्रतर्दनाख्यायिकायां श्रूयतेऽस्य विषयः - प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन पौरुषेण च इत्याम्नाताः तस्यां श्रूयते | सहोवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व इति | तथोत्तरत्र - अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति इति | तथा - न वाचं विजिज्ञासीत वक्तारं विद्यात् इति | अन्तेच - स एष प्राण एव प्रज्ञात्माङन्दोऽजरोऽमृतः इति | अत्र प्रतर्दनविद्यायामुपास्यः प्राणो वा इन्द्रशब्दाभिधेयश्शारीरो वा उत परमेश्वरो वा इति सन्दिह्यते | मामेव विजानीहि इतीन्द्रस्य वचनं देवतात्वलिङ्गं जीवविषयम् | इदं शरीरं परिगृह्योत्थापयति इति प्राणासाधारणलिङ्गात्प्राणविषयम् | आनन्दोऽजरोऽमृतः इत्यादिपरशिवलिङ्गधर्मबाहुल्यश्रवणात् गुरुकरुणादत्तपरमशिवकलाधिष्टितबाह्यप्राण (इष्ट) लिङ्गमेवेति सूच्यते |
SK
पूर्वपक्षस्तु - नात्र सर्वथा परमेश्वरो निर्दिश्यते | प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतं इति | प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति इति च भूतवाय्वसाधारणधर्मश्रवणात् लोके वेदेषु च शरीरान्तर्गतस्य वायोरेव प्राणत्वस्य मुख्यत्वेन व्यवस्थापनात् प्राणशब्देन प्राणवायुरेवात्राभिधीयते | अथवा इन्द्रशब्दस्य जीवविशेष एव प्रसिद्धेः तत्समानाधिकरणस्य प्राणशब्दस्यापि तत्रैव प्रवृत्तेः प्राणशब्देनेन्द्र एवात्राभिधीयते | अयमिन्द्राभिधानो जीवः प्रतर्दनेन त्वमेव वरं वृणीष्य यं त्वं मनुष्याय हिततमं मन्यसे इत्युक्तो मामुपास्व इति स्वात्मोपासनं हिततममुपदिदेश | तस्माद्भूतप्राणजीवयोरन्यतरस्यैव प्रतर्दनविद्यो पास्यत्वम् - इति चेत् -
SK
अत्रब्रूमः - प्राणस्तथानुगमात् - अत्र प्राणः परमशिवकलाधिष्ठितबाह्यप्राणलिङ्गमेव | कुतः तथानुगमात् | यथा ज्योतिर्वाक्ये ब्रह्मैव निर्दिष्टं तथा प्राणपदस्यापि परशिवपरत्वे अनुगमात् अवगमादित्यर्थः | उपक्रमे प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व इति मध्ये च स यो मां विजानीयात् नास्य केन च कर्मणा लोको मीयते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूङ्हत्यया इत्यादिना परमशिवविज्ञाने हि सुकृतदुष्कृतसर्वकर्मसंक्षयो दृश्यते | तथोपसंहारेऽपि आनन्दोऽजरोऽमृतः इत्यानन्दादीनि ब्रह्मात्मकपरशिवधर्मलिङ्गानि श्रूयन्ते | तस्मादचेतनमारुतस्य प्रज्ञात्वानन्दत्वादिधर्मासम्भवात् प्राणशब्देन परमशिवकलाधिष्ठितस्थूलशरीरावच्छिन्नबाह्यप्राणालिङ्गमेवोपदिश्यते | न सर्वव्यापकपूर्णब्रह्मपरत्वम् | उत्तरवाक्ये वावदस्मिम् शरीरे प्राणो वसति तावदायुः इत्यायुश्शब्दसामानाधिकरण्यव्यपदेशात् | केवलभूतवायुपरत्वे पूर्वोक्तश्रुतिसिद्धसर्वपापभंजनानन्दत्वामृतत्वाजरत्वादिधर्मवैरुध्य- hyevainaṃ sādhukarma kārayati taṃ yamanvānuneṣatyeṣa evainamasādhu karma kārayati taṃ yamebhyo lokebhyo nunutsata eṣa lokapāla eṣa lokādhipatireṣa sarveśvaraḥ ityādiśrutisiddhadharmāṇāṃ paramaśivasyaiva saṃbhavācca | tathā śrutyantareca - yaścandasāṃ vṛṣabho viśvarūpaḥ chandobhyo'dhyamṛtātsaṃbabhūva samendro medhayā spṛṇotu amṛtasya devadhāraṇo bhūyāsaṃ śarīraṃ me vicarṣaṇaṃ jihvā me madhumattamā karṇābhyāṃ bhūriviśruvaṃ brahmaṇaḥ kośo'si medhayā pihitaḥ śṛtaṃ me gopāya itīndrātmakaparamaśivaliṅgadhāraṇena mokṣodiśāt | bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ bhadraṃ paśyemākṣamiryajatrāḥ | sthirairaṅgaistuṣṭuvāṁsastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ iti śrutāvāyuḥ parimāṇaparyantaṃ sthūlaśarīre paramaśivaliṅgavyavasthāpanavyapadeśātprāṇaśabdasya sākṣātparamaśivaliṅgaparatvameva |
SK
ननु प्रतर्दनविद्यायां मामेव विजानीहि इतीन्द्रशब्दसामानाधिकरण्येन जीवविशेषपरत्वमेवोपदिश्यते आनन्दोऽजरः इत्यादिना सर्वव्यापकब्रह्मधर्माणां निर्देशात्कथं स्थूलशरीरावच्छिन्नप्राणलिङ्गमेव ग्राह्यम् इति चेन्न | मामेव विजानीहि इत्यादिना न हीन्द्रशरीरमेवोपदिश्यते | किन्तु तज्जीवाधिष्ठानांतरप्राणलिङ्गमेव भक्तोपासनार्थं निर्दिश्यते | एष लोकाधिपतिरेष लोकपाल एष लोकेशः इत्यादिना सर्वव्यापकजगदुभयकारणभावलिङ्गपरत्वम् | प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व इत्यादिना इष्टलिङ्गात्मकबाह्यप्राणलिङ्गारत्वं च निर्णीयते | इन्द्रशरीरेन्द्रप्राणेन्द्रजीवानां सर्वथा न मुमुक्षूपास्यत्वं परब्रह्मत्वं च सम्भवति | इदं च एतदधिकरणोपसंहारसूत्रे स्पष्टमुक्तं वादरायणेन | अस्मिन्नर्थे हेत्वन्तरमाह - नवक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् || ३० || मामेव विजानीहि प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व इत्युपक्रमे जीवविशेषलिङ्गस्यैवात्र द्योतनात् आनन्दोऽजरोऽमृतः इत्याद्युपसंहारेऽप्यानन्दादिधर्माणां जीवे समुचितत्वात् उपक्रमोपसंहारयोरेकलिङ्गत्वात् अत्र वक्तुरिन्द्रस्य स्वात्मत्वेनोपदेशादिन्द्र एव प्राणशब्देनोच्यते -
SK
इति चेन्न - कस्मात् अध्यात्मसम्बन्धभूमा ह्यस्मिन् हि - यस्मात् अस्मिन् वाक्ये अध्यात्मसंबन्धस्य परमशिवसम्बन्धस्य भूमा बाहुल्यं विद्यत इत्यर्थः | तथाह्युपक्रमे यं त्वं मनुष्याय हिततमं मन्यसे इत्यादिना तदुपासनस्यैव मोक्षसाधनत्वेन हिततमत्वोपदेशात् श्रुत्यन्तरेष्वपि ईशं ज्ञात्वा अमृता भवन्ति ज्ञात्वा शिवं शान्तिमत्यन्तमेति शिव एको ध्येयश्शिवंकरस्सर्वमन्यत्परित्यज्य तमेव विदित्वाऽतिमृत्युमेति नन्यः पन्था विद्यतेऽयनाय इत्यादिषु मोक्षस्य परमशिवोपासनालब्धत्वोपदेशात् मनुष्याणां हिततमत्वेनोपास्यं परमेश्वरलिङ्गमेव | मध्येपि एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष एवासाधु कर्म कारयति तं यमधो निमीषते इति सर्वकर्मकारयितृत्वं परमेश्वरलिङ्गमेव श्रयते | उपसंहारे च तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिताः स एष प्राण एव प्रज्ञात्माङन्दोऽजरोऽमृतः इति परमशिवधर्माः प्रतिपाद्यन्ते | एष लोकाधिपतिरेष सर्वेश्वरः इति च परमशिव एव बोध्यते | ननु त्रिशीर्षाणं त्वाष्ट्रमहनं इति प्राणो वै बलं इति इन्द्रो वै राजा जगतो य ईशते इति च प्राणत्वमिन्द्रस्य बलवत्वादुपदिश्यते | वृष्ट्या चेतनाचेतनप्रपञ्चपोषकत्वात्तस्यैव प्राणत्वं व्यवह्रियते | तस्माद्धिततमत्वादिवचनानि तत्परत्वेन योजनीयानीइत् प्रतर्दनं प्रति मामेव विजानीहि इत्युक्तत्वात् स्वविषयकोपासनमेवात्रोपदिश्यते | इत्याशंकायामाह - शास्त्रदृष्ट्यातूपदेशो वामदेववत् || ३१ ||
SK
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति शास्त्रादृष्ट्या सर्वात्मकत्वात्सर्वशब्दवाच्यं परमेश्वरं मामेव विजानीहीत्यपदिष्टवानिन्द्रः | यथा वामदेवः अहं मनुरभवं सूर्यश्च इत्यादिना सर्वात्मकत्वं स्वस्योपदिष्टवान् तद्वदित्यर्थः | किञ्च यत्र नान्यत्पश्यति नान्यच्छ्रुणोति नान्यद्विजानाति इति श्रुतौ भ्रमरकीटवच्छिवोपासनया शिवत्वापन्नभक्तानां शिवातिरिक्तशून्यत्वं दृश्यते | तस्माद्दण्डकारण्ये भगवता परमशिवेन श्रीरामः सर्वो वै रुद्रः एको हि एव रुद्रो न द्वितीयाय तस्थुः शिव एको ध्येयश्शिवंकरस्सर्वमन्यत्परित्यज्य मायां तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरं तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज | अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः || इत्यादिसर्ववेदान्तसारशिवज्ञानेनोपदिष्टस्सन् कृष्णावतारे अर्जुनं प्रति वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ममैवांशो जीवलोके जीवभूतस्सनातनः इत्यादिवाक्यानि शिवात्मदृष्ट्या यथोपदिदेश तद्वदिन्द्रोपदेशोऽपीन्द्रस्य परशिवब्रह्मत्वेन न विरुध्यते | तच्च ब्रह्म वेद ब्रह्मैव भवति इत्यादौ स्पष्टमुक्तम् | अत एव प्राणोऽस्मि प्रज्ञात्मा इति वाक्ये परमशिवकलानुस्यूतबाह्यप्राणलिङ्गमेवोपदिश्यते स्वकीयार्चनया भक्तानां प्राणनहेतुत्वात्तस्यैव प्राणशब्दो निगमागमेषु निर्णीयते | प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युयास्व इत्यादौ बाह्यप्राणलिङ्गनिर्देशात्किमन्योपासनम् इत्याशंक्याह - अथ शिवस्य इष्ट-प्राण-भावलिङ्गात्मकत्रिविधोपास्यत्वप्रतिपादनम् - जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् || ३२ ||
SK
प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपारव | यावदस्मिन् शरीरे प्राणो वसति तावदायुः प्राणो वै बलम् इत्यादिवाक्येषु स्थूलशरीरावच्छिन्नपरिच्छिन्नजीवमुख्यप्राणलिङ्गस्यैवात्रोपदेशात् निर्देशात् जगदुभयकारणसर्वव्यापकपरशिवोपासनं नेति चेन्न | इष्टापत्तेः कुतः उपासात्रैविध्यात् | इष्ट-प्राण-भाव- upāsātrayasya sthūlārūndhatīnyāyena pratyagabhinnaparipūrṇaṣaṭsthalapara᳚ṣivasākṣātkārasādhanatvena āśritatvāt upayuktatvādityarthaḥ | upakramavākye prāṇo'smi prajñātmā taṃ māmāyuramṛtam ityādinā sthūlaśarīrāvacchinnamukhyeṣṭaliṅgadharmabāhulyādiṣṭaliṅgopāsanaṃ madhye - eṣa eva sādhu karma kārayati iti sarvakarmakārayitṛtvādiprāṇaliṅgadharmabāhulyāt prāṇaliṅgopāsanaṃ upasaṃhāre - tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe arpitāḥ sa eṣa prāṇa eva prajñātmā ityādinā bhāvaliṅgadharmabhūyastvāt bhāvaliṅgopāsanaṃ ca vidhīyate | paramaśivādanyaparatve pūrvāparamadhyavākyaparāmarśavirodhaprasaṅgaḥ | tasmānnānyo'rtho yuktaḥ | atra kecit - upāsātraividhyādityatra prāṇajīvanirviśeṣabrahmopāsanāparatvaṃ iti vadanti | tadyathā atha khalu prāṇa eva prajñātmā idaṃ śarīraṃ parigṛhyotthāpayati iti prāṇadharma evātropadiśyate | śarīradhāraṇasya mukhyaprāṇadharmatvāt | prāṇasaṃvāde vāgādīn prāṇān prakṛtyā tān variṣṭhaḥ prāṇa uvāca ityādinā prāṇasya cetanatvaṃ sarvopāsyatvaṃ copadiśyate |
SK
किञ्च - न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यत्र वक्तृत्वादिकार्यकारणधर्माणां जीवपरत्वात्स एवोपदिश्यते | चैतन्यात्मकत्वाज्जीवे प्रज्ञात्मकत्वमप्युपपद्यते | आनन्दोऽजरः इत्यादिना निर्विशेषब्रह्मपरत्वं सूच्यत इति | तथापि जीवप्राणनिर्विशेषोपासनात्रैविध्यमत्र न घटते | सविशेषब्रह्मप्रकरणत्वात् | मामेव विजानीहि इत्युपक्रम्य प्राणोऽसि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व इत्युक्त्वा स एष प्राण एव प्रज्ञात्माङन्दोऽजरोऽमृतः इत्युपक्रमोपसंहाराभ्यां परशिवासाधारणानन्दत्वादिधर्माणां शिवे रूढत्वात् भूतात्मकप्राणात्मकदशानां च परमेश्वरादन्यत्रार्पणानुपपत्तेः | स एव विष्णुस्स प्राणः इत्यादिना कैवल्ये विष्णुप्राणादिशब्दानां परशिवपर्यायत्वेन निर्देशात् | यिञ्च - नोपास्यौ प्रकृतिजीवौ इत्यादौ जीवाद्युपासनस्य निरस्तत्वात् निर्विशेषब्रह्मण उपासनाऽसंभवात् सविशेषपरशिवब्रह्मोपासनपरमेव त्रिविधोपासनमिति निर्णीयते | क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः | तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः इत्यादावभिध्यानादित्यनेन प्राणलिङ्गोपासनं योजनादित्यनेनेष्टलिङ्गोपासनं तत्त्वभावादित्यनेन भावलिङ्गोपासनं च स्पष्टमुक्तम् | इदं शरीरं परिगृह्योत्थापयति इति वाक्येन प्राणधर्म उपदिश्यते | प्राणव्यापारस्यापि परमशिवाधीनत्वात् | कुतः न प्राणेन नापानेन मर्त्यो जीवति कश्चन | इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इति श्रुतेः | न वाचं विजिज्ञासीत वक्तारं विद्यात् इति वाक्येन जीवधर्मो दर्शितः | यद्वाचाऽनभ्युदितं येन वागभ्युद्यते तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते एष एव साधु कर्म कारयति इत्यादौ वागादिव्यावृत्तस्य शारीरस्य ब्रह्माधीनत्वेन धारणार्चनार्पणात्मकोपासना- jīvamukhyeṣṭaśabdayoḥ ghaṭakumbhakalaśādiśabdavat paryāyatvam |
SK
यो वामहस्तार्पितलिङ्गमिष्टं परात्परं धारयते सततं विप्रः क्षत्रियो वा | तस्यैव लभ्यः परमेश्वरोऽसौ निरञ्जनः परमं साम्यमुषैति दिव्यम् || त्यक्ते तस्मिन्न भुञ्जीत प्राणानेव परित्यजेत् इति सामजैगीषीयशाखायां सदानन्दोपनिषदि जीवस्य प्राणलिङ्गमुख्यत्वं सूचितम् | तथा शङ्करसंहितायां भगवता व्यासेनापि निर्दिष्टम् - शिष्यदेहे ततश्शक्तिपातं कृत्वा स्वविद्यया | पीठस्यशिवलिङ्गे तु शिष्यप्राणं निधाय च | लिङ्गं संस्थाप्य तत्प्राणे प्राणलिङ्गं भवेत्ततः || दत्वा शिष्याय तल्लिङ्गं श्रद्धाभक्तियुताय सः | न त्यज प्राणलिङ्गं त्वं यावज्जीवं प्रतिज्ञया | पुनर्भवो न ते वत्स विद्यते मातृयोनिषु || इति | तथा सिद्धान्तागमे - सिद्धान्तशिखामणौ च - शिष्यस्य प्राणमादाय लिङ्गे तत्र निधापयेत् || २२ || तल्लिङ्गन्तु सुतप्राणे स्थापयेदेकभावतः || एवं कृत्वा गुरुर्लिङ्गं शिष्यहस्ते निधापयेत् || २३ || प्राणबद्धारणीयन्तु प्राणलिङ्गमिदं तव || कदाचित् कुत्रचिद्वापि न वियोजय देहतः || २४ || यदि प्रमादात्पतिते लिङ्गे देहान्महीतले || प्राणान् विमुञ्च सहसा प्राप्तये मोक्षसम्पदाम् || २५ || इति | स उ प्राणस्य प्राणः इति श्रुत्यन्तरेऽपि तथा निर्दिष्टम् | श्रुत्यन्तरेऽपि परमेश्वरस्य लिङ्गत्रयात्मकत्वमुपदिष्टम् | सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयाः | सर्वव्यापी स भगवांस्तस्मात्सर्वगतश्शिवः || इष्टमूर्जं तु तपसामनुयच्छति सर्वदा | तत्प्राणेष्वन्तर्मनसो लिङ्गमाहुः || भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् | कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् || इत्यादि श्रुतिशतेन इष्टप्राणभावात्मकलिङ्गत्रयोपासनस्य व्यवस्थापनादिहाप्युपक्रमोपसंहारमध्यपरामर्शेन परमशिवैकपरत्वनिर्णयादितरेषां मुक्तिप्रदत्वादर्शनात् परमशिवप्रकरणाच्च नान्यार्थो विधीयते | तस्मादत्र प्राणशब्देन परशिवब्रह्मैवाभिधीयत इति राद्धान्तः | इत्येकादशं प्राणाधिकरणम् || इति श्रीमन्निराभारवीरशैवयतिव्रजपरिवृढ- śrīkarabhāṣye
SK
समन्वयाभिधानस्य प्रथमाध्यायस्य प्रथमः पादः प्रथमाध्याये द्वितीयः पादः सर्वत्रप्रसिध्यधिकरणम् || १ || प्रथमे पादे परशिवस्य ब्रह्मणो जगदुभयकारणत्वसर्ववेदान्तप्रतिपाद्यत्वसर्वज्ञत्वसर्वशक्तिमत्वनित्यतृप्त- paramaśivaparatvaṃ ca prasādhya punaḥ keṣāṃcidaspaṣṭaliṅgānāṃ padānāṃ brahmapratipādakatvaṃ arthāntarabodhakatvaṃ veti sandehe tanmukhyārthāvabodhārthaṃ dvitīyaḥ pādo hyārabhyate | || 33 || sarvatra prasiddhopadeśāt || 1 || yajurāraṇyakanārāyaṇānuvāke - daharaṃ vipāpmaṃ parameśmabhūtaṃ yatpuṇḍarīkaṃ puramadhyasaṁsthaṃ tatrāpi dahraṃ gaganaṃ viśokastasmin yadantastadupāsitavyam || iti jyotirliṅgānusandhānvidhiṃ nirdiśya tadvastusvarūpaṃ yo vedādau svaraḥ prokto vedānte ca pratiṣṭhitaḥ | tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ ityādinā spaṣṭamuktvā nidhanapataye namaḥ ityādinā liṅgasya parabrahmaṇassarvātmakatvamupadiśya etatsomasya sūryasya sarvaliṅgaṃ sthāpayati pāṇimantraṃ pavitram || iti śrūyate'sya viṣayaḥ | nanu - prathamādhikaraṇe prāṇādhikaraṇe bāhyaliṅgopāsanasya prasādhitatvāt punaḥ kimarthamidaṃ iti cenna - prathamādhikaraṇe ādhikārinirūpaṇaprastāvadvārā kiñcinnirūpitam | prāṇādhikaraṇe trividhaliṅgopāsanāvidhireva sādhitaḥ | atra punarapi spaṣṭārthaṃ īkṣatyādhikaraṇe pradhānajagatkāraṇatvasya nirastatve'pi camasavadaviśeṣāt ityādinā punarnirākaraṇavat bāhyaliṅgadhāraṇaṃ sādhayiṣyāmaḥ | bāhyaliṅgadhāraṇasiddhāntapratipādanam etatsomasya sūryasya ityatra somasūryaśabdayoścandraprabhākaravācakatvātpūrvānuvāke prabhākarapraśaṃsādarśanāt uttaratra paraśivaikapratipādakapañcabrahmapuruṣapraśaṃsādyotanādatropāsyaḥ prabhākaraḥ paraśivo veti saṃśayaḥ |
SK
पूर्वपक्षस्तु - श्रुतिपथगलितानां तन्त्रमार्गे प्रवेशः इति सूतसंहितायां तान्त्रिकवैदिकविभागे वेदमूलकत्वाभावेन पाञ्चरात्रादिवत् पाशुपताद्यागमानां निरस्तत्वात् धर्मस्य चोदनात्मकप्रमाणशब्दैकमूलकत्वात् तत्प्रामाण्यस्वीकारे देव पवित्रं वा एतत्तं योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके तदेषाऽभ्युक्ता | यस्तित्याज सखिवदṁ सस्वायं | न तस्य वाच्यपि भागो अस्ति यदीṁशृणोत्यलकṁ शृणोति | न हि प्रवेद सुकृतस्य पन्थानमिति इत्यादिश्रुतिविरोधात् शास्त्रयोनित्वात् नावेदविन्मनुते तं वृहन्तम् नैषा तर्केण मतिरापनेया इत्यादिश्रुतिसूत्राभ्यां ब्रह्मणं वेदान्तप्रतिपाद्यत्वव्यवस्थापनाच्च | अतस्तन्त्रागमानां धर्मब्रह्मव्यवस्थापने नैव किञ्चित्प्रामाण्यम् | तस्मात् सर्वलिङ्गं स्थापयति इत्यत्र न स्वेष्टलिङ्गधारणमुपपद्यते | किन्तु पूर्वप्रकरणवशादत्र - प्रातः काले स्वयं ब्रह्मा मध्याह्ने तु महेश्वरः | सायंकाले त्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः || इति स्मृतौ प्रभाकरस्य मूर्तित्रयात्मकत्वव्यवस्थापनात् | एतत्सोमस्य सूर्यस्य इत्यत्र सोमस्य शिवात्मकस्य सूर्यस्य प्रभाकरस्य सर्वप्रपञ्चे लिङ्गं तल्लांछनं पाणिना अभिमन्त्रितं पाणिमन्त्रं स्थापयति इत्यर्थलाभात् सर्वेषां वैदिकानां प्रभाकरोपासनस्यैव मुख्यत्वात् पूर्वानुवाकगतानां सहस्रशीर्षं इत्यादीनां नारायणप्रतिपादकवाक्यानां उत्तरमन्त्रानुवाकगतानां सद्योजातादिवाक्यानां च प्रभाकरपरत्वमेव व्यपदिश्यते | तस्मात् तत्परत्वमेव युक्तम् |
SK
किञ्च - निधनपतये नमः इत्यादिना शिवलिङ्गात्मकस्य सर्वात्मकत्वोपदेशेन एतत्सोमस्य सूर्यस्य इति एतच्छब्देन प्रकृतसोमसूर्यनमस्कारपरामर्शकशब्दायोगात् नमस्स्वस्तिस्वाहास्वधालंवषड्योगाच्च इति चतुर्थ्यन्तत्वाभावेन षष्ठ्यन्तपदनिर्देशात् सर्वलिङ्गं स्थापयति इति शब्दस्वारस्येन भूनिक्षेपणलिङ्गपरत्वमेवात्र विवक्षितम् | पाणिमन्त्रं पवित्रं पाणिना अभिमन्त्रितं पाणिमन्त्रं इत्यर्थसमन्वयात् बाह्यलिङ्गधारणं सर्वथा न घटते इति चेन्न | सिद्धान्तः - सर्वत्र प्रसिद्धोपदेशात् सर्वत्र वेदवेदान्तागमस्मृतिपुराणेति हासादिषु यत्प्रसिद्धं षट्स्थलपरशिवात्मकं ब्रह्म तस्यैवात्र दहरं विपाप्मं इत्यारभ्य सर्वलिङ्गं स्थापयति इत्यन्तेन बाह्याभ्यन्तरधारणोपास्यत्वेन उपदेशात् व्यवस्थापनादित्यर्थः | विभूतिरुद्राक्षशिवलिङ्गधारणविधायकं शैवमतं तन्त्रागममूलकत्वेन न वैदिकपरिग्राह्यमिति यत् तदविचारितरमणीयम् कुतः वेदवेदान्तस्मृतिपुराणेतिहासप्रसिद्धत्वात् | कर्त्रैकत्वेन वेदमूलकत्वेन वा कामिकादिशिवागमानां वेदवत्प्रमाणत्वाच्च | तदुभयप्रतिपाद्यत्वेन शैवमतं वैदिकमेव | तदुक्तं सिद्धान्तागमे - सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा | एतानि मानभूतानि नोपहन्यानि युक्तिभिः || वेदः प्रधानं सर्वेषां सांख्यादीनां महामुने | वेदानुसरणादेषां प्रामाण्यमिति निश्चितम् || पाञ्चरात्रस्य सांख्यस्य योगस्य च महामुने | वेदैकदेशवर्तित्वं शैवं वेदमयं मतम् || वेदकदेशवर्तिभ्यस्सांख्यादिभ्यो महामुने | सर्ववेदानुसारित्वाच्छैवं तन्त्रं विशिष्यते | सर्ववेदानुसारित्वात्प्रमाणं वेदवत्सदा || इति | किञ्च - सूतसंहितायाम् - अष्टादशपुराणानां कर्ता सत्यवतीसुतः | कामिकादिप्रभेदानां यथा देवो महेश्वरः || इत्यादिना कामिकादिशिवागमानामिव व्यासोक्तपुराणानां प्रामाण्यं महर्षिणा सूतेन साधितम् | तस्मात्तत्रैव - द्विपदार्थं चतुष्पादं महातन्त्रं जगत्पतिः | प्रोक्तवान् हिमवत्पुत्त्र्यै धर्ममोक्षैकसाधनम् ||
SK
इति शिवागमानां धर्मब्रह्मसाधनत्वं निर्दिष्टम् | अपि च वेदवेदान्तवत् केचन शैवागमाः पति-पाश- jyotiṣṭomādyaṅgakuṇḍa-maṇṭapavidhāyakāḥ kecana śivapūjāpratipādakāḥ kecana bhasmarudrākṣa-śivaliṅgadhāraṇapratipādakāḥ kecanālayotsavapratiṣṭhāpratipādakāḥ | tathā hi - etāvanto vai paśava uta dvipādaścatuṣpādaśca iti yeṣāmīśe paśupatiḥ paśūnāṃ catuṣpadāmuta ca dvipadāṃ iti | tasmāt rudraḥ paśūnāmadhipatiḥ jñātvā devaṃ sarvapāśāpahāniḥ dhyānanirmathanābhyāsātpāśaṃ dahati paṇḍitaḥ ityādivākyānāṃ prātyakṣikavedavedānteṣu darśanātpatipāśapaśupadārthatrayapratipādakaśaivāgamānāṃ vaidikatvaghaṇṭāghoṣaḥ | cidacidīśvarapadārthatrayaparibhāṣāśrayapāñcarātrāgamasya vaidikaparibhāṣāmūlatvābhāvādavaidikatvam | kiñca - muṇḍaka-māṇḍūkya-chāndogya-bṛhadāraṇyaka- षडक्षरत्र्यम्बकगायत्र्यादिसर्वमन्त्राणां कराङ्गन्यासध्यानविधायकत्वेन गौतमभारद्वाज-शौनकाद्याचारविषयस्यावरलिङ्गानां कर्षणादिप्रतिष्ठान्तोत्सवादिविधायकत्वेन भूत्यै न प्रमदितव्यं अग्निरिति भस्म इत्यादियजुराथर्वण-बृहञ्जाबाल- yajurāṇyāntargatasadyojātādipaṃcabrahmamantrapratipādakatvena yā te rudra śivā tanūraghorā pāpakāśinī yaśchandasāmṛṣabho viśvarūpaḥ somārudrā ityādiśrutisiddhaśivaliṅgadhāraṇavidhāyakatvena arcā prārcata tamuṣṇuhi iti mantrārthāvabodhakabodhāyanasmṛtimūlakaśivapūjāvidhāyakatvena ca śrutyāgamānāṃ samānārthatvāt sākṣādvaidikatvamāgamānāṃ niṣpratyūhameva | tasmāttatpratipāditaliṅgadhāraṇasyāpi tathātvaṃ siddham | tathā kūrme - nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ śubham | guhyādguhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye || eṣa pāśupatācārassevanīyo mumukṣubhiḥ | tāntrikaṃ vaidikaṃ miśraṃ tridhā pāśupataṃ smṛtam || tapta liṅgāṅkaśūlādidhāraṇaṃ tāntrikaṃ matam | liṅgarudrākṣabhasmādidhāraṇaṃ vaidikaṃ bhavet ||
SK
रविं शम्भुं तथा शक्तिं विघ्नेशं च जनार्दनम् | यजन्ति समभावेन मिश्रपाशुपतं हि तत् || वेदमार्गैकनिष्ठानां मुमुक्षूणां निरन्तरम् | श्रौतं पाशुपतं ग्राह्यं न ग्राह्ये मिश्रतान्त्रिके || इति | तथा च स्मृतौ - यानि शास्त्राणि दृश्यन्ते युगेऽस्मिन् विदिहानि तु | वेदमार्गविरुद्धानि तेषां निष्ठा हि तामसी || विप्राणां शिवदैवत्वं श्रुतिस्मृतिषु गीयते | शिवैकोपासनं तस्मात्कर्तव्यं जीवितावधि || इति श्रवणान्नान्योपासनं वेदागमानामङ्गाङ्गित्वेन निगमागमत्वं चोभयोस्समञ्जसम् | अन्तर्लिङ्गधारणप्रतिपादनम् - नारायणानुवाके दहरं विपाप्मं इत्यादिना भावलिङ्ग- ityādinā prasādhya ūrdhvāya namaḥ ityādinā liṅgasya sarvātmakatvaṃ nirdiśya sarvaliṅgavākyena bāhyaliṅgadhāraṇaṃ nirdiṣṭham | nidhanapataye namaḥ ityaprabhya itatsomasya sūryasya ityantamarthavādaḥ | tatra samuccayavidhāyakacakārābhāvāt namaskāravidhāyakacaturthyantapadābhāvāt upakramopasaṃhārayoḥ paramaśivaparatvena madhyagatasomasūryaparatve sāmañjasyāsambhavāt sūryasya sūryamaṇḍalāntarvartinassomasya śivasya liṅgaṃ paraśiveṣṭarūpaṃ pañcasūtraghaṭitaṃ sadgurukaruṇākaṭākṣalabdhaṃ sarvaṃ sarvajana ityarthaḥ | sthāpayati dhārayatīti sarvaliṅgaṁ sthāpayati ityanena vākyena liṅgasthāpanaṃ nirdiśya tasya liṅgasthāpanasya adhikaraṇaṃ kimityāśaṃkāyāṃ pāṇimantraṃ pavitram iti liṅgaviśeṣātpāṇyādau taddhāraṇaṃ vidhīyate | pāṇau mananātpūjanāttrāyata iti pāṇimantraṃ pavitramityanena yajñopavītaṃ paramaṃ pavitraṃ itivat śaucācamanādyapāvitryaprasaktikāle pavitratvavidhānādyajñopavītavatsarvadā dhāryatvaṃ pratipādyate | yadāgne yo'ṣṭākapālaḥ itivannacātra vākyabhedadoṣaḥ | taduktaṃ - dhārayedyastu hastena liṅgākāraṃ śivaṃ sadā | tasya hastasthitaṃ siddhaṃ matpadaṃ sampadāṃ padam || iti vātūle | tatha laiṅge bhagavatā vyāsenaitanmantrārthaḥ spaṣṭamuktaḥ |
SK
वेदेषु शास्त्रसंधेषु पुराणेष्वागमेषु च | ब्राह्मणस्य समाख्यातं लिङ्गधारणमुत्तमम् || इत्युपक्रम्य - यजुरप्याह लिङ्गं वै सर्वं स्थापयतीति च | तस्माद्धार्यं महालिङ्गं पाणिमन्त्रेति मन्त्रतः || पाणौ लिङ्गं विनिक्षिप्य दीक्षाकाले गुरुश्शिवम् | येन स्मरति तन्मत्रं पाणिमन्त्रं वदन्ति हि || पवित्रत्वान्महेशस्य शिवस्य प्रतिपादनात् | पवित्रीकरणात्पुंसां पवित्रमिति कथ्यते || तस्मात्सर्वेषु कालेषु धारयेल्लिङ्गमुत्तमम् | गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि || शुचिर्वाप्यशुचिर्वापि लिङ्गं सर्वत्र धारयेत् | लिङ्गधारी सदा शुद्धो निजलिङ्गं मनोहरम् || अर्चयेद्गन्धपुष्पाद्यैः करपीठे समाहितः | नित्यानि कर्मबृन्दानि तथा नैमित्तिकानि च | शिवार्पणधिया कुर्यात्सम्यग्-ज्ञानाभिवृद्धये || इति | परशिवस्य ब्रह्मणः दशविधलिङ्गात्मकत्वप्रतिपादनम् - किञ्च - निधनपतये नमः इत्यत्र निधनस्य चराचरप्रपञ्चसंहारस्य पतिः कर्ता - सर्वलयाधिष्ठानमिति यावत् | तस्मै नाम इत्युच्यते | प्रपञ्चोपशम् शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः - शिवोऽद्वैतः इति माण्डूक्यश्रुतेः | एतत् स्यितेरप्युपलक्षणम् | एतेन जगज्जन्मस्थितिलयकारणनिष्कलशिवतत्त्वमुपदिश्यते | निधनपतांतिकाय नमः इति वाक्येन अवान्तरकल्पसंहारकारणकालरुद्रादीनां संहारकर्तृत्वं निर्दिश्यते | सर्वभूतदमनाय नमो मनोन्मनाय नमः इत्युत्तरत्र विष्ण्वादिसर्वभूतसंहारकत्वं श्रूयते | एको विष्णुर्महद्भूतं इत्यादिना विष्णुब्रह्मेन्द्रादीनां भूतत्वं हरिṁ हरन्तमनुयन्ति देवाः | विश्वस्येशानं वृषभं मतीनां इत्यादौ विष्ण्वादिभूतसंहारकत्वं ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां इत्यादौ सर्वविद्याधिपतित्वं सर्वभूताधिपतित्वं च तस्यैव निर्दिष्टम् | १) ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः इत्यत्र महदादिसर्वातीतशुद्धमायाशक्त्यात्मकत्वविशिष्टः सदाशिव एवोपदिश्यते |
SK
२) हिरण्याय नमः हिरण्यलिङ्गाय नमः इत्यत्र पश्चिमचक्रस्थितगुणत्रयसमष्ट्यात्मकमहातमोरूपाविद्याशक्त्यवच्छिन्न- 3) suvarṇāya namaḥ suvarṇaliṅgāya namaḥ ityatra śikhācakānugatarajaśśktyavacchinnacitkalātmakaprāṇaliṅgaṃ nirṇīyate | 4) divyāya namaḥ divyaliṅgāya namaḥ ityatra sahasrāracakapraviṣṭaguṇatrayaprācuryātmakamahāśaktyavacchinnasveṣṭaliṅga- ५) भवाय नमः भवलिङ्गाय नमः इत्यत्राज्ञाचक्रस्थितशुद्धान्तःकरणात्मकचिच्छक्त्यवच्छिन्नमहालिङ्गं श्रूयते | ६) शर्वाय नमः शर्वलिङ्गाय नमः इत्यत्र विशुद्धचक्रस्थितव्योमतत्त्वानुगतपराशक्त्यवच्छिन्न प्रसादलिङ्गं निरूप्यते | ७) शिवाय नमः शिवलिङ्गाय नमः इत्यत्र अनाहतचक्रस्थितपवनतत्त्वात्मकादिशक्त्यवच्छिन्नचरलिङ्गं कथ्यते | ८) ज्वलाय नमः ज्वललिङ्गाय नमः इत्यत्र मणिपूरकचक्रस्थिततेजस्तत्वात्मकेच्छाशक्त्यनुगाशिवलिङ्गं व्यवह्रियते | ९) आत्माय नमः आत्मलिङ्गाय नमः इत्यत्र स्वाधिष्ठानचक्रस्थितजलतत्त्वात्मकज्ञानशक्त्यवच्छिन्नगुरुलिङ्गं व्याख्यायते | १०) परमाय नमः परमलिङ्गाय नमः इत्यत्राधारचक्रस्थितक्षित्यात्मकक्रियाशक्तिविशिष्टाचारलिङ्गं उच्यते | एतत्सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति इत्यनेन एतद्दशविधलिङ्गात्मकस्य सूर्यस्य सूर्यमण्डलान्तर्वर्तिनः सोमस्य शिवस्य लिङ्गरूपशरीरं स्थापयतीति भूमि- tasmāddaśavidhaliṅgātmakapāṇyadhikaraṇakasveṣṭaliṅgasya pañcabrahmātmakatvaṃ ṣaṭtriṃśattattvātmakatvaṃ ca nirūpyate | liṅgadhāraṇasya vaidikatvanirūpaṇam kiñca - vedavaidāntasmṛtipurāṇetihāsāgamādiṣu śivaliṅgadhāraṇaṃ śrūyate | yajurvede - bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāṁsastanūbhiḥ vyaśema devahitaṃ yadāyuḥ ||
SK
चरणं पवित्रं विततं पुराणम् | येन पूतस्तरति दुष्कृतानि तेन पवित्रेण शुद्धेन पूताः अतिपाप्मानमरातिं तरेम | लोकस्य द्वारमर्चिमत्पवित्रं ज्योतिष्मद्भ्राजमानं महस्स्वत् अमृतस्य धारा बहुधा दोहमानम् | चरणं नो लोके सुधितां दधातु हिरण्यशृङ्गं वरुणं प्रपद्ये पवमानस्सुवर्जनः पवित्रेण विचर्षणिः | यः पोता स पुनातु मा | पुनन्तु मा देव जनाः इत्यादिना सर्वदेवानां लिङ्गधारणमुपदिश्यते | सामवेदे च - विश्वेदेवं विदुषा वेदितव्यं श्रद्धाभक्त्या शैवलिङ्गं प्रधृतं सर्वदेवैः तदात्मसिध्यै मुनिभिर्मुक्तिकामैः कण्ठे हस्ते मस्तके वा भवतु धार्यम् लिङ्गं बिभर्ति वपुषा परमं पवित्रं विरजं विशोकं देवानाममितरस शम्भोः | स याति मुक्तिं चरमं वेदवेद्यं शैवं दिव्यं शाश्वतं वै पुराणम् आथर्वणे च - परात्मसिध्यै परमं कालकालं तनूषु लिङ्गं शाम्भवं बिभृयान्मुक्तिकामः | महामहद्भिर्मौनिभिर्योगिभिर्वा धार्यं भवेत्सर्वदा शाङ्करं देवदेवम् | शिवलिङ्गं भृत्वा ब्रह्मणस्सायुज्यं सलोकतामाप्नोति तेन सर्वान् कामानभियाति न स पुनरावर्तते न स पुनरावर्वत इति इति | तथा वेदान्तेषु - आप्यायन्तु ममाङ्गानि वाक्-प्राणश्चक्षुश्श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमत्स्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु यश्च्छन्दसामृषभो विश्वरूपः इत्यादि | अन्तर्धारणशक्तैर्वा ह्यशक्तैर्वा द्विजोत्तमैः | संस्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरस्थले || धार्यं विप्रैर्विमुक्त्यर्थमेवं वेदविदो विदुः || कण्ठे करे मस्तके सन्निवेश्य चोभे तत्पाणिमन्त्रं पवित्रम् | यो वामहस्तार्चितलिङ्गमेकं परात्परं सततं धरते विप्रः क्षत्रियो वा | तस्यैव लभ्यः परमेश्वरोऽसौ निरञ्जनः परमं साम्यमुपैति दिव्यम् इत्येतान्युपबृंहणवाक्यानि लैङ्गे भगवता वादरायणेन निर्दिष्टानि |
SK
सौवर्णं राजतं शैलं कृत्वा ताम्रमयन्तु वा | पञ्चसूत्रकृतं लिङ्गमखण्डं धारयेद्द्विजः || इत्युपक्रम्य अयं मे हस्तो भगवानिति मन्त्रेण सर्वदा | पाणौ लिङ्गधृतिः प्रोक्ता ऋगित्याह सनातनी || भद्रं परशिवं भक्त्या शृणुयाम सुरर्षभाः | भद्रं नेत्रैः प्रपश्यामो लिङ्गरूपं सदाशिवम् || भद्रं यजामस्सततं तुष्टवांसो यथाविधि | यावदायुः प्रवर्तेत तावद्देवहितं शिवम् || तनूभिस्सततं भक्त्या स्थापयामो यथाविधि | स्वस्त्याख्यं शाम्भवं लिङ्गमिन्द्रो वृद्धश्रवास्तथा || पूषा च विश्वेदेवाश्च तार्क्ष्योविष्णुस्तथैव च | बृहस्पतिस्तथालिङ्गं दधातु परमैश्वरम् || चरणं लिङ्गमाख्यातं पवित्रं पापनाशनम् | चरं जीवं परात्मानं नयति प्रापयत्यतः | विततं व्यापकं नित्यं पुराणं ब्रह्म शाश्वतम् | येन लिङ्गेन पूतस्सन् पापान् सर्वास्तरिष्यति || तेन लिङ्गेन शुद्धेन पूताः पाप्मानमाणवम् | मायामलं कार्मिकं चाप्यरातिं ते तरेम हि || लोकस्य भक्तलोकस्य द्वारं तत्प्राप्तिसाधनम् | अर्चिमत्स्वप्रकाशं हि पवित्रं लोकपावनम् || ज्योतिष्मद्दीप्तिमद्भ्राजमानं चिद्रूपभावतः | महत्त्वगुणसंयुक्तं महत्स्वत्परिकीर्तितम् || चरणं लिङ्गमाख्यातं जगत्संहारहेतुतः | अमृतस्य धारा मोक्षस्य सालोक्यादिविभेदतः || बहुधा दोहमानं यत्तन्नोऽस्माकं विशेषतः | लोके देहे सदा देवास्सुधितां वासमन्वहम् || दधातु कुरुतात्प्रीत्या भवरोगैकभेषजम् | पवमानानुवाकेन सर्वेषां लिङ्गधारणम् || यजुषा गीयते यस्मात्तस्मात्पाशुपतं शुभम् | पवमानोऽनिलस्सम्यग्वर्जनः पापवर्जितः || सपवित्रेण लिङ्गेन शैवज्ञानविचक्षणः | वर्तते त्रिषु लोकेषु पूता स पुनातु माम् || पावनात्सर्वजीवानां पवित्रं लिङ्गमुच्यते | हिरण्यं लिङ्गमाख्यातं विश्वरूपं महेश्वरम् || शृङ्गे शिरसि तल्लिङ्गं धृतं वरुणमव्ययम् | प्रपद्ये मनसा वाचा शिवभक्तं सनातनम् || तीर्थं देहीति वचसा प्रार्थितं वेदपूरुषैः | सर्वं सर्वात्मकं ब्रह्म लिङ्गरूपं सनातनम् ||
SK
तदौपनिषदं दिव्यं ममाङ्गानि विशेषतः | स्थूलसूक्ष्मादिदेहानि ज्ञानकर्मेन्द्रियाणि च || भावादिलिङ्गरूपेण स्थित्वा सर्वत्र सर्वदा | आप्याययन्तु सततं परमानन्दसम्पदा || तदहं मा निराकुर्यां न यजामि कदाचन | मा मां ब्रह्म सदालिङ्गं न त्यजेन्मा निराकरोत् || मे ममात्मनि देहे तु तद्ब्रह्मास्तु निरन्तरम् | अनिराकरणं सम्यगनिरकरणं भवेत् || उपनिषत्सु ये धर्मा भस्मरुद्राक्षसंज्ञकाः | मयि ते सन्तु ते नित्यं सन्तु ते मयि सर्वदा || इत्यादिकानि | तत्रैवाकरणे प्रत्यवायजनकत्वं च दृश्यते - लिङ्गस्य धारणं यस्य स्थूलदेहे न विद्यते | तद्देहं निष्फलं ज्ञेयं जीवत्यक्तशरीरवत् || यथा श्मशानगं काष्ठमनर्हं सर्वकर्मसु | तथा लिङ्गविहीनस्तु सर्वकर्मबहिष्कृतः || यस्य वक्षस्थले लिङ्गं कण्ठे रुद्राक्षमालिका | न फाले भूतिरेखाश्च तं त्यजेदन्त्यजं यथा || लिङ्गस्य धारणं विप्रो मनसापि न लंघयेत् | श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् || ब्राह्मणानां शिवो देवस्तस्मात्तल्लिङ्गधारणम् | कर्तव्यं ब्राह्मणानान्तु वेदवेदान्तशासनात् || भृत्यस्य प्रभुचिह्नन्तु यथा धार्यं महीतले | तथा भक्तस्य लिङ्गादिधारणं प्रोच्यते सदा || अनन्तपद्मनाभस्य हस्ते लिङ्गस्य धारणम् | पाण्डुरङ्गे तथा विष्णोश्शीर्षं लिङ्गस्य धारणम् || सुप्रसिद्धतया दृष्टं किं वक्तव्यं नृणां सदा || इत्यादिना षट्स्थलपरशिवात्मकपरब्रह्मास्वरूपलिङ्गधारणस्य दृष्टत्वात्सर्वलिङ्गवाक्येन तद्धारणमेव विधीयते | अस्मिन्नर्थे हेत्वन्तरमाह - || ३४ || विवक्षितगुणोपपत्तेश्च || २ ||
SK
अत्र विवक्षिताः उपासनायामुपादेयत्वेन ये गुणाः सत्यत्वादयः तेषां परशिवब्रह्मण्युपपत्तेः उपपन्नत्वादित्यर्थः | ऋतṁ सत्यं परं ब्रम पुरुषं कृष्णपिङ्गलम् | ऊर्ध्वरेतं विरूपाक्षं विश्व्रूपाय वै नमः इत्यादिना तद्धर्मश्रवणात् | श्रुत्यन्तरे च - सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत | अथ खलु क्रतुमयः पुरुषो यथ क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति | स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्ता सर्वकामः इत्यादौ स्र्वात्मकस्य परमेश्वरस्य भक्तोपासनार्थं प्राणशरीरत्वेन परिच्छिन्नत्वस्य सत्यसङ्कल्पत्वादेश्च विवक्षितत्वात् | अत्र निधनपतये नमः इत्यादिना सर्वात्मकत्वमुपदिश्य पाणिमन्त्रं पवित्रं इति पाण्यधिकरणकत्वेन परिच्छिन्नत्वस्यापि तस्यैव निर्देशान्नेतरोपासनमत्र विधीयते | ननु पुराणान्तरेषु लिङ्गस्य परमेश्वरनिकृष्टाङ्गत्वेन निर्देशात् चरणं पवित्र इत्यादिश्रुतीनामंध्रिपरत्वेन रूढत्वात् वेदबाह्यसङ्करजातेरपि भस्मरुद्राक्षशिवलिङ्गादिचिह्नानां दृष्टत्वात्कथं तेषां श्रौतत्वम् इति चेन्न - लिङ्गपुराणे ज्योतिर्लिङ्गोत्पत्यनन्तरं - ततः प्रहृष्टमनसा प्रणिपत्यमहेश्वरम् | प्राह नारायणो नाथं लिङ्गस्थं लिङ्गधारिणम् || यदि प्रीतिस्समुत्पन्ना यदि देयो परश्च नौ | लिङ्गाधःपीठवद्भाति कुण्डलीकृतपन्नगः || तदूर्ध्वपीठवद्भाति धराऽश्वत्थदलाकृतिः | तस्यां स्थितं महादेवज्योतीरूपं महत्तरम् || आवयोर्गर्वनिर्मूलकारणं लिङ्गमीदृशम् | भवदीयं महादेव दत्वा दीक्षां हि नौ कुरु || तद्धारणाच्च तध्यानात्तदर्चनविधानतः | ऐहिकामुष्मिकं सौख्यं प्राप्नुवाम इति ध्रुवम् || एवं तद्वचनं श्रुत्वा विश्वनाथस्सनातनः | इन्द्रनीलमयं लिङ्गं विष्णवे ब्रह्मणो मम || पद्मरागमयं लिङ्गं दत्वा दीक्षामकारयत् | ततः प्रदत्तवान् देवो भक्तिमव्यभिचारिणीम् ||
SK
वक्षस्थले हरिलिङ्गं मूर्ध्नि चाहं पितामहः | धृत्वा प्रहृष्टमनसा श्रद्धया परया मुदा || इत्यादिना परमेश्वरस्यैव लिङ्गरूपत्वदर्शनात् | किञ्च - सिद्धान्तागमे - ब्रह्मणा विष्णुना पूर्वं यल्लिङ्गं ज्योतिरात्मकम् | अपरिच्छेद्यमभवत्केन वा परिबोध्यते || पीठिका परमा शक्तिर्लिङ्गं साक्षात्परश्शिवः | शिवशक्तिसमायोगाद्विश्वं लिङ्गं तदुच्यते || विश्वाधिकत्वमीशस्य लिङ्गमूर्तेस्स्वभावजम् | अनन्यदेवसादृश्यं श्रुतिराह सनातनी || लीयन्ते यत्र गम्यन्ते ब्रह्मविष्ण्वादिनिर्जराः | तल्लिङ्गं परमं ब्रह्म सच्चिदानन्दलक्षणम् || प्रतिमाकारशून्यस्य लिङ्गस्य परमात्मनः | प्रतिमाकारदेवानां सादृश्यं कथमीर्यते || इत्यादिना तथा दर्शनाच्च | व्यास गौतम - दधीचि शापद धधूर्तकल्पितवाक्याना श्रुतिविरुद्धत्वेन न चात्र प्रामाण्यम् | तथा चेत्पाण्डुरङ्ग-रामेश्वर-श्रीशैलादिषु विष्णुप्रतिष्ठितलिङ्गानां तद्विष्णोरपि न सर्वोत्कृष्टत्वमुपपद्यते | तदङ्गीकारे बौद्धपाषण्डमतस्स्यात् | चरणशब्दस्यांध्रिपरत्वे चरणश्रुतिनिष्ठव्यापकत्वस्वयंप्रकाशत्वादिधर्माणां विरोधप्रसङ्गस्स्यात् | परमेश्वरधर्मबाहुल्यादाकाशप्राणादिशब्दवत्तस्य परमेश्वरपरत्वमेव | चर्यते भक्ष्यते जगत् येनेति चरणम् इदं स्थितेरप्युपलक्षणम् चरं जीवं मोक्षं नयतीति वा एष एव साधु कर्म कारयति इति श्रुतेः | उत्पत्तिस्थितिलयकारणमिति यावत् | तादर्थ्याल्लिङ्गं चरणशब्दवाच्यम् | लीयते गम्यते यत्र येन सर्वं चराचरम् इत्यादिना लिङ्गचरणशब्दयोः पर्यायत्वं सुस्थम् | अथ वीरशैवाष्टावरणानि - भस्म रुद्राक्षकं लिङ्गं गुरुर्मन्त्रं तथा चरः | पादोदकं प्रसादश्च शैवाष्टावरणानि हि ||
SK
इत्यादिवैदिकशिवागमसंस्काराभावाद्ब्रह्मविद्याङ्गशैवाष्टावरणानि सर्वथा तेषां न सम्भवन्ति | अवैदिकानां शैवाग्निसंस्काराभावात् | जाबालाद्युपनिषत्सिद्धशैवाग्निभस्मधारणं नोपदिश्यते | शिखायामेकमेकास्यम् इत्यादिना तेषां विध्युक्तशिखाशून्यत्वाद्रुद्राक्षधारणं न सम्भवति | पञ्चाक्षरीमन्त्रस्य श्रौतप्रकरणपठितत्त्वात्तेषां वेदोक्तचतुर्विधवर्णान्तर्भूतत्वाभावात् स्मृत्युक्ताष्टादशवर्णबाह्यत्वाच्च व्यत्यासक्रमेणापि तन्मन्त्रोपदेशानर्हत्वाच्च सोऽपि न सम्भवति | उपनयन संस्कारशून्यानां वेदबाह्यानां प्राणप्रतिष्ठादिवैदिकसंस्कारविधिः कथमुपपद्यते तदभावे लिङ्गस्याप्यभावात्तद्धारणपूजादिना सकलपापक्षयपूर्वकपरशिवत्वप्राप्तिः कथमुपपद्यते ब्राह्मणो वै सर्वा देवताः वर्णानां ब्राह्मणो गुरुः इत्यादिश्रुतिस्मृतिसिद्धब्राह्मणाचार्यत्वानङ्गीकारात् गुरुचरणतीर्थप्रसादचतुष्टयमपि न सम्भवति | घृतकोशातकी- pratīyate | tathā siddhāntāgame - āgamaṃ śivaliṅgasya śarīramiti kathyate | śrutirliṅgasya caitanyaṃ vedāntaḥ prāṇamīryate || tatsaṃskāravihīnatvālliṅgitvaṃ na hi sarvadā iti | śūdrāṇāṃ brahmavidyādhikāranirākaraṇam - kiñca - tattvamasyādi mahāvākyārthapratipāditaliṅgāṅgaikyaṃ kathaṃ bhavedvedabāhyānām apaśūdrādhikaraṇe - saṃskāraparāmarśāttadabhāvāmilāpācca iti sūtre brāhmaṇa-kṣatriya- शूद्राणां श्रुतिस्मृतिपुराणेतिहाससिद्धानामपि ब्रह्मविद्याधिकारस्य निषिद्धत्वात्किमन्येषां वक्तव्यम् तस्मात्पूर्वोक्तमेव समीचीनम् |
SK
ननु - रुद्रस्य परब्रह्मत्वं कथम् आपस्तम्बसूत्रे निऋरुत्यादिवत् रुद्राहुत्यनन्तरं अप उपस्पृश्य इत्यमङ्गलदेवतात्वनिर्देशात् इति चेन्न - तथात्वे मानाभावात् श्रौतशुण्ठत्वप्रसङ्गात् | तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् | पतिं पतीनां प्रथमं पुरस्ताद्विदाम देवं भुवनेशमीड्यम् एक एव रुद्रो न द्वितीयाय तस्थे असंख्यातास्सहस्राणि स्मर्यते न च दृश्यते विश्वाधिको रुद्रो महर्षिः शिवोऽद्वैत इत्यादि श्रुतिशतेषु परब्रह्मणश्शिवस्य अनन्यसामान्यदेवतात्वोपदेशात् | सर्वदेवताधिपतित्वादिधर्माणां तस्यैव निर्देशाच्च | तत्समीपे तद्भृत्यानां ब्रह्मविष्ण्वादीनां पूजार्हत्वासंभवात् रुद्रान्तर्धानार्थमपापरिषेचनं विधीयते | तदुक्तं यजुर्वेदे - अपः परिषिञ्चति रुद्रस्यान्तर्हित्यै इति न च निऋरुत्यादिप्रकरणपठिततेन निकृष्टत्वम् गोश्वग्निब्राह्मणान् स्पृष्ट्वा अप उपस्पृशेत् इत्यापस्तम्बसूत्रे प्रकरणैकत्वेन उत्कृष्टापकृष्टगोश्वाग्नीनामुपदेशात् | श्वयुवमघवन्शब्दानामुत्कृष्टापकृष्टवाचकानां एकसूत्रे निर्देशात् | किञ्च - रजस्वलाग्निगोविप्रान् पातिव्रत्यस्रियं तथा | शवामेध्यब्रह्मबन्धून् स्पृष्ट्वा स्नानं समाचरेत् || इति | वृद्धशातातपेऽपि रजस्वलासाहचर्येण गोविप्राणां निर्देशच्च न प्रकरणदोषः | तस्मान्तस्यैव ब्रह्मत्वम् | अथ शिवस्य परब्रह्मणः उपास्यत्वं नारायणस्य उपासकत्वं च | अत्रोक्त ब्रह्मलक्षणस्य नारायणेऽतिव्याप्तिमाशङ्क्य निराकरोति - || ३५ || अनुपपत्तेस्तु न शारीरः || ३ ||
SK
अत्र तु शब्दो निश्चयार्थः पूर्वोक्तशिवलिङ्गधारणमेव श्रोत्रियाणां ब्रह्मविद्योपास कानामवश्यं कर्तव्यम् | न शारीरः - पूर्वानुवाके सहस्रशीर्षं इत्यारभ्य सहस्रशीर्षत्वादिविशिष्टस्य नारायणस्य मूर्त्यात्मकत्वेन व्यपदेशात् | समुद्रेऽन्तं विश्वशम्भुवं इत्यादिना समुद्रशायित्वादिलिङ्गानां तस्यैव समुचितत्वात् तद्वाचकाच्युत हरिशब्दप्रयोगाच्च मूर्त्यात्मकनारायणात्मकश्शारीर एवात्रोपास्यो न भवति कुतः अनुपपत्तेः - निधनपतये नमः इत्यारभ्य सर्वलिङ्गं स्थापयति इत्यन्तं शिवलिङ्गस्य परब्रह्मत्वेन ध्यानधारणात्मकसर्वोपासनविषयत्वप्रकटनाय प्रतिपदनमस्कारपूर्वकं सर्वात्मकत्वप्रतिपादनात् | मूर्त्यात्मकस्य विष्णोस्तद्धर्माणामसम्भवात् | अप्रतिमाकारस्य लिङ्गस्यैव सर्वोपास्यत्वं सिद्धम् | शैवे - शिवशक्त्यात्मकं लिङ्गं चिद्रूपं पारमैश्वरम् | ब्रह्मविष्ण्वादिदेवानां ध्येयं धार्यं सनातनम् || लीयतेऽस्मिन् जगत्सर्वं जङ्गमस्थावरात्मकम् | गम्यते सृष्टिकाले तु तल्लिङ्घं ब्रह्मशाश्वतम् || इति व्युत्पत्या चरलिङ्गस्य महत्वं ब्रह्मलक्षणमुक्तम् | श्रुतिस्मृतिपुराणागमसिद्धत्त्वात्तद्धारणोपासनादिकं वैदिकम् | विष्णुविग्रहसालग्रामाद्युपासनस्य श्रौतविध्यभावात्तान्त्रिकत्वं सिद्धम् | किञ्च तत्प्रकरणपठितविश्वपतित्वादिपरमेश्वरधर्माणां नारायणे असम्भवात् पशूनां पतये वृक्षाणां पतये जगतां पतये इत्यादिश्रुतिशतेषु शिवस्यैव सकलभुवनाधिपतित्वव्यवस्थापनात् एको हि रुद्रो न द्वितीयाय तस्थुर्य इमान् लोकानीशत ईशनीभिः इति रुद्रव्यतिरिक्तस्य जगदीश्वरत्वस्य निरस्तत्वात् विश्वाधिको रुद्रो महर्षिः इति तस्यैव विश्वाधिकत्वश्रवणाच्च न विष्ण्वादीनां शारीराणां सर्वोपास्यत्वम् |
SK
नन्वेवं - नारायणोपासनाविधायकवाक्यानां का गतिः इति चेत् उच्यते - तत्त्वमसि श्वेतकेतो इत्यादिश्रुतिषु ब्रह्मोपासकानां श्वैतकेत्वादीनां ब्रह्मत्वोपदेशवत् नारायणस्य ब्रह्मत्वमुपदिश्य पद्मकोशप्रतीकाशं इत्यादिना तद्धृदयपुण्डरीकमुपदिश्य तस्य मध्ये वह्निश्शिखा इत्यादिना जीवस्वरूपं निर्दिश्य तस्याश्शिखायामध्ये परमात्मा व्यवस्थितः इति जीवान्तर्यामित्वेन च तस्योपास्यत्वं विधीयते स ब्रह्मा स शिवस्सेन्द्रः इत्यादिना तद्विभूतिरूपब्रह्मविष्णुरुद्रेन्द्रादि सर्वशब्दवाच्यत्वं निर्णीयते | तथा श्रुत्यन्तरेष्वपि ब्रह्मणो रुद्रस्य ब्रह्मविष्णुकालरुद्रातीतत्वं तत्कारणत्वं तच्छब्दवाच्यत्वं च श्रूयते | प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इति माण्डूक्ये सर्वातीतत्वं ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे सम्प्रसूयन्ते इत्यथर्वशिखायां उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् इत्यारभ्य स ब्रह्मा स शिवस्स हरिस्सेन्द्रस्सोऽक्षरः परमस्स्वराट् स एव विष्णुस्स प्राणस्स कालोऽग्निस्सचन्द्रमाः | स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् इत्यादिना सर्वशब्दवाच्यत्वव्यवस्थापनात् नान्यस्यात्रोपास्यत्वं सिध्यति | अथवाहं हरिस्साक्षात्सर्वज्ञः पुरुषोत्तमः | सहस्रशीर्षा पुरुषस्सहस्राक्षस्सहस्रपात् || इत्यारभ्य - ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं महेश्वरम् | नीलग्रीवं महात्मानं पश्यन्तं पापनाशनम् || इत्यादिना भगवता वादरायणेन सूतसंहितायां ध्यानयोगप्रकरणे व्याहृतत्त्वान्नान्यार्थो वैदिकः | स्मृत्यन्तरेऽपि - एवमुक्त्वा महाबाहुर्महायोगीश्वरो हरिः | दर्शयामास पार्थाय परमं रूपमैश्वरम् || इति | वामनपुराणे ततोऽव्ययात्मा स हरिः स्वहृत्पंकजशायिनम् | दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम् || इति | गीतायामपि ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति || इति | श्रुतिस्मृतिपुराणेषु नारायणस्योपासकत्वं शिवस्योपस्यत्वं च घण्टाघोषेण श्रुतम् |
SK
पुनर्हेत्वन्तर माह - || ३६ || कर्मकर्तृव्यपदेशाच्च || ४ || नात्रोपास्यो नारायणः - कुतः कर्मकर्तृव्यपदेशात् | नमो ब्रह्मणे धारणं मे अस्त्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ्वम् ममामुष्य ओम् इति पूर्वोक्तनारायणमन्त्रे ॐकारवाच्यशिवलिङ्गधारणात्मकोपासनकर्मकर्तृनारायणस्य व्यपदेशात् | परमशिवलिङ्गबाह्याभ्यन्तरधारणार्चनार्पणावधानात्मकोपासनमेव मुमुक्षूणां श्रौतानामावश्यकम् | यच्छन्दसामृषभो विश्वरूपः इत्यारभ्य श्रुतं मे गोपाय इत्यन्तं तथा श्रूयते | किञ्च - पद्मकोशप्रतीकाशं इत्यनेन प्रकृतस्य नारायणस्य दहरपुण्डरीकमुपदिश्य परमात्मा व्यवस्थितः इत्यन्तेन तदन्तर्वर्तित्वेन परमेश्वरस्य निर्देशात् ध्यातृत्वेन नारायणस्य ध्येयत्वेन च परमशिवस्य कर्मकर्तृत्वं निर्दिश्यते | अतो नारायणस्य शिवो पासकत्वं सिद्धम् | ननु - नमो ब्रह्मणे धारणं मे अस्तु इत् श्रुतौ देवतान्तरधारणविधायकप्रमाणाचाराभावेऽपि नारायणप्रतिनिधित्वेन शंखचक्रधारणस्य पाञ्चरात्रमतसिद्धत्वेन तद्धारणपरत्वं किं न स्यात् इति चेन्न - अनिराकरणं इत्यनेन निराकरणं हेयप्रपञ्चः तन्नभवतीत्यनिराकरणम् | उपादेयं ब्रह्मेत्यर्थलाभात् ब्रह्मलिङ्गशब्दयोः पर्यायत्वाच्च | अर्थाल्लिङ्गधारणसिद्धिर्निष्प्रत्यूहा | तद्वच्छंखधारणं न विधेयम् क्लिष्टार्थकल्पने मानाभावात् | अथ ब्राह्मणलक्षणम् मुखे मन्त्रो हृदि ध्यानं मस्तके लिङ्गधारणम् | शिखा सूत्रं तथा भस्म इति ब्राह्मणलक्षणम् || विभूतिर्यस्य नो फाले कण्ठे रुद्राक्षमालिका | मुखे षडक्षरीमन्त्रस्तं त्यजेदन्त्यजं यथा || उद्धूलनं त्रिपुण्ड्रं च मनसाऽपि न लंघयेत् | श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् || इति गौतम-शातातप-गारुडादिस्मृतिषु लिङ्गत्रिपुण्ड्रादिकस्य ब्राह्मलक्षणत्वेन तदतिक्रमणे प्रत्यवायजनकत्वेन च श्रवणात् |
SK
किञ्च - लिङ्गधारणस्य श्रुत्या सर्वोत्कृष्टत्वप्रतिपादनात् तान्त्रिकविधिना श्रौतानां प्रयोजनाभावाच्च तदुभयविध्यङ्गीकारो न युक्तः | त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते | धारयन्ति तु ये भक्त्या धारयन्ति तमेव ते || इति जाबाले तथा कालाग्निरुद्रोपनिषदि | अथवा भगवांस्त्रिपुण्ड्रविधिभिः इत्यादिसनत्कुमारप्रश्नोत्तरभूतात् तिर्यक्तिस्रो रेखाः प्रकुर्वीत इति वाक्यादनन्तरं त्रिरेखानां त्रिवेदात्मकाकारोकारमकारात्मकत्वस्य रुद्रमहेश्वरसदाशिवात्मकत्वस्य च प्रतिपादनाल्लिङ्गधारणस्यावश्यकत्वमत्यन्तपुण्यहेतुत्वं च विधेयमिति निश्चितम् | ननु - लिङ्गिनं चक्रिणं दृष्ट्वा इत्यादौ चक्रधारणवल्लिङ्गधारणस्यापि निषेधदर्शनात्कथं श्रौतपरिग्राह्यत्वं इति चेन्न - प्रभाकरप्रभायां दीपादिप्रकाशवत् तान्त्रिक विधिनिषेधयोः श्रौतविधौ अप्रकाशकत्वात् | निषेधानां वेदमूलकत्वाभावात्प्रामाण्यं नाशङ्कनीयम् | किञ्च - निषेधस्य तान्त्रिकत्वात् तप्तचक्राङ्कनप्रकरणपठितत्वाच्च तान्त्रिकतप्तलिङ्गधारणनिषेधपरत्वमिति पूर्वमेवोक्तम् | ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते त्वं देवानां ब्रह्मणानामधिपतिः विष्णुः क्षत्रियाणामधिपतिः त्वं देवेषु ब्राह्मणो ह्यहं मनुष्येषु ब्राह्मणः ब्राह्मणो वै ब्राह्मणमुपधावति यो वै स्वां देवतामतियजते इत्यादि श्रुतिषु ब्राह्माणां शिवदेवत्वस्य अन्यथा प्रत्यवायस्य च श्रवणात् | स्मृतिरपि - ब्राह्मणानां शिवो देवन्तस्मात्तत्पिण्डसम्भवः | ब्राह्मणस्येति विज्ञेयो नो चेदब्राह्मणो भवेत् || रुद्रपिण्डसमुद्भूतो रुद्रभूमिलयं गतः | पितरं नाभिजानाति तातं वेश्यासुतो यथा || ब्राह्मणो भगवान् रुद्रस्तस्मात्तत्पिण्डसम्भवः | ब्राह्मणश्चेति विज्ञेयो नात्र कार्या विचारणा || अतः संन्यासिनां वापि पुत्रः पार्वणमाचरेत् | मातापित्रोर्मृताहे तु न कुर्यात्पार्वणं यदि || बौद्धम्लेच्छादिवत्त्याज्यस्स्वलोके पतितो भवेत् |
SK
इत्यादिना ब्राह्मणोत्पत्तेः रुद्रपिण्डहेतुकत्वं रुद्रदेवतात्वं च निर्दिष्टम् | तस्मादितरदेवतादिलांछनादिकं ब्राह्मणानां न विधेयम् | चक्राङ्किततनुर्यत्र न तत्र दिवसं वसेत् | यदि तिष्ठेन्महापापी सहस्रब्रह्महा भवेत् || अज्ञानादथवा मोहाद्रामतो वा सुदर्शनम् | धत्ते कुलघ्नं तं दृष्ट्वा सचेलः स्नानमाचरेत् || यथा श्मशानगं काष्ठमनर्हं सर्वकर्मसु | तथा चक्राङ्कितो विप्रस्सर्वकर्मबहिष्कृतः || इत्यादिना शातातप-गारुड-शंख-विष्णुस्मृत्यादिषु तन्निषेधदर्शनाल्लिङ्गधारणपरत्वमेव युक्तम् | तदुक्तं ब्रह्माण्डपुराणे - नमोऽस्तु ब्रह्मणे तुभ्यं आचर्याय महात्मने | तन्निराकरणं विश्वं जन्यत्वान्मृत्युनैव हि || अनिराकरणं ब्रह्म कारणत्वाच्चिरन्तनम् | अनिराकरणं यत्तु धारणं देशिकोत्तमः || वेदशास्त्रपुराणेषु प्रसिद्धं कर्णयोश्श्रुतम् | अहं धारयिता देवं भूयासं सर्वकारणम् || ब्रह्मविष्ण्वादयो देवाः प्रसिद्धाश्च तथा स्मृताः | ते निराकरणास्सर्वे मृत्युना सर्वशत्रुणा || मे निराकरणास्त्वेते न हि धार्याः कदाचन | नाहं धारयिता देवान् भूयासं मज्जतस्सुरन् || न शक्नुवन्ति मां ततु मज्जन्तं मृत्युसागरे | ऊर्ध्वं ममेदम्ॐ लिङ्गं मां चामुष्य समाश्रय || इति अनिराकरणपदे भूतिरुद्राक्षयोः ओमिति लिङ्गस्य च त्रयाणामपि धारणस्य प्राधान्यं स्वयं सम्भवति | मेधावी भूयासं अहमेकः प्रथममासं इत्यत्रेव भूयासमित्यत्रापि विध्यर्थे आशीर्लिङ्विधीयते | जाबालकालाग्निरुद्राद्युपनिषत्सु शिवधारणद्योतनात्तत्प्रतिमाधारणं किं स्यादित्याशंक्याह - अथ लिङ्गदर्शनधारणयोः सर्वोत्कृष्टत्वप्रतिपादम् | || ३७ || शब्दविशेषात् || ५ ||
SK
ऊर्ध्वाय नमः इत्यारभ्य सर्वलिङ्गṁ स्थापयति पाणिमन्त्रं पवित्रं इत्यन्तेन लिङ्गस्यैवात्र सर्वात्मकत्वप्रतिपादनान्नारायणादिदेवताविग्रहोपासनं न कर्तव्यम् | कुतः शब्दविशेषात् | जिज्ञास्यब्रह्मलक्षणविधायकेन जन्माद्यस्य यतः यतो वा इमानि भूतानि जायन्ते इत्यादिना श्रुतिसूत्रप्रमाणेनोक्तस्य जगज्जन्मादिकारणत्वस्य लिङ्गश्ब्देनैव द्योतनात् | लीयते गम्यते यत्र येन सर्वं चराचरम् | तस्माल्लिङ्गं परं ब्रह्म कारणं सर्वमव्ययम् || इति स्मृतेश्च | यस्मिन् चराचरप्रपञ्चः प्रयुङ्क्ते विलीयते पुनस्सृष्टिकाले यस्माद्बहिर्गच्छतीति तल्लिङ्गं प्रपञ्चोत्पत्तिस्थितिलयाधारं परं ब्रह्मेत्यभिधीयते | पुराणेष्वपि लिङ्गधारणपूजादिकमेव बहुधा श्रूयते | स्कनदे-शंकरसंहितायां - रुद्रो भूत्वा यजेद्रुद्रं नारुद्रो रुद्रमर्चयेत् | प्राणलिङ्गेन सम्बधी स रुद्रो नात्र संशयः || क्रिमिकीटपतङ्गेभ्यः पशवः प्रज्ञयाधिकाः | पशुभ्योऽपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || ब्राह्मणेषु च विद्वांसो विद्वत्सु क्रतुबुद्धयः | क्रतुबुद्धिषु कर्तारस्तेभ्यस्संन्यासिनोऽधिकाः || तेषु विज्ञानिनः श्रेष्ठास्तेषु शङ्करपूजकाः | तेषु श्रेष्ठा महाभाग मम लिङ्गाङ्गसंगिनः || लिङ्गाङ्गसङ्गिष्वधिकष्षट्स्थलज्ञानवान् पुमान् | तस्मादभ्यधिको नास्ति स एवाहं न संशयः || ब्रह्मविष्ण्वादयो देवा मुनयो गौतमादयः | धारयन्ति सदा लिङ्गमुत्तमाङ्गे विशेषतः || उरस्थले हरिर्लिङ्गं धृत्वा मूर्ध्नि पितामहः | लिङ्गस्थं मां समाराध्य स्वं स्वं पदमवापतुः || यत्र तिष्ठति लिङ्गाङ्गसङ्गी शिवपरायणः | निमिषं निमिषार्धं वा तच्छिवक्षेत्रमुच्यते || लिङ्गाङ्गसङ्गिनः पुंसो ये दुर्विषयवासिनः | ते सर्वपापनिर्मुक्ता यास्यन्ति परमां गतिम् || लिङ्गाङ्गसङ्गिनं मर्त्यं लिङ्गध्यानपरायणम् | अनुव्रजति यो मर्त्यस्सोऽपि मुक्तिमवाप्नुयात् || धृतलिङ्गस्य मर्त्यस्य पादप्रक्षालनोदकम् | पापशुध्यर्थमज्ञानं तद्धार्यं शिखिवाहन ||
SK
प्राणलिङ्गैकनिष्ठस्य देहं स्पृष्ट्वा समीरणः | यत्र गच्छति तत्रस्था मर्त्या मुक्ता न संशयः || युगवच्छिवलिङ्गैक्यपादस्पृष्टरजांसि च | पतन्ति मस्तके यस्य स मुक्तो नात्र संशयः || अन्नं वा जलमात्रं वा यद्दत्तं लिङ्गधारिणे | तदन्नं मेरुसदृशं तज्जलं सागरोपमम् || लिङ्गाङ्गसङ्गं कुर्वन्तं दृष्ट्वा द्विजवरं रविः | स्थानाच्चलत्ययं भित्वा मण्डलं मे व्रजेच्छिवम् || शिवलिङ्गाङ्गसम्बन्धभाजां दर्शनमात्रतः | मुक्तिं गच्छन्ति मनुजाः पशुपक्षिम्र्गादयः || इत्यादिना लिङ्गदर्शनधारणयोस्सर्वोत्कृष्टत्वप्रतिपादनान्न विग्रहधारणं विधीयते | किञ्च - नारायणपरं ब्रह्म इति वाक्ये नारायणात्परं ब्रह्मेत्युपदिश्यते | समिधो यजति इत्यादिदर्शपूर्णमासप्रकरणपठितवाक्यावगतानां प्रयाजानां दर्शपूर्णमासाङ्गत्ववत् नारायणप्रकरणपठितस्य हृदयस्य नारायणसंबन्धित्वमुच्यते | अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः | तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् इत्युपक्रमे शिवैकबोधकानामीशादिशब्दानां मुख्यत्वेन व्यपदेशात् | उत्पत्तिशिष्टशिवप्रशंसायास्तत्परत्वं विधीयते | विश्वाधिको रुद्रो महर्षिः यः परः स महेश्वरः इति मध्येऽपि शिवप्राचुर्यं ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः इत्यन्तेऽपि प्रचुरशिवप्रशंसाकथनादभ्यासतात्पर्यमिति गीयते | विश्वाधिकत्वादिलक्षणानामनन्यसाधारणत्वात्तदेवापूर्वमित्युच्यते | परामृतात्परिमुच्यन्ते सर्वे इत्यन्तेन फलं व्यपदिश्यते |
SK
सहस्रशीर्षं इत्यनुवाके नारायणप्रशंसा ह्यर्थवादतात्पर्यमित्यवगम्यते | यस्मात्परं नापरमस्ति किञ्चित् इत्यनेनोपपतिः | एवं साङ्गतात्पर्येण शिवपरत्वावगमान्नान्यपरत्वम् | न च सहस्रशीर्षानुवाक एवात्रोपक्रमः | उपसंहारानुवाकगतोमापतित्वादिधर्माणां नारायणे असमञ्जसत्वात् | किञ्चोपक्रमे अणोरणीयान् इति मन्त्रे सर्वचेतनगुहाशयत्वमीश्वरस्य प्रसाध्य तदनुग्रहादेव सर्वेषां दुःखनिर्मुक्तत्वमुपदिश्य सप्त प्राणाः प्रभवन्ति इत्यारभ्य पूर्णं पुरुषेण सर्वं इत्यन्तेन सृष्ट्यादिप्रवृत्तिधर्मात्मकत्वं तस्य प्रदर्श्य न कर्मणा न प्रजया धनेन इत्यादिना निवृत्तिलक्षणधर्मप्रशंसामुपक्रम्य परेण नाकं निहितं गुहायां इत्यादिना तदुपासनाधिकारित्वं यतीनां निरूप्य परामृतात्परिमुच्यन्ति सर्वे इत्यनेन तदुपासकस्य मोक्षफलं विधाय दहरं विपाप्मं इत्यादिना तदुपासनस्थानमभिधाय यो वेदादौ स्वरः प्रोक्तः इत्यादिना तत्रोपास्यत्वं महेश्वरस्य निर्दिश्य ऋतṁ सत्य इत्यनेनोपासनाया गुणविषयत्वेन परमशिवधर्माणामसाधारणानामतिशायितत्वं प्रदर्श्य तदर्थवादप्रशंसायां विशेषोपासकत्वेन यतीन्द्रत्वेन शिवभक्ताग्रग्रण्यत्वेन सहस्रशीर्षानुवाके नारायणस्यैव मुख्याधिकारित्वं निरूप्य तत्र नारायणं महाज्ञेयं इत्यादिना नारायणं प्रस्तुत्य पद्मकोशप्रतीकाशं इत्यादिना तध्दृदयपुण्डरीकं व्यपदिश्य तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः इत्यनेन परमेश्वरस्य तध्दृदयपुण्डरीकान्तर्वर्तित्वमुपदिश्य आदित्यो वा एष एतन्मण्डलं तपति इत्यनेन प्रभाकरमण्डलस्तुतिं कृत्वा य एषोन्तरादित्ये हिरण्मयः पुरुषः इत्यनेन रुद्रस्य परब्रह्मणः तन्मण्डलस्थितिं प्रसाध्य ततः पञ्चब्रह्ममन्त्रैरुपास्यस्य महेश्वरस्य सर्वेश्वरत्वादिधर्मान् दर्शयित्वा नमो हिरण्यवाहवे इत्यादिना पवनादिवन्मूर्तामूर्तत्वं व्यपदिश्यते | तथा च स्मृतिः - नारायणेन यतिना पद्मगर्भो महामुनिः | ज्ञात्वा शिवैकविज्ञानं वसिष्ठायोपदिष्ठवान् || इति |
SK
तथा स्कान्दे शिववचनम् - नारायणात्परो भक्तो मम नास्ति वरानने | भार्यात्वं वृषभत्वं च बाणत्वमगमत्पुरा || इति | अश्वत्थामानं प्रति शिववचनम् - अहं यथा वराराध्यः कृष्णेनाक्लिष्टकर्मणा | तस्मादिष्टमतः कृष्णादन्यो मम न विद्यते || इति | सौरसंहितायां च - शिवस्य परतत्त्वार्थं स्वयं ज्ञात्वा शिवस्तथा | उवाच विष्णवे विष्णुः पद्मगर्भाय प्रोक्तवान् || चतुर्मुखो वसिष्ठाय वसिष्टश्शक्तये तथा | पराशराय शक्तिश्च व्यासाय च पराशरः || इत्यादिना नारायण-परमेश्वरयोः उपासकोपास्यत्व-शिष्यत्व- nārāyaṇasya anitarasādhāraṇadaharāvacchinnajyotirliṅgānusaṃdhānasāmarthyaliṅgena yacca kiṃcijjagatyasmin dṛśyate śrūyate'pi vā | antarbahiśca tatsarvaṃ vyāpya nārāyanaḥ sthitaḥ | iti parameśvaraniṣṭhavyāpakatvādidharmāṇāṃ tattvamasi śvetaketo tvaṃ brahmāsi ityādivannārāyaṇaparatvena stutiryuktā | sarvopādānatvātsarvāntaryāmitvācca sarvātmakatvaṃ sarvaśabdavācyatvaṃ na parameśvarasyaiva samucitam | devā ha vai svargaṃ lokamagaman te devā rudramapṛcchan ko bhavāniti so'bravīdahamekaḥ prathamamāsaṃ vartāmi ca bhaviṣyāmi ca | nānyaḥ kaścinmatto vyatiriktaḥ ityārabhya yo vai rudrassa bhagavān yaśca brahmā yaśca viṣṇuryaśca maheśvaraḥ ityādinā atharvaśirasi sa eva viṣṇuḥ sa prāṇaḥ iti kaivalyaśrutau ca tasyaivāntaryāmitvanirdeśāt | muṇḍaka-māṇḍūkya-chāndogya-kaivalya-taittirīyādiṣu paraśivasya daharopāsyatvakathanāttasyaiva tatsamucitamastu | pavitrasya parameśvarasya apavitravāmahastasthitivirodhātsarvaliṅgavādhaye śarīre liṅgadhāraṇaṃ na vidhīyata ityāśaṅkāyāmāha - || 38 || smṛteśca || 6 || sarvaliṅgaṁsthāpayati pāṇimantraṃ pavitraṃ iti vākye pāṇiliṅgadhṛtissarvathā na vyapadiśyata iti cenna - kutaḥ smṛteśca | kṛte tu mānavo dharmastretāyāṃ gautamasmṛtiḥ | dvāpare śaṃkhalikhitau kalau pārāśarasmṛtiḥ ||
SK
इत्यादिस्मृतिनिर्दिष्टकृतादियुगचतुष्टयप्रसिद्धमन्वादिस्मृतिषु ब्राह्मणानां शिवलिङ्गधारणविधायकस्मृतेश्च न देवतान्तरधारणोपासनं वैदिकानामङ्गीकर्तव्यमित्यर्थः | तथा हि मनुस्मृतौ - अक्षपादादयस्सर्वे शक्तयः परया मुदा | धारयन्त्यलिकाग्नेषु शिवलिङ्गमहर्निशम् || इति | तत्रैव ध्यानयोगिनिरूपणे - शिवध्यानपरो भूत्वा शिवलिङ्गाङ्गसंयुतः | शिवेतरपरित्यागी ध्यानयोगी स उच्यते || इति | गौतमस्मृतौ - मुखे मन्त्रं हृदि ध्यानं मस्तके लिङ्गधारणम् | रुद्राक्षं च तथा भस्म एतद्ब्राह्मङ्लक्षणम् || अन्तर्धारयितुं लिङ्गं अशक्तश्शक्त एव वा | बाह्यन्तु धारयेल्लिङ्गं तद्रूपमिति निश्चयात् || इति | शंखस्मृतौ - कीटो भ्रमरयोगेन भ्रमरो भवति ध्रुवम् | मानवश्शिवयोगेन शिवो भवति सर्वदा || वामहस्तस्थितं लिङ्गं सावधानेन पूजयेत् | मस्तके हृदये कण्ठे धारयेत्सर्वदा द्विजः || इति | पाराशरस्मृतौ - काश्यां मृतानां जन्तूनां यतीनां लिङ्गधारिणाम् | ब्रह्मत्वमेव भवति प्रेतत्वं न हि विद्यते || शैवलिङ्गार्चनं यस्य यस्य चाग्निपरिग्रहः | वानप्रस्थयतीनां च शरीरे नास्ति सूतकम् || पूजयेद्यस्तु हस्तादौ शिवलिङ्गं शिवात्मकम् | तस्य हस्तस्थिता मुक्तिश्शङ्करस्य प्रसादतः || इति | आनुशासनिकपर्वणि च - किमाहुर्भरतश्रेष्ठ पात्रं विप्रास्सनातनम् | अब्राह्मणं लिङ्गिनं च ब्राह्मणं चाप्यलिङ्गिनम् || इति युधिष्ठिरप्रश्ने - sadvṛttimapi vijñāya liṅgine cetarāya ca | deyamāhurmahārāja ubhāvetau tapasvinau || iti bhīṣmavacanam | laiṃge - vedeṣu śāstrasaṃgheṣu purāṇeṣvāgameṣu ca | brāhmaṇasya samākhyātaṃ liṅgadhāraṇamuttamam || ityārabhya - yajurapyāha sarvaṃ vai liṅgaṃ sthāpayatīti ca | tasmāddhāryaṃ mahāliṅgaṃ pānimantreti mantrataḥ || ityādiśrūyate | atha paraśivasya brahmaṇaḥ aikyādiṣaṭsthaleṣu ṣaḍliṅgātmakatvapratipādanam - siddhāntāgame - śrutismṛtipurāṇeṣu vaidikānāṃ varānane | liṅgadhāraṇamākhyātaṃ sarvasiddhipradāyakam ||
SK
चिच्छक्तिर्निधनाख्याता लयाधिष्ठानतत्त्वतः | तदङ्गत्वान्महेशस्य तत्पतित्वं विधीयते || निधनाधिपतिः कालरुद्रो विश्वलयाधिपः | तस्यान्तकत्वं हंतृत्वं शिवस्यैव निरूप्यते || तत्त्वानां महदादीनामूर्ध्वदेशप्रचारतः | तदोर्ध्वायेति वाक्येन प्रधानं परिगीयते || ऊर्ध्वलिङ्गायेति वाक्ये सदाशिव इतीर्यते | कारणाङ्गं तथा प्रोक्तं हिरण्यायेति वाक्यतः || हिरण्यलिङ्गवाक्येन भावलिङ्गं प्रचक्षते | सुवर्णायेति वाक्येन सूक्ष्मदेहः प्रबोध्यते || सुवर्णलिङ्गवाक्येन प्राणलिङ्गं प्रचक्षते | नमो दिव्यायेति वाक्ये स्थूलदेहः प्रतीयते || दिव्यलिङ्गायेति वाक्ये स्वेष्टलिङ्गं विधीयते | ऐक्यस्थलं तथा प्रोक्तं भवायेति पदेन हि || भवलिङ्गायेति वाक्ये महालिङ्गं भवेत्तथा | नमश्शर्वायेति वाक्ये शरणस्थलमीरितम् || प्रसादलिङ्गमाख्यातं शर्वलिङ्गपदे शिवे | प्राणलिङ्गिस्थलं प्रोक्तं शिवायेति पदेन हि || शिवलिङ्गायेति वाक्ये चरलिङ्गं प्रदर्शितम् | नमो ज्वलायेति वाक्ये प्रसादस्थलमुच्यते || ज्वललिङ्गायेति वाक्ये शिवलिङ्गं तथा स्मृतम् | नम आत्मायेति वाक्ये माहेश्वरपदं तथा || आत्मलिङ्गायेति वाक्ये गुरुलिङ्गं तदुच्यते | भक्तस्थलं समाख्यातं परमायेति वाक्यतः || आचारलिङ्गमाख्यातं परमलिङ्गपदेन वै | एतत्सोमस्य मित्रस्य मण्डलान्तरवर्तिनः || सोमस्य पार्वतीशस्य लिङ्गं भवभयापहम् | सर्वेषु भक्तदेहेषु स्थाप्यं वै गुरुणा सदा || पवित्राणां पवित्रत्वात्पवित्रमिति कथ्यते | तस्माद्धार्यं सदा लिङ्गं पानिमात्रेति मन्त्रतः || पाणौ लिङ्गं समासाद्य दीक्षाकाले गुरुश्शिवम् | मननात्पूजनाद्भक्तान् त्रायतीति निरुक्तितः | पाणिमन्त्रमिति प्रोक्तं तल्लिङ्गं ब्रह्म शाश्वतम् || पञ्चब्रह्ममन्त्राणां षट्त्रिंशत्तत्त्वरूपत्वप्रतिपादनम् - षट्त्रिंशत्तत्त्वरूपत्वं तल्लिङ्गस्यैव सर्वदा | पञ्चब्रह्माभिधैर्मन्त्रैः प्रोच्यते परमार्थतः || सद्योजातस्वरूपाय भूतत्त्वाय नमोऽस्तु ते | सद्योजाताय शर्वाय जलतत्त्वाय ते नमः ||
SK
भवे भवे महालिङ्गरूपिणे वह्निमूर्तये | तथा नातिभवे वायुतत्त्वरूपाय ते नमः || नमो भवस्व मां व्योमरूपिणे शूलपाणये | भवोद्भवाय सोमाय गन्धतत्त्वाय ते नमः || वामदेवाय रुद्राय रसतत्त्वाय ते नमः | ज्येष्ठाय शिवरूपाय रूपतत्त्वाय ते नमः || श्रेष्ठाय हररूपाय स्पर्शतत्त्वाय ते नमः | रुद्राय वामदेवाय शब्दतत्त्वाय ते नमः || नमः कालाय शर्वाय पायुतत्त्वात्मने नमः | गुह्यतत्त्वाय कलविकरणाद्य नमोऽस्तु ते || पादतत्त्वाय बलविकरणाय नमोऽस्तु ते | नमो बलाय शान्ताय पाणितत्त्वाय ते नमः || नमो वाक्तत्त्वरूपाय बलप्रमथनाय ते | नासात्मने सर्वभूतदमनाय नमोऽस्तु ते || ममोन्मनाय भीमाय जिह्वातत्त्वात्मने नमः | अघोरेभ्यो नमश्चास्तु चक्षुस्तत्त्वाय ते नमः || नमश्चास्त्वथ घोरेभ्यस्त्वक्तत्त्वाय नमोस्तु ते | घोरघोरतरेभ्यस्तु श्रोत्रतत्त्वाय ते नमः || सर्वेभ्यश्च नमश्चाहंकारतत्त्वाय ते नमः | नमश्च सर्वशेवेभ्यश्चित्ततत्त्वाय ते नमः || नमस्ते रुद्ररूपेभ्यो बुद्धितत्त्वाय ते नमः | तत्पूरुषाय नमश्चास्तु मनस्तत्त्वाय ते नमः || महादेवाय सोमाय जीवतत्त्वाय ते नमः | तन्नो रुद्राय भीमाय नमः प्रकृतिरूपिणे || ईशानाय महेशाय रागतत्त्वाय ते नमः | सर्वविद्यास्वरूपाय विद्यातत्त्वात्मने नमः || ईश्वरया नमश्चास्तु कलातत्त्वात्मने नमः | सर्वभूताधिपतये नमो नियतिरूपिणे || ब्रह्माधिपतये तुभ्यं कालतत्त्वाय ते नमः | ब्रह्मणोऽधिपतये तुभ्यं मायातत्त्वाय ते नमः || महेश्वरात्मने तुभ्यं ब्रह्मणे च नमो नमः | शिवरूपाय साम्बाय सदाशिव वपुर्धृते || सदाशिवस्वरूपाय शक्तितत्त्वात्मने नमः | शिवतत्त्वात्मने तुभ्यमोङ्काराय नमो नमः || षट्त्रिंशत्तत्त्वरूपस्य लिङ्गस्य परमात्मनः | सकलत्वं निष्कलत्वं प्रोक्तमुत्तरतः श्रुतेः || तस्माल्लिङ्गं सदा धार्यं यावज्जीवाग्निहोत्रवत् || इति | तस्मात्पाण्यादौ लिङ्गधारणं न विरुद्धम् |
SK
किञ्च - करणतया स्वतन्त्रविध्यन्तररहितस्य सौत्रामणीवृहस्पतिसवनादेरग्निचयनवाजपेयाद्यङ्गत्वेन तदुभयबलादुभयसिद्धिवत् अत्र नाराणानुवाके दहरं विपाप्यं इत्युपक्रम्य ज्योतिर्लिङ्गानुसन्धानरूपान्तर्लिङ्गधारणं प्रसाध्य निधनयतये नमः इत्यारभ्य पाणिमन्त्रं पवित्रं इत्यन्तेन परब्रह्मणश्शिवस्य बाह्यधारणस्यापि व्यवस्थापनादुभयबलादुभयसिद्धिर्घण्टाघोषः | वामपाण्यधिकरनकलिंगपूजादेः श्रोतत्वप्रतिपादनम् - वामकरस्य निकृष्टत्वात्तत्र परमेश्वरस्य धारणपूजादिविधायकत्वं श्रौतानां न सम्भवतीति यदुक्तं तत्तुच्छत् | श्रौतशुण्ठत्वप्रसंङ्गात् | अञ्जलिना वा पिबेदखर्वेण पात्रेण इति श्रुतौ पाण्यवच्छिन्नाञ्जलिविधायकत्वेन ब्रह्मयज्ञपितृतर्पणाङ्गत्वेन नमस्काराङ्गत्वेन च वामहस्तस्य श्रौताङ्गत्वदर्शनान्नत्वपावित्र्यप्रसङ्गः | तस्माच्छ्रुतिस्मृत्यादिसिद्धत्वात्पाणिलिङ्गधारणपूजादिकं श्रौतानां सिद्धमेव | अत एव लैङ्गे - लिङ्गस्य धारणादेव पशुत्वं विनिवार्यते | नान्यथा बहुयत्नेन जन्मकोटिशतैरपि || ये लिङ्गधारिणो लोके ते भक्ता इति कीर्तिताः | तदन्ये पशवः प्रोक्तास्तस्मात्पाशुपतं चरेत् || ब्रह्मविष्ण्वादिदेवाश्च मुनयो गौतमादयः | लिङ्गस्य धारणादेव पशुत्वविनिवारिताः || इत्युक्तम् | अथ परमेश्वरस्य स्थूलसूक्ष्मकारणशरीराद्युपाधिवशादिष्टालिङ्गत्रयात्मना परिच्छिन्नत्वनिरूपणम् - सर्वगतस्य परमेश्वरस्याल्पप्रदेशविशेषकल्पनायोगादत्र दहराद्युपासनं देवतान्तरविषयमित्याशंकायामाह - || ३९ || अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च || ७ ||
SK
अर्भकं अल्पं ओकः स्थानं यस्य तस्य भावस्तस्मात् अर्भकौकस्त्वात् | पद्मकोशप्रतीकाशं इति सर्वलिङ्गṁ स्थापयति पाणिमन्त्रं पवित्रम् इति च बाह्याभ्यन्तरेष्वल्पप्रदेशविशेषनिर्देशात् तद्व्यपदेशाच्च | तस्य परिच्छिन्नत्वव्यपदेशाच्च | नीवारशूकवत्तन्वी पीताभास्वत्यणूपमा | पाणिमन्त्रं पवित्रं इत्यादिना वह्निशिखान्तर्वर्तित्वेन पाण्यधिकरणकलिङ्गरूपत्वेन च परिच्छिन्नत्वव्यपदेशाच्च न सर्वगतः परमेश्वर इहोपदिश्यत इति चेन्न - एवं भक्तानुग्रहार्हं सूक्ष्मज्योतिर्लिङ्गात्मना गुहारूपदहरपुण्डरीके पञ्चसूत्रकृतस्थूललिङ्गरूपेण हस्ततले च निच्चाय्यत्वात् स्थूलसूक्ष्मलिङ्गरूपेण ध्यातुंशक्यत्वात् व्यापकस्य शिवस्य ब्रह्मणः ध्यानधारणाद्युपासनायाश्शक्यत्वात् तत्र दृष्टान्तमाह - व्योमवच्च | यथा सर्वगतमपि व्योम जालिकासूचिकारन्ध्राद्यवच्छेदेन परिच्छिन्नं तथा परमेश्वरोऽपि स्थूलसूक्ष्मकारणशरीराद्युपाधिवशादिष्टालिङ्गत्रयात्मना परिच्छिन्नः स्वतो व्यापक इत्यर्थः | नैतावता सर्वगतत्वहानिः तथा श्रुत्यन्तरेष्वपि श्रूयते - अङ्गुष्ठमात्रः पुरुषो ह्यङ्गुष्ठं च समाश्रितः | ईशस्सर्वस्य जगतः प्रभुः प्रीणति विश्वभुक् || हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् | अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् || बालाग्रमात्रं हृदयस्य मध्ये विश्वेदेवं जातवेदसं वरेण्यम् | तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिश्शाश्वती नेतरेषाम् || अन्तर्बहिर्धारितं लिङ्गं परब्रह्माभिधेयं शाम्भवं अन्तर्धारणशक्तो वा ह्यशक्तो वा द्विजोत्तमः | संस्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरस्थले || धार्यं विप्रेण मुक्त्यर्थमेवं वेदविदो विदुः || कण्ठे करे मस्तके सन्निवेश्य चोमे तत्पाणिमन्त्रं पवित्रम् अयं मे हस्तो भगवानयं मे भगवत्तरः | अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः || अयं माताऽयं पिताऽयं जीवातुरागमत् | इदं तव प्रसर्पणं सुबन्धवेहि निरीहि || इति |
SK
अतो व्यापकस्य परिच्छिन्नत्वं न विरुध्यते | भस्मधारणस्य श्रौतत्वप्रतिपादनम् ननु - परमेश्वरधारणोपासनाप्रथमाङ्गभस्मधारणस्य श्रुतिस्मृतिविध्यदर्शनान्न तस्य श्रौतत्वम् | शिष्टाचारमात्रविषयत्वे अन्धपरंपराप्रसङ्गः | प्रमाणपरिग्रहे नित्यम् नैमित्तिकं काम्यम् वा नाद्यः - अकरणे प्रत्यवायादर्शनात् | न द्वितीयः निमित्ताश्रवणात् | न तृतीयः पशुकामः पुत्रकामो भस्म धारयेत् इत्यधिकारिविशेषविध्यभावात् | अस्ति विधानमिति चेत् कथं तस्य निषेध उपपद्येत विहिते निषेधासम्भवात् | विधिनिषेधयोस्तमःप्रकाशवत्परस्परविरुद्धस्वभावत्वात्तयोस्तुल्यवबलत्वं न सम्भवति | स्मृति सूत्रनिषेधवाक्यबाहुल्यात्तन्निषेधस्यैवाधिकबलत्वं सिद्धम् | तथा हि - सच्चरित्रदीक्षायां गौतमवचनम् - भस्मतुषकपालामेध्यानि नाधितिष्ठेत् इति | भस्मतुषाधिष्ठाने पादस्य प्रक्षालनं इति आपस्तम्बसूत्रे - धूपाग्निं दीपतैलं च भस्म चास्थि रजस्वलाम् | एतानि ब्राह्मणस्स्पृष्ट्वा सवासा जलमाविशेत् || इति शंखस्मृतौ च निषेधदर्शनात् | आग्नेयं भस्मना स्नानं वायव्यं गोरजःस्मृतम् | इति स्नानकरणतया निर्देशाक्तस्य विधिरिति चेत् | स्नानमात्रे तस्य शुचित्वं अन्यथा निषेधवाक्यानां दुर्निवारत्वात् | अग्निः इत्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेत् इत्यन्तेन समन्त्रकभस्मधारणस्याथर्वशिरसि व्यपदेशात्सर्वथा विहितमेवेति चेत् तदपि व्रतमेतत्पाशुपतं पशुपाशविमोक्षाय इति तत्र विधीयमानपाशुपतव्रताङ्गत्वदर्शनान्न सार्वत्रिकभस्मधारणमुपदिश्यते तस्मान्न श्रौतपरिग्राह्यम् - इति चेत् - अत्र ब्रूमः - ऋग्वेदे - त्रियायुषं उअमदग्नेः कश्यपस्य त्रियायुषम् | यद्देवानां त्रियायुषं तन्मे अस्तु त्रियायुषम् इति | जाबालोपनिषदि स एष भस्म ज्योतिः त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव हि | धारयन्ति तु ये भक्त्या धारयन्ति तमेव ते || इति | श्वेताश्वतरोपनिषदि - मानस्तोकेऽपि मन्त्रेण मन्त्रितं भस्म धारयेत् |
SK
ऊर्ध्वपुण्ड्रं भवेत्साम मध्यपुण्ड्रं यजूंषि च | अधः पुण्ड्रमृचस्साक्षात्तस्मात्पुण्ड्रं त्रियायुषम् || इति | भूत्यै न प्रमदितव्यम् इति - यजुर्वेदे - विरजा विपाप्मा इति नारायणानुवाके श्रूयते | भूत्यै न प्रमदितव्यं इत्यत्र न चैश्वर्यपरत्वम् | आचर्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः इति पूर्ववाक्ये प्राकृतैश्वर्यलक्षणावबोधकधनाहरणविधानदर्शनाद्भूतिशब्दस्य भस्मपरत्वमेव | बोधायनसूत्रे - अथातस्त्रिपुण्ड्रविधिं व्याख्यास्यामः भूत्यै न प्रमदितव्यमिति हि विज्ञायते इति | मानवपुराणे - भूत्यैवाग्निं समुत्थाय त्वया देहावकुण्ठनम् | ललाटे हृदि दोर्द्वन्द्वे त्रिपुण्ड्रस्य च धारणम् || नैव प्रमदितव्यं च तथा लोकाक्षरस्मृतिः || इत्यादि श्रूयते | सामशाण्डिल्यशाखायां - विभूतिं वामहस्तेन परिगृह्य दक्षिणहस्तेन रौद्रमुद्रया सम्यगाच्छाद्य सद्योजातादिपञ्चब्रह्ममन्त्रैः पञ्चवारमेकवारं वाऽभिमन्त्र्य ईशान इति मस्तके तत्पुरुषायेति मुखे अघोरेभ्य इति हृदये वामदेवायेति कट्यां सद्योजातमिति पादयोः प्रणवेन सर्वाङ्गमभिषिच्य इत्यादिना तद्विधिर्बहुधा श्रूयते - साममैत्रेयशाखायां च - मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा || भस्मच्छन्नो भस्मशय्या शयानो रुद्राध्यायी मुच्यते सर्वपापैः || इति सुरापानादिमहापातकानामपि प्रायश्चित्तं भस्मधारणमेवेति प्रतिपादितम् | अथर्वशिरसि - अग्निरिति भस्म इत्यरभ्य मन एतानि चक्षूṁषि भस्म इत्यन्तेन भस्मनस्सर्वात्मकत्वमुपदिश्यत ततः अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेत् इति | वृद्धशातातपे तदकरणे प्रत्यवायश्च श्रूयते - विभूतिर्यस्य नो फाले कण्ठे रुद्राक्षमालिका | मुखे पञ्चाक्षरो मन्त्रस्तं त्यजेदन्त्यजं यथा || इति | मारुडस्मृतौ च - त्रिपुण्ड्रं सुरविप्राणां वर्तुलं नृपवैश्ययोः | अर्धचन्द्रन्तु शूद्राणां अन्येषामूर्ध्वपुण्ड्रकम् || इति | शातातपे -
SK
ऊर्ध्वपुण्ड्रं मृदा कुर्याल्लीलयापि कदाचन | तदाकारेण शस्त्रेण पीड्यते यमकिङ्करैः || ऊर्ध्वपुण्ड्राङ्कुशाश्वत्थपत्रवर्तुलरूपधृत् | त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः || इति | अङ्कितश्शंखचक्राद्यैश्शरीरे देवतायुधैः | त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः || इत्यादिना शंखचक्रोर्ध्वपुण्ड्रधारिणां ब्राह्मणाधमानां भस्मधारणमेव प्रायश्चित्तं नान्यदिति गौतमस्मृतौ प्रतिपादितम् | जाबाले - अथाचारं शृणुष्ण्वावहितः अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेत् तत्रोपरि त्रिपुण्ड्रं धारयेद्ब्राह्मणानामयं धर्मः इति | वृद्धशातातपे - त्रिपुण्ड्रेण विना सन्ध्या त्रिपुण्ड्रेण विना जपः | त्रिपुण्ड्रेण विना श्राद्धं राक्षसं परिकीर्तितम् || त्रिपुण्ड्रं ब्राह्मणो विद्वान् मनसापि न लंघयेत् | श्रुत्या विधीयते यस्मात्तत्यागी पतितो भवेत् || इति | तदेवं बहुश्रुतिस्मृतिपुराणागमसिद्धत्वेन भस्मधारणस्य श्रौतविधिविषयत्वं निष्प्रत्यूहम् | ननु कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ इत्यादिना भस्मधारणविधिर्बहुधा प्र्तिपाद्य कालाग्निरुद्रोपनिषद उपसंहारे - त्रिपुण्ड्रं भस्मना करोति यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स समस्तपातकोपपातकेभ्यः पूतो भवति स सर्वान् देवान् ध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति इत्यादिना भस्मधारणस्य फलव्यपदेशात् अकरणे प्रत्यवायानुदेशाच्च न नित्यविधिविषयत्वम् इति चेन्न - अग्निहोत्रं जुहुयात्स्वर्गकामः ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादौ नित्याग्निहोत्रज्योतिष्टोमादीनामपि फलव्यपदेशात् तेषामपि नित्यविधिविषयत्वं न स्यात् | अग्निहोत्रादिकर्मणां एष देवानां योऽग्निमुद्वासयति इत्यादावकरणे प्रत्यवायश्रवणान्नित्यविधिविषयत्वं निष्प्रत्यूहम् इति चेत् - येषां न जायते श्रद्धा श्रौते भस्मनि सर्वदा | गर्भाधानादिसंस्कारस्तेषां नास्तीति निश्चयः || इति |
SK
जाबाले तदकरणे प्रत्यवायदर्शनात्तद्वन्नित्यविधिविषयत्वं सिद्धम् | तस्मात् पूर्वोक्तस्मृतिसिद्धभस्मनिषेधो ह्यस्थिकपालाद्युपस्थितभस्मविषयः | नाधितिष्ठेत् इति निषेधस्य न भस्मना त्रिपुण्ड्रधारणनिषेधपरत्वम् | भस्मधारणस्य ऋग्यजुस्सामाथर्व-जाबाल- manuyājñavalkyagautamaśātāpādibahusmṛtivihitatvāt skāndalaiṅgaśaivakūrmādi bahupurāṇetihāsasiddhatvācca śrautatvaṃ siddham | rudrākṣadhāraṇasya śrautatvanirūpaṇam - kātyāyanaśākhāyāṃ - tāni ha vā etāni rudrākṣāṇi yatra yo vedā dhārayanti tasmāddevā dhārayanti yastāni dhārayan gacchaṃritaṣṭhan khādan svapannunmiṣan sarvāṇyenāṃsi tarati rudro bhūtvā rudravadbhavati iti | vṛhajjāvāle saptamabrāhmaṇe - rudrākṣaṇāṃ tu bhadrāṇāṃ dhāraṇe syānmahābalam | dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam || iti | saṃvartasmṛtau - snāne dāne jape home vaiśvadeve surārcane | prāyaścitte tathā śrāddhe dīkṣākāle viśeṣataḥ || arudrākṣadharo bhūtvā yatkiñcitkarma vaidikam | kuryādviprastu yo mohānnāsāvāpnoti tatpalam || iti | purā tripuravādhāyonmīlitākṣo'haṃ tebhyo jalabindavo bhūmau patitāste rudrākṣā jātāstaddarśanasparśanābhyāṃ daśaśatagodānaphalaṃ bhavati taddhāraṇādbrahmaghnagoghnasvarṇasteyādimahāpātakopapātakobhyaḥ pūto bhavati iti kramāmnāyāntargataśāṇḍilyaśākhāyāṃ rudrākṣadhāraṇavidhānadarśanāt skāndalaiṅgapurāṇetihāsādiṣu tanmāhatmyaśravaṇācca śrautatve niścīyate | pādodaka-prasādasvīkārasya vaidikatvakathanam nanu - anarhaṃ mama naivedyaṃ nirmālyamudakaṃ tathā ityādinā śivapurāṇeṣvapi śivena svakīyapādodakaprasādaniṣedhakathanāt śivapūjāyāḥ prasādaikaphalatvena tanniṣedhe pūjāniṣedhopyarthāsiddhaḥ - viṣṇorniveditaṃ śuddhaṃ munibhirbhojyamucyate | nirmālyamitareṣāntu bhuktvā cāndrāyaṇaṃ caret || akālamṛtyuharaṇaṃ sarvavyādhivināśanam | sarvapāpapraśamanaṃ viṣṇoḥ pādodakaṃ śubham ||
SK
सालग्रामशिलावारि पापहारि विशेषतः | आजन्मकृतपापानां प्रायश्चितं दिने दिने || इत्यादिस्मृतिषु विष्णुपादोदकप्रसादग्रहणविधिदर्शनात् सर्वेषां वैदिकानां विष्णुपूजादिकमेव विधीयते इति चेत् - उच्यते - अग्निहोत्रादिवच्छिवपूजाशिवपादोदक-शिव्प्रसादानां वेदवेदान्तागमस्मृतिपुराणेतिहासादिभिर्विधीयमानत्वात् श्रौतत्वं श्रौतपरिग्राह्यत्वं च | तान्त्रिकविधिदर्शनाद्विष्णुपूजादिकं तान्त्रिकाधिकारिकमेव | शिवस्य ब्राह्मणत्वात् ब्रह्मणोपास्यत्वम् | तदुक्तं छान्दोग्ये प्रपदब्राह्मणे - brāhmaṇamupadhāvati iti | yajurvede - viśvādhiko rudro maharṣiḥ iti | brahmādhipatibrahmaṇo'dhipatirbrahmā śivo me astu sadāśivom iti | śrutyantare ca - eṣa nityo mahimā brāhmaṇasya tasmātsomarājāno brāhmaṇāḥ somo'smākaṃ brāhmaṇānāṃ rājā soma eva no rājetyāhurbrāhmaṇīḥ prajāḥ ityādiśrutiṣu mahādevasya brāhmaṇaparyāyatva brāhmaṇādhipatitva vyavasthāpanāt | brāhmaṇānāṃ brāhmaṇairāśritatayā mahādeva eka eva upadhāvanasyārādhanasya yogyaḥ | kaurme - अनुलोमविलोमानां वर्णानां ब्राह्मणो गुरुः | विशेषाद्ब्राह्मणं रुद्रमीशानं शरणं व्रजेत् || इति | मनुस्मृतौ च - ब्राह्मणानां शिवो देवः क्षत्रियाणान्तु माधवः | वैश्यानान्तु तथा ब्रह्मा शूद्राणां सुरनायकः || इति | पाराशर्यपुराणे - सर्वेषामेव देवानां वरिष्ठः परमेश्वरः | वरिष्ठयोर्हि सम्बन्धो युज्यते न परस्य तु | ततो विप्रस्य सम्बन्धश्शिवेनैव हि युज्यते || सङ्करास्सर्वदेवाश्च वृषलस्तु पुरन्दरः | पितामहस्तु वैश्यस्यात् क्षत्रियः परमो हरिः || ब्राह्मणो भगवान् रुद्रस्सर्वेषामुत्तमोत्तमः | ब्रह्मभूतस्य रुद्रस्य ब्राह्मण्यं नैव हेतुजम् || ब्राह्मणो वै सदा लोके ब्राह्मणन्तूपधावति | नेतरः क्षत्रियो वैश्यश्शूद्रोऽपि च न संङ्करः || तस्मात् वेदेन मार्गेण द्विजातो ब्राह्मणस्सदा | महाब्राह्मणमीशानमुपगच्छेन्नचेतरम् || सर्वात्मभूतमात्मानं विरूपाक्षं द्विजोत्तमम् | यस्तु नोपैति साङ्कर्यं तस्यास्तीह न संशयः || इति |
SK
श्रुतिरपि - यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नोति पापीयान् भवति इति | स्कान्दे - स्वदेवतां परित्यज्य येऽन्यदैवमुपासते | ते पाषण्डा इति ज्ञेयास्सर्वकर्मबहिष्कृताः || नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः | नानृषिः कुरुते काव्यं नारुद्रः क्रमपाठकः || इति | धर्मशास्त्रे वेदपाठकस्य ब्राह्मणस्य रुद्रांशत्वमुक्तम् | तस्मान्मुमुक्षूणां वैदिकानां तत्पूजैव कर्तव्या | निधनपतये नमः इत्यादिश्रुतिस्मृतिपुराणसिद्धत्वाच्छिवलिङ्गस्यैव वैदिकत्वम् तान्त्रिकप्रधानत्वाद्विष्ण्वात्मकसालग्रामादीनां तान्त्रिकत्वमेव | तल्लिङ्गपूजादिकमपि सर्ववेदसिद्धम् | ऋग्वेदे - तव श्रिये मरुतो अर्चयन्त रुद्र यत्ते जनिम चारु चित्रं | पदं यद्विष्णोरुपमन्यधायि तेन पासि गुह्यं नाम गोनाम् इति | अस्यार्थः - हे रुद्र चारु चित्रं - रत्नहेमरजतशिलाप्रवालादिबहुविधं जनिम - लिङ्गं यत् प्रादुर्भूतमित्यर्थः | मरुतो - देवा ते - तव श्रिये - upamaṃ - upa - samīpe mā - lakṣmīḥ yasmin tat upamaṃ sarvadānapāyilakṣmīkaṃ viṣṇoḥ padaṃ ādhipatyaṃ nyadhāyi | gonā - vedānāṃ guhyaṃ - rahasyabhūtaṃ nāma abhidhānavān tvaṃ pāsi - rakṣāsi | etasyopabṛṃhmaṇaṃ parāśarapurāṇe - raudraliṅgaṃ mahāviṣṇurbhaktyā śuddhaśilāmayam | cārucitraṃ samabhyarcya labdhavān paramaṃ padam || sā ca lakṣmīssamākhyātā mahāviṣṇo'stu vallabhā | yasya liṅgaṃ samabhyarcya saṃpūjyaṃ sarvacetanaiḥ || brahmā sarvajagatkartā yasya liṅgārcanena vai || iti |
SK
तथा यजुर्वेदे - त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् | उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् इति | श्रुत्यन्तरे - अर्चत प्रार्चत प्रियमेधासो अर्चतार्चन्तु पुत्रका उत पुनर्न धृष्ण्वर्चत अर्चतप्रार्चत इत्यादिश्रुतिषु परमेश्वरस्वाराध्यत्वं देवानामाराधकत्वं च श्रूयते | अतश्शिवपूजाया नित्यविधिविषयत्वं सिद्धम् | पुरः त्रिपुराणि नाशयतीति पुनर्नं सदाशिव इत्यर्थः | तदकरणे प्रत्यवायश्च ऋग्वेदेश्रूयते - अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया गृभ्णन्ति जिह्वयाससम् इति | जने - जनेषु स्थितं जातावेकवचनं परःपदं - उत्कृष्टं रुद्रं - तत्रवचनव्यत्य यच्छान्दसः अन्तः - दहराकाशे मनीषया - बुद्धिपूर्वकमिच्छन्ति ये उपासका भवन्ति ते जनाः ससं - सस्यविकारं अन्नं जिह्वया गृभ्णन्ति - भक्षयन्तीत्यर्थः | ये रुद्राराधनमन्तरेण भुञ्जते ते पुरीषमेव जिह्वया भक्षयन्तीति भावः | तदुक्तं वृद्धशातातपे - अन्तर्नेच्छन्ति ये रुद्रं भवानीसहितं शिवम् | पुरीषमेव गृभ्णन्ति जिह्वया ते न संशयः || तस्माच्छिवं महादेवं पूजयेद्भक्तिसंयुतः || इति | ननु - अन्तरिच्छन्तीत्यत्र मानसक्रियामात्रदर्शनात्कथं बाह्यपूजापरत्वं इति चेन्न | यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति इति | मनस्येकं वचस्येकं कर्मण्येकं महात्मनां इति च श्रुतिस्मृतिपुराणागमैः मनोवाक्कायकर्मभिः शिवपूजोपदेशात् | अन्तरिच्छन्तीतिवाक्येन बाह्यशिवपूजाप्यर्थात्सिद्धा | आपस्तम्बसूत्रे च - अधीमहे तस्माद्यज्ञोपवीत्येवाधीयीत यजामहे सौमनसाय रुद्रम् इति | यज्ञोपवीतवत् परमशिवलिङ्गव्यवस्थापनात् | तत्पूजादिकमप्यर्थात्सिद्धम् | सूतसंहितायाम् - वेदसिद्धं महादेवं साम्बं चन्द्रार्धशेखरम् | लिङ्गे दिनेदिने देवं शिवरुद्रादिसंज्ञिकम् | नार्चयिष्यन्ति मोहेन पाषब्डोपहताजनाः || इत्याद्यनेकश्रुतिस्मृतिपुराणेतिहासेषु प्रसिद्धत्वाच्छिवलिङ्गाराधनमेव श्रौतानां विधेयम् |
SK
यो वैदिकमनादृत्य कर्म स्मार्तविधायकम् | मोहादाचरते किञ्चिन्न स पुण्येन लिप्यते || इति | मनुस्मृत्या प्रात्यक्षिकश्रुतिविरुद्धम् | आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरं इत्यादिस्मृतिसिद्धपञ्चपूजादिकमश्रौतपरिग्राह्यम् | तदुक्तं पाराशर्ये - विहाय साम्बमीशानं यजन्ते देवतान्तरम् | ते महाघोरनरके पतन्त्येव न संशयः || इति | शिवगीतायाम् - तं त्यक्त्वा तादृशं देवं यस्सेवेतान्यदेवताम् | स वै भागीरथीं त्यक्त्वा कांक्षते मृगतृष्णिकाम् || इति | शिवप्रसादस्वीकारस्य श्रौतत्वप्रतिपादनम् शिव एको ध्येयश्शिवंकरस्सर्वमन्यत्परित्यज्य इत्यादिना शिवलिङ्गपूजाया वैदिकत्वं सर्वपरिग्राह्यत्वं च श्रुतिसिद्धमेव | तस्माच्छिवप्रसादस्य तान्त्रिकनिषेधविधिसत्वेऽपि तत्स्वीकारो युक्तः श्रौतविधेर्बलीयस्त्वात् | किञ्च - सौरसंहितायां भगवता व्यासेन जैमिनि संवादे स्पष्टमुक्तम् - अनर्हं मम निर्माल्यं पादाम्बु कुसुमं दलम् | इतीश्वरेण कथितमिति केचिन्महर्षयः || वदन्ति यत्कथं स्वामिन् यथार्थं कथयस्व मे || इति जैमिनिना पृष्टस्य प्राह - देवदेवस्य वचसो विषयो यत्र जैमिने | ये वीरभद्रशपिताश्शिवभक्तिपराङ्मुखाः || शम्भोरन्यत्रदेवेषु ये भक्ता ये न दीक्षिताः | येऽशुद्धकर्मिणश्शम्बोस्न्यत्र मतबुद्धयः || तेषामनर्हमीशस्य तत्प्रसादचतुष्टयम् || इति | तत्रैवेश्वरवचनम् - मदीयभुक्तनिर्माल्यं पादाम्बु कुसुमं दलम् | धर्ममर्थं च कामं च मोक्षं च तनुते क्रमात् || एकादशीसहस्रेषु देहशोषणकोटिषु | तत्पदं लभते देवि मम नैवेद्यसेवनात् || इत्याद्ना तत्रैव प्रसादस्वीकारविधिदर्शनाच्छिवभक्तानां शिवप्रसादस्स्वीकार्य एव निषेधस्याभक्तविषयत्वेन विधिनिषेधयोर्न विरोधः | कामिके - शिवानुभूतमाखिलं निर्माल्यं परिभाष्यते | भोज्यं धार्यमिति द्वेधा षड्विधं च तदिष्यते || देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् | चण्डद्रव्यं बहिः क्षिप्तं निर्माल्यं षड्विधं स्मृतम् ||
SK
देवस्वं ग्रामभूम्यादि दासीदासचतुष्टयम् | हेमरौप्यकरत्नादि देवद्रव्यमिति स्मृतम् || मनसा यच्छिवोद्दिष्टं द्रव्यं नैवेद्यमुच्यते | शिवोपभुक्तं स्रग्गन्धमन्नपानादिकं तथा || निवेदितमिति प्रोक्तं सुरैर्वा मुनिभिर्नरैः | प्रतिष्ठितस्य लिङ्गस्य नैवेद्यं यत्समर्पितम् || तच्चण्डद्रव्यमित्युक्तं पूर्वसन्ध्यासमर्पितम् | पत्रं पुष्पं बहिः क्षिप्तमिति षड्विधमुच्यते || बाणलिङ्गे स्वयंभूते चन्द्रकान्ते हृदि स्थिते | पुण्यं क्रतुशतस्योक्तं शम्भोर्निर्माल्यभक्षणात् || इति | धर्मशास्त्रे च - लिङ्गे स्वयंभवे वाणे रत्ने रजतनिर्मिते | सिद्धप्रतिष्ठिते लिङ्गे न चण्डाधिकृतिर्भवेत् || शम्भोर्निर्माल्यकं शुद्धं भुञ्जीतैवाप्रमादतः | तथेतरस्य निर्माल्यं भुक्त्वा चान्द्रायणं चरेत् || एक एवेति यो रुद्रस्सर्ववेदेषु गीयते | तस्माच्छिवैकभुक्तान्नं सदा भुञ्जीत वैदिकः || इति | ऋग्वेदे - त्वादत्ते भी रुद्र शन्तमेभिस्तं हि मो-आशीय भेषजेभिः | व्यस्मद्वेषो पितरं व्यṁह इत्यादि | अस्यार्थः - हे रुद्र त्वया आसीय भुक्त्वा दत्तेभिः - दत्तैः शन्तमेभिः - सुखतमैः भेषजेभिः - संसारभयभेषजैः तत्परिहारहेतुभिरिति योजना | योऽहं पितरं त्वामुपास्य व्यस्मद्वेषः - विगताहंकारः अतएव व्यगṁहःनिष्पापोऽभवम् | तं मामनुगृहाणेत्यर्थः | शिवो मामेव पितरः इति श्रुतेः | ऋग्वेदोपनिषदि - ईशावास्यमिदṁ सर्वं यत्किंचजगत्यां जगत् | तेन त्यक्तेन भुञ्जीथा म गृधः कस्यस्विद्धनम् || इति |
SK
अस्यार्थः - इदं सर्वं स्थावरात्मकं जगत् जगत्यां यत्किञ्चित् जङ्गमात्मकं प्राणिजातं च सर्वं ईशावास्यं-ईशेन-शिवलिङ्गे आवास्यं- iti śruteḥ | tasmāttena śivaliṅgena tyaktena bhuktaśeṣaprasādena bhuñjīthāḥ bhuji- गृधः कस्यस्विद्धनम् इति परमेश्वरेतरद्वताप्रसादनिषेधः श्रौतानां विधीयते | तथा यजुर्वेदे - यच्छं च योश्च मनुरायजे पिता तदस्याम तव रुद्र प्रणीतौ हे रुद्र तव प्रणीतो पूजायां पिता जगज्जन्मादिकरणं च यः मनुः मन्त्रात्मको भवान् यत् शं च सुखकरं योश्च तत्पृथक्त्वेन निरूपितं अपक्वादिकं प्रसादं आयजे सम्पादितवान् तत् पक्वमपक्वं च प्रसादं अस्याम त्वयोपभुक्तं प्रसादं भुञ्जीमहि | सामशाखागतजाबालोपनिषदि रुद्रभुक्तं भुञ्जीत रुद्रपीतं पिबेद्रुद्राद्रातं जिघ्रेद्रुद्रेणात्तमश्नीयात्तस्माद्ब्राह्मणाः प्रशान्तमनसो निर्माल्यमेव भक्षयन्ति निर्माल्यमेव निषेवन्ते इति | तथा स्कान्दे - शिष्टाश्शान्ताश्च रुद्रेण भुक्तमेव हि भुञ्जते | घ्रातमेव हि जिघ्रन्ति पीतमेव पिबन्ति च || इति | यजुर्वेदे प्रदेशान्तरे - रुद्रेणान्नममृतं देवा वै भोक्त्कुकामा वेदाश्च कामयन्ते रुद्रेण ईश्वरेण अन्नं अद्यत इत्यन्नं अमृतं प्रसादं कामयन्तीत्यर्थः काण्वशाखायां - अत्रिगुप्सातमश्नीयाद्यदि पाप्मानमश्नितम् | भुंक्ष्वामलं भुंक्ष्वाघं भुंक्ष्वाधो गच्छति इत् | त्रीणि तिस्त्रो गावो यस्य सः त्रिगुः त्रिलोचनः तेन प्सातं भक्षितं प्सा भक्षणे अत्रिगुप्सातं अनीश्वरापितं अश्नीयाद्यदि सः पापभुक् मलभुक् अधो गच्छति नरकं प्राप्नोतीत्यर्थः | तथा कौर्मे - असमर्प्यान्नकं शम्भोर्भुङ्क्ते खादति पाति च | श्वमांसमत्ति सूत्रं च भुङ्क्ते खादति पाति च || इति | अथ पादोदकविधिः
SK
बोधायनशाखायां - अथाऽतो महादेवपादोकविधं व्याख्यास्यामः | श्रीरुद्रेण पवित्रेण शतधारेण सहस्रधारेणाच्छिद्रधारमनन्तमजमभीष्टं शिवं पवित्रं भगवन्तं महादेवं स्थापयित्वा सर्वो वै रुद्रः इति द्वाभ्यामभिमन्त्र्य शिरसि संप्रोक्ष्य ऋत सत्यमिति प्राशयेत् इति | तत्र जाबालः - भगवतः पादौ प्रक्षाल्य शंखं प्रपूर्य गन्धपुष्पाक्षतैरभ्यर्च्य चरुं निवेद्य इमं मे गङ्गे इत्यभिमन्त्र्य कद्रुद्रायेति शिरसि संमार्जनं कृत्वा ऋतं सत्यमिति निर्माल्यं पिबेत् इति | वायवीयसंहितायाम् - शिवस्य पूजनं कार्यमग्निपूजात्वनन्तरम् | ततस्स्वयं तु भुञ्जीत शुद्धमन्नं शिवार्पितम् || इति | शिवधवशास्त्रे - पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् | शिवार्पितं विना भुङ्क्ते सद्यो भवति किल्विषी || इति | शातातपस्मृतौ घोरमूर्तिर्भवेद्वह्निरघोरा लिङ्गमुच्यते | तस्माल्लिङ्गं पुराभ्यर्च्य ततो वह्निं समर्चयेत् || इति | शैवपुराणे - प्राणाग्निहोत्रं यः कुर्याच्छिवस्यैव प्रसादतः | अश्वमेधायुतं पुण्यं लभते नात्र संशयः || कवले कवले कुर्वन् शङ्करस्यानुकीर्तनम् | सदोपवासी विज्ञेयो जीवन्मुक्तो न संशयः || ब्राह्मणानां शिवो देव इति श्रुतिषु गीयते | तस्मात्प्राणाग्निहोत्रे च सोमयागादिकेष्वपि || पार्वणे वैश्वदेवे च शिवाग्नौ करणे तथा | शिवप्रसादविधिना कुर्यात्कर्माणि नान्यथा || इति | कौर्मे - यः श्राद्धकाले शिवभुक्तशेषं ददाति भक्त्या पितृदेवतानाम् | तेनैव पिण्डेन तिलैर्बिमिश्रमाकल्पकोटिं पितरस्सुतृत्पाः || इति | लैङ्गे - वसुरुद्रार्करूपेभ्यो मध्यपिण्डन्तु पुत्रदम् | वेदोक्तं रुद्रनिर्माल्यं किं पुनर्बहुभाषणैः || इति | यजुर्वेदे - इमं पशुं पशुपते ते अद्य बध्नाम्यग्रे सुकृतस्य मध्ये | अन्मन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम् इत्यादिश्रुतिषु यागीयपशुरूपादिकस्य सर्वस्य शिवप्रसादत्वेन निर्देशात् - आदत्त पितरो गर्भ. कुमारं पुष्करस्रजम् | यदेह पुरुषो सदिति तं पत्नी प्राश्नाति ||
SK
इत्यापस्तम्बसूत्रे ब्राह्मणोत्पत्तेः रुद्रपिण्डहेतुकत्वोपदेशाच्च | लैङ्गे - एष्टव्या बहवः पुत्राश्शिवमन्त्रानुसारिणः | समुद्धरन्ति ते गोत्रं रज्जुः कूपाद्घटं यथा || इत्यादिश्रुतिस्मृतिपुराणागमादिसिद्धत्वाच्छिवप्रसादोदकसेवनं श्रौतानां विधेयम् | निषेधवाक्यानं चण्डद्रव्यपरत्वमशैवदीक्षितपरत्वं वेति शैवसिद्धान्तघण्टाघोषः | शिवप्रसादनिषेधकतान्त्रिकस्मृतिविधिमात्रस्वीकारे पूर्वोक्तवेदवेदान्तस्मृत्यागमपुराणेतिहासादीनां दत्तजलाञ्जलित्वं प्रसज्येत | अतो वेदबाह्यत्वप्रसङ्गात् पूर्वोक्तमेव समीचीनम् | किंच - भागवते चतुर्थस्कन्धे - तत्किं शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाश्मशाने | तन्माल्यभस्मनृकपाल्यवरत्पिशाचैर्यन्मूर्धभिद्दधति तच्चरणात्रसृष्टम् || इति | रामायणे - तत्र देवर्षिगन्धर्वा वसुधातलवासिनः | भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः || इति | विष्णुपुराणे - शम्भोर्जटाकलापात्सा विनिष्क्रान्तास्थिशर्करान् | प्लावयित्वा दिवं निन्ये यान् पापान् सगरात्मजान् || इत्यादि भागवतरामायणविष्णुपुराणेष्वपि शिवप्रसादस्वीकारविधेः भागवते एकादशस्कन्धे अपि दीपावलोकं मे नोपयुज्यान्निवेदितं इत्यादिवचनैर्विष्णुप्रसादनिषेधविधेश्च दर्शनात् शिवप्रसाद एव वैदिकपरिग्राह्यः | ननु - भागवतचतुर्थस्कन्धे - त्वयोपभुक्तस्रग्गन्धवासोऽलंकारचर्चिताः | उच्छिष्टभोजिनो दासास्तव मायां तरेमहि || इत्यादि वाक्येषु विष्णुप्रसादस्वीकारविधिरपि दृश्यते इति चेत् - उच्यते - तद्विष्णुप्रसादस्वीकारे वैदिकविध्यभावादेतद्वचनेन उच्छिष्टभोजिनोदासाः इति विशेषणेन च छिद्रोर्ध्वपुण्ड्रतप्तचक्राङ्कितादिकं पाञ्चरात्रादितान्त्रिकपरिग्राह्यमेव | न वैदिकभोज्यम् | नोचेत्पूर्वोपबृम्हितानां नोपयुज्यान्निवेदितं मा गृधः कस्यस्विद्धनम् इत्याद्येकादशस्कन्धेशावास्योपनिषद्वाक्यानां वैयर्थ्यप्रसङ्गस्यात् | स्कान्दे - निर्माल्यं शम्भुना भुक्तं गृण्हीयाद्वैदिकस्सदा | न तथा विष्णुभुक्तान्नं प्राणैः कण्ठगतैरपि || इति |
SK
याज्ञवल्क्यस्मृतौ - माधवान्नं न भोक्तव्यं सर्वथा वैदिकोत्तमैः | सदाशिवोपभुक्तान्नं भुञ्जीयादप्रमादतः || इति | शाण्डिल्यस्मृतौ - न भोज्यं माधवस्यान्नं श्रौतानां मोक्षकांक्षिणाम् | शिवोपभुक्तं भोक्तव्यं श्रौतविध्येकशासनात् || इति | शातातपे - विप्रो वा क्षत्रियो वापि वैश्यो वा मोहचेतसा | विष्णुगेहस्थितस्यान्नं भुक्त्वा चान्द्रायणं चरेत् || इत्यादिना विष्णुप्रसादनिषेधवाक्यानि श्रौतपराणि शिवप्रसादनिषेधवचनानि श्रौतेतरपराणीति निर्णीयते | किञ्च - श्रुति स्मृति विरोधे तु श्रुतिरेव वलीयसी | श्रुतिश्रुतिविरोधे तु विशेषविधिरुच्यते || इति न्यायेन शिवप्रसादस्वीकारवचनबाहुल्यान्नान्यार्थो युक्तः | किं निषेधसत्त्वमात्रेण शिवनिर्माल्यस्योत्तमाधिकारिनिरूपकवचनानामप्रामाण्यम् उत तेषामनन्यथासिद्धत्वेन नाद्यः - तथा सत्याश्रमभेदेन वर्णभेदेन युगभेदेन शाखाभेदेन देशकालपुरुषभेदेन वस्तुसामान्यविशेषभेदानुसारेण व्यवस्थितशास्त्रस्य परस्परवैरुध्यदर्शनात्सर्वं शास्त्रमप्रमाणं प्रसज्येत | आपस्तम्बादिकृतसंन्यासनिषेधकानां स्त्रीशूद्रवेदपाठनिषेधकानां सामान्यतोऽहिंसानिषेधकानां कृषिवाणिज्यगोरक्षादिनिषेधकानां एकहस्तकृततर्पणनिषेधकानां मातुलकन्यापरिणयनादिनिषेधकानां च वचनानां सद्भावात् किञ्चिच्छास्त्रस्य प्रामाण्यमिति चेत् सर्ववैदिकबाह्यत्वप्रसङ्गः |
SK
नद्वितीयः - उदिनुदितहोमस्थल इव न हि निन्दान्यायेन तत्तच्छृतिस्मृत्यादिपठित शिवप्रसादनिषेधवचनानामग्निहोत्रादिकर्मस्तुतिपरत्वेनान्यथा सिद्धत्वात् | तथाहि अग्निहोत्रादिकर्मावश्यकतां प्रतिपादयद्भिः तत्सुतिं करिष्यद्भिः स्मृतिकारादिभिः तन्निन्दापुरस्सरं कर्माभिमुख्यं प्रतिपादितमेव | शिवप्रसादस्वीकारावश्यकतां निरूपयद्भिश्शिवादिभिः पुराणकारादिभिश्च शिवप्रसादातिरिक्तान्नभोजने श्वमांसादिवत्प्रायश्चित्तादिपुरस्सरं भविस्पर्शराहित्य प्रतिपादनपुरस्सरं अलिङ्गधारणादि निन्दा कृता | तथाचोभयत्रापि निन्दायां तात्पर्यं नास्त्येव | किन्तु स्तुतावेव | तस्मादवश्यमेवं व्यवस्थाश्रयणीया | अन्यथा परस्परविरोधप्रसङ्गः | अतः पूर्वोक्त नहि निन्दान्यायेन निषेधवचनानां तत्र तात्पर्याभावात् पूर्वोक्तविशेषणविशिष्टाधिकारिभेदेन सर्वं शास्त्रं प्रमाणमेव | ननु - तर्हि - बौद्धशास्त्रस्यापि प्रामाण्यप्रसङ्गः इति चेन्न | वेदबाह्यत्वात् | शिवपूजाशिवोपासना - शिवतत्त्वविचारशिवप्रसादोदकानां वेदवेदान्तप्रतिपादितत्वाच्छैवशास्त्रस्य वेदमयत्वम् | स्वामिप्रेतार्थानुसारेण पाञ्चरात्रादयोऽपि श्रुत्यर्थवर्णनरूपत्वात्प्रातिभासिकवैदिका इत्युच्यन्ते | तस्मात् बौद्धशास्त्रे वैलक्षण्यम् | वेदाप्रामाण्य बौद्धशास्त्रस्य सुरापानवन्निषेध एव तात्पर्यं प्रदोषकालविष्णुदर्शनवत् | ब्रह्माण्डपुराणे - na pradoṣe hariṃ paśyettrayodaśyāṃ viśeṣataḥ | yadi pramādātpaśyettu dvādaśābdavṛṣakṣayaḥ || skānde ca - na pradoṣe hariṃ paśyedyadi paśyetpramādataḥ | catvāri tasya naśyanti āyuḥ prajñā yaśo balam || iti | pradoṣakālaviṣṇudarśanatadārādhanasmaraṇapādodakaprasādādikasya śrautetaraparigrāhyatvaṃ aśrautatvādityalaṃ vistareṇa | paramaśivasyā brahmaṇaḥ bhaktānugrahārthaṃ śarīraparigrahatvakathanam sarvagatasya parabrahmaṇaśśivasya bhaktānugahārthaṃ śarīraparigrahe nārāyaṇādiśārīravat sukhaduḥkhavyāptissyādityāśaṃkya nirākaroti -
SK
४० सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् || ८ || भक्तकल्पद्रुमस्य स्वेच्छास्वीकृतलीलादिव्यमङ्गलविग्रहस्य परमेश्वरस्य जीववत्सुखदुःखसम्भोगप्राप्तिरितिचेन्न | कुतः वैशेष्यात् | अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः | तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशं इत्यत्र अणुत्व-महत्व-सर्वजीवान्तर्यामित्व- ityādau praṇavātītatva-sarvahṛdayapuṇḍarīkopāsyatvopadeśāt | īśānassarvavidyānāṃ ityādau sarvavidyādhipatitvādyasādhāraṇadharmopadeśāt namo hiraṇyabāhave ityādinā jyotirmayaśarīratvādidharmāṇāmupadeśācca jīva- तस्माद्विशेषातिशयद्योतनाज्जीवपरमात्मनोश्चित्तैकत्वेऽपि विभुत्वाणुत्व- śarīrāśrayatve'pi parameśvarasya jīvavatsukhaduḥkhabhoktṛtvaṃ sarvathāpi na sambhavati | agnistambhanavidyāśrayasya dāhabhayābhāvavat vaśīkṛtamāyasya māyākṛtasukhaduḥkhabhoktṛtvaṃ kathaṃ ghaṭate | atassūtrakāreṇa vaiśeṣyapadamupadiṣṭam | viśeṣa eva vaiśeṣyam svārthe aṇ | dvāsuparṇā iti mantrāntare ca jīvasya saṃsārabhoktṛtvaṃ parameśvarasya tadabhāvaśca nirdiśyata ityubhaoḥ parasparavilakṣaṇatvaṃ susthameva | kiñca - svecchāgṛhītaśarīrasambandhitvaṃ karmajanyaśarīrasaṃmbandhitvaṃ na vaiśeṣyam | tasmāt aṇoraṇīyān ityādyupakramādiṣaḍvidhatātparyaliṅgena nārāyaṇo'paniṣado'pi paraśivapratipādakatvādatra nārāyaṇasyopāsakatvaṃ paraśivasyopāsyatvaṃ ca nirdiśyate | jīva-brahmaṇorbhedābhedatvapradarśanam
SK
ननु - सदेव सौम्येदमग्र-आसीदेकमेवाद्वितीयं तत्त्वमसि अहं ब्रह्मास्मि अयमात्मा ब्रह्म इत्यादौ जीवब्रह्मणोरेकत्वोपदेशाद्घटपटवत्परस्परविरुद्धस्वभावस्वाभाविक- svābhāvikabhedanivṛttiśca na kadācitsambhavati iti cenna - jīvabrahmaṇorbhedābhāve śrutyanubhavayuktivirodhaprasaṅgāt | śāstrapravṛttirapi na syāt | dvāsuparṇā sayujā sakhāyā jñājñau dvāvajāvīśānīśau ityādau jīvabrahmaṇorbhedavyapadeśāt | tattvamasi ityādi mahāvākyeṣu tayorekatvopadeśādabhedo yuktaḥ | śrutyekadeśaprāmāṇye bauddhādivadvedabāhyatvaprasaṃgāttathā mānābhāvātparasparaśrutivirodhācca | kuṇḍalībhūtasarpasya dīrghībhūtasarpasya ca prabhākaraprabhāyāstanmaṇḍalasya ca hrasvatva-dīrghatva-vyāpakatva-paricchinnatvavat jīveśvarayościttvaikatve'pyaṇutvavibhutvāpmekaviruddhasvabhāvatvādbhedābhedo hyaviruddhaḥ | tasmājjīveśvarayossaṃsāradaśāyāṃ bhedo mokṣadaśāyāmabhedaśca bhramarakīṭavadupadiśyate | tathā ca śrutiḥ - brahmavidbrahmaiva bhavati yathā nadyassyandamānāssamudre astaṃ gacchanti nāmarūpe vihāya | tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam || ityādinā bhedābhedaṃ spaṣṭamupadiśati | idameva sarvavedāntasamanvayātsūtrakāramatamiti ghaṇṭāghoṣaḥ | attṛtvādhikāṇam || 2 || śivasya parabrahma nārāyaṇādyupāsyatvatatkāraṇatva-tatpoṣakatva- दर्शयति - || ४१ || अत्ता चराचरग्रहणात् || ९ || कटवल्लीषु दृश्यतेऽस्य विषयः - यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः | मृत्युर्यस्योपसेचनं क इत्थावेद यत्र सः || इति |
SK
अत्र मृत्यूपसेचनविशिष्टब्रह्मक्षत्राद्युपलक्षितसकलचराचरप्रपचौदनसूचितः कश्चिदत्ता व्यपदिश्यते | स किमग्निः प्रधानं पृथिवी जीवः परमेश्वरोवेति सन्दिह्यते अग्निरन्नादस्तपसोरन्यः अजामेकां लोहितशुक्लकृष्णां अन्नाध्येव खल्विमानि भूतानि जायन्ते जातान्यन्नेन वर्धन्ते | अद्यतेऽत्ति च भूतानि तयोरन्यः पिप्पलं स्वाद्वत्ति सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त ऊपासीत इति श्रुतिदर्शनात् | तस्माज्जायत इति तज्जं तस्मिन् लीयत इति तल्लं तस्मिन् अनिति चेष्टत इति तदनं तज्जं च तल्लं च तदनं च तज्जलानि अवयवलोपच्छान्दसः इति शब्दो हेतौ सृष्टिस्थितिलयाधिष्ठानं सर्वं चिदचिदात्मकं प्रपञ्चं ब्रह्मेति शान्त उपासीतेत्यर्थः | पूर्वपक्षस्तु - अनश्नन्नन्यो अभिचाकशीति निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्चनं समस्तसाक्षिं तमसः परस्तात् इत्यादिश्रुतिशतेषु कृपासमुद्रस्य सर्वमङ्गलाश्रयस्य शिवस्य परब्रह्मणः संसारभोक्तृत्व-निष्कलत्व- saṃhartṛtvaṃ hi jīva-prāṇagrāhakatvaṃ tasya krodha eva mūlaṃ krodhasya hi heyaguṇasya moha evālavālaṃ tasya tama eva prakṛtiḥ tamasaḥ ajñānāvṛtatvāt ajñāna-tamo-moha- सम्भवति | जीवसामान्यलक्षणतामसत्वादिगुणानां तद्विलक्षणपरमेश्वरे कल्पने मानाभावात् | निष्कलं इत्यादि पूर्वोक्त-श्रुतिभङ्गप्रसङ्गाच्च शारीरात्मकविष्ण्वादीनामेव तद्युक्तम् | तस्य विष्णोस्तमोगुणप्रधाननिद्राशीलत्व- skāndādipurāṇakathāsu mohātiśayena vṛndāśmaśāne bahukālaviluṇṭhanādadyāpi kṛṣṇatulasīrūpeṇa bṛndāvanasthitatvācca | amaṅgalaguṇasampannānāṃ tatsaṃhartṛtvaṃ bhavatu taduktaṃ sūta-gītāsu - asti rudrasya viprendra antassatvaṃ bahistamaḥ | viṣṇorantastamassatvaṃ bahirasti rajoguṇaḥ || antarvahiśca viprendra hyasti tasya prajāpateḥ | rajasā tamasā''krāntau brahmanārāyaṇau khalu || iti | śivadharmaśāstre - antassattvaguṇopeto bahistāmasasaṃyutaḥ | śuddhasāttvikasaṃyuktaśśaṅkaro lokaśaṅkaraḥ ||
SK
अन्तसामससंयुक्तो बहिस्सत्त्वगुणान्वितः | शुद्धतामससंयुक्तो विष्णुस्साक्षाच्छ्रियः पतिः || बाह्याभ्यन्तरयोर्नित्यं ब्रह्मा राजससंयुतः | त्रिमूर्त्यतीतस्सर्वज्ञश्शिवश्शुद्धो निरञ्जनः || इति | प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इत्यादिना विष्णोः प्रबलतमो वैशिष्ट्यं शिवस्य गुणत्रयातीतकारणकारणत्वं चोपदिश्यत इति सर्वथा तस्य जगत्संहर्तृत्वं न संभवतीति विष्ण्वादीनामेव तत् इति | सिद्धान्तः - अत्र ब्रूमः - अत्ता चराचरग्रहणात् अत्र अत्ता साक्षात्परशिव एव कुतः चराचरग्रहणात् चराचरं चिदचिदात्मकं यत् जगत् तस्य अद्यत्वेन ग्रहणात् श्रवणादित्यर्थः | मृत्यूपसेचनत्वेन सर्वप्राणिमात्रस्य अद्यत्वेन प्रतीयमानत्वात् ब्रह्मक्षत्रग्रहणमुपलक्षणार्थम् | जननमरणसंसारनिमग्नकिंचिज्ञनारायणादिजीवानां चराचरप्रपञ्चसंहर्तृत्वासंभवात् अत्रात्ता परशिव एव | प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः निधनपतये नमः महाग्रासाय नमः यथोर्णनाभिस्सृजते गृण्हते च य इमा विश्वा भुवनानि जिह्वति यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतिशतेषु चराचरप्रपञ्चजन्मस्थितिलयकारणत्वं परमेश्वरस्यैव दृश्यत इति न वन्द्यादिदेवतानां तत्संभवति | अनश्नन्नन्यो अभिचाकशीति इति श्रुतिः कर्मफलभोक्तृत्वनिषेधमात्रमेव निर्दिशति | ततो न विरोधः | मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इत्यादौ वशीकृतमायकत्वस्य उमासहायं इत्यारभ्य तमसः परस्तात् इत्यन्तेन तमः परत्वस्य च निर्देशात् यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः इत्यादौ प्रलयेऽपि तत्साक्षितया परिशेषत्वं च दृश्यते | न सन्न चासच्छिव एव केवलः इत्यनेन पशुपाशात्मकसदसतोर्न स्वरूपसत्ता निषिध्यते | अमूलमनाधारमिमाः प्रजाः प्रजायन्ते न कदाचिदनीदृशं जगत् इत्यादिश्रुत्या जगतोऽनादित्वव्यपदेशात् | तथा च स्मृतिः -
SK
चिदात्मैव हि दोवोन्तः स्थितमिच्छावशाद्बहिः | योगिवन्निरुपादानमर्थजातं प्रकाशयेत् || इति | निरुपादानमित्यनेन जगदुभयकारणत्वमूर्णनाभिवत्तस्यैव सूचितम् | तस्मात्स्वात्मसंकुचितप्रपञ्चत्वेन शिवः केवल इत्युपदिश्यते | तस्मात्तस्यैव सर्वसंहर्तृत्वमुचितम् - पुनर्हेत्वन्तरमाह - ४२. प्रकरणाच्च || १० || न जायते म्रियते वा विपश्चित् इत्याद्यनन्यसाधारणधर्मावच्छिन्न ब्रह्म प्रकरणात् - क इत्थावेद यत्र सः इति वाक्ये दुर्विज्ञानत्वं महान्तं विभुमात्मानं मत्वा धीरो न शोचति इत्यादिना परमेश्वरधर्मबाहुल्यदर्शनात् प्रकृतपरित्यागाप्रकृतस्वीकारे मानाभावाच्च | परमेश्वरप्रकरणपठितसर्वसंहर्तृत्वं नेतरस्योपपद्यते | सृष्टिस्थितिकर्तृत्ववत्संहारकर्तृत्वानङ्गीकारे एक एव रुद्रो न द्वितीयाय तस्थे इत्यादिश्रुतिविरोधप्रसंगाच्च | ब्रह्मणो महिमातिशयभङ्गप्रसङ्गोऽपि स्यात् | यतो वा इमानिभूतानि जायन्ते इत्यादौ संहारस्यापि तदधीनत्वेनोपदेशात् न सन्देहकलंकप्रसङ्गः | तस्मादत्ता परशिव एवेति सिद्धम् | इति द्वितीयं अत्तृत्वाधिकरणम् | गुहाधिकरणम् || ३ || एवं शिवस्य परब्रह्मणः सर्वसंहर्तृत्वं प्रसाध्य जीवब्रह्मणोर्बिम्बप्रतिबिम्बभाववादिमतमधिकरणान्तरेण निराकरोति - || ४३ || गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् || ११ || ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्ध्ये | छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः इति कठवल्लीषु विद्यतेऽस्य विषयः - pūrapakṣaḥ - anaśnannanyo abhicākaśīti iti śrutau parameśvarasya bhoktṛtvaniṣedhāt | ṛtaṃ pibantau ityatra bhoktṛtvavyapadeśādbuddhijīvayorevātra bhoktṛtvamavagamyate | cetanatvājjīvabrahmaṇorekatvācchāyātapavatparasparavairudhyaṃ nāsti | cijjaḍayorjīvabudhyoḥ parasparaviruddhasvabhāvatvena tayoreva sarvabhūtaguhāpraviṣṭaṃ samucitam | kāryakāraṇabhāvasya buddhipradhānatvāttadhinnatvena śārīro vidhīyate |
SK
ननु - ये यं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके | एतद्विद्यामनुशिष्टस्त्वयाऽहं इति श्रवणाद्बुद्धिजीवाविति पक्षैकस्वीकारो न युक्तः | द्वासुपर्णा इति मन्त्रे जीवेश्वरयोस्साहचर्येऽपि अनश्नन्नन्यो अभिचाकशीति इत्यत्र- bhavyāśca yattatpaśyasi anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt | ṛtaṃ pibantau ityanena parameśvarasyaiva karmaphalabhoktṛtvopadeśāt sukṛtasya loke iti prādeśikatvaliṅgadarśanācca | ṛtaṃ pibantau iti dvivacanena tayoḥ pānamupadiśyate | acetanātmakabuddhestadasaṃbhavānna buddhikṣetrajñapakṣo yuktaḥ | iti cenna | chatriṇo gacchanti iti vākye chatryacchatrimanuṣyāṇāṃ chatritvābhyupagamāt tadvadihāpi pibadapibantau dvau pibantau iti nirdiśyete | sarvagateśvarasya ekadeśavṛttitvaṃ nopapadyate sukṛtasya loke iti ca karmavīkṣaṇānatikramaṇaṃ pratipādayati | na karmaṇā vardhate no kanīyāt ityatra parameśvarasya sukṛtadṛṣkṛtakarmasākṣitvavyapadeśādatrabuddhijīvāveva pratipādyete - iti cet - siddhāntaḥ - atrabrūmaḥ - guhāṃ praviṣṭāvātmānau hi taddarśanāt guhāṃ praviṣṭau śivajīvau veditavyau kutaḥ ātmānau hi hi - yasmāt dvāvapyātmānāvityarthaḥ ṛtaṃ pibantau iti karmaphalabhogaśravaṇādekastāvadātmā dvitīyopyātmaiva nyāyyaḥ | tatra yuktimāhataddarśanāt iti | saṃkhyāśravaṇe tatra samānapratyayasyaiva loke darśanādityarthaḥ | loke hi - asya gordvitīyo'nveṣṭavyaḥ ityukte gaureva dvitīyo'nviṣyate nāśvo na puruṣaḥ | evamihāpyātmatvasāmyājjīvaparamātmānau veditavyau | prādeśamātrasarvabhūtaguhāpraviṣṭatvaṃ parameśvarasya na virudhyate | śrutyantare - sarvānanaśirogrīvassarvabhūtaguhāśayaḥ | sarvavyāpī sa bhagavāṃstasmātsarvagataśśivaḥ ||
SK
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् गुहाहितं गह्वरेष्ठं पुराणं यो वेद निहितं गुहायां परमे व्योमन् आत्मानमन्विच्छ गुहां प्रविष्टं इत्यादिश्रुतिशतेषु सर्वगतस्य परमेश्वरस्य भक्तोपासनार्थं प्रादेशविशेषमात्रगुहाप्रविष्टत्वोपदेशान्न विरोधः | सुक्र्तलोकप्रवर्तकत्वं च छत्रित्वदेकदेशवर्तित्वेप्युभयोर्युक्तम् | छायातपवत्परस्परवैलक्षण्यं जीवेश्वरयोर्न विरुध्यते | आनन्दमयो ह्यानन्दभुक् - सत्यात्मप्राणारामं मन आनन्दं इत्यादि श्रुतिष्वात्मारामस्य मनोमात्रग्राह्यस्वरूपानन्दानुभवश्रवणात् अनश्नन्नन्यो अभिचाकशीति इति वाक्ये कर्मफलभोक्तृत्वनिषेधोप्युपपद्यते | तस्मात्तयोर्भोगसाम्येन भोक्तृविशेषात्प्रभुभृत्यन्यायेन भोज्यविशेषोऽपि युज्यते | यतः - नित्यो नित्यानां चेतनश्चेतनानां ज्ञा ज्ञौ द्वावजावीशनीशौ समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः | जुष्टं यदा पश्यत्यन्य मीशस्य महिमानमिति वीतशोकः इत्यादि श्रुतिषु परमेश्वरस्य नित्यमुक्तत्व-प्रज्ञातृत्व- anādyavidyākṛtamohaśokabaddhatvādidharmāṇāṃ ca darśanādubhayorvailakṣaṇyamupapadyate | tathāpi jīvaparameśvarayościtvenaikatvāt tattvamasyādi śrutiṣvabhedadarśanācca | jīvaparameśvarau guhāpraviṣṭāviti gṛhyete - yenekṣate śṛṇoti - ityādivākyeṣvantaḥkaraṇātmaka buddhisāhacaryeṇa prajñātasya parameśvarasya īkṣitṛtvādi dharmavyapadeśādguhāśayatvaṃ buddhiparameśvarayorevetyāśaṃkāyāṃ hetvantareṇa-nirākaroti - || 44 || viśeṣaṇācca || 12 || ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu | so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam | adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti
SK
इति रथि-रथरूपविवक्षया शिव-जीवयोर्विशेषणोपदेशात् न जायते म्रियते वा विपश्चित् इत्वादौ बहुशरीरप्रवेशनिर्गमनव्यापाराव्यापारविशेषणात् परमेश्वरस्वरूपज्ञानाज्जीवस्य हर्षामर्षप्रमोचकत्व दर्शनाच्च गुहां प्रविष्टौ जीवपरमेश्वरावित्युच्येते | बिम्ब-प्रतिबिम्भयोरेकत्रावस्थानाभावाच्छिव-जीवयोबिम्ब- iti guhādhikaraṇam | antarādhikaraṇam || 4 || paramaśivasya cakṣurmadhyopāśyatvapratipādanam sarvagatasya parameśvarasya guhāhitatvamupadiśya tasyaiva pradeśāntaramadhikaraṇāntareṇa darśayati - 45 antara upapatteḥ || 13 || chāndogye śrūyate'sya viṣayaḥ ya eṣo'kṣiṇi puruṣo dṛśyate eṣa ātmeti hovāca etadamṛtametadabhayametadbrahmeti tadyadyapyasmin sarpirvodakaṃ vā siñcanti vartmanī eva gacchati ityādi | kimatrākṣyantaḥpuruṣo'yaṃ chāyāpuruṣaḥ kṣetrajño vā hṛṣīkādhiṣṭhātā vā parameśvaro vā iti saṃśayaḥ | kutaḥ chāyātmā puruṣaḥ pratirūpāḥ iti ya eṣo'kṣiṇi puruṣo dṛśyate iti ca tasya prasiddhatvena dṛśyamānatvopadeśāt | sa hi cakṣuṣā rūpaṃ paśyan cakṣuṣi sannihito bhavatīti anena kṣetrajño'pi labhyate | amṛtamabhayametadbrahma iti vākyaśeṣeṇa parameśvarassūcitaḥ | ya eṣokṣiṇi puruṣo dṛśyate iti cakṣuradhiṣṭhātṛdevatātmakassūryo'pi dṛśyata iti | pūrvapakṣastu - kṣetrajñasya śārīrasya jagadanubhave cakṣurindriyapraviṣṭatvadarśanādātmaśabdavācyatvāccetassambandhātsa evopadiśyate | raśmibhire'ṣo'smin pratiṣṭhitaḥ iti vākyadarśanādādityo vā vidhīyate | amṛtatvādiliṅgānāṃ locanādhiṣṭhānadevatāviṣaye asambhavāt pradeśaviśeṣapradarśanānnātra parameśvara upāsyaḥ iti |
SK
अत्र ब्रूमः - अन्तर उपपत्तेः अन्तरः अक्ष्यन्तर्गतः पुरुषः परमात्मैव | कुतः उपपत्तेः | परशिवे ब्रह्मणि आत्मत्वामृतत्वाभयत्वादिधर्माणां व्यपदेशादिहाप्यक्षि स्थानपुरुषस्यापि तद्धर्मश्रवणान्नेतर इत्युपदिश्यते | प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः शिवोऽद्वतः ऋतगṁ सत्यं परं ब्रह्म एतस्य वा अमृतस्य नामधेयानि इत्यादि तैत्तिरीय-माण्डूक्य- śivasyevopadeśāt | śiva-brahma-paramātmaśabdānāṃ ghaṭa-kalaśa- विधीयते | शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य एक एव रुद्रो न द्वितीयाय तस्थे असंख्यातास्सहस्राणि | स्मर्यते न च दृश्यते विश्वाधिको रुद्रो महर्षि इत्यादिश्रुतिभिः सर्वाधिकत्व-सर्वोपास्यत्वादिधर्माणां तस्यैव निर्देशात् चक्षुरन्तःपुरुषो महादेव एव | यद्यप्यस्मिन् सर्पिर्वोदकं वा सिंचन्ति-वर्त्मनी एव गच्छति इति श्रवणादक्षिस्थानं निरस्तसमस्तदोषकलङ्कम् |एतं संयद्वाम इत्याचक्षते एतं ह सर्वाणि कामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद | एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद इति संयद्वामत्वादिधर्माणां अस्मिन् व्यपदेशात्परमेश्वर एव चक्षुर्मध्योपास्य इत्युच्यते | सर्वातीतस्य सर्वगतस्य शिवस्य कथमक्षिपुरुषत्वमित्याशंकायामाह - ४६. स्थानादिव्यपदेशाच्च || १४ || यः पृथिव्यां तिष्ठन् इत्यादिना क्षित्यादिशारीरकान्ताष्टमूर्तित्वं परमेश्वरस्य प्रसाध्य यश्चक्षुषि तिष्ठंश्चक्षुषोन्तरो यं चक्षुर्न वेद यस्य चक्षुश्शरीरं यश्चक्षुरन्तरो यमयति एष त आत्मान्तर्याम्यमृतः इति श्रुतौ चक्षुस्थानमपि निर्दिष्टं तस्मात् हृदयोपासनादिवदक्ष्युपासनमप्युपपन्नम् |
SK
ननु उपासनायाः नामरूपगुणवैशिष्ट्या आकाशवत्सर्वगतस्य तदभावात्कथं तस्योपासनम् इति चेन्न | तस्योदिति नाम हिरण्यश्प्रश्रुः इत्यादिना प्राकृतगुणातीतस्य महेश्वरस्य नामरूपगुणव्यपदेशात् अभ्युदयनिश्श्रेयसफलप्रदत्वेन सर्वशक्तिविशिष्टस्य शिवस्य ब्रह्मणो द्विविधं रूपं वक्तुं शक्यम् | कैवल्ये हृत्पुण्डरीकं विरजं विशुद्धं इत्यादिना हृदयपुण्डरीकं प्रपर्श्य | तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् || इत्यादिना पवनादिवत् एकस्यव निरवयवत्वसावयवत्वव्यपदेशात् | परमशिवस्य ब्रह्मणः शक्तिवैशिष्ट्यनिरूपणे श्रुतिप्रामाण्यं दर्शयति तैत्तिरीये च - ऋतगṁ सत्यं परं ब्रह्म पुरुषं कृष्णपि᳚गलम् | ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ऋतं - मनोतीतं सत्यं वागतीतं परं - गुणत्रयात्मकमूर्तित्रयात्परं ब्रह्म इति वाक्येन परशिवस्य निष्कलत्वनिरवयवत्वादिकमुपदिश्य पुरुषं पुरि- kṛṣṇapiṅgalaṃ kṛśānuretaskatayā ūrdhvaretasaṃ trilocanatayā virūpākṣaṃ jagadubhayakāraṇatayā viśvarūpaṃ ityanena sakalatvasāvayavatvādikaṃ nirūpitam | ataḥ dve ete brahmaṇo rūpe ityādiśrutisiddhamūrtāmūrtatvādikaṃ parabrahmaṇaśśivasyaiva siddham | tasmādaṅgāṅgitvena tadubhayopāsanaṃ vidheyam | sādhanaṃ vinā sādhyāniṣpattestatprāptyarthaṃ akṣisthānapradeśādyupāsananvyapadeśo yuktaḥ | punarhetvantaramāha - || 47 || sukhaviśiṣṭābhidhānādeva ca || 15 || akṣyantaḥ puruṣassākṣācchiva eva | kutaḥ sukhaviśiṣṭābhidhānādeva ca | evakāreṇa nātra saṃśayaḥ kārya iti sūcyate | sukhaviśiṣṭaṃ śivābhidhānaṃ brahma vākyopakrame śrūyate | tasyaivehābhidhānādityarthaḥ | prāṇo brahma kaṃ brahma khaṃ brahma ityupakrame brahmaṇassukhaviśiṣṭatvapradarśanāt |
SK
ननु - आचार्यस्तु ते गतिं वक्ता इति वाक्ये ब्रह्मप्रकरणत्वादर्शनात् | कं शब्दस्य वैषयिकसुखे रूढत्वात् खशब्दस्याकाशे प्रसिद्धत्वात् वाक्येपक्रमे सुखविशिष्टत्वं ब्रह्मणः कथमुपपद्यते इति चेत् - उच्यते - प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति ग्रार्हपत्याद्यग्नीनां वचनं श्रुत्वोपकोसल उवाच - विजानाम्यहं यत्प्राणो ब्रह्मेति कं च तु खं च न विजानामि इत्यत्रैतदुक्तम् | यद्वाव कं तदेव खं यदेव खं तदेव कं इति वाक्ये कशब्दखशब्दयोर्विशेषण-विशेष्यभावेन व्यपदेशात् कशब्दोऽत्रानन्दे रूढः तथाप्यधिष्ठितप्रतीकत्वेन भूताकाशे ब्रह्मशब्दोऽभिहितः | कंशब्दस्सदा हृषीकविषयवैशेषिकसुखे रूढत्वेऽपि इतरेतरबोधकौ कशब्द खशब्दौ सुखात्मकब्रह्मण्येवावगम्येते | तत्र कं ब्रह्म खं ब्रह्म खं ब्रह्म कं ब्रह्म इति द्विरावृत्या ब्रह्मशब्देन विधीयमान कशब्द- sukhasyāpi guṇasya guṇivat dhyeyatvam | tasmāt śrutyupakrame sukhaviśiṣṭatvena brahma nirdiṣṭam | gārhapatyādayognayaḥ svaṃ svaṃ mahimānamuddiśya te hocurupakosalaiṣā so'mya te'smādvidyā''tmavidyā ca ityupasaṃhṛtya pūrvatra parameśvaraparatvamupadiśati | ācāryastu te gatiṃ vaktā iti vākye gatimātrābhidhānapratijñānamarthāntaravivakṣāṃ nirasyati | yathā puṣkarapalāśa āpo na śliṣyate evamevaṃvidi pāpaṃ karma na śliṣyate iti cakṣurvyavahitapuruṣavijñānena nirastapāpapaṅkatvaṃ nirūpya tasyaiva brahmatvaṃ nirdiśati | tassātprakṛtasyaiva parameśvarasya akṣisthānagatatvaṃ saṃyadvāmatvādi guṇakatvaṃ ca nirūpya arcirādikāntadvido gatiṃ vakṣyāmītyārabhya ya eṣo'kṣiṇi puruṣo dṛśyate eṣa ta ātmeti hovāca ityasaṃkucitatvena vyapadeśādakṣyantaḥ puruṣaḥ parameśvara iti siddham | ihopadiṣṭānāṃ dharmāṇāṃ chāyābrahmaṇyativyāptimāśaṃkya hetvantareṇa nirākaroti - || 48 || śrutopaniṣtkagatyabhidhānācca || 16 ||
SK
इतश्चाक्ष्यन्तरः पुरुषश्शिव एव कुतः श्रुतोपनिषत्कगत्यभिधानात् | श्रुता अभ्यस्ता उपनिषत् ब्रह्मविद्या येन सः श्रुतोपनिषत्कः तस्य या गतिः अर्चिरादिरूपा तस्याः प्रकृतेः अभिधानादित्यर्थः | तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षं अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजायन्त एतद्वै प्राणानामायतनमेतदमृतमेतदभयमेतत्परायणमेतस्मान्न पुनरावर्तन्ते इति सैवेहाक्षिपुरुषविद्याभिधीयते | अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसंभवन्ति इत्युपक्रम्य आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयत्येष देव पथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इत्येवं परया गत्या अक्षिपुरुषस्य ब्रह्मत्वमुपदिश्यते | अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् | तत्रप्रयातागच्छन्ति ब्रह्मब्रह्मविदो जनाः || इति स्मृतौ च ब्रह्मगतिर्गीयते | तस्मादक्ष्यन्तः पुरषो न छायापुरुषः | अस्मिन् अर्थे हेत्वन्तरमाह - ४९ अनवस्थितेरसम्भवाच्च नेतरः || १७ || अत्र इतरच्छायापुरुषादिः अक्ष्यन्तःपुरुषो न भवति कुतः अनवस्थितेरसम्भवाच्च | अनवस्थितेः उपासकस्य सर्वत्राक्षिणिछायासंपादकपुरुषान्तरस्यासन्निधानात् छायापुरुषे अमृतत्वादिगुणानामसम्भवाच्चेत्यर्थः | ननु - यदैव हि कश्चित्पुरुषश्चक्षुरासीदति तदा चक्षुषि पुरुषच्छाया दृश्यते अपगते सति तस्मिन्नदृश्यते च | य एषोऽक्षिणि पुरुषः इति श्रुतौ स्वचक्षुषि दृश्यमानपुरुषोपासनोपदेशात् तदुपासने तद्ग्रीवाप्रदेशं प्रवीक्ष्य कंचित्पुरुषं चक्षुस्समीपे पश्यति तस्यात् छायापुरुषस्यैव चक्षुः प्रदेशविशेषे उपासनं इति चेन्न अमृतत्वादीनां
SK
परमशिवधर्माणां छायापुरुषे असंभवात् | चक्षुर्व्यवस्थित पुरुषधर्माणां सर्गस्थितिलयादीनां देवतात्मन्यसंभवाच्च | भीषास्माद्वातः पवते भीषोदेति सूर्यः इत्यादौ सूर्यादीनां परमेश्वराधीनत्वमुपदिष्टम् | महानारायणीये - अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः | ईशस्सर्वस्य जगतः प्रभुः प्रीणति विश्वभुकं इति श्रुतावंगुष्ठमात्रचक्षुःस्थितत्वं परमेश्वरस्यैव व्यपदिश्यते | अतस्तदन्तरोपास्यत्वं नेतरस्य सर्वथा सम्भवति | ननु - आपश्च पृथिवी चान्नमत्तारौ वह्निमरुतौ इत्यादौ वायोरपि भोक्तृत्वावगमात् प्राणाग्निहोत्रप्रकरणोपदिष्टाङ्गुष्ठमात्रप्रदेशोपास्यत्वं प्राणवायोरेव सम्भवति | तस्य पञ्चाहुतिभोक्तृत्वं चावगम्यते | तस्मान्न परमेश्वर एवात्रोपास्यः इति चेन्न - प्राणवायोर्भोक्तृत्वावगमेऽपि सकलजगदीशितृत्वचराचरप्रपञ्चभोक्तृत्वादिधर्माणामचेतने प्राणवायावसम्भवात् | प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तः इत्यादौ प्राणाधारत्वेन पञ्चाहुतिभोक्तृत्वगपि महेश्वराधीनमित्युपदेशादङ्गष्ठमात्रप्रदेशविशेषोपास्यत्वमङ्गुष्ठ- prasiddhopāsanamācāryakaṭākṣalabhyaṃ mumukṣuviṣayaṃ ceti jñeyam | iti caturthaṃ antaradhikaraṇam | antaryāmyadhikaraṇam || 5 || sarvagatasya śivaysa parabrahmaṇaḥ cakṣurantaropasyatvamupadiśya sarvāntaropāsyatvamadhikaraṇāntareṇa darśayati - 50 antaryāmyadhidaivādhilokādiṣu taddharmavyapedaśāt || 18 ||
SK
अन्तर्यामिब्राह्मणे कथ्यतेऽस्य विषयः - वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति इत्युपक्रम्य यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः इत्याद्यधिदैवतानन्तरं यस्सर्वेषु लोकेषु इत्यधिलोकं यस्सर्वेषु वेदेषु इत्यधिदैवतं यस्सर्वेषु यज्ञेषु इत्यधियज्ञं यस्सर्वेषु भूतेषु इत्यधिभूतं यः प्राणेष्वित्यादि य आत्मनि इत्यन्तमध्यात्मं च कश्चिदन्तरवस्थितो यमयिताऽन्तर्यामी श्रूयते स किमत्रपृथिव्याद्यधिष्ठातृदेवताविशेषोऽवगम्यते उत्ताणिमादिविभूत्युपपन्नः कश्चिद्योगी अथ वा परमेश्वरः स किमर्थान्तरं उत नेति सन्दिह्यते | पृथिव्येषु यस्यायतनमग्निर्लोको मनो ज्योतिः इत्यादिना कार्यकारणसंघातस्य देवतायां श्रुतत्वेन तस्याः नियन्तृत्वोपपत्तेः | अशरीरस्य शिवस्य नियन्तृत्वासम्भवात् देवतात्मपक्षो युक्तः | कस्यचित्सिद्धस्य योगिनो वा ह्यणिमाद्यष्टैश्वर्ययोगेन सर्वानुप्रविष्टत्वं यमयितृत्वं च स्यात् | स्वकर्मफलभोगाय सर्वभूतेन्द्रियानुप्रविष्टत्वं जीवस्य न विरुध्यते | महदहंकारादिरूपेण परिणामित्वात्प्रधानस्य व्यापकत्वं सिद्धम् | सर्वचेतनोपादानकारणतया विराट्पुरुषस्य सर्वभूतानुप्रवेशित्वमुचितम् | विश्वाधिको रुद्रः इत्यादौ परमेश्वरस्य विश्वधिकत्वनिर्देशाद्विकारात्मकचेतनाचेतनरूपप्रपञ्चानुप्रविष्टत्वं सर्वथा न संभवति | तस्मात्तद्विन्नस्यैव सर्वात्मकत्वसर्वनियन्तृत्वादिकमुपपन्नम् | इति प्राप्त ब्रूमः - अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् योऽधिदैवादिष्वन्तर्यामी व्यपदिश्यते स परमशिव एव कुतः तद्धर्मव्यपदेशात् | तस्य परमेश्वरस्य पृथिव्याद्यधिदेवताभिन्नत्व स्थूलसूक्ष्मप्रपञ्चानुप्रवेशित्वनियन्तृत्वकारणत्वामृतत्वादिधर्माणां व्यपदेशात् उपदेशादित्यर्थः |
SK
ननु - निर्विकारस्य ब्रह्मणो यमयितृत्वाद्यसम्भवात् निर्गुणब्रह्माध्यस्तमिथ्याभूतप्रधानसत्वगुणप्रतिबिम्बितेश्वरस्यैव सर्वनियन्तृत्वादिकं इति चेन्न | एष त आत्माऽन्तर्याम्यमृतः इति वाक्ये कालत्रयाबाध्यस्य अमृतशब्धाभिधेयस्य शिवस्यैव नियन्तृत्वादिधर्मनिर्देशात् | मिथ्याभूतस्य सर्वनियामकत्वासम्भवात् | लोके प्रतिबिम्बस्य कर्तृत्वादर्शनाच्च प्रतिबिम्बितेश्वरस्य सर्वनियन्तृत्वादिकं नोपपद्यते | तस्मात् शिवस्यैव सर्वान्तर्यामित्वसर्वनियन्तृत्वादिकं सिद्धम् | ननु - नियामकत्वादिधर्मानवच्छिन्नस्य परमेश्वरादन्यस्यैव परब्रह्मत्वं किं न स्यात् इति चेन्न | अनवस्थादोषप्रसङ्गात् | तत्सत्वे प्रमाणाभावात् | तेन लोकस्य प्रयोजना भावाच्च | गुणशून्यस्य ब्रह्मत्वाङ्गीकारे पाषाणादिवज्जडत्वापत्तेः | तस्मात्तस्यैव सगुणत्वं निर्गुणत्वं च | शक्तिसंकोचकाले निर्गुणत्वम् | तद्विकासकाले सगुणत्वम् | अतस्सर्वजगदुभयकारणत्वसर्वात्मकत्वसर्वप्रविष्टत्व सर्वनियामकत्वादिके महादेवस्य महेश्वरस्यैवोपपन्नम् | तथा श्रुत्यन्तरे - यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् सर्वोह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु इति तैत्तिरीये | अथर्वशिरसि च - देवा ह वै स्वर्गं लोकमगमन् ते देवा रुद्रमपृच्छन् को भवानिति सोऽब्रवीत् अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तस्सोन्तरादन्तरं प्राविऽसत् इत्यादिना शिवस्य परब्रह्मणस्सर्वान्तर्यामित्वादिधर्माणां दर्शनान्नान्यस्य परब्रह्मत्व सर्वान्तर्यामित्वसर्वात्मत्वादिकं सर्वथा सम्भवति | अन्यथा प्रकरणविरोधोऽपि स्यात् | व्योमवत्परिपूर्णस्य महेश्वरस्य विश्वाधिकत्वं विश्वानुप्रविष्टत्वमप्यविरुद्धम् |
SK
अन्तर्याम्यमृतः इति शिव एवामृतशब्देन निर्दिश्यते | एतानि ह वा अमृतस्य नामधेयानि इति जावालेश्रवणात् तत्र प्रतिपर्यायममृतशब्दप्रयोगो ह्यभ्यासः | अथर्वशिरसि - यो वै रुद्रस्य भगवान् यश्च ब्रह्मा इत्यादिना सर्वात्मकत्वप्रसाधने अनन्तदिव्यमङ्गलगुणरत्नाकरे शिवे पुनः पुनर्भगवच्छब्दप्रयोगवत् जाबाले भूयोभूयः परमशिवे अमृतशब्दप्रयोगाभ्यासो रूढ्यर्थे निर्दिष्टः | अध्यस्तस्य मिथ्याभूतस्य प्रधानस्य सर्वान्तर्यामित्वमुपपन्नमित्याशंकायां तन्मतं निराकरोति | महेश्वरस्यैव सर्वान्तर्यामित्व निरूपणम् ५१. न च स्मार्तमतद्धर्माभिलापात् || १९ || स्मार्तं - गुणत्रयसमष्ट्यात्मकं प्रधानम् | तत् सत्त्वगुणप्रतिफलितं च नान्तर्यामिशब्दवाच्यं भवितुमर्हति | कस्मात् अतद्धर्माभिलापात् | अदृष्टो द्रष्टा अश्रुतश्श्रोता अमतो मन्ता अविज्ञातो विज्ञाता इति वाक्यशेषदर्शनादात्मत्वद्रष्ट्टत्वादिधर्मासम्भवादित्यर्थः | तच्छब्देन प्रधानमुच्यते न तत् अतत् प्रधानभिन्नः परमशिवः तस्यैव ये धर्माः अमृतत्वादयः तेषमभिलापात् अभिधानादित्यर्थः प्रधानधर्माणामभिलापाभावात्सांख्याद्वैतकल्पितं प्रधानं नान्तर्यामीति भावः | ननु - अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः इति स्मृतौ | अजामेकां इत्यादिश्रुतै च प्रधानस्य सर्वप्रपञ्चकारणत्वोपदेशात् अयस्कान्तसूचीन्यायेन ब्रह्मसत्तावशात्तत्कारणत्वान्तर्यामित्वादिकं तस्यैवोपपद्यते इति चेन्न |
SK
सोऽकामयत बहुस्यां प्रजायेयेति तत्सृष्ट्वा तदेवानुप्राविशत् इत्यादौ परब्रह्मणश्शिवस्य प्रधाननिरपेक्षतया जगज्जन्मादिहेतुत्वश्रवणात् मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरं क्षरं प्रधानममृताक्षरं हरः क्षरात्मनावीशते देव एकः प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः इत्यादौ च परमेश्वरस्य प्रधानजीवनियामकत्वनिर्देशाच्च | तत्प्रतिबिंबितेश्वरस्यापि नान्तर्यामित्वम् | प्रतिफलितस्य जडत्वादलीकत्वाच्च नीरूपयोर्ब्रह्मप्रधानयोम्बिम्बप्रतिबिम्बभावकल्पनाशास्त्रं गगनभित्तिचित्रवदविचारमनोरमम् | तस्मादद्वयवादिमतमद्वयवादिमतमेव | तथा च स्मृतिः - अनाद्यविद्यया बद्धं ब्रह्मतत्कालकारणम् | स्वाविद्यया संसरति मुक्तिः कल्पितवाक्यतः || एवं प्रतारणं शास्त्रं सर्वमाहात्म्यनाशकम् | उपेक्ष्यं शिवभक्तैस्तु श्रुतिस्मृतिविरोधतः || कलापगादयं मुख्यः फलं वै मुख्यतस्तमः | ज्ञाननाशित्वसिध्यर्थ तदेव हि निरूपितम् || तदन्यथैव संसिद्धं विद्याविद्यानिरूपणे | अयस्कान्तस्य पक्षे तु तत्कर्तृत्वं तदीरितम् || तदैक्षतेति श्रुतिभिर्मुख्यकर्तृत्वदर्शनात् | तत्सान्निध्यात्प्रधानस्य कर्तृत्वं नोपपद्यते || ऐन्द्रजालिकपक्षेऽपि मतान्तरमिदं ध्रुवम् | नास्ति श्रुतिषु तद्वार्ता दृश्यमानासु कुत्रचित् || वाचारम्भणवाक्यानि तदनन्यत्वबोधनात् | न मिथ्यात्वाय कल्पन्ते जगतश्शिवरूपतः || ज्ञानार्थमर्थवादश्चेज्जगत्सृष्ट्यादिरूपिणी | अनङ्गीकरणाद्युक्तं विधिमाहात्म्ययोर्न तत् || अपवादार्थमिति चेदारोपो वस्तुतो न हि | दृढप्रतीतिसिध्यर्थमिति चेत्तन्न युज्यते || मुख्यार्थबाधकं नास्ति कार्यदर्शनतश्श्रुतेः | ऐन्द्रजालिकपक्षे तु कर्तृत्वं ब्रह्मणि स्थितम् || मायादीनां च कर्तृत्वं श्रुतिसूत्रैर्न बोध्यते | अकर्तृत्वं च यत्तस्य माहात्म्यज्ञापनाय वै || विरुद्धमर्थबोधाय न युक्तेः कस्य कारणम् मायिकत्वं पुराणेषु मोहार्थमुपद्यते ||
SK
असत्यमप्रतिष्ठम्ते जगदाहुरनीश्वरम् | अपरस्परसम्भूतं किमन्यत्कार्यहेतुकम् || अखण्डाद्वैतभाने तु सर्वं शिवमयं जगत् | ज्ञानाद्विकल्पबुद्धिस्तु लीयते न स्वरूपतः || भिन्नत्वं नैव युञ्जीत शिवोपादानतः क्वचित् | भेदाभेदमते लोके सर्वश्रुतिसमन्वयात् | तदेव वैदिकं प्रोक्तमिति वेदान्तडिण्डिमः | इति | अतस्सर्वान्तर्यामी महेश्वर इति राद्धान्तः | जीवस्य चेतनत्वाद्द्रष्ट्टत्वादिधर्माणां तस्यैवोपपत्तिमाशंक्य परिहरति - ५२. शारीरश्चोभयेऽपि हि भेदेनैनमधीयते || २० || अत्रापि नेत्यनुवर्तते | शारीरश्च जीवोऽपि नान्तर्यामीत्याचक्षते | कुतः उभयेऽपि हि भेदेनैनमधीयते | उभयेऽपि हि काण्वा माध्यन्दिनाश्च एनं क्षेत्रज्ञं अन्तर्यामिभिन्नतया अधीयते | यो विज्ञाने तिष्ठन् इति काण्वाः यः आत्मनि निष्ठन् इति माध्यन्दिनाः विज्ञानात्मशब्दयोर्जीवपर्यायत्वात् | जीवादन्यः परमशिव एवान्तर्यामीत्युपदिश्यते | तस्माज्जीवविराट्पुरुषप्रधानादीनामन्तर्यामित्वं न घटत इति सिद्धम् | ननु - नान्योतोऽरित द्रष्टा इति श्रुतेः परमेश्वरादन्यं द्रष्टारं श्रोतारं मन्तारं विज्ञातारं चात्मानं निरस्यति | तस्माद्रष्ट्टद्वयं शरीरे नोपपद्यते | इतिचेन्न | द्वसुपर्णा इति मन्त्रे जीवब्रह्मणोस्साहचर्यव्यपदेशात् | नान्योतोऽस्ति द्रष्टा इति श्रुतावधिष्ठात्रन्तरनिषेधो युज्यते | यत्र हि द्वैतमिव भवति इत्यनेन जीवब्रह्मणोरादौ संसारदशायां भेदः यत्रत्वस्य सर्वमात्म्यैवाभूत्तत्केन कं पश्येत् केन कं वदेत् इत्यनेन मोक्षदशायां सर्वस्य शिवात्मकत्वज्ञानात्संसारप्रतिषेधोऽवगम्यते तस्माज्जीवब्रह्मणोर्भेदाभेदो युक्तः | तस्मात्सर्वनियामकः सर्वान्तर्यामी परमेश्वर एव एवोच्यते इति पञ्चमं अन्तर्याम्यधिकरणम् | अदृश्यत्वाधिकरणम् || ६ || अथ परमेश्वरस्य सर्वाधिकत्वव्यवशापनम् जीवादीनां ब्रह्मत्वस्वप्रवर्तकत्ववारणाय परमशिवस्य सर्वान्तर्यामित्वं प्रसाध्य तस्यैव सर्वाधिकत्वव्यवस्थापनार्थं अदृश्यत्वादिगुणकत्वमधिकरणान्तरेण दर्शयति -
SK
५३. अदृश्यत्वादिगुणको धर्मोक्तेः || २१ || आथर्वणे दृश्यतेऽस्य विषयः | अथ परा यया तदक्षरमधिगम्यते | यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् | नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः इत्यादि | किमत्रादृश्यत्वादि गुणको भूतयोनिः शारीरः प्रकृतिः परशिवो वा इति संशयः - अजामेकां लोहितशुक्लकृष्णां वह्वीं प्रजां जनयन्तीं सरूपाम् इत्यादौ प्रधानस्य गुणत्रयात्मकस्य बहुप्रजाजनकत्वेन भूतयोनित्वोपपत्तेः योनिशब्दस्य निमित्तवाचकत्वाद्भूतयोनिर्विज्ञानात्मा स्यात् | चिद्रूपस्य निष्कलङ्कस्य परमशिवस्य पृथिव्यादिरूपेण मृदादिवत्परिणामित्वं न सम्भवति यथोर्णनाभिस्मृजते इति श्रुतौ चेतनोर्णनाभावचेतनतन्तुचक्रनिर्माणोपसंहारदर्शनाच्चिद्रूपस्य चेतनाचेतनप्रपञ्चकारणत्वमुपपद्यत इति चेन्न | न हि केवलचेतनोर्णनाभेस्तन्तुपटहेतुत्वं तच्छरीरस्यैव तदुपादानकारणत्वदर्शनात् | तथा पुरुषशरीरस्यैव लोमनखादिहेतुत्वम् | तस्मादिहादृश्यत्वादिधर्माः प्रधाने युज्यन्ते | यस्सर्वज्ञस्सर्ववित् इत्यादिवाम्यशेषे परमशिवधर्मबाहुल्यद्योतनात्कथं प्रकृतेर्भूतयोनित्वं इति चेत् - अभिधीयते | अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम् इत्यादावक्षरशब्देनादृश्यत्वादि धर्मावच्छिन्नं प्रधनं श्रावयित्वा अक्षरात्परतः परः इत्यत्र योक्षरात्परश्श्रुतः स सर्वज्ञस्सर्वविच्च भविष्यति | तस्मादक्षरशब्दवाच्यं प्रधानं भूतयोनिः इति प्राप्ते - ब्रूमः - अत्रादृश्यत्वादिगुणको भूतयोनिर्महेश्वर एव कुतः धर्मोक्तेः | यः सर्वज्ञस्सर्ववित् इत्यादि परमेश्वरधर्मबाहुल्यवचनादित्यर्थः | न प्रधानस्याक्षरशब्दवाच्यत्वं जगत्कारणत्वं चोपदिश्यते |
SK
यथोर्णनाभिस्सृजते गृह्णतो च | यथा पृथिव्यामोषधयस्सम्भवन्ति यथा सप्तः पुरुषात्केशलोमानि तथा क्षरात्संभवतीह विश्वम् इत्युपक्रान्तस्य जगत्कारणस्यैव यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते इत्यत्र प्रत्यभिज्ञायमानत्वादचेतनप्रधाने सर्वज्ञत्वादिधर्माणामसंभवात् | अक्षरात्परतः परः इत्यएन प्रकरणाद्भूतयोनेरक्षरात्परो न कश्चिदुपदिश्यते | येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्यां इति प्रकृतस्याक्षरस्य भूतयोनित्वव्यपदेशात् श्रुत्यन्तरेऽपि - उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाषिं तमसः परस्तात् इत्यादिना शिवस्यैव भूतयोनित्वादिधर्मोपदेशाद्भूतयोनिर्नेतरः | किञ्च - द्वे विद्ये वेदितव्ये इति हस्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च वाक्ये ऋग्वेदादिलक्षणामपरां विद्यां निर्दिश्य अथ परा यया तदक्षरमधिगम्यते इत्यादिना परविद्याविषयत्वं ब्रह्मणः परमशिवस्योपदिश्यते | तयोरुभयोर्विद्ययोः परापरविभागत्वेन अभ्युदयनिश्श्रेयसफलकत्वं निर्दिश्यते | तिस्रश्च विद्याः प्रतिज्ञायेरन् इत्यादिना भूतयोनित्वं परमेश्वरस्यैव प्रसाधितम् | (द्वे ये तु विधे इह वेदितव्ये निर्दिष्टे) कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति इत्यादावेकविज्ञानेन सर्वविज्ञानप्रतिज्ञा | परमशिवब्रह्मण्येवोपपद्यते | जडप्रधाने तत्प्रतिज्ञाऽसम्भवात् |
SK
किञ्च - स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह इति प्राधान्येन ब्रह्मविद्यामुपक्रम्य परापरविभागेन परां विद्यामक्षराधिगभनीं प्रदर्श्य तस्याः ब्रह्मविद्यात्वं निदिशति | अपरा हि ऋग्वेदादि लक्षणा कर्मविद्या ब्रह्मविद्योपक्रममुपदिशति | ब्रह्मविद्या प्रशंसायै - प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरा मृत्युं ते पुनरेवापि यन्ति इत्येवमादिना निन्दां कृत्वा ततो विरक्तस्य परविद्याधिकारित्वम् | परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन | तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठम् इत्यादिनोपदिशति | तस्माददृश्यत्वादिगुणको भूतयोनिर्महेश्वर इति सिद्धम् | अस्मिन्नर्थे हेत्वन्तरमाह - ५४. विशेषणभेदव्यपदेशाभ्यां च नेतरौ || २२ || अत्रापि भूतयोनिश्शिव एव नेतरौ प्रकृतिजीवौ कुतः विशेषणभेदव्यपदेशाभ्यां च | विशेषणं च भेदव्यपदेशश्च ताभ्यामित्यर्थः दिव्यो ह्यमूर्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः | अप्राणो ह्यमनाश्शुभ्रो ह्यक्षरात्परतः परः || इत्यादिना विशेऽणमुपदिश्यते | दिव्यत्वादिधर्माणां परमेश्वरादन्ययोर्जीवप्रधानयोरसम्भवात् | भेदव्यपदेशोऽपि - अक्षरात्परतः परः हति अक्षरमव्याकृतं पाशरूपं तस्मात्सर्वस्माद्विकारात्परं तस्मात्परतः पर इति पाशपरमेश्वरयोर्भोदेन व्यपदेशः | तस्मान्नेतरो भूतयोनिः | अथवा अक्षरात्पर इति जीवात्परः परशिवो वा स्यात् | परतः परम इति वैलक्षण्येन व्यपदेशात् परमेश्वर एवात्रावगम्यते | पुनर्हेत्वन्तरमाह - ५५. रूपोपन्यासाच्च || २३ ||
SK
अत्रापि भूतयोनिश्शिव एव | कुतः रूपोपन्यासाच्च | रूपं - अवयवात्मकंशरीरं तस्योपन्यासादित्यर्थः | अक्षरात्परतः परः इत्यनेन शिवस्य परब्रह्मणः जीवप्रधानवैलक्षण्यमुपदिश्य ततः - एतस्माज्जायते प्राणः इति प्राणादिसर्वकारणत्वं परमेश्वरस्य प्रदर्श्य अग्निर्मूर्धा चक्षुषीचन्द्रसूर्यौ दिशश्श्चोत्रे वाग्विवृताश्च वेदा | वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा इत्यादिना तस्यैव विश्वरूपत्वं दर्शयति | जीवप्रधानयोस्सर्वकारणत्वसर्वान्तर्यामित्वादिधर्माणामसंभवात् रूपोपन्सासो न सम्भवति | नन्वदृश्यत्वादिगुणकस्य परमेश्वरस्य कथं रूपोपन्यास इति चेन्न | प्रकरणात् एष इति च प्रकृताकर्षणात् एतस्माज्जायते प्राणः एष सर्वभूतान्तरात्मा इति श्रुतिर्भूतयोनिपरत्वमेवोपदिशति पवनादिवन्मूर्तामूर्तत्वं तस्य स्वाभाविकमेव | किं च एतस्माज्जायते प्राणः इत्यादिना प्राणादिपृथिव्यन्तकारणत्वं पूर्वत्रोपदिश्य तस्मादग्निस्समिधो यस्य सूर्यः इत्येवमादि अतश्च सर्वा ओषधयो रसाश्च इत्येवमन्तं समिदादिकारणत्वं निर्दिश्य पुरुष-एवेदं विश्वं कर्म इत्यादिना भूतयोनेस्सर्वात्मकत्वमुपदिशति | हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् | सदाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम इति श्रुतौ त्रिजगच्छरीरस्य महादेवस्य समवर्तताग्रे इति पदेन अजातत्वं निर्दिष्टं प्राणस्स्वरूपेण सर्वभूतान्तस्थितत्वात् | पुरुष एवेदं विश्वं कर्म इत्येवमादि सर्वरूपोपन्यासः परमशिवप्रतिपत्तिहेतुरिति राद्धान्तः | तस्माद्भूतयोनिः अक्षरशब्दवाच्यः परमेश्वर एव | इति षष्ठं अदृश्यत्वाधिकरणम् | वैश्वानराधिकरणम् || ७ || विश्वाधिकस्य महेश्वरस्य विश्वकारणत्वं विश्वाधिकत्वादिकं निर्दिश्य तस्यैव जाटराग्निरूपेण सर्वोपास्यत्वमधिकरणान्तरेण दर्शयति - ५६. वैश्वानरस्साधारणशब्दविशेषात् || २४ ||
SK
छान्दोग्यो पठ्यतेऽस्य विषयः - को न आत्मा किं ब्रह्मेति आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहि इत्यारभ्य आकाशादित्यादीनां गुणयोगं एकैकोपासनतिरस्कारेण च मूर्धादिभावमुपन्यस्य आचक्षते - यस्त्वेतमेवं प्रादेशमात्रममिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बहिर्हृदयं गार्हपत्यो मनोऽन्वाहार्य पचन आस्यमाहवनीयः इत्यादि | किमिह वैश्वानरशब्देन जाठराग्निर्भूताग्निस्तदभिमानिदेवता परमेश्वरो वेति बह्व्यो विप्रतिपत्तयः संदृश्यन्ते | अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैषघोषो भवति यमेतत्कर्णावपिधाय श्रुणोति स यदोत्क्रमिष्यन् भवति नैनं घोषगṁ शृणोति इत्यादिना भूताग्निर्व्यपदिश्यते | तत्साधारणशब्दप्रयोगश्रवणात् | विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् इत्यादावग्निदेवता दृश्यते | वैऽस्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः इत्यादिस्तुतेरैश्वर्यावगततद्देवतायां प्रयोगसम्भवात् | किञ्च वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते इत्यादाविष्टिदेवतात्वेन फलदातृत्वश्रवणात् आत्मशब्दवैशेष्यात् | उपक्रमे च को न आत्मा किं ब्रह्म इत्यात्मशब्दश्रवणात् | आत्मशब्देन वैश्वानरो ह्युपदिश्यते | वैश्वानरसन्निधानेन तद्भोक्तृत्वदर्शनाज्जीवात्माप्युपदिश्यते | वैश्वानरशब्दस्य भूताग्नौ रूढत्वात् प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते इति वाक्ये प्रादेशमात्रपरिच्छिन्नप्रदेशविशेषव्यवस्थापनात्सर्वव्यापकस्य परब्रह्मणश्शिवस्य सर्वथा न वैश्वानरशब्दवाच्यत्वं इति चेत् -
SK
वक्ष्यामः - वैश्वानरस्साधारणशब्दविशेषात् अत्र वैश्वानरस्साक्षान्महेश्वर एव कस्मत् साधारणशब्दविशेषात् | साधारणशब्दानां मध्ये विशेषशब्दात् | उपक्रमे को न आत्मा किं ब्रह्मेति आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि इत्यादिषु परमशिवासाधरणब्रह्मशब्दप्रयोगात् | भूताग्न्यादीनां तदसम्भवाद्वैश्वानरस्साक्षाच्छिवः | किञ्च - आत्मशब्दस्तु जीवब्रह्मणोः वैश्वानरशब्दश्च जाठरादीनां त्रयाणां साधारणः | तथापि विशेषो दृश्यते | तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः इत्यादि वाक्यैरात्मवैश्वानरशब्दयोः परमेश्वरपरत्वं प्रतिपाद्यते | परब्रह्मणश्शिवस्यैवात्र द्युमूर्धत्वादिधर्माणां सम्भवात् | सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति इत्यादौ सर्वव्यापकस्य परमेश्वरस्य सर्वलोकाश्रयफलभोक्त्तृत्वस्य युक्तत्वात् | एवं हास्य सर्वे पाप्मानः प्रदूयन्ते इत्यादौ सर्वपापप्रणाशकत्वं परमेश्वरस्यैव समुचितमिति | उपक्रमोपसंहारादौ ब्रह्मधर्मबाहुल्यान्नेतरो वैश्वानर इति सिद्धम् | अस्मिन्नर्थे हेत्वन्तरं दर्शयति - ५७. स्मर्यमाणमनुमानं स्यादिति || २५ || इहापि परमशिव एव वैश्वानर इत्युच्यते | अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ इति | अग्निरास्यं द्यौर्मूर्धा इत्यादिषु यतः परमेश्वरस्य सर्वात्मकत्वं स्यर्यते ततो वैश्वानरो न परमेश्वराद्भिन्नः तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बहिर्हृदयं गार्हपत्यो मनोऽन्वाहार्य पचन आस्यमाहवनीयः इत्यादौ वैश्वनरशब्दस्य परमशिवपरत्वेन व्यवस्थापनात् | यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः | सूर्यश्चक्षुर्दिशश्शोत्रं तस्मै लोकात्मने नमः ||
SK
इति स्मृतिरपि परमेस्वरपरत्वमुपदिशति | स्मर्यमाणं स्मृत्युक्तं रूपमनुमानं गमकं स्यात् | इति शब्दो हेत्वर्थः यस्मादेवं गमकं तस्माद्वैश्वानरः परमेश्वर इति निर्णीयते | अस्मिन्नर्थे पुनर्हेत्वन्तरमाह - ५८. शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथादृश्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते || २६ || ननु - वैश्वानरो न परमेश्वरः कुतः शब्दादिभ्योन्तः प्रतिष्ठानाच्च | शब्दस्तावन् वैश्वानरशब्दो न परमेश्वरपरः | जाठराग्नौ मुख्यत्वात् | आदिशब्दात् हृदयं गार्हपत्यः इत्यग्नित्रयं सूचितम् | तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं इत्यादिना प्राणाहुत्याधारता संकीर्तनं च गृह्यते | एतेभ्यो हेतुभ्यो जाठर एव वैश्वानरः | किञ्च - अन्तः प्रतिष्ठानात् | पुरुषोन्तः प्रतिष्ठितं वेद इति वैश्वानरस्यान्तः प्रतिष्ठितत्त्वश्रवणात् | इदं च जाठरे सम्भवति | इति चेन्न - तथा जाठराग्न्ययवच्छिन्ने महेश्वरे दृष्ट्युपदेशात् ध्यानोपदेशात् | असम्भवात् | द्युमूर्धत्वादिधर्माणां केवलजाठराग्नावसम्भवादित्यर्थः | पुरुषमपि चैनमधीयते वाजसनेयिनः एनं वैश्वानरं पुरुषमधीयते पुरुषं वदन्ति | स एपोऽग्निर्वैश्वानरो यत्पुरुषः सयो ह वैतमेवमग्नि वैश्वानरं पुरुषविधं पुरुषेन्तः प्रतिष्ठितं वेद इति परमेश्वरस्य सर्वात्मकत्वात्पुरुषविधत्वं पुरुषेन्तःप्रष्ठितत्वं च सर्वमुपपद्यते | कैश्चित् - पुरुषविधमभिधीयते इति पाठेप्ययमेवार्थः सूचितः | जाठरस्य पुरुषविधत्वं न संभवति | सर्वात्मकत्वात्परमशिवस्य भक्तोपासनार्थं सर्वमविरुद्धम् | ननु - जाठराग्नेत्रैलोक्यात्मकत्वासम्भवेऽपि बाह्याभ्यन्तरस्थितस्य भूताग्नेर्द्युलोकसम्भन्धदर्शनात्रैलोक्यात्मकत्वं सम्भवति | यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् इत्यादावैश्वययोगात्तच्छरीरदेवतायाः द्युलोकावयवत्वामुपपद्यते | तस्मान्न परमेश्वरः इति चेन्न -
SK
यो रुद्रोऽग्नौ इत्यादि श्रुतिशतेषु परशिवस्यैव वैश्वानराद्युपाधिकत्वनिर्देशादत्र जाठरवैश्वानरोपाधिर्नेतरः | परमेश्वरपक्षे पुनर्हेत्वन्तरमुपदिशति - ५९. अत एव न देवता भूतं च || २७ || मन्त्रवर्णे तृतीयभूताग्नेर्लोकत्रयात्मकत्वदर्शनात् - मूर्धैव सुतेजाः इत्याद्यवयवसम्बधित्वं तस्यैवोपपन्नम् | तच्छरीरदेवताया ऐश्वर्ययोगात्समञ्जसं इति चेत् - ब्रूमः - देवता च भूतं च देवताभूतमित्येकवद्भावः | द्वयमपि न वैश्वानरशब्दाभिधेयम् | अत एव पूर्वोक्तेहेतुभ्यः द्युमूर्धत्वादेरुभयत्रासमञ्जसत्वादित्यर्थः | किञ्च - लोहितोष्णप्रकाशात्मकभूताग्नेस्तदधिष्ठानदेवतायाश्च परशिवोपासनाप्रात्पैश्वर्यत्वादात्म᳚अब्दाभावात्सर्वेश्वरत्व- parabrahmaṇaśśivasya siddhatvādvaiśvānaraśabdavācyatvaṃ tasyaiva pratipattavyam | asminnarthe punarācāryamataṃ darśayati - 60. sākṣādapyavirodhaṃ jaiminiḥ || 28 || rudro vā eṣa yadagnistasyaite tanuvau ghorānyā śivānyā iti śrutāvagnessākṣātparameśvarātmakatvena vyapadeśādvaiśvānaraśabdavācyatvaṃ paramaśivasya brahmaṇaḥ aviruddhaṃ jaiminirmanyate | pūrvatra jāṭharāgnyavacchinnatayā paramaśivopāsanaṃ nirdiṣṭaṃ antaḥ pratiṣṭhitatvādyanurodhena | idānīṃ pratīkopāsanaṃ vinaiva sākṣādapi parameśvaratvenopāsane avirodhitvaṃ sūcitam | kiñca - puruṣavidhaṃ puruṣe'ntaḥ pratiṣṭhitam ityatra tasya parameśvarasya puruṣaśabdenāvayavatvaṃ antaḥpratiṣṭhitamityanena niravayavatvaṃ ca sūcitam | pūrvāparasandarbheṇa parameśvara eva vaiśvānara ityupadiśyate | viśvaśvāsau naraśceti viśveṣāṃ nara iti viśve narā yasyeti vā viśvanaraḥ viśvanara eva vaiśvānaraḥ | taddhitonanyārthe rākṣasavāyasādivat | agniśabdo'pyagraṇītvādiguṇayogāśrayeṇa parameśvaraparatva eva bhaviṣyati | gārhapatyādikalpanaṃ prāṇāhutyadhikaraṇatvaṃ ca sarvātmakatvātparameśvarasyaiva nirṇīyate |
SK
व्यापकस्य परमेश्वरस्य कथं प्रादेशमात्रवाक्यमुपपद्यत इत्याशंकायामाचार्यान्तरं दर्जयति - ६१. अभिव्यक्तेरित्याश्मरथ्यः || २७ || सर्वव्यापकस्य शिवस्य परब्रह्मणः प्रादेशमात्रपरिमाणमुपदिश्यते | कुतः अभिव्यक्तेः | परमशिव एव भक्तोपासनार्थं हृदयचक्षुरादिप्रदेशविशेषेषु प्रादेशमात्रपरिमाणोऽभिव्यज्यते- सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयः | सर्वव्यापी च (स) भगवांस्तस्मात्सर्वगतः शिवः || इत्यादिश्वेताश्वतराद्युपनिषत्सु व्यापकस्य भक्तोपासनार्थं परिच्छिन्नत्वव्यपदेशादत्रापि प्रादेशमात्रश्रुतिरुपपद्यत इत्याश्मरथ्यो व्याचष्टे | अस्मिन्नर्थे पुनराचार्यान्तरं दर्शयति - ६२. अनुस्मृतेर्बादरिः || ३० || दहरं विषाप्मं परवेश्मभूतम् इत्यारभ्य पद्मकोशं इत्यादिना सर्वगतस्य शिवस्य ब्रह्मणः दहरगुहाशयत्व वह्निशिखात्मकत्व-सर्वशब्दवाच्यत्व- svecchayā lokatāraṇārthaṃ hṛdayādiprādeśamātrapradeśasthitatvena prādeśamātra iti manasā vādarirmanyate | yathā āḍhakaparimitataṇḍulādikamāḍhaka ityucyate | tathā prādeśamātrapradeśāvagataḥ parameśvaraḥ prādeśa iti nirṇīyate | tasmādvyāpakasya paricchinnatvamaviruddham | yastvetamevaṃ prādeśamātramabhivimānaṃ vaiśvānaramupāste sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ityādau mūrdhādicubukāntaprādeśamātra vaiśvānaropāsakatvavyapadeśātparamaśivabrahmaṇaḥ prādeśamātratvamaviruddham | tasmātprādeśamātrasampatteḥ prādeśamātraśrutirupapanneti jaiminirāha | sūtrakārastathādarśayati - 63. sampatteriti jaiministathā hi darśayati || 31 ||
SK
वैश्वानरस्य प्रादेशमात्रत्वे श्रुत्यन्तरं दर्शयतीत्यर्थः | वाजसनेयब्राह्मणे - प्रादेशमात्रमिह वै देवास्सुविदिताभिसम्पन्नास्तथा - एनान् वक्ष्यामि तथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति स होवाच - मूर्धानमुपदिशन्नुवाच एष एवावतिष्ठते वैश्वानर इति चक्षुष्युपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मा वैश्वानर इति | मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति | मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति - चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानर इति | चुबुकशब्देनात्र मुखफलकमधरमुपदिश्यते | आदित्यश्च सुतेजस्त्वगुण इत्यादिना लोकत्रयात्मकस्य वैश्वानरस्य द्युप्रभृतिपृथिव्यन्तावयवान् अध्यात्ममूर्धप्रभृतिचुबुकान्तशरीरावयवेषु प्रादेशमात्रसम्पतिं परमेश्वरस्योपदिशति | छान्दोग्ये - द्यौस्सुतेजस्त्वगुणः इति प्रभाकरस्य विश्वरूपत्वगुणविशेषेणैतावता किञ्चिद्विशेषणमुपदिश्यते - उर एव वेदिर्लोमानि बहिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः इत्यारभ्य - एवं विद्वानग्निहोत्रं जुहोति इत्युपासकस्य उरः प्रभृतीनां वेद्यादित्वनिरूपणं सर्वशाखासम्पत्तिनिमित्तप्रादेशमात्रश्रुतिरुपदिशति | तस्माद्व्यापकस्य परिच्छिन्नत्वं समुचितमेव | पुनर्हेत्वन्तरमाह - ६४. आमनन्ति चैनमस्मिन् || ३२ || किञ्चास्मिन् शरीरे एनं सर्वव्यापकं परमेश्वरं नारायणजाबालादयः आमनन्ति प्राणानां ग्रन्थिरसि रुद्रोमाविशान्तकस्तेनान्नेनाप्यायस्व इति | शिवो मा विशा प्रदाहाय इति ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् इत्यादावुपासकजाठराग्न्यवच्छिन्नतया परमेश्वरस्य भोक्तृत्वं प्रादेशमात्रपरिमितत्वं च मन्यन्त इत्यर्थः |
SK
किञ्च - य एषोनन्तोऽव्यक्तोऽनन्त आत्मा सोऽविमुक्तः प्रतिष्ठित इति सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति वरुणायां नास्यां च प्रतिष्ठित इति का वै वरुणा का च नासीति तत्र चेमां वारुणां नासी च सर्वाणीन्द्रियगतानि पापानि वारयति | नाशयति च इति निरुच्य पुनरप्यामनन्ति कतमच्चास्य स्थानं भवतीति भ्रुवोर्घ्राणस्य च यस्सन्धिस्स एव द्युलोकस्य परस्य च सन्धिर्भवतीति जाबालेऽपि परमेश्वरस्य प्रादेशमात्रप्रदेशपरिमितत्वव्यपदेशाज्जाठराग्न्यवच्छिन्नप्रादेशमात्रप्रतिपा दितः वैश्वानरश्शिव एवेति सिद्धम् | इति सप्तमं वैश्वानराधिकरणम् इति श्रीमन्निराभारवीरशैवयतिव्रजपरिवृढ- -स्थापक-वैयासिकब्रह्ममीमांसासूत्रार्थप्रकाशके श्रीकरभाष्ये समन्वयाभिधानस्य प्रथमाध्यायस्य द्वितीयः पादः अथ श्रीकरभाष्ये प्रथमाध्याये तृतीयः पादः द्युम्वाद्यधिकरणम् || १ || अनन्तकल्याणगुणरत्नाकरस्य सर्वज्ञत्वादिषद्विधधर्मावच्छिन्नस्य जगदभिन्ननिमित्तोपदानकारणस्य परमकारुणिकस्य परशिवब्रह्मणः पूर्वोक्तपादद्वये उपक्रमादिषड्विधलिङ्गतात्पर्येण - कासांचित् श्रुतीनां समन्वयं प्रसाध्य इहापि अस्पष्टश्रुतिवाक्यसन्देहशूकनिर्मूलनाय भगवता व्यासेन तृतीयपाद आरभ्यते | अथ परमशिवस्य ब्राह्मणः द्युभ्वाद्यायतनत्वप्रतिपादनम् | ६५. द्युभ्वाद्यायतनं स्वशब्दात् || १ || मुण्डोपनिषदि पठ्यतेऽस्य विषयः | यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः | तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः इति | अत्र द्युभ्वाद्यधिष्ठानत्वेन श्रूयमाणं वस्तु परमेश्वरो वा तदन्यो वेति सन्दिह्यते |
SK
प्रधानक्षेत्रज्ञभूतवायुपरत्वमेवात्र युक्तम् प्रधानस्य महदहंकारहेतुत्वात् | अनन्तमपारं विज्ञानघन एव इति श्रुतौ प्रधानस्य व्यापकत्वव्यपदेशात् | आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः इति श्रुतावात्मशब्दव्यपदेशात् शारीरस्य भोज्यायतनत्वदर्शनाच्च क्षेत्रज्ञस्यापि सर्वाधारत्वमनवद्यम् | वायुर्वै गौतम तत्सूत्रं वायुना वै गौतमसूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति | इति श्रुतौ वायोः सर्वाधिष्ठानत्वव्यवस्थापनात् | वायोश्च द्युभ्वाद्यायतनत्वं विश्वाधिको रुद्र इत्यादिश्रुतिषु परमेश्वरस्य विश्वाधिकत्वनिर्देशात् द्युभ्याद्यायतनत्वं सर्वथा न सम्भवतीति प्राप्ते - ब्रूमः - द्युभ्वाद्यायतनं स्वशब्दात् द्वौश्च भूश्च द्युभुवौ द्युभुवावादिर्यस्य तत् द्युभ्वादि | द्युपृथिव्यन्तरिक्षमनःप्राणादि | तस्यायतनं स्थानं परमेश्वर इत्यर्थः | कुतः स्वशब्दात् | स्वस्य ब्रह्मणः प्रतिपादको यः शब्दः आत्मशब्दस्तस्मात् तमेवैकं जानथ आत्मानं इत्यात्मशब्दश्रवणादित्यर्थः | प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इत्यत्राप्यात्मशब्दस्य शिवपरत्वमवगम्यते | तस्मात् द्युभ्वाद्यायतनं नेतरः | किञ्च - सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः इति | पुरुष एवेदṁ विश्वं कर्म तपो ब्रह्म परामृतम् ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी यत्परं ब्रह्मसर्वात्मा विश्वस्यायतनं महत् इत्यादि श्रुतिशतेषु शिवस्य परब्रह्मण एव सर्वातीतत्वसर्वाधिष्ठानत्वव्यपदेशादत्र द्युभ्वाद्यायतनं महेश्वर इति सिद्धम् | सेतोश्च पारवत्वोपपत्तेः परमेश्वराद् भिन्नं द्युभ्वाद्यायतनत्वं भविष्यतीत्याशङ्कायां हेत्वन्तरमाह - ६६. मुक्तोपसृप्यव्यपदेशात् || २ ||
SK
सेतुश्रुत्या सर्वाधिष्ठानमात्रमुपदिश्यते | न पारवत्वादिलक्षणम् | अत्रापि द्युभ्वाद्यायतनत्वं परमशिवस्यैव | कुतः मुक्तोपसृप्यव्यपदेशात् मुक्तैरुपसृप्यं प्राप्यं मुक्तोपसृष्यम् | भावप्रधानो निर्देशः | मुक्तोपसृष्यत्वस्य व्यपदेशः तस्मादित्यर्थः | यद्वा - मुक्तोपसृष्यं प्राप्यं यतस्तस्यात्र निर्देशात् मुक्तोपसृष्यत्वव्यपदेशादिति पाठे न कश्चित्प्रयासः | यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं | तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति इत्यत्र परमशिवोपासकानां शिवसारूप्यमुपदिश्य गताः कलाः पञ्चदशप्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु | कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति || यथा नद्यः यित्वाथ रुद्रे | पगे नो. २७० ṁ २७१ इस् मिस्सिन्ग् रुद्रवत्सममाहुः इत्यादिना लिङ्गशरीरविलयपूर्वकशिवत्वप्राप्तिरेव मुक्तिरित्युपदिश्यते | न हि निन्दा निन्दितुमीष्टे स्तुत्यं स्तोतुं प्रवृत्ता इति न्यायेनात्र परमतनिन्दाया न प्रत्यवायजनकत्वं जल्पवितण्डाभ्यां शिवज्ञानाधिक्य स्थापनस्य परपक्षप्रतिक्षेपं विनाऽसंम्भवात् | पाषण्डनिन्दायाश्च तत्त्वस्थापनानुकूलत्वेन विहितत्वात् | निषेधस्य विहितेतरविषयत्वाच्च | जीवानां न चिच्छक्त्यंशत्वं तदैक्षत बहुस्यां इत्यादौ पितृपुत्रादिवत्स्वांशभूत स्वान्तर्लीनजीवकारणत्वदर्शनात् | यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः | अथ मर्त्योऽमृतो भवत्यत्र ब्रह्मसमश्नुते | भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्व संशयाः | क्षीयन्ते चास्यकर्माणि तस्मिन् दृष्टे परावरे इत्यादिना परमशिवप्रसादेन तदुपासकानां आत्यन्तिकपाशनिवृत्तिपूर्वकशिवत्वप्राप्तिरूपा मुक्तिर्भवतीति व्यपदेशात् द्युभ्वाद्यायतनं महेश्वर एवेति सिम्ध | ६७. नानुमानमतच्छब्दात् || ३ ||
SK
अनुमीयत इत्यनुमानं सांख्यस्मृतिप्रतिपादितं प्रधानं न द्युभ्वाद्यायतनं | कुतः अतच्छब्दात् | यस्सर्वज्ञः सर्वविद्यस्य इत्यादौ प्रधानप्रतिपादकशब्दाभावादचेतनस्य प्रधानस्य सर्वज्ञत्वादि धर्माणामसंभवात्सर्वकारणत्वेन सर्वाधिष्ठानत्वेन च परमशिव एवात्रपरिगृह्यते | अचेतनत्वात्प्रधानस्य द्युस्वाद्यायतनत्वाऽसम्भवेऽपि चेतनत्वाज्जीवस्य तदाशंक्याह - ६८. प्राणभृच्च || ४ || प्राणभृञ्जीवोऽपि न द्युभ्वाद्यायतनः | कुतः एतच्छब्दादेव | प्राणभूतो जीवस्य चिद्रूपत्वमात्मशब्दत्वं च दृश्यते | तथापि एषोऽणुरात्मा चेतसा वेदितव्यः | वालाग्रशतभागस्य शतधा कल्पितस्य च | जीवो भागस्सविज्ञेयः ज्ञाऽज्ञौ द्वावजावीशनीशौ इत्यादि श्रुतिशतेषु जीवस्य किञ्चिज्ञत्व परिच्छिन्नत्वादिव्यपदेशात् द्युभ्वाद्यायतनत्वं न सम्भवतीत्यतच्छब्दत्वम् | तस्मात्सर्वव्यापकस्य सर्वशक्तिविशिष्टशिवस्यैव द्युभ्वाद्यायतनत्वम् || पुनर्हेत्वन्तरमाह - ६९. भेदव्यपहेशात् || ५ || अतः प्राणभृङ्न द्युभ्वाद्यायतनम् | कुतः भेदव्यपदेशात् | भेदेन व्यापदेशः तस्मात् | तमेवैकं जानथात्मानं अन्या वाचो विमुञ्चयामृतस्यैव सेतुः समाने वृक्षे पुरुषो निमग्नो अनीशया शोचति गुह्यमानः जुष्टं वदा पश्यत्यन्यमीशस्तदास्य महिमानमेति वीतशोकः द्वा सुपर्णा सयुजा सखायौ इत्यादौ जीवब्रह्मणोः ज्ञातृज्ञेयत्वादिधर्मैः स्वाभाविकभेदव्यपदेशात् किञ्चिज्ञस्य जीवस्य न द्युभ्वाद्यायतनत्वमुपपद्यते | परमेश्वरपक्षे हेत्वन्तरमाह - ७० प्रकरणात् || ६ ||
SK
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इत्यनेनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाश्रुत्युपक्रमप्रदर्शनात् | सर्वजगदुपादानभूतपरशिवज्ञानेन सर्वविज्ञानसंभवात् | जीव- darśapūrṇamāsaprakaraṇapaṭhitānāṃ samidho yajati iti vākyānāmiva parameśvaraprakaraṇapaṭhitabhedābhedabodhakasarvavedāntavākyānāṃ pāmeśvaraparatvam | neha nānāsti kiñcana ityādiśrutiṣu sarvaniṣedhapūrvakaniṣprapañcabrahmāvagamāt sarvavedāntopakramopasaṃhārādiṣaḍvidhatātparyaliṅgaiḥ tatparatvameveti cenna | sadeva saumyedamagra āsīt jñājñau dvāvajau ityādi bahuśrutivirodhāt | sarvabhedaniṣedhasya sarvaśivātmakatvajñānasūcakatvācca | niṣprapañcanirviśeṣajñānasya māyāpāśamocakatvābhāvāt na viñcitprayojanaṃ paśyāmaḥ | asyāmupaniṣadi sa brahmavidyāṃ sarvavidyāpratiṣṭhām iti brahmavidyāmupakramya ekasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati iti praśnottaratvena śivaikajñāna- प्रवृत्तिप्रतिपादकपरापरविद्याभेदेन विद्याद्वयमुपन्यस्य आदौ चतुर्दशविद्यानामपरविद्यात्वमुक्त्वा अथ परा यया तदक्षरमधिगम्यते इत्युपक्रम्य अक्षरात्सम्भवतीह विश्वं इत्यन्त तल्लक्षणत्वेन जगज्जन्मादिकारणत्वं प्रसाध्य यः सर्वज्ञः इत्यादिना तस्यैव स्वरूपमुक्त्वा प्लवा ह्येतेऽदृढा इत्यादिना प्रवृत्तिमार्गनिन्दां विधाय तपःश्रद्धे येत्युपवसन्त्यरण्ये शान्ता विद्रांसो भैक्षचर्या चरन्तः सूर्यद्वारेण ते विरजाः प्रयन्ति यत्रामृतः पुरुषो ह्यव्ययात्मा इत्यत्र अमृतपुरुषशब्दौ असाधारण्येन शिववाचकावित्युपपादितम् |
SK
क्षरं प्रधानममृताक्षरं हर. इति परशिवपरत्वेनाक्षरशब्दो निर्णीतः | येनाक्षरं पुरुषं वेद सत्यम् इत्यादिना जीवसृष्टिहेतुत्वमुक्त्वा तद्बोद्धव्यं सौम्यविद्धि इति तस्य ज्ञेयत्वं निर्दिश्य धनुर्गृहीत्वौपनिषदं इत्यादिना वेदान्तवेद्यत्वमुक्त्वा यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं इत्यादिन हिरण्यात्मकपरमशिवज्ञानेन पुण्यपापनिवृत्तिपूर्वकपरमशिवसारूप्यमुपदिश्य याथा नद्यः इत्यारभ्य ब्रह्म वेद ब्रह्मैव भवति इत्यन्तं षड्विधलिङ्गैः परमशिवप्रकरणमिति प्रतीयते ज्ञेयवाचकेश्वरपदस्य शिवे रूढत्वात् | रुक्मवर्णस्यापि नमो हिरण्यबाहवे इत्यादिषु तत्परत्वेन दर्शनाच्च | विश्वकारणविश्वाधिकविश्वनियामकशिवज्ञानस्यैव भवपाशनाशहेतुत्वं सिद्धम् | तस्माद्रज्जुसर्पवदविद्याकल्पितवादप्रधान निष्प्रपञ्चब्रह्माद्वैतवादस्त्ववैदिक इति वेदितव्यः तद्विधायकश्रुत्यदर्शनात् | किञ्च - श्रुत्यन्तरे च शिव एको ध्येयः शिवंकरः इति शिवेतरध्यानपरित्यागदर्शनात् | ज्ञात्वा शिवं शान्तिमत्यन्तमेति इति शिवज्ञानस्यैव अत्यन्तशान्तिहेतुत्वव्यपदेशात् | ईशं ज्ञात्वा अमृता भवन्ति इति शिवज्ञानादेव मोक्षश्रवणात् | ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः इति शिवज्ञानैकनिरतानां सर्वपापनिवृत्तिव्यवस्थापनात्तदुपासनादेव मुक्तिरिति घण्टाघोषः | इहोपनिषदि परमशिवधर्मबाहुल्यप्रकरणात् द्युभ्वाद्यायतनं परमशिव एवेति सिद्धम् | परमेश्वरपरत्वे हेत्वन्तरमाह - भेदाभेदात्मकविशेषाद्वैतस्य सर्वोत्तरत्वनिरूपणम् ७१. स्थित्यदनाभ्यां च || ७ ||
SK
इतोऽपि न प्राणभृत् द्युभ्वाद्यायतनम् कुतः स्थित्यदनाभ्यां च | स्थितिश्च अदनं च स्थित्यदने | ताभ्यां (पञ्चमीद्विवचनं) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते | तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति इत्यत्र जीवस्य कर्मफलभोक्तृत्वं अनश्नन्नन्यः इति परमेश्वरस्य औदासीन्येन स्थितिरुपदिश्यते | तस्मात् द्युभ्वाद्यायतनं महेश्वर एव | ननु - एक एव रुद्रो न द्वितीयाय तस्ये इत्यादि श्रुतिशतेषु सर्वप्रपञ्चनिषेधपूर्वकाद्वैतव्यवस्थापनात् द्वासुपर्णा इत्यादि मन्त्रगतजीवब्रह्मणोर्भेद औपचारिक एवेति चेन्न - अद्वितीयत्वप्रतिपादकश्रुतीनां निर्गुणत्वप्रतिपादकश्रुतीनां च सृष्टेः पूर्वं मूर्तामूर्तोभयप्रपञ्चाभावात् कालपरत्वम् | भेदश्रुतीनां सर्वासां सृष्त्युत्तरकालपरत्वम् | यदा तमस्तन्न दिवा न रात्रिः न सन्न चासच्छिव एव केवलः अहमेकः प्रथममासं आत्मा वा इदमेकमेवाग्र आसीत् सदेव सौम्य इति गतिसामान्यन्यायेन सर्ववेदान्तेषु सृष्टेः पूर्वमेव ब्रह्मणः अद्वितीयत्वव्यवस्थापनात् | सोऽकामयत इत्यादिषु सृष्ट्युन्मुखस्य ब्रह्मणः कामनया बहुभावश्रवणात् | सृष्ट्युत्तरकाले ब्रह्मणस्सगुणत्वदर्शनान्नान्यार्थो युक्तः | तथा च स्मृतिः - सृष्टेः पूर्वं महादेवश्शक्तिसंकोचहेतुना | निगुणत्वेन शास्त्रेषु गीयते तत्ववेदिभिः || सृष्ट्यादौ परमेशस्य शक्तेः प्राचुर्यवैभवात् | सर्वज्ञत्वादिकल्याणगुणवानिति कीर्त्यते || तस्माद्वैतश्रुतीनास्तु सृष्ट्युत्तरसमन्वयः | अद्वैतश्रुतिबोधस्तु सृष्टेः प्रागेव कथ्यते || अथ सत्वादिवैशिष्ठ्यात् सगुणत्वं सदाशिवे | तत्साक्षिकत्वात् चिच्छक्त्या निर्गुणत्वं विधीयते || सकलो निष्कलश्चेति तस्माद्वेदेषु गीयते || इति |
SK
कैवल्ये - उमासहायं परमेश्वरं प्रभुं इत्यादिना ब्रह्मणः मूर्तत्वं प्रशान्तत्त्वं सगुणत्वं चोपदिष्टम् | तदुपसंहारे तस्यैव समस्तसाक्षिं तमसः परस्तात् इत्यादिआ निरवयवत्वं निर्गुणत्वादिकं चोपदिष्टं | न साक्षित्वस्य गुणत्वं साक्षी चेता निर्गुणश्च इति श्रुतेः | ननु महेश्वरसृष्टेः पूर्वं जगत्कारणप्रकृतिसद्भावात् कथमद्वैतमिति चेन्न - देवात्मशक्तिं स्वगुणैर्निगूढां परस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इत्यादिश्रुतिशतेषु तच्छक्तेस्तदभिन्नत्वदर्शनात् | न शक्तिशक्तिमतोस्स्वाभाविकपृथक्त्वम् | तस्मात् सकलप्रपञ्चपरमकारणीभूतचिच्छक्त्यधिष्ठानत्वे सति तदपृथक्सिद्धत्वेन परमशिवस्याभिन्ननिमित्तोपादानकारणत्वव्यवस्थापकभेदाभेद- nanvadvaitaśabdena jīvabrahmaṇorekatvabodhanāt dvaitābhāve advaitapratītyasambhavācca viśeṣapadasya na kiñcit prayojanamiti cenna | advaitapadasya bhedaniṣedhamātrabodhakatvāt bhedasya satyatvāsatyatvādarśanācca viśeṣapadaṃ nirdiṣṭam | etena jīvabrahmaṇorjātyaikatve'pi jaḍajātāvaśmaloṣṭhakāṣṭhādīnāṃ svābhāvikabhedavaccijjātau citvennaikatve'pi aṇutvavibhutvakiñcijjñatvasarvajñatvādiparasparaviruddhadharmāṇāṃ pṛthakdarśanāt pāramārthikabheda ubhayorupadiśyate | viśeṣādvaitaśabdanirvacanam viśva śeṣaśca viśeṣau tadoradvaitaṃ viśeṣādvaitam iti niraktiḥ | tatrādvaitapadena bhramarakīṭavajjīvasya svābhāvikabhedanivṛttirupadiśyate | haṃsa haṃseti yo brūyāt ityādi śrutiṣu viśvakṣuṣi vyomni vāte paramātmani pakṣiṇi iti naighaṇṭukeṣu viśabdasya paramātmavācakatvena spaṣṭopadeśāt | vātyutpādayatīti vyutpatyā ca viśabdena jagatkāraṇatvaṃ brahmalakṣaṇaṃ sūcitam | śeṣaśabdena yathāgnervisphuliṅgā iti śrutiṣu parameśvarāṃśatvasya jīvānāṃ vyapadeśāt jovo'bhidhīyate | advaitapadena yathā nadyaḥ ityādi śrutisiddhasāyujyaṃ jīvabrahmaṇorupadiṣṭam | atha jagataḥ satyatvapratipādanam
SK
रज्वारोपितसर्ववज्जगज्जीवानां मिथ्यात्वे निषेधविधायकवेदशास्त्रपुराणादीनां तथात्वेन वेदबाह्यत्वप्रसङ्गः स्यात् | अस्मन्मते सर्वज्ञानं सत्यमेव | तत्रापि सादृश्यज्ञानस्य पारमार्थिकत्वाद्रज्जुसर्वज्ञानमपि सत्यम् | सादृश्यं विना तदज्ञानासम्भवाच्च | पञ्जीकरणप्रक्रियया अत्रापि तदंशानां सत्वात् शुक्तिरजतज्ञानमपि सत्यम् | शुक्त्यंशानां भूयस्त्वान्न तथा व्यवहारः | अङ्गुल्यादिनावष्ठब्धनेत्रोद्गीर्णचन्द्रद्वयग्राहकदृक्सामग्रीद्वयस्यापि सत्यत्वात् द्विचन्द्रज्ञानमपि सत्यम् निमित्तस्य सत्यत्वेन नैमितिकस्यापि सत्यत्वम् | स्वनयनगतपित्थदोषाच्छादितत्वेन शखगतशुक्लिमा गृह्यते सुवर्णांनुलित्पशङ्खवत् स्वनयननिष्कान्तरश्मयः परमसूक्ष्मतया स्वेनैव गृह्यन्ते | तस्मात् पीतः शङ्कः इत्याकारकज्ञानमपि सत्यमेव | तत्तद्देशसंयोगात्तत्तत् ज्ञानं जायते | परमशीघ्रतया नान्तरालज्ञानमस्ति | तस्मादलातचक्रज्ञानमपि सत्यम् | पञ्चीकरणप्रक्रियया एकस्मिन् भूते तदन्येषामंशानां सत्वात् व्योमांशभूयस्त्वान्न जलार्थसिद्धिः | तस्मात् मरुमरीचिकाज्ञानमपि सत्यम् | स्वप्नकारणीभूत विद्याया सत्यत्वात् स्वप्नज्ञानस्यापि सत्यत्वम् | बीजाङ्कुरन्यायात् कारणसत्वे कार्यसत्यत्वम् | किञ्च - शुभाशुभफलसूचकत्वात् प्रबोधेऽपि स्वप्नानुभूतज्ञानस्य सिद्धत्वात् न स्वाप्निकज्ञानस्य मिथ्यात्वम् | जाग्रत्प्रपञ्चवत्तस्यापि परमेश्वराधीनत्वात् | ऐन्द्रजालिकज्ञानमपि सत्यं तत्कारणीभूतमणिमन्त्रौषधादीतां सत्यत्वात् तत्रापि ज्ञानस्याबाधितत्वात् | बुध्युपस्थितसर्वपदार्थज्ञानस्य पारमार्थिकत्वात् भ्रान्तिकारणीभूततत्तत्पदार्थानां सत्यत्वाच्च सर्वं ज्ञानं सत्यमेव | यद्दृश्यं तन्नष्टम् इति व्याप्तिबलात् अनाद्यविद्याकल्पितप्रपञ्चस्थितपदार्थानां मिथ्यात्वेन पूर्वोक्तदृष्टान्तपदार्थानामपि मिथ्यत्वं किं नस्यादिति चेन्न ब्रह्मानुभूतिर्न स्यात् | किञ्च प्रपञ्चवद्ब्रह्मणोऽपि मिथ्यात्वं स्यात् | ब्रह्ममिथ्याऽसत्यहेतुजन्यज्ञानविषयत्वात् प्रपञ्चवत् इति |
SK
तस्मात् पूर्वोक्तमेव समुचितम् | या मा सा माया न विद्यते सा अविद्येति व्युत्पत्या जगदुपादानकारणमप्यायाः मिथ्यात्वात् तत्कार्यप्रपञ्चस्य कथं सत्यत्वमिति चेन्मैवं - मायां तु प्रकृतिं विन्द्यान्मायिनन्तु महेश्वरं परास्य शक्तिर्विविधैव श्रूयते - इत्यादिश्रुतिशतेषु मायायाः ब्रह्मशक्तित्वेन व्यपदेशात् चन्द्रचन्द्रिकावच्छक्तिशक्तिमतोरभेदात् शक्तिनाशे शक्तिविशिष्टब्रह्मणोऽपि नाशप्रसङ्गेन निरीश्वरमतप्रवेशस्स्यात् | तस्मात् स्वशेषभूतद्युभ्वादिप्रपञ्चाधिष्ठानं परमेश्वर एव | भूमाधिकरणम् || २ || अथ परमेश्वरस्य भूमशब्दवाच्यत्वप्रतिपादनम् - अनन्तकल्याणगुणरत्नाकरपरमशिवज्ञानवतो जीवन्मुक्तस्य निर्वैषयिकपरमानन्दप्रदर्शनार्थमाह - ७२. भूमा सम्प्रसादादध्युपदेशात् || ८ || छान्दोग्ये विद्यतेऽस्य विषयः | भूमात्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति यत्र नान्यत्पश्यति नान्यत् श्रुणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यन्यत् श्रुणोत्यन्यद्विजानाति तदल्पम् अत्र भूमेति पदेन प्रतिपाद्यः प्राणो वा परमेश्वरो वेति संशयः | बहोर्लोपो भू च बहोः इति भूमा शब्दस्य भावप्रत्ययान्तता श्रवणात् बहुत्वं सूचितम् | किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकांक्षायां प्राणो वा आशाया भूयान् इति पूर्वं प्राणस्य सन्निधानात् प्राणो भूमेति प्रतिभाति | तथा श्रुतग्ṁ ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मवदिति सोऽहं भगवः शोचामि तं मा भगवान् शोकस्य पारं तारयतु इति ब्रह्मलिङ्गबाहुल्यात्परमेश्वरो वेति भाति | तस्मादत्र सन्दिह्यते |
SK
पूर्वपक्षस्तु - भूमा शब्देनात्र प्राण एव परिगृह्यते | प्राणो ब्रह्म इति नारदसनत्कुमारप्रश्नप्रतिवचनद्योतनात् | यथा अस्ति भगवो नाम्नो भूयः इति | वाग्वाधनाम्नो भूयसी तथा अस्ति भगवो वाचो भूयः इति | मनो वाव वाचो भूयः इति च भूयो नामादिभ्यो हि आप्राणात् इति प्रश्नप्रतिवचनाभ्यां प्राण एवात्र परिगृह्यते | प्राणात्परं पुनः प्रश्नप्रतिवचनं न श्रूयते | अस्ति भगवः प्राणात् भूय इति अदोवाव प्राणाद्भूय इति प्राणमेव तु नामादिभ्यः आशान्तेभ्यो भूयासं प्राणो वा आशया भूयान् इत्यादिना सप्रपञ्चमुपदिश्य प्राणदर्शिनश्चातिवादित्वम् अतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत इत्यभ्यनुज्ञायैव एष तु वा अतिवदत्ति यस्सत्येनातिवदति इति प्राणव्रतस्य अतिवादित्वमुपदिश्य तस्यैव सत्यादि परंपरया प्राण एव भूमानं मन्यते इत्यादि | तस्यैव भूमत्वोपदेशात् प्राणस्यैव भूमाशब्दवाच्यत्वं युक्तम् | यत्र नान्यत् पश्यति इति वाक्यविहितभूमलक्षणं तस्यैव निर्दिष्टम् | सुषुप्त्यवस्थायामपि प्राणव्यापारदर्शनात् नान्यत्पश्यति इति लक्षणं समुचितम् | तथा च श्रुतिः - न श्रुणोति न पश्यति इत्यादिना सर्वकारणव्यापारशून्यसुषुप्त्यवस्थां प्रदर्श्य प्राणाऽग्नय एवैतस्मिन् पुरे जाग्रति इति सुषुप्त्यवस्थायामपि वृत्तिपञ्चकविशिष्टस्य प्राणस्य जाग्रदवस्थां प्रसाध्य प्राणप्रधाना सुप्तिरिति निर्दिश्यते यो वै भूमा तत्सुखम् इति वाक्यनिर्दिष्टसुखं तस्याप्यविरुद्धम् | प्राणो वा अमृतम् इति श्रवणात् यच्च यो वै भूमा तदमृतम् इति अमृतशब्दवाच्यत्वम् तस्यैवोपपन्नम् | प्राणो हि पिता प्राणो माता प्राणो भ्राता प्राणः सखा प्राण आचार्यः प्राणो ब्राह्मणः इत्यादिना प्राणस्यैव सर्वात्मकत्वोपदेशात् | प्राणमेव सर्वात्मानं करोति इति प्राणस्यैव जगत्कारणत्वमुप दिशति | तस्मात् तरति शोकमात्मवित् इत्यात्मविविदिषया न प्रकरणविरोधः | अतः सर्वथा षड्विधलिङ्गतात्पर्येण प्राण एव भूमा न परमेश्वर इति चेत् |
SK
उच्यते - भूमा सम्प्रसादादध्युपदेशात् भूमा परमेश्वर एव | कुतः सम्प्रसादादध्युपदेशात् | सम्यक् प्रसीदत्यस्मिन् जीवस्वरूपमिति सम्प्रसादः सुषुप्त्यवस्था | तस्यां चावस्थायां प्राणो जगर्तीति सम्प्रसादशब्देन प्राण उच्यते | तस्मादधिप्राणादूर्ध्वं उपदेशादित्यर्थः | केचित् - सम्प्रसादो जीवः तस्मादुपरि इति वदन्ति | प्राणोपदेशानन्तरं एव तु वा अतिवदति यस्सत्येनातिवदति इति तु शब्देन प्राणवादस्यानतिवादत्वमुक्त्वा सत्यशब्दवाच्यपरमात्मवादस्यातिवादत्वं वदन् भूमानमुपदिशति | किञ्च - तरति शोकमात्मवित् इत्यादिना आत्मज्ञानेन मोक्षोपदेशात् जडस्य प्राणवायोः मोक्षप्रदायकत्वासम्भवात् आत्मन् शब्दस्य परमशिवे बहुश्रुतिरूढत्वात् ज्ञात्वा शिवं शान्तिमत्यन्तमेति ब्रह्मविदाप्नोति परं इत्यादिबहुश्रुतिषु परशिवज्ञानेनैव मोक्षोपदेशात् अथात आत्मादेश इत्यात्मत्वेनाग्रे वर्णनात् | यत्र नान्यत्पश्यति इत्यादिवाक्यगतधर्माणां प्राणवायोरसम्भवात् | सोऽहं भगवश्शोचामि तं मा भगवान् शोकस्य पारं तारयतु इति प्रकरणलिङ्गबाहुल्यात् भूमाशब्दवाच्यः साक्षात्परमेश्वर एव | परमेश्वरपक्षे हेत्वन्तरमाह - ७३. धर्मोपपत्तेश्च || ९ || यत्र नान्यत्पश्यति नान्यत् शृणोति नान्यद्विजानाति इत्यादिना सृष्टेः प्राक् सर्वव्यवहाराभावादिधर्माणां परमशिवे उपपत्तेः | इदमेव मुक्तात्मनां ज्ञापकम् | पूर्वोक्ताधिकरणे तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् इत्यादिना ब्रह्मोपासकस्य शुद्धजीवस्यात्यन्तिकपाशनिवृत्तिपूर्वकशिवसायुज्यं नदीसमुद्रदृष्टान्तेन प्रसाधितम् | तस्मात् शिवत्वापन्नजीवानां जीवन्मुक्ति-विदेहमुक्त्योः सर्वशिवात्मकत्वज्ञानेन प्रपञ्चनिषेधो युक्तः |
SK
ननु - यावन्न विमोक्ष्ये अथ सम्पत्स्ये इति वाक्ये जीवन्मुक्तस्य विदेहमुक्तिपर्यन्तं प्रपञ्चभोगव्यपदेशात् कथं शिवज्ञानवतां जीवन्मुक्तानां प्रपञ्चनिषेधः उपपद्यत इति चेत् शिवोपासकजीवन्मुक्तानां प्रचण्डातपमध्यनिक्षिप्तकर्पूरदीपवदन्तःकरणसद्भावेऽपि सर्वशिवात्मकज्ञानसद्भावात् सच्चिदानन्दस्वरूपपरमशिव एव विश्वात्मना दर्शनविषयो भवति | एतत्ततो भवति इत्यादिश्रुतिरपि तथा श्रूयते | तस्माज्जीवन्मुक्तानां अहं ब्रह्मास्मि इति ब्रह्मविदामनुभवो दृश्यते | न हि दृष्टेरनुपपन्नं नाम इति न्यायान्नान्यार्थो युक्तः | ब्रह्मणः प्रपञ्चस्याभिन्ननिमित्तोपादानकारणत्वात् तस्य तदभेददृष्टिस्समुचितैव | यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादि श्रुत्यन्तरे सर्वशिवात्मकज्ञानविदां पूर्ववत्प्राकृतप्रपञ्चव्यवहाराभावस्य मुक्तजीवधर्मत्वेनावगमात् | यो वै भूमा तत् सुखम् भूम्नः सुखत्वं दर्शितम् | यो वै भूमा तदमृतम् इति श्रूयमाणममृतत्वं परशिवासाधारणधर्मः | किञ्च - स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि इति आत्मैवेदं सर्वं आत्मतः प्राणः - आत्मन आकाशः इत्यादिना तस्यैव परमशिवस्य स्वमहिम्नि प्रतिष्ठितत्वसर्वकारणत्वादिधर्माणां व्यपदेशात् | भूमपदवाच्यः परमशिव एवेति सिद्धम् | नन्धेकस्य परमशिवस्य व्यवहारभावाभावत्वं कथमुपपद्यत इति चेत् - लोकवत्तुलीलाकैवल्यम् इति सूत्रे भगवता व्यासेनैवोत्तरत्र स्पष्टं वक्ष्यते | अक्षराधिकरणम् || ३ || अथ चिच्छक्तिविशिष्टस्य परमशिवस्य अक्षरशब्दवाच्यत्वनिरूपणम् ब्रह्मणः परमशिवस्य सर्वाधिक्यमुपदिश्य अक्षरशब्दवाच्यत्वमधिकरणान्तरेनाह - ७४. अक्षरमम्बरान्तधृतेः || १० || बृहदारण्ये श्रूयतेऽस्य विषयः | कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति स होवाच एतद्वै तदक्षरं गार्गि ब्रह्मणा अभिवदन्ति | अस्थूलमनण्वमह्रस्वमदीर्घमलोहितमस्नेहमच्छायम् इति | अत्र अक्षरशब्देन प्रणवो जीवः परमेश्वरोवेति संशयः |
SK
ॐकार एवेदṁ सर्वम् इत्यादौ प्रणवस्य सर्वात्मकत्वप्रदर्शनात् | अक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् ओमित्येकाक्षरं ब्रह्म इति श्रुत्यन्तरेऽपि प्रणवस्य ब्रह्मात्मकत्वव्यपदेशात् अक्षरशब्दवाच्यत्वं तस्यैवोपपन्नम् | पुरुषोऽक्षर उच्यते इति श्रवणादक्षरशब्दवाच्यत्वं जीवस्याप्युपपन्नम् | तस्मात् परमेश्वरस्याक्षरशब्दवाच्यत्वं नोपपन्नमिति चेत् - ब्रूमः - अक्षरमम्बरान्तधृतेः अत्र अक्षरशब्दवाच्यः शिव एव | कस्मादम्बरान्तधृतेः | पृथिव्याद्याकाशान्तस्य स्वशक्त्युद्भूतस्य प्रपञ्चस्य धृतेः धारणादित्यर्थः | यदूर्ध्वं गार्गिं दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावा पृथिवी इमे यद्भूतं भव्यं भविष्यं चेत्याचक्षते आकाश एव तदोतं प्रोतञ्च इत्यादिसर्वविकारप्रपञ्चाधिष्ठानतया निर्दिष्ट आकाशः कस्मिन्नोतश्च प्रोतश्च इति गार्गिपृष्टे एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति इत्यादिना एतस्मिन् खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च इत्यन्तेन याज्ञवल्क्यवचनेन निर्दिष्टस्याक्षरस्याम्बरान्तरधृतिर्निर्णीयते क्षरं प्रधानममृताक्षरं हरः क्षरात्माना विशते देव एकः खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् इत्यादिश्रुत्यन्तरेष्वपि परमेश्वरस्य मुख्यतया अक्षरशब्दवाच्यत्वस्याम्बरान्तधृतेश्चोपदेशात् नान्यस्य सम्भवति | यदपि ॐकार एवेदṁ सर्वम् इति | तदपि श्रुतौ प्रणवस्य ब्रह्मप्रतिपादकत्वेन स्तुत्यर्थं सर्वात्मकत्वं वर्णितम् | तत्र परमेश्वरधर्मबाहुल्यात्परमेश्वरप्रकरणात्तस्यैवाक्षरशब्दवाच्यत्वं सिद्धम् | परमशिवस्य शक्तिविशिष्टत्वप्रतिपादनम् | अम्बरान्तधृतेः प्रधाने अतिव्याप्तिमाशंक्य निराकरोति - ७५. सा च प्रशासनात् || ११ ||
SK
सा धृतिः परब्रह्मणः शिवस्यैव सम्भवति | कुतः प्रशासनात् एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादिना परमशिवस्यैव प्रशासनं श्रूयते | जडस्य प्रधानस्य प्रशासनासम्भवात् | श्रुत्यन्तरेऽपि ईशानः सर्वविद्यानां इत्यादिना सर्वनियामकत्वस्य परमशिवधर्मत्वेन व्यपदेशात् | प्रधानस्य सर्वदा (था ) प्रशासनमयुक्तम् | एतेन सर्वाधिष्ठानब्रह्मणः सविशेषत्वमुपदिष्टम् | निर्विशेषस्य धृत्यसम्भवात् | परास्य शक्तिर्विविधैव श्रूयते इति श्रुतौ शक्तेः स्वाभाविकत्वश्रवणान्निर्विशेषत्वं कदाचिदपि ब्रह्मणो न सम्भवति | वह्निर्दहतीति शक्ति-शक्ति मतोरपृथक्सिद्धत्वेऽपि भेदव्यवहारात् शक्ति- nityatvaṃ veti santi dharmāḥ iti apṛthaktve'pyabādhitapṛthaktvavyavahāradarśanānna virodhaḥ | taduktaṃ kūrme - cidrūpastu śivassākṣāt satyānandamayī śivā iti | kiñca - eka eva rudro na dvitīyāya tasthe jagacchāsane parameśvarasyādvitīyatvavyavasthāpanāt cicchaktiviśiṣṭasya paramaśivasyaivākṣaraśabdavācyatvaṃ niṣpratyūham | punarhetvantaramāha - 76. anyabhāvavyāvṛtteśca || 12 || itopyambarāntadhṛtiḥ parameśvarasyaiva na pradhānādeḥ | kutaḥ anyabhāvavyāvṛtteḥ | anyasya pradhānādeḥ bhāvo dharmaḥ tadvyāvṛtteḥ tadviparītaśravaṇādityarthaḥ | tadvā etadakṣaraṃ gārgyadṛṣṭaṃ dṛṣṭamaśrutaṃ śrotramataṃ mantravijñātaṃ vijñātaṃ ityatra draṣṭratvādikaṃ parameśvaralakṣaṇamacetanatvāt pradhānasya na sambhavati | tasmādakṣarapadavācyaḥ parameśvaraḥ | īkṣatikarmādhikaraṇam || 4 || pratyakṣādipramāṇātītasya sarvānugrāhakasya śivasya parabrahmaṇaḥ kṛpātiśayenopāsakasya pratyakṣatvamupapādayitumadhikaraṇāntaraṃ darśayati | 77. īkṣatikarmavyapadeśātsaḥ || 13 ||
SK
अथर्वणे प्रश्नोपनिषदि श्रूयतेऽस्य विषयः | एतद्वै सत्यकाम परं चापरं च ब्रह्म यद्ॐकारस्तस्माद्विद्वानेतेनैवायतने नैकतरमन्वेति इत्यारभ्य यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः | यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् इति | अत्र ध्यातव्यत्वेन श्रूयमाणः पुरुषः परमेश्वरोऽन्यो वेति संशयः | न तत्रोपास्यः परमशिवः किन्तु हिरण्यगर्भः एव | स सामभिरुन्नीयते ब्रह्मलोकम् इति तल्लोकप्राप्तेरेवात्र दर्शनात् | जीवोत्कृष्टे तस्मिन् परमशब्दसम्भवात् पुरुषशब्दवाच्यत्वाच्च | नारायणो वा स्यात् | तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः इति तत्पदस्यैव विद्वदनुभवत्वेन व्यवस्थापनात् | प्रणवशब्दस्यापि मुख्यवृत्या तद्वाचकत्वात् सर्वजीवसमष्ट्यात्मकहिरण्यगर्भो वात्र सर्वोपास्यत्वेन विधीयते | तस्मात्सर्वथात्र परमशिवोपासनं न विधीयते इति चेत् ब्रूमः - ईक्षति कर्मव्यपदेशात्सः अत्रोपास्यः पुरुषश्शिव एव | कस्मात् - ईक्षतिकर्मव्यपदेशात् स एतस्माज्जीवघनात्परात्परं पुरि शयं पुरुषमीक्षते इति वाक्यशेषे ध्यातव्यस्य क्षतिकर्मत्वेन व्यपदेशात्सः परमशिव एवेत्यर्थः |
SK
ननु स सामभिरुन्नीयते ब्रह्मलोकमिति वाक्ये ब्रह्मशब्दस्य चतुर्मुखे रूढत्वात् अत्र तदुपासनं किं नस्यादिति चेन्न | स एतस्माज्जीवघनात् परात्परं पुरि शयं पुरुषमीक्षते इति श्रुतौ जीवघनशब्देन सकलजीवाभिमानी हिरण्यगर्भ उच्यते | तस्मात्परो यः परमात्मा ईक्षणे कर्मभूतः स एवाभिध्यानेऽपि कर्मभूत इत्युपदिश्यते | परं पुरुषमिति विशेषणं परमशिवपरिग्रह एव सम्भवति यस्मात्परं नापरमस्ति किञ्चित् पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इत्यादौ पुरुषशब्देन तदतिरिक्तवस्तुशून्यत्वव्यपदेशात् | अथवा तम्ॐकारेणान्वेति विद्वान्यत्तच्छान्त मजरममृतमभयं परं च इति श्रुतिनिर्दिष्टपरमशिवासाधारणधर्माणां हिरण्यगर्भादेरसम्भवात् | ब्रह्मलोकं इत्यत्र ब्रह्मणः परमशिवस्य लोकः तदुपासकानां प्राप्यतया निर्दिश्यते | परं चापरं च ब्रह्म यद्ॐकारः इति विभज्यानन्तरं परमपुरुषमभिध्यायीत इति ध्यातव्यत्वेन व्यपदेशात्परमशिव एवात्र निर्णीयते ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् अकारो ब्रह्मा उकारो विष्णुर्मकारः कालकालस्तस्माद्ॐकारं लिङ्गमाहुः नमस्ताराय इत्यादिश्रुतिशतेषु परमशिवस्य ब्रह्मणः प्रणवात्मकत्वं यो वेदाद्ॐ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः इत्यादौ प्रणवपरत्वं च निर्दिश्यते | अतः प्रणवात्मकत्वं प्रणवपरत्वं च तस्यैव समुचितम् | यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह्येव स पाप्मना विनिर्मुच्यते इत्यनेन परमशिवोपासकानां सर्वपापनिवृत्तिपूर्वकसालोक्यादिक्रममुक्तिः व्याचक्षते |
SK
एतस्माज्जीवघनात्परात्परं इति वाक्ये जीवघनात् जीवसमष्ट्यात्मकहिरण्यगर्भात्परं ध्येयमित्युपदेशाद्धिरण्यगर्भपक्षोऽत्र न व्यपदिश्यते नारायणपक्ष एवात्रेति चेदुच्यते | ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते इति श्रुतौ ब्रह्मविष्णुकालरुद्रादीनां प्रथमजीवत्वपरमशिवजन्यत्वव्यपदेशात्तेषाममृतत्वाभयत्वजगदुभय- viśvātmānaṃ parāyaṇaṃ ityādau nārāyaṇasya viśvātmakatvavyapadeśāt kathamasyopāsyatvaṃ na ghaṭata iti cet - ucyate - etasmājjīvaghanāt iti vākye jīvaghanājjīvasamaṣṭyātmakahiraṇyagarbhātparādutkṛṣṭāt nārāyaṇātparamutkṛṣṭaṃ puri śayaṃ puri daharapuṇḍarīke antaryāmitayā sthitaṃ ata eva puruṣaṃ paraṃ brahma tadupāsakaḥ sākṣātpa'syatiti nirdeśānna nārāyaṇo'tropāsyaḥ nārāyaṇaparaṃ brahma tattvaṃ nārāyaṇaḥ paraḥ ityādau paramaśivopāsakasya nārāyaṇasya śvetaketvādivadaupacārikatvena brahmadharmamuktvā nārāyaṇāt yatparaṃ tatparaṃ brahmetyupadiśyate | śrutyantare ca parātparataraṃ brahma tatparātparato hariḥ | yatparātparato'dhīśaḥ tanme manaḥ śivasaṃkalpamastu iti brahmaviṣṇvatītaparamaśive madīyamanassaṅkalpamastviti vedapuruṣaiḥ prārthyate | tadviṣṇoḥ paramaṃ padaṃ iti vākye yadviṣṇornārāyaṇātparamutkṛṣṭaṃ padaṃ śivābhidheyaṃ parabrahma tatpadaṃ sūrayaḥ paramaśivopāsakāḥ vidvāṃsaḥ sadā paśyanti sākṣātkurvantīti bodhyate | tathā ca smṛtiḥ - viṣṇornārāyaṇādūrdhvaṃ paramaṃ pariśeṣitam | padaṃ śivābhidhaṃ nityaṃ sadā paśyanti sūrayaḥ || tasmānnārāyaṇādadhikaṃ śivapadameva mumukṣubhirveditavyam | atha paramaśivasya kṛṣṇapiṅgalatvakathanam kiñca - nārāyaṇasya viśvātmakatvaṃ parameśvaromāśaktyaṃśatvātsamucitam | puruṣo vai rudraḥ vāsudevaḥ parā prakṛtiḥ ekaiva śaktiḥ parameśvarasya bhinnā caturdhā viniyogakāle | bhoge bhavānī puruṣeṣu viṣṇuḥ krodhe ca kālī samare ca durgāṃ ||
SK
इत्यादौ तस्य पराशक्त्यंशत्वं स्पष्टमुक्तम् | अत एव ऋतं सत्यं इत्यत्र ऋतं सत्यं अवाङ्मानसगोचरं त्रिलोचनत्वेन विरूपाक्षं उमारूपप्रणवशक्त्या शबलात्मकत्वेन कृष्णपिङ्गलम् | प्रणवाख्या परा शक्तिश्शिवस्वाभाविकी स्मृता | तत्परः परमं ब्रह्म विश्वातीतो महेश्वरः || इति स्मृतौ प्रणवस्य पराशक्त्यात्मकत्वश्रवणात् | परं सर्वातिशायि ब्रह्म पुरि शयं पुरुषमीक्षते इत्युपदेशादत्रेक्षति कर्मत्वेन निर्दिश्यमानः पुरुषः साक्षाच्छिव एवेति सिद्धम् | दहराधिकरणम् || ५ || ब्रह्मविष्ण्वादिचराचरप्रपञ्चातीतस्य महेश्वरस्य भक्तसंसारतारणार्थं अधिकरणान्तरं दर्शयति - ७८. दहर उत्तरेभ्यः || १४ || छान्दोग्ये दृश्यतेऽस्य विषयः अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् इत्यादि | अत्र दहरशब्दवाच्यत्वेन श्रूयमाणं वस्तु भूताकाशो जीवः परमेश्वरो वेति संशयः | अत्र भूताकाश एव दहरशब्दवाच्यः तस्यैव प्रसिद्धत्वात् | सूचीरन्ध्रान्तर्गतव्योमवत्तस्य दहरायतनापेक्षया दहरत्वम् | यावान्याऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते इत्यादौ बाह्याभ्यन्तरभावकृत भेदेन अवकाशात्मना आकाशस्यैकत्वेन च आकाशोपमानत्वद्यावापृथिव्याधिष्ठानत्वव्यपदेशः | सर्वव्यापकस्याकाशस्य अन्तःप्रविष्टत्वेन दहरशब्दवाच्यत्वमविरुद्धम् | किञ्च - जीवस्यापि दहरशब्दवाच्यत्वमविरुद्धम् | अथ यदिदमस्मिन् ब्रह्मपुरे दहरं इत्यादौ ब्रह्मणः परमशिवस्य पुरं शरीरं ब्रह्मपुरं जीवः यस्यात्मा शरीरं इति श्रुतिदर्शनात् | बालाग्रशतभागस्य शतधा कल्पितस्य च | जीवो भागस्स विज्ञेयो हृदये सर्वदेहिनाम् ||
SK
एवोऽपुरात्मा चेतसा वेदितव्यः इत्यादौ जीवस्य अल्पपरिमाणत्वव्यपदेशात् दहरपदवाच्यत्वं व्यवह्रियते | वियदुपमादिकमपि परशिवापेक्षया जीवस्य | भेदमुपदिशति | तस्माज्जीवभूताकाशयोः दहरशब्दवाच्यत्वं सर्वानुप्रविष्ठत्वं सम्भवतीति चेत् - ब्रूमः - दहर उत्तरेभ्यः अत्र दहराकाशस्साक्षात्परमेश्वर एव कस्मादुत्तरेभ्यः वाक्यशेषगतहेतुभ्यः | तथाहि - जिज्ञास्यत्वेनाभिहितस्य दहराकाशस्य तं चेद्व्रूयुः इत्युपक्रम्य किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम् इत्यापेक्षपूर्वकं समाधानवाक्यं उपदिश्य स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः इत्यादिना आकाशोपमानत्वात् द्यावापृथिव्याद्यधिष्ठानत्वेन निर्देशात् भूताकाशस्य सर्वोपास्यत्वं न सम्भवति | एव त आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः इत्यादिवाक्यनिर्दिष्टापहतपाप्मत्वादयो गुणाः न भूताकाशजीवयोः सम्भवन्ति | किञ्च - तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते इति कर्मणामनित्यफलमुपदिश्य अथ य इहात्मानमननुविद्य व्रजन्त्येतागṁश्च सत्यान् कामाṁस्तेषां सर्वेषु लोकेष्यस्य कामचारो भवति इति प्रकृतदहराकाशस्यानन्दफलत्वव्यवस्थापनात् परमेश्वरत्वमस्य निर्दिष्टम् | तस्मात् द्यावापृथिव्यधिष्ठाना काशोपमितदहराकाशः पूर्वोक्तहेतुभ्यः परमशिव इति सिद्धम् | अस्मिन्नर्थे हेत्वन्तरमाह - ७९. गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च || १५ ||
SK
उत्तरेभ्यः इत्यस्य प्रपञ्चोऽयम् | किञ्च - इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति इति दहरवाक्ये प्रकृतं परमेश्वरं ब्रह्मलोकशब्देन अभिधाय प्रजाशब्दवाच्यानां जीवानां प्रत्यहं तद्विषया गतिरुच्यमाना गन्तव्यस्य बहराकाशस्य ब्रह्मतां गमयति | गतिं ब्रह्मलोकशब्दं चाभिप्रेत्य गतिशब्दाभ्यां इति द्विवचनमुक्तं सूत्रकारैः | प्रत्यहं सुषुप्त्यवस्थायां जीवस्य परमशिवगमनं तथा हि दृष्टम् | हंसोपनिषदि - एषोऽसौ परमहंसो भानुकोटिप्रतीकाशो येनेदं सर्वं व्याप्तं तस्याऽष्टधा वृत्तिर्भवति पूर्वदले पुण्यमतिः आग्नेये निद्रालस्यादयो भवन्ति याम्ये क्रौर्यमतिः नैऋत्ये पापे मनीषा वारुण्यां क्रीडा वायव्यां गमनादौ बुद्धिः सौम्ये रतिप्रीतिः ईशान्ये द्रव्यादानं मध्ये वैराग्यं केसरे जाग्रदवस्था कर्णिकायां स्वप्नो लिङ्गे सुषुप्तिः इति हृदयान्तर्वर्तिदहराकाशात्मकपरशिवलिङ्गगमनमेवेति दृढीकृतम् | लिङ्गब्रह्मशब्दयोः घट-कुम्भ-कलशादि शब्दवत्पर्यायत्वम् | दृष्टमित्यनेन प्रत्यहमनन्तरत्नप्रभाभासमानमहाकैलासाभिधानब्रह्मलोक- eva grāhyaḥ | asminnarthe aharaharbrahmalokagamanameva liṅgamityanenoktam | ca śabdena niṣādasthapati nyāyo'pi karmadhārayasamāsagrahaṇe sūcitaḥ | suṣuptau tadbhāvācca jīvaśśaṅkaratāṃ gataḥ iti śivagītāyāmapyupadiśyate | tasmāddaharākāśaḥ paramaśiva iti siddham | asminnarthe punarhetvantaramāha - 80. dhṛteśca mahimno'syāsminnupalabdheḥ || 16 || eṣa seturvidharaṇaḥ iti śrutau dhṛtirūpamahimnaḥ asmin vākye daharākāśasyopalabdheśca daharākāśaḥ parameśvara eva |
SK
किञ्च - दहरोऽस्मिन्नन्तर आकाशः इत्यारभ्य व्योमसादृश्येन तस्मिन् सर्वसमाधानमुपदिश्य तत्रैवात्मन् शब्दमुक्त्वा अपहतपाप्मत्वादिगुणवैशिष्ट्यं प्रदर्श्यं अनतिक्रान्तप्रकरणे तस्यैव धृतिमाह - अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय इति | विधृतिरित्यात्मशब्दसाहचर्यात्परब्रह्मणश्शिवस्य तत्त्वादिधारणमुपदिश्यते | तस्मात्परमेश्वरादन्यस्य विश्वधृतिर्न संभवति | यथा सलिलसन्तानस्यसेतुविधारयिता क्षेत्रसम्पदामसम्भेदायैवमयमात्मैषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमाणाञ्च विधारयिता सेतुरसम्भेदायासङ्करायेति | एवमत्र प्रकरणे दहरस्य विधारणलक्षणमहिमानं निर्दिशति | श्रुत्यन्तरे चराचरप्रपञ्चधारणं परशिवलिङ्गस्यैव श्रूयते | एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इति | तथा एष सर्वेश्वर एष भूताधिपतिरेष भूतपालः एष सेतुर्विधरण एषां लोकानामसम्भेदाय इति च | तस्मात् परमेश्वरादन्यो न दहरशब्दवाच्यः | नारायणोक्त भेदाभेदशक्तिविशिष्टशिवाद्वैतप्रसङ्गः पुनर्हेत्वन्तरं दर्शयति - ८१. प्रसिद्धेश्च || १७ || दहरशब्दः परमेश्वर एव प्रसिद्धः | आकाशो ह वै नामरूपयोर्निर्वहिता सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादिषु परमेश्वरस्य आकाशशब्दवाच्यत्वदर्शनात् अत्र दहराकाशः परमेश्वरः | यद्यप्याकाशशब्दस्य भूताकाशे प्रसिद्धिः तथापि यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः इत्युपमानत्वेन ग्रहणात् नोपमेयदहराकाशत्वं सम्भवति | तस्माद्दहरपदवाच्यो नेतरः |
SK
ननु - दह्रं विपापं परमेश्मभूतं यत्पुन्ण्डरीकं पुरमध्यसṁस्थं | तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् | कैवल्ये च - हृत्पुण्डरीकं विरजं विशुद्धं इति दहस्पुण्डरीकमुपदिश्य तन्मध्ये उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं इत्यादिना परमात्मोपासनं सूचितम् | अत्र दहराकाशत्वेन परमेश्वरोपदेशात्परस्परश्रुतिविरोधप्रसङ्ग इति चेन्न | भूताकाशस्य अपहतपाप्मत्वादि परमेश्वरधर्माणां मसम्भवात् | दहराकाशशब्देन चिदम्बरप्रकृतिः उच्यते | शक्ति-शक्तिमतोरभेदान्न परस्परश्रुतिविरोधः | आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दम् इत्यादिना परमेश्वरस्य चिदम्बरशरीरत्वोपदेशात् | किञ्च कूर्मे वृषभः - कैषा भगवती देवी शङ्करार्धशरीरिणी | शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् || कूर्मः - रहस्यमेतद्विज्ञानं जन्तूनामेव मोचनम् | व्योमसंज्ञा पराकाष्ठा ज्ञानरूपातिलालसा || स्वाभाविकी च तन्मूला प्रभा भानोरिवामला | एका माहेश्वरी शक्तिरनेकोपाधियोगतः || परापरेण रूपेण क्रीडते तस्य सन्निधौ | सेयं करोति सकलं पश्य कार्यमिदं जगत् || न कार्यं नापि करणं ईश्वरस्येति सूरयः | अनया परया देवः स्वात्मानन्दं समश्नुते || तया सर्वमिदं प्रोतभोतं चैवाखिलं जगत् | एका शक्तिश्शिवो ह्येकः शक्तिमानुच्यते शिवः || शक्ति-शक्तिमतोर्भेदं वदन्ति परमार्थतः | अभेदं चानुपश्यन्ति योगिनस्तत्वचिन्तकाः || तत्रैव देवीवाक्यम् - मां विद्धि परयां शक्तिं महेश्वरसमाश्रयाम् | अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः || अहं वै सर्वभूतानां आत्मा सर्वान्तरा शिवा | शाश्वतैश्वर्यविज्ञानमूर्तिस्सर्वप्रवृत्तिका || अनन्तानन्तमहिमा संसारार्णवतारिणी || इत्यादिना भेदाभेदशक्तिविशिष्टशिवाद्वैतप्रसङ्गस्य नारायणेन कूर्मपुराणे व्याख्यानात् दहरात्मकत्वं दहरमध्यवर्तित्वं च परमेश्वरस्य न विरुद्धम् | पुनर्हेत्वन्तरमाह -
SK
८२. इतरपरामर्शात्स इति चेन्नासम्भवात् || १८ || इतरपरामर्शात् अथ यदिदमस्मिन् ब्रह्मपुरे इति वाक्ये ब्रह्मशब्देनेतरस्य जीवस्य परामर्शात्प्रतिपादनाद्दहराकाशजीव इति चेन्न असम्भवात् | सत्यसङ्कल्पादिधर्माणां जीवे असम्भवादित्यर्थः | किञ्च - अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते एष आत्मेति इति वाक्यशेषबलात् जीव एवात्र परिगृह्यते | श्रुत्यन्तरे - सुषुप्त्यवस्थायां सम्प्रसादशब्दनिर्देशात्तदवच्छिन्नशारीर एवात्र व्यपदिऽस्यते | उत शरीरात्समुत्थानमपि जीवलिङ्गम् तस्मादत्र जीव एव दहराकाशशब्दवाच्य इति चेत् - उच्यते देहेन्द्रियमनःप्राणाद्यवच्छिन्नस्य जीवस्य दहराकाशवर्तित्वेन तदाकाशोपमानं विरुध्यते | जीवस्य शरीरात्समुत्थानपूर्वकपरमेश्वरप्राप्त्युपदेशान्नात्र जीवप्रकरणम् | अतः परमेश्वरप्रकरणत्वात् परमेश्वर एवात्र दहरपदवाच्य इति सिद्धम् | हेत्वन्तरमाह - ८३. उत्तराच्चेदाविर्भूतस्वरूपस्तु || १९ || उत्तराच्चेत् उत्तरत्र प्रजापतिवाक्ये य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इत्यत्र जीवशब्दवाच्यस्यात्मनः सत्यसङ्कल्पत्वादिधर्मानुपदिऽस्य सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इत्यादिना जिज्ञासान्वेषणादीनां तस्यैव निर्देशात् | किञ्च - दहरविद्यायामुपरि प्रजापतिविद्यायां एषोऽक्षिणि पुरुषो दृश्यते एष आत्मा य एष स्वप्ने महीयमानश्चरति एष आत्मा तद्यत्रैतत्सुप्तस्सप्नस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मा इत्यादौ जाग्रत्स्वप्नसुषुप्तिग्रस्तजीवस्यैवात्र प्रतिपादनात्तस्यैवात्रापहतपाप्मत्वादिधर्मोपदेशाच्च | एतदमृतमभयमेतद्ब्रह्मेति इति वाक्यसिद्धामृतत्वादिधर्माणां तस्यैवोपदेशाद्दहराकाशो जीव इति चेन्न | आविर्सूतस्वरूपस्तु
SK
इत्यत्र तु शब्देन पूर्वपक्षव्यावृत्तिः | उत्तरात्प्रजापतिवाक्यादपि न जीवशङ्का युक्ता आविर्भूतस्वरूपोऽत्र जीवो विवक्षितः | परं ज्योतिरुपसम्पद्य स्वेन रूपेणामि | निष्पद्यते इत्युपसंहारवाक्ये मुक्तजीवस्य ब्रह्मभावाविर्भावेनापहतपाप्मन्वादिधर्मप्रतिपाद्यः परमेशर एव | मुक्तजीवस्य ब्रह्मत्वेन जीवत्वाभावात् ब्रह्मधर्मोपदेशो युक्त एव | तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ब्रह्मवित् ब्रह्मैव भवति इत्यादिश्रुतिषु मुक्तजीवानां ब्रह्मात्मकत्वं सूचितम् | तथा च स्मृतिः - अन्तर्बहिश्चतत्सर्वं परिपूर्णं महेश्वरम् | भावयेत्परमानन्दलब्धये पण्डितोत्तमः || शिवोऽहमिति भावो हि शिवतापत्तिकारणम् | न ज्ञानमात्रं नाचारो भावयुक्तश्शिवो भवेत् || ज्ञानं वस्तुपरिच्छेदो ध्यानं तद्भावकारणम् | तस्मात् ज्ञाते महादेवे ध्यानयुक्तो भवेत्सुधीः || नैरन्तर्येण सम्पन्नो भवेद्ध्यातुं शिवं प्रति | तद्भावो जायते यद्वत्क्रिमेः कीटस्य चिन्तनात् || गुरोः कटाक्षवेधेन शिवो भवति मानवः | रसवेधाद्यथा लोहो हेमतां प्रतिपद्यते || इति | ननु दहराकाशस्येश्वरत्वे अथ य एष सम्प्रसादः इत्यादिना जीवपरामर्शो व्यर्थ इत्याशङ्कायामाह - ८४. अन्यार्थश्च परामर्शः || २० || परामर्शः जीवपरामर्शः अन्यार्थश्च - ब्रह्मभेदप्रतिपादनार्थः परं ज्योतिस्स्वरूपंत्म्पद्य स्वेन रूपेणाभिनिष्पद्यत इति वाक्यशेषावगतजीवपरामर्च्चोद्युपसम्पत्तव्यः परमेश्वर पर एव | जीवपरामर्शं विना तदसम्भवात् जीवपरामर्शो न जीवप्रतिपादनार्थः | ८५. अल्पश्रुतेरिति चेत्तदुक्तम् || २१ || दहरोऽस्मिन्नन्तर्हृदय आकाशः इत्यादौ परब्रह्मणश्शिवस्य अल्पत्वश्रवणात् व्यापकस्याल्पदहरत्वासम्भवाद्दहरपदवाच्यत्वं जीवस्यैव समुचितमिति चेन्न | अर्भकौकस्त्वात् इति सूत्रे व्योमदृष्टान्तेन भक्तोपासनार्थं परमेश्वरस्य परिच्छिन्नत्वं पूर्वमेवोक्तम् |
SK
ननु एषोऽक्षिणि पुरुषो दृश्यते इति श्रुतौ जाग्रदवस्थापन्नजीवोपक्रमश्रवणात् जाग्रदाद्यनुभवस्य जीवे समुचितत्वात् स एवात्र दहरपदवाच्य इति चेन्न | अयमात्मापहतपाप्मा विजरो नैतṁ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः तस्माद्वा एतं सेतुं तीर्त्वाऽन्धस्सन्ननन्धो भवति विद्धस्सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतṁ सेतुं तीर्त्वाऽपि नक्तमहरेवाभिनिष्पद्यते | सकृद्विभातो ह्येवैष ब्रह्मलोकः इति वाक्यशेषे ब्रह्मात्मिङ्गबाहुल्यान्नान्यप्रकरणमित्यभिधीयते | अवस्थात्रयप्रतिपादनस्यापि शाखाचन्द्रन्यायेन परमात्मप्रतिपादकतयोपपत्तेः | श्रुत्यन्तरेऽपि - आत्मन्येवात्मानं पश्येच्छम्भुराकाशमध्ये शिव एको ध्येयः इत्यादिषूपासनाज्ञानस्य मोक्षफलं विधीयते | तस्मान्निष्कामनिजधर्मोपेतनिषिद्धकाम्यकर्मत्यागपूर्वकश्रुतिस्मृतिचोदित- apahṛtapāpmatvādiguṇaviśiṣṭaṃ śivatattvamupāsanīyam | nanu chandogye - śivatattvapratipādakamukhyaliṅgādarśanātkathaṃ tatparatvamiti ceducyate - taittirīye daharaṃ vipāpmaṃ ityārabhya yaḥ paraḥ sa maheśvaraḥ ityantena kaivalye - hṛtpuṇḍarīkaṃ virajaṃ viśuddhaṃ ityārabhya umāsahāyaṃ ityādinā paramaśivopāsanāyā asandigdhatayā vyavasthāpanānnānyaviṣayatvam | tathā gītāsu - ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || १८-६१ || तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् || १८-६२ || इति प्रतिपादितम् | अनुकृत्यधिकरणम् || ६ || सर्वव्यापकस्य परमेश्वरस्य दहरात्मकत्वं प्राध्य तस्यैव साधनान्तरनिरपेक्षस्वयम्प्रकाशत्वं स्थूलसूक्ष्मचिदचित्प्रकाशकत्वं चाधिकरणान्तरेण दर्शयति - ८६. अनुकृतेस्तस्य च || २२ ||
SK
मुण्डकोपनिषदि श्रूयते - न तत्र सूर्यो भाति न चन्द्रतारकं नेमाविद्युतो भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति | अत्र सर्वप्रपञ्चप्रकाशकत्वेन श्रूयमाणं वस्तु तेजोविशेषः परमेश्वरो वेति संशयः | तेजोविशेष एवात्रोपदिश्यते | तेजस एव प्रबलप्रकाशकत्वेन प्रसिद्धेः | प्रकृष्टतेजसा दुर्बलस्याभिभवदर्शनाच्च | अतो न परमेश्वर इति चेत् - ब्रूमः - अनुकृतेस्तस्य च अत्र प्रतिपाद्यस्तेजोविशेषः परमेश्वर एव | कुतः अनुकृतेः अनुकृतिरनुकरणं यत् तमेव भान्तमनुभाति सर्वं इत्यनुभातं तदुच्यते | न हि तेजस्तेजोऽन्तरे भासमाने भासते | ततःप्रकाशत्वेन भासमानं शिवतत्वं अनु सर्वं प्रभाकरचन्द्रनक्षत्रादिकं भासत इति युक्तम् | सूत्रे तस्यचेति पदेन तस्य भासा सर्वमिदं विभाति इति विषयवाक्योदाहृतचतुर्थचरणाभिप्रेतं सर्वावभासकत्वं स्वयं प्रकाशमानत्वं शिवस्यैवोपपन्नम् | तदेव ज्योतिषां ज्योतिः इत्यादौ प्रसिद्धं च | न तत्र इति तच्छब्दे च - हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् | तच्छुभ्रं ज्योतिषां ज्योतिर्यत्तदात्मविदो विदुः || इति प्रकृतपरशिवब्रह्मग्रहणमेव युक्तमिति बोध्यते | हिरण्मयो ज्योतिर्मयो ह्यानन्दमयः परमशिव इत्यर्थः | हिरण्याय नमः हिरण्यलिङ्गाय नमः नमो हिरण्यवाहवे हिरण्यवर्णाय हिरण्यरूपाय इत्यादौ परमशिवस्यैव प्रसिद्धम् | तस्मिन्नन्नमयाद्यपेक्षया परे कोशे दहराकाशे ब्रह्मपुच्छं प्रतिष्ठा इति यत्प्रतिष्ठाभूतं ब्रह्म तत्प्रतिष्ठितं तच्च विरजं मलत्रयशून्यं निष्कलं पाशरहितं शुब्रं नैसर्गिकदोषशून्यं ज्योतिषां सूर्यादीनां ज्योतिरवभासकं तच्च विदुषामनुभवसिद्धमित्यर्थः | परमेश्वरपक्षे हेत्वन्तरमाह - ८७. अपि च स्मर्यते || २३ || अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् | पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ||
SK
इति कैवल्याद्युपनिषत्सु ज्योतिर्मयत्वं परमशिवस्यैव स्मर्यते | अपि चेति समुच्चये | तथा गीतासु च - न तद्भासयते सूर्यो न शशाङ्को न पावकः | यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || यदादित्यगतं तेजो जगद्भासयतेऽखिलम् | यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् || इति शिवस्य परब्रह्मणः साधनान्तरनिरपेक्षस्वयंप्रकाशकत्वे स्वानुस्यूतस्थूलसूक्ष्मचिदचित्प्रपञ्चप्रकाशकत्वमुपदिश्यते | तस्मान्नान्यविषयत्वम् | षड्विधतात्पर्यलिङ्गैः भगवद्गीतायाः शिवपरत्वप्रतिपादनम् ननु गीतासु तत्तेजो विद्धि मामकम् इति सर्वप्रकाशकत्वेन नारायणस्यैव परब्रह्मत्वोपदेशात् ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति इति वाक्यविहितदहरान्तर्वर्तित्वं तस्यैवोपपन्नम् न तु शिवपरत्वं प्रकरणविरोधोऽत्र दृश्यते | तस्मान्नारायण एवात्रोपदिश्यते इति चेन्न | उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गैः गीतार्थस्यापि परमशिवबोधकत्वात् | ईश्वरस्सर्वभूतानां इत्युपक्रम्य तमेव शरणं गच्छ इत्यन्तेन शिवपरत्वम् | सर्वधर्मान् परित्यज्य भामेकं शरणं व्रज इत्यादिना विष्णुपरत्वमेव सूचितमिति न शङ्कनीयम् | दहरोपासनस्य विष्णुपरत्वे पूर्वोक्ततैत्तिरीयकैवल्यादिबहुश्रुतिविरोधात् | अग्रिमवाक्येन फलविषयकप्रकारसहितस्य विष्णूशसनस्य पृथग्विधानाच्च | तदुक्तं - सर्वगुह्यतमं भूयः शृणु मे परमं वचः | नन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे || सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज | अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः || इत्यादौ अनयोश्शिवकेशवयोरुपास्योपासकयोरभेदः शास्त्रदृष्ट्या तूपदेशो वामदेववत् इति सूत्रन्यायेन वेदितव्यः | किञ्च - विष्णोरपि शिवांशत्वाद्विष्णूपासनायाश्शिवप्रीतिकरत्वाच्च विष्णूपासनया मोक्षविधायकवाक्यानां स्थूलारुन्धतीन्यायेन शिवभक्तिजननद्वारा मोक्षहेतुत्वमुपदिष्टम् | कूर्मपुराणे ईश्वरगीतासु श्रूयते -
SK
शिवः - ममैषा परमा मूर्तिः नारायणसमाह्वया | सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञका || तस्मादेष महायोगी मद्भक्तः पुरुषोत्तमः | अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि || इति | गीताशास्त्रमवीश्वराल्लब्ध्वा तदाज्ञावशादेव कृष्णेनार्जुनायोपदिष्टम् | तत्रैव शिवः - मयैतद्भाषितं ज्ञानं हितार्थं ब्रह्मपादिनाम् | दातव्यं शान्तचित्तेभ्यो शिष्येभ्यो भवता सदा || नारायणोऽपि भगवान् देवकीतनयो हरिः | अर्जुनाय स्वयं साक्षाद्दत्तवानिदमुत्तमम् || इति | तस्मात्परमेश्वर एवात्रोपास्यः | प्रमिताधिकरणम् || ७ || चिदचित्प्रपञ्चप्रकाशकस्य परब्रह्मणश्शिवस्य रूपोपन्यासमधिकरणान्तरेण दर्शयति - ८८. शब्दादेव प्रमितः || २४ || कठवल्यां श्रूयतेऽस्य विषयः - अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति | ईशानो भूतभव्यस्य स ततो विजुगुप्सते इति | अङ्गुष्ठमातः पुरुषो ज्योतिरिवाधूमकः | ईशानो भूतभव्यस्य स एवाद्य स उ श्वः एतद्वैतत् इति | अत्राङ्गुष्ठमात्रत्वेन श्रूयमाणः पुरुषो जीवः परमेश्वरो वेति सन्देहः | अत्राङ्गुष्ठमात्रपरिमाणोपदेशाज्जीव इत्यूहनीयम् सोपाधिकत्वात् | किञ्च - स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा विश्वाधिपस्संचरति स्वकर्मभिः | अङ्गुष्ठमात्रो रवितुल्यरूपस्सङ्कल्पाहंकारसमन्वितो यः | अथ सत्यवतः कायात्पाशबन्धवशं गतम् | अङ्गुष्ठमात्रं पुरुषं निश्कर्ष यमो बलात् || इत्यादिश्रुतिस्मृतिषु शरीरस्यैवाङ्गुष्ठमात्रोपदेशात् | मध्य आत्मनि तिष्ठति इति देहान्तर्वर्तित्वेन निर्देशात्सर्वथा जीवस्यैवाङ्गुष्ठमात्रत्वमुपपद्यत इति चेदुच्यते -
SK
इहाङ्गुष्ठमात्रः पुरुषो महेश्वरः एव | कुतः शब्दादेव - ईशानशब्दादेन साक्षान्महेश्वरः प्रमितः निश्चित इत्यर्थः | इतरव्यवच्छेदार्थ एवकारः | ईशानस्सर्वविद्यानां इत्यादिश्रुत्यन्तरेष्वपि परमशिवस्यैवेशानशब्दश्रवणात् न हि शरिरस्येश्वरत्वम् | भूतभव्यस्य इति श्रुत्युपदिष्टसर्वेश्वरत्वस्य जीवेऽनुपपन्नत्वात् | यद्भूतं यच्च भव्यं उतामृतत्वस्येशानः इति श्रुत्यन्तरे च तस्यैव श्रवणात् | एतद्वै तत् इति प्रकरणस्य परमेश्वरादन्यत्र सामञ्जस्याभावात् | सर्वो वै रुद्रः इत्यादौ तस्यैव चराचरात्मकत्वश्रवणाच्च | पृष्टं चेह ब्रह्म - anyatra bhūtācca bhavyācca yattatpaśyati tadvada || iti | śabdādevetyabhidhānaśrutereva prakṛte mukhyatayā parameśvarasyaiva vyapadiṣṭatvāt | namaste'stu bhagavanviśveśvarāya ityupakramya sarveśvarāya sadāśivāya śrīmanmahādevāya namaḥ ityantena yajussāmasu - sarvaiśvaryasampannassarveśvaraśśambhurākāśamadhye ityatharvaṇe ca tasyaiva sarveśvaratvavyavasthāpanāt | aṅguṣṭhamātraḥ puruṣo hyaṅguṣṭhantu samāśritaḥ | īśassarvasya jagataḥ prabhuḥ prīṇāti viśvabhuk || ityādimahopaniṣadi parameśvarasyaiva aṅguṣṭhamātratvanirdeśānnetaraḥ | atha brahmavidyādhikāranirūpaṇam vyāpakasya śivasya parabrahmaṇaḥ kathamaṅguṣṭhamātratvamityāśaṅkāyāmāha - ८९. हृद्यपेक्षया तु मनुष्याधिकारत्वात् || २५ || तु शब्दोऽत्र शङ्कानिरासार्थकः | हृद्यपेक्षया हृदयस्थानापेक्षया व्योमवत्सर्वव्यापकस्य परशिवस्य साधकानुग्रहार्थं ज्योतिर्मयलिङ्गरूपेणाङ्गुष्ठपरिमाणहृदयावच्छिन्नतया अङ्गुष्ठमात्रत्वमुपपन्नम् | अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः इति श्रूयते | हस्तिमशकादि शरीरेषु हृदयपुण्डरीकस्यानियतपरिमाणत्वात्कथमङ्गुष्ठमात्रनियमः इति चेदत्राह -
SK
मनुष्याधिकारत्वाच्छास्त्रस्येति शेषः | पूर्वतन्त्रे षष्ठे फलार्थे कर्मणि इत्यधिकरणे तिर्यगादेरपि स्वर्गकामस्याधिकारः स्वर्गकामश्रूतेरधिकारात् इत्याशङ्क्य तिर्यगादेस्सामर्थ्याभावेन स्वर्गकामपदं सङ्कोच्य मनुष्याधिकारत्वे स्थिते चातुर्वर्ण्यमधिकरोति शास्त्रमिति प्रापय्य वसन्ते वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यश्शरदि वैश्यः इति त्रयाणामेव अग्निसम्बन्धश्रवणात् त्रयाणामेवाधिकार इति राद्धान्तितम् | किञ्च - परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन | तद्विज्ञानार्थं स गुरुमेवामिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् || अर्थी समर्थो विद्वान् शास्त्रेणापर्युदस्तो वैदिके कर्मण्यधिकारी इति श्रुतिसूत्रनिर्दिष्टशक्तत्वार्थित्वाद्युपनयनादिशास्त्रस्य मनुष्यनियताधिकारलक्षणविषयत्वात् | यं त्वं मनुष्याय हिततमं मन्यसे इत्यादौ मनुष्याणामेव हिततमत्वोपदेशार्त्तियगादावर्थित्वादिधर्माणामसम्भवात् शरीरातिशयेन मनुष्याणामेवाङ्गुष्ठमात्रहृदयपुण्डरीकसम्भवाच्च तेषामेव ब्रह्मविद्याधिकारित्वम् | तस्मादुपासनाशास्त्रविधेर्मनुष्यहृदयं यत्परिमाणं तदवच्छित्तस्वरूपं परमकारुणिकः परमशिवः प्राप्नोति | घटावच्छिन्नाकाशस्य घटपरिमाणवदङ्गुष्ठमात्रदहराकाशावच्छिन्नस्य परमेश्वरस्य तत्परिमाणत्वं न विरुद्धम् | अङ्गुष्ठमात्रजीवप्रतिपादकवाक्यानां मुक्तजीवपरत्वान्न दोषः | ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतिषु मुक्तजीवस्य ब्रह्मात्मकतया ब्रह्मधर्मोपदेशो युक्तः | किञ्च - अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः तं स्वाच्छरीरात्प्रवृहेन्मुज्जादिवैषिकां धैर्येण | तं विद्याच्छुक्रममृतम् इत्यङ्गुष्ठमात्रत्वे न कश्चिद्विरोधः | देवताधिकरणम् || ८ || देवानां ब्रह्मविद्याधिकारविचारः एवं ब्रह्मविद्याधिकारं प्रसाध्य देवानां ब्रह्मविद्याधिकारित्वमाह - ९०. तदुपर्युपरि वादरायणस्सम्भवात् || २६ ||
SK
बृहदारण्यकतृतीयाध्याये श्रूयतेऽस्य विषयः | तद्यो देवानां प्रत्यबुध्यत स एव तदभवत्तया ऋषीणां तथा मनुष्याणां इति मनुष्याधिकारत्वादित्येतलासङ्गादागतमिदनधिकरणम् | इह देवानां ब्रह्मविद्याधिकारित्वं अस्ति न वेति संशयः | अत्र ब्रह्मविद्यायां न देवानामधिकारः | यं त्वं मनुष्याय हिततमं मन्यसे इत्यादौ मनुष्याणामेव परशिवोपासनस्य हिततमत्वेन व्यपदेशादर्थित्वादिशास्त्रस्य मनुष्याधिकारत्वात् देवानां पञ्चीकृतविग्रहाभावात् | स्थूलशरीरविशिष्टस्यैव स्तुतिध्यानादिकर्माधिकारार्शनाच्च | इन्द्रो वृत्राय वज्रमुदयच्छत् इत्यादौ देवानां शरीरित्वं व्यपदिश्यत इति चेन्न | विध्यैकवाक्यविषयाणामन्वत्र समन्वयाभावात् | शरीरवत्वेऽपि अर्थी समर्थो विद्वांश्छास्रेणापर्युदस्तो वैदिके कर्मण्यधिकारी इत्यादि शास्त्रनिर्दिष्टत्वादिकं न तेषां सम्भवति | देवपरमेश्वरयोः स्थित्यैकत्वोपदेशात् | देवाह वै स्वर्गं लोकमगमन् ते देवा रुद्रमपृच्छन् इत्यादौ स्वर्ग एव लोको रुद्रस्य परमात्मनः पदं देवानामपि पदमित्याचक्षते | किञ्च - आप्नोति स्वाराज्यम् इत्यादिषु मुक्तानामपि स्वाराज्यप्राप्तिः श्रूयते | उत - nāvedavinmanute taṃ bṛhantam ityādau mānāntarābhāva upadiśyate | devānāṃ brahmavidyādhikārahetubhūtopanayanasaṃskārasya vedaśāstreṣvadṛṣṭatvāt sādhanaṃ vinā sādhyāniṣpatteriti nyāyādupanayanādikarmaśūnyānāṃ devānāṃ na sarvathā brahmavidyādhikāritvaṃ sambhavatīti prāpte brūmaḥ -
SK
ब्रूमः - तदुपर्युपरि बादरायणस्सम्भवात् तेषां मनुष्याणामुपर्युपरिष्टात् स्वर्गलोकस्थितानां देवानामपि ब्रह्मविद्यायामधिकारोऽस्तीति वादरायणो मन्यते | कुतः सम्भवात् | देवारुद्रमपृच्छन् को भवानिति सोऽब्रवीदहमेकः प्रथममासं इत्यादिनायर्वशिरसि देवानामर्थित्वस्य परमेश्वरकर्तृकब्रह्मविद्योपदेशस्य च दृष्टत्वात् | तत्रैव प्रदेशान्तरे ततो देवा रुद्रं नापश्यंस्ते देवा रुद्रं ध्यायन्ति इत्यादौ देवानां परमेश्वरविषयमुपासनं श्रूयते | तद्यो यो देवानां प्रत्यबुध्यत इत्यादिना देवानामपि ब्रह्मविद्याकामनया ब्रह्मस्वरूपत्वोपदेशात् ब्रह्मविद्याधिकारित्वं न विरुद्धम् | देवा ह वै स्वर्गं लोकमगमन् इत्यत्र स्वर्गपदेन प्रकृतप्रकरणाद्धिरण्यगर्भादि देवलोकादुत्कृष्टं ब्रह्मणः शिवस्य लोकविशेषत्वं व्यपदिश्यते | देवादीनां सदा भोगशालित्वेऽपि भोगवस्तुष्वनित्यत्वादिदोषदर्शनाद्वैराग्यादिकं निरतिशयानन्दमोक्षार्थित्वं च सम्भवति | इन्द्रो वृत्राय वज्रमुदयच्छत् इत्यादिमन्त्रार्थवादस्मृतिपुराणागमादिषु देवानां विग्रहवत्वव्यपदेशात् तेषां स्वतस्तिद्धावाधितब्रह्मसूत्रसंस्कारसिद्धत्वात् स्वयंभातवेदवेदान्तार्थत्वाच्च उपनयनसंस्कारशास्त्रस्य मानुषकिञ्चिज्ज्ञानविषयत्वमेवेति निर्णीयते | उत - एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास ! बृगृर्वै वारुणिः वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति इत्यादौ ब्रह्मविद्याग्रहणार्थं ब्रह्मचर्यादिकं दृष्टम् | उत भृग्वादिसगोत्रत्वेन स्वत उद्भूतयज्ञसूत्रविशिष्टत्वेन स्वतस्सिद्धवेदवेदाङ्गज्ञानवत्वेन च ब्रह्मविद्याधिकारहेतुभूताधित्वादिकं च सम्भवत्येव | वेदानां अर्थवादप्रामाण्यात् देवानां शरीरित्वेन तत्सामर्थ्यं सिध्यति | आदित्यो यूपः अग्निहिंमस्य भेषजम् इत्यादिगुणवादानां स्वार्थे समन्वयविरोधोऽपि इन्द्रो वृत्राय वज्रमुदयच्छत्
SK
इत्यादीनामर्थवादानां विरोधस्य मानान्तरप्राप्तेश्चाभावेन स्वार्थे समन्वयसम्भवात् | अङ्गुष्ठ मात्रश्रुतेस्स्वाङ्गुष्ठापेक्षया विरोधाभावाप्रामाण्यं युक्तम् | ननु च्तुर्थ्यन्तशब्दानामेव देवत्वात्तेषामचेतनत्वात्कथं ब्रह्मविद्यायामधिकार इति चेन्न | चतुर्थ्यन्तशब्दवाच्यानां विग्रहवतां देवानां प्रतिपादितत्वेन ब्रह्मविद्यायामधिकार सम्भवात् | देवानां विग्रहवत्वे वाधकमाशङ्क्य निराकरोति - ९१. विरोधः कर्मणीति चेन्नानेकप्रवृत्तेर्दर्शनात् || २७ || ननु - देवानां विग्रहवत्वं विना ब्रह्मविद्यायामनधिकारात्तदङ्गीकरणीयम् | तथा सति कर्मण्यपि शरीरितया ऋत्विगादिवत्सन्निधानेनैवोपकारकत्वं स्यात्तच्च न सम्भवति | एकस्य शरीरस्यानेकत्र युगपत्सन्निधानासम्भवात्तस्माद्विग्रहवत्वाङ्गीकारे कर्मणि देवताया उपकारकत्वविरोधः प्रसज्येतेति चेन्नैष दोषः | कुतः अनेकप्रवृत्तेर्दर्शनात् विग्रहवतोऽपि सौभर्यादेरिव देवानामेकैकशरीरित्वेऽपि एकस्य देवस्यानेकेषां शरीराणां युगपद्व्याप्तेः श्रुतौ दर्शनात् | तथा हि - बृहदारण्यके शाकल्यब्राह्मणे - अथैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्य इत्युपक्रम्य त्रयश्च त्री च शता त्रयश्च त्री च सहस्रं इत्युक्त्वा कतमेते इति पृच्छायां महिमान एवैषामेते त्रयस्त्रिṁ शत्त्वेव देवा इति सहस्रषडधिकत्रिशतदेवानां त्रयस्त्रिंशद्देवेष्वन्तर्भावमुक्त्वा | त्रयस्त्रिंशत्त्वेऽपि षट्सु षण्णां त्रिषु त्रयाणां द्वयोर्द्वयोरेकस्मिन्वाय्वात्मके देवे अन्तर्भावं ब्रुवती श्रुतिः एकस्य वायोरनेकात्मकत्वं दर्शयति | तस्माद्विग्रहवत्वेऽपि देवानां कर्माङ्गभावचोदनादनेकविधत्वे न कश्चिद्विरोधः | स्मृतावपि - आत्मनो वै शरीराणि बहूनि भरतर्षभ | योगी कुर्यात्फलं प्राप्य तैश्च सर्वैर्मह्रीं चरेत् || प्राप्नुयाद्विषयान् कैश्चित् कैश्चिदुग्रं तपश्चरेत् |
SK
इत्यादिना अणिमाद्यैश्वर्येण योगीश्वराणामपि योगप्रभावाद्युगपदनेकशरीरधारणस्य प्रतिपादितत्वात् तैजसशरीराणामाजन्मसिद्धदेवानामनेकप्रतिपत्तिः कुतश्शङ्कनीया | अनेकैर्भोजयद्भिर्भोज्यं युगपदेको न भोज्यते | बहुभिर्नमस्कुर्वाणैस्तु युगपदेको न वन्द्यते || एवं विग्रहवतीमेकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति तत्कर्मणि न विरोधः | ब्रह्मादिदेवानां विग्रहवत्वाङ्गीकारे विग्रहाणामनित्यत्वात्तत्प्रतिपादकवेदस्याप्यनित्यत्वं स्यादित्याशङ्क्याह - ९२. शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् || २८ || ननु मास्तु कर्मणि विरोधः | शब्दे वेदे विरोधो दृश्यते | अस्मदादिवद्देवानां विग्रहवत्वाङ्गीकारे जन्मविनाशः प्रसज्येत | अतोऽनित्यविग्रहवद्देवतायाः नित्यवेदार्थत्वाङ्गीकारे शब्दस्यार्थेन सह नित्यसम्बन्धाभावान्नित्यानित्यसंयोगविरोधः | किञ्च - श्रुतिप्रतिपादितेन्द्रादिदेवानामनित्यत्वाङ्गीकारे तत्प्रतिपादकवेदस्यापि तथापौरुषेयत्वमनित्यत्वं च स्यात् | तस्माद्वेदचोदनार्थवादादेर्दत्तजलांजलिताप्रसङ्गः | तच्चोदित कर्मणां चासिद्धिरित्यनेकार्थविरोधः इति चेत् न तद्विरोधः कुतः अतः प्रभवात् | देवादिनिष्ठनित्याकृतिवाचकाद्वेदराशेरेव देवतादिप्रपञ्चस्य प्रभवादुत्पन्नत्वश्रवणादित्यर्थः | कथमेवमवगम्यते - प्रत्यक्षानुमानाभ्याम् | प्रत्यक्षं श्रुतिः | अनुमानं स्मृतिः | यथाक्रमं श्रुतिः शब्दपूर्वा सृष्टिं निर्दिशति | तथा च श्रुतिः - एत इति वै प्रजापतिर्देवानसृजत असृग्रमिति मनुष्यान् इन्दव-इति पितॄन् तिरः पवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शास्त्रं अभिसौभगेत्यन्याः प्रजाः इति | तथा स मनसा वाचं मिथुनं समभवत् इत्यादिना तत्र तत्र शब्दपूर्विका सृष्टिरुपदिश्यते | स्मृतिरपि - अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा | आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः || इति | नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् | वेदशब्देभ्यो एवादौ निर्ममे स महेश्वरः || इति |
SK
तस्माद्वेदस्य नित्यत्वं देवादीनामनित्यत्वं चोदाहृतवाक्यैः प्रतीयत इति न विरोधः | व्यक्तीनामनित्यत्वेऽप्याकृतिनित्यतया तस्या एव शब्दार्थत्वेन गवादिवत्सम्बन्धस्यौत्पत्तिकत्वसिद्धेः न शब्दे विरोधः | किञ्च - यद्वि मनसा ध्यायते तद्वाचा वदति तत्कर्मणा करोति इति न्यायेन यथा गुरुश्शिष्यपाठार्थं प्राङ्मनोगतशास्त्रं स्मृत्वा पश्चात्तदर्थं छात्राणामुपदिशति | घटनिर्माणकाले यथा कुलालो घटशब्दादाकृतिविशेषं मनोगतं ध्यात्वा घटादिकं सृजति तद्वत्परमेश्वरोऽपि सृष्टिकाले स्वहृदयस्थितवैदिकेन्द्रादिशब्दादाकृतिविशेषान् स्मृत्वा पश्चादिन्द्रदिनेन्द्रादिकं सृजतीति न शब्दविरोधः | अस्मिन्नर्थे हेत्वन्तरमाह - ९३. अत एव च नित्यत्वम् || २९ || कर्तृस्मरणादिना सिद्धमेव वेदस्य नित्यत्वम् | अनित्यसंयोगेनानित्यत्वामांशङ्क्य वेदा देवाकृतिविशेषावच्छिन्नदेवादिसृष्टिप्रतिपादनादाकृतेश्शब्दार्थत्वात्तस्याश्च नित्यत्वान्नानित्यसंयोगनिबन्धनमनित्यत्वमित्युपसंहरति | अत्र एवाकृतेः शब्दार्थत्वादेव वेदस्य नित्यत्वमविरुद्धम् | केचिद्वेदेश्वरयोर्नित्यत्वमवान्तरप्रलयावस्थायित्वमित्यूचुः | वाचा विरूपनित्यया इत्यादिश्रुतिविरोधप्रसङ्गात्तदसङ्गतम् | किञ्च - वेदानां परमेश्वरविमर्शशक्तित्वेन नित्यत्वात् तन्मिथ्यात्वे वेदबाह्यपाषण्डमतप्रवेशः प्रसज्येत | अपि च - मन्त्रकृतो वृणीते इति विश्वामित्रस्य सूक्तं भवति इति विश्वमित्रादीनां मन्त्रकृत्वेऽपि विश्वामित्रादिशब्दानामाकृतिविशेषान् स्मृत्वा तत्तद्वैदिकशब्दैर्मन्त्रब्राह्मणात्मकस्य वेदस्य नित्यत्वमुपदिश्यते | यस्माद्ब्रह्मा वैदिकेन्द्रादिशब्दार्थान् स्मृत्वा सृजति अनधीतमन्त्रार्थविज्ञानसमर्थत्वात् दैनन्दिनप्रलयानन्तरं पुनविश्वामित्रादिचराचरप्रपञ्चं सृजति | तस्मान्मन्त्रादिकर्तृत्वं वेदनित्यत्वं च सिद्धम् | इन्द्रादीनां प्रतिकल्पं विलक्षणनामरूपत्वाद्वेदस्य कथं तत्प्रतिपादकत्वमित्याशङ्क्याह - ९४. समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च || ३० ||
SK
समाननामरूपत्वात्सर्वेषामिन्द्राणां सर्वेषु कल्पेषु समाननामरूपत्वादावृत्तावपीन्द्रपरंपरायामाङ्गीक्रियमाणायामप्य- evamagnivāyuvaruṇādiṣvapi draṣṭavyam | nanvākṛtipadārthatve'pi pralaye sarvākṛtivyaktināśe punastadākṛtikavyaktyutpattau mānābhāvāt nityānityasaṃyogavirohastadavastha iti cenna | saṃsārasyānāditvātpratisṛṣṭistadākṛtikameva janyate na vilakṣaṇam | pralaye sarvaṃ vastu saṃskārāvaśeṣameva naśyati na tu niranvayadhvaṃsaḥ | jñānasyevārthasyāpi tatsaṃjñitapadārthopapattidarśanena saṃskārāṅgīkārāt saṃskārācca samānanāmarūpaiva sṛṣṭirna vai lakṣaṇyam | samānanāmarūpatvasya śrutau darśanātsmṛteścā | bhyupagantavyam | sūryācandramasau dhātā yathāpūrvamakalpayat | divaṃ ca pṛthivīṃ cāntarikṣamatho suraḥ yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai | taṃ hi devamātmabuddhiprakāśam | mumukṣurvai śaraṇamahaṃ prapadye ityādikā śrutiḥ | smṛtirapi - apa eva sasarjādau tāsu vīryamapāviśat | tadaṇḍamabhavaddhaimaṃ sahasrārkasamaprabham || brahmāṇaṃ vidadhe pūrvaṃ vedāṃścāsmai prayacchati || ityādi | kiñca - yathā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tathainaṃ vāk sarvairnāmabhissahāpyeti cakṣussarvairūpaissahāpyeti śrotraṃ sarvaiśśabdaissahāpyeti manassarvairdhyātaissahāṣyeti sa yadā pratibudhyate yathāgnervisphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ itiśrutāvapi mṛdi maṇḍūkādivatpūrvakalpaprapañcasamānanāmarūpatvamuttarottaraprapañcasya varṇitam | suptau svapnajāgratprapañcavyavahārapralaye'pi punaḥ pūrvaprabodhavyavahāravaduttarottarakalpāntare sṛṣṭipralayayorapyevamūhanīyam | pūrvapakṣasaṅgatyā matāntaramāha - 95. madhvādiṣvasambhavādanadhikāraṃ jaiminiḥ || 31 ||
SK
देवानामनधिकारं ब्रह्मविद्यायां जैमिनिर्मन्यते | कुतः मधुविद्यादिष्वधिकारासम्भवात् | असावादित्यो देवमधु देवानामोदनान्मध्वीव मधु तस्य मधुनो द्युलोक एव तिरश्चीमवंशः | अन्तरिक्षमपूपः आदित्यस्य हि मधुनोऽवस्थानातदेव मध्वपूषमित्यारोपः | रोहितं शुक्लं कृष्णं गोप्यं च इत्यादिना आदित्यमण्डलप्राप्तिफलकेषु मधुविद्यादीनामधिकारः आदित्याद्यन्तराभावात् | स्वस्यैवोपास्यत्वोपासकत्वाभावात् | तथा च ब्रह्मविद्यायामधिकाराङ्गीकारे विद्यात्वाऽविशेषात्तत्रापि स्यात् | तत्र चाधिकारासम्भवाद्ब्रह्मविद्यायामपि न सम्भवति | किञ्च - कमन्यतमादित्यमुपासीत पुनश्च आदित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतानि इत्युपक्रम्य वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्चदेवगणाः क्रमेण तत्तदमृतमुपजीवति इत्युपदिश्य स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैत देवामृतं दृष्ट्वा तृप्यति इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयति | वस्वादयस्तु स्वातिरिक्तवस्वादीन् कानमृतोपजीविनो विजानीयुः स्वव्यतिरिक्तवस्वादिमहिमानं कं वा प्रेप्सेयुः तथाग्निः पादो वायुः पादः आदित्यः पादो दिशः पादो वायुर्वावसंवर्ग आदित्यो ब्रह्मेत्यादेशः इत्यादिषु देवतात्मोपासनेषु न चैषामधिकारः | तथेमावेव गौतमभरद्वाजौ भरद्वाजौ अयमेव गौतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपौ अयमेव वासिष्ठोऽयम् कश्यपो वागेवात्रिः इत्यादिना ऋष्युपास्यविद्यासु न तेषामेव ऋषीणामधिकारः | तस्मात् देवतानां सर्वथा मधुविद्यायामधिकारासम्भवात् ब्रह्मविद्याधिकारो न सम्भवतीति विज्ञायते | तत्र हेत्वन्तरमाह - ९६. ज्योतिषि भावाच्च || ३२ || त देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् इति ज्योतिषि परमशिवेऽसाधारणतया देवानामुपासनेप्यधिकारभाववाक्यदर्शनात् इतरत्र मध्वाद्युपासने अनधिकारो न्यायसिद्ध इत्यवगम्यते |
SK
किञ्च - परिदृश्यमानज्योतिर्मण्डल एव सूर्यचन्द्रादिदेवताशब्दानां लोकव्यवहारसद्भावान्मण्डलस्य मृत्पिण्डवदचेतनत्वेन विग्रहाभावादग्निवाय्वादीनामपि तत्तुल्यता | मन्त्रार्थवादानां चान्यपरत्वेन स्वार्थे प्रामाण्याभावान्न देवानां विग्रहवत्वम् | तस्मादपि देवानामनधिकार इति जैमिनिर्मन्यते | एवं देवानां ब्रह्मविद्याधिकारे जैमिन्याचार्यकृताक्षेपं निराकरोति - ९७. भावन्तु बादरायणोऽस्ति हि || ३३ || तु शब्दश्शङ्कानिरासार्थः | मधुविद्यादिषु देवानामधिकाराभावेऽपि ब्रह्मविद्यायामधिकारं वादरायणाचार्यो मन्यते | अस्ति हि मण्डलाभिमानिनी मण्डलातिरिक्ता विग्रहवती चेतनदेवता | अस्तीति पुराणेषु प्रतिपाद्यत इत्यर्थः | मधुविद्यायामनधिकारेऽपि वस्वादिदेवानां स्वहृदयपुण्डरीकस्थब्रह्मोपासनाधिकारो न विरुध्यते | कल्पान्तरे वस्वादेर्ब्रह्मत्वप्राप्तिसम्भवात् | सगुणनिर्गुणात्मकं शिवाभिधानं परं ब्रह्म देवानामुपास्यं विधीयते | असावादित्यो देवमधु इत्यारभ्य आदित्यवस्वादिनामरूपविशिष्टकार्यविशेषावस्थं ब्रह्म उपास्यं उपदिश्यते | अथ तत ऊर्ध्वं उदेत्यनेनैवोदेता नास्तमेता इत्यादिना सूक्ष्मादित्यान्तरात्मत्वेन प्रविष्टं कारणात्मकं ब्रह्म उपास्यमुपदिश्यते | तत्र स य एतदेवममृतं वसूनामेवैको भूत्वाग्निनव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति इति वस्वादित्वरूपं फलमुच्यते | न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद इति ब्रह्मप्राप्तिफलमुपदिश्यते | तस्मान्मध्वादिष्वपि देवानामधिकारस्सम्भवति | किञ्च - यद्यपि देवानां देवतामिश्रोपासनानधिकारस्तथापि ब्रह्मविद्यायां तेषापप्यधिकारस्सम्भवति हि | नह्येकन्नानधिकारे सर्वत्रानधिकारः | राजसूयाद्यनधिकृतानां ब्राह्मणादीनां ज्योतिष्टोमानधिकारप्रसङ्गात् | यदुक्तं ज्योतिषि भावाच्चेति तस्योत्तरमस्ति हि |
SK
यद्यपि आदित्यादयः शब्दा ज्योतिषि प्रयुज्यन्ते तथापि तदभिमानिदेवतापरा एव तं तं देवतात्मानं प्रतिपादयन्ति | अस्ति ह्यैश्वर्ययोगाद्देवानां ज्योतीरूपेणावस्थातुं तं तं विग्रहं गृहीत्वा च व्यवहर्तुं सामर्थ्यम् | | तथाहि श्रूयते - मेधातिथेमेषेति मेधातिथिं हि काण्वायनमिन्द्रो मेषो भूत्वा जहार (वाष्कममन्त्रोपनिषत् ) इति | स्मर्यते च आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम ह इति | मृदादिष्वधिष्ठातारोऽभ्युपगम्यन्ते | मृदब्रवीदापोऋबृवन् इत्यादौ दर्शनात् | ननु - मन्त्रार्थवादानां स्वार्थतात्पर्याभावात् तन्मूलेतिहासपुराणानामपि तथात्वात्कथं विग्रहसिद्धिरिति चेन्न | अत्राप्यस्ति ह्येवोत्तरं तेषामप्यबाधितेऽर्थे प्रामाण्यमस्तीत्यर्थः | अर्थवादेष्वपि शब्दशक्तिबलाज्जातस्यार्थप्रत्ययस्य बाधाभावे प्रामाण्यमप्रतिहतमेव | तन्मात्रेण प्रयोजनानवाप्तेः | विधेयस्तावकया विध्येकवाक्यत्वकल्पनं इति चेत् न चैतावता अवान्तरवाक्यार्थवाथस्सम्भवति | तस्याभासे स्तुतिरपि न स्यात् अत एव वायव्यस्तवनाद्यर्थवादेष्वपि अनुवादेनावाधितमर्थमङ्गीकृत्यैव स्तुतिपरत्वमङ्गीक्रियते | वस्तुतस्तु यथास्वर्गार्यवादानां चोदनापेक्षितफलप्रतिपादकतया प्रामाण्यमेवं देवताविग्रहप्रतिपादकानामपि | तथा हि - तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति इत्यादिपर्यालोचनया रात्रिसत्रन्यायेन देवताप्रीतिरेव कर्मणां व्यापारत्वेन कल्प्यते | न त्वात्मसममेतमपूर्वाख्यं मानान्तरागोचरं कल्पनार्हम् | न च प्रदत्तं हविर्देवता भुङ्क्ते प्रत्यक्षविरोधात् | भोगाभावे कथं तृप्तिः तृप्त्यभावाच्च कथं प्रसीदतीति वाच्यम् | अभुञ्जानाया अपि तदुद्देशेन त्यागमात्रेणापि प्रीतिसम्भवात् |
SK
यथा कस्मिंश्चित् पूज्यतमे असन्निहितेऽपि सन्निहितानां पूजाप्रसङ्गे तदुद्देशेन पूर्वं किञ्चित्ताम्बूलादिकं विभज्यास्मै दत्वा सन्निहितपूजायां कृतायां तच्छ्रुत्वा सोऽपि किञ्चिदलभमानोऽपि प्रथमं स्वोद्देशत्यागमात्रेणात्मानं पूजितं मन्वानः प्रसीदति | तथा देवानामपि तदुद्देशेन आहवनीयप्रक्षेपे तेन प्रीतिरविरुद्धा | एवं नमस्कारादिकरणा प्रीतिरुदाहर्तव्या | न च ग्रहादीनामचेतनानामपि देवताप्रीत्यसम्भवः तदधिष्ठातृदेवतासम्भवात् सम्भवात् | वस्तुतस्सर्वान्तर्यामीश्वर एव सर्वफलप्रद इति तस्यैव प्रीतिः कल्प्यते | अत एव गीतासु - यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् || स तया श्रद्धया युक्तस्तस्याराधनमीहते | लभते च ततः कामान्मयैव विहितान् हि तान् || इति | तस्माच्चेतनवत्वाद्विग्रहवत्त्वाद्देवतानां ब्रह्मविद्याधिकारोऽस्तीति सिद्धम् | ९. अपशूद्राधिकरणम् अथ शूद्राणा ब्रह्मविद्याधिकारनिराकरणम् अह हा रे त्वा शूद्र इति श्रुतौ शूद्रशब्दश्रवणात्पूर्वत्र ब्रह्मविद्यायास्सामान्येन मनुष्याधिकारव्यपदेशात्तेषामङ्गुष्ठमात्रहृदयप्रदेशविशेषदर्शनाच्च शूद्राणामपि तदधिकारोऽस्तीत्याशङ्क्याह - ९८. शुगस्य तदनादरश्रवणात्तदा द्रवणात्सूच्यते हि || ३४ || छान्दोग्ये चतुर्थाध्याये उपाख्यायतेऽस्य विषयः | अहः हा रे त्वा शूद्र तयैव सह गोभिरस्तु इति | आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथाः इति | इह शिष्यस्य गुरुणा अह हा रे त्वा शूद्र इति शूद्रशब्देन सम्बोधनमुपपद्यते | तस्मादत्र शूद्रशब्दस्य ब्रह्मविद्यायामधिकारोऽस्ति न वेति सञ्चिन्त्यते | शूद्राणां ब्रह्मविद्यायामधिकारोऽस्ति श्रुतावपि शूद्रशब्दस्यामन्त्रणदर्शनात् | वसन्ते ब्राह्मणोऽग्नी नादधीत ग्रीष्मे राजन्यः शरदि वैश्यः इति त्रैवर्णिकानामेवात्राग्निसम्बन्धदर्शनात्तेषामेवात्र ब्रह्मविद्याधिकारित्वमेवेति चेन्न |
SK
अर्थित्वादिकस्य शूद्राणामपि सम्भवात् | मनुष्याधिकारमपहाय देवानामधिकारव्यपदेशात् | तद्वत्रैवर्णिकाधिकार इव शूद्रस्याप्यधिकार इति प्रासम् | आहवनीयाभावेनाग्निसाध्यकर्मानधिकारेऽपि देवादिवद्विद्यायामधिकारसम्भवात् | उपनयनाद्यभावेऽपि देवादिपद्ब्रह्मविद्याधिकारः | ननु स्वयंभातवेदवेदार्थत्वात्तेषामेवाधिकार इति चेन्न - शूद्राणामपि पुराणश्रवणादिना ज्ञानोपपत्तेः | निषादस्थपतिन्यायेन महावाक्यग्रहणाधिकारसम्भवाच्च | तस्मादत्र शूद्रशब्दस्य मुख्यार्थतया ब्रह्मविद्याधिकारस्सम्भवतीति चेत् - उच्यते - न शूद्रस्य ब्रह्मविद्याधिकारः देवानामुपनयनाभावेऽपि सुकृतविशेषप्राप्तवेदवेदार्थत्वात् स्वभावसिद्धाबाध्यब्रह्मसूत्रत्वात्तेजश्शरीरित्वाद्युलोकसम्बधाञ्च नाधिकारविरोधः | वेदाधिकारहेतुभूतोपनयनस्य त्रैयर्णिकविषयत्वादौपनिषच्छास्त्रस्य वेदाङ्गत्वात् | शूद्रो यज्ञेऽनवक्लप्तः इति निषेधाच्च | छान्दोग्ये चतुर्थ्याध्याये संवर्गविद्यायां शूद्रश्रवणस्य न्यायाभावाच्च न लिङ्गं साधकम् | लिङ्गस्याधिकृतविषयत्वव्याख्यानार्थमिदं सूत्रम् - शुगस्य तदनादरश्रवणात्तदा द्रवणात्सूच्यते हि इति | अस्य जानश्रुतेः क्षत्रियस्य तदनादरश्रवणात् तस्य हंसस्य अनादरश्रवणात् या शुगुत्पन्ना सा शूद्रशब्देन सूच्यते | ऐक्वेन स्वस्य सर्वज्ञत्वज्ञापनार्थं तदा द्रवणात् तया शुचा रैक्वं प्रति जानश्रुतिः शुचमभिदुद्रावेति शूद्रो जानश्रुतिः | मुख्यार्थासम्भवाद्योगो गृह्यते | अत्र जानश्रुतिं पौत्रावणं राजानं प्रासादस्थं कदाचिद्धंसानां तदुपरिमालारूपेण गच्छतां एको हंसः एकं प्रत्युवाच अयं जानश्रुतिर्महाभाग इति | तमितरः प्रत्युवाच | कोऽयं वराकः एतस्मादप्युत्कृष्टो रैक्वः इति | तच्छ्रुत्वा जानश्रुतेश्शोक उत्पन्नस्तेनैव शोकेनानीतं रथगोसुवर्णाद्युपायनमवलोक्य रक्व आह - हे जानश्रुते शूद्र आनीतमुपायनं तवैवास्तु नैतेनाल्पोपायनेन अहमुपदेक्ष्यामि इत्याख्यायिकार्थस्संक्षेपतो ज्ञेयः |
SK
अपि च वेदाध्ययनाभावेन तत्साधोपलब्धतद्ज्ञानसिध्यभावात् स्मृतिपुराणेतिहासादीनि श्रुत्यर्थमुपपादयन्ति तस्मात्तछ्रवणाधिकारोऽपि न स्वातन्त्र्येण शूद्राणां विधीयते | तच्छ्रवणजन्यज्ञानं तु सर्वपापापनयनफलम् | विदुर-धर्मव्याधादीनां देवांशसम्भूतत्वात्पुराणश्रवणजन्यज्ञानद्वारा मोक्षाधिकारित्वं न विरुध्यते | ननु मुख्य एव शूद्रो जानश्रुतिरस्तु | किं जघन्येन योगेनेत्याह - ९९. क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् || ३५ || न चात्रापि जानश्रुतेश्शूद्रजातित्वम् प्रकृतप्रकरणादुत्तरत्र संवर्गविद्यायामेव चैत्ररथेन प्रसिद्धक्षत्रियेण अभिप्रतारिणा सह समभिव्यवहारात्मकलिङ्गात् समानानामेव प्रायेण समभिव्यवहारो भवति | जानश्रुत्युपासनोपक्रमे हि पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस | स ह सर्वत्र आवसथान् माषयांचक्रे सर्वत एव मेऽत्स्यन्तीति इति | दानशीलत्वे नानाविधपक्वान्नप्रदायित्वं चोपदिश्य तन्मध्ये स संजिहान एव क्षत्तारयूषे इति तृप्रेरणमुपदिश्यते | तदुपसंहारे इयं जायाऽयं ग्रामो यस्मिन् आस्ते इति | ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उबास इति बहुग्रामदातृत्वमुपदिश्यते | तस्मादेतद्धर्मैर्जानश्श्रुतेः क्षत्रियत्वमेवावबोध्यते | अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी विभिक्षे इति कापेयाख्य याजकयोगादभिप्रतारी चैत्ररथः क्षत्रिय इत्युपदिश्यते | चैत्ररथपुरोहितत्वं च कापेयानां श्रौतप्रसिद्धम् | एतेन वै चित्ररथं कापेया अयाजयन् इति एतेन द्विरात्रेण | समानान्वयानां हि प्रायेण समानान्वया एव याजका भवन्ति |
SK
ननु चित्ररथपुरोहितकापेययोगादभिप्रतारिणश्चैत्ररथत्वं भवति तस्मान्न क्षत्रियत्वमिति चेन्न | चैत्ररथिर्नामैकः क्षत्रपतिरजायत इति वाक्यशेषे चित्ररथवंशजत्वेन क्षत्रियपतित्वेन च क्षत्रियत्वव्यपदेशात्तद्वदुत्तरत्र ब्राह्मणेन कावेयेन युक्ताभिप्रतारि क्षत्रिय इत्युपदिश्यते | तद्वदेकेन ब्राह्मणेन युक्तो जानश्रुतिरपि क्षत्रिय इत्यवगम्यते | तस्मात् क्षत्रियस्यैव शूद्रेति सम्बोधनमुपपद्यते | निषादस्थपतिन्यायेन शूद्रस्य चोपनिषद्ब्रह्मवाक्यश्रवणाधिकारोऽस्तीत्याशंवय निरा करोति | १००. संस्कारपरामर्शात्तदभावाभिलाषाच्च || ३६ || अत्रापि न शूद्राणां ब्रह्मविद्याधिकारः कुतः ब्रह्मविद्योपदेशप्रकरणे उपनयनादि संस्कारपरामर्शात् | तं होपनिन्ये अधीहि भगव इति होपससाद ब्रह्मपरा ब्रह्मनिष्ठा ब्रह्मान्वेशमाणाः एष ह वै तत्सर्वं वक्ष्यतीति ते ह स्रमित्पाणयो भगवन्तं पिप्पलादमुपसन्ना इत्यादिना उपनयनस्य ब्रह्मविश्वाङ्गत्वोपदेशात् | अतश्च न शूद्रस्याधिकारः | ननु तान् हानुपनीयैव इत्यादावनुपनीतानां अदीक्षितानामपि वैश्वानरविधायामधिकारित्वव्यपदेशादनियतमुपनयनमिति चेन्न | निषेधस्य प्राप्तिपूर्वकत्वात् प्राप्तोपनयनानां शिवदीक्षितानां प्राचीनशालादीनां द्विजानामेवाधिकारात् निषेधस्तु स्वविद्योपदेष्टुरश्वपतेराज्ञो न्यूनवर्णत्वाद्द्रष्टव्यः | तान्प्राचीनशालादीन् ऋषीननुपनीयैव अश्वपतीराजोवाचेति श्रुत्यर्थः | ननु तर्हि शूद्रस्याप्युपनयनं कल्प्यतामित्यत आह - तदभावाभिलाषाच्चेति | न शूद्रे पातकं किचिन्न च संस्कारमर्हति | शूद्रश्चतुर्थो वर्ण स्यादेकजातिरिति स्मृतिः || इत्यादिनोपनयनादिसंस्काराभावाभिलापादित्यर्थः | पातकं भक्ष्याभक्षविभागाभावकृतम् | एकजातिरुपनयनरहित इति भावः | निषादस्थपत्तिं याजयेत् इति विधिरस्तीति चेन्न | उपनयनसंस्कारविशिष्टत्रैवर्णिकानामेव श्रुतिस्मृतिषु महावाक्यश्रवणोपदेशान्न शूद्रस्य ब्रह्मविद्याधिकारित्वं सर्वदा सम्भवतीति सिद्धम् | अत्र हेत्वन्तरमाह -
SK
१०१. तदभावनिर्धारणे च प्रवृत्तेः || ३७ || इतोऽपि न शूद्रस्याधिकारः शूद्रत्वाभावनिर्धारणे सत्येवोपदेशप्रवृत्तेर्व्यपदेशात् | नैतदब्राह्मणो विवत्त्कुमर्हति समिधṁ सौम्याहरोपत्वानेप्ये सत्यादगाः इति लिङ्गात्सत्यकामो जाबालः प्रमीतपितृको गौतमसमीपं गत्वा ब्रह्मचर्यमुपेयमित्युवाच | तं गैतमः पप्रच्छ किं गोत्रोऽसि इति | जाबाल उवाच - मातापि न जानात्यहमपि न जानामि इति | तच्छ्रुत्वा गौतमः नाब्रह्मणस्येतादृशयथार्थवादित्वं सम्भवति इति शूद्रत्वाभावं निश्चित्य शुश्रूषामङ्गीकृतवान् इत्याख्यायिकादर्शनाच्च न शूद्रस्याधिकार इति सिद्धम् | ननूपनयनासम्भवे ब्रह्मोच्चारणनिरासः कादाचित्कस्सार्वत्रिको वा न सर्वदा सम्भवति | डिम्भस्योपनयनासम्भवेऽपि न ब्रह्म अभिव्याहारयेत् - अन्यत्र स्वधानिनयनदिति स्वधानिनयने ब्रह्मोच्चारणविधानात्तस्मात्कादचित्क इति युज्यते | ततोऽनुपनीतस्य शूद्रस्य पाकयशादिषु ब्रह्मोच्चारणनिरासः स्यात् | न ब्रह्मविद्याधिकारनिषेध इत्यशक्याह - १०२. श्रवणाध्ययनप्रतिषेधात्स्मृतेश्च || ३८ || इतश्च न शूद्रस्याधिकारः | कस्मात् स्मृतेश्च | स्मृतितो वेदश्रवणस्य तदध्ययनस्य तत्प्रयोजनयोरर्थज्ञानानुष्ठानरूपयोरर्थयोः प्रतिषेधान्निषेधादित्यर्थः | अथ हास्य वेदमुपशृष्वतः त्रपुजतुभ्यां श्रोत्रपूरणं उदाहरणे जिह्वाच्छेदः धारणे शरीरच्छेदः इत्यत्र शूद्रस्य वेदाध्यनादौ शिक्षा श्रूयते | शूद्रस्य वेदश्रवणे तच्छोत्रे तप्तमादरात् | त्रपुं प्रपूरयेद्राजा तदुच्चारण मात्रतः || तज्जिह्वां छेदयेत्तूर्णं तद्धारणवशात्तदा | शरीरभेदनं कुर्याद्विधिरेषोऽयमुच्यए || इति स्मृतिरपि दृश्यते | तस्मादुपनयनादिसंस्कारविशिष्टत्रैवर्णिकानामेव वेदश्रवणवेदाध्ययनवेदार्थानुष्ठानविधिसम्भवात्तेषामेव ब्रह्मविद्याधिकार इति राद्धान्तः | ननु विदुर-धर्मव्याधप्रभृतीनां ब्रह्मज्ञानदर्शनान्न शूद्राणां ब्रह्मविद्याधिकारनिषेध इति चेन्न तेषां देवांशत्वात् |
SK
देवांशसम्भवानां तु जातिभेद. न कारयेत् | स्वभावसिद्धविज्ञानाद्वामदेवादिवत्सदा | तत्पुत्रबान्धवादीनां जातिभेदः प्रकल्प्यते || इत्यादौ कारणपुरुषत्वेन निर्गतजातिभेदव्यपदेशाद्विदुरादीनामपि शूद्रत्वमौपचारिकमेव | तथापि तेषां गुरुसमीपे त्रैवर्णिकैस्सह पुराणेतिहासश्रवणाधिकारमात्रमेवेति विधीयते | न प्रत्यक्षवेदवेदान्तविद्याधिकारित्वम् | कम्पनाधिकरणम् || १० || प्रासङ्गिकाधिकारचिन्तानिवृत्ता | प्रकृतवाक्यार्थसन्धानमद्य दर्शयति - १०३. कम्पनात् || ३९ || सर्वगतस्य शिवस्य परब्रह्मणः साधकानुग्रहाय मनुष्यहृदयप्रमितत्वं कठवल्युपक्रमे प्रदर्श्य - यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् | महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति || इति कठवल्लीषष्ठाध्याये पठ्यतेऽस्य विषयः | अत्र जगत्कम्पनहेतुः प्राणो वा अशनिर्वा परमेश्वरोवेति संशयः | प्राण एजति निस्सृतं इति वाक्ये निसृतमुत्पन्नं यदिदं जगत्सर्वं प्राणे निमित्ते एजति इति श्रूयते | प्राणशब्दस्य प्राणवायौ प्रसिद्धत्वाज्जगदाप्तस्य परमेश्वरस्य विश्वकम्पनहेतुत्वासम्भवात् नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि इत्यादौ तस्यैव ब्रह्मत्वव्यपदेशाच्च अत्र प्राणोपासनस्यैव मोक्षोपदेशे न विरोधः | किञ्च - अप पुनर्मुत्युं जयति य एवं वेद इति श्रुतौ वायुविज्ञानस्य मोक्षफलं स्पष्टमुक्तं अथवा महद्भयं वज्रमुद्यतं इत्यत्र महाभयहेतुत्वस्य वज्र एव वायौ पर्जन्यभावेन विवर्तमाने विद्युन्मेघवृष्टयो जायन्ते इति श्रवणात् अशनिहेतुवायुलक्षकत्वं वज्रस्यापि युक्तम् | तस्मात्सर्वथात्र परमेश्वरमुख्यलिङ्गा दर्शनान्न परमेश्वर एवोपदिश्यत इति चेत् -
SK
उच्यते कल्पनात् | अत्र जगत्कम्पनहेतुः परमेश्वर एव | एजृ - कम्पन इति धातोः कम्पनार्थत्वादित्यर्थः | परमेश्वरे प्राणशब्दः श्रूयते परमेश्वरस्य सकलजगत्कम्पनहेतुत्वं शासकत्वाद्भवति | यस्य शासनभयेन सर्वे वयं निषिद्धविमुखा विहितेषु प्रवर्तामहे | भीषास्माद्वातः ववते भीषोदेति सूर्यः | भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः इति इत्यादौ च पवनादीनां भयहेतुत्वं परमेश्वरस्यैवोपदिश्यते | ईशानस्सर्वविद्यामामीश्वरस्सर्वभूतानां इत्यादौ जगन्नियामकत्वस्य तस्मिन्नेव दर्शनाज्जगद्भयहेतुत्वं समुचितम् | तस्माद्राजमुखं भीष्मं भावुकं इति श्रवणात् कल्याणमूर्तेरपि जगच्छासकतया भयहेतुत्वम् | सर्वोपादानत्वात्तस्य प्राणशब्दवाच्यत्वं युक्तम् | स एव विष्णुस्स प्राणः प्राणस्य प्राणं इत्यदिषु श्रूयते | किञ्चोपक्रमोपसंहारमध्यपरामर्शतया परमेश्वरप्रकरणत्वावगमान्नान्यविषयत्वम् | तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते | तस्मिन् लोकाः श्रितास्सर्वे तदु नात्येति कश्चन || इत्युपक्रमवाक्ये परमेश्वर एवोपदिश्यते | जगत्सर्वं प्राण एजति इत्येजयितृत्वमपीदं परमेश्वरस्यैवोपपद्यते न वायुमात्रस्य | तथा हि श्रुत्यन्तरे प्रसिद्धं - न प्राणेन नापानेन मर्त्यो जीवति कश्चन | इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ || इति | उत्तरत्रापि - भयादस्वाग्निस्तवति भयात्तपति सूर्यः | भयादिन्द्रश्चाग्निश्च मृत्युर्धावति पञ्चमः ||
SK
इत्यादिना परमेश्वरधर्मबाहुल्यात्तत्प्रकरणमिति निश्चीयते | वज्रशब्दवाच्यत्वं साध्वसकारणत्वसामान्यात्समुचितं परमेश्वरस्यैव | य एतद्विदुरमृता भवन्ति इत्यादावमृतफलव्यपदेशोऽपि परमेश्वरविषयक एव | ईशं ज्ञात्वाऽमृता भवन्ति ज्ञात्वाशिवं शान्तिमत्यन्तमेति सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना इत्यादौ शिवज्ञानस्यैव मोक्षहेतुत्वनिर्देशात् न वायुविज्ञानादमृतत्वं क्वचिदपि विधीयते | तत्रोपसंहारे अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद इति परमेश्वरस्यैवोक्तत्वाज्जगत्कम्पनहेतुत्वं नेतरस्येति सिद्धम् || ज्योतिरधिकरणम् || ११ || दहरपुण्डरीकादिप्रदेशविशेषोपास्यत्वेन प्रतिपादितस्य परब्रह्मणः शिवस्य प्राप्यत्वमधिकरणान्तरेणोपपादयति - १०४. ज्योतिर्दर्शनात् || ४० || छान्दोग्ये - पञ्चमाध्याये प्रजापतिविद्यायामाम्नायते - एव सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुपसम्पद्य इति स उत्तमः पुरुष इति | इह ज्योतिश्शब्देन प्रसिद्धं सूर्यादिज्योतिर्नारायणः परशिवो वेति संशयः | नात्र ज्योतिश्शब्देन परमशिवः प्रतिपाद्यः तस्य तेजःपरत्वेन मुख्यत्वात् | ज्योतिश्चरणामिधानात् इत्यत्र चरणहेतुत्वेन ज्योतिश्शब्दस्य स्वार्थपरित्यागदर्शनात्तद्वदत्र परमेश्वरपरत्वं नोपपद्यते | कुतः कारणाभावात् | न मुक्तिप्राप्तिहेतुत्वमपि परमेश्वरस्य सम्भवति | अक्षया एता हृदयस्य नाड्यः इत्यादि नाडीखण्डे अथ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते इत्यादिश्रुतौ प्रभाकरस्यैव मुक्तिप्राप्यत्त्वव्यपदेशात् | किं च - नारायणस्यापि समुचितम् | उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इत्यादौ मुक्तप्राप्यस्य परञ्ज्योतिषः पुरुषोत्तमशब्दवाच्यत्वेन निर्देशात् | पुरुषोत्तमशब्दस्य तत्रैव रूढत्वात् | तस्मात्तस्यैव पुरुषोत्तमशब्दसमानाधिकरणपरञ्ज्योतिश्शब्दवाच्यत्वं सम्भवतीति प्राप्ते - atha śivasya brahmaṇaḥ puruṣottamatvapratipādanam
SK
ब्रूमः - ज्योतिर्दर्शनात् | अत्र परञ्ज्योतिश्शिव एव कस्माद्दर्शनात् | य आत्माऽपहतपाप्मा इत्युपक्रम्य परमशिवस्यैव प्रतिपाद्यत्वेनानुवृत्तिदर्शनात् अत्र परं ज्योतिश्शब्दवाच्यत्वं उत्तमपुरुषत्वं मुक्तप्राप्यत्वं च परमेश्वरे न विरुद्धम् | अपहतपाप्मत्वादिधर्मविशिष्टपरमेश्वरस्यैवात्र अन्वेष्टव्यः इति प्रतिज्ञानात् | एतं त्वेवं ते भूयोऽनुव्याख्यास्यामि इत्यनुसन्धानात् अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः इत्यादौ अशरीरत्वेन ज्योतिस्सम्पत्युपदेशात् | किञ्चोत्तमपुरुषविशेषणात्परमपुरुष एवात्र निर्दिश्यते | ब्रह्मप्रकरणान्न मुक्तप्राप्यत्वं प्रभाकरस्योपपद्यते | अत्र ब्रह्म समश्नुते विद्वान् परात्परं पुरुषमुपैति दिव्यम् इत्यादावपुनरावृत्ततया मुमुक्षूणां परमशिवप्राप्तिदर्शनात् न नारायणस्यापि मुक्तप्राप्यत्वं सम्भवति | ज्ञात्वा शिवं शान्तिमत्यन्तमेति ईशं ज्ञात्वा अमृता भवन्ति इत्यादौ मुक्तानां परमशिवप्राप्तिदर्शनात् | पुरुषोत्तमशब्दोऽपि परमेश्वरे सम्भवति पुरुषेभ्यः शारीरेभ्यः परमः उत्कृष्टत्वात् | ब्रह्ममेधकल्पेऽपि वेष्टितुं पुरुषोत्तमम् इति प्राप्यस्य परमशिवस्य ब्रह्मणः पर्यायत्वेन हस्त-कर-पाणिशब्दवत् पुरुषोत्तमशब्दस्य योगदर्शनात् | ईशानः सर्वविद्यानां इत्यादौ वेदादिसर्वविद्यानियामकत्वसर्वनप्रभूतात्मकपुरुषनिवामकत्वादि- jyotiḥ paraśiva eva | parātparataraṃ brahma tatparātparato hariḥ | yatparātparato'dhīśastanme manaśśivasaṃkalpamastu || śivamadvaitaṃ caturthaṃ manyante viśvādhiko rudro maharṣiḥ ityādau puruṣaśabdavācyanārāyaṇādijīvebhyo'dhikatvavyapadeśāt paramaśiva eva puruṣottama iti rāddhāntaḥ | puruṣottamaśabdasya viṣṇvāveva rūḍhiriti cet harivaṃśe kṛṣṇaṃ prati parameśvaravacanam - yāni nāmāni govinda tava loke mahānti vai | tānyeva mama nāmāni nātra kāryā vicāraṇā || iti vākyadarśanātpuruṣottamaśabdavācyatvaṃ tasyaiva siddham | arthāntaratvādivyapadeśādhikaraṇam || 12 ||
SK
१०५. आकाशोऽर्थान्तरत्वादिव्यपदेशात् || ४१ || छान्दोग्यस्याष्टमाध्याये पठ्यतेऽस्य विषयः | आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतṁ स आत्मा इतीह नामरूपनिर्बोद्धृत्वेनोपदिष्ट आकाशः किं भूताकाशः कि जीवः उत परमेश्वरो वेति संशयः | वियत्याकाशशब्दस्य रूढत्वादवकाशप्रदातृत्वेन तस्य नामरूपविभागयोन्यत्वसम्भवात् | सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते इत्यादौ जगत्कारणत्वस्य तत्रैव व्यपदेशात्तदेव युक्तम् | उत जीवोऽपि स्यात् | अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरपाणि इति विकारजातस्य नामरूपव्याकृतत्वान्निर्विकारस्य परमेश्वरस्य तदसम्भवात् | तस्य नामरूपव्याकरणदर्शनात् चिदाकाशरूपत्वाच्च | तस्मात्तयोरेव आकाशशब्दवाच्यत्वमुच्यत इति चेत् - ब्रूमः - अत्राकाशशब्दवाच्यः शिव एव कस्मात् अर्थान्तरत्वादिव्यपदेशात् | अर्थानां पदार्थानां अन्तरत्वव्यपदेशात् नामरूपात्मकस्थूलसूक्ष्मचिदचित्प्रपञ्चान्तरात्मव्यपदेशान्निर्देशादि- draṣṭavyaḥ | parameśvarādbhinnasya bhūtākāśāderātmatvāmṛtatvādidharmāṇāmasambhavāt prakaraṇavirodhācca brahmaliṅgabhūyastvānnetara iti siddham | iti arthāntaratvādiṣyapadeśādhikaraṇam suṣuptyadhikaraṇam || 13 || 106. suṣuptyutkrāntyorbhedena || 42 || vyapadeśādityanuvartate | bṛhadāraṇyake ṣaṣṭhādhyāye dṛśyate'sya viṣayaḥ | yo'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣassamānassannubhau lokāvanusañcarati iti | atra vijñānamayaḥ liṅgaśarīrāvacchinnaśārīraḥ parameśvaro veti saṃśayaḥ |
SK
अत्र जीव एवाभिधीयते | उपक्रमोपसंहाराभ्यासपरामर्शादिभिर्जीवस्यैव प्रवृत्तत्वात् | योऽयं विज्ञानमयः प्राणेषु इति शारीरप्रकरणात् | स वा एष महानज आत्मायं इत्युपसंहारेऽपि तदनिराकरणदर्शनात् | मध्येऽपि एषोऽन्तर्हृदय आकाशः इति हृदयान्तरे व्यवस्थानव्यपदेशादत्र पूर्वापरमध्यपरामर्शेषु परमेश्वरपरत्वविधायकशब्दादर्शनादवस्थात्रयानुगतजीवस्यैव विद्यमानस्वात्स एवात्र प्रतिपाद्यत इति चेत् - उच्यतेः - कतम आत्मा योऽयं विज्ञानमयः इति श्रुतौ भ्रमरकीटवन्मुक्तजीवः प्रतिपाद्यते न तु बद्धजीवः | कुतः सुषुप्त्यवस्थायां उत्क्रान्त्यवस्थायां च जीवब्रह्मभेदस्य भेदेन द्विवारं प्रतिपादितत्वादित्यर्थः | सुषुप्तौ तावदयं पुरुषः प्राज्ञेनात्मनो संपरिष्वक्तः न बाह्यं किञ्चन वेद नान्तरं इति जीवपृथक्त्वेन प्राज्ञशब्देन परमशिवो निर्दिश्यते | नन्वत्र जीवः पुरुषो भवति तस्य शरीरे बाह्याभ्यन्तरविज्ञानवत्वसम्भवात् शरीराधिपतित्वात् उपक्रमोपसंहारादिषड्विधलिङ्गैस्तद्धर्मदर्शनाच्च जीव एवात्र प्राज्ञशब्द वाच्य इति चेन्न | प्राज्ञशब्देनात्र परमशिव एव प्रतिपाद्यते | य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशानस्सर्वपतिः इत्यादिश्रुतिनिर्दिष्टसर्वज्ञत्वसर्वेश्वरत्वादिधर्माणामन्यत्रासम्भवात् | तथोत्क्रान्त्यवस्थायां शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति शारीराद्व्यतिरिक्ततया परमेश्वर उपदिश्यते | तत्रोपक्रमे तावद्योऽयं विज्ञानमयः प्राणेष्विति शारीरधर्माणां अनुपदेशात् | किञ्च - शारीरधर्माननूद्य तस्य भ्रमरकीटवत् शिवैकभावत्वं निर्दिश्यते | तथोपसंहारेऽपि स वा महानज
SK
आत्मा इति परमेश्वर एवात्राजत्वादिधर्मनिर्दिष्टः | ततो मध्ये यदत ऊर्ध्वं मोक्षायैव ब्रूहि इति पदे पदे प्रश्नः | अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः इति पुनः पुनः प्रतिवचनं च | वाक्यभेदौऽस्याभेदपरत्वं ज्ञापयति | अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान् शोकान् इति शरीरेन्द्रियविलक्षणपरमेश्वरप्रतिपादनपरत्वव्यपदेशान्न शारीरपरत्वमिति सिद्धम् | परमेश्वरपक्षे हेत्वन्तरमाह - १०७. पत्यादि शब्देभ्यः || ४३ || इतश्च परमशिव प्रतिपादनमेवैतत् | यतोऽस्मिन् सन्दर्भे परमेश्वरप्रतिपादका पत्यादयः शब्दा दृश्यन्ते | सर्वस्येशानस्सर्वाधिपतिः भूताधिपतिरेष भूतपालः इत्यादिकं श्रूयते | ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः पशूनां पतये वृक्षाणां पतये जगतां पतये इत्यादिषु सर्वाधिपतित्वं परमेश्वरस्यैव प्रसिद्धम् | एवं सर्वेश्वरत्वादिजातीयकाः धर्माः न कुत्रापि जीवस्य दृष्टत्वादत्र परमशिव एव प्रतिपाद्यत इति राद्धान्तः | इति सुषुप्त्यधिकरणम् इति श्रीमन्निराभारवीरशैवयतिव्रजपरिवृढ- śrīkarabhāṣye samanvayābhidhānasya prathamādhyāyasya tṛtīyaḥ pādaḥ atha śrīkarabhāṣye prathamādhyāye caturthaḥpādaḥ | ānumānikādhikaraṇam || 1 ||
SK
शास्त्रारम्भे मुमुक्षूणां पुनारावृत्तिरहितफलसिध्यर्थं ब्रह्मजिज्ञासामुपदिश्य तद्ब्रह्मणो निर्विशेषत्व- vastusiddhiḥ iti nyāyena vastusidhyarthaṃ jagajjanmādilakṣaṇaṃ śāstrapramāṇakamuktvā parasparaviruddhasvabhāvabhedābhedaśrutīnāmavirodhatayā caturthasūtre brahmaṇi samanvayaṃ pradarśayitvā uktabrahmalakṣaṇasya pradhāne ativyāptimāśaṃkya īkṣaternāśabdaṃ ityārabhya gatisāmānyāt itvantaṃ aśabdatvena pradhānajagatkāraṇatvaṃ prathamapāde vedāntavākyainivāritam | dvitīyatṛtīyapādayoraspaṣṭa-spaṣṭāspaṣṭabrahmaliṅgānāmupāsanadvārā brahmaṇi samanvayamupapādya kvacicchākhāsu pradhānajagatkāraṇatvapratipādakaśabdānāṃ dṛṣṭatvādaśabdatvaṃ kathaṃ tasyopapadyata ityāśaṅkāyāṃ caturthapādohyārabhyate - paramaśivasya sarvopāsyatvapratipādanam 108. ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca || 1 || kaṭhabalyāmupadi'syate'sya viṣayaḥ - indriyebhyaḥ parāhyarthāḥ arthebhyaśca paraṃ manaḥ | manasastu parā buddhirbuddherātmā mahānparaḥ | mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ | puruṣānnaparaṃ kiñcitsā kāṣṭhā sā parā gatiḥ || iti | iha mahatparatvenopadiśyamānamavyaktaśabdanirdiṣṭaṃ sāṅkhyapradhānamuta śārīro veti sandehaḥ | pūrvāparavāvayasandarbheṇa pradhānamevātra pratijñāyate | sāṅkhyaśāstre mahadavyaktapuruṣaśabdānāṃ tattvatraye prasiddhatvāttepāmevāta pratyabhijñānāt nāśabdatvaṃ tasyopapannam | avyakaprakṛtipradhānamāyādiśabdānāṃ prātyakṣikavede darśanācca | brahmaṇyeva vedāntānāṃ samanvayaḥ iti niyamābhāvāt kāpilasmṛtyādiṣu pradhānasya jagatkāraṇatvasya śruti-smṛti-nyāyasiddhatvāttadevātra pratipādyata iti cet - vakṣyāmaḥ ānumānikamityādinā |
SK
आनुमानिकमित्यनुमानगन्यत्वात्प्रधानम् | तदप्येकेषां शाखिनां प्रसिद्धम् | अव्यक्तशब्देन प्रधानं प्रतिपाद्या इत्यशब्दत्वमसिद्धमिति चेन्न | शरीरस्य पूर्ववाक्ये रथरूपकेण विन्यस्तस्य प्रतिपादितस्य अत्र वाक्ये अव्यक्तशब्देन गृहीतेर्ग्रहणात् | नन्वव्यक्तशब्दस्य कथं शरीरपरत्वमित्यत आह - दर्शयतिचेति | पूर्वोक्तवाक्यसन्दर्भः पर्याल्लोच्यमानः औचित्येनाव्यक्तशब्देन शरीरग्रहणं दर्शयति | आत्मानं रथिनं विद्धि शरीरं रथमेव तु | बुद्धिं च सारथिं विद्धि मनः प्रग्रहमेव च | इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचरान् | आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः || इत्युपक्रम्य सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति श्रावयित्वा किं तद्विष्णोः पदमित्याकांक्षायां इन्द्रियेभ्यः पराः इत्यारभ्य सा काष्ठा सा परा गतिः इत्यन्तेन प्रकृतेन्द्रियेभ्यः परां गतिं दर्शयति | अत्र पूर्वप्रकृतानामिन्द्रियार्थमनोबुद्धीनामस्मिन् वाक्ये स्वशब्दैरेवोपादानम् | पूर्वत्रात्मा आत्मशब्देनोपदिष्टः उत्तरत्र पुरुषशब्देन उत्तरवाक्ये महच्छब्देनोक्ता बुद्धिः पूर्ववाक्ये बुद्धिशब्देनैव गृहीता | बुद्धिर्द्विविधा हिरण्यगर्भबुद्धिरस्सदादिबुद्धिश्च | यो ब्रह्मणां विदधाति पूर्वम् इति श्रुतिदर्शनात् प्रथमोत्पन्नहिरण्यगर्भबुद्धिरस्मदादिबुद्धीनां परा | तस्मादस्याः महत्वम् | पूर्वत्र द्वयमेकीकृत्य निर्दिष्टम् | इह पृथक्तवमिति विवेकः | पूर्वत्र शरीरपदमुत्तरत्राव्यक्तपदम् | तयोः परिशेषादेकार्थत्वमित्यवगन्तव्यम् | तद्विष्णोः परमं इत्यत्र पञ्चभ्यर्थ एव निश्चीयते | तथा ब्रह्ममीत्तासु - पदं यत्परमं विष्णोस्तदेवाखिलदेहिनाम् | ऋते साम्बं महादेवं किं भवेत्परमं पदम् || इति दर्शनात् | वेदार्थोऽयं स्वयं ज्ञातः तत्राज्ञानं प्रचक्षते | इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत् || इति उपबृंहणादिपुरस्कारेणैव वेदार्थविज्ञानव्यपदेशात् नेतरोऽत्र प्रतिपाद्यः |
SK
किञ्च - एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते | दृश्यते त्वग्र्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः || इति वाक्ये नारायणात्परस्य शिवस्य दुरवगाहित्वमुपदिश्य तदुपलब्ध्यर्थं योग- yacchedvāṅmanasi prājñastadyacched jñāna ātmani | jñānamātmani mahati niyacchettadyacchecchānta ātmani || ityetadupadiśyate | vācaṃ manasi saṃyacchet-vāgādibāhyendriyavyāpāraṃ parityajya manomātreṇāvatiṣṭhet | manoveṣayakalpanābhimukhaṃ vikalpadoṣavarjanena jñānaśabdoktāyāṃ buddhau adhyavasāyasvabhāvāyāṃ dhārayet | tāmapi buddhiṃ mahatyātmani bhoktari agryāyāṃ vā buddhau sūkṣmatāpādanena nigacchet | mahāntaṃ cātmānaṃ śānta ātmani parasmin puruṣe śivāparaparyāye parasyāṃ kāṣṭāyāṃ pratiṣṭhāpayet | tasmādupakramopasaṃhāramadhyaparāmarśena sāṅkhyapradhānasya niravakāśatvātparamaśiva eva sarvopāsyatvena vidhīyata iti rāddhāntaḥ | nanu sthūlaśarīrasya vyaktaśabdārhasya kathamavyaktaśabdavācyatvamityāśaṅkāyāmāha - 109. sūkṣmaṃ tu tadarhatvāt || 2 || tu śabdena śaṅkānirāsaḥ | darśayatītyanuṣaṅgaḥ | sthūlaśarīrārambhakaṃ bhūtānāṃ sūkṣmakāraṇaṃ avyaktaśabdena darśayati | kutaḥ tadarhatvādavyaktaśabdārhatvāt | gobhirbhiśritasomam itivat prakṛtiśabdena vikṛtyabhidhānaṃ yuktam | paraśivaparatve hetvantaraṃ darśayati - 110. tadadhīnatvāttadarthavat || 3 || nanu jagatsūkṣmāvasthāyāmeva sāṃkhyaiḥ pradhānatvāṅgīkāreṇa naiṣa doṣa iti cenna | kutaḥ tadadhīnatvāt - īśvarādhīnatvāt | svatantramavyaktaṃ jagatkāraṇam ityetanmataṃ sāṅkhyānām | siddhānte tu īśvarādhiṣṭhitaṃ māyāvidyādiśabdavācyaṃ pradhānaṃ kāraṇamityatyantabhedāt |
SK
ननु सूक्ष्मप्रपञ्चस्यानभिव्यक्तनामरूपबीजस्य पागवस्थायामव्यक्तशब्दयोग्यत्वमुपपद्येत तदात्मा च देहस्यावय्क्तशब्दयोग्यत्वमवगम्येत तर्हि साङ्ख्यवाद एवोपदिश्येत | सूक्ष्मचिदचिदात्मकस्य प्रपञ्चस्यैव प्रागवस्थाप्रकृतित्वेन विधीयत इति चेदुच्यते | परमेश्वरशक्तितया जडप्रधानस्य जगत्कारणत्वं वक्तुं शक्यम् | प्रधानाधिष्ठान परमेश्वरादेव जगदुत्पत्तेस्सम्भवादव्यक्तशब्दवैयर्थ्यमित्याशङ्क्योक्तमर्थवदिति | प्रयोजनवदित्यर्थः | ईश्वरस्य सहकारिरूपमव्यक्तमावश्यकम् | मायां तु प्रकृतिं विन्द्यान्मायिनन्तु महेश्वरम् इति मायायाः परमेश्वराधीनत्वं श्रूयते | मायाप्रतिपादितजगज्जन्मादिकारणत्वं वशीकृतमायिकपरमेश्वराधीनमेव | वायव्यं श्वेतमालभेन भूतिकामः इत्यतत्र विध्युद्देशवर्तिनां वायव्यादीनां शब्दानां विधिना संबन्ध एव वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति | स एवैनं भूतिं गमयति इत्येतेषामर्थवादविशिष्टानां वाक्यानां न मुख्यं प्रामाण्यम् | वायुः क्षेपिष्ठा देवता इत्यादेः वायुस्वभावस्तुतित्वेनावान्तरवाक्यसमन्वयवत् मायाजगत्कारणत्ववानवानां स्तुतिपरत्वम् तदधिष्ठानपरमेश्वरबोधकत्वमविरुद्धम् | न चैवमव्यक्तशद्बस्य अविद्यापरत्वे तद्विकारतयेन्द्रियादीनामपि तच्छब्देनोपादानसम्भवात्कथं शरीरस्यैव ग्रहणमिति वाच्यम् | तेषां स्वशब्दैरेवोपपादनात् परिशेषतस्तत्सिद्धेः | सूत्रद्वयस्यापरा व्याख्या | शरीरं द्विविधं ज्ञेयं स्थूलञ्च | पूर्ववाक्ये द्वयमपि शरीरग्रहणे न गृहीतम् | सूक्ष्मं यदुत्तरत्र सूक्ष्ममेवाव्यक्तशब्देनोक्तं तदर्हत्वात् | तच्चावश्यमभ्युपेयम् | सकलजीवाश्रयमहासुषुप्त्यात्मकमव्यक्तं केचिदाकाश इति केचिन्मायेति केचिदक्षरमिति वदन्ति | एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च | इति श्रुतावाकाश इति मायान्तु प्रकतिं विन्द्यात् इति मन्त्रे मायेति अक्षरात्परत इति
SK
श्रुतावक्षर इति निर्दिष्टम् | तदेव महतः परमव्यक्तं इत्युच्यते | तत्र स्थूलं यदिदमुपलभ्यते | सूक्ष्मं यदुत्तरत्र वक्ष्यते - तदन्तरप्रतिपत्तौ रंहत संम्परिष्वक्त इति | तदुभयमपि शरीरमविशेषात् पूर्वत्र रथत्वेन वर्णितमत्र तु सूक्ष्ममव्यक्तशब्देन व्याचक्ष्यते | सूक्ष्मशरीरस्याव्यक्तशब्दार्हत्वात् | तदधीनत्वेन च जीवनिष्ठबन्धमोक्षयोः जीवात्परत्वं तस्योपदिश्यते | तस्मादव्यक्ताधिकत्वं परमशिवस्य निर्दिष्टम् | प्रधानक्षेत्रज्ञपतिः एषामीशे पशुपतिः मायीसृजते विश्वमेतत् नान्ये ब्रह्मणि वेदितव्ये विद्याविद्ये ईशते यस्तु सोऽन्यः क्षरात्मनावीशते देव एकः इत्यादौ तथा श्रूयते | तस्मात्परमेश्वर प्रकरणमिति सिद्धम् | परमेश्वरपक्षे हेत्वन्तरमाह - १११. ज्ञेयत्वावचनाच्च || ४ || किञ्च सांख्यैः प्रकृतिपुरुषविवेकान्मोक्षमङ्गीकृत्य प्रकृतिरपि तदर्थं ज्ञेयेत्युक्तम् | न च तादृशप्रज्ञानोपयुक्तं किञ्चिदत्रोक्तं अव्यक्तमात्रशब्दश्रवणात् | तस्मादपि नाऽव्यक्तं प्रधानं प्राज्ञो हि वदतीति चेन्न प्रात्यक्षिकप्रकरणात् | ननु ज्ञेयत्वावचनादित्यसङ्गतं अव्यक्तशब्दवाच्यस्यैवोत्तरत्र ज्ञेयत्ववचनात् | अशब्दमस्पर्शमरूपमव्ययं तथा रसं नित्यमगन्धवच्च यत् | अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते || इति | इह तु इच्छादिरहितप्रधानं महत्परं कापिलशास्त्रे निर्णीतम् | तदेव निचाय्वत्वेन व्यपदिश्यते | अतः प्रधानमेवाव्यक्तमिति चेदुच्यते - पुरुषान्न परं किञ्चित् इति श्रुतौ सर्वाधिक्यत्वेनात्र परमेश्वरस्यैव व्यपदेशान्निचाय्यत्वं नेतरस्योपदिश्यते | परमेश्वरपक्षे पुनर्हेत्वन्तरं दर्शयति - ११२. वदतीति चेन्न प्राज्ञो हि प्रकरणात् || ५ ||
SK
अजामेकां लोहितशुक्लकृष्णां इत्यादौ गुणत्रयात्मकप्रधानस्यौपचारिकत्वेन जगत्कारणत्वश्रवणादत्र निचाय्यत्वेन प्रधानगेवोपदिश्यत इति चेन्न | प्राज्ञो ह्यत्र परमेश्वरः निचाय्यत्वेन निर्णीयते | कस्मात् - प्रकरणात् | प्राज्ञस्य हि प्रकरणमिहोपक्रमोपसंहाराभ्यां दृश्यते | इशानो भूतभव्यस्य अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति इति पुरुषान्न परं किञ्चित् एष सर्वेषु भूतेषु हृदयावच्छिन्नस्य पुरुषस्य देवतान्यत्वभ्रान्तिवारणाय परमशिवासाधारणेशानशब्दमुद्दिश्य पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः इति तस्यैव सर्वाधिकत्वव्यपदेशात् | एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते इति तस्य दृगाद्यविषयत्वात्मत्वनिर्देशात् | यच्छेद्वाङ्मनसि प्राज्ञः इत्यञ्जनादर्थस्तभवत्तद्विज्ञानाय योगोपदेशात् मृत्युमुस्वात्प्रमुच्यते इति तद्विदुषां मृत्युमोचनफलश्रवणाच्चेदं परमशिवप्रकरणमिति सिद्धम् | कापिलशास्त्रेऽपि न केवलप्रधानविज्ञानेन निर्वाणव्यपदेशः | जडाजडप्रकृतिपुरुषविज्ञानेन तद्दर्शनात् | नेदं परमात्मप्रकरणमिति चेन्न इह चेतनाचेतनात्मकविज्ञानादेव मृत्युमुखमोचकतनिर्देशात् | तमेवं विदित्वाऽतिमृत्युमेति संपश्यन् ब्रह्म परमं याति इति सर्वोपनिषत्सु शब्दादिधर्मवत्त्वं प्राज्ञस्य शिवस्यैव विवक्ष्यते | अतो ह्यत्र ज्ञेयत्वमव्यक्तशब्दवाच्यत्वं च प्रधानस्य वक्तुं न शक्यमिति सिद्धम् | हेत्वन्तरमाह - ११३. त्रयाणामेव चैवमुपन्यासः प्रश्नश्च || ६ || अतोऽपि न प्रधानस्याव्यक्तशब्दवाच्यत्वम् | ज्ञेयत्वं न भवति | यतस्त्रयाणामग्निशारीरपरमेश्वराणामेव कठवल्लीषु वरदातृत्वप्रभावादव्यक्तत्वेनोपन्यासश्च प्रश्नस्य तत्परत्वेन गीयते न प्रधानादे तत्र तावत् स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो
SK
प्रब्रूहि तं श्रद्धधानाप मह्यम् इत्यग्निविषयः प्रश्नः | योऽयं प्रेते विचिकित्सा मनुष्येऽस्तित्येके नायमस्तीति चैके | एतद्विद्यामनुशिष्टस्त्वयाहम् इति जीवविषयः | अन्यत्र धर्मात् यत्तत्पश्यसि तद्वद इति परमेश्वरविषयः | प्रत्युत्तरमपि लोकादिमग्निं तमुवाच तस्मै वा इष्टका यावतिर्वा यथा वा इत्यग्निविषयम् | हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् | यथा च मरणं प्राप्य आत्मा भवति गौतम || योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः | स्थाणुमन्येऽनुसंयन्ति यहा कर्म यथा श्रुतम् || इति | इति जीवविषयम् | न जायते म्रियते वा विपश्चित् इत्यादौ परमात्मविषयं दृष्टम् | न ह्येवं प्रधानस्य प्रश्नोत्तरे दृश्यते | नन्वपृष्टत्वात्तस्य नोपन्यास इति चेदुच्यते - योयमात्मविषय प्रश्नः ये यं प्रेते विचिकित्सा मनुष्येऽस्तीति किं स एवायं अन्यत्र धर्मात् इति पुनरनुकृष्यते किं वा ततोऽन्योऽयमपूर्वः प्रश्नः उत्थाप्यत इति आत्मविषयोऽयं प्रश्नः | भूयोऽनुकृष्यते इति यद्युच्येत् आत्मपरमेश्वरविषयप्रश्नद्वयोरभेदसम्भवात् | वैश्वानरात्मविषयप्रश्नद्वयमेवात्र वक्तुं शक्यम् न तु त्रयाणां प्रश्नोपन्यासाविति तथान्योऽयमपूर्वः प्रश्न उत्थाप्यत इति व्याचक्षेत | अतो यथैव दातृत्वातिरेकेण प्रश्नकल्पनायामदोषः तद्वत् प्रश्नाभावेऽपि प्रधानोपन्यासोपपत्तौ अदोष इति चेद्ब्रूमः | वाक्यारम्भप्रभावादत्र वरप्रदानभेदेन न कञ्चित् प्रश्नं कल्पयामः | वरप्रदानोपक्रमात् मृत्युनचिकेतसंवादात्मकवाक्यप्रवृत्तिः कठवल्यामासमाप्ति दृश्यते | मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन् वरान् ददौ नचिकेताः किल तेषां प्रथमेन वरेण पितुस्सौमनस्यं बव्रे द्वितीयेनाग्निविद्यां तृतीयेनात्मविद्यां ये यं प्रेते इति | वरेष्वयं तृतीयः इत्यात्मविद्योपन्यासादत्र | यदि अन्यत्र धर्मात् इत्यपूर्वोऽयमन्यः प्रश्न उत्थाप्त्येत तदा वरदातृत्वभेदेनापि प्रश्नकल्पनोपन्यासः असंभाव्यः |
SK
नन्वपूर्वोऽयं प्रश्नः प्रष्टव्यव्यतिरेकादिति वक्तुं शक्यम् प्रागेव तु जीवविषयः प्रश्नः वराणामेष वरस्तृतीयः इति तत्र संशयदर्शनात् | शारीरस्य धर्मादिगोचरत्वात् | न अन्यत्र धर्मात् इत्यत्र प्रश्नः उपयुक्तः | प्राज्ञस्य धर्मातिरिक्तत्वात् अन्यत्र धर्मादिति प्रश्नः अभिहितः | प्रश्नछाया च न समाना दृश्यते पूर्वस्य भावत्वाभावत्वपरत्वात् उत्तरस्य च धर्मातिरिक्तवस्तुपरत्वात् | अतः प्रत्यभिज्ञानाभावात्पश्नभेदो न पूर्वस्यैवोत्तरत्रानुकर्षणं इति चेन्न बद्धदशायां जीवब्रह्मणोर्भेदेऽपि मुक्तदशायां भ्रमरकीटवदेकत्वोपदेशात् न प्रष्टव्यभेदात्प्रश्नभेदो द्रष्टव्यः | अत्रापि अन्यत्र धर्मात् इत्यस्य प्रश्नस्य प्रत्युत्तरं न जायते म्रियते वा विपश्चित् इत्युत्पत्तिप्रलयप्रतिषेधेन प्रोच्यमानं जीवशिवयोरभेदमुपदिशति | तथा - स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति | महान्तं विभुमात्मानं मत्वा धीरो न शोचति || इति जाग्रत्स्वप्नप्रपञ्चानुभववतो जीवस्यैव महत्त्वविभुत्वविशेषणवेदनेन शोकनिवृत्तिं प्रतिपाद्य ब्रह्मानुगतस्य जीवस्य परमेश्वरानन्यभाव उपदिश्यते | प्राज्ञविज्ञानाद्धि शोकविच्छेदः इति वेदान्तसिद्धान्तः | तथोत्तरत्र यदेवेह तदमुत्र यदमुत्रतदन्विह | मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति इति मुक्तजीवप्राज्ञयो रैक्यमुपदिश्यते | तथा शारीरविषयकभावाभावप्रशात्परं अन्यं वरं नचिकेतो वृणीष्व इत्युपक्रम्य मृत्युना तैस्तै कामैः प्रलोभ्यमानोऽपि नचिकेताः यदा न चचाल तदैनं मृत्युरभ्युदयनिःश्रेयसफलविभागप्रदर्शनेन ज्ञानाज्ञानविभागसन्दर्शनेन च विद्याऽभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त इति प्रश्नमपि तदीयं प्रशंसन्निदमुवाच - तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम् | अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ||
SK
इति अत्रापि शारीरपरमात्मनोर्मुक्तिदशायामभेद इति व्याचक्षते | न चास्यामुपनिषदि प्रधानस्य प्रश्नोत्तरे स्तः इति न प्रधानमव्यक्तम् | पुनर्हेत्वन्तरमाह - ११४. महद्वच्च || ७ || यथा महच्छब्दस्य वेदे सर्वत्र बुद्धेरात्मा महान्परः महान्तं विभुमात्मानं मत्वा वेदाहमेतं पुरुषं महान्तं इत्यादौ बुध्याख्यद्वितीयतत्त्वमिति नाङ्गीक्रियते सांख्यैस्तथा वैदिकाव्यक्तशब्दैर्नाप्रकृतप्रधानमङ्गीक्रियते | तस्मात्प्रकृतशरीरपरमेवाव्यक्तपदमित्यशब्दत्वं प्रधानस्येति सिद्धम् | ननु इदं तच्छिर एष ह्यर्वाग्विलश्चमस ऊर्ध्वबुध्न इति वाक्यशेषात् शिरश्चमस निर्णय इह कथमत आह - ११६. ज्योतिरुपक्रमात्तथाह्यधीयत एके || ९ || यदग्नेर्लोहितं रूपं इत्यादिश्रुतेर्ज्योतिरुपक्रमात् तेजोऽबन्नात्मिकावान्तरप्रकृतिरजाशब्देन प्रतिपाद्यते | एके शाखिनः तथा लोहितशुक्लकृष्णत्वं तेजोऽबन्नानमधीयते | अजाशब्दस्य जन्मरहितवस्तुवाचकत्वात् परमशिववाचकत्वं युक्तम् | हि शब्दोऽवधारणार्थः | ननु ज्योतिर्वाक्योपक्रमे प्रकृतिः स्वेदजादिचतुर्विधभूतग्रामात्मिका | इह अजाशब्देनविवक्षिता गुणत्रयात्मिका जगत्कारणत्वेन प्रतिपत्तव्येति चेन्न न कापिलत्रैगुण्यात्मकप्रकृतेर्जगत्कारणत्वम् | यदग्नेर्लोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य इति सर्ववेदान्तप्रत्ययन्यायात् शाखान्तरप्रसिद्धलोहितादिप्रत्यभिज्ञानात् तेजोब्बन्नानाभेवात्र ग्रहणम् | लोहितादिशब्दसाम्याद्रोहितादीनां च शब्दानां रूपविशेषेषु रूढत्वात् भाक्तत्वाच्च त्रिगुणपरत्वस्य | सन्देन्देहाभवेन च सन्दिग्धस्य निगमनन्यायान्न प्रधानमंत्रविचार्यते |
SK
अस्मिन्नेव प्रकरणे ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्म इत्युपक्रम्य ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् इति वाक्योपक्रमे परमशिवशक्तेर्मायायाः जगज्जनकत्वमवगम्यते | वाक्यशेषेऽपि मायान्तु प्रकृतिं विन्द्यात् इति यो योनिं योनिमधितिष्ठत्येकः इति च तस्या एवावगमात् न कदाचिदपि स्वातन्त्र्यम् | परमशिवकारणिकेयमजा प्रकृतिरुच्यते | सैव महेश्वरशक्तिरव्याकृतनामरूपा नामरुपयोः प्रागवस्थानेन अनेन मन्त्रेणाम्नायते | तस्याः विकारविषये त्रिविधरूपेण त्रिविधात्मकत्वमुक्तम् | कथं पुनः तेजोऽवन्नाना प्रकृतिः त्रिविधरूपेण रूपत्रयात्मिका अजेति वक्तुं शक्यते | तथापि परमेश्वरानुगृहीताया एव तैत्तिरीयकेऽपि स्वातन्त्र्यमाम्नायते | अणोरणीयान्महतो महीयान् इत्युपक्रम्य सप्तप्राणाः प्रभवन्ति तस्मात् इत्यादिना जगत्कारणत्वं परमेश्वरस्य प्रसाध्य तज्जन्यत्वेन तदात्म कत्वोपदेशकाले अजामेकां इति निर्दिशति | ततः पूर्वापरपर्यालोचनया तेजोऽवन्नात्मिकायाः कार्यप्रकृतेः कारणत्वं परमेश्वरानुग्रहेणेति विधीयते | तस्मान्न स्वतन्त्रसिद्ध इति कापिलवादो युक्तः | ननु तेजोऽवन्नानां उत्पत्तिश्रवणाद्योगरूढेरसम्भवात्कथमजाशब्देन तेषां ग्रहणमित्यत आह - ११७. कल्पनोपदेशाच्च मध्वादिवदविरोधः || १० || च शब्दश्चोद्यनिरासे | न अजाशब्दानुपपत्तिः कुतः कल्पनोपदेशात् | तेजोऽवन्नात्मिकाया अजात्वं कल्प्यते | यथा लोके प्रसिद्धामजां भुक्तभोगां एक अजस्त्यजति | अन्यस्तामनुवर्तते | एवं त्यागभोगयोः कार्यकारणसङ्घाताद्युपादानभूतायास्तेजोऽवन्नात्मिकायाः प्रकृतेस्साम्यप्रतिपत्यर्थम् | मध्वादिवत् यथा असौ वा आदित्यो देवा मधु वाचं धेनुमुपासीत इत्यादावादित्यादेर्मध्वादिकल्पना तद्वदजात्वकल्पनायामविरोधः | नन्वत्र स्वातन्त्र्येण प्रकृतेः प्रपञ्चकारणत्वमुपदिश्यत इति चेन्न - छन्दांसि यज्ञाः ऋतवो व्रतानि भूतं भव्यं च देवा वदन्ति | अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्धः ||
SK
इति सृष्ट्युपक्रमे मायाविशिष्टस्य परमेश्वरस्यैव कारणत्वोपदेशात् | उत जडप्रकृतेरेव परमेश्वराद्भिन्नत्वं मोक्षदशायां परमशिवे विलीनत्वं च युक्तम् न तु चिच्छक्तेः | तथा च स्मृतिः - शक्तिरस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः | शक्तिस्तु शक्तिमद्रूपा व्यतिरिक्ता हि न क्वचित् || तादात्म्यमनयोनिंत्यं वह्निदाहकशक्तिवत् | शक्तिशक्तिमतोर्यस्मादभेदस्सर्वदा स्थितः || इति | अत्र परमेश्वरादपृथक्सिद्धत्वेन परमेश्वरनिष्ठकारणत्वमजाशब्दवाच्यकारणप्रकृतेरिति न विरोधः | ननु अजोह्येको जुषमाणोऽनुशेते इत्यादौ स्वातन्त्र्येणैकस्य जीवस्य मायानुप्रविष्टत्वस्य एकस्य जीवस्य स्वातन्त्र्येण मायामोचकत्वस्य च व्यपदेशान्न परमेश्वरस्य बन्धमोक्षहेतुत्वमस्तीति चेन्न | क्षरात्मानावीशते देव एकः | तस्याभिध्यानाद्योजनात्तत्त्वभावद्भूयश्चान्ते विश्वमायानिवृत्तिः इत्यनेनेष्टादिलिङ्गत्रयधारणद्वारा जीवानां मायामोचकत्वव्यवस्थापनान्नान्यथेति सिद्धम् | संख्योपसंग्रहाधिकरणम् || ३ || पञ्चविंशतितत्त्वापेक्षय षट्त्रिंशत्तत्त्वग्रहणमेव युक्तम् | एवं प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं निरस्य पञ्चविंशतितत्त्वानि निराकरोति - ११८. न सङ्ख्योपग्रहणादपि नानाभावादतिरेकाच्च || ११ || बृहदारण्यके षष्ठाध्याये पठ्यतेऽस्य विषयः | तदेव ज्योतिषां ज्योतिरायुरिहोपास्रतेऽमृतं इत्यनन्तरं यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः तमेव मन्ये ह्यात्मानं विद्वान्ब्रह्मामृतोऽमृतम् इति प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो यो मनो विदुस्तेन चिख्युर्ब्रह्म पुराणमग्र्यम् इति | अस्मिन् मन्त्रे पञ्च पञ्च जना आकाशश्चयस्मिन् आश्रिताः तमाश्रयभूतमात्मानं अमृतं मन्ये | एवं ब्रह्म विद्वान् अमृतं स्यात् अहममृतो भवामि इति | अत्र पञ्च पञ्चजना इति साङ्ख्यसिद्धानि - मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त | षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ||
SK
इति संगृहीतानि पञ्चविंशति तत्वानि किं वा प्राणादयः पञ्चपदार्थाः श्रुतिसिद्धाः इति संशये तत्त्वानीति प्राप्तम् | पञ्चपञ्चेत्यनेन पञ्चविंशतिसंख्याकाः पदार्थां उच्यन्ते | जनशब्दस्य तत्त्वोपलक्षणार्थत्वात् प्राणादिष्वप्यमुख्यत्वाच्च न प्रधानमशब्दमिति प्राप्ते - ब्रूमः - उदाहृतश्रुतौ पञ्चविंशतिसङ्ख्याश्रवणात् प्रधानस्य शब्दवत्वैत्यपि न सम्भवति | कुतः नानाभावात् | नानात्वादवान्तरसङ्ख्याया अनुगमकधर्माभावेन पञ्चपञ्चकानां प्रतिपादयितुमशक्यत्वात् | नानात्वेऽपि किञ्चित्वस्य पञ्चविंशतिसङ्ख्याप्रतिपादकत्वाङ्गीकारे बाधकान्तरमाह - अतिरेकाच्चेति | पञ्चजनापेक्षया आकाश-पुरुष-कालादीनामतिरिक्तत्वात् षट्त्रिंशत्सङ्ख्योपपत्तेर्न पञ्चविंशति सङ्ख्याप्रतिपत्तिरित्युपदिश्यते | तथाहि - पञ्चजनशब्दस्य सविशेषणौकपद्यनिश्चयात्तदेकदेशस्य पञ्चशब्दस्य पञ्चशब्देनान्वयायोगात् न पञ्चविंशतिसङ्ख्याप्रतीतिः | नन्वत्र कालादितत्वानामदर्शनात् कथं षट्त्रिंशत्तत्त्वसङ्ख्याप्रतिपत्तिरितिचेत् वृद्धजाबालोपनिषदि प्रथमं पशु-पाश-पतिपदार्थत्रयं निरूप्य ततश्शिवस्य परब्रह्मणः पञ्चकृत्यकर्तृत्वं प्रसाध्य स पुनस्तगṁ होवाच कानि षट्त्रिंशत्तत्त्वानीति स तस्मा आह शिव-शक्ति-सदाशिव ईश्वर- guṇatrayānnāmarūpakriyāspadāni parasparavibhinnāni dharaṇyādīni viṃśatitattvāni | vṛddhajābālopāniṣadi dṛgvilakṣaṇāṃ śaktiṃ parameśvaro yadā saṃkramate tadā prājñataijasamiśrākhyā āgacchanti iti ṣaṭtriṃśattatvānāmasaṃṅkucitatvena vyapadeśāt | śvetāśvataranārāyaṇādyupaniṣatsu ativispaṣṭatayā taddarśanāt śrutyāgamānusāreṇa dvitīyapādaprathamādhikaraṇe bahudhā prapañcitam | tasmāt ṣaṭtriṃśattatvagrahaṇamevātra yuktam | evaṃ saṅkhyāntarapratītau nirastāyāṃ pañcajanaśabdena kiṃ vivakṣyata ityāha - 119. prāṇādayo vākyaviśeṣāt || 12 || prāṇaścakṣuśśrotrānnamanāṃsi pañcajanaśabdenocyante | kasmādvākyaśeṣāt uttaramantre
SK
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत | श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो यो मनो विदुः || इति प्राणादीनां पञ्चानामनुक्रमात् पञ्चजना इत्युच्यन्ते | तर्हि प्राणादीनां कथं जनः शब्दप्रयोगः सांख्यमते तत्त्वादीनां च जनशब्दप्रयोगः कथं सम्भवति समाने तु प्रसिध्यति क्रमे सन्निधानवाक्यविशेषात् प्राणपञ्चकमेवोपदिश्यते | पुरुषवाचकत्वेन प्रसिद्धस्यापि पञ्चजनशब्दस्य प्रकृते तत्सम्बन्धिप्राणादौ लक्षणया वृत्तिरविरुद्धा | मानुषशब्दपर्यायः पुरुषशब्दस्तु प्राणेषु परिगृह्यते | ते वा एते पञ्च ब्रह्मपुरुषाः इत्यत्र प्राणो हि पिता प्राणो माता इत्यादि च ब्राह्मणम् | समासबलाच्च समुदायस्यरूढत्वमविरुद्धम् | कथमसति प्रथमप्रयोगे रूढिः शक्याश्रयितुं इति चेदुच्यते - मुख्यार्थसमक्षे ह्यमुख्यार्थशब्दः प्रविष्टस्समभिव्याहारात्तद्विषयो विज्ञायते | यथा उद्भिदा यजेत यूप. छिनत्ति वेदिं करोति इत्यादिवदत्रापि पञ्चजनशब्दस्य समासाद्व्याख्यानादवगतः संज्ञाभावः वाक्यशेषसमभिव्याहृतेषु संज्ञाकांक्षि प्राणादिषु वर्तिष्यते | कैश्चित् देवपितृगन्धर्वासुररक्षांसि पञ्चपञ्चजनाः व्याख्याताः | अन्यैश्चत्वारो वर्णां निषादपञ्चमाः परिगृहीताः | क्वचिच्च यत्पाञ्चजन्यया विशा इति प्रजापरप्रयोगः पञ्चजनशब्दस्य श्रूयते | तत्संग्रहणेऽप्यत्र न बाधः | सूत्रकारस्तु पञ्चविंशतिसङ्क्यामत्र न परिगृण्हाति | तद्विलक्षणत्वेन प्राणादीनां वाक्यशेषे दर्शनात् माध्यन्दिनानामन्नस्य प्राणादिष्वाम्नानेऽपि काण्वानां प्राणादिष्वन्नस्यानाम्नायात् कथं प्राणादयः पञ्चजना इस्यत आह - 120. jyotiṣaikeṣāmasatyanne || 13 ||
SK
एकेषां काण्वानामसत्यन्ने ज्योतिषा पञ्चत्वं पूर्यते | तदेव ज्योतिषां ज्योतिः इति पूर्ववाक्ये ज्योतिषः प्रकृतत्वात् कथं पुनः द्वयोरपि समानत्वेन इदं ज्योतिः पठ्यमानं सदृशमन्त्रगतपञ्चसङ्ख्यापूर्वकत्वेन केषाञ्चिदवगम्येत न केषांचिदिति | इच्छाभेदादित्याह - माध्यन्दिनानां तुल्यमन्त्रपठितप्राणादिपञ्चजनपरिग्रहात् | न मन्त्रान्तरपठिते ज्योतिष्यपेक्षा भवति | काण्वानां तदभावादिच्छा भवति | इच्छाभेदाच्च तुल्येऽपि मन्त्रे ज्योतिषः स्वीकारास्वीकारौ | एवं न तावच्छ्रुतिप्रसिद्धिः | तस्मात् प्रधानस्याशब्दत्वं सिद्धम् - एवोपदेशान्नान्यस्य कारणत्वम् | तैत्तिरीयके आकाशादिसृष्टिः छान्दोग्ये तेज आदिकेत्येवं कार्यपरविकल्पः ज्ञायते | कार्यपरविकल्पेन जगद्धेतुभूतं ब्रह्मापि सकलोपनिषत्सु अविगीतमधिगम्यमानं सद्विवक्षितं इति वक्तुं शक्यमिति विज्ञायते | कारणविषयं विगानं परिहर्तुं सूत्रकारोऽत्र समाधानमभाषत | कार्यपरविकल्पे सत्यप्याकाशादिसृष्टेरविवक्षितत्वात् | न ह्यत्राकाशादिसृष्टिप्रपञ्चः प्रतिपादयिषितः | तस्मान्न तद्विरोधः | न हि सृष्टिप्रतिबद्धः कश्चित् - पुरुषार्थो दृश्यते श्रूयते वा न कल्पयितुमपि शक्यते | पूर्वापरमध्यपरामर्शतया परमेश्वरपरत्वस्य दर्शनात् | अन्नेन सौम्य शुङ्गेनापो मूलमन्विच्छाद्भिस्सौम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सौम्य शुङ्गेन सन्मूलमन्विच्छ इति मृदादिदृष्टान्तैश्च कार्यकारणयोरभेदं वक्तुं जन्मादिविशिष्टं जगच्छ्राव्यत इति गम्यते | परमेश्वरस्य जगत्कारणत्वे असद्वा इदमग्र आसीत् इत्यादिषु विरोधमाशङ्क्य परिहरति - १२२. समाकर्षात् || १५ ||
SK
असद्वा इदमग्र इत्यत्र पूर्वप्रकृतस्य सत्वस्याकर्षणान्नासत्कारणतापरमिदम् | तथाहि - असन्नेव स भवति इत्यसद्वादं निराकृत्य अस्ति ब्रह्मेति चेद्वेद इति सदात्मानं निर्धार्य सोऽकामयत इति तत्सकाशात्सृष्टिमुपदिश्य तत्सत्यमित्याचक्षते इत्युपसंहृतम् | तदप्येष श्लोको भवति इति प्रकृतिविषयश्लोक उदाहृतः | तत्र न असत्शब्देन शून्यवादः परिग्रहीतुं शक्यते प्रकृतहानाप्रकृतकल्पनाप्रसङ्गात् | सत्येप्यसच्छब्दस्य नामरूपव्याकरणाभावेन प्राक् सतोप्यौपचारिकप्रयोगसम्भवादेवं सर्वत्र यथा व्यपदिष्टोक्तेरूह्यते | तद्धीदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेवं व्याक्रियत इत्यत्रापि स एष इह प्रविष्ट आनखाग्रेभ्यः इत्यध्यक्षस्य प्रपञ्चप्रविष्टत्वेन समाकर्षात् | निरध्यक्षस्य व्याकरणाभ्युपलब्धौ तु ततः परं प्रकरणानुषङ्गिणा स इत्यनेन सर्वनाम्ना कः प्रपञ्चानुषङ्गे संगृह्येत चिद्रूपस्य परमेश्वरस्यानुप्रवेशः श्रूयते | देहप्रविष्टस्य चिद्रूपत्वव्यपदेशात् | पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः इति | किञ्च परिदृश्यमानमिदं सकर्तृकं विज्ञायते | एवं प्रथमसृष्टावपीति गम्यते न हि दृष्टेऽनुपपन्नं नाम इति न्यायात् | अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरपाणि तत्सृष्ट्वा तदेवानुप्राविशत् इत्वादिष्वपि साधिपतित्वमुपदिश्यते | व्याक्रियत इत्यत्र कर्मकर्तरि लकारः स्थिते परमात्मनि व्याकरणसौष्टवमपेक्ष्य द्रष्टव्यः | केदारः स्वयमेव लूयते इतिवत् सत्यपि पृथक्कर्तरि न विरुध्यते | यद्वा कर्मण्येवायं लकारः गम्यते ग्रामः इत्यादिवद्द्रष्टव्यः | एवं परमेश्वरस्य सर्वकारणत्वे न कश्चिद्विरोधः | नापि सृष्टिविरोधात्कारणे परशिवब्रह्मणि विरोधः | बालाक्यधिकरणम् || ५ || अथ शुद्धाद्वैतमतनिराकरणम् एवं प्रधानजगत्कारणवादिसाङ्ख्यमतं निरस्य निर्विशेषब्रह्मसान्निध्येन प्रधानस्य जगत्कारणत्वव्यवस्थापकं सर्वदा जीवब्रह्माभेदप्रधानशुद्धाद्वैतमतं निराकरोति - १२३. जगद्वाचित्वात् || १६ ||
SK
ब्रह्म ते ब्रवाणि इत्युपक्रम्य यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वै तत्कर्म स वै वेदितव्यः इति कौषीतकी ब्राह्मणे बालाकाजातशत्रुसंवादे दृश्यते | अत्र वेदितव्यः प्राणः जीवः परमेश्वरो वेति सन्देहः | अत्र प्राण एवाभिधीयते | कस्मात् यस्य वै तत्कर्म इति दर्शनात् | कर्मणश्चलनात्मकस्य प्राणाश्रयत्वात् | वाक्यशेषे च अथास्मिन् प्राण एवैकधा भवति इति प्राणशब्दश्रवणात् | प्राणस्य हि मुख्यप्राणे प्राणवायौ रूढत्वात् | ये चैते पुरस्ताद्बालाकिना आदित्ये पुरुषश्चन्द्रमसि पुरुषः इत्येवमादयो जीवा निरूपिताः | तेषामपि प्राणोऽस्त्यधिष्ठाता प्राणावस्थाविशेषत्वात् | आदित्यादिदेवतात्मनां कतम एको देव इति प्राण इति स ब्रह्म स आदित्य इत्याचक्षते इति श्रुत्यन्तरसिद्धेः | उत शारीरो वा निर्णीयते | यस्य चैतत्कर्मेति धर्माधर्मलक्षणकर्मोपदेशसम्भवात् पूर्वं प्रकृतानामादित्यः पुरुषः इत्यादीनां भोक्तृजीवस्य कर्तृत्वसम्भवेनैतेषां पुरुषाणां कर्तेति निर्देशोपपत्तेः जीवलिङ्गमप्यत्र दृश्यते | तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथैते श्रेष्ठिनं भुञ्जते एवमेवैष प्रज्ञात्मा तैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति इति | वेदितव्यपुरुषोन्मुखं बालाकिं प्रत्यजातशत्रुणा सुप्तपुरुषमामन्त्रणेन सम्बोध्य ततोऽनुत्थितं पाणिधातेनोत्थितं प्रदर्श्य प्राणादिव्यतिरिक्तजीवस्य प्रतिपादनात् निराकृतसर्वकर्मबन्धपरमेश्वरे तदसम्भवात् परमेश्वरविषयकलिङ्गानामत्रादर्शनाच्च प्राणजीवयोरेक एवात्र निर्णेतव्य इति चेदुच्यते |
SK
अत्र परमेश्वर एव जीवाधिष्ठातृत्वेन वेदितव्यः | ब्रह्म ते ब्रवाणि इति परब्रह्मप्रतिपादनमुपक्रम्य आदित्यादिषु पुरुषोपन्यासे बालाकिना कृते मृषा वै खलु मा संवदिष्ठाः इत्यादिना तन्निराकृते स्वयमजातशत्रुरेतेषां पुरुषाणां कर्ता यस्य चैतत्कर्मेत्युक्तवान् | तत्रैतस्समुख्यब्रह्मपरत्वं युक्तिमत् पुरुषकर्तृत्वं च स्वातन्त्र्येणेश्वरस्यैवोपपन्नम् | ईशानस्सर्वविद्यानां एषामीशे पशुपतिः पशूनां इत्यादिष्वपि सर्वनियन्तृत्वस्य परब्रह्माणि शिव एव व्यवस्थापनात् | न च तत्र कर्मशब्दानुपपत्तिः जगद्वाचित्वात् कर्मशब्दस्य क्रियत इति कर्मेति जगत्कृत्वोक्त्यैव पुरुषकर्तृत्वस्यापि प्राप्तौ बालाकिना वेदितव्यत्वेनोपदिष्टानां पुरुषाणामब्रह्मत्वज्ञापनार्थं ब्राह्मणपरिव्राजकन्यायेन पुरुषाणामपि पृथङ्निर्देशः | ननु विश्रान्तिस्थितजीवस्य चेतनत्वात् स्वातन्त्र्येण सर्वकर्तृत्वमुपदिश्यत इति चेन्न | गार्ग्येण ब्रह्मत्वेनोक्तपुरुषाणां ब्रह्मातिरिक्तत्वद्योतनाय गोबलीवर्धन्यायेन पृथक् व्यपदेशान्नेतरः | पुनराशङ्क्य परिहरति - १२४. जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् || १७ ||
SK
यथैते श्रेष्ठिनं भुञ्जन्ति इति अथास्मिन् प्राण एवैकधा भवति इति वाक्यशेषे परिच्छिन्नजीवमुख्यप्राणलिङ्गस्यैवात्र द्योतनान्न सर्वव्यापकब्रह्मोपासनमात्रपरमिति चेत्तद्व्याख्यातम् | पूर्वत्र प्राणाधिकरणे प्रतर्दनविद्यायां इष्टादिलिङ्गत्रयोपासनं व्याख्या तम् | तद्वदिहापि उपक्रमोपसंहारमध्यपरामर्शतया वेदितव्यम् | ब्रह्म ते ब्रवाणि इत्युपक्रमे परब्रह्मोपक्रमदर्शनात् | यस्य वै तत्कर्म इति मध्ये च सर्वजगत्कर्तृत्वस्य तस्मिन्नेव निर्देशात् | सर्वान्याप्मनोऽपहृत्य सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद इत्युपसंहारे निरतिशयफलश्रवणाच्च नान्यपरत्वं युक्तम् | प्राणबन्धनं हि सौम्य मनः इत्यत्र प्राणशब्दस्य ब्रह्मपरत्वमुपदिश्यते | तस्मादत्र तदभेदेन लिङ्गत्रयोपासनं द्रष्टव्यम् | न चैवं प्रतर्दनविचारणेन गतार्थता | कर्मशब्दस्य जगद्वाचित्वस्य तत्राप्रतिपादनादन्यपरत्वमस्तीत्याशङ्कायाः सम्भवात् पुनर्हेत्वन्तरमाह - १२५. अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके || १८ || जैमिन्याचार्यो जीवपरामर्शमस्मिन् प्रकरणे अन्यार्थ ब्रह्मप्रतिपत्यर्थं मन्यते | कस्मात् प्रश्नप्रतिवचनाभ्याम् प्रश्नस्तावत्सुप्तप्रतिबोधनेन प्राणादिप्रभिन्नशारीरे बुद्धे पुनश्शारीराद्भिन्नविषयः श्रूयते |
SK
क्वैष एतद्बालाके पुरुषोऽशयिष्ट क्व वा वै एतदभूत्कुत एतदगात् इति | प्रश्नप्रतिवचनमपि | यदा सुप्तो न कञ्चन स्वप्नं पश्यत्यथास्मिन् प्राण एवैकधा भवति | सता सौम्य सद सम्पन्नो भवति एतस्मादात्मनः सर्वे प्राणा यथायतनं प्रतिष्ठन्ते इति च जीवस्य सुप्तौ शिवप्राप्तिर्ब्रह्मणः प्राणादिकं जगज्जायत इति जगत्कारणत्वं च श्रूयते | तस्मात् परमेश्वरविज्ञानेन जीवस्य तदात्मकत्वमुपदिश्यते | अपि चैवमेके वाजसनेयिनो बालाक्यजातशत्रुसंवादे ह्यसन्दिग्धतया विज्ञानमयं जीवं तद्भिन्नं परमेश्वरं चामनन्ति | य एष विज्ञानमयः पुरुषः क्वेष तदाभूत्कुत एतदगात् इति प्रश्ने य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते इत्युत्तरे च आकाशशब्दो ब्रह्मणि प्रसिद्धः सर्ववेदान्तप्रत्ययत्वाच्च | अत्रापि स एव निश्चयः | अतः परमेश्वरस्यैव वेदितव्यत्वम् | वाक्यान्वयाधिकरणम् || ६ || परमतनिराकरणपूर्वकस्वसिद्धानस्थिरीकरणम् जीवब्रह्मणोः मैत्रेयीब्राह्मणे स्वस्वशब्दैकपरत्वेन विधानात्कथं सामानाधिकरण्यमित्याशङ्क्याह - १२६. वाक्यान्वयात् || १९ || बृहदारण्यके मैत्रेयीब्राह्मणे दृश्यतेऽस्य विषयः स होवाच न वाऽरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति इत्यारभ्य न वाऽरे सर्वस्य कामाय सर्व. प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वाऽरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् इति | अत्र किं द्रष्टव्यत्वादिना निर्दिष्टोऽयं जीवः परमेश्वरो वेति सन्दिह्यते | विज्ञानात्मा जीव एवात्र व्यवह्रियते | कुतः उपक्रमसामर्थ्यात् पतिजायापुत्रपशुवित्तादिप्रपञ्चस्यात्मार्थत्वेन प्रियत्वव्यपदेशात् |
SK
किञ्च - तत्रैव न वाऽरे पत्युः इत्यादिना भोक्तृजीवोपक्रमात् मध्येऽपि इदं महद्भूतमनन्तमपारं विज्ञानघर एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति इति स्वभूतेभ्यः समुत्थानस्य शारीरे उपदेशात् तस्यैव द्रष्टव्यत्वं निर्दिशति | तथा विज्ञातारमरे केन विजानीयात् इति कर्तृप्रतिपादकवाक्येनोपसंहारात् शारीर एवोपदिष्ट | तस्मादुपक्रमे वित्तसाध्येन कर्मणा किममृतत्वमस्तीति मैत्रेयीप्रश्नदर्शनादेतत्प्रकरणं नेतरस्योपदिश्यत इति प्राप्ते - अभिधीयते - अत्र द्रष्टव्यत्वेन उपदिश्यमानः पुरुषः परमेश्वर एव | कुतः - वाक्यान्वयात् | वाक्यस्य तु उपक्रमोपसंहारमध्यपरामर्शतया परब्रह्मणि शिव एव समन्वद्यात् | अमृतत्वस्य तु नाशास्ति वित्तेन इति वित्तसाध्येन कर्मणा मोक्षं प्रत्याशा नास्तीति याज्ञवल्कयादुपश्रुत्या मैत्रेयी मोक्षसाधनं पृच्छति | येनाहं नामृतास्यां किमहं तेन कुर्याम् | यदेव भगवान्वेद तदेव मे ब्रूहि इति प्रश्नानन्तरं आत्मज्ञानमुपदिश्यते आत्मा वाऽरे द्रष्टव्यः इत्यादिना | न हि जीवज्ञानान्मोक्ष इति कश्चिदभ्युपैति | अतो द्रष्टव्यः परमेश्वरस्तथा आत्मनो वाऽरे दर्शनेन इति यदात्मश्रवणात् ज्ञानात्सर्वज्ञानं प्रतिज्ञातं भवति | उपक्रमे वित्तसाध्येन कर्मणा किममृतत्वमस्तीति मैत्रेयीप्रश्नदर्शनात् एतावदरे खल्वमृतत्वं इत्युपसंहारदर्शनाच्च | अतः आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विज्ञायते अत्र तत्त्वेन विजानीयादित्यवसाने कृच्छ्रवाक्यमपि परमेश्वरं गमयति | अतः अमृतत्वस्य साधनमात्ममात्रोपदेशः परमात्मविषय एव न जीव विषयः | अथ संयुक्तभेदमतनिरूपणम् न वाऽरे पत्युः इत्यादिना जीवोपक्रमदर्शनात् कथं वात्मज्ञानेन सर्वविज्ञानप्रतिपादकवाक्यस्य ब्रह्मविषयत्वं ज्ञाऽज्ञौ द्वावजौ इति शारीरस्याजन्यत्वप्रतिपादनात् ब्रह्मजन्यत्वं न सम्भवति | तस्माद्ब्रह्मज्ञानेन जीवज्ञानमनुपपन्नमित्याशंङ्क्याह - १२७. प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः || २० ||
SK
आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति इदं सर्वं यदयमात्मा इति इति चैकविज्ञानेन सर्वविज्ञानप्रतिज्ञायास्तिद्धेः लिङ्गं सूचक्रं जीवपरमात्मनोरत्यन्तविलक्षणत्वादेकविज्ञानेन सर्वविज्ञानवाक्यं न विरुध्यते | यतो वा इमानि भूतानि जायन्ते इत्यादौ भूतपञ्चकवत्तेषां जीवानामपि ब्रह्मजन्यत्वावगमात् कार्यकारणयोः परस्परभेदाङ्गीकाराच्च तयोरभेदो न सम्भवति | तस्माद्दधिक्षीरवदेकविज्ञानेन सर्वविज्ञानप्रतिज्ञावाक्यमुपपन्नम् | अतस्तयोर्भेदांशप्रतिपत्यर्थं जीवोपक्रमणमिति आश्मरथ्यो मन्यते | उत यस्यात्मा शरीरम् इत्यादिना सर्वविज्ञानप्रतिज्ञासिद्धिस्सम्भवति | लोके कृशोऽहं श्वेतोऽहं इत्याद्यनुभूतौ परस्परवैलक्ष्येऽपि धर्भैकत्वदर्शनादङ्गाङ्गिवत्संयुक्तासंयुक्तभेदद्योतनार्थं वा जीवोपक्रमणमिति सः भेदवादी मन्यते | अथाद्वैतवादिमतनिरूपणम् एवं घटपटवज्जीवब्रह्मणोरसंयुक्तभेदवादिमतं अङ्गाङ्गिवत्संयुक्तभेदमतं चोपदिश्य शुद्धा द्वैतमतमाह - १२८. उत्क्रमिष्यत एवं भावादित्यौडुलोभिः || २१ || उत्क्रमिष्यतः स्वाविद्योपाधिं त्यजतो जीवस्य घटाकाशे महाकाशवद्ब्रह्माभिन्नत्वात्सर्वदा ब्रह्माभिन्नतया जीवोपक्रमणं तस्माद्ब्रह्मज्ञानेन सर्वविज्ञानमुअमन्नमिति औडुलोम्याचार्यो मन्यते | अथवा रज्वारोपितसर्पभ्रान्तिनिवृत्तौ रज्जुमात्रपरिशेषवत् स्वात्मारोपितजीवभ्रान्तिनिवृत्यनन्तरं स्वात्मा परिशिष्यत इत्यौडुलोमिर्मन्यते | तत्त्वमस्यादिश्रुतिशतेषु जीवब्रह्मणोरेकत्वोपदेशाब्दिम्बप्रतिबिम्बभाववद्घटाकाशमहाकाशवद- jīvatvasyāroitatvādadhiṣṭhānavyatirekeṇādhyāsādarśanāñca | vastutastu bhrāntinirmuktatayā brahmaiva siddhamityabhedabudhyā jīvopakramaṇamityadvaitānusāriṇaḥ kecinmanyante | sarvaśrutyabhipretavedāntasiddhāntasammataviśeṣādvaitarāddhāntaḥ tasmādevaṃ śrutyekadeśaprāmāṇyamatadvayasupapādya sarvaśrutyabhipretamukhyavedāntasiddhāntamataṃ darśayati - 129. avasthiteriti kāśākṛtsnaḥ || 22 ||
SK
इदमेव सूत्रकारमतम् | द्वासुपर्णा इत्यादिभेदश्रुतीनां तत्त्वमस्याद्यभेदश्रुतीनां चाविरोधतया भेदाभेदमते अवस्थितेरवस्थानात् जीवब्रह्मणोर्भेदाभेदप्रदर्शनार्थमत्र जीवोपक्रमणमिति सर्वश्रुतितात्पर्यवेदी मुख्यसिद्धान्ती काशकृत्स्नो मन्यते | तस्मात्सर्वश्रुति सिद्धतृतीयमतं पारमार्थिकमिति वेदितव्यम् | एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते यथा नद्यः ध्यात्वा मुनिर्गच्छति भूतयोनिं श्रद्धाभक्तिध्यानयोगादवेहि ब्रह्मविदाप्नोति चमसाधिकरणम् || २ || नन्वत्र प्रधानस्य जगत्कारणत्वोपदेशात् प्रकृतप्रकरणरहितस्य तस्य त्रिविधत्वानुगतत्वादत्रापि प्रस्तावोऽस्तीत्याशङ्क्य निराकरोति - ११५. चमसवदविशेषात् || ७ || भूयोऽपि कापिलवादी प्रकृतेरशब्दत्वं न सम्भवतीत्याह | कुतः मन्त्रवर्णात् | अजामेकां लोहितशुक्लकृष्णां इत्यत्र किमजाशब्देन प्रधानमुपदिश्यते उत तेजोऽवन्नात्मिका छान्दोग्यसिद्धा अवान्तरप्रकृतिरथवा चिच्छक्तिर्वेति सन्दिह्यते | इह न जायत इत्यजा सांख्यसिद्धप्रकृतिरेव सत्त्वरजस्तमोगुणात्मकत्वेन लोहितशुक्लकृष्णा च भवति | एतद्गुणसाम्यावस्था प्रकृतिरेवात्रोपदिश्यते | नन्वजाशब्दस्य छागे मुख्यत्वात्तत्परत्वं किं न स्यादिति चेन्न विद्याप्रकरणात् | वह्वीं प्रजां जनयन्तीं इत्यादिबहुप्रजाजनकत्वस्य लोहितशुक्लकृष्णवर्तात्मकत्वस्य च तस्या असम्भवात् | उत अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः | इत्यत्र बद्धजीवस्य जननमरणप्रवाहसंसारभोगविशिष्टत्वेन सुखदुःखानुभूतिमत्वस्य तदतिरिक्तस्य मुक्तजीवस्य कृतभोगविवेकेन मायापाशनिवृत्तेश्च दर्शनात् जीवातिरिक्तव्यपदेशादजा प्रधानमेवात्रोपपद्यते | तस्मान्नाशब्दं प्रधानम् | अतः प्रधान जगत्कारणत्वस्य श्रुतिसिद्धत्वेन कापिलं वैदिकमिति प्राप्ते -
SK
ब्रूमः - न प्रधानसापेक्षत्वेन प्रतिपत्तिरस्ति कस्मात् अविशेषात् | न जायत इत्यजा इत्यन्यत्रापि योजयितुं शक्यम् | लोहितत्वादिरूपस्यान्यत्राप्यर्थे समवेतत्वात् येन केनचित् कल्पनेन सर्वेष्वप्यजात्वादिसंग्रहणोपपत्तेः कापिलवाद एवात्रोपदिश्यत इति विशेषावधारणहेत्वभावाच्च | चमसवत् यथा हि अर्वाग्विलश्चमस ऊर्ध्वबुध्नः इत्यस्मिन् मन्त्रे अयं चमस इति ज्ञातुं न शक्यते | यथाकथंचिदर्वाग्बिलत्वादेरन्यत्रापि सम्भवात् | एवमजामन्त्रेऽपि न प्रधाननिर्णयः | तस्मादशब्दं प्रधानम् | कारणत्वाधिकरणम् || ४ || अथ परमशिवस्य पञ्चमहाभूतकारणत्वनिरूपणम् आत्मन आकाश इति श्रुतौ आकाशमात्रस्य ब्रह्मजन्यत्वप्रतिपादनाद्ब्रह्मणः पञ्चमहाभूतकारणत्वमनुपपन्नमित्याशंक्याह - १२१. कारणत्वेन चाकाशादिषु तथा व्यपदिष्टोक्तेः || १४ || पादत्रयेण प्रतिपादितस्य परशिवब्रह्मसमन्वयस्याक्षेषसमाधानार्थमिदमारभते | ननु उक्तसमन्वयो न सम्भवति | वेदान्तेषु परस्परविरोधेन प्रामाण्यस्यैव दुस्तरत्वात् | तथा हि आत्मन आकाशः सम्भूतः इति तैत्तिरीये | तत्तेजोऽसृजत इति | छान्दोग्ये | स इमान् लोकानसृजत | अम्भोमरीचीर्मरमापो एतस्माज्जायते प्राणः इति मुण्डके | एवं परस्परविरोधः | कारणस्वरूपेऽपि सदेव सौम्येदमग्र आसीत् इति | आत्मा वा इदमेक एवाग्र आसीत् इत्यैतरेये | तस्मान्न युक्तस्समन्वयः इति प्राप्ते -
SK
ब्रूमः - कार्यविषयं विगानमक्रमादि प्रयुक्तं न वियदश्रुतेः इत्यादिना क्रमद्वारकं परिहरिष्यति सूत्रकारः | अत्र तु न कारणे तावद्विगानमस्तीत्युच्यते | च शब्दस्तु समानार्थकः शङ्कानिरासं वक्ति | आकाशादिषु परमेश्वरकार्यत्वे विरोधो नास्ति कस्मात् यथाव्यपदिष्टोक्तेः | आकाशादिषु यथाभूत ईश्वरः एकस्मिन् वेदान्ते सर्वज्ञः सर्वेश्वरः कारणत्वेन व्यपदिष्टः तथाभूतस्यैव शाखान्तरेऽप्युक्तेर्न विगानमित्युषदिश्यते | बहुस्यां इति चेतनस्य परमात्मनः सर्वविकारकारणत्वमभाणि | तदिदं सर्वमसृजत यदिदं किञ्च इति विश्वकारणत्वेन सृष्टेः पूर्वं स्रष्टारमुपदिशति | यदा तमः - शिव एव केवलः इति शिवशब्दवाच्यं वस्तु कारणत्वेन जगत्पूर्वभावि ब्रह्मेत्याचक्ष्यते | यल्लक्षणं ब्रह्म हेतुत्वेन विज्ञातम् तल्लक्षणम्व ब्रह्म उपनिषदन्तरेऽपि श्रूयते | एकमेवाद्वितीयं आत्मा वा इदमेक एव इत्याद्युपनिषत्सु सर्वकारणत्वस्य परमेश्वर परम् ब्रह्म वेद ब्रह्मैव भवति इत्यादिषु संसारदशायां जीवब्रह्मणोर्भेदः मोक्षदशायामभेदश्च प्रतिपाद्यते | ननु भेदाभेदयोस्तमःप्रकाशवत्परस्परविरुद्धस्वभावत्वात्तयोरेकः पक्षः सिद्धान्तत्वेन निर्णेतव्यः इति चेन्न श्रुत्येकदेशप्रामाण्ये मानाभावात् | एकपक्षस्वीकारे परस्परश्रुत्यप्रामाण्यप्रसङ्गाच्च | सुप्तिप्रबोधवत्तमस्सत्त्ववद्वह्निसलिलवत्तमःप्रकाशवद्विरोधो न विभाव्यः | भेदाभेदयोः परस्परविरोधाङ्गीकारस्तु वस्तुविरोधाद्वा कारणाभावाद्वा अयुक्तत्वाद्वा अभावाद्वा अमानाद्वा अफलाद्वा अमताद्वा अविशेषाद्वा श्रुत्येकत्वाभावाद्वा
SK
नाद्यः - यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् इत्यादौ द्वैताद्वैतात्मकप्रपञ्चब्रह्मणोराधाराधेयत्वम् तमेव भान्तमनुभाति सर्वम् इत्यादौ भास्यभासकत्वम् | समस्तसाक्षिं तमसः परस्तात् इत्यादौ साक्ष्यसाक्षित्वम् तत्सृष्ट्वा तदेवानुप्राविशत् इत्यादौ जगत्कारणत्वं तदनुप्रविष्टत्वं च दृष्टम् उत जीवे ज्ञानाज्ञानानुभववत्वम् प्रकृतौ गुणत्रयात्मकत्वम् विकृतौ लोकत्रयावस्थात्रयात्मकत्वम् काणादे प्रपञ्चस्य नित्याऽनित्यत्वम् पृथिवीवाय्वोरनुष्णाशीतत्वम् महेश्वरस्यार्धनारीश्वरत्वम् लक्षणायां जहदजहत्त्वम् सांख्याद्वैतमतेषु साक्षिरूपस्य सगुणनिर्गुणात्मकत्वम् मानुषे पुण्यपापोभयविशिष्टत्वम् खद्योतस्य प्रकाशाप्रकाशत्वं इत्येतेषां दर्शनात् | न द्वितीयः - यदा तमः इत्यादिषु सृष्टेः प्रागपि स्वप्रकाशस्य परमेश्वरस्य तमःप्रकृतिविशिष्टत्वम् यतो वा इमानि इत्यादौ अद्वैतस्य शिवस्य द्वैतजगज्जन्मादिहेतुत्वम् | परास्य शक्तिर्विविधैव इत्यादिना धर्मधर्मिणोरिव मणिप्रकाशयोरिव स्वाभाविकशक्तिवैशिष्ट्यं तदभावे सृष्ट्यभावः सूच्यते | गगनारविन्दशशशृङ्गवन्मायाप्रपञ्चयोर्मिथ्यात्वाङ्गीकारे मम माता वन्ध्या इतिवत् प्रत्यक्षविरोधो दुर्निवारः | उत द्वासुपर्णा इत्यादौ जीवब्रह्मणोर्भेदव्यपदेशात् तत्त्वमस्यादिश्रुतिशतेषु अभेदव्यपदेशाच्च भेदाभेदस्वीकारो युक्तः | एकपक्षस्वीकारे श्रुतिसङ्कोचापत्तिः | न तृतीयः - एषोऽणुरात्मा चेतसा वेदितव्यः एषोऽणुजीवो हृदये सन्निविष्टः वालाग्रशतभागस्य शतधा कल्पितस्य च | जीवो भागः आकाशवत्सर्वगतो निरंशः महान्तं विभुमात्मानं मत्वा धीरो न शोचति अन्तःपूर्णो वहिःपूर्णः पूर्णकुम्भ इवाम्भसि | अन्तःशून्यो बहिश्शून्यः शून्यकुम्भ इवाम्बरे ||
SK
तदादिमध्यान्तविहीनमेकं विभुं विदानन्दमरूपमद्भुतं इत्यादौ जीवब्रह्मणोश्चिदेकत्थव्यपदेशेऽपि अणुत्वविभुत्वात्मकपरस्परविरुद्धपरिमाण- sarpatvenaikatve'pi hrasvatvadīrghatvātmakaparasparaviruddhaparimāṇavatvam yathā sūryaprabhāyā prabhāśrayasūryamaṇḍalasya ca tejastvāt tejastvenaikatve'pi vyāpakatvaparicchinnatvātmakaparasparaviruddhadharmavatvaṃ evaṃ saṅkucitavistṛtapaṭādidṛṣṭāntānurodhenāpi bhedābhedasya siddhatvāt | na caturthaḥ - vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta tadananyatvamārambhaṇaśabdādibhyaḥ iti śrutisūtreṣvanyonyavilakṣaṇabrahmaprapañcayoḥ kāryakāraṇayoḥ mṛttikādidṛṣṭāntena bhedābhedavyapadeśāt tathā atharvaśirasi nānyaḥ kaścinmatto vyatiriktaḥ ityārabhya jyotirityahamekassarve cāhameva māṃ yo veda sa sarvānveda iti prathamakhaṇḍe yo vai rudraḥ sa bhagavān yaśca brahmā yaśca viṣṇuḥ ityupakramya brahmaviṣṇukālarudrādikāryajātasya prapañcasya kāraṇaśivādabhinnatvaṃ dvitīyakhaṇḍe nirṇītam | sa brahmā sa śivaḥ sa harissendraḥ sa eva viṣṇuḥ sa prāṇassakālo'gniḥ sa eva sarvaṃ yadbhūtaṃ yacca bhavyam ṛtaṃ satyaṃ iti kaivalyataittirīyādau ca kāryaprapañcasya kāraṇaparaśivābhinnatvavyapadeśāt | na pañcamaḥ - brahma veda brahmaiva bhavati ityādau brahmaṇaḥ pṛthagbhūtasya jīvasya tadupāsanadvārā tadātmakatvadarśanādbhedābhedayoḥ prāmāṇyamaviruddham | na ṣaṣṭhaḥ - māyāntu prakṛtiṃ vindyānmāyinantu maheśvaram etasmājjāyate prāṇo manassarvendriyāṇi ca vidyāvidye īśate yastu yo'nyaḥ ityādiṣu dvaitādvaitātmakaprapañcaparamātmanorniyānyaniyāmakatvasyāvirodhatayā darśanāt | na saptamaḥ - dhyānanirmathanābhyāsāt pāśaṃ dahati paṇḍitaḥ satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam ityādiṣu dhyānadhāraṇādidvaitakarmānuṣṭhānadvārā paramādvaitaparamaśivatvaprāptiphaladarśanāt |
SK
ननु द्वैतकर्मणामद्वैतब्रह्मप्राप्तिहेतुत्वे किमनेन निगमान्तशास्त्रविचारप्रयासेनेति चेन्न फलाभिलाषारहितकर्मणां दुरितक्षयद्वारा स्थूलारुन्धतीन्यायेन ब्रह्मप्राप्तिहेतुत्वात् | तथा च स्मृतिः - यस्यैतेऽष्टाचत्वारिंशत्संस्कारा इत्यारभ्य स ब्रह्मणस्सायुज्यं सालोक्यं गच्छति इत्यन्तेत गर्भाधानादिकर्मणां पापक्षयद्वारा ब्रह्मप्रापकत्वोपदेशात् | अत आराधनरूपकर्मणां आराध्यरूपपरमेश्वरस्य च प्राप्यप्रापकत्वे अविरोधः | न च सर्व एते पुण्यलोका भवन्ति | इति श्रुत्युक्ताश्रमफलविरोधः | सकामानुष्ठितकर्मणां फलस्वातन्त्र्येऽपि निष्कामानुष्ठितकर्मणामाणवादिमलत्रयनिर्मुक्तपरमप्रुषार्थोपपत्तेः | नो चेत्कर्मानुष्ठानाभावे चित्तशुध्यभावः | तदभावे ज्ञानानुत्पत्तिः | तदभावेऽनिर्मोक्षप्रसङ्गः | तस्मात्पूर्वोक्तमेव विद्वद्रमणीयम् | नत्वष्टमः - साङ्गवेदवेदान्तविमुखकुतर्ककर्कशवादवारणाय सर्वज्ञशिखामणिना भगवता व्यासेन चतुर्थाध्यायचतुर्थपादे अभावं वादरिः भावं जैमिनिः इति सूत्रद्वयेन द्वैताद्वैतात्मकमतद्वयं श्रुत्येकदेशप्रामाण्यात्परमतत्त्वेन प्रदर्श्य द्वादशाहवदुभयविधं बादरायणोऽतः इत्यनेन सर्वशास्त्रार्थसारभूतस्वाभिप्रेतस्य भेदाभेदमतत्वेन व्यपदेशात् | न च नवमः - द्वैतमते नदीसमुद्रवत्पुनरावृत्तिरहितब्रह्मैकत्वप्राप्त्यसंभवात् | अद्वैतमते सगुणब्रह्मत्वमीश्वरत्वं च रज्जुसर्पवत्कल्पितमिति सिद्धान्तेन भक्तिशास्त्राणां विधिनिषेधव्यवस्थापकवेदशास्त्राणां पुराणागमादीनां च दत्तजलाञ्जलित्वप्रसङ्गात्पूर्वोक्तमतद्वयं न विधेयम् | अनीशया शोचति मुह्यमानः ब्रह्मवित् ब्रह्मैव भवति इत्यादौ
SK
मायाबद्धत्वेन जीवस्य दुःखभोक्तृत्वं परमशिवज्ञानेन तस्य तदात्मकत्वं च निर्णीयते | तथा कैवल्ये - उमासहायं इत्यारभ्य तमसः परस्तात् इत्यन्तेन सगुणेश्वरभक्तिध्यानोपासनद्वारा निर्गुणसाक्षिब्रह्मप्राप्त्युपदेशात्सर्वमतापेक्षया अस्मिन् मते भक्तिक्रियाज्ञानात्मककाण्डत्रयसमग्रसद्भावेन सरित्सागरवत्सायुज्यनिर्देशादुभयश्रुत्यनुगमाच्च भेदाभेदयोरविरोधः | न चाद्वैतमतेऽपि भक्तिक्रियाज्ञानादयो दृश्यन्त इति वाच्यम् | असति कल्पिते अविद्येश्वरे कृत्रिमसालग्राम इव भक्तिश्रद्धाविश्वासाः कस्य वा भवेयुः रज्वारोपितसर्पवत्कल्पितेश्वरः सर्वकर्माराधितत्वेन कथं वा सर्वाभीष्टफलप्रदाता भवेत् नापि दशमः - यथा व्रीहिप्रोक्षणं दर्शपूर्णमासोत्पत्त्यपूर्वकारणत्वेन स्वर्गे समुच्चीयते तथा ध्यानधारणादिसर्वकर्माणि मुक्तिप्रयोजकत्वेन सविशेषाद्वैतब्रह्मणि समुच्चीयन्ते | तस्मादाघारदर्शपूर्णभासवदङ्गाङ्गित्वेन पञ्चप्रयाजवदेकाङ्गिप्रयुक्तानेकाङ्गत्वेन गोदोहनादिवदधिकारान्तरप्रयुक्त्युपजीवित्वेन षड्यागवत्फलैक्येन वा सर्वथानिर्बाधकत्वेन भेदाभेदसमन्वयः सिद्धः | द्वासुपर्णा इति मन्त्रे विद्याऽविद्यावच्छिन्नशिवजीवयोः साहचर्यश्रवणात् शुद्धाऽद्वैतमतस्थानामविरोधितया अद्वैतब्रह्मणि द्वैतप्रपञ्चस्वीकाराद्भेदाभेदयोर्न चैकत्र विरोधः | न चोभयपरत्वे विरोधः | समिधो यजतीति वाक्यानां पञ्चप्रयाजतदनुष्ठानयोः विधायकत्वात् करणतया स्वतन्त्रविध्यन्तररहितस्य सौत्रामणिबृहस्पतिसवादेरग्निचयनवाजपेयाद्यङ्गत्वेन तदुभयबलादुभयसिद्धिवत् आत्मा वारे द्रष्टव्यः इत्यादौ वेदान्तानां ब्रह्मप्रमापकत्वब्रह्मज्ञानविधायकत्वयोरुभयोरपि सम्भवाच्च | अथातो ब्रह्मजिज्ञासा इत्यादिप्रत्यधिकरणं पूर्वाक्षसिद्धान्तवद्भेदाऽभेदोभयद्योतनात् |
SK
किञ्च - द्वादशाहयज्ञदृष्टान्तेन तदुभयं विधेयमिति स्वमतं प्रदर्श्य सन्ध्यवदुपपत्तेः इत्यत्र सन्धिकालदृष्टान्तेन तदुभयसिद्धान्तस्थापनाद्भेदाभेदप्रधानकाशकृत्स्नमतमेव मुख्यसिद्धान्त इति घण्टाघोषः | य आत्मनि तिष्टन् इत्यादौ विज्ञानात्मनि परमात्मावस्थानव्यपदेशाज्जीवब्रह्मणोर्भेदस्सिद्ध इति मध्यवाक्यप्रमाणमादाय आश्मरथ्यः तत्त्वमस्याद्यभेदश्रुतिविरोधं सादृश्येन वारयति | औडुलोमिस्तु नेहनानास्तिकिञ्चन इत्यादि वाक्यप्रमाणमादादय रज्जुसर्पवदद्वैतब्रह्मण्यविरोधतया द्वैतप्रपञ्चभानमुपदिशति | काशकृत्स्नस्तु सर्ववेदान्तपूर्वापरमध्यपरामर्शविचारबुध्या षड्विधतात्पर्यलिङ्गैः भेदाभेदमेव मनुते | एतदेव मुख्यवेदान्तिमतमिति वेदितव्यम् | प्रकृत्यधिकरणम् || ७ || जगद्ब्रह्मणोः भेदाभेदत्वप्रतिपादनम् एवं जीवब्रह्मणोरविरुद्धतया भेदाभेदं प्रतिपाद्य जगद्ब्रह्मणोर्भेदाभेदमाह - १३०. प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् || २३ || तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः द्यावापृथिवी जनयन्देव एकः ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते स ईक्षत बहु स्यां इत्यादिवाक्यान्यस्य विषयः | जन्माद्यस्य यतः इति सूत्रे जगत्कारणत्वं ब्रह्मणो लक्षणमित्युक्तं तत्र विचार्यते |
SK
यद्यपि - जन्मादिसूत्रानन्तरमेतस्य प्रतिपादनं युक्तम् तथापि षड्विधतात्पर्यलिङ्गबोधकैर्वेदान्तैर्निमित्तत्वमात्रसाधकानुमितेविरोधोत्तेः सुवचत्वात् समन्वयावसाने लिखितमिदमधिकरणमिति बोध्यम् | न च जन्माधिकरणस्य वैय्यर्थ्यम् | अत्र ब्रह्मणः कुलालादिबन्निमित्तत्वमेवोपदिश्यते | स ईक्षाञ्चक्रे इत्यादावीक्षणपूर्वकजगत्कर्तृत्वदर्शनात् मृत्पिण्डकुलालादेरन्योन्यवैलक्षण्यद्योतनात् परमेश्वरस्योपादानकारणत्वे मृदादिवद्विकारित्वप्रसङ्गाच्च न चैकस्वोभयकारणत्वं सम्भवति | घटपटादिनिर्मा.ए कुलालकुविन्दादीनां तत्परिणामित्वादर्शनात् लोके कार्यानात्मकहेतुमूला च क्रियाफलसिद्धिः प्रतिभाति | जगत्कारणस्य मृदादिवत्परिसंक्रमेण ईश्वरत्वभङ्ग निष्प्रयोजनत्वं च | अतः परमेश्वरस्य निमित्तकारणत्वं विज्ञायते | उत - निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं इत्यादौ निर्गुणस्य परब्रह्मणः कार्यकारणत्वनिषेधात् रज्जुसर्पवत्स्वस्वरूपापरित्यागपूर्वकपरस्वरूपभावात्मकविवर्तकारणत्वं वा भाव्यते नोचेत्कारणस्य परशिवब्रह्मणः कार्यात्मकजगन्निष्ठसावयवत्वमपरिशुद्धत्वमचेतनत्वं च सम्भवेत् | तस्मादेकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः गौणत्वम् | जगत्कारणत्वविधायकश्रुतीनां निमित्तमात्रत्वं विवर्तकारणत्वं वाभ्युपगन्तव्यमिति प्राप्तेऽभिधीयते -
SK
अत्र परशिवस्य जगदुभयकारणत्वमेवाभिहितम् | यथोर्णनाभिः इत्यादिश्रुतिशतेष्वभिन्ननिमित्तोपादानकारणत्वस्य दृष्टान्तमुखेन दर्शनात् | केवलनिमित्तत्वाङ्गीकारे कारणव्यवस्थापनं जगदधिष्ठानत्वं च नोपदिश्येत | प्रकृतिश्च ब्रह्म चकारान्निमित्तस्वमपि सूचितम् | कुतः प्रतिज्ञादृष्टान्तानुपरोधात् अभिन्ननिमित्तोपादानकारणत्वेनैव प्रतिज्ञादृष्टान्तश्रुतिसमन्वयात् | प्रतिज्ञादृष्टान्तयोरनुपरोधोऽविरोधः सामञ्जस्यं तस्मादित्यर्थः | उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं इति प्रतिज्ञा | अत्र चैकविज्ञानेन सर्वविज्ञानमुपदिश्यते | तच्चोपादानत्व एव सम्भवति | उपादानोपादेययोरव्यतिरेकात् उपादानात्मकज्ञानेन सर्वज्ञानसम्भवात् निमित्तोपादानयोर्भेदे सति रथगोपुरप्रासादादिवदेकविज्ञानेन सर्वविज्ञानविरोधात् | दृष्टान्तस्तु - यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्युपादानविषय एव दृश्यते यथैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यादिति तथैवान्यत्रापि कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति प्रतिज्ञा | यथा पृथिव्यामोषधयस्सम्भवन्ति इति दृष्टान्तः | आत्मनि स्वल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् इति प्रतिज्ञाय स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा इति दृष्टान्तः | शक्तिविशेषविशिष्टशिवाद्वैतपदनिर्देशः
SK
किञ्च - यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुत्यनुगतजन्माधिकरणे शक्तिविशेषविशिष्टशिवाद्वैतं सूत्रकारेण सूचितम् निर्विशेषस्य ब्रह्मणः कार्यकारणत्वासम्भवात् | विवर्तोपादानकारणत्वं तद्विधायकप्रात्यक्षिकश्रुत्यदर्शनात् प्रतिज्ञादृष्टान्तश्रुतिविरोधाच्च मुमुक्षुभिर्न परिग्राह्यम् | यतो वा इमानि इत्यत्र परमेश्वरशक्तेरेव जगदुपादानकारणत्वं परमेश्वरस्य निमित्तत्वं च सूचितम् तथापि मृत्पिण्डकुलालयोरिव न पृथक्त्वम् | पराऽस्य शक्तिर्विविधैव श्रूयते इति श्रुतौ परमेश्वरनिष्ठमायाशक्तेर्वह्नौ दाहशक्तिवत्स्वाभाविकत्वनिर्देशात् | तस्मात्सर्वदा न निर्विशेषं ब्रह्मेति निश्चितम् | ब्रह्मणः - निर्विशेषत्व-सविशेषत्वनिरूपणम् निर्विशेषत्व-केवलनिमित्तत्वे निराकरोति - १३१. अभिध्योपदेशाच्च || २४ || परशिवे ब्रह्मणि कर्तृत्वस्योपादानत्वस्य च निर्देशात् सोऽकामयत इति कामनया ब्रह्मणि कर्तृत्वेन निमित्तत्वम् बहुस्यां इत्यनेनोपादानत्वं च गम्यए | तस्मात् ब्रह्मणः निर्विशेषत्वं निमित्तमात्रत्वं च न सम्भवति | अथ परमशिवस्य उभयकारणत्वप्रतिपादनम् १३२. साक्षाच्चोभयाम्नायात् || २५ || ननु विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमानं इति श्रुतौ परमेश्वरः स्वेच्छया जगत्सृष्टिकर्तारं हिरण्यगर्भं सृष्ट्वा कृपया पश्यतीति श्रवणात्कथं तस्य विश्वोपादानत्वमुपपद्यते ! मायान्तु प्रकृतिं विन्द्यात् इत्यादौ प्रधानस्योपादानत्वमाम्नायते तस्माद्विराडजायत | विराजो अधिपुरुषः || इत्यादौ प्रकृतित्वं दृश्यते | प्रकृतिवाचकत्वेन विश्वोपादानत्वं प्रधानस्यैवेत्याशङ्क्य निराकरोति -
SK
साक्षात्प्रात्यक्षिकवेदान्तेषु शिवस्य ब्रह्मणः जगदुभयकाणत्वमाम्नायते | सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति इति प्रभवप्रलयहेतुत्वेन निमित्तोपादानकारणत्वं तस्य प्रसिद्धम् | श्रुत्यन्तरेऽपि ईशानः सर्वविद्यानां इत्यादौ निमित्तत्वम् | सर्वो वै रुद्रः इत्यादिना प्रकृतित्वात्प्रपञ्चस्वरूपत्वेन उपादानत्वं च स्मर्यते | तथा शतरुद्रीये नमो हिरण्यबाहवे इत्यारभ्य कुलुञ्चानां पतये इत्यन्तेन जगदीश्वरत्वम् | ततः नमः पर्ण्याय च पर्णशद्याय च इत्यन्तेन विश्वात्मकत्वं च व्यपदिश्यते | श्रुत्यन्तरे च - ब्रह्मवनं ब्रह्म स वृक्ष आसीत् ब्रह्माध्यतिष्ठद्भुवनानि धारयन् इत्युभयप्रतीतिः | अथर्वशिरसि अहमेकः प्रथममासं इत्यारभ्य प्रथमद्वितीयखण्डयोस्सर्वजगदात्मकत्वस्य विश्वाधिपतित्वस्य च प्रत्यक्षेणोभयान्मानात् जगदुभयकारणत्वं परमेश्वरस्य सिद्धम् | पुनर्हेत्वन्तरमाह - १३३. आत्मकृतेः परिणामात् || २६ || इतश्च निमित्तोपादानत्वे ब्रह्मणः | आत्मनः सम्बन्धिनी कृतिरात्मकृतिः कर्तृत्वसाधारण्येनात्मकृतेर्दर्शनात् तदात्मानं स्वयमकुरुत इत्यात्मशब्दवाच्यस्य परमेश्वरस्य स्वयमिति कर्तृत्वं आत्मानमिति कर्मत्वं चेति कर्मत्वेनोपादानसिद्धिः | ननु पूर्वसिद्धस्य शिवस्यात्मनः कथं कृतिकर्मत्वमित्याशङ्क्याह - परिणामात् निरतिशयानन्दस्वभावस्य निर्लेपस्यानन्तकल्याणगुणाकरस्य निमित्तकारणभूतस्य महेश्वरस्य प्रकृतित्वेन विश्वात्मकत्वं न विरुध्यते चेतनाचेतनात्मकप्रपञ्चाकारेण परिणादिमात् |
SK
ननु दधिक्षीरवत्स्वस्वरूपपरित्यागपूर्वकरूपान्तरप्राप्तिरेव परिणामः | नित्यशुद्धस्य महेश्वरस्य परिणामित्वेन स्वरूपनाशित्वं विकारगुणप्रसङ्गश्च स्यादिति चेन्न निमित्तभूतस्योपादानत्वेऽपि न विकारादिस्पर्शः परमेश्वरमायाशक्तेः जगद्रूपेण परिणामित्तैव परमेश्वरस्य निमित्तकारनत्वस्य च प्रतिपादनात् मायां तु प्रकृतिं विन्द्यात् इत्यादौ स्वाभिन्नमायायाः नियम्यत्वस्य परमेश्वरस्य नियामकत्वस्य च श्रवणात् विश्वोभयकारणत्वं नान्यस्येति सिद्धम् | पुनर्हेत्वन्तरमाह - १३४. योनिश्च हि गीयते || २७ || इतोऽपि परमेश्वर एव प्रकृतिः | हि यस्माद्योनिरिति पठ्यते यद्भूतयोनिं परिपश्यन्ति धीराः कर्तारमीशं पुरुषं ब्रह्मयोनिं ध्यात्वा मुनिर्गच्छति भूतयोनिम् इत्यादौ प्रकृतिपर्याययोनिशब्देन परमेश्वरोऽभिधीयते | तस्मादुपादानत्वं निमित्तत्वं च परमेश्वरस्यैव सिद्धम् | योनिशब्दस्य प्रकृतिपर्यायत्वं लोके दृश्यते | पृथिवी योनिरोषधिवनस्पतीनां इति | स्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानत्वम् अन्यत्र योनिशब्देन स्थित्यधिकरणमपि दृश्यते | योनिष्ट इन्द निषदे अकारि इति | वाक्यशेषादत्र प्रकृतिपर्यायत्वम् ज्ञायते तथापि यथोर्णनामिस्सृजते गृह्णते च इत्यादावुपादानकारणत्वं शिवस्यैव दृश्यते | तस्मादविरोधः | सर्वव्याख्यानाधिकरणम् || ८ || अथ भेदाभेदप्रधानविशेषाद्वैतमतस्य परमशिवे समन्वयः १३५. एतेन सर्वे व्याख्याता व्याख्याताः || २८ ||
SK
छान्दोग्ये षष्ठे श्वेतकेतुं प्रत्युद्धालकवाक्यमस्य विषयः | न्यग्रोधफलं आहरेति इदं भगव इति मिन्धीति भिन्नं भगव इति किमत्र पश्यसीति अण्व्य इवेमाधाना भगव इति आसामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति न किञ्चन भगव इति | एतस्यैव सोम्यैषोऽणिम्नो महान्न्यग्रोधस्तिष्ठति इति कर्मब्रह्मबोधकवेदवेदान्तानां षड्विधतात्पर्यलिङ्गैः षट्स्थलपरशिवप्रतिपादकत्वमुत शारीरप्रतिपादकत्वं वा परमाणुवादपरत्वं वेति संन्दिह्यते | विश्वाधिको द्ररु इत्यादौ परमेश्वरस्यैव विश्वाधिकत्वोपदेशात्तस्य विश्वानुगतवेदान्त प्रमाणविषयत्वं न सम्भवति | पूर्वोक्त कर्मप्रकरणपठितशतरुद्रीयादीनां जीवविषयत्वमेव युक्तम् परमेश्वरपरत्वे प्रकरणप्रयोजनविरोधात् | स्मृत्यागमादीनां तु नानादेवताविषयत्वाच्च | उत - ईक्षतेर्ना शब्दम् इत्यादिना प्रधानवादस्य निराकृतत्वेऽपि पुनःछान्दोग्ये सूक्ष्मतत्त्वे स्थूलजगदन्तर्भावप्रतिपादकवचनदर्शनादणुस्वभावासत्कार्यवादो युक्तः | न्यग्रोधफलमत आहर इत्यारभ्य न्यग्रोधस्तिष्ठति इत्यन्तेन विश्वप्रागवस्थादृष्टान्तः श्रूयते | तत्र दृष्टान्ते न किञ्चन इत्यणुशब्दश्रवणाच्छून्यस्वभावाणुवादो दार्ष्टान्तिकत्वेन प्रतिभाति | तस्मात्सर्वथा वेदान्तानां ब्रह्मपरत्वं न सम्भवतीति प्राप्ते - ब्रूमः - नानादेवतापरत्वेऽपि वेदान्तानां मुख्यवृत्या लक्षणाया अतद्व्यावृत्या च परशिवब्रह्मप्रमापकत्वं भवति | तं त्वौपनिषदं पुरुषं पृच्छामि सर्वे वेदा यत्पदमामनन्ति नावेदविन्मनुते तं बृहन्तं इत्यादिश्रुतिशतेषु गतिसामान्यन्यायेन सर्ववेदान्तानां ब्रह्मप्रतिपादकत्वव्यवस्थापनात् | कर्मप्रकरणपठितत्वेऽपि पुरुषसूक्तशतरुद्रीयादीनां नान्यपरत्वम् | लिङ्गेन प्रकरणबाधो न वार्यत इति न्यायेन लिङ्गेन प्रकरणबाधो युक्त एव |
SK
पशूनां पतये वृक्षाणां पतये जगतां पतये तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय इत्यादिब्रह्मलिङ्गभूयस्त्वात् नान्यविषयत्वमत्र | किञ्च - वेदवेदान्तस्मृतिपुराणेतिहासादिषु यत्र यत्र जगत्कारणत्वादिधर्माः प्रतिपाद्यन्ते तत्र तत्र षट्स्थलपरशिवब्रह्मपरत्वमेवेति राद्धात्तः | किञ्च - श्रुतिस्मृत्यागमपुराणादीनामपि नानादेवतापरत्वेऽपि षड्विधतात्पर्यलि᳚गानुसारेण परमशिवे समन्वयात्सर्वं समञ्जसमेव | एतेनेत्यात्मविज्ञानेन स्वस्वरूपाभिव्यक्त्या सर्वविज्ञानेन सर्वं विदितं स्यादिति सर्वविज्ञानप्रतिज्ञाविओधेनैव परमाण्वादिपक्षाः निरस्ततया व्याख्याताः | परमाण्वादेः कारणत्वे चात्मविज्ञानेऽपि न सर्वं विदितं स्यादनुपादानत्वात् | तस्मात् न किञ्चन इत्यनेन नामरूपानभिव्यक्तिप्रतिपादकेन न विरोधः | सूक्ष्मत्वाच्चाणुत्वं ब्रह्मण्युपचरितम् | तस्माद्वेदान्तेषु ब्रह्मैव जगत्कारणं प्रतीयते | व्याख्याता व्याख्याता इति पदद्वयेन अध्याय परिसमाप्तिः सूचिता | एतेन सविशेषस्य ब्रह्मणः प्रपञ्चाभिन्ननिमित्तोपादानकारणत्वव्यवस्थापनेन न्यायवैशेषिकपाञ्चरात्रादिश्रुत्येकदेशप्रामाण्यवादभेदास्सर्वे एकतरमिथ्यात्ववादसर्वमिथ्यात्ववादप्रधानाभेदवादाश्च व्याख्याता व्याख्याता निराकृता इत्यर्थः | प्रतिज्ञादृष्टान्तलक्षणदृष्टान्त- samanvayaḥ | tasmāttadeva vaidikaṃ nānyaditi siddham | ityaṣṭamaṃ sarvavyākhyānādhikaraṇam iti śrīmannirābhāravīraśaivayativrajaparivṛḍha- श्रीकरभाष्ये समन्वयाभिधानस्य प्रथमाध्यायस्य चतुर्थः पादः प्रथमाध्यायस्समाप्तः अथ श्रीपतिपण्डितभगवत्पादाचार्यविरचिते ब्रह्ममीमांसासूत्र - श्रीकरभाष्ये द्वितीयाध्यायस्य प्रथमः पादः स्मृत्यनवकाशाधिकरणम् || १ || सांख्यस्मतिनिराकरणम्
SK
प्रथमाध्याये स्वाभाविकसर्वशक्तत्व-सर्वज्ञत्व-सर्वकारणत्व- sarvavedāntāvirodhitvena prasādhya vedāntaviruddhasmṛtitarkādinirākaraṇapūrvakaṃ jagajjanmādikāraṇatvaṃ tasyaiva darśayituṃ dvitīyādhyāyaṃ ārabhate | aśabdatayā jagajjanmādihetutvamīkṣatyadhikaraṇe pradhānasya nirākṛtamapi tajjagatkāraṇatve smṛtipramāṇamastītyāśaṃṅkyāha - smṛtyanavakāśadoṣaprasaṅga iti cennānyatsmṛtyanavakāśadoṣaprasaṃgāt || 1 || pradhānasya jagatkāraṇatvānaṅgīkāreṇa smṛtyanavakāśadoṣaprasaṅgaḥ - sāṃkhyādismṛtīnāmaprāmāṇyadoṣaprasaṅga iti cenna | śivasya brahmaṇaḥ jagatkāraṇatvānaṅgīkāre anyasmṛtīnāṃ manvādīnāṃ aprāmāṇyadoṣaprasaṅgāt | na ca vinigamakābhāvaḥ | vedamūlakamanvādismṛtīnāṃ prabalatvāt prāmāṇyam | vedaviruddhasāṅkhyādīnāṃ durbalatvāt aprāmāṇyamityarthaḥ | etadadhyāyasya prathamapāde smṛtitarkādivirodho nirākriyate | dvitīye tanmatānāṃ duṣṭatvaṃ pratipādyate | tṛtīye pṛthivyādikāra'tve śrutivirodhaḥ caturthe jīvaliṅgaśarīrabodhakaśrutivirodhaśca nirākriyate | ṛṣiṃ prasūtaṃ kapilaṃ yastamagre jñānairbibharti jāyamānaṃ ca paśyeta iti vākye kapilasya jñānātiśayitvena sarvotkṛṣṭatvadarśanāt | yadvai kiñca manuravadat tadbheṣajam iti śrutāvauṣadhavanmanuvākyasya mukhyavidheyatvanirdeśācca tayoḥ parasparavirodhadyotanāt | sāṅkhyādīnāṃ vā manvādīnāṃ vā prādhānyam upaniṣadvākyānāṃ sāṅkhyādismṛtyanusaraṇaṃ manvādismṛtyanusaraṇaṃ vā iti sandihyate | jagatkāraṇatvaparavedāntavākyāni pradhānasyaivopannāni - vedārtho yaḥ svayaṃ jñātaḥ tatrājñānaṃ bhavedapi | smṛtyāgamapurāṇaiśca vedārthaṃ grāhayedbudhaḥ || iti niyamāt | śrutismṛtipurāṇeṣvabhyudayaphalajanakadar᳚aspūrṇamāsa-soma- परमाप्तकपिलमहर्षिकृतनिश्रयेसफलसाधनभूतसांख्यस्मृत्यनपेक्षत- maharṣipraṇītapradhānakāraṇatvaparasāṅkhyasmṛtīnāmeva prādhānyamiti prāpte -
SK
ब्रूमः - ऋषिं प्रसूतं कपिलं इति श्रुतौ कपिलस्य ज्ञानाधिकत्वेन परमाप्तत्वव्यपदेशात् तत्स्मृत्यनुरोधेन वेदान्तार्थबोधो न्याय्य इति यत्तदयुक्तम् | तद्विष्णोरेकमुत्तमम् इत्यादिषु विष्णोरपि सर्वातिशायित्यसङ्कीर्तनात्तत्प्रणीतबुद्धपाञ्चरात्रागमानुसारेण वेदान्तार्थनिश्चयस्य प्रसंगात् | किञ्च - श्रुतिस्मृतिपुराणेष्वप्रतिहतज्ञाननिष्ठत्वेन बृहस्पतेस्सर्वाधिकत्वकथनात्तत्प्रणीतलोकायतस्मृत्यनुसारेण श्रुत्यर्थनिश्चयप्रसक्तिः स्यात् | किञ्च - नान्यत्स्मृत्यनवकाशदोषप्रसङ्गात् | आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् | अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः || ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् | महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः || योऽसावतीन्द्रियग्राह्यस्सूक्ष्मोऽव्यक्तस्सनातनः | सर्वभूतमयोऽचिन्त्यस्स एव स्वयमुद्बभौ || सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः | अप एव ससर्जादौ तासु वीर्यमवासृजत् || इत्यन्तेन तमोरूपमायाशक्त्या कालरुद्रस्य ब्रह्मादिसर्वकारणत्वमुपन्यस्तम् | यदा तमस्तन्न दिवा न रात्रिर्न सन्नचासच्छिव एव केवलः | तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी || मायान्तु प्रकृतिं विन्द्यात् मायिनन्तु महेश्वरम् | तस्यावयवभूतोत्थं व्याप्तं सर्वमिदं जगत् || यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै तṁहि देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये | हिरण्यगर्भं पश्यति जायमानं स नो देवः शुभया स्मृत्या संयुनक्तु | विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् | सर्वो ह्येष रुद्रः इत्यादिप्रत्यक्षश्रुतिसिद्धपरशिवकारणत्वदर्शनान्नानुमेयवेदमूलकसाङ्ख्यस्म् ऋतेः प्रामाण्यम् |
SK
किञ्च - सर्वे वेदा यत्पदमामनन्ति ध्यायीतेशानं प्रध्यायितव्यम् सर्वमिदं ब्रह्म विष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि चेन्द्रियाणि न कारणं कारणानां ध्याता ध्याता कारणन्तु ध्येयः | सर्वैश्वर्यसम्पन्नस्सर्वेश्वरश्शम्भुराकाशमध्ये शिव एको ध्येयश्शिवङ्करः सर्वमन्यत्परित्यज्य इत्यादि श्रुतिषु | कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते | इष्टापूर्तानि कर्माणि येनाचरति मानवः || शिवार्पणधिया कामान् परित्यज्य यथाविधि | अनुग्रहात्तेन शम्भोर्जायते सुदृढो नरः || ततो भीताः पलायन्ते विघ्नं हित्वा सुरेश्वराः | जायते तेन शुश्रूषाचरिते चन्द्रमौलिनः || शृण्वतो जायते ज्ञानं ज्ञानादेव विमुच्यते | बहुनात्र किमुक्तेन यस्य भक्तिश्शिवे दृढा || महापापोपपापौधैरपि ग्रस्तो विमुच्यते | इत्यादिशिवगीतादिबहुस्स्मृतिष्वपि परमपुरुषस्य शिवस्याराध्यत्वं श्रौतस्मार्तनित्यनैमित्तिकादिसर्वेषां कर्मणां तदाराधनभूतत्वं च प्रदर्शितम् | अपि च प्रधानक्षेत्रज्ञपतिर्गुणेशः क्षरं प्रधानममृताक्षरं हरः तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः इत्यादिश्रुतिषु तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम इति स्मृतिष्वपि प्रधाननियामकत्वं च तस्यैव स्मर्यते | श्रुतिस्मृतिविरोधे तु श्रुतिरेव बलीयसी | स्मृतिस्मृत्योर्विरोधे तु वेदानुसरणं वरम् || इत्यादिमीमांसान्यायदर्शनात् स्मृत्यनुसारिमन्वादिस्मृतीनामेव प्राधान्यमिति निर्दिष्टम् | गुणत्रयात्मकस्य जडस्य प्रधानस्य चेतनजीवाविर्भावहेतुत्वायोगेऽपि तत्सान्निध्यवशात्कापिलस्मृतिप्रसिद्धमहदहंकारादीनां कारणत्वमुपपन्नमित्याशङ्क्य निराकरोति - इतरेषाञ्चानुपलब्धेः || २ ||
SK
इतरेषामचेतनमहदहंकारादीनां चानुपलब्धेः आत्मन आकाशस्सम्भूतः एतस्माज्जायते प्राणः अक्षरात्सम्भवतीह विश्वम् इत्यादिश्रुतिस्मृत्यागमेष्वपि महदहङ्कारकारणत्वस्य परमशिव एव दर्शनाद्घटादिवदचेतनस्य प्रधानस्य महदादिकारणत्वं सर्वथा न सम्भवति | यद्वै किञ्च मनुरवदत्तद्भेषजम् इति श्रुतिप्रसिद्धानां मन्वादीनां जगद्भेषजभूतस्ववाक्यानामेव वेदान्तोपयोगित्वं युक्तम् | योगप्रत्युक्त्यधिकरणम् || २ || योगस्मृतिनिराकरणम् स्वतः प्रधानस्य जगदुपादानत्वाऽसम्भवेऽपि ईश्वरनियोगेन सम्भवतीत्याशङ्क्य तद्विधायकयोगमतं निराकरेति - एतेन योगःप्रत्युक्तः || ३ || साङ्ख्ययोगयोः स्वातन्त्र्यास्वातन्त्र्यभेदेऽपि हिरण्यगर्भस्मृतावपि प्रधानोपादानप्राधान्यनिर्देशात् | एतेन सांख्यस्मृतिनिराकरणेनैव योगस्मृतिरपि प्रत्युक्तः तिरस्कृतः इति सूत्रावयवार्थः | सर्वो वै रुद्रः सर्वं खल्विदं ब्रह्म ऐतदात्म्यमिदं सर्वं एकस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इत्यादिषु जगदात्मकत्वं ब्रह्मणो निर्दिष्टम् | तदुपादानत्वायोगे तदात्मकत्वायोगात् हिरण्यगर्भः समवर्तताग्रे इत्यादिषु हिरण्यगर्भस्य सर्वातिशयत्वस्मरणात् त्रिरुन्नतं प्राप्य समं शरीरं इत्यादिना श्वेताश्वतरादिश्रुतिशतेषु अभ्युदयनिःश्रेयसफलसाधनत्वेन योगविद्यायाः प्रपञ्चितत्वात् योगस्मृत्यनुसारेण प्रधानस्य प्रपञ्चोपादानत्वं उत ब्रह्मण इति संशयः | मृत्कुलालवत्प्रधानस्योपादानत्वमीश्वरस्य निमित्तत्वं युक्तम् | परमेश्वरस्य जगदुपादानत्वे मृदादिवद्विकारित्वविनाशित्वादिनानादोषभूयस्त्वं दुर्निवारम् | ननु - अभ्युदयनिःश्रेयसफलहेतुत्वेन स्मृतिपुराणेषु योगभूयस्त्वदर्शनात् | श्रुत्यर्थप्रकाशककामिकादिशैवागमेष्वपि प्राकृतवैकृतात्मक मन्त्र- kavāṭamudghāṭya mokṣadvāraṃ vicchedayet - maruto madhyasañcāre manaḥ sthairyaṃ prajāyate | sarvacintāṃ parityajya sāvadhānena cetasā || nirvikalpaprasannātmā prāṇāyāmaṃ samabhyaset ||
SK
मरुन्निरोधाभ्यसनं मनीषिणा इत्याद्युपनिषत्सु योगश्चित्तवृत्तिनिरोधः इत्यादिस्मृतिषु | यत्साख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते | सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः || इति भगवद्गीतायां च चित्तवृत्तिनिरोधकत्व-पापमोचकत्व- nirdeśāttadvidhāyakahiraṇyagarbhasmṛtyānuguṇyena vedāntārthaniścayo yukta iti cet - ucyate - yogasya śrutyāgamādiṣu dharmabrahmasādhanatvena manonirodhakatvena śiṣṭairācaritatvena ca prādhānye'pi tanniṣṭhapradhānopādānakatvaṃ nopapannam | saumya ekena mṛtpiṇḍena sarvaṃ mṛṇmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyaṃ ityekavijñānena sarvavijñānapratijñādṛṣṭāntasthāpakasarvavedāntavirodhāt | smṛtyāgamapurāṇeṣu yo'rthaḥ smṛtyā virudhyate | tantrārthassa tu vijñeyaḥ garhitaṃ vedavādibhiḥ | iti mīmāṃsānyāyadarśanāt | māyāntu prakṛtiṃ vindyāt māyinantu maheśvaraṃ | tasyāvayavabhūtotthaṃ vyātpaṃ sarvamidaṃ jagat || parāsyaśaktirvividhaiva śrūyate yatho'rṇanābhiḥ ityādiṣu abhinnanimittopādānakāraṇatvasya parameśvare nirdeśāt | parameśvarasyopādānatve mṛdādivadvikāritvādidoṣasaktiriti yaduktaṃ tadasat | jīvaśaktivatparameśvaraśakterupādānavikāritvāṅgīkārāt śaktasya parameśvarasyapariṇāmavikāritvādikaṃ nopapannam | kulālavannimittatvāṅgīkāre yatprayantyamisaṃviśanti ityādiśrutivirodho durnivāraḥ | tasmāt sāṃkhyasmṛtivat yogo nirākṛtaḥ | tadā sāṃkhyayogaśāstrayoḥ kā gatiriti cedvedāntāvirodhena sāṃkhyayogaśāstrasamanvayo yuktaḥ | na vilakṣaṇatvādhikaraṇam || 3 || paraśivabrahmaṇaḥ sarvavilakṣaṇatvādipratipādanam triguṇātītasyeśvarasya katha triguṇātmakajagatkāraṇatvamupapannamityāśaṅkyāha - न विलक्षणत्वादस्य तथात्वं च शब्दात् || ४ ||
SK
निर्गुणस्य ब्रह्मणः गुणत्रयात्मकस्य प्रधानस्य च विलक्षणत्वादस्य प्रधानस्यैव त्रिगुणात्मकचेतनाचेतनजगदुपादनत्वं सम्भवतीति चेन्न तथात्वं च शब्दात् तथात्वमुपादानत्वं च शब्देन निमित्तकारणत्वं च यथोर्णनाभिसृजते गृह्यते च | यथा पृथिव्यामोषधयः सम्भवन्ति | तथाक्षरात्सम्भवतीह विश्वम् इत्यादि वेदशब्दात्परमेश्वरस्यैव जगदुभयकारणत्वं संभवति | अजामेकां इति श्रुतौ परमेश्वरस्य जगत्कारणत्वानवगमात्सन्देहः | अस्यां श्रुतौ असंदिग्धतया गुणत्रयविशिष्टप्रधानस्य चेतनाचेतनकारणत्वं सूच्यते | लोके चेतनाच्चेतनोत्पत्तेरचेतनादचेतनोत्पत्तेश्च स्वधर्मत्वेन दर्शनात् | विश्वादिको रुद्रो महर्षिः प्रधानक्षेत्रज्ञपतिः इत्यादिषु जगन्नियामकत्वेऽपि तद्विलक्षणत्वं च प्रचक्ष्यते | मनुनापि - आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् | अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः || ततस्स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् | इति चतुर्मुखादीनामपि तमोभूतप्रधानहेतुत्वं प्रदर्शितम् | तस्मात्परमेश्वरनिमित्तकारणत्वमात्रप्रतिपादकयोगस्मृत्यनुसारेणैव वेदान्तार्थनिश्चयो युक्त इति चेत् - ब्रूमः - यथोर्णनभिःसृजते गृह्यते च इति श्रुत्या चेतनोर्णनाभौ अचेतनतन्तुपटोत्पन्तिः चेतनपुरुषादचेतनलोमनखोत्पत्तिश्चोपदर्शिता | अजामेकां इति श्रुतिनिष्ठप्रधानकारणत्वस्य ब्रह्मण्युपपत्तेः | मायान्तु प्रकृतिं प्रधानक्षेत्रपतिः इत्यादिषु प्रधाननियामकत्वं शिवस्यैवोपदिष्टम् | तस्मादचेतनत्वमलिनत्वानीश्वरत्वदुःखात्मकत्वचिदचिदात्मकत्ववत्प्रपञ्च- manusmṛtyuktapradhānaprakṛtikacaturmukhādikāraṇatvaṃ tajjaḍapradhānādhiṣṭhāneśvarasyaiva nirdiṣṭaṃ iti jñeyam | nanu nārāyaṇādbrahmā jāyate nārāyaṇādrudro jāyate ityādi śrutipurāṇeṣu caturmukhakāraṇatvasya nārāyaṇe upadeśāt | kiñca - āpo nārā iti proktā āpo vai narasūnavaḥ | tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||
SK
इति तदुत्तरत्र नारायणशब्दो विवक्षितः | तदुपसंहारे रुक्माभं स्वप्रधीगम्यं विन्द्यात्तं पुरुषं परम् इति हिरण्मयत्वादिधर्मांश्च तस्यैवोक्ताः | ध्येयस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासनसन्निविष्टः | केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः || विष्णोस्सकाशादुत्पन्नं जगदेतच्चराचरम् | अहं कृत्श्नस्य जगतः प्रभवः प्रलयस्तथा || अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते | नारायणो जगन्पूर्तिरनन्यात्मा सनातनः || इति विष्णुपुरादिषु जगज्जाम्मादिकारणत्वं च स्पष्टमुपदिष्टम् | अत एव मनुस्मृत्यभिहितहिरण्यगर्भादिजनकत्वं नारायणस्याभिप्रेतमिति चेत् - तदसत् | यदा तमस्तन्न दिवा न रात्रिः न सन्नचासच्छिव एव केवलः | तदक्षरस्तवितुर्वरेण्य प्रज्ञा च तस्मात् प्रसृता पुराणी || यो देवानां प्रथमं पुरस्तात् विश्वाधिको रुद्रो महषिः हिरण्यगर्भं पश्यत जायमानṁ यो ब्रह्मानं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै | तṁ हि देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये इत्यादिषु महानारायणश्वेताश्वतराद्युपनिषत्सु हिरण्यगर्भादिकारणत्वमसन्दिग्धतया शिवस्यैव सूचितत्वात् | किञ्च - ध्यायीतेशानं प्रध्यायितव्यम् सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते इत्यादिना अथर्वशिर-अथर्वणशिखादिषु बहुषुधा प्रपञ्चितम् | तथा वेदतुल्य भारते - आनुशासनिकपर्वणि - सोऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् | वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः || हृदये कालरुद्राख्यं जगद्विलयकारणम् | इति | तथा शैवपुराणेषु बहुधा प्रपञ्चितम् | प्रपञ्चोपशमं शान्तं शिवमद्विअतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इत्यादि | माण्डूक्यादिष्वपि मूर्तित्रयातीतत्वं कारणकारणत्वं तस्यैव प्रतिपादितम् | नारायणाद्ब्रह्मा जायते इत्यादिषु मूर्तित्रयकारणत्वस्य नारायणेऽद्दर्शनात् तदवान्तरसृष्टिविषयं इति वेदितव्यम् |
SK
त्रयस्ते कारणात्मानो जातास्साक्षान्महेश्वरात् | चराचरस्य विश्वस्य सर्गस्थित्यन्तहेतवे || पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु | ब्रह्मा सर्गे हरिस्त्राणे रुद्रस्संहरणे पुनः || तथाप्यन्योन्यमात्सर्यादन्योन्यातिशपार्थिनः | तपसा तोषयित्वा तं पितरं परमेश्वरम् || ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरेऽसृजत् | कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णूजगन्मयः || विष्णुश्च भगवांस्तद्ब्रह्माणमसृजत्पुनः | नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः || इति शैवे वायवीयसंहितायां अवान्तरकल्पभेदसृष्टिः प्रदर्शिता | मनुस्मृत्युपसंहारे - मनसीन्दुं दिशश्श्रोत्रे क्रान्ते विष्णुं बले हरम् | वाच्यग्निमिन्द्रमुत्सर्गे प्रजने च प्रजापतिम् || प्रशासितारं सर्वेषामणीयांसमणोरपि | रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् || इत्युपदिष्टम् | अणोरणीयानहमेव तद्वान् | महानहं विश्वमिदं विचित्रम् | पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि || नमौ हिरण्यवाहवे सेनान्ये दिशाञ्च पतये नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्गलिङ्गाय नमः नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्भिकापतये उमापतये पशुपतये नमो नमः ऋतं सत्यं पुरुषो वै रुद्रः तत्पुरुषाय विद्महे महादेवाय धीमहि | तन्नो रुद्रः प्रचोदयात् इत्यादिश्रुतिशतेषु शिवस्यैव हिरण्मयत्व पुरुषशब्दवाच्यत्वादि दर्शनात् | श्रुतिविरुद्धविष्णुपुराणवचनानां बौद्धाद्यागमादिवद्भ्रान्तिमूलकत्वाद्वेदोपबृंहणं न न्याय्यमिति वेदितव्यम् | मनुप्रणीततमश्शब्दस्य - अस्ति रुद्रस्य विप्रेन्द्रा अन्तस्सत्वं बहिस्तमः | इत्यादिपुराणसिद्धवहिस्तमोगुणविशिष्टकालरुद्रपरत्वमिति व्यवह्रियते | ते हे मे प्राणाः शब्दं अहं श्रेयसे विवदमानाः मृदबवीत् आपोऽब्रुवन् इत्यादिषु अचेतनपृथिव्यादीनां चैतन्ययोगः श्राव्यते | सरित्समुद्रपर्वतवृक्षादीनां अचेतनानामपि पुराणेषु चेतनत्वं पठ्यते | अतो ब्रह्मप्रधानयोर्न वैलक्ष्यण्यमित्याशङ्क्याह -
SK
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् || ५ || तु शब्दश्शङ्कानिरासार्थः | पृथिव्यब्रवीत् इत्यादि श्रुतिसिद्धवचनप्रवर्तकत्वं पृथिव्याद्यभिमानिदेवतानामेवोपदिष्टम् | कुतः विशेषानुगतिभ्याम् | कौषीतकी ब्राह्मणे हंन्ताहमिमास्तिस्रो देवताः सर्वाह वै देवता अहं श्रेयसे विवदमानाः ते देवाप्रा.ए निःश्रेयसं विदित्वा अग्निर्वाग्भूत्वा मुखं प्राविशत् | आदित्यश्चक्षुर्भूत्वाऽक्षिप्राविशत् | वायुः प्राणो भूत्वा नासिके प्राविशत् | इत्यादि बहुश्रुतिषु वागाद्यभिमानिदेवतानामेव पवचनीयत्वं गम्यते | तस्मादचेतनप्रधानादि वैलक्षणव्यम् | किञ्च - यो रुद्रोऽग्नौ यो अप्सु इत्यादिषु पृथिव्यादीनां तदधिष्ठानदेवतानामन्तर्यामित्वं रुद्रस्यैवोक्तम् | अतस्सर्वात्मकत्व-सर्वविलक्षणत्व-सर्वनियामकत्व-सर्वकारणत्वादिकं नेतरस्योपपन्नम् | अस्मिन्नर्थे हेत्वन्तरमाह - दृश्यते तु || ६ || तु शब्दोह्यवैदिकतर्कनिरासार्थः | एतस्माज्जायते प्राणो यतो वा इमानि भूतानि जायन्ते भीषास्माद्वान्तः पवते विज्ञानं चाविज्ञानं च एवमेवैता भूतमात्राः पज्ञामात्रप्राणेष्वर्पिताः समाने वृक्षे पुरुषो निमग्नः अनीशया शोचति मुह्यमानः तरति शोकमात्मवित् पराऽस्य शक्तिर्विविधैव श्रूयते इत्यादिषु सर्वकारणत्वादिकं शिवस्यैव दृश्यते | विचित्रनानाशक्तिविशिष्टत्वेन सर्वात्तर्यामितया चेतनपुरुषेष्यचेतनलोमनखदन्ताद्युत्पत्तिः | अचेतन गोमयकाष्ठादिषु चेतनवृश्चिकादिक्रिमिकीटोत्पत्तिः | मधुमाक्षिकेषु क्रिम्याद्युत्पत्तिः | क्रिमीनां कीटकवशात् भ्रमररूपत्वप्राप्तिश्चावगम्यते | तस्मात्तस्य जगदुभयकारणत्वं सिद्धम् | जगज्जीवेश्वरमिथ्यावादप्रधानस्मार्तैकदेशाऽद्वैतमतनिरासः एवं जगज्जीवेश्वरभेदसिद्धान्त-सांख्य-योगात्मकस्मार्तमतद्वयं निरस्य जगज्जीवेश्वरमिथ्यावादप्रधनस्मार्तैकदेशाऽद्वैतमतं निरस्यते | असदिति चेन्न प्रतिषेधमात्रत्वात् || ७ || न तु तद्वितीयमस्ति ने ह नानास्ति किञ्चन
SK
शशशृङ्गैण नागेन्द्रो मृतश्चेदस्त्विदं जगत् | ज्वालाग्निमण्डले पद्मवृद्धिश्चेदस्त्विदं जगत् || मायाकार्यादिकं नास्ति माया नास्ति भयं न हि | गगने नीलिमा सत्वे जगत्सत्यं भविष्यति | इत्यादिश्रुतिस्मृतिषु शशशृङ्गवत्प्रपञ्चस्यासत्यत्वप्रतिपादकवाक्याभासदर्शनात् चेतनाचेतनात्मकं जगदसदिति चेत् मिथ्याभूतमितिचेन्न - कुतः प्रतिषेधमात्रत्वात् | प्रलयेऽपि प्राञ्चस्य स्थूलावस्थानिषेधमात्रत्वात् प्रलयेऽपि बीजाङ्कुरवत् सूक्ष्मरूपेण परमेश्वरे प्रपञ्चस्य सत्त्वात्तल्लीलया सृष्टिकाले पुनरुत्पद्यते इति सूत्रार्थः | धाता यथा पूर्वमकल्पयत् कर्मचितो लोकः क्षीयते | पुण्यचितो लोकः क्षीयते द्वासुपर्णा सयुजा सखायौ ज्ञाऽज्ञौ द्वावजावीशानीशौ इत्यादिश्रुतिषु प्रपञ्चस्य सत्यत्वव्यपदेशात् | न कदाचिदनीदृशं जगत् | नान्यत्काचनमिषत् नेह नानास्ति किञ्चन सदेव सौम्येदमग्र आसीत् | एकमेवाद्वितीयं ब्रह्म इत्यादिषु प्रपञ्चस्य मिथ्यात्वश्रवणात् चिदचिदात्मकप्रपञ्चस्य सर्वदा सत्वमसत्वं वेतिसंशयः | नेह नानस्ति किञ्चन अथात आदेशो नेति नेति आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ब्रह्म संत्यं जगन्मिथ्या जीवो ब्रह्मैव नेतरः कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः | कार्यकारणतां त्यक्त्वा पूर्णबोधोऽवशिष्यते || अध्यारोपापवादाभ्यां निष्प्रपंचं प्रपञ्च्यते | शिष्याणां बोधनायार्थस्तत्वज्ञैः कल्पितः क्रमात् || इति श्रुतिस्मृतिपूर्वाचार्यन्यायदर्शनाज्जगन्मिथ्यात्वं युक्तम् | नोचेत्पूर्वोक्तश्रुतिस्मृतिसमन्वयविरोधो दुर्निवारः इति प्राप्ते - तत्रोत्तरं वदाम - अध्यारोपापवादाभ्यां निष्प्रपंचं प्रपंचते इति पूर्वाचार्यकल्पितन्यायेन जगदसत्यत्वं न श्रावणीयम् | तदध्यारोपापवादविधायकप्रात्यक्षिकश्रुतिस्मृतिवाक्यादर्शनात् | यतो वा इमानि भूतानि इत्यादि-सृष्टि-स्तिति-प्रलय-
SK
असद्वा इदमग्र आसीत् इति प्रलयावस्थायामपि चेतनाचेतनात्मक प्रपञ्चस्य प्रज्ञानघनपरमशिवे ग्रीष्मकालधरित्रीविलीन तृणादिबीजवत्सूक्ष्मरूपेणावस्थानं निर्दिश्यते | ततौ वै सदजायत इत्युत्तरवाक्ये पुनस्सृष्ट्युपदेशात् | तथा च स्मृतिः - सत्यज्ञानधनानन्दे शिवे परमकारणे | चराचरजगज्जालं ग्रीष्मे क्ष्मालीनबीजवत् || सूक्ष्मरूपेण संस्थित्य पुनः स्वस्वचिकीर्षया | स्थूलत्वेन वहिर्याति मुक्तात्मा न पुनर्भवः || सदेव सौम्य नेह नानास्ति इत्यादिजगदभावबोधकवाक्यानां प्रलयावस्थाविषयकत्वमिति वेदितव्यम् | स ऐक्षत लोकान्नुसृज इत्युत्तरवाक्ये सृष्ट्युपदेशात् | द्वासुपर्णा इत्यादिभेदबोधकवाक्यानां संसारदक्षाविषयत्वं सर्वमात्मैवाभूत् - केन कं पश्येत् इत्यादीनां परमशिवानन्दानुभवपूर्णसमाधिदशाविशेषविशिष्टविद्वदनुभव- śrutisūtrādiviruddhatadadhyāropavidhāyakādvaitamatamupekṣaṇīyam | ato brahma- रज्जुसर्पवज्जीवेश्वरादिजगतः अविद्यावशात् संसारदशायां भासमानत्वेऽपि दशमविवेकसन्धानपूर्वकस्वस्वरूपसाक्षात्कारज्ञानानुभवात्- apītau tadvatprasaṅgādasamañjasam || 8 || apītau pralayakāale tadvatprasaṅgāt maṇḍūkādiśarīrāṇāṃ pṛthivyāmekabhūtānāṃ yathā varṣākāle punarutpattistadvadbrahmaṇyekabhūtasya saṃskārasvarūpeṇa vidyamānasya cetanācetanātmakaprapañcasyotpatteḥ sa īkṣata ityādiṣu prasaṅgāt pratipādanāt pratipādanāt asamañjasam jagajjīveśvaramithyāvāda ayuktaḥ | nanu ekamevādvitīyaṃ brahma ātmā vā idamagra āsīt ityatra sṛṣṭeḥ prāgbrahmaṇa evāvagamāt yatra nānyatpaśyati sarvamātmaivābhūt ityatrāpi sarvatra bhedanirāsopadeśācca tadeta yuktam | yathā sudītpātpāvakādvisphuliṅgāssahasraśaḥ prabhavante sarūpāḥ tathākṣarādvividhāssaumyabhāvāḥ eṣa samprasādo'smāccharīrātsamutthāya
SK
परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिसम्पद्यते ब्रह्मविदाप्नोति परम् तत्त्वमसि अहं ब्रह्मास्मि ब्रह्म वेद ब्रह्मैव भवति यथा नद्यः स्यन्दपानाः इत्यादिश्रुतिषु प्राप्यप्रापकत्वेन मुक्तजीवस्य स्वाभाविकजीवभावनिवृत्तिपूर्वकब्रह्मतापत्तिलक्षणात्मकमुक्तेराकाशवद- sarvavedāntaśrutismṛtisūtrapurāṇādimukhyasiddhāntābhipretamiti cettadasaṅgatam svābhāvikabhedabhāvamāpannasya jīvasya brahmabhāvāsambhavāt | śaityasvabhāvasya jalasya jvalanāduṣṇatvasambhave'pi yāmātpūrvameva punaśśaityasya bhāvadarśanācca jīvasya bhedasvarūpāvacchinnatvena sattvāt jīvātmano brahmatvasambhave'pi tanna sthāyi āgantukatvāt | bhedo na naṣṭaḥ | tasmādbheda aupādhikaḥ abhedaḥ svābhāvika iti veditavyam | bimbatvaṃ patibhimbatvaṃ yathā pūṣaṇi kalpitam | jīvatvamīmaśvaratvaṃ ca tathā brahmaṇi kalpitam || kāryopādhirayaṃ jīvaḥ kāraṇopādhirīśvaraḥ | kāryakāraṇatāṃ tyaktvā pūrṇabodho viśiṣyate || iti śāstre jīveśvarayoḥ māyākalpitatvamalīkatvaṃ copadiṣṭam | tasmāt eṣa samprasādo'smāccharīrātsamutthāya paraṃjyotirupasampadya svena rupeṇābhisampadyate ityādi dvaitādvaitavidhāyaka prāpyaprāpakaśrutīnāṃ svābhāvikabhedanivṛtyayogena so'yaṃ devadattavākyasiddhajahadajahallakṣaṇopadiṣṭamāyāvidyānivṛttipūrvakajīveśvara- आश्रावय - स्वाभाविकभेदनिवृत्तिर्भ्रमरकीट-लोहरस- spaṣṭamupadiṣṭā | jñājñaudvāvajā ajo hyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogāmajo'nyaḥ yato vā imāni bhūtāni jāyante na jāyate mriyate vā vipaścit ityādiṣu jīvasya prācīnakarmaphalabhogānusāreṇa sargopadeśāt | anyathā viṣamasṛṣṭyanupapatteḥ | brahmaprāptyupayabhūtakarma-bhakti-vairāgya-
SK
किञ्च - तदुपासनविधायकानां वेदवेदान्तागमादीनां निरवकाशत्वप्रसक्तिर्दुर्निवारा बिम्बप्रतिबिम्बभावतया जीवादीनां मायाकल्पितत्वव्यपदेशे घटादिवन्नष्टत्वप्रसङ्गात् मुक्तेर | पुरुषार्थत्पापत्तेः ज्ञाज्ञौ इत्यादि जीवेश्वरयोरजन्यत्व विधायकश्रुतिविरोधाच्च | प्रागपि शारीरस्य ब्रह्मत्वे परंज्योतिरुपसम्पद्य इति वाक्यविरोधः प्रसज्यते | निरञ्जनस्य नित्यमुक्तस्य निरवयवस्य निरतिशयस्य स्वप्रकाशस्य ब्रह्मणः मायोपाधिकल्पनस्वीकारे तदद्वैतहानिः | प्रागपि ब्रह्मभेदस्य रज्जुसर्पवदपारमार्थिकत्वे जीवब्रह्मप्राप्तिविधायकतत्त्वमस्यादिमहावाक्यप्रामाण्यं कथमुपपद्यते गुरुशिष्ययोर्मौनप्रसक्तिश्च | ब्रह्मणः ब्रह्मत्वप्राप्तिः पिष्टपेषणवदविशेषात्तच्छ्रवणमननादीनां वैफल्यम् | छिन्ने पुच्छे लूने कर्णे श्वा श्वा एव भवति नाश्वो न गर्दभः इति न्यायात् ज्ञानानन्दस्वभावस्य नित्यमुक्तस्य स्वप्रकाशस्य परमात्मनः स्वाविद्यातिरोहितत्वे स्वप्रकाशत्व- rāddhāntaḥ | yathā jāgratsvapnayordvaitasiddhiḥ suptāvadvaitañca sarvānubhavasiddhaṃ durnivāraṃ tathā śivatvaprāptiparyantaṃ bhedaḥ tato nadīsamudravajjīvabrahmaṇorabhede na virodhaḥ | adhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcate etanyāyātikramaṇe jñānotpatyabhāvataḥ muktyabhāvaprasaṅgāt ahamajñaḥ ityātmanyavidyānubhavadarśanācca jīveśvarayormāyākalpitatvena bimbapratibimbavadalīkatvam | māyāyāḥ yā mā sā māyā iti vyutpatyā vicāryamāṇe sadasadbhāva-cidacidbhāvādiviruddhatayā mithyātvāṅgīkārāttaktṛtajagajjanmādikaṃ svapnendrajālavadbhrāntimātramevetyāśaṅkāyāmāha - na ca dṛṣṭāntābhāvāt || 9 ||
SK
मायायाः मिथ्यात्वस्य जीवेश्वरयोरलीकत्वस्य च प्रात्यक्षिकवेदान्तेषु मनु- pūrvapakṣasyāpyayogyatvena yatrakutrāpi dṛṣṭāntavārtāyā adarśanāt jaganmithyātvavādo na sarvathā yuktaḥ | yato vā imāni yatho'rṇanābhissṛjate ityādi śrutiṣu asandigdhatayā brahmaṇaḥ jagajjanmādikāraṇatvanirdeśena vaidikānāṃ tadeva grāhyam | svapnendrajālasadṛśamacintyaracanātmakam ityādyadvaitaśāstrānusāreṇa jagatsvapnendrajāladṛṣṭāntāṅgīkāre'pi māyāyā ajaḍātmakatvāt brahmaṇaḥ kartṛtvaṃ sūcitam | tena nirguṇatva-nirviśeṣatvādividhāyakasvaśāstravirodhaḥ | yā mā sā māyā iti vyutpatyā māyāyāḥ mithyātvaṃ na yuktam | maṃ śivaṃ ayati prāpnoti iti vyutpratyā - māyāyāḥ paramaśivaniṣṭhasvābhāvikaśaktitvena parā'sya śaktirvividhaiva śrūyate māyāntu prakṛtiṃ ityādi śrutidarśanāt | kiñca - yattatkāraṇamavyaktaṃ nityaṃ sadasadātmakam | dviśiṣṭassa puruṣo loke brahmeti kīrtyate || iti manusmṛtau maṃ śivaṃ paramaṃ brahma prāpnotīti svabhāvataḥ | māyeti procyate loke brahmaniṣṭhā sanātanī || iti śivāgame ca śivaśaktisāmarasyaṃ niścitam | svapnaprapañcadravyaṃ punarjāgratsvapnayorapyadṛṣṭam | atra tu pūrvadinadṛṣṭapadārthasyottaradine'pi satvāt jyotiṣṭomena svargakāmo yajeta karma cito lokaḥ kṣīyate iti śrutinirdiṣṭehaparalokakarmaphalabhoktṛtvasya ca śrutismṛtipurāṇādiṣu dṛṣṭatvāt | svapnakṛtajyotiṣṭomabrahmahatyādi dharmādharmakarmaṇoḥ svarganarakaprāptividhāyakaśāstrādarśanācca tacchāstramavicāritaramaṇīyam | loke cetananara-mṛga-sūrya-candrādipratibimbasya cetanatvāyogāt mṛtpāṣāṇagomayādikalpitagajāśvādīnāṃ svasāmarthyena gamanādikāryābhāvāt śrutyuktyanubhavaiḥ jīveśvarayoḥ svabhāvacitvāvagamācca jīveśvarayościdābhāsatvavidhāyakatanmohaśāstraṃ pāramārthikairanaṅgīkaraṇīyam | tathā śaivapurāṇe dūrvāsasaṃ prati vyāsavacanam -
SK
अनाद्यविद्यया बद्धं ब्रह्मतत्कालकारणम् | स्वाविद्यया संसरन्ति मुक्तिः कल्पितवाक्यतः || एवं प्रतारणं शास्त्रं सर्वमाहात्मनाशकम् | उपेक्ष्यं शिवभक्तैश्च श्रुतिस्मृतिविरुद्धतः || कलापगादयं मुख्यः फलं वैमुख्यतस्तमः | ज्ञाननाशत्वसिध्यर्थं तदेवहि निरूपितम् || ऐन्द्रजालिकपक्षेऽपि तत्कर्तुत्वं तदीरितम् | नास्ति श्रुतिषु तद्वार्ता दृश्यमानासु कुत्रचित् || तस्मात् परमेश्वरकारणत्वात् जगतस्सत्यत्वमप्रतिहतम् | यावदुत्पद्यते ज्ञानं तावदनुष्ठेयानि कर्माणि | तावत्सत्यं जगद्भासि शुक्तिकारजतं यथा || यावन्न जायते ब्रह्म सर्वाधिष्ठानमद्वयम् | इति श्रुतिपूर्वाचार्यवाक्येष्वपि स्वरूपज्ञानानुभूत्यन्तं शुक्तिरजतवदज्ञानेन जगद्भानाङ्गीकारात् तावत्पर्यन्तमेव वेदशास्त्रकर्मसत्यत्वप्रवृत्तिस्सम्भवतीत्याशङ्क्य निराकरोति - स्वपक्षदोषाच्च || १० || शुक्तिरजतवत् ज्ञानदशायामेव जगद्भानाङ्गीकारे तदद्वैतशस्त्राचार्यपरम्पराऽसम्भवदोषप्रवृत्तेः तदूर्ध्वं क्षुत्पिपासादिद्वैतकर्मावलम्बनेदोषापत्तैश्च सम्भवात् | जगन्मिथ्यात्ववादो न युक्तः | शुक्तिरजतवद्ब्रह्मण्यध्यासाङ्गीकारो ब्रह्मणः प्रधानस्य चिदाभासस्य वा नाद्यः निर्विकारत्वात् | न द्वितीयः जडत्वात् | न तृतीयः कल्पितत्वात् | उत सर्वव्यापकस्य निरययवस्य ब्रह्मणः प्रतिबिम्बत्वमुपपन्नं व्योमप्रतिफलनवदिति चेत्तदयुक्तम् | साभ्रनक्षत्राद्यवच्छिन्नाकाशस्यैव लोके प्रतिफलनं दृष्टम् | तमः प्रकाशवैलक्षण्येन व्योमादर्शनात् | अमूर्तस्य प्रतिफलने पवनकालादीनामपि किं न स्यात् अतः पूर्वोक्तमेव युक्तम् | शुक- muktiprasaṅgaḥ syāt | tathā cedahamagna ityavidyānubhavo na syāt | kiñca - cetanācetanaśarīrotpattirna sambhavet | tasmānna jīvaikatvavādo yuktaḥ | śākyolūkyākṣapādakāpilāditarkāṇāṃ tattvārthaniścayābhāvapradarśanam prātyakṣikaśrutiṣvadhyāsādarśane'pi vācārambhaṇaśrutāvapavādadyotanādadhyāso grāhya iti cedāha -
SK
तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः || ११ || तर्काणां शाक्योलूक्याक्षपादकपिलादिप्रमुखतर्काणाम् अप्रतिष्ठानात् - अन्योन्यव्याघातदोषदुष्टत्वेन तत्त्वार्थनिश्चयाभावादप्यन्यथानुमेयमिति चेत् मृत्तिकेत्येव सत्यम् इति वाक्याभासतया जगज्जीवेश्वरमिथ्यात्वं पर्वतो वह्निमान् धूमात् इत्यादिन्यायेनानुमेयमिति चेत् एवमपि शाक्योलूक्यबौद्धादिवत् अनिर्मोक्,सप्रसङ्ग यथा नद्यः इत्यादिबहुश्रुतिसिद्धशिवजीवैक्यात्मकमोक्षाभावप्रसङ्गः | तस्मात् यतो वा एष सम्प्रसादः न स पुनरार्क्तते इत्यादि ब्रह्मजगत्कारणत्व- mityatra jaganmithyātvāvagamāt | yatsatve yatsattvaṃ itinyāyena adhyāso grāhya - iti cettadasat | nāvedavinmanute taṃ bṛhyantam naiṣā tarkeṇa matirāpaneyā ityādi śrutiṣu - vedārtho yaḥ svayaṃ jñātaṃ tatrājñānaṃ pracakṣate | itihāsapurāṇābhyāṃ vedārthamupabṛṃhayet || ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā | yastarkeṇānusandhatte sa dharmaṃ veda netaraḥ | ityādismṛtipurāṇādiṣvapi rucivaicitryasvamatipariṇāmakutarkanirākaraṇasyopadiṣṭatvāt | puruṣabuddhmūlakatarkānusāraṇe kālāntaradeśāntareṣu tadadhikakutarkakuśalapuruṣekṣitatarkadūpyatvasaṃbhāvanayā vyavasthā darśanāt | mithyādvaitaśūnyādvaitasāṅkhya-yoga-nyāya-vaiśeṣika-bauddha- भगवता व्यासेन शास्त्रायोनित्वात् इति सूत्रे वेशात्मकशास्त्रप्रमाणमेवोपदिष्टम् | ब्रह्मोपादानस्य प्रपञ्चस्य मिथ्यात्व्साङ्गीकारे सर्वं स्वल्विदं ब्रह्म सर्वो वै रुद्रः इत्यादि जगद्ब्रह्मात्मकत्वविधायकश्रुतिविरोधप्रसङ्गः | उत्तरत्र भगवतावादरायणेन तदनन्यत्वमाअम्भणशब्दादिभ्यः इति सूत्रे वाचारम्भणश्रुतीनां ब्रह्मकारणकस्य प्रपंचस्य ब्रह्मात्मकत्वं जगन्मिथ्यावादनिरासार्थकमिति स्पष्टमुपदिष्टम् | अतो न सन्देहकलङ्कः | वार्चारम्भणवाक्यानां तदनन्यत्वबोधनात् | न मिथ्यात्वाय कल्प्यन्ते जगतश्शिवरूपतः ||
SK
इति स्कान्दे तथा निर्दिष्टम् | ब्रह्मविदाप्नोति परं ज्ञात्वा शिवं शान्तमत्यन्तमेति ब्रह्म वेद ब्रह्मैव भवति इत्यादिषु ज्ञानस्यैव मोक्षहेतुत्वव्यपदेशात् | दशमस्त्वमसि इति दशमीविवेकसन्धानवशात् स्वस्वरूपज्ञानस्यैव मोक्षकारणत्वमिति चेत्तदसङ्गतम् | क्षरं प्रधानममृताक्षरं हरः तस्याभिध्यानाद्योजनात्तत्त्वभावद्भूमायश्चान्ते विश्वमायानिवृत्तिः || उपोसहायं परमेश्वरं प्रभुं ध्यात्वा मुनिर्गच्छति भूतयोनिं श्रद्धाभक्तिर्ज्ञानयोगादवेहि ध्याननिर्मयनाभ्यासात्पाशं दहति पण्डितः इत्यादिश्रुतिशतदर्शनात् | ब्रह्मविदाप्नोति परं इत्यादिवाक्यैः उपासनाजन्यज्ञानस्यैव मोक्षहेतुत्वं निश्चीयते | केवलज्ञानस्य वैद्यशास्त्रादिज्ञानवदपुरुषार्थकत्वमेव | यावदुत्पद्यते ज्ञानं तावदनुष्ठेयं कर्म इति ज्ञानोत्पत्तिपर्यन्तमेव द्वैतजगद्भासनात्कर्मानुष्ठानमिति यदुक्तं तदविचारितरमणीयम् | ज्ञानकर्मणोः समसमुच्चयत्वप्रतिपादनम् एवं विद्वानग्निहोत्रं जुहोति इत्यादिश्रुतिषु | सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् || आचारहीनः पुरुषो लोके भवति निन्दितः | तस्मादाचारवान् ज्ञानी भवेदादेहपातनात् || अपश्यन्नन्धको दग्धः पश्यन् पङ्गुश्च दह्यते | अन्धपङ्गुवदन्योन्यं सापेक्षे ज्ञानकर्मणी || पक्षैकेन यथा पक्षी न गच्छति नभस्थलम् | तथा ज्ञानैकमार्गेण न मोक्षोऽपि विधीयते ||
SK
इत्यादिश्रुतिस्मृत्यागमेषु ज्ञानसिध्यनन्तरमपि द्वैतकर्मानुष्ठानविधिरुपदिष्टा | तस्माच्छुक्तिरजतन्यायवत् ब्रह्मज्ञानेन जगन्मिथ्यात्वज्ञानमयुक्तम् | अद्वैतेऽप्यहमद्वैत इति वाक्यप्रवृत्तिर्नोपपद्यते | तेषां स्नानसन्ध्योर्ध्वपुण्ड्रतिर्यक्पुण्ड्रवर्णाश्रमाचारविधायकश्रुतिस्मृति- dṛṣṭatvāt nāstītivāde mama mātā vandhyā itivat pratyakṣāpalāpaprasaṅgaḥ | brahmādvaitapakṣe tatsaguṇam nirguṇam ubhayātmakaṃ vā nādyaḥ saguṇatvacaturmukhasvīkāre tallāñchanakamaṇḍalvādidhāraṇameva yuktam | na cordhvapuṇḍra-tiryakpuṇḍra-śiva-keśavādipūjāvaśyakatvamupapadyeta | tathāpyadvaitabhaṅgaprasaṅgo durnivāraḥ | nadvitīyaḥ - tadupāsanā'sambhavāt | na tṛtīyaḥ svamatabhaṅgaprasaṅgāt | kiñcādvaite pratipādyapratipādakatvaṃ nopapadyate | mṛtasyāhaṃ mṛta iti vārtādarśanāt | advaitasyāhamadvaitaṃ iti pratītiḥ kathaṃ nirṇīyate | dvaitasyaiva vyavahāropapattiḥ | vyāvahārikamātratvāṅgīkāre vyāvayārikadvaitamiti vyavahartavyam | advaitasya vyavahārāsambhavāt brahmadvaitāṅgīkāre tasya dharmatvātsaguṇabrahmavādo durnivāraḥ | ataḥ pūrvoktameva samīcīnam | śiṣṭāparigrahādhikaraṇam || 4 || jaiminīya - mithyādvaitādi avaidikavādanirasanam ākāśavatsarvagataścapūrṇaḥ niṣkalaṃ niṣkriyaṃ śāntaṃ ityādiṣu brahmaṇaḥ pūrṇatvanirviśeṣatvāvagamāt tadanusāreṇa jagatkāraṇatvaṃ pradhānasya uta paramāṇvādīnāṃ yuktam - ityāśaṅkāyāmāha - etena śiṣṭāparigrahā api vyākhyātā || 12 ||
SK
एतेन - पूर्वोक्तमिथ्याद्वैत-शून्याद्वैत-कपिल-काणादादि मतनिराकरणेन शिष्टापरिग्रहा अपि शिष्टाश्च अपरिग्रहाश्च शिष्टापरिग्रहाः शिष्टाः चतुर्थ्यन्तदेवताप्रधानजैमिनीयशास्त्राचारनिपुणाः संयुक्तासंयुक्ताभेदवादिनः | अपरिद्रहाः वेदजगज्जीवेश्वरमिथ्यावादतत्पराः मिथ्याद्वैत-शून्याद्वैत-जैन-बौद्ध-लोकायतादि अवैदिकाश्चापि व्याख्याताः वेदान्तस्मृत्यागमपुराणादिभिः वेदवेदान्तनिष्ठागरिष्ठ- vibhutvādākāśavannirviśeṣatvāccinmayatvāccetyādinyāya- कर्मचितोलोकः क्षीयते इत्यादिषु लोकजीवयोः कर्महेतुत्वावगमात् कर्मणो जगत्कर्तृत्वं दर्शितम् | अजामेकां मायाभासेन जीवेशौ करोति इत्यादौ मायायाः जीवेश्वरादिप्रपञ्चकारणत्वं भासते | तस्मात् सन्देहः | अचक्षुश्रोत्रमपाणिपादं इत्यादिषु ब्रह्मणो व्यापकत्व-निरवयवत्व- jagadupādānatvaṃ yuktam | athavā parīkṣya lokāni tyatra lokānāṃ karmahetutvāvagamāt karmaṇā jāyate jantuḥ karmaṇā ca pravardhate | karmaṇā pravilīyante tasmātkarmātmakaṃ jagat || māyayā jāyate viśvaṃ māyayā parivardhate | māyavā līyate yasmāttasmānmāyāmayaṃ jagat || ityādinā karmātmakatvaṃ māyāmayatvaṃ ca prapañcasya pracakṣate | tasmāttadapi yuktam | na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate ityādiṣu brahmaṇaḥ kāryakāraṇatvādiśūnyatayā nirviśeṣatvāvagamāt | sarvathā śivasya parabrahmaṇaḥ na prapañcobhayakāraṇatvamiti prāpte - atidiśati - yanmanasā na manute yenāhurmano mataṃ tadeva brahmatvaṃ viddhi ityādi śrutiṣvanumānanirākaraṇamupadiṣṭam | yatho'rṇanābhisṛjate gṛhyate ca ityādibhirduṣṭāntānusāreṇa śrutau jagadubhayakāraṇatvanirdeśāt jaḍakarmapradhānaparamāṇvādīnāṃ na jagadubhayahetutvamavatiṣṭhate | pradhānakṣetrajñamiti ityādiṣu veda-jīva-karma-pradhānādīnāṃ parameśvarādhīnatvaṃ śrūyate | lokaśāstrayoścoratvādiduṣṭakarmaviśiṣṭānāṃ prabhudaṇḍanavidhireva darśitaḥ na tatkarmaṇām |
SK
अपि च - यन्निमित्तकृतं धर्ममधर्मं धर्मतां व्रजेत् इत्यादिपुराणेषु पितृहननादिपापकर्मकृत्काटकोटादीनां यज्ञादिपुण्यकर्मकृद्दक्षादीनां च विपरीतकर्मफलानुभवो दृष्टः | यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इत्यादि श्रुतयः सर्वा माहात्म्यज्ञापनाय वै | तस्मात् शिवस्य माहात्म्यं ब्रह्मणापि न बुध्यते || अतीतः पन्थानं तव च महिमा वाङ्मनसयोरतद्व्यावृत्यायं चकितमभिधत्ते श्रुतिरपि इत्याद्यचिन्त्यमहिमाविशिष्टत्वमुपदिष्टम् | अतः न तस्य कार्यं करणं च विद्यते इत्यादि श्रुतीनां महादेवस्य परब्रह्मणः शिवस्य महिमाज्ञापनार्थत्वमिति वेदितव्यम् | एतेन शून्यात्मकत्वाशून्यात्मकत्व- bhoktrāpatyadhikaraṇam || 5 || parabrahmaṇaḥ viśvādhikatvapratipadanam yaḥ pṛthivyāṃ tiṣṭhanyasya pṛthivī śarīram ityārabhya yo vijñāne tiṣṭhan ya ātmani tiṣṭhan yasyātmāśarīram ityantena kāṇvaśākhāyāmantaryāmibrāhmaṇe paramātmanaśśivasyāṣṭamūrtitvavyapadeśāccharīra-śarīriṇoriva jīvaśarīraviśiṣṭaparameśvarasya jīvaniṣṭhasukhaduḥkhamoktṛtvādikaṃ sambhavatītyāśaṅkāyāmāha - bhoktrāpatteravibhāgaścetsyāllokavat || 13 || yasyātmā śarīramiti jīveśvarayoḥ śarīra-śarīrivyapadeśāt | bhoktāpatteḥ jīvaniṣṭhasaṃsārasukhaduḥkhāpatteḥ | avibhāgaścet tayoranyaḥ pippalaṃ svādvatyanaśnan anyo'bhicākaśīti ityādiśrutisiddhajīveśvarayoḥ baddhatva- यथाकाशस्यसर्वगतत्वेऽपि सर्वकारणत्वेऽपि स्वसृष्टसर्वजगद्दोषकलङ्कनिर्मुक्ततया व्यवस्थितः तथा परमेश्वरः सर्वकारणत्व-सर्वशरीरत्वसर्वान्तर्यामित्वेन व्यवस्थितोऽपि सर्वदोषकलङ्कविलक्षणः | यस्य पृथिवी शरीरं इत्यारभ्य यस्यात्मा शरीरम् इत्यन्तेन चेतनाचेतनशरीरविशिष्टत्वं श्रूयते | अचक्षुः श्रोत्रं तदपाणिपादं अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः अप्राणो ह्यमनाः शुभ्रः इत्यादिश्रुतिषु तस्य अशरीरत्वमुपदिष्टम् | तस्मात्सन्देहः |
SK
परमेश्वरस्य शरीराद्यभावे सर्वेश्वरत्व-सर्वज्ञत्व- yuktam | dvāsuparṇāṃ ityādiśrutisiddhajīveśvaradharmavibhāgavatvamaupacārikaṃ śarīra-śarīrivat jīvaniṣṭhasukhaduḥkhādikaṃ parameśvasyaiva siddhamato jīvasyārādhakatvaṃ-parameśvarasyārādhyatvaṃ na sambhavati | vigrahaṃ pārvatīśasya jagadetaccarācaram | etadarthaṃ na jānanti paśavaḥ pāśagauvāt || ityādi śaivaskāndādipurāṇeṣvapi tasyaiva jagaccharīratvamupadiṣṭam | tasmādīśvarasya vilakṣaṇatvena nirdehānirviśeṣaparamātmāvalambanaṃ na yuktamiti prāpte - brūmaḥ - dvevāva brahmaṇo rūpe mūrtañcāmūrtameva ca ityādiśrutiṣu pavanādi vanmūrtāmūrtatvamupadiṣṭam | amūrtasya pavanasya vṛkṣakampanotpāṭanādisāmarthyaṃ dṛṣṭam | tathā apāṇipādo javano grahītā iti śvetāśvatare paśyāmyacakṣuḥ sa śṛṇomyakarṇaḥ na cāsti vettā ma citsadāham vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham na puṇyapāpe mama nāsti nāśo na janmadehendriyabuddhirasti | iti kaivalye ca śivasya śarīrendriyanirapekṣatayā sarvajñatva-sarvaśaktitva-sarvakāraṇatva-sarvā niyantṛtva- अतो न शङ्काकलङ्कः परास्य शक्तिर्विविधैव श्रूयते इत्यत्र ब्रह्मणस्स्वाभाविकशक्तिमत्वोपदेशात् न निर्विशेषब्रह्मवादो युक्तः |
SK
अतः अथातो ब्रह्मजिज्ञासा इत्यारभ्य अनावृत्तिश्शब्दात् इत्यन्तं वेदान्तशास्त्रे सविशेषत्वमेव दृश्यते | अथातो ब्रह्मजिज्ञासोति सूत्रे ब्रह्मणः पुरुषविशेषस्य जिज्ञासाविषयत्वव्यपदेशात् जन्माद्यस्य यतः इति सूत्रे जगज्जन्म-स्थिति-लय- śāstrakāraṇatvaśāstrapratipādakatvopadeśāt | tattu samanvayādityatra tasyaiva sarvavedāntasamanvayatvena prasādhitatvācca tasya saviśeṣatvameva yuktam | nirviśeṣe jijñāsādidharmāṇāmasambhavāt | vācaṃ dhenumupāsīta tasya yajureva śiraḥ ṛgdakṣiṇaḥ pakṣaḥ sāmottaraḥ pakṣaḥ || annaṃ brahma ityādivat tasya śarīratvamaupacārikam tadupāsanāmātraviṣayameva | parameśvarasya śarīraparigrahavāde'pi na sukhaduḥkhādiprāptiḥ taccharīrasya karmajanyatvābhāvāt svatantratvācca | brahmeśvaraśivamahādeva śaṅkarādiśabdānāṃ ghaṭakumbhakalaśādiśabdavatparyāyatvameveti veditavyam | jñā'jñau dvāvajāvīśāanīśau ityādau jīveśvayoḥ ajanyatvaśravaṇāt māyābhāsena jīveśau karoti ityābhāsaśruteḥ parameśvarasya śaktyātmakatayā māyayā sṛṣṭikāle parameśvaraḥ svecchayā jīveśvarabhāvaṃ prakaṭīkārotītyabhiprāyaḥ | tasmātkatṛtvaṃ tasyaivopadiṣṭam | śaktyapṛthaktvena śakterasatvāt | ataḥ pūrvoktameva samīcīnam | etadvaitādvaitamatameva kecidviśeṣādvaitamiti seśvarādvaitamiti śivādvaitamiti sarvaśrutisāramatamiti paryāyatvena pravadanti | ārambhaṇādhikaraṇam || 6 || kāryakāraṇayorananyatvapratipādanam nityonityānāṃ cetanaścetanānāṃ sanmūlāssomyemāḥ prajāḥ prajāyante jñā'jñau dvājāvīśānīśau ityādiśrutiṣu jīveśvarayorajanyatvadarśanāt tanmithyātvābhāve'pi jagatsatyatvaśrutyadarśanāt vācārambhaṇaśrutau jaganmithyātvāvagamāt tadeva yuktamityāśaṅkyāha - tadananyatvamārambhaṇaśabdādibhyaḥ || 14 ||
SK
तदनन्यत्वं - शक्तिशक्तिमतोरभेदः इतिन्याय सिद्धशिवशक्तिसामरस्येन तयोः स्वशक्त्यंशप्रपञ्चस्य शक्तस्य परमशिवस्य च अनन्यत्वं मृद्घटादिवत्कार्यकारणयोरभिन्नत्वमङ्गीकर्तव्यम् | कुतः आरम्भणशब्दादिभ्यः वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् सर्वो वै रुद्रः ऋतं सत्यं परं ब्रह्म यथोर्णनाभिः तज्जलानीति शान्त इत्यादिश्रुतिभ्यः ब्रह्मशक्त्युपादानस्य प्रपञ्चस्य ब्रह्मात्मकत्वमुपदिष्टम् | एतेन रज्जुसर्पवत्प्रपञ्चस्य ब्रह्मण्यध्यस्तत्वान्मिथ्यात्वमित्यद्वैतमतं घटपटवत् प्रपञ्च ब्रह्मणोर्भेदाङ्गीकारि द्वैतमतं शरीरिशरीरयोरिव संयुक्तभेदाङ्गीकारि विशिष्टमतं च निरस्तमिति सूत्रसूचितार्थो वेदितव्यः | खं वायुर्जोतिरापः पृथिवी विश्वस्य धारिणी यत्परं ब्रह्म इत्यादिषु ब्रह्मणः मूर्ताऽमूर्तजगद्विलक्षणत्वम् | ऐतदात्म्यमिदं सर्वं ब्रह्मैवेदं सर्वम् | इत्यादिना तस्य चिदचिदात्मकजगदात्मकत्वं च श्रुतम् | अतः कारण- na veti śaṅkotpadyate | jñā'jñau dvāvajāvīśānīśau ityatra jīveśvarayoḥ parasparavailakṣaṇyam | ātmana ākāśaḥ sambhūtaḥ ityādinā jagadbrahmaṇoḥ kāryakāraṇātmakatvena parasparabhinnatvaṃ ca darśitam | satyajñānānandātmakabrahmaṇaḥ anṛtajaḍaduḥkhātmakaprapañcasya ca kathaṃ ananyatvam mākṣikādiṣu krimyādyutpattidarśanānna kāryakāraṇayorananyatvam | tantupaṭādiṣvarthasiddhikriyāsiddhivailakṣyena bhedopapattiḥ | kāryakāraṇayorananyatve jagadbrahmaṇorabhedenaihikāmuṣmikasukhaduḥkhaphalabhogavyavahāro na syādato jagadbrahmaṇorananyatvaṃ nopapadyata iti cet |
SK
प्रचक्ष्महे | स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येन श्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इति कृत्स्नस्य प्रपञ्चस्य परमशिवैककारणत्वं (उक्तम्) कारणात्कार्यस्यानन्यत्वं च मनसि निधाय कारणात्मक परशिवविज्ञानेन कार्यभूतसर्वप्रपञ्चविज्ञाने प्रतिज्ञाते सति कृत्स्नस्य शिवैककारणतामजानता शिष्येण कथं नु भगवन् स आदेशः इत्यात्मज्ञानेनान्यज्ञाततासम्भवश्चोदितः | प्रपञ्चस्य परमात्मैककारणतामुदैक्ष्यन् गुरुः लौकिकप्रतीतिसिद्धं कारणात्कार्यस्यानन्यत्वं तावत् यथा सौम्येकेनमृत्पिण्डेन सर्वं मृण्मयं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यन् इत्युपदिशति | यथैकमृत्पिण्डारब्धाः घटशरावादयः तदनतिरिक्तद्रव्यतया तद्ज्ञानेन ज्ञायन्ते तथा शिवोपादानकं जगत् शिवज्ञानेन ज्ञायत इति आरम्भणश्रुतेराशयः |
SK
अत्र कारणादादिमतेन कारणात्कार्यस्य द्रव्यान्तरत्वमाशङ्क्य लोकव्यवहारेणैव कार्य कारणयोरनन्यत्वं दर्शयति वाचारम्भणमित्यादिना | आरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणं कृत्यल्युटो बहुलं इति कर्माणि ल्युट् | वाचा वाक्पूर्वकेण व्यवहारेण हेतुनेत्यर्थः | घटेनोदकमाहरेदित्यादिवाक्पूर्वकोदकहरणादिव्यवहारः | तद्व्यवहारसिध्यर्थं तन्मृद्रव्येण पृथुबुध्नोदरादिलक्षणो विकारः संस्थानविशेषः तत्प्रयुक्तं च घट इत्यादिनामधेयं स्पृश्यते | जलाहरणादिव्यवहारविशेषसिध्यर्थं मृद्रव्यमेवावस्थान्तरं संज्ञान्तरं च प्राप्नोति तस्माद्धटाद्यपि मृत्तिकाद्रव्यमेव सत्यं इत्युपदिश्यते | मृत्तिकेत्येव सत्य मित्यत्र कार्यकारणयोरनन्यत्वम् | रज्जुसर्पवत्कार्यस्य मिथ्यात्वमिति यत्तदसत् | तयोकार्यकारणयोरनन्यत्वं सिध्यति सत्यमिथ्यापदार्थयोः ऐक्यानुपपत्तेः | तथा सति ब्रह्मणः मिथ्यात्वं जगत्सत्यत्वं वा स्यात् | ये च कार्यमपि पारमर्थिकमभ्युपयन्त एव जीवब्रह्मणोरौपाधिकमन्यत्वं स्वाभाविकञ्चानन्यत्वं अचिद्ब्रह्मणोस्तु द्वयमपि स्वाभाविकमिति वदन्ति | तेषामुपाधेर्ब्रह्मव्यतिरिक्तवस्त्त्वन्तराभावान्निरवयवस्य परिपूर्णस्य परमशिवस्यैवोपाधिसम्बन्धाद्ब्रह्मस्वरूपस्यैव हेयाकारपरिणामत्वं स्यात् | जीवाश्रयाऽविद्यायास्तत्वज्ञानेन नाशे सति जीवो नश्येद्वा न वा यदि नश्येत्स्वरूपोच्छेदलक्षणो मोक्षस्यात् | नो चेत्
SK
अविद्यानाशेऽस्य निर्मेक्षप्रसङ्गः ब्रह्मस्वरूपव्यतिरिक्तजीवत्वावस्थानात् | अतोऽविद्याभ्रान्तिर्ब्रह्मणो वा तदन्यस्य वा नाद्यः तमःप्रकाशवत्परस्परविरुद्धत्वात् | अज्ञस्य ब्रह्मत्वाभावाच्च | न द्वितीयः चैतन्यान्तरायोगात् | द्वितीयचैतन्याङ्गीकारे स्वशास्त्रविरोधात् | अतः यथोर्णनामिजन्तुस्स्वकार्यं तन्तुचक्रं कारणावस्थायां नामरूपविभागानर्हसूक्ष्मरूपेण स्वस्मिन्निधाय कार्यावस्थायां नामरूपविभागार्हस्थूलरूपेण प्रकटीकरोति तथा परमेश्वरश्चिदचिदात्मकं प्रपञ्चं प्रलयावस्थायां सूक्ष्मरूपेण स्वस्मिन् संस्थाप्य सृष्टिकाले स्थूलात्मकत्वेन प्रकाशयति | अतः कार्यकारणयोरनन्यत्वं सिद्धम् | जगत्सत्वप्रतिपादनम् घटपटवत्कार्यकारणयोरर्थसिद्धिक्रियासिद्धिभेदादनन्यत्वं नोपपद्यते | अतः प्रपञ्चस्य ब्रह्मण्यध्यस्तत्वमङ्गीकृत्याधिष्ठानाध्यस्तयोरनन्यत्वमङ्गीकर्तव्यमित्या# भावे चोपलब्धेः || १५ || भावपदं कारणसत्तावाचकम् | उपलब्धिपदं कार्यसत्तावाचकम् | च पदं तदुभयसामरस्यसत्ताबोधकमुपदिष्टम् | सन्मूलास्सौम्येमाः सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठिताः ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि इत्यादौ जगतः ब्रह्माधीनसृष्टि स्थिति-लयाविर्भावानुग्रहात्मकत्वदर्शनात् नाध्यासोपपत्तिः | ऐतदात्म्यमिति ब्रह्मकार्यप्रपञ्चस्य ब्रह्मात्मकत्वस्य जीवानामपि सत्यब्रह्मप्राप्यत्वस्य च दर्शनात् | किञ्च - लोके घटादिकार्यसद्भावे च कारणभूतमृत्पिण्डोपलब्धेः अयं घटः मृदेव इति मृदात्मकत्वेन प्रत्यभिज्ञानाच्च कार्यकारणयोरनन्यत्वं युक्तम् | जगत्सत्यत्वे हुतून् दर्शयति - सत्त्वाच्चापरस्य || १६ || सदेव सौम्येदमग्र आसीत् आत्मा वा इदमग्र आसीत् ब्रह्मा वा इदमग्र आसीत् इत्यदिषु अपरस्य कार्यस्य चेतनाऽचेतनात्मकप्रपञ्चस्य कारणे परशिवब्रह्मणि सत्त्वाच्च कारणात्कार्यस्यानन्यत्वं सिध्यति | लोके सर्वमिदं घटशरावादिकं पूर्वावस्थायां मृदात्मकमेव भाति अतो जगत्सत्यत्वे न विरोधः |
SK
जगत्सत्यत्वे पुनर्हेत्वन्तरमाह - असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् || १७ || असद्व्यपदेशात् असद्वा इदमग्र आसीत् इति श्रुतौ शशशृङ्गवत्सृष्टेः पूर्वं प्रपञ्चस्यासत्वनिर्देशात् वर्तमानकाले रज्जुसर्पवद्ब्रह्मण्यवभासमानोऽपि सर्वदा चिदचिदात्मकप्रपञ्चो नास्तीति चेन्न धर्मान्तरेण सूक्ष्मत्वरूपधर्मान्तरविशिष्टत्वमात्रेणासत्त्वव्यपदेशः कुतः वाक्यशेषात् | ततो वै सदजायत इत्युत्तरवाक्ये सृष्ट्यनन्तरस्थूलावस्थाभिधानात् असाद्वा इदमग्र आसीत् इत्यत्र सृष्टेः प्रागिदं जगदसदासीत् सूक्ष्मावस्थापन्नमासीत् | अतः सृष्ट्यनन्तरं ततः सदजायत स्थूलावस्थाविशिष्टमासीत् इति भावः | स्वस्वरूपापरित्यागपूर्वकपरस्वरूपभावत्वं विवर्तमितिन्यायेन रज्जुसर्पवद्ब्रह्मणि प्रपञ्चस्य विवर्तोपादानत्वं प्रसाध्य जगन्मिथ्यात्वं किं न युक्तम् इति चेत्तदसत् | असदेवेदमग्र आसीत् इदं वा अग्रे नैव किञ्चनासीत् इति श्रुतिषु लोके च घटशरावादिकं सर्वं प्राक्मृदि नासीदिति ज्ञायते | तस्मात् प्रपञ्चस्य शशशृङ्गवदसत्वं युक्तमिति चेन्न | एकस्यैव शरीरस्य बालत्व-युवत्व-स्थवित्ववत्प्रपञ्चस्य सूक्ष्मत्व-स्थूलत्व-व्यवस्था कालभेदेन निर्दिष्टा | अतोऽसच्छब्देन सूक्ष्मात्मकत्वं तद्भिन्नसच्छब्देन स्थूलात्मकत्वं निर्दिष्टम् | तस्मात्प्रपञ्चस्य सत्यत्वं ब्रह्माभिन्नत्वं च समञ्जसम् | मिथ्यात्वनिराकरणे हेत्वंतरमाह - युक्तेश्शब्दान्तराच्च || १८ || युक्तेः - यथा कूर्मः स्वशक्त्या स्वपादाद्यवयवान् स्वेच्छया बहिर्गतान् कृत्वा पुनःस्वात्मनिवेशनं करोति तथा परमशिवः सृष्टिकाले नामरूपविभागवत्वेन बहिः प्रकटीकृत्य प्रलये स्वत्मनि स्वभिन्नं चिदचिदात्मकं प्रपञ्चं गोपयतीत्यादियुक्ते शब्दान्तराच्च इदं वा अग्रे नैव किञ्चिदासीत् तदसदेव सन्मनोकुरुत स्यां तद्धीदंतर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतिष्वसच्छब्दव्याकृतादिशब्दाच्च | प्रल्यावस्थायां प्रपञ्चस्य सङ्कुचितत्वं सृष्टिकाले विकासयत्वं च स्पष्टमुपदिष्टम् |
SK
एवं जगत्सत्यत्वं प्रसाध्येदानीं कार्यकारणयोरनन्यत्वे निदर्शनं सूत्रद्वयेन दर्शयति - पटवच्च || १९ || यथा पटस्य कदाचित्सङ्कुचितावस्था कदाचित् विकासावस्था च विलक्षणप्रतीतिविषयत्वेन दृश्यते तद्वत्परमशिवशक्तिसङ्कुचितावस्थाकारणं शक्तिप्रसारितावस्था कार्यम् | यथा पटस्य वेष्टितप्रसारितभेदेऽप्यभेदः तथा कार्याकारणयोर्मृद्घटादिवदभेदः | ननु - मृद्घटादिदृष्टान्ते मृद्घटौ भिन्नौ विलक्षणप्रतीतिविषयत्वात् | तस्माद्घटपटवत्तस्य हेतोर्व्यभिचार इति चेन्न मृद्द्रव्यस्य पृथुबुध्नोदराद्याकारो घट इति व्यवहारहेतुः | तस्यैव तत्प्रतियोग्यवस्थान्तरयोगो घटाभावव्यवहारहेतुः तत्र कपालद्वयावस्थायाः तत्प्रतियोगित्वेन सैव घटावस्था अस्य नास्तीति व्यवहारहेतुः | न च तद्व्यतिरिक्तो घटाभावो नाम कश्चिदुपलभ्यते न चापि कल्प्यते तावतैवाभावस्य व्यवहारोपपत्तेः | तस्माद्यथा मृदात्मनासत्वेऽपि मृदेकांशेन घटशरावात्मकत्वेन परिणामेऽपि मृदात्मकत्वं न विरुध्यते तथा शिवस्य स्वशक्त्येकांशत्वेन जगदात्मना परिणामेऽपि जगदनन्यत्वं न विरुध्यते | परस्परविलक्षणयोः कार्यकारणयोरभेदे व्यवहारातङ्कमाशङ्क्याह - यथा च प्राणादि || २० || यथा वायुरेकः प्राणापानादिवृत्तिभेदेन नामरूपात्मककार्यभेदं भजते तद्वत्परशिव एव स्वशक्तिमहिम्ना चिदचिदात्मकप्रपञ्चरूपेण भासमानोप्यनन्य एव | किञ्च - यथा शिवयोगी परमशिवध्यानकाले प्राणायामादिना प्राणापानादिवायुसङ्कोचनं करोति व्यवहारकाले प्रसारणादिकार्यं करोति तद्वत्परमेश्वरस्सृष्टिकाले जगत्प्रसारणं प्रलयकाले तदाकुञ्चनं करोति | तस्मात्परमकारणपरशिवात्कार्यरूपं जगदनन्यमिति सिद्धम् | तदनन्यत्वाच्चैकविज्ञानात्सर्वविज्ञानप्रतिज्ञा सिद्धा भवति | इतख्यपदेशाधिकरणम् || ७ || जीवब्रह्मवादिमतनिराकरणम्
SK
एवं जगदीश्वरभेदवादस्य जगन्मिथ्यात्ववादस्य च निरस्तत्वेन भेदाभेदमतमेव स्वाभिप्रेतमिति प्रदर्श्य जीवब्रह्मवादिमतमद्य निराकरोतिः | इतरव्यपदेशात् हिताकरणादिदोषप्रसक्तिः || २१ || इतख्यपदेशात् ब्रह्मेतरस्य जीवस्य ब्रह्मत्वेन व्यपदेशात् हिताकरणादिदोषप्रसक्तिः | हितानां इष्टसाधकानां स्रक्चन्दनादीनामकरणमसंपादनं आदिशब्देनानिष्टसाधकव्याघ्रादीनां सम्पादनम् | एतादृशदोषप्रसक्तिः | तस्माज्जीव एव ब्रह्मेति वादो न युक्तः | द्वासुपर्णेत्यादिषु जीवर्ब्रह्मणोर्भेद व्यपदेशात् | अयमात्मा ब्रह्म इत्यादिश्रुतिषु तयोरभेदनिर्देशात् | तयोर्भेदो न वेति संशयः | जीवब्रह्मभेदबोधकश्रुतीनां उपाधिपरत्वात् योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति इत्यादिषु जीवब्रह्मणोरभेदश्रवणात् | बिम्बत्वं प्रतिबिम्बत्वं यथा पूषणि कल्पितम् | जीवत्वमीश्वरत्वं च ब्रह्मण्येकत्र कल्पितम् || इत्यत्र बिम्बप्रतिबिम्बवज्जीवब्रह्मणोरभेदनिर्धारणात् यतो वा इमानि भूतानि जायन्ते इत्यादौ तयोः कार्यकारणत्वोपदेशात् वाचारम्भणश्रुतौ कार्यकारणयोरेकत्वनिर्देशाच्च जीवातिरिक्त ईश्वरो नास्तीति प्राप्ते - अभिधीयते - अन्नं ब्रह्म प्राणो ब्रह्म असावादित्यो ब्रह्म इत्यादिवज्जीवस्यापि ब्रह्मत्वमौपचारिकम् | जीवस्य ब्रह्मत्वप्रतिपादने जीवानामिष्टसम्पादनमनिष्टसाधनं च यत्तत्सर्वं ब्रह्मण एवाङ्गीकर्तव्यम् | तथा चेदिष्टप्रपञ्चनिर्मातृत्वं स्वतन्त्रब्रह्मणस्सम्भवतीति अनिष्टप्रपञ्चनिर्माणमनुपपन्नं स्यात् |
SK
यच्चोक्तं मणि-कृपाण-दर्पणादिषूपलभ्यमानमुखमलिनत्व- vimarśanīyam | alpatvānalinatvādayaḥ aupādhikadoṣāḥ kadā naśyeyuriti | kṛpāṇādyupādhyapagama iti cet | kiṃ tadalpatvādyāśrayaḥ pratibimbastiṣṭhati vā na vā tiṣṭhati cettasthānīyasya jīvasya sthitatvādanirmokṣaprasaṅgaḥ naśyatīti cettadvadeva jīvanāśātsvarūpocchedalakṣaṇo mokṣassyāt | kiñca - jīvasya brahmatve tasmin sarvajñatva-sarveśvaratva-sarvaniyāmakatva- श्रीकण्ठोपज्ञविशिष्टाद्वैतमतनिराकरणम् जीवब्रह्मणोर्ज्ञानात्मकत्वेनैकत्वेऽप्यविद्योपाधिभेदेन भेददर्शनात्तयोर्भेदविधायकश्रुतीनामौपाधिकं भेदविषयत्वमेवेत्याशङ्क्याह - अधिकन्तु भेदनिर्देशात् || २२ || तु शब्दो निश्चयार्थः | आध्यात्मिकाधिभौतिकाधिदैविकादिदुःखाकरात्प्रत्यगात्मनः जीवादधिकमर्थान्तरभूतं ब्रह्म | कुतः भेदनिर्देशात् | आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः सता सौम्य तदा सम्पन्नो भवति इत्यादिना प्रत्यगात्मभूतस्य जीवस्य च परमात्मनश्शिवस्य परस्परभेदव्यपदेशाज्जीव एव ब्रह्मेति यादो न युक्तः | जीवब्रह्मभेदसत्यत्वबोधकानां श्रुतीनामौपाधिकभेदविषयत्वं वा उत आरोपितभेदविषयत्वं वा नाद्यः स्वभावतः स्वस्मादभिन्नस्य जीवस्य तदुपासनासम्भवात् | तथापि ब्रह्म तं जानाति वा न वा न जानाति चेत्सर्वज्ञत्वहानिः जडत्वप्रसङ्गश्च | जानाति चेत् स्वस्मादभिन्नस्य जीवस्याध्यात्मिकादिदुःखं स्वदुःखमिति जानीयात् | एवं चेत् ब्रह्मणः हिताकरणाहितकरणाख्यदोषप्रसक्तिरनिवार्या | न द्वितीयः - तत्रापि जीवाज्ञानपक्षे पूर्वोक्तविकल्पस्थफलतादवस्थ्यात् | ब्रह्माज्ञानपक्षे स्वप्रकाशस्वरूपस्य ब्रह्मणः अज्ञानसाक्षित्वं तत्कृतजगत्सृष्ट्यादिकं च न सम्भवति |
SK
अज्ञानेन प्रकाशस्तिरोहित इति चेत् तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन स्वप्रकाशस्यैव स्वरूपत्वात्स्वरूपनिवृत्तिरेवेति स्वरूपनाशादिदोषसहस्रं प्रागेवावेदितम् | तस्माज्जडजातिलोहादौ ताम्रसुवर्णादिवच्चिज्जातौ जीव-ब्रह्मणोः स्वभाविकभेदो निर्दिष्टः | तथाप्यचेतनरससंयोगेन ताम्रस्वभावनिवृत्तिपूर्वकाबाधितसुवर्णत्वप्राप्तिवच्चेतनजीवस्यापि परमेश्वरो पासनया तदनुग्रहवशादबाधितशिवत्वं सिध्यति | तस्माज्जीवेश्वरैक्यविधायकानां तत्त्वमस्यादिवाक्यानामविरोधः | किञ्च - आधिकन्तु भेद इति सूत्रे जीवब्रह्मणोस्स्वाभाविकभेदनिर्देशात् तदनन्यत्वं इति सूत्रे अभेदव्यपदेशाच्च भेदाभेदमतमेव सूत्रकारसम्मतमिति बालानामपि विज्ञायते | ननु भेदाभेदयोर्वस्तुविरोधात् स्वाभाविकभेदस्य निवृत्यसम्भवाच्च भेदाभेदकल्पकं विशिष्टाद्वैतं चतुर्थमतमेव समज्जसम् | भेदाभेदमतवदत्राप्यङ्गाङ्गित्वेन सर्वश्रुतिसमन्वयदर्शनात् सूर्यातपवच्चन्द्रचन्द्रिकावद्धर्मधर्मिवद्गुणगुणिवद्दण्डदण्डिवद्विशिष्टमुप् अपन्नम् | अत्र शैवाग्रगण्य श्रीकण्ठशिवाराध्यकृत ब्रह्ममीमांसाभाष्ये विशिष्टाद्वैतं स्वाभिप्रेतत्वेन प्रसाधितम् | तत्र मुक्तात्मनां गौरीपतित्व जगत्कारणत्वसर्वान्तर्यामित्वादिधर्मनिराकरणपूर्वकतत्साम्यपञ्चोप- prapañcitā | yathā nadyaḥ syandamānā ityādi śrutiniṣṭhatripādvibhūtyadhikakaivalyavibhūtyātmaka śivasāyujyalakṣaṇāmuktirnāṅgīkriyate | tasmādidameva yuktamiti prāpte - brūmaḥ - bhedābhedayorvastuvirodha iti yattadavicāritaramaṇīyam | śrutismṛtipurāṇāgamasūtrādiṣu bhedābhedapradarśanāt | jāgratsvapnāvasthayorbhedasya suṣuptyavasthāyāmabhedasya sarvānubhavasiddhatvācca tathā śivāgame - suptireva hi duṣṭāntassṛṣṭipralayayorapi | sṛṣṭikāle bhavedbhedaḥ abhedaḥ pralaye smṛtaḥ || iti jīvasya jñānājñānobhayaviśiṣṭhatvadarśanānna vastuvirodhaḥ | merumandiramāsādya kāko'pi kanakāyate | tathā bhaktyā śivaṃ prāpya jīvo bhavati śaṅkaraḥ ||
SK
इति वचनात् पदार्थानां पूर्वावस्था न दृश्यते | शिवध्यानात्तथा जीवो न पुनर्भवमश्नुते | शुक्तिलब्धजलं लोके मौक्तिकं भवति ध्रुवम् || भक्तिसंयुक्तजीवो हि शिवो भवति नान्यथा | रसवेधाद्यथा ताम्रं काञ्चनं भवति ध्रुवम् || गुरोः कटाक्षवेधेन जीवो भवति शङ्करः || इत्यादिबहुदृष्टान्तशास्त्रानुभवदर्शनात् स्वाभाविकभेदनिवृत्तेर्न विरोधः | अन्तर्यामिब्राह्मणे यः पृथिव्यां तिष्ठन् य आत्मनि तिष्ठन् यस्यात्मा शरीरं इत्यादिवाक्यानां परमेश्वरस्याष्टमूर्तित्व- aprāṇohyamanāś'subhraḥ aśarīraṃ vā vasantaṃ ityādi bahuśrutivirodhaḥ | apāṇipādo javano grahītā paśyāmyacakṣuḥ sa śṛṇotyakarṇaḥ ityatra śarīrendriyanirapekṣatayā parabrahmaṇaśśivasya sarvaśaktatvāvagamāt viśiṣṭādvaitavidhāyakaśrutisūtrādyadarśanāt | aṅgāṅgitvasvīkāre jīvatparicchinnatvaprasaktirdurvārā | antaḥpūrṇo bahiḥ pūrṇaḥ pūrṇakumbha- तद्भिन्नस्थलेषु च ब्रह्मणः पूर्णत्वमुपदिष्टम् | अतस्तन्मतमुपेक्षणीयम् | किञ्च - द्वेवाव ब्रह्मणो रूपे सर्वाननशिरोग्रीवाः इत्यादिना उपासनार्थं ब्रह्मणः पवनवन्मूर्तामूर्तत्वव्यपदेशात् जीवमुख्यप्राणलिङ्गसूत्रे भक्तोपासनार्थं परमेश्वरस्योपासनात्रयमुपदिष्टमिति तत्र बहुधाप्रपञ्चितम् | ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे यो वेद निहितं परमेव्योमन् सोऽश्नुते सर्वान् कामान् सह निरंजनः परमं साम्यमुपैति इत्यादिबहुश्रुतिषु परमशिवत्रिपाद्विभूत्यात्मक सालोक्य-सामीप्य- svābhāvikajīvabhāvanivṛttipūrvakaśivatvaprāptirūpakaivalyavibhūteśca darśanāccaturvidhamuktipratipādakaṃ sarvaṃ śāstraṃ pramāṇameva | jyotiṣṭomena svargakāmo yajeta ityādisiddhendrādyaiśvaryātmakakāryavibhūtiḥ haṭhayogasiddhacaturmukhabrahmalokaiśvaryātmakakāraṇavibhūtiścetyadhikāri- शमदमादिसहकृतगुरुचरेश्वरकैङ्कुर्यात्मकबहुजन्मतपस्सिद्धाव्यभिचार- śraddhābhaktijñānayogādavehi ityādiśrutidarśanāt |
SK
ननु एष सर्वं भूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः इति सुबालोपनिषदि नारायणस्यैव सर्वशरीरात्मकत्व-सर्वान्तर्यामित्व- paramaśivapara eva | sarvo vai rudraḥ sa eva viṣṇussa prāṇaḥ yorudro'gno yo apsu so'nta rādantaraṃ prāviśat ityādiśrutiṣu ī'svarassarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati ityādi smṛtiṣvapi sarvāntaryāmitvaṃ śivasyaivopadiṣṭam | aṣṭamūrtitvasya nārāyaṇe yatrakṛtrāpyadarśanāt subālavākyātkaṇva-mādhyandina- जीवब्रह्मणोः स्वभावभिन्नत्वे दृष्टान्तमाह - अश्मादिवच्च तदनुपपत्तिः || २३ || अश्मादिवच्च-अश्मादिविजातीयदृष्टान्तेन तदनुपपत्तिः तत् अयमात्मा ब्रह्म इत्यादिश्रुतिसिद्धपूर्वोक्तब्रह्मत्वं जीवस्यानुपपन्नमसंभवि इत्यर्थः | तस्मात्सर्वदा स्वभावसिद्धतया जीवब्रह्मणोर्विजातीयाश्मादिदृष्टान्तवत्सजातीयभेदस्सिद्धः | यथा लोहाश्मकाष्ठतरुगुल्मादीनामचेतनानां स्वभावसिद्धपरस्परभेदः तद्वत्सजातीयचेतनयोः जीवेश्वरयोः परस्परं स्वाभाविको भेदः यथा भूम्यां वज्र-वैढूर्य-गोमेधिक-पुष्यराग-मरकत- dṛśyante tathā jīveśvarayorapi bhedo dṛśyate | pṛthagātmānaṃ preritāraṃ ca matvā juṣṭastenāmṛtatvameti || kṣaraṃ pradhānamamṛtākṣaraṃ haraḥ tasyāmidhyānādyojanāttattvabhāvāt bhūyaścānte viśvamāyānivṛttiḥ jñājñau dvāvajāvīśānīśau prājñenātmanā sampariṣvaktaḥ nityonityānāṃ cetanaścetanānāṃ eko bahūnāṃ yo vidadhāti kāmān dve vāva brahmaṇī veditavye paraṃ cāparaṃ ca juṣṭaṃ yadā paśyatyanyamī'saṃ eṣāmīśe paśupatiḥ paśūnāṃ | viśvādhiko rudro maharṣiḥ īśānassarvavidyānāṃ triyambakaṃ yajāmahe etatsomasya rudrasya sarvaliṅgagaṁ sthāpayati pāṇimantraṃ pavitram | amṛtasya devadhāraṇo bhūyāsam ityādiśrutibhiḥ jīvabrahmaṇoḥ parasparasvabhāvavailaṣaṇyaṃ darśitam | tayorabhede pūrvoktahitāhitarūpajagatkāraṇatvamanupapannaṃ ityādayo doṣāḥ prasajyeran upasaṃhāra darśanādhikaraṇam || 8 ||
SK
परमेश्वरस्य अघटितघटनसामर्थ्यप्रदर्शनम् तत्त्वमसीत्युपसंहारेऽपि जीवाभेदब्रह्मनिर्देशात् जीवब्रह्मणोरश्मलोष्ठकाष्ठवत्स्वभावभिन्नत्वे तन्निवृत्यसम्भवाच्च ब्रह्मण एव जीवत्वं शुक्तिरजतवदारोपितमात्रमेवेत्याशङ्कायामाह - उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि || २४ || एकमेषाद्वितीयं ब्रह्म इत्युपक्रमे तत्त्वमसि इत्युपसंहारेऽपि जीवब्रह्मणोरभेददर्शनात् मध्यस्थवाक्ये अश्मलोष्ठकाष्ठादिवत्तयोस्वाभाविकभेदाङ्गीकारे स्वाभाविकभेदस्य जलादिवन्निवृत्तिर्नसस्भवतीति चेन्न | क्षीरवद्धि - तक्रादिसम्पर्कवशात् क्षीरस्य दधिरूपेऽ स्वभावनिवृत्या परिणामस्तथा जीवस्य श्रवणमननादिसहकृतभक्तिभावेन स्वाभाविकजीवत्वनिवृत्तिपूर्वकशिवत्वप्राप्तिर्नविरुध्यत एव | द्वासुपर्णा इत्यादिषु जीवब्रह्मनोर्भेदावगमात् तत्त्वमसीत्यादिषु तयोरभेदव्यवस्थापनाच्च तद्भेदस्स्वाभाविकः आगन्तुको वेति सन्दिह्यते | स भेद आगन्तुक एव स्वभावत्वे निवृत्ययोगात् | जलादौ पाकादिना स्वभावतिरोहितत्वेऽपि कालान्तरेण स्वभावस्यैव स्थितत्वात् | अभेदश्रुत्यनङ्गीकारे अर्धजरतीन्यायवदवैदिकत्वप्रसङ्गात् परमेश्वरमहिम्ना स्वभावनिवृत्तिस्सम्भवतीति चेन्न मानुषान्मानुषोत्पत्तेस्तिर्यगादिभ्यस्तिर्यगुत्पत्तेश्च दर्शनात् शुक्तिरजतवदागन्तुकत्वमेव समञ्जसमिति प्राप्ते - अभिधीयते - यथा लोके क्षीरस्य तक्रादिसंयोगेन स्वभावसिद्धक्षीरत्वनिवृत्तिपूर्वकदधित्वपरिणामसिद्धिद्योतनात् कीटजात्युत्पन्नभृङ्गस्य स्वजात्यतिरिक्तक्रिमिजन्तोस्स्वभावक्रिमित्वनिवृत्तिपूर्वकस्वसमानरूपप्राप्ति- tathā ghaṭanāghaṭanasamarthasya sarvaśaktiviśiṣṭasya bhaktavatsalasya bhaktābhīṣṭaphalapradāyakasya sarvavidyāśrayasya satyakāmasya satyasaṃṅkalpasya paraśivasya svabhaktasvābhāvikajīvabhāvanivṛttipūrvakapunarāvṛttirahitasvasvarūpaprāpti-
SK
किञ्च - द्यावापृथिवी जनयन्देव एव इत्यादिश्रुतिषु शिवस्य उपकरणनिरपेक्षकतया गगन-पवनानल जलादिविचित्रजगज्जन्मादिकारणत्वं श्रूयते चेतनपुरुषादचेतनलोम-नखाद्युत्पत्तिरचेतनगोमये चेतनवृश्चिकाद्युत्पत्तिश्च दृश्यते | अतस्तस्य परमेश्वरस्य अघटितघटनसामर्थ्यं सिद्धम् | तत्र दृष्टान्तं दर्शयति - देवादिवदपि लोके || २५ || यथा लोके परिच्छिन्नशक्त्यवच्छिन्नानां देवर्षिसिद्धादीनां स्वानुग्रहेण स्वाश्रयपुरुषनिष्ठमौढ्य-दरिद्रत्वादिनिराकरणपूर्वकविद्याधन- svabhaktasvābhāvikajīvatvanirākaraṇapūrvakasvaprāptirūpakaivalyavibhūti- इत्यादिश्रुतिषु शिव एव हि देवोन्तस्स्थितमिच्छावशाद्बहिः | योगीव निरुपादानमर्थजातं प्रकाशयेत् || इति स्मृतौ परमेश्वरस्याघटितघटनाकर्मसन्धानविचित्राअनन्तशक्तिमत्वं श्रूयते | तस्मात्तन्महिमातिशयित्वे न शङ्काकलङ्कः | कृत्स्नप्रसक्त्यधिकरणम् || ९ || परशिवस्य ब्रह्मणः मूर्तामूर्तोभयात्मकत्वप्रतिपादनम् एवं परमेश्वरस्य स्वाभाविकजीवत्वनिवृत्तिपूर्वकस्वात्मप्राप्तिप्रदायकशक्तिमत्वं प्रसाध्य तस्यैव मूर्तामूर्तोभयात्मकत्वं दर्शयति | कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा || २६ || वेदान्तेषु ब्रह्म निरवयं सावयवं वा निरवयवं चेत् कृत्स्नप्रसक्तिः व्यापकस्य ब्रह्मणः जगन्निर्माणे परिच्छिन्नत्वप्रसङ्गः | सावयवं चेत् निरवयवत्वशब्दकोओ वा | निरवयवत्वप्रतिपादकश्रुत्यप्रामाण्यप्रसङ्गः | तस्मात्परमेश्वरस्य स्वतन्त्रत्वात् मूर्तामूर्तोभयत्वमङ्गीकर्तव्यम् | सत्यात्मप्राणारामं मन आनन्दम् अप्राणो अचक्षुः आकाश अचिन्त्यमव्यक्तमनन्तबोधं शिवं प्रशान्तममृतं ब्रह्मयोनिम् उमासहायं परमेश्वरं प्रभुं नीलकण्ठं प्रशान्तं | ध्यात्वा मुनिर्गच्छति भूतयोनिम् इत्यादिश्रुतिशतेषु शिवस्य परब्रह्मणः मूर्तामूर्तात्मकत्वस्य मूर्तशिवोपासनया सर्वाभीष्टसिद्धिपूर्वकनिरवयवसाक्षिप्रापकत्वस्य च दर्शनात् जगत्कारणत्वं निरवयवस्य सावयवस्य वेति सन्देहः |
SK
निरवयवब्रह्मप्रतिपादकानां सावयवब्रह्मप्रतिपादकानां च तमःप्रकाशवत्परस्परविरोधात्तदुभयमप्रमाणमेव | तदुभयश्रुतिस्वीकारे व्यवस्थोच्छेदप्रसङ्गः | तस्मात्प्रधानस्य परमाण्वादीनां वा जगत्कारणत्वमुपपन्नमिति प्राप्ते - प्रचक्ष्महे - स्वतन्त्रत्वाच्छिवस्य मूर्तामूर्तत्वमुपपन्नम् | उदिते जुहोति | अनुदिते जुहोति यदैर्वा यजेत व्रीहिभिर्वा यजेत इत्यादिश्रुति प्रामाण्यात् उभयसिद्धिरिति न्यायेन तयुभयस्वीकारवदत्रापि मूर्तामूर्तोभयविधायक श्रुतिदर्शनात्तदुभयं विधेयमेव | तदुभयोरेकांशप्राधान्येऽपि अर्धजरतीन्यायेन श्रुत्यप्रामाणताप्रसङ्गो दुर्निवारः | शिवस्यावयवित्वेन महाकैलासाद्यप्राकृतदिव्यवैभवस्थानेषु स्थित्वा तदुपासकानां भक्तानां सालोक्यादित्रिविधनित्यकल्याणविभूतिं दत्वा स्वनिरवयवचिद्घनोपासकानां निरस्तसमस्तदोषादिकलङ्कानां कैवल्यविभूत्यात्मकस्वप्राप्तिं विदधाति | तस्मात्तदुभयोपाअनमप्युक्तम् | यत्सत्वे यत्सत्वं इति न्यायेन शरीरपरिग्रहेण देवादीनां पुराणेषु दुःखित्वदर्शनात् सालोक्यादित्रिविधमुक्तिप्राप्तानां भक्तानां च तदा शरीरपरिग्रहे दुःखप्राप्तिरनिवार्येतिचेन्न तेषां कारणशरीरत्वात् | पुण्यपापकर्मशरीरिणामेव प्राकृतदुःखादिप्राप्तिः | अप्राकृतानां स्वेच्छा कृतविग्रहाणां तन्नियमो नास्ति | यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिं | तदा विद्वान् पुण्यपापे विधूय निरञ्जनं साम्यमुपैति इति श्रुतिदर्शनात् | न चक्षुषा गृह्यते नापि वाचा यतो वाचो निवर्तन्ते अप्राप्यमनसा सह इत्यादि वचनैः शिवस्य मनोवाचामगोचरत्वव्यवस्थापनात्तस्य शरीरित्वाङ्गीकारो न विधेय इत्याशङ्कायामाह - श्रुतेस्तु शब्दमूलत्वात् || २७ ||
SK
तु शब्दः पूर्वपक्षनिरासार्थः | तं त्वौपनिषदं पुरुषं पृच्छामि ऋतं सत्यं परं ब्रह्म अणोरणीयान् त्रियम्बकं यजामहे नावेदविन्मनुते तं बृहन्तं आत्मा गुहायां निहितोऽस्य जन्तोः इत्यादि श्रुतिषु शिवस्य परब्रह्मणः शब्दमूलत्वात् वेदप्रमाणकत्वात् श्रुतेः तदुभयविधायकश्रुतिबलाच्च तस्य निरवयवत्व-सर्वोपास्यत्व-विलक्षणत्व-सर्वाधारत्व- nanvekasya bhedābhedavatvaṃ mūrtāmūrtatvaṃ satyāsatyatvaṃ jñānājñānatvaṃ kāryakāraṇatvaṃ vyāpakatvāvyāpakatvaṃ vyāpyatvāvyāpyatvaṃ ca vastuvirodhādayuktamiti cettadavicāritaramaṇīyam | lokavedasiddhatvāt | loke mṛdghaṭayordīpa-prabhayoścandra-candrikayoḥ prabhākara-ātapayoḥ śakti-śaktyośca bhedābhedavatvam | pradhānasya kāraṇāvasthāyāmamūrtatvaṃ kāryāvasthāyāṃ mūrtatvam | pavanasva sāvayavatvena digekadeśavartitvaṃ niravayavatvena nikhilajajadvayāpakatvaṃ | prātyakṣikasarpasya satyatvaṃ rajvāropitasarpasyānityatvam | ghaṭādīnāṃ mṛdātmakatvena satyatvam kambugrīvādi rūpeṇāsatyatvam | citrasthitaparvatādīnāmasatyatvam arthakriyānugataparvatādīnāmeva satyatvam khadyotasya prakāśāprakāśatvam | jīvasya jñānā'jñānavatvaṃ puruṣaikaśarīre śarīrasya cetanatvaṃ nakharomadantānāmacetanatvam devādīnāṃ yogīśvarādīnāñcaikakāle sakalalokavartitvam vyomnastatkāryapavanānala-jala-bhūmyādiṣu pūrṇatvamapūrṇatvaṃ ca dṛṣṭam | vede ca - vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ja satyamabhavat iti darśitam | atastasya sarvaśaktatvāt svatantratvātsarvamavirodham | apāṇipādo'hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śṛṇomyakarṇaḥ ahaṃ vijānāmi viviktarūpo na cāsti vettā mama ityādinā kaivalye'pi śarīrendriyādyanapekṣatayā tasya sarvaśaktatvaṃ śrūyate | ataḥ sāvayavasya brahmaṇa eva vicitrajagannirmāṇādihetutvam | niravayavasyāpi brahmaṇaḥ jagatkāraṇatvapratipādanam niravayavasya brahmaṇaḥ kathaṃ sāvayavatvaṃ prapañcakāraṇatvamityāśaṅkāyāmāha -
SK
आत्मनि चैवं विचित्राश्च हि || २८ || परिच्छिन्नशक्तिविशिष्टे निरवयवे जीवात्मन्येव स्वमनश्शक्त्या जाग्रत्प्रपञ्चवत्स्वप्नकाले गजतुरगादिनानाविधप्रपञ्चकल्पनाविचित्राः दृष्टाः | एवं सर्वशक्तिविशिष्टे निरवयवे परमात्मनि परशिवे स्वमायाशक्त्या विचित्रनानाविध ब्रह्माण्डकल्पनमुपपन्नम् | किञ्च - चेतनपुरुषेऽचेतनकेशनस्वादिविचित्राः जलानलादीनामन्योन्यविजातीयानां औष्ण्यादिशक्तयश्च विजातीयाः दृश्यन्ते | तमः प्रकाशवद्विरुद्धस्वभाववह्निसलिलयोरविरोधित्वेन समुद्रे दृष्टत्वात् पुरुषशरीरे जाठराग्निदर्शनाच्च लोकातीतस्य सर्वमहिमातिशयस्य शिवस्य न किञ्चिदनुपपन्नम् तदुक्तं भगवता वादरायणेन - निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः | कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते || इति प्रश्ने - शक्तयस्सर्वभावानां अचिन्त्यज्ञानगोचराः | यतस्ततो ब्रह्मणस्ताः सर्गाद्या भावशक्तयः || भवन्ति तपसां श्रेष्ठ पावकस्य यथोष्णता || इति | श्रुतिश्च किंस्विद्वनं क उ स वृक्ष आशीद्यतो द्यावापृथिवीनिष्टतष्टुः मनीषिणो मनसा पृच्छते ब्रह्मवनं ब्रह्म स वृक्ष आसीत् मनीषिणो मनसो विब्रवीमि वो ब्रह्माध्यतिष्ठद्भुवनानि धारयन् इति श्रुतिस्मृतिष्वपि निरवयवस्य परमशिवस्यैव कर्तुस्वदर्शनात्तदेव युक्तम् | निरवयवस्य निर्गुणस्य ब्रह्मणः जगत्कारणत्वे जीववन्मायावशत्वमस्तीति आशङ्कायामाहा - स्वपक्षदोषाच्च || २९ ||
SK
स्वपक्षेह्ययस्कानसूचीन्यायेन निर्गुणस्य ब्रह्मणः सत्तावशात् प्रकृतिजगत्कारणप्रतिपादकाद्वैतपक्षे दोषाच्च निरवयवप्रकृतिजगत्कारणदोषाच्च उत केवलजडस्य जगत्कारणत्वायोगेन तत्सान्निध्यात् प्रधानस्यायस्कान्तसूचीदृष्टान्तेन जगत्कारणत्वाङ्गीकारेऽपि ब्रह्मणः निर्विशेषत्वभङ्गः | तच्छक्तेः तदधीनत्वात् तस्य सगुणत्वमनिवार्यम् | निरवयवस्य प्रधानस्य महदादिविचित्रविश्वाकारपरिणामवत्वं सांख्यैरप्यङ्गीकृतम् | कणादादिभिरपि तथैव निरवयवनिरंशनिष्प्रदेशजडपरमाणुसंयोजनेन जगदाकारपरिणामत्वमङ्गीकृतम् | तथापि जडस्य स्वातन्त्र्यायोगेन तत्कारणत्वं ब्रह्मण्यर्थात्सिद्धम् | तस्मात्स्वपक्षदोषो दुर्वारः | या मा सा माया इति व्युत्पत्या मायायाः शशशृङ्गत्वावगमात् जडाजडयोर्मायाब्रह्मणोः सत्यत्वासत्यत्वस्वभावयोः घटपटवत्परस्परविलक्षणत्वात्तदयोगे तस्य जगत्कारणत्वायोगात् निर्विकारस्य मायिकत्वासम्भवाच्च रज्जुसर्पवद्ब्रह्मणि मायाध्यस्तत्ववादस्समुचित इत्याशङ्कायामाह - सर्वोपेता च तद्दर्शनात् || ३० || सर्वेपेता - जगज्जन्मादिसर्वशक्तिविशिष्टा परा शक्तिः | तद्दर्शनात् - तस्मिन् ब्रह्मणि परशिवे दर्शनात् श्रुतिप्रतिपादितत्वादित्यर्थः | पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च मायान्तु प्रकृतिं विन्द्यात् मायिनन्तु महेश्वरम् | इन्द्रो मायाभिः पुरुरूप ईयते इत्यादिश्रुतिषु सर्वगतस्य निरवयवस्य परमेश्वरस्य स्वाभाविकसर्वशक्तिमत्वं प्रतिपाद्यते | तस्मान्न कदाचिदपि निर्विशेषं ब्रह्म त्रिगुणात्मकजगदुपादानकारणं भवेत् | तस्य शक्तिद्वयविशिष्टतया माया भिन्नशक्तिः चिच्छक्तिरभिन्नशक्तिः | एवं स्वतन्त्रोऽघटितघटनसमर्थोऽद्वितीयश्शिवः कालत्रयेप्येकरूपतया स्थितः | तस्य निर्विशेषत्वे जगत्कारणत्वं न सम्भवति | एवं तस्य स्वाभाविकशक्तिमत्व सर्वकारणत्वादिदर्शनेन तदध्यस्तमिथ्यावादो न युक्तः | ब्रह्मणः सर्वशक्तिविशिष्टत्वप्रतिपादनम्
SK
सर्वशक्तिमत्वेन ब्रह्मणः जगत्कारणत्वाङ्गीकारे मृदादिवत्परिणामित्वविकारित्वादिदोषः प्रसज्येत इत्याशङ्कायामाह - विकरणत्वान्नेति चेत्तदुक्तम् || ३१ || विकरणत्वात् अचक्षुः श्रोत्रं तदपाणिपादम् इत्यादौ विकरणत्वात् - शरीरेन्द्रियादिसाधनरहितत्वात् नेतिचेत् - ब्रह्मणः जगत्कारणत्वं न सम्भवतीति चेत्त दुक्तम् | तत्रोत्तरं - शब्दमूलत्वात् विचित्राश्च हि इत्यदिना | वेदैकप्रमाणस्य ब्रह्मणः शरीरेन्द्रियाद्यभावे हि सर्वकार्यसमर्थत्त्वमुपपन्नम् | तथा च - अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इति श्रुतिर्भगवतः प्रमाणभूता | पराऽस्य शक्तिः पादोऽस्य विश्वा भूतानि इत्यादिषु विचित्रानन्तशक्तिकरस्य परशिवस्य स्वशक्त्येकांशेन जगदात्मकत्वं स्वतो जगद्विलक्षणत्वं च व्यपदिश्यते | शैवपुराणे च - विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः | अध्वानमध्वपतिमध्वविदो वदन्ति तस्मै नमस्सकललोकविलक्षणाय || इति दर्शितम् | अतः सर्वशक्तिविशिष्टस्सर्वेश्वरः परमशिव एव सर्वदा मुमुक्षुभिराश्रयणीयः | ब्रह्मणः निर्विशेषत्ववादनिरसनम् निर्विशेषस्य निर्विकारस्य ब्रह्मणः जगत्कारणत्वे विकारित्वं प्रसज्येत तस्मान्माया शबलितब्रह्मण एव जगत्कारणत्वमित्याशङ्क्य निराकरोति - न प्रयोजनवत्वात् || ३२ ||
SK
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति श्रुतिदर्शनात् ब्रह्मणः कदाचिदपि निर्विशेषत्वं न सम्भवति प्रयोजनवत्वात् यतो वा इमानि भूतानि इत्यादौ जगज्जन्मादिप्रयोजनस्य ब्रहण्येव दर्शनात् प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः इत्यादौ ब्रह्मणः प्रयोजनवत्वावगमात् | अमृतस्य देवधारणो भूयासम् सर्वलिङ्गगṁ स्थापयति पाणिमन्त्रं पवित्रम् इत्यादौ भक्ततारणार्थं स्थूल-सूक्ष्मकारणशरीरेषु इष्ट-प्राण-भावसंज्ञकलिङ्गरूपेण धारणप्रयोजन व्यपदेशात् | प्रकर्षेण योजनमस्थास्तीति प्रयोजनवान् | तद्भावात् प्रकर्षेण परमप्रेमास्पदत्वेन योजनं प्रयोजनं संयोजनं स्थूलादिशरीरेषु इष्टादिलिङ्गरूपेण धारणं सम्भवति |प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायेन मुमुक्षूणां प्रयोजनाभावे तं न कोयाश्रयेत | सर्वेषां च भक्तानां ऐहिकामुष्मिकफलप्रयोजनं फलप्राप्तिनिर्विशेषे नोपपद्यते | अतः रज्जुसर्पवन्मायाशबलितब्रह्मकारणत्ववादो ह्यविचारितरमणीयः | जलादि प्रतिबिम्बवदलीकस्य जडस्य मायाप्रतिफलितस्य जगत्कारणत्वायोगात् निष्कलं निष्क्रियं शान्तं एतस्माज्जायते प्राणः इत्यादिषु निष्क्रियत्वस्य च द्योतनात् जगज्जन्मादि कारणत्वं निर्विशेषब्रह्मणः सविशेषशबलस्य वेति सन्दिह्यते | निर्विशेषचिन्मात्रब्रह्मणि न कदाचिदपि जगज्जन्मादिहेतुत्वं सम्भवति निर्विकारत्वान्निष्क्रियत्वान्निश्शक्तिकत्वाच्च | अतस्तत्रारोपितमायाकल्पितशबलेश्वरस्य जगत्कारणत्वमुपपन्नमिति प्राप्ते सिद्धान्तमाह -
SK
न प्रयोजनवत्वादिति | पराऽस्य शक्तिर्विविधैव श्रूयते इति श्रुतिदर्शनाद्ब्रह्मणस्सविशेषत्वं सम्भवति कुतः प्रयोजनवत्वात् | सविशेषब्रह्मण्येव सर्ववेदान्तप्रतिपाद्यस्य देवमनुष्याणां सर्वाभीष्टप्रदानास्य प्रपोजनत्वस्य सम्भवात् | तन्मायावादिमतमध्यात्मवादिभिरनादरणीयम् | तथाहि - निर्विशेषवस्तुवादिभिर्निर्विशेषे वस्तुनि इदं प्रमाणमिति कथं वक्तुं शक्यते सविशेषवस्तुविषयत्वात् सर्वप्रमाणानाम् | यस्तु स्वानुभवसिद्ध इति स्वगोष्ठीनिष्ठः समयः सोऽप्यात्मसाक्षिकसविशेषानुभवेन निरस्तः | इदमहमदर्शं इति यत्किञ्चिद्विशेषविशिष्टविषयत्वात् सर्वेषामनुभवानाम् | सविशेषमनुभूयमानोऽनुभवः केनचिदुक्त्याभासेन निर्विशेष इति निष्कृष्यमाणः निष्कर्षहेतुभूतैस्सत्तातिरित्तैस्स्वासाधारणैरस्वभावविशेषैस्सविशेष एवावतिष्ठते | ततः कैश्चिद्विशेषैर्विशिष्टस्यैव वस्तुनोऽन्ये विशेषाणिरस्यन्त इति न क्वचिन्निर्विशेषवस्तु सिद्धिः |
SK
धियो हि सोपाधिकत्वस्य स्वप्रकाशत्वस्य च ज्ञातुर्विषयप्रकाशनस्वभावतयोपलब्धेः स्वाप-मद-मूर्च्छासु च सविशेषानुभव इति स्वावसरे निपुणतरमुपपादयिष्यामः | स्वाभ्युपगताश्च नित्यत्वादयो ह्यनेकविशेषास्सन्त्येव | ते च न वस्तुमात्रमिति शक्योपपादनाः | वस्तुमात्राभ्युपगमे सत्यपि तत्प्रकारभेदविवाददर्शनात् स्वाभिमततत्प्रकारभेदैश्च स्वमतोपपाद नात् प्रामाणिकैस्सविशेषमेव वस्त्विति वक्तव्यम् | शब्दस्य तु विशेषेण सविशेष एव वस्तुन्यभिधानसामर्थ्यं पदवाक्यरूपेण प्रवृत्तेः | प्रकृतिप्रत्यययोगेन हि पदत्वम् | प्रकृतिप्रत्यपयोरर्थभेदेन पदस्यैव विशिष्टार्थप्रतिपादनमवर्जनीयम् | पदभेदश्चार्थभेदनिबन्धनः | पदसंघातरूपस्य वाक्यस्यानेकपदार्थसंसर्गविशेषाभिधायित्वेन निर्विशेषवस्तुप्रतिपादनाऽसामर्थ्यात् न निर्विशेषवस्तुनि शब्दः प्रमाणम् | प्रत्यक्षस्य निर्विकल्पकसविकल्पकभेदभिन्नस्य न निर्विशेषवस्तुनि प्रामाण्यम् | सविकल्पकं जात्याद्यनेकपदार्थविशिष्टविषयत्वादेव सविशेषविषयम् | निर्विकल्पकमपि सविशेषविषयमेव | सविकल्पके स्वस्मिन्ननुभूतपदार्थविशिष्टप्रतिसन्धानहेतुत्वात् | निर्विकल्पकं नाम केनाचिद्विशेषेण वियुक्तस्य ग्रहणम् न सर्वविशेष रहितस्य | तथाभूतस्य कदाचिदपि ग्रहणादर्शनादनुपपत्तेश्च | केनचिद्विशेषेणेदमित्थमिति हि सर्वा प्रतीतिरुपजायते | तस्मात् पूर्वोक्तमेव समञ्जसम् | परमेश्वरः स्वलीलार्थमेव जगत्सृजति ननु परमानन्दस्वभावस्य निरवयवस्य शिवस्य किमर्थं जगज्जन्मादिहेतुत्वमित्याशङ्क्याह - लोकवत्तु लीलाकैवल्यम् || ३३ ||
SK
शिवस्य परब्रह्मणः कदाचिल्लीलाविलासः कदाचित्कैवल्यं स्वयमेवावस्थानं च निर्णीयते | यथा लोके सर्वैश्वर्य-धैर्य-वीर्यपराक्रमधुर्यस्य सप्तद्वीपपरिवृतसर्वमण्डलाधीश्वरस्य महाराजस्य कदाचिद्विलासेन कार्यारम्भकत्वं कदाचित्तूष्णीमवस्थानं च दृश्यते किञ्च सर्वेषां चेतनानां यथा स्वाभाविकत्वेन प्राणापानादिवायुसञ्चारः तथा परमानन्दकन्दस्य परमशिवस्य स्वभावेन जगज्जन्मादिकार्यानुसरणं वा स्यात् | सम्प्राप्तसर्वकामस्य परमानन्दस्वभावस्य शिवस्य स्वलीलया जगज्जन्मादिकार्यारम्भव्यापारकत्वं प्रलयादूर्ध्वं पुनः सृष्टिपर्यन्तं स्वयमेवावास्थानं च निरवद्यम् | वैषम्यनैर्धृण्याधिकरणम् || १० || परमकारुणिकस्य परमेश्वरस्य वैषम्यनैर्धृण्यादिदोषनिराकरणम् | निर्गुणस्य निर्लिप्तस्य परशिवस्य जगत्कारणत्वाङ्गीकारे रोगारोगादिधर्मानुसारेणदेवतिर्यङ्मनुष्याद्युत्तमाधम-मध्यमसृष्ट्या बद्धजीववद्वैषम्यनैर्धृण्यादिदोषो दुर्वार इत्याशङ्क्याह - वैषम्यनेर्धृण्येन सापेक्षत्वात्तथा हि दर्शयति || ३४ || लोके जीवानां सुखदुःखभोगदर्शनात्परमेश्वरस्य वैषम्यनैर्धृण्यादिप्रसक्तिर्नोपपद्यते कुतः सापेक्षत्वात् जीवकृतपुण्यपापसापेक्षत्वात् | तथा हि दर्शयति श्रुतिद्योतनात् | यद्यपिपरमपुरुषस्य शिवस्य स्वाभाविकचिच्छक्तिसत्त्वेन निरवयस्यापि विचित्रनानाविधजगज्जन्मादिहेतुत्वं संभाव्येत तथापि देवतिर्यङ्मनुष्याद्युत्तम-मध्यमाधमसृष्ट्या बद्धजीववत्पक्षपातः प्रसज्येत | स्वर्गनरकसुखदुःखादिधर्माणां चेतनेषु द्योतनात् परशिवस्य नैर्धृण्यादिदोषो न वर्जनीय इति चेन्न तत्रोत्तरं सापेक्षत्वादिति | सृज्यमानदेवादिशरीराणां जीवकर्मसापेक्षत्वाद्विषमसृष्टिरनिवार्या | देवादितत्तज्जीवनां तत्तत्कर्मसापेक्षत्वं दर्शयन्ति हि श्रुतयः - साधुकारी साधुर्भवति पापकारी पापी भवति पुण्यः पुण्येन कर्मणा भवति | पापः पापेन कर्मणा भवति इति | तथा च व्यासोक्तः -
SK
निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि | प्रधानकारणीभूताः यतो वै सृज्यशक्तयः || निमित्तमात्रमुक्तैव नान्यत्किञ्चिदपेक्ष्यते | नीयते तपसां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् || इत्यादिना देवादिवैचित्र्यहेतुः सृज्यमानक्षेत्रज्ञ-प्राचीनकर्म शक्तिरेवेत्युक्तम् | जगन्मिथ्यात्ववादनिरसनम् अवान्तरसृष्टौ पुण्यपापसापेक्षत्वं शिवस्योपपद्यते | प्राथमिकसृष्टौ जीवनां पुण्यपापकर्मणामभावान्निर्गुणब्रह्मकर्तृत्वे वैषम्यनैर्धृण्यादिदोषो ह्यवर्जनीयः | तस्मान्मिथ्याभूतस्य जगतः मिथ्याभूतशबलब्रह्मकारणत्वमेव युक्तमित्याशङ्क्याह - न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च || ३५ || सृष्टेः प्राक् जीवानां कर्मनास्त्येव कुतः अविभागात् | चेतनाचेतनप्रपञ्चस्य प्रलये विनाशेन कर्मणामपि नष्टत्वादिति चेन्न अनादित्वात् | प्रवाहतरङ्गन्यायेन सृष्टिप्रलयपरम्परायाः अविच्छिन्नतया सत्त्वेन प्रपञ्चस्यानादित्वात् | पूर्वसृष्टिकृत जीवकर्मणां प्रलयेऽपि सुप्तिवत्संस्काररूपेण स्थितत्वात् | उपपद्यते पुनः सृष्टिकाले जीवकृत पुण्यपापकर्मसापेक्षत्वात् युज्येत | अपि च पुनः प्रलयकोल उपलभ्यते च | परमेश्वरेच्छया सूक्ष्मरूपत्वमाप्नोति | अतः प्रपञ्चस्य सत्यन्वमनिवार्यम् | सृष्टेः प्राग्जीवानां ब्रह्मणि सूक्ष्मात्मकत्वेन स्थितिः कथमुपपद्यते कथं जीवकृतपूर्वकर्मसापेक्षत्वं सृष्टिवैषम्यं चोच्यत इति चेन्न अनादित्वात् प्रवाहतरङ्खन्यायेन जीवानां तत्कृतकर्मणां च तदनादित्वेनाप्यविभाग उपपद्यते | यतस्तदानीं जीवानां ग्रीष्मकाले क्षितौ बीजानामिवसूक्ष्मरूपेण स्तितिरुपपद्यते | तथा तत्कर्मणामप्येवमङ्गीक्रियते | तदनङ्गीकारे कृतनाशाकृताभ्यागमदोषः प्रसज्येत | तस्मात् क्षेत्रज्ञानां तत्तत्कर्मणां चानादित्वमनिवार्यम् | अतः सृष्टेः प्रवाहरूपेण सत्यत्वमुपदिश्यते - ज्ञाऽज्ञौ इत्यत्र क्षेत्रज्ञानामनादित्वव्यवस्थापनात् तत्तत्कर्मणामप्यर्थात्सिद्धमनादित्वम् |
SK
ननु जीवानां तत्तत्कर्मणां च अनादित्वमस्तु तथापि परशिवस्य जीवदेहकल्पनादेव तत्तत्कर्मोपपद्यते | अचेतनकर्मणां चेतनप्रयोजनत्वेन सामर्थ्यादीश्वरस्यैव तत्तत्कर्मकारणत्वमर्थात्प्रसज्येत | सुप्तिवत्स्वात्मलयसुखानुभवाज्जीवानां सर्वक्लेशायतनशरीरे कुतो भूयः प्रवेशात्मकसृष्टिरुपपय्दते | तस्मात्तस्य निर्दयत्वम् | जीवानां शरीरप्रवेशाभावे तदशेषक्लेशनिर्मुक्तस्वानुग्रहस्वप्राप्त्यभावात् सृष्टिरिति चेद्युक्तम् | तथापि सर्वेषां क्षेत्रज्ञानामेककाले स्वानुग्रहेण सर्वकर्मपाशनिर्मुक्त्तया कल्याण कैवल्यात्मकस्वविभूतिः कुतो न दीयते इति चेन्न शिवः परमकारुणिकोऽपि सर्वक्षेत्रज्ञैककालमुक्तिप्रदानसमर्थोऽपि यथा पृथिवीश्वरवत् स्वशासनानुसारेण जीवकर्मपरिपाकानुसारेण तत्पाशविच्छेदं करोति | लोके प्रभुरपि स्वाज्ञोल्लंघिनं पुत्रमपि स्वदण्डनं विना स्वानुग्रहप्राप्तिभाजनं न करोति | तथा परमेश्वरः जीवकृतपुण्यपापपालनं विना स्वप्राप्ति नानुगृह्णाति | प्रभाकरः स्वप्रभाप्रसारणेन विकसनानुकूलपङ्कजान्येव विकासयति तद्वदीश्वरः शम-
SK
ननु एष एव साधुकर्म कारयति तं य ऊर्ध्वलोकं निनीषयति इत्यादिश्रुतिषु परमेश्वरस्यैव जीवनियामकत्वश्रवणान्न किञ्चिज्जीवस्य कर्तव्यम् | तस्मात्तस्य वैषम्यनैर्वृण्यदोषस्सम्भवतीति चेत्तदयुक्तम् | जीवानां परमेश्वरवत् सर्वकर्तृत्वसर्वज्ञत्वाद्यभावेऽपि चेतनत्वात् किञ्चिज्ञत्वं किञ्चित्कर्तृत्वं स्वेच्छया सम्भवति | अतस्वेच्छाकृत कर्मानुभूतिर्जीवानामैवार्या | यथा लोके मनुष्यादयः प्रभाकरप्रभानुसारेण स्वस्वव्यापारेषु प्रवर्तन्ते तद्वत् क्षेत्रज्ञाः स्वकर्मानुसारेण परमेश्वरसत्तावशात् तत्तत्कर्म कुर्वन्ति | ध्यात्वा मुनिर्गच्छति भूतयोनि. समस्तसाक्षिं तमसः परस्तात् इति भगवती श्रुतिस्तस्य सूर्यवत्सर्वसाक्षित्वं दर्शयति | अतस्तस्य न दोषकलङ्कः | तस्माज्जीवजगत्कर्मणां अनादित्वं परमेश्वराधीनत्वं च सिद्धम् | सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत् न जायते न म्रियते वा विपश्चित् | इत्यादिश्रुतिषु - सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः | तस्यैवांशो जीवलोके प्राणिनां हृदये स्थितः || विस्फुलिङ्गा यथा वह्नौ जायन्ते काष्ठयोगतः | अनादिकर्मसम्भन्धात् तदंशाश्चमहेशितुः || अनादिवासनायुक्तः क्षेत्रज्ञ इति कीर्तितः | शिवभक्तिश्च सर्वेषां सर्वदा सर्वतोमुखी || तस्यान्तु विद्यमानायां यस्तु मर्त्यः प्रमुच्यते | शिवभक्तिमतिर्यस्य सोऽन्त्यजोऽपि विमुच्यते || इति शिवगीतोपनिषत्सु प्रकृतिं पुरुषं चैव विध्यनादी उभावपि इति कृष्णगीतासु च निर्दिष्टम् | अतस्तस्य न कलङ्कलेपः | सर्वधर्मोपपत्त्यधिकरणम् || ११ || निष्कलं निष्क्रियं शान्तं इत्यादि निष्क्रियत्वविधायकश्रुतीनामधिष्ठानब्रह्मविषयत्वम् | सत्यकामस्सत्यसंकल्पः इत्यादिश्रुतीनां मायाप्रतिफलितशबलब्रह्मपरत्वमेवाङ्गीकर्तव्यम् | नोचेत्परस्परविरोधेन वेदान्तानां सर्वेषामप्रामाण्यप्रसक्तिर्दुर्वारेत्याशङ्कायामाह - सर्वधर्मोपपत्तेश्च || ३६ ||
SK
लोकवत्तु लीलाकैवल्यमि त्यत्र कदाचित्काले ब्रह्मणः लीलाप्रयोजनत्वस्य कदाचित्काले स्वयमेवावस्थानस्य च व्यवस्थापनात् यस्सर्वज्ञस्ससर्ववित् वामदेवाय नमो न तस्य कार्य करणं च विद्यते इत्यादिश्रुतिसिद्धसर्वज्ञत्वादि धर्माणां परमेश्वरलीलाकालपरत्वं निष्क्रियत्वादिधर्माणां स्वशक्तिसंकोचावस्थापरत्वं च तस्मात्सर्वेषां सगुणत्व-निर्गुणत्व-धर्माणां एकस्यैव परशिवस्योपपत्तिः | एक एव रुद्रो न द्वितीयाय तस्ये एकमेवाद्वितीयं ब्रह्म इत्यादिश्रुतिषु ब्रह्मैकत्वव्यपदेशात् स्वमुखप्रतिबिम्बवत्कल्पितस्य मायाशबलितस्य सत्तायोगात् व्यापकस्य निरवयवस्य प्रतिफलनाभावात् स्वमुखप्रतिबिम्बनिष्ठनेत्रोन्मीलनादिधर्माणां स्वस्यैव सम्भवाच्च प्रात्यक्षिकश्रुतिस्मृतिविरुद्धगौतमदधीचि-व्यासादिशापानुकूलशिव- śivabhaktānāṃ anādaraṇīyānyanāśrayaṇīyānīti siddham | kecidadvaitamāśritya viḍālapratimā narāḥ | rudreṇasāmyamanyeṣāṃ pravadanti vimohitāḥ || dadhīcinā gautamena ye śaptāḥ brāhmaṇādhamāḥ | kalāvavatariṣyanti nindakāste bahirnarāḥ || dadhīcivyāsadūrvāsaśaptā loke dvijādhamāḥ | jaganmithyātvamāśritya patanti narakārṇave || jagajjīveśvarāṇāṃ ca mithyātvapratipādanāt | bhaktibhāvaṃ parityajya gamiṣyanti yamālayam || ahaṃ brahmeti vādena devatābhaktivarjitaḥ | naro yāti mahāghoranarakaṃ kālamakṣayam || ityādiskānda-laiṅgya-kūrmādipurāṇeṣu jaganmityātvavādasya nirastatvāt parabrahmaṇa śśivasya jagajjanmādikāraṇavedāntavādo mumukṣubhirāśrayaṇīya iti niṣpratyūham || iti śrīmadyativrajaparivṛḍhaśrīpatipaṇḍitabhagavatpādācāryakṛtabhedābhedātmaka- श्रीकरभाष्ये विरोधपरिहारपराभिधानस्य द्वितीयाध्यायस्य एकादशाधिकरणावच्छिन्नस्मृत्यनवकाशादिषट्त्रिंशत्सूत्रात्मकः प्रथमः पादः समाप्तः | पञ्चपादिका समाप्ता मध्यमाधिकारिणं प्रति पञ्चपादिका शिवाद्वैतमञ्जरी ठे ᳚ष्रीकर Bहाष्य अथ श्रीकरभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः |
SK
द्वितीयपादावतारिका अत्र प्रथमपादे विपक्षाः सांख्य-योग-काणादाद्वैतादि वादाः सर्ववेदान्तसिद्ध द्वैताद्वैतमतसिद्धान्तस्वपक्षसिध्यर्थं निराकृताः | ईक्षत्यधिकरणे वेदाप्रतिपाद्यत्वेन प्राधानजगत्कारणत्वं निरस्य ब्रह्मकारणत्वं साधितम् इह तु केवलयुक्त्याभासप्राधान्येन प्रधानस्य जगत्कारणत्वं युक्तमित्याक्षेपे युक्तियुक्तत्वेन पुनर्निरस्तत्वादपौनरुक्त्यदोषः | सांख्यादि दुर्वादनिरासेन मुमुक्षूणां शुद्धवैदिकमार्गनिष्ठादृढीकरणादस्य पादस्य श्रुत्यविरोधाध्यायसङ्गतिः | सर्ववेदान्तसमन्वयविरोधपरिहारपूर्वकस्वपक्षस्थापनस्य पूर्वपादेऽपि सिद्धत्वादुभयोः पूर्वापरपादयोरुपजीव्योपजीवकभावसङ्गतिः | परपक्षप्रतिक्षेपाभावे स्वपक्षसिद्धान्तज्ञानायोगात् स्वपक्षस्थापनहेतुत्वेन पूर्वपादस्योपजीव्यत्वं व्याचक्ष्यते | परपक्षनिरासपरत्वादेवे सर्वेषामधिकरणानां सारसङ्गतिरुपदिष्टा | रचनानुपपत्यधिकरणम् || १ || सर्वधर्मोपपत्तेश्च इति पूर्वपादान्त्यसूत्रे निर्गुणसणगुत्वादिधर्माणां परमशिवशक्तिसङ्कोचविकासत्वेन उपपत्तिरिति सिद्धान्ते तेषां धर्माणां सङ्कोचविकासहेतुत्वं प्रधानस्यापि सम्भवतीत्याक्षेपे तन्निराकारणार्थमधिकरणारम्भकत्वादेषा अवान्तरसङ्गतिः | तत्र फलमुपक्रमोपसंहाराभ्यां वेदविरुद्धयुक्त्याभासनिरासपूर्वकसर्ववेदान्तसिद्धभेदाभेदमतसमन्वय- racanānupapatteśca nānumānaṃ pravṛtteśca || 1 || ānumānaṃ anumānasādhyaṃ pradhānaṃ jagatkāraṇaṃ na bhavati | kutaḥ racanānupapatteḥ - svaparajñānaśūnyasya jaḍasya pradhānasya jagatsṛṣṭihetutvānupepatteśca | kiñca - jaḍasya pravṛtteḥ - prayatnasyāpyanupapatteśca | tasmātpradhānaṃ jagatkāraṇaṃ na bhavati | svecchābhāvāt | sāṃkhyasya vedāntānukūlatvena śiṣṭairādṛtatvāt tatroktapradhānajagadupādānatvaṃ pramāmūlaṃ bhrāntimūlaṃ veti sandihyate | pradhānajagadupādānatvaṃ pramāṇamūlameva |
SK
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त | षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः || इति तत्त्वसंग्रहः | मूलप्रकृतिर्नाम - सुखदुःखमोहात्मकानि लाघवप्रकाशचलनोपष्टम्भगौरवावरणकार्याण्यत्यन्तातीन्द्रियाणि कार्यैकनिरूपणविवेकान्यन्यूनानतिरेकाणि समतामुपेतानि सत्त्वरजस्तमांसि द्रव्याणि | स च सत्त्वरजस्तमसां साम्यरूपा प्रकृतिरेका स्वयमचेतना अनेकचेतनभोगापवर्गार्थां नित्या सर्वगता सततविक्रिया न कस्यचिद्विकृतिः अपि तु परमकारणमेव | महदाद्यास्तद्विकृतयोऽन्येषां च प्रकृतयस्सप्त महानहङ्कारः शब्द- vaikārikastaijaso bhūtādiśca kramātsātviko rājasastāmasaśca | tatra vaikārikāssāttvika-indriyādi bhūtādistāmaso mahābhūtahetubhūtatanmātrahetuḥ | taijaso rājasastūbhayoranugrāhakaḥ | ākāśādīni pañcamahābhūtāni śrotrādīni pañcajñānendriyāṇi vāgādīni pañcakarmendriyāṇi mana iti kevalavikārāḥ ṣoḍaśa | puruṣastu niṣparimāṇatvena na kasyacitprakṛtiḥ na kasyacidvikṛtiścaḥ ata eva nirdharmakaścaitanyamātravapurnityo niṣkriyassarvagataḥ pratiśarīraṃ bhinnaśca | nirvikāratvānniṣkriyatvācca tasya kartutvaṃ bhoktṛtvaṃ ca na sambhavati | evaṃbhūte'pi tatve mūḍhāḥ prakṛti-paruṣasannidhimātreṇa puruṣasya caitanyaṃ prakṛtāvadhyasya prakṛteśca kartṛtvaṃ sphaṭikamaṇāviva jākusumasvāruṇimānaṃ puruṣe adhyasya ahaṃ kartā bhoktā iti manyante | evamajñānādbhogaḥ tattvajñānādapavargaḥ tadetatpratyakṣānumānāgamaiḥ sādhayanti | tatra pratyakṣasiddheṣu padārtheṣu na tava vivādapadamasti | āgamo'pi kapilādisarvajñajñānamūlamiti pratipādanātprāmāṇyam |
SK
किञ्च - आध्यात्मिकादितापत्रयदुःखमोहात्मकप्रकृतिसामान्यधर्माणामेव पपञ्चे दर्शनात् प्रधानस्यैव जगदुपादानत्वं समुचितं दन्वितत्वात् | यद्यत्रान्वितं तत्तत्रोपादानं घटादिवत् | कारणधर्माः कार्ये परिसंक्रामन्तीतिन्यायेन प्रधाननिष्ठजडदुःखमोहादिधर्माणां प्रपञ्चे द्योतनाच्च तदेव जगदुपादानमिति प्राप्ते - समाधीयते - स्मृत्यनवकाशाधिकरणे कापिलशास्त्रं निरस्तम् | रचनानुपपत्तेश्चे त्यत्र अनुमीयत इत्यनुमानमिति त्वदुदीरितप्रधानस्य जडत्वेन चेतनाचेतनात्मकविचित्रनानाविधप्रपञ्चहेतुत्वं न सम्भवति | कुतः रचनानुपपत्तेः | अचेतनत्वात् परस्परभावाभिज्ञानशून्यत्वेन विचित्रनानाविधजगद्रचनानुपपत्तेः | तद्यथा लोके मण्डप-गोपुरप्राकार- tattanmaṇṭapādikalpanādarśanāt cetanādhiṣṭhitatvena tatkāryārambhadyotanācca na jaḍasya pradhānasya svātantryeṇa jagadupādānatvamupadiśyate | cakāradvayamanaikāntyaṃ samuccinoti na hyanvitaṃ śaukalyaṃ gotvādikāraṇatvavyāptamiti | mābhūdanvitānāmapi śauklyādidharmāṇāṃ kāraṇatvam | dravyasya tu hemādeḥ kāryānvitasya kāraṇatvavyāptirastyeva | sattvādīnyapi dravyāṇi kārye anvitāni kāraṇatvavyātpānīti na ca vācyam | yatastatvādayo dravyadharmāḥ na tu dravyasvarūpaṃ sattvādayo'pi pṛthivyādidravyagatalaghutvaprakāśādihetubhūtāstatsvabhāvaviśeṣā eva | na tu mṛddhiraṇyādidravyatayā kāryānvitā upalabhyante | guṇā ityeva ca sattvādīnāṃ prasiddhiḥ yacca kāraṇavyavasthāsiddhaye jagata ekamūlatvamuktam | tadapi satvādīnāmanekatvānnopapadyate | ata eva kāraṇavyavasthā ca na sidhyati | sāmyāvasthāssattvādaya eva hi pradhānamiti tanmatam | ataḥ karāṇabahutvādanavasthā tadavasthaiva | na ca teṣāmaparimitatvena vyavasthāsiddhiḥ | aparimitatve hi trayāṇāmapi sarvagatatvena nyūnādhikatvābhāvādvaiṣamyāsiddheḥ kāryārambhāsambhavāt kāryārambhāyaiva parimitatvamavaśyāśrayaṇīyam |
SK
ननु रथादिषु स्पष्टं चेतनाधिष्ठितत्वं दृष्टं तद्व्यतिरिक्तं सर्वं पक्षीकृतमित्याशङ्क्याह - पयोम्बुवच्चेत्तत्रापि || २ || पयसः क्षीरस्य स्तनेषु विद्यमानस्य यथा स्वातन्त्र्येण चलनं तद्वदचेतनस्य प्रधानस्य स्वातन्त्र्येण महदहंकारादिजगद्धेतुत्वमिति चेत्तत्रापि क्षीरजलयोरपि परमेश्वर प्रेरितत्वेन स्वातन्त्र्याभावात् इति सूत्रसूचितार्थः | अत्र अन्योऽप्यर्थः - अचेतनप्रधानस्य विचित्रजगद्रचनानुपपत्तिरिति यदुक्तं तन्न यतः पयोम्बुवत्प्रवृत्तिर्दृश्यते | पयसस्तावद्दधिभावेन परिणममानस्यान्यानपेक्षस्याद्यपरिस्पन्दप्रभृति परिणामपरम्परा स्वत एवोपपद्यते | यथा च वारिदविमुक्तस्याम्बुन एकरसत्य नारिकेलताल-चूत- dṛśyate | tathā pradhānasyāpi pariṇāmasvabhāvasyānyānadhiṣṭhitasyaiva pratisargāvasthāyāṃ sadṛśapariṇāme'vasthitasya sargāvasthāyāṃ guṇavaiṣamyanimittavicitrapariṇāma upapadyate | yathoktaṃ - pariṇāmatassalilavatpratipratiguṇāśrayaviśeṣāditi | tadevāvyaktamananyāpekṣaṃ pravartata iti cet - vadāmaḥ tatrāpīti | yattu kṣīrajalādidṛṣṭāntatayā nidarśitaṃ tatrāpi prājñānadhiṣṭhāne pravṛttirnopapadyate | tadapi pūrvatra pakṣīkṛtamityabhiprāyaḥ | yo rudro agnau yo apsu ityādiṣu sarvāntaryāmitvena sarvaprerakatvasya parameśvara eva vyavasthāpanāt payombusrāvacalanapariṇāmādikamapi parameśvarādhīnamiti nirṇīyate jaḍasya svātantryābhāvāt | hevantaramāha - vyatirekānavasthiteścānapekṣatvāt || 3 ||
SK
कापिलमते व्यतिरेकानवस्थितेः प्रधानव्यतिरिक्त प्रेरकेश्वरस्यानवस्थितेरनङ्गीकारात् अनपेक्षत्वात् स्वातन्त्र्यान् सर्वकालेष्वपि प्रकृतेः प्रपञ्चसृष्टिः स्यात् | तस्याश्च तदुपादानकारणत्वेन चेतनाचेतनप्रपञ्चप्रलयासम्भवप्रसङ्गात् | परशिवस्य सर्वज्ञत्वेन कालज्ञानदर्शनात् | कदाचिज्जगन्निर्मापकत्वलीला तूष्णीं भूतावस्थायां कदाचित् केवलावस्था च युक्ता | प्रज्ञाहीनस्य प्रधानस्य अन्धसन्ध्यान्यायवत्कालज्ञानायोगान्न कदाचिदपि जगत्कारणत्वमुपपद्यते | सत्यसंकल्पेश्वराधिष्टानानपेक्षपरिणामित्वे सर्गव्यतिरेकेण प्रतिसर्गावस्थाया अनवस्थितिरिति प्रसङ्गाच्च न प्राज्ञाधिष्ठितं प्रधानं कारणम् | प्राज्ञाधिष्ठितत्वे तस्य सत्यसङ्कल्पत्वेन सर्गप्रतिसर्गविचित्रसृष्ठि व्यवस्थासिद्धिः | प्राज्ञाधिष्ठितत्वेऽपि तस्यावाप्तसमस्तकामस्य परिपूर्णस्यानवधिकातिशयानन्दस्य निरवद्यस्य निरञ्जनस्य सर्गप्रतिसर्गव्यवस्थाहेत्वभावात् विषमसृष्टौ निर्दयत्वप्रसङ्गाच्च समानोऽयं दोष इति न च वाच्यम् | परिपूर्णस्यापि लीलार्थः प्रवृत्तिसम्भवात् सर्वज्ञस्य तस्य परिणामविशेषापन्नप्रकृतिदर्शनरूपसर्गप्रतिसर्गविशेषहेतोसम्भवात् क्षेत्रज्ञकर्मणामेव विषमसृष्टिव्यवस्थापकत्वाच्च | नन्वेवं क्षेत्रज्ञपुण्यपापरूपकर्मभिरेव सर्वावस्थास्सिध्यन्तीति कृतमीश्वरेणाधिष्ठात्रा | पुण्यापुण्यरूपानुष्ठितकर्मसंस्कृता प्रकृतिरेव पुरुषार्थानुरूपं तथा तथा व्यवस्थया परिणंस्यते तथा विषादिदूषितानामन्नपानादीनामौषधविशेषाप्यायितानां च सुखदुःखहेतुभूतः परिणामविशेषे देशकालाण्ययवस्थया दृश्यते | किञ्च सर्गप्रतिसर्गव्यवस्था देवादिविषमसृष्टिकैवल्य व्यवस्था च सर्वप्रकारपरिणामशक्तियुक्तस्य प्रधानस्यैवोपपद्यत इति चेत् अन भिज्ञो भवान् पुण्यापुण्यकर्मस्वरूपयोः | पुण्या-पुण्यस्वरूपे हि शास्त्रैकसमधिगम्ये | शास्त्रं चानादिनिधाअविच्छिन्नपाठवेदाख्याक्षरराशिः |
SK
तच्च सम्प्रदायानाघ्रातप्रमादादिदोषगन्धान् न सहते | तच्च परमपुरुषाराधनतद्विपर्ययरूपे कर्मणी पुण्यापुण्ये तदनुग्रहनिग्रहायत्ते तत्फले च सुखदुःखे इति वदति | तदाह भट्टाचार्यः | फलसंबिभत्सया इति कर्मभिरात्मानं पिप्रीषन्ति स प्रीतोऽलं फलायेति शास्त्रमर्यादा इति | तथा च श्रुतिः - इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः इति | तथा च भगवता स्वयमेवोक्तम् - यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततः | स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः || इति | तानहं द्विषतः क्रूरान् संसारेषु नराधमान् | क्षिपाम्वजस्रमशुभानासुरीष्वेव योनिषु || इति च | स भगवान्महादेवोऽवाप्तसमस्तकामस्सर्वज्ञस्सर्वेश्वरस्सत्यसंकल्पः स्वमाहात्म्यानुगुणलीलाप्रवृत्तः एतानि कर्माणि समीचीनान्येतान्यसमीचीनानीति कर्मद्वैविध्यं संविधाय तदुपासनोचितदेहेन्द्रियादिकं तन्नियमनशक्तिं च सर्वेषां क्षेत्रज्ञानां सामान्यतः प्रदिश्य स्वशासनावबोधिशास्त्रं प्रदर्श्य तदुपसंहारार्थं चान्तरात्मतयानुप्रविश्यानुमन्तृतया च नियच्छंस्तिष्ठति | क्षेत्रज्ञास्तु तदाहितशक्तयः तत्प्रदिष्टकारणकलेवरादिकास्तदाधाराश्च स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणी उपाददाते | ततश्च पुण्यरूपकर्मकारिणं स्वशासनानुवर्तितं ज्ञात्वा धर्मार्थकाममोक्षैर्वर्धयते शासनातिवतिनं च तद्विपर्ययैर्योजयति | अतस्स्वातन्त्र्यादिवैकल्पचोद्यानि नावकाशं लभन्ते | दया हि नाम स्वार्थनिरपेक्षा परदुःखासहिष्णुता सा च स्वशासनातिवृत्तिव्यवसायिन्यपि प्रवर्तमाना न गुणायावकल्पते | प्रत्युत अपुंस्त्वमेवावहति तन्निग्रह एव तत्र गुणः | अन्यथा शत्रुनिग्रहादीनामगुणत्वप्रसङ्गात् | स्वशासनानिवृत्तिव्यवसायनिवृत्तिमात्रेण अनाद्यनन्तकल्पिपचितदुर्विषयानन्तापराधानङ्गीकारेण सः निरतिशयसुखसंवृद्धये स्वयमेव प्रवर्तते | यथोक्तं -
SK
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | ददामि बुद्धियोगं तं येन मामुपयान्ति ते || तेषामेवानुकम्पार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || इति | न तस्मात् प्रधानं जगत्कारणम् | गोभक्षिततृणादिपदार्थानां क्षीराद्याकारेण परिणामदर्शनादचेतनप्रधानस्य स्वातन्त्र्येण प्रपञ्चोपादानत्वमाशंक्याह - अन्यत्राभावाच्च न तृणादिवत् || ४ || तृणादिपदार्थानां - निमित्तान्तरानपेक्षतया क्षीराद्याकारेण परिणामित्वात्तद्वदचेतनप्रधानस्यापि महदहंकारादिप्रपञ्चाकारेण परिणामित्वं सम्भवतीति चेन्न | तृणस्यापि स्वातन्त्र्येण परिणामित्वं युज्यते कुतः अन्यत्राभावाच्च | वृषभोदरविद्यमानतृणादीनां क्षीराकारेण परिणामायोगात् स्वातन्त्र्येण परिणामित्वाङ्गीकारे सर्वपशुभक्षिततृणादीनां क्षीरा कारेण परिणामः प्रसज्येत तस्मात् परमशिवप्रेरणेनैव तृणादीनां क्षीराकारेण परिणामित्वं व्यपदिश्यते | प्रधानस्य स्वतः परिणामित्वाभ्युपगमे पुरुषापेक्षाभावः प्रसज्येत अचेननस्य प्रधानस्य स्वतः पुरुषार्थसाधनत्वे घटादीनां स्वतो जलाकर्षणसिद्धिरापद्येत | प्रज्ञाधिष्ठितत्वेऽपि प्रधानं चेतनपुरुषार्थं साधयतीति चेत् तदीश्वरायत्तमेव | अचेतनस्य चेतनानुकूलप्रयोजनेच्छापरिणामित्वायोगात् न प्रधानस्य तत्त्वतो जगदुपादानत्वम् | पुनर्हेत्वन्तरं दर्शयति - पुरुषाश्मवदिति चेत्तथापि || ५ || पुरुषाश्मवदिति - चेद्यथा लोके क्षेत्रज्ञसन्निधानादिन्द्रियाणां विषयेषु व्यापारः यथाश्मनां अयस्कान्तमणीनां सन्निधानादयस्सूच्यादिचलनं तद्वत्परमशिवसान्निध्यात्प्रधानस्यापि महदादिजगदाकारेण परिणामस्सम्भवतीति चेत् तथापि - दोषाणामनिर्मोक्षप्रसङ्गः | तथाहि - प्रधानस्य पुरुषप्रेरितत्वे प्रधानं स्वतन्त्रमिति स्वाभ्युपगमविरोधः | कूटस्थस्य प्रवर्तकत्वे कूटस्थत्वहानिः स्वव्यापारं विना प्रवर्तकत्वायोगात् | पङ्गोरपि वाग्व्यापारस्य सत्त्वात् |
SK
अयस्कान्तस्यायस्सन्निधिरेव व्यापारः | प्रधान-पुरुषसन्निधेर्नित्यत्वेन व्यापारत्वायोगः | नित्यस्यापि व्यापारत्वे प्रधानप्रवृत्त्यनुच्छेदादयो दोषाः द्रष्टव्याः | तस्मात्प्रधानस्य तत्सन्निधानात्स्वातन्त्र्यमपि न सम्भवति | यद्यपि चैतन्यमात्रवपुः पुरुषो निष्क्रियः प्रधानमपि दृक्छक्तिविकलं तथापि पुरुषसन्निधानादचेतनं प्रधानं प्रवर्तते तथा दर्शनात् | गमनशक्तिविकलदृक्छक्तियुक्तपङ्गुसन्निधानात् तच्चैतन्योपकृतो दृक्छक्तिविकलः प्रवृत्तिशक्तोऽन्धः प्रवर्तते | अयस्कान्तसन्निधानाच्चयः प्रवर्तते | एवं प्रकृतिपुरुषसंयोगकृतो जगत्सर्गः प्रवर्तते | यथोक्तम् - पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य पग्बन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः इति चेत् - अत्रेत्तरं तथापीति | एवमपि प्रधानस्य प्रवृत्यसम्भवस्तदवस्थ एव | पङ्गोर्गमनशक्तिविकलस्यापि मार्गदर्शनतदुपदेशादयः कादाचित्काः विशेषास्सहस्रशः सन्ति | अन्धोऽपि चेतनस्संस्तदुपदेशावगमेन प्रवर्तते | तथायस्कान्तमणेरप्ययस्समीपागमनादयस्सन्तिः | पुरुषस्य तु निष्क्रियस्य न तादृशा विकारास्सम्भवन्ति | सन्निधानमात्रस्य नित्यत्वेन नित्यसर्गप्रसङ्गः नित्यमुक्तस्वेन बन्धाभावोऽपवर्गाभावश्च | अतः प्रधानं कारणं न भवति | पुनर्हेत्वन्तरमाह - अङ्गित्वानुपपत्तेः || ६ || प्रलये गुणत्रयसाम्यावस्थारूपेण विद्यमानानां गुणत्रयाणां ईश्वरप्रेरणं विना परस्परमङ्गाङ्गिभावानुपपत्तेश्च सात्त्विकराजसतामसप्रपञ्चसृष्टिर्न सम्भवति | गुणत्रयाणामुत्कर्षनिकर्षनिबन्धनादङ्गाङ्गिभावाद्धि जगत्प्रवृत्तिः प्रति प्रति गुणाश्रमविशेषादिति वदद्भिर्भवद्भिरुपगम्यते | प्रतिसर्गावस्थायान्तु साम्यावस्थानां सत्व-रजस्तमसां अन्योन्याधिक्यन्यूनत्वाभावादङ्गाङ्गिभावान्पपत्तेर्न जगत्सर उपपद्यते | तथापि वैषम्याम्युपगमे नित्यसर्गप्रसङ्गः | तस्मान्न प्रधानं जगदुपादानम् |
SK
गुणत्रयाणामपि समप्राधान्येन प्रवृत्ययोगः | किन्तु सात्त्विकसृष्टौ सत्वगुणस्य प्राधान्यम् | तदितरयोरुपसर्जनत्वम् | एवं राजसतामसयोरपि कालभेदेन नानाविधस्वभावविशिष्टप्रधानमेवानुमीयत इत्याशङ्क्य निरस्यति - anyathānumitau ca jñānaśaktiviyogāt || 7 || anyathā - nānāsvabhāvaviśiṣṭatvena pradhānasyānumitāvaṅgīkriyamāṇāyāmapyacetanasya jñānaśaktiviyogāt jñānaśaktyabhāvāt | kālaviśeṣajñānāyogātsarvadā tasya jagadupādānakāraṇatvaṃ na sambhavati | punarhetvantaramāha - abhyupagame'pyarthābhāvāt || 8 || abhyupagame'pi - prājñānādhiṣṭhitasya svātantryeṇa pariṇāmāṅgīkāre'pi jaḍasya pradhānasya prapaṃcanirmāṇena arthābhāvādbhogamokṣādiprayojanābhāvāt prapañcajanakatvamanupapannam | anumānena pradhānasidhyabhyupagame'pi pradhānena prayojanābhāvānna tadanumātavyam | puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya iti pradhānasya prayojanaṃ puruṣabhogāpavargāvabhimatau | tau ca na sambhavataḥ | puruṣasya caitanyamātravapuṣo niṣkriyasya nirvikārasya nirmalasya tata eva nityamuktasvarūpasya prakṛti darśanarūpau bhogastadviyogarūpo'pavargaśca na sambhavati | evaṃ rūpasyaiva prakṛtisannidhānāt pariṇāmaviśeṣasukhadarśanarūpabhogasambhāvanāyāṃ prakṛtisannidhānasya nityatvena kadācidapyapavargo na sidhyati | prayojanarahitasyāpi śivasya parabrahmaṇaḥ līlayā jagajjanakatvamupapannam | acetanasya pradhānasya līlā'sambhavāt jagatkāraṇatvamayuktam | punarhetvantaramāha - vipratiṣedhāccāsamañjasam || 9 || vipratiṣedhācca - sakalavedāntaviruddhatvācca sāṃkhyamatamasamañjasamanupapannam | vipratiṣiddhaṃ cedaṃ sāṃkhyānāṃ darśanam | tathāhi - prakṛteḥ padārthatvena dṛśyatvena bhogyatvena ca
SK
प्रकृतेर्भोक्तारमधिष्ठातारं द्रष्टारं साक्षिणं च पुरुषमभ्युपगम्य प्रकृत्यैव साधनभूतया तस्य कैवल्यमपि प्राप्यं वदन्त एव तस्य नित्यनिर्विकारचैतन्यमात्रस्वरूपतया अकर्तृत्वं कैवल्यं च स्वरूपमेवाहुः | तत एव बधमोक्षसाधनानुष्ठानं मोक्षं च प्रकृतेरेवेत्याहुः | एवम्भूतनिर्विकारोदासीनपुरुषसन्निधानात् प्रकृतेरितरेतराध्यासेन सर्गादिप्रवृत्तिं पुरुषभोगापवर्गार्थत्वं चाहुः | संघातपरार्थत्वात् त्रिगुणादिविपर्ययात् अधिष्ठानात् | पुरुषोऽस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च || तस्माच्च विपर्ययात्सिद्धं साक्षित्वमस्य पुरुषस्य | कैवल्यं माध्यस्थ्यं द्रष्टत्वं अकर्तुभावाच्च || पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य || इत्युक्त्वा एवमाहुः | तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् | संसरति बध्यते मुच्यते नानाश्रया प्रकृतिरिति || तस्मात् तत्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् | गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः || पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य | पंग्बन्धवदुभयोरपि संयोगस्तत्कृतस्सर्गः || इति | साक्षित्व-द्रष्टृत्व-भोक्तृत्वादयो नित्यनिर्विकारस्य अकर्तृतदासीनस्य कैवल्यैकस्वरूपस्य न सम्भवति | एवं रूपस्य तस्य अध्यासमूलभ्रमोऽपि न सम्भवति अध्यासभ्रमयोरपि विकारित्वात् प्रकृतेश्च तौ न सम्भवत तयोश्चेतनधर्मत्वात् | अध्यासो नाम अन्यस्मिन्नन्यधर्मानुसन्धानम् | स च चेतनधर्मो विकारश्च | न च पुरुषस्य प्रकृतिसन्निधिमात्रेणाध्यासादयस्सम्भवन्ति | निर्विकारत्वादेव सम्भवन्ति चेत् नित्यं प्रसज्येरन् | सन्निधेरकिञ्चित्कारणत्वं च न विलक्षणत्वादित्यत्र प्रतिपादितम् | प्रकृतिरेव संसरति बध्यते मुच्यते चेत्कथं नित्यमुक्तस्य पुरुषस्योपकारिणी सेत्युच्यते वदन्ति हि - नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः | गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति || तथा -
SK
प्रकृतिर्येन पुरुषेण यथास्वभावा दृष्टा | तस्मात्पुरुषात्तदानीमेव निवर्तते || इति चाहुः | रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् | पुरुषस्य तथात्मानं प्रकाश्य निर्वते प्रकृतिः || प्रकृतेस्सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति | या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य || इति यत्तदस᳚ण्गतम् | पुरुषौ हि नित्यमुक्तत्वात् निर्विकारत्वात् न तां कदाचिदपि पश्यति नाध्यस्यति च स्वयं च स्वात्मानं न पश्यत्यचेतनत्वात् | पुरुषस्य स्वात्मदर्शनं स्वदर्शनमिति नाध्यस्यति च स्वयमचेतनत्वात् पुरुषस्य दर्शनरूपविकारा सम्भवात् | अतस्सन्निधिमात्रमेव दर्शनमित्युच्चते | सन्निधेर्नित्यत्वेन नित्यदर्शनप्रसङ्ग इत्युक्तम् | स्वरूपातिरिक्तकादाचित्कसन्निधिरपि नित्यनिर्विकारस्य नोपपद्यते | किञ्च मोक्षहेतुस्तु स्वसन्निधानरूपमेव दर्शनं चेद्बन्धहेतुरपि तदेवेति नित्यवद्बन्धो मोक्षश्च स्याताम् | अयथार्थदर्शनं बन्धहेतुः यथावत्स्वरूपदर्शनं मोक्षहेतुरिति चेदुभयविधस्यापि दर्शनस्य सन्निधानरूपतानतिरेकात् सदोभयप्रसङ्ग एव | सन्निधेरनित्यत्वे तस्य हेतुरन्वेषणीयः तस्यापीत्यनवस्था | अथैतद्दोषपरिजिहीर्षया स्वरूपसद्भाव एष सन्निधिरिति तदा स्वरूपस्य नित्यत्वेन नित्यवद्बन्धमोक्षौ | अतः एवमादेर्विप्रतिषेधात् सांख्यानां दर्शनमसमञ्जसम् | येऽपि कूटस्थनित्यनिर्विशेषस्वप्रकाशचिन्मात्रं ब्रह्म अविद्यासाक्षित्वेन अपारमार्थिकबन्धमोक्षभागिति वदन्ति तेषायप्युक्तरीत्या अविद्यासाक्षित्वाध्यासाद्यसम्भवात् असामञ्जस्यमेव |
SK
इयांस्तु विशेषः - सांख्याः जनन-मरऽप्रतिनियमादिव्यवस्थासिध्यर्थं पुरुषबहुत्वमिच्छन्ति | ते तु तदपि नेच्छन्तीति सुतरामसामाञ्जस्यम् | यत्तु प्रकृतेः पारमार्थ्यापारमार्थ्यविभागेन वैषम्यमुक्तं तदयुक्तम् | पारमार्थिकत्वेऽप्यपारमार्थिकत्वेऽपि नित्यनिर्विकारस्वप्रकाशैकरसचिन्मात्रस्य व्यतिरिक्तसाक्षित्वाद्यनुपपत्तेः पारमार्थिकत्वे तु तस्याः दृश्यत्वबाध्यत्वाद्युपगमात्सुतरामसङ्गतम् | औपाधिकभेदाभेदवादेऽप्युपाधिसंबन्धिनो ब्रह्मणोऽयमेव स्वभाव इत्युपाधि संबंधाद्यनुपपत्तेरसामञ्जस्यं प्रागेवोक्तम् | महद्दीर्घाधिकरणम् || २ || एवं स्मार्तमतं निराकृत्य वैशेषिकनैयायिकमतं निराकरोति - महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् || १० || कारणगुणा हि कार्यगुणारम्भकाः इति न्यायात् ज्ञानानन्दात्मकेश्वरोपादानत्वे जगतस्तद्धर्मात्मकत्वं स्यादिति चेत् ह्रस्वपरिमण्डलाभ्यां ह्रस्वाभ्यां परिमण्डलाभ्यां परमाणुभ्यां महत्परमाण्यपेक्षया अधिक परिणामविशिष्टं दीर्घं च द्वयगुणं यथोत्पद्यते तथा ज्ञानानन्दात्मकेश्वरस्य जडदुःखात्मकचेतनाचेतनप्रपञ्च्कारणत्वं समुचितम् | चेतनाचेतनात्मकत्वेन प्रपञ्चस्योपपन्नत्वात् जगतः परमाणुकारणत्वं ब्रह्मकारणत्वं वेति संशयः | कारणगुणाः कार्ये स्वसमानजातीयगुणारम्भकाः इति न्यायेन जडदुःखात्मकस्य प्रपञ्चस्य प्रज्ञानन्दात्मकस्य ब्रह्मणः परिणामत्वं नोपपद्यते | परमाण्वादीनामचेतनत्वेन चेतनक्षेत्रज्ञकर्मानुगुण्येनेश्वरप्रेरणया द्व्यणुकत्र्यणुकादिक्रमेण परमाणूनामेव जगत्कारणत्वं समञ्जसमिति प्राप्ते | वदामः - प्रधानकारणवादवद्युक्त्याभासप्रधानपरमाणुकारणवैशेषिकवादोप्य- dvayaṇukaparamāṇubhyāṃ mahaddīrghavatyaṇukotpattivādavadanyacca tadabhyupagataṃ sarvamasamañjasam | paramāṇubhyo dvayaṇukādikrameṇa jagadutpattivādavadasyāpyasāmañjasyamityarthaḥ |
SK
तथाहि - तन्तुप्रभृतयोह्यवयवास्स्वांशैः तैस्तैः पार्श्वैस्संयुज्यमाना अवयविनमुत्पादयन्ति | परमाणवोऽपि स्वकीयैस्तैस्तैः पार्श्वैस्संयुज्यमानाः द्वयणुकादीनामुत्पादका भवेयुः | अन्यथा परमाणूनां प्रदेशभेदाभावे सति सहस्रपरमाणुसंयोगेप्येकस्मात्परमाणोरततिरिक्तपरिमाणतया अणुत्व- paramāṇavo'pi sāṃśāssvakīyairaṃśaiḥ te ca svakīyairaṃśairityanavastheti na ca vācyam | avayavālpatva-mahattvābhyāṃ hi sarṣapa-mahīdharayorvaiṣamyam | paramāṇorapyanantāvayavatve avayavānantyasāmyātsarṣapa- परमाणूनां प्रदेशभेदाभावे सत्येकपरमाणुपरिमाणातिरेकप्रथिमा न जायते | सर्षप-महीधरयोरन्तरस्यैवासिद्धेः किं कुर्म इति चेद्वैदिकं पक्षः परिगृह्यताम् | यत्तु परैर्ब्रह्मकारणवाददूषणपरिहारपरमिदं व्याख्यातं तदसङ्गतं केवलं न पौनरुक्त्यं च | ब्रह्मकारणवादे परोक्तान् दोषान् पूर्वस्मिन् पादे परिहृत्य परपक्षप्रतिषेपो ह्यस्मिन् पादे क्रियते | चेतनाद्ब्रह्मणो जगदुत्पत्तिसम्भवश्च न विलक्षणत्वा दित्यत्र प्रपञ्चितः | अतो ह्रस्वपरिमण्डलाभ्यां महद्दीर्घाणुह्रस्वौत्पत्तिवदन्यच्च तदभ्युगतं सर्वं असमञ्जसं इति सूत्रतात्पर्यार्थः | परमाणुजगदकारणत्वाधिकरणम् || ३ || किमत्रान्पदसमञ्जसमित्याह - उभयथापि न कर्मातस्तदभावः || ११ ||
SK
परब्रह्मणश्शिवस्य क्षेत्रज्ञानां वा परमाणुप्रेरकत्वम् | उभयथापि - पक्षद्वयेऽपि परमाणूनां कर्म चलनं न सम्भवतीति क्षेत्रज्ञपरमेश्वरयोरुभयोरपि निरवयवत्वेन निरवयक्षेत्रज्ञानां निरवयवपरमाणुभिस्सह संयोगसम्बन्धाभावादसम्बन्धयोः क्षेत्रज्ञपरमेश्वरयोः प्रेरकत्वाभावात् अतस्तदभावः - अतश्चलनाभावात् तदभावः परमाणूनामन्योन्यसंयोगाभावः | तथा च द्व्यणुकत्र्यणुकादिजगदुद्भवो न सम्भवति | परमाणुकारणवादे हि परमाणुगतकर्मजनित तत्संयोगपूर्वकद्व्यणुकादिक्रमेण जगदुत्पत्तिरिष्यते | तत्र निखिलजगदुत्पत्तिकारणभूतपरमाणुगतमाद्यं कर्मादृष्टकारितमित्यभ्युपगम्यते | अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनं अणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि इति | तदिदं परमाणुगतं कर्म स्वगतादृष्टकारितम् आत्मगतादृष्टकारितं वा उभयथापि न सम्भवति | क्षेत्रज्ञपुण्यपापानुष्ठानजनितस्यादृष्टस्य परमाणुतत्वासम्भवात् | संभवे च सदोत्पादकत्वप्रसङ्गः | आत्मगतस्यादृष्टस्य परमाणुगतोत्पत्तिहेतुत्वं न सम्भवति | अथादृष्टवदात्मसंयोगादणुषु कर्मोत्पत्तिः तदा तस्यादृष्टप्रवाहस्य नित्यत्वेन नित्यसर्गप्रसङ्गः | नन्वदृष्टं विपाकापेक्षं फलाय अलम् - कानिचिददृष्टानि तदानीमेव विपच्यन्ते कानिचिज्जन्मान्तरे कानिचित्कालान्तरे अतो विपाकापेक्ऽत्वान्न सर्वदोत्पादकत्वप्रसङ्ग इति | नैतत् अनन्तैरात्मभिरसङ्केतपूर्वकमयुगपदनुष्ठितानेकविधकर्मजनितानाम- yugapatsarvasaṃhāro dviparārdhakālaṃ avipākenāvasthānaṃ na ca saṃgacchate | na ceśvarecchāhitaviśeṣādṛṣṭasaṃyogādaṇuṣu karma ānumānikeśvarāsiddheḥ śāstrayonitvādityatropapāditatvāt | ato jagadutpatteḥ paramāṇugatakarmapūrvakatvābhāvaḥ | punarhetvantaramāha - samavāyābhyupagamācca sāmyādanavasthiteḥ || 12 ||
SK
किं च - नैयायिकमते तन्तुपटयोस्समवायपरिग्रहात् साम्यात् - समवायसम्बन्धस्यापि संयोगसम्बन्धतुल्यत्वात् घटपटसंयोगस्य यथा सम्बन्धान्तरमङ्गीकृतमेवं तन्तुपटसमवायस्यापि सम्बन्धान्तरं वक्तव्यम् | एवं तस्यापि तृतीयसम्बन्धान्तरं विवक्षितव्यम् | तथा चानवस्थितेः - अनवस्थाप्रसङ्गात् | केचित् नैयायिकमतमयुक्तं सयवायाभ्युपगमाच्चासमञ्जसम् | कुतः साम्यादनवस्थितेः समवायस्याप्यवयविजातिगुणवदुपपादकान्तरापेक्षासाम्यादुपपादकान्तरस्यापि तथेत्यनवस्थितेरसमञ्जसमेव | एतदुक्तं भवति - अयुतसिद्धानामाधाराधेयभूतानामिह प्रत्ययहेतुः यः सम्बन्धः स समवाय इत्यभ्युपगाम्यते | अपृथक्स्थित्युपलब्धीनां जात्यादीनां तदभावस्य निर्वाहकत्वेन चेत्समवायोऽभ्युपगम्यते समवायस्यापि तत्साम्यात्तथाभावहेतुरन्वेषणीयः | तस्यापि तथेत्यनवस्थितिः | समवायस्य तदपृथक्सिद्धत्वं स्वभाव इति परिकल्प्यते चेज्जातिगु.आनामेवैष स्वभावः परिकल्पनीयः न पुनरदृष्टचरं समवायमभ्युपगम्य तस्यैष स्वभाव इति कल्पयितुं युक्तमिति व्याचक्ष्यते | समवायस्य नित्यत्वे चानित्यत्वे च दोषस्समानोऽयम् | नित्यत्वे दोषान्तरमाह - नित्यमेव च भावात् || १३ || समवायस्य सम्बन्धत्वात्सम्बन्धस्य नित्यत्वे सम्बन्धिनो जगतश्च नित्यत्वमेव नित्यमेव भावात् असमञ्जसम् | अपि च परमाणूनां नित्यत्वम् | सर्वदास्य भावात् दृष्टत्वात् प्रलयेऽपि सृष्टिप्रसङ्गः | न चेश्वरप्रेरणवशात्कदाचिदेव सृष्टिर्न सर्वदेति वाच्यम् | निरवयवेश्वरस्य निरवयवपरमाणुभिस्सह स.योगसम्बन्धाभावेन प्रेरकत्वमेव न सम्भवतीति प्रागुक्तम् | पुनर्हेत्वन्तरमाह - रूपादिमत्वाच्च विपर्ययो दर्शनात् || १४ ||
SK
किं च - नैयायिकमते पृथिव्यप्तेजोवायुपरमाणूनां रूपरसगन्धस्पर्शविशिष्टत्वाङ्गीकारात् विपर्ययः - अनित्यत्वसावयवत्वादिदोषप्रसङ्गस्स्यात् | कुतः दर्शनात् - रूपादिमतां घटादीनां अनित्यत्वसावयवत्वदर्शनात् | तथा च परमाणूनामनित्यत्वे द्व्यणुकादिजगत्कारऽत्वं न सम्भवति | परमाणूनां पार्थिवाप्यतैजसवायवीयानां चतुर्विधानां रूप-रस-गन्ध- rūpādimatāṃ ghaṭādīnāmanitvatva-tathāvidhakāraṇāntarārabdhatvādidarśanāt | na hi darśanānuguṇyenādṛṣṭārthaḥ kalpyamānaḥ svābhimataviśeṣe'pyavasthāpayituṃ śakyaḥ | darśanānuguṇyena vā paramāṇūnāṃ rūpādimatvaṃ kalpyate | ato'pyasamañjasam | athaitaddoṣaparijihīrṣayā paramāṇūnāṃ rūpādimatvaṃ nābhyupagamyate | atasteṣāṃ jagatkāraṇatvaṃ na yuktam | atra hetvantaramāha - ubhayathā ca doṣāt || 15 || na kevalaṃ paramāṇūnāṃ rūpādimatvābhyupagama eva doṣaḥ | rūpādivirahite'pi kāraṇaguṇapūrvakatvāt kāryaguṇānāṃ pṛthivyādayo rūpādiśūnyāssyuḥ | tatparijihīrṣayā rūpādimatvābhyupagame pūrvoktadoṣa iti ubhayathā doṣāt asamañjasam | ato vaiśeṣikamatamayuktam | punarhetvantaramāha - aparigrahāccātyantamanapekṣā || 16 || kāpila-yogādipakṣasya śrutinyāyavirodhaparityaktasyāpi satkāryavādināṃ kvacidaṃśe vaidikaiḥ manvādibhiśca parigrāhyatā asti | kaṇādapakṣasya pūrvapakṣasthiterapyayogyatvena manvādiśiṣṭaiḥ aparigrahatvāt anupapannatvācca atyantamanapekṣaiva mokṣārthibhiriti veditavyam | samudāyādhikaraṇam || 4 || bauddhamataṃ nirākaroti - samudāya ubhayahetuke'pi tadaprāptiḥ || 17 || bauddhāstatra caturvidhāḥ - jñānārthobhayāstitvavādinaḥ tadubhayanāstitvavādinaḥ jñānamātrāstitvavādinaḥ tannāstitvavādina iti | prathamamubhyāstitvavādināṃ mataṃ nirasyate | tanmatamevaṃ darśitam -
SK
गन्धपरमाणुसमष्टिरेव क्षितिः | रसपरमाणुकदम्बकं सलिलम् | रूपपरमाणुबृन्दः अग्निः | स्पर्शपरमाणुसमुदायो वायुरिति व्यवह्रियते | तज्जातीयानि चेतनाचेतनगात्राणि घटपटादयश्च परमाणुपुञ्जा एव | गगनारविन्दवत् आकाशस्सर्वदात्यन्ताभावः | सोपद्रवज्ञानसन्तानात्मको जीवः | निरुपद्रवज्ञानसन्तानरूपवान् ईश्वर इति | किञ्च - बाह्याभ्यन्तरभेदेन समुदायो द्विविधः | बाह्यः पृथिव्यादिः | आन्तरः चित्तचैत्यात्मकः समुदायद्वयमेव सर्वं जगदिति | तथा हि - बाह्यसमुदायस्य परमाणवः कारणम् | ते च चतुर्विधाः पार्थिवाप्यतैजस- āntarasamudāyasya skandhapañcakaṃ kāraṇam | rūpa-vijñāna-vedanā- निरूप्यमाणाश्शब्दस्पर्शादयः रूपस्कन्धाः | तदभिव्यक्तिर्विज्ञानस्कन्धः | तज्जन्यदुःखं वेदनास्कन्धः | देवदत्तादिनाम संज्ञास्कन्धः | तेषां वासना संस्कारस्कन्धः | तेभ्यः पुञ्जितेभ्यः समुदायो जायत इति वदन्ति | तन्मतसिद्धभूतचतुष्टयवादो निरस्यते | उभयहेतुके भूतभौतिकात्मके परमाणुपुञ्जे परिग्राह्यमाणेऽपि तदप्राप्तिः तस्य समुदायस्याप्राप्तिः अनुपपत्तिः | तन्मते क्षेत्रज्ञानामीश्वरस्य च क्षणिकज्ञानसन्तानात्मकत्वेनानित्यतया क्षणिकपरमाणुमेलनकर्तृत्वासम्भवात् | अत्र वैशेषिकः परमाणुभेदेन शरीरादेराशुतरध्वंसव्यवस्थापनादात्मनः स्थायित्वाङ्गी काराञ्चार्धवैनाशिकः सर्वक्षणिकवादी तु पूर्णवैनाशिकः इति निर्णीयते | अतः अर्धवैनाशिक वैशेषिकमतनिराकरणात्परं पूर्णवैनाशिकमतं बुद्धिस्थमिदानीं निराक्रियते | तस्मादेषावान्तरसङ्गतिरूह्या | तत्र तावद्बुद्धमुनिसिद्धागमस्तु - वैभाषिक-सौत्रान्तिक-यौगाचार- vaibhāṣika-sautrāntikayorhi jñānaṃ tadatiriktapadārthāśca sarve kṣaṇikāssatyabhūtāssanti | paramiyān bhedaḥ - vaibhāṣikasya ghaṭādipadārthāḥ pratyakṣāḥ | sautrāntikasya tu jñānameva ghaṭapaṭādyākāreṇotpādmam | tenākāreṇa pratyakṣeṇāpratyakṣaghaṭādayo gamyanta iti vadanti |
SK
तत्रादौ वैभाषिक-सौत्रान्तिकयोः बाह्यार्थास्तित्वाविशेषात्तयोर्मतमेकीकृत्य तन्मतं प्रमाणमूलं भ्रान्तिमूलं वेति सन्दिह्यते तदुभयधर्माणामपि द्योतनात् वेदविरुद्धप्रत्यक्षसिद्धत्वाच्च | पूर्वपक्षः - पार्थिवादिपरमाणुसंघातात्मकभूतभौतिकबाह्यान् चित्तचैत्यरूपाभ्यन्तरान् प्रत्यक्षानुमानसिद्धानभ्युपयन्ति ते | अन्ये तु बाह्यार्थान् सर्वान् पृथिव्यादीन्विज्ञानानुमेयान् वदन्ति | अपरेत्वर्थशून्यं विज्ञानमेव परमार्थं सत् बाह्यार्थस्तु स्वप्नार्थकल्प इत्याहुः | त्रयोप्येतत् स्वाभ्युपगतं वस्तु क्षणिकमाचक्षते | उक्तभूतभौतिकचित्तचैत्यव्यतिरिक्तमात्माकाशादिकं स्वरूपेणैव नानुमन्यते | अन्ये तु सर्वशून्यत्वमेव सङ्गिरन्ते | तत्र ये बाह्यार्थास्तित्ववादिनः ते तावन्निरस्यन्ते | ते चैवं मन्यन्ते | रूप-रस-गन्ध-स्पर्शस्वभावाः पार्थिवाः परमाणवः | रूप- sparśasvabhāvāśca vāyavīyāḥ | te ca pṛthivyatpejovāyurūpeṇa saṃhanyante | tebhyaśca pṛthivyādibhyaḥ śarīrendriyaviṣayasaṅghātā bhavanti | tatra ca śarīrāntarvartigrāhakābhimānārūḍho vijñānasantāna evātmatvenāvatiṣṭhate | tata eva sarvo laukiko vyavahāraḥ pravartata iti prāpte tatrābhidhīyate - samudāya ubhayahetuko'pi tadaprāptiḥ iti |
SK
सिद्धान्तः - समुदायवादिना योऽयमणुहेतुकः पृथिव्यादिभूतात्मकस्समुदायः यश्च पृथिव्यादिहेतुकः | शरीरेन्द्रियविषयरूपस्समुदायः स्वीकृतः तस्मिन्नुभयहेतुकेऽपि समुदाये तत्प्राप्तिर्नोपपद्यते | जगदात्मकसमुदायोत्पत्तिर्नोपपद्यते इत्यर्थः | परमाणूनां पृथिव्यादिभूतानां च क्षणिकत्वाभ्युपगमात् क्षणध्वंसिनः परमाणवः भूतानि च कदा संहता व्याप्रियन्ते कदा वा संहन्यन्ते कदा विज्ञानविषयभूताः कदा च हानोपादानादि व्यवहारास्पदतां भजन्ते को वा विज्ञानात्मा कं च विषयं स्पृशति कं च विज्ञानात्मकमर्थं कदा वेदयेत् कं वा विदितमर्थं कश्च कदोपादत्ते स्रष्टा हि नष्टः सृष्टश्च नष्टः | तथा वेदिता विदितश्च नष्टः | कथं चान्येन दृष्टमन्यो वेदयते कथं चान्येन विदितमर्थं अन्य उपादत्ते ९? vastvantaratvānabhyupagamānna tannibandhanaṃ vyavahārādikamupapadyate | ahamartha evātmā sa ca jñātaiveti copapāditaṃ parastāt | tasmāt tanmataṃ bhrāntimūlam | atra hetvantaramāha - itaretarapratyayatvādupapannamiti cenna saṃghātabhāvānimittatvāt || 18 || avidyānāmitaretarahetutvenopapannaṃ saṃghātabhāvādikamiti cedetaduktaṃ bhavati | yadyapi kṣaṇikāssarve bhāvāḥ tathāpyavidyayaitatsarvamupapadyate | avidyā hi nāma viparītabuddhiḥ kṣaṇikādiṣu sthiratvādigocarā | tayā saṃskārākhyāḥ rāgadveṣādayo jāyante | tataścittābhijvalanavijñānam tataśca nāmākhyāścittacaityā pṛthivyādikaṃ ca rūpidravyam tataḥ ṣaḍāyatanākhyamindriyaṣaṭkam tataḥ sparśākhyaḥ kāyaḥ tato vedanādayaḥ tataśca punarapyavidyādayo yathoktāḥ ityanādiriyamavidyādikānyonyamūlā cakraparivṛttiḥ | evaṃ ca sarvaṃ pṛthivyadibhūtabhautikasaṃghātamantareṇa nopapadyate | tasmāt saṃghātabhāvādikamupapannamiti prāpte -
SK
तत्रोत्तरं न संघातभावानिमित्तत्वादिति | नैतदुपपद्यते एषामविद्यादीनां पृथिव्यादिभूतभौतिकसंघातभावं प्रत्यनिमित्तत्वात् | न खल्वस्थिरादिषु स्थिरत्वादिबुध्यात्मिका अविद्या तन्निमित्तरागद्वेषादयो वार्थान्तरस्य क्षणिकस्य संहतिहेतुतां प्रतिपद्यन्ते | शुक्तिकारजतादिबुद्धिर्हि न शुक्त्याद्यर्थसंहतिहेतुर्भवति | किञ्च - यस्य क्षणिके स्थिरत्वबुद्धिः स तदैव नष्ट इति कस्य रागादय उत्पद्यन्ते संस्काराश्रयं स्थिरमेकं द्रव्यमनभ्युपगच्छतां संस्कारानुवृत्तिरपि न शकाय कल्पयितुमिति सिद्धम् | पुनर्हेत्यन्तरमाह - उत्तरोत्पादे च पूर्वनिरोधात् || १९ || इतश्च क्षणिकत्वपक्षे जगदुत्पत्तिर्नोपपद्यते उत्तरक्षणोत्पत्तिकाले पूर्वक्षणस्य विनष्टत्वात् | तस्योत्तरक्षणं प्रति हेतुत्वानुपपत्तेः | अभावस्य हेतुत्वे सर्वं सर्वत्र सर्वदोत्पद्येत | अथ पूर्वक्षणवृत्तित्वमेव हेतुत्वमित्युच्यते एवं तहि कश्चिदेव घटक्षणस्तदुत्तरकालभाविनां सर्वेषामेव गो-महिष्यश्व-कुड्य- athaikajātīyasyaiva pūrvakṣaṇavartino hetutvamiṣyate tathāpi sarvadeśavartināmuttarakṣaṇabhāvināṃ ghaṭānāmeka eva pūrvakṣaṇavatiṃ ghaṭo hetussyāt | athaikasyaiva hetureka iti manuṣe tathāpi kasyaikasya ko heturiti na jñāyate | atha yasmin deśe yo ghaṭakṣaṇassthitaḥ taddeśasaṃbandhina evottaraghaṭakṣaṇasya sa heturiti cetkiṃ deśasya sthiratvaṃ manuṣe kiñca - cakṣurādisaṃprayuktasyārthasya jñānotpattikāle'navasthitatvānna kasyacidarthasya jñānaviṣayatvaṃ sambhavatīti veditavyam | punarhetvantareṇa nirākaroti - asati pratijñoparodho yaugapadyamanyathā || 20 ||
SK
असत्यपि हेतौ कार्यमुत्पद्यते चेत्सर्वं सर्वत्र सर्वदोत्पद्येतेत्युक्तम् | न केवलमुत्पत्तिविरोध एव प्रतिज्ञा च भवतामुपरुध्येत | अधिपतिसहकार्यवलम्बनसमनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्तौ हेतवः इति च प्रतिज्ञा | अधिपतिरिन्द्रियम् | अथ प्रतिज्ञानुपरोधाय घटक्षणे स्थित एव घटक्षणान्तरोत्पत्तिरिष्यते | तथा च सति द्वयोः कार्यकारणयोः घटक्षणयोर्यौगपद्येन उपलब्धिः प्रसज्येत | न च तथोपलभ्यते | क्षणिकत्वप्रतिज्ञा चैवं हीयेत | क्षणिकत्वं स्थितमेवेति चेत् इन्द्रियसम्प्रयोगज्ञानयोर्यौगपद्ये प्रसज्येत | पुनर्हेत्वन्तरं दर्शयति - प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् || २१ || प्रतिसङ्ख्यानिरोधो नाम पाषाणप्रक्षेपादिना बुद्धिपूर्वकघटपटादिभौतिकपदार्थनाशः | अप्रतिसङ्ख्यानिरोधो नाम कालवशात्स्वत एव पृथिव्यादिमहाभूतनाशः | तयोः निरोधयोः अप्राप्तिरनुपपत्तिः | कुतः अविच्छेदाअत् | बौद्धमते पूर्वपूर्वपरमाणूनामुत्तरोत्तरपरमाणून् प्रति स्वातन्त्र्येण कारणत्वाङ्गीकाराज्जडानां परमाणूनां कालविशेषपरिज्ञानाभावात् परमाणुसन्तानानां कदापि विच्छेदानुपपत्तेः | तथा च बौद्धमते सृष्टिप्रलयावुभावप्यनुपपन्नौ | एवं तावदसत उत्पत्तिर्निरस्ता | सतो निरन्वयविनाशोऽपि नोपपद्यत इत्युच्येत क्षणिकत्ववादिभिर्मुद्गराद्यभिघाताद्यनन्तरभावितया उपलब्धियोग्यस्सदृशसन्तानावसानरूपः | स्थूलो यस्सदृशसन्तानविनाशः प्रतिक्षणभावी चोपलब्ध्यनर्हस्सूक्ष्मश्च यो निरन्वयो विनाशश्च द्वावपि प्रतिसंङ्ख्याप्रतिसङ्ख्यानिरोधशब्दाभ्यां अभिधीयते | तौ न सम्भवतः कुतः अविच्छेदात् | सतो निरन्वयविच्छेदासम्भवात् असम्भवश्च सत उत्पत्तिविनाशौ नामावस्थान्तरापत्तिरेव |
SK
अवस्थायोगि तु द्रव्यमेकमेव स्थिरमिति कारणादनन्यत्वं कार्यस्योपपादयद्भिरस्माभिः तदनन्यत्वमि त्यत्र प्रतिपादितम् | निर्वाणस्य दीपस्य निरन्वयविनाशदर्शनादन्यत्रापि विनाशो निरन्वयोऽनुमीयत इति चेन्न घटशरावादौ मृदादिद्रव्यानुवृत्युपलब्ध्या सतो द्रव्यस्यावस्थान्तरापत्तिरेव विनाश इति निश्चिते सति प्रदीपादौ सूक्ष्मदशापत्याप्यनुपलम्भोपपत्तेस्तत्राप्यवस्थान्तरापत्तिकल्पनस्यैव युक्तत्वादिति निश्चीयते | पुनर्हेत्वन्तरं दर्शयति - उभयथा च दोषात् || २२ || किं च - घटपटादिपरमाणुसन्तानानां कंचित्कालं स्थिरत्वं क्षणिकत्वं वा उभयथा च पक्षद्वयेऽपि दोषात् | स्थिरत्वपक्षे बौद्धमते क्षणिकत्वाङ्गीकारात्स्वमतभङ्गदोषः | क्षणिकत्वपक्षे घटादीनां जलाहरणादिकार्यकारित्वं न स्यात् | तस्मात् पक्षद्वयेऽपि दोषप्रदर्शनात् बौद्धमतमसमञ्जसम् | क्षणिकत्ववादिभिरभ्युपेता तुच्छादुत्पत्तिरुत्पन्नस्य तुच्छतापत्तिश्च सम्भवतीत्युक्तम् | तदुभयप्रकाराभ्युपगतौ दोषश्च भवति | तुच्छादुत्पत्तौ तुच्छात्मकमेव कार्यं स्यात् | यद्धि यस्मादुत्पद्यते तत्तदात्मकं दृष्टम् यथा मृत्सुवर्णादेरुत्पन्नं मणिकटकमकुटादिमृत्सुवर्णाद्यात्मकं दृष्टम् | न च जगत्तुच्छात्मकं भवद्भिरभ्युपगम्यते | न च प्रतीयते | सतो निरन्वयविनाशे सत्येकक्षणादूर्ध्वं कृनस्य जगतस्तु च्छतापत्तिरेव स्यात् | पश्चात्तुच्छाज्जगदुत्पत्तौ अनन्तरोक्तं तुच्छात्मकमेव स्यात् | तस्मादुभयथापि दोषान्न भवदुक्तप्रकारादुत्पत्तिनिरोधौ भवतः | ननु बौद्धमते क्षणिकत्वं परमाणूनाम् | तत्सन्तानात्मकानां घटपटादीनां तु स्थिरत्वमेव | तथापि जलाहरणादिकार्यकारित्वं घटादीनामुपपद्यत इति चेत्तर्हि परमाण्वपेक्षया तत्सन्तानानां पृथकत्वाङ्गीकारे घटपटादिपदार्थानां द्व्यणुकादिक्रमेण परमाणुजन्यत्वमेवाङ्गीकर्तव्यम् | तथाचेन्नैयायिकमतप्रवेशापत्तेः बौद्धानामपसिद्धान्तस्स्यात् |
SK
बौद्धानामभिप्रेतभूतचतुष्टयस्य परमाणुपुञ्जत्वं निरस्याकाशस्य शून्यत्वं निराकरोति - आकाशे चाविशेषात् || २३ || आकाशे च सर्वेषां क्षेत्रज्ञानामस्तित्वप्रतीतेः अविशेषात् तुल्यत्वात् भूतचतुष्टयस्य प्रत्यक्षपरमाणुपुञ्जरूपत्ववत् जानुदघ्नजलन्यायेनाकाशस्याप्यतीन्द्रियपुञ्जरूपत्वमेवाङ्गीकर्तव्यम् | तथा च शून्यत्वङ्गीकारो ह्ययुक्तः | बाह्याभ्यन्तरवस्तुनः स्थिरत्वप्रतिपादनाय प्रतिसंख्याऽप्रतिसंख्यानिरोधयोस्तुच्छत्वरूपता निराकृता | तत्प्रसङ्गेन ताभ्यां सह तुच्छत्वेन सौगतैः परिगणितस्याकाशाशस्यापि तुच्छता प्रतिक्षिप्यते | आकाशे च निरूपाख्यता न युक्ता | भावरूपत्वेनाभ्युपगतपृथिव्यादिवदाकाशस्याप्यवाधितप्रतीतिसिद्धत्वा- na ca pṛthivyādyabhāvamātra ākāśa iti vaktuṃ śakyam vikalpāsahatvāt | pṛthivyādeḥ prāgabhāvaḥ pradhvaṃsābhāva itaretarābhāva atyantābhāvo vā ākāśaḥ tathāpyākāśa pratītyanupapattiḥ syāt | prāgabhāvapradhvaṃsābhāvayorākāśatve pṛthivyādiṣu vartamāneṣu ākāśapratītyayogānnirākāśaṃ jagatsthāt | itaretarābhāvasyākāśatve'pi itaretarābhāvasya tattadvastugatatvena teṣāmantarāle ākāśapratītirna syāt | atyantābhāvastu pṛthivyādīnāṃ na sambhavati | abhāvasya vidyamānapadārthāvasthāviśeṣatvopapādanāccākāśasyābhāvarūpatve'pi na nirūpākhyatvaṃ aṇvantarvartina ākaśasya trivṛtkaraṇopadeśapradarśitapañcīkaraṇena rūpavatvāccākṣuṣatve'pyavirodhaḥ | tasmādākāśa śūnyatvavādo hyavicāritaramaṇīyaḥ | parābhimatapañcabhūtāni nirākṛtyedānīṃ kṣaṇikajñānasantānarūpatvameva jīvānāmityevaṃ rūpaṃ buddhamatasiddhāntamadhunā nirākaroti - anusmṛteśca || 24 ||
SK
पूर्ववासरानुभूतपदार्थानामुत्तरदिनेष्वनुस्मृतेः स्मरणानुभवदर्शनाज्जीवानां नित्यत्वमबाध्यम् | ज्ञानसन्तानरूपत्वाङ्गीकारे पूर्ववासरानुभूतज्ञानसन्तानानां सुषुप्तिकालेषु नष्टत्वेन स्मर्तृत्वाभावात् | न चोत्तरदिनेषूत्पन्नानां ज्ञानसन्तानानां स्मर्तृत्वं भविष्यतीति वाच्यम् अन्येनानुभूतपदार्थानामन्येन स्मरणासम्भवात् | तस्मात् क्षेत्रज्ञानां ज्ञानसन्तानात्मकत्वमयुक्तम् | पूर्वप्रस्तुतं वस्तुनः स्थिरत्वमेव उपपाद्यते | अनुस्मरणं - पूर्वानुभूतवस्तुविषयज्ञानं विषयज्ञानं प्रत्यभिज्ञानं तदेवेदमिति सर्वं वस्तुजातं अतीतकालानुभूतं प्रत्यभिज्ञायते | न च भवद्भिर्ज्वालादिष्विव सेयं दीपज्वाला इतिवत् नह्यनुभूतमेकत्वं सादृश्यनिबन्धनोऽयमेकत्वव्यामोह इति वक्तुम्. शक्यम् व्यामुह्यतो ज्ञातुरेकस्यानभ्युपगमात् | न ह्यनुभूतमेकत्वं सादृश्यं वा अन्योऽनुसन्धत्ते | तस्मात् भिन्नकालवस्त्वाश्रयसादृश्यानु भवनिबन्धनमेकत्वव्यामोहं वदद्भिर्ज्ञातुरेकत्वमवश्याश्रयणीयम् | न च ज्ञेयेष्वपि घटादिषु ज्वालादिष्विव भेदसाधनप्रमाणमुपलभामहे येन सादृश्यनिबन्धनां प्रत्यभिज्ञां कल्पयेम | यदपि चेदमुच्यते प्रत्यक्षानुमानाभ्यां घटादेः क्षणिकत्वं सिध्यति | प्रत्यक्षं तावद्वर्तमानार्थविषयमवर्तमानाद्वस्तुनो व्यावृत्तं स्वविषयमवगमयति नीलमिव पीतात् | एवं च भूतभविष्यद्भ्यां वर्तमानस्य वस्त्वंन्तरत्वमेव गतं भवति | अत्रानुमानमपि अर्थक्रियाकारित्वात्सत्वाच्च घटादिः क्षणिकः यदक्षणिकं शशविषणादि तदनर्थक्रियाकारि असच्च | तथान्त्यघटक्षणसत्वात् | पूर्वघटक्षणसत्वानि विनष्टानि घटक्षणसत्वादन्त्यघटक्षणसत्त्ववत् इति तच्च कार्यकारणभावानुपपत्यादिभिः पुर्वमेव निरस्तम् | किञ्च - प्रत्यक्षगम्यवर्तमानस्यावर्तमानाद्व्यावृत्तिर्न वर्तमानस्य वस्त्वंतरत्वमवगमयति अपि तु वर्तमानकालयोगितामात्रम् | न च तावता वस्त्वन्तरत्वं सिध्यति तस्यैव कालान्तरयोगसम्भवात् |
SK
यत्तु सत्त्वादर्थक्रियाकारित्वाच्चेति क्षणिकते हेतुद्वयमुक्तं तदभिमतविपरीतसाधनत्वाद्विरुद्धम् | सत्त्वादर्थक्रियाकारित्वाद्वा घटादिस्थास्नु यदस्यास्नु तदसदनर्थक्रियाकारि च यथा शशविषाणमित्यपि हि वक्तुं शक्यम् | किञ्चार्थक्रियाकारित्वमक्षणिकत्वमेव साधयेत् | क्षणध्वंसिनो हि व्यापारासम्भवादर्थक्रियाकारित्वं न सम्भवतीत्युक्तम् | तथान्त्यघटक्षणस्य हेतुतो नाशदर्शनादितरेऽपि घटक्षणाः हेतूपनिपातात् स्थास्नुत्वमेव | न च वाच्य न मुद्गरादयो विनाशहेतवः अपि तु कापालादिविसदृशसन्तानोत्पत्तिहेतवः इति कपालत्वावस्थापत्तिरेव घटादीनां विनाश इत्युपपादितत्वात् | कपालोत्पत्तिव्यतिरिक्तत्वाभ्युपगमेऽपि मुद्गरादेः विनाशहेतुत्वमेव | मुद्गरादेः कपालेह्तुत्वमिति यत्तदयुक्तम् | अतः प्रत्यभिज्ञया स्थिरत्वमवगम्यमानं न केनापि प्रकारेणापह्नोतुं शक्यं | येन पूर्वापरकालसम्बन्ध्यर्थैक्यविषयायाः प्रत्यभिज्ञाया अन्यविषयत्वं ब्रुवन्नीलादिज्ञानानामपि नीलादेरर्थान्तरविषयत्वं ब्रूयात् | किञ्च - प्रमातृप्रमेययोः क्षणिकत्वं वदद्भिर्व्याप्त्यवधारण- kṣaṇikamityādipratijñāpūrvakahetūpanyāsādikamapi nopapadyate bhavatām pratijñopakramakṣaṇa eva vakturvinaṣṭatvāt | na hyanyenopakrāntamajānadbhiranyaissamāpayituṃ śakyam | tasmādvaidikaśāstra yuktam | punarhetvantareṇa nirākaroti - nāsato'dṛṣṭatvāt || 25 || asatassuptikāle naṣṭātpūrvapūrvajñānasantānāduttarottarajñānasantānānāmutpattirna sambhavati kutaḥ adṛṣṭatvāt | naṣṭamṛtpiṇḍāderghaṭādijanakatvābhāvāt |
SK
एवं तावद्वैभाषिक-सौत्रान्तिकयोर्बाह्यार्थास्तित्ववादिनोस्साधारणानि दूषणान्युक्तानि तत्र यदुक्तं सम्प्रयुक्तस्यार्थस्य ज्ञानोत्पत्तिकालेऽनवस्थितत्वान्न कस्यचिदर्थस्य ज्ञानविषयत्वं सम्भवतीति तत्र सौत्रान्तिकः प्रत्यवतिष्ठते | न ज्ञानकालेवस्थानमर्थस्य ज्ञानाविषयत्वहेतुः | ज्ञानोत्पत्तिहेतुत्वमेव हि ज्ञानविषयत्वम् | न चैतावता चक्षुरादेर्ज्ञानविषयत्वप्रसङ्गः स्वाकारसमर्पणेन ज्ञानहेतोरेव ज्ञानविषयत्वाभ्यपगमात् | ज्ञाने स्वाकारं समर्प्य विनष्टोऽप्यर्थः ज्ञानगतेन नीलाद्याकारेणानुमीयते | न च पूर्वपूर्वज्ञानेन उत्तरोत्तरज्ञानाकारसिद्धिः नीलज्ञानसत्वे तदन्यज्ञानानुत्पत्तिप्रसङ्गात् | ततो अर्थकृतमेव ज्ञानवैचित्र्यमिति चेदन्नोच्यते - नासतोदृष्टत्वात् इति | योऽयं ज्ञाने नीलादिराकार उपलभ्यते स विनष्टस्यासतोऽर्थस्याकारो भवितुं नार्हति कुतः अदृष्टत्वात् | न खलु धर्मिणि विनष्टे तद्धर्मस्यार्थान्तरे संक्रमणं दृष्टम् | प्रतिबिम्बादिकमपि स्थिरस्यैव भवति | तत्रापि न धर्ममात्रस्य | अतोऽर्थवैचित्र्यकृतं ज्ञानवैचित्र्यं अर्थस्य ज्ञानकालेऽवस्थानादेव भवति | तस्मात् बौद्धसमयः असमञ्जस इति वेदितव्यम् | नष्टपदार्थस्यापि कार्यजनकत्वाङ्गीकारे बाधकमाशङ्क्याह - उदासीनानामपि चैवं सिद्धिः || २६ || एवमपि नष्टस्यापि कार्यजनकत्वे सति उदासीनानां निर्व्यापारिणामपि जीवानां सकलकार्यसिद्धिस्स्यात् | तस्मादेतदसमीचीनम् | एवं क्षणिकत्वादसदुत्पत्यहेतुकविनाशाद्यभ्युपगमे उदासीनानां अनुद्युक्तानामपि सर्वार्थसिद्धिस्स्यात् | इष्टप्राप्तिरनिष्टनिवृत्तिर्वा प्रयत्नादिभिस्साध्यते | क्षणध्वंसे हि सर्वेषां भावानां पूर्वपूर्व वस्तु तद्गतो वा विशेऽः संस्कारादिको विद्यादिर्वा उत्तरत्र न कश्चिदनुवर्तत इति प्रयत्नादिसाध्यं न किञ्चिदस्ति | एवं सत्यहेतुसाध्यत्वात्सर्वसिद्धीनामुदासीनानामप्यैहिकामुष्मिकफलं मोक्षश्च सिध्येत् | तस्मादसुरमोहकल्पकविष्ण्वतारकृतबुद्धमतं वैदिकैस्सर्वथानङ्गीकरणीयम् |
SK
नाभावाधिकरणम् || ५ || एवं बुद्धमतं निरस्य प्रच्छन्नबौद्धाभिधान-जीवेश्वर- nirākaroti | nābhāva upalabdheḥ || 27 || jīveśvarāvacchinnapañcamahābhūtātmakacetanārthaprpañcasya asatvaṃ nāma śaśaśṛṅgaga-ganāra-vinda-vandhyāputravat śūnyatvaṃ svapnaprapañcavanmithyātvaṃ vā nādyaḥ - nābhāvaḥ - jīveśvarātmakacetanācetanaprapañcasyābhāvaḥ tasya śūnyatvaṃ na sambhavati kutaḥ upalabdheḥ pratyakṣapramāṇārthasiddhi- वन्ध्यापुत्रादिवच्छून्यत्वाङ्गिकारे प्रत्यक्षोपलब्धिर्न स्यात् | एवं विज्ञानाभिधानबुध्यात्मवादिबुद्धमतं निराकृत्य तन्निराकारणपूर्वकप्रज्ञानाभिधानजीवब्रह्मवादिवासिष्ठमतं निरस्यति | तद्विज्ञानमतप्रज्ञानमतयोरुपजीव्योपजीवकभावसङ्गतिः | प्रज्ञानजीवब्रह्मवादिनो योऽयं निर्विशेषाद्वैतसिद्धान्तः ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नेतरः इति तन्मतन्यायेन स्वास्मातिरिक्तवस्त्वभाव इति सोऽयमधिकरणस्य विषयः | पूर्वपादे श्रुत्यादिसहकृतत्वेन स्वसिद्धान्तप्रतियोगितया निराकृतत्वेपि पुनर्युक्तिप्राधान्येन निराकरणान्न पौनरुक्त्यदोषः | श्रुत्यैकदेशप्रामाण्यतया तच्छास्त्रस्य विद्यमानत्वात् तन्मतं भ्रान्तिमूलं प्रमाणमूलं वेति सन्दिह्यते | पूर्वः पक्षः - सर्वमात्मैवाभूत्तत्त्केन कं पश्येत्त्केन कं वदेत नेह नानास्ति किञ्चन इत्यादिषु वन्ध्यापुत्रादिवत् प्रपञ्चाभावप्रदर्शनात् | गगननीलिम-मरुमरीचिका रज्जुसर्पादौ भ्रान्त्या नीलिमादिभानेऽपि विचार्यमाणे त्रैकालिकाभावावत्प्रपञ्चस्य स्वाविद्यय मूढानां भासमानत्वेऽपि विवेकदृष्ट्या कालत्रयेऽपि शुक्तिरजतादिवदभाव एवेति प्राप्ते प्रचक्ष्महे -
SK
सिद्धान्तः - जीवो ब्रह्मैव नेतरः इति यत्तदसत् नाभाव उपलब्धेः | स्वात्मातिरिक्तस्यार्थस्याभावो वक्तुं न शक्यते | कुतः उपलब्धेः ज्ञातुरात्मनोऽर्थविशेषः व्यवहारयोग्यतापादनरूपेण ज्ञानस्योपलब्धेः | एवमेव हि सर्वे लौकिकाः प्रतियन्ति | घटमहं जानामीति एवं रूपेण सकर्मकेण सकर्तृकेण ज्ञाधात्वर्थेन सर्वलोकसाक्षिकमपरोक्षमवभासमानेनैव ज्ञानमात्रमेव परमार्थ इति साधयन्तस्सर्वलोकोपहासोपकरणं भवन्ति इति व्याचक्षते | सर्वमात्मैवाभूत् इत्यादिश्रुतीनां शिवस्य केवलावस्थापरत्वमिति पूर्वमेवोक्तम् | नोचेदर्थक्रियासिध्यात्मकतया प्रपञ्चस्य विद्यमानत्वात् द्वासुपर्णा इत्यादिबहुश्रुतिविरोधात् मम माता वन्ध्या इतिवत्प्रात्यक्षिकविरोधप्रसङ्गाच्च लोके पुराकृतपुण्यपापकर्मवशाद्विद्या धन-धान्य-पुत्र-पौत्र- durnivāraḥ | puṇyātsvargaḥ pāpānnarakaḥ ata eva puṇyakṛto lokaḥ kṣīyate karmacito lokaḥ kṣīyate ityādiṣu jagatsatyatvamupadiṣṭam | kiñca - jagadabhāve prāgabhāvaḥ pradhvaṃsābhāvo'tyantābhāvonyonyābhāvo vā nādyaḥ - asadvā idamagra āsīt tato vai sadajāyata ityādiṣu bālyayauvanādivatpralaye prapañcasūkṣmatvasya punaḥ sṛṣṭikāle sthūlatvasya ca vyapadeśāt | na dvitīyaḥ - sadeva saumyedamagra āsīt ityādiṣu nāśaḥ kāraṇe layaḥ iti nyāyena pralaye'pi prapañcasya sadātmakatvena sthityupadeśāt | na tṛtīyaḥ - arthasiddhikriyāsidhyātmakatvena prapañcasya dṛṣṭatvāt | na caturthaḥ - ākāśe bhūtacatuṣṭayavat yatparaṃ brahma sarvātmā viśvasyāyatanaṃ mahat ityādiṣu brahmaprapañcayorādhārādheyatvanirdeśāt | tasmāt prapañcasya vandhyāputra- सर्वानुभवसिद्धत्वेन प्रपञ्चस्य सत्त्वेऽपि स्वप्नवन्मिथ्यात्वं तस्योपपद्यत इत्याशङ्कायामाह - वैधर्म्याच्च न स्वप्नादिवत् || २८ ||
SK
स्वप्नेन्द्रजालादिदृष्टान्तेन जाग्रत्प्रपञ्चस्य मिथ्यात्वं वक्तुं न शक्येत | कुतः वधर्म्यात् स्वप्नेन्द्रजालप्रपञ्च-जाग्रत्प्रपञ्चर्वैलक्षण्यस्य विद्यमानत्वात् | स्वप्नेन्द्रजालप्रपञ्चस्य प्रबोधानन्तरं प्रत्यक्षेण बाध्यमानत्वान्मिथ्यात्वमुपपन्नम् | जाग्रत्प्रपञ्चस्य तु बाधादर्शनान्मिथ्यात्वं नोपपद्यते | किञ्च - स्वप्नकृतज्योतिष्टोमब्रह्महत्यादिपुण्यापुण्यकर्मणां स्वर्गनरकादिप्राप्त्यभावात् जाग्रत्प्रपञ्चकृतसुकृतदुष्कृतानामिह परलोकेषु तत्फलप्राप्तिदर्शनाच्च तत्सादृश्यं सर्वथा अस्य प्रपञ्चस्य नोपपन्नम् | स्वप्नज्ञानवैधर्म्याज्जागरितज्ञानानामर्थशून्यत्वं न युज्यते वक्तुम् | स्वप्नज्ञानादि हि निद्रादिदोषदुष्टकरणजन्यानि बाधितानि च | जागरितज्ञानानि तु तद्विपरीतानीति तेषां न तत्साम्यम् | सर्वेषां च ज्ञानानामर्थशून्यत्वे भवद्भिस्साध्योऽप्यथो न सिध्यति | निरालम्बनानुमानस्याप्यर्थशून्यत्वात् | तस्यार्थवत्त्वे ज्ञानवत्वस्यानैकान्त्यात्सुतरामर्थशून्यत्वासिद्धिः | किञ्च - यस्य सर्वमात्मैवाभूत् इति श्रुत्या जाग्रत्प्रपञ्चस्यापि ब्रह्मज्ञानबाध्यत्वं प्रतिपाद्यत इति चेत्तदयुक्तम् | प्रपञ्चस्य सत्यत्वेऽपि सुप्तस्य पुरुषस्य प्रपञ्चज्ञानशून्यत्ववत् ब्रह्मविलीनस्य वृत्तिशून्यत्वेन प्रपञ्चस्य सत्त्वेऽपि स्वज्ञानप्रपञ्चज्ञानशून्यत्वं युज्यते | न तेन प्रपञ्चस्य बाधोऽभिधीयते | जीवन्मुक्तस्य तु समाधिकाले सुप्तिमूर्छादिवत्परमात्मानन्दानुभवत्तया स्वपरज्ञानशून्यत्वम् | पुनरुत्थानकाले व्यवहारदर्शनात् ब्रह्मज्ञानबाध्यत्वं न सम्भवति | चकारेण रज्जुसर्पादिवदध्यारोपापवादः आदिशब्देन गन्धर्वनगरेन्द्रजालादितच्छास्रदृष्टान्तमपि निरस्तम् | नो चेत्प्रपञ्चस्य स्वप्नादिवन्मिथ्यात्वाङ्गीकारे कृतनाशाकृताभ्यागमदोषप्रसङ्गेन बौद्धमतप्रवेशापत्तिर्दुवारेति विवेकिभिर्वेदितव्यम् | पुनर्हेत्वन्तरेण निराकरोति - न भावोऽनुपलब्धेः || २९ ||
SK
निर्विशेषाद्वैतशास्त्रे स्वप्नशुक्तिरजतादि दृष्टान्तेन प्रपञ्चस्य मिथ्यात्वाङ्गीकारे निर्विशेषब्रह्मणः भावो विद्यमानत्वं नास्ति कुतः अनुपलब्धेः | तन्मते अपारमार्थिकत्वेन वेदवेदान्तानां प्रमाणत्वाभावात् तन्मतं निश्श्रेयसार्थिभिर्नाङ्गीकरणीयम् | न केवलं निर्विशेषस्य ब्रह्मणो भावस्सम्भवति | कुतः क्वचिदप्यनुपलब्धेः | न ह्यकर्तृकस्याकर्मकस्य ज्ञानात्मकस्य ब्रह्मणः अस्तित्वं सम्भवति | वेदवेदान्तेषु तथानुपलब्धेः मिथ्यत्ववादिवाक्यानि मिथ्येति परिगीयन्ते इति न्यायेन तन्मते वेदवेदान्तानां मिथ्याभूतत्वाङ्गीकारात् तन्मिथ्याभूतवेदवेदान्तप्रतिपाद्यब्रह्मणस्सत्यत्वं कथमुपपद्यते निर्विशेष वेदवेदान्तप्रतिपाद्यत्वायोगात् ब्रह्मसत्वे तदतिरिक्तप्रमाणाभावाच्च | तस्मात्तच्छास्त्रोक्तजगज्जीवेश्वरादिप्रपञ्चवत्तन्निर्विशेषब्रह्मणः मिथ्यात्वं दुर्निवारम् | तस्माद्विज्ञानात्मक बुद्धमतवदद्वैतमतमप्यविचारितरमणीयम् | तदुभयोरपि जगज्जीवेश्वरप्रपञ्चमिथ्यात्वस्याद्वयवादस्य चाङ्गिकारात्तदुभयं तुल्यमिति निश्चितम् | स्वप्नप्रपञ्चस्य सत्यत्वप्रतिपादनम् उत स्वप्नस्यापि सत्यत्वमनिवार्यम् स्वप्नप्रपञ्चस्य सत्यत्वात् स्वप्नस्यापि परमेश्वर हेतुकत्वात् जाग्रदवस्थायामपि तद्वासनानां विद्यमानत्वात् जाग्रद्वासनायुक्तः स्वप्नः इति न्यायेन स्वप्नस्यापि जाग्रद्वासनाहेतुत्वोपदेशात् | जाग्रददृष्टपदार्थदर्शनेऽपि पूर्वभववासनासिद्धत्वाच्च | किञ्च - यस्स्वप्ने पुरुषं कृष्णं पश्यति स षाण्मासजीवी भवति स्वप्ने तु कालपुरुषं रक्तवस्त्रधरं तथा | गन्धर्वनगरं चैव यः पश्यति विशेषतः || स षाण्मासाद्यमलोकं प्राप्यते नात्र संशयः || इत्यादि बहुश्रुत्यागमदर्शनात् स्वप्नाध्यायप्रकारेण सर्वेषामनुभवद्योतनाच्च तत्सत्यत्वं सिद्धम् | सर्वथानुपपत्त्यधिकरणम् || ६ || एवं निःश्रेयसविरोधेन शुष्कवेदान्तनिर्विशेषाद्वैतप्रतिपादक वासिष्टयमतं निराकृत्य स्वात्महननसिद्धान्त-शून्याद्वैताख्य-सांदीपनमतमद्य निराकरोति -
SK
अथ शून्याद्वैताख्यसान्दीपनमतनिराकरणम् | सर्वथानुपपत्तेश्च || ३० || ज्ञानार्थोभयमिथ्यात्मकस्य सर्वशून्यवादिमतस्य प्रत्यक्षानुमानश्रुतिस्मृत्यागमादिसकलप्रमाणविरुद्धत्वात् सर्वथानुपपत्तेश्च तन्मतमत्यन्तमसङ्गतम् | विज्ञान-प्रज्ञानवादयोः श्रुत्युक्त्यनुभवविरोधात्तदुभयमनङ्गीकरणीयं मूलाभावात् | प्रज्ञानस्य प्रपञ्चस्य च शून्यत्वं किं न स्यादित्याशङ्गायां तन्मतनिराकरणार्थमस्यारम्भात् मिथ्याद्वैत- tadubhayaśāstrayoraṅgāṅgitvena pūrvottarādhikaraṇayoḥ upajīvyupajīvakatvasaṅgatiḥ | kaṃ brahma khaṃ brahma ākāśa ātmā iti śrutidarśanāttanmataṃ pramāṇamūlaṃ bhrāntimūlaṃveti saṃśayaḥ | sarvaśūnyavāda eva hi sugatamatatulyaṃ sāndīpanakāṣṭhā | śiṣyabuddhiyogyatānuguṇyenābhyupagamādinā kṣaṇikatvādaya uktāḥ | vijñānaṃ bāhyārthāśca sarve na santi | śūnyameva tattvam abhāvāpattireva ca mokṣaḥ ityeva buddhādivat sāndīpābhiprāyaḥ tadeva hi yuktam | śūnyasyāhetusādhyatayā svatassideḥ svata eva hi heturanveṣaṇīyaḥ | tacca sadbhāvādabhāvācca notpadyate | bhāvāt tāvanna kasyacidutpattirdṛṣṭā | na hi ghaṭādiranupamṛdite piṇḍādike jāyate | nāpyabhāvādutpattissambhavati | naṣṭe piṇḍādike hyabhāvādutpadyamānaṃ ghaṭādikamabhāvātmakameva syāt | tathā svataḥ parataścotpattirna sambhavati | svatastvasyotpattāvātmāśrayadoṣaprasaṅgātprayojanābhāvācca | parataḥ parotpattau paratvāviśeṣāt sarveṣāṃ sarvebhya utpattiprasaṅgaḥ | janmābhāvādeva vināśasyāpyabhāvaḥ ataḥ śūnyameva tattvam | ato janmavināśasadasadātyo bhrāntimātram | na ca niradhiṣṭhānabhramāsambhavādbhramādhiṣṭhānaṃ kiñcitpāramārthikaṃ tattvamāśrayitavyam | doṣa-doṣāśrayatvajñātṛtva | dyapāramārthikatve'pi bhramopapativat adhiṣṭhānāpāramārthye'pi bhramopapatteḥ śūnyameva tattvamiti prāpte -
SK
प्रचक्ष्महे - सर्वथानुपपत्तेश्चेति | सर्वशून्यत्वं भवदभिप्रेतं न सम्भवति | किं भवान् सर्वं सदिति प्रतिजानीते असदिति वा अन्यथा वा सर्वथा तवाभिप्रेतं तुच्छत्वं न सम्भवति लोके भावाभावशब्दयोस्तत्प्रतीत्योश्च विद्यमानस्यैव वस्तुनोऽवस्थाविशेषगोचरत्वस्य प्रतिपादितत्वात् | अतः सर्वं शून्यमिति यः प्रतिजानाति तेन सर्वं सदित्येव प्रतिजानात्येव | सर्वस्य विद्यमानस्यावस्थाविशेषयोगितैव प्रतिज्ञाता भवतीति भवदभिमता तुच्छता न कुतश्चिदपि सिध्यति | किञ्च - कुतश्चित् प्रमाणात् शून्यत्वमुपलभ्य तदेव सिषाधयिषता तस्य प्रमाणस्य सत्यत्वमभ्युपेयम् | तस्यासत्यत्वे सर्वं सत्यं स्यादिति सर्वथा सर्वशून्यत्वं चानुपपन्नम् | तस्मात् स्वात्महननत्व जडतत्त्वात्मकत्ववादिसान्दीपमतं बौद्धा रपर्यायं निःश्रैयसार्थिभिर्न मन्तव्यम् | आस्मिन्नर्थे पुनः हेत्वन्तरमाह - क्षणिकत्वाच्च || ३१ || सान्दीपमते ज्ञानात्मनः पाषाणाग्निवत्सौदामिनीलतिकवद्भूताकाशमध्ये स्वातन्त्र्येण मूलं विनैव चिदुत्पत्तेः क्षणिकत्वाङ्गीकारात्तन्मतं नाङ्गीकर्तव्यम् | मूलं विना यथा स्वयमेव स्वत उत्पद्यते क्षणेन तथा स्वयमेव क्षणिकत्वाद्विनश्यति | तथाचेत् तदज्ञानस्य स्वतः सामर्थ्यं वा शरीरानुसारेण वा कारणाभावे कार्यं नास्तीति न्यायेन कार्यभूतस्य ज्ञानस्य स्वकीयोत्पत्तौ स्वसामर्थ्यं नास्ति लोके यत्र कुत्रापि कारणाभावे कार्योत्पत्यदर्शनात् | त्वच्छास्त्रे शरीरेन्द्रियादिनिरपेक्षतया ज्ञानस्थित्यनङ्गीकाराच्च | शरीरानुसरणेन सामर्थ्यमिति चेत् स्वज्ञानव्यतिरिक्ततया जगत्कारणेश्वरस्यानङ्गीकारात् शरीरेन्द्रियादिकं कस्मादुत्पद्यते ज्ञानार्थोभयोप्तत्यनङ्गीकारे अहं प्रत्ययविरोधेन मम माता वन्ध्या इतिवत् प्रत्यक्षविरोधप्रसङ्गः | तन्मतानुसारणेन ज्ञानशरीरयोरेकत्वाङ्गीकारे सर्वेषां शरीरपतने सुप्तौ च ज्ञानशरीरयोः पृथक्त्वदर्शनात् श्रुतियुक्यनुभवविरोधो दुर्निवारः |
SK
रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् | नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् || इति | वासिष्ठमतानुकूलशुष्काद्वैतानुसरणेन रज्जुसर्पवद्ब्रह्मैवाहं जीवः इति व्याकोपदेशक्षणेन ध्यानधारणादिनिरपेक्षतया यथा मुक्तिरित्यद्वैतवादिनः प्रवदन्ति तथा अशरीरं सर्वदास्ति शरीररहितं सदा | इवमेव सदा मुक्तिरन्यथा भ्रमकारणम् || इति वेदबाह्यतन्त्रप्रधानबृहद्वासिष्ठानुसरेण सान्दीपमतानुसारिणः | सर्वदा शरीराभिधानभूताकाशोऽस्ति मूलाभावात् शरीरात्मकज्ञानशून्यत्वनिश्चयमात्रमेव क्षणिकत्वान्मुक्तिः इति प्रलपन्ति | कारणाभावे कार्याभाव इति न्यायेन मूलाभावतया ब्रह्मात्मकज्ञानस्य सदा शून्यत्वाङ्गीकारेण तद्वेद्य प्रपञ्चशून्यत्वमर्थात् सिद्धम् | शुद्धे सुषुप्तिदृष्टान्तं तस्मान्नाहं कदाचन इति तच्छास्त्रस्य निश्चयेन वक्तृत्व-कर्तृत्व-भोक्तृत्व-ज्ञातृत्व-स्मर्तृत्वादिना अहं प्रत्ययस्य विद्यमानत्वेऽपि गजसिंहस्वप्नप्रबोधादिदृष्टान्तेन गुरुसूचनया क्षणेन सदा सर्वं अहम्प्रत्ययादिकं शून्यमिति राद्धान्तितम् | किञ्चैतन्मते शरीरात्मनोरेकत्वं आत्मनः पूर्वोत्तरजन्मशून्यत्वम् | गोमयेन कीटोत्पत्तिवत् शुक्लशोणितसंयोगेन जीवजन्यत्वं चोक्तम् | तस्मादेतन्मतबौद्धमतयोर्वैषम्याभावात् श्रेयः कामैर्वैदिकैरेतच्छास्त्रमुपेक्षणीयम् | पाषाणवज्जडाकाशस्य निष्प्रयोजकत्वात्तदुपासनतया तदस्तित्वनिश्चये न किञ्चित्फलमुपपद्यते | किञ्च - तन्मतज्ञानशून्यानां पुनरावृत्तिरस्ति ध्वाऽनत्वाः नाद्यः - विद्युदभ्रवत् ज्ञानस्य स्वतः उत्पन्नत्वाङ्गीकारात् स्वयमेव विनश्यति | अतस्तच्छास्त्रप्रवृत्तिर्नोपपद्यते | स्वजन्यत्ववस्त्वविनाशस्य च स्वस्यैव धर्मत्वात्स्वतन्त्रत्वाच्च | शरीरात्मनोरेकत्वाङ्गीकारात् शुक्लशोणितमेलनेन जीवोत्पत्यङ्गीकारात् स्वशरीरनाश एव स्वमोक्ष इत्यर्थसिद्धत्वात् स्ववचनव्याघातो दुर्निवारः |
SK
नद्वितीयः - पुनरावृत्यभावे त्वच्छास्त्रे गुरुशिष्ययोः प्रवृत्यसम्भवात् | तथाचेत् पश्वादिवन्मूढत्वप्रसङ्गाच्च श्रुतियुक्त्यनुभवविरोधित्वेनैतन्मतमविचारितरमणीयम् | आकाशस्तलिङ्गाधिकरणे आस्रमन्तात्प्रकाशत इत्याकाश इति व्युत्पत्या आकाशशब्दस्य जगत्कारणत्वादिब्रह्मलिङ्गत्वेन वाय्वाकाशज्योतिस्सूर्यादिशब्दानां तत्परत्वसाधनात् कं ब्रह्म इत्यादिवाक्यानां नान्यविषयत्वमिति वेदितव्यम् | एकस्मिन्नसम्भवाधिकरणम् || ७ || एवं सर्वशून्यतावादिसान्दीपमतं निरस्य तत्तुल्यजैनमतं निराकरोति - अथ जैनमतनिराकरणम् | नैकस्मिन्नसम्भवात् || ३२ || जैनाः प्रपञ्चस्यैककाले सत्वमसत्वं सदसदात्मकत्वं सदसद्भिन्नत्वं च वदन्ति | तन्न सम्भवति | एकस्मिन् प्रपञ्चे एककाले सत्त्वासत्त्वादीनां वास्तवानां विरुद्धधर्माणामसम्भवात् | कालभेदेनाङ्गीकारे न विरोधः | वेदविरुद्धधर्माश्रयत्वात् पूर्वोत्तरमतनिराकरणानुकूलाधिकरणयोरुपजीव्योपजीवकत्वसङ्गतिः | दिगस्वरमतमत्र प्रमाणमूलं भ्रान्तिमूलं वेति सन्दिह्यते तस्यापि बहुदेशीयजनानामङ्गीकारात् | ते किल मन्यन्ते जीवाजीवात्मकं सर्वं जगदेतन्निरीश्वरम् | तच्च षड्द्रव्यात्मकम् | तानि च द्रव्याणि जीव-धर्माधर्म-पुद्गल-कालाकाशाख्यानि | तत्र जीवाः बद्धाः योगसिद्धाः मुक्ताश्चेति त्रिविधाः | धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्व्यापी | अधर्मश्च स्थितिहेतुभूतो व्यापी | पुद्गलो नाम वर्णगंध-रस-स्पर्शवद् द्रव्यम् | तच्च द्विविधम्-परमाणुरूपं तत्सङ्घातरूपश्च पवन-ज्वलन-सलिल-धरणी-तनु- dravyaviśeṣaḥ | ākāśo'pyekonantapradeśaśca | teṣu cāṇuvyatiriktāni dravyāṇi pañca astikāyā iti ca saṃgṛhyante | jīvāstikāyo dharmāstikāyo'dharmāstikāyaḥ pudgalāstikāya-ākāśāstikāya iti | anekadeśavartini dravye astikāyāśabdaḥ prayujyate |
SK
जीवानां मोक्षोपयोगिनमपरमपि संग्रहं कुर्वन्ति - जीवाजीवास्रव- gṛhītaḥ | sa ca samyajñāna-darśana-cāritrarūpaḥ | tatra jīvastu jñānadarśanasukhavīryaguṇaḥ | ajīvaśca jīvabhogyavastujātam | āsravaḥ tadbhogopakaraṇabhūtamindriyādikam | bandhaścāṣṭavidhaḥ ghātikarmacatuṣṭayamaghātikarmacatuṣṭayaṃ ceti | tatrādyaṃ - jīvaguṇānāṃ svābhāvikānāṃ jñānadarśanavīryasukhānāṃ pratighātakam aparaṃ śarīrasaṃsthānatadabhimāna-tatsthiti-tatprayuktasukhaduḥkhopekṣāhetubhūtam | nirjaraṃ mokṣasādhanam arhadupadeśāvagataṃ tapaḥ | saṃvaro nāma - indriyanirodhaḥ samādhirūpaḥ | mokṣastu - nivṛttarāgādikleśasya svābhāvikātmasvarūpāvirbhāvaḥ | pṛthivyādihetubhūtāścāṇavo vaiśeṣikādīnāmiva na caturvidhāḥ api tvekasvabhāvāḥ | pṛthivyādibhedastu pariṇāmakṛtaḥ sarvaṃ ca vastujātaṃ sattvasattva-nityattvā- स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यम् स्यादस्तिचावक्तव्यं च स्यान्नास्तिचावक्तव्यं च स्यादस्ति च नास्ति चावक्तव्यं च इति सर्वत्र सत्पभङ्गीनयावतारात् | सर्वं वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्वनित्यत्वाद्युपपादयन्ति पर्यायात्मना च तद्विपरीतम् | पर्यायाश्च द्रव्यस्यावस्थाविशेषाः | तेषां च भावाभावरूपत्वात् सत्त्वासत्तदिकं सर्वमुपपन्नमिति | अत्राभिधीयते - नैकस्मिन्नसम्भवादिति | नैतदुपपद्यते कुतः एकस्मिन्नसम्भवात् एकस्मिन् वस्तुनि अस्तित्वनास्तित्वादेर्विरुद्धस्य छायातपवत् युगपदसम्भवात् |
SK
एतदुक्तं भवति - द्रव्यस्य तत्तद्विशेषणभूतपर्यायशब्दाभिधेयावस्थाविशेषस्य च पृथक्पदार्थत्वात् नैकस्मिन् विरुद्धधर्मसमावेशः सम्भवति | तथा हि - एकेनास्तित्वादिना अवस्थाविशेषेण विशिष्टस्य तदानीमेव न तद्विपरीतनास्तित्वादिविशिष्टत्वं सम्भवति | उत्पत्तिविनाशाख्यपरिणामविशेषास्पदं च द्रव्यस्यानित्यत्वम् तद्विपरीतं च नित्यत्वं तस्मिन् कथं समवैति विरोधिधर्माश्रयत्वं च भिन्नत्वम् तद्विपरीतं चाभिन्नत्वम् कथं वा तस्मिन् समवैति यथाऽश्वत्व- ayamarthaḥ - pūrvamevoktaḥ kālabhedena bhedābhedāṅgīkāre svamatabhaṅgaprasaṅgaḥ | loke'sti nāstīti vyavahāro vyavahartṝṇāṃ jātyādyastitva- पूर्वमेवोक्तम् | कथं पुनरेकमेव शिवात्मकं परब्रह्म सर्वात्मकमिति श्रोत्रियैरुच्यते इति चेत् चेतनाचेतनप्रपञ्चहेतुभूतसर्वज्ञत्वाद्यनन्यसाधारणधर्मावच्चिन्नसत्यसङ् कल्पत्वात् महेश्वरस्येत्युक्तम् | स्वभावतः क्षेत्रज्ञानां भिन्नत्वेऽपि भ्रमरकीटवत् शिवध्यानधारणोपासनया स्वभावजीवत्वनिवृत्तिपूर्वकनित्यमङ्गलात्मकशिवत्वप्राप्तिरेव मुक्तिरिति सर्ववेदान्तसिद्धान्तः | किञ्च - जीवादीनां षण्णां द्रव्याणामेकद्रव्यपर्यायत्वाभावात् तेषु द्रव्यैकत्वेन पर्यायात्मना चैकत्वानेकत्वादयो दुरुपपादाः | अथोच्येत-षडेतानि द्रव्याणि स्वकीयैः पर्यायैः स्वेन स्वेन चात्मना तथा भवन्तीति | एवमपि सर्वमनैकान्तिकमित्यभ्युपगमविरोधः अन्योन्यतादात्म्याभावात् | अतो न युक्तमिदं जैनमतम् | ईश्वरानधिष्ठितपरमाणुकारणवादे पूर्वोक्तदोषास्तथैवावतिष्टन्ते | क्षेत्रज्ञानां क्षपणकाः शरीरपरिमाणतुल्यपरिमाणत्वं साधयन्ति | तदपि निराकरोति - एवं चात्माकार्त्स्न्यम् || ३३ || एवं भवदभ्युपगमे सति आत्मनश्चाकात्स्न्यं प्रसज्यते | जीवोऽसंङ्ख्यातप्रदेशो देहपरिमाण इति हि भवतां स्थितिः | तत्र हस्त्यादिशरीरेऽव्स्थितस्यात्मनस्ततो न्यूनपरिमाणे पिपीलिकाशरीरे प्रविशतो अल्पदेशव्यापित्वेनाकार्त्स्न्यं प्रसज्यते |
SK
किञ्च - जीवस्य शरीरतुल्यपरिमाणत्वाङ्गीकारे शरीरान्निर्गमनासम्भवात् शरीरेण सह परलोकप्राप्तिरापद्यते | तस्माज्जीवस्य सूक्ष्मत्वमङ्गीकर्तव्यम् | शरीराणां चानवस्थितपरिमाणत्वात् || ३४ || मशकादिशरीरवर्तिनां सूक्ष्मजीवानां कर्मवशाद्गजादिशरीरप्राप्तौ सत्यां गजादिशरीरव्यापित्वं न स्यात् जीवस्याल्पत्वात् | तथा गजादिशरीरर्वार्तनां स्थूलजीवानां कर्मवशान्मशकादिशरीरप्राप्तौ सत्यां मशकादिशरीरस्य स्वल्पत्वेनानवकाशात् | तूलपिण्डवज्जीवानामपि सावयवत्वाङ्गीकारान्मशकादिशरीरेषु सङ्कुचितत्वं गजादिशरीरेषु विकासावस्था च भविष्यतीत्याशङ्क्य निराकरोति - न च पर्यायादप्यविरोधो विकारादिभ्यः || ३५ || पर्यायात् - शरीरक्रमेण सङ्कोचविकासाङ्गीकारात् अविरोधः | गजतुरगपुत्रपुत्रिकामशंकादिशरीरप्रवेशविरोधो नास्तीति चेन्न तथापि जीवानां सावयवत्वेन घटपटादिवद्विकारित्वविनाशित्वादिदोषप्रसङ्गः इत्युपदिश्यते | तन्मतनिराकरणे पुनर्हेत्वन्तरमाह - अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः || ३६ || जीवस्य यदन्त्यं परिमाणं मोक्षावस्थागतं तस्य पश्चाद्देहान्तरपरिग्रहाभावादवस्थितत्वादात्मनश्च मोक्षावस्थस्य तत्परिमाणस्य चोभयोर्नित्यत्वात्तदेवात्मनस्स्वाभाविकं परिमाणमिति पूर्वमपि तस्मादविशेषः स्यात् | अतो देहपरिमाणत्वमात्मनो न स्यादित्यसङ्गतमेवेति वेदबाह्यमिदं मतं विवेकिमिर्वेदितव्यम् | पत्यधिकरणम् || ८ || आनुमानिकप्रधानकारणतावादिकपिल- nirasya śrutyekadeśaprāmāṇyamiśra-raudra-tantra-pāśupata- पशुपतेश्शिवस्य परब्रह्मणः चिदचिद्भूतात्मकजगदुभयकारणत्वस्यानङ्गीकृतत्वात्तन्मतान्यद्य निराकरोति - śaivamatābhāsakamiśra-raudra-pāśupata-gāṇāpatya-saura- पत्युरसामञ्जस्यात् || ३७ ||
SK
पूर्वाधिकरणे क्षपणकमते सत्त्वासत्त्वाद्योर्युगपदेकत्र विरोधादसमञ्जसमित्युक्तौ तद्वदुपादातत्व-कर्तृत्वयोरेकत्र विरोधादयुक्तमिति दृष्टान्तसङ्गत्या पूर्वपक्षे सर्वशक्तिविशिष्टस्य स्वतन्त्रस्य शिवस्य जगदुभयकारणत्वं सम्भवतीति साधनार्थमधिकरणारम्भकत्वाद्विरोधपरिहारसङ्गत्या सिद्धान्तसङ्गतिरुपपदद्यते | पत्युः - पशुपतेश्शिवस्य परब्रह्मणः जगदुपादानप्रधानादिप्रेरकत्वेन निमित्तकारणमात्रत्वं न सम्भवति कुतः असामञ्जस्यात् परमेश्वरस्य जगदुभयकारणत्वविधायकानं यथोर्णनाभिस्सृजते गृह्यते च इत्यादिवेदान्तानां समन्वयाभावात् भूतपतेश्शिवस्य जगदुभयकारणत्वविधायक शुद्धसात्त्विकशैवमतस्य प्राधान्यं उत शैवमताभासकमिश्र-रौद्र-पाशुपत-गाणापत्य-सौर- saiṣā vicitrā sudṛḍhā bahvaṅkurā svayaṃ guṇābhinnā parāśaktiḥ ityādiṣu śakteḥ mūrtitrayakāraṇatvopadeśāt nārāyaṇaṃ paraṃ brahma tattvaṃ nārāyaṇaḥ paraḥ ityādinā nārāyaṇasya asāvādityo brahma ityādinā sūryasya ca brahmatvadarśanāt | gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnāṃ ityatra brahma-viṣṇurudrādīnāṃ patiḥ gaṇapatiriti tacchāstre sarvādhikyasya vighneśvare nirdeśāt kiñca purāṇeṣu tripura saṃhārādikāleṣu tasya mūrtitrayārcitatvavyapadeśācca jagatkāraṇatvaṃ pūrvoktānāṃ śaktyādīnāmevopapannamiti prāpte pracakṣmahe - brahmaviṣṇurudrendrāste samprasūyante dhyāyīteśānaṃ pradhyāyitavyam īśānassarvavidyānāṃ sarvabhūtadamanāya namaḥ ityādiṣu śrutiṣu tajjanakatvena tasya nimittatvasya tasmin tallayena tasyopādānatvasya ca vyavasthāpanāt śaktyādīnāṃ jagatkāraṇatvamavāntarasṛṣṭiviṣayam | kiñca - niradhiṣṭhānāśakterabhāvāt śaktiniṣṭhakāraṇatvaṃ śaktasyaivārthātsiddham | śaivavāyavīyasaṃhitāyāṃ trayaste kāraṇātmāno jātāssākṣānmaheśvarāt | carācarasya viśvasya sargasthityantahetave || pitrā niyamitāssarve trayo'pi triṣu karmasu |
SK
ब्रह्मा सर्गे हरिस्राणे रुद्रः संहरणे पुनः | तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिनः || तपसा तोषयित्वा तं पितरं परमेश्वरम् | ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरेऽसृजत् || कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः | विष्णुश्च भगवांस्तद्वत् ब्रह्माणमसृजत्पुनः || नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः || इति दर्शनात् नारायणादीनां जगत्कारणत्वं न अनादिसिद्धमिति ज्ञायते | अन्नं ब्रह्म इत्यादिवत्तेषां ब्रह्मत्वं औपचारिकमिति जन्माधिकरणे बहुधा प्रपञ्चितम् | तथापि मूर्तित्रये रुद्रस्यैवाधिक्यमनिवार्यम् विश्वाधिको रुद्रो महर्षिः परात्परतरो ब्रह्म तत्परात्परतो हरिः यत्परात्परतोऽधीशः इत्यादि श्रुतिषु अस्ति रुद्रस्य विप्रेन्द्राः अन्तस्सत्वं बहिस्तमः | रजसा तमसाक्रान्तौ ब्रह्म-नारायणौ खलु || प्त्यादिना सूतसंहितायां च मूर्तित्रयतारतम्योपदेशात् | शातातपे - वेदेषु च पुराणेषु यत्र शक्तिं जनार्दनम् | माहात्म्यं कल्प्यते मोहात्तत्तामसमुदीरितम् || इति | गौतमस्मृतौ च - शैवधर्मपुराणानि वेदाश्च स्मृतयस्तथा | अन्तस्सात्त्विकरूपाणि प्रामाण्यं वेदवत्सदा || वैष्णवानि पुराणानि श्रुतयस्मृतयस्तथा | अन्तस्तामसरूपाणि मेहनार्थानि सर्वदा || तस्माद्विष्णुपुराणानि न सेध्यानि मुमुक्षुभिः | इति निर्दिष्टत्वात् | रुद्रस्य ब्राह्मणदैवत्वात् ब्राह्मणत्वाच्च सर्वदेवतात्वमनिवार्यम् | किञ्च - रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोरान्याशिवान्या इति या ते रुद्र अभिचाकशीहि तैत्तिरीये शिवस्य शान्ताशान्तात्मकमूर्तिद्वयस्य अघोरशरीरेण भक्तरक्षणस्य च व्यपदेशात् तप्तलिङ्गमुद्राङ्कितरौद्रमतात् तप्तशूलडमरुगमुद्राङ्किततन्त्रपाशुपतमताच्च श्रौतशिवलिङ्गधारणावच्छिन्नशैवमतस्य सर्वाधिकत्वमनिवार्यम् | कैवल्ये - umāsahāyaṃ parameśvaraṃ prabhuṃ trilocanaṃ nīlakaṇṭhaṃ praśāntam | dhyātvā munirgacchati bhūtayoniṃ samastasākṣiṃ tamasaḥ parastāt ||
SK
इति शिवस्य प्रशान्तत्व-तमःपरत्व-मूर्तित्रयविलक्षणत्व-निर्देशात् शिवमतस्य शुद्धसत्त्वप्राधान्यमुपदिष्टम् | प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इति माण्डूक्ये तथा निदर्शनात् | सिद्धान्तागमे - सिद्धान्तशिखामणौ च - अगस्त्य मुनिशार्दूल समस्तागमपारग | शिवज्ञानकरं वक्ष्ये सिद्धान्तं शृणु सादरम् || अगस्त्य बहुधा ख्याता सिद्धान्ता रुचिभेदतः | भिन्नाचारसमायुक्ता भिन्नार्थप्रतिपादकाः || सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा | एतानि मानभूतानि न हन्तव्यानि युक्तिभिः || वेदः प्रधानं सर्वेषां सांख्यादीनां महामुने | वेदानुसरणदेषां प्रमाणमिति निश्चितम् || पाञ्चरात्रस्य सांख्यस्य योगस्य च तथा मुने | वेदैकदेशवर्तिभ्यस्सांख्यादिभ्यो महामते | सर्ववेदानुसारित्वाच्छैवतन्त्रं विशिष्यते || शैवतन्त्रमिति प्रोक्तं सिद्धान्ताख्यं शिवोदितम् | सर्ववेदार्थरूपत्वात् प्रमाणं वेदवत्सदा || आगमा बहुधा प्रोक्ताः शिवेन परमात्मना | शैवं पाशुपतं सोमं लाकुलं चेति भेदतः || तेषु शैवं चतुर्भेदं तन्त्रं सर्वविनिश्चितम् | वामं च दक्षिणं चैव मिश्रं सिद्धान्तसंज्ञिकम् || शक्तिप्रधानं वामाख्यं दक्षिणं भैरवात्मकम् | सप्तमातृपरं मिश्रं सिद्धान्तं वेदसम्मतम् || इत्यादिना सर्ववेदधर्मानुकूलकामिकाद्यष्टाविंशत्यागमसिद्धसिद्धान्ताभिधान- kāmike - śiva eva hi devontaḥsthitamicchāvaśādbahiḥ | yogīva nirupādānamarthajātaṃ prakāśayet || iti | siddhāntāgame ca - patrapuṣpādirūpeṇa yathā tiṣṭhati pādapaḥ | tathā bhūmyādirūpeṇa śiva eko virājate || yathā tantubhirutpannaḥ paṭastantumayaḥ smṛtaḥ | tathā śivātsamutpannaṃ śiva eva carācaram || ātmaśaktivikāsena śivo viśvātmanā sthitaḥ | kuṭībhāvādyathā bhāti paṭasvasya prasāraṇāt || ityādinā śivasya jagadubhayakāraṇatvasya bhṛṅgadhyānādyathā kīṭo bhṛṅgarūpo bhavetsadā | śivadhyānāttathā jīvaḥ śivo bhavati nānyathā ||
SK
इति द्वैताद्वैतसिद्धान्तस्य च व्यवस्थापनात् वेदवत् कामिकाद्यष्टाविंशतिशिवागमानां प्रामाण्यम् | अष्टादशपुराणानां कर्ता सत्यवतीसुतः | कामिकादिप्रभेदानां यथा देवो महेश्वरः || इति सूतसंहितायां भगवता व्यासेन कामिकाद्यागमदृष्टान्तेन पुराणानां प्रामाण्यव्यवस्थापनात् स्मृत्यनवकाशाधिकरणे वेदानुकूलमन्वादिस्मृतिविरुद्धसांख्यादिस्मृतिनिराकरणवद्वेदानुकूल- evaṃ revaṇasiddha-marulasiddhaikorāmasiddhodbhaṭārādhyavemanārādhyādibhiḥ śrautaśaivācāryairvyapadeśāt namohiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye'mbikāpataya umāpataye paśupataye namo namaḥ sabhābhyassabhāpatibhyaśca vo namaḥ jagatāṃ pataye paśupataye namaḥ ityādiṣu śivasyaiva sarvapatitvopadeśāt patyādiśabdebhyaḥ ityasmin sūtre paśupatitvādidharmāṇāṃ śivasyaiva mukhyapratipādanāt patyurasāmañjasyāt ityatra patyuḥ paśupateḥ śivasyātiriktasya jagadubhayakāraṇatvamasamañjasaṃ vedavirodhādapramāṇamiti kecidvadanti tadapyaviruddham | asminnarthe hetvantaramāha - sambandhānupapatteśca || 38 || śivetara-nārāyaṇādīnāṃ jagatkāraṇatva-paśupatitvāṅgīkāre nabho hiraṇyabāhare paśupataye namo namaḥ īśānassarvavidyānāṃ brahmādhipatirbrahmā śivo me astu sarvo vai rudraḥ ityādi śrutisiddha hiraṇmayatvomāpatitva- असम्भवाच्च पशुपतित्वं जगज्जन्मादिकारणत्वञ्च शिवेतराणां नोपपद्यते | तस्मच्छ्रुत्येकदेशमिश्रादिमतानि वैदिकैरनादरणीयानि | आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् | पूजयेदेकभावेन मध्ये स्वेष्टं विनिक्षिपेत् || इति वचनदर्शनात् तन्मतमेवावश्यकमिति चेत्तदसत् तद्विधायक प्रात्यक्षिकश्रुतिस्मृत्यदर्शनात् भक्तैर्व्यभिचरितत्वात् तन्मते जगज्जन्मादिकारणेश्वरस्य मिथ्यात्त्वाङ्गीकारात् अधिष्ठानब्रह्मणो निर्विशेषत्वव्यपदेशात् वेदविरुद्धाध्यासस्वीकारादिबहुदोषप्रसङ्गाच्च तन्मतमनुपादेयम् |
SK
सृष्ट्यादौ शाम्भवीशक्त्यां अण्डत्रयमजायत | शुद्धस्फटिकसंकाशे सात्त्विकाण्डे महामते || वाणी-रुद्रौ समुद्भूतौ तस्मात्सत्वगुणान्वितौ | राजसाण्डे रक्तमये श्री-ब्रह्माणौ समुद्भूतौ || अतस्तौ रक्तवर्णाङ्गौ रजोगुणसमन्वितौ | कालाम्बुदसमाकारे तमोऽण्डे तमसावृतौ || उमा-विष्णू समुद्भूतौ तस्मादेतौ तमोगुणौ | गुणातीता पराशक्तिस्सच्चिदानन्दरूपिणी || शिवात्मिका शिवाधीना चिदचिद्विश्वकाशिनी | इति शक्तिपुराणे नारायणाब्धिकयोस्तमोण्डसम्भवत्व व्यपदेशात् राक्षसादिवत् शाक्तागम-पाञ्चरात्रागमयोः मद्यपान-मांसनिषेवण- śivakeśavasambhūtaṃ kalaye kālabhairavam | śaṅkaraśśūlapāṇiśca khaṭvāṅgī viṣṇuvallabhaḥ || ityādinā kāraṇaguṇāḥ kārye saṅkrāmanti iti nyāyena bhairavasya śivavīryotpannasyāpi viṣṇūpādānatvena nīlavarṇatva-surāpāna-māṃsapriyatvādi- प्रवृत्तिरुपपद्यते | तस्मात्तदपि न विधेयम् | वेदविरुद्धरक्तचन्दनोच्छिष्टभक्षणादिधर्माङ्गीकारेण सौर- sāvayavamātrasvīkārāt nimittakāraṇatvavyapadeśācca | teṣāṃ nirākaraṇe punarhetvantaramāha - adhiṣṭhānānupapatteśca || 39 || adhiṣṭhānabrahmātiriktamāyāpratibimbiteśvarasya jagajjanmādikāraṇatvāṅgīkāre adhiṣṭhānānupapattestanmate hyadhiṣṭhānabrahmaṇo nirviśeṣatvāṅgīkāreṇa tasmin vedavedāntānāmanupapatteśca pravṛtyasambhavāt brahmaṇaḥ śaśaśṛṅgavanmithyātvamarthāt siddham | tanmate jīvabrahmeśvarānaṅgīkāre svadhiṣṭhānānupapatteḥ | so'ntarādantaraṃ prāviśat uta yo rudro agnau ityādiśrutisiddhacetanācetanaprapañcādhiṣṭhānatvasya parameśvare anupapatterasambhavāt | kiñca - tanmate - jagajjīveśvarādiprapañcasyādhiṣṭhānabrahmaṇyāropitatvādanuṣṭhānānupapatteḥ | tanmate caitanyadvayāṅgīkārāt brahmaṇaḥ ajñatvasambhavāttatsarvajñatvavidhāyakavedāntānāmanupapatteḥ pravṛtyasambhavāt |
SK
अपि च - पाञ्चरात्रमते यस्य पृथिवी शरीरं | यस्यात्मा शरीरम् इत्यादि श्रुत्या जगज्जावेश्वरयोरङ्गाङ्गित्वाङ्गीकारे अङ्गिनस्सूक्ष्मत्वमङ्गस्य स्थूलत्वमिति व्यवहारदर्शनात् स्वं वायुर्ज्योतिषः पृथिवी विश्वस्य धारिणी यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् इत्यादिश्रुतिसिद्धसर्वाधिष्ठानत्वानुपपत्तिरुपपद्यते | किञ्चाङ्गिन्यङ्गस्य निमित्तोपादानकारणत्वायोगात् अङ्गाङ्गित्वस्वीकारे जीवस्वरूपाङ्गनिष्ठरागद्वेषसुखदुःखादिकमङ्गिनः परमेश्वरस्यानिवार्यम् | तदङ्गीकारे सर्वश्रुतिविरोधः | अत एव वेदबाह्यपाञ्चरात्रमतं सुतरामनुपपन्नम् | एतेन द्वैतनिरास अर्थात्सिद्धः उभयोर्वैष्णवत्वात् | जगत्कारणस्य शरीराङ्गीकाराच्च द्वैतभागवतपाञ्चरात्रादिवैष्णवमते जगत्कारणस्य नारायणस्य सावयवत्वं जीवानां मुक्तदशायामपि भक्तिप्रतिपत्तिसाधनत्वेन तत्समानकिञ्चिद्भेदशरीरप्राप्तत्वं इति व्यपदेशात् वैदिकानां तदसङ्गतमिति निराकरोति - करणवच्चेन्न भोगादिभ्यः || ४० || जीववज्जगत्प्रयोजनत्वे नारायणस्य शरीरेन्द्रियवत्वमिति चेन्न कुतः भोगादिभ्यः | अपाणिपादो जवनो गृहीता इत्यादिषु शरीरेन्द्रियनिरपेक्षतया जगत्कारणेश्वरस्य स्वतन्त्रस्य सर्वकर्तृत्वोपदेशात् जीववत्परमेश्वरस्य स्वगत्कल्पनादिप्रयोजने शरीरेन्द्रियादिसापेक्षत्वमनङ्गीकर्तव्यम् | अत्र परमेश्वरस्य शरीरेन्द्रियनिरासेन द्वैतविशिष्टादिभेदमतनिराकरणं भोगादिभ्यः इति भोगोपदेशात् परमेश्वरस्य निर्विशेषत्वव्यवस्थापकमिथ्याद्वैत-शून्याद्वैतनिराकरणं चोपदिष्टम् | अतः वेदवेदान्तानुसरणविवेकिभिः मुमुक्षुभिः द्वैताद्वैतप्रतिपादितवीरशैवमतमेव अङ्गीकर्तव्यमिति सूत्रकारमुख्याभिप्रायः | सिद्धान्तागमे - द्वैताऽद्वैतमतं वीरशैवं मोक्षैककल्पकत् | सर्ववेदान्तसिद्धान्तसारं सर्वार्थसिद्धिदम् || इति निर्दिष्टत्वात्तदेव परमिति घण्टादोषः |
SK
किञ्च - जगत्कारणेश्वरस्य शरीरत्वव्यवस्थापने घटादिवत्परिच्छिन्नत्वमूर्तत्वप्रसक्त्या मूर्तप्रधानजीववाय्वाकाशान्तर्यामित्वं नोपपद्यते | तत्त्वमेव् त्वमेव तत् न तत्र प्राणा उत्क्रामन्ते तत्रैव समवलीयन्ते इत्यादिश्रुतिविरोधात् मूर्तामूर्तत्वयोरेकत्रायोगात् तस्येश्वरत्वं न घटते | ननु शिवस्य परब्रह्मणः ऋतगṁ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् इत्यादौ शरीरित्वव्यपदेशात् तद्वदसमञ्जस्त्वप्रसङ्ग इति चेत्तदयुक्तम् | शिवस्य लीलामङ्गलविग्रहत्वात् | शरीराद्यभावेऽपि अपाणिपादो जवनो गृहीता इत्यादिश्रुत्या सर्वकारणत्वनिर्देशात् नारायणवज्जननधर्मासम्भवात् कार्यार्थशरीरायोगाच्च लीलामङ्गलविग्रहस्य शिवस्य न दोषशङ्काकलङ्कः | ननु - आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरं इति पञ्चपूजाविधाने सर्वस्य शैवत्वद्योतनात् कुतस्तस्य निरासः सूर्यो मुख्यशरीरं स्याच्छिवस्य परमात्मनः | आदित्यहृदये रुद्रो भाति तस्य नियामकः || सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् || इति | स्कान्दलैङ्ग कूर्मादिषु दर्शनात् | किञ्च - वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियम् इत्यत्र तस्य तल्लोचनत्वनिर्देशात् सूर्यस्य शैवत्वम् | अम्बिकायाः तत्पत्नीत्वेन विघ्नेश्वरस्य तत्पुत्रत्वेन विष्णोस्तु तद्भक्तत्वेन शैवत्वमनिवार्यम् | विष्णोश्शिवभक्तत्वं स्कान्दे - बाणत्वं वृषभत्वं च भार्यात्वं घोणरूपताम् | अर्चकत्वं सखित्वं च शिवस्य परमात्मनः || प्राप नारायणस्तस्माद्भक्तवर्य इतीर्यते || इति | शैवे - गोपालकश्शिरसि लिङ्गमुवाह भक्त्या लिङ्गस्य धारणमहो किमु संशयस्ते | भो पाण्डुरङ्गममृतस्य मनोः प्रभावान् पश्यन्तु ये विमतनिर्मितभावबोधाः || इति | शङ्करसंहितायामापि - उरस्स्थले हरिर्लिङ्गं धृत्वा मूर्ध्नि पितामहः | लिङ्गस्थं मां समाराध्य स्वं स्वं पदमवापतुः || इति दर्शनात् विष्णोश्शिवभक्तत्वं सिद्धम् | वीरागमे दशविधशैवनिरूपणे -
SK
सामान्यशैवं देवेशि वैष्णवं परिकीर्तितम् | शिखापञ्चकसंस्कराद्गायत्री भर्गचोदनात् || मेधावी भस्मसन्धानाद्रुद्रपिण्डसमुद्भवात् | पूर्वशैवं महादेवि सौरं तु परिकीर्तितम् || सौरमण्डलमध्यस्थसाम्बमूर्तिव्यवस्थितेः | तस्याष्टसूर्तेरङ्गत्वातूर्वकर्मनिषेवणात् || पञ्चपूजाविधानन्तु मिश्रशैवामितीर्यते || इत्यादिना सौरादिमतानां शैवमतान्तर्भूतत्वेन व्यवस्थापनात् शैवानां तन्निरासः कथमुपपद्यत इति चेन्न | शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्य एक एव रुद्रो न द्वितीयाय तस्थे इत्यादिना शैवानां श्रुतौ शिवोपासनविधेरेव दर्शनत् सौरादीनां शिवाधिक्यनिष्ठाभावात् पशुपतेः जगदुभयकारणत्वाऽस्वीकारात् समष्टिपूजाविधायकश्रुत्यभावाच्च तन्निराकरणमनिवार्यम् | त्रिलोचन शिवाचार्याभिमततप्तलिङ्गाङ्कस्य पाञ्चरात्रादिवदवैदिकत्वात् शैवत्वानाचारत्वाद्यभावेऽपि हिरण्यगर्भादिमतवच्छिवस्य निमित्तकारणत्वमात्रस्वीकारादवैदिकपाञ्चरात्रादिवदङ्गाङ्गित्यपरिग्रहाच्च प्राणलिङ्गधारणविशिष्टवीरशैवतुल्यत्वं न सम्भवति | तदुक्तं स्कान्दे - लिङ्गाङ्कञ्च भगाङ्कञ्च शैववैष्णवयोरपि | ग्राह्यं तथापि रौद्रन्तु सर्वाधिकमितीर्यते || इति दर्शनात् | भगात्मकचक्राङ्कात् लिङ्गाङ्कनमुत्कृष्टम् | श्रीचक्रस्य भगाकारत्वात् भगस्य स्वाधिष्ठानचक्रत्वेन सर्ववेदान्तदर्शनाच्च चक्रस्य भगाभिधेयत्वमनिवार्यम् | तस्मात्पूर्वोक्तमेव युक्तम् | पशुपतेश्शिवादतिरिक्तस्य जगत्कारणत्वायोगे पशुपतिमतव्यतिरिक्तमतनिराकरणे च हेत्वन्तरमाह - अन्तवत्त्वमसर्वज्ञता वा || ४१ ||
SK
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः इत्यादिषु विष्णोर्भूतत्वं ईश्वरस्सर्वभूतानां इत्यादिषु शिवस्य भूतनियामकत्वेन तत्पतित्वव्यवस्थापनात् | वा शब्दश्चार्ये | पशुपतिव्यतिरिक्तनारायणादीनां जीववदन्तवत्वाऽसर्वशत्ययोश्च दर्शनात्तेषां जगज्जन्मादिकारणत्वं नोपपद्यते | अजात इत्येव कश्चिद्भीरुः प्रपद्यते यस्सर्वज्ञः इत्यादि श्रुतिषु शिवस्यैवाजातत्व-सत्यत्व- ityādi śabdebhyaḥ iti prathamādhyāye paraśive patyādiśabdā upadiṣṭāḥ | tanmatavyatiriktaśrutyekadeśaprāmāṇyakavaiṣṇavādimatānāṃ nirāsārthaṃ patyurasāmañjasyāt iti punaradhikaraṇāntaramārabdham | kaiścinmiśraśaiva- मिश्रशैवानामद्वैतमताश्रितत्वेन क्वचित्काले शिवकेशवसाम्यस्य जगत्कारणेश्वरमिथ्यात्वस्य च प्रतिपादनात्तदयुक्तम् | केचिदद्वैतमाश्रित्य बिडालप्रतिमा नराः | रुद्रेण साम्यमन्येषां प्रवदन्ति विमोहिताः || इति सूतसंहितायां सूतगीतायामपि तन्निन्दा दृष्टा | रुद्रपिण्डसमुद्भूताः रुद्रभूमौ लयं गताः | पितरं नाभिजानन्ति तातं वेश्यामुता इव || वेदास्तु द्रविडी गाथा ऋषयस्तोण्डलादयः | शिवनिन्दा हरेर्भक्तिचारः पाकचातुरी || दधीचिभृगुशापेन विष्णुभक्ता महीतले | शिवनिन्दापरा भूत्वा दुराचारसमन्विताः || पाषण्डत्वं समाविश्य नरकान् प्रविशन्ति हि | शिवं विश्वाधिकं ब्राह्म्यं कुलदैवं परात्परम् || निदन्ति मूडमनसा वैष्णवाः पापकर्मिणः | वेदसिद्धं महादेवं साम्बं चन्द्रार्धशेखरम् || लिङ्गे दिने दिने देवं शिवं रुद्रादिसंज्ञिकम् | नार्चयिष्यन्ति मोहेन पाषाण्डोपहता जनाः || शंखचक्रगदापद्माद्यङ्कनं विग्रहे स्वके | मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः || इत्यादिना शैवलैङ्गस्कान्दादिषु दधीचि-भृगुशापवशात् वैष्णवानां पाषण्डत्वोपदेशात् तन्मतमुपेक्ष्यम् |
SK
किञ्चैतत्सूत्रे श्रुत्येकदेशप्रामाण्यात् द्वैतनिरासः अद्वैतनिरासश्च व्यवह्रियते | भागवत-पाञ्चरात्रादिवैष्णवमतेषु जगत्कारणेश्वरस्य शरीरपरिग्रहात् घटपटादिवदन्तवत्वं विनाशिवत्वम् | अद्वैतवादिनां ब्रह्मणो निर्विशेषताङ्गीकारात् रज्जुसर्पवदध्यासपूर्वकानाद्यविद्यास्वीकारात् असर्वज्ञत्वस्य च निर्देशात् श्रुतिवाक्यपूर्वापरपरामर्शशून्ययुक्त्याभासप्रामाण्यकपूर्वोक्तमत- nanu eka eva nārāyaṇa āsīt na brahmā neśānaḥ nārāyaṇaparaṃ brahma vedāhametaṃ puruṣaṃ mahāntaṃ | ādityavarṇaṃ tamasastu pāre tamevaṃ vidvānamṛta iha bhavati nānyaḥ panthā vidyate'yanāya ityādinā mahānārāyaṇapuruṣasūktādiṣu vāsudevaḥ sarvaṃ iti bhgavadgītāyāṃ ca darśanāt brahmabhūtanārāyaṇavedanasyaiva mokṣasādhanatvena jagajjanmādikāraṇatvaṃ tasyaivopapannamiti cenna | dhyāyīteśānaṃ pradhyāyitavyam sarvamidaṃ brahma viṣṇurudrendrāste samprasūyante sarvāṇi cendriyāṇi na kāraṇaṃ kāraṇānāṃ dhyātā kāraṇantu dhyeyaḥ sarvaiśvaryasampannassarveśvaraśśambhurākāśamadhye śiva eko dhyeyaśśivaṃkaraḥ ityādiśrutiśateṣu mūrtitrayavilakṣaṇatvakāraṇakāraṇatvādeḥ śiva eva nirdeśānnetarasya jagajjanmādikāṇatvamucitam nārāyaṇaparaṃ brahma ityādi śrutīnāṃ annaṃ brahma ityādivadaupacārikatvam | prathamādhyāyadvitīyapāde sarvatraprasidhyadhikaraṛe mahānārāyaṇatātparyaṃ tatprathamapāde jyotiścaraṇādhikaraṇe puruṣasūktatātparyam | śāstradṛṣṭyā tūpadeśo vāmadevavat iti sūtre ṣaṅvidhatārparyaliṅgaiḥ bhagavadgītātātparyaṃ ca paraśivabrahmaparatvena spaṣṭamuktam | tadaikṣata bahusyāṃ tadātmānaṃ svayamakuruta sarvo vai rudraḥ īśāvāsyamidaṃ sarvaṃ yatkiñcajagatyāṃ jagat ityādiṣu śivasyaiva jagadubhayakāraṇatvavyapadeśānna caikapakṣo yuktaḥ | nārāyaṇajagatkāraṇatvavidhāyakapāñcarātrādīnāṃ virodhaprasaṅgaḥ iti cettadasat | skānde - yadā sānandamunirnārakānudatārayat | tadā bhānututaḥ krodhātkailāsagirimāyayau ||
SK
तत्र सर्वेश्वरं साम्बं दृष्ट्वा नत्वा पुनः पुनः | सानन्दकृतवृत्तान्तमब्रवीद्दुःखसंयुतः || तच्छ्रुत्वा भगवान् रुद्रो नारायणमपृच्छत् | आवां यमस्य लोकस्य पुनः पूरणहेतवे || मन्निन्दकानि शास्त्राणि कुरुतां मोहसिद्धये | तच्छ्रुत्वा स हरिस्तद्वत् कृतवान् बुद्धशास्त्रकम् || पाञ्चरात्रं च चार्वाकमघोरं क्षपणं तथा | तद्वद्रुद्रो महादेवः यमलोकस्य पूरणे || शाक्तं कापालिकं मिश्रं तन्त्रं पाशुपतं तथा | चकार मोहशास्त्राणि वेदबाह्यानि सादरात् || इति | किञ्च कूर्मे - पुरा दानवमोहार्थं केशवेन शिवेन च | पाञ्चरात्रं च कापालं याम्यं लोकायतं तथा || बुद्धं जैनं च चार्वाकं कृतं शास्त्रमनन्तकम् | तस्मात्तत्पाञ्चरात्रादिवेदबाह्यात्मकानि वै || शास्त्राणि न स्पृशेत् क्वापि प्राणैः कण्ठगतैरपि || इति श्रवणात् | शमनलोकपूरणार्थं दनुजमोहकृतपाञ्चरात्राद्यागमानां न च प्रामाण्यम् | उत स्कान्दे-शिवरहस्यखण्डे - दश शैवपुराणानि सात्त्विकानि विदुर्बुधाः | श्रद्धेयानि द्विजवरैः तेषां धर्मास्तु तत्र यत् || सत्त्वं शुद्धं समादिष्टं सुखज्ञानास्पदं तु यत् | विद्योपदिष्टा योगिभ्यश्शुद्धस्फटिकसन्निभः || न निद्राति शिवः क्वापि ब्राह्मणाधिपतिश्शिवः | ब्रुवन्त्येवं पुराणानि ब्राह्मणानां कथाश्शुभाः || दश शैवपुराणानि हिंसादोषपराणि च | वैष्णवानि च चत्वारि तामसानि मुनीश्वराः || क्षत्रियाणां श्रुता धर्मास्तेषु तद्देवता हरिः | तमः कृष्णमुदासीनं कूटकृत्यविशारदम् || निद्रालस्यप्रमादादिपञ्चधास्यास्तु तामसाः | निद्रालस्यप्रमादाद्यास्तद्गुणाः परिकीर्तिताः || कृष्णो विष्णुस्स्मृतश्शेषशायी भक्तविमोहकः | एतेषां क्षत्रियाणाञ्च धर्मा विप्रा उदाहृताः || इति दर्शनात् ब्राह्मणानां शिवोक्तनिगमागमशास्त्रानुसरणलिङ्गभस्मशिखामन्त्रध्यानस्फटिकाक्ष- śivaliṅgaṃ śikhāmantraṃ dhyānaṃ rudrākṣameva ca | vibhūtidhāraṇaṃ caiva mudrāṣaṭkaṃ pracakṣate || iti vyavasthāpanāttadeva yuktam |
SK
उत - अन्तवत्वमसर्वज्ञता वा इत्यत्र हरिṁ हरं तमनुयन्ति देवाः विश्वस्येशानं वृषभं मतीनाम् इति श्रुतौ - मत्स्यकूर्मवराहाङ्गैः नृसिंहमनुजादिभिः | जातेन निधनं प्राप्तं विष्णुनापि महात्मना || इति स्मृतौ च शिवेतरनारायणादीनां अन्तवत्वं च रजसा तमसा क्रान्तौ ब्रह्मनारायणौ खलु इति सूतसंहिता सूतगीतासु तमसाद्वृतत्वव्यपदेशान्नारायणस्य सर्वज्ञता भावः अर्थात्सिद्ध इति केचिद्वदन्ति | तदपि तमसावृतजननमरणविशिष्टानां पशुपतिव्यतिरिक्तनारायणादीनां जगदुभयकारणत्वनिषेधादविरुद्धम् इति सिद्धम् | उत्पत्यसम्भवाधिकरणम् || ९ || पाञ्चरात्रादीनां वेदैकदेशप्रामाण्यमवलम्बत्वेन निरसने तद्विष्णोरेकमुत्तमम् नारायणपरं ब्रह्म इत्यादिश्रुतिसिद्धसर्वाधिकभगवन्नारायणेन कूतः पाञ्चरात्रागमः कथं वेदविरुद्ध इत्याशङ्क्य निराकरोति - उत्पत्तेरसम्भवात् || ४२ || उत्पत्तेः परमपुरुषनाररयणात् क्षेत्रज्ञोत्पत्तेः जननस्य सम्भवात् | श्रुत्युक्त्यनुभवविरोधात् जीवोत्पत्तिविधायकपाञ्चरात्रागमशास्त्रं सर्वथा वैदिकैर्नाङ्गीकरणीयम् | पञ्चमहाभूतवत् क्षेत्रज्ञानां परमात्मसकाशादुत्पत्यङ्गीकारे तद्वज्जीवानां नाशप्रसङ्गात् तच्छास्त्रोक्तकिञ्चिद्भेदनारायणसारूप्यात्मकमुक्तिर्न स्यात् | जीवजन्यत्वव्यपदेशकपाञ्चरात्रशास्त्रं प्रमाणमूलं भ्रान्तिमूलं वेति संशयः | पूर्वः पक्षः - परब्रह्मभूतवासुदेवप्रणीतत्त्वात् तत्परत्वात् निःश्रेयससाधनावबोधकत्वान्मन्वादेरधिकत्वात् तदुक्तपाञ्चरात्रागमस्य वेदवत्प्रामाण्यम् | तत्प्रक्रिया च - परमकारणभूतवासुदेवात् सङ्कर्षणो नाम ईवो जायते | सङ्कर्षणात् प्रद्युम्नसंज्ञं मन उत्पद्यते | तस्मादनिरुद्धसंज्ञकाहंकारः प्रभवति | एते चत्वारो व्यूहास्सर्वेश्वरस्य | इति | तस्मात्तच्छास्त्रमनिवार्यम् | किञ्च - सर्वेषां ब्राह्मणानां याग-श्राद्ध-दानादिकर्मसु कृष्णार्पणविनियोगदर्शनात् - प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै | यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ||
SK
कायेन वाचा मनसेन्द्रियै र्वा बध्यात्मना वा प्रकृतेः स्वभावात् | करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि || इत्यादिवचनेषु सर्वकर्मसु विष्णुस्मरणपूर्वकत्वस्य तेषां विष्ण्वाराधनरूपत्वस्य च उपदेशात् सर्वक्रियासंकल्पे श्रीगोविन्दगोविन्देति व्यवहारदर्शनात् श्राद्धे च विष्णोर्मुख्यदेवत्वाभिधानात् गयायां श्रीविष्णुपादे दत्तमस्तु इति | अनेन श्रीजनार्दनः प्रीयतामिति च विष्णुसमर्पणस्यैव द्योतनात् अच्युतानन्तगोविन्द इत्यादिना शरीरशुद्धिसम्पादनार्थं केशवादिद्वादशनामोच्चारणविधानस्य स्मृतिषु बहुधा प्रपञ्चितत्वात् सन्ध्यावन्दनोपस्थाने - ध्येयस्सदासवितृमण्डलमध्यवर्ती नारायणस्सरसिजासनसन्निविष्टः | केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः || शङ्खचक्रगदापाणे द्वारकानिलयाच्युत | गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् || इति सौरमण्डले नारायणप्रार्थनादर्शनात् नमो ब्राह्मण्यदेवाय गोब्राह्मणहिताय च | जगद्धिताय कृष्णाय गोविन्दाय नमो नमः || इति गोविन्दस्मृतिं कृत्वा आकाशात्पतितं तोयं यथा गच्छति सागरम् | सर्वं देवनमस्कारः केशवं प्रति गच्छति || इति वाक्येन तदितरसकलदेवताकर्मकनमस्कारादीनां केशवस्यैव मुख्योद्देश्यत्वव्यवस्थापनात् वैष्णवलाञ्छनमृदूर्ध्वपुण्ड्रस्यैव सर्वेषां प्रातर्विधेयत्वदर्शनात्सालग्रामं विना लिङ्गतीर्थप्रसादास्वीकारात् || किञ्च - स्मार्तवैष्णवादिमतेष्वै रामायणस्यैवोपदेशग्रहणात् विष्णुसहस्रनामोच्चारणस्यैव सर्वेषां मुख्यानुसन्धेयत्वाच्च सर्वेषां ब्राह्मणानां विष्णुपरत्वमेवाभिहितम् | रुद्रो वै क्रूर इति यजुश्श्रुतौ रुद्रस्य तामसत्वव्यपदेशात् तत्प्रणीतशिवागमानां तत्प्रतिपादकश्रुतिस्मृतिपुराणानां च तामसत्वादप्रामाण्यमर्थात् सिद्धम् | तथा शाण्डिल्यस्मृतौ - यानि सर्वपरं विष्णुं वदन्ति परमेश्वरम् | तानि सर्वाणि शास्त्राणि सात्त्विकानि मतानि वै ||
SK
प्रजापतिं कृशानुं च तथा देवीं सरस्वतीम् | परत्वेन वदेच्छास्त्रं राजसं च प्रचक्षते || यच्छास्त्रे लिङ्गपारम्यं वामदेवमुमापतिम् | परत्वेन वदेच्छास्त्रं तत्तामसमुदाहृतम् || इति स्पष्टमुक्तम् | किञ्च - सर्वयज्ञक्रियादिषु रुद्राहुत्यनन्तरं - अप उपस्पृश्य इति श्रवणात्तदेव शिवस्य तामसत्वामङ्गलत्वप्रदर्शने मुख्यदृष्टान्तः | नारायणाद्रुद्रो जायते इत्यादौ नारायणस्य जगज्जन्मादिकारणत्वोपदेशाच्च तत्प्रणीतपाञ्चरात्रागमस्य समुत्कृष्टत्वा सर्वेषां ब्राह्मणानां तदेव ग्राह्यमिति प्राप्ते प्रचक्ष्मक्षे - सिद्धान्तः - वैदिकानां पाञ्चरात्रागमप्रतिपादितवैष्णवमतं न विधेयम् | कुतः तन्त्रप्रधानत्वात् | ज्ञाज्ञौ द्वावजावीशानीशौ न जायते म्रियते वा विपश्चित् इत्यादिस्मृतिषु जीवानामनादित्वनिर्देशात् जीवोत्पत्यादिश्रुतिबाह्यधर्मप्रकाशकपाञ्चरात्रागममतमवैदिक- buddhamatavadāpadyeta | pāñcarātrāgamānāṃ prādhānyaṃ nārāyaṇapraṇītvena uta vaiṣṇavagūḍhācāradharmaprakāśakatvena nādyaḥ buddhāgamādiṣvativyāpteḥ | na dvitīyaḥ kūcimārādi granthaprāmāṇyaprasaṃgāt | tathā cet smṛtitantrapurāṇeṣu yo'rthaḥ śrutyā virudhyate | tantrārthassa tu vijñeyo garhito brāhmaṇādibhiḥ || iti pārāśara vyavasthādarśanāt | tadaṅgīkāre varṇacatuṣṭayātītatvaprasaṅgo durnivāraḥ | kvacit smṛtipurāṇeṣu sarvakarmārambhe viṣṇunāmasmaraṇāt viṣṇorutkṛṣṭatvaṃ parabrahmatvaṃ vaidikadevatāpradhānatvaṃ vā nādyaḥ viśvādhiko rudro maharṣiḥ rudro vai śāśvataṃ vai purāṇam eka eva rudro na dvitīyāya tasthe rudra ekatvamāhuḥ ityādi śrutiśateṣu śivasyaiva sarvādhikyavyavasthāpanānnetarasya sarvādhikyam |
SK
किञ्च - त्वं देवेषु ब्राह्मणोऽसि अहं मनुष्येषु ब्राह्मणः ब्राह्मणो वै ब्राह्मणमुपधावति त्वं देवानां ब्राह्मणानामधिपतिर्विष्णुः क्षत्रियाणामधिपतिः ब्राह्मणानां ब्राह्मणैराप्ततया महादेव एक एवोपास्यः इत्यादिना यजुस्सामश्रुतिषु शिवस्य ब्राह्मणत्वं ब्राह्मणोऽपास्यत्वं चोपदिष्टम् | एष नित्यो महिमा ब्राह्मणस्य तस्मात्सोमराजानो ब्राह्मणाः | सोमोऽस्माकं ब्राह्मणानां राजा सोम एव नो राजेत्याहुर्ब्राह्मणाः प्रजाः इत्यादिषु शिवस्य ब्राह्मणत्वं ब्राह्मणाधिपतित्वं चोपदिष्टम् | कूर्मे अनुलोमविलोमानां वर्णानां ब्राह्मणो गुरुः | विशेषात् ब्राह्मणं रुद्रमीशानं शरणं व्रजेत् || पाराशरपुराणे - सर्वेषामेव वर्णानां वरिष्टः परमेश्वरः | वरिष्टयोर्हि सम्बन्धो युज्यते न परस्य तु || ततो विप्रस्य सम्बन्धश्शिवेनैव हि युज्यते | सङ्करास्सर्वदेवाश्च वृषलस्तु पुरन्दरः || पितामहश्च वैश्यश्च क्षत्रियः परमो हरिः | ब्राह्मणो भगवान् रुद्रः सर्वेषामुत्तमोत्तमः || ब्रह्मभूतस्य रुद्रस्य ब्राह्मण्यं नैव हेतुजम् | ब्राह्मणो वै सदा लोके ब्राह्मणन्तूपधावति || नेतरः क्षत्रियो वैश्यः न शूद्रो न च सङ्करः | तस्माद्वेदैकमार्गेण द्विजातो ब्राह्मणस्सदा || महाब्राह्मणमीशानमवगच्छेन्नचेतरम् | सर्वात्मभूतमात्मानं विरूपाक्षं द्विजोत्तमम् | यस्तु नोपैति साङ्कर्यं तस्यास्त्यंहो न संशयः || इति | तथा यजुर्वेदे - यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते | न परां प्राप्नोति पापीयान् भवति || इति | यस्तु स्वां देवतामतिक्रम्य देवतान्तरं यजते सः परां देवतां न प्राप्नोति पापीयान् भवतीति श्रुत्यर्थः | अन्तर्नेच्छन्ति तं जने रुद्रं परो मनीषया गृभ्णन्ति जिह्वयाससं इत्येतत् श्रुत्युपष्टम्भकतया कूर्मे - अन्तर्नेच्छन्ति ये रुद्रं भवानीसहितं शिवम् | पुरीषमेव गृभ्णन्ति जिह्वया ते न संशयः || श्रौतस्मार्तसदाचारैर्ब्राह्मणः परमेश्वरम् | महाब्राह्मणमीशानमुपगच्छेत्सदैव तु ||
SK
तच्छेवत्वेन विष्णादीन् सर्वेषां ह्यास्तिकोत्तमः | अपगच्छेत्सदा विप्रो न प्रधानतया सदा || जन्मना लब्धजातीनामाश्रमाणां तथैव च | प्राधान्येन महादेवः पूज्यो नान्योऽस्ति सिद्धये || तत्प्राप्त्यर्थं महाविष्णुस्सर्वैः पूज्यः सनातनः | इत्यादिना स्कान्दे शिवस्यैव ब्राह्मणत्वमवगम्यते | नादेवांशो ददात्यन्नं नाविष्णुः पृथ्वीपतिः | नानृषिः कुरुते काव्यं नारुद्रः क्रमपाठकः || इति स्कान्दे रुद्रांशस्यैव ब्राह्मणस्य वेदक्रमपाठकत्वेन ब्राह्मण्यमुक्तम् | नाविष्णुः पृथिवीपतिः इति विष्णोः पृथिवीपतित्वेन क्षत्रियत्वमुक्तम् | अलंकारप्रियो विष्णुरभिषेकप्रियश्शिवः | इति रामकृष्णाद्यवताराणां क्षत्रियकुले जन्मश्रवणात् लोके विष्णुविग्रहेषु गोविन्दराज-वरदराज-रङ्गराजादि शब्दप्रयोगदर्शनात् किञ्च पाञ्चरात्रागमोक्तकल्याणोत्सवादिषु वर्मशब्द प्रयोगाच्च विष्णोः क्षत्रियत्वमनिवार्यम् | ब्राह्मणानां शिवो देवः क्षत्रियाणां तु माधवः | वैश्यानां तु तथा ब्रह्मा शूद्राणां सुरनायकः || इति मनुस्मृतौ च विष्णोः क्षत्रियदेवत्वं स्पष्टमुक्तम् | ननु वेङ्कटेश्वर-विटलेश्वरस्थाने विष्णोरीश्वरशब्दश्रवणात् परशुरामावतारे तस्य ब्राह्मणकुलसम्भवश्रमणात् कथं क्षत्रियत्वमुपदिश्यत इति चेन्न - वेङ्कटेश्वरस्याभासविष्णुत्वं तदङ्गे नागभूषणादिधर्माणां द्योतनात् मूलविग्रहे शङ्ख- rajjusarpavadābhāsamātrameva | kiñca - tatpāṇyadhodeśe śivaliṅgasya darśanāt īśvaraśabdo vyavahriyate | viṭhaleśvarasya viṣṇośśirasi śivaliṅgadhāraṇadarśanāt tatra ṣaṣṭhītatpuruṣasamāseneśvaraśabdo nirṇītaḥ | rudrāṃśasambhūtasya viśvāmitrasya kṣatriyotpannasyāpi tapasā brāhmaṇatvaṃ nārāyaṇāṃśasaṃbhūtasya paraśurāmasya brāhmaṇotpannasyāpi vyāpāreṇa kṣatriyakāryakāraṇatvaṃ dṛṣṭam | tacca rudradaivatyacaruvyatyāsahetukamiti harivaṃśe pratipāditam - bhṛgoścaruviparyāse śaivavaiṣṇavayoḥ purā | jagatyāṃ vaiṣṇavāṃśaśca jāmadagnyo hyajāyata ||
SK
विश्वमित्रस्तु शैवांशैर्गाधिः कुशिकनन्दनः | जनयामास पुत्रन्तु तपोविद्याशमात्मकम् || प्राप्य ब्रह्मर्षिसमतां गतः || इति | तस्माच्छिवस्य ब्राह्मण्त्वं ब्राह्मणाधिपतित्वं अत एव सर्वोत्कृष्टत्वं चेति - रुद्रपिण्डोद्भवो विप्रो रुद्रं सर्वेश्वरं विभुम् | मोहेनैव न जानाति तातं वेश्यासुतो यथा || यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम् | यो विप्रान् सततं द्वेष्टि तं विद्यादन्त्यरेतसम् || इत्यादिना स्कान्दे दृश्यते | अतः रुद्रस्य ब्राह्मणत्वात् ब्राह्मणोत्पत्तिहेतुत्वाच्च रुद्रद्वेषिणां ब्राह्मणेभ्यो बहिष्कार इति घण्टाघोषः | आदत्त पितरो गर्भं कुमारं पुष्करस्रजम् | यदेह पुरुषस्सदिति तं पत्नी प्राश्नाति पुमाṁसं समाजानुका भवति इति आपस्तम्बगृह्यसूत्रे ब्राह्मणस्य रुद्रपिण्डहेतुत्वं श्रूयते | ननु वस्वादिपाठेन एकादशरुद्राणामेव अत्र निर्देश इति चेन्न तेषामीश्वरांशत्वेनैव रुद्रत्वव्यपदेशो युक्तः अंशांशिनोरभेदात् | प्रकृतिविकृतिन्यायेन श्राद्धादौ तद्वदुत्पत्तिः | तस्माद्विष्ण्वाद्यपेक्षया रुद्रस्यैव सर्वोत्कृष्टत्वम् सिद्धम् | न द्वितीयः - एक एव नारायण आसीत् न ब्रह्मा नेशानः नारायणात् ब्रह्मा जायते नारायणाद्रुद्रो जायते इत्यादौ शिववन्नारायणस्य कारणकारणत्वादर्शनात् एक एव नारायण आसीत् इत्यत्र शक्तेरासीत्पराशरः इतिवत् आदिविष्णोः परमशिवजन्यत्वमुपदिश्यते | तथा ऋग्वेदे - विष्णुरित्था परमस्य विद्वान् जातो बृहन्नभिपाति तृतीयम् इति | अस्यार्थः - परमस्य महेश्वरस्य इत्थं भवेन विद्वान् वेत्ता विष्णुः विष्णोः परमशिववेत्तृत्वं मन्त्रान्तरे प्रसिद्धम् - विष्णो देवत्वं परमस्य वित्से इति | एवम्भूतो बृहद्विष्णुः बृहदिति विशेषणं विष्णोः व्यूहावतारात् इति रूपान्तरातीतादिविष्णु परम् |
SK
मन्त्रान्तरेऽपि - नमो विष्णवे बृहते करोमि | बृहत्ते विष्णो सुमतिं भजामहे इत्यादिषु स विष्णुजातस्सन् ब्रह्मविष्णुलोकादूर्ध्वं तृतीयं कैलासं साक्षादादिविष्णुरेव संरक्षति तस्मादजातमहेश्वरादादिविष्णोर्जन्यत्वं सिद्धम् | अजात इत्येवं कश्चिद्भीरुः प्रपद्यते | रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् इति श्वेताश्वतरमन्त्रेण शम्भोरेवाजातत्वव्यवस्थापनात् तस्यैव कारणकारणत्वं सिद्धम् | नारायणाद्रुद्रो जायते इत्यादिवाक्यानामवान्तरकालरुद्रविषयत्वम् | त्रयस्ते कारणात्मानो जातास्साक्षान्महेश्वरात् इत्यारभ्य - विष्णोश्च भगवांस्तद्वत् ब्रह्माणमसृजत्पुनः नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः इत्यादिना कल्पान्तरेषु परमशिवानुग्रहादवान्तरभेदाः बहुधा प्रपञ्चिताः इति वायुसंहितायां दृष्टम् | एक एव नारायण आसीत् इति क्रियया तस्य परमेश्वरजन्यत्वमुपदिष्टम् | तत्र तस्य मूर्तित्रयकारणत्वादर्शनात् | श्रुत्यन्तरेषु जगत्कारणत्वं मूर्तित्रयकारणत्वं च शिवस्यैव निर्दिष्टम् | श्वेताश्वतरे - ब्रह्मवादिनो वदन्ति | किं कारणं ब्रह्म | कुतः स्म जाताः इत्युपक्रम्य प्रश्नोत्तरपुस्कारेण शिवस्यैव परब्रह्मत्वं प्रसाध्य - यदा तस्मन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः | तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी || इत्यादिना सकलजगत्पूर्वभावित्वेन गायत्रीमन्त्रवाच्यत्वेन शिवस्यैव प्रतिपादितत्वात् यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः इत्यादिना तस्यैव विश्वाधिकत्वमुपदिष्टम् | अथर्वशिरसि -
SK
ध्यायीतेशानं प्रध्यायितव्यम् | सर्वमिदं ब्रह्म-विष्णु-रुद्रेन्द्रास्ते सम्प्रसूयन्ते | सर्वाणि चेन्द्रियाणि सह भूतैर्न कारणं कारणानां ध्याता कारणन्तु ध्येयः सर्वैश्वर्यसम्पन्नस्सर्वेश्वरश्शम्भुराकाशमध्ये शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य इत्यादिश्रुतिषु तस्यैव कारणकारणत्वनिर्देशात् नारायणस्य कारणकारणत्वे विश्वाधिकत्वे च श्रुत्यदर्शनात् न सर्वथा नारायणस्य परब्रह्मत्वमुपपद्यते | ईशानः सर्वविद्यानां इत्यादिना शिवस्य पालकत्वं निधनपतये नमः सर्वभूतदमनाय नमः महाग्रासाय नमः इत्यादिश्रुतिषु तस्यैव सर्वलयकारणत्वं दृष्टम् | तस्मात्तस्यैव परब्रह्मत्वं निस्प्रत्यूहम् | जन्माद्यस्य यतः यतो वा इमानि भूतानि जायन्ते इत्यादौ च जगज्जन्मादिकारणत्वं ब्रह्मलक्षणमित्युक्तम् | न तृतीयः सामवेदप्रथममन्त्रे तपश्च ते जपश्च ते इत्युपक्रम्य कर्माधिपतये नमः इत्यन्तेन सकलकर्माधिदैवत्वेन विरूपाक्षोऽसीति तत्र निर्देशात् वैदिकानां सर्वकर्मारम्भे शिवस्मरणमेव युक्तम् | तथा शैवपुराणे - वैदिकस्सर्वकर्माणि शिवमुद्दिश्यकारयेत् इति अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा | यः स्मरेद्वै विरूपाक्षं स बाह्याभ्याभ्यन्तरः शुचिः || इति च श्रूयते | स्कान्दे - शुचिर्वाप्यशुचिर्वापि सर्वावस्थासु सर्वदा | यः स्मरेद्वै विरूपाक्षं स वैश्वानरवच्छुचिः || इति श्रूयते | मन्वादिश्रुतीनामिव श्रुतिमूलकत्वेन सर्वकर्मारम्भे शिवस्मरणविधायकवचननानां विधेयत्वम् (ग्राह्यत्वम्) | वेदमूलकत्वाभावात्कर्मारम्भे विष्णूद्देशप्रतिपादकस्मृतीनां साङ्ख्यादिस्मृतिवत् दुर्बलत्वम् | दिनं वारं च नक्षत्रं योगं करणमेव च | सर्वं शिवमयं स्मृत्वा वैदिकः कर्म कारयेत् || इति स्मृतौ दिनवारनक्षत्रादिकं शिवमयमिति श्रूयते | तथा च श्रुतिः - विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् | सर्वो ह्येष रुद्रः तस्मै रुद्राय नमो अस्तु || इत्यादि श्रुतिशतेषु सर्वं शिवात्मकमिति श्रूयते |
SK
किञ्च - श्राद्धप्रारम्भे - ईशानः पितृरूपेण महादेवो महेश्वरः | प्रीयतां भगवानीशः परमात्मा सदाशिवः || इति शिवप्रीतिकरत्वेन शिवाराधनत्वेन श्राद्धकर्मकर्तव्यत्वमुपदिष्टम् | तथोपसंहारे - वामदेवाय नमः इत्यादिना शिवस्मरणपूर्वकब्राह्मणविसर्जनश्रवणादुपक्रमोपसंहारयोः शिवपरत्वदर्शनात्तन्मध्यभागस्यापि तत्परत्वमेव | तथा शङ्करसंहितायां - नैमित्तिकानि श्राद्धानि शिवतुष्ट्यर्थमादरात् | कुर्यात्सर्वैः स्वगृहोक्तं शिवाराधनबुद्धितः || इति | लैङ्गे - गयारुद्रपदे पिण्डं यो ददाति सुभक्तितः | स सप्तकुलमुद्धृत्य शिवलोके महीयते || ईशानविष्णुकमलासनकार्तिकेय-वह्नित्रयार्करजनीश इत्यादिना तत्र प्रथमंमीशानपादस्यैवोपदेशात् | गयायां श्रीरुद्रपादादिसमस्तपादेषु दत्तमस्तु इति बोधायनसूत्रवचनात् श्राद्धं सर्वं शिवप्रीतिकरमेव | ननु श्राद्धसंरक्षकश्रीमहाविष्णोरिति वचने तस्यैव श्राद्धसंरक्षकत्वेनोपदेशात् श्राद्धफलदाता स एवेति चेन्न | विश्वेदेवादिगणाधिकारित्वेन विष्णुनिर्देशः कृतः | राजभाण्डागारे भृत्यनिर्देशवत् विष्णोस्तत्संरक्षकत्वं निर्दिष्टम् | स्कान्दे - व्यासभुजस्तम्भनानन्तरं व्यासं प्रति विष्णुवचनम् - यज्ञकर्ता च देवेन्द्रो वेदकर्ता च वाक्पतिः | अहमेव जगत्कर्ता मम कर्ता महेश्वरः || इति | अनेन वचनेन शिवस्यैव सर्वाधिकत्वमुपदिश्यते | यो रुद्रोऽग्नौ योऽप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश इति श्रुतौ जलाधिष्ठानतया रुद्रस्यैव स्थित्युपदेशात् | स्नानकालेऽपि - वासदेवमन्त्रेण जलाधिष्ठानरुद्रं स्मृत्वा स्नानं कुर्यात् | तथा शातातपे - वामदेवेति मन्त्रेण जलाध्यक्षं सदाशिवम् | स्मृत्वा स्नानं सदा कुर्यात्सर्वपापनिवृत्तये || इत्यादिना स्नानकाले शिवप्रार्थनादर्शनात्तदेव युक्तम् | सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् | नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् || इति गौतमस्मृतौ -
SK
सूर्यो मुख्यशरीरं स्याच्छिवस्य परमात्मनः इति शङ्करसंहितायां - सूर्यमण्डलान्तर्वर्तित्वं सूर्यस्य मुख्यशरीरत्वं चोपदिष्टम् | तस्माच्छिवस्यैव परब्रह्मत्वं सिद्धम् | ननु एषोऽन्तरादित्ये हिरण्मयः पुरुषः इत्यारभ्य कप्यासं पुण्डरीक मिवाक्षिणी इत्यादिना छान्दोग्ये - सूर्यमण्डलाभिव्यक्तपुरुषस्याक्षिद्वयोपदेशात् ध्येयस्सदा सवितृमण्डलमध्यवर्ती इत्यादिना नारायणस्य सूर्यमण्डलान्तर्वर्तित्वनिर्देशात् भर्गशब्दवाच्यत्वं तस्यैवेति चेन्न - अन्तस्तद्धर्मोपदेशात् इत्यधिकरणे तन्निराकृतम् | नीलकण्ठभाष्ये सूतसंहिताध्यानयोगखण्डे च शिवस्य सूर्यमण्डलान्तर्वर्तित्वेन तन्मन्त्रार्थस्योपदेशात् कप्यासं पुण्डरीकमिवाक्षिणी इति वाक्ये कं उदकं किरणैः पिबतीति कपिः सूर्यः तेनासितं विकसितं पुण्डरीकमिवेत्यनेन तृतीयलोचनस्य मुकुलीकृतत्वमर्थात्सिद्धमिति बहुधा निरूपितम् | शतरुद्रीये - असौ योऽवसर्पति नीलग्रीवो विलोहितः इत्यादिना सूर्यमण्डलान्तर्वर्तित्वं शिवस्यैव प्रसाधितम् | स्तोमं वो अद्य रुद्राय सिक्वसे | क्षयद्वीराय नमसा विधेम इति श्रुतौ सर्वदेवतानमस्कारस्तोत्रादीनां शिवसमर्पणाविधिश्रवणात् सर्वदेवनमस्कारः केशवं प्रतिगच्छति इति वाक्यानां वेदविरुद्धत्वात् सांख्यस्मृतिवचनवन्न विधेयत्वम् | किञ्च - पञ्चशीर्षोपनयेन इति वाक्ये शिरःपञ्चकविशिष्टत्रिलोचनमहेश्वरे सन्ध्यावन्दनविनियोगव्यवस्थापनात् विनियोगानुसारेण सर्ववाक्यान्वयो युक्तः | तत्प्रकरणे तु भर्गो देवस्य रुद्रात्मन इति पदेन भर्गपदस्य रुद्रपरत्वस्य स्पष्टमुक्तत्वात् श्रुतिस्मृति-विरोधे तु श्रुतिरेव बलीयसी इति न्यायेन श्रुत्यर्थानुगुण्येन वाक्यार्थो योजनीयः | अत्र केचित् - श्रमात्यसमर्पितद्रव्याणां यथा राजाधीनत्वं तथा विष्णुसमर्पितनमस्कारादीनां शिवाधीनत्वमिति वदन्ति | यथा चोरसमानीतं किरीटादिविभूषणम् | चोरैर्यथा न धार्यं स्यात्तथा देवनमस्कृतिः ||
SK
यथा नद्यादयः सर्वे समुद्रे प्रविशन्ति हि | सर्वदेवनमस्कारः महादेवे तथा ध्रुवम् || न शक्यते द्वयं धर्तुं ब्रह्मविष्ण्वादिभिस्सदा | इति स्कान्दे श्रूयते | अतो न कश्चिद्विरोधः | ननु विष्णुधर्मोत्तरे स्मार्ताचमनलक्षणानन्तरं - अथ केशवादिभिरित्यादिना पुराणाचमनं वैदिकानां विधेयत्वेन प्रतिपादितमिति चेन्न | श्रौतमाचमनं प्रोक्तं यज्यादीनां निरन्तरम् | स्मार्तमाचमनं ज्ञेयं स्मार्तकर्मावलम्बिनाम् || इति गौतमस्मृतौ स्मरणात् केशवादिनामभिराचमनं तान्त्रिकमेव्ति वेद्यम् | वैदिकानां स्मार्तानामपि मूत्रोत्सर्जनादिकालेषु केशवादिभिराचमनं कथमकर्तव्यमिति चेन्न - ब्राह्मणानां शिवदेवत्वात् शिवनामभिराचमनमेव कर्तव्यम् | ब्रह्मयज्ञादिकालेषु श्रुत्याचमनमिष्यते | सोमयागादिकालेषु श्रौताचमनमीर्यते || सन्ध्यादिस्मार्तकृत्येषु स्मृत्याचनमीरितम् || मूत्राद्युत्सर्जने काले पुराणाचमनं स्मृतम् | शिवनामादिभिः पञ्च विंशत्या कुरुताद्बुधः || इति वृद्धशातातपस्मृतिदर्शनात् तदेव युक्तम् | ऊर्ध्वपुण्ड्रादिकं न वैदिकपरिग्राह्यं तान्त्रिकत्वात् | तदुक्तं पाराशरपुराणे - श्रौतलिङ्गन्तु विज्ञेयं त्रिपुण्ड्रोद्धूलनादिकम् | अश्रौतन्तूर्ध्वपुण्ड्रादि नैव तिर्यक्-त्रिपुण्ड्रकम् || शातातपे - ऊर्ध्वपुण्ड्रं मृदा कुर्याल्लीलयापि कदाचन | तदाकारेण शस्त्रेण पीड्यते यमकिङ्करैः || गारुडस्मृतौ च - त्रिपुण्ड्रं सुरविप्राणां वर्तुलं नृपवैश्ययोः | अर्धचन्द्रन्तु शूद्राणां अन्येषामूर्ध्वपुण्ड्रकम् || सूतसंहिता-ब्रह्मगीतासु च - ऊर्ध्वपुण्ड्रं ललाटे तु वर्तुलं वार्धचन्द्रकम् | मोहेनैव प्रकुर्वन्ति पाषण्डोपहता जनाः || शङ्खचक्रगदापद्माद्यङ्कनं विग्रहे स्वके | मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः || विष्णुस्मृतौ - यथा श्मशानगं काष्ठमनर्हं सर्वकर्मसु | तथा चक्राङ्कितो विप्रः सर्वकर्मबहिष्कृतः || विभूतिर्यस्य नो फाले कण्ठे रुद्राक्षमालिका | मुखे पञ्चाक्षरो मन्त्रस्तं त्यजेदन्त्यजं यथा || गौतमस्मृतौ -
SK
मुखे मन्त्रं हृदि ध्यानं मस्तके लिङ्गधारणम् | शिखा रुद्राक्षभस्मानि इति ब्राह्मणलक्षणम् || ब्राह्मणः कुलजो विद्वानूर्ध्वपुण्ड्रधरो यदि | तं गार्दभं समारोप्य राजा राष्ट्रात्प्रवासयेत् || कुलीनो ब्राह्मणो विद्वानूर्ध्वपुण्ड्रधरो यदि | वर्जयेत्तादृशं विप्रं मद्योच्छिष्टघटं यथा || किञ्च - गौतमे तत्प्रायश्चित्तविधिरपि श्रूयते - ऊर्ध्वपुण्ड्रं मृदाश्वित्य पत्रवर्तुलचिह्नधृत् | त्रिपुण्ड्रधरणादेव भस्मना पूयते नरः || अङ्किते शङ्खचक्राद्यैः शरीरे देवतायुधैः | त्रिपुण्ड्रधारणादेव भस्मना पूयते नरः || अग्निना दह्यते गात्रं यः पुमान् व्याधिवर्जितः | रुद्राक्षधारणादेव भस्मना पूयते द्विजः || इति | सामशाखायां - मद्यं पीत्वा गुरुदारांश्च गत्वा स्वर्णस्तेयं ब्रह्महत्यां च कृत्वा || भस्मच्छन्नो भस्मशय्यां शयानो रुद्राध्यायी मुच्यते सर्वपापैः || इत्यादिना बहुश्रुतिस्मृतिभिर्भस्मरुद्राक्षलिङ्गधारणादिमाहात्म्यं सर्वाधिकरणे बहुधा प्रपञ्चितम् | ननु वेदोपबृंहकस्मृतिपुराणानामवैदिकतन्त्रमार्गप्रतिपादकत्वाभावात् ऊर्ध्वपुण्ड्रादिकं तिर्यग्भस्मत्रिपुण्ड्रवद्वैदिकमिति चेन्न - तदुक्तं पाराशरे - पुराणे धर्मशास्त्रे वा योऽर्थः श्रुत्या विरुध्यते | तन्त्रार्थस्स तु विज्ञेयो मानसेन मनीषिभिः || इति श्रवणात् वेदविरुद्धोऽर्ध्वपुण्ड्रादिकस्य स्मृतिपुराणपठितत्वेऽपि वेदमूलकत्वाभावान्न वैदिकपरिग्राह्यत्वम् | गौडे विद्या तपश्चोले दया काश्मीरमण्डले | आर्यदेशे सदाचारो मन्त्रसिद्धिस्तु केरले || इति पाराशरपुराणवचने ह्यार्यावर्तदेशाचारस्य सर्वोत्कृष्टत्वप्रतिपादनात् तद्देशे केशवनामोर्ध्वपुन्ड्रसालग्रामपूजादिकस्य बहुशोऽदृष्टत्वात्तदाचार एव विद्वद्रमणीय इति चेत्तदयुक्तम् | तत्रैव - मध्यदेशादिसंसिद्धसदाचारं समाचरेत् | स्मृतिमन्त्रविरुद्धन्तु तत्रापि न समाचरेत् || सर्वदेशेषु यत्स्मृत्या श्रुत्या वा विहितं यथा | आचारोऽप्रतिषिद्धश्च स प्रमाणं न संशयः ||
SK
ननु केशवादिनाम्नां वेदोक्तत्वाभावेऽपि यज्ञोपवीतवदाचरणीयमिति चेत्तदसत् | यज्ञोऽपवीतविधानस्य गृह्यपरिशेषे - यज्ञोपवीतं परमं पवित्रं इति मन्त्रप्रतिपादनात् श्रुतिविरोधाभावात् ब्रह्मोपनिषद्दर्शनाच्च | तद्वत्केशवादिनाम्नां श्रुतिप्रतिपाद्यन्वाभावात्तान्त्रिकत्वमनिवार्यम् | शिवलिङ्गस्य श्रुतिसिद्धत्वात् वैदिकपूजार्हत्वमुपपद्यते | यजुश्शाखायां निधनपतये नमः इत्यारभ्य एतत्सोमस्य सूर्यस्य सर्वलिङ्गगṁ स्थापयति पाणिमन्त्रं पवित्रं इत्यन्तेन शिवलिङ्गस्य परब्रह्मत्वेन सर्वोपास्यत्वप्रकटनाय प्रतिपदं नमस्कारपूर्वकं सर्वात्मकत्वं श्रूयते | लीयतेऽस्मिन्नन्त्यकाले जगत्सर्वं चराचरम् | सृष्टिकाले बहिर्याति तस्माल्लिङ्गं परात्परम् || इति लैङ्ग व्युत्पत्या लिङ्गस्य महामहिमातिशयित्व निश्चितम् | तस्माच्छ्रुतिपुराणसिद्धत्वात् लिङ्गं वैदिकमेव | वेदमूलकत्वाभावाद्विष्णुविग्रहसालग्रामदेवतापूजनस्य तान्त्रिकत्वमेव | किञ्च - विश्णोश्शिवलिङ्गाराधकत्वं ऋग्वेदे श्रूयते - तव श्रिये मरुतो अर्चयन्त रुद्र यत्ते जनिम चारु चित्रम् | पदं यद्विष्णोरुपमं निधाय तेन पासि गुह्यं नाम गोनाम् इति | ब्रह्मकैवर्ते - रौद्रं समभ्यर्च्य हि लिङ्गमादौ शिलामयं चारु हरिस्तु भक्त्या | सुदुर्लभं वैष्णवमाद्यमग्र्यमवाप्तवानेष परात्परं तत् || इति तथा पराशरपुराणे - रौद्रं लिङ्गं महाविष्णुर्भक्त्या शुद्धशिलामयम् | चारु चित्रं समभ्यर्च्य लब्धवान् परमं पदम् || सा च लक्ष्मीस्समाख्याता महाविष्णोऽस्तु दुर्लभा | यश्च लिङ्गं समभ्यर्य्च सम्पूज्यं सर्वचेतनैः | इत्यादिना च सर्वत्रप्रसिद्धोपदेशाधिकरणे बहुधा प्रपञ्चितम् |
SK
ननु रुद्रस्य तत्प्रणीततत्प्रतिपादकागमपुराणानां तामसत्वमिति यदुक्तं तदसमञ्जसम् | रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोरान्या शिवान्या इति श्रुतौ - रुद्रस्य परब्रह्मणः घोरशरीरत्वेन जगत्संहारकत्वं अघोरशरीरत्वेन जगत्कारणत्वं जगत्पोषकत्वं च प्रतिपाद्यते | संहारस्य क्रूरधर्मत्वाद्रुद्रस्य संहारकर्तृत्वात्तामसत्वं विष्णोश्च प्रपञ्चपोषकत्वेन सात्त्विकत्वमिति चेन्न | संहारकर्तृत्वाभावे निरीश्वरत्वप्रसङ्गात् यतो वा इमानि भूतानि जायन्ते यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनं इत्यादिश्रुतिषु संहारस्य ब्रह्मधर्मत्वेन विवक्षितत्वात् न शङ्कनीयम् | अस्ति रुद्रस्य विप्रेन्द्रा इति सूतसंहितायां सूतगीतासु कालरुद्रस्यापि ब्रह्मविष्ण्वादिभ्योऽधिकत्वमुपदिष्टम् | विष्णोरन्तस्तमस्सत्वं बहिरस्तीति दश शैवपुराणानि इत्यारभ्य - वैष्ण्वानि च चत्वारि तामसानि मुनीश्वराः | क्षत्रियाणां श्रुताधर्मास्तेषु तद्देवता हरिः || तमः कृष्णमुदासीनं कूटकृत्यविशारदम् | निद्रालयस्यप्रमादादिपञ्चधा स्यात्तु तामसम् || निद्रालस्यप्रमादाद्यास्तद्गुणाः परिकीर्तिताः | कृष्णो विष्णुस्स्मृतः शेषशायी भक्तविमोहकः || इत्यन्तं शिवरहस्यखण्डसम्भवकाण्डप्रथमाध्याये दर्शितम् | श्रुतिरपि - उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं इति कैवल्ये | प्रपञ्चोपशमं शान्तं शिवमद्वैतं इति माण्डूक्येऽपि शिवस्यापि परम्सात्विकत्वव्यपदेशात् सर्वाधिकत्वं श्रूयते | अतो न तामसत्वकलंकप्रसङ्गः | एतच्छास्त्रयोनित्वाधिकणे बहुधा प्रपञ्चितत्वादत्र संक्षिप्तम् | यागक्रियासु रुद्रहोमानन्तरमप उपस्पृश्येत्यनेन तामसदेवतात्वे ह्यमाङ्गल्यदेवतात्वेचेयमेव मुख्यदृष्टान्तः इति यदुक्तं तदसमञ्जसम् | श्रौतशुण्ठप्रसङ्गात् | अपः परिषिञ्चति | रुद्रस्यान्तर्हित्यै इति यजुश्श्रुतौ आपः परिषेचनस्य रुद्रान्तर्धानार्थकत्वेन कण्ठोक्त्या निर्दिष्टत्वात् | स्कान्दे व्यास-
SK
देवतानाञ्च सर्वेषां प्रभुः साम्बस्त्रिलोचनः | तस्मान्महादेव इति प्रोच्यते वेदवेदिभिः || अत एवाद्वितींयत्वमेक एवेति वै श्रुतेः || तद्भृत्यैर्ब्रह्मविष्ण्वाद्यैर्नाहुतिः परिगृह्यते | तद्वैलक्षण्यसिध्यर्थं रुद्रस्य परपात्मनः || सर्वयागेषु होमेषु रुद्रान्तर्धानसिद्धये | जलोपस्पर्शनं प्रोक्तं नीलकण्टस्य शूलिनः || इति | तथा कूर्मे - यथाक्रमं समभ्यर्च्य भोजयित्वा प्रभुं भुवि | प्रेषयित्वाथ भृत्यानां यथा पूजाविधीयते || तथा रुद्रं महादेवं सर्वयज्ञफलप्रदम् | दत्वाहुतिं ततो भक्त्या तदन्तर्धानसिद्धये || जलोपस्पर्शनं प्रोक्तं ततो देवसमर्चनम् || इति | किञ्च - शिवस्येतरदेवतासामानाधिकरण्यराहित्यं मन्त्रोपनिषदि श्रूयते - न तस्य कार्यं करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते इत्यारभ्य एक एव रुद्रो न द्वितीयाय तस्थ इत्यादिना अद्वितीयत्वादिकं तस्यैवोपदिष्टम् | ननु नैऋतराक्षसादिप्रकरणपाठात् शिवस्याप्यपकृष्टत्वमिति चेत्तदयुक्तम् | तदापस्तम्बसूत्रे च अग्नेर्गवां ब्राह्मणस्य इत्यादिना अग्निगोब्राह्मणादिस्पर्शस्य पतितामेध्यरजस्वलास्पर्शस्येव स्नानविधिश्रवणात् एकवाक्यपाठाच्च न प्रकरणैक्यदोषः | तथा च स्मृतिरपि - गामग्निं श्रोत्रियं चैव पतितं च रजस्वलाम् | ब्रह्मबन्धुं तथा स्पृष्ट्वा सवासा जलमाविशेत् || इति दर्शनात्सर्वेषां अशुचित्वमहेतुकम् | तस्मात् शिवस्यैव सर्वाधिकत्वं निष्प्रत्यहम् | किञ्च - सूतसंहितायाम् - भेदाभेदस्तथाभेदो भेद एतन्मतत्रयम् इति ध्रुवं कश्चित् ब्रूते सकलमपरस्त्वध्रुवमिति परो ध्रौव्याध्रौव्ये इति महिम्नस्तवे प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः इत्यारभ्य भगवता व्यासेन मतत्रयस्यैव भेदाभेदक्रमेण व्यपदेशात् जैमिन्यादिवैदिकैरपि पूर्वपक्षस्याप्ययोग्यत्वेन विशिष्टमतस्योपेक्षणीयत्वात् तथा भट्टभास्करादिवैदिकरपि भेदाभेदमतस्यैव पारमार्थिकत्वेन व्यवस्थापनात् भेदादिवेदसिद्धमतत्रयानन्तर्भावात् विशिष्टमतस्य तान्त्रिकत्वं दुर्वारमेव |
SK
उत - एतावन्तो वै पशवो द्विधा द्विपादश्चतुष्पादश्च तस्माद्रुद्रः पशूनामधिपतिः एषामीशे पशुपतिः पशूनां चतुष्पादमुत द्विपदामिति ब्रह्मादयः पशवः इत्यादौ ब्रह्मादीनां पशुत्वं ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैः सर्वमृत्युप्रहाणिः ज्ञाननिर्मथनाभ्यासात् पाशं दहति पण्डितः इत्यादिना मायायाः पाशत्वं पशूनां पतये नमो नमः इत्यादौ परमेश्वरस्य पशुपतित्वस्य स्पष्टमुपदिष्टत्वात् पशुपतिपाशपदार्थत्रयप्रतिपादकशैवशास्त्रस्य वेदमूलकत्वाद्वैदिकत्वम् | चिदचिदीश्वरपरिभाषाप्रधानरामानुजशास्त्रं वेदमूलकत्वाभावादवैदिकमिति घण्टाघोषः | रुद्रेणान्नममृतं देवा वै भोक्तुकामा वेदाश्च कामयन्ते रुद्रभक्तं भुञ्जीथाः इत्यादिश्रुतिसिद्धत्वात् शिवप्रसादस्य वैदिकपरिग्राह्यत्वं तन्त्रप्रधानत्वाद्विष्णुप्रसादस्य तान्त्रिकपरिग्राह्यत्वं निष्प्रत्यूहम् | दग्धदेहानां पुनर्दहनमयुक्तं दग्धस्य दहनं नास्ति पक्वस्य पचनं न हि इत्यादौ दग्धस्य पुनर्दहननिषेधदर्शनात् तदङ्गीकारे दीक्षायाः वैफल्यमेव | किञ्च - दहनाङ्गीकारे स्मार्ताग्निर्वा शक्रधारणदीक्षानुगतवैष्णवाग्निर्वा नाद्यः - स्मार्ताग्निना दहनाङ्गीकारे वैष्णवदीक्षितस्य बद्धजीववत्प्रेतत्वं तदनन्तरमपि पित्रादीनां वसुरुद्रादित्यलोकानुप्रविष्टत्वं चतुर्थपुरुषस्यापि स्वर्गलोकप्राप्तिसम्भवात् वैष्णवदीक्षितानां विष्णुसारूप्यविधायकशास्त्राणां वैयर्थ्यापत्तिः | दीक्षायाः निष्फलत्वं चक्रधारणसमागतवैष्णवाग्नेर्विनियोगाभावाच्च | न द्वितीयः - वैष्णवाग्नेः पाञ्चरात्रागमप्रकरणपठितत्वात्तद्दहनस्यापि तान्त्रिकत्वं दुर्वारमेव | कूर्मे - कापालं पाञ्चरात्रं च यामलं वा ममार्हतम् | एवं विधानि चान्यानि मोहनार्थानि तानि तु || इति | तथा ब्रह्माण्डे - कापालं लाकुलं वामं पाञ्चरात्रं तथैव च | मुमुक्षुभिर्न सेव्यानि वेदमार्गविरोधतः || पाराशरपुराणे - धर्माधर्मादिविज्ञाने ह्यागमाः पुरुषोदिताः | पाञ्चरात्रादयः सर्वे न प्रमाणमिति स्थितिः || स्कान्दपुराणे -
SK
पाञ्चरात्रादिमार्गाणां वेदमूलत्वमस्ति चेत् | प्रमाणं तन्त्रविज्ञेयं न स्वतन्त्राः कदाचन || इति श्रुतिपथगलितानां तन्त्रमार्गप्रवेशः इति च सूतसंहितायां बहुशो दर्शनात् तन्मतमुपेक्ष्यम् | ननु पद्मपुराणोत्तरभागे इदं महोपनिषदि प्रोक्तं चक्रादिधारणं इति वाक्ये शङ्खचक्रादिधारणस्य बहुश्रुतिप्रतिपादितत्वश्रवणात् पाञ्चरात्रागमाद्यनुसारिपुराणवाक्यानां मानभावात् | तथा पाराशरपुराणे - yattu tantrānurodhena kathitaṃ tatparityajet | purāṇe dharmaśātre vā yatnato vaidiko dvijaḥ || ityuktvā tantrānurodhitvaṃ kathaṃ jñātavyamityāśaṅkyāha - purāṇe dharmaśāstre vā yo'rthaśśrutyā virudhyate | tantrārthassa tu vijñeyaḥ sarvadā vaidikottamaiḥ || smṛtayaśca purāṇāni bhāratapramukhāni ca | vedānusaraṇatvena prāmāṇyāmiti niścitam || iti darśanācca cakrādilāñchanastha pratyakṣavidhāyakaśrutyabhāvāt caraṇaṃ pavitraṃ iti śrutau anyathā viniyogadarśanāt gandhadvārādimantrāṇāmanyathā viniyogadarśane'pi prakaraṇānukūlāṅgīkārāt caraṇapadasya cakraparatve mānābhāvācca | pavitraṃ caraṇaṃ cakraṃ lokadvāraṃ sudarśanam ityādi naighaṇṭukavākyānāmamūlatvānmānābhāvaḥ tāpaḥ puṇḍrastathā nāma mantro yāgaśca pañcamaḥ ityādi tāntrikapañcasaṃskāravidhāyakapāñcarātrāgamavākyānāṃ vedamūlakatvābhāvādvaiṣṇavamataṃ tāntrikamiti niṣpratyūham | taduktaṃ śaivapurāṇe - rudraḥ sviṣṭakṛdagnirityanudinaṃ mucanti homakriyāṃ necchante paśubandhanasya ca vidhiṃ rudraḥ paśūnāṃ patiḥ | śrīrudrapratipādikāṃ bhagavatīṃ tāṃ bhargaśabdānvitāṃ gāyatrīmapi santyajanti vibudhāḥ viprāḥ kathaṃ vaiṣṇavāḥ || iti vyapadeśāt | ato jīvotpattividhāyakapāñcarātrāgamaviśiṣṭādvaitavaiṣṇavamataṃ vaidikairanaṅgīkaraṇīyam | tanmatasya vedabāhyatve hetvantaramāha - tacca kartuḥ karaṇam || 43 ||
SK
सङ्कर्षणात्प्रद्युम्नसंज्ञि मनोऽजायत इति कर्तुर्जीवात् करणस्य मनसो जन्यत्वं न सम्भवति कुतः अज्ञस्य जीवस्यान्तःकरणनिर्माणसामर्थ्याभावात् एतस्माज्जायते प्राणो मनः इति परब्रह्मण एव मानसोत्पत्तिः श्रूयते | तस्मात् श्रुतिविरुद्धार्थप्रतिपादनादस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिध्यत इति व्याचक्षते उत क्षेत्रज्ञस्य अन्तःकरणवैशिष्ट्येन वा मानसजनकत्वमवैशिष्ट्येन नाद्यः - तन्मते तदन्तःकरणस्यापि जीवजन्यत्वाङ्गीकारात् अन्तःकरणस्य जीवस्य च शरीरेन्द्रियाद्यभावेन स्वसामर्थ्याभावाच्च जीवान्तःकरणप्रवृत्तौ शरीराद्यङ्गीकारे बहुत्वादनवस्थादोषप्रसङ्गः | न द्वितीयः - स्वसामर्थ्येन मानसजन्यत्वाङ्गीकारे शरीरेन्द्रियादिजगज्जन्मादिकारणत्वं किं न स्यात् तस्य जगज्जन्मादिहेतुत्वे जगदीश्वरस्य न किञ्चित्प्रयोजनम् | जीवस्य अहमज्ञः इत्याद्यविद्यानुभवदर्शनात् ज्ञाऽज्ञौ द्वावजौ इति श्रुतिविरोधप्रसङ्गात् तस्मिन् सत्यसङ्कल्पादिधर्माणां अदृष्टत्वाच्च | तस्मान्मानसस्य जीवजन्यत्वव्यवस्थापकपाञ्चरात्रमतमयुक्तम् | ननु सङ्कर्षणादयस्त्रयो न जीवरूपाः किन्तु वासुदेववद्विज्ञानस्वरूपा ईश्वरा एवेत्याशङ्कायामाह - विज्ञानादिभावे वा तदप्रतिषेधः || ४४ ||
SK
वाशब्दात्पूर्वपक्षो विपरिवर्तते | विज्ञानं च आदिश्चेति परं ब्रह्म विज्ञानादि सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तदप्रतिषेधः तयोः मतविरोधश्रुतिविरोधयोरप्रतिषेधः विरोधो न प्रतिषिध्यत इत्यर्थः | यत्र कुत्रापि श्रुतिषु ब्रह्मणो घटपटादिवज्जीवोत्पत्तेस्तज्जीवे मनः कारणत्वस्य चादर्शनाद्वेदबाह्यपाञ्चरात्रागमनिषेधोऽप्यबाधित इति वेदितव्यम् | पाञ्चरात्रागमेऽपि विष्णुसारूप्यापन्नानां मुक्तात्मनां मनःकारणत्वमभिधीयते | तस्मान्नारायणभावापन्नत्वेऽपि सङ्कर्षणादित्रयाणां परमात्मवन्मनःकारणत्वं न व्यपदिश्यते | तदङ्गीगारे ह्यनन्तेश्वरप्रसङ्गादनवस्था च | वासुदेवाधिक्यबोधकवाक्यानामप्रामाण्यं प्रसज्येत | सांख्य-योग- tadvatkāraṇatvābhāvāt saṃkarṣaṇāditrayāṇāmīśvaratvāṅgīkāre vāsudevasya na kiñcitprayojanaṃ ekenaiva kāryasiddheḥ | bhagavāneka eva vāsudevaḥ paramārthatattvam iti pratipādakapāñcarātrāgamasiddhāntahāniḥ anīśvarāṇāṃ saṅkarṣaṇādīnāṃ vāsudevatulyatvavyapadeśe vāsudevādutpattirnabhyupagamyate | tasmātsaṅkarṣaṇādijanyatvavidhāyakapāñcarātrāgamavirodho durnivāraḥ | ākāśaprāṇādivatsaṅkarṣaṇādīnāṃ brahmatvavidhāyakaśrutyadarśanāt tatprakriyāyāḥ vedabāhyatvamucitam | madbhakto hi mamādhikaḥ iti tāntrikanyāyānusaraṇena saṅkarṣaṇādīnāṃ tadadhikatvavyavasthāpane tajjanyatvata-drupāsakatvavirodhaḥ | tadapakṛṣṭe manaḥkāraṇatvaṃ nopapadyate | tasmātsarvathā śrutiyuktyanubhavavirodhātpāñcarātramataṃ vivekibhirnādaraṇīyam | nanu - sāṃkhyaṃ yogaḥ pāñcarātraṃ vedāḥ pāśupataṃ tathā | jñānānyetāni rājarṣe viddhi nānāmatāni vai || etāni mānabhūtāni nopahanyāni yuktibhiḥ | iti bhārata-siddhāntāgama-pārāśarasmṛtiṣu sāṃkhyādimatānāṃ vidheyatvam | pāśupatasya tattulyatvopadeśātkathaṃ śaivaṃ tasmādadhikamiti cenna - तथा पाशुपतशब्दस्यापि दशविधवैदिकतान्त्रिकशैवपरत्वेऽपि प्रकरणानुकूलार्थो निर्दिश्यते |
SK
किञ्च - सिद्धान्तशिखामणौ भारते च शैवपाशुपतमतयोर्वैलक्षण्यं शैवमतस्य पाञ्चरात्रपाशुपतादिभ्यस्समुत्कृष्टत्वं च सम्यगुपदिष्टम् | आगमा बहुधा प्रोक्ताश्शिवेन परमात्मना | शैवं पाशुपतं सोमं लाकुलं चेति भेदतः || इति | घटपटयोरिव शैव-पाशुपतयोः परस्परवैलक्षण्यं विधीयते | किञ्च - वेदैकदेशवर्तिभ्यस्संख्यादिभ्यो महामुने | सर्ववेदानुसारित्वात् शैवतन्त्रं विशिष्यते || इति तत्रैव सांख्ययोगपाञ्चरात्रपाशुपतादीनां वेदैकदेशवर्तित्वेनापकृष्टत्वं शैवमतस्य सर्व वेदमयत्वेन समुत्कृष्टत्वं च व्याचक्षते | महिम्नस्तवेऽपि त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति | प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च || रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां | नृणामेको गम्मस्त्वमसि पयसामर्णव इव || इति परिच्छिन्नसांख्य-योग-पाञ्चरात्र-पाशुपतादिमतानां ऋजुकुटिलमार्गेण सर्वेषां समुद्र-नदी-न्यायवच्छिवेऽप्येकत्वोपदेशात् शैवमतस्य सर्वमताधिक्यमिति घण्टाघोषः | किञ्च - वेदतुल्यभारते आनुशासनिकपर्वणि किमाहुर्भरतश्रेष्ठ पात्रं विप्रास्सनाअनम् | लिङ्गिनं ब्राह्मणं चापि ब्राह्मणं चाप्यलिङ्गिनम् || इति युधिष्ठिरप्रश्ने - सद्वृत्तिमपि विज्ञाय लिङ्गेन चेतराय च | देयमाहुर्महाराज उभावेतौ तपस्विनौ ||
SK
इति भीष्मप्रतिवचनेन लिङ्गधारिब्राह्मणानां मुख्यदानपात्रतायाः वा पक्षे तद्भिन्न ब्राह्मणानां दानपात्रत्वस्य च निर्देशात् लिङ्गधारणावच्छिन्नशैवमतस्य सर्वाधिकत्वमर्थात्सिद्धम् | अत एव सर्ववेदमयशैवमतविरुद्धत्वेन सांख्यादयोऽत्र भगवता पाराशर्येण निरस्ताः | तथापि सांख्ययोगपाञ्चरात्राणां कपिल-हिरण्यगर्भनारायणकर्तृकत्वेन पौरुषेयत्वं परब्रह्माभिधानपशुपत्तिप्रणीतत्वेन पाशुपतागमानामपौरुषेयत्वं वेदवत्प्रामाण्यं च | तत्रैकदेशागमानां निमित्तमात्रद्योतकत्वेन वेदविरोध इति चेत् वेदैकदेशे - सोऽकामयत स ईक्षां चक्रे इत्यादौ निमित्तकारणमात्रदर्शनात् तेषामप्रामाण्यं प्रसज्येत | उत - किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने | इत्यादिना किं सांख्ययोग-पाशुपत-वेद-पाञ्चरात्राण्येकतत्त्वपराणि पृथक् तत्त्वप्रतिपादनपराणि वा यद्येकतत्त्वप्रतिपादकानि किं तदेकतत्त्वम् यदा तु पृथक् तत्त्वप्रतिपादकानि तदेषां परस्परविरुद्धार्थप्रतिपादनपरत्वात् वस्तुनि विकल्पासंभवाच्चैकमेव प्रमाणमङ्गीकरणीयम् | पौरुषेयाणां हि परस्परविरुद्धव्स्तुवादित्वेन आपौरुषेयत्वेन निरस्तप्रमादादिनिखिलदोष- prāmāṇyaṃ durlabham | vedavedyaśca parabrahmabhūtaśśiva eva | sarvaṃ khalvidaṃ brahma sarvo vai rudraḥ ityādinā vedāntavedyaḥsarvātmakaḥ parabrahmābhidhānaśśiva eka eva vastviti niścīyate | kiñca - śivoktanigamāgameṣu mahādevābhidhānasya parabrahmaṇaḥ mūrtā'mūrtasya ṣaḍguṇaiśvarya pūrṇasya hiraṇmayasūkṣmavyūhavibhavabhedabhinnatvamupadiṣṭam | vīrāgame - brāhmaṇānāṃ hi tadbrahma mahādevākhyayājinām | śivajñānakaraṃ śāstraṃ sarvopaniṣadaṃ mahat || yathādhikāraṃ bhaktaistu jñānapūrveṇa karmaṇā | abhyarcitaṃ mahādevaṃ saṃsārāmayabheṣajam || prāpyate hi paraṃ sūkṣma vibhavavyūhakāraṇam | ardhanārīśvaratvādi līlāvibhavasajñikāḥ || sadyojātādayaḥ pañca vyūhāḥ proktāssanātanāḥ | teṣāmeva vibhaktādi sthalapañcakamīritam ||
SK
सकलं निष्कलं सूक्ष्मं हिरण्मयमनामयम् | व्योमवत्सर्वसम्पूर्णं सर्वैश्वर्यसमन्वितम् || स्वतन्त्रं जगदाधारं शिवरुद्रादिसंज्ञिकम् | नित्यसंवेतचिच्छक्तियुक्तं साम्बं महेश्वरम् || इत्यादिना ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं इत्यादि श्रुतिसिद्धार्धनारीश्वरत्वादिलीलामङ्गलविग्रहा विभवाभिधानाः सद्योजातादिपञ्चब्रह्ममन्त्रेषु सद्योजातादिव्यूहपञ्चकतयोपदिष्टाः | नमो हिरण्यबाहवे हिरण्यवर्णाय इति मन्त्रेण षड्गुणैश्वर्यसम्पन्नस्वभावज्योतिर्मयविग्रहं महादेवाख्यं परब्रह्म व्याचक्ष्यते | सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः | सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः || इत्यत्र परमशिवस्यैव सर्वमयत्वं सर्वान्तर्यामित्वं सर्वव्यापकत्वं चाभ्युपगम्यते | तस्माद्वेदागमयोर्न किञ्चिद्भेदः अतो वेदविरुद्धजीवोत्पत्यादिविधायक-पाञ्चरात्रमतं निःश्रेयसकांक्षिभिर्न श्रोतव्यम् | पुनर्हेत्वन्तरमाह - विप्रतिषेधाच्च || ४५ || विशेषेण विरोधाच्च | साङ्ख्यादिमतानां प्रधानजगत्कारणत्वादिना किञ्चिद्वेदान्तविरोधात् पाञ्चरात्रमतस्य तु ज्ञाऽज्ञौ द्वावजावीशानीशौ - अचेतना परार्था च नित्या सततविक्रिया | त्रिगुणा कर्मिणां क्षेत्रं प्रकृतेः रूपमुच्यते || व्याप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च | सह्यनादिरनन्तश्च परमार्थेन निश्चितः || इति वेदागमेषु च सर्वत्र जीवस्य नित्यत्वप्रतिपादनात् जीवोत्पत्यादिविधायकपाञ्चरात्रमतं सर्ववेदान्तविरुद्धत्वात् भ्रान्तिमूलमतमिति वेदितव्यम् | वासुदेवः परं तत्त्वं सर्वकारणमव्ययम् | सङ्कर्षणाख्य जीवस्तु तत्सकाशात्प्रजायते || संकर्षणाच्च प्रद्युम्न संज्ञं संकल्परूपकम् | मानसं जायते तस्मात् अनिरुद्धाभिधानकम् || हंकारं जायतेचेति व्यूहत्रयमुदाहृतम् |
SK
इति पाञ्चरात्रागमे तत्प्रक्रिया श्रूयते | तस्माच्छास्त्रमविचारितरमणीयम् | अजातस्य जीवस्य घटादिवज्जन्यत्वं किञ्चिज्ञस्य जीवस्य मनःकारणत्वं जडीभूतमनसोऽहंकर्तुत्वमिति पाञ्चरात्रप्रक्रियायाः न जायते म्रियते वा इत्यादि श्रुतिषु विरोधप्रसङ्गो दुर्निवारः | ननु पाञ्चरात्रे पुष्करसंहितायां - कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपासते | क्रमागतैस्स्वसंज्ञाभिः ब्राह्मणैरागमञ्च तत् || यस्मात् साम्यं परं ब्रह्म वासुदेवाख्यमद्वयम् | अस्मादवाप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा || इत्यादिना सङ्कर्षणादीनामपि परब्रह्मस्वेच्छाविग्रहरूपत्वव्यपदेशात् | शैवागमवदत्रापि विभवार्चनान्न्यूहं प्राप्य - व्यूहात्परं वासुदेवाख्यं प्राप्यत इति व्याचक्षते | विभवो रामकृष्णादिप्रादुर्भावगणः वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धसंज्ञिको व्यूहः | सूक्ष्मं षड्गुणैश्वर्यविग्रहं वासुदेवाख्यं परब्रह्मेति निरूपितम् | तस्मात् जीवमनोऽहंकारतत्त्वानामधिष्ठातारः तेषां जीवादिशब्दैरभिधानमविरुद्धम् | यथाकाशप्राणादिशब्दैर्ब्रह्मण अभिधानं तद्वदिति चेन्न - शैवमतवद्वासुदेवादिव्यूहानां प्रत्यक्षश्रुतिमूलकत्वाभावात् | संकर्षणादीनामीश्वरत्वे तज्जन्यत्वविधायकस्वशास्त्राविरोधप्रसङ्गः | स्वशास्त्रानुगुण्येन तेषामीश्वरत्वाङ्गीकारपूर्वककारणत्वाङ्गीकारे वेदबाह्यप्रसंगेनानवस्था च दृश्यते | अजायमानो बहुधा विजायते इति श्रुतौ परमेश्वरस्य स्वसंकल्पत्वेन स्वेच्छाकृतविग्रहत्वश्रवणात् वासुदेवात्संकर्षणादिजन्यत्वे न विरोधः इति चेत्तदसत् | सोऽकामयत बहु स्यां इत्यादिवच्छ्रुतेरपि ब्रह्मणो जगदुभयकारणत्वपरत्वात् तत्र संकर्षणादिशब्दादर्शनाच्च तदंगीकारे पूर्वापरवाक्यसमन्वयाभावाच्च आकाशप्राणादिवच्छ्रुतौ संकर्षणादिशब्दानां ब्रह्मपरत्वं न व्यपदिश्यते | एवं तच्छास्त्रप्रामाण्यं गगनभित्तिचित्रायमानवदवभासते |
SK
त्रिपुरासुरमोहार्थं केशवेन शिवेन च | बुद्धं जैनं च चार्वाकं पाञ्चरात्रं च मुद्गलम् || कृतं तस्मादसच्छास्त्रं न श्राव्यं मोक्षकांक्षिभिः | इति स्कान्दे - पाञ्चरात्रे च बौद्धे च तथा कौलमुखेषु च | श्रद्धया दीक्षिता ये च ते लोके ब्राह्मणाधमाः || शैवे वायुसंहितायाम् - बुद्धे जिने पाञ्चरात्रे तथा लोकायतेऽपि च | यो दीक्षितस्स सद्योभूत्पतितो नात्र संशयः || इत्यादिना बुद्धपाञ्चरात्रशास्त्राणां राक्षसमोहनार्थं कल्पनोपदेशात् | गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः | य इच्छेत् सिद्धिमास्थातुं देवताङ्कायतेजसे || इत्यादि पाञ्चरात्रप्रबन्धं मुमुक्षुभिर्नोपादेयम् | अतस्सर्ववेदान्तागमादिपूर्वापरमध्यपरामर्शदृष्ट्या द्वैताद्वैतमतमेव मुख्यवेदान्तसिद्धान्त इत्यवगम्यते | जन्मादिसूत्रे जगदुभयकारणत्वंव्यवस्थापनात् निमित्तकारणत्वेन जगदीश्वरयोर्द्वैततत्वं उपादानत्वव्यपदेशेनाद्वैततत्वं च दर्शितम् | किञ्च - मुक्तोपसृष्यब्यपदेशात् इत्यत्र मुख्यजीवपरब्रह्मणोः प्राप्यप्रापकत्वनिर्देशात् जीवब्रह्मणोर्भेदाभेदवत्वमर्थात् सिद्धम् | ब्रह्मविदाप्नोति परम् तत्त्वमसि अहं ब्रह्मास्मि तत् त्वमेव त्वमेव तत् ब्रह्म वेद ब्रह्मैव भवति यथा नद्यः स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् इत्यादि श्रुतिषु जीवब्रह्मणोर्भेदाभेदवत्वनिर्देशात् तदेवांगीकरणीयम् | इति श्रीमद्यतिव्रजपरिवृढ श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत भेदाऽभेदात्मक विशेषाद्वैतसिद्धान्तव्यवस्थापकवैयासिकब्रह्ममीमांसासूत्रार्थप्रकाशके श्रीकरभाष्ये विरोधपरिहाराभिधानस्य द्वितीयाध्यायस्य अष्टाधिकरणावच्छिन्नरचनानुपपत्तेश्च नानुमानमित्यादि पञ्चचत्वारिंशत्सूत्रात्मकद्वितीयःपादस्समाप्तः अथ श्रीकरभाष्ये द्वितीयाध्यायस्य तृतीयः पादः वियदधिकरणम् || १ ||
SK
पूर्वपादे श्रुतिविरुद्धानि सांख्य-योग-तार्किकाद्वैतादिमतानि अधिष्ठानब्रह्मणो जगदुभयहेतुत्वानङ्गीकारान्निरस्तानि | श्रुतीनामन्योन्यविरुद्धत्वद्योतनात् जगतो ब्रह्मकारणकत्वमसङ्गतमित्याशङ्काकायां तन्निराकारणार्थं तृतीयपाद आरभ्यते | || ८१ || न वियदश्रुतेः || १ || पूर्वोक्तपादद्वये श्रुत्याभासमतानां युक्तिमात्रप्रधानवादिमतानाञ्च तिरस्कृतत्वेन ब्रह्मणि सर्वेषां वेदान्तानामविरुद्धत्वं प्रदर्शितम् | एतत्पादद्वये श्रुतिपरस्परविरोधपरिहारात् अध्यायसङ्गतिः | इदानीं परस्परविक्षेपादिदोषगन्धाभावख्यापनाय ब्रह्मकार्यत्वेनभिमतचेतनाचेतनप्राञ्चस्य कार्यत्वप्रकारो विशोध्यते | सदेव सौम्येदमग्र आसीत् एकमेवाद्वितीयं ब्रह्म तदैक्षत बहुस्यां प्रजायेय तत्तेजोऽसृजत इति सृष्टिप्रकरणे तेजःप्रभृतीनामेवोत्पत्तिराम्नायते | तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः एतस्माज्जायते प्राणो इत्यादिष्याकाशवाय्वोः जन्यत्वश्रवणादत्र वियदुत्पद्यते वा नवेति संशीय्यते | खं ब्रह्म आकाश आत्मा इत्यादिश्रुतिष्वाकाशस्यैव ब्रह्मत्वव्यवस्थापनात् आकाशोह वै नामरूपयोर्निर्वहिता ते यदन्तरा स आत्मा इत्यादिषु तस्यैव सर्वान्तर्यामित्वस्यात्मत्वोपदेशस्य च निर्देशात् छान्दोग्ये - तेजःप्रभृतीनामेव सृष्ट्युपदेशात् निरवयवत्व- sambhavati | tadutpattividhāyakataittirīyādivākyānāṃ bhramamātratvameveti prāpte pracakṣmahe | na viyadaśruteḥ - viyat - ākāśaṃ niravayavatvāt brahmavadajanyamiti cenna | kutaḥ aśruteḥ | yatra kutrāpi śrutiṣu tasyājanyatvāśravaṇāt ākāśasya ajanyatvaṃ parabrahmatvaṃ ca sarvathā na vidhīyate | khaṃ brahma ākāśa ātmā ityādi śrutīnāṃ annaṃ brahma prāṇo brahma mano brahma vijñānaṃ brahma ānandaṃ brahma omityekākṣaraṃ brahma asāvādityo brahma ityādivadaupacārikatvameva | khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī yatparaṃ brahma sarvātmā viśvasyāyasanaṃ mahat ityādiśrutiṣu ākāśavyatiriktatvasya brahmaṇaśśivasyopadiṣṭatvāt nānyārtho yuktaḥ |
SK
किञ्च - आकाशो ह वै नामरूपयोर्निर्वहिता इत्यादावाकाशशब्दस्य आसमन्तात्काशते प्रकाशत इति व्युत्पत्या ब्रह्मपरत्वम् | स्थानप्रकरण- śrutissatyārthavādinī iti smṛtidarśanāt annaṃ brahma ityādīnāṃ kathamaupacārikatvamiti cet yo rudro'gnau yo apsu ya oṣadhīṣu ityādau śivasya brahmaṇaḥ aṣṭamūrtyātmakatvena sarvāntaryāmitvena ca sarvaśabdavācyatvaṃ vyācakṣate | sa eva viṣṇussa prāṇassa kālo'gnissa candramāḥ sa eva sarvaṃ yadbhūtaṃ yacca bhavyaṃ sanātanam sarvo vai rudraḥ ityādiṣu sarvasya brahmakāryatvena brahmātmakatvaṃ tadananyatvamārambhaṇaśabdādibhyaḥ ityatra spaṣṭamupadiṣṭam | kiñca - pūrvādhyāye ākāśastalliṅgāt ityatra brahmaliṅgavatvādākāśādiśabdānāṃ brahmaparatvamiti pūrvamevoktam | yato vā imāni bhūtāni jāyante yathā sudīptātpāvakāt visphuliṅgāḥ sahasraśaḥ prabhavante tatra caivāpi yanti ityādau jīvānāṃ brahmajanyatvaśravaṇe'pi teṣāṃ niravayavatvena yathotpatteraupacārikatvaṃ nirdiṣṭaṃ tadvat ātmana ākāśaḥ sambhūtaḥ ityatrākāśotpattiraupacārika aivetyāśaṅkāyāmāha - || 47 || asti tu || 2 || tu śabdo niścayārthaḥ | astitvākāśotpattiḥ | tasmādvā etasmādātmana ākāśassambhūtaḥ ityādiśrutau ghaṭādivadākāśtopattiḥ śrūyate | jīvavattadatīndriyatve'pi jaḍatvāttadayuktam na jāyate mriyate vā vipaścit jñājñau dvāvajāvīśānīśau ityādau jīvat śrutyantarapramāṇābhāvāt ākāśājanyatvapratipādakatvādarśanāt niravayavatve'pi manaḥprāṇādivat tajjanyatvamanivāritam | vāyorantarikṣaṃ cettadamṛtaṃ iti srutau pavanākāśayoramṛtatvanirdeśāt ākāśotpattividhāyakaśrutīnāṃ gauṇatvamevetyāśaṃkya nirākaroti - || 48 || gauṇyasambhavācchabdācca || 3 ||
SK
छान्दोग्ये तत्तेजोऽसृजत इत्यत्र तेजःप्रभृतीनामेव सृष्ट्युपदेशात् आत्मन आकाशस्सम्भूतः इत्यत्राकाशोत्पत्तिप्रदर्शकानां श्रुतीनां मुख्यत्वासम्भवात् गौणत्वं कल्पयितुं युक्तमेवेति चेन्न | कुतः असंभवाच्छब्दाच्च | आत्मन आकाशः सम्भूतः इति श्रुतेर्गौणत्वासम्भवात् शब्दाच्च | यदा तमस्तन्न दिवा न रात्रिः - शिव एव केवलः एक एव रुद्रो न द्वितीयाय तस्थे एकमेवाद्वितीयम् सदेव सौम्येदमग्र आसीत् इत्यादिश्रुतिशतदर्शनात् घटादिवदाकाशोत्पत्तिर्मुख्यैवेति सिद्धम् | क्षरं प्रधानं अमृताक्षरं हरः क्षरात्मानावीशते देव एकः इत्यादावमृतशब्दस्य ब्रह्मलिङ्गत्वव्यवस्थापनात् वायोरन्तरिक्षं चेत्तदमृतम् इति श्रुतिनिष्ठामृतशब्दस्यापि ब्रह्मलिङ्गत्वेन ब्रह्मपरत्वं आकाशस्तलिङ्गात् अत एव प्राणः इत्यत्र पूर्वाध्याये ब्रह्मलिङ्गविधायकवाक्यानां ब्रह्मपरत्वमिति बहुधा प्रपञ्चितत्वान्न सन्देहकलङ्कः | नो चेत् सदेव सौम्येदमग्र आसीत् इत्यादिश्रुतिविरोधो दुर्निवारः | खं ब्रह्म इत्यादावाकाशस्य ब्रह्मत्वव्यपदेशात् आत्मन आकाशस्संभूतः इति श्रुतिनिष्ठाकाशोत्पत्तेः कथं मुख्यत्वमित्याशंक्य तत्राह - || ४९ || स्याच्चैकस्य ब्रह्मशब्दवत् || ४ || खं ब्रह्म इत्यादावाकाशस्य ब्रह्मत्वप्रतिपादनेऽपि आत्मन आकाशस्सम्भूतः इत्यत्र आकाशोत्पत्तिर्मुख्यैव | कुतः ब्रह्मशब्दवत् | असावादित्यो ब्रह्म अन्नं ब्रह्म इत्यादौ कार्यभूतप्रभाकरादौ यथा ब्रह्मशब्दस्य गौणत्वं कारणभूते ब्रह्मणि यथा मुख्यत्वं तद्वत् कार्यभूतस्य चैकस्याकाशस्यापि खं ब्रह्मे इत्यादिब्रह्मशब्दवाच्यत्वं गौणमेव निरवयवत्वेनाजन्यत्वाङ्गीकारे परमाण्वादीनामपि नित्यत्वं स्यात् | तस्मादाकाशोत्पत्तिर्न निवार्यते | वियज्जन्यत्वे हेत्वन्तरमाह - || ५० || प्रतिज्ञाहानिर्व्यतिरेकाच्छब्देभ्यः || ५ ||
SK
छान्दोग्ये तेत्तेजोऽसृजत इत्यत्र तेजःप्रभृतीनामेव सृष्ट्युपदेशात् तदितरश्रुत्यापि वियदुत्पत्यङ्गीकारे तद्विरोध इति चेत् - आकाशस्य ब्रह्मकार्यत्वाभावात् व्यतिरेकात् ब्रह्मविलक्षणत्वात् प्रतिज्ञाहानिः | येनाश्रुतं श्रुतं भवति इत्यादिना ब्रह्मज्ञानेन सर्वविज्ञानप्रतिज्ञा विरोधस्सम्भवति | तस्मात् ब्रह्मजन्यत्वमङ्गीकर्तव्यम् | किञ्च - ऐतदात्म्यमिदं सर्वं सर्वो व रुद्रः सर्वं खल्विदं ब्रह्म ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः इत्यादिश्रुतिशतेभ्यः ब्रह्मणः सर्वात्मकत्वोपदेशात् वियतः तद्भिन्नत्वं वक्तुं शक्यम् | नन्वेवं उत्पत्तिमत्वे सिद्धे पूर्वोक्तविरोधपरिहारः कथं सिध्यतीति चेदुच्यते - छान्दोग्ये हि तेजसः उत्पत्तिमात्रं श्रूयते नाद्यत्वमपि | तैत्तिरीयके तु आकाशाद्वायुः वायोरग्निः इति तेजसस्तृतीयत्वं श्रूयते | तथा च तयोर्वाक्ययोः एकवाक्यत्वाभावात् तैत्तिरीयश्रुत्यनुसारेणाकाशं वायुं च सृष्ट्वा तद्ब्रह्म तेजोऽसृजत इति छान्दोग्यश्रुतिः परिणम्यत इति व्यवह्रीयते | अतो नानयोर्वाक्ययोः विरोधः | यदुक्तं तैत्तिरीयकवियदुत्पत्तिश्रुतिगौणी सामग्र्यभावेन वा विभुत्वेन नित्यत्वानुमानाच्चेति - तन्न श्रौतस्य ब्रह्मण एव वियत्सामग्रीत्वादित्यभिप्रेत्य प्रत्यनुमानेनैव दूषयति - || ५१ || यावद्विकारन्तु विभागो लोकवत् || ६ || तुशब्द᳚ष्चाकाशोत्पत्यसम्भवशङ्काव्यावृत्यर्थः | यतो यावद्विकारजातं विभागे दृश्यते तद्वद्विकारे ब्रह्मणि विभागादर्शनात् | लोकवत् यथा लोके एते सर्वे देवदत्तपुत्राः इत्यभिधाय तेषु केषांचिदुत्पत्तिवचनेन सर्वेषामुत्पत्तिरुक्ता स्यात् तद्वत् | एवं च सति वायुश्चान्तरिक्षं चेत्तदमृतं इति सुराणामिव चिरकालस्थायित्वाभिप्रायमेव निर्दिष्टम् | किञ्चाकाशदिक्कालमनःपरमाणवः पराधीनसत्ताकाः स्वसमानसत्ताकविभागवत्वात् घटशरावादिवत् इत्याकाशोत्पत्तिवादिनं प्रति विभुत्वहेतोः परोक्तस्यासिद्धिरपि बोध्या |
SK
ननु छान्दोग्ये वायोरुत्पत्तिर्न श्रूयते तैत्तिरीयके तु श्रूयते - तथा च पूर्ववदनयोर्वाक्ययोर्विरोधपरिहारार्थं वायूत्पत्तिर्गौणीति वाच्म् | मातरिश्वधिकरणम् || २ || किञ्च सैषानस्तमिता देवता यद्वायुः इति वायोर्लीयमानत्वप्रतिषेधाच्च नित्यत्वमित्याशङ्कामतिदेशेन निराकरोति - || ५२ || एतेन मातरिश्वा व्याख्यातः || ७ || एतेन वियदुत्पत्तिव्याख्यानेन वायुरपि वियदवच्छिन्नब्रह्मजन्यत्वेन व्याख्यात इत्यर्थः | वायोर्नित्यत्वेऽपि एकविज्ञानेन प्रतिज्ञाहान्यादेस्समानत्वादित्यर्थः | वायोर्लयप्रतिषेधश्चापेक्षिकः अतिदेशत्वान्न पृथक्सङ्गत्यपेक्षेति मन्तव्यम् | वियन्मातरिश्वनोः पृथग्योगकरणम् तेजोऽतस्तथा ह्याह इति मातरिश्वपरामर्शार्थं छान्दोग्ये वायोऽरुत्पत्तिदर्शनेऽपि सन्देहे वाक्यशेषात् इति न्यायेन गुणोपसंहारन्यायेन च आकाशाद्वायुः इति तैत्तिरीयश्रुत्युपसंहारे सति बृहदारण्यके सैषानस्तमिता देवता यद्वायुः इति स्तुतिपरा तदुपासना प्रकरणात् | अतो वायोर्जन्यत्वमनिवरितमेव | आकाशवायुबद्ब्रह्मणोऽपि केनचित्कारणेनोत्पत्तिरस्ति इत्याशङ्क्य तत्राह - || ५३ || असम्भवस्तु सतोऽनुपपत्तेः || ८ || तुशब्दो ह्यवधारणार्थः | सतः ब्रह्मणः असम्भवः - उत्पत्तेरसम्भवः | कुतः अनुपपत्तेः | ब्रह्मणः कारणान्तरा भावेनोऽत्पत्यसम्भव इत्युपदिश्यते | सदेव सौम्य यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः इत्यादिषु प्राक् सृष्टेरेक एवेत्यवधारणश्रवणात् तद्व्यतिरिक्तस्य कस्यचिदप्यनुवृत्तिर्न सम्भवति |
SK
किञ्च - ध्यायीतेशानं प्रध्यायितव्यम् | सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते | सर्वाणि चेन्द्रियाणि सहभूतैस्सकारणं कारणानां ध्याता कारणन्तु ध्येयः | सर्वैश्वर्यसम्पन्नस्सर्वेश्वरश्शम्भुराकाशमध्ये शिव एको ध्येयश्शिवङ्करस्सर्वमन्यत्परित्यज्य इत्यादावकारणत्वस्य कारणकारणत्वस्य च परब्रह्मणि शिवे व्यपदेशात् व्योमवायुसाम्यवत्वं नोपपद्यते | यद्वा अव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादीनां ब्रह्महेतुत्वं श्रूयते तथा तस्यापि किं कारणान्तरमवगम्यते असद्वा इदमग्र आसीत् ततो वै सदजायत इति श्रुतौ असतस्सदुत्पत्तिरिति चेत्तदसत् | कथं सदुत्पद्यते असतः सत एवोत्पत्तौ आत्माश्रयापत्तेः | परमकारणस्य शिवस्यैव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासम्भवात् तद्विलक्षणस्य कृत्स्नस्य प्रपञ्चस्य तददर्शनाच्च ब्रह्मोत्पत्तिर्नोपपद्यत इति सिद्धम् | तेजोऽधिकरणम् || ३ || एवमाकाशवाव्योर्ब्रह्मजन्यत्वं प्रसाध्य वह्न्यादीनामपि ब्रह्मकारणकत्वं दर्शयति - || ५४ || तेजोऽतस्तथा ह्याह || ९ || छान्दोग्ये तत्तेजोऽसृजत इत्यत्र वह्नेर्ब्रह्मकारणत्वस्योपदिष्टत्वात् वायोरग्निः इति तैत्तिरीयके वह्नेर्वायुजन्यत्वोपदेशात् छान्दोग्य- svasvapūrvakāraṇakatvaṃ brahmahetukatvaṃ veti sandihyate | ākāśādvāyuḥ vāyoragniḥ agnerāpaḥ adbhyaḥpṛthivī ityatra pāramparyeṇa hetutvopadeśāt na brahmajanyatvaṃ vahnyāderupapadyata iti ceducyate - etasmājjāyate prāṇo ityatra prāṇādisarvakāraṇatvasya sarvādhāratvasya sarvavilakṣaṇatvasya ca brahmaṇyeva darśanāt jaḍabhūtasya vāyoḥ brahmakāraṇatvamanupapannam | vāyoragniḥ ityatra pavanāvacchinnabrahmakāraṇatvamevāvagamyate | yo rudro'gnau ityādiṣu sarvāntaryāmitvasya tasminneva nirdeśāt sarvakāraṇatvaṃ tasyaiveti siddham | na tasmāt chāndogya-taittirīyayorvirodhaḥ | na ceyaṃ pañcamī kramārthā | vāyvanantaraṃ tejaḥ iti anantarapadakalpanāprasaṅgāt |
SK
किञ्च - आत्मन आकाशस्सभूतः इत्यादौ पृथिव्या ओषधयः इत्यन्ते च हेतुपञ्चम्याः दर्शनात् मध्ये कस्मात्क्रमार्थे पञ्चमीत्यसङ्गतमेव | न चैवं क्वचित् ब्रह्मजन्यत्वं क्वचिद्वायुजन्यत्वमिति विरोधः | वायोर्ब्रह्मजन्यत्वेन वायुभावापन्नब्रह्मजन्यत्वस्य छान्दोग्यवाक्यार्थत्वेन वायोरग्निः इति वाक्यस्याप्येतदर्थत्वे अविरोधादिति | अवधिकरणम् || ४ || एवमग्नेरपि ब्रह्मजन्यत्वं प्रदर्शयं जलस्यापि ब्रह्मजन्यत्वं अधिकरणान्तरेणाह - || ५५ || आपः || १० || आपः अतस्तथाह्याहेत्यनुवर्तते | तेजोऽनन्तरभावित्वादप्-पृथिव्योः तेजसो वायुजन्यत्वकथनानन्तरं तयोरप् पृथिव्योः बुद्धिस्थत्वात् बुद्धिसन्निधिलक्षणसङ्गतिक्रमेणाधिकरणद्वयमारभ्यते | तद्योऽसृजत इत्यादिवाक्यस्य ब्रह्मजन्यत्वप्रतिपादकस्य अग्नेरापः इति वाक्येन विरोधोऽस्ति न वेति सन्देहे पूर्ववद्विरोधोऽस्तीति पूर्वपक्षे अपामग्निनिवारकवात्तज्जन्यत्वं तत्र नास्त्येवेत्यविरोध इत्येकदेशसिद्धान्तं दूषयति - आप इति | आपस्तेजसो जायन्ते | हि यस्मात् तथा तेजोजन्यत्वं अग्नेराप इति श्रुतिराहेत्यर्थः | त्रिवृत्कृतयोरप्तेजसोर्दाह्यदाहकभावेऽप्यत्रिवृत्कृतयोर्न विरोधः | पूर्ववद्विरोधपरिहारौ बोध्यौ | पृथिव्यधिकाराधिकरणम् || ५ || एवं जलस्य ब्रह्मकारणत्वमभिधाय पृथिव्यास्तज्जन्यत्वं दर्शयति - || ५६ || पृथिव्यधिकाररूपशब्दान्तरेभ्यः || ११ || ता आप ऐक्षन्त बहुस्यां प्रजायेमहि ता अन्नमसृजन्त इति श्रूयते | तत्र संशयः - prasiddhatvādodanādikamevānnaśabdenocyate | tathā ca brīhiyavādestajjanyaudanasya yogena ca rūḍhyā ca annaśabdavācyasya kvacidannajanyatvaṃ kvacit pṛthivya oṣadhayaḥ oṣadhībhyo'nnaṃ ityatra pṛthivyādijanyatvamityanayoḥ śrutyorvirodhaḥ iti prāpte brūmaḥ -
SK
पृथिव्येवात्रान्नशब्देनोच्यते न ब्रीह्यादिः कुतः अधिकाररूपशब्दान्तरेभ्यः तत्तेजोऽसृजत इत्यादिमहाभूतोत्पत्यधिकारात् यत्कृष्णं तदन्नस्य इति कृष्णरूपस्य पृथिव्यनुगुणस्य पृथिवीत्वज्ञापकस्य श्रवणाच्च | समानप्रकरणे अद्भ्यः पृथिवी इति च तद्यदपां शर आसीत् | तत्समहन्यत सा पृथिव्यभवत् इति च पृथिव्या एव जन्यत्वप्रतिपादकशब्दान्तरसत्वाच्चेत्यर्थः तत् तत्र सृष्टिकाले यदपां शरो घनीभाव आसीत् समहन्यत स घनीभावस्सम्भूतात्मना परिणत आसीत् | सैवापां कठिनाकारपरिणामरूपपृथिव्यभवदिति श्रुत्यर्थः | तथा च व्रीह्याद्यन्नस्य नाम्बूपादानकत्वं किन्तु पृथिव्याद्युपादानकत्वमेवेत्यविरोध इति सिद्धम् | एवं तावत्सृष्टिक्रमेण महाभूतश्रुतीनामविरोधः प्रतिपादितः | यः पृथिव्यां तिष्ठन् यस्य पृथिवी शरीरम् इत्यादिना काण्वमाध्यन्दिनादिशाखासु शिवस्य परब्रह्मणः पृथिव्यादिसर्वभूतशरीरत्वोपदेशात् स्वस्य स्वशरीरकारणत्वायोगात् स्वशरीरस्यान्नित्यत्वे जीवतुल्यत्वप्रसङ्गात् तदन्यस्य सर्वकारणत्वासम्भवाच्च पृथिव्यादीनां पूर्वपूर्वस्योतरोत्तरकारणत्वं ब्रह्महेतुकत्वं च न सम्भवतीति चेन्न | यो रुद्रो अग्नौ इत्यादिषु शिवस्य सर्वान्तर्यामित्वप्रदर्शनात् यः पृथिव्यां तिष्ठन् इत्यादिवाक्यानां अन्नं ब्रह्म इत्यादिवत् तस्य सर्वान्तर्यामित्वप्रदर्शनार्थमेव शरीरत्वोपदेशः न तु साक्षाच्छरीरत्वकल्पनम् | कुतः पृथिव्यादीनामपि पटसंकोचविकासन्यायेन प्रलयेऽपि ब्रह्मात्मकत्वेन स्थितत्वान्न चाष्टमूर्तित्वहानिः | तदुक्तं शैवे - महेश्वरान्महाशक्त्याश्चेशानाख्यखगात्मकः | सम्भूतः पुरुषस्तस्मात्पवनाख्यो महाबलः || तस्मादघोरस्सम्भूतः ज्वलनस्सर्वभक्षकः | जलात्मको वामदेवस्तस्माज्जातः कृपानिधिः || तस्माद्भूम्यात्मकस्सद्योजातमूर्तिश्शुभप्रदः | तस्मादोषधयत्सर्वे ततोऽन्नं जायते क्रमात् || तस्मात्प्रजा बहिर्भूताश्चेतनाचेतनात्मकाः | सर्वान्तर्यामिरूपेण सर्वकर्ता सदाशिवः ||
SK
प्रथमं सूक्ष्मरूपेण सद्योजातादिपञ्चकम् | जनयामास देवेशस्तथा स्थूलप्रपञ्चकम् || इति दर्शनाज्जगज्जन्मादिकारणत्वं नेतरस्येति निर्दिष्टम् | तदभिध्यानाधिकरणम् || ६ || आकाशाद्वायुः इत्यादौ जडानां भूतानां परम्पराकारणत्वं मास्तु तदधिष्ठानदेवतानामस्तु इत्याशङ्कायामधिकरणान्तरं दर्शयति - || ५७ || तदभिध्यानादेव तु तल्लिङ्गात्सः || १२ || इदानीं तानि भूतान्याश्रित्याश्रयाश्रयिभावसङ्गत्या अन्यद्विचार्यते - किं महाभूताभिमानिन्यो देवताः स्वातन्त्रा एव भौतिकोत्पादने प्रवर्तन्ते उतेश्वराधिष्ठिता इति विशयः | आकाशाद्वायुः इत्यादिना स्वस्वकार्योत्पत्तौ स्वातन्त्र्यश्रवणात् स्वतन्त्रा एवेति ब्रह्मणस्सर्वसृष्टिकर्तृंत्वप्रतिपादकश्रुत्या भूतसृष्टिश्रुतीनां विरोध इति प्राप्ते ब्रूमः - स परमात्मा तत्तत्कार्यगोचरेक्षणात्मकाभिध्यानादेवेक्षिता तत्तत्कारणाधिष्ठानतया सर्वं कार्यं सृजति कस्मात् तल्लिङ्गान् तस्य परमात्मनः सर्वनियन्तूत्वरूपलिङ्गस्य यः पृथिव्यां तिष्ठन् इत्यादिना श्रुतत्वादित्यर्थः | पृथिव्यां - तदभिमानिदेवतायाम् | अयं भावः - आकाशादिपदानां भूतमात्ररूढत्वात् देवतापरत्वे लक्षणापत्तेः भूताभिमानिदेवतानां स्वातन्त्र्यम् आकाशाद्वायुरित्यादौ श्रुतम् | न च ता आप ऐक्षन्त इति तदवादिपदानां देवतापरत्वे लिङ्गम् तस्येक्षणस्य तदवच्छिन्नब्रह्मनिष्ठत्वादिति न देवतानां स्वातन्त्र्ये किञ्चिन्मानमिति | विपर्ययाधिकरणम् || ७ || एवं पञ्चमहाभूतानां ब्रह्मकारणत्वमभिधाय तेषां ब्रह्मण्येव विलीनत्वं प्रदर्शयति - || ५८ || विपर्ययेण तु क्रमोत उपपद्यते च || १३ || एवं भूतानामुत्पत्तिक्रमविचारणे लयक्रमो बुद्धिस्थः प्रसङ्गसङ्गत्या विचार्यते | एतद्विचारस्य प्रयोजनं जगद्ब्रह्मणोर्भेदाभेदविज्ञानम् | प्रासङ्गिकत्वादेव अस्मिन् पादे जगद्विलयक्रमो निर्दिष्टः | तत्र किं भूतानां श्रुतोत्पत्तिक्रमेणैव लयक्रमः तद्व्यतिरेकेण वेति संशयः |
SK
मुण्डकोपनिषदि - एतस्माज्जायते प्राणः मनस्सर्वेन्द्रियाणि च इति प्राणादीनां वियदादिभ्यः पूर्वमुत्पत्तिः श्रूयते | अथर्वणशिखायान्तु ब्रह्म-विष्णु- bhūtendriyāṇāṃ cāmnānādākāśādeḥ pūrvoktasṛṣṭikramo nopapadyate iti prāpte pracakṣmahe | pūrvoktasṛṣṭikramaḥ upapannaḥ | annamayaṃ hi saumyaṃ manaḥ āpomayaḥ prāṇaḥ tejomayī vāk iti prāṇādīnāṃ bhautaikatvaśravaṇāt bhūteṣvantarbhāvāt na pṛthak kramāpekṣā | brahmādīnāṃ sahotpattirbhūtaistadrūpatvāt tejomayairbhūtaistadrūpatvāt teṣvantarbhāvāt | tataḥ pūrvakrame na virodhaḥ | kiñca - tadaikṣata bahusyāṃ prajāyeya iti darśanāt sarvabhūtotpādakassākṣācchiva eva | cetanajīvotpādanapradarśanena acetanakāraṇatvanarthāt siddham | atharvaśikhāyāṃ brahmaviṣṇurudrendrāste samprasūyante sarvāṇi cendriyāṇi ityādinā brahmādicetanācetanakāraṇatvadarśanāt | skānde - sadāśivaśśabdamūrtiḥ sparśamūrtirmaheśvaraḥ | rudrastejomayassākṣādrasamūrtirjanārdanaḥ || gandhamūrtiścaturvaktra ityete pañcamūrtayaḥ | sadāśivādayo hyete pañcabrahmapade sthitāḥ || teṣāṃ sṛṣṭyādayo noktāstadantaryāmirūpataḥ | jagajjanmādikaṃ sarvaṃ śivasyaiva hi niścitam || tasmāttadicchayā teṣāṃ punaḥ paramakāraṇe | paṭasaṃkocavallīnaṃ paṭavistṛtivattathā || punastadicchayā samyak prādurbhāvaṃ pracakṣate || iti śravaṇāt śiva eva pralaye prapañcaṃ svāntarlīnaṃ karotīti rāddhāntaḥ | antarāvijñānādhikaraṇam || 8 || etasmājjāyate prāṇaḥ iti śrutau brahmaṇaḥ paramaśivāt prāṇendriyādi sṛṣṭerevātra prathamopadeśāt ātmana ākāśassambhūtaḥ iti śrutiniṣṭhabhūtapañcakotpattiprāthamikopadeśakataittirīyakavākyavirodho'stītyā- || ५९ || अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् || १४ ||
SK
अन्तरा - ब्रह्माकाशयोर्मध्ये विज्ञानमनसी-इन्द्रियान्तःकरणे उत्पद्येते क्रमेण तल्लिङ्गात् एतस्मात् जायते प्राणः इति श्रुतौ प्राणादिसृष्ट्यनन्तरं भूतपञ्चकसृष्टिप्रतिपादनादिति चेन्न अविशेषात् तस्याः श्रुतेरुत्पत्तिमात्रप्रतिपादकत्वेन क्रमप्रतिआदकत्वाभावात् | तथा च प्राणेन्द्रियान्तःकरणानां भौतिकत्वात्पञ्चमहाभूतोत्पत्यनन्तरमेवेति सूत्रसूचितसूक्ष्मार्थः | विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यन्ते | यदुक्तं - एतस्माज्जायते प्राणः इत्यादिना सर्वस्य ब्रह्मणोऽनन्तरकार्यत्वं श्राव्यते | अतश्चानेन वाक्येन सर्वस्य साक्षाद्ब्रह्मण उत्पत्तिरभिध्यानलिङ्गवगाता उत्तभ्यत इति तन्नोपपद्यते | क्रमविशेषपरत्वादस्य वाक्यस्यात्रापि सर्वेषां क्रमप्रतीतेः खादिषु तावच्छ्रुत्यन्तरसिद्धः क्रमोऽत्रापि प्रतीयते | तैस्सह पाठलिङ्गाद्भूतप्राणयोरन्तराले विज्ञानमनसी अपि क्रमेणोत्पद्येते इति प्रतीयते | अतस्सर्वस्य साज्ञाद्ब्रह्मण एव सम्भवस्योत्तम्भनमिदं न भवतीति चेत्तन्न - अविशेषात् | एतस्माज्जायते प्राणः इत्यनेनाविशेषात् विज्ञानमनसोः खादीनां च एतस्माज्जायते इत्यनेन साक्षात्सम्भवरूपत्सम्बन्धस्याभिधेयस्य सर्वेषां प्राणादिपृथिव्यन्तानामविशिष्टत्वात्स एव विधेयः न क्रमः | श्रुत्यन्तरसिद्धक्रमविरोधाच्च नेदं क्रमपरम् | पृथिव्यप्सु प्रलीयते इत्यारभ्य तम एकी भवति इत्यन्तेन क्रमान्तरप्रतीतेः | पूर्वोक्तभूतोत्पत्तिलयक्रम इन्द्रोयोत्पत्तिक्रमेण न विरुध्यते | तस्यान्न केनापि वाक्येन भूतसृष्टिवाक्यानां विरोध इति सिद्धम् | चराचरव्यपाश्रयाधिकरणम् || ९ || आकाशाद्वायुः इत्यादौ आकाशादीनामेव पारंपर्यकारणत्वमवगम्यते | तदाश्रयत्वेन तस्य तच्छब्दाभावादित्याशङ्कायामाह - || ५९ || चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् || १५ ||
SK
तु शब्दः शङ्कानिरासार्थः | निखिलजङ्गमस्थावरव्यपाश्रयस्तत्तच्छब्दव्यपदेशः भाक्तः वाच्यैकदेशे भज्यत इत्यर्थः | समस्तवस्तुप्रकारिणो ब्रह्मणः प्रकारभूतवस्तुग्राहिप्रत्यक्षादिप्रमाणाविषयत्वाद्वेदान्तश्रवणात् प्राक् प्रकार्यप्रतीतेः प्रकारिप्रतीतिभावभावित्वाच्च तत्पयवसानस्य लोके तत्तद्वस्तुमात्रे वाच्यैकदेशे ते ते शब्दाः भाङ्क्ताभाङ्क्ताः व्यपदिश्यन्ते | अथवा तेजःप्रभृतिभिः शब्दैस्तत्तद्वस्तुमात्रवाचितया व्युत्पन्नैर्ब्रह्मणो व्यपदेशो भाक्तः स्यात् - अमुख्यः - स्यादित्याशङ्क्य चराचरव्यपाश्रयस्तु इत्युच्यते | चराचरव्यपाश्रयः तद्व्यपदेशस्तद्वाचिशब्दः चराचरवाचिशब्दः ब्रह्मण्यभाक्तो मुख्य एव कुतः ब्रह्मभावभावित्वात् सर्वशब्दानां वाचकभावस्य नामरूपव्याकरणश्रुत्या हि तद्भावभवित्वात् | तद्यथा - सेऽयं देवतैक्षत हन्ताहमिमास्तिस्रो देवताः | अनेन जीवेनात्मना अनुप्रविश्य नामरूपे व्याकरणवाणि || इति सर्ववस्तुनो नामरूपविभागाय तदात्मकतया ब्रह्मणोऽनुप्रवेशभावभावित्वात् आदित्यो वा यूयः यजमानः प्रस्तरः इत्यादिषु यूपादीनां आदित्यादिशब्दवाच्यत्वमनुपपत्या न मुख्यम् | मञ्चाः क्रोशन्ति इत्यत्र मञ्चादिषु पुरुषाणामवस्थानमात्रत्वात्तेषामपि तच्छब्दवाच्यत्वममुख्यम् | इहात्मतया प्रपञ्चानुप्रवेशात् ब्रह्मणस्तच्छब्दवाच्यत्वं मुख्यमेव यथात्मनो ब्राह्मणादिशरीराविष्टस्य ब्राह्मणादिशब्दवाच्यत्वं मुख्यम् | अन्यथा उपनयनादिसंस्कारादेश्शरीरमात्रपर्यवसानादात्मनस्संस्कारत्वाभाव- ātmasaṃskāravataḥ phalaśrutiḥ parārthāṃ bhavet brāhmaṇo yajeta ityādividhivaiyyarthyamāpadyeta | tasmāt sthāvarajaṅgamātmakaprapañcāvacchinnaparamaśivasya brahmaṇastacchabdavācyatvaṃ mukhyamiti ghaṇṭāghoṣaḥ | ātmādhikaraṇam || 10 || yato vā imāni bhūtāni jāyante ityādiśrutiṣu jīvotpattinirdeśādākāśādivattasmin tadutpattirastvityāśaṅkāṃ nirākaroti - || 61 || nātmā śruternityatvācca tābhyaḥ || 16 ||
SK
आत्मा शारीरो नोत्पद्यते | कुतह् अश्रुतेः सृष्टिश्रुतिषु जीवानामुत्पत्तेरश्रवणात् | ज्ञाऽज्ञौ इत्यादिभ्यस्ताभ्यः श्रुतिभ्यः नित्यत्वव्यपदेशात् इति सूक्ष्मार्थः | वियदादेः कृत्स्नस्य परस्मात् ब्रह्मण उत्पत्तिरुक्ता | इदानीं जीवस्याप्युत्पत्तिरस्ति नवेति संशीय्यते | किं युक्तं अस्तीति कुतः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तेः प्राक् सृष्टेरेकत्वावधारणाच्च | वियदादेरिव जीवस्याप्युत्पत्तिवादिन्यः श्रुतयश्च सन्ति | यतः प्रसूता जगतः प्रसूती तोयेन जीवान् विससर्ज भूम्याम् प्रजापतिः प्रजा असृजत सन्मूला सौम्येमाः सर्वाः प्रजाः सदायतनास्सत्प्रतिष्ठाः इति | एवं सचेतनस्य जगतः उत्पत्तिवचनाज्जीवस्याप्युत्पत्तिः प्रतीयते | न च वाच्यं-ब्रह्मणो नित्यत्वात् तत्त्वमस्यादिभिश्च जीवस्य ब्रह्मत्वावगमाज्जीवस्य नित्यत्वमिति | ऐतदात्म्यभिदं सर्वं सर्वं खल्विदं ब्रह्म इत्येवमादिभिर्वियदादेरपि ब्रह्मत्वावगमात् तस्यापि नित्यत्वप्रसक्तेः | अतो जीवोऽपि वियदादिवदुत्पद्यत इत्येवं प्राप्तेऽभिधीयते | नात्मा श्रुतेरिति | नात्मोत्पद्यते कुतः अश्रुतेः | न जायते म्रियते वा विपश्चित् ज्ञाऽज्ञौ इत्यादिभिर्जीवस्योत्पत्तिप्रतिषेधो हि श्रूयते | आत्मनो नित्यत्वं च ताभ्यः श्रुतिभ्य एवावगम्यते | नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे इत्यादिभ्यः | अतश्च नात्मोत्पद्यते | कथं तर्हि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपद्यते इत्थमुपपद्यते - जीवस्यापि कार्यत्वात् कार्यकारणयोरनन्यत्वाच्च | एवं तर्हि विमदादिवदुत्पत्तिमत्त्वमङ्गीकृतं स्यात् | नेत्युच्यते | कार्यत्वं हि नामैकस्य द्रव्यस्यावस्थान्तरापत्तिः | तज्जीवस्याप्यस्त्येव | इयांस्तु विशेषः | वियदादेरचेतनस्य यादृश्ऽन्यथाभावो न तादृशो जीवस्य | ज्ञानसङ्कोचविकासलक्षणो जीवस्यान्यथाभावः | वियदादेस्तु स्वरूपान्यथाभावलक्षणः | सेऽयं स्वरूपान्यथाभावलक्षणा उत्पत्तिर्जीवे प्रतिषिध्यते |
SK
एतदुक्तं भवति - भोग्यभोक्तृनियन्तन् विविक्तस्वभावान् प्रतिपाद्य भोग्यगतमुत्पत्यादिकं भोक्तरि प्रतिषिध्य तस्य नित्यतां च प्रतिपाद्य बोग्यगतमुत्पत्यादिकं भोक्तृगतं चापुरुषार्थाश्रयत्वं नियन्तरि प्रतिषिध्य तस्य नित्यत्वं निरवद्यत्वं सर्वदा सर्वज्ञत्वं सत्यसङ्कल्पत्वं करणाधिपाधिपतित्वं विश्वपतित्वं च प्रतिपाद्य सर्वावस्थयोश्चिदचितोस्तं प्रति नियम्यत्वं तस्य नियामकत्वं च प्रतिपादितम् | अतः सर्वदा चिदचिद्वस्तुप्रकाशकतया सर्वपरिपूर्णं ब्रह्म | तत्कदाचिदपि तद्धर्म प्राप्तुं नार्हति | सूक्ष्मदशायामपि स्वान्तर्लीनचिदचिद्वस्तुप्रकाशकत्वेन तिष्ठति | तस्मात् द्वैतस्य नित्यत्वम् | मोक्षदशायां भ्रमरकीटन्यायेन स्वाभाविकजीवत्वनिवृत्तिपूर्वकशिवत्वप्राप्तिः ब्रह्म वेद ब्रह्मैव भवति इत्यादिषु स्पष्टमुपदिष्टा | अतो बद्धदशायां जीवब्रह्मणोर्भेदस्य मुक्तदशायां अभेदस्य चाङ्गीकारात् सर्वश्रुतिसमन्वयो भवति | तद्यथा - शिवस्स्वाभाविकस्वशक्तिविकासतय यथोर्णनाभिः सृजते गृह्यते च इत्यादिवज्जगदुभयकारणत्वेन व्यपदेशात् द्वैताद्वैतमेव सम्भवति | कार्यत्वेन भेदः उपादानत्वेन अभेदश्च सिध्यति | कार्यावस्था कारणावस्थयोरपि जगदीश्वरयोर्भेदाभेदं च प्रचक्षते | कार्यावस्थायान्तु स्वशक्तिपरिणामित्वे अभिन्नत्वं स्वनियामकत्वेन स्वभिन्नत्वम् | कारणावस्थायामपि स्वान्तर्लीनत्वेनाभिन्नत्वं स्वकर्मनुस्यूतत्वेन ग्रीष्मकाले भूतृणादिवत् सूक्ष्मरूपेण स्थितत्वात् स्वभिन्नत्वं सर्ववेदान्तसिद्धम् | सदेव सौम्य इत्यत्र चिदचिदात्मकप्रपञ्चस्य प्रलये ब्रह्मात्मकत्वेन स्थितत्वं तदनन्तरसृष्टिविधायकत्वेन तद्भिन्नत्वं च निर्दिश्यते | असद्वा इदमग्र आसीत्ततो वै सदजायत इत्यत्रासत्पदेन प्रलये चिदचिदात्मकप्रपञ्चस्य सूक्ष्मरूपेण स्थितत्वम् | ततो वै सदजायत इत्यनेन सूक्ष्मरूपप्रपञ्चानुस्यूततया ब्रह्मणः स्थूलप्रपञ्चकारणत्वं च व्यपदिश्यते |
SK
तत्र कारणावस्थस्य कार्यावस्थापत्तौ अचिंदशस्य कारणावस्थायां शब्दादिविहीनस्य भोगाय शब्दादिमत्तया स्वरूपान्यथाभावरूपविकारो भवति | चिदंशस्य च कर्मफलविशेषभोक्तृत्वाय तदनुरूपज्ञानविकासरूपो विकारो भवति | उभयप्रकारविशिष्टे नियन्तरि तदवस्थतदुभयविशिष्टतारूपविकारो भवति | कारणावस्थाया अवस्थान्तरापत्तिरूपो विकारः प्रकारद्वये प्रकारिणि च समानः | अत एवैकस्यावस्थान्तरापत्तिरूपविकारापेक्षया येनाश्रुतं श्रुतं इति एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृदादिदृष्टान्तः यथा सौम्य इत्यादिना निर्दिष्टः | ईदृशज्ञानसङ्कोचविकासकरतत्तद्देहसम्बन्धवियोगाभिप्रायाः जीवस्योत्पत्तिमरणवादिन्य प्रजापतिः प्रजा असृजत इत्याद्याः श्रुतयः | अचिदंशवत्स्वरूपान्यथात्वाभावाभिप्राया- nityānāṃ cetanaścetanānāṃ ityādyāśca śrutayaḥ svarūpānyathātvajñānasaṃkocavikāsarūpobhayavidhāniṣṭavikārābhiprāyāḥ | sa vā eṣa mahānaja ātmā'jaro'maro'mṛto brahma ityādyā paraviṣayāḥ śrutayaḥ | evaṃ sarvadā cidacidvastupūrṇasya paraśivabrahmaṇaḥ prāksṛṣṭeḥ rekatvāvadhāraṇaṃ ca nāmarūpavibhāgābhāvādupapadyate | taditthaṃ tarhyavyākṛtamāsīttannāmarūpābhyāṃ vyākriyata iti hi nāmarūpa vibhāgabhāvābhāvābhyāṃ nānātvaikatve vadantīti | ya tu avidyopādhikaṃ jīvatvaṃ vadanti ye ca pāramārthikopādhikṛtaṃ ye ca sanmātrasvarūpaṃ brahma svayameva bhoktṛbhogyaniyantṛrūpeṇa tridhāvasthitaṃ vadanti | sarvepyete'vidyāśakterupādhiśakterbhoktṛbhogyaniyantṛśaktīnāṃ ca pralayakāle'vasthāne'pi tadānīmekatvāvadhāraṇaṃ nāmarūpavibhāgābhāvādevopapādayanti | vaiṣamyanaighṛṇye na sāpekṣatvāt na karmāvibhāgāt iti sūtrābhyāṃ jīvabhedasya tattatkarmapravāhasya cānāditvābhyupagamācca | iyān viśeṣaḥ - ekasyānādyavidyayā brahma svayameva muhyati anyasya pāramārthikānādyupādhinā brahma svayameva badhyate | upādhibrahmavyatiriktavastvantarābhāvādaparasya brahmaiva vicitrākāreṇa pariṇamate |
SK
कर्मफलानि चानिष्टानि भुंक्ते नियन्त्रंशस्य भोक्तृत्वाभावेऽपि सर्वज्ञत्वात् स्वात्माभिन्न भोक्तारमनुसन्दधातीति स्वयमेव भुङ्क्ते | अस्माकन्तु स्वशक्तिसङ्कोचविकासात्मकतया नम कार्यकारणोभयावस्थास्थितमपि सर्वदा निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पाद्यपरिमितोदारगुणसागरभवतिष्ठते प्रकारभूतचिदचिद्वस्तुगता अपुरुषार्थाः स्वरूपान्यथाभावाच्चेति सर्वंसमञ्जसमिति राद्धान्तः | ज्ञाधिकरणम् || ११ || आकाशादीनां जन्यत्वे जीवानामजन्यत्वे च को हेतुरित्याशङ्कायामाह - || ६२ || ज्ञोऽत एव || १७ || ज्ञा एव जीवः ज्ञातृस्वरूपः नाचेतनस्वरूपः | तस्मात् जन्यत्वं न सम्भवति | जडानामेव जन्यत्वं कुम्भादीनां च सम्म्सतं इति स्मृतिदर्शनाज्जडत्वात् आकाशादीनामेवोत्पत्तिः अजडत्वाज्जीवोत्पत्तिरनङ्गीकरणीयेति सूक्ष्मार्थः | वियदादिवज्जीवो नोत्पद्यत इत्युक्तम् | तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते | किं सुगत- pāṣāṇakalpasvarūpamacitsvabhāvamevāgantukacaitanyaguṇakam | atha jñātṛtvamevāsya svarūpamiti | kiṃ yuktam cinmātramiti kutaḥ tathā śrutaḥ antaryāmibrāhmaṇe hi ya ātmani tiṣṭhan iti mādhyandinīyaparyāyasya sthāne yo vijñāne tiṣṭhan iti kāṇvā adhīyate | tathā vijñānaṃ yajñaṃ tanute karmāṇi tanute'pi ca iti karturātmano jñānasvarūpatvaṃ pratīyate | aparastu - jīvātmano jñānatve jñātṛtve ca svābhāvike'bhyupagamyamāne tasya sarvagatasya sarvadā sarvatropalabdhiprasaṅgāt karmaṇāṃ ca vaiyarthyāt suṣuptimūrchādiṣu sato'pyātmanaścaitanyānupalabdheḥ jāgratassāmagryāṃ satyāṃ jñāno'tpattidarśanādasya na jñānaṃ svarūpam nāpi jñātṛtvam āgantukameva caitanyaṃ sarvagatvaṃ cātmano'vaśyābhyupeyam sarvatra kāryopalabdheḥ sarvatrātmanassannidhānābhyugamāt śarīragamanenaiva kāryasambhave sati gatikalpanāyāṃ pramāṇābhāvācca | śrutirapi suṣuptivelāyāṃ jñānābhāvaṃ darśayati - nāhaṃ khalvaṣamevaṃ sampratyātmānaṃ jānātyayamahamasmi no evemāni bhūtāni iti | tathā mokṣadaśāyāṃ
SK
ज्ञानाभावं दर्शयति - न प्रेत्य संज्ञाऽस्ति इति | ज्ञानस्वरूपमित्यादिप्रयोगस्तु ज्ञानस्य तदसाधारणगुणत्वेन लाक्षणिकमित्येवं प्राप्ते प्रचक्ष्महे - ज्ञोऽत एव अयमात्मा ज्ञातृत्वस्वरूपं एव न ज्ञानमात्रम् नापि जडस्वरूपः कुतः अत एव श्रुतेरेवेत्यर्थः | नात्मा श्रुतेः इति प्रकृता श्रुतिः अतः शब्देन परामृश्यते | तथा छान्दोग्ये प्रजापतिवाक्ये मुक्तामुक्तात्मस्वरूपकथने अथ यो वेदेदं जिघ्राणीति स आत्मा मनसैवैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके सत्यकामत्सत्यसङ्कल्पः नोपजनं स्मरन्निदं शरीरम् अन्यत्रापि - न पश्यो मृत्युं पश्यति इति | तथा वाजसनेयके कतम आत्मा इति पृष्ट्वा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः इति | तथा विज्ञातारमरे केन विजानीयात् जानात्येवायं पुरुषः तथा एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः इति | उत्क्रान्तिगत्यधिकरणम् || १२ || यत्तूक्तं ज्ञातृत्वे स्वाभावाविके सति सर्वगतस्य तस्य सर्वदा सर्वत्रोपलब्धिः प्रसज्यत इति तत्रोच्यते - || ६३ || उत्क्रान्तिर्गत्या गतीनाम् || १८ || कर्मचितो लोकः क्षीयते | पुण्यचितो लोकः क्षीयते ज्योतिष्टोमेन स्वर्गकामो यजेत क्षीणे पुण्ये मर्त्यलोकं विशन्ति इत्यादिश्रुतिषु जीवानां उत्क्रान्तिः देहान्निर्गमनं गतिः स्वर्गनरकलोकगमनं आगतिः पुण्यपापफलभोगानन्तरं भूलोकं प्रत्यागमनम् | एतासां श्रवणात् जीवोऽणुरेव | विभुत्वे गमनासम्भवात् इति सूत्रसूचितसूक्ष्मार्थः | द्वैतक्षपणकतार्किकादिभिः जीवानां विभुत्वाङ्गीकारात्तन्निरासार्थमेतदधिकरणप्रारम्भः | एषोऽणुरात्मा चेतसा वेदितव्यः इति स वा एष महानज आत्मा इति च पूर्वोक्तज्ञातृत्वेन व्यपदिश्यमानस्य जीवस्य अणुत्वविभुत्वव्यवस्थापनात् सन्देहः | एषः महानज आत्मा इत्यादिषु क्षेत्रज्ञस्य विभुत्वनिर्देशात् अन्यत्र विश्वं भुवनमभ्यभवान् इति क्षेत्रज्ञस्य सकललोकव्यापकत्वव्यपदेशाच्च तस्य नाणुत्वं सम्भवतीति प्राप्ते प्रचक्ष्महे -
SK
नायं सर्वगतः अपित्वणुरेवायमात्मा कुतः उत्क्रान्तिगत्या गतीनां श्रुतेः | उत्क्रान्तिस्तावत् श्रूयते | तेन प्रद्योतेनैव आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः इति | गतिरपि येवैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति इति आगतिरपि - यस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे इति जीवस्य परलोकगमनप्रदर्शनात् विभुत्वे शरीरवियोगासम्भवाच्च यषोऽणुरात्मा इति श्रुतिनिर्दिष्टागुणत्वमेव जीवस्याङ्गीकरणीयम् | स एवा एष महानजः इत्यादिविभुत्ववाचकश्रुतीनां परमात्मपरत्वमिति वेदितव्यम् | अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् इत्यादि श्रुतिशतदर्शनात् | उत - नीलतोपदमध्यस्था विद्युल्लेखेव भास्वरा | नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा | तस्याश्शिखाया मध्ये (तु) परमात्मा व्यवस्थितः || इत्यत्र पशु-पति-पाशात्मकतत्त्वत्रयस्वरूपं स्पष्टमुपदिष्टम् | नीलतोयदपदव्यपदेशेन गुणत्रयात्मकपाशरूपा प्रकृतिरुपदिश्यते | विद्युल्लेखेव भास्वरा अणूपमा इत्यन्तं पशुशब्दवाच्यस्य जीवस्य नीवारशूकोपमानाणुत्वं तस्त्वरूपमुपदिष्टम् | तस्याः शिखाया-व्यवस्थितः इत्यनेन जीवविलक्षणपत्यात्मकं शिवतत्त्वमुपदिष्टम् | स ब्रह्मा स शिवस्स हरिस्सेन्द्रस्सोऽक्षरः परमः स्वराट् इत्यनेन जीवविलक्षणस्य शिवस्य सर्वशब्दवाच्यत्वं मूर्तित्रयातीतत्वं च निरूपितम् | तथा माण्डूक्येऽपि प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इति | ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्म स एव विष्णुस्स प्राणस्स कालोऽग्निस्स चन्द्रमाः स एव सर्वं पद्भूतं यच्च भव्यं सनातनम् ध्यात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये सर्वो वै रुद्रः इत्यादिषु शिवस्य परब्रह्मणः मूर्तित्रयविलक्षणत्व-सर्वशब्दवाच्यत्वयोः तन्निष्ठस्य मोक्षोपदेशस्य च निर्देशात् नेतरस्य विभुत्वादिकं सम्भवति | जीवविभुत्वनिराकरणे हेत्वन्तरमाह -
SK
|| ६४ || स्वात्मना चोत्तरयोः || १९ || च शब्दोऽवधारणे | यद्यपि शरीरवियोगरूपत्वेन उत्क्रान्तिः स्थिरस्याप्यात्ममन्ः कथञ्चिदुपपद्यते | गत्यागती तु न कथञ्चिदुपपद्यते तस्मात्तस्याणुत्वमेवोपपन्नम् | अत्र पुनर्हेतुमाह - ६५ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारा || २० || योऽयं विज्ञानमयः प्राणेषु इति जीवं प्रस्तुत्य स वा एष महानजं आत्मा इति महत्त्वश्रुतेर्नाणुर्जीव इति चेन्न इतराधिकाराज्जीवादितरस्य प्राअज्ञस्य तत्राधिकारात् | यद्यप्युपक्रमे जीवः प्रस्तुतः तथापि यस्यानुवित्तः प्रतिबुद्धस्स-आत्मा इति मध्ये परः प्रतिपाद्यत इति सत्सम्बन्धीदं महत्वं न जीवस्य | पुनर्हेत्वन्तरमाह - ६६ स्वशब्दोन्मानाभ्यां च २१ साक्षादणुशब्द एव श्रूयते | एषोऽणुरात्मा यस्मिन् प्राणह् पञ्चधा संविवेश इति | उद्धृत्य मानमुन्मानम् | अणुसदृशं वस्तूद्धृत्य तन्मानत्वं जीवस्य श्रूयते | वालाग्रशतभागस्य शतधा कल्पितस्य च | इति वालाग्रमात्रव्यवहारोऽपि दृष्ट इति च | अतो अणुरेऽवायमात्मा | अथ स्यादात्मनोऽणुत्वे सकलशरीरव्यापिनी वेदना नोपपद्यतं इत्याशङ्कायामाह - ६७ अविरोधश्चन्दनवत् २२ यथा चन्दनस्यैकदेशस्थितस्य सकलशरीरशैत्यजनकत्वं एवं क्षेत्रज्ञस्यैकस्मिन् प्रदेशे स्थितस्यापि सर्वाङ्गसुखदुःखभोक्तृत्वमुपपन्नं चन्दनस्यैकस्मिन् प्रदेशोऽवस्थानं च प्रत्यक्षदृष्टं तद्वज्जीवस्य कस्मिन्नंशेऽवस्थानमित्याशंकायां स्थानविशेषमाह - || ६८ || अवस्थितिवैशेष्यादिति चेन्नाऽभ्युपगमाद्धृदि हि || २३ || हरिचन्दनबिन्द्वादेर्देहदेशविशेषावस्थितिविशेषात्तथाभावः आत्मनस्तु तन्न इति चेन्न | आत्मनोऽपि हि देहदेशविशेषे स्थित्यभ्युपगमात् हृदयदेशे ह्यात्मनः स्थितिः श्रूयते | हृदि ह्यमात्मा तत्रैकशतं नाडीनां इति | तथा कतम आत्मा इति प्रकृत्या योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः इति | आत्मनो देशविशेषस्थितिख्यापनाय च चन्दनदृष्टान्तः प्रदर्शितः न तु चन्दनस्य देशविशेषापेक्षा |
SK
एकदेशवर्तिनस्सकलदेहव्यापिकार्यकरत्वप्रकारं पुनर्हेत्वन्तरेणाह - || ६९ || गुणाद्वा लोकवत् || २४ || वा शब्दो मतान्तरव्यावृत्यर्थः | आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः | अतः आलोकवत् यथा मणिद्युमणिप्रभृतीनां एकदेशवर्तिनामालोकोऽनेकदेसव्यापी दृश्यते तद्वत् हृदयस्यात्मनो ज्ञानं सकलदेहं व्याप्य प्रवर्तते | ज्ञातुः प्रभास्थानीयस्य ज्ञानस्य स्वाश्रयादन्यत्र वृत्तिर्मणिप्रभावदुपपद्यत इति निश्चीयते | ननूक्तं ज्ञानमात्रमेवात्मेति तत्कथं ज्ञानस्य स्वरूपव्यतिरिक्तगुणत्वमुच्यत इत्याशङ्क्य तत्राह - || ७० || व्यतिरेको गन्धवत् तथा च दर्शयति || २५ || यथा पृथिव्याः गन्धस्य गुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः तथा जानामीति ज्ञातृगुणत्वेन प्रतीयमानस्य ज्ञानस्यात्मनो व्यतिरेकसिद्धिं दर्शयति च श्रुतिः | आलोमभ्य आनखाग्रेभ्यः जानात्येवायं पुरुषः इति जीवस्य हृद्यायतनत्वं अणुपरिमाणत्वं च व्यपदिश्य देहव्यापित्वमपि व्यवह्रियते | तत्त्वमसि इत्यादौ जीवब्रह्मणोरेकत्वोपदेशात् ब्रह्मवज्जीवस्यापि विभुत्वं किं न स्यादित्याशङ्क्याह - || ७१ || पृथगुपदेशात् || २६ || ईश्वरस्सर्वभूतानां विश्वाधिको रुद्रो महर्षिः प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः द्वासुपर्णा इत्यादिषु जीवब्रह्मणोर्नियम्यनियामकत्वं जगज्जीवविलक्षणत्वं जीवबन्धमोक्षहेतुत्वं संसारभोक्तृत्वाभोक्तृत्वमित्यादिना पृथगुपदेशात् जीवव्यतिरिक्तस्यैव विभुत्वं सिद्धम् | ननु यो विज्ञाने तिष्ठन् इत्यादौ ज्ञानमेवात्मेति व्यपदिश्यत इत्याशङ्क्याह - || ७२ || तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् || २७ ||
SK
तु शब्दश्चोद्यं व्यावर्तयति | तद्गुणसारत्वात् विज्ञानगुणसारत्वात् आत्मनो विज्ञानमिति व्यपदेशः | विज्ञानमेवास्य सारभूतो गुणः | यथा प्राज्ञस्यानन्दः सारभूतो गुणः इति प्राज्ञ आनन्दशब्देन व्यवह्रियते | यदेष आकाश आनन्दो न स्यात् आनन्दो ब्रह्मेति व्यजानात् इति | प्राज्ञस्य ह्यानन्दसारभूतो गुणः | स एको ब्रह्मण आनन्दः आनन्दं ब्रह्मणो विद्वन्न बिभेति कुतश्चन इति | यथ वा सत्यं ज्ञानमनन्तं ब्रह्म इति विपश्चितः प्राज्ञस्य ज्ञानशब्देन व्यपदेशः | सह ब्रह्मणा विपश्चिता यस्सर्वज्ञः इत्यादिषु प्राज्ञस्य ज्ञान संस्कारभूतो गुणः इति विज्ञायते | पुनरुपपत्तिमाह - || ७३ || यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् || २८ || योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषस्समानस्सन्नुभौ लोकावनुसञ्चरति इति श्रुतिदर्शनात् विज्ञानमयस्य जीवस्य यावदात्मभावित्वात्तेन तद्व्यपदेशो न दोषः | तद्दर्शनात् यथा नद्यः स्पन्दमानास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय तथा दिव्यम् | गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु | कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकी भवन्ति ||
SK
एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्यादिश्रुतिशतेषु स्वाभाविकजीवत्वनिवृत्तिपूर्वकशिवत्वप्राप्तिरूपविदेहमुक्तिपर्यन्तं शिवयोगशिवध्यान-शिवज्ञाननिष्ठस्य जीवन्मुक्तस्य शिवध्यानसमाधिकालेष्वपि प्रचण्डातपमध्यनिक्षिप्तकर्पूरदीपवत् शुद्धजीवत्वस्य विद्यमानत्वादणुत्वव्यपदेशो न विरुद्धः | प्रारब्धावसानपर्यन्तं सुप्तपुरुषवत् ज्ञाननिष्ठानां समाध्यनन्तरं पुनरुत्थानदर्शनादिति भावः | जीवस्य विभुत्वाङ्गीकारे अणुत्वविभुत्वयोरेकत्वासम्भवान्नदीसमुद्रवज्जीवब्रह्मणोः प्राप्यप्रापकत्वविधायकश्रुतीनां विरोधो दुर्निवारः | किञ्चेश्वरस्यान्तर्यामित्वादिकमपि न सम्भवेत् | जीवस्याणुत्वमन्तः करणोपाधिमात्रमिति चेत्तदसङ्गतम् | ज्ञाऽज्ञौ द्वावजावीशानीशौ इत्यादिषु भूतसृष्टेः प्रागप्यजातत्वेन जीवस्थित्युपदेशात् | तस्माज्जीवस्याणुत्वं स्वाभाविकमिति निश्चीयते | यच्चोक्तं सुषुप्त्यादिषु ज्ञानाभावात् ज्ञानस्य न स्वरूपानुबन्धिधर्मत्वमिति तत्राह - || ७४ || पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगात् || २९ ||
SK
तु शब्दश्चात्र शङ्कानिरासार्थः | स्वज्ञानस्य सुषुप्त्यादिष्वपि विद्यमानस्य जागर्यादिष्वभिव्यक्तेस्सम्भवात् स्वरूपानुबन्धिधर्मत्वोपपत्तिः पुंस्त्वादिवत् यथा पुंस्त्वाद्यसाधारणस्य धातोर्बाल्यावस्थायां सतोप्यनभिव्यक्तस्य युवत्वेऽभिव्यक्तौ पुंसस्तद्वत्वं न कादाचित्कं भवति | सप्तधातुमयत्वं हि शरीरस्य स्वरूपानुबन्धि | तत् सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारामयं शरीरम् इति शरीरस्वरूपव्यपदेशात् | सुषुप्त्यादिष्वप्यहमर्थः प्रकाशत इति प्रागेवोक्तम् | तस्य विद्यमानस्य ज्ञानस्य विषयगोचरत्वं जागर्यादानुपलभ्यते | एते चात्मनो ज्ञातृत्वादयो धर्माः प्रागेवोपपादिताः | अतः प्राज्ञात्पूर्वमेव जीवात्मनः स्वरूपम् | स चायमात्माणुपरिमाणः | न प्रेत्यसंज्ञास्ति इत्यपि न मुक्तस्य ज्ञानाभाव उच्यते | अपि तु एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानु विनश्यति इति संसारदशायां यद्भूतानुविधायित्वप्रयुक्तं जन्मनाशादिदर्शनं तन्मुक्तस्य न विद्यत इति यथा नद्यः स्पन्दमानाः इत्यादि जले जलवन्मुक्तदशायां शुद्धजीवस्य तत्प्राप्तित्वदर्शनात् | न पश्यो मृत्युं पश्यति न रोगं नो तद्दुःखताम् | सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः | नोपजन स्मरन्निदं शरीरम् मनसैतान् कामान् पश्यन् रमते इत्यादि श्रुत्यैकार्थ्याच्च तस्माज्जीवस्याणुत्वं ज्ञातृस्वरूपत्वं चाविरोधम् | सम्प्रति ज्ञानात्मवादे तस्य सर्वगतत्वे दूष्णमाह - || ७५ || नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा || ३० || अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च नित्यमुपलब्ध्यनुपलब्धी सहैव प्रसज्येयाताम् अन्यतरनियमो वा | उपलब्धिरेव नित्यं स्यात् अनुपलब्धिरेव वा
SK
एतदुक्तं भवति - लोके तावद्वर्तमानयोरात्मोपलब्ध्यनुपलब्ध्योरयं ज्ञानात्मा सर्वगतो हेतुः स्यात् | उपलब्धेरेव वा अनुपलब्धेरेव वा उभयहेतुत्वे सर्वदा सर्वत्रोभयं प्रसज्येत | यद्युपलब्धेरेव सर्वस्य सर्वदा सर्वत्रानुपलम्भो न स्यात् | अथानुपलब्धेरेव सर्वदा सर्वत्रोपलब्धिर्न स्यात् | अस्माकं शरीरस्यान्तरेवावस्थितत्वादात्मनस्तत्रैवोपलब्धिः नान्यत्रेति व्यवस्थासिद्धिः | कारणायत्तोपलब्धेरपि सर्वेषामात्मनां सर्वगतत्वेन सर्वैः करणैस्सर्वदा संयुक्तत्वाददृष्टादेरपि अनियमादुक्तदोषस्समानः | तस्मात् पूर्वोक्तमेव युक्तम् | कर्त्रधिकरणम् || १३ || अयमात्मा ब्रह्म इत्यादिश्रुतिषु क्षेत्रज्ञस्यैव ब्रह्मत्वोपदेशात्तस्य कर्तृत्वादिकमनुपपन्नं तदुपाधिभूतान्तःकरणस्यैव कर्तृत्वादिकमुपपन्नं इत्याशङ्कायां तज्जीवब्रह्मवादकाद्वैतमतनिराकरणार्थमाह - || ७६ || कर्ता शास्त्रार्थवत्वात् || ३१ || अयमात्मा ज्ञाता स चाणुपरिमाण इत्युक्तम् | इदानीं किं स एव कर्ता उत स्वयमकर्तैव सन् अचेतनानां गुणानां कर्तृत्वमात्मन्यध्यवस्यतीति चिन्त्यते | किमत्र युक्तम् अकर्तैवात्मेति | कुतः आत्मनोह्यकर्तृत्वं गुणानामेव च कर्तृत्वं अध्यात्मशास्त्रेषु श्रूयते | तथा हि - कठवल्लीषु जीवस्य न जायते म्रियते वा इत्यादिना जन्म-जरामरणादिकं सर्वं प्रकृतिधर्मं प्रतिषिध्य हननादिषु क्रियासु कर्तृत्वमपि प्रतिषिध्यते | हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते || इति | हन्तारमात्मानं जानन् न जानात्यात्मानमित्यर्थः | तथा च भगवता स्वयमेव जीवस्याकर्तुत्वं स्वरूपम् कर्तुत्वाभिमानस्तु व्यामोहः इत्युच्यते | प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः | अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यते | कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते || पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते || इति |
SK
अतः पुरुषस्य भोक्तृत्वमेव प्रकृतेरेव तु कर्तृत्वम् | एवं प्राप्ते प्रचक्ष्महे - kartā śāstrārthavatvāt - iti | ātmeva kartā na guṇāḥ kasmāt śāstrārthavatvāt | śāstrāṇi hi yajeta svargakāmaḥ mumukṣurbrahmopāsīta ityevamādīni svargamokṣādiphalasya bhoktārameva kartṛtve niyuñjate | na hyacetanasya kartṛtve'nyo niyujyate | śāsanācca śāstram | śāsanaṃ ca pravartanam | śāstrasya ca pravartakatvaṃ bodhajananadvāreṇa | acetanaṃ ca pradhānaṃ na bodhayituṃ śakyam | ataḥ śāstrāṇāmarthavatvaṃ bhoktṛścetanasyaiva kartṛtve sambhavet | taduktaṃ śāstraphalaṃ prayoktarīti | yaduktaṃ - hantā cenmanyate ityādinā hananakriyāyāmakartṛtvamātmanaḥ śrūyata iti tadātmano nityatvena hantanyatvābhāvāducyate | yacca prakṛteḥ kriyamāṇāni ityādinā guṇānāmeva kartṛtvaṃ smaryata iti tat sāṃsārikapravṛttiṣvasya kartṛtā sattvarajastamoguṇasaṃsargakṛtā na svarūpaprayukteti prāptāprāptavivekena guṇānāmeva kartṛtā ityucyate | tathā ca tatraivocyate - kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu iti | tathā tatraivātmanaśca kartṛtvamabhyupetyocyate - tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ | paśyatyakṛtabuddhitvāt na sa paśyati durmatiḥ || iti | adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham | vividhā ca pṛthak ceṣṭā daivaṃ caivātra pañcamam || ityadhiṣṭhānādidaivaparyantaṃ sāpekṣe satyātmanaḥ kartṛtve ya ātmānameva kevalaṃ kartāraṃ manyate na sa paśyati | mūḍha ityarthaḥ | asminnarthe hetvantaramāha - || 77 || upadānādvihāropadeśācca || 32 || sa yathā mahārājaḥ iti prakṛtya yamevaiṣa etān prāṇān gṛhītvā svaśarīre yathā kāmaṃ parivartata iti prāṇānāṃ upādāne vihāre ca kartṛtvamupadiśyate | yaduktaṃ buddhiprakṛtyoreva kartṛtvamiti tatra buddheḥ kartṛtvaṃ nirākaroti - 78 vyapadeśācca kriyāyāṃ na cennirdeśaviparyayaḥ || 33 ||
SK
विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च इति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच्च कर्तां विज्ञानशब्देन व्यपदिश्यते | अत्र नात्मनो व्यपदेशः अपि त्वन्तःकरणस्य बुद्धेरिति चेत् एवं सति निर्देशविपर्ययस्स्यात् | बुद्धेः - करणत्वाद्विज्ञानेनेति करणविभक्तिनिर्देशः स्यात् | तदेषां प्रमाणानां विज्ञानेन विज्ञानमाददाति इत्यत्र बुद्धेः करणत्वं कर्तृत्वं च न प्रतिपद्यते | क्षेत्रज्ञस्य कर्तृत्वव्यपदेशे सुषुप्तिमूर्धादावपि तत्संभवेत् तस्माद्ब्रह्मरूपस्य जीवस्य तदसम्भवात्तदन्तःकरणस्यैव कर्तृत्वमुपपन्नं इत्याशङ्कायामाह - ७९ उपलब्धिवदनियमः || ३४ || यथाद्वैतमते जीवस्य ज्ञानात्मकब्रह्मरूपत्वेनान्तःकरणस्यैव कर्तृत्वमुपपन्नम् | तत्कर्तृत्वे तु सुषुप्त्यादौ तस्य तददर्शनात् निष्कर्तृत्वमिति यत्तदसङ्गतम् | उपलब्धिवत् यथा सर्वशास्त्रप्रवचनशीलस्य पण्डितस्य शिष्यसान्निध्याभावे तद्विद्याप्रवचनीयकर्तृत्वशक्तिसंकोचः | तथा जीवस्य जडान्तःकरणादिसमायोगेन सर्वकर्तृत्वं तदभावे तच्छक्तिसंकोचश्च अविरुद्धः | तावन्मात्रेण निष्क्रियत्वमयुक्तम् | तस्मात्सर्वकालकर्तृत्वनियमो न सम्भवति | तथापि कर्तृत्वमनिवार्यम् | किञ्च - रथ-प्रासाद- tatsādhanāṅgavatsvabhāve tatkartṛśaktisaṃkocavatvepi teṣāṃ tatkartṛtvaśaktisattvavat śarīrendriyamanaḥprāṇādyayoge jīvānāṃ svaniṣṭhakartṛtvaśaktiprakāśakatvābhāve'pi tatkartṛtvaśaktirnivāryate jīvasyaiva tadanaṅgīkāre tayoranyaḥ pippalaṃ svādvattyanaśnannanyo'bhicākaśīti ityādi jīvakartṛtvavidhāyakabahuśrutivirodho durnivāraḥ | ato jaḍasyāntaḥkaraṇasya kartṛtvamayuktamiti veditavyam | jīvasya suṣuptyādiṣvapi kartṛtvaśaktisatve svatantratvaprasaṅgāt suptāvapi svajñānaparajñānavatvaṃ ca kiṃ na syādityāśaṅkāyāmāha - || 80 || śaktiviparyayāt || 35 ||
SK
सुषुप्तौ बुध्यभावाज्जवस्य स्वपरज्ञानशक्तिसङ्कोचदर्शनादितश्च बुद्धेरेव कर्तृत्वमिति चेन्न | कुतः शक्तिविपर्ययात् | सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति इत्यादिश्रुतिषु सुप्तौ परमेश्वरमायारूपजडतमश्शक्त्या जीवशक्तिविपर्ययात् - तिरोधानात् बुद्धेः कर्तृत्वमनुपपन्नम् | यथा लोके वैश्वानरस्वभावशक्तेर्मणिमन्त्रादिभिः किञ्चित्कालं तिरोहितत्वं शैत्यस्वभावस्य जलस्य भानुवैश्वानरादिस्पर्शेन स्वनिष्ठशैत्यस्य तिरोहितत्वं पर्जन्याच्छादनेन प्रभाकरस्य प्रभायाः तिरोहितत्वं तद्वज्जीवस्य परशिवपाशशक्त्या स्वशक्तिसंकोचेन स्वपरज्ञानयोः तिरोहितत्वम् उपपद्यते | तावन्मात्रेण स्वनिष्ठधर्माणामनन्यसाधारणत्वं वक्तुं युक्तम् | किञ्च बुद्धेः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वानुपपत्तेर्भोक्तृत्वशक्तिरपि तस्यैव स्यादित्यात्मनो भोक्तृत्वशक्तिर्हीयेत | भोक्तृत्वं च बुद्धेरेव सम्पद्यत इति चेदात्मसद्भावे प्रमाणाभावश्च स्यात् पुरुषोऽस्ति भोक्तृभावात् इति हि तेषामभ्युपगमः | उत बुद्धेः कर्तृत्वे करणशक्तिविपर्ययात् करणशक्तिः वार्येत न चेष्टापत्तिः | करणसहितस्यैव कर्तुर्लोके कार्यकारित्वदर्शनात् बुद्धेरपि करणान्तरं कल्पनीयं स्यात् | तथा च नाममात्रे विवादो न वक्तुनि करणव्यतिरिक्तस्यैव त्वयापि कर्तृत्वाभ्युपगमात् इति | बुद्धेः कर्तृत्वनिराकरणे पुनर्हेत्वन्तरमाह - || ८१ || समाध्यभावाच्च || ३६ ||
SK
बुद्धेः कर्तृत्वे मोक्षसाधनभूतसमाधावपि सैव कर्त्री स्यात् | स च समाधिः प्रकृतेरन्योऽस्मि इत्येवं प्रकृतिं समाधातुमलम् | अतोप्यात्मैव कर्ता | समाधिर्नाम शिवप्रसादात् शिवयोगेनाविद्यापाशविच्छेदकपरमशिवस्वप्रकाशसाक्षात्कारानुभवकाले शरीरेन्द्रियमनःप्राणादिचेष्टानिर्मुक्तजाग्रत्स्वप्नसुषुप्तिव्यवस्थामतिक्रम्य निष्प्रपञ्चनिरामयपरमतेजः-प्रकाशकपरमाकाशशिवतत्त्वमनुसृत्य निर्भरानन्दसमुद्रे निमज्य ज्ञानाज्ञानातीततुर्यातीतावस्थायामपि तदविस्मरणेन प्रचण्डातपमध्यनिक्षिप्तकर्पूरदीपवत्सङ्कल्पविकल्पविहीनशिवाकारित- niratiśayatvaṃ sarvaśrutisiddham | jīvasya puṇyapāpakartṛtvādyabhāve samādhyabhāvāt tadabhāve śraddhābhaktidhyānayogādavehi tasyābhidhyānādyojanāttattvabhāvādbhūyaścānte viśvamāyānivṛttiḥ - ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇiṃ | dhyānanirmathanābhyāsāt pāśaṃ dahati paṇḍitaḥ || ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ || ityādibahuśrutisiddharevaṇasiddha-marulasiddhekorāmasiddha- वाच्यम् | तत्त्वमसि इत्यादिश्रुतिसिद्धजीवब्रह्मैक्यरूपमोक्षनिर्देशो न स्यात् | बुद्धेर्मोक्षकाले जडत्वेन नष्टत्वादात्महननप्रसङ्गः | ननु चात्मनः कर्तृत्वेऽभ्युपगम्यमाने सदा कर्तृत्वं नोपरमेदित्यत्राह - || ८२ || यथा च तक्षोभयथा || ३७ ||
SK
वागादिकरणसम्पन्नोऽप्यात्मा यदेच्छति तदा करोति यद्धि मनसा ध्यायते तद्वाचा वदति तत्कर्मणा करोति इति श्रुतिरपि तथा व्यपदिशति | यदा तु नेच्छति तदा न करोति यथा तक्षा वश्यादिकरणसन्निधानेऽपि स्वेच्छानुगुण्येन करोति न करोति च तथा | बुद्धेस्त्वचेतनायाः कर्तृत्वे तस्याः भोगवाञ्छादिनियमकारणाभावात् सर्वदा कर्तृत्वमेव स्यत् | तस्मात्कर्तृत्वं न बुद्धेर्न प्रधानस्येति व्याचक्षते | इच्छायाः चेतनधर्मत्वात् चेतनस्यैव जीवस्य सर्वकर्तृत्वं तक्षादिवदुपपन्नम् | यथा तक्षा व्यापारकर्ता उभयथा उभयरूपेण तिष्ठति एवं जीवोऽपि स्वेच्छया जाग्रत्स्वप्नकालयोः स्थूलसूक्ष्मशरीरविशिष्टस्सन् लौकिकवैदिकव्यापारान् कुर्वन् वैषयिकसुखदुःखमनुभवति | सुषुप्तिकाले शरीरेन्द्रियव्यापाशून्यतया परमशिवतमोरूपपाशशक्तिनिष्ठपरमानन्दमनुभवति | अतश्चेतनस्य जीवस्यैव कर्तृत्वमुपपन्नमिति सिद्धम् | परायत्ताधिकरणम् || १४ || जीवस्यैव कर्तृत्वाङ्गीकारे परमेश्वरवत्स्वतन्त्रत्वमर्थात् सिद्धम् | तस्मात्तयोर्वैलक्षण्यं कथमित्याशङ्कायां तत्तारतम्यमाह - || ८३ || परात्तु तच्छ्रुतेः || ३८ || तत्राज्ञस्य पुण्यापुण्यकर्तृत्वं परात्तु परशिवप्रेरणात्सम्भवति | कस्मात् तत् श्रुतेः | एषह्येव साधु कर्म कारयति इति श्रुतेः | तस्मात् जीवस्य न स्वातन्त्र्यम् | अत्र क्षेत्रज्ञस्य कर्तृत्वं स्वातन्त्र्येण उत परमात्मायत्तम् स परमात्मा शिवो वा नारायणो वेति सन्दिह्यते | परमात्मायत्तत्वे हि विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत | यो हि स्वबुध्या प्रवृत्तिनिवृत्यारम्भशक्तः स एव नियोज्यो भवति | अतस्स्वातन्त्र्येणास्य कर्तृत्वम् | किञ्च - नारायणं महाज्ञेयं विश्वात्मानं परायणम् | नारायणपरं ज्योतिरात्मा नारायणः परः ||
SK
इत्यारभ्य अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः | इत्यन्तं नारायणस्य सर्वात्मकत्वसर्वान्तर्यामित्व-सर्वव्यापकत्वादिपरमात्मधर्माणां व्यवस्थापनात् सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनञ्च इति गीतायामपि तथा व्यपदेशात् | नारायणशब्दस्य शिवे रूढ्यभावात् गौणव्यपदेशे णत्वबाधो दुर्निवारः | तस्माज्जीवस्य नारायनस्य वा कर्तृत्वमुपपन्नमिति प्राप्तेऽभिधीयते - परात्तु इत्यत्र तु शब्दः पक्षं व्यवर्तयति | तत्कर्तृत्वमस्य परात्तु जीवभिन्नेश्वरादेवहेतोर्भवति कुतः श्रुतेः | क्षरं प्रधान क्षरात्मनावीशते देव एकः ईश्वरः सर्वभूतानां अन्तः प्रविष्टः शास्ता जनानां एष ह्येव साधु कर्म कारयति तं यमधो लोकेस्य उन्निनीषते एष ह्येव साधुकर्म कारयति तं यमधो निनीषते इति | य आत्मनि तिष्ठन्नात्मनोन्तरः यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः इत्यादि श्रुतिषु शिवस्य सर्वनियामकत्वश्रवणात् न जीवनारायणयोः कर्तृत्वमुपपद्यते | सहस्रशीर्षं देवं इत्युपक्रम्य अन्तर्बहिश्च तत्सर्वं व्याव्य नारायणः स्थितः इत्यन्तेन नारायणस्यैव सर्वान्तर्यामित्वादिकमुपदिश्यत इति यदुक्तं तदमुक्तम् | अथ नारायणपदस्य शिवत्वप्रतिपादनम् सर्वाधिकरणे षड्विधतात्पर्यलिङ्गैः पूर्वं तद्बहुधा प्रपञ्चितम् | शिवे नारायणशब्दरूढ्यभावे - सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके | शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ||
SK
नारायणी नादरूपा इत्यादिषु पार्वत्याः नारायणीति चेत्तदसत् यत्र कुत्रापि तद्वत्प्रयोगादर्शनात् रुद्रस्य पत्नी रुद्राणी इन्द्रस्य पत्नी इन्द्राणी इत्यादिषु पत्नीपरत्वस्यैव द्योतनाच्च | नराणां समूहः नारं नारं अयनं स्थानं यस्य सः नारायणः इत्यादि व्युत्पत्या नस्य णत्वबाध इति चेत्तन्न विष्णोरिव शिवस्यापि रूढत्वात् | बादरायणः उत्तरायणं रामायणं इत्यादिषु योगरूढ्यापि सम्भवाद्रूढेः किं वक्तव्यम् | स एव विष्णुः स प्राणस्सकालोऽग्निस्स चन्द्रमाः स एव सर्वं यद्भूतं यच्च भव्यं सनातनं इति कैवल्यश्रुतेः - यानि नामानि गोविन्द तव लोके महन्ति वै | तान्येव मम नामानि नात्र कार्या विचारणा || इति हरिवंशे विष्णुं प्रति शिववचनात् ममैषा परमा मूर्तिर्नारायणसमाह्वया इति कूर्मे ईश्वरगीतायां च दर्शनात् कारणगुणाः कार्ये संक्रामन्तीति न्यायेन आत्मा वै पुत्र नामासि इति श्रुतिनिर्देशात् शिवे नारायणपदरूढत्वेऽपि तदंशत्वेन विष्णोऽरपि समुचितम् | किं च स्कान्दे - आरास्तु निर्धनो ज्ञेयः नाराः किल धनाधिपः | तद्यणं सल्लषं सख्यात्स वै नारायणः शिवः || इति णत्वं व्यतिरिक्ततया शिवे प्रयोगदर्शनात् सर्वथा णत्वबाधवादो ह्यविचारितरमणीयः | गीतायामपि ईश्वरस्सर्वभूतानां मायया | तमेव शरणं गच्छ भारत इत्यादिना सर्वभूतनियामकत्वं शिवस्यैव निर्दिष्टम् निरुपपदेश्वरपदस्य नान्येषां सिद्धत्वात् | सर्वस्य चाहं हृदि सन्निविष्टः इत्यादिना स्वस्यैव स्वतन्त्रतया कृष्णेन सर्वान्तर्यामित्वादिपरमशिवधर्मोपदेशात् तस्यैवोपपन्नमिति चेत् शास्त्रदृष्ट्या तूपदेशो वामदेववत् इति सूत्रे शास्त्रदृष्ट्या वामदेववत्कृष्णस्य ब्रह्मधर्मोपदेशः अविरुद्ध इति पूर्वमेव निर्दिष्टम् | नन्वेवं विधिनिषेधशास्त्रानर्थक्यं प्रसज्येतेत्युक्तम् | तत्राह - || ८४ || कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः || ३९ ||
SK
ईश्वरः क्षेत्रज्ञकृतकर्मापेक्षस्सन्नेव तेषा. सुखं दुःखं च ददाति विहितानां प्रतिषिद्धानां च कर्मणां-अवैय्यर्थ्यादिभ्यः अविरोधादिभ्य इत्यर्थः | अन्यथा विधिनिषेधशास्त्रस्याप्रामाण्यं स्यात् | सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नमुद्योगमपेक्ष्यान्तर्यामी परमात्मा तदनुमतिदानेन प्रवर्तयति | परमात्मानुमतिमन्तरेणास्य प्रवृत्तिर्नोपपद्यते | कुत एतत् विहितप्रतिषिद्धावैयर्थ्यादिभ्यः | अत्रादिशब्देनानुग्रहनिग्रहादयो गृह्यन्ते | यथा द्वयोः साधारणे धने परस्वत्वापादनमन्यतरानुमतिमन्तरेण नोपपद्यते अथापीतरानुमतिः स्वेनैव कृतेति तथलं तस्यैव भवति | पापकर्मसु निवर्तनशक्तस्याप्यनुमन्तृत्वं निर्दयत्वमावहतीति पूर्वमेव प्रतिपादितम् | नन्वेवं एष ह्येव साधुकर्म कारयति | तं यमेभ्यो लोकेभ्य उन्निनीषति | एष एवासाधुकर्म कारयति तं यमधो निनीषति इत्युन्निनीषयाऽधोनिनीषया च स्वयमेव साध्वसाधुनी कर्मणीं कारयतीत्येतन्नोपपद्यत इति चेदुच्यते - एतन्न सर्वसाधारणम् | यस्त्वतिमात्रपरमपुरुषानुकूल्ये व्यवस्थितः प्रवर्तते तमनुगुण्हन् भगवान् शिवस्स्वयमेव स्वप्राप्त्युपायेषु अतिकल्याणेषु कर्मस्वेव रुचिं जनयति | यश्चात्तिमात्रप्रातिकूल्ये व्यवस्थितः प्रवर्तते तं निगृण्हन् स्वप्राप्तिविरोधिष्वधोगतिसाधनेषु कर्मसु रुचिं जनयति | तदुक्तं कृष्णगीतायामपि - अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भावसमन्विताः || इत्यारभ्य - तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | ददामि बुद्धियोगं तं येन मामुपयान्ति ते || तेषामेवानुकम्पार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || इति | तथा - असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् | इत्यादि मामात्मपरदेहेषु विद्विषन्तोऽभ्यसूयकाः || इत्यन्तमुक्त्वा - तानहं द्विषतं क्रूरान् संसारेषु नराधमान् | क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु || इति च | तथोक्तं भगवता स्वयमेव शिवगीतासु -
SK
अथ किं बहुनोक्तेन मयैवोत्पादितं जगत् | मयैव पाल्यते नित्यं मया संह्रियतेऽपि च || इत्युपक्रम्य वालाग्रमात्रं हृदयस्य मध्ये विश्वे देवं जातवेदसं वरेण्यम् | तमात्मानं येऽनुपश्यन्ति धीराः तेषां शान्तिश्शाश्वती नेतरेषाम् || अहं योनिं योनिमधितिष्ठाम्येको मयेदं पूर्वं पञ्चविधं च सर्वम् | मामीशानं पुरुषं देवमीड्यं निचाय्य मां शान्तिमत्यन्तमेति || येनाकारेण ये मर्त्या ममेवैकमुपासते | तेनाकारेण तेभ्योऽहं प्रसन्नो वाञ्छितं ददे || विधिनाऽविधिना वापि भक्त्या ये मामुपासते | तेभ्यः फलं प्रयच्छामि प्रसन्नोऽहं न संशयः || अपि चेत्सुदुराचारो भजते मामनन्यभाक् | साधुरेव स मन्तव्यः सम्यग्व्यवसितोहि सः || सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैस्सर्वदोषैः | एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन सर्वैः || दैवी ह्येषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || अभक्ता ये महाबाहो मयि श्रद्धाविवर्जिताः | फलं कामयमानास्ते ह्यैहिकामुष्मिकादिकम् || क्षयिष्ण्वल्पं सातिशयं यतः कर्मफलं मतम् || तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः | मातुः पतङ्गगर्भेषु मृत्युवक्त्रे पुनः पुनः || नानायोनिषु जातस्य देहिनो यस्य कस्यचित् || कोटिजन्मार्जितैः पुण्यैर्मयि भक्तिः प्रजायते | स एव लभते ज्ञानं मद्भक्तः श्रद्धयान्वितः || नानाकर्माणि कुर्वाणो जन्मकोटिशतैरपि | ततस्सर्वं परित्यज्य मच्छक्तिं समुपाहर || सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज | अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः || यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् || ततः परतरा नास्ति भक्तिर्मयि रघूत्तम || इति | अंशाधिकरणम् || १५ || अथ जीवस्य शिवांशत्वप्रतिपादनम् एवं जीवस्य ब्रह्मप्रेरितत्वहेतुना च साक्षात्तस्यैव ब्रह्मत्वसाधकाद्वैतमतं निरस्य तदन्तर्भूतजीवालीकत्व-जीवैकत्व-प्रतिबिम्बत्वादिवादं निराकरोति -
SK
|| ८५ || अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके || ४० || पूर्वत्र जीवस्याणुत्व-ज्ञातृत्व-परमशिवायत्तकर्तृत्वादिकं प्रसाध्येदानीं जीवैकत्व जीवब्रह्मत्व-जीवालीकत्व-जीवप्रतिबिम्बत्वादिकं अनुपपन्नमवैदिकत्वादिति प्रचक्षते | यथा सुदीप्तात्पावकात् विस्फुलिङ्गास्सहस्रशः प्रभवन्ते सरूपाः | तथाक्षराद्विविधास्सौम्यभावाः प्रजायन्ते तत्र चैवापि यन्ति || मायान्तु प्रकृतिं विन्द्यात् इत्यादि श्रुतिशतैर्जीवानां ब्रह्मांशत्वश्रवणात् न जीवैकत्वादिवादो युक्तः नानाव्यपदेशात् | द्वासुपर्णेत्यादौ जीवब्रह्मणोर्भेदव्यपदेशात् अन्यथा चापि तत्त्वमस्यादिश्रुतावभेदव्यपएशाच्च जीवब्रह्मणोर्भेदाभेद एवाङ्गीकर्तव्यः | जीवाः ब्रह्मण अंशा एव नत्वितरे श्रुतेर्दृष्टत्वात् | तथापि दाशकितवादित्वमधीयत एके एके शाखिनः आथर्वणिकाः ब्रह्मणः दाशकितवत्वं दास्यदासकत्वेन सदा जीवब्रह्मणोः भेदमधीयते - वदन्ति | ब्रह्मदाशा ब्रह्मदासा ब्रह्मैवेमे कितवाः इत्यादिश्रुत्या मोक्षदशायामपि मुक्तजीवानां ब्रह्मसारूप्यसिद्धानामपि दासत्वे कैङ्कर्यपारतन्त्र्यादिकमविरोधेन साधयन्ति सूत्रकारेण एके शाखिन इति तन्मतस्य वेदैकदेशवर्तित्वेन निर्देशात् | संसारदशायां बद्धशुद्धजीवानां परमेश्वरशेष-शेषित्वादिकमुपपन्नमपि मोक्षदशाया पारतन्त्र्यादिकं भयहेतुत्वेन मुक्तजीवानां नाङ्गीकरणीयम् | यथा नद्यः इत्यादिश्रुतिषु जीवब्रह्मणोस्स्वरूपैक्योपदेशात् | न च भेदाभेदयोर्विरोध इति वाच्यम् | वयं श्रुतिप्रमाणवादिनः न युक्तिं बहुनन्महे इति पूर्वमेवोक्तत्वात् श्रुतियुक्त्यनुभववत्वेन जिज्ञासाद्याधिकरणेषु पूर्वमेव बहुधा प्रसाधितत्वाच्च | अद्वैत-विशिष्टाद्वैतमतयोरपि श्रुतिसमन्वयाभावेन भेदाभेदमतच्छायावलम्बनात् गौणत्वेन सर्वश्रुतिसमन्वयो निर्दिष्टः | तार्किकादिकेवलभेदवादिनां बौद्धादिवत्सर्वशुतिसमन्वयाभावात् तन्मतं सुतरामसङ्गतम् |
SK
इदानीं किमयं जीवः परस्माअत्यन्तभिन्नः उत परमेव ब्रह्म भ्रान्तम् उत ब्रह्मैवोपाध्यवच्छिन्नम् अथ ब्रह्मांशः इति संशीय्यते | श्रुतिविप्रतिपत्तेः संशयः | ननु तदनन्यत्वं अधिकन्तु भेदनिर्देशात् इत्यत्रैवायमर्थो निर्णीतः | सत्यम् ! स एव नानात्वैकत्वश्रुतिविप्रतिपत्या आक्षिप्य जीवस्य ब्रह्मांशत्वोपपादनेन विशेषतो निर्णीयते | यावद्धि जीवस्य ब्रह्मांशत्वं न निर्णीतं तावज्जीवस्य ब्रह्मणोऽनन्यत्वं ब्रह्मणस्तस्मादधिकत्वं च न प्रतितिष्ठति | किं तावत्प्राप्तम् अत्यन्तभिन्न इति | कुतः ज्ञाऽज्ञौ द्वावजावीशनीशौ इत्यादिना भेदनिर्देशात् | ज्ञाऽज्ञयोरभेदश्रुतयस्तु अग्निना सिञ्चेदितिवत् विरुद्धार्थप्रतिपादनादौपचारिक्यः | ब्रह्मण्ॐशो जीव इत्यपि न साधीयः | एकवत्स्वेकदेशवाची ह्यंसशब्दः | जीवस्य ब्रह्मैकदेशत्वे तद्गता दोषा ब्रह्मणि भवेयुः | न च ब्रह्मखण्डो जीव इत्यंशत्वोपपत्तिः | खण्डनानर्हत्वाद्ब्रह्मणः प्रागुक्तदोषप्रसङ्गाच्च | तस्मादत्यन्तभिन्नस्य च तदंशत्वं दुरुपपादम् | यद्वा भ्रान्तं ब्रह्मैव जीवः | कुतः तत्त्वमसि अयमात्मा ब्रह्म इत्यादौ ब्रह्मात्मभावोपदेशात् | नानात्ववादिन्यस्तु प्रत्यक्षादिसिद्धार्थानुवादित्वादनन्यथासिद्धाद्वैतोपदेशपराभिः श्रुतिभिः प्रत्यक्षादय इव अविद्यान्तर्गताः ख्याप्यन्ते | अथवा ब्रह्मैवानाद्युपाध्यवच्छिन्नं जीवः | कुतः तत एव ब्रह्मात्मभावोपदेशात् | न चायमुपाधिर्भ्रान्तिनरिकल्पित इति वक्तुं शक्यम् बन्धमोक्षादिव्यवस्थानुपपत्तेरिति प्राप्तेऽभिधीयते ब्रह्मांश इति -
SK
कुतः नानाव्यपदेशात् अन्यथा च एकत्वेन व्यपदेशात् | उभयथा हि व्यपदेशो दृश्यते | नानात्वव्यपदेशस्तावत् स्रष्टृत्व-सृज्यत्व-नियन्तृत्व- brahma ityādibhirdṛśyate | api dāśakitavāditvamadhīyata eke | brahmadāśā brahmadāsā brahmeme kitavāḥ ityātharvaṇikā brahmaṇo dāśakitavāditvamapyadhīyate | tataśca sarvajīvavyāpitvenābhedo vyapadiśyata ityarthaḥ | evamubhayavyapadeśamukhyatvasiddhaye jīvo'yaṃ brahmaṇoṃśa ityabhyuṣagantavyaḥ | na ca bhedavyapadeśānāṃ pratyakṣādiprasiddhārthatvenānyathāsiddhatvam | brahmasṛjyatvatanniyāmyatva-tatprakāśakatva-taccheṣatva- प्रत्यक्षाद्यगोचरत्वेनानन्यथासिद्धः | अतो न जगत्सृष्ट्यादिवादिनीनां प्रमाणान्तरसिद्धभेदानुवादेनमिथ्यार्थोपदेशपरत्वम् | न चाखण्डैकरसचिन्मात्रस्वरूपेण ब्रह्मणा आत्मनोऽतद्भावानुसन्धाने बहुभवनसङ्कल्पपूर्वकवियदादिसृष्टिं जीवभावेन तत्प्रवेशं विचित्रनामरूपव्याकरणं तत्कृतानन्तविषयानुभवनिमित्तसुखदुःखभागित्वं अभोक्तृत्वेन तत्र स्थित्वा तन्नियमनेनान्तर्यामित्वं जीवभूतस्य स्वस्य कारणब्रह्मात्मभावानुसन्धानं संसारमोक्षं तदुपदेशशास्त्रं च कुर्वाणेन भ्रमितव्यमित्युपदिश्यते तथा सत्यन्मत्तप्रलापितत्वापातात् | उपाध्यवच्छिन्नं ब्रह्म जीव इत्यपि न साधीयः पूर्वनिर्दिष्टनियाम्यत्वादिव्यपदेशबाधादेव | न हि देवदत्तादेरेकस्यैव गृह्याद्युपाधिभेदात् नियन्तृनियाम्यभावादिसिद्धः | अतः उभयव्यपदेशोपपत्तये जीवोऽयं ब्रह्मण्ॐशं इत्यभ्युपेयम् | तस्माद्वेदमार्गावलम्बिना मुख्यत्वेन सर्वश्रुतिसमन्वयाख्यं द्वैताद्वैतमतमेवाङ्गीकर्तव्यमिति निश्चीयते | स्मृतावपि - शिवस्सत्यं जगत्सत्यं जीवस्सत्यं स्वभावतः | तेषामभेदः सत्यो वा क्रिमिभ्रमरयोरिव || इति स्मरणात्तदेव रमणीयम् | अयमात्मा ब्रह्म इत्यादिश्रुतिषु जीवस्यैव ब्रह्मत्वोपदेशात् ब्रह्मदाशा ब्रह्मदासा इत्यादि भेदश्रुतीनां रज्जुसर्पवत्कल्पितत्वमेवोपदिश्यत इत्याशङ्कयामाह - अथ जीवबहुत्वसमर्थनम्
SK
|| ८६ || मन्त्रवर्णात् || ४१ || मायां तु प्रकृतिं विन्द्यात् मायिनं तु महेश्वरम् | तस्यावयवभूतोत्थं व्याप्तं सर्वमिदं जगत् || पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि इत्यादि मन्त्रवर्णाच्च शिवांशो जीवः मायायाः प्रकृतित्वं तदवच्छिन्न महेश्वरस्य तदववयभूतोत्थत्वं सर्वस्य जगतो दर्शयति | तस्मान्मायिनः परमशिवत्यावयवलेशः पुरुषो जीवः | किञ्च - अंशवाची हि पादशब्दः | विश्वाभूतानीति जीविनां बहुत्वाद्बहुवचनम् | मन्त्रे सूत्रे च अंश इत्येकवचनं जात्यमिप्रायम् | आत्मश्रुतेरित्यत्राप्येकवचनं जात्यभिप्रायन् | नित्योऽनित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान् इत्यादि श्रुतिभ्यः ईश्वराद्भेदस्य आत्मनां बहुत्व- jñānasvarūpatvena sarveṣāmekatve'pi bhedakākāraḥ ātmāyāthātmyavedanakṣamairavagamyate | asantataiścāvyatikaraḥ ityanantarameva cātmabahutvaṃ vakṣyati | tasmādātmaikatvādvaitavāda ayuktaḥ | etadarthe punarhetvantaramāha - || 87 || api ca smaryate || 42 || satyajñānātmako'nanto vibhurātmā maheśvaraḥ | tasyaivāṃśo jīvaloko hṛdaye prāṇināṃ sthitaḥ || visphuliṅgā yathā vahnau jāyante kāṣṭhayogataḥ | anādivāsanāyuktāḥ kṣetrajñā iti te smṛtāḥ || iti śivagītāyāṃ mamaivāṃśo jīvaloke jīvabhūtassanātanaḥ īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati | bhrāyayan sarvabhūtāni yantrārūḍhāni māyayā || iti kṛṣṇagītāyāṃ ca jīvānāṃ īśvarāṃśatvaṃ tadbahutvaṃ copadiṣṭam | yato vā imāni bhūtāni jāyante ityādinā taittirīyaśākhāyāmapi jīvabahutvaṃ dṛśyate | ataḥ jīvālīkatva-jīvaikatva-jīvabrahmatvavādo hyayuktaḥ | atha śivasya viṣṇuvallabhatvapratipādanam
SK
ननु पादोऽस्य विश्वाभूतानि इति विष्णुपरत्वविधायकपुरुषसूक्ते दर्शनात् ममैवांशो जिवलोके इति कृष्णगीतायां कृष्णस्य स्वांशत्वेन जीवनिर्देशात् हरिः ओम् इति वेदवेदान्तोच्चारणे प्राथमिकत्वेन विष्णुस्मरणविधानात् वेदवाक्यानि सर्वाणि हरिनामानि वै स्मृताः इति कपिलस्मृतिश्रवणाच्च जीवानां विष्ण्वंशत्वमेवेति चेन्नपूर्वोक्तबहुश्रुतिस्मृतिविरोधात् प्रथमाध्यायप्रथमपादे पुरुषसूक्त- jīvapadavācyasya sarvajīvāṃśatva pratipādane sarvaśrutivirodhāt | eko viṣṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ iti śrutau viṣṇvādyuttamadehe'ṣu praviṣṭā devatā bhavet | manuṣyādyadhamadeheṣu praviṣṭo mānaṣo bhavet || iti śrutāvapi viṣṇoḥ jīvatvāvagamāt | śivavanmūrtitrayātītatvasya prātyakṣikaśrutiṣu viṣṇoradarśanāt śivasya sarvātmakatvena sarvaśabdavācyatvādviṣṇuśabdasyāpi paryāyatvena śivavācakatvāṅgīkāre śaṅkhacakrordhvapuṇḍrāvacchinnajaganmohakavigrahaparatvāyogācca jīvānāṃ śivāṃśatvamevābhidhīyate | hari oṃ ityatra prāthamikaviṣṇuśabdadyotanādvedasya viṣṇvātmakatvamiti yattadavicāritaramaṇīyam | sarvo vai rudraḥ śivomāveva pitaraḥ īśānaḥ sarvavidyānāṃ ityādi śrutiśateṣu
SK
वेदश्शिवो शिवो वेदः वेदाध्यायी सदाशिवः | नारुद्रः क्रमपाठकः इत्यादिस्मृतिषु च सर्वात्मकत्व-सर्वश्रुतिजनकत्व-सर्ववेदनियामकत्वादेः शिवस्यैव दर्शनान्नान्येषा तद्वत्वं युक्तम् | तस्मात् हरिः ओ इति वाक्ये हरिशब्दाभिधान-विष्णुविशिष्टस्य ओङ्कारवाच्यस्य शिवस्यैवोच्चारणमुपदिष्टम् | यो वेदादौ स्वरः इति स्मृतौ निरुपपद्ॐकारमात्रस्यैव वेदाद्यन्तयोरुच्चारणे श्रौतविधिः श्रूयते | ओमित्येतदक्षरमिदं सर्वं इत्युपक्रम्य प्रपञ्चोपशमश्शिवोऽद्वैत एवम्ॐकारस्संविशत्यात्मनात्मानं य एवं वेद इत्यन्तेन सर्ववेदान्तप्राधान्यमाण्डूक्योपनिषदि शिवस्य प्रणवात्मकत्वं प्रणवार्थवाच्यत्वं प्रणवातीतत्वं च निर्दिष्टम् | तथा ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् इति तैत्तिरीये अकारो ब्रह्मा उकारो विष्णुर्मकारः कालकालो ह्यर्धमात्रः परमशिवस्तस्मात् ओकारं लिङ्गमाहुः इति सामश्रुतावपि प्रणवात्मकत्वं तस्य स्पष्टमुपदिष्टम् | परात्परतरो ब्रह्मा तत्परात्परतो हरिः | यत्परात्परतोऽधीशः तन्मे मनः शिवसङ्कल्पमस्तु || इति श्रुतिदर्शनात् विष्णोरुपरि प्रणवात्मकशिवोच्चारणं युक्तमेव अर्धो वा पत्नी एषात्मनो गृहेषु इति श्रुतिदर्शनात् | नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि इति श्रुतिनिर्देशात् शिवाय विष्णुरूपाय शिवरूपाय विष्णवे इति स्मृतिदर्शनात् ममैषा परमा मूर्तिर्नारायणसमाह्वया इति कूर्मे ईश्वरगीतायां च श्रवणात् विष्णोश्शिवशरीरत्वमविरोधम् || शिवस्य शक्तिर्विनियोगकाले चतुर्विधाऽभूच्छिवसत्प्रसादात् | भोगे भवानी समरे च दुर्गा क्रोधे च काली पुरुषेषु विष्णुः || इति सामशाखायां विष्णोः पार्वत्यंशत्वोपदेशात् शङ्करः शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः इति शिवाष्टोत्तरशतनामावल्यां वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं इति स्कान्दे विष्णुवल्लभत्वं तत्प्रियत्वं च निर्दिष्टम् | तस्मात् चन्द्रचन्द्रिकावद्विष्णुशब्दानुस्यूतत्वं प्रणवात्मकशिवस्य समुचितम् | शिवकेशवसम्भूतं कलये
SK
कालभैरवं इति वैयासिकस्कान्दादि पुराणवचनश्रवणाद्विष्णुवल्लभत्वं तस्य निष्प्रत्यूहम् | शिवस्य गौरीपतित्वस्यैव मुख्यत्वेन स्वीकारात् तदुच्चारणमेव वेदाद्यन्तयोरभिहितमिति चेत् | योषा जारमिव प्रिया इति लोके वेदेषु स्त्री-पुरुषाणां परस्त्रीपुरुषयोरेव परस्परपरमप्रेमास्पदत्वस्वभावद्योतनात् यागादिष्विन्द्राह्वाने अहल्याजारेतीन्द्रस्य शचीपतित्वेऽपि तदानन्दकत्वेन तद्व्यपदेशात् तद्वद्विष्णुशब्दानुस्यूतत्वस्य शिवप्रेमास्पदत्वात् विष्णोर्गौर्यंशत्वादंशांशिनोरभेदाच्च हरिः ओम् वेदाद्यन्तयोरुच्चारणं समञ्जसम् | जीवस्यांशत्वे ब्रह्मैकदेशत्वेन जीवगतदोषाः ब्रह्मण एवोपपद्यन्ते इत्याशङ्कायामाह - || ८८ || प्रकाशादिवत्तु नैवं परः || ४३ || तु शब्दश्चोद्यं व्यावर्तयति | प्रकाशादिवत् जीव परमात्मन्ॐश यथा- gavāśvaśuklakṛṣṇādīnāṃ gotvādiviśiṣṭānāṃ vastūnāṃ gotvādīni viśeṣaṇānyaṃśā yathā vā dehino devamanuṣyāderdehoṃśaḥ tadvat | ekavastvekadeśatvaṃ hyaṃśatvam | viśiṣṭasyaikasya vastuno viśeṣaṇamaṃśa eva | tathā ca vivecakā viśiṣṭe vastuni viśeṣaṇāṃśo'yaṃ viśeṣyāṃśoyamiti vyapadiśanti | viśeṣaṇa-viśeṣyayoraṃśāṃśitve'pi svabhāvavailakṣaṇyaṃ dṛśyate | evaṃ jīva-paramayorviśeṣaṇa-viśeṣyayoraṃśāṃśitvaṃ svabhāvabhedaścopapadyate | tadidamucyate naivaṃ para iti | yathā bhūto jīvaḥ na tathā bhūtaḥ paraḥ | yathaiva hi prabhāyāḥ prabhāvān anyathābhūtaḥ tathā prabhāsthānīyāt svāṃśāt jīvādaṃśī śivaḥ paropyarthāntarabhūta ityarthaḥ | evaṃ jīvaparayorviṃśeṣaṇa-viśeṣyatvakṛtaṃ svabhāvavailakṣaṇyamāśritya bhedanirdeśāḥ pravartante | abhedanirdeśāstu pṛthak sidhyanarhaviśeṣaṇānāṃ viśeṣyaparyantatvamāśritya mukhyatvena upapadyante | tattvamasi ayamātmā brahma ityādiṣu tacchabda brahmaśabdavat ayamātmeti śabdā api jīvāntaryāmi- जीवदुःखेनेश्वरदुःखाभावे स्मृतिमप्याह - || ८९ || स्मरन्ति च || ४४ ||
SK
तत्र यः परमात्मासौ स सत्यो निर्गुणः स्मृतः | न लिप्यते फलैश्चापि पद्मपत्रमिवांभसा || कर्मात्मात्वपरो योऽसौ मोक्षबन्धैत्स युज्यते | विग्रहं देवदेवस्य जगदेतच्चराचरं | एवमर्थं न जानन्ति पशवः पापगौरवात् || इति प्रभा-प्रभावद्रूपेण शक्ति-शक्तिमद्रूपेण चांशांशिभावं जीव- ekadeśasthitasyāgnerjyotsnāvistariṇī yathā | parasya brahmaṇaśśaktistathedamakhilaṃ jagat || iti jīvaduḥkhenāduḥkhitvamīśvarasya smarantītyarthaḥ | ca śabdena tayoranyaḥ pippalaṃ svādvattyanaśnannanyo'bhicākaśīti ityadikā śrutissūcitā | evaṃ brahmāṃśatve brahmapravartyatve jñatve ca sarveṣāṃ samāne keṣāṃcidvedādhyayanatadarthānusandhānādyanujñā keṣāṃcitparihāraḥ keṣāṃciddarśanasparśanādyanujñā keṣāṃcitparihārāśca śāstreṣu kathamupapadyata ityāśaṅkyāha - || 90 || anujñāparihārau dehasambandhajyotirādivat || 45 || sarveṣāṃ brahmāṃśatvādinaikarūpatve satyapi brāhmaṇa-kṣatriya-vaiśya- ज्योतिरादिवत् - यताग्नेरग्नित्वेनैकरूपत्वेऽपि श्रोत्रियागारादग्निराह्रियते श्मशानादेस्तु परिह्रियते यथा चान्नादिश्रोत्रियादेरनुज्ञायते अभिशस्तादेस्तु परिह्रियते | ननु तथापि सर्वशरीरेषु कर्मकर्तुश्चेतनस्यैकत्वाद्देवदत्तशरीरावच्छेदेन कर्मकारणधर्मादिकं यज्ञदत्तशरीरावच्छेदेन न ज्ञायते इत्याशङ्क्याह - || 91 || asantateścāvyatikaraḥ || 46 || brahmāṃśatvādinaikarūpatve satyapi jīvānāmanyonyabhedāt aṇutvena pratiśarīraṃ bhinnatvācca bhogavyatikaro'pi na bhavati | bhrāntabrahmajīvavāde copahitabrahmajīvavāde ca jīvānāṃ bhogavyatikarābhāva uktaḥ |
SK
उत परिच्छिन्नस्य देवदत्तस्यात्मनः कर्तुः यज्ञदत्तशरीरासन्तन्तेः सम्बन्धधर्मादेरसङ्करः ब्रह्मज्ञानापन्नानां जीवन्मुक्तानां विदेहमुक्तिपर्यन्तं देहाद्युपाधिभेदेन जीवानामणुरूपत्वेन परिच्छिन्नत्वादव्यतिकरः | बद्धजीववत्सुखदुःखात्मकप्रारब्धभोगसत्वेऽपि असाङ्कर्यं शिवज्ञानाधिक्येन च सांसारिकबद्धशुद्धवैलक्षण्यं सम्भवति | तदुक्तं शिवागमे - बद्धशुद्धादिभेदेन जीवत्रयमिदं स्मृतम् | गुरुदीक्षाविहीनश्च शिवभक्तिविवर्जितः || स्वकर्तृत्वाभिमानी तु बद्धस्स पशुरुच्यते | गुरुदीक्षां परं लब्धा कैङ्कर्यत्रयसंयुतः || शान्त्यादिसद्गुणोपेतो मुमुक्षू रागवर्जितः | शिवाधीनसुधीर्भक्तः शुद्धजीव इति स्मृतः || शिवयोग-शिवज्ञानविभवानन्दसंयुतः | प्रचण्डातपमध्यस्थशुद्धकर्पूरदीपवत् | शिवाकारे पराकारे कोटिसूर्यप्रकाशके | विलीनचित्तवृत्तिस्तु मुक्तजीव इति स्मृतः || सजीवन्मुक्त इत्युक्तो रागद्वेषविवर्जितः | इति स्पष्टमुपदिष्टम् | ननु भ्रान्तब्रह्मजीववादेऽप्यविद्याकृतोपाधिभेदाद्भोगव्यवस्थादय उपपद्यन्ते न स्वतः सम्भ्वन्तीत्याशङ्क्यामाह - || ९२ || आभास एव च || ४७ || अखण्डैकरसप्रकाशमात्ररूपस्य स्वरूपतिरोधानपूर्वकोपाधिभेदोपपादनहेतुराभास एव | प्रकाशैकस्वरूपस्य प्रकाशतिरोधानं प्रकाशनाश एवेति प्रागेवोपपादितम् | आभास एवेतिवा पाठः | तथा सति हेतव आभासाः | चकारात् पृथगात्मानं प्रेरितारं च मस्वा ज्ञाऽज्ञौ द्वावजावीशानीशौ तयोरन्यः पिप्पलं स्वाद्वत्ति इत्यादिश्रुतिविरोधश्च | अविद्यापतिः कल्पितोपाधिभेदे हि सर्वोपाधिभिरुपहितस्वरूपस्यैकत्वाभ्युपगमाद्भोगव्यतिकरस्तदवस्थ एव | किञ्च जीवानामन्तःकरणप्रतिबिम्बत्वाङ्गीकारे बिम्बप्रतिबिम्बभावयोरेकत्रावस्थानादर्शनात् | गुहां प्रविष्टौ परमे परार्धे गुहां प्रविष्टावात्मनौ हि तद्दर्शनात् इत्यादिश्रुतिसूत्रविशिष्टगुहाधिकरणविरोधाच्च तदविचारितरमणीयम् |
SK
पारमार्थिकोपाधुपहितब्रह्मजीववादेऽप्युपाधिभेदे हेतुभूतानाद्यदृष्टवशाद्व्यवस्था भविष्यतीत्याशङ्क्याह - || ९३ || अदृष्टानियमात् || ४८ || उपाधि परम्पराहेतुभूतस्यादृष्टस्यापि ब्रह्मस्वरूपाश्रयत्वेन नियमहेत्वभावादव्यवस्थैव | उपाधिभिरदृष्टैश्च स्वसम्बन्धेन ब्रह्मस्वरूपोच्छेदसम्भवात् | किञ्च अद्वैतमते जीवानां विभुत्वेन सर्वेषां प्रतिबिम्बभूतस्वशरीरेषु विद्यमानत्वाददृष्टानियमात् अदृष्टानां पुण्यपापानामनियमात् नियमाभावात् केषांचिद्दारिद्र्यं केषांचिदैश्वर्यमिति व्यवस्था न स्यात् | तस्माज्जीवानामणुत्वं बहुत्वं प्रतिशरीरस्वाभाविकभिन्नत्वं चाङ्गीकर्तव्यम् | ननु इदं फलं प्राप्नुयां इदं हरिष्यामि इदं करिष्यामि इदं न करिष्ये इत्येवं रूपाभिसन्ध्यादयः प्रत्यात्मनियतास्सन्तः स्वयोज्यदृष्टनियमहेतवो भविष्यन्ति इत्याशङ्क्याह - || ९४ || अभिसन्ध्यादिष्वपि चैवम् || ४९ || अभिसन्ध्यादिष्वपि रागद्वेषादिसाधारणमनस्संयोगसाध्येष्वप्येवमनियमः | तथा च केषांचिज्जीवानां रागवत्वं केषांचित्-द्वेषवत्वमिति व्यवस्था न स्यात् | तस्माद्दृष्टहेतुभूताभिसन्ध्यादिष्वप्युक्तादेव हेतोरनियम इति भावः | नु एष एव साधुकर्म कारयति इत्यादिश्रुतिषु जीवानां स्वातन्त्र्याभावव्यपदेशाज्जीवकृतपुण्यापुण्यफलभोक्तृत्वमीश्वरस्यैव सम्भवति | तस्य कर्माधीनप्रेरकत्वं कर्मणामनादित्वमिति चेत्तस्मास्वत्तन्त्रत्वेन कर्मजीवोभयप्रेरकत्वेन च विहिताविहितफलभोक्तृत्वं नेतरस्यैवेति चेन्न - जीवानामीश्वरवत्सर्वज्ञत्वाभावेऽपि ज्ञेयत्वेन घटपटादिवज्जडत्वाभावात् राजभृत्यवदीश्वराधीनत्वेऽपि स्वेच्छाकर्मकर्तृत्वं सम्भवति | तस्मात्तेषामेव पुण्यापुण्यफलभोक्तृत्वमनिवार्यम् | ज्योतिष्टोमेन स्वर्गकामो यजेत् कर्मचितो लोकः क्षीयते परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् सत्यं वद धर्मं चर इत्यादिश्रुतिशतेषु किंचित्कर्ता च किंचिज्ज्ञो बद्धानादिशरीरवान् | ईक्षणादिप्रवेशान्तं सृष्टिरीशेन कल्पिता | जाग्रदादिप्रपञ्चस्य सृष्टिर्जीवेन कल्पिता ||
SK
इत्यादिस्मृतिष्वपि जीवकर्तृत्वं स्पष्टमुपदिष्टम् | किञ्च - प्रभाकरप्रभानुस्यूतत्वेन पशुपक्षिमृगकीटादिचेतनव्यवहारसम्भवेऽपि न तेषां कर्तृत्वहानिः | तद्वदीश्वरनियामकत्वेऽपि चेतनत्वेन जीवानां किञ्चित्कर्तृत्वमविरोधम् | नो चेत् पूर्वोदाहृतश्रुत्युक्त्यनुहवविरोधप्रसङ्गः | तस्माज्जीवेश्वरयोरुभयोः कर्तृत्वविधायकश्रुतीनामविरोधः | जीवानां ब्रह्मांशत्वेन परिच्छिन्नत्वात् अंशांशिनोरभेदात् तस्यैव सुखदुःखव्यवस्थोपपद्यत इत्याशङ्क्याह - || ९५ || प्रदेशभेदादिति चेन्नान्तर्भावात् || ५० || यद्यपि एकमेव ब्रह्मस्वरूपम् तत् छेदानर्हं नानाविधोपाधिभिः सम्बध्यते - vyatikarastadavastha eva | pradeśabhedena sambandhe'pi sarvasya brahmapradeśatvāt tattatpradeśasaṃbandhaduḥkhaṃ brahmaṇa eva syāt | ato brahmaṇa upādhivaśena jīva iti vādo hyavicāritaramaṇīyaḥ | yato vā imāni bhūtāni jāyante jñā'jñau dvāvajāvīśānīśau iti śrautavidhinirodhena
SK
उत्पत्यसम्भवात् इत्यादिसूत्रेण भगवता वादरायणेन पूर्वमेव जीवानामजन्यत्वोपदेशात् | अत्र अंशो नानाव्यपदेशात् इत्यादिना तेषां ब्रह्मांशत्वोपदेशेन च प्रलये ब्रह्मानुप्रविष्टानामकल्पितानां स्वभावभिन्नानां सृष्टिकाले पुनराविर्भूतत्वमात्रेण ब्रह्मांश त्वमित्यङ्गीकारादवयवावयविवदंशांशित्वं नोपपद्यते | यथा लोके नानाविधपूर्ववासनाबद्धपुरुषशरीरानुप्रविष्टशुक्लरूपेण स्त्रीगर्भानुस्यूतोत्पन्नपुत्रस्य आत्मा वै पुत्रनामासि इति स्वांशत्वमुपदिष्टम् | तथास्मन्मते प्रलये ब्रह्मानुप्रविष्टजीवबहिर्भूतमात्रत्वेन स्वांशत्वाङ्गीकारात् जन्यत्वाजन्यत्वबोधकश्रुतिसूत्रबाधो न संयुज्यते | तस्मात् तयोरन्यः पिप्पलं स्वादत्ति इत्यादिश्रुतिसिद्धजीवभोक्तृत्वमविरुद्धम् | अत एव प्रदेशविशेषेण अंशांशिनोरभेदतया ब्रह्मांशत्वेन जीवानां सुखदुःखभोक्तृत्वे ब्रह्मणः परमशिवस्य भोक्तृत्ववादो निराकृतः | सोऽन्तरादन्तरं प्राविशत् अन्तः प्रविष्टः शास्ता जनानाम् ईशानः सर्वविद्यानां इत्यादिश्रौतविधिना जीवान्तर्यामित्वेन जीवनियामकत्वाङ्गीकारात् जीवकृतकर्मसिद्धेष्टानिष्टफलभोक्तृत्वं नेश्वरस्येति निर्णीयते | इति श्रीमद्यतिव्रजपरिवृढ-श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत- viśeṣādvaitasiddhāntavyavasthāpakavaiyāsikabrahmamīmāṃsāsūtrārthaprakāśake śrīkarabhāṣye virodhaparihārābhidhānasya dvitīyādhyāyasya viyadāditrayodaśādhikaraṇāvacchinna pañcāśatsūtrātmakaḥ tṛtīyaḥ pādassamāptaḥ atha śrīkarabhāṣye dvitīyādhyāyasya caturthaḥpādaḥ prāṇo'tpatyadhikaraṇam || 1 ||
SK
पूर्यपादे ब्रह्मकार्यस्य कृत्स्नस्य वियदादेर्भूतपञ्चकस्य जन्यत्वाजन्यत्वविधायकश्रुतीनां परस्परविरोधं परिहृत्य जीवस्य ब्रह्मकार्यत्वेऽपि चेतनत्वादजन्यत्वं स्वाभाविकभिन्नत्वं तत्स्वरूपं च प्रदर्श्यं तस्य तल्लिङ्गशरीरत्वस्य अर्थात् सिद्धत्वात् तद्विचारोऽत्र चरमपादे क्रियते | आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दं इत्यादौ ब्रह्मणः शिवस्य मनःप्राणात्मकस्वाभाविकलिङ्गशरीरत्वावगमात् जीवानामपि लिङ्गशरीरविशिष्टत्वं जन्यत्वं निष्प्रत्यूहम् | अतो लिङ्गशरीरभङ्गपूर्वकं नदीसमुद्रवज्जीवब्रह्मणो स्वरूपैक्यं सर्वथा न सम्भवतीत्याशङ्कायामाह - || 96 || tathā prāṇāḥ || 1 || yathā pañcamahābhūtānāṃ brahmajanyatvaṃ tathā prāṇendriyāṇāṃ brahmakāraṇatvamupapannaṃ etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ityādiśrutiśravaṇāt | asminnapi pāde pūrvapakṣe śrutīnāṃ mitho virodhenāprāmāṇyādbrahmasamanvayāsiddhiḥ siddhānte tāsāmavirodhena prāmāṇyātsamanvayasiddhiriti bodhyam | ātmana akāśassambhūtaḥ ityādipañcamahābhūtotpattiprakaraṇe prāṇendriyādyutpatyaśravaṇāt ṛṣaya ete'gre sadā sattva ete ṛṣayaḥ iti | prāṇā vā ṛṣayaḥ ityādau prāk sṛṣṭeḥ prāṇendriyasadbhāvadarśanāt ajanyatvamasandigdhatayā sūcyate | etasmājjāyate prāṇaḥ ityādau brahmakāryatvaṃ prāṇādīnāṃ pratibhāti | tasmātprāṇādyutpattiḥ yuktā vā na veti cintyate | vinigamakābhāvādasti virodhaḥ | jīvavadevetyāha pūrvapakṣī - yathā jīvo notpadyate tathendriyāṇyapi notpadyante | yathā jīvotpattiśrutirgauṇī tathā prānotpattiśrutirgauṇītyavagamyate |
SK
तथा प्राणा इति प्राण एवेत्यतिदिशति | का पुनरत्र श्रुतिः असद्वा इदमग्र आसीत् इत्यत्र तदाहुः कि तदासीदिति ऋषयो वाव ते अग्रे सदासीत् | इति तदाहु के ते ऋषय इति प्राणा वा ऋषय इति | अतो जगदुत्पत्तेः प्राक् इन्द्रियाणां सद्भावः श्रूयते | प्रणशब्दे बहुवचनादिन्द्रियाण्येवेति निश्चीयते | न चेऽयं श्रुतिः वायुश्चान्तरिक्षं चैतदमृतम् सैषाऽस्तमिता देवता यद्वायुः इतिवत् चिरकालावस्थायित्वेन परिणेतुं शक्या | असद्वा इदमग्र-आसीत् इति कृत्स्नप्रपञ्चप्रलयवेलायामप्यवस्थितत्वश्रवणात् | उत्पत्तिवादिन्यस्तु जीवोत्पत्तिवादिन्य इव नेतव्या इति | एवं प्राप्तेऽभिधीयते - तथा प्राणाः || वियदादिवदेव प्राणाश्चोत्पद्यन्ते | कुतः सदेव सौम्येदमग्र आसीत् आत्मा वा इदमग्र आसीत् एक एव रुद्रो न द्वितीयाय तस्थे यदा तम शिव एव केवलः इत्यादिषु प्राक् सृष्टेः शिवस्यैव स्थित्यवधारणात् एतस्माज्जायतेप्राणः इतीन्द्रियाणामुत्पत्तिश्रवणात् प्रागवस्थानाऽसम्भवात् | न चात्मोत्पत्तिवादवदिन्द्रियोत्पत्तिवादाः परिणेतुं शक्याः | आत्मोत्पत्तिप्रतिषेध श्रुतीनां नित्यत्वश्रुतीनां च दर्शनात् | असद्वा इदमग्र आसीत् इति वाक्येऽपि प्राणशब्दवाच्य परमात्मैव निर्दिश्यते | सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसम्विशन्ति प्राणमभ्युज्जिहते इति प्राणशब्दस्य परमात्मन्यपि प्रसिद्धेः | प्राणस्तथानुगमात् इत्यधिकरणे प्रथमाध्याये बहुधा प्रपञ्चितम् | प्राणावाव ऋषयः इति ऋषि शब्दश्च सर्वज्ञे शिवे युज्यते नत्वचेतनेष्विन्द्रियेषूपपन्नः | यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः इति श्वेताश्वतरे विश्वाधिको रुद्रो महर्षिः इति तैत्तिरीये दर्शनात् | ऋषयः प्राणाः इति बहुवचनश्रुतिः कथमुपपद्यत इत्याशङ्कायामाह - || ९७ || गौण्यसम्भवात् तत्प्राक् श्रुतेश्च || २ ||
SK
बहुवचनश्रुतिर्गौणी बह्वर्थासम्भवात्तस्यैव परमात्मनः शिवस्य सृष्टेः प्रागवस्थानश्रुतेरेव दर्शनात् | किञ्च - नमो रुद्रेभ्यो ये पृथिव्यांवेऽन्तरिक्षे ये दिवि एषामन्नं वातो वर्षभिषवस्तेभ्यो दश प्राचीर्दशदक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वांस्तेभ्यो नमस्ते नो मृडयन्तु तेऽयं द्विष्मो यश्चानो द्वेष्टि तं वो जन्मे ददामि इति शतरुद्रीये शिवस्य परब्रह्मणः लीलामङ्गलविग्रहवत्वेन पृथिव्यादिभूतेषु प्रागादिदिक्ष्वपि बहुत्वव्यवस्थापनान्न सन्देहकलङ्कः | तत्र तत्र एतस्माज्जायते प्राणः इति वाक्ये तेषां पञ्च महाभूतानां प्राणादीन्द्रियाणां चोत्पत्तिश्रवणात् इन्द्रियाणामुत्पत्तिर्मुख्यैव | एकस्मिन् वाक्ये एकस्य पदस्य क्वचिद्गौणत्वं क्वचिन्मुख्यत्वमित्यस्यासम्भव इति भावः | प्राणानां नित्यत्वे एकविज्ञानेन सर्वविज्ञान न स्यात् एकस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इत्यादिश्रुतिसिद्धकारणरूपब्रह्मज्ञानेन कार्यरूपसर्वविज्ञानप्रतिज्ञासिध्यर्थं प्राणेन्द्रियाणामपि ब्रह्मजन्यत्वं सिद्धम् | आत्मन आकाशः सम्भूतः तत्तेजोऽसृजत इत्यादि-तैत्तिरीय- tadutpattirityāśaṅkāyāṃ chāndogye teṣāmutpattidarśanāt brahmajanyatvaṃ mukhyamevetyāha - || 98 || tatpūrvakatvādvācaḥ || 3 ||
SK
ब्रह्मप्रकृतितेजोऽवन्नानि तच्छब्देनोच्यन्ते | प्राणेन मनसा च सहितायाः वाचः अन्नमयं हि सौम्यं मनः आपोमयः प्राणः तेजोमयी वाक् इत्यनेन तेजोऽवन्नत्वाबिधानादुत्पत्तिश्रुतिरुपदिष्टा | तस्मादुत्पत्तिश्रुतिसद्भावात्सृष्टेः प्रागिन्द्रियाणामभावात् तेषां पञ्चमहाभूतवज्जन्यत्वमनित्यत्वं चाचक्ष्यते | अतः श्रुतीनामविरोधः | तत् हि इदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियतेति श्रुतौ नामरूपात्मकवाग्विषयभूतवियदादिसृष्ट्यभावस्यैव निर्देशात् तदानीं वागिन्द्रियादि कार्याभावाच्च यदा तमः शिव एव केवलः इत्यादि श्रुतिशतेषु प्राक् सृष्टेः शिवस्य तत्त्वमात्रस्थितेः श्रवणात् एतस्माज्जायते प्राणो इत्यादिश्रुतिनिष्ठजन्यत्वं प्राणादीनामगौणम् | उत मोक्षदशायामपि कर्मवैराग्य गुरु चरेश्वरशेषत्व-कैङ्कर्य-पारतन्त्र्य-भूतदया- videhamuktau - gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu | karmāṇi vijñānamayaśca ātmā pare'vyaye sarva ekī bhavanti || yathā nadyaḥ sa yo ha vai paramaṃ brahma veda brahmaiva bhavati nābrahmavit kule bhavati tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto'mṛto bhavati iti śrutau liṅgaśarīravilayapūrvakanadīsamudravacchivatattvaprāptyupadeśāt sāyujyamuktau liṅgaśarīrāsadbhāvāttato hyavaidikaḥ | ākāśaśarīraṃ brahma satyātmaprāṇārāmaṃ mana ānandam ityasya śivasya parabrahmaṇaḥ prāṇeṣvāsamantādramata iti prāṇārāmaḥ manasi ānando yasya saḥ mana ānandaḥ ityanena guṇatrayātmakakarmajanyaprakṛtipariṇāmakabāhyendriyānerapekṣatayā divyaprakṛtyātmakasatyajñānānandasvarūpalīlāmaṅgalavigrahavattvena tasya liṅgaśarīrasya nityatvamanivāryam | sthirairaṅgaiḥ pururūpa ugraḥ bhadraṃ karṇebhiḥ sthirairaṅgaiḥ stuṣṭuvāṃsastanūbhiḥ iti bhagavatī śrutirevātra pramāṇam | ato bhūtabhautikakarmajanyāsuraprakṛtikajīvaliṅgaśarīrāṇāmeva janyatvaṃ mokṣadaśāyāmapi vilaya iti veditavyam | saptagatyadhikaraṇam || 2 ||
SK
एवं जीव-लिङ्गशरीरयोर्ब्रह्मजन्यत्वप्रसाधने तद्विशिष्टानि तत्त्वानि कानीत्याशङ्कायां तदङ्गशरीरस्वरूपं तद्विशिष्टानि तत्त्वानि चाधिकरणान्तरेणाह - || ९९ || सप्तगतेर्विशेषितत्वाच्च हस्तादयस्तु स्थितेऽतो नैवम् || ४ || इन्द्रियाणि सप्त कुअः सप्त प्राणाः प्रभवन्ति तस्मात् इति श्रुतौ सप्तेन्द्रियावगतेः परलोकगमनस्य विशेषितत्वादिन्द्रियाणि सप्तैव तस्मात् श्रोत्रादिज्ञानेन्द्रियपञ्चकं वागिन्द्रियमेकं अन्तःकरणमेकं एतानि सप्तेन्द्रियाणीति चेत् - हास्तादयस्तु स्थितेऽतो नैवम् हस्तादयः - पाणिपादपायूपस्थान्यपि जीवे स्थिते सति जीवेन सह शरीरे तिष्ठन्ति जीवे लोकान्तरगते सति तेन सह लोकान्तरं गच्छन्ति तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इति श्रुतौ सर्वेषामिन्द्रियाणां जीवेन सह परलोकगमन श्रवणात् | अतः अस्मात्तु कारणान्नैवं सप्तेन्द्रियाणि न भवन्ति किन्तु एकादशेन्द्रियाणीत्यर्थः | एकमेवान्तःकरणं संशयात्मकत्वात्मन इत्युच्यते निश्चाद्यात्मकत्वात् बुद्धिरिति अभिमानतत्त्वादहङ्कार इति स्मरणात्मकत्वाच्चित्तमित्युपदेशात् | तथा च न सङ्ख्याधिक्यम् | सप्त प्राणाः प्रभवन्ति तस्मात् इति सप्तेन्द्रियाणि श्रूयन्ते | क्वचित् अष्टौ ग्रहाः अष्टावतिग्रहाः इत्यष्टौ ग्रहाः | पुरुषपशुबन्धकानि इन्द्रियाणि | रागाद्युत्पत्तिद्वारा इन्द्रियाकर्पकत्वादिविषयाः अतिग्रहा इत्यर्थः | सप्त वै शीर्षण्याः प्राणा द्वाववाचौ इत्यत्र सह वाचापायूपस्थौ इति नव नववै पुरुषे प्राणाः नाभिर्दशमी इत्यत्र दश दश वै पुरुषे प्राणाः आत्म्यैकादश इत्यत्रैकादशात्मा | एवं क्वचित्त्रयोदशेन्द्रियाणि श्रूयन्ते | अथ चैकादशेन्द्रियाणीत्यत्र चिन्त्यते तानीन्द्रियाणि किं सप्तैव स्युः एवं श्रुतिविप्रतिपत्तौ संशयः - किं प्राप्तम् सप्तेति कुतः सप्त इमे लोका येषु चरन्ति इति गतेर्विशेषितत्वाच्च |
SK
गतिस्तावज्जायमानेन म्रियमाणेन च जीवेन सह लोकेषु सञ्चरणरूपा | अतः सप्तैव श्रूयन्ते | सप्त इमे लोका एषु चरन्ति प्राणा गुहाशयान्निहितास्सप्त सप्त इति वीप्सा पुरुषभेदाभिप्राया | विशेषितत्वाच्च ते गतिमन्तः प्राणाः स्वरूपतः यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह | बुद्धिश्च न विचेष्टेत तमाहुः परमां गतिम् || इति | शरीरान्तःसञ्चरणं विहाय मोक्षार्थगमनं परमा गतिः | एवं जीवेन सह जन्ममरणयो सप्तानामेव गतिश्रवणात् योगदशायां ज्ञनानीति विशेषितत्वाच्च जीवस्य करणानि श्रोत्र-त्वक्-चक्षुः-र्जिह्वा-घ्राण-बुद्धि- sapta vai śīrṣaṇyāḥ vā prāṇāḥ dvāvavāñcau ityādiṣu caturdaśaparyantaprāṇapratipādakavākyeṣu vāk-pāṇi-pāda-pāyu- गतिश्रवणाभावात् जीवस्याल्पाल्पोपकारकत्वमात्रेणौपचारिकः प्राणव्यपदेशः इति प्राप्ते प्रचक्ष्महे | हस्तादयस्तु स्थितेऽतो नैवम् | न सप्तेन्द्रियाणि अपित्वेकादश हस्तादीनामपि शरीरे स्थितस्य जीवस्य भोगोपकारणत्वात् कार्यभेदाच्च | दृश्यन्ते हि श्रोत्रादीनामिव हस्तादीनामपि कार्यभेद आदानादिः | अतः तेऽपि सन्त्येव | अतो नैवं - हस्तादयो न सन्तीत्येवं न मन्तव्यमित्यर्थः | अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव | बुध्यहङ्कारचित्तशब्दैर्व्यपदिश्यत इत्येकादशेन्द्रियाणि | अतः दशेमे पुरुषे प्राणाः आत्मैकादश इति आत्मशब्देन मनोऽभिधीयते - इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः | तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश || एकादशं मनश्चात्र * * * * * * * * | इत्यादि श्रुति-स्मृति-सिद्धेन्द्रियसङ्ख्या व्यवस्थिता | अधिकसङ्ख्यावादा मनोवृत्तिभेदाभिप्रायाः न्यूनव्यपदेशास्तु तत्र तत्र विवक्षितगमनादिकार्यविशेषप्रयुक्ताः |
SK
किञ्चात्र तु शब्देन प्राणानां सप्तत्वनिरासः | यतो हस्तो वै ग्रहः इत्यादिना हस्तादिव्यतिरिताः प्राणाः श्रूयन्ते सप्तत्वसङ्ख्याया सम्भवितत्वे सप्तत्वादि व्यतिरेके स्थितौ च सप्तत्वं इन्द्रियनिष्ठैकादशत्वसङ्ख्यायामप्यन्तर्भावयितुं शक्यते न्यूनसङ्ख्यया अधिकसङ्ख्यायामन्तर्भावसम्भवादतो नैवं मन्तव्यम् | सप्तैव प्राणाः इति सूत्रार्थः | यद्यपि ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं मनश्चैकं इत्येकादशेन्द्रियाणि विहाय हृदयाहङ्कारप्राणादीनां त्रयोदशसङ्ख्यामालिका श्रूयते | तथापि तयोरन्तःकरणप्रभेदत्वान्नाधिकसङ्ख्यापादकत्वमित्येकादशेन्द्रियाणीति निरवद्यम् | सप्त वै शीर्षण्या प्राणा इत्यत्र न सप्तोपदेशेन इन्द्रियत्वविधानम् किन्तु प्राणोपदेशेन स्थानभेदमात्रेण चतुर्णामेवेन्द्रियाणां सप्तत्वमिति न तत्त्वविरोधः | नव वै पुरुषे प्राणा नाभिर्दशमी इति वाक्यं पुरुषाकारदेहाभिप्रायं न प्राणाभिप्रायं इत्यविरोधः सिद्धः | नन्वस्य सूत्रस्य पूर्वोत्तरव्याख्यानमसङ्गतम् | सप्त प्राणाः प्रभवन्ति इति घ्राण-रसना-चक्षुः-श्रोत्र-त्वक्-मनो-वाचां सप्तत्वावगतेः | शीर्षण्या इति विशेषितत्वात् इति हेतु द्वयवैय्यधिकरण्येन सूत्रे चकारानुपपत्तेः | ये वै शीर्षण्यास्सप्त ते प्राणाः नेतरः परिसङ्ख्या इति च | अत एव तदुत्तरवाक्यव्याख्यानमप्यसङ्गतमिति चेत्तर्हि अन्यथा पूर्वोत्तरवाक्यद्वयं व्याख्यास्यामः | मरणसमये येषां सहगमनं तेषामेव भोगसाधनत्वादिन्द्रियत्वम् | तथा च ते मुख्यप्राणमनूत्क्रामन्तस्सर्वे प्राणा अनूत्क्रामन्ति इति घ्राणादीनां सप्तानामेव गतिः इति च जीवेन सहगमनश्रवणात्सप्तैवेन्द्रियाणि |
SK
ननु सर्वशब्दश्रवणात् कथं सप्तानामेव गतिश्रवणं इति चेत्तत्राह विशेषित- bhavatyeko bhavati tadā na paśyati na jighrati na śete na vadati na śṛṇoti na manute na spṛśatītyāhuriti cakṣurādīnāṃ saptānāmeva prākṛtānāṃ viśeṣitatvācca | sarvaśabdaḥ prākṛtānāṃ sarve brāhmaṇā bhojayitavyāḥ ityatra sarvaśabdo yathāvinimantritabrāhmaṇaparastadvaditi śaṅkānirāsārthaḥ yatra tvavasthāyāṃ cakṣuranuṣṭhātṛdeśaḥ sa eṣaścākṣuṣaśabdavācyaḥ | puruṣo yadā rūpādiviṣayavyāptiṃ vihāya vartate tadā nāmarūpajño bhavati | hṛdayacakṣuṣoreko bhavati pārśvasthāṃśca nāyaṃ paśyatītyāhuriti śrutyarthaḥ | taduttaravākyārthastu saptabhyotiriktā hastādayo'pi bandhakatvena śrūyante | hasto vai grahaḥ ityādinā grāhakatvaṃ bandhakatvaṃ ca hastādīnāṃ sahagamanaṃ vinā na sambhavati | sarve prāṇāḥ anūtkrāmanti iti viśeṣataḥ sarvendriyāṇāmutkrāntiśravaṇācca bhavantyekādaśotkrāntimantaḥ prāṇāḥ | na ca sarvaśabdasya prakṛtaviśeṣitasaptaprāṇaparatvaṃ kintu prakaraṇāt śruterbalīya stvāt sarvakaraṇaparatvam | sarve brāhmaṇāḥ bhojayitavyāḥ ityatra sarvabrāhmaṇabhojanāsambhavāt nimantrita brāhmaṇaparatvaṃ sarvaśabdaśruteriti nirdiśyate | pūrvavaditi || tasmādekādaśaivotkrāmantītyantaḥ prāṇā iti siddham | prāṇāṇutvādhikaraṇam || 3 || nanvindriyāṇāṃ utkrāṃtirna sambhavati teṣāṃ aparicchinnāhaṅkārajanyatvena vibhutvādityākṣepe tannirākaraṇamadhikaraṇāntareṇa karoti - || 100 || aṇavaśca || 5 || ime prāṇāḥ aṇavaḥ paricchinnā indriyāṇi ca iti śrutau prāṇendriyāṇāmaṇutvavyapadeśāt ta ete sarva eva samāssarve'nantāḥ ityānantyaśravaṇādvibhutvam | tasmādaṇutvaṃ vibhutvaṃ veti sandihyate | na cendriyāṇāmaṇutvamupapannam | indriyāṇāmaṇutve śarīragatasparśendriyasya sarvaśarīragataśītoṣṇamṛdutvādisparśagrāhakatvāyogāt pūrvoktaśrutivirodhācca vibhutvaṃ yuktamiti cedabhidhīyate -
SK
अणवश्चेति स्वभावतः इन्द्रियाणामणुत्वेऽपि चकारेण कार्यावस्थायामप्यणुत्वं निर्दिष्टम् | आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षं इति सवषामिन्द्रियाणां सूक्ष्मत्वेऽपि पदार्थसन्निकर्षतया व्यापकत्वमपि गम्यते न तस्मात् श्रुतिविरोधः | इन्द्रियाणां विभुत्वमात्रत्वे काशीस्थविश्वेश्वरदर्शनस्पर्शौ सेतुवासिनामपि स्याताम् | उत - प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इत्युक्रान्त्यादिश्रवणात् परिमितत्वेन निर्देशादुत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वात् श्रोत्रादीन्द्रियाणां प्रदेशान्तरशब्दग्रहणसामर्थ्याभावात् शतपत्रसूचीन्यायवत् शब्दादिविषयेषु क्षिप्रगत्यनुभवाच्च प्राणीन्द्रियाणामणुत्वमेवेति निश्चीयते | आनन्त्युश्रुतिस्तु अथ यो ह वै तान् अनन्तानुपास्ते इत्युपासनश्रवणात् उपास्यप्राणविशेषणभूतकार्यबाहुलघाभिप्राया | जीवस्य बहुशरीरप्रवेशनिर्गमनव्यापारविधायकश्रुतिष्वपि इन्द्रियगमनस्याप्युपदेशात् मुख्यत्वेन प्राणोत्क्रमणविधायकवाक्यमुपपन्नमित्याशङ्कायामाह - || १०१ || श्रेष्ठश्च || ६ || प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इत्यादि प्राणसंवादे शरीरस्थितिहेतुत्वेन सर्वेन्द्रियाधारत्वेन च श्रेष्ठतया निर्णीतो मुख्यप्राणः | किञ्च - सुप्तौ सर्वेन्द्रियो परमे प्राणवायुव्यापारदर्शनात् एतस्माज्जायते प्राणः इति श्रुतौ च सर्वेन्द्रियाणां प्रागेव प्राणोत्पत्तिदर्शनात् तत्प्राणेष्वन्तर्मनसो लिङ्गमाहुः इति श्रुतौ सर्वेन्द्रियाधारमानसेन्द्रियस्यापि प्राणाधारत्वनिर्देशात् इन्द्रियाणां मनो नाथः मनोनाथस्तु मारुतः इति स्मृतावपि प्राणात्मकस्य मारुतस्य सर्वाधिक्यावगमाच्च जीववत्प्राणस्यापि श्रेष्ठत्वमनिवार्यम् | अतः प्राणोत्क्रमणमुख्यत्वविधौ न विरोधः |
SK
ननु आनीदवातं स्वधया तदेकं इति प्रलयसमये सर्वाधारतया प्राणसद्भावश्रवणात् एतस्माज्जायते प्राणः इति जन्मश्रवणस्य जीवोत्पत्तिवदौपचारिकत्वमिति चेन्न - न सन्नचासच्छिव एव केवलः इत्यादिषु प्राक् सृष्टेः शिवस्य स्थित्यवधारण श्रुतिविरोधात् एतस्माब्जायते प्राणः इत्यत्र प्राणस्य पृथिव्यादितुल्योत्पत्तिश्रवणात् उत्पत्तिनिषेधाभावाच्च | आनीदवातं इत्यत्र न चैव श्रेष्ठः प्राणोऽभिप्रेत्योच्यते अपि तु परशिवब्रह्मण एकस्यैव विद्यमानत्वमुच्यते अवात इति तत्रैव श्रवणात् | पूर्वेणैव तुल्यन्यायत्वेऽपि पृथग्योगकरणमुत्तरचिन्तार्थमिति सिद्धम् | वायुक्रियाधिकरणम् || ४ || प्राणस्य सर्वश्रेष्ठत्वेऽपि स वायुर्वा तन्निष्ठस्पर्शक्रिया वा तत्स्वरूपमित्याशङ्कामविकरणान्तरेण परिहरति - || १०२ || न वायुक्रिये पृथगुपदेशात् || ७ || वायुश्च क्रिया च वायुक्रिये - प्राणो न भवतः | तस्मात् पृथगुपदेशात् एतस्माज्जायते प्राणो मनस्सर्वैन्द्रियाणि च | खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इति श्रुतौ वायुप्राणयोः पृथगुत्पत्तिव्यपदेशात् तयोर्न चैकत्वमिति सूत्रसूचितसूक्ष्मार्थः | सोऽयं श्रेष्ठः प्राणः किं महाभूतद्वितीयवायुमात्रम् तस्य वा स्पन्दरूपा क्रिया अथवा वायुरेव कञ्चनविशेषमापन्न इति विशये वायुरेवेति प्राप्तम् यः प्राणः स वायुः इति व्यपदेशात् यद्वा वायुमात्रे प्राणत्वप्रसिध्यभावात् उच्छवासनिश्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्च | किञ्च - छान्दोग्ये - मनो ब्रह्मेत्युपासीत इत्युपक्रम्य मनोरूपब्रह्मणो वाक्-पाणि-चक्षुः श्रोत्र-चतुष्पात्वात् प्राण एव ब्रह्मणः चतुर्थः पादः स वायुना ज्योतिर्षा भाति च तपति च इत्यत्र भाति अभिव्यक्तो भवति तपति स्वव्यापारे उद्गच्चह्ति इति वाय्वपेक्षया प्राणाय भिन्नत्वकथनेन निर्धारभावादिति चेत् तत् श्रुतिद्वयस्य मिथो विरुद्धतया इन्द्रियव्यापारः प्राणोऽस्त्विति प्राप्ते प्रचक्ष्महे -
SK
प्राणो न वायुक्रिया न वायुर्नापीन्द्रियव्यापार इत्यर्थः | निन्विन्द्रियेभ्यः पृथगुपदेशेष्विन्द्रियव्यापारात् प्राणो भिन्न इति चेत् न वृत्तिवृत्तिमतोरभेदात् | तर्हि | यः प्राणः स वायुः इति श्रुतिविरोधः कथं परिहरणीय इति चेदुच्यते - महावायुरेव हि प्राणादिपञ्चात्मना वर्तमानः प्राणः इत्युच्यते | तथा च विकार- vyācakṣate | uta - etasmājjāyate - khaṃ vāyuḥ iti vāyuprāṇayoḥ tata eva pṛthagvyapadeśāt vāyukriyā'pi na bhavati prāṇaḥ | na hi tejaḥ prabhṛtīnāṃ kriyā taiḥ saha pṛthak dravyatayopadiśyate | yaḥ prāṇaḥ sa vāyuḥ iti tu vāyurevāvasthāntaramāpannaḥ prāṇaḥ na tejaḥ prabhṛtivat tattvāntaramiti jñāpanārtham | ucchavāsaniśvāsādāvapi prāṇaḥ spandata iti kriyāvati dravya eva prāṇaśabdaprasiddhiḥ na kriyāmātre | iti siddham | kimayaṃ prāṇaḥ vāyorvikārassan agnivadbhūtāntaraṃ syāduta prāṇavāyvoḥ pṛthagvyapadeśātprāṇaḥ kenotpanna ityāśaṅkyāha - || 203 || cakṣurādivattu tatsahaśiṣṭyādibhyaḥ || 8 || nāyaṃ prāṇaḥ bhūtaviśeṣaḥ kintu cakṣurādivat jīvopakaraṇaviśeṣaḥ | sa copakaraṇairindriyaissaha śiṣyādibhyo'vagamyate | cakṣurādibhissahāyaṃ prāṇaḥ śiṣyate | prāṇasaṃvādādiṣu tatsajātīyatve hi taiḥ saha śāsanaṃ yujyate prāṇaśabdaparigṛhīteṣu karaṇeṣvasya viśiṣyābhidhānamādiśabdena gṛhyate | athavā ya evāyaṃ mukhyaḥ prāṇaḥ yo'yaṃ madhyaḥ prāṇaḥ ityādiṣu viśiṣyābhidhānāt | tejorūpatayā prāṇo hṛdaye tvanurūpataḥ | jīvādhīnatayā sthitvā prāṇāpānādivṛttibhiḥ | iḍāpiṅgalamārgeṇa niśvāsocchvāsarūpataḥ | bahirnirgatya nirgatya svāntargacchati ca kramāt || iti yogaśāstre prāṇasya svarūpaṃ spaṣṭamupadiṣṭam | tasmādīśvarecchayā bhūtapañcakarajoguṇodbhūtaḥ prāṇa iti veditavyaḥ |
SK
किञ्च - सर्वासु श्रुतिषु चक्षुरादीन्द्रियाणां प्राणस्य पठितत्वात् इन्द्रियसाहचर्याच्च चक्षुरादिवत्प्राणस्य भौतिकत्वं इति व्यवह्रियते | भर्ता सम्भ्रियमाणो विभर्ति एको देवो बहुधा सन्निविष्टः त्वमेको बहूननुप्रविष्टः प्राणानां ग्रथिरसि रुद्रो मा विशान्तकः इत्यादिश्रुतिभ्यः प्राणः परमेश्वराधारः | तु शब्दः उक्तशङ्कानिरासार्थः | प्राणस्य जीववन्न स्वातन्त्र्यं किन्तु राजापेक्षया मन्त्रिण इव सारय्यपेक्षया अश्वा इव इन्द्रियापेक्षया समुत्कृष्टत्वान्नोक्तदोषः | प्राणस्य भूतपञ्चकरजोगुणजन्यत्वेनापि वायूपादानकारणत्वाद्वाय्वन्तर्भूत इति च व्यवह्रियते | तथा वातुलागमे - आत्माकाशमयो ज्ञेयः प्राणोवायुमयस्तथा | तेजोमयो ह्यहङ्कारस्तथा जलमयं मनः || इति सम्यगुपदिष्टम् | चक्षुरादिवदस्यापि करणत्वे तद्वदस्यापि जीवप्रत्युपकाररूपक्रियया भवितव्यम् | सा तु न दृश्यते | तस्मान्नायं चक्षुरादिवद्भवितुमर्हति इत्याशङ्कायामाह - || १०४ || अकरणत्वाच्च न दोषस्तथा हि दर्शयति || ९ || आकरणत्वात् करणं - क्रिया तदभावात् - अक्रियत्वात् | अस्य प्राणस्य जीवप्रत्युपक्राररूपविशेषरूपक्रियारहितत्वाच्च यो दोषः उद्भाव्यते स नास्ति यत उपकारविशेषरूपां शरीरेन्द्रियधारणादिरूपां क्रियां दर्शयति श्रुतिः यस्मिन्नुत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठः इत्युक्त्वा वागाद्युत्क्रमणेऽपि शरीरस्येन्द्रियाणां च स्थितिं दर्शयित्वा प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्यामिधानात् अतः प्राणापानव्यानोदानसमानाकारेण पञ्चधावस्थितोऽयं प्राणः शरीरेन्द्रियधारणादिना जीवस्योपकरोतीति चक्षुरादिवत् उपकरणत्वं सिद्धम् | किञ्च - प्राणस्य अकरणत्वादेव न कार्याभावः कथं तर्ह्यात्मानं प्रति देहधारणेन उपकारभावः इन्द्रियान्तरेष्वसम्भावितस्यासाधारणस्य देहधारणकार्यस्य कथं निर्वाहः इति चेद्ब्रूमः -
SK
तथाहि - श्रुतिरुक्तकार्यं प्राणस्यासाधारण्यं दर्शयति | प्राणसंवादे मुख्यप्राणस्य श्रेष्ठत्वं निर्धार्य तान् वरिष्ठः प्राण उवाच मा मोहमापद्यथाः अहमेवैतत्पञ्चधात्मानं प्रविभज्येतद्वाणमवष्टभ्य विधारयामि इति बाणं शरीरं प्राणेन रक्षन्नपरं कुलायं इति शुतिरपि देहस्थितं हि प्राणमेवमाह - अपरं अनेकाशुचि कुलायं इति श्रुतिरपि देहाख्यं गृहं प्राणः स्थित्या रक्षति पुनस्सुप्तिं यातीति | उत प्राण एव प्रज्ञात्मा इद शरीरं परिगृह्योद्भासयति इति श्रुतिः | प्राणस्य शरीरोद्भासकत्वं कार्यान्तरं निर्दिशति | तस्मात्प्राणस्य मुख्यत्वमनिवार्यम् | नन्वेवं नामभेदात्कार्यभेदाच्च प्राणादीनां सत्त्वात् प्राण एक एवेति व्यवस्था कथमुपपद्यत इति आशङ्क्य तत्राह - || १०५ || पञ्चवृत्तिर्मनोवद्व्यपदिश्यते || १० || यथा कामादिवृत्तिभेदे तत्कार्यभेदेऽपि न कामादिकं मनसस्तत्वान्तरम् कामस्सङ्कल्पो विचिकित्साश्रद्धाऽश्रद्धाधृतिरधृतिह्रीर्धीर्भीरित्येतत्सर्वं मन एव इति वचनात् | एवं प्राणोऽपानोव्यान उदानस्समानः अन इत्येतत्सर्वं प्राण एव इति वचनादपानादयोऽपि प्राणस्यैव वृत्तिविशेषाः न तत्त्वान्तरमित्यवगम्यते | किञ्च - प्राणस्योच्छास-निश्वास-सर्वशरीरक्रियोत्क्रान्त्याख्यानि चत्वारि कार्याणि | पञ्च पञ्चकार्यभक्षितान्नादिरसानां समत्वेन सर्वाङ्गेषु नयनमपेक्ष्य पञ्चविधकार्यभेदेऽपि कारणरूपप्राणवायुरेक एव | जडस्य प्राणस्य कार्यरूपपरिणामसत्त्वाभावेऽपि तद्विशिष्टतया प्राणलिङ्गात्मकस्य परशिवस्य सत्त्वात् तस्य क्रियाकारित्वमविरोधम् | प्राणस्य प्राणः इत्यादिश्रुतिश्रवणात् तमुत्क्रामन्तं इति श्रुतौ प्राणस्योत्क्रान्तिहेतुत्वेन सूक्ष्मत्वमिति चेत्सर्वेषां सर्वशरीरव्यापकत्वेन तस्यैव महत्त्वावगमात् अणुरूपस्य व्यापकत्वायोगात् सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण इति श्रुतिव्यपदेशाच्च उत्क्रान्तिश्रुत्या अणुत्ववादो ह्यसङ्गत इत्याशङ्क्याह - || १०६ || अणुश्च || ११ ||
SK
प्राणे सर्वं प्रतिष्ठितं सर्वं हीदं प्राणेनावृतम् इत्यादिश्रुतिश्रवणात् प्राणस्य महत्परिमाणमेवेति यत्तदयुक्तम् | प्राणस्तु हृदये जीवसूक्ष्मरूपेण स्थित्वा प्राणापानादिवृत्या बृहत्परिमाण इत्यविरुद्धम् | तस्य महत्वे तमुत्क्रामन्तं सर्वे प्राणा उत्क्रामन्ति इत्यादिबहुश्रुतियुक्त्यनुभवप्रमाणैः प्राणोत्क्रमणस्य दर्शनात् महत्वमात्रत्वे उत्क्रान्त्यसम्भवाच्च प्राणः अणुश्चेति निश्चीयते | सम एभिस्त्रिभिर्लोकैः इति श्रुतिस्तु सर्ववायुपरा नाध्यात्मिकवायुपरेत्यविरोधः | किञ्च - आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दम् शान्तिसमृद्धममृतम् इति श्रुतिदर्शनात् परशिवकलाभिव्यक्ताप्राकृतपञ्चब्रह्ममयसकलजीवनियामकचिदाकाश- mahatvaśrutiriti veditavyā | tasyāmṛtatvavyapadeśenotkrāntyasaṃbhavāt prākṛtarajoguṇajanyatvābhāvācca | jyotirādyadhikaraṇam || 5 || maheśvarasyaiva jīvakṛtakarmānusāreṇa indriyaprerakatvapratipādanam jaḍatvācca pradhānasya jagatkāraṇatvaṃ purā nirastamato hyacetanānāṃ prāṇendriyāṇāṃ svataḥ svavyāpārapravartakatvaṃ kathamupapadyata ityāśaṅkāyāmadhikaraṇāntareṇāha - || 107 || jyotirādyadhiṣṭhānantu tadāmananāt prāṇavatā śabdāt || 12 || tu śabdo'tra niścayārthakaḥ | cakṣurādīndriyāṇi jyotirādīnāṃ sūryādidevatānāmadhiṣṭhānāni nivāsasthānāni kutaḥ tadāmananāt | agnirvāgbhūtvā mukhaṃ prāviśat iti śrutau tāsāṃ sūryādidevatānāṃ āmananāt mukhādisthāneṣu praveśakathanāt prāṇavatā jīvena saha sūryādidevatānāṃ paraśivāntaryāmitayā indriyaprerakatvaṃ uta svātantryeṇa kasmāt śabdāt | ya ādityamantaro yamayati sa ta atmāntaryāmyamṛtaḥ eko viṣṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ īśvarassarvabhūtānāṃ ityādiśrutiṣu indriyāmimāniviṣṇvādisarvadevatāntaryāmitayā maheśvarasyaiva jīvakṛtakarmānusāreṇa indriyaprerakatvapratipādakaśrutibalādetadupapannamiti | sūkṣmārthaḥ |
SK
श्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिः यत्परिणाम इयत्ता उक्तस्तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वं च पूर्वमेव अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यां इत्यनेन सूत्रेण प्रसङ्गादुपपादितम् | जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकप्रसिद्धम् | एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते इत्यादिश्रुतिसिद्धञ्च | एवमिह आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत् तत्र चक्षुषा रूपाणि पश्यति इत्यादिश्रुतिषु परमेश्वरादितरजीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तं उत परायत्तम् इति विषयः | तत्र चक्षुषा रूपाणि पश्यति आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत् इति श्रुतिदर्शनाज्जीवसूर्यादीनामेव प्राणेन्द्रियप्रेरकत्वम् | शिवस्य परब्रह्मणस्तत्प्रेरकत्वे भोक्तृत्वप्रसङ्गेन जीवस्य भोक्तृत्वं न स्यात् तथा चेत्पुण्यपापकर्मफलभूतसुखदुःखात्मक-स्वर्ग-नरक- prāṇādiprerakatvamiti prāpte pracakṣmahe -
SK
ज्योतिराद्यधिष्ठानमिति प्राणवता जीवेन सह ज्योतिरादीनां सूर्यवह्यून्यादिदेवतानां प्राणादिविषयमधिष्ठानं तदामननात् तस्य परमात्मनः शिवस्य आमननाद्भवति | आमननम् - आभिमुख्येन मननम् | तच्च परमात्मनः सङ्कल्पादेव सम्भवति | ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी इत्यादिश्रुतिषु सवितुः - सूर्यस्य वरेण्यं - वरणीयमुपासनीयं इत्यादिना सूर्यान्तर्यामितया परमेश्वरस्य प्रेरकत्वदर्शनात् तत्सङ्कल्पादेव सर्वेषां इन्द्रियाधिष्ठानदेवतानां प्रयोजकत्वमित्यर्थः | कुतः शब्दात् - पादादीन्द्रियाणां विष्ण्वाद्यभिमानिदेवतानां जीवात्मनश्च स्वकार्येषु परमपुरुषशिवमननायत्तत्त्वशास्त्रात् | यथा अन्तर्यामिब्राह्मणे योऽग्नौ तिष्ठन्नग्नेरन्तरः यमग्निर्न वेद यस्याग्निश्शरीरं योऽग्निमन्तरो यमयति स त आत्मान्तर्याम्यमृतः यो वायौ तिष्ठन् य आदित्ये तिष्ठन् य आत्मनि तिष्ठन् यश्चक्षुषि तिष्ठन् इत्यादिना सर्वान्तर्यामित्वं सर्वनियामकत्वं चोपदिष्टम् | यो रुद्रोऽग्नौ यो अप्सु भीषास्माद्वातः पवते भीषोदेति सूर्यः | भीषास्मादन्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः || न तत्र सूर्यो भाति न चन्द्रतारका नेमा विद्युतो भान्ति कुतोऽयमग्निः तमेव भान्तमनुभाति सर्वं तस्य भासा सर्ममिदं विभाति एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादिषु शिवस्य सर्वान्तर्यामित्वं सर्वभयहेतुत्वं सर्वप्रकाशकत्वं सर्वाधारत्वं च स्पष्टमुपदिष्टम् | अतो जीवविष्ण्वादिभूतानां स्वातन्त्र्येण प्राणेन्द्रियप्रेरकत्वमनुपपन्नमिति निर्दिष्टम् | ननु स वै वाचमेव प्रथमामात्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् इत्यादिना वागादीनामग्न्यादिभावापत्तिकथनात् अग्न्यादिभावस्य तदधिष्ठातृकत्वमेव स्यात् अतः प्राणदेवतयोरधिष्ठात्रधिष्ठेयभाव एवोपपन्न इत्याशङ्कायामाह - || १०८ || तस्य च नित्यत्वात् || १३ ||
SK
सर्वेषां परशिवाधिष्त्ःआनत्वेन नित्यत्वात् स्वरूपानुबन्धित्वेन नियतत्वाच्च तत्सङ्कल्पादेवैषामधिष्ठातृत्वमवर्जनीयम् | तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य तच्च त्यच्चाऽभवत् इत्यादिना शिवस्य परमपुरुषस्य स्वाभाविकचिच्छक्तिविशिष्टस्य स्वतन्त्रस्य नियन्तृत्वेन सर्वचिदचिद्वस्तुप्रवेशस्वरूपानुबन्धित्वं स्मर्यते | तस्मात्प्राणेन्द्रियदेवतानियामकत्वं तदन्तर्यामित्वं च नेतरस्येति सिद्धम् | ननु शिवस्य परब्रह्मणः जीवादिनियामकत्वे तस्यैव कर्तृत्वावगमात् जीवकृतपुण्यापुण्यफलभोक्तृत्वमपि तस्यैवेति चेन्न | इन्द्रियादिप्रेरणे सर्वदा जीवस्यैव स्वतन्त्राभिमानित्वेन नेतरस्य तदिन्द्रियजन्यकर्मफलभोक्तृत्वम् | किञ्च - तदिन्द्रियाद्यधिष्ठानप्रभाकरविष्ण्वादिदेवतान्तर्यामितया शिवस्य जीवकृतकर्मानुसारेण तदिन्द्रियप्रेरकत्वसम्भवात् न तत्कृतकर्मफलभोक्तृत्वमीश्वरस्य | तयोरन्यः पिप्पलं स्वादत्ति अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः इति भगवती श्रुतिरपि तथैवोपदिशति | तस्मान्न शङ्काकलङ्कः | त इन्द्रियाणि तद्व्यपदेशाधिकरणम् || ६ || प्राणमनसोः इन्द्रियादधिकत्वप्रतिपादनम् हन्तास्यैव सर्वं रूपनाम त एतस्यैव सर्वे रूपमभवन्वागादय एतस्यैव प्राणस्य रूपं पञ्चधा बभूवुः इति श्रुतौ प्राणेन्द्रिययोरेकत्वोपदेशात् प्राणेस्येन्द्रियत्वं स्यादित्याशङ्क्याह - || १०९ || त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् || १४ || एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इत्यत्र प्राणेन्द्रियाणां तत्त्वान्तरत्वं प्रतीयते | हन्तास्यैव सर्वे रूअमसामेति ते एतस्यैव सर्वे रूपमभवत् इति श्रुतौ तु मुख्यप्राणत्वमिन्द्रियाणां बोध्यते | तस्मात् प्राणेन्द्रियाणामेकत्वमुत पृथक्त्वं वेति सन्दिह्यते |
SK
मुख्यप्राणस्येन्द्रियत्वं युक्तम् - एतस्माज्जायते प्राणः इत्यत्र मानसेन्द्रियाणां पृथग्व्यपदेशेऽपि तयोर्न तत्त्वान्तरत्वम् | हन्तास्यैव सर्वे रूपमसाम इति श्रुतेर्बलीयस्त्वात् प्राणस्य करणत्वमुपपन्नमिति प्राप्तेऽभिधीयते | त इन्द्रियाणीति | प्राणस्तत्वान्तरमिन्द्रियेभ्य इति | तत्र हेतुस्तद्व्यपदेशादुक्तहेतुमितरेण सूत्रभागेन विवृणोति | श्रेष्ठान् मुख्यप्राणादन्ये ते प्रकृतावागादयः प्राणेन्द्रियाणीत्युच्यन्ते न प्राणः एतस्माज्जायते प्राणः इत्यादौ वैलक्षण्योपदेशात् | नन्वयं भेदव्यपदेशः इन्द्रियमनसोरपि समान इत्युक्तमिति चेन्न मनः षष्ठानीन्द्रियाणि इति स्मृत्या मानसेन्द्रिययोस्तत्वान्तरत्वाभावाभ्युपगमात् | न च प्रकृतेऽपि हन्तास्यैव इति श्रुतेरिन्द्रियाणां प्राणात् तत्त्वान्तरत्वाभावाभ्युपगमः | त एतस्यैव सर्वे रूपाभवन् तस्मादेत एतानाख्यायन्ते प्राण इति वाक्यशेषेणेन्द्रियेषु प्राणशब्दस्य लाक्षणिकत्वप्रतिपादनेन प्राणेन्द्रियाणां तत्त्वान्तरत्वाभ्युपगमात् | न हि इन्द्रियेभ्यस्तत्वान्तरे चक्षुरिन्द्रियशब्दो लाक्षणिको दृष्टः | तस्मात् त एतस्यैव सर्वे रूपमभवन् इत्यनेन प्राणाधीनचेष्टत्वं इन्द्रियाणां दृश्यते न तद्व्यापारत्वम् | किञ्च - भेदश्रुतेः वागादीन्द्रियप्रकरणमुपसंहृतम् | अथ हेममासन्यं प्राणमूचुः इति भिन्नप्रकरणे प्राणस्येन्द्रियेभ्यो भेदश्रवणात् प्राणव्यापारत्वमिन्द्रियाणामित्युपदिश्यते | अथ ह आस्ये भवमासन्यमिमं प्राणं वागादय ऊचुः इति प्राणेन्द्रियाणां तत्त्वान्तरत्वमुपदिष्टम् | कुतः वैलक्ष्यानुभवद्योतनात् | सुप्तौ प्राणस्येन्द्रियलयेऽपि व्यापारदर्शनादतो नोदाहृतवाक्यविरोध इति सिद्धम् | अपि च - श्रेष्ठादन्येष्वेव प्राणेषु तद्व्यपदेशात् इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः इत्यादिभिश्चक्षुरादिषु समनस्केष्वेवेन्द्रियशब्दो व्यपदिश्यते | तस्मात् श्रेष्ठव्यतिरिक्ता एव प्राणास्तथापि नेन्द्रियान्तर्भूतत्वम् | अस्मिन्नर्थे हेत्वन्तरमाह - || ११० || भेदश्रुतेर्वैलक्षण्याच्च || १५ ||
SK
एतस्माज्जायते प्राणः इत्यादिबहुश्रुतिबलात् सुप्ताविन्द्रियवत्कारणशरीरे मनसो लयानुभवेऽपि मनः षष्ठानीन्द्रियाणि इत्यादिस्मृतेर्दुर्बलत्वात् मनस इन्द्रियत्वं न युज्यते | इन्द्रियाणां मनो नाथः मनोनाथस्तु मारुतः इन्द्रियेभ्यः परं मनः इत्यादिश्रुत्यनुकूलबहुस्मृतिदर्शनान्मनसो वैलक्षण्यम् | तत्प्राणेष्वन्तर्मनसो लिङ्गमाहुः अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम् इत्यादिश्रुतिशतेषु प्राणादधिकस्थितत्वोपदेशात् | किञ्च - साङ्ख्ययोगशास्त्रेषु सूक्ष्मभूतपञ्चकतत्त्वार्धेन मानसोत्पत्तेः तद्भिन्नार्धेन ज्ञानेन्द्रियोत्पत्तेश्च निर्देशात् सूक्ष्मभूतपञ्चकरजोगुणार्धेन प्राणोत्पत्तेस्तद्भिन्नार्धेन कर्मेन्द्रियोत्पत्तेश्च द्योतनात् आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षं इति न्यायेन सर्वेन्द्रियव्यापकत्वेन मनस इन्द्रियत्वमौपचारिकम् | तस्मात्प्राणमनसोरिन्द्रियादधिकत्वं निष्प्रत्यूहम् | संज्ञामूर्तिकॢप्त्यधिकरणम् || ७ || त्रिवृत्करणकर्तुः परमात्मनः शिवस्य चराचरसृष्टिहेतुत्वसमर्थनम् हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् नारायणाद्ब्रह्मा जायते इत्यादौ हिरण्यगर्भनारायणादीनां जगत्कारणत्वावगमात् एतस्माज्जायते प्राणः इत्यादिश्रुतिनिष्ठजगज्जन्मादिकारणत्वं परब्रह्मणश्शिवस्यैव कथमुपपद्यत इति आशङ्कायामधिकरणान्तरेणाह - || १११ || संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् || १६ ||
SK
त्रिवृत्कुर्वतः - त्रिवृत्करणकर्तुः परमात्मनः शिवस्य सकाशादेव संज्ञामूर्तिकॢप्तिनामरूपात्मकचराचरसृष्टिर्भवति | कस्मात् उपदेशात् | सेयं देवतैक्षत इति श्रुतौ परमात्मनश्शिवस्यैव नामरूपात्मकशरीरसृष्टिकर्तृत्वोपदेशात् हिरण्यगर्भविष्ण्वादिकर्तृत्वविधायकानां श्रुतिस्मृतिपुराणवाक्यानां अवान्तरसृष्टिविषयत्वमिति वायवीयसंहितादिवाक्यानुसारेण जन्माधिकरणे बहुधा प्रपञ्चितम् | तत्रापि परमशिव एव हिरण्यगर्भ-विष्णु-कालरुद्रशरीरेषु स्थित्वा स्थावरजङ्गमात्मकजगज्जन्मादिकं करोतीति सूत्रसूचितसूक्ष्मार्थः | पूर्वत व्योमाद्यन्तर्यामितया शिवस्य परब्रह्मणः पवनादिकारणत्वमुपदिष्टम् ध्यायीतेशानं प्रध्यायितव्यम् इत्यादिना ब्रह्मादिकारणत्वं तस्यैव व्यपदिष्टम् | अथापि तदयान्तरसृष्टौ तदन्तर्यामितयास्थावरजङ्गमात्मक जगत्कारणत्वं तत्रानुक्तम् | तस्मादत्राधिकरणान्तरे निर्णीतम् - यो रुद्रोऽग्नौ यो अप्सु अहमेकः प्रथममासम् | वर्तामि च नान्यः कञ्चिन्मत्तो | व्यतिरिक्तः सोऽन्तरादन्तरं प्राविशत् इत्यादौ शिवस्य सकलपूर्वभावित्वसर्वान्तर्यामित्वाद्यनन्यसाधारणधर्मोपदेशात् | धाता यथापूर्वमकल्पयत् दिवं च पृथिवीं चान्तरिक्षम् | इत्यादिना हिरण्यगर्भस्य जगत्कारणत्वावगमात् नारायणात् ब्रह्मा जायते इत्यादौ नारायणस्य चतुर्मुखादिकारणत्वदर्शनात् | तत्तेज ऐक्षत बहु स्यां प्रजायेय इति तदापोऽसृजत तथा आपो ऐक्षन्त तथान्नमसृजत इत्यादौ च वह्न्यादिभूताभिमानदेवतानां कारणत्वनिर्देशात् विज्ञानाध्येव स्वल्विमानि भूतानि जायन्ते इत्यादौ जीवस्य भूतकर्तृत्वद्योतनाच्च शिवस्य हिरण्यगर्भादीनां वा सर्वभूतजगज्जन्मादिकारणत्वमिति सन्दिह्यते | हिरण्यगर्भस्समवर्तताग्रे इत्यादौ प्रजापतिशब्दस्य हिरण्यगर्भं एव रूढत्वात् नारायणात् ब्रह्मा जायते इत्यादौ नारायणस्यैव सर्वकारणत्वद्योतनात् |
SK
किञ्च - अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि इति जीवकर्तृकत्वश्रवणात् न हि परा देवता स्वेन रूपेण नामरूपे व्याकरवाणीत्यैक्षत अपि तु स्वांश भूतेन जीवरूपेण अनेन जीवेनात्मना इति वचनात् हिरण्यगर्भादीनामेव जगज्जन्मादिकारणत्वम् | नन्वेवं चारेणानुप्रविश्य परबलं सङ्कलयानीतिवत् व्याकरवाणीत्युत्तमपुरुषः कर्तृस्थक्रियश्च प्रविशतिर्लाक्षणिकः स्यात् | नैवम् | तत्र राजचारयोः स्वरूपभेदाल्लाक्षणिकत्वम् इह तु जीवस्यापि स्वांशत्वेन स्वरूपत्वात् तेन रूपेण प्रवेशो व्याकरणं चात्मन एवेति न लाक्षणिकत्वप्रसङ्गः | न च सहयोगलक्षणेयं तृतीया कारकविभक्तौ सम्भवन्त्यामुपपदविभक्तेरन्याय्यत्वात् | न च करणे तृतीया ब्रह्मकर्तृकयोः प्रवेशव्याकरणयोर्जीवस्य साधकतमत्वाभावात् | न च जीवस्य कर्तृत्वं प्रवेशमात्रे पर्यवस्यति नामरूपव्याकरणन्तु ब्रह्मण एव - इति शक्यं वक्तुम् क्त्वाप्रत्ययेन समानकर्तृकत्वप्रतीतेः | जीवस्य स्वांशत्वेन स्वरूपत्वेऽपि परस्रूपव्यावृत्यर्थः अनेन जीवेन इति पराक्त्वेन परामर्शः | अतो हिरण्यगर्भकर्तृकेयं नामरूपव्याक्रिया तस्मात् - नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् | वेदशब्देभ्य एवादौ देवादीनां चकार सः || इत्यादिस्मृतिषु चतुर्मुखकर्तृकसृष्टिप्रकरणे नामरूपव्याकरणं सङ्कीर्त्यते | अत एव जीवस्य वा समष्टिरूपहिरण्यगर्भस्य वा तत्कारणभूतनारायणस्य वा नामरूपव्याकरणं समञ्जसमिति प्राप्ते प्रचक्ष्महे - || संज्ञामूर्तिकॢप्तिस्तिवित् || तु शब्दः पूर्वपक्षं व्यावर्तयति | संज्ञामूर्तिकॢप्ति - नामरूपव्याकरणम् | तत्त्रिवृत्कुर्वतः परब्रह्मण एव तस्यैव नामरूपव्याकरणोपदेशात् | सदेव सौम्येदमग्र आसीत् इत्यत्र
SK
सच्छब्दवाच्यः महाप्रलयसाक्षी सर्वकारणश्शिव एव | कालत्रयावाध्यत्वेन तस्यैव मुख्यत्वं ऋतं सत्यं परं ब्रह्म इत्यादिश्रुतिदर्शनात् | अघान्तरसृष्ट्यादिकारणत्वमपि नान्यस्योपपन्नम् | अण्डं हिरण्मयं मध्ये समुद्रं रुद्रस्य वीर्यात्प्रथमं बभूव तस्मिन् ब्रह्मविष्णू जायेते जातवेदाः इति श्रुतौ त्रिवृत्करणेन परमशिवस्तेजोऽण्डमुत्पाद्य तत्र पश्चाच्चतुर्मुखादिसृष्ट्युपदेशात् हिरण्यगर्भादीनां त्रिवृत्करणकारणत्वं नोपपन्नम् | अथर्वणशिखायामपि ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैः सर्वैश्वर्यसंपन्नः सर्वेश्वरः शम्भुराकाशमध्ये इति | अथर्वशिरसि प्रथमखण्डे - सोऽब्रवीदहमेकः प्रथममासं वर्तामि च भविष्यामि च | नान्यः कश्चिन्मत्तो व्यतिरिक्तः | सोऽन्तरादन्तरं प्राविशत् इत्युपक्रम्य सर्वञ्च मामेव यो वेद स सर्वं वेद इत्यन्तेन सर्वचिदचित्प्रपञ्चानुप्रविष्टतया सर्वशब्दवाच्यत्वमुपदिश्य द्वितीयखण्डे च पूर्वानुप्रवेशादेव यो रुद्रः स भगवान् यच्च ब्रह्म यस्मै नमो नमः यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै नमो नमः इत्यारभ्य ब्रह्म-विष्णु-महेश्वरेन्द्र-विनायकादि- sarvaśabdavācyatvaṃ tasyaivopapannam | manusmṛtau - apa eva sasarjādau tāsu vīryamavāsṛjat | tadaṇḍamabhavaddhaimaṃ sahasrārkasamaprabham || tasmin jajñe svayaṃ bramā sarvaloka pitāmahaḥ | āpo nārā iti proktā āpo vai narasūnavaḥ || tā evāyatanaṃ tasya tato nārāyaṇaḥ smṛtaḥ || nārāyaṇaḥ paro'vyaktādavyaktādaṇḍasambhavaḥ | aṇḍasyāntastrayo lokāḥ saptadvīpā ca medinī || iti | śaivapurāṇe - rudrasaṃjñasya devasya rūpe mūrtiḥ prajāyate | tena kṣiptaṃ rase vīryaṃ paramūrtyabhimāninā || tadaṇḍamabhavaddivyaṃ sahasrakiraṇaprabham | viṣṇustatrāviśatsākṣāt mama śaktestu vaibhavāt || punarnarāyaṇākhyaṃ me niyogātprāptavānasau | imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati ||
SK
आपस्सूक्ष्मो रसो ज्ञेयः रसो नारः प्रकीर्तितः | नरहेतुः परो ब्रह्मन् नरः साक्षाच्छिवो मतः || नारमस्यायतनं प्रोक्तं तेन नारायणः स्मृतः | ब्रह्मापि नरशार्दूल गन्धमूर्तिस्समाविशत् || किञ्च - श्रुत्यन्तरेऽपि तेजोऽभिमानी रुद्रः अपस्सृजति | तासु च वीर्यं निक्षिपति | तासु तत्त्वसहितो विष्णुरभिवर्तते आपो नरा | नरो रुद्रः इति रुद्रसम्भूतजलतत्त्वायतनत्वेन विष्णोर्नारायणसंज्ञा उपदिष्टा | वेदान्तेषु हिरण्यगर्भात्पूर्वमेव सूक्ष्मभूतोद्भूतलिङ्गशरीरान्तरमेव त्रिवृत्कृतस्थूलाण्डे वृत्तिव्यपएशात् न सर्वथा हिरण्यगर्भादीनां त्रिवृत्कृताण्डहेतुत्वं निर्दिश्यते | उत त्रिवृत्करणं कुर्वत एव वा नामरूपव्याकरणमुपदिश्यते | अनेन जीवे नात्मनानुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इति समानकर्तृकत्वप्रतीतेः | त्रिवृत्करणन्तु चतुर्मुखस्याण्डान्तर्वर्तिनो न संभवति | त्रिवृत्कृतैस्तेजोऽवन्नैर्ह्यण्डमुत्पद्यते | चतुर्मुखस्य चाण्डे सम्भवः स्मर्यते | तस्मिन्नण्डेऽभवद्ब्रह्मा सर्वलोकपितामहः इति | अतः त्रिवृत्करणं शिवस्यैव | तत्समानकर्तृकं नामरूपव्याकरणं च तस्यैवेति विज्ञायते | कथं तर्हि अनेन जीवेनेति संगच्छते आत्मना जीवेन इति सामानाधिकरण्यात् जीवशरीरकं परब्रह्मैव जीवशब्देनाभिधीयते | यथा तत्तेज ऐक्षत अपोऽसृजत ता आप ऐक्षन्त ता अन्नमसृजन्त इति तेजःप्रभृतिशरीरकं परमेव ब्रह्माभिधीयते | यो रुद्रोऽग्नौ इत्यादिना सर्वान्नर्यामित्वं तस्यैव स्पष्टमुपदिष्टम् | अष्टमूर्तित्वं वेदशास्त्रपुराणेषु तस्यैव प्रसिद्धम् | तस्माज्जीवसमष्टिभूतहिरण्यगर्भशरीरकस्य परब्रह्मण एव कर्मेदं
SK
नामरूपव्याकरणम् | एवञ्च प्रविश्य नामरूपे व्याकरवाणि प्रविशतिरुत्तमपुरुषश्चापीह मुख्वार्थावेव भवतः | प्रवेशव्याकरणयोः समानकर्तृकत्वमप्युपपद्यते | चतुर्मुखकर्तृकसृष्टिप्रकरणे नामरूपव्याक्रियोपदेशश्चोपपद्यते | अथ सेऽयं देवता इत्यादिवाक्यस्यायमर्थः - nāmarūpo vyākaravāṇi devādivicitrasṛṣṭiṃ tannāmadheyāni ca karavāṇi tadarthamanyonyasaṃsargamaprāptānāṃ eṣāṃ tejo'vannānāṃ viśeṣasṛṣṭyasamarthānāṃ tatsāmarthyāyaikaikāṃ trivṛtaṃ karavāṇi iti | tasmāt śivasyaiva parabrahmaṇaḥ karmedaṃ nāmarūpavyākaraṇam | atha syānnāmarūpavyākaraṇasya trivṛtkaraṇenaikakartṛkatvātparamātmakartṛkatvamiti na śakyate vaktu trivṛtkaraṇasyāpi jīvakartṛkatvasambhavāt | aṇḍasṛṣṭyuttarakāle hi caturmukhasṛṣṭajīveṣu trivṛtkaraṇaprakāra upadiśyate | yathā nu khalu saumyemāstisro devatāḥ puruṣaṃ prāpya trivṛtrivṛdekaikā bhavati tanme vijānīhi iti annamaśitaṃ tredhā vidhīyate | tasya yaḥ sthaviṣṭo bhāgastatpurīṣaṃ bhavati | yo madhyamastanmāṃsaṃ yo'ṇiṣṭhastanmanaḥ ityādinā tathā pūrvasminnapi vākye yadagne rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya ityādinā caturmukhasṛṣṭāgnyāditya-candra-vidyutsu trivṛtkaraṇaṃ pradarśyate | nāmarūpavyākaraṇottarakālaṃ ca trivṛtkaraṇaṃ śrūyate | seyaṃ devatemāstisro devatāḥ anena jīvenātmanānupraviśya nāmarūpe vyākarottāsāṃ trivṛtam trivṛtamekaikāmakarot iti tatrāha - trivṛtkaraṇasvarūpanirūpaṇam || 112 || māṃsādibhaumaṃ yathā śabdamitarayośca || 17 || pūrvatra trivṛtkaraṇahetutvaṃ hiraṇyagarbhāṃdīnāmastītyāśaṅkāyāṃ tadativyāptivāraṇārthaṃ avāntarasṛṣṭyādiṣvapi anena jīvenātmanānupraviśya ityādinā hiraṇyagarbhaviṣṇvādijīvaśarīrānupraviṣṭatayā śivasya parabrahmaṇaḥ tatkartṛtvaṃ sādhitam | tattrivṛtkaraṇaṃ kimityākāṅkṣāyāṃ etatsūtrārambhaḥ - समासस्समुदाय इति यावदिति श्रुत्यर्थः | इमास्तिस्रस्रिवृता देवताः
SK
पुरुषशरीरं प्राप्य त्रिवृत्कार्यत्रयरूपेणैकैका देवता तेज-आदिलक्षणा अवर्तत इति द्वितीयः श्रुत्यर्थः | तथाहि - पृथिव्याः व्रीहियवादिरूपायाः पुरुषेण अशितायाः कार्यत्रयं शरीरे वर्तते | पुरीषं मांसं मनश्चेति | एवं पीतानामपां मूत्रलोहितप्राणश्चेति कार्यत्रयं तेजोऽग्न्यादिदीपितस्य घृतादिरूपस्य कार्यत्रयं अस्थि-मज्जा-वाक्चेति | प्राणे जलाधीनस्थितिमत्वमात्रेण जलकार्यत्वव्यपदेशः तस्य वायुकार्यत्वेन प्रसिद्धेः | एवं मनसोप्यन्नभक्षणे स्वास्थ्यमात्रेण तत्कार्यत्वं वाचोऽपि ज्ञानानुकूलत्वसाम्येन तेजःकार्यत्वं व्यपदिश्यते | एवं देहे कार्यत्रयरूपेण वर्तनमेवाध्यात्मिकं त्रिवृत्करणमिति तदिदमाह सूत्रकारः मांसादीति -
SK
यदुक्तमण्डसृष्ट्युत्तरकालं चतुर्मुखसृष्टदेवतादिविषयोऽयं तासां त्रिवृतं त्रिवृतमेकैकामकरोत् इति त्रिवृत्करणोपदेश इति तन्नोपपद्यते अन्नमशितं त्रेधा विधीयते इत्यत्र मांस-मनसोः पुरीषादणुत्वेनाणीयस्त्वेन च व्यपदिष्टयोः कारणानुविधायित्वेन आप्य तेजसत्वप्रसङ्गात् आपः पीताः इत्यत्रापि मूत्रप्राणयोः स्थविष्ठाणीयसोः पार्थिवत्वतैजस्त्वप्रसङ्गाच्च न चैवमिष्यते | मांसासि हि भौममिष्यते | पुरीषवन्मांसमनसी अपि भौमे - पार्थिवे इष्येते | अन्नमशितं त्रेधा इति प्रक्रमात् | यथा शब्दमितरयोश्च इतरयोरपि आपः पीताः तेजोऽशितं इति पर्याययोर्यथाशब्दं विकारा इष्यन्ते | आपः पीतास्त्रेधा विधीयन्ते इत्यपामेव त्रेधा परिणामः शब्दात् प्रतीयते | तथा तेजोऽशितं त्रेधा विधीयते इत्यपि तेजस एव त्रेधा परिणामः शब्दात् प्रतीयते | अतः पुरीष-मांस-मनांसि पृथिवीविकाराः मूत्र-लोहित-प्राणाः अब्विकाराः अस्थि-मज्जा- tejomayī vāk | iti vākyaśeṣavirodhācca | ataḥ tāsāṃ trivṛtaṃ trivṛtamekaikāmakarot ityuktaḥ trivṛtkaraṇaprakāraḥ annamaśitamityādinā na pradarśyate | tathā sati manaḥprāṇavācāṃ trayāṇāmapyaṇīyastvena taijasatvāt annamayaṃ hi somya manaḥ ityādivirudhyeta | prāgeva trivṛtkṛtānāṃ pṛthivyādīnāṃ puruṣaṃ prāptānāṃ annamaśitamityādinā ekaikasya tredhā pariṇāma ucyate | aṇḍasṛṣṭeḥ prāgeva ca tejo'vannānāṃ trivṛtkaraṇena bhavitavyam atrivṛtkṛtānāṃ teṣāṃ kāryārambhāsāmarthyāt | anyonyasaṃyuktānāmeva hi kāryārambhasāmarthyam | tadeva ca trivṛtkaraṇam | tathā ca smaryate | nānāvīryāḥ pṛthagbhūtāstataste saṃhatiṃ vinā | nāśaknuvan prajāḥ sraṣṭumasamāgamya kṛtsnaśaḥ || sametyānyonyasaṃyogaṃ parasparasamāśrayāḥ | mahadādyāviśeṣāntā hyaṇḍamutpādayanti te || iti |
SK
अत एव च अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरोत् तासां त्रिवृतं त्रिवृतमेकैकामकरोत् इति पाठक्रमो अर्थक्रमेण बाध्यते | अण्डान्तर्वर्तिष्वग्न्यादित्यादिषु त्रिवृत्करणप्रदर्शनं श्वेतकेतोः शुश्रूषोरण्डान्तर्वर्तित्वेन तस्य बहिष्ठवस्तुषु त्रिवत्करणप्रदर्शनायोगात् त्रिवृत्कृतानां कार्येष्वग्न्यादित्यादिषु क्रियते | स्यादेतत् अन्नमशितं आपः पीताः तेजोऽशितम् इति त्रिवृत्कृतानामन्नादीनामेकैकस्य तेजोऽवन्नात्मकत्वेन त्रिरूपस्य कथमन्नमापस्तेज इत्येकैकरूपेण व्यपदेश उपपद्यत इत्याशङ्कायामाह || ११३ || वैशेष्यात्तु तद्वादस्तद्वादः || १८ || वैशेष्यं विशेषभावः विशेषशब्दो विकारशब्दवद्धर्मपरो धर्मिपरश्च | अत्र तु धर्मिपरः विशेषभावो वैशेष्यमाधिक्यरूपम् | त्रिवृत्करणेन त्रिरूपेऽप्येकैकस्मिन् अन्नाद्याधिक्यात्तत्र तत्रान्नादिवादः द्विरुक्तिर्निश्चयात्मकत्वमध्यायपरिसमाप्तिभावं च दर्शयति | किञ्चात्र गमनाकुञ्चनप्रसारणादिरूपेण प्राणादिरूपेण च वायुकार्यस्य दर्शनात् तद्भिन्नभूतचतुष्टयस्य अवकाशप्रदानेनाकाशकार्यस्य सर्वानुभवसिद्धत्वात् कथं त्रिवृत्करणमात्रत्वमुपपन्नमिति चेत् भूतत्रयोपदेशमात्रेण कैमुतिकन्यायेन परिशेषभूतद्वयमर्थात् सूचितम् | अतश्शरीरस्य पाञ्चभौतिकत्वेनापि विरोधः यथा लिङ्गशरीरोत्पत्तिनिरूपणे ह्यपञ्चीकृतसूक्ष्मभूतोद्भूतान्तःकरणज्ञानेन्द्रियाद्युक्तौ सर्वत्र गुणत्रयत्रिवृत्करणसङ्क्रमसत्वेऽपि सूक्ष्मभूतसमष्टिसात्त्विकार्धेनान्तःकरणं तद्भिन्नार्धेन ज्ञानेन्द्रियपञ्च्कोशोत्पत्तिः तद्वत्सूक्ष्मपञ्चभूतसमष्टिरजोगुणार्धेन प्राणस्तदितरार्धेन कर्मेन्द्रियपञ्चकोत्पत्तिः इति | गुणाधिक्येन तदात्मकत्वशास्त्रव्यपदेशवदत्र स्थूलशरीरे भूतत्वाधिक्येन पृथिवीत्वव्यवहारो न विरुध्यते | नन्वन्तःकरणाद्युत्पत्तौ न गुणत्रयसङ्क्रमणं इति चेन्न | मानसेन्द्रियादौ गुणत्रयात्मकत्वस्य कालभेदेअ सर्वानुभवसिद्धत्वात् कारणगुणाः कार्ये परिसंक्रामन्ति इति न्यायाच्च |
SK
केचित्तु अनेन जीवेनानुप्रविश्य इत्यत्र जीवस्यानुप्रवेशकर्तृत्वं नामरूपयाकरणकर्ता तु परमेश्वरः इत्याहुः | तन्मते श्रुतिविरोधः तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत् इति नामरूपव्याकरणस्य तत्समभिव्याहृतानुप्रवेशस्य च परमात्मकर्तृकत्वावगमात् समानकर्तृकत्वं न घटते | जीवस्यापीश्वराद्वस्तुतोऽनन्यत्वेन तदनुप्रवेशो ह्यौपचारिक इति अद्वैतवादिनो यदन्ति | तदसमंजसम्-प्रात्यक्षिकश्रुतिस्मृतिविरोधात् कल्पितगजाश्वयोरिव जीवेश्वरयोः कल्पितत्वे चेतनत्वायोगेन कर्तृत्वायोगात् बिम्बप्रतिबिम्बयोरेकत्र व्यवस्थापनासम्भवाच्च | यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतिषु चेतनाचेतनोत्पत्ति-स्थिति-लयकारणत्वं परमेश्वरभिन्नस्य न सम्भवति | प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः इत्यत्र सर्वजीवानां तिरोधानानुग्रहकर्तृत्वस्य च परमेश्वराधीनत्वावगमात् भक्तानां चरमशरीरिणां सर्वकालसर्वावस्थासु पुनर्जन्महेतुभूतशरीरेन्द्रियाद्यभिमानकर्तृत्वनिराकरणेन शिवाधीनताबुद्धिप्रसरणेन निराभारतया भ्रमरकीटन्यायेन स्वाभाविकजीवत्वनिवृत्तिपूर्वकशिवत्वप्राप्तिस्सिध्यतीति द्वैताद्वैतसिद्धान्तस्थापकसर्ववेदान्ततात्पर्यार्थस्सङ्गृह्यते | इति श्रीमद्यतिव्रजपरिवृढ-श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत- śrīkarabhāṣye virodhaparihārābhidhānasya dvitīyādhyāyasya prāṇādisaptādhikaraṇāvacchinna tathā prāṇa ityaṣṭādaśasūtrātmakaḥ caturthaḥpādassamāptaḥ dvitīyādhyāyassamāptaḥ atha śrīpatipaṇḍitabhagavatpādācāryaviracite brahmamīmāṃsāsūtra - śrīkarabhāṣye tṛtīyādhyāyasya prathamaḥ pādaḥ tadantarapratipatyadhikaraṇam || 1 ||
SK
पूर्वाध्याये परब्रह्मणः सच्चिदानन्दस्वरूपस्य सर्वशक्तिमतः सर्वविलक्षणस्य चराचरप्रपञ्चकारणस्य लीलामङ्गलविग्रहस्य शिवस्य जगज्जन्मादिकारणत्वविरोधो निराकृतः | तत्र प्रथमपादे साङ्ख्य-योग- sṛṣṭyavārnbhūtataravirodhaparihārapūrvakaṃ jīvanityatvādidharmaḥ pradarśitaḥ | caturthe prāṇendriyāṇāṃ svarūpaṃ paramaśivasakāśāttajjanyatvaṃ copadiśya sarveṣāṃ nāmarūpavyākaraṇaṃ pradarśitam | etadadhyāyaprathamapāde jīvasya lokāntaragamanāgamanavicāro vyācakṣyate | dvitīye paramaśivasvarūpalakṣaṇādiprasaṅgaḥ | tṛtīye tadupāsanaviśeṣaguṇāḥ upanyasyante | caturthe brahmacaryādyāśramacatuṣṭayadharmāḥ nirūpyante | jīvasya lokāntaragamanāgamanavicāraḥ paramakāruṇikaḥ parameśvaraḥ sarvajīvavātsalyena tadādhārabhūtatrivṛtkṛtāṇḍotpattiṃ jīvānupraveśena nāmarūpavyākaraṇaṃ ca kṛtavāniti prastāve prathamaṃ jīvasya śarīrabhāvānnīrūpatvādīśvarānupraviṣṭatvādatīndriyatvādagocaratvāda- कथमुपपन्नमित्याशङ्कायामाह - || ११४ || तदन्तरप्रतिपत्तौरहंतिसम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् || १ || तदन्तरप्रतिपत्तौ लोकान्तरप्राप्तिकाले लिङ्गशरीरेण अणुरूपतया जीवोऽस्मिन् लोके अग्नौ हुतैरदृष्टशब्दवाच्यैः समित्पुरोडाश-दधि-क्षीर-सोमरस- dhūmādimārgeṇa svargalokaṃ rahati - gacchati kutaḥ praśnanirūpaṇābhyām | vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti | iti
SK
प्रश्नः | इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति प्रतिवचनम् | उभाभ्यां प्रश्न-प्रतिवचनाभ्यां स्वाभिमानेन कर्मसु प्रवृत्तानां जीवानां अनेकशरीरप्रवेश-निर्गमनव्यापारवत्वमुपदिष्टम् | एतत्दुष्कृतिनामप्युपलक्षणम् | एष एव साधुकर्मकारयति इत्यादिबहुश्रुतिदर्शनात् जीवकृतकर्मानुसारेण परमेश्वरस्य पुण्यापुण्यलोकप्रापकत्वमर्थात्सूचितम् | तस्मात् स्वाभिमानपुण्यापुण्यकृतबद्धजीवानां जनन- apunarāvṛttajīvattvanivṛttipūrvakaśivatvaprāptirūpakaivalyavibhūtiḥ sampādanīyeti sūtrasūcitabhāvārthaḥ | ayamātmā brahma ahaṃ brahmāsmi tattvamasi śvetaketo tattvameva tvameva tat ityādiṣu śārīrasya brahmatvavyavasthāpanāt jyotiṣṭomena svargakāmo yajeta puṇyacito lokaḥ kṣīyate karmacito lokaḥ kṣīyate ityādau tasya svargādigamanāgamanaprāptyupadeśāt paralokagamanāgamanamasti vā na vā iti cintyate | jīvasya paralokaprāptiranupapannā kutaḥ brahmarūpatvāt karkartṛtvasya antaḥkaraṇa eva satvāt supti-mūrchādau manorahitatvena niṣkriyatvabhāvasya siddhatvāt na jāyate mriyate vā iti śrutau acchedyoyamadāhyo'yaṃ ityādismṛtau ca tasya janmamaraṇaduḥkhādivilakṣaṇatvasyopadeśitatvāt | kiñca - śabdabuddhikarmaṇāṃ trikṣaṇāvasthāyitvamiti nyānena antaḥkaraṇakṛtakarmaṇāmapyadyaiva kṣaṇatrayeṇaiva naṣṭatvadarśanāt śarīranvaramaśvāsakāle tadviśiṣṭapṛthivyādibhūtānāṃ mahābhūteṣu vilayadyotanācca jīvasya sarvathā paralokagamanāgamanaśāstramayuktamiti prāpte pracakṣmahe -
SK
अयमात्मा ब्रह्म इत्यत्र माण्डूक्ये परमशिवप्रकरणे शिवात्मकप्रणवपरत्वेन व्यपदेशात् जीवपरत्वसाधनेऽपि न जीवब्रह्मत्ववादो युक्तः | सर्वो वै रुद्रः यस्य पृथिवी शरीरम् यस्य आपः शरीरं यस्य आत्मा शरीरं इत्यादिष्वष्टमूर्तौ शिवे जीवस्यैकमूर्तित्वोपदेशात् असावादित्यो ब्रह्म कं ब्रह्म खं ब्रह्म इत्यादिवत्तस्य ब्रह्मत्वमविरोधम् | यथा अहं ब्रह्मास्मि तत्त्वमसि इत्यादिश्रुतयः सर्ववेदान्तमुख्यार्थप्रकाशवद्वैताद्वैतविधायकत्वेनोपासकस्य जीवस्योपास्यशिवप्राप्तिं प्रतिपादयन्ति तथान्यत्र दृस्टान्तानुसारेण यथा नद्यः इत्यादिषु जीवब्रह्मणोः प्राप्यप्रापकत्वं स्पष्टमुपदिष्टम् | तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्योऽभिचाकशीति इत्यत्र जीवेश्वरयोः संसारभोत्कृत्वाभोत्कृत्वावगमात् छात्राभावेनाचार्ये विद्याप्रकाशकत्वाभावेऽपि न यथा तस्य विद्वत्त्वभङ्गप्रसङ्गः तद्वत्सुषुप्ति- nopapadyate | jīvasya kartṛtve nānāditve'pīhāmutra gamanāgamanabodhakaśāstramavirodham | kṣaṇatrayeṇa karmaṇāṃ naṣṭatve'pyapūrvaphalotpādakatvādgamanāgamanaśāstramapyavirodham |
SK
वेदवेदान्तेषु सूक्ष्मावस्थापन्नदधि- dravyatvāddevaśarīrākāreṇa pariṇāmassambhavati | tasmāt pañcāgnividyāyāmevaṃ praśna-prativacane āmnāyete | śvetaketuṃ kilā''ruṇeyaṃ pāñcālaḥ prabāhaṇaḥ karmiṇāṃ gantavyadeśaṃ punarāvṛttiprakāraṃ ca devayāna- पप्रच्छ - वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति | तत इमं पश्चिमं प्रश्नं प्रतिब्रुवंश्च द्युलोकमग्नित्वेन रूपयित्वा तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति | तस्या आहुतेः सोमो राजा सम्भवति इत्यादिना - देवाख्याः जीवस्य प्राणाः अग्नित्वेन रूपिते द्युलोके श्रद्धाख्यं वस्तु प्रक्षिपन्ति सा च श्रद्धा सोमराजाख्यामृतमयदेहरूपेण परिणमते तं चामृतमयं देहं देहान्त एव प्राणाः पर्जन्येऽग्नित्वेन रूपिते प्रक्षिपन्ति | स च देहस्तत्र प्रक्षिप्तो वर्षं भवति तच्च वर्षं त एव प्राणाः पृथिव्यामग्नित्वरूपितायां प्रक्षिपन्ति तच्च तत्र प्रक्षिप्तमन्नं भवति तच्चान्नं त एव पुरुषेऽग्नित्वरूपिते प्रक्षिपन्ति तच्च तत्र रेतो भवति तच्च त एव योषायामग्नित्वरूपितायां प्रक्षिपन्ति तच्च तत्र प्रक्षिप्तं गर्भो भवति इत्युक्त्वाऽऽह इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति | एवं पञ्चम्यामाहुतौ हुतायामापः पुरुषशब्दाभिलाप्याः भवन्तीत्यर्थः | एवमुक्ते पूर्वास्वप्याहुतिषु अनुवर्तमानानामेवापां सूक्ष्मरूपाणामिदानीं पुरुषाकारत्वं भवतीत्युक्तं भवति | अत एव प्रश्नप्रतिवचनाभ्यां देहहेतुभूतैः भूतसूक्ष्मैः सह जीवः तत्र तत्र यातीति गम्यते | अतः यदेव ज्ञानफलं तदेव कर्मफलं इति श्रौतविधिदरशनात् शिवार्पणकृतानां ज्योतिष्टोमादिकर्मणां चित्तशुद्धिद्वारा शिवप्राप्तिहेतुत्वेन मुमुक्षूणां फलाभिलाषारहितं कर्म कर्तव्यमिति वेदान्तेषु व्याचक्ष्यते | ननु आपः पुरुषवचसः इत्युक्ते अपां पुरुषाकारपरिणामप्रतीतेर्गच्छता जीवेन तासामेव परिष्वङ्गः प्रतीयते तस्मात्कथं सर्वेषां भूतसूक्ष्माणां परिष्वङ्ग इत्याशङ्कायामाह - || ११५ || त्र्यात्मकत्वात्तु भूयस्त्वात् || २ ||
SK
तु शब्दोऽत्र शङ्कानिरासार्थः | तासां त्रिवृतमेकैकामकरोत् इति त्रिवृत्करणेन देहारम्भकत्वव्यवस्थापनात् शरीरारम्भकत्वं न केवलमपामिति निर्णीयते | समित्पुरोडाशादीनां पार्थिवत्वं दधि-क्षीरादीनामाप्यत्वं घृतस्य तैजसत्वं इत्येवं रूपेण होमद्रव्याणां त्र्यात्मकत्वात्त्रिविधत्वात् आपः पुरुषवचसो भवन्ति इत्येतदनुपपन्नमिति चेत् भूयस्त्वात् होमद्रव्याणां मध्ये ह्यपां बाहुल्यमात्रेणात्र अप्शब्दप्रयोगः | तथा च अप्शब्दस्य पार्थिवाप्य- tena ārambhakeṣvapāṃ bhūyastvam | tasmāt vettha yathā pañcamyāmāhutau āpaḥ puruṣavacaso bhavanti iti praśnaprativacanābhyāṃ spaṣṭamupadiṣṭam | asyāḥ śruterayamarthaḥ - pañcāgnikrameṇa garbhotpattiprakāraḥ pañcamyāmāhutau yoṣidrūpe pañcame'gnau hutāḥ āpaḥ dadhi-kṣīra- भवन्ति तथा वेत्थ - जानासि किम् इति केनचित् प्रश्ने कृते इति तु पञ्चम्यामाहुतौ आपः पुरुषवचसो भवन्तीति प्रतिवचनम् | अस्यायमर्थः - अस्मिन् लोके यजमानेन अग्नौ हुतानि समित्पुरोडाशाज्य-दधि- yajamānena saha dhūmādimārgeṇātivāhikairdevaiḥ dyulokākhye agnau hūyante | hutāni tāni devaśarīrarūpeṇa pariṇamante | tacca devaśarīraṃ kiñcitkālaṃ svargabhogān bhuktvā puṇyakṣayānantaraṃ navanītavadravībhūtaṃ bhavati | tacca dravībhūtaśarīraṃ ātivāhikairdevaiḥ parjanyākhyavahnau hūyate | tacca jalātmakatvena pariṇamate | tajjalaṃ pṛthivyātmakāgnau ātivāhikarhūyate | tadoṣadhidvārā vrīhi-yavādidhānyarūpeṇa pariṇamate | taddhānyamannātmakatvena puruṣarūpāgnau hūyate | tadannaṃ retorūpeṇa parisaṅkramate | tadreto yoṣidrūpāgnau hūyate | tadreto garbhasthaśarīrākāreṇa vyāpyata iti dhuḥ-parjanya-pṛthivī-puruṣa-yoṣidrūpapañcāgnikrameṇa garbotpattirabhidhīyate | jīvasya cetanatvātparalokagamanāgamanayoḥ prāṇendriyāṇāṃ prayojanābhāvāt svakartṛkapuṇyāpuṇyakarmāṇi svayameva yāntītyāśaṅkya tatrāha - || 116 || prāṇagateśca || 3 ||
SK
तमुत्क्रान्तं प्राणोऽनूत्क्रामति इत्यादिश्रुतौ भूतसूक्ष्मपरिष्वक्तोत्क्रामकजीवस्य धूमादिमागण प्राणादिभिस्सह स्वर्गलोकगतिराम्नायते | तस्माद्धोमद्रव्याणामपि जीवेन सह गमनमर्थात्सूच्यते | स्वर्गादिष्वपि तस्य प्राणादिसाधनाभावे साध्यतत्तल्लोकभोगासम्भवात् पूर्वोक्तमबाधितम् | लोके कर्मणां क्षणत्रयेण विनष्टत्वेऽपि वाक्यश्रवणादिवददृष्टफलजनकत्वेन परलोकभोग उपपद्यते | तथा स्मृतिरपि - त्रिक्षणेनैव जीवस्य कृतकर्मक्षये सति | अन्नादिवददृष्टाख्यं फलमुत्पद्यते सदा || तेन प्राणादिभिर्जीवो गत्वा स्वर्गादिकं फलम् | भुक्त्वा तत्पञ्चदशकान् भोगान् शुभाशुभान् | षोडशान्तेन भागेन पुनर्भूलोकमश्नुते || इति | अन्यत्र - मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति | शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः || गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् || इति निराश्रयस्य गत्यसम्भवात् स्वाश्रयमनःप्राणेन्द्रियादिभिस्सह भूतस्य वैशिष्ट्येन परलोकगतिरभ्युपगन्तव्येति सिद्धम् | अग्निं वागप्येति सूर्यं चक्षुरप्येति मनश्चन्द्रमसमप्येति इति श्रुतौ चरमकाले प्राणेन्द्रियावभिमानदेवतासु लयश्रवणादिन्द्रियादीनां जीवेन सह परलोकगमनमनुपपन्नमित्याशङ्क्य निराकरोति | || ११७ || अग्न्यादि गतिश्रुतेरिति चेन्न भाक्तत्वात् || ४ ||
SK
यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यं मनश्चन्द्रं इत्यादिना प्राणादीनां जीवस्थूलशरीरवियोगसमये अग्न्यादितदभिमानदेवतासु लयव्यपदेशान्न तेषां जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति चेन्न | भाक्तत्वात् पृथग्बोधकत्वात् ब्रह्म वेद ब्रह्मैव भवति | न तत्र प्राणा उत्क्रामन्ते तत्रैव समवलीयन्ते अग्निर्मे वाचि श्रितः वाक् हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि इत्यादिश्रुतिसिद्धरागद्वेषादिविनिर्मुक्तशिवयोगिविदेहमुक्तिविषयत्वात् | अन्यथा तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इत्यादिबहुश्रुतिविरोधो दुर्निवारः | ओषधीर्लोमानि वनस्पतीन्केशाः इत्यनपियद्भिर्लोमादिभिस्सह व्यपदेशात् चक्षुराद्यप्ययश्रुतिरधिष्ठातृदेवताविलयक्रमणपरेति निर्णीयते | अस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति इति श्रुतौ द्युलोकाख्यप्रथमाग्नौ श्रद्धाया एव हूयमानत्वदर्शनात् दधि क्षीरादीतां द्युलोकाख्याग्निहूयमानत्वमसमञ्जसमित्याशङ्कायामाह - || ११८ || प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः || ५ || यदुक्तं अद्भिः सूक्ष्माभिर्भूतान्तरसंसृष्टाभिः परिष्वक्तो जीवो गच्छतीति प्रश्नप्रतिवचनाभ्यामवगम्यत इति - तन्नोपपद्यते | द्युलोकाग्निविषये प्रथमे होमेऽपां होम्यत्वाश्रवणात् | तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति इति श्रद्धैव हि होम्यत्वेन श्रुता | श्रद्धा नाम जीवस्य मनोवृत्तिविशेषत्वेन प्रसिद्धा | अतो नाऽऽपस्तत्र होतव्या इति चेत् -
SK
न यतः ताः - आप एव श्रद्धाशब्देन तत्राभिधीयन्ते | कुतः प्रश्न प्रतिवचनोपपत्तेः | वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति प्रश्नस्य प्रतिवचने - उपक्रमे हि श्रद्धा द्युलोकाग्नौ होम्यत्वेन श्रुता | तत्र यदि श्रद्धाशब्देन आपो नोच्येरन् ततोऽन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्यसङ्गतं स्यात् | इति तु पञ्चम्यामाहुतावापः पुरुषवचसः इति प्रतिवचननिगभनं च श्रद्धाया अप्त्वमेव सूचयति | वेत्थ यथा इति प्रश्नगतः प्रकारः इति तु पञ्चम्यां इति इति शब्देन परिहारो निगम्यते | श्रद्धा-सोमराजवर्ष-अन्न-रेतो- hi evamāpaḥ puruṣavacasaḥ iti nigamyate | śraddhāśabdasya cāpsu vaidikaprayogo dṛśyate apaḥ praṇayati | śraddhā vā āpaḥ iti | śraddhāṃ juhvati | tasyā āhuteḥ somo rājā sambhavati iti somākāreṇa pariṇāmaścāpāmevopapadyate | ato bhūtāntarasaṃsṛṣṭābhiradbhiḥ sampariṣvakto jīvo raṃhatītyupapannam | tasmādāya eva dadhikṣīrādirūpeṇa hotavyāssantaḥ śraddhāśabdena lakṣaṇayā pratipādyante | nanu praśnaprativacanayorapāmevātra vyapadiṣṭatvātkarmiṇāmeva svargagamanamaśrutam | taissaha homadravyāṇāṃ gamanaṃ kathamupapannamityatrāha - || 119 || aśrutatvāditi cenneṣṭādikāriṇāṃ pratīteḥ || 6 ||
SK
यत्पुनरुक्तं - अद्भिः सम्षरिष्वक्तो जीवो यातीत्ययमर्थः एतस्माद्वाक्यादवगम्यत इति - तन्नोपपद्यते अस्मिन्वाक्ये जीवस्याश्रवणात् | अत्र हि श्रद्धादय एवमववस्थाविशेषा होम्यत्वेन श्रुताः न तु जीवस्तत्परिष्वक्त इति चेत् तन्न - इष्टादिकारिणां प्रतीतेः | उत्तरत्र अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षं अपरपक्षाद्दक्षिणायनं दक्षिणायनात्संवत्सरमभिसम्प्राप्नुवन्ति | मासेभ्यः पितृलोकं पितृलोकादादित्यमादित्याच्चन्द्रमसं एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति | तस्मिन् यावत्सम्पातमुषित्वाऽऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वाभ्रं भवति अभ्रं भूत्वामेघो भवति मेघो भूत्वा वर्षति त इह व्रीहि-यवा-ओषधि-वनस्पतयस्तिल- tadbhūya eva bhavati | iti śrutau brahmajñānaśūnyaphalābhilāṣīṣṭāpūrtakamiṇo dyuloke somarājāno bhavantītyamṛtamayaśarīreṇa sukṛtaphalaṃ prāpya tatphalabhogānantaraṃ ekabhāgāvaśeṣeṇa martyalokamāgatya garbhaṃ prāpnuvanti iti | atrāpi dyulokāgnau śraddhāṃ juhvati tasyā āhutessomo rājā sambhavati ityatra somarājaśabdena pratyabhijñānāt tatpraśnaprativacanayorapyadbhiḥ pariṣvaktaḥ tadātmakāṃśo jīva eva āpa ityupadiśyate | dehasya jīvaviśeṣaṇataikasvarūpasya vācakaśśabdo viśeṣye jīva eva paryavasyati | tasmāt sampariṣvakto jīvo yātītyupapadyate | nanvastu karmiṇāṃ svargalokagamanaṃ tathāpi talloke teṣāṃ tadbhogo na vidhīyate | taṃ devā bhakṣayanti iti śrutau amṛtamayadivyadehāvacchinnakarmaṇāṃ svargagatānāṃ devairbhakṣyamāṇatvavyavasthāpanāt vyāghrādibhiriva devaiḥ bhakṣitānāṃ karmiṇāṃ bhogāsambhavāt somo rājeti na jīva ucyate | jīvasyānandanīyatvāttannopapadyata ityāśaṅkāyāmāha - bhaktādiśaraṇāntapañcasthaleṣu dvaitasiddhiḥ - aikyasthale'dvaitasiddhiśca || 120 || bhāktaṃ vā nātmavittvāttathā vā darśayati || 7 ||
SK
पाशब्दश्चोद्यं व्यावर्तयति | एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति इति सोमराजात्मकस्य देवभोज्यत्वदर्शनात् नासौ जीव इति चेदेतद्भाक्तमेव भक्ष्यमाणत्वं अनत्मवित्वेन देवोपकरणभावित्वमुपदिष्टम् | किञ्चेष्टादिकारिणो ह्यनात्मवित्वात्सदेवानां भोगोपकरणत्वेनेहामुत्र च वर्तते | इहेष्टादिना तदाराधनं कुर्वन्नुपकरोत्याराधनप्रीतैर्देवैर्दत्तममुं लोकं प्राप्य तत्र तत्समानभोगस्तदुपकरणं भवति | यथा पशुरेवं स देवानां इत्यनात्मविदो देवानामुपकरणत्वं दर्शयति श्रुतिः | स्मृतिरप्यात्मविदां ब्रह्मप्राप्तिमनात्मविदां च देवभोग्यत्वं दर्शयति | देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि इत्यतो जीवस्य देवानां भोगोअकणत्वामिप्रायमन्नत्वेन भक्ष्यत्ववचनम् | अतस्तद्भाक्तम् | तेन तृप्तिरेव च देवानां भक्षणमिति श्रूयते | न ह वै देवा अश्नन्ति न पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति इति व्याचक्ष्यते | तस्माच्छिवतत्त्वज्ञानशून्यानां सुकर्मिणां देवभृत्यत्वं अथ योऽन्यां देवतामुपास्तेऽन्योऽसौ अन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां इति श्रुतौ व्यपदिश्यते | श्रुत्यन्तरेऽपि - यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नोऽति पापीयान् भवति इति दर्शनात् यः शिवातिरिक्तोपेन्द्रादिदेवतां यज्ञादिकर्मभिरुपास्ते | असाविन्द्रादिमत्तोऽन्यः अहं चन्द्रोपेन्द्रादेरन्यः इति पूजयति मायां तु प्रकृतिं विन्द्यात् मायिनं तु महेश्वरम् | तस्यावयवभूतोत्थं व्याप्तं सर्वमिदं जगत् |
SK
इति श्रुतिसिद्धब्रह्मोपेन्द्रादिजीवानां शिवांशबुद्धिं विहाय यः भेदबुध्या पूजयति सः शिवतत्त्वं न वेद | यथा पशुरनड्वान् कृष्यादिना उपकरोत्येवं कर्मठोऽपि भूलोके इन्द्रादीनां हविःप्रदानं कुर्वन् परलोकेऽपि तत्परिचर्यां कुर्वन् पशुवदुपकरोति | तथा च देवपशुत्वमात्रेण कर्मिणां देवभक्ष्यत्वं न तु व्याघ्रादिवत्कर्मिणां मांसरुधिरादिकं देवा भक्षयन्ति | अतस्तत्तलोकेः तेषाममृतभक्षकत्वेन मांसभक्षकत्वाभावः | पर्यवसितार्थस्त्वत्र फलासक्तकर्मिणां तल्लोकभोगप्राप्तिः शिवार्पणसुकर्मिणां पापक्षयद्वारा चित्तशुद्धिं लब्ध्वा श्रद्धाभक्ति-वैराग्यादिसहकृतश्रवण-मनन- śivatvaprāptiriti niścīyate śiva eko dhyeyaśśivaṅkarassarvamanyatparityajya ityādiśrutiṣu - ananyāścintayanto māṃ ye janāḥ paryupāsate | teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham || ityādismṛtiṣvananyabhaktyā śivānugrahahetunā śivābhinnatvamupadiṣṭam tathāpi bhaktiravaśyācaraṇīyā | tathā śaive śivaṃ prati vyāsavacanam - yadyapi bhedāpagame sāmba tavāhaṃ na māmakīnastvam | sāmudro hi taraṅgaḥ kvacana samudro na tāraṅgaḥ || iti samyagupadiṣṭam | ato bhaktānāṃ bhaktādiśaraṇāntapañcasthaleṣu jīvabhāvasatvena śiva-jīvayoḥ upāsyopāsakatvena svāmi- इत्यादिश्रुतिशतसिद्धनदीसमुद्रवज्जीवब्रह्मैकत्वेन अद्वैतसिद्धिश्चेति राद्धान्तः | तथापि शिवजीवयोस्समुद्र-तरङ्गन्यायवद्भेदाभेदभावो निष्प्रत्यूहः | तस्मादात्मविदां परमेश्वरोपकरणत्वं अनात्मविदां देवोपकरणत्वमिति फलितार्थो दर्शितः अतस्सर्वथा बद्धजीवो भूतसूक्ष्मैस्सम्परिष्वक्तस्सन् स्वर्गादिकं रंहतीति सिद्धम् | कृतात्ययाधिकरणम् || २ || कर्मावशेषस्सन् जीवो मृत्युलोकं प्रत्यवरोहति नन्वेवं सुकृतिनां स्वर्गलोकगमनमस्तु तत्र तद्भोगानन्तरं तत्पुनरागमनं कथमित्याशङ्कायां तत्प्रकारमधिकरणान्तरेण दर्शयति - || १२१ || कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च || ८ ||
SK
कृतात्यये स्वर्गोद्देशेन कृतस्य पुण्यस्य अत्यये नाशे सति यथा येनमार्गेण स्वर्गलोकं प्रति इतो गतः तेन मार्गेण वा अनेवं मार्गान्तरेण वा | मार्गान्तरेणेत्येतदनास्थयेति प्राप्तम् | तेन्नैव मार्गेणेति राद्धान्तः | अनुशयवान् भुक्तावशिष्टसञ्चितकर्मणा शिष्टस्सन् भूलोकमागच्छति कर्मानुसारेण तदनुगुणयोनि प्राप्नोति | कुतः दृष्टस्मृतिभ्यां श्रुति-स्मृतिभ्यामित्यर्थः | केवलेष्टापूर्तदत्तकर्मिणां धूमादिपितृयानमार्गेण कर्म फलानुगुण्येन स्वर्गभोगमनुभूय तत्क्षणे पुनरागमनमाघ्नातम् | यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते इत्यादिश्रुतिषु जीवस्य भोगावसाने पुनरावर्तनव्यपदेशात् सर्वकर्मक्षयेण कर्मविशेषेण वा प्रत्यवरोहतीति सन्दिह्यते | सर्वकर्मक्षयेण पुनरागमनं युक्तम् | उपभुक्तशिष्टकर्म अनुशयः | स च कृत्स्नहलभोगे सति नावशिष्यते | यावत्संपातमुपित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्त इति श्रुत्यनन्तरञ्चाप्राप्यान्तं कर्मणस्तस्यत्किञ्चेहकरोत्ययम् | तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति | किञ्च - यथैतमाकाशमाकाशाद्वायुः इत्यादिष्वपि कर्मावशेषवार्ताऽश्रवणात् यावत्सम्पातं इति श्रुतौ - सम्पातः कर्मसमष्टिः सम्पातमनतिक्रम्य यावत्सम्पातं इति व्याचक्ष्यते | तत्रोषित्वा तदनुभूयत्वनिर्देशाच्च सर्वकर्मफलभोगावसानेनैव जीवोऽवतरतीति प्राप्ते प्रचक्ष्महे - अनुशयवान् कर्मावशेषस्सन् जीवो मर्त्यलोकं प्रत्यवरोहति कुतः श्रुतिस्मृतिभ्याम् | क्षीणे पुण्ये मर्त्यलोकं विशन्ति कर्मावशेषे सुकृते च भूयो भूलोकमागत्य पुनश्च कर्म | करोति मोहात्पुनरन्त्यकाले स्वर्गादिलोकान् भजते पुनःपुनः ||
SK
किञ्च - तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं क्षत्रिययोनिं वैश्ययोनिं वा अथ य इह कपुयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा इति प्रत्यवरूढान् प्रति श्रूयते | अमुष्माल्लोकात् प्रत्यवरूढेषु रमणीयकर्माणो रमणीयां ब्राह्मणादियोनिं प्रतिपद्यन्ते कपूयचरणाः कुत्सितकर्माणः कुत्सितां श्व-सूकर-चण्डालादियोनिं प्रतिपद्यन्त इति प्रत्यवरूढानां पुण्य- smṛtirapi - varṇā āśramāśca svakarmaniṣṭhāḥ pretyakarmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśa-jāti-kula-rūpāyu-śruta-vitta-vṛtta- परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते | तत् चक्रवदुभयोर्लोकयोः सुख एव वर्तते इति | यावत्सम्पातमिति फल-दान-प्रवृत्तकर्मविशेषविषयम् | यत्किञ्चेह करोत्ययम् इतीदमपि तद्विषयमेव | अभुक्तफलानामपकृतप्रायश्चित्तानां च कर्मणां कर्मान्तरफलानुभवान्नाशोऽप्यनुपपन्नः | अतोऽमुं लोकं गताः सानुशया एव यथेतमनेवं च पुनर्निवर्तन्ते - आरोहणप्रकारेण प्रकारान्तरेण च पुनर्निवर्तन्त इत्यर्थः | आरोहणं हि धूम- pitṛlokādyaprāpteścānevam | nocetsadyassamudbhūtasya sukhaduḥkhānubhavo na sambhavet | ato anuśayavān nivartata iti rāddhāntaḥ | caraṇaśabdārthavicāraḥ nanu ramaṇīyacaraṇāḥ iti śrutyanusāreṇa śrautakarmiṇāṃ punarāgamanamiti yaduktaṃ tadasamañjasam | yajñena dānena tapasānāśakena ityādiśrutiṣu jñānakarmasamuccayena apunarāvṛttimokṣasthityupadeśāt ramaṇīyacaraṇā ityatra smutyuktaśaucācamana-snāna-sandhyādiparatvamevetyāśaṅkya āha - || 122 || caraṇāditi cenna tadupalakṣaṇārtheti kārṣṇājiniḥ || 9 || ramaṇīyacaraṇaḥ kapūyacaraṇāḥ iti caraṇaśabdena puṇya- तदुपलक्षणार्थेति कार्ष्णाजिनिः | चरणशब्दस्य लोकवेदयोः श्रौतस्मार्तादिसत्कर्माचारे प्रसिद्धेः | श्रौतस्मार्तसदाचारश्चरण इति गीयते |
SK
तेनैव चित्तशुद्धिस्स्यात्ततो यान्ति परं पदम् || इति श्रुतिः | वक्ष्यामि धृतलिङ्गस्य चरणश्रुतिसम्मतम् | स्मृतितन्त्रपुराणेषु प्रसिद्धं ते समाहितः | श्रुतिस्मृत्युदितं धर्मं नित्यनैमित्तिकाश्रयम् || कुर्याल्लिङ्गाङ्गसम्बन्धी द्विजन्मा कामवर्जितः | विद्युक्तकर्मानुष्ठानाच्चित्तशुद्धिर्भवेद्ध्रुवम् || चित्तशुध्या भवेद्भक्तिर्भक्तिरव्यभिचारिणी | तया सञ्जायते ज्ञानं नश्यत्यज्ञानमात्मनः || तस्मान्मोक्षस्ततः कर्म विध्युक्तं सम्यगाचरेत् || इत्यादिना शङ्करसंहितायामपि चरणशब्दः श्रौतस्मार्तसदाचारपर इति स्पष्टमुपदिष्टम् | लौकिकाः खलु चरणमाचारश्शीलं वृत्तं इति पर्यायानभिमन्यन्ते | वेदे च - यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि | सत्यं वद धर्मं चर न सुरां पिबेत् न कलञ्जं भक्षयेत् न परदारान् गच्छेत् | नानृतं वदेत् सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् अमृतस्य देवधारणो भूयासम् शरीरं मे विचर्षणम् इत्यादिश्रुतिषु चरणात्मकसत्कर्माचरणं परमशिवभक्त्याधारभूतचित्तशुध्यर्थं व्यपदिश्यते | तस्माच्चरणात् श्रौतस्मार्तशीलात् पुनरावृत्तिरहितनित्यमङ्गलालयनिरतिशयनिरुपमानपरमपदाभिधान- śrautasmārtakarmopalakṣaṇārthaṃ manyate | sadācāravācakacaraṇaśabdena hyajahallakṣaṇāyā śrautasmārtācārāṅgakaṃ karmavidhīyata iti rāddhāntaḥ | āthācāraprāśastyam nanu sukhaduḥkhahetubhūtasmārtakāmyādikarmācaraṇavatkevalaśrautācaraṇena punarāvṛttivyapadeśe sarveṣāṃ vedānāṃ pauruṣeyādivadānarthakyaṃ niṣprayūhamityāśaṅkya tatrāha - || 123 || ānarthakyamiti cenna tadapekṣatvāt || 10 ||
SK
स्मार्तकाम्यकर्मवत् श्रोतकर्माचरणस्यापि पुनरावृत्यभ्युदयफलहेतुत्वे तदुभयोस्समानत्वेन श्रौतकर्मणामानर्थक्यमिति चेन्न - तदपेक्षत्वात् | राजाज्ञानुसारेण अमात्याज्ञाप्रकाशवत् श्रुतेरिवार्थं स्मृतिरन्वगच्छन् इति न्यायेन स्मृतेस्तदपेक्षत्वात् न वेदाधिक्यभङ्ग | तत्रापि - स्वयं वेदार्थविज्ञाने प्रत्यवायो महान् भवेत् | स्मृतितन्त्रपुराणेभ्यो वेदार्थं ग्राहयेद्बुधः || इति स्मृतावेव वेदार्थविज्ञाने नियमविधिदर्शनात् | अपि च - आचारहीनः पुरुषो लोके भवति निन्दितः | तस्मादाचारवान् ज्ञानी भवेदादेहपातनात् || आचारहीनं न पुनन्ति वेदा ह्याचारहीनं न पुनन्ति शास्त्रम् | आचारहीनं न हि श्रौतकर्म ह्याचारहीनं न गुरुः पुनाति || इत्यादि वचनेभ्यः स्मार्ताधिकारिण एव श्रौतकर्माधिकारोपदेशात् यत्सत्वे यत्सत्वं इति न्यायेन तयोरङ्गाङ्गित्वम् | तस्मात्तयोरुत्तम-मध्यमादिभावसत्त्वेऽपि परम्परया मोक्षहेतुत्वमिति कार्ष्णाजिन्याचार्याभिप्रायः | तस्माच्चरणश्रुतिः कर्मोपलक्षणार्थेति व्यवह्रियते | किञ्च - श्रौतकर्मण एव स्थूलारुन्धतीन्यायेन चित्तशुद्धिवद्वेदान्तज्ञानकारणत्वम् | तद्जानास्यपुनरावृत्तिनिरतिशयनिश्श्रेयसफलकत्वानङ्गीकारे - परीक्षय लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन | तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् || न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ज्योतिष्टोमेन स्वर्गकामो यजेत ईशं ज्ञात्वा अमृता भवन्ति तस्याभिध्यानात् योजनात्तत्त्वभावाद्भूयश्चान्तै विश्वमायानिवृत्तिः | तमेवं विदित्वामृतत्वमेति नान्यः पन्था विद्यतेऽयनाय इत्याद्यपौरुषेयश्रुतिशतविरोधो दुर्निवारः | स्वेष्टानुसारेणाचार्यान्तराभिप्रायं प्रदर्श्य स्वाभिप्रायमाह - सुकृतदुष्कृते एव चरणशब्दाभिधेये || १२४ || सुकृतदुष्कृते एवेति तु बादरिः || ११ ||
SK
रमणीयचरणाः कपूयचरणाः इत्यत्र चरणशब्देन सुकृत-दुष्कृते एव शक्त्या प्रतिपाद्यते | पुण्यं कर्माचरति पापं कर्माचरति इति कर्माणि चरतेः प्रयोगात् पृथङ्निर्देशस्य च प्रात्यक्षिकश्रुतिसिद्धाचारानुमितश्रुतिसिद्धविषयत्वेन गोबलीवर्दन्यायेन उपपत्तेः | मुख्ये सम्भवति न लक्षणा न्याय्या इति सुकृत-दुष्कृते एव चरणशब्दाभिधेय इति वादरिराचार्यो मन्यते | अत्र बादरिमतमेव स्वमतम् | आचारानुमितश्रुतिविहितसन्ध्यावन्दनादेः कर्मान्तराधिकारसम्पादनं फलमिति तु स्वीकृतम् | उत - अङ्गरहितस्याङ्गिनः फलजनकत्वाभावादाचारसहितमेव वैदिकं कर्म फलजनकम् | अतश्चरणशब्दस्याजहल्लक्षणैवाङ्गीकर्तव्येति निश्चीयते | तस्मात्सनुशया एव प्रत्यवरोहन्तीति सिद्धम् | अनिष्टादिकार्यधिकरणम् || ३ || दुष्कृतिनः नरके महदुःखमनुभूय तत्तकर्मविशेषेण पापयोनिं लभन्ते एवमिष्टापूर्तदत्तकर्मिणां सुकृतिनां स्वर्गलोकगमनप्रसाधने दुष्कृतिनां का गतिरित्या शङ्कायामाह - || १२५ || अनिष्टादिकारिणामपि च श्रुतम् || १२ || अनिष्टादिकारिणां दुष्कृतिनां श्रुतमपि च यथाशमनकिङ्करानुसारेण वैवस्वतदर्शनं तथा ये वैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति इति श्रुतिदर्शनात् तदुभयोरिन्दुमण्डलद्वारा पुण्यापुण्यलोकप्राप्तिः | तथा दुष्कृतिनां निरयानुभवओ न निवार्यते | श्रुतौ इष्टानिष्टादिकारिणामपि शशिमण्डलगतेरुपदेशात्सुकृतिनामिव दुष्कृतिनां स्वर्गानुभूतिरस्ति न वेति चिन्त्यते | ये वैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति इति श्रुतौ पुण्यापुन्.यकर्मिणां सर्वेषां अविशेषगतिनिरूपणात्तदुभयोरपि स्वर्गानुभूतिरस्तीति प्राप्ते प्रचक्ष्महे -
SK
अनिष्टादिकारिणामपि शृतम् चन्द्रमसमेव ते सर्वे गच्छन्ति इति श्रुतौ अनिष्टादिकारिणां चन्द्रलोकगमने श्रुतेऽपि स्वकर्मानुसारेण पापिनां नरकप्राप्तिरेव निर्णीयते | श्रुत्यन्तरेऽपि यमशासनात् दुष्कृती फलमनुभूयैव तच्छेषेण मर्त्यलोकं अहरहर्गच्छति इति नान्यथा दुष्कृतिनाम् | यथा वै सुकृती शमनभटैः तञ्च दृष्ट्वा तदाज्ञया स्वर्गलोकं प्रयाति सुकर्मणा सुधीश्चन्द्रं प्राप्य वैवस्वतं भटैः | दृष्ट्वा वैवस्वतं पूर्वं ततस्स्वर्गं प्रयाति हि || दुर्मतिः कर्मणा क्रूरैरपि वैवस्वतान्तकैः | चन्द्रद्वारा यमं दृष्ट्वा स्वस्य कर्मानुसारतः || दुःखात्मकं महाघोरनरकं प्रतिपद्यते || इति स्कान्दे श्रूयते | तस्मात्तदुभयोरपि चन्द्रप्राप्तिसत्त्वेऽपि स्वकर्मानुसार्ण दुष्कृती यमलोके तदाज्ञया नरके महाघोरदुःखमनुभूय तत्तत्कर्मविशेषेण कुत्सितयोनिं लभते | जीवानां यमाज्ञाधारकत्वव्यपदेशात् न जडस्य कर्मणः स्वातन्त्र्यम् ज्योतिष्टोमेन स्वर्गकामो यजेत अहरहस्सन्ध्यामुपासीत नो चेन्नरकं व्रजेत् पुण्यात्स्वर्गो पापान्नरकः इत्यादिषु कर्मण एव कर्तृत्वदर्शनाद्यमस्य जीवकृतपुण्यापुण्यानुभवप्रदायकत्वं कथमुपपन्नमित्याशङ्क्य तत्राह - || 126 || saṃyamane tvanubhūyetareṣāmārohāvarohau tadgatidarśanāt || 13 || yathā loke duṣkṛtināṃ tatkarmānusāreṇa prabhudaṇḍanaṃ tadvatsukṛtītarāṇāṃ saṃyamane narake svaduṣkṛtakarmānusāraṇena yamaśāsanāt | tadanubhūya punarārohāvarohau prathamaṃ narakaṃ prāpya tatkarmāvaśeṣeṇa punarāgamanaṃ cetyevaṃvidha - ārohāvarohau aṅgīkartavyau kasmāt tadgatidarśanāt | vaivasvataṃ saṃyamanaṃ janānāṃ yamaṃ rājānaṃ ityādiṣu jīvānāṃ yamājñādhārakatvavyapadeśāt na jaḍasya karmaṇa eva svatantratvam | tasmātkarmaikakāraṇatvapradhānapūrvamīmāṃsāvādaḥ śrutiyuktyanubhavaviruddha eva | śivasya parabrahmaṇaḥ vaivasvatādikartṛtvapratipādanam
SK
ननु वैवस्वतस्यैव जीवकृतपुण्यापुण्यनियामकत्वेन परब्रह्मणो निष्प्रयोजकत्वं स्यादित्याशङ्क्य तत्राह - || १२७ || स्मरन्ति च || १४ || ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां एष एव साधुकर्म कारयति इत्यादिशुतिषु ब्रह्मादिसर्वभूतनियामकत्वं शिवस्यैव स्मरन्ति | तस्मात्तज्जीवानुगुण्येन कर्तृत्वं नेतरस्योपपन्नम् | अतः भीषास्माद्वायुः पवते भीषोदेति सूर्यः | भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः इत्यादिषु पवनादिसर्वदेवानां भयहेतुत्वं च दृष्टम् | यथा लोके राजाज्ञानुसारेण सचिवादीनां लोककृतकर्मानुगुण्यविचारकत्वं तत्फलप्रापयितृवयोः सम्भवेऽपि तत्कर्तृत्वं राज्ञः प्रतिपद्यते तद्वद्वैवस्वतस्यापि शिवाज्ञया सर्वभूतपुण्यापुण्यविचारकत्व-तथलप्रदायकत्वयोश्च सत्त्वेऽपि तत्कर्तृत्वं शिवस्यैव निर्दिश्यते | स एव विष्णुस्स प्राणस्स कालोऽग्निस्स चन्द्रमाः | स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् || सोऽन्तरादन्तरं प्राविशत् यो रुद्रोऽग्नौ इत्यादिश्रुतिशतेषु सर्वोपादानत्वसर्व- tadvadupadiśyate - śivājñayā haribrahmarudramṛtyuyamādinām | sarvakāryeṣu pravṛtyā'pi tatkartṛtvaṃ śivasya hi || rājājñākṛtabhṛtyasya karma tasya na yujyate | śivādhīnaikacittasya karma tasya na gamyate || iti darśanādvaivasvatādikartṛtvaṃ nānyasyeti siddham | asminnarthe hetvantaramāha - || 128 || api sapta || 15 || duṣkṛtināṃ gantavyatvena rauravādisaptanarakā api parameśvarakṛtā itiḥ śrutau spaṣṭamupadiṣṭam | ato yamāntaryāmitayā sukṛtiduṣkṛtināṃ sukhaduḥkhaphalapradāyaktvaṃ tasyaivopadiśyate | tathā ca smṛtiḥ - pāpināṃ vāsayogyāni narakāṇi bahūni ca | kalpayitvā mahādevasteṣu sapta pradhānataḥ || kṛtavān rauravādīni mahāduḥkhaparāṇi | iti darśanāt ananyādhikāratvaṃ śivasya niṣpatyūham |
SK
ननु वैवस्वतं संयमनं जनानां यमं राजानं इत्यादिषु परमेश्वरनिरपेक्षतया यमस्य सर्वजीवशिक्षाधिकारवत्वेन व्यवस्थापनात् शिवस्य तत्कर्तृत्वे तद्वन्निर्धृणत्वं दुर्निवारमित्याशङ्क्य तत्राह - || १२९ || तत्रापि तद्व्यापारादविरोधः || १६ || तत्रापि यमस्य सर्वजीवपुण्यापुण्यकर्मविचाराध्यक्षत्वेऽपि तद्व्यापारात् परमेश्वरनिर्णीतव्यापारात् परमशिवस्य ब्रह्मणस्सर्वाधिकारवत्वविधायकपूर्वोक्तश्रुतिस्मृत्यागमादीनामविरोधः | यथा दयाशीलस्य प्रभोरपि स्वाज्ञाभङ्गात्पुत्रादीनां दण्डनं विहितं तद्वत्परमेश्वरस्यापि तदाज्ञारूपश्रुतिस्मृत्यागममार्गातिक्रमिणां अनिष्टादिकारिणां यमलोके स्वकर्मानुगुणयातनाप्रदायकत्वेन न हि परमदयालुत्वहानिः | नन्विष्टानिष्टादिकारिणां स्वर्गनरकादिफलभोक्तृत्वमस्तु शिवज्ञानसिद्धानां भक्तानां का गतिरित्याशङ्कायामाह - || १३० || विद्याकर्मणोरिति प्रकृतत्वात् || १७ || ब्रह्मविदाप्नोति परम् तदेषाभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् | सोऽश्नुते सर्वान् कामान् सहब्रह्मणा विपश्चितेति इति | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् | ध्यात्वा मुनिर्गच्चह्ति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ||
SK
वेदान्तविज्ञानसुनिश्चितार्थाः परिमुच्यन्ति सर्वे सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रं ध्याननिर्मथनाभ्यासात् पाशं दहति पण्डितः तस्याभिध्यानात् योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः इत्यादिश्रुतिशतेषु शिवज्ञाननिष्ठस्य बाह्याभ्यन्तरयोः तद्ध्यान-धारण-पूजा- brahmanāḍyabhidhānasuṣumnāmārgeṇa pratipāditatvān śoṣiteṣaṇātrayadoṣaśamadamādisahakṛtaśivajñānaniṣṭhāgāriṣṭhānāṃ kaivalyavibhūtyātmakaśivasāyujyaṃ tadbhaktiviśiṣṭānāṃ kalyāṇavibhūtyātmakasālokyādimuktitrayaṃ cādhikāribhedena vyapadiśyate | paramaśivājñārūpajyotiṣṭomādikarmāvalambināṃ devayānamārgeṇa svarlokasukhānubhūtiḥ taditarāṇāṃ śrutismṛtyāgamamārgātikramiṇāṃ duṣkṛtināṃ tattatkarmānusāreṇa yamaloke vā ghoraduḥkhānubhūtiśca nirṇīyate | nanu paramaśivājñārūpaśrautasmārtādikarmiṇāṃ taddhyānadhāraṇādyupāsanāhīnānāmapi sālokyādicaturvidhamuktissambhavatīti āśaṅkya tatrāha - || 131 || na tṛtīye tathopalabdheḥ || 18 || tṛtīye mokṣamārge gacchatāṃ śivaikaniṣṭhānāṃ puṇyāpuṇyalabdhasvarganarakaprāptirna sambhavati tadupalabdheḥ | yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim | tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti || ityādiśrutiśateṣu puṇyāpuṇyavilakṣaṇaśivaikaprāpterbhaktānāmupadiṣṭatvāt śrutyantareṣvapi viṣṇuritthā paramasya vidvān jāto bṛhannabhipāti tṛtīyam ityādiṣu bṛhacchabdenādiviṣṇuḥ tṛtīyaṃ kailāsaṃ rakṣatītyupadiśyate | parātparataraṃ brahma tatparātparato hariḥ | yatparātparato'dhīśastanme manaḥ śivasaṅkalpamastu || ityādiṣu maheśvarasya brahmaviṣṇvapekṣayā tṛtīyasya sarvātiśayitvamupadiṣṭam | tathā smṛtau ca - ādiviṣṇurmahāvidvān mahādevātsadāśivāt | jātassan paramaṃ dhāma tṛtīyaṃ nityavaibhavam || kailāsaṃ bhaktakalyāṇavibhūtihpaladāyakam | śivabhaktyā sadā pāti gaurīśaktyaṃśasambhavaḥ ||
SK
इति दर्शनात् सर्वकाल-सर्वावस्थासु शिवाज्ञारूपश्रौत- avena śarīrendriyamanaḥprāṇajīvādiṣvapi śivabhāvārūḍhassan śivabhaktassadā sthāpya ityupadiśyate | kecidatra - candramasameva te sarve gacchanti iti vākye sarva ityatra kṛtasaṅkocatvamaṅgīkṛtya sukṛtimātraparatvaṃ prasādhya tadya itthaṃ viduḥ ye ceme'raṇye śraddhāṃ tapaḥ ityupāsate te'rciṣamabhisambhavanti | atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisambhavanti ityādinā devayānasya vidyāviṣayatvaṃ pitṛyānasya puṇyakarmaparatvaṃ iti vadanti | tathāpi nāsmanmatavirodhaḥ | tatpakṣe śrutessaṅkocaḥ pūrvoktasmṛtiniravakāśatvādidoṣaprasaṅgaśca durnivāraḥ | asminnarthe hetvantaramāha - || 132 || smaryate'pi ca loke || 19 || loke'pi ca bhaktāḥ puṇyapāpakarmaphalamanubhavantīti smaryate | pūrvaṃ śivārpitakarmiṇāmadya śivayoga-śivajñānaniratiśayānandānubhavena sadā saṃsāraduḥkhatāpatrayadāvānalavilakṣaṇasvabhāvena ca ayaṃ prāk śivasmaraṇena śivārpitasukarmavān iti smaryate | puṇyakarmiṇāṃ gajaturaga-rājya-dhana- दुष्कृतिनामन्धत्व-वधिरत्व-मूकत्व- tasmāllokavyavahārabalādapi pāmarairapi trividhānubhavo nirdiśyate | asminnarthe hetvantaramāha - || 133 || darśanācca || 20 || sarveṣāmahaṃ bhāktikaḥ ayaṃ puṇyavān ayaṃ apuṇyavān iti tu pūrvānu bhūtisaṃskārajanyajñānaṃ smaraṇaṃ iti nyāyena suṣuptisukhānubhavasmaraṇādivanna smaraṇamātraṃ kintu śrutyuktyanubhavadarśanācca bhāktikānāṃ puṇyakarmiṇāṃ ca niḥśreyasābhyudayaphalabhoktṛtvam | pāpināṃ tu vettha yathā kenāsau loko na sampūryate ityasya praśnasya prativacane athaitayoḥ pathorna katareṇa ca tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasva mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na sampūryate iti śrutau duṣkṛtināṃ ghorarauravādinarakeṣau mahāduḥkhamanubhūya pañcamāhutyapekṣayā punaśśarīrārambhakatvañca dṛśyate |
SK
यश्शिवं साम्बमीशानं सर्वलोकगुरुं परम् | चिन्तां विसृज्य दिवसानीषणत्रयमोहितः || वृथा यापयते लोके स वै शमनकिङ्करैः | सदा सन्ताडितोरस्कः यातनाख्यशरीरकम् || धृत्वा तन्मार्गमध्ये च घोरदुःखाकुलान्वितः | यमद्वारपुरोभाग महावैतरणीजले || वह्निज्वालाकुले घोरे तप्यमानकलेवाः | यमं प्राप्याज्ञया तस्य स्वकर्मविधिना ततः || रौरवादिषु सर्वेषु नरकेषु पुनः पुनः | दुःखं प्राप्य पुनस्तद्वत्कर्मशेषेण भूतले || चक्रनेमिक्रमेणैव जायते म्रियते सदा | जरायुजाण्डजादीनि प्राप्यते नात्र संशयः || इति पुराणेष्वपि दुष्कृतिनां यातनाशरीरयमलोकमार्गमध्ये तत्किङ्करैर्दण्ड्यत्वं ततो वैवस्वताज्ञया महाघोरनरकप्राप्तिश्च तदनन्तरं स्वकर्मानुसारेणाण्डजादि चतुर्विधभूतग्रामप्राप्तिश्चेति प्रसिद्धम् | केचित्तु जायस्व म्रियस्व इत्येतत्तृतीयं स्थानं इति श्रुतौ तृतीयस्थानत्वेन नरकस्य प्रयोगदर्शनात् न तृतीये तथोपलब्धेः इति सूत्रस्थतृतीयशब्दस्य नरकविषयत्वं साधयन्ति | विष्णुरित्था परमस्य विद्वान् जातो ब्रुहन्नभिपाति तृतीयम् तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति इत्यादिश्रुतिषु - अनेकजन्मशुद्धानां श्रौतस्मार्तानुवर्तिनाम् | विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः || प्रसन्ने सति मुक्तस्स्यात् मुक्तः शिवसमो भवेत् | अल्पभावोऽपि यो मर्त्यस्तस्य जन्मत्रयात्परम् || इत्यादिस्मृत्यागमादिष्वपि पाप-पुण्यविलक्षणस्य परमपदस्य मुक्तिरूपशिवपदस्य तृतीयत्वं स्पष्टमुपदिष्टम् | नरकपरत्वे विद्याकर्मणोरिति तु प्रकृतत्वात् इति तत्पूर्वसूत्रे विद्याकर्मप्रसङ्गप्रदर्शनात् स्थानप्रकरणलिङ्गात् श्रुति-सूत्रार्थतात्पर्यं ज्ञातव्यमिति विधिविरोधात् पुराणादिष्वपुनरावृत्तनिरतिशयानन्दब्रह्मपदस्य नरकस्वर्गलोकादूर्ध्वव्यवस्थादर्शनाच्च नरकस्य तृतीयत्वश्रुतिर्गौणीति निश्चीयते |
SK
ननु पुराणादिषु पञ्चमाहुतिशास्त्रविरोधेन कुम्भसम्भव- aṇḍajaṃ jīvajaṃ udbhijaṃ iti śrutau aṇḍajāditrividhavyavasthopadeśācca pañcamāhutividhāyakasya bhūtagrāmacatuṣṭayanirdeśakasya ca śāstrasya parasparavirodho'stītyāśaṅkya tatrāha - || 134 || tṛtīyaśabdāvarodhaḥ saṃśokajasya || 21 || pañcamyāmāhutau āpaḥ puruṣavacaso bhavanti iti śrutiniṣṭhaśarīrārambhavidhāyakaśāstrasya kumbhasambhavādyutpattividhāyakapurāṇasya na hiṃsyātsarvabhūtāni iti śrutessarvatropayogitvena sāmānyatvam | yathā agnīṣomīyaṃ paśumālabheta iti śrutestanmātraparatvena viśeṣatvaṃ tadvat satyakāmassatyasaṅkalpaḥ candramā manaso jātaścakṣossūryo'jāyata viśeṣatvaṃ tadvat satyakāmassatyasaṅkalpaḥ candramā manaso jātaścakṣossūryo'jāyata ityādau parameśvarasya satyasaṅkalpatvaṃ upāsyopāsakayorabheda iti nyāyena tadbhaktānāṃ viśvāmitrādimahāpuruṣāṇāṃ satyasaṅkalpatvena jagadvicitrasṛṣṭidarśanāt | pañcamāhutividhāyakaśāstrasya kāraṇapuruṣātiriktapuṇyāpuṇyakarmiparatvamiti niścīyate | kiñca - parameśvarasṛṣṭāvapi bhūtagrāmacatuṣṭayeṣu aṇḍaja- द्योतनान्न सन्देहकलङ्कः | संशोकजस्य स्वेदजस्यापि उद्भिज्जेष्वन्तर्भावात् त्रीण्येव बीजानीति श्रुतिनिष्ठत्रित्वव्यवस्थाऽविरोधः | वृक्ष-लता-पर्वतादि- arthā grāhyaḥ | tasmāt candramasameva te sarve gacchanti iti śrutessaṅkocāsahiṣṇutvena puṇyāpuṇyakarmiṇāṃ sarveṣāṃ aṇḍajatva-jarāyujatva-prāptānāṃ candraprāptipūrvakapañcamyāhutyupadeśo hyavirodhaḥ || tatsvābhāvyāpatyadhikaraṇam || 4 || puṇyakarmiṇāṃ svargātpunarāgamanaprakāraḥ pūrvatra duṣkṛtināṃ śamanaloke narakaprāpti paścādiha loke andhatva- तत्प्रसङ्गे पापिनां विवेकार्थं दृष्टान्तानुसारेण पुनरावृत्तिरहितभक्तानां पुण्यकर्मिणाञ्च प्रसङ्गः कृतः | तत्र पुण्यकर्मिणां स्वर्गात्पुनरागमनं कथमित्याशङ्कायां तत्प्रपञ्चार्थं अधिकरणान्तरमाह - || १३५ || तत्स्वाभाव्यापत्तिरुपपत्तेः || २२ ||
SK
पूर्वं सुकृतात्मनां भूतसूक्ष्मोद्भूतलिङ्गशरीरेण सह स्वकर्मविशेषेण स्वर्गादवरोहणमस्तीत्युक्तम् | तदवरोहणप्रकारोऽत्र प्रदर्शयते | अथैतमेवाध्वानं पुनर्न्निवर्तन्ते यथेतमाकाशं आकाशाद्वायुः वायुर्भूत्वा धूमो भवति धूमो भूत्वा अभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति इति श्रुतिश्रवणात् स्वर्गलोकान्पुनरागच्छतामिष्टादिकारिणां आकाश- ākāśādipratipattau devamanuṣyādibhāvavadākāśādibhāvastatsādṛśyāpattimātrameveti sandihyate | jyotiṣṭomena svargakāmo yajeta ityādau sukṛtātmanāṃ svargalokabhogāttanmadhye'pi tadātmakatvena tadbhogopyastīti prāpte pracakṣmahe - tatsvābhāvyāpattiḥ - tatsādṛśyāpattiḥ kasmādetat upapatteḥ | somabhāvamanuṣyabhāvādau hi sukhaduḥkhabhogāya tadbhāvaḥ | atra tvākāśādau sukhaduḥkhabhogopabhogābhāvāttadbhāvānupapattestayā prativacanaṃ tatsaṃsargakṛtatatsādṛśyāpatyabhiprāyam | kṣīṇasukṛtānāṃ teṣāṃ sambandhamātrasyaivopapannatvādbhogasya teṣu na copapattiḥ | idamupalakṣaṇam | teṣāṃ punaryoniprāptyantaṃ sthūlaśarīrābhāve'pi liṅgaśarīreṇa teṣāṃ tanmadhye bhogasāmarthyābhāvāditi niścīyate | nāticirādhikaraṇam || 5 || vyomādau satvaratvaṃ vrīhmādau kiñcitkālavilambanam nānvākāśādiṣvavasthānamapi teṣāmekaikasmin ekaikadinamātrameva na bahu saṃvatsarakāla mityāśaṅkāyāmadhikaraṇāntareṇāha - || 136 || nāticireṇa viśeṣāt || 23 || phalābhilāṣakṛteṣṭāpūrtādikarmiṇāṃ svargādavarohaṇe vyomādiṣu tara tatra bahukālasthitiniyamaḥ satvaraniyamo veti saṃśayaḥ | ākāśādvāyuḥ ityādinā vyomādibhūteṣu bahukālāvasthānaṃ tattadākāraprāptiścāvagamyate - kiñca - iha vrīhi-yava-oṣadhi-vanaspatayastila-māṣā iti jāyante iti śrutau pravarṣānantaraṃ vrīhiyavādibhāvo darśitaḥ | tasmājjīvasya tatra tatra bahukālasthitireveti prāpte procyate - || nāticireṇeti ||
SK
कुतः || विशेषात् || उत्तरत्र व्रीहियवादिप्राप्तौ अतो वै खलु दुर्निष्प्रपतरम् इति विशिष्यकृच्छ्रनिष्क्रमणत्वाभिधानात् आकाशादिप्राप्तौ अचिरनिष्क्रमणं गम्यते | अतो वै खलु दुर्निष्प्रपतरं इत्यत्र छान्दसः तकारलोपः | दुर्निष्प्रपतरं - दुःखनिष्क्रमणतरमित्यर्थः | अतः व्योमादिसम्बन्धानन्तरं व्रीहियवाद्यवस्थायां कर्मिणां दुःखेन निर्गमनं कालविलम्बेनान्नद्वारा पुरुषसम्बन्धः | अङ्कुरमारभ्य धान्यनिष्पत्तिपर्यन्तं विलम्बः | धान्यनिष्क्रमणानन्तरमपि कुसूलादिप्रक्षेपेण किञ्चित्कालविलम्बनं इति तात्पर्यार्थोऽगम्यते | तस्मात् व्योमादौ सत्वरत्वं व्रीह्यादौ किञ्चित्कालविलम्बनमिति निश्चीयते | अन्याधिष्ठिताधिकरणम् || ६ || ब्रीह्यादिषु दुष्कृतलब्धजडशरीरेण तद्भोगमनुभूय पुनः सुकृतविशेषेण पुण्ययोनिपरिग्रहः सुकृतिनां सर्वत्र सुखानुभवविधिदर्शनात्तेषां व्रीहियवादिष्वपि चिरकालव्यवस्थानव्यपदेशात्तत्र स्वर्गानन्दानुभववदानन्दानुभोगः किं य स्यादित्याशङ्कायामाह - || १३७ || अन्याधिष्ठिते पूर्ववदभिलापात् || २४ || अन्याधिष्ठिते अन्यः व्रीहियवाद्योषध्यभिमानिभिः जीवान्तरैरधिष्ठिते सहकृते ब्रीहियवादौ सुकृतात्मनां चिरकालावस्थानमात्रमेव भोगः | कस्मात् पूर्ववदभिलापात् - पूर्ववदाकाशादिष्विव व्रीहियवादिष्वपि संबन्धमात्रस्यैवेह श्रुतौ कथितत्वात् | तथा च व्रीहियवादिस्थावरदेहाभिमानजीवानामेव वातातपवर्षादिजन्मसुखदुःखानुभूतिः न पान्थतुल्यत्वादाश्रितसुकृतात्मनाम् | अवरोहन्तो जीवाः व्रीहियवादिभावेन जायन्ते इति श्रूयते | मेघो भूत्वा प्रवर्षति | त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते ते किमन्यैर्भोक्तृभिः व्रीह्यादिशरीरैरधिष्ठितान् व्रीह्यादीनाक्षिपन्ति उत ते भोक्तारो व्रीह्यादिशरीरा जायन्त इति सन्दिह्यते |
SK
त इह व्रीहियवा इति जायन्ते इति श्रुतिदर्शनात् यतो वा इमानि भूतानि जायन्ते सोमः पवते जनिता मतीनां इत्यादौ देवा जायन्ते मनुष्या जायन्ते इतिवद्व्रीहियवादिशरीरा एव सुकृतिनो जायन्त इति प्राप्ते प्रचक्ष्महे - || अन्याधिष्ठित || इति | जीवान्तरेणाधिष्ठिते व्रीह्यादिशरीरे तेषां संश्लेषमात्रमेव | कुतः पूर्ववदभिलापात् | आकाशादिमेघपर्यन्तवत् केवलतद्भावाभिलापात् | यत्र हि भोक्तृत्वमभिप्रेतं तत्र तत्साधनभूतं कर्माभिलप्यते | रमणीयचरणाः कपूयचरणाः इति | इह चाकाशादि वन्नाभिलप्यते कर्म कर्मफलप्रदाने प्रवृत्तस्य स्वर्गोपभोग्यफलस्येष्टादेः कर्मणः स्वर्गोपभोगादेव समाप्तत्वात् अनारब्धस्य रमणीयचरणाः कपूयचरणाः इति वक्ष्यमाणत्वात् मध्ये कर्मान्तराभावाच्च आकाशादिभाववचनवत् व्रीह्यादिभावेन जन्मवचनमौपचारिकम् | ननु वेदविहितज्योतिष्टोमादिसुकृतकर्मसु पशुविशसनमांसभक्षणादिघोरपापकर्मदर्शनात् पुण्यापुण्योभयात्मकत्वं प्रतीयते | तस्मात्सुखालयस्वर्गे दुष्कृतदुःखानुभवायोगात् तेषां पुनरागमेन व्रीहियवादिनुष्कृतलब्धजडशरीरेण तद्भोगमनुभूय पुनः पूर्वोक्तस्वकृतसुकृतविशेषेण ब्राह्मणादिमहदैश्वर्यविशेषजन्मपरिग्रह एवेत्याशङ्कायामाह - || १३८ || अशुद्धमिति चेन्न शब्दात् || २५ || नैतदस्ति - यत् अन्याधिष्ठिते व्रीह्यादिशरीरे संश्लेषमात्रं भोक्तृत्वहेत्वभावान्न व्रीह्यादिभावेन जन्म - इति | भोक्तृत्वहेतुसद्भावात् स्वर्गोपभोग्यफलं इष्टादिकर्मैव अशुद्धं पापमिश्रितम् अग्नीषोमीयादि हिंसायुक्तत्वात् | हिंसा च न हिंस्यात् सर्वा भूतानि इति निषिद्धत्वात् पापमेव |
SK
न चात्र पदाहवनीयादिवदुत्सर्गापवादभावः सम्भवति भिन्नविषयत्वात् | अग्नीषोमियहिंसाविधिः हिंसायाः क्रतूपकारकत्वं बोधयति न हिंस्यात् इति तु हिंसायाः प्रत्यवायफलत्वम् | अथोच्यते - अग्नीषोमीयादिषु विधितः प्रवृत्तेर्न तद्विषयं निषेधविधिरास्कन्दति रागप्राप्तविषयत्वात्तम्येति - नैवम् | इहापि रागप्राप्तेरविशेषात् | स्वर्गकामो यजेत इत्येवमादौ हि प्रवर्तते | अग्नीषोमीयादिष्वपि तेषां फलसाधनभूतस्य यागादेरुपकारकत्वं शास्त्रादवगम्य रागादेव प्रवर्तते | लौकिक्यामपि हिंसायां केनचित् प्रमाणेन हिंसायाः स्वसमीहितसाधनत्वमवगम्य रागात् प्रवर्तत इति न कश्चन विशेषः | तथा नित्येष्वपि कर्मसु सर्ववर्णानां स्वधर्मानुष्ठाने परं अपरिमितं सुखम् इत्यादिवचनात् फलसाधनत्वमवगम्य रागादेव प्रवृत्तिरिति तेषामप्यशुद्धियुक्तत्वम् | अतः इष्टादीनां पापमिश्रत्वेनाशुद्धियुक्तानां स्वर्गोऽनुभाव्यं फलं तत्रानुभूय हिंसांशस्य फलं व्रीह्यादिस्थावरभावेनानुभूयते | स्थावरभावञ्च पापफलं स्मरन्ति शरीरजैः कर्मदोषैर्याति स्थावरतां नरः इति | अतो व्रीह्यादिभावेन भोगाय अनुशयिनो जायन्त इति चेत् - तत्र कुतः शब्दात् - अग्नीषोमीयादेः संज्ञपनस्य स्वर्गलोकप्राप्तिहेतुतया हिंसात्वाभावशब्दात् पशोर्हि संज्ञपननिमित्तकां स्वर्गलोकप्राप्तिं वदन्तं शब्दमामनन्ति हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति इत्यादिकम् | अतिशयिताभ्युदयसाधनभूतो व्यापारोऽल्पदुःखदोऽपि न हिंसा प्रत्युत रक्षणमेव | तथा च मन्त्रवर्णः - न वा उ एतन्म्रियसे नरिष्यसि देवान् इदेपि पथिभिः सुगेभिः | यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवः सविता दधातु || इति | चिकित्सकञ्च तादात्विकाल्पदुःखकारिणमपि रक्षकमेव वदन्ति पूजयन्ति च तज्ज्ञाः | छागपशुप्रत्याम्नायेन पिष्टपशुग्रहणमविरोधम्
SK
किञ्च - वायव्यं पशुमालभेत इत्यादिश्रुतिचोदितत्वेन त्यागीयहिंसायाः न पापजनकत्वम् | तस्माज्जीवाधिष्ठित-बीहियवादिषु सुकृतात्मनां सम्बन्धमात्रमेव न भोग इति निश्चीयते | ननु अग्नीषोमीयं पशुमालभेत इत्यादिश्रुतिषु श्रौतकर्मसु पशुविशसनमुक्तम् | तन्नरमेधाश्वमेधादिवत् प्रात्यक्षिकपशुविशसनं पितृमेधादिवत् पिष्टपश्वादिग्रहणं वा युक्तम् | मा हिंस्यात्सर्वा भूतानि अग्नीषिमीयं पशुमालभेत छागस्य वपया मेधसोऽनुब्रूहि इत्यादिश्रुतिषु हिंसानिषेधानिषेधव्यपदेशात् पिष्टपशुपरिग्रहः अर्थादुपदिश्यते | पुरुषं वै देवाः पशुमालभन्त तस्मादालब्दात् मेध उदक्रामत् सोऽश्वं प्राविशत् तस्मादश्वो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्याज्यन्त स किंपुरुषोऽभवत् तेऽश्वमालभन्त सोऽश्वादालब्धादुदक्रामत् स गां प्राविशत् अथैनमुत्क्रान्तमेधमत्यज्यन्त स शरनोऽभवत् ते गामालभन्त सोऽविं प्राविशत् तस्मादविर्मेध्योऽभवत् अथैनमुत्क्रान्तमेधमत्याज्यन्त स गवयोऽभवत् तेऽविमालभन्तः सोऽवेरालब्धादुदक्रामत् सोऽजं प्राविशत् तस्मादजो मेध्योऽभवत् अथैनमुत्क्रान्तमेधमत्याज्यन्त स वृषभोऽभवत् तेऽजमालभन्त सोऽजादालब्धादुदक्रामत् | स व्रीहिं प्राविशत् इति | ऋग्वेदेऽपि वपायाः परिशेषप्रमाणेन व्रीह्याद्योषधिप्रवेशकथनात् | मनुस्मृतावपि - कुर्याद्धृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा | न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन || यावन्ति पशुरोमाणि तावत्कृत्वेऽह मारणम् | वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि || यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति | स सर्वसहितः प्रेप्सुः सुखमत्यन्तमश्नुते || इति | शातातपेऽपि - ज्योतिष्ठोमादिकृत्येषु तन्मन्त्रोच्चारणेन वै | पशुप्राणान् हरेद्विप्रो न बन्धनविधेः क्वचित् || यो मन्त्रसिध्या यज्ञेषु पशुप्राणान्निहन्ति वै | स तु प्रत्यक्षपशुना कुर्याद्यज्ञं सुशोभनम् || मन्त्रसिद्धिविहीनानां प्राकृतानां द्विजन्मनाम् | पिष्टाकारेण छागेन ज्योतिष्टोमादिकं विधिः ||
SK
इति दर्शनाच्च | मन्त्रोच्चारणमात्रेण पशुप्राणाकर्षणसमर्थानां वाक्शुद्धियुतानां चेतनछागपशुना ज्योतिष्टोमादिकं निर्दिश्यते | तद्वदसमर्थानां पिष्टपशुयाग एव युक्तः | पिष्टपशोर्मन्त्रेण प्रानावाहनस्य तद्वत्प्राणोत्क्रमणस्य च सम्भवेन वैदिकलौकिकविरोधो न भवति | सोमलताप्रतिनिधित्वेन यथाम्ललतापरिग्रहणं तद्वत् छागपशुप्रत्याम्नायेन पिष्टपशुब्रह्मणमविरोधम् | ननु इह लोके सोमलताऽदर्शनात् तत्प्रतिनिधिस्वेनाम्ललतापरिग्रहणमुपपन्नम् | छागस्येह सम्भवेन तद्वन्न विधीयत इति चेन्न | पितृमेधकामानां अश्वमेधादिवत्पितृ मेधे प्रत्यक्षस्वपितृवधप्रसङ्गात् पित्रात्मकपिन्डच्छेदनेन पितृमेधस्य निष्फलत्वदोषाच्च प्रेतत्वनिवृत्तौ तन्डुल-गो-वृषभसंस्कारकर्मणः चातुर्मास्या वै पशवः इत्यत्र पिष्टपशुग्रहणविधेश्च दत्ताञ्जलित्वसम्भवाच्च | किञ्च - मन्त्रसिद्धिप्रधानभूतविधिविहितोपनयन- tasmādyāgīyakarmasu piṣṭapaśuparigrahaṇaṃ yuktam | kiñca - tatsukṛtātmanaḥ tapo-vidyā-yaśo- सम्भवतीत्याशङ्कायामाह - || १३९ || रेतस्सिग्योगोऽथ || २६ || सुकृतात्मनां व्रीह्यादिजन्मवचनमौपचारिकम् | व्रीह्यादिप्रवेशानन्तरमेवोत्तमपुरुषशरीरे प्रविश्य रेतोरूपेण परिणम्यते यो यो ह्यन्नमत्ति यो यो रेतस्सिञ्चति तद्भूय एव भवति इति रेतस्सिग्भावोऽनुशायिनां श्रूयमाणो यथा तद्योगमात्रमुपदिष्टं | तद्वत् व्रीह्यादिभावोऽपि निर्दिष्टः | पुरुषहृदयप्रविष्टानां सुकृतकर्मिणां शुक्लावच्छिन्नानां कथं शरीरोत्पत्तिस्सम्भवतीत्याशङ्कायामाह - || १४० || योनेः शरीरम् || २७ ||
SK
द्युलोके देवत्वं प्राप्तानां सुकृतात्मनां यदा रेतोरूपेण योनिप्रवेशस्तस्य तदैव शरीरमुत्पद्यते | तथापि तेषां गर्भवेदनादिदुःखसद्भायात् बाल्याद्यवस्थास्वपि तत्तत्क्लेशानुभवदर्शनाच्च जन्ममरणदुःखदूरीकृताचार्यकटाक्षलब्धशक्तिपातादिवशेन निर्धूतपाशपटलस्सन् प्रारब्धप्रतिभासनाशपर्यन्तं शिवतत्त्वज्ञानदृढफलक-ध्यान-धारण वैराग्य-शम- nirantaramananyabhāvenasampādanīyamiti bhāvaḥ | tathā siddhāntaśikhāmaṇau - asthire kṣaṇike saukhye putradārādisambhave | kṣayitvādiyute svarge kasya vāṁñchā vivekinaḥ || śive paramakalyāṇe bhaktābhīṣṭaphalaprade | saṃsthāpya sarvadā cittaṃ vicaredbhaktimānnaraḥ || iti | śaive - putramitrakalatrādīn bāndhavābhāsasaṃjñikān | mahāmohaikajanakan śivajñānanirodhakān || vihāya śaṅkare cittaṃ dātavyaṃ mokṣakāṃkṣibhiḥ || iti śravaṇānmumukṣūṇāṃ paralokagamanāgamanasādhakapuṇyapāpakarmakartṛtvaṃ vihāya nirantaraṃ śivajñānārthaṃ śivopāsanameva kartavyamiti veditavyam | tasmātsukṛtātmanāṃ prāṇākāśādiprāptiprabhṛtitadyogamātrameveti siddham | iti śrīmadyativrajaparivṛḍha-śrīpatipaṇḍitabhagavatpādācāryasvāmikṛta- श्रीकरभाष्ये उपासनाभिधानस्य तृतीयाध्यायस्य तदन्तरप्रतिपत्यादिषष्ठाधिकरणावच्छिन्नतदन्तरप्रतिपत्तावित्यादि- tṛtīyādhyāyasya prathamaḥ pādaḥ śrīkarabhāṣye tṛtīyādhyāyasya dvitīyaḥ pādaḥ svapnaprapañcadṛṣṭāntena jaganmithyātvavādimatanirākaraṇam
SK
परमेश्वराज्ञाभूतातिवर्णाश्रमानुकूलश्रुतिस्मृत्युक्तः पुण्यकर्मानुष्ठानाद्दुरितक्षयः | दुरितक्षयेण श्रुतिस्मृत्यागमादिसच्छास्त्रविश्वासः | तद्विश्वासविचारेण नित्यानित्यवस्तुविवेकः | तद्विवेकादिहामुत्र फलभोगविरागः | तद्विरागेण शमादिषट्कसम्प्राप्तिः | तत्फलेन मोक्षैकनिष्ठया शिवाचार्यानुग्रहः | ततो मोक्षानुकूलपति-पशु- ataśśivasākṣātkāracittaikatvakāraṇaśivayogābhyāsaḥ | tadabhyāsena ahaṃ- पापबुद्धिनिवृत्तिपूर्वकपुण्यकर्मानुष्ठानहेतुना वर्णाश्रमाचारनिष्ठानां सुकृतिनामिह परलोकेषु सुखानुभूतिः | तद्व्यतिरिक्तानां पापिनां घोरनरकवेदना च दर्शिता | इह तु केचित् निष्प्रपञ्च-निर्धर्मिक-निर्गुण-निरवयव-निर्भेदनित्ये ब्रह्मणि प्रपञ्चकारणत्वायोगात् स्वप्नप्रपञ्चदृष्टान्तेन जाग्रत्स्वप्नसुषुप्तिमूर्छावस्थानां चतसृणामपि मिथ्यात्व साधयन्ति | तच्छुद्धाद्वैत-बुद्धाद्वैत-शुष्काद्वैत- sandhyādhikaraṇam || 1 || svapnasya bhaviṣyacchubhāśubhaphalasūcakatvadarśanāt svapnasyāpi satyatvapratipādanam nanu svapnendrajālasadṛśamacintyaracanātmakaṃ ityādi purāṇāgamādiṣu svapnavatprapañcasya mithyātvakathanātpūrvoktapuṇyāpuṇyakarmiṇāṃ svarganarakānubhavānāṃ asatyatvamarthātsiddham | ataḥ parameśvarārpaṇapūrvakasukṛtakarmānuṣṭhānasya na ki~citprayojanamityāśaṅkāyāmāha - || 141 || sandhye sṛṣṭirāha hi || 1 || sandhye svapnāvasthāyāṃ sṛṣṭiḥ sandhyāsvapnāvasthānugatacarācaraprapañcasṛṣṭiḥ pāramārthikī | kutaḥ āha hi | na tatra rathā na rathayogā na panthāno bhavanti | atha rathān rathayogānpathaḥ sṛjate ityādiśrutau svapnaprapañcasya pratipāditatvāt styatvam tasmāt svapnaprapañcadṛṣṭāntena jāgratprapañcasya mithyātvānumānapradhāna-
SK
न तत्र रथा न रथयोगा न पन्थानो भवन्ति | अथ रथान् रथयोगान् पथः सृजते | न तत्राङन्दा मुदः प्रभुदो भवन्ति अथानन्दान् मुदः प्रमुदः सृजते | न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति अथ वेशान्ताः पुष्करिण्यः स्रवन्त्यः सृजते | स हि कर्ता इति श्रुतौ स्वप्नमधिकृत्य श्रूयते | तस्मादत्र जाग्रत्प्रपञ्चसृष्टिवत् स्वप्नरपञ्चसृष्तिः जीवकृता ईश्वरकृता वा तत्सत्यमसत्यं वा इति सन्दिह्यते | ईक्षणादिप्रवेशान्तसृष्टिरीशेन कल्पिता | जाग्रदादिसुषुप्त्यन्तसृष्टिर्जीवेन कल्पिता || इति वाक्यदर्शनात् सन्ध्ये सृष्टिर्जीवेनेति | कुतः स्वप्नावस्थानमुच्यते सन्ध्यं तृतीयं स्वप्नावस्थानम् इति वचनात् | सा तु जीवेनैव सृजते | स हि कर्ता इत्याह हि | स्वप्नदृग्जीव एवात्र प्रतीयते | किञ्च - स्वप्नगतगजस्यन्दनादिप्रपञ्चस्य प्रबोधे मित्थात्वदर्शनात् तद्वज्जाग्रत्प्रपञ्चस्यापि रज्जुसर्पादिवन्मिथ्यात्वमुपपन्नमिति प्राप्ते प्रचक्ष्महे | सन्ध्ये स्वप्ने सृष्टिः गजतुरगादिनानाचित्रसृष्टिः आह हि जीवान्तर्यामितया व्यापकस्य परशिवब्रह्मणः इति श्रुतिः प्रतिपादयति | ईश्वरस्सर्वभूतानां प्रधानक्षेत्रज्ञपतिर्गुणेशः इत्यादिबहुश्रुतिषु सर्वजीवनियामकत्व-सर्वजीवबन्ध-मोक्षकर्तृत्व- kiñca - svapnādhyāyānusāreṇa svapnasya bhaviṣyacchrubhāśubhaphalasūcakatvadarśanāt svapnasyāpi satyatvam | jīvāntaryāmitayā svapnaprapañcasya kartṛtvamīśvarasyaiva nanu - ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ iti śrutau svagne putramitrakalatrādisṛṣṭeḥ svatantratayā jīvasyaiva kartṛtvavyapadeśāt kathamīśvarasya svapnādisṛṣṭissambhavati ityāśaṅkāyāmāha - || 142 || nirmātāraṃ caike putrādayaśca || 2 ||
SK
य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इत्येवं जीवं स्वप्ने कामानां निर्मातारमेके शाखिनो वदन्ति | सर्वान् कामान् छन्दतः प्रार्थयस्व शतायुषः पुत्रपौत्रान् वृणीष्व इति जीवस्य च सत्यसङ्कल्पत्वं प्रजापतिवाक्ये श्रुतम् | तस्माज्जावस्थैव स्वाप्नकर्तृत्वमिति चेदयुक्तम् - परमेश्वरस्याष्टमूर्तिषु जीवस्यैक मूर्तित्वात् स्वप्नस्रष्टृत्वादिधर्माः परमेश्वरस्योपपन्नाः | अत एव खं ब्रह्म कं ब्रह्म असावादित्यो ब्रह्म अयमादित्यो ब्रह्म इत्यादिश्रुतिषु शिवैकनिष्ठब्रह्मशब्दस्याकाश-वायु- nirmātāraṃ sraṣṭāraṃ śrutiḥ pratipādayati | tathā ca karturicchānusāreṇotpādyamānatvādapi svapnakālikāḥ putramitrakalatrādayaḥ padārthāśca satyā evāṅgīkartavyāḥ | putrādayaśca tatra kāmyamānatayā kāmaśabdena nirdiśyante mithyātvapakṣe karturicchādhīnatvānupapatteḥ | na hi mithyābhūtasya śukti-rajata-rajju-sarpādeḥ karturicchādhīnatvaṃ loke dṛṣṭam | tathā ca jīvāntaryāmitayā svapnaprapañcasya kartṛtvamīśvarasyeti śrutestātparyam | etena ca svapnaprapañcasya tātparyeṇa śrutipratipādyatvamasti | na tatra rathā iti pūrvavākye pāramārthikarathādīnāṃ pratiṣiddhatvāt svapnaprapañcadṛṣṭāntena brahmaikyatvavādo'pyanupapanna iti siddham | jaḍapradhānasya paramaśivabhinnaśaktirūpasya tadviśiṣṭasya baddhajīvasya ca na svapnaprapañcakartṛtvam nanu ajāmekāṃ lohitaśuklakṛṣṇāṃ ityādiśrutiṣu jaḍasya pradhānasya jagatkāraṇatva nirdeśāccetanasya jīvasya kathaṃ svapnaprapañcakartṛtvamityāśaṅkāyāmāha - || 143 || māyāmātrantu kārtsnyenānabhivyaktasvarūpatvāt || 3 || tu śabdaḥ jīvakartṛtvaṃ vyāvartayati | svapne rathapuṣkariṇyādyarthajātaṃ māyāmātraṃ paramapuruṣaparaśivasṛṣṭāvityarthaḥ - māyāśabdo'hyāścaryavācī | janakasya kule jātā devamāyeti nirbhitā | himādritanayā gaurī māyā nāmnī maheśvarī || bhaktābhīṣṭapradā nityā śivādhīnā cidātmikā |
SK
इत्यादिपुराणेषु मायां तु प्रकृतिं विन्द्यात् मायिनं तु महेश्वरम् इत्यादिश्रुतिष्वपि दर्शनात् | अत्रापि न तत्र रथा रथयोगा न एन्थानः इत्यस्य सकलेतरपुरुषानुभावितया न भवन्तीत्यर्थः | अथ रथान् रथयोगात् पृथक् सृजते | स्वप्नदृगनुभाव्यतया तत्कालमात्रावसानान् सृजते || इत्याश्चर्यरूपत्वमेवाह | एवंविधाश्चर्यरूपा सृष्टिस्सत्यसङ्कल्पस्य परमपुरुषस्य शिवस्योपपद्यते न जीवस्य | तस्य सत्यसङ्कल्पत्वादियुक्तस्यापि संसारदशायां कर्त्स्न्येनानभिव्यक्तस्वरूपत्वात् न जीवस्य तथा विधाश्चर्यसृष्टिरुपपद्यते | काम कामं पुरुषो निर्मिमाणः इति च श्रुतिः परमपुरुषमेव निर्मातारमाह | य एष सुप्तेषु जागर्ति तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते | तस्मिन् लोकाः श्रितास्सर्वे तदु नान्येति कश्चन || इत्युपक्रमोपसंहारयोः परमशिवासाधारणस्वभावप्रतीतेः | अथ वेशान्तान् पुष्करिण्यस्स्रवन्त्यः सृजते स हि कर्ता इति च तथा श्रुत्या ऐकार्थ्यात्परमपुरुषमेव कर्तारं निर्दिशति | तस्माज्जडप्रधानस्य परमशिवभिन्नशक्तिरूपस्य गुणत्रयात्मकस्य तद्विशिष्टस्य किञ्चिज्ज्ञस्य बद्धजीवस्य च स्वप्नप्रपञ्चनिर्मातृत्वमनुपपन्नम् | जीवस्य पाशमायामोहितत्व-पाशमोक्षयोश्च परमेश्वरायत्तत्त्वात् स्वप्नकर्तृत्वमपि नेतरस्य किञ्च - लोके जीवेच्छानुसारेण स्वप्नप्रपञ्चोत्पत्यदर्शनात् अनिष्टानां दुस्स्वप्नानामै द्योतनाच्च जीवेश्वरयोः चित्त्वेनैकत्वान्न तयोर्वैलक्षण्यमित्याशङ्कायामाह - || १४४ || पराभिध्यानात्तु तिरोहितम् ततो ह्यस्य बन्ध-विपर्ययौ || ४ ||
SK
ज्ञाऽज्ञौ द्वावजावीशानीशौ इत्यादिश्रुतियुक्त्यनुभवैः दिव्यमणिव्यर्थपाषाणादिवत् शिव-जीवयोरन्योन्यभेदस्य सिद्धत्वेन पराभिध्यानात् शिवाभिन्नचिच्छक्तिव्यतिरिक्तत्रिगुणात्मक पाशरूपजडपराप्रकृत्यभिध्यानात् दृढस्पृष्टत्वात् जीवस्य स्वज्ञानं तिरोहितं आवृतम् | ततः आवृतत्वाद्धेतोः अस्य बन्ध-मोक्षविपर्ययौ | शरीरेन्द्रियमनःप्राणादिषु अहं-ममेत्यभिमानो बन्धः | बहुजन्मकृतपुण्यपरिपाकेन स्वज्ञान-शिवज्ञानपूर्वकं- tathā śaive śrūyate - śive sanātane sāmbe nityakalyāṇavaibhave | parāpareti bhedena tasya śaktiḥ prakāśitā || aparā saccidānandalakṣaṇā sarvamaṅgalā | guṇatrayavibhedena bhāsate sarvajantuṣu || śivārpaṇakṛtātpuṇyāt śivānugrāhako bhavet | tasmādguṇātmikā māyā pāśakhapā parābhidhā || vinaśyate tathā jīvaḥ śivo bhavati nānyathā | iti | īśaṃ jñātvā tasyābhidhyānāt jñātvā śivaṃ śraddhābhaktiḥ ityādi śrutāvapi yadā hyevaiṣa etasminnadṛśye'nātme'nirukte'nilayane'bhayaṃ pratiṣṭhāṃ vindate atha so'bhayaṃ gato bhavati yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati eṣa hyevānandayāti bhīṣāsmādvātaḥ pavate ityādi śrutiṣu ca tasya bandha- केचिज्जीवस्य सत्यसङ्कल्पत्वादिकं स्वाभाविकमपि परमेश्वरमायया तिरोहितमिति वदन्ति | तदयुक्तं - सत्यसङ्कल्पस्वभावस्य मायातिरोहितत्त्वासम्भवात् अमुक्तस्य जीवस्य स्वतः स्वाभाविकसत्यसङ्कल्पत्वे परमेश्वरनिष्ठाऽद्वितीयसत्यसङ्कल्पत्वादेरतिव्याप्तिप्रसङ्गादिदोषाच्च | तस्मात्तस्य पाशमायातिरोहितत्वम् | पाश-मोक्षयोश्च परमेश्वरायत्तत्वात् | अतः स्वप्नकर्तृत्वमपि नेतरस्येति सिद्धम् | शिवाचार्यकृपालब्धशक्तिमहिम्ना जीवस्य शिवज्ञाननिरोधकाहं ममत्वादिकमुत्पाठ्यते शाम्भवमायया तिरोहितस्वज्ञानस्य जीवस्य शिवज्ञाननिरोधकं अहंममत्वादिकं केनेकोत्पाट्यत इत्याशङ्कायामाह - || १४५ || देहयोगाद्वा सोऽपि || ५ ||
SK
प्रलयकाले जीवस्य सुषुप्तिवत्पाशरूपपराभिध्यानादचिच्छक्तियोगात्सर्वज्ञानं तिरोहितम् | सृष्टिकालेप्यचिच्छक्तियोगेन स्थूल-सूक्ष्म-शरीरसंयोगात् अहं-ममत्वादिकं सम्भवति विवेकिनाम् | अतोऽहं- sādhanopāyaḥ adyaiva kartavya iti vedavedānteṣu gīyate | ācāryavān puruṣo veda iti | atyāśramasthassakalendriyāṇi nirudhya bhaktyā svaguruṃ praṇamya sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭham ityādiśrutiṣu śarīrasaṃyogājjīvasya paramaśivapratibimbabhūtaśivācāryakṛpālabdha śaktipātādivaśena mokṣa āmnāyate | śaktipātasvarūpaḥ śaktipātavidhānantu śivāgameṣu daśitaṃ yathā - paripakvamahāpa᳚amalavicchedahetukam | śaktipātaṃ śivācāryo kuryācchiṣyasya sādarāt || śaktipātena jīvo hi brahmarūpatvamaśnute | śaktipātañca sarveṣāṃ aparicchinnamavyayam || paramānandajananalakṣaṇaṃ vā prayojanam | tacchaktipātaṃ deveśi tīvramandādibhedataḥ || bhaktādyaikyāntabhedena ṣaḍvidhaṃ parikīrtitam | iti | tasmāt śaktipātalakṣaṇamāmnāyate | paripakvamalotpāṭanahetuśśaktipātaḥ | tena jīvasya paraśivabrahmarūpatayā niratiśayāparicchinnasukhāvirbhāvalakṣaṇaprayojanamupadiṣṭam | śaktipātastu tīvramandādibhedena bhaktādyaikyāntasthaleṣu ṣaḍvidho'bhūt pati-paśu pāśādiparamarahasyaprakāśakanigama-āgama- अखण्डाकारवाक्यजन्यबुद्धिवृत्तौ निरतिशयानन्दात्मकमहेश्वरत्वाविर्भावः प्रथमो भक्तस्थले निर्दिष्टः | तद्वदविद्यासम्पुटोद्धूलनलक्षणोन्मेषणप्रकटामलसत्त्वचिद्धनसदाशिव- kuṇḍalinyā suṣumnāmārgeṇa cakraṣaṭkaṃ bhittvā brahmarandhradeśe śivayogābhyāsavaśāt śiva-śaktisaṃyogalakṣaṇaḥ tṛtīyaḥ prasādisthale prapañcitaḥ | śiṣyānugrahātiśayena deśikaḥ svadehamutsṛjya chātraśarīre praviśya tadīyanāḍīśodhanadvārā tatkuṇḍalinyā saptacakreṣu sañcāraṇena śivavat sarvabhuvanagamanaparokṣapradarśanarūpaḥ caturthaḥ prāṇaliṅgisthale nirūpitaḥ |
SK
प्राणापानपवनसंयोगेन सुषुम्नानाडीमध्यप्रकाशकचित्कलामयकल्याणविभूतिं लब्ध्वा सदा अणिमाद्यष्टैश्वर्यसम्पन्नः पञ्चमः शरणस्थले कथितः | विद्याऽविद्याविलक्षण-निरतिशय-निरञ्जन-निर्विकार-निरवयव- pracaṇḍātapamadhyanikṣiptanirvātaniścalakarpūradīpavat sthitiṃ vyapohya śarīrendriyamanaḥprāṇādibāhyābhyantaravastuparijñānaśūnyamano- एवंविधशक्तिपातेषु पिपीलिका-मर्कट-पक्षि-गो-मत्स्य- ityupadiśyate | tasmājjīvasyeśvarādhīnatvamīśvarasya jāgratsvapnasuṣuptyavasthākalpakatvamanivāryam | tasmin lokāḥ sthitāssarve tadu nānyeti kaścana iti smṛtau sarveśvarasya sarveṣu supteṣu jāgaraṇaṃ sarvalokāśrayatvamityādyananyasādhāraṇadharmā hyupadiṣṭāḥ | jīvānāmalyālpakarmānugunaphalānubhavārthaṃ tāvanmātrakālāvasthānāt tadekānubhāvyānarthānutpādayatīti rāddhāntaḥ | mithyātvasamarthanaparatve śruti-sūtravirodho durnivāraḥ nanu nityanirvikārasvabhāvasya brahmaṇaḥ durvikāramithyābhūtaprapañcakartṛtvāyogāt svapnaprapañcakāraṇatvamanupapannam | tatra putramitrakalatrādivastujātasya jāgradavasthāyāmavidyamānatvāt mithyātvamanivāryam | tadvajjāgratprapañcasyāpi gandharvanagarādivadasatyatvamevetyāśaṅkāyāmāha - || 146 || sūcakaśca hi śruterācakṣate ca tadvidaḥ || 6 || yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati | samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane || iti |
SK
अथ स्वप्नाः - पुरुषं कृष्णं कृष्णदन्तं पश्यति | स एनं हन्ति इत्यादेश्च स्वप्नाध्यायविदश्च स्वप्नं शुभाशुभयोः सूचकमाचक्षते | सूचकत्वञ्च स्वसङ्कल्पायत्तस्य नोपपद्यते | तथा च अशुभस्यानिष्टत्वात् शुभस्य सूचकमेव सृष्ट्वा पश्येत् | अतः स्वप्नसृष्टिरीश्वरेणैव कृता इति निश्चीयते | जीवस्य स्वप्नसृष्टिमात्रोपयोगिसत्यसङ्कल्पत्वाद्याविर्भावस्तदानीं स्यादिति शङ्काव्यावृत्यर्थमिदं सूत्रम् | स्वप्नाध्यायविदः स्वप्नवाचिवेदवाक्यविदः | शुभाशुभफलप्राप्तिव्यपदेशान्न स्वप्नस्य मिथ्यात्वम् | अत एव प्रपञ्चस्यापि सत्यत्वमर्थात्सिद्धम् | अत्र परे तु स्वप्नार्थानां ईश्वरसृष्टतया वियदादिवत् पारमार्थ्यं पूर्वपक्षीकृत्य देशकालनिमितैः दुर्निरूपतया मिथ्यात्वं सिद्धान्तयन्ति | एषां च मते जीवकर्तृकत्वमेव सृजत इति यदुच्यते तदौपचारिकम् | सुखदुःखदर्शननिमित्तसुकृतदुष्कृतकर्तृत्वनिबन्धनः औपचारिकः स्वप्नार्थकर्तृत्वव्यपदेशः | बहिष्कुलायादमृतश्चरित्वा इति स्वप्नविषया श्रुतिश्च बहिरिव चरित्वेत्येवं परा तस्मिन् प्रकरणे तदीश्वरप्रतिपादनं जीवस्य तदनन्यत्वेन सत्यसङ्कल्पतया स्रष्टृत्वशङ्कां व्युदस्यति | क्षरं प्रधानममृताक्षरं हरः क्षरात्मनावीशते देव एकः तस्याभिध्यानाद्योजनात्तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः इति श्रुतौ जीवस्य ज्ञानैश्वर्यशक्त्यादिसर्वमहिमातिशयवत्वं पाशतिरोधाननिवृत्तिः शिवध्यानाभिधानात्तु उपदिष्टम् | अतोऽस्य बन्धमोक्षौ शिवाधीनौ | स च तिरोभावः सूक्ष्मस्थूलदेहयोगादिति योजयन्ति |
SK
तत्र तावत्पादानुगतार्थतत्संगती अनुपपन्ने जीवत्वावस्थानिरूपणं चेत् पादकृत्यं फलाधिकरणासङ्गतिः | न चेश्वरो जीवावस्था तस्य ब्रह्मणि कल्पितस्य जीवाध्यस्तत्वात् | परमात्मनिरूपणम् पादकृत्यं चेत् स्वप्नार्थानां जीवकर्तृकतया मिथ्यात्वोक्तिरिह न सङ्गच्छते | पूर्वपक्षश्चानुपपन्नः मिथ्यात्वस्य सिद्धान्तकरणायोगात् | मिथ्यात्वं ह्यारम्भणाधिकरणे कृत्स्नप्रपञ्चस्य समर्थितम् | यदा वियदादेरपि मिथ्यात्वसिद्धिः तदा कैमुत्यसिद्धं स्वप्नार्थमिथ्यात्वमित्यधिकरणवैयर्थ्यम् | वियदादीनां व्यावहारिकसत्वत्वमस्ति स्वाप्नार्थानं तदपि नास्ति व्यवहारविसंवादात् इति वियदादिवैलक्षण्यप्रतिपादनार्थोऽयमारम्भ इति चेन्न | व्यवहारविसंवादस्य प्रबोधसमये सर्वलोकसम्प्रतिपन्नत्वात् | वैधर्म्याच्च न स्वप्नादिवत् इत्यत्र तद्वैषम्यस्योक्तत्वाच्च श्रुतिवाक्यकृतसत्यत्वशङ्काव्युदसनार्थं आरम्भ इति चेन्न - सूत्र- sarvalokāśrayatvādibhiḥ svarasapratipannamīśvarasṛṣṭṛtvaṃ na bādhitavyam | īśvarasṛṣṭatvasya vyāvahārikasatyatvanivṛtyavirodhāt | upāsanāviśeṣapratiparāvaradevatāprasādalabdhānāṃ svapnānāṃ brahmadattopādhidṛṣṭānāmapi vyāvahārikasatyatvanivṛttestvadiṣṭatvāt | vyāvahārikasatyatvābhāvaḥ sādhyaścet jīvakartṛtvāśrayaṇamapi viruddham jīvakartṛkaghaṭādīnāmiva vyāvahārikasatvatvaprasaṅgāt | jīvasraṣṭṛtvasyāntimasūtradvayavyudastatvācca jīvasya mukhyaṃ sraṣṭṛtvaṃ vyudastam sukhādyavabhāsamūlādṛṣṭakartṛtvādaupacārikaṃ kartṛtvamiti na virodha iti cet jīvādṛṣṭamūlānāṃ dehendriyāsargādīnāmiva vyāvahārikasatyatvaprasaṅgāt jīvādṛṣṭamūlatve'pi dehasargādīnāmīśvarādhīnatvamasti iti cet tādṛśamīśvarādhīnatvaṃ svāpnārthānāmapyasti tadadhīnatvasya bhavadanumatatvācca | sarvadeha-sarvakālavarti-sarvajantudṛṣṭa- परमैश्वर्यमीश्वरस्य न स्यात् | उभयविधप्रपञ्चस्यापि प्रतीतिसत्वमविशिष्टम् | बाधस्याशुतरत्वविलम्बौ हि वैषम्यम् |
SK
एवं जीवानां साक्षात् स्वप्नार्थकर्तृत्वाभावस्य मिथ्यात्वादुपयुक्तस्य सूत्रितत्वादेव सूत्रकारेण मिथ्यात्वस्य निषेध्यत्वमवगम्यते | सूचकश्चेति विरुद्धसूत्रप्रणयनाच्च विरुद्धत्वं वक्ष्यामः | अतो ह्यस्मिन् साध्ये सूत्राण्युपयुक्तानि स्युः न त्वनुपयुक्तविरुद्धानि | तदेव साध्यं भवितुमर्हति | ईश्वरस्य स्रष्टृत्वं पूर्वपक्षयुक्तिश्चेत् पुत्रादयश्चेति सूत्राशो निष्फलः | पुत्रादिस्रष्टृत्वस्य जीवेषु सम्भवतः ईश्वरसाधकत्वायोगात् | मायाशब्दस्य मिथ्यात्ववाचित्वाभावाच्च | अक्षराननुगुणत्वं सूधकश्चेति सूत्रं च विरुद्धम् | मिथ्यात्वविरोधित्वादर्थक्रियायाः सूच्यस्येव पारमार्थ्यं न सूचकस्येत्यभिप्राय इति चेन्न - अशाब्दत्वात् | उत्सूत्राभिप्रायकल्पने च श्रुतिविरुद्धकल्पनायोगात् पराभिध्यानात्तिरोधाननिवृत्तिरिति योजनायां अध्याहारव्युत्क्रमान्वयौ स्फुटतरौ | सोऽपीति तिरोभावपरामर्शश्चायुक्तः तिरोभावशब्दस्याप्रकृतत्वात् | तिरोहिनमिति निर्दिष्टे तिरोधानरूपधात्वर्थमात्रस्य तदिति परामर्णार्हस्य स इति परामर्शायोग्यत्वाच्च पुल्लिङ्गपदेषु प्रयुक्तेषु कस्यचिदर्थ उचितः परामर्शनीयः | श्रुतिवाक्यञ्च निरूप्यम् | न भवन्तीति श्रुतिर्मुख्या | तदनुरोधेन सृजतिर्भाक्त इति वा भवतां निर्वाहः | सृजतेर्भाक्तत्वं स्थितम् | पूर्ववाक्यमपि विफलं लोकप्रसिद्धत्वात् स्वाप्नमिथ्यात्वस्य | अप्राप्ते हि शास्त्रमर्थवत् | अतो वैयर्थ्य भाक्तत्वाभ्यां वाक्यद्वयमपि दुस्तरम् |
SK
मिथ्याभूतं स्वप्नार्थजातमनूद्य भाक्तेन सृजातिना जीवादृष्टमूलत्वं प्रतिपाद्यत इति वाक्यैकत्वमिति चेन्न - उद्देश्यविशेषणभूतमिथ्यात्वानुरोधेन उपादेयवचनस्वारस्यभङ्गस्य न्याय - विदामनमिमतस्वात् उभयमुख्यत्वसम्भवेऽन्यतरामुख्यत्वाश्रयणानुपपत्तेश्च | न च न भवन्ति इति जागरितानुभूतार्थाभावप्रः प्रबोधे दृश्यानां रथादीनां स्वप्नसमये विद्यमानत्वात् | न च स्वप्नार्थानां प्राक्कालीनाभावपरः | स्वप्नकल्पितानां पूर्वमभावस्य लोकसिद्धत्वात् | न च न भवन्तीति स्वप्नजाग्रद्दृष्टानां अन्योन्याभावोक्तः लोकप्रसिद्धत्वादेव | अतः स्वाप्नार्थानां प्रसिद्धरथादिभावप्रतिषेधेन तद्वैजात्यं प्रतिपाद्यते | तेन तदेकानुभाव्यत्वतत्तत्कालावस्थायित्वरूपं वैलक्षण्यमुक्तं स्यात् | अतो वैलक्षण्यविशिष्टं ईश्वरसृष्टत्वं प्रतिपादयिषितमिति वाक्यैकत्वमवैयर्थं अभाक्तत्वं न्यायविरोधश्च भवति | तस्मान्मिथ्यात्वसमर्थनपरत्वे श्रुतिसूत्रविरोधो दुर्निवारः | तदभावाधिकरणम् || २ || सुप्तिगमनहेतुत्वं शिवस्यैव ननु स्वप्नकारणत्वमीश्वरस्यास्तु सुप्तिहेतुत्वं कस्योपपद्यते तत्सुप्तौ स्थूल- prapañcavismṛtiḥ keno'tpadyate iti śaṅkāyāmadhikaraṇāntaraṃ darśayati | jīvasya rājasādṛśya pratipādanam || 147 || tadabhāvo nāḍīṣu tacchruterātmani ca || 7 ||
SK
पूर्वमत्र स्वप्नावस्थां विचार्यं तत्कर्तृत्वं तत्कृतकर्मानुसरणेन परशिवस्य ब्रह्मणः प्रसाध्य इदानीं सुषुप्त्यवस्थाकर्तृत्वं तज्जीवनियामकत्वञ्च तस्यैवेति निर्णीयते | जाग्रत्स्वप्नेष्वहंममत्वादिना शरीरेन्द्रियाद्यमिमानवान् शारीरः सुप्त्यवस्थायां तदभावस्सन् तस्य शरीरेन्द्रियाद्यभिमानस्याभावो यस्य सः देहाभिमानरहितस्सन् नाडीषु चात्मनि च चकारात् हृत्पुण्डरीके शेते | नाडीहृत्पुण्डरीकादिप्राकारप्रवेशद्वारा तत्पुण्डरीकावच्छिन्नशिवचिच्छक्त्यंशभूतगुणत्रयसमष्ट्यात्मकतमः- nāḍīṣu supto bhavati | nāḍībhyaḥ pratyavasṛpya purītati śete | purītataḥ pratyavasṛpya sati śete | sati sampadya na viduḥ sati sampadyāmaha iti śrutau nāḍīpurītadvārā śārīrasya purītadavacchinne sarvādhiṣṭhānaparaśivabrahmaghoratamasvarūpapradhāne suṣuptyavasthāyāṃ śayanaśravaṇādityācakṣyate | tacchratyarthastu jīvākhyo rājā jāgratsvapnaprapañcayoḥ svarāṣṭrayoḥ sañcaran kāraṇaśarīrākhyasvapuraṃ kāraṇaśarīrākhyasvapuraṃ praviśya tato nāḍīḥ praviśati nāḍībhyo nirgatya hṛdayapuṇḍarīkaṃ praviśati tatpuṇḍarīkānnirgatya tadavacchinnabrahmasānnidhye tadghoraśaktyātmakatamaḥpradhānaprāsāde śete | atha yatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānāti | āsu tadā nāḍīṣu supto bhavati iti | tathā atha yadā suṣupto bhavati yadā na kasyacana veda hitā nāma nāḍyo dvāsaptatisahasrāṇi hṛdayātpurītatamabhipratiṣṭhante tābhiḥ pratyavasṛpya purītati śete iti yatraitatpuruṣaḥ svapiti nāma satā saumya tadā sampanno bhavati | iti | suṣuptikāle sakale vilīne tamo'bhibhūtaḥ sukharūpameti karṇikāyāṃ svapnaḥ liṅge suṣuptiḥ padmatyāge turīyā - jāgratsvapneṣu jīvastu rāgadveṣādisaṅkulaḥ | suṣuptau tadabhāvācca jīvaśśaṅkaratāṃ gataḥ ||
SK
इत्यादिश्रुतिस्मृतिषु जीवस्य सुषुप्तौ द्वासहस्रसप्ततिनाडीषु तन्मूलभूतपुरीतन्नाड्यां हृदयपुण्डरीके ब्रह्मणि तमः प्रधाने च शयनोपदेशात् यथा ब्रीहिभिर्यजेत यवैर्वा यजेत इत्यादिवत् विकल्पो वा समुच्चयो वा इति सन्दिह्यते | अथ यदा सुषुप्तौ भवति इति श्रुतावस्य जीवस्य स्वहृदयपुण्डरीकप्रासादशायित्वव्यपदेशात्तस्यैव सुप्तिकर्तृत्वं सूचितम् | लिङ्गे सुषुप्तिः सता सौम्य तदा सम्पन्नो भवति इत्यादिश्रुतिशतेषु तस्य तत्र तदीश्वरप्राप्तिमत्तत्वमिगि यत्तदयुक्तम् | ब्रह्मविदाप्नोति परम् न स पुनरावर्तते इत्यादिषु ईश्वरप्राप्तानामपुनरावृत्ति- tadīśvarāvacchinnatamaśśaktivilīnatvamiti yatadanupapannam - tamaḥprakāśavatsvaprakāśasya jñānātmakasya brahmaṇastamorūpajñānaśakteḥ parasparavirodhasvabhāvatvāt ekamevādvitīyaṃ brahma eka eva rudro na dvitīyāya tasthe ityādibahuśrutivirodhācca | nanu āgamanaprayojanatve tulyakāryatayā yugapadanekasyānavṛttyayogāt kāryabhedāvagamakatvena prāsādakhaṭvāparyaṅkānāmiva kāryabhedāt samuccayavidhitvamāśritya vrīhibhiryajate ityatra puroḍāśaniṣpādanaprayojanavat suptiprayojanakatvena kadācinnāḍīṣu kadācit hṛdaya puṇḍarīke paramātmani ca tasya tatra śayanamiti cedasamañjasaṃ mukhyavidhyabhāvahetutvena anavasthāprasaṅgāt | ataḥ svahṛdayapuṇḍarīka eva suptau sthitiriti prāpte pracakṣmahe - || tadabhāva iti ||
SK
सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति | इत्यादि- nāḍīṣu purītati ātmani ca bhavatītyeṣāṃ sthānānāṃ samuccayo nirṇīyate | kutaḥ tacchruteḥ tasya sthānatrayavidhāyakaśrutidarśanāt | tasmāttasya suptau hṛtpuṇḍarīkāvacchinnaśivatattvaprāptisambhave'pi tamorūpapāśaśaktiviśiṣṭatayā tatprāpteranupapannatvāt punaḥpunarāgamanamupapadyate | na sa punarāvartate iti śratīnāṃ parameśvaradhyānadhāraṇādyupāsanajñānadvārā pāśavicchedalakṣaṇapūrvakamuktajīvaparatvādavirodhaḥ | jīvasya gamanāgamanavelāyāṃ tatpāśaśaktyā svajñānatirohitatvasambhavāt suptigamanahetutvamapi śivasya spaṣṭamupadiṣṭam | ata eva pradhānakṣetrajñapatirguṇeśaḥ saṃsāramokṣasthitibandhahetuḥ yato vā imāni bhūtāni jāyante ityādau sṛṣṭi-sthitilayāvirbhāva-tirodhānātmaka- तेजस्तिमिरवत्पाशशक्तिपरमेश्वरयोः न परस्परविरोधः श्रुतियुक्त्यनुहवसिद्धत्वात् स्वाधीनशक्तत्वात् स्वजन्यत्वाच्च | समस्तसाक्षिं तमसः परस्तात् विज्ञानं चाविज्ञानं च | मत्यं चानृतं च सत्यमभवत् इत्यादिश्रुतिषु अविरोधतया तमःपरत्व-तमोधिष्ठानत्व- saudhapraveśavirodhavannāḍyādipraveśastu mūlājñānatamaśśaktiviśiṣṭatayā parameśvarasānnidhyapraveśāpratiyogīti siddham | atassuptau tūlājñānāpannasya jīvasya mūlājñānāvacchinnahetudvārā nāḍyādimārgeṇa jāgratsvapnāyāsaśamanāya śiva eva svasānnidhye niveśya svānandaniveśaṃ dadātīti niścīyate | nanu parameśvaro hi jīvasya svasānnidhye paramānandapradassyāttathāpi punaḥprabodhakāle puṇyāpuṇyaphalabhogārthaṃ śārīrasyaiva svātantryeṇa punarāgamanamastu ityāśaṅkāyāmāha - || 148 || ataḥ prabodho'smāt || 8 || yato brahmaiva sākṣātsuṣuptisthānaṃ ataḥ asmāt brahmaṇaḥ eṣāṃ jīvānāṃ prabodho nirdiṣṭaḥ | sa ta āgamya na vidussata āgacchāmahe iti ityādiśrutiśravaṇāt |
SK
तस्माज्जीवस्य न स्वतः प्रबोधकर्तृत्वम् | सुप्त्यवस्थानन्तरं हृदयपुण्डरीके प्रभासमानज्योतिर्मयलिङ्गे परब्रह्मणि मायपाशावच्छिन्नशयनो जीवः प्रबोधः प्रकृष्टो बोधो यस्य सः - शरीरेन्द्रियाद्यभिमानविशिष्टस्सन् पुनरुत्थाय जाग्रत्प्रपञ्चाख्यराष्ट्रदर्शनाय हृदयपुण्डरीकपुरीतन्नाडीप्राकारद्वारा शरीराख्यपुराद्बहिर्गच्छति | स यदा प्रबुध्यते यथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गाः प्रतिष्ठेरन् एवमेव तस्मादात्मनस्सर्वे प्राणा यथापतनं प्रतिष्टन्ते प्राणेभ्यो देवाः देवेभो लोकाः इति श्रुतिरेषात्र भगवता स्पष्टमुपदिष्टा | स त आगय इति श्रुत्या समुच्चय एवाङ्गीकर्तव्यः | विकल्पपक्षे च अष्टौ दोषाः इति श्रीकण्ठशिवाचार्यैः उक्तम् | यदा जीवो नाडीषु शेते तदा पुरीतद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यजेत अप्राप्तं चाप्रामाण्यं स्वीक्रियेत | यदा पुनः पुरीतद्ब्रह्मणोः शेते तदा पुरीतद्ब्रह्मवाक्ययोः पूर्वं त्यक्तप्रामाण्यं स्वीक्रियेत पूर्वस्वीकृतं चाप्रामाण्यं परित्यज्येत एवं प्राप्ते - अष्टौ दोषाः परित्यागः अप्राप्तस्वीकारः परित्यक्तस्वीकारः स्वीकृतपरित्यागश्च इति दोषचतुष्टयम् | पुरीतद्ब्रह्मवाक्यकोटौ तथा नाडीवाक्यकोटौ च दोषचतुष्टये योजिते सति अष्टौ दोषाः भवन्ति | अतो न विकल्पपक्ष इति सिद्धम् |
SK
नाड्यादीनामेकार्थत्वात् ब्रीहियवादीनामिव विकल्प इति पूर्वपक्षयुक्तिं परे वदन्ति | परम्परयैकप्रयोजनत्वे समुच्चयस्स्यादिति निरपेक्षत्वप्रतीतिरेव विवक्षितेति तैरपि वक्तव्यम् | तासु तथा भवति | यथा सुप्तः स्वप्नं न कञ्चन पश्यति | अथास्मिन् प्राण एवैकधा भवति ताभिः प्रत्यवसृप्य पुरीतति शेते इति नाड्यादिसमुच्चयश्च श्रुत्या प्रदर्श्यत इति सिद्धान्तयुक्तिरुक्ता | तत्र नाडीनां प्रत्यवसर्पणमार्गत्वमात्रं प्रतिपन्नमिति तासां सुषुप्तिस्थानत्वे समुच्चयाप्रतीतेः तदनादरः | नाडीपुरीततोर्जीवाधारत्वव्यपदेशः | तदुपाध्याधारतया ब्रह्माधारत्वं नाम ब्रह्मात्मकत्वमिति चायुक्तम् | सुषुप्त्युत्क्रान्त्योर्भेदेन इति सूक्तित्वात् वैयधिकरण्यश्रुतीनामस्वारस्याच्च | ननु यत्रैष एतत्सुप्तौ य एष विज्ञानमयः पुरुषस्तदैष प्राणानां विज्ञानेन विज्ञानमादाय एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते इति पुरीतति शेते इति च श्रुत्योः कथं न विरोधः अत्र आकाशे परमात्मनीति परे तथापि हृदय इति वचः पुरीतच्छयनेन विरुद्धम् | अतः आकाशशब्दवाच्यपुरीतदाख्यधर्म्यैक्यादविरोध इति वाच्यम् | हृदयवेष्टनमानं पुरीतत् | तच्च हृदयाधारः | अतो न विरोध इत्यन्ये | तच्चायुक्तम् - हृदयान्नाडीभिः प्रत्यवसृप्य पुरीतति शयनस्य हृदि शयनस्य च विरोधात् | अन्ये तु स्वपे तान्तर्यामिकः परमात्मानं उपैति इति वदन्ति | तच्चायुक्तम् - अन्तर्यामिण ईश्वराद्व्यतिरिक्तस्यैव परमात्मनः प्रामाणिकत्वात् प्राज्ञेनात्मना सम्परिष्वक्तः इति श्रुतिविरोधाच्च | तस्मात्पूर्वोक्तं समञ्जसम् | कर्मानुस्मृतिशब्दविध्यधिकरणम् || ३ || सुषुप्तौ संसरन् जीवः परशिवाख्यं ज्योतिर्लिङ्गं उपसम्पद्य आश्वस्तः पुनर्भोगायोत्तिष्ठति
SK
ननु पूर्वदिनीया एव जीवास्सुप्तिदशायां सूक्ष्मावस्थापन्नान्तःकरणविशिष्टतया हृत्पुण्डरीकावच्छिन्ने ज्योतिर्लिङ्गे लीनास्सन्तः उत्तरदिनेषु स्थूलावस्थापन्नान्तःकरणावच्छिन्नतया तदभिव्यक्ताः भवन्ति वा उत पूर्वदिनीयान्तःकरणावगतजीवानां सर्वात्मना सुषुप्त्यवस्थायां ब्रह्मण्यात्यन्तिकलये सत्यभिमानान्तःकरणयोगाः तदभिमानजीवाः उत्पद्यन्ते वा इत्याशङ्कायां अधिकरणान्तरेण निर्णयमाह - || १४९ || स एव तु कर्मानुस्मृतिशब्दविधिभ्यः || ९ || यस्तु पूर्वदिने सुप्तिदशायां हृदयपुण्डरीकावच्छिन्नज्योतिर्लिङ्गात्मकपरशिवे लीनः स एवोत्तरदिने स्थूलान्तःकरणापन्नतयाभिव्यक्तो भवति | कुतः || कर्मानुस्मृतिशब्दविधिभ्यः || पूर्वदिने कृतस्य श्रोत्रियस्य चाश्रोत्रियस्य कर्मणः अस्मिन् दिने स्मरणात् तु इह व्याघ्रो वा सिंहो वा इति श्रुतिश्रवणात् ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादिविधिवाक्याच्चेत्येतेभ्यो हेतुभ्यः इत्युच्यते | प्रतिदिनं भिन्नभिन्नजीवाङ्गीकारे अन्यस्य ज्योतिष्टोमकर्तृत्वं अन्यस्य तद्भोक्त्तृत्वमिति स्वर्गकामस्य ज्योतिष्टोमविधायकवाक्यं अप्रमाणं स्यात् | त इव व्याघ्रो वा सिंहो वा इत्यारभ्य यद्यद्भवन्ति तत्तदा भवन्ति इति वाक्यं अप्रमाणं स्यात् तस्य वाक्यस्य पूर्वदिनीयानामेव जीवानां सुप्तिदशायां सूक्ष्मरूपान्तह्करणविशिष्टानां उत्तरदिनेषु स्थूलान्तःकरणविशिष्टतया अभिव्यक्तिरिति निर्दिश्यते | नोचेत्पूर्वदिनानुभूतकर्मणोऽस्मिन्दिने स्मरणं न स्यात् अन्येनानु भूतस्यान्येन स्मरणासम्भवाच्च | यत्रैतत्पुरुषस्वपिति नाम सता सौम्य तदा सम्पन्नो भवति इति श्रुतिरेवात्र विषयः | किं सुप्त एव प्रबोधसमये उत्तिष्ठति उत अन्य इति सन्दिह्यते |
SK
ब्रह्म वेद ब्रह्मैव भवति न स पुनरावर्तते यथा नद्यः इत्यादि श्रुतिशतेषु ब्रह्मभावापन्नस्य पुनरावृत्तिप्रतियोगित्वव्यपदेशात् | सता सौम्य तदा सम्पन्नो भवति इत्यत्र ब्रह्मप्राप्तानां सुप्तानां कथं पुनरावृत्तिरुपपद्यते सर्वेषां जीवानां सुप्तिप्रबोधदर्शनात् उत्थितोऽन्य एव ती प्राप्तेऽभिधीयते | स एव त्वित्यत्र तु शब्दः पक्षं व्यावर्तयति | स एवोत्तिष्ठति | कुतः || कर्मानुस्मृतिशब्दविधिभ्यः || कर्म तावत् सुषुप्तेन पूर्वकृतं पुण्यपापरूपं तत्त्वज्ञानात् प्राक् तेनैव भोक्तव्यम् | अनुस्मृतेरपि | य एवाहं सुप्तः स एव प्रबुद्धोऽस्मि इति शब्दोऽपि सुप्तप्रबुद्ध स एवेति दर्शयति | त इह व्याघ्रो वा सिंहो ववृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति इति विधयश्च मोक्षार्थाः | सुषुप्तस्य मुक्तत्वेऽनर्थकास्युः | न चासौ सर्वोषाधिविनिर्मुक्तपरशिवत्वं प्राप्तः तद्यत्रैतत्सुषुप्तः इति सुषुप्तं प्रकृत्य नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि | विनाशमेवाषीतो भवति नाहमत्र भोग्यं पश्यामि इति श्रुतिश्रवणात् | मुक्तस्य च परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते | स तत्र पर्येति जक्षत् क्रीडन् रममाणः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति सर्वं ह्यपश्यः पश्यति सर्वमाप्नोति सर्वशः इति कल्याणविभूतिं प्राप्तानां कैलासवासिनां सालोक्य सामीप्य-सारूप्यसिद्धानां सर्वज्ञत्वादिपरमेश्वरधर्माः श्रूयते | अतस्सुषुप्तः संसरन्नेव आयस्तसर्वकरणो ज्ञानभोगाद्यशक्तो विश्रमस्थानं परशिवाख्यं ज्योतिलिङ्गं उपसम्पद्य आश्वस्वस्तः पुनर्भोगायोत्तिष्ठति | मुग्धाधिकरणम् || ४ || सुषुप्त्यवस्था मूर्छावस्थयोः परस्परवैलक्षण्यकथनम्
SK
शरीरत्रयेष्वस्थात्रयं श्रुतियुक्त्यनुभवारूढमपि सुषुप्तिसदृशतया मूर्छावस्था काचिददृष्टा | तस्मात्सा तद्विलक्षणा तदन्तर्भूता वेति शङ्कायां अधिकरणान्तरेण सुषुप्त्यवस्थामूर्छावस्थयोः परस्परवैलक्षण्यमाह - || १५० || मुग्धेऽर्धसम्पत्तिः परिशेषात् || १० || मूर्छावस्थायां हृत्पुण्डरीकवच्छिन्नज्योतिर्लिङ्गे ब्रह्मणि देहाद्यभिमानविशिष्टस्य जीवस्यार्धसम्पत्तिरर्धलय एव | न तु सुषुप्तिदशायामिव सर्वात्मना तदभिमानलयः | मूर्छितस्य पुरुषस्य बाह्यपदार्थज्ञानाभावेऽप्यान्तरदुःखानुभवसन्धानस्य विद्यमानत्वेन देहाद्यभिमानस्यापि लेशतो ह्यङ्गीकर्तव्यत्वात् | तथा च परिशेषात् अवस्थात्रयविलक्षणत्वात् मूर्छावस्था भिन्नैव | पूर्वत्र सुप्तजीवप्रकारत्वमभिधायेदानीं मुग्धमधिकृत्य चिन्त्यते | मूर्छितः पुरुष इति लोके सर्वानुभवदृष्टत्वान्मूर्छेति काचिदवस्था विद्यते | तदवस्था सुषुप्त्यादिष्वन्यतमा न वेति विशयः | अवस्थान्तरकल्पने मानाभावात् सुषुप्त्यादीनामन्यतमावस्थायामेव मूर्छाप्रसिध्युपपत्तेः इयमन्यतमावस्था इति प्राप्ते प्रचक्ष्महे | मुग्धे पुरुषे या अवस्था सा मरणायार्धसम्पत्तिः कुतः || परिशेषात् || न तावत्स्वप्नजागरौ ज्ञानाभावात् | निमित्तवैरूप्यादाकारवैरूप्याच्च न सुषुप्तिमरणे | निमित्तं हि मूर्छाया अभिघातादिः | पारिशेष्यात् मरणायार्धसम्पत्तिर्मूर्छा | मरणं हि सर्वप्राणदेहसम्बन्धोपरतिः | किञ्च - निमित्तवैरूप्यात्सुषुप्तिव्यावृत्तिः आकारवैरूप्यान्मरणव्यावृत्तिः न सुषुप्तिमरणेत्युक्तेरासन्नतया सुषुप्तिमरणयोर्मध्यस्थत्वात्पारिशेष्यमुक्तम् | पश्चान्मरणान्तर्भावशङ्कायामाकारवैरूप्यं विवृतम् | सुषुप्तौ प्राणो भूयिष्ठमुपपद्यते मूर्छायामल्पः किञ्चिदुपलभ्यते मृतौ न किञ्चिदपि | बाह्यवायुना भूयिष्ठमाप्यायितस्सुषुप्तौ मूर्छायां किञ्चिदाप्यायित अनाप्यायितस्य प्राणस्योपलम्भानर्हत्वात् |
SK
अन्ये तु मूर्छितः किं मरणाव परमात्मानमभिसम्पन्नः उत स्वाप्ने तस्मिन्विलीनः उत प्रकारान्तरगतः इति विचारमाचक्षते | जाग्रदादिष्वन्यतमे त्वेकविचारान्तर्भावात् पृथक्करणे फलाभावात् द्वेधा विचार उचितः | विचारस्य परमात्मपर्यन्तत्वञ्च विहितम् | तस्मात्सूक्ष्मप्राणदेहसम्बन्धावस्थितिर्मूर्छेति निर्णीयते | उभयलिङ्गाधिकरणम् || ५ || परब्रह्मणः शिवस्य मूर्तामूर्तोभयलिङ्गत्वप्रतिपादनम् पूर्वत्र त्वंपदार्थवाच्यस्य जीवस्य परमात्मज्ञाननिरोधकमहाघोरसंसारोत्तारणहेतुभूतवैराग्योदयार्थं सूत्रकारेण तस्य जाग्रत्स्वप्नसुषुप्तिमुग्धोत्क्रान्त्यवस्थां निरूप्य तत्कर्मानुसरणेनैव ईश्वरस्य तत्कर्तृत्वनिरूपणात् तत्पदार्थः परमात्मा कीदृशः सावयवो वा निरवयवो वा इत्याशङ्कायां तल्लक्षणमधिकरणान्तरेण निरूपयति - || १५१ || न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि || ११ || परस्य जगत्कारणस्य शिवस्य उभयलिङ्गं भावप्रधानो निर्देशः | उभयलिङ्गत्वं नाम लिङ्गरूपेण शिवभक्तगात्रेषु काशी- deva-manuṣyādisarvaśarīrāntaryāmitayā mūlādhāra-hṛdaya- सालोक्यादित्रिविधापवर्गात्मककल्याणविभूत्यर्थं धर्मार्थ-काम- niravayavasvabhāvatayā nikhilajagadvyāpakatvañca nirdiṣṭam | atastasya tadubhayaṃ svābhāvikameva | kecit - parasya nirgu'niravayavatvamātraṃ svābhāvikaṃ satyasaṅkalpatvādisaguṇatvamāgantukaṃ ubhayorekatra virodhāt mandabuddhīnāmupāsanārthaṃ mithyābhūtasaguṇatvamaupādhikabhedenāṅgīkartavyam iti vadanti | tanmataṃ nirākaroti || na sthānata iti || upādhitaḥ saguṇatva- प्रतिपादनात्तस्योभयलिङ्गत्वं स्वाभाविकमेवेति निर्दिश्यते | रुद्रो वा एव यदग्निस्तस्यैते तनुवौ घोरान्या शिवान्या इति या ते रुद्र
SK
शिवा तनूरघोरा पापकाशिनी | तया नस्तनु वा शन्तमया गिरिशन्ताभिचाकशी हि | सोमा रुद्रा युवमेतान्यस्मै विश्वा तनूषु भेषजानि धत्तम् | अवश्यतं मुञ्चतम् इत्यादिना वेदेषु आकाशशरीरं ब्रह्म शान्तिसमृद्धममृतम् इत्यादिना वेदान्तेषु अन्तरर्लिङ्गधारणम् आधारे कनकप्रख्यं हृदये विद्रुमप्रभम् | भ्रूमध्ये स्फटिकच्छायं लिङ्गं योगी विभावयेत् || लिङ्गधारिब्राह्मऽलक्षणम् मुखे मन्त्रं हृदि ध्यानं मस्तके लिङ्गधारणम् | रुद्राक्षञ्च शिखा भस्म तद्वै ब्राह्मणलक्षणम् || इत्यादिषु स्मृतिषु बाह्यलिङ्गधारणञ्चोपदिष्टम् अन्तर्धारणशक्तो वा ह्यशक्तो वा द्विजोत्तमः | संस्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरस्थले || धार्यं विप्रेण मुक्त्यर्थं एवं वेदेषु गीयते | तस्मात्स्थूले च सूक्ष्मे च शिवलिङ्गं चिदात्मकम् | धारयेत्सततं भक्त्या भवबन्धविमुक्तये || इत्यादिना शिवागमेष्वपि तदुभयस्य समानत्वेन स्वाभाविकतया बहुधा प्रपञ्चितत्वात् अर्धजरतीन्यायवदप्रसिद्धत्वात् पक्षैकत्वमयुक्तम् | अतः उभयविधिवलादुभयसिद्धिः इति न्यायेन तस्मोभयलिङ्गत्वं निष्प्रत्यूहमेव | परमेश्वरस्य दहरोपास्यत्वसमर्थनम् तैत्तिरीये - दहरं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसṁस्थम् | तत्रापि दहरं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् || इति परमेश्वरस्य दहरोपास्यत्वं विधाय सः कः इत्याशङ्काया - यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः | तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः || इति तत्रोपास्यो महेश्वर इति स्पष्टमुपदिश्य तद्भक्तवरिष्ठत्वेन दृष्टान्ततया सहस्रशीर्षं देवं इत्यनुवाके नारायणहृदयावच्छिन्नशिवोपासनं प्रदर्श्य निधनपतये नमः इत्यादिना तस्य सर्वात्मकत्वमभिधाय एतत्सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् इति बाह्याभ्यन्तरभेदेन तस्य मूर्ताऽमूर्तत्वव्यपदेशात् |
SK
किञ्च - कैवल्ये हृत्पुण्डरीकं विरजं विशुद्धं इत्यारभ्य उमासहायं परमेश्वरं प्रभुं ध्यात्वा मुनिर्गच्छति भूतयोनिं इति वालाग्रमात्रं हृदयस्य मध्ये विश्वेदेवं जातवेदसं वरेण्यं इत्यथर्वशिरसि अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः इति कठवल्यां अथास्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम् इति छान्दोग्ये एषोऽसौ परमो हंसो भानुकोटिप्रकाशो येनेदं व्याप्तं तस्याष्टधा वृत्तिर्भवति पूर्वदले पुण्ये मतिः लिङ्गे सुषुप्तिः इति हृदयान्तर्व्र्तिनः परब्रह्मणश्शिवस्य लिङ्गरूपत्वं स्पष्टमुपदिष्टम् | ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः इति सामशाखायां लिङ्गं ब्रह्मैव केवलम् इति सामरुद्रसूक्ते दर्शनात् परस्य सावयवत्वं निरवयवत्वं उभयात्मकत्वं वा किञ्च - सर्वजीवान्तर्यामित्वेन जीवकृतपुण्यापुण्यफलभोक्तृत्वं च युक्तं न वा इति सन्दिह्यते | उभयात्मत्वप्रतिपादनम्
SK
उभयविधिबलादुभयसिद्धः इति न्यायेन शिवस्य परब्रह्मणः मूर्ताऽमूर्तत्वमश्रौतमिति चेत्तदयुक्तम् | अचक्षुः श्रोत्रं तदपाणिपादं नित्यं सर्गवतं सुसूक्ष्मम् अप्राणो ह्यमनाश्शुभ्रः आकाशवत्सर्वगतो निरञ्जनः निष्कलं निर्गुणं शान्तं निरवद्यं निरञ्जनं अशब्दमस्पर्शमरुपमव्ययं इत्यादिश्रुतिकदम्बेषु तस्य मूर्तत्वस्य निषिद्धत्वात् मूरत्वे व्यापकत्वाभावात् जीवद्राग-द्वेष-सुख-दुःखानुभावप्रसङ्गात् शीर्यत इति शरीरं इति व्यवस्थादर्शनात् स्वेच्छाधीनविग्रहत्वेप्यपुरुषार्थत्वसम्भवाच्च अर्धजरतीन्यायवेदकस्य परस्योभयधर्मत्वं सम्भवति | यस्यात्मा शरीरं यो रुद्रोऽग्नौ इत्यादिषु सर्वान्तर्यामित्व सर्वशरीरत्वञ्चोपपन्नमिति चेत्तदनुपपन्नम् - tattatsambandharūpapuruṣārthadyotanācca neha nānāsti ityādiśrutiṣvadvitīyatvavyavasthāpanena brahmabhinnajīveśvarādiprapañcasya mithyātvasya arthātsiddhatvāt rajvāropitasarpavatkālatraye'pi pāramārthikatvena sāvayavatvasarvajñatvādidharmāvacchinneśvaro nāstīti prāpte pracakṣmahe - a sthānato'pīti |
SK
हिकारेण पूर्वपक्षं निरस्यति | न स्थानतोऽपि परस्य इति | न माहेश्वरादि- granthaḥ sambhavati kutaḥ ubhayaliṅgaṃ sarvatrā yatassarvatra śrutismṛtyāgamapurāṇādiṣu tasyobhayaliṅgatvaṃ mūrtā'mūrtobhayātmakatvamupadiśyate | atastasya bāhye kāśī-śrīśaila- मूलाधार-हृदय-भ्रूमध्य-ब्रह्मरन्ध्रादिस्थलेषु जगदेककारणभूतचिदाकाशरूपेण अमूर्तत्वं चोपपन्नम् | तैत्तिरीयके च दहरं विपापं इत्यादिना ज्योतिर्लिङ्गानुसन्धानरूपान्तर्लिङ्गधारणं एतत्सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् इत्यनेन बाह्यसीङ्गधारणं चोपदिष्टम् | यश्छन्दसां ऋषभो विश्वरूपः छन्दोभ्योऽध्यमृतात्सम्बभूव | स मेन्द्रो मेधया स्पृणोतु | अमृतस्य देवधारणो भूयासं शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा कर्णाभ्यां भूरिविश्रुवं | ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय इति बाह्यलिङ्गधारणं सत्यात्मप्राणारामं मन आनन्दं य एषोऽन्तर्हृदय आकाशः तस्मिन्नयं पुरुषो मनोमयः अमृतो हिरण्मयः | अन्तरेण तालुके य एष स्तन एवालम्बते सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते | व्यपोह्य शीर्षकपाले इत्यादिना आभ्यन्तरलिङ्गधारणञ्च दृश्यते | किञ्च - सच्चत्यच्चाभावात् निरुक्तञ्चाऽनिरुक्तञ्च विज्ञानं चाऽविज्ञानञ्च सत्यञ्चाऽनृतञ्च सत्यमभवत् इति मूर्ताऽमूर्तत्वमेकस्य तस्योपदिष्टम् | तस्याभिध्यानाद्योजनाचत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः इति श्वेताश्वतरे तस्याभिध्यानात् इत्यनेनान्तर्लिङ्गानुसन्धानं योजनात् इत्यनेन बाह्यलिङ्गधारणं चोपदिष्टम् | लिङ्गधारणस्थानानि निरूप्यन्ते सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः | सर्वव्यापी च भगवान् तस्मात्सर्वगतः शिवः || इत्यनेन श्वेताश्वतरे | मस्तके कन्धरे कक्षे कुक्षौ वक्षस्थलेऽपि वा | तथा पाणितले वापि प्रणलिङ्गं धरेत्सुधीः || इति वचनात् बाह्यलिङ्गधारणम् | सर्वभूतगुहाशयः इत्यादिना अस्यान्तरेऽप्युपदिष्टम् |
SK
त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते | धारयन्ति तु ये भक्त्या धारयन्ति तमेव ते || इति बृहज्जाबाले लिङ्गधारणस्य सर्वातिशयत्वं मनसि निधाय तत्तुल्यत्वं त्रिपुण्ड्रधारणस्योपदिश्यते | किञ्च - कैवल्यशाखायां उमासहायं तमसः परस्तात् इत्यत्र उमासहायं इत्यादिना सगुणत्वं समस्तसाक्षिं तमसः परस्तात् इत्यादिना निर्गुणत्वं चैकस्योपपद्यते | साक्षी चेता केवलो निर्गुणश्च इति श्रुत्यन्तरप्रतीतेः साक्ष्यात्मकस्य परस्य निर्गुणत्वमुपदिष्टम् | तथा स्मृतावषि - शिवं प्रशान्तममृतं सर्वज्ञं सर्वतोमुखम् | सत्यसङ्कल्पसंयुक्तं सत्यकामं सनातनम् || मूर्ताऽमूर्तात्मकं शुद्धं भक्ताभीष्टफलप्रदम् || मणिकङ्कणकेयूरमकुटादिविभूषितम् | नीलग्रीवं विरूपाक्षं उमावामाङ्गभासितम् || कोटिपूर्यप्रतीकाशं कोटिकन्दर्पसुन्दरम् | पशुपाशविनिर्मुक्तं पञ्चकृत्यविशारदम् || इति पौराणिके च - तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः | परः पराणां परिपूर्णकामः निरस्तहेयो निखिलेश्वरश्शिवः || इत्यादिसकलसदुणोपेतं शिवाख्यं परमं पदं परब्रह्मैव श्रुतिस्मृतिभ्यस्तदुभयलक्षणमवगतम् | किञ्च - सदा सर्वान्तर्यामितया व्यवस्थितेऽपि दिव्यलीलामङ्गलविग्रहेऽपि परमशिवे स्ववशीकृतमायिकत्वाज्जीववन्न कश्चोद्दोषकलङ्कः | सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् | स्थित्यदनाभ्याञ्च इत्यादिषु परब्रह्मणश्शिवस्य अकर्मवश्यत्वेन दोषाभावे ह्युपदिष्टः एष त आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिधित्सोऽपिपासुस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः इत्यादिबहुश्रुतिषु अस्तिकश्चिन्महादेवो रमणीयगुणाकरः | सर्वलोकस्य निर्माता पशुपाशविलक्षणः || समस्तकल्याणमुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः | स्वभावसिद्धोभयलिङ्गसंज्ञः प्रधानक्षेत्रज्ञपतिर्महेशः || इत्यादिषु तस्य सर्वान्तर्यामित्व-सर्वमङ्गलगुणाकरत्व- prākṛtajīvaviṣavatvamiti veditavyam ||
SK
ननु शिवस्य परब्रह्मणः स्वाभाविकमूर्ताऽमूर्तत्वव्यपदेशे घटाकाशयोरिव तयोरन्योन्यभेदस्य अर्थात्सिद्धत्वात् एकमेवाद्वितीयं ब्रह्म एक एव रुद्रो इत्यादिबहुश्रुतिविरोधस्सम्भवतीत्याशङ्क्य निराकरोति - || १५२ || भेदादिति चेन्न प्रत्येकमतद्वचनात् || १२ || बिम्बत्वं प्रतिबिम्बत्वं यथा पूषणि कल्पितम् | जीवत्वमीश्वरत्वं च ब्रह्मण्येकत्र कल्पितम् || इत्यादिना स्मृतिपुराणेषु जीवेश्वरयोरौपाधिकभेदवत्वावगमात् तस्य मूर्ताऽमूर्तत्वविधायकश्रुतीनामौपाधिकभेदमात्रपरत्वमेवोपपन्नम् नोचेन्मूर्ताऽमूर्तब्रह्मणोः परस्परभेदादिति चेन्न - || प्रत्येकमतद्वचनात् || द्वैवाव ब्रह्मणो रूपे मूर्तञ्चामूर्तमेव च अचिन्त्यमव्यक्तमनन्तबोधं शिवं प्रशान्तममृतं ब्रह्मयोनिम् | तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् || इत्यादिश्रुतिशतेष्वभेदतया स्वाभाविकत्वेन तस्य मूर्ताऽमूर्तोभयलिङ्गत्वं यतो व्यपदिश्यते अतस्तद्विरुद्धस्मृतिपुराणसिद्ध-औपाधिकभेदो नाङ्गीकर्तव्यः | किञ्च - यः पृथिव्यां तिष्ठन् इत्यादिषु प्रतिपर्यायं स त आत्मान्तर्याम्यमृतः इत्यन्तर्यामिणश्शिवस्य तद्गतधर्मवत्वमिति चेत्तदसत् | पृथिव्याद्यष्टमूर्तित्वेऽपि तद्विलक्षणत्वमेवाभिधीयते समस्तसाक्षिं तमसः परस्तात् विश्वाधिको रुद्रो महर्षिः इत्यादिश्रुतिदर्शनात् | ननु - सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः इत्यादिश्रुत्या ब्रह्मणस्सावयवत्वं सगुणत्वमेव मुख्यमिति चेत् - अशब्दमस्पर्शमरूपमव्ययम् इत्यादिना तस्य निरवयवत्वं निर्गुणत्वमेव स्वाभाविकमिति केचित् केचिच्च निर्गुणत्व-सगुणत्वयोरेकपक्षे परस्परश्रुतिविरोधप्रसङ्गात् तदुभयग्राह्यमिति वदन्ति | तस्मादव्यवस्था दृश्यते विनिगमकाभावात् | अतस्त्रयाणां मध्ये किमुपपन्नमित्याकांक्षायामाह - || १५३ || अपि चैवमेके || १३ || अपि च दैवाष ब्रह्मणो रूपे मूर्तञ्चाऽमूर्तमेव च इति सर्वसंशयोच्छेदकमुख्यसिद्धान्तविधायकश्रुतिमात्रं प्रमाणमिति यत् तन्न | कुतः एवमेके एवं सर्वश्रुति
SK
विरोधेन एके मुख्यवैदिकाः वामदेवागस्त्यादयः परब्रह्मणः शिवस्योभयलिङ्गत्वं वदन्ति | अतस्तदेव ग्राह्यम् | सिद्धान्तशिखामणौ - साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा | एतानि मानभूतानि नोपहन्यानि युक्तिभिः || वेदाः प्रमाणं सर्वेषां साङ्ख्यादीनां महामते | वेदानुसरणादेषां प्राधान्यमिति निश्चितम् || पाञ्चरात्रस्य योगस्य साङ्ख्यस्य च महामुने | वेदैकदे᳚षवर्तित्वं शैवं वेदमयं स्मृतम् || वेदैकदेशवर्तिभ्यः साङ्ख्यादिभ्यो महामुने | सर्ववेदानुसारित्वात् शैवतन्त्रं विशिष्यते || इति | वामदेवसंहितायामपि - सर्वात्मकश्शिवोऽनन्तस्सर्ववेदान्तसम्मतः | मूर्ताऽमूर्तात्मको नित्यो निरवद्यो निरञ्जनः || इति दर्शनादुभयलिङ्गत्वं तस्य स्वाभाविकमिति सिद्धम् | अशरीरं वा वसन्तं अप्राणो ह्यमनाः इत्यादिषु ब्रह्मणः निर्गुणत्वनिरवयवत्वयोरेव प्राधान्यतया भूयःप्रपञ्चितत्वात्सगुणत्वं औपाधिकत्वान्मिथ्याभूतत्वाच्च अप्रधानमित्याशङ्क्य निराकरोति - || १५४ || अरूपवदेव हि तत्प्रधानत्वात् || १४ || अचिन्त्यमव्यक्तमनन्तबोधं शिवं प्रशान्तममृतं ब्रह्मयोनिं इत्यादिबहुश्रुतिषु निरवयवशिवतत्त्वस्यैव प्रसाधितत्वादरूपमेव हि शिवतत्त्वमङ्गीकर्तव्यम् इति चेत् तत्प्रधानत्वात् | नमो हिरन्.यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् | उर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः || नमस्ते रुद्र मन्यव उतोऽत्र इयवे नमः नमस्ते अस्तु धान्वने बाहुभ्यामुत ते नमः इत्यादिश्रुतिशतेषु तत्सगुणत्व-सावयवत्व-ध्यान-पूजा- mūrtā'mūrtobhayadharmavatvam | ubhayadharmabalādubhayadharmasiddhiriti nyāyāt tulyatvena svābhāvikatayā veditavyam | ākāśo ha vai nāmarūpayornirvahitā te yadetadantarā tadbrahma iti sarvanupraveśe'pi nāmarūpakāryasparśena nāmarūpayornirvāhasyaiva pratipādanāttasya tadubhayaliṅgatvamanivāryam |
SK
ननु सत्यं ज्ञानमन्तं ब्रह्म इत्यादिभिर्निर्विशेषप्रकाशैकस्वरूपं ब्रह्मावगम्यते | अन्यत्र सर्वज्ञत्व-सत्यसङ्कल्पत्व-सावयवत्व- mithyābhūtatvamityavagantavyam | ataḥ kalyāṇaguṇākarasāvayavatvaṃ kathamupapadyata ityāśaṅkya tatrāha - || 155 || prakāśavaccāvaiyarthyāt || 15 || yathāgneyakoṇādhipavaiśvānarasyāhavanīyādisarvadeśavaiśvānarasya ca svaprakāśatva-tamonivārakatva-śītāpahārakatvādidharmaikatvāt avaiyarthyaṃ tathā satyaṃ jñānamanantaṃ brahma ityādiśrutisiddhāmūrtasya namo hiraṇyabāhave hiraṇyavarṇāya ityādivākyasiddhahiraṇmayatvasatyasaṅkalpatva- उभयोरपि स्वप्रकाशस्वरूपत्वमभ्युय्पगम्यते | तस्मादुभयलिङ्गत्वमविरोधेनैकस्य ब्रह्मणः बहुधा प्रपञ्चितम् | निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं अथ कस्मादुच्यते महादेवः यत्सर्वान् परित्यज्य आत्मज्ञानयोगैश्वर्येण अहति महीयते तस्मादुच्यते महादेवः इत्यादिश्रुतिशतेषु मूर्ताऽमूर्तब्रह्मणोरवैयर्थ्यव्यपदेशादुभयलिङ्गत्वं तस्य स्वाभाविकमित्यनवद्यम् | किञ्च - सर्वज्ञत्व-सर्वेश्वरत्व-सर्वकारणत्व-सर्वमयत्व- triyambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam daharaṃ vipāpmaṃ paraveśmabhūtaṃ yatpuṇḍarīkaṃ puramadhyasaṁstham ityādiṣu śivalokaphalaprāptividhāyakabāhya antaraṅgaprasiddhadahara-śāṇḍilya-upakosala-vaiśvānara- स्वकल्पितन्यायेन स्वगुणमिथ्याभूतेश्वरलोकप्राप्त्यादिफलजनकश्रुतीनां मिथ्यात्वं अविरोतमिति चेत् - यादृशो यक्षस्तादृशो बलिः इति स्वकीयन्यायेन अर्धजरतीन्यायवत् पक्षैकदेशाङ्गीकारस्यायुक्तत्वात् सगुणमिथ्याभूतवेदप्रतिपादितनिर्गुणब्रह्मणोऽपि मिथ्यात्वस्यार्थसिद्धत्वात् केवलनिर्गुणस्य वेदप्रतिपादकत्वासम्भवाच्च तदवैदिकवादो ह्यविचारितरमणीयः | एवं वा अरेऽयमात्मानमन्तरो बाह्यः कृत्स्नः प्रज्ञानघनः इति श्रुतौ निर्गुणशुद्धचैतन्यमात्रत्वोपदेशात् कथं सगुणब्रह्मप्राधान्यं इत्याशङ्क्याह - || १५६ || आह च तन्मात्रम् || १६ ||
SK
द्वे वाव ब्रह्मणो रूपे इत्यादिश्रुतिषु असन्दिग्धतया ब्रह्मण मूर्ताऽमूर्तत्वव्यवस्थापनात् श्रुतिसङ्कोचे मानाभावात् अथात आदेशो नेति नेति इत्यादिवाक्यानां मूर्ताऽमूर्तप्रपञ्चनिषेधपूर्वकप्रत्यग्बोधमात्रपरत्वात् स्थिरेभिरङ्गैः पुरुरूप उग्रः इत्यादिजगदेककारणभूतशिवैकस्वरूपनित्यमङ्गलदिव्यविग्रहाणां नित्यत्वावगमाच्च सत्यं ज्ञानमननतं ब्रह्म इत्यादिश्रुतयः परशिवस्वप्रकाशस्वरूपतामात्रप्रतिपादकाः न सत्यकङ्कल्पत्वादिविशिष्टसिद्धब्रह्मशरीरनिषेधपराः | अत एव तन्मात्रं तयोर्मूर्ताऽमूर्तब्रह्मणोः प्रतिपादकत्वमात्रमेव श्रुतिः || आह च || प्रतिपादयतीत्यर्थः | तैत्तिरीये च सच्च त्यच्चाभवत् इत्यादिना मूर्तामूर्तोभयत्वं दृश्यते | अतो न सन्देहः | ननु ब्रह्मणश्शिवस्योभयलिङ्गत्वं श्रुतिसिद्धत्वात् प्रसिद्धमस्तु | तथापि यज्ञदत्त-देवदत्तादिवदुभयोः परस्परधर्मवैलण्यद्योतनात्कथमेकत्वमित्या᳚अङ्क्य तत्राह - || १५७ || दर्शयति चाथो अपि स्मर्यते || १७ || सर्ववेदान्तगणस्तद्ब्रह्मणः कल्याणगुणाकरत्वं दिव्यमङ्गलविग्रहत्वं निरस्तनिखिलदोषकलङ्कत्वं सर्वव्यापकत्वममूर्तत्वञ्च सर्वान्तर्यामित्वञ्च दर्शयति | चाथोऽपि च स्मर्यते | तथा स्मृतावपि मूर्ताऽमूर्तत्वं स्वाभाविकत्वेन स्मर्यते | सर्वशक्त्यात्मकस्य पवनादिवद्व्यापकस्याऽमूर्तस्य सर्वकाम- parasparasvābhāvikabhedasattve'pyabheda anvadya iti smaryate | tamīśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramañca daivatam | patiṃ paśūnāṃ prathamaṃ purastāt vidhāma devaṃ parameśamīḍyam || sa kāraṇaṃ kāraṇakāraṇādhipo na cāsya kaścijjanitā na cadhipaḥ | na tasya kāryaṃ karaṇañca vidyate na tatsamaścābhyadhikaśca dṛśyate niṣkalaṃ niṣkriyaṃ śāntam ityādiśrutiṣu mayādhyakṣeṇa prakṛtissūyate sacarācaram | hetunānena kaunteya jagaddhi parivartate || uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ | yo lokatrayamāviśya vibhartyavyaya īśvaraḥ ||
SK
सर्वज्ञः सर्वकृत्सर्वशक्तिज्ञानबलादिवान् | अन्यूनश्चाप्यवृद्धिश्च स्वाधीनोऽनादिमान्वशी || क्लमतन्द्राभयक्रोधकामादिभिरसंयुतः | निरवद्यः परः प्राप्तेः निरधिष्ठोऽक्षरः क्रमः || इत्यादिस्म्र्तिष्वपि ब्रह्मणः शिवस्योभलिङ्गात्मकव्यपदेशान्मूर्ताऽमूर्तयोर्भेदे सति अभेद उपपन्नः | अस्मिन्नर्थे हेत्वन्तरमाह - || १५८ || अत एव चोपमा सूर्यकादिवत् || १८ || निरवयवस्य व्यापकस्य शिवस्यैव सदाशिव-महेश्वर-कालरुद्र- jaladarpaṇādipratibimbitasūryādivadbhede satyapyabhedaśca dṛśyate | ata eva copamā - ākāśamekaṃ hi yathā ghaṭādiṣu pṛthagbhavet | tathaivaiko hyanekastho jalādhāreṣvivāṃśumān || eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ | ekadhā bahudhā caiva dṛśyate jalacandravat || ityādiśrutiṣu mūrtā'mūrtabrahmaṇorbhedā'bhedavatvenobhayaliṅgatvasya spaṣṭamupadiṣṭatvānna sandehakalaṅka prasaṅga | nanu dṛśyate jalacandravat ityādiṣu bimbapratibimbabhāvena mūrtā'mūrtabrahmaṇorbhedābhedaprasādhane'pi bhedasyaupādhikatvenāpāramārthikatayā mithyātvāt tayossarvadā bhedamātrameva śrutestātparyamityāśaṅkya nirākaroti - || 159 || ambuvadagrahaṇāttu na tathātvam || 19 || tu śabdaḥ śaṅkānirāsārthaḥ | ekadhā bahudhā caiva dṛśyate jalacandravat iti śrutau ambudarpaṇādiṣu aupādhikabhedena yathā sūryamukhādayo gṛhyante na tathā sadāśiyādimūrtisthāne mahādevo gṛhyate | ambvādiṣu hi sūryādayo bhrāntyā tatrasthā iva gṛhyante na paramārthatastatrasthāḥ | iha tu dve vāva brahmaṇo rūpe ityādiśrutiśateṣu ubhayorapi pāramārthikatvena tulyatvamucyate | ato dṛśyate jalacandravadityādiṣu tathātvameva gamyate | nanu yasya pṛthivī śarīraṃ yaḥ pṛthivyāṃ tiṣṭhan ityādiṣu parameśvarasya pṛthivyādyaṣṭamūrtitvatadantaryāmitvayorupadeśāt śivādimūrtānāmeva tanmūrtitvamiti vyavasthā kathamupapadyata ityatrāha - || 160 || bṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevaṃ darśanācca || 20 ||
SK
अन्तर्भावात् - सदाशिवादीनामप्राकृतत्स्वाभाविकाभिन्नचिच्छक्त्यंशत्वेन शिवान्तर्भूतत्वात् वृद्धिह्रासभाक्तं त्रिगुणात्मकशिवभिन्नशक्त्यंशभूतपृथिव्याद्यष्टमूर्तीनामिव जन्मनाशादिदोषाश्रयत्वं न सम्भवति कस्मात् उभयसामञ्जस्यात् उभयोमूर्तामूर्तब्रह्मणोर्भेदाऽभेद सामञ्जस्यात् | कुतः दर्शनाच्च | द्वैवाव ब्रह्मणो रूपे इत्यादिश्रुतिशतेषु मूर्ताऽमूर्तब्रह्मणोर्भेदत्वे सत्यभेदसामरस्यद्योतनाच्च पाशरूपजडप्रकृत्यावृतपृथिव्याद्यष्टमूर्तीनामिव सदाशिवादीनां न तद्भेदत्वं निश्चीयते उत - आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दं इति आकाशत इति आकाशः सत्यात्मा-सत्यस्वरूपं प्राणारामं- ityanena vākyena mūrtā'mūrtatvamupalakṣitam | ākāśaśarīraṃ brahma ityatra amūrtatvam prāṇārāmaṃ ityādiṣu manaḥprāṇātmakaliṅgaśarīropadeśāt talliṅgaśarīravyapadeśena sthūladehasyārthasiddhatvāt sthūlaṃ vinā sūkṣmasya pravṛtyasambhavācca mūrtatvamupadiṣṭam | etena jagadekakāraṇasya nityaniṣkalaṅkasya sarvajñasya mūrtā'mūrtasyaiva brahmatvamavagamyate | smṛtāvapi - mūrtā'mūrtātmako'nantaḥ prapañcātītavaibhavaḥ | niṣkalaṅko nirādhāro nirliptaḥ śiva ucyate || anantānantakalyāṇaguṇaikaghana īśvaraḥ | śiva ityucyate sadbhiḥ śivatattvārthavedibhiḥ || iti darśanāt śivaśabdavācyaṃ brahma ubhayaliṅgam iti vyācakṣate | tasya ha vā etasya puruṣasya rūpaṃ yathā mahārajanaṃ vāsa ityādinā ākāraviśeṣañcābhidhāya athāta ādeśo neti neti na hyetasmāditi netyanyatparamasti sarvaprakṛtaṃ brahmaṇaḥ prakāraṃ iti śabdena parāmṛśya tatsarvaṃ pratiṣidhya sarvaviśeṣādhiṣṭhānaṃ sanmātrameva brahma viśeṣāstvevaṃ vidhaṃ svasvarūpaṃ ajānatā brahmaṇā kalpitā iti darśayati | prakṛtaitāvatvadhikaraṇam || 6 || ataḥ kathamubhayaliṅgatvaṃ brahmaṇa ityatrāha - paramaśivasya brahmaṇaḥ ubhayaliṅgatvasamarthanam || 161 || prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ || 21 ||
SK
नैतदुपपद्यते - यद्ब्रह्मणः प्रकृतविशेषवत्वं नेति नेति इति प्रतिषिध्यत इति तथा सति ब्रान्तजल्पितायमानत्वात् | न हि ब्रह्मणो विशेषणतया प्रमाणान्तराप्रज्ञातं सर्वं तद्विशेषणत्वेनोपदिश्य पुनस्तदेवानुन्मत्तः प्रसिडेधति | यद्यपि निर्दिश्यमानेषु केचन पदार्थाः प्रमाणान्तरप्रसिद्धास्तथाऽपि तेषां ब्रह्मणः प्रकारत्वं अप्रज्ञातमेव | इतरेषान्तु स्वरूपं ब्रह्मणः प्रकारत्वञ्च अज्ञातम् | अतस्तेषामनुवादासम्भवादत्रैवोपदिश्यन्ते | अतस्तन्निषेधो नोपप्द्यए | यस्मादेवं तस्मात् प्रकृतैतावत्त्वं ब्रह्मणः प्रतिषेधतीदं वाक्यम् | ये ब्रह्मणो विशेषाः प्रकृताः तद्विशिष्टतया ब्रह्मणः प्रतीयमाना इयत्ता नेति नेति इति प्रतिषिध्यते | नेति नेति नैव नैवम् उक्तप्रकारमात्रविशिष्टं न भवति ब्रह्म उक्तप्रकारविशिष्टतया ब्रह्मणः इयत्ता प्रकृता सात्र इति शब्देन परामृश्यत इत्यर्थः | यतश्च निषेधानन्तरं ब्रह्मणो भूयो गुणजातं ब्रवीति अतश्च प्रकृतविशेषणयोगित्वमात्रं ब्रह्मणः प्रतिषेधति | ब्रवीति हि भूयो गुणजातम् न ह्येतस्मादिति नेत्यन्यत् परमस्ति | अथ नामधेयं सत्यस्य सत्यमिति | प्राणा वै सत्यं तेषामेष सत्यम् इति | अयमर्थः - इति न इति यद्ब्रह्म प्रतिपादितं तस्मादेतस्मादन्यद्वस्तु परं न ह्यस्ति - ब्रह्मणोऽन्यत् स्वरूपतो गुणतश्चोत्कृष्टं नास्तीत्यर्थः | तस्य च ब्रह्मणः सत्यस्य सत्यमिति नामधेयम् | तस्य च निर्वचनं प्राणा वै सत्यं तेषामेष सत्यम् इति | प्राणशब्देन प्राणसाहचर्याज्जीवाः परामृश्यन्ते | ते तावत् सत्यं वियदादिवत् स्वरूपान्यथाभावरूपपरिणामाभावात् | तेषामेव सत्यं - तेभ्योऽप्येष परमपुरुषस्सत्यम् जीवानां कर्मानुगुण्येन ज्ञानसङ्कोचविकासौ विद्येते परमपुरुषस्य तु अपहतपाप्मनस्तौ न विद्येते अतः तेभ्योऽप्येष सत्यम् | अतश्चैवं वाक्यविशेषोदितगुणजातयोगात् नेतिनेतीति ब्रह्मणस्सविशेषत्वं न प्रतिषिध्यते अपि तु पूर्वप्रकृतेयत्तामात्रम् | अत उभयलिङ्गमेव परं ब्रह्म |
SK
ब्रह्मणः प्रमाणान्तरागोचरत्वेन तत्सम्बन्धितया मूर्ताऽमूर्तादिरूपानुवादेन तन्निषेधासम्भवात् प्रकृतेयत्ताप्रतिषेधो उक्तः तदेव प्रमाणान्तरागोचरत्वं द्रढयति इत्याह - || १६२ || तदव्यक्तमाह हि || २२ || तत् - ब्रह्म प्रमाणान्तरेण नैव व्यज्यते | आह हि - शास्त्रम् | न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् न चक्षुषा गृह्यते नापि वाचा नावेदविन्मनुते तं बृहन्तम् नैषा तर्केण मतिरापनेया इत्यादिश्रुतिष्वभक्तागोचरत्वं स्पष्टमुपदिष्टम् | मूर्ताऽमूर्तस्य शिवस्य परब्रह्मणस्स्वरूपमपरिच्छेद्यं स्वप्रकाशञ्च केन विज्ञायते इत्याशङ्कायामाह - || १६३ || अपि संराधने प्रत्यक्षानुमानाभ्याम् || २३ || अपि च संराधने सम्यग्बाह्याभ्यन्तर्ध्यान ध्रण-पूजा- keṣāñcit svapne keṣāñcijjāgradavasthāyāñca mūrtāmūrtātmakobhayaliṅgasākṣātkāraḥ nānyatheti pratyakṣānumānābhyāṃ śrutismṛtibhyāmavagamyate | nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena nṛṇute tena labhyastasyaiva ātmā vivṛṇute tanūṁ svām jñānaprasādena viśuddhasatvastatastu taṃ paśyati niṣkalaṃ dhyāyamānaḥ ityādiśrutiṣu smṛtiṣu tathā śātātapasmṛtau ca - आराधक-आराध्यशब्दार्थनिर्वचनम् भक्त्या साम्बं महादेवमाराध्यं विश्वतोमुखम् | मूर्ताऽमूर्तात्मकं नित्यं ध्यानपूजादिमार्गतः || आराधकस्य कर्तव्यं आराधनविधिस्तदा | बाह्येचाभ्यन्तरे चैव शिवानुग्रहसिद्धये || इति स्मृत्यन्तरेऽपि - उमासहायमाराध्यं सर्वज्ञं प्रभुमव्ययम् | मूर्ताऽमूर्तात्मकं दिव्यं कोटिसूर्यसमप्रभम् || कोटिचन्द्रप्रतीकाशं कोटिविद्युल्लतामयम् | नित्यमाराधयेद्धीमान् श्रद्धाभक्त्यादिसंयुतः || आभ्यन्तरे तथा बाह्ये लिङ्गरूषं महेश्वरम् | आराधयति शास्त्रेण स आराध्यो महीतले || इति कृष्णगीतायाञ्च - नाहं वेदैर्न तपसा न दानेन न चेज्यया | भक्त्यात्वनन्यया शक्य अहमेवंविधोऽर्जुन || ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप || इति वेदपादस्तवे -
SK
ईश्वरं तमहं वन्दे यस्य लिङ्गमहर्निशम् | यजन्ते सह भार्याभिः इन्द्रज्येष्ठा मरुद्गणाः || इति वेदपादस्तवे - ईश्वरं तमहं वन्दे यस्य लिङ्गमहर्निशम् | यजन्ते सह भार्याभिरिन्द्रज्येष्ठा मरुद्गणाः || इति च बहुधा प्रपञ्चितत्वात् भक्तिरूपापन्न ध्यान- nanu yato vāco nivartante aprāpya manasā saha | yanmanasā na manute yenāhurmano matam | tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate || ityādiśrutiṣu brahmaṇo manovakkāyavedyatvādarśanāt kathaṃ tasyopāsanaviciriti cenna - yato vāco nivartante ityādiśrutiṣu śruteraviśuddhāntaḥkaraṇāgrāhyatvopadeśāt bhaktānāṃ brahma sākṣātkāra pratiṣidhyate | jñānaprasādena viśuddhasatvastatastu taṃ paśyati niṣkalaṃ dhyāyamānaḥ dṛśyate tvagryayā budhyā brahmavidāpnoti paraṃ ityādiśrutiśateṣu viśuddhāntaḥkaraṇagrāhyatvāt parameśvarasya iti upadeśādanayoḥ śrutyoravirodha iti bhāvaḥ | smṛtāvapi - yaṃ vinidrā jitaśvāsāḥ santuṣṭaniyatendriyāḥ | jyotiḥ paśyanti yuñjānāḥ tasmai yogātmane namaḥ || ityaviśuddhāntaḥkaraṇāgrāhyatvaṃ brahmaṇaḥ pradarśitam | ato yanmanasā na manute ityādi-vākyānāṃ tatparatvameveti niścīyate | tatpadārthaśibārādhanena tvampadārthabhūtasādhakasya tatpadārthasākṣātkāre'pi tvampadārthabhūta svābhāvikajīvatvaṃ kathaṃ nivartata ityāśaṅkāyāyāmāha - || 164 || prakāśādivaccāvaiśeṣyaṃ prakāśaśca karmaṇyabhyāsāt || 24 ||
SK
इतश्च - प्रकृतैवावत्वमेव प्रतिषेधति न मूर्ताऽमूर्तादिविशिष्टत्वं यतः साक्षात्कृतपरशिवब्रह्मस्वरूपाणां वामदेव-अगस्त्य-उपमन्यु- prakāśādivat jīvanmuktadaśāyāṃ jñānānandādisvarūpavat mūrtā'mūrtātmakatayāpi brahma prakāśate | taddhaitat paśyannṛṣirvāmadevaḥ pratipede ahaṃ manurabhavaṃ sūryaśca ityādibrahmasarūpabhūtaprakāśānandādiśca teṣāṃ vāmadevādīnāṃ saṃrādhanātmake dhyānadhāraṇapūjādyupāsanakarmaṇyabhyāsāt upalabhyate tadvadbāhyābhyantaraśivārādhakānāṃ teṣāmeva mūrtā'mūrtādibrahmasākṣātkāro'pyaviśeṣeṇa tadātmakatvena pratīyate | eṣa sanprasādo'smāccharīrāt samutthāya parañjyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ ityādiśrutyantareṣu paraśivadhyānadhāraṇapūjādupāsakānāmeva tadanugrahāt svābhāvikajīvatvanivṛttipūrvakaśivatvaprāptirvidehamuktau dṛśyate | nanu ātmā vā're draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ ityādiṣu śravaṇādinā brahmasākṣātkārāvagamāt bāhyābhyantarayostadārādhakānāmeva tatsākṣātkāra iti vyavasthā kathamupapadyata ityāśaṅkāyāmāha - || 165 || ato'nantena tathā hi liṅgam || 25 || ataḥ - śivadhyāna-dhāraṇādyārādhanādeva anantena - carācaraprapañcātmakatvena liṅgaṃ parabrahmaiva | tathāhi - yathā dhyāna- मूर्ताऽमूर्तात्मकपरशिवब्रह्मसाक्षात्कारो
SK
भवति तदनवच्छिन्नाभ्यासमाहात्म्येन तथा व्यवहारदशायां प्रपञ्चदर्शनेन तत्प्रपञ्चस्सर्वः तद्ब्रह्मरूपेण तस्य भाति | अत्र हिकारो निश्चयार्थो निर्णीयते | अत एव केवलश्रवणमननादीनां ध्यानधारणादीनामिव न तत्साक्षात्कारहेतुत्वम् | आत्मा वा अरे द्रष्टव्यः इत्यादिना तदुपासकानां तच्छ्रवणमननादिकं सूच्यते | नो चेत् न्याय-वैशेषिक- tasmāttadārādhanaprayuktatacchravaṇa-mananādīnameva tatsākṣātkāraḥ phalamiti niścīyate | brahma vidāpnoti param ityādiśrutīnāmapi vedaśabdenopāsanājñānamevābhidhīyate na śāstrajñānamātratvam kevalaśāstrajñānasya jalpavitaṇḍāhetvābhāsādivādopayogamātratvamiti veditavyam | svānubhavajñānasya phalahetutvapradarśanam anubhūtiṃ vinā mūḍho vṛthā brahmaṇi modate | pratibimbitaśākhāgraphalāsvādanamodavat || ityādiśrutiṣu svānubhavajñānasyaiva phalahetutvavyapadeśāt | upāsanasya sarvādhikyapratipādanam kiñca - śivārādhanamahimāviśeṣeṇa viśvāmitra-agastya-sānanda- दृश्यते | लोके गरुडमन्त्राद्युपासकानां तत्प्रतियोगिनस्सर्पादयः गरुडादिभावनया मयाविष्टास्सन्तः नम्रीभावेन तदाज्ञावशवर्तिनो भवन्ति | तस्मादुपासनस्य सर्वाधिक्यमनवद्यम् | द्वैवाव ब्रह्मणो रूपे इत्यादिश्रुतिनिष्ठब्रह्मोभयलिङ्गोपारनं क्षूणां कर्तव्यम् | तदुक्तं स्कान्दे - उरस्थले हरिर्लिङ्गं धृत्वा मूर्ध्नि पितामहः | लिङ्गस्थं मां समाराध्य स्वं स्वं पदमवापः || तथा चाभ्यन्तरे लिङ्गं ज्ञानरूपं शिवात्मकम् | धृत्वा तद्ध्यानयोगेन शिवं प्राप्नोति नान्यथा || इति दर्शनाच्च तदुभयलिङ्गं ब्रह्मोपपन्नमिति सिद्धम् | अहिकुण्डलाधिकरणम् || ७ || जीवब्रह्मणोः भेद भेदस्वरूपप्रतिपादनम्
SK
प्रथमाध्याये प्रतिज्ञासिद्धेर्लिङ्गमाश्मरय्यः इत्यारभ्य भेदादिमतत्रयमुक्त्वा तत्त्रयाणां मध्ये बौद्धादिवच्छ्रुत्यैकदेशप्रामाण्यमतद्वयं निरस्य सर्वश्रुतिसमन्वयत्वेन भेदाभेदमतस्यैव सर्वाधिक्यं अनवस्थितेरिति काशकृत्स्न इति सूत्रेण राद्धान्तितम् | स च भेदाऽभेदः प्रप्ञ्च- mṛddhaṭayoriva tadananyatvañca prasādhya taddhetubhūtābhinnanimittopādānakāraṇānaṅgīkāramatāni vedabāhyāni nirākṛtya etadadhyāyena sthānato'pi parasya ityubhayaliṅgādhikaraṇena bhedābhedatayā brahmaṇaśśivasyobhayaliṅgatvaprasādhane tvampada- वेति संशये तयोर्मोक्षपर्यन्तं वास्तवभेदाऽभेदसत्त्वेऽपि परिशुद्धान्तःकरणेन मोक्षदशायां ब्रह्मसाक्षात्कारे तद्भेदविनाशपूर्वकात्यन्ताभेद एवोपपन्न इत्यधिकरणान्तरेणाह - || १६६ || उभयव्यपदेशात्त्वहिकुण्डलवत् || २६ || उभयव्यपदेशात् - ज्ञाऽज्ञौ द्वासुपर्णा इत्यादिश्रुतिषु जीव- ityādiśrutiṣu abhedāvagamācca tayorbhedā'bhedau aṅgīkartavyau ahikuṇḍalavat | yathā kuṇḍalībhūtasarpasya dīrghībhūtasarpasya ca sarpatvenaikatve'pi dvaitapradhānasāṅkyamatasya abhedapradhānayogamatasya caikatvena nirdiṣṭatvāt kecit dvaitamekamatamiti advaitamekamatamiti vadanti | bhrāntyā tanna vidheyam tattu samanvayāt gatisāmānyāt ityādinā prathamādhyāye bhedaśrutīnāmabhedaśrutīnāñca brahmaṇyeva samanvayavyavasthāpanāt yathā nadyaḥ ityādiśrutiṣu bhedā'bhedasya spaṣṭamupadiṣṭatvāt sāṅkhya-yogau pṛthak bālāḥ pravadanti na paṇḍitāḥ iti kṛṣṇagītāyāṃ kṛṣṇena atra ca bhagavatā vyāsenāpi tatpadatvampadārthabhūtajīva-brahmaṇorbhedā'bhedanirdeśārthamidaṃ sūtraṃ nirdiṣṭam | yathā hrasvatva-dīrghatvātmakaviruddha-parimāṇavatvāt bhedā'bhedau aṅgīkriyete evaṃ jīva-brahmaṇorapi citvenaikatve'pi aṇutva-
SK
नित्यो नित्यानां चेतनश्चेतनानां पृथगात्मानं प्रेरितारञ्च मत्वा अस्मान्मायी सृजते विश्वमेतत् ईशानस्सर्वविद्यानां इत्यादिश्रुतिषु आराध्याराधकयोः जीव- paśyet kena kaṃ vadet ityādiśrutiṣu brahmaikatvavyapadeśena sadā'dvaitanirdeśāt tattvamasi ahaṃ brahmāsmi śiva eko dhyeya ityādiśrutiṣu tayorbhedā'bhedavyavasthāpanācca jīva-brahmaṇorārādhakārādhyayorbhedo vā abhedo vā bhedā'bhedo vā iti sandihyate | vastuvirodhānna bhedā'bhedaḥ | tayoranyaḥ pippalaṃ svādvatti anaśnannanyo'bhicākaśīti jñā'jñau ityādiśrutiśateṣu ghaṭapaṭayoriva jīva- निवृत्यसम्भवात् तत्त्वमस्यादिवाक्यानां औपचारिकत्वेन स्तुतिपरत्वात् अभेदे उपास्योपासकत्वविरोधात् अथात आदेशो नेति नेति इति श्रुतौ मूर्ताऽमूर्तचिदचिद्वस्तुरूपतया ब्रह्मण इयत्तामात्रनिषेधाच्च न कदाचिदप्युपास्योपासकयोरभेदस्सिध्यतीति प्राप्ते प्रचक्ष्महे - || उभयव्यपदेशादिति || यथा नद्यः स्यन्दमानाः एष सम्प्रसादः स्वेन रूपेणाभिनिष्पद्यते इत्यादिश्रुतिषु आराधकाराध्यजीव-ब्रह्मणोर्नदी-समुद्रवत्परस्परस्वाभाविकभेदसत्वेऽपि मोक्षदशाया-प्राप्य-प्रापकत्वेन भेदाऽभेदव्यपदेशात्तदेव युक्तम् | अहिकुण्डलवत् || कुतः उभय-व्यपदेशात् || ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि ब्रह्मैवेदṁ सर्वम् आत्मैवेदं सर्वं इत्यादिषु तादात्म्यत्वेन अभेदव्यपदेशात् अनेन जीवेनात्मनानुप्रविश्य इति भेदव्यपदेशाच्च अहेः कुण्डलभाव-ऋजुभाववत् तयोर्ज्ञानात्मकत्वेनैकत्वेऽपि परस्परविरुद्ध- mānābhāvāt ubhayaśrutyostulyabalatvācca bhedaśrutīnāṃ sarvāsāṃ saṃsāradaśāviṣayatvaṃ abhedaśrutīnāṃ mokṣadaśāparatvam | sthāna-prakaraṇa liṅgātsamanvayaḥ iti nyāyena prakaraṇānukūlārtho grāhya iti nirṇīyate | nocedanyonyavirodhātsarvaṃ śāstraṃ apramāṇaṃ syāditi veditavyam | nanu supti-prabodhādivatkālabhedena bhedā'bhedo'stu tamaḥprakāśavatparasparavirodhasvabhāvādekakāle tayostadasaṅgatamityāśaṅkāyāmāha -
SK
|| १६७ || प्रकाशाश्रयवद्वा तेजस्त्वात् || २७ || वाशब्दः पूर्वपक्षनिरासार्थः | यथा प्रभाकरप्रभायाः प्रभाश्रयप्रभाकरमण्डलस्य तेजस्त्वात् तेजस्त्वेनैकत्वेऽपि व्यापकत्व- saṅkucita-vistṛtapaṭādibahudṛṣṭāntānurodhenāpi jīva- किञ्च - ब्राह्मणत्वादिजातियोगेन सर्वेषां ब्राह्मणादीनां जात्यैकस्वभावत्वे सिद्धेऽपि उत्तमाधमादिभावेन नीलपीतादिरूपेण च परस्परभेददर्शनात् तद्वज्जीव- | tasmāttayorbhedā'bhedo vastuvirodhādayukta iti durvādo nirastaḥ | nanu prabhā-tadāśrayayoriva jīva-brahmaṇorjātiyogamātreṇa gaja-aśva- देशकालभेदाऽभेदस्सिद्ध इति यदुक्तं तदसङ्गतम् तस्य संसारदशाविषयत्वात् | ब्रह्मसाक्षात्कारे यथा नद्यः इत्यादिश्रुतिशतविहिततया स्वरूप्यैक्यस्याप्यङ्गीकारात् स्वाभाविकस्य भेदस्य निवृत्ययोगाच्च घटाकाशादिवज्जीवत्वमौपाधिकभेदेनाङ्गीकर्तव्यमित्याशङ्कायामाह - || १६८ || पूर्ववद्वा || २८ || वा शब्दोऽत्र एकैकपक्षस्वीकर्तृमतद्वयनिरासार्थः | || पूर्ववत् || पूर्वाधिकरणे द्वेवाव ब्रह्मणो रूपे इत्यादिश्रुतिबलात् मूर्ताऽमूर्तब्रह्मणोर्यथा निर्दिष्टः तथात्रापि सम्सारदशायां जीव-ब्रह्मणोस्स्वाभाविकभेदः मोक्षदशायां तद्वत्स्वाभाविकाऽभेदो निर्दिष्टः | किञ्च संसारदशायामपि चित्वैकत्वेन प्रभाकरप्रभादिवत् भेदाऽभेदो ह्यङ्गीकर्तव्यः | उत - भेदव्यपदेशाच्चान्यः अधिकन्तु भेदनिर्देशात् इत्यादिना यथा प्रपञ्च-ब्रह्मणोः कार्य-कारणभावेन अधिकन्तु भेदनिर्देशात् इत्यादिना यथा प्रपञ्च-ब्रह्मणोः कार्य-कारणभावेन परस्परस्वभावभेदं प्रदर्श्य तदनन्यत्वं इत्यादिना प्रतिज्ञा- nivṛtyayogamāśaṅkya upasaṃhāradarśanāt ityatra takrādisamparkavaśena kṣīrasya svābhāvikakṣīratvanivṛttipūrvakadadhitvaprāptivajjīvabrahmaṇoḥ parasparapāramārthikabhedasatve'pi mokṣadaśāyāmabhedassiddha iti yathā pūrvādhyāye prapañcitaṃ tadvadatrāpi tayostadvivakṣitamiti veditavyam |
SK
अत्र पूर्ववदिति सूत्राभिप्रेतस्तु पूर्वसूत्र पूर्वाधिकरण-पूर्वाध्यायन्यायेन परस्परविरुद्धभेदाऽभेदश्रुतीनां तात्पर्यार्थो ग्राह्यः | श्रुत्यैकदेशप्रामाण्येन भेद एव मुख्य इति दुर्वादः सुगतादिवदवैदिकत्वादग्राह्य एव | ननु तत्त्वमस्यादिभेदाऽभेदविधायकश्रुतिवत् द्वासुपर्णा इत्यादिश्रुतिषु द्वैतस्य नेह नानास्ति किञ्चन इत्यादिषु तद्वदद्वैतस्य द्योतनात् कथमुभयोर्बौद्धादिवन्नविधेयत्वमित्याशङ्कायामाह - || १६९ || प्रतिषेधाद्वा || २९ || द्वासुपर्णा इत्यादिभेदश्रुतिमात्रप्राधान्ये तत्त्वमसि इत्याद्यैक्यश्रुतिप्रतिषेधात् तत्त्वमस्याद्यैक्यश्रुतिमात्रप्राधान्ये द्वासुपर्णेत्यादिभेदविधायकश्रुतिप्रतिषेधाच्च यथा नद्यः इत्यादिश्रुतिषु असन्दिग्धतया दृष्टान्तानुसारेण प्राप्य-प्रापकत्वेन जीव- parasparaśrutivirodhāt boddhādivadavaidikatvamanivāryam | ataḥ pūrvādhikaraṇe mūrtā'mūrtabrahmaṇoḥ bhedā'bhedavadatra tvantatpadārthabhūtajīva-brahmaṇoḥ dvaitā'dvaitobhayavidhāyakaśrutinirvāhārthaṃ baddha muktadaśayoḥ pāramārthikaṃ dvaitamadvaitañca kālabhedena bhedā'bhedo hyaṅgīkartavyaḥ | kiñca - sāṃsārikadaśāyāmapi aṃśo nānāvyapadeśāt prakāśādivattu naivaṃ paraḥ ityādiṣu dvaitā'dvaitasyaiva spaṣṭamupadiṣṭatvāt prabhākara-maṇyādivat aṃśāṃśinyāyena tayorbhedā'rbhedo yuktaḥ | tasmāt yasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati saumyaikena mṛtpiṇḍena sarvaṃ mṛṇmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam ityādiśrutiṣu kāraṇabhūtabrahmajñānena kāryabhūtavijñānapratijñāvidhāyakaṃ sarvaṃ śāstraṃ upapannam | atra satyapadasya vastumātraparatvaṃ bodhyam | parādhikaraṇam || 8 || jīvabrahmaṇoḥ bhedābhedasamarthanam neha nānāsti nānyo'to'sti draṣṭā mantā ityādiśrutiṣu jīvabrahmaṇorbhedanirāsāvagamātkathaṃ bhedā'bhedamatamupapannamityāśaṅkāyāmāha - || 170 || paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ || 30 ||
SK
ब्रह्म अतः जीवात् परं भिन्नम् | कुतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः हेतुभ्यः | एष सेतुर्विधारण एषा लोकानामसंभेदाय इत्यादिश्रुतिषु जीव- bālāgraśatabhāgasya śatadhā kalpitasya ca | jīvo bhāgassa vijñeyaḥ ākāśassarvagataśca nityaḥ ityādi-śruteṣu jīva-brahmaṇoraṇutva- इत्यादिश्रुतिषु भेदव्यवस्थापनात् नान्योऽतोऽस्ति द्रष्टा इत्यादिवाक्यानां तत्सर्वज्ञत्वाद्यद्वितीयमहिमातिशयविषयत्वाच्च सदा जीवब्रह्मणोरभेद इति वादोऽप्यनङ्गीकरणीयः इति सूत्रसूचितसूक्ष्मार्थः | अथ य आत्मा स सेतुर्विधृतिः एवं सेतुं तीर्त्वाऽथ सन्नद्धो भवति अमृतस्य परं सेतुः इत्यादिश्रुतिरेवास्य विषयः | अयमात्मा ब्रह्म प्रज्ञानं ब्रह्म तत्त्वमसि इत्यादिश्रुतिषु जीवब्रह्मणोरेकत्वोपदेशात् भेदो वा द्वासुपर्णा एषामीशे पशुपतिर्द्विपदां चतुष्पदां इत्यादिश्रुतिषु तयोरन्योन्यभेदव्यवस्थापनादभेदो वेति विशयः | सदेव सौम्येद ब्रह्म वा इदमग्र आत्मा वा इदमग्र एकमेवाद्वितीयम् एक एव रुद्रो न द्वितीयाय तस्थे इत्यादिश्रुतिषु भेदनिरासदर्शनात् एष सेतुर्विधारणः
SK
इति श्रुतौ तयोर्भेदो व्यवह्रियत इति चेत्तदसत् यथा लोके सेतूनां वारिमर्यादाव्यवस्थापकत्वं एवं ब्रह्मणोऽपि वर्णाश्रममर्यादाव्यवस्थापकत्वम् | अतो ब्रह्मणः सेतुतादृश्यम् | तच्च ब्रह्मसाक्षात्कारपर्यन्तं जीव-ब्रह्मणोः औपाधिकमिथ्याभूतभेद एवाङ्गीकर्तव्यः | जीवब्रह्मणोरणुत्व-विभुत्वव्यपदेशेन भेद इति चेत्तदप्युक्तम् | पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इति श्रुतौ ब्रह्माण्डान्तर्वर्तिनो जीवचैतन्यस्यैकपादत्वं ब्रह्माण्डाद्बहिर्विद्यमानस्य ब्रह्मचैतन्यस्य त्रिपादत्वञ्च त्वंपदार्थ-तत्पदार्थ-विवेकार्थमुक्तम् | तत्त्वपदार्थयोग्भेदज्ञानस्य तत्त्वंपदार्थज्ञानं विनाऽसम्भवात् तत्त्वंपदार्थज्ञानार्थं स्थूलारुन्धतीन्यायेनान्तःकरण विशिष्टस्य जीवस्याणुत्वं मायाविशिष्टब्रह्मणो विभुत्वञ्चोक्तम् | तस्मात्तच्छ्रुतेर्न भेदतात्पर्यम् अणुपरिमाण-विभुपरिमाणयोर्मायाकल्पितत्वेन मिथ्याभूतत्वात् सर्वथाऽभेद एव वास्तव इति प्राप्ते प्रचक्ष्महे -
SK
अथ य आत्मा स सेतुर्विधृतिः इत्यस्य परस्य सेतुत्वव्यपदेशात् सेतुशब्दस्य च लोके कूलान्तरप्राप्तिहेतौ प्रसिद्धेः इतोऽन्यदनेन प्राप्यमस्तीति गम्यते | तथा एवं सेतुं तीर्त्वाधःसन्नद्धो भवति इति तरितव्यञ्चास्याभिधीयते | अतश्चान्यत्प्राप्यमस्ति उन्मितं परिमितमिदं परं ब्रह्म चतुष्पाद्ब्रह्म षोडशकलमित्युन्मानव्यपदेशात् स चायमुन्मानव्यपदेशस्तेन सेतुना प्राप्यस्यानुन्मितस्यास्ति तां द्योतयति | तथा सम्बन्धव्यपदेशश्च सेतु- dagdhendhanamivānalam amṛtasyaiṣa setuḥ iti | ataśca parātparamasti bhedena ca parātparaṃ vyapadiśyate parātparaṃ puruṣamupaiti divyam parātparaṃ yanmahato mahāntam iti ca | tathā tenedaṃ pūrṇaṃ puruṣeṇa sarvam tato yaduttarataraṃ tadarūpamanāmayam ityādiśrutiṣu jīva-brahmaṇorghaṭapaṭavat anyonya- अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोन्यः उत्पत्तेरसम्भवात् अधिक तु भेदनिर्देशात् इत्यादिश्रुति-सूत्रविरोधप्रसङ्गात् | तस्मात् जीव ब्रह्मणोरादौ रस-लोहवत्परस्परं-स्वाभाविकभेदसत्वेऽपि सदाचार्यकटाक्षाज्जीवश्शिवो भवतीति निश्चीयते | ननु अयमात्मा ब्रह्म इत्यादिषु जीवस्यैव ब्रह्मत्वोपदेशात् स्वाभाविकभेदस्य निवृत्ययोगात् जीवत्वमीश्वरत्वञ्च ब्रह्मण्येकत्र कल्पितं इत्यादिषु तस्य कल्पितत्वव्यवस्थापनाच्च रज्जुसर्पवद्भेदस्योपाधिकत्वेन भ्रमविषयत्वमेवेत्याशङ्क्य तत्राह - || १७१ || सामान्यात्तु || ३१ || तु शब्दः पक्षं व्यावर्तयति | || सामान्यात् || समानस्य भावः सामान्यम् तस्मात् सामान्यात् | द्वासुपर्णेत्यादिभेदश्रुतिभ्यः जीवब्रह्मणोर्भेदस्य तत्त्वमस्यादिश्रुतिभ्यः तयोरभेदस्य च तुल्यत्वेन व्यपदेशात् तदुभयविधायकश्रुत्योः कालभेदेन समन्वयात् तदुभयश्रुत्योः गौणत्व-
SK
किञ्च - विश्वाधिको रुद्रो महर्षिः इत्यादिषु शिवस्य चिदचित्प्रपञ्चाधिकत्व व्यपदेशात् अहं ब्रह्म इति जीव-ब्रह्मवादो न युक्तः | अथ य आत्मा स सेतुर्विधृतिः इत्यादिना सेतुत्व-तरितव्यत्व-परिमितत्व-प्रापकत्वादिभेदेन तयोर्भेदव्यपदेशात् तदेवावश्यकमिति चेत्तदसङ्गतम् | सर्वं खल्विदं ब्रह्म तज्जलानि शान्त उपासीत इत्यत्र तस्य अभिन्ननिमित्तोपादानकारणत्वोपदेशात् | एतमितः प्रेत्य अभिसम्भवितास्मि इति प्राप्यत्वमुच्यते श्रुत्यन्तरे | उमासहायं ध्यात्वा मुनि समस्तसाक्षिं तमसः परस्तात् इत्यनेन तमः परस्य शिवस्य मुक्तजीवप्राप्यत्वं दर्शितम् | यथा नद्यः इत्यादिश्रुतिषु नदी-समुद्रदृष्टान्तेन जीवभावनिवृत्तिपूर्वकशिवत्वप्राप्तेरेव स्पष्टमुपदिष्टत्वात् उभयश्रुत्योस्समानत्वेन प्रामाण्यं निश्चीयते | ननु भेदाऽभेदश्रुत्योः कालभेदविषयत्वेऽपि तयोर्बद्ध-मुक्तदशाभेदेन वैशेष्यात्कथं समानत्वमित्याशङ्क्याह - || १७२ || बुध्यर्थः पादवत् || ३२ || योऽयं चतुष्पात् ब्रह्म षोडशकलं पादोऽस्य त्रिपादस्यामृतं दिवि इति यथैकस्यैव ब्रह्मणो ब्रह्माण्डातीतत्रिपाद्विभूत्यधिष्ठानत्वेन त्रिपादवत्वं चिदचित्प्रपञ्चात्मकब्रह्माण्डरूपैकपाद्विभूत्यधिष्ठानत्त्वेनैक- parameśvarapraṇītatvāt tulyapramāṇatvam | budhyarthaḥ niścayārthaḥ | brahmavidāpnoti param ityatra brahmāṇḍātītatripādvibhūtyātmakaśivopāsakajñānena śivatvaprāptiśca satyaṃ jñānamanantaṃ brahma yo veda nihitaṃ guhāyāṃ parame vyoman so'śnute sarvān kāmān saha ityanena brahmāṇḍa-antarvartinī maheśvarasya upāsanājñānenaikapādavibhūtyātmakamaheśvareṇa saha sarvakāmaphalabhokttṛtvañca śrūyate | kiñca - brahmāṇḍāntaryartino maheśvarasya vāk pādaḥ prāṇaḥ pādaḥ cakṣuḥ pādo manaḥ pādaḥ ityādinā vāgādipādavyapadeśo'pi dṛśyate |
SK
केचित् ब्रह्मणः पादव्यपदेशं उपासनार्थमित्याहुः | तदसङ्गतम् | मूर्ताऽमूर्तब्रह्मणोरेकत्वोपदेशार्थं तस्य सर्वाधिष्ठानत्वं सर्वविलक्षणत्वादिमहिमा प्रपञ्चित इति निश्चीयते | ननु मूर्ताऽमूर्तब्रह्मणोः ब्रह्माण्डान्तर्यामित्वेन तद्विलक्षणत्वेन च घटपटादिवदन्योन्यवैलक्षण्याभावदर्शनात् तथा भेदाऽभेदविधायकोभयश्रुतीनां परस्परभेदार्थबोधकत्वात् एकस्मिन् परब्रह्मणि समन्वयः कथमुपपद्यत इति आशङ्कायामाह - || १७३ || स्थानविशेषात् प्रकाशादिवत् || ३३ || स्थानविशेषात् - पादोऽस्य विश्वा भूतानि इत्यत्र चिदचित्प्रपञ्चहृदयप्रविष्टत्वेन एकपादविभूतिस्थानस्य त्रिपादस्यामृतं दिवि इत्यनेन प्रपञ्चातीतत्वेन शिवस्य त्रिपाद्विभूतिस्थानस्य च विशेषात् तयोर्भेदव्यपदेशात् प्रकाशादिवत् यथा सूर्यस्य तत्प्रकाशस्य च परस्परविशेषेप्येकत्वं तथा मायाविशिष्टस्य तद्विलक्षणस्य च भेदव्यपदेशकगुणप्राधान्यवाचकश्रुतीनां निर्गुणप्रतिपादकाभेदश्रुतीनाञ्च साधक-साध्य-उपायबोधकत्वेनैकत्वे अविरोधः | भेदरूपध्यान- nirantarānusandhānāvacchinnadvaitānubhavasidhyupadeśāt pūrvottarasaudhavadubhayaśrutyoḥ sthānaviśeṣādapi maṇiprakāśādivadavirodhaḥ siddhaḥ | nanu dvaitā'dvaitobhayavidhāyakaśrutīnāṃ aṅgāṅginyāyena parasparasāpekṣatvamastu tathāpyubhayaśrutyoḥ parasparaphalabhedavyapadeśātkathamekatropapattirityāśaṅkyāha - || 174 || upapatteśca || 34 || amṛtasyaiṣa setuḥ ityādinā śiva-jīvayoḥ prāpya- शिवरूपमस्मि अहं ब्रह्मास्मि तत्त्वमसि इत्यादिषु तथा निर्देशाच्च भेदश्रुतीनामभेदश्रुतीनाञ्च ब्रह्मण्युपपत्तेश्च परस्परविरोधो निषिध्यते |
SK
स्वस्मिन्नेव दशमत्वस्य विषेकेन सन्धानादिवत् स्वप्राप्तिरिति चेन्न | प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ न स्वस्योपायत्वोपपत्तिः | नायमात्मा प्रवचनेन लभ्यः न मेधया न बहुना श्रुतेन | यमेनैव वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूṁ स्वाम् इत्यादि श्रुतिशतेषु जीवस्य निरन्तरानवच्छिन्नध्यान- ityādiśrutiṣu jñāna-karmasamuccayopapatteśca nirdeśāt bhedā'bhedaśrutīnāṃ sarvāsāmavirodhena brahmaṇyupapattiryuktā | tathānyapratiṣedhādhikaraṇam || 9 || jīva-brahmaṇoḥ prāpya-prāpakatvanirṇayaḥ nanu dvaitā'dvaitavidhāyakaśrutīnāṃ baddha-muktadaśābhedena sādhya- वृक्षे पुरुषो निमग्नः द्वासुपर्णा सयुजौ सखायौ इत्यादिश्रुतिषु जीव- bhuktabhogāmajo'nyaḥ ityādiṣu tayorjñānātmakatvena janyatvanirdeśāt yasmātparaṃ nāparamasti kiñcit ityādiṣu śivādhikatvamātranirāsadarśanāñca tayossamānatvena prāpya-prāpakatvādikaṃ kathamupapannamityāśaṅkāyāmāha - || 175 || tathā'nyapratiṣedhāt || 35 ||
SK
पूर्वाधिकरणे श्रुत्यैकदेशविधायकद्वैताऽद्वैतमतद्वयं निरस्य सर्वश्रुतिपूर्वापरमव्यपरामर्शहेतुत्वेन द्वैताऽद्वैतमते मुख्यवैदिकसिद्धान्ते सर्वश्रुतिसमन्वयं प्रसाध्य जीव ब्रह्मणोः श्रुति-स्मृति-पुराणेषु समानत्वप्रतीतिमात्रेण समानत्वमस्तीत्याशङ्कायामत्र जीवरूपनारायणादीनां शिवतुल्यत्वं सर्वथा न सम्भवतीति तथान्यप्रतिषेधात् इत्यादिना दर्शितम् | समाने वृक्षे पुरुषो निमग्नः एक एव रुद्रः इत्याद्यभयविधिविधायकश्रुतिदर्शनात् शिवसमोऽन्यो जीवोऽस्ति वा न वा इति चिन्त्यते | यस्मात्परं नापरमस्ति किञ्चित् इत्यादि- puruṣaḥ sahasrākṣaḥ sahasrapāt ityatra kasyacitpuruṣasya anantamukha-pādaviśiṣṭaṃ pādo'sya viśvā bhūtāni iti cetanā'cetanaprapañcāvacchinnatvaṃ tripādasyā'mṛtaṃ divi iti paramavyomārūḍhatvaṃ tasmādvirāḍajāyata | virājo adhipūruṣaḥ iti avyaktahiraṇyagarbhopādanahetutvaṃ ādityavarṇaṃ tamasastu pāre iti tamaḥparatvaṃ tamevaṃ vidvānamṛta iha bhavati iti tadupāsakānāṃ punarāvṛttirāhityahetutvañcopadiśyate | punastasya sahasraśīrsaṃ devaṃ ityārabhya patiṃ viśvasya iti viśvapatitvaṃ nārāyaṇaparaṃ brahma
SK
इति नारायणशब्दवाच्यस्यैव परब्रह्मत्वं परमात्मा व्यवस्थितः इति दहराकाशोपास्यत्वं चास्य प्रतीयते | एते धर्माः शिवस्यावगम्यन्ते | सर्वाननशिरोग्रीवः इति मन्त्रोपनिषदि विश्वतश्चक्षुरुत विश्वतो मुखः इति महोपनिषदि शिवसङ्कल्पे च सर्वतश्चक्षुरुत सर्वतो मुखःइत्यथर्वशिरसि बहुमुखपादादिमत्वं परमेश्वरस्योपदिश्यते | मायान्तु तस्यावयवभूतोत्थं व्याप्तं सर्वमिदं जगत् इति जगदंशप्रविष्टत्वं विश्वाधिको हिरण्यगर्भं पश्यत जायमानं इति हिरण्यगर्भजनकत्वं समस्तसाक्षिं तमसः परस्तात् इत्यादिषु विश्वसाक्षित्वं तमःपरत्वञ्चोपदिश्यते | एवं विश्वरूपत्वादिधर्मसाम्यं अनयोर्नारायणमहेश्वरयोः श्रुति-स्मृति-पुराणादिषु तत्पूजाविधिः समानतया श्रूयते | लोके च अष्टाक्षर-पञ्चाक्षर-मन्त्रोभयस्य सालग्राम-शिवलिङ्गोभयस्य पूजा-तीर्थ-प्रसादविधेश्च तुलसी बिल्व- prāpte pracakṣmahe | || tathānyapratiṣedhāditi || yasmātparaṃ nāparamasti kiñcit ityādiśrutiṣu yathā paraśivādhiko nāsti tathā jagatkāraṇamaheśvarasya samo'pi nāsti | na tatsamaścāmyadhikaśca dṛśyate ityādau tadānyapratiṣedhāt uta eka eva rudro na dvitīya tasye śiva eko dhyeyaḥ śivaṅkaraḥ sarvamanyatparityajya ityādibhirjagatkāraṇamaheśvarādanyapuruṣanirāsa evāvagamyate | tasmāt śivasadṛśo na vidyate | viṣṇoḥ śivaśaktyaṃśatvapratipādanam uta - ekaiva śaktistu maheśvarasya bhinnā caturthā viniyogakāle | bhoge bhavānī puruṣeṣu viṣṇuḥ krodhe ca kālī samare ca durgā || iti sāmaśākhāyāṃ viṣṇoḥ śivaśattayaṃ᳚atvavyavasthāpanāt śakti-śaktimatoḥ bhedā'bhedāt nimittakāraṇabhūtaśivasya upādānabhūtanārāyaṇasya ca nāmarūpādibhedena bhedavyapadeśe'pi tayorabhedāt svāśrayātiriktābhāvāt sarvadharmopapattiḥ | ata eva tasmādvirāḍajāyata ityanena hi puruṣasyopādānatvaṃ hiraṇyagarbhaṃ paśyata jāyamānam dyāvāpṛthivī janayandeva ekaḥ iti parameśvarasya nimittatvaṃ copadiśyate | ata eva skānde -
SK
सर्वशक्तिमतस्साम्बात् शिवात्परमकारणात् | प्रादुर्भवति सृष्ट्यादौ पराशक्तिर्महेश्वरी || सादिभोक्त्तृत्वकाले हि पुरुषाख्येन वर्तते | सहस्रशीर्षा पुरुषः सहस्राक्षस्सहस्रपात् || इति सा श्रूयते यस्मात् तस्माच्छिवमयं जगत् | इत्यनेन शिवशक्त्यात्मना चिदचित्प्रपञ्चपरिणामत्वात् भेदाऽभेदोभयविधायकश्रुतीनां समन्वय उपदिश्यते | अत एव सर्वो वै रुद्रः इति शिवस्य सर्वात्मकत्वमुपक्रम्य पुरुषस्य नारायणस्य उपादानत्वात्कथं सर्वात्मकत्वमुपपद्यते इत्याशङ्कायां - पुरुषो वै रुद्रः पुरुषस्य विद्म सहस्राक्षस्य महादेवस्य धीमहि इत्यनेन पुरुषोऽपि परमेश्वरमहाभूत्या जगदाकार इति दर्शितम् | सर्वज्ञ-सर्वशक्त-सर्वस्वतन्त्र-सर्वाधिक- viśvanimittopādānakāraṇabhūtatvāt sarveṣāṃ vākyānāṃ samanvaya aviruddhaḥ | so'kāmayata bahu syāṃ iti śrutau sa eva svasaṅkalpena svātmanaḥ puruṣamutpādya svavibhakta-svāṃśabhūtena sakalajagadbhavatītyupadiśyate | tatsṛṣṭvā tadevānuprāviśat ityādinā tathā śrūyate | māyāṃ tu ityādinā tadvadgamyate | tasmādupādānadharmāḥ nimitte hyupadiśyante | tathāpyupādānānnimittasyādhikatvāt viṣṇvādyadhikatvaṃ śivasya siddham | vāsudevaḥ parā prakṛtiḥ prakṛtistvaṃ pumān rudraḥ ityādismṛtipurāṇeṣu viṣṇoḥ prakṛtitvaṃ śivasya puruṣatvaṃ spaṣṭaṃ upadiṣṭam | ataśśivasyādvitīyatvaṃ niṣpratyūham | nanvekasya śivasya sarvātmakatvaṃ sarvaniyāmakatvaṃ sarvāntaryāmitvaṃ sarvavilakṣaṇatvañca kathamupapadyata ityāśaṅkāyāmāha - || 176 || anena sarvagatatvamāyāmaśabdādibhyaḥ || 36 ||
SK
अनेन ब्रह्मणः सर्वगतत्वं सर्वजगतो व्याप्यत्वं आयामशब्दादिभ्यः सर्वव्याप्तिवाचिशब्देभ्योऽवगम्यमानमस्मात्परं नास्तीत्यवगमयति | आयामशब्दस्तावत् विश्वतश्चक्षुरुत विश्वतो मुखः अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः | तेनेदं पूर्णं पुरुषेण सर्वं तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् विश्वं भूतं भुवनं चित्रं बहुधा जायमानञ्च यत् | सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु ऋतṁ सत्यं परं ब्रह्म सर्वानन शिरोग्रीवः देवा ह वै स्वर्गं लोकमगमन् ते देवा रुद्रमपृच्छन् | को भवानिति सोऽब्रवीत् अहमेकः प्रथममासṁ | वहामि च भविष्यामि च नाऽन्यः कश्चिन्मत्तो व्यतिर्क्तः | तेनेदं पूर्णं पुरुषेण सर्वम् नित्यं विभुं सर्वगतं सुसूक्ष्मं यद्भूतयोनि परिपश्यन्ति धीराः | सर्वं खल्विदं ब्रह्म ब्रह्म वेद ब्रह्मैव भवति ऐतदात्म्यमिदं सर्वं आत्मैवेदं सर्वं इत्यादयः श्रुतयः आदिशब्दात् गृह्यन्ते | तस्माद्यथाकाशस्य सर्वान्तरत्वं सर्वव्यापकत्वं सर्वविलक्षणत्वं पवनादिकारणत्वं सर्वाधिष्ठानत्वं चोपपन्नं तथैकस्यैव ब्रह्मणस्सर्वगतत्व-सर्वमयत्व- phalādhikaraṇam || 10 || jaiminimatanirākaraṇam nanu jyotiṣṭomena svargakāmo yajeta ityādiśrutiṣu karmaṇa eva sarvaphaladātṛtvavyapadeśādīśvarasya na kiñcitprayojanam | tasmāt caturthyantadevatāpradhānapūrvamīmāṃsānyāyena karmaṇa eva sarvabhūtotpatti- कर्ममात्रप्रधाननिरीश्वरमतान्तर्भूतं जैमिनिमतं निराकरोति - || १७७ || फलमत उपपत्तेः || ३७ ||
SK
अतः कर्ममिर्ज्योतिष्टोमादिसर्वकर्मभिराराधितादीश्वरादेव जीवानां तत्फलस्य उपपत्तेः सम्भवात् न केवलकर्मणः फलदातृतम् कुतः || उपपत्तेः || चेतनप्त्येश्वरस्यैव फलजनकत्वस्योपपन्नत्वात् जडस्य कर्मणः स्वातन्त्र्येण फलजनकत्वानुपपत्तेः परमेश्वरातिरिक्तस्य कर्मफलदातृत्वं सर्वथा न सम्भवति | पूर्वत्र भेदाऽभेदविधायकश्रुतीनां सर्वासां असङ्कोचेन ब्रह्मणि समन्वयं प्रसाध्य जीवानामैहिकामुष्मिकफलभोगार्थं परमेश्वरोपासनं विधाय तत्र निष्कामोपासकानां तिरस्कृतमलिनवासनानां यज्ञ-दान- svābhāvikajīvatvanivṛttipūrvakaśivatvaprāptiṃ phalamabhidhāya iha tu karmaṇa eva sarvaphaladātṛtvaṃ kṣaṇadhvaṃsitvāt jaḍatvañcābhidhāya jaḍatvācca tanna sambhavatīti darśitam jyotiṣṭomena svargakāmo yajeta eṣa eva sādhu karma kārayati ityādiśrutiṣu karma-brahmaṇo-rubhayorapi svātantryāvagamāt karmaphaladātṛtvaṃ karmaṇaḥ parameśvarasya vā yuktamiti sindihyate | śabdabuddhikarmaṇāṃ trikṣaṇāvasthāyitvamiti nyāyena karmaṇaḥ kṣaṇadhvaṃsasvabhāvatve'i tajjanyāpūrvaphalena taduttarakāle phaladātṛtvaṃ sambhavati | svakarmasūtragrathito hi lokaḥ karmaṇā jāyate jantuḥ karmaṇaiva pravardhate | karmaṇā mriyate yasmāt tasmātkarmaiva devatā || ityādiśrutismṛtiṣu karmaṇaḥ kartṛtvadarśanāt | yānaśakaṭameghādicalanasya tadbhinnagiri-vṛkṣa-candrādiṣvāropavat karmaphaladātṛtvasya parameśvare bhrāntiprasaktatvāt tasyaiva tatsamucitamiti prāpte pracakṣmahe | jaḍatvāt trikṣaṇavinaṣṭatvāt janyatvācca yajña-dāna-homa-dhyāna- एष ह्येव साधु कर्मकारयति तं यमेभ्यो लोकेभ्य उन्निनीषते इत्यादिश्रुतिषु - यथा लोके सदा राजा पुण्यापुण्यकृतो जनान् | तत्तत्कर्मानुसारेण फलं दास्यति तादृशम् || तथा महेश्वरो नित्यं जीवकर्मानुसारतः | परापरेषु लोकेषु फलभोगान् प्रदास्यति ||
SK
जनकच्छेदको दण्डः शिवलोके महीयते | ऋतुकर्मकरो दक्षः स्वशिरच्छेदनात्मकम् | लब्धवान् फलवैरुध्यं कर्मकर्तृत्वबुद्धितः || इत्यादिस्मृतिपुराणेषु च सर्वकर्मफलदातृत्वस्य महादेव एव व्यवस्थापनात् तदाराधन बुध्या विवेकिभिः यज्ञ-दान-तपः-पूजादितदाज्ञारूपं कर्म तदनुग्रहार्थमाचरितव्यम् | अस्मिन्नर्थे हेत्वन्तरमाह - || १७८ || श्रुतत्वाच्च || ३८ || स वा एष महानज आत्मान्नादः आवो राजानमध्वरस्य रुद्रṁ होतारṁ सत्ययजṁ रोदस्योः गाधपतिं मेधपतिं वाजश्च मे प्रसवश्च मे धाता च मे विष्णुश्च मे इत्यादिश्रुतिषु सर्वकर्मेश्वरस्साम्बः सर्वकर्मफलप्रदः | तस्मात्तं पूजयेन्नित्यं सर्वकामार्थसिद्धये || इत्यादिस्मृतिषु नाश्वमेधात्परो यज्ञः रुद्रस्याराधनं प्रति | इति रामायणादिषु च सर्वकर्माराध्यत्वस्य सर्वकर्मफलदातृत्वस्य श्रुतत्वाच्च शिवस्यैव श्रवणाच्च न जडस्य कर्मणस्स्वातन्त्र्यम् | तस्मात्सर्वकाल- nanu jaiminyācāryakṛtaśāstreṣu yatra kutrāpi parameśvarārādhanaprasādhanābhāvāt tadārādhanaṃ vaidikānāṃ na vidheyamityāśaṅkāyāmāha - || 179 || dharmaṃ jaiminirata eva || 39 || yataḥ vedavedāntāgameṣu śivasya parabrahmaṇaḥ sarvakarmaphaladātṛtvena sarvādhikatvaṃ tadārādhanasya sarvakāmaphalahetutvañca sādhitaṃ ata eva jaiminyācāryo'pi - īśvaraṃ tamahaṃ vande yasya liṅgamaharniśam | yajante saha bhāryābhiḥ indrajyeṣṭhā marudgaṇāḥ || ityādinā svakṛtavedapādastave śivaliṅgārādhanasya paramapuruṣārthahetutvena taddharmānupadiśati ataḥ yajeta svargakāmaḥ ityādikarmaprādhānyaśrutīnāmapi karmaphaladātṛtvaṃ śivasyaiveti tātparyam | ata eva sarve vedā yatpadamāmananti iti śrutau svābhiprāyaḥ spaṣṭamupadiṣṭaḥ | tasmātkarmaṇaḥ phaladātṛtvaṃ sarvathā na sambhavatīti siddham |
SK
ननु स्वातन्त्र्येण कर्मणः तत्फलदातृत्वस्य श्रुतितात्पर्याभावे सर्वश्रुत्यर्थविज्ञानिना वादरायणेनापि कण्ठोक्त्या यत्रकुत्रापि परमेश्वरस्य कर्मफलदातृत्वव्यवस्थाऽदर्शनात् कथं तस्य फलदातृत्वमुपपन्नमित्याशङ्कायामाह - || १८० || पूर्वन्तु बादरायणो हेतुव्यपदेशात् || ४० || तु शब्देन निश्चयार्थो निर्णीयते | पूर्वोक्तपरब्रह्मणश्शिवस्यैव फलदातृत्वं भगवान् वादरायणो मन्यते | कुतः || हेतुव्यपदेशात् || यज देवपूजासङ्गतिकरणदानेषु इति देवताराधनभूतयागाद्याराध्यभूताग्निवाय्वादिदेवतानामेव तत्तत्फलहेतुतया तस्मिन्स्तस्मिन्नपि वाक्येव्यपदेशात् | वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेषिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति इत्यादिषु कामिनस्सिषाधयिषितफलसाधनत्वप्रकारोऽपदेशोऽपि विध्यपेक्षित एवेति न अतत्परत्वशङ्का युक्ता | एवमपेक्षितेऽपि फलसाधनत्वप्रकारे शब्दादेवावगते सति तत्परित्यागं अश्रुतापूर्वादिपरिकल्पनञ्च प्रामाणिका न सहन्ते | लिङ्गादयोऽपि देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां शब्दानुशासनानुमतां अभिदधति नान्यदलौकिकमिति प्रागेवोक्तम् | तदेवं वायुर्वै क्षेपिष्ठा देवता इत्यादिशब्दात् वाय्वादीनां फलप्रदत्वमवगम्यते | वाय्वाद्यात्मना च शिव एवाराध्यतया फलप्रदायित्वेन चावतिष्ठत इति श्रूयते | इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः | तदेवाग्निस्तद्वायुस्तत्सूर्यतदु चन्द्रमाः तदेव शुक्रममृतं तद्ब्रह्म स आपस्स प्रजापतिः यो रुद्रोऽग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश इत्यादिषु सर्वान्तर्यामित्वं शिवस्योपदिष्टम् | अतः सर्वकर्माराध्यः सर्वकर्मफलप्रदाता नान्य इत्युच्यते |
SK
ननु क्षणिकस्य कर्मणः फलसाधनत्वव्यवस्थापनार्थं अपूर्वं प्रकल्प्य तद्वाक्यशेषादन्यपरत्वमिति चेन्न | यो वै रुद्रः स भगवान् इत्यादिना वाय्वादिसर्वदेवतात्मकत्वं शिवस्यैव अर्थर्वशिरसि श्रूयते | यो मां वेद स सर्वान् देवान् वेद इति स्वज्ञानात् स्वात्मसकलदेवताज्ञानं तत्रैव शिवेनोपपादितम् | अतस्सर्वफलदाता सर्वदेवतारूपः सर्वकर्माराध्यः परब्रह्म शिव एव | तथा स्मृतौ - यस्सर्वदेवताभक्त्या यजते सर्वमार्गतः | तदन्तर्यामिरूपेण फलं साम्बः प्रसीदति || इति | कृष्णगीतायां - यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् || स तया श्रद्धया युक्तः तस्याराधनमीहते | लभते च ततः कामान् मयैव विहितान् हि तान् || अहं हि सर्वयज्ञानां - भोक्ता च प्रभुरेव च | इत्यादिना कृष्णोऽपि वामदेवादिवत् शिवभक्तत्वेन स्वान्तर्यामित्वेनाहंप्रत्ययस्फुरणरूप प्रत्यगात्माकारशिवभावनया सर्वमहमेवेत्युपदिष्टवान् | लोके राजभृत्योऽपि सर्वजनदत्तधनादिकं स्वद्रव्यवत्परिगृह्य तदन्तर्यामिराजसमर्पणं करोतीति दृष्टम् | तथा विष्ण्वादिनानादेवताराधनमपि तदन्तर्यामित्वेन शिवः परिगृह्य तत्तत्फलं प्रदास्यतीति सिद्धम् | इति श्रीमद्यतिव्रजपरिवृढ-श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत- śrīkarabhāṣye upāsanābhidhānasya tṛtīyādhyāyasya sandhyādidaśādhikaraṇāvacchinna- तृतीयाध्यायस्य द्वितीयः पादः समाप्तः अथ श्रीकरभाष्ये तृतीयाध्यायस्य तृतीयः पादः सर्ववेदान्तप्रत्ययाधिकरणम् || १ || परमशिवोपासनगुणाः उपन्यस्यन्ते
SK
पूर्वपादे तत्पदार्थभूतपरशिवब्रह्मोपासनेन त्वंपदार्थभूतपशुरूपजीवस्य पाशनिवृत्तिपूर्वकपशुपतिप्राप्तिरूपपरमपुरुषार्थफलप्रपञ्चने तदुपासनं कथमित्याकाङ्क्षायां तृतीयपाद आरभ्यते कैश्चिदत्र सगुणेश्वरस्य मिथ्याभूतत्वात् तदुपासनेन नित्य-निर्गुण-निरवयव- sarvaparipūrṇa-nirguṇabrahmasākṣātkārahetubhūtatadvidhāyakavedāntaśravaṇa- निर्गुण-ब्रह्मसाक्षात्कारायोगात् केवलवेदान्तश्रवणादेर्वैद्यशास्त्रादिश्रवणवदपुरुषार्थत्वात् श्रुतिनिष्ठसगुणब्रह्मोपासनविधायक-दहराद्युपासनादेव निरवयव- etadadhikaraṇamāha - sarvaśākhāpratipādyasajātīyaśivapradhānadaharādyupāsananirūpaṇam || 181 || sarvavedāntapratyayaṃ codanādyaviśeṣāt || 1 || sarvavedāntapratyayaṃ sarvaśākhāgatasarvopaniṣatpratipādyaṃ daharopāsanamekameva | evaṃ sarvaśākhāprasiddhaṃ vaiśvānaropāsanamapyekameva | evaṃ śāṇḍilyopāsanamapyekameva | evaṃ upakomalopāsanamekameva | kutaḥ || codanādyaviśeṣāt || codyante vidhīyanta iti vyutpatyā codanāśabdena agnihotrādikarmāṇyucyante | tathā ca codanādyaviśeṣāt saguṇabrahmopāsanānāmapi codanādibhiragnihotrādikarmabhissaha aviśeṣāt tulyatvāt | tathāpi sarvaśākhāprasiddhāgnihotrākhyaṃ karma yathaikameva yathā jyotiṣṭomākhyaṃ karmaikaṃ yathā vājapeyākhyaṃ karma sarvaśākhāpratipādyamekameva evaṃ sarvaśākhāpratipādyaṃ sajātīyaśivapradhānadaharādyupāsanamekameveti sūtrasūcitasūkṣmārthaḥ |
SK
इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाऽभेदचिन्ता प्रस्तूयते | प्रथमं तावदेकस्याः वैश्वानरविद्यादिकायाः अनेकशाखासु श्रूयमाणायाः किमेकविद्यात्वं उत विद्याभेदः इति सन्दिह्यते | शाखाभेदतया प्रकरणभेदात् सर्वशाखासु परब्रह्मणः शिवस्य उपासनायां भेद एव | तैत्तिरीयके - दहरं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसṁस्थम् | तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् | इत्यत्र दहराकाशे शिवोपासनमुपदिश्यते | छान्दोग्ये - अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम् | तद्वाव विजिज्ञासितव्यम् || इत्यादिना दहराकाशस्यैव उपासितव्यत्वेन व्यपदेशादन्योन्य विरोधो दृश्यते | शिरोव्रतम् किञ्च - तैत्तिरीयके - ऋतṁ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं इत्यादिना दहरोपास्यपरब्रह्मणः कृष्णपिङ्गलत्वादयो धर्माः छान्दोग्ये - एष त आत्मापहतपाप्मा इत्यादिना अपहतपाप्मत्वादयो गुणास्तस्य श्रूयन्ते | तस्मात्तत्र तत्र गुणभेददर्शनादुपासनभेदो ह्यर्थादुपदिश्यते | तथा - छान्दोग्ये - पञ्चाग्नि-शाण्डिल्य-उपकोसल-उद्गीथ- - śirovratākhyo dharmaḥ śrūyate | teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam iti śirovratavatāṃ ātharvaṇikānāmeva vidyopadeśaniyama upapadyate | tasmāddharmabhedādupāsanābhedaḥ | tataḥ śākhādibhedādupāsanānābheda iti prāpte pracakṣmahe -
SK
सर्ववेदान्तप्रत्ययमेकमुपासनमिति कुतः चोदनाद्यविशेषात् | चोदना तावत् उपसीत - विद्यात् इत्येवंजातीयको धात्वर्थविशेषविधिः | आदिशब्देन एकं वा संयोगरूपचोदनाख्याऽविशेषात् इति कर्मकाण्डशाखान्तराधिकरण- saiveyaṃ vidyeti śākhāntare pratyabhijñāyate | tathā hi - chāndogyavājasaneyakayoḥ vaiśvānaramupāste iti codanā tāvadekarūpā | tathā tasmin yadantastadanveṣṭitavyam iti chāndogye daharavidyāvidhiḥ tasmin yadantastadupāsitavyam iti taittirīyake | tatra sthānādya bhedāt upāsyabrahmaṇo'pyabhedāt ubhayatroktānāṃ dharmāṇāmavirodhāt vidyaikyameva | chāndogyabṛhadāraṇyaśākhayoḥ | dyuḥ-parjanya- यावत्स्वरूपमाम्नातं तदुभयत्रापि समानम् | तस्मान्न विद्याभेद इति सिद्धम् | शाखाभेद गुणभेदस्य श्रूयमाणत्वात् नानाशाखागतानां सजातीयोपासनानां ऐक्यमनुपपन्नमित्याशङ्कायामाह - || १८२ || भेदान्नेति चैदेकस्यामपि || २ || अविशेषपुनःश्रुत्या प्रकरणान्तराच्च विधेयभेदान्न विध्यैक्यं इति चेत् - एकस्यामपि विद्यायां प्रतिपत्तृभेदात् पुनः श्रुतिः प्रकरणान्तरञ्च उपपद्यते | अत्र ह्येकस्मिन् प्रतिपत्तरि पुनः श्रुतिः प्रकरणन्तरञ्च विद्यते तत्रान्यथानुपपत्या विधेयभेदात् विद्याभेदः | प्रतिपत्तृभेदे तु तत्प्रतिपत्यर्थतया पुनः श्रुत्याद्युपपत्तेस्तत्र न विधेयांतरसम्भवः | तस्मादेवं नानाशाखागतानां सजातीयोपासनानां परमशिवविषयाणां एकत्वमेव उपदिश्यत इति निर्णीयते यच्चोक्तं शिरोव्रतवतामाथर्वणिकानामेव विद्योपदेशनियमदर्शनात् विद्याभेदः प्रतीयत इति तत्राह - शिरोव्रतस्वरूपनिरूपणम् स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च तन्नियमः || ३ ||
SK
नैतदन्ति - शिरोव्रतोपदेशनियमदर्शनं विद्याभेदं द्योतयतीति शिरोव्रतस्य विद्याङ्गत्वाभावात् स्वाध्यायस्य तथात्वं सिध्यर्थं - तज्जन्यसंस्कारभाक्त्वसिध्यर्थं हि शिरोव्रतोपदेशनियमः न विद्यायाः | कुत एतत् नैतदचीर्णव्रतोऽधीते इति तस्य अध्ययनसंयोगात् समाचारे अधिकाराच्च समाचाराख्ये ग्रन्थे इदमपि वेदव्रतेन व्याख्यातं इत्यतिदेशात् | तेषामेवैतां ब्रह्मविद्यां वदेत् इत्यत्र वेदविद्यामित्यर्थः | सववच्च तन्नियमः || यथा हि सवहोमाः सप्तसूर्यादयः शतौदनपर्यन्ता आथर्वणिकैकाग्निसम्बन्धिनः तत्रैव भवन्ति न त्रेताग्निषि तेषामेवैतां ब्रह्मविद्यां वदेत इत्यार्थर्वणे शिरोव्रतस्यापि तत्परत्वनिर्देशान्न विद्याभेदो व्यपदिश्यते | ननु यदि यदि सकलशाखागतानां परशिवब्रह्मसजातीयोपासनानां ऐक्यमङ्गीक्रियते तर्ह्युपसंहारोऽर्थाभेदात् इति वक्ष्यमाणसूत्रन्यायेन सकलसजातीयोपासनाप्रकरणप्रतिपाद्यानां सत्यसङ्कल्पत्व-सर्वज्ञत्व- nirṇetavyaḥ | evaṃ sthite sati ekaikasya puruṣasya sakalaśākhādhyayanasyāśakyatvāt kathaṃ sakalaśākhāpratipādyaguṇamelananirṇaya iti cenna | svādhyāyo'dhyetavyaḥ iti śrutau svasya adhyāyaḥ svādhyāya iti vyutpatyā svādhyāyaśabdena svaśākhā ucyate | tathā ca svādhyāyasya tathātvena hi samācāryādhiko nava iti nyāyena adhyayanavidhiprakaraṇe svādhikāropadeśādekasya puruṣasya sakalaśākhādhyayanābhāve'pi sakalaśākhādhyetṛbhiḥ bharadvāja-atri- मेलननिश्चयः तद्वदुपासकानां सकलशाखाध्ययनसामर्थ्यासम्भवेऽपि सकलशाखाध्येतृभिः वेमाराध्य-उद्भटाराध्य-मरुलसिद्ध- sakalaśākhāgatānāṃ satyasaṅkalpatva-kṛṣṇapiṅgalatvādiguṇānāṃ ekatvaniścayo yukta ityupadiśyate | paramaśivasya daharādisakalavidyopāsyatvapratipādanam taittirīya-kaivalyādinānāśākhāgatānāṃ upāsanānāṃ sarvajñaiḥ agastyādimaharṣibhiḥ ekatvopadeśādapi parasparabhedadarśanāt kathamekatvamupapannamityāśaṅkāyāmāha -
SK
|| १८४ || दर्शयति च || ४ || सर्ववेदान्तेषु परशिवोपासनस्य फलैक्याद्विद्यैक्यं दर्शयति च | कैवल्ये - हृत्पुण्डरीकं विशदं विशोकं इत्यारभ्य उमासहायं तमसः परस्तात् इति तैत्तिरीयके - ऋतṁ सत्यं परं ब्रह्म इति दहरोपास्यपरमपुरुषस्य शिवस्य मूर्तत्वञ्च-उदिष्टम् | अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म इत्यारभ्य तस्मिन्यद्दन्तस्तदन्वेष्टम्यम् | इत्युक्त्वा किं तत्र विद्यते यदन्वेष्टितव्यमिति प्रश्नपूर्वकं अपहतपाप्मत्वादिगुणाष्टकविशिष्टः परब्रह्म शिवस्तस्मिन् उपास्य इत्युक्तम् | किञ्च - तैत्तिरीयके च छान्दोग्यस्थं प्रतिनिर्देशमुपजीव्य तत्रापि दहरं तदुपासितव्यम् इति गुणाष्टकविशिष्टस्य परब्रह्मणश्शिवस्योपासनमुच्यते | तस्मात्सर्वत्र विद्यैक्यं गुणोपसंहारादेव उपपद्यते | तदेव शाखान्तराधिकरणन्यायसिद्धं विद्यैक्यं स्थिरीकृत्य तत्प्रयोजनं किमित्याकाङ्क्षायां तत्राह - || १८५ || उपसंहारोऽर्थाभेदात् विधिशेषवत् समाने च || ५ || एवं सर्ववेदान्तेषु समाने सत्युपासने वेदान्तान्तराम्नातानां गुणानां वेदान्तान्तरे उपसंहारः कर्तव्यः | कुतः विधिशेषवत् अर्थाभेदात् | यथैकस्मिन् वेदान्ते श्रुतो वेश्वानर-दहरादिविधिशेषो गुणः तद्विधासम्बन्धात् तदुपकाररूपप्रयोजनसिध्यर्थमनुष्ठीयते तथा वेदान्तान्तरोदितोऽपि तद्विद्यासम्बन्धित्वेन तदुपकाराविशेषात् उपसंहर्तव्य इत्युपदिश्यते | च शब्दोऽवधारणे निर्दिष्टः | उपासनायाः प्रयोजनं दर्शयति
SK
ननु छान्दोग्ये दहरविद्यायां अपहतपाप्मत्वादयो धर्माः श्रूयन्ते | तद्वत्तैत्तिरीयशाखायामदर्शनात् तैत्तिरीयनिष्ठकृष्णपिङ्गलत्वादिगुणानां छान्दोग्ये यत्रक्त्राप्यदर्शनात् गुणोपसंहारन्यायेन सर्वेषां वेदान्तानां समन्वयः कथमुपपद्यत इति चेन्न | सर्वत्र तैत्तिरीय- tulyatvena vyapadeśādupasaṃhāranyāyo yuktaḥ | vidyopakārarūpasāmarthyādyaikatvāt yathaikavidhiśeṣatayā vihitānāmaṅgānāmagnihotrādiṣu tathaiva codanādibhissamāne daharādyupāsanaguṇānāṃ satvātsamañjasam | kiñca - nānāśakhāgataparameśvaropāsanaprakaraṇapratipādyānāṃ satyasaṅkalpatvādiguṇānāṃ sarvatra dyotanāt upasaṃhāro na virudhyate | arthabhedānnānāśākhāgataguṇaviśiṣṭasajātīyopāsanāyāḥ paraśivabrahmalokaprāptilakṣaṇaphalasya abhedāt ekatvamarthātsiddham | tathā ca paraśivabrahmalokaprāptilakṣaṇaikaphalasādhanabhūtānāṃ nānāśākhāgatasajātīyopāsanasambandhināṃ satyasaṅkalpatvādiguṇānāṃ melanarūpopasaṃhāraḥ kartavyaḥ | yadyapyasmin sūtre guṇopasaṃhārakathanāt ekasya puruṣasya sarvaśākhādhyayanāsambhavātkathaṃ nānāśākhāgataguṇopasaṃhāraśaṅkā paścātparihartavyā | tathāpyuttaratrasūtra vakṣyamāṇaṃ guṇopasaṃhāraṃ siddhavatkṛtya sakalaśākhādhyayanāyogāt guṇopasaṃhāro nopadiśyata iti śaṅkā pūrvaṃ nirastā | Page ṇo. 268 ṁ 269 is missing sauramaṇḍalamadhyasthaṃ sāmbaṃ saṃsārabheṣajam | nīlagrīvaṃ virūpākṣaṃ viṣṇuvallabhamavyayam || iti smṛtau ca tasya sadāśivaparatvaṃ nirdiṣṭam | tasmāt vidyaikyaṃ kadācinnopapadyata iti prāpte atrocyate | prathamādhyāyasya prathamapāde antastaddharmopadeśādhikaraṇe chāndogya-
SK
किञ्च - उभयत्रोद्गीथस्यैवाध्यस्तप्राणभावस्योपास्यत्वश्रवणात् चोदनाद्यविशेषात् फलसंयोगस्तावत् शत्रुपरिभवरूपो न विशिष्यते | रूपमप्यध्यस्त प्राणभावोद्गीथाख्योपास्यैकत्वादिविशिष्टम् | चोदना च विविधात्वर्थगताऽविशिष्टा | आख्या चोद्गीथविद्येत्यविशिष्टा | अत्र राद्धान्तितच्छायया परिचोद्य परिहरति || अन्यथात्वमित्यादिना || यदुक्तं विद्यैक्यमिति तन्नोपपद्यते रूपभेदात् रूपान्यथात्वं हि शब्दादेव प्रतीयते | वाजसनेयके हि - अथ ह इममासन्य प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एव प्राण उदगायत् इत्युत्थानस्य कर्तरि प्राणदृष्ट्या असुरपराभवमुक्त्वा य एवं वेदेति | कर्तर्येव प्राणदृष्टिरेवं शब्दादवगम्यते | छान्दोग्ये - अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासांचक्रिरे इत्युद्गानस्य कर्मण्युद्गीथे प्राणदृष्ट्या असुरपगभवमुक्त्वा | य एवं विदि पापं कामयते इत्येवंशब्दात् कर्मण्येवोद्गीथे प्राणदृष्टिर्विहिता | अत एकत्र कर्तरि प्राणदृष्टिशब्दात् अन्यत्र कर्मणि प्राणदृष्टिशब्दाच्च रूपान्यथात्वं स्पष्टम् | रूपान्यथात्वे च विधेयभेदे सति केवलचोदनाद्यविशेषोऽत्किञ्चित्कर इति विद्याभेद इति चेत्तन्न | अविशेषात् || अविशेषेण ह्युभयत्र उद्गीथसाधनकपरपरिभव उपक्रमे प्रतीयते | वाजसनेयके - ते ह देवा ऊचुर्हन्ताऽसुरान्यज्ञ उद्गीथेनात्ययाम इत्युपक्रमे श्रूयते | छान्दोग्येऽपि - तद्धि देवा उद्गीथमाजुह्वरनेनैनानभिहनिष्याम इति | अत उपक्रमाविरोधाय तेभ्य एष प्राण उदगायत् इत्यध्यस्तप्राणभावोद्गीथोद्गानकर्मभूत् एव पाकादिष्वोदनादिवत् सौकर्यातिशयविवक्षया कर्तृत्वेनोच्यते | अन्यथोपक्रमगत उद्गीथशब्दः कर्तरि लाक्षणिकः स्यात् | अतो विद्यैक्यम् | दहरादिविद्यानां फलैक्यात् विद्यैक्यम्
SK
ननु तर्ह्येकशाखागतानां भिन्नशाखागतानामपि परशिवब्रह्मलोकप्राप्तिरूपैकफलसाध्यानां दहर-शाण्डिल्य- manaḥpradhānabhūtāntaraṅgopāsanātmakakarmaṇāmapyabhedāṅgīkāre bāhyakarmaṇāmapi sarveṣāṃ manaḥprādhānyāt aharahaḥ sandhyāmupāsīta jyotiṣṭomena svargakāmo yajeta ityādikarmakāṇḍaprakaraṇapaṭhitajyotiṣṭomādikarmaṇāmapi paraśivabrahmalokaprāptiphalamupapadyeta | tathāccettattatkarmaphalavidhāyakaśāstravairudhyaṃ durvāramityāśaṅkāyāmāha - || 187 || na vā prakaraṇabhedāt parivarīyastvādivat || 7 || karmakāṇḍaprakaraṇapaṭhitavijātīyopāsanānāṃ aikyaṃ nāstyeva | kutaḥ prakaraṇabhedāt karma-brahmakāṇḍayoḥ prakaraṇayoḥ parasparabhinnatvāt | jyotiṣṭomena svargakāmo yajeta ityādiśrutīnāṃ abhyudayaphalaprāptyupadeśāt brahma veda brahmaiva bhavati ityāadiśrutiṣu brahmopāsanānāṃ apunarāvṛttaniḥśreyasaphalavyavasthāpanāt dahara-śāṇḍilya- दृष्टान्तमाह || परो वरीयस्त्वादिवत् || यथा अग्निहोत्र-ज्योतिष्टोम- taduttarottaramutkṛṣṭānāṃ bhedāvagabhāt dharmaprakaraṇapaṭhita- किं वक्तव्यम् | अथ यदतः परो दिवो ज्योतिर्दीप्यते अथ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते अथ यदिदमस्मिन् ब्रह्मपुरे दहरपुण्डरीकं वेश्म इत्यादिषु ब्रह्मप्रकरणभेदद्योतकैः अथशब्दादिभिः परशिवब्रह्मोपासनानां अन्योन्यनिरपेक्षतया प्रत्येकं ब्रह्मप्राप्तिसाधनत्वावगमेऽपि तद्वद्भिन्नत्वं नोपपद्यते फलैक्यात् यथा दर्शपूर्णमास ज्योतिष्टोम-वाजपेय- tadvatsarvadā brahmaprakaraṇapaṭhitānāmeva sākṣāt brahmaprāptihetutvam | sarve vedā yatpadamāmananti iti śrutisatve'pi niṣkāmanayā parameśvarārpitajyotiṣṭomādi- किञ्च - ओमित्येतदक्षरमुद्गीथमुपासीत इति प्रकृतमुद्गीथावयवं प्रणवं प्रस्तुत्य एतस्य वा अक्षरस्योपव्याख्यानं भवति | देवासुरा ह वै यत्र संयेतिरे
SK
इत्यारभ्य अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे इत्युद्गीथावयवभूतप्रणवविषयमुपासनं छान्दोगा अधीयते | वाजिनस्तु तादृशप्राचीनप्रकरणाभावात् हन्तासुरान्यज्ञ उद्गीथेनात्ययाम इति कृत्यमुद्गीथं प्रस्तुत्य अथ ह इमामासन्यं प्राणमूचुरत्वं न उद्गाथ इत्यादिकृत्योद्गीथविषयमधीयते | अतः प्रकरणभेदेन विधेयभेदः विधेयभेदे च रूपभेद इति न विद्यैक्यम् | अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे इति पूर्वप्रकृत-उद्गीथावयवभूतः प्रणव एवाध्यस्तप्राणभावं छान्दोगानामुपास्यः | वाजिनां तु कृत्स्नस्योद्गीथस्य कर्तोद्गाता प्राणदृष्ट्योपास्यः इति | अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत इत्युद्गातरि प्राणाध्यासं निर्दिश्य य एवं वेद इत्युद्गातैवाध्यस्तप्राणभाव उपास्यो विधीयते | अतश्च रूपभेदः | न चोद्गातर्पुपास्ये विहिते उद्गीथेन अत्ययाम इत्याख्यायिकोपक्रमविरोधश्शङ्कनीयः उद्गातुरुपासने उद्गीथस्योद्गानकर्मभूतस्य अवश्यापेक्षितत्वात् तस्यापि परपरिभवाख्यफलं प्रति हेतुत्वात् | अतो रूपभेदाद्विद्याभेद इति चोदनाद्यविशेषेऽपि न विद्यैक्यम् | यदेकस्यामपि शाखायां उद्गीथाअवयवभूते प्रणवे परात्मदृष्टिविधानसाम्येऽपि हिरण्मयपुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधान मर्थान्तरभूतम् | तस्मात् विद्यैक्यमुपपन्नमिति चेत् - उच्यते | सर्वे वेदा यत्पदमामनन्ति वेदैरनेकैरहमेव वेद्यः वेदान्तकृद्वेदविदेव चाहम् तं त्वौपनिषदं पुरुषं पृच्छामि इत्यादिषु सर्वेषु वेदान्तेषु उपास्योपासकादिभेदेन संसारदशायां भेदसाधनत्वेऽपि षड्विधतात्पर्यलिङ्गैः षट्स्थलपरशिवब्रह्मण्येव समन्वयसम्भवात् दहर-शाण्डिल्यादिविद्यानां जीवभावनिवृत्तिपूर्वकशिवत्वप्राप्तिरूपपरमपुरुषार्थफलैक्यात्- niṣkāmanayā śivārpitadhiyā kṛtānāṃ jyotiṣṭomādīnāṃ paramparayā brahmaprāptiḥ daharādyupāsanānāṃ tu sākṣāt brahmaprāptihetutvam
SK
ननु धर्मप्रकरणपठितपुरुषनिष्कामकृतज्योतिष्टोमादिपुण्यकर्मणां चित्तशुद्धिद्वारा श्रुतिस्मृत्यादिषु परम्परया मोक्षहेतुत्वव्यपदेशात् दहराद्युपासनानां ज्योतिष्टोमाद्युपासनानाञ्च मोक्षफलैकत्वादभिन्नत्वं कहमनुपपन्नमित्याशङ्कायमाह - || १८८ || संज्ञातश्चेत्तदुक्तम् अस्ति तु तदपि || ८ || संज्ञातः भिन्नभिन्नसंज्ञाबलात् विद्यां चाविद्यां च यस्तद्भेदोभयṁ सः अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते इत्यादिश्रुतिषु वर्णाश्रमोचितो धर्मः अविद्येति निरूप्यते | तया प्राचीनकर्माणि हित्वा ज्ञानं समश्नुते || ज्ञानेन मुक्तिमाप्नोऽति तस्मात्कर्म समभ्यसेत् | इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः || बह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया | स्वजातिविहितं धर्मं कुर्याद्वेदोदितं नरः || स्वजातिविहितात् धर्मात् वेदस्मृत्युदितात्कृतात् | पुंसः पापनिवृत्तिस्स्यात्तया शुद्धिस्तु चेतसः || चित्तशुध्या तु विश्वासः श्रुतिस्मृतिषु जायते | तस्माद्भक्तिर्भवेत्पुंसां शिवे परमकारणे || भक्त्या जायेत सततं संसृतेर्दोषदर्शनम् | तस्मादिह परत्रापि भोगेषु विरतिर्भवेत् || तया वेदान्तवाक्यार्थे शिवरूपप्रकाशनम् | सम्यक् ज्ञानं भवेत्तेन मुक्तिः पुंसो भवेत् ध्रुवम् || तस्मान्माहेश्वरो विप्रः श्रुतिस्मृत्यागमोदितम् | वर्णाश्रमोचितं धर्मं प्राणत्यागेऽपि न त्यजेत् || इत्यादिस्मृतिपुराणादिष्वपि धर्मस्य ब्रह्मज्ञानपूर्ववृत्तत्वोपदेशात् दहर- cettadapyasti tu | satyaṃ jñānamanantaṃ brahma yo veda nihitaṃ guhāyāṃ parame vyoman | so'śnute sarvān kāmān saha || na karmaṇā na prajayā dhanena tyāgenaike amṛtatvamānaśuḥ | pareṇa nākaṃ nihitaṃ muhāyāṃ vibhrājate yadyatayo viśanti || vedāntavijñānasuniścitārthāḥ sanyāsayogādyatayaśśuddhasattvāḥ| te brahmaloke tu parāntakāle parāmṛtātparimucyanti sarve ||
SK
इत्यादिश्रुतिषु दहर-शाण्डिल्यादिविद्यानामिव ज्योतिष्टोमादीनां साक्षाद्ब्रह्मप्राप्तिव्यपदेशऽदर्शनात् बहुजन्मकृतपुण्यफलेन चित्तशुद्धिद्वारा भक्ति-वैराग्य-शम-दमादिपरम्परया दहराद्युपासनाहेतुभूतत्वेऽपि दहराद्युपासनानामिव साक्षा ह्यप्राप्तिहेतुत्वाऽसम्भवात् विद्यां चाविद्यां च इति श्रुतौ नाममात्रेण घटपटवत्परस्परवैलक्षण्योपदेशात्सर्वदा विद्यारूपदहराद्युपासनानां अविद्यात्मकज्योतिष्टोमादिकर्मणां च अभेदः सर्वथा अनुपपन्नः | पुण्यकर्मणामावश्यकत्वम् ननु सन्ध्यावन्दन-ज्योतिष्टोमादिकर्मणां ब्रह्मप्राप्तिरूपफलायोगात् दहरादिविद्यानां तत्फलहेतुत्वदर्शनात् विदुषामविदुषामपि सन्ध्यावन्दनादिकर्मणामप्रसक्तिः दोषप्रसक्तिश्च प्रसज्येतेत्याशङ्क्य तत्राह - || 189 || vyāpteśca samañjasam || 9 || || vyāpteśceti || dharmeṇa pāpamapanudati ityādiśrutismṛtyādiṣu niṣkāmanayā śivārpaṇakṛtasandhyāvandanādipuṇyakarmaṇāṃ pāpanivṛttidvārā paramparayā svābhāvikajīvatvanivṛtti pūrvakaśivatvaprāptirūpa-mokṣaphale vyāpakatvācca samañjasaṃ aviduṣāṃ cittaśuddhidvārā māyāpāśanivṛttipūrvakanityānandātmakasālokyādimokṣasidhyarthaṃ viduṣāṃ lokadūṣaṇanivṛttipūrvakamūḍhatāraṇārthañca sandhyāvandanādinityanaimittikādipuṇyakarmācaraṇaṃ śrutismṛtipurāṇāgameṣu saṃsthāpanāt samañjasam | evaṃ vidvānagnihotraṃ juhuyāt ityādiśrutiṣu nityanaimittikānyeva kurvato duritakṣayaḥ | saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | kuryādvidvāṃstathā'saktaḥ cikīrṣurlokasaṃgrahaḥ || ācārahīnaḥ puruṣo loke bhavati ninditaḥ | tasmādācāravāna jñānī bhavedādehapātanāt || iti śrutismṛtipurāṇāgamādiṣu bahudhā prapañcitatvāt sarveṣāṃ sandhyāvandanādipuṇyakarmaṇāṃ āvaśyakatvaṃ siddham | sarvābhedādhikaraṇam || 3 || na cātra vidyābhedaḥ śivādhiṣṭhānatvāt sarvatraḥ
SK
पूर्वे मुमुक्षूणां निरुपम-नित्यकल्याण-निरतिशयानन्दकन्द- daharopāsanaṃ praṇavārthānusandhānasāmarasyodgīthādyupāsanañca prasādhya tatra sarveṣāṃ daharādyupāsanānāṃ guṇadharmaprakaraṇabhedāt bhinnabhinnatvena pratīyamānatve'pi tatprāptirūpaphalaikyādekatvasya dharmaprakaraṇapaṭhitasandhyāvandādīnāṃ sarveṣāṃ dharmāṇāṃ paramparayā tatprāptihetutvasya ca vyavasthāpane prāṇopāsanasya sarvādhikyena pratīyamānatvāttasya nānāśākhāsubhinnabhinnatvena dyotanāñca kathaṃ brahmaṇi samanvaya ityāśaṅkāyāṃ adhikaraṇāntaramāha - || 190 || sarvābhedādanyatreme || 10 || chāndogya vājasaneyakayoḥ prāṇavidyā prastūyate | yo ha vai jyeṣṭhañca śreṣṭhañca veda jyeṣṭhaśca śreṣṭhaśca bhavati prāṇo ha vai jyeṣṭhaśca śreṣṭhaśca ityādi |tatra jyaiṣṭhyaśraiṣṭhyaguṇakaṃ prāṇamupāsyaṃ pratipādya vākcakṣuḥśrotramanastu vaśiṣṭhatva-pratiṣṭhātva-sampattvāya tanatvākhyān guṇān pratipādya vāgādīnāṃ dehasya ca prāṇāyattasthititvena tadāyatta tattatkāryatvena ca prāṇasya śraiṣṭhyaṃ pratipādya vāgādisambandhitayā śrutān vasiṣṭhatvādīn guṇāṃśca prāṇasambandhitayā pratipādayati | evaṃ chāndogya- प्रतीयते | कौपीतकिनान्तु प्राणविद्यायां तथैव ज्यैष्ठ्यश्रैष्ठ्यगुणकः प्राण उपास्यः प्रतिपादितः न पुनर्वसिष्ठत्वादयो वागादिसम्बन्धिनो गुणाः प्राणसम्बन्धितया प्रतिपादिताः | तत्र संशयः - किमत्र विद्या भिद्यते उत न इति | किं युक्तम् भिद्यत इति | कुतः रूपभेदात् | यद्यप्युभयत्र प्राण एव ज्यैष्ठयश्रैष्ठ्यगुणक उपास्यः तथाप्येकत्र वसिष्ठत्वादिभिरपि गुणैर्युक्तः प्राण उपास्यः प्रतीयते इतरत्र तु तद्विधुर इत्युपास्यरूपभेदात् विद्याभेदः | इति प्राप्ते प्रचक्ष्महे -
SK
|| सर्वाभेदादन्यत्रेमे || नात्र विद्याभेदः अन्यत्र - कौषीतकिनां प्राणविद्यायामपि इमे वसिष्ठत्वादयो गुणाः उपास्याः सन्ति | कुतः सर्वाभेदात् - प्रतिज्ञातप्राणज्यैष्ठ्यश्रैष्ठ्योपपादनप्रकारस्य सर्वस्य तत्राप्यभेदात् | तथा हि-छन्दोगवाजसनेयिनां प्राणविद्यायां एता ह वै देवताः अहं श्रेयसि व्यूदिरे अहं श्रेयसे विवदमानाः इति चोपक्रम्यं वागाद्येकैकापक्रमणे सर्वेषां सप्राणानामिन्द्रियाणां शरीरस्य च स्थितिं तत्तत्कार्यं चाविकलं प्रतिपाद्य प्राणोत्क्रमणे सर्वेषां विशरणमकार्यकरत्वं चाभिधाय सर्वेषां प्राणाधीनस्थितित्व-तदधीनकार्यत्वाभ्यां प्राणस्य ज्यैष्ठ्यमुपादितम् | एवमुपपादितं वागादिकार्यस्य प्राणाधीनत्वम् अथ हैनं वागुवाच यदहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽस्मि इत्यादिभिरनूद्यते | कौपीतकिनां प्राणविद्यायामपि प्राणज्यैष्ठ्यश्रैष्ठ्यप्रतिपादनाय वागादिषु वसिष्ठात्वादयः प्रतिपादिताः | अथ हेमा देवताः प्रजापतिं पितरमेत्याब्रुवन् को वै नः श्रेष्ठः इत्यादिना वागादिगता गुणाः वागादयश्च देहश्च प्राणाधीना इति प्राणस्य ज्यैष्ठ्यमुपपादितम् | वागादिभिः स्वस्वगुणानां वसिष्ठत्वादीनां प्राणाधीनत्वानुवादमात्रन्तु न कृतम् | नैतावता रूपभेदः वागादीनां वसिष्ठत्वादिगुणान्वितानां प्राणाधीनकार्यत्वोपपादनेनैव प्राणस्य वागादिवसिष्ठत्वादिगुणहेतुत्वस्य सिद्धत्वात् | तदेव हि प्राणस्य वसिष्ठत्वादिगुणयोगित्वम् | अतोऽत्रापि वसिष्ठत्वादिगुणयोगात् प्राणे ज्येष्ठः प्रतिपन्न इति नास्ति विद्याभेदः | आनन्दाद्यधिकरणम् || ४ || परमशिवस्य ब्रह्मणः अनन्तकल्याणगुणविशिष्टत्वप्रतिपादनम्
SK
प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तः स एव विष्णुस्स प्राणः स कालोग्निः स चन्द्रमाः तत्प्राणेष्वन्तर्मनसो लिङ्गमाहुः प्राणो ब्रह्म प्राण एव प्रज्ञात्मा इत्यादिश्रुतिषु असावादित्यो ब्रह्म इतिवत् शिवाधिष्ठानत्वेन शिवात्मकत्वेन प्राणोपासनोपन्यासात् प्राणात्मकत्वेन तदुपासनाविधीयताम् | अथापि प्राणात्मकत्वेन व्यपदेशस्य सर्वदेवताप्रधानस्य शिवस्य परब्रह्मणः गुणायोगे तदुपासनायोगात् किमनन्यसाधारणगुणास्सन्तीत्याशङ्कायां अधिकरणान्तरेण तस्यानन्तकल्याणगुणप्रपञ्चं दर्शयति - || १९१ || आनन्दादयः प्रधानस्य || ११ || पूर्वे प्राणविद्याङ्गविषयमन्यदपि निरूपणमनन्तरमेव करिष्यते | यथा प्राणस्य वसिष्ठत्वाद्यनुसन्धानेन विना ज्यैष्ठ्यश्रैष्ठ्यानुसन्धानानुपपत्तेरनुक्तानामपि वसिष्ठत्वादीनां कौषीतकिप्राणविद्यायां प्राप्तिः तथा परशिवब्रह्मस्वरूपानुसन्धानं यैर्गुणैर्विना नोपपद्यते ते ब्रह्मविद्यासु सर्वास्वप्यनुसन्धेया इत्ययमर्थः प्रतिपाद्यते | आनन्दो ब्रह्मेति व्यजानात् ऋतं सत्यं परं ब्रह्म इत्याद्येकैकशाखायां श्रूयमाणाः गुणाः आनन्दादयः आनन्दत्व-सत्यत्व-कृष्णपिङ्गलत्व- mūrtā'mūrtātmakaikabrahmavidyāyāṃ upasaṃhartavyāḥ | kutaḥ || pradhānasya || yo devānāṃ prathamaṃ puruṣastadviśvādhiko rudro maharṣiḥ ityādi śrutisiddhasarvadevatāradhānasya śivasya parabrahmaṇaḥ sarvāsvapi śākhāsu mūrtā'mūrtātmakatvena bhedavyapadeśe'pi tadvadabhedopadeśāt guṇaikatvaṃ na virudhyate | dvevāva brahmaṇo rūpe ityādiśrutiṣu mūrtā'mūrtagatadharmāṇāmeva asyaiva śivasya nirdiṣṭatvāt sarvaśākhāgatānāṃ mūrtā'mūrtabrahmaviṣayāṇāṃ guṇānāṃ tasminnekasminneva samanvayo draṣṭavya iti sūtrasūcita sūkṣmārthaḥ |
SK
अभेदादिति शेषः | आनन्दो ह्यजरो ह्यमृत्युः आनन्दमयो ह्यानन्दभुक् इत्यादिश्रुतिषु आनन्दादयो गुणाः परविद्यासु प्रधानस्य ब्रह्मणः श्रूयन्ते | तस्मादत्र ब्रह्मस्वरूअगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति वा न वा इति विचार्यते | अप्रकरणाधीतानां उपसंहारे प्रमाणाभावात् प्रकरणश्रुतानामेवोपसंहारः कर्तव्यः | ब्रह्मणश्शिवस्यैकस्य आनन्दाद्यनेकगुणवैशिष्ट्ये नानात्वप्रसङ्गात् विशेषणानां विशेष्यबोधकत्वात् अथवा तत्रततोक्तगुणमात्रेणतदुपासनसम्भवात् इति प्राप्तेऽभिधीयते | आनन्दादयः प्रधानस्य अभेदात् प्रधानस्य गुणिनो ब्रह्मणः सर्वेषु उपासनेषु अभेदात् गुण्यपृथग्भावात् गुणानां सर्वत्रानन्दादयस्तद्गुणाः उपसंहर्तव्याः | एवं तर्हि गुण्यपृथग्भावादेवानन्दादिवत् प्रियशिरस्त्वादयोऽपि तस्य प्रियमेव शिरः इत्यादौ ब्रह्मगुणत्वेन श्रुतास्सर्वत्र प्रसज्येरन् इत्याह - || १९२ || प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे || १२ || परशिवब्रह्मस्वरूपगुणानां प्राप्तौ उच्यमानायां प्रियशिरस्त्त्वादीनामप्राप्तिः तेषां अब्रह्मगुणत्वात् | ब्रह्मणः पुरुषविधत्वरूपणमात्रान्तर्गतत्वात् प्रियशिरस्त्वादीनाम् | अन्यथा शिरःपक्षपुच्छाद्यवयवभेदे इति ब्रह्मणोऽप्युपचयापचयौ प्रसज्येयाताम् | तथा च सति सत्यं ज्ञानमनन्तं ब्रह्म इत्युपक्रमवाक्यं विरुध्यते | तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः | प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्मपुच्छं प्रतिष्ठा || इति तैत्तिरीयशाखायां प्रियशिरस्त्वादिगुणानां असन्दिग्धतया व्यपदेशात् गुणानामुपचयो बाहुल्यम् गुणानामपचयो ह्यल्पत्वम् | एवं विधौ गुणोपचयापचयौ हि भेदे ह्युपास्ये सगुणे ब्रह्मण्येव सम्भवतः | निर्गुणे निर्विशेषे ब्रह्मणि गुणबाहुल्यस्य सुतरामसम्भवात् सगुणब्रह्मण्येवोपास्योपासकत्वस्य प्रतिपाद्य- nanvayameva brahmasambandhināṃ evaiśvarya-gāmbhīrya-audārya- श्रुतीनामप्युपसंहारे सर्वे सर्वत्र प्रसज्येरन् आनन्त्यादुपसंहारशक्तिश्च स्यात् | तत्राह -
SK
|| १९३ || इतरे त्वर्थसामान्यात् || १३ || तु शब्दश्चोद्यं व्यावर्तयति | इतरे तु आनन्दादयः अर्थसामान्यात् सर्वत्रानुवर्तन्ते येत्वर्थसमानाः अर्थस्वरूपनिरूपणधर्मत्वेन अर्थप्रतीत्यनुबन्धिनः तेऽर्थस्वरूपवत् सर्वत्रानुवर्तन्ते | ते च गुणाः सत्यज्ञानानन्दामलत्वानन्तत्वानि | यतो वा इमानि इत्यादिना जगत्कारणतयोपलक्षितं ब्रह्म सत्यं ज्ञानं आनन्दो ब्रह्म इत्यानन्दादिभिर्हि स्वरूपतो निरूप्यते | अतः उपास्यब्रह्मणश्शिवस्य स्वरूपावगमाय सर्वासु विद्यासु आनन्दादयोऽनुवर्तन्ते | ये तु निरूपितस्वरूपस्य ब्रह्मणः कारुन्यादयो गुणाः प्रतिपन्नाः तेषां गुण्यपृथक्-स्थितत्वेऽपि प्रतीत्यनुबन्धित्वाभावात् ये यत्र श्रुतास्ते तत्रोपसंहर्तव्या इति निरवयम् | नद्युपचयापचयप्रसङ्गात् प्रियशिरस्त्वादयो ब्रह्मणश्शिवस्य पुरुषविधत्वनिरूपणमात्रार्थाः न तु ब्रह्मगुणाः तर्ह्यथारूपस्य ब्रह्मणश्शिवस्य तथात्वेन निरूपणं किमर्थं क्रियते अतथानुभूतस्य हि तथात्वनिरूपणे केनचित्प्रयोजनेन भवितव्यम् | यथा आत्मानं रथिनं विद्धि इत्यादिनोपासकस्य तदुपकरणानाञ्च रथिरथादित्वनिरूपणं उपासनोपकरणभूतशरीरेन्द्रियादिवशीकरणार्थं क्रियत इत्युक्तम् | न चेह तथाविधं किञ्चित्प्रयोजनं दृश्यत इति बलाद्ब्रह्मगुṁअत्वं प्रियशिरस्त्वादीनामभ्युपेयम् || तत्राह - || १९४ || आध्यानाय प्रयोजनाभावात् || १४ ||
SK
प्रयोजनान्तराभावात् आध्यानाय अयं रूपगुणोपदेशः क्रियते | आध्यानं अनुचिन्तनं उपासनमुच्यते | ध्याननिर्मथनाभ्यासात् पाशं दहति पण्डितः श्रद्धा भक्ति-ध्यानयोगादवेहि इत्यत्रोपदिष्टाध्यानरूपवेदनसिद्धये ह्यानन्दमयब्रह्मप्रतिपत्यर्थमानन्दमयंब्रह्मप्रियमोदादिरूपेण विभज्य शिरःपक्षादित्वेन निरूपयित्वोपदिश्यते | यथा अन्नमयः पुरुषः अयं देहः तस्येदमेव शिरः इत्यादिना शिरःपक्षादिभिः बुद्धौ आरोप्यते यथा च प्राणमय- prāṇādyavayavairbuddhau āropyante | evamebhyo'rthāntarabhūtastadantarātmā ānandamayo'pi priyamodādibhirekadeśaiḥ śiraḥprabhṛtitvena rūpitaiḥ ādhyānāya buddhau āaropyate | evamānandamayopalakṣaṇatvāt priyaśirastvādīnāṃ na sarvadā ānandamayapratītau anuvartante | annaṃ brahma ityādāvānandasya brahmopadeśādekaprakaraṇapaṭhitasyānandamayasyaiva kathaṃ parabrahmatvamupapannamityāśaṅkāyāmāha - || 195 || ātmaśabdācca || 15 || taittirīye - tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ ityādau ātmanaḥ jagadekakāraṇatvopadeśāt māṇḍūkye - prapañcopaśamaṃ śāntaṃ śivamadvaitaṃ caturthaṃ manyante sa ātmā ityatra śivasya parabrahmaṇaḥ prapañcahetubhūtasyātmaśabdaprayogāt | atharvaśikhāyāṃ - dhyāyīteśānaṃ pradhmāyitavyam ityārabhya śiva eko dhyeyaḥ śivaṅkaraḥ ityantena caramaśarīrināṃ mumukṣūṇāṃ paraśivabrahmetaradhyānaniṣedhāvagamācca | tasmāt nitya- जगदुभयकारणं परब्रह्मैव शिवशब्देन निर्णीयते | अतः ऋतं सत्यं इत्यत्र कृष्णपिङ्गल-विरूपाक्ष इत्यादिना ब्रह्मतत्त्वानुसन्धानोपास्तिरुपदिष्टा | तथा च स्मृतिः - शिवं भजन्ति ये नराश्शिवं व्रजन्ति ते नराः | शिवेतरं भजन्ति ये शिवेतरं व्रजन्ति ते || इति श्रवणात् शिवेतरनिष्ठानुष्ठानशीलानां अशिवत्वफलम् | अत एवानन्दमयो नेतरः | अन्योन्तर आत्मा आनन्दमयः इति निरतिशयशिरस्कत्वेनान्नमयादिभ्यो भिन्नत्वोपदेशात् आनन्दमयश्शिव एक एवानुसन्धेय इति स्पष्टमुपदिष्टम् |
SK
किञ्च - अन्योन्तर आत्माङन्दमयः इत्यात्मशब्देन निर्दिष्टस्य परमात्मनश्शिवस्य शिरः-पक्ष-पुच्छसद्भावात् प्रियशिरस्त्वादयस्तस्य सुखप्रतिपत्यर्थं निरूपणमात्रमित्युपदिश्यते | इन्द्रियेभ्यः पराह्यर्थाः अर्थेभ्यश्च परं मनः | मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः || महतः परमव्यक्तं अव्यक्तात्पुरुषः परः | पुरुषान्नपरं किञ्चित् सा काष्ठा सा परा गतिः || इति श्रुतौ अर्थमनोबुध्यात्मादिभ्यः पुरुषस्य सर्वाधिकत्वोऽपदेशात् अन्योन्तर आत्मा प्राणमयः | अन्योन्तर आत्मा मनोमयः | अन्योन्तर आत्मा विज्ञानमयः इत्यात्मशब्दस्य अनात्मस्वपि पूर्वप्रयुक्तत्वात् अन्योन्तर आत्माङन्दमयः इत्यात्मशब्दस्यात्मविषयत्वं कथं निश्चीयते तत्राह - || १९६ || आत्मगृहीतिरितरवदुत्तरात् || १६ || अन्योन्तर आत्माङन्दमयः इत्यत्राऽत्मशब्देन परमात्मन एव ग्रहणम् | ||इतरवत् || यथा इतरत्र आत्मा वा इदमेक एवाग्र आसीत् स ईक्षत लोकान्नुसृज इत्यादिष्वात्मशब्देन परमात्मन एव ग्रहणम् | तत् कुत एतत् || उत्तरात् || सोऽकामयत बहुस्यां प्रजायेय इत्यानन्दमयविषयात् उत्तरात् वाक्यात् | अस्मिन्नर्थे हेत्वन्तरमाह - || १९७ || अन्वयादिति चेत् स्यादवधारणात् || १७ || पूर्वत्र प्राणमयादिष्वनात्मस्वात्मशब्दान्वयदर्शनात् नोत्तरादुत्तरवाक्यान्निश्चेतुं शक्यत इति चेत् || स्यादवधारणात् || स्यादेव निश्चयः | कुतः अवधारणात् | पूर्वत्रापि तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः इति परमात्मन एव बुध्याऽवधारितत्वात् | अन्नमयादन्तरे प्राणमये प्रथमं परमात्मबुद्धिरवतीर्णा तदनन्तरञ्च प्राणमयादन्तरे मनोमये ततो विज्ञानमये | तत आनन्दमये प्रक्रान्ता परमात्मबुद्धिः तदन्तराभावात् तदुत्तराच्च सोऽकामयत इति वाक्यात् प्रतिष्ठितेति उपक्रमेऽप्यपरमात्मनि परमात्मबुध्या यात्मशब्दादन्वय इति निरवद्यम् | सर्वेषां मुमुक्षूणां शिवोपासनस्यैव कर्तव्यतानिर्णयः
SK
किञ्च - तदुपक्रमे ब्रह्मविदाप्नोति परं इति अन्यत्र च ज्ञात्वा शिवं शान्तिमत्यन्तमेति तस्याभिध्यानात् निवृत्तिः उमासहायं प्रशान्तम् इत्यारभ्य सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | सम्पश्यन् ब्रह्मपरमं याति नान्येन हेतुना || इत्यन्तेन शिवध्यान-ज्ञानावलम्बिनामेव पुनरावृत्तिरहित- phalitārtho niścīyate | ṛtaṃ satyaṃ iti satyādi lakṣaṇalakṣitaparaśivopāsanena bhramara kīṭanvāyavat śivatādātmyasiddheḥ svaśākhānyaśākhāsvapi spaṣṭamupadiṣṭatvāt tatparamapuruṣārthasidhyarthaṃ śravaṇa-mananādinā tadvicāro nirantaraṃ kartavya-ityupadiśyate | kāryākyānādhikaraṇam || 5 || saguṇopāsanānāṃ sarveṣāṃ nirguṇabrahmaprāptyupāyasādhanaparatvaniṣkarṣaḥ upakosalavidyāprakaraṇe vidyamānamāhavanīya-gārhapatya- एवं प्रतर्दनविद्याप्रकरणे विद्यमानं च जीवमुख्यप्राणलिङ्गविषयमुपासनद्वयं एवं सर्वास्वप्युपनिषत्सु सगुणब्रह्मोपासनसन्निधौ विद्यमानानि ब्रह्मव्यतिरिक्त पदार्थविषयकाणि प्राणाद्युपासनानि एवं भूमविद्याप्रकरणे प्रदर्शितानि भूमाद्युपासनानि एवं वैश्वानरविद्याप्रकरणे विद्यमानाति वैश्वानरस्यैकैकस्यावयवविशेषोपासनानि वैश्वानरोपासनाङ्गानि वा न वा एवं तत्तदुपासनाप्रकरणेषु विद्यमानानि ब्रह्मव्यतिरितपदार्थविषयकान्युपासनानि चित्तशुद्धिद्वारा मूर्तब्रह्मोपासनाङ्गानि वा स्वातन्त्र्येण फलान्तरसाधनानि वा स्युः यदुद्दिश्य यद्विधीयते तस्य तदेव फलम् इति न्यायेन नास्त्यकृतः कृतेन इति श्रुतौ कृतकर्मणां अकृतमोक्षफलनिषेधात् सर्वेषां कर्मरूपोपसनानां निर्गुणब्रह्मत्माकत्वहेतुत्वायोगात् पुण्यचितो लोकः क्षीयते इतिवत्सकामज्योतिष्टोमादिवत् अनित्यफलत्वमेवेत्याशङ्कायां अधिकरणान्तरेणाह - || १९८ || कार्याख्यानादपूर्वम् || १८ ||
SK
पूर्वप्रस्तुतप्राणविद्याशेषभूतमिदानीं चिन्त्यते | तत्तत्सगुणमूर्तब्रह्मोपासनासन्निधौ विहितानि अग्निवय- tattatsaguṇamūrtabrahmopāsanāṅgānyeva na tu svātantryeṇa phalāntarasādhanāni | tathā ca kāryākhyānāt kāryāṇāṃ kartavyānāṃ jīvamukhyaprāṇaliṅgādiviṣayakāṇāṃ aṅgopāsanānāṃ ākhyānāt anuṣṭhānādeva sāṅgātsaguṇamūrtabrahmopāsanāt apūrvaṃ adṛṣṭaṃ utpadyate | tena niravayavaniratiśayānandaparipūrṇāparicchinna- मनुपपन्नम् | तस्मात्सा᳚गोपासनादेव सगुणब्रह्मोपसाम् | सगुणमूर्तब्रह्मोपासनाङ्गत्वेन अनुष्ठितप्राणाद्युपासनात् क्षुद्रफलमप्यर्थादुत्पद्यते | यदेव ज्ञानफलं तदेव कर्मफलं | इत्यादिश्रुतिषु यादृशी भावना यत्र सिद्धिर्भवति तादृशी इति स्मृतिष्वपि दर्शनाच्च | ब्रह्मणः सायुज्यṁ सलोकतामाप्नोऽति इत्यादिश्रुतिषु अङ्गोपासनासन्निधिविद्यमानानां फलश्रुतीनां परशिवब्रह्मलोकप्राप्तावेव तात्पर्यावगमात् क्षुद्रहलेष्ववान्तरतात्पर्यमित्युपदिश्यते | उमासहायं परमेश्वरं प्रभुं इत्यादिश्रुतिषु सगुणमूर्तब्रह्मोपासनाद्व निरवयवसाक्षिरूपपरशिवप्राप्तेः व्यवस्थापनात् सगुणोपासनानि सर्वाणि निर्गुणब्रह्मप्राप्त्युपायसाधनानि इति सूत्रसूचितसूक्ष्मार्थः | छान्दोग्य-वाजसनेययोः - ज्येष्ठं च श्रेष्ठं च इत्यादिना प्राणाद्युपासनान सर्वेषां ब्रह्मप्राप्तिसाधनत्वेनोपदेशात् सर्वेषां तेषां स्वातन्त्र्येण अभ्युदयफलहेतुत्वं उत सगुणमूर्तब्रह्मोपासनाङ्गत्वेन तल्लोकप्राचुर्यकल्यानविभूतिसाधनत्वम् अपि च सगुणमूर्तसदाशिवब्रह्मोपासनाङ्गत्वेन अमूर्त स्वयम्प्रकाशपरंज्योतिरात्मकनिखिलसाक्षिक-निरवयव-नित्यानन्द स्वभाव-कैवल्यविभूत्यात्मक-शिवतत्त्वप्राप्तिकारणं वेति सन्दिह्यते |
SK
सर्वं एते पुण्यलोका भवन्ति इति श्रुतौ स्वेच्छानुसारेण सर्वेषां उपासकानां तत्तल्लोकप्राप्त्युपदेशात् कर्म चितो लोकः क्षीयते इत्यादिश्रुतिषु कर्मफलानामनित्यत्वव्यपद्देशात् बाह्याभ्यन्तरभेदेऽपि प्राणाद्युपासनानां अन्तरङ्गत्वेऽपि ज्योतिष्टोमादिपुण्यकर्मणामिव गुणत्रयप्रकृतिकत्वेन निःश्रेयसफलकत्वमनुपपन्नम् | यदेव ज्ञानफलṁ तदेव कर्मफलं यस्यैतेऽष्टाचत्वारिंशत्संस्काराः इत्यारभ्य ब्रह्मणस्सायुज्यं सालोक्यं च गच्छति इत्यन्तेन निष्कामकृत-परमेश्वरार्पित-गर्भाधानादिकर्मणां तदनुग्रहत्वेन निःश्रेयसफलप्राप्त्यवगमात् पुण्यलोकाभिसन्धिपूर्वककर्माणां स्वातन्त्र्येण तत्तल्लोकविधायकत्वमिति चेत् - तथाप्युपासनायाः गुणविषयत्वात् कर्मणामनित्यत्वस्वभावाच्च सगुण-सावयव-नित्य-सदाशिव ब्रह्मलोकप्राप्तिमात्रमेवेति प्राप्ते प्रचक्ष्महे - कर्मचितो लोकः क्षीयते इत्यादिश्रुतिषु प्राकृतकर्मजन्यपुण्यापुण्यलोकविषयत्वम् | स्थिरेभिरङ्गैः पुरुरूप उग्रः इत्यादिषु सावयवसदाशिवब्रह्माङ्गस्य नित्यत्वव्यवस्थापनात् तल्लोकस्यापि प्राकृतगुणधर्मवैलक्षण्यत्वात् पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इति सच्चित्सुखात्मकत्रिपाद्विभूतिनामकसदाशिवलोकस्य नित्यत्वावगमात् तस्य तल्लोकस्य च नित्यत्वमनिवार्यम् | एष सम्प्रसादोऽस्मात् शरीरात् समुत्थाय परं ज्योतिरूपमुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे इति तैत्तिरीय-कैवल्ययोश्च्च सर्वेषां सावयव-सदाशिवब्रह्मओपासकानां निष्कामभक्तानां तदनुग्रहद्वार तत्र कल्याणविभूत्वात्मकनित्यैश्वर्यविधायकसालोक्य-सामीप्य- niratiśaya-nirāvaraṇa-nirañjana-nirupamāna-nirdeha-śivattva- सर्वेषामुपासकानां ब्रह्मप्राप्तिफलमर्थात्सिद्धम् | किञ्च - यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः | अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ||
SK
इत्यादिश्रुतिषु सर्वकामविनिर्मुक्तानां दहरादिविद्योपासकानां अयस्कान्तसूचीन्यायेन निरन्तरावच्छिन्नज्ञाननिष्ठागरिष्ठानुष्ठानवशिष्टानां चरमशरीरिणां सर्वदा सर्वशिवैक्यभावापन्नानां इहलोके तु निरूपमान-निरञ्जन- vyavasthita iti cet | tadananyatvamārambhaṇaśabdādibhyaḥ vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyaṃ ityādi dvaitā'dvaitavidhāyaka vaiyāsikasūtra- नामधेयं च वाचारम्भणं वाचा यः अभिलषितार्थक्रियारूपव्यवहारस्य निष्पादको भवति | मृद्द्रव्यवस्यैव घटावस्या | घटादिनामधेयं च विकारः | घटो वाचारम्भणं घटोऽयमिति वागारम्भणविषयमात्रम् | मृदन्य एव व्यवहारसिध्यर्थं जायमानमवस्थान्तरं न तु मृदो द्रव्यान्तरम् | मृत्तिकेत्येव नामधेयं सत्यम् | घटादिकं मृत्तिकेति कृत्वैव तत्र सर्वं मृद्घटादिनामधेयं सत्यम् | सति प्रमाणिकार्थे साधनन्तु द्रव्यान्तरमिति कृत्वा यतो घटो मृदेवेत्यतः कारणादनन्यदेव कार्यम् | अर्थक्रियादिव्यवहारभेदस्तु मृद्घटयोर्व्यवस्थाभेदाद्भवत्येव | ततो मृद्घटयोरिव ब्रह्मप्रपञ्चयोरपि व्याप्यव्यापकभावादनन्यत्वम् | तथा च स्मृतिः - शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् | तेनैकेन च तद्व्याप्तं मृदा घटादिकं यथा || इति दर्शनात् | इति दर्शनात् जीव-प्रपञ्च-ब्रह्मणां सदा भेद इति नैयायिकादि दुर्वादो निरस्तः | यथा मृदयं घटः इत्यत्र मृद्व्याप्तिर्घटे दृश्यते तथा ब्रह्मेदं जगत् इति ब्रह्मव्याप्तिर्न दृश्यत इति चेत् घटस्सन् पटस्सन् इति सर्वत्र दृश्यत एव | सद्रूपेण ब्रह्मणो व्याप्तिः सद्रूपेण शिवेन यदि न व्याप्तं जगत् तदा सत्तास्फूर्तिभ्यां विनाकृतं कथं वा अस्ति स्फुरति इति दृश्यते | अतश्चेतनाचेतनप्रपञ्च-ब्रह्मणोः भेदाऽभेद एव घण्टाघोषः | समानाधिकरणम् || ६ || ब्रह्मसाक्षात्कारैकफलकशाण्डिल्यादिसर्वविद्यानां विद्यैक्यत्र्वसमर्थनम्
SK
अग्निरहस्ये बृहदारण्यके च शाण्डिल्यविद्या आम्नायते | एकत्र आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशमात्मानं इति | इतरत्र मनोऽमयोऽयं पुरुषो भात्यस्मिन्नन्तर्हृदये व्रीहिर्वां यवो वा स एष सवस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति इत्यादीनां शाण्डिल्यादिसर्वविद्यानां स्वातन्त्र्येण ब्रह्मप्राप्तिः उत विद्यानां सर्वासां निःश्रेणीन्यायेन परम्परया मोक्षहेतुत्वं वेति शङ्कायां अधिकरणान्तरेणाह - || १९९ || समान एवं चाभेदात् || १९ || वाजसनेयके अग्निरहस्ये शाण्डिल्यविद्या आम्नाता | सत्यं ब्रह्मेत्युपासीत | अथ खलु क्रतुमयोऽयं पुरुषः इत्यारभ्य स आत्मानमुपासीत मनोऽमयं प्राणशरीरं भारूपमाकाशात्मानं सत्यसङ्कल्पम् इति इत्यादिषु शाण्डिल्य-दहर- parasparabhinnatvamabhinnatvaṃ veti sandihyate | sarvāsāṃ vidyānāṃ anyonyabhedadarśanāt bṛhadāraṇyake punarapi śāṇḍilyavidyā āmnāyate manomayo'yaṃ puruṣo bhāḥ satyaḥ | tasminnantarhṛdaye yathā vrīhirvā yavo vā sa eṣaḥ sarvasya vaśī sarvasyeśānassarvasyādhipatissarvamidaṃ praśāsti iti | anyatra ca eṣo'smi devaḥ praviśo'nu sarvāḥ pūrvo'nujāto'smyahameva garbhe ayaṃ hi jātaśca janiṣyamāṇaḥ pratyaṅmukhāstiṣṭhati viśvato mukhaḥ | viśvataścakṣurutu viśvato mukho viśvato hasta uta viśvataḥ syāt | samyāhurayāṃ namati samyatatrairdyāva bhūmī janayan deva ekaḥ | bālāgraśatamātraṃ hṛdayasya madhye viśvaṃ devaṃ jātavedasaṃ vareṇyam | tamātmānaṃ ye'nupaśyanti dhīrāsteṣāṃ śāntiśśāśvatī netareṣāṃ || ahaṃ yoniṃ yonimamitiṣṭhāmyeko mayedaṃ pūrṇaṃ pañcavidhaṃ ca sarvam | māmīśānaṃ puruṣaṃ devamīḍyaṃ nicāyya māṃ śāntimatyantameti || prāṇeṣvantarmanaso liṅgamāhuryasmin krodho yā ca tṛṣṇā kṣamā ca | tṛṣṇāṃ chitvā hetujālasya mūlaṃ buddhyā cittaṃ sthāpayitvātha rudre || evaṃ ye māṃ dhyāyamānā bhajante teṣāṃ śāntiḥ śāśvatī netareṣām ||
SK
यो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन इति | अणोरणीयान्महतो महीयान् आत्मा गुहायं निहितोऽस्य जन्तोः | तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् || आधारे दहरे वापि भ्रूमध्ये वा निरन्तरम् | ज्योतिर्लिङ्गानुसन्धानं तदन्तर्धारणं विदुः || आधारे कनकप्रख्यं हृदये विद्रुमप्रभम् | भ्रूमध्ये स्फटिकच्छायं लिङ्गं योगी विभावयेत् || ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः || आत्मानमात्मना साक्षात् ब्रह्मबुध्या सुनिश्चितम् | देहजात्यादिसम्बन्धात् वर्णाश्रमसमन्वितान् || वेदशास्त्रपुराणानि पदपांसुमिव त्यजेत् | भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः || क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे | द्रष्टु-र्दर्शन-दृश्यानां विरामो यत्र वा भवेत् | दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकने || आत्मानमरणिं कृत्वा पाशं दहति पण्डितः || इत्यादिश्रुतिशतेषु नानाधर्मत्वोपदेशात् दहर-शाण्डिल्यादिसर्वविद्यानां ऊर्ध्वाधस्सोपानभेदेन ब्रह्मणि समन्वयो युक्त इति प्राप्ते प्रचक्ष्महे || समा एवञ्चाभेदात् || यथाग्निरहस्ये मनोमय-प्राणशरीर-भारूप-सत्यसङ्कल्पगुणगणः श्रुतः एवं बृहदारण्यके मनोमयत्वादिके समाने सत्यादिकस्य वशित्वादेश्च सत्यसङ्कल्पत्वगुणभेदान्न रूपभेदः तस्माद्विद्यैक्यस्य अन्यत्रापि स्थानभेदगुणभेदत्वेन भेददर्शनेऽपि चित्तैकाग्रतया ब्रह्मसाक्षात्कारफलस्यैकत्वेन विद्यैक्यं न विरुध्यते | सम्बन्धधिकरणम् || ७ || परस्पराङ्गाङ्गिसम्बद्धसगुणनिगुणोपासनैक्याद्विद्यैक्यत्वनिर्णयः शाण्डिल्यादिविद्यासु विद्यैक्यत्वसिद्धावपि वैश्वानरविद्यायां अन्योन्यवैलक्षण्यावगमात् कथं विद्यैक्यमित्याशङ्कायां अधिकरणान्तरेणाह - || २०० || सम्बन्धादेवमन्यत्रापि || २० ||
SK
अन्यत्र प्रतर्दन-वैश्वानर-भूमविद्यादिष्वप्येवं जीवमुख्यप्राणलिङ्गवैश्वानरैकावयवनामादिविषयकाङ्गोपासनसहकृतात् सगुणपरशिवोपासनात् अदृष्टोत्पत्तिर्न तु केवलसगुणपरशिवोपासनात् | कुतः || सम्बन्धात् || सगुण-निर्गुणयोरुपासनयोरङ्गाङ्गित्वेन परस्परसम्बन्धादिति विद्यैक्यं सम्भवतीति सूत्रसूचितसूक्ष्मार्थः | बृहदारण्यके श्रूयते - तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् इत्युपक्रम्य तस्योपनिषदहरिति अधिदैवतम् | तस्योपनिषदहमिति अध्यात्मम् आदित्यमण्डले अक्षिणि च सत्यस्य ब्रह्मणः व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा द्वे उपनिषदौ रहस्यनामनी उपासना विशेषतयाऽम्नायेते ते किं यथाश्रुतस्थानविशेषनियतत्वेन व्यवस्थिते उत उभयत्र उभे अनियमेन इति संशये - सत्यस्य व्यावहृतिशरीरस्यैवोपास्यस्य ब्रह्मणो द्वयोः स्थानयोः सम्बधादुपास्यैक्येन रूपभेदात् संयोगाद्यभेदाच्च विद्यैक्यादनियमेनेति प्राप्तम् | तत्रोच्यते - || सम्बन्धादेवमन्यत्रापि इति || यथा मनोमयत्वादिगुणविशिष्टस्यैकत्वादुपास्यैक्येन रूपाभेदाद्विद्यैक्यात् गुणोपसंहारः एवं अन्यत्राक्ष्यादित्यसम्बन्धिनः परशिवब्रह्मणः सत्यस्यैकत्वेन उभयोरुभयत्रोपसंहारः | किञ्च - अक्षि-सूर्यमण्डलादिस्थानभेदेनोपासनभेदव्यपदेशेऽपि उपास्यस्य शिवस्यैकत्वेन विद्यैक्यमुपपद्यते | आदित्याक्षिस्थानाद्युपासनेषु स्थानभेदादुपासनभेदाद्विद्यासु विशेषभेदो दृश्यते | तस्मात्कथं विद्यैक्यमित्याशङ्कायां आह - || २०१ || न वा विशेषात् || २१ || न वै तदन्ति विद्याभेदः कुतः विशेषात् उपास्यरूपविशेषात् | परशिवब्रह्मणः एकत्वेऽप्येकत्रादित्यमण्डलस्थतया उपास्यत्वं इतरत्राक्ष्याधारतयोपास्यत्वं इति स्थानसम्बन्धित्वभेदेन रूपभेदात् विधाभेदः | तथापि मोक्षफलैकविशेषात् विद्यैक्यममिहितम् | शाण्डिल्यविद्यायां उपास्यस्थानभेददर्शनेऽप्युभयत्र हृदयाधारत्वेनोपास्यत्वादुपासनैक्यम् | तद्वदन्नापि | अस्मिन्नर्थे पुनर्हेत्वन्तरमाह -
SK
|| २०२ || दर्शयति च || २२ || तैत्तिरीये - तत्रापि दहरं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् इति परमेश्वरोपासनस्थानं दहरपुण्डरीकमित्युपदिश्य तत्रोपास्यः परमात्मा कः इत्याशङ्कायां यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः महेश्वरः इति महेश्वरस्यैव तत्रोपास्यत्वं प्रदर्शितम् | कैवल्ये - हृत्पुण्डरीकं विरजं विशुद्धं इत्यादिना परमेश्वरस्योपासनस्थानं हृदयकमलं प्रदर्श्य तत्र परमात्मा केन रूपेणोपास्य इत्याकाङ्क्षायां - उमासहायं परमेश्वरं प्रभुं इत्यादिनोमासहायत्वादिधर्मावच्छिन्नमूर्तब्रह्मणश्शिवस्योपास्यत्वं निर्दिष्टम् | एवं तैत्तिरीय-कैवल्ययोः एकत्र दहरशब्दे महेश्वरशब्दश्च | एकत्र हृदयशब्द उमासहायशब्दश्चेति परस्परभिन्नत्वव्यपदेशेऽपि यदा वस्त्वैक्यावगमात् उपासनैकत्वं तद्वदक्षि- vidyaikyamanivāryamiti darśayati | cakāro niścayārthaḥ | nanu taittirīya-chāndogya-kaivalyādiṣu ekatra eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate eṣa suvarṇaḥ ityādi śrūyate | anyatra ya eṣo'ntarāditye hiraṇmayaḥ puruṣaḥ iti maṇḍalāntarvartitayā hiraṇmayaṃ puruṣaṃ prastutya tatropasaṃhāre sarvo vai rudraḥ ityārabhya namo hiraṇyabāhave namaḥ ityantena sarvātmakatvaṃ hiraṇyabāhutvaṃ umāpatitvañcāmnāyate | tatraikatra sarvāṅgasuvarṇatvaṃ anyatra bahusuvarṇatvaṃ iti rūpabhedaḥ | ekatra sarvo vai rudraḥ iti sarvātmakatvaṃ anyatra sarveṣāṃ lokānāṃ īṣṭe iti sarvādhipatyamiti dharmabhedaḥ | tasmānna vidyaikyamiti cenna | antarādityaṃ iti sthānaikyameva vidyaikyaṃ darśayati | taittirīye - hiraṇmayaḥ puruṣaḥ ityupakrameṇa bāhugrahaṇasyopalakṣaṇatvādupasaṃhāre'pi sarvāṅgasuvarṇamayatvameva vivakṣitam | viśvādhikasya paraśivasya śaktyā jagadubhayakāraṇatvāt tadanupraveśācca tādātmyaṃ yuktam | atastadubhayatraikasya pratipāditatvādvidyaikyamapratihatam | sambhṛtyadhikaraṇam || 8 ||
SK
सकलगुणविशिष्टब्रह्मोपासनस्य परशिवब्रह्मलोकप्राप्तिसाधनत्वसमर्थनम् ब्रह्मज्येष्टा वीर्यासम्भृतानि इति श्रुतौ भिन्नप्रकरणस्थत्वात् व्यवहितत्वाच्चां सम्भृतिद्युव्याप्त्यादिगुणविशिष्टपरशिवब्रह्मोपासनमपि स्वातन्त्र्येण तल्लोकप्राप्तिसाधनं कथमित्याशङ्कायामधिकरणान्तरमाह - || २०३ || सम्भृतिद्युव्याप्त्यपि चातः || २३ || तैत्तिरीयके राजायणीयानां खिलेषु च ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठां दिवमाततान | ब्रह्मभूतानां प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः इति ब्रह्मणि ज्येष्ठानां वीर्याणां सम्भृतिः | यानि लोके त्रिपुरसंहार-कालकूटभक्षण-मन्मथ- cānanyadharmasambhṛtāni paraṃ brahma ātatāna sampāditavān jyeṣṭhaṃ hari- शिवमद्वैतं चतुर्थं मन्यते स आत्मा स विज्ञेयः इत्यादिश्रुतिषु सिद्धं ब्रह्मेत्यग्रे तेषांअपि स्पष्टं ध्यायीतेशानं प्रध्यायितव्यं सम्प्रसूयन्ते इत्यादिश्रुतिषु स्पष्टमुपदिष्टम् प्राग्दिवं परमाकाशपदमाततान व्याप्त्या अध्यास्तेति तेषा महतां वीर्याणां आसमन्तात् सम्भृतिद्युव्याप्तिश्च सर्वासु परविद्यासु उपसंहारो नवेति सन्दिह्यते | अथ य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते अथ यदन्तः परो दिवो ज्योर्दीप्यते अथ यदिदमस्मिन् ब्रह्मपुरे दहरपुण्डरीकं वेश्मम् इत्यादिश्रुतिषु अथशब्द एव प्रकरणभेदं सूचयति | तथा च तत्तदुपासनाप्रकरणे भेदविहितान्यङ्गोपासनानि सन्निहितसगुणब्रह्मोपासनाप्रत्यङ्गानि तल्लोकप्राप्तिविधायकमात्राणि | ब्रह्मज्येष्ठा विद्यासम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान इत्यस्यां खिलसंहितायां वीर्यसंभृतिद्युलोकव्यापकसर्वभूतकारणत्वादयो बहवो गुणाः प्रतिपादिताः | तथापि उपासीत इति विधिवाक्यं फलं च न श्रुतम् | तस्मात् खिलसंहिताप्रतिपादितानां सर्वेषां गुणानां दहर-शाण्डिल्यादिविद्याविधायक-सगुण-
SK
सम्भृतिद्युव्याप्तीति समाहारद्वन्द्वादेकवद्भावः | सम्भृत्यादिकमनारभ्याधीतमापि अत एव - स्थानभेदाद्व्यवस्थाप्यं न सर्वत्रोपसंहर्तव्यम् | कथमनारभ्याधीतानां स्थानविशेषनियतत्वम् स्वसामर्थ्यादिति ब्रूमः | द्युव्याप्तिस्तावत् हृदयाद्यल्पस्थानगोचरासि विद्यासु नोपहर्तुं शक्या | सम्भृतत्वादयोऽपि तत्सहचारिणस्तत्तुल्यदेशा इत्यल्पस्थानविषयासु विद्यासु अनुपसंहार्या | शाण्डिल्य- ayamākāśastāāneṣontarhṛdaya ākāśaḥ ityādayastatra tatra śakyopasaṃhārāḥ manomayatvāpahatapāpmatvādi viśiṣṭhasyopāsyasya māhātmyapratipādanaparāḥ | kiñca - devā ha vai svargaṃ lokamagaman te devā rudramapṛcchan ko bhavāniti | paramānandasvabhāvatayā svargaśabdavācyaṃ hiraṇyagarbhādipadebhyo mahattaraṃ mahāsthānaṃ hi śrūyate | tataḥ svalpasthānavyatirekeṣu vaiśvānarādyupāsaneṣu dyuvyāptirupasaṃhāryeti tatsahacārāt mahāvīryasambhṛtirapi tatraivopasaṃhartavyā uta khilasaṃhitāyāṃ vidhiphalayoradarśane'pi upāsīta iti vidhiṃ paraśivabrahmalokaprāptirūpaṃ phalaṃ cādhyāhṛtya daharādyupāsanādivat khilasaṃhitāsu gatasakalaguṇaviśiṣṭabrahmopāsanasya paraśivabrahmalokaprāptisādhanatvāṅgīkāre'pyadoṣaḥ | puruṣavidyādhikaraṇam || 9 || mānasa-kriyāmaya-jyotiṣṭomayoḥ cittaśuddhidvārā paramparayā mokṣahetutvanirṇayaḥ tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī ityādiśrutau upāsakasya karacaraṇādyavayaveṣu prasiddhajyotiṣṭhomāṅgarūpo mānaso jyotiṣṭomo vihitaḥ | tatra kiṃ mānasajyotiṣṭomasya karmakāṇḍasthajyotiṣṭomāṅgatvam uta svātantryeṇa paraśivabrahmalokaprāptisādhanatvaṃ vetyāśaṅkāyāṃ adhikaraṇāntareṇa tatrāha - || २०४ || पुरुषविद्यायामपि चेतरेषामनाम्नानात् || २४ ||
SK
इतरेषां उपासकस्य करचरणावयवेषु कल्पितानां समित्कुशपुरोडाशादीनां मानसानामङ्गानां पुरुषविद्यायामिव मानसज्योतिष्टोम इव कर्मकाण्डस्थक्रियामये ज्योतिष्टोमे तदनाम्नानात् अविहितत्वादित्यर्थः | तथा च मानसज्योतिष्टोम-क्रियामयज्योतिष्टोमयोः परस्परविलक्षणाङ्ग विशिष्टत्वात् मनःकल्पिताङ्गविशिष्टमानसज्योतिष्टोमस्य वास्तवाङ्गविशिष्टक्रियामयज्योतिष्टोमाङ्गत्वमनुपपन्नम् | किन्तु स्वातन्त्र्येण परशिवब्रह्मलोकसाधनत्वमिति सूत्रसूचितसूक्षमार्थः | तैत्तिरीयके पुरुषविद्या आम्नायते - तस्यैवं विदुषो यज्ञस्याऽत्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बहिः इत्यादिका | छान्दोग्येऽपि पुरुषविद्या आम्नायते पुरुषोवाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि इत्यादिका | तत्र संशयः - किमत्र विद्या भिद्यते उत नेति पुरुषविद्येति नामैक्यात् पुरुषावयवेषु यज्ञावयवकल्पनासाम्ये रूपैक्यात् तैत्तिरीयके फलसंयोगाश्रवणात् प्राह षोडशं वर्षशतं जीवति इति छान्दोग्ये श्रुतस्यैव पुरुष विद्याफलत्वात् फलसंयोगस्याप्यविशेषात् विद्यैक्यमिति प्राप्ते उच्यते -
SK
उभयत्राऽऽम्नातयोर्विद्ययोः पुरुषविद्यात्वेऽपि विद्याभेदोऽस्त्येव कृतः || इतरेषामनाम्नानात् || एकस्यां शाखायां आम्नातानां गुणानां अन्यत्र अनाम्नानात् | तथा हि - यत्सायम्प्रातर्मध्यन्दिनञ्च तानि सवनानि इत्यादयः तैत्तिरीयके आम्नाताः | छान्दोग्ये सवनत्वेन नाम्नायन्ते | त्रेधा विभक्तं पुरुषायुषं छान्दोग्ये सवनत्वेन कल्प्यते | छान्दोग्ये श्रुतानां आशिषादीनां दीक्षादित्वकल्पनं तैत्तिरीयके न कृतम् | यजमानपत्न्यादिपरिकल्पनं चान्यथा | अतो रूपमुभयत्र भिद्यते तथा फलसंयोगोऽपि भिद्यते | तैत्तिरीयके हि पूर्वानुवाके ब्रह्मणे त्वामहं स ओमित्यात्मानं युञ्जीत इति ब्रह्मविद्यामभिधाय तत्फलत्वेन ब्रह्मणो महिमानमाप्नोतीत्युक्त्वा | तस्यैवं विदुषः इत्यादिना आम्नाता पुरुषविद्या | अस्यैव ब्रह्मविदुषो यज्ञत्वकल्पनमिति गम्यते | अतो ब्रह्मविद्याङ्गत्वात् ब्रह्मप्राप्तिरेवात्र फलम् फलवत्सन्निधावफलं तदङ्गं इति न्यायात् तैत्तिरीयकाम्नाता पुरुषविद्या ब्रह्मविद्याङ्गमिति गम्यते | छान्दोग्ये त्वायुःप्राप्तिफल पुरुषविद्येत्युक्ता | अतो रूपसंयोगयोर्भेदात् विद्याभेद इत्येकत्राम्नातानां गुणानामितरत्रानुपसंहारः | तथापि निष्कामनया परमेश्वरार्पितबाह्यज्योतिष्टोमादिवत् छान्दोग्यपुरुषविद्यायाः निष्कामस्य चित्तशुद्धिद्वारा परम्परया मोक्षहेतुत्वं सिध्यति | वेधाद्यधिकरणम् || १० || शं नो मित्रः शुक्रं प्रविध्य इत्यादिमन्त्रद्वयपारायणप्राप्यशिवलोककाम्यफलावाप्त्योर्निर्णयः
SK
ननु छान्दोग्य-तैत्तिरीय-बृहदारण्यकादिशास्वादिपठितविद्यानां ज्योतिष्टोमादीनाञ्च कासाञ्चित्साकाङ्क्षत्वात् कासाञ्चित् परम्परया परशिवब्रह्मलोकप्राप्तिहेतुत्वमुक्तम् | तथा हि तैत्तिरीयकानां उपनिषदारम्भे शन्नो मित्रश्शं वरुणः सहनाववतु इत्यादिमन्त्राणां पठित्वेन तेषामपि ब्रह्मविद्याङ्गत्वं स्यात् शुक्रं प्रविध्य हृदयं प्रविध्य मनः प्रविध्य शिभिः प्रवृज्य त्रेधा वृवृत्तं इत्यादीनां आथर्वणिकानां उपनिषत्प्रारम्भपठितहृदयवेधाधिप्रकशनरूपलिङ्गाभिचारकर्म- na syādityāśaṅkāyāṃ adhikaraṇāntareṇāha - || 205 || vedhādyarthabhedāt || 25 || vedhādīnā śatrupīḍādīnāṃ arthānāṃ phalānāṃ bhedāt saguṇasāvayavaparaśivabrahmopāsanā'saṃbandhādeteṣāṃ mantrāṇāṃ tadbrahmopāsanāṅgatvamastītyarthaḥ | sarvaṃ khalvidaṃ brahma tajjalāni śānta upāsīta iti śrutau śāntasyaiva paraśivabrahmopāsanāyāṃ adhikārasya pratipāditatvena śatrumaraṇakāmasya mantrasya brahmopāsanāṅgatvāsambhavāt karmakāṇḍasthatvena yāgāṅgavatkāmyaphalameveti sūtrasūcitasūkṣmārthaḥ | ātharvaṇikā upaniṣadārambhe śukraṃ pravidhya hṛdayaṃ ityādīn mantrānadhīyate | sāmagāścaḥ rahasyabrāhmaṇārambhe deva savitaḥ prasuva ityādyāmananti kāṭhakāstaittirīyaśca śaṃ no mitraḥ śaṃ varuṇaḥ ityādikam śaṭhyāyaninaśca śveto'śvo harinīlo'si ityādikam aitareyiṇastu mahāvratabrāhmaṇamadhīyate | indro ha vai vṛtraṃ hatvā mahānabhavat ityādi kauṣītakino'pi mahāvratabrāhmaṇameva prajāpatirvai saṃvatsara stasyaiṣa ātmā yanmahāvratam iti vājasaneyinastu pravargyabrāhmaṇam devā ha vai satraṃ niṣeduḥ ityādi | tatra saṃśayaḥ - kumupaniṣadāmārambheṣvadhītāḥ śukraṃ pravidhya śano mitraḥ ityādayo mantrāḥ pravargyādīni ca karmāṇi vidyāṅgam uta neti kiṃ yuktam vidyāṅgamiti | kutaḥ sannidhisamāmnānāt vidyāṅgatvapratīteḥ |
SK
यद्यपि शुक्रं प्रविद्य इत्यादीनां मन्त्राणां प्रवर्ग्यादेश्च कर्मणः श्रुति- mitraḥ sahanāvavatu ityādermantrasya anyatra viniyogābhāvāt vidyādhikārācca vidyāṅgatvamavarjanīyamiti sarvāsu vidyāsu ime mantrāḥ upasaṃhartavyā ityevaṃ prāpte brūmaḥ | vedhādyarthabhedāt || śukraṃ pravidhya hṛdayaṃ pravidhya ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi ṛtamavādiṣaṃ satyamavādiṣaṃ tejasvināvadhītamastu mā vidviṣāvahai ityādibhirliṅgaiḥ abhicārādhyayanādiṣveṣāṃ viniyogāvagamānna vidyāṅgatvam | etaduktaṃ bhavati - yathā hṛdayaṃ pravidhya ityādimantrasāmarthyāt śukraṃ pravidhya ityādīnāṃ abhicārādiśeṣatvamavagamyate evameva ṛtaṃ vadiṣyāmi tejasvināvadhītamastu ityādimantrasāmarthyādeva svādhyāyaśeṣatvaṃ śanno mitraḥ ityādimantrāṇāmavagamyate | ato na teṣāṃ vidyāṅgatvam | śukraṃ pravidhya ityādīnāṃ pravargyādibrāhmaṇānāṃ ceha pāṭho divākīrtyatvāraṇye'nuvākyatvakṛtaḥ | tasmāt - śanno mitraḥ ityādimantrapāṭhakānāṃ sandhyāvandanakāriṇāmiva cittaśuddhidvārā paramparayā śivalokasādhanatvam | śukraṃ pravidhya ityādimantrapāṭhakānāntu kāmyaphalakatvaṃ hyupadiṣṭam | hānyadhikaraṇam || 11 || saguṇaparaśivabrahmopāsanālamyotkṛṣṭaphalanirṇayaḥ śamadamādiyuktamādavirāgiṇāṃ śivaikaniṣṭhānāṃ śivatvaprāptiphalamastu mandavirāgiṇāṃ tadupāsakānāntu kā gatirityāśaṅkāyāṃ avāntaraphalopasaṃhāravidhirastītyadhikaraṇāntareṇāha - || 203 || hānau tūpāyanaśabdaśeṣatvāt kuśācchandastutyupagānavattaduktam || 26 || aśva iva romāṇi vidhūya pāpaṃ candra iva rāhormukhāt pramucya dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisambhavāmi iti sāmaśrutau saguṇaparaśivabrahmopāsakānāṃ maraṇānantaraṃ sukṛtadṛṣkṛtavyāgamātramuktam tatsukṛtaduṣkṛte vidhūnute tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyāṃ iti |
SK
शाखान्तरीयश्रुतौ तु उपासकानां सुकृतदुष्कृतत्यागानन्तरं उपासकमित्राणां उपासकद्वेषिणात्र सुकृतदुष्कृतस्वीकार उक्तः | एवं स्थिते सति हानौ सुकृतदुष्कृतत्यागात्मकहाननमात्रप्रतिपादकश्रुतौ उपासकसुहृदा उपासकद्वेषिणाञ्च सुकृतदुष्कृतस्वीकारात्मकमुपासनं उपसंहर्तव्यम् | कुतः || उपायनशब्दशेषत्वात् || तत्सुकृतदुष्कृते विधूनुते इति श्रुतौ हननप्रतिपादकस्य विधूननशब्दस्य उपायनप्रतिपादकशब्दसाहचर्यादित्यर्थः | तत्र दृष्टान्तमाह - || कुशाच्छन्दस्तुत्युपगानवत् || यथैकस्यां शाखायां सह पठितानां कर्माङ्गानां कुशाच्छन्दस्तुत्युपगानानां मध्ये अन्यतरस्यां शाखायां एकैकाङ्गस्य श्रवणे सत्यन्येषामङ्गानामुपसंहारः तद्वदित्यर्थः | तदुक्तम् - एकैकाङ्गश्रवणे सत्यन्येषां अङ्गानामुपसंहरणं पूर्वमीमांसान्यायेनात्र युक्तमिति सूत्रसूचितसूक्ष्मार्थः | छन्दोगा आमनन्ति - अश्व इव रोमाणि इति | आथर्वणिकाश्च तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परसं साम्यमुपैति इति | शाठ्यायनिनस्तु तस्य पुत्रा दायमुपयन्ति सुहृदः - साधुकृत्यम् द्व्षन्तः पापकृत्याम् इत्यादि | कौषीतकिनस्तु तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम् इति | एवं क्वचित् पुण्यपापयोर्हानिः क्वचित् प्रियाऽप्रियेषु तत्प्राप्ति क्वचिदुभयञ्च श्रुतम् | तदुभयमेकैकविद्यायां श्रुतमपि सर्वविद्याङ्गमास्थेयम् सर्वब्रह्मविद्यानिष्ठस्यापि ब्रह्म प्राप्नुवतः पुण्यपापपहाणस्यावश्यम्भावित्वात् प्रहीणविषयत्वाच्चोपायनस्य | तच्चिन्तनञ्च विधीयमानं सर्वविद्याङ्गं भवितुमर्हति | तत्रेदं विचार्यते -
SK
हानिचिन्तनमुपायनचिन्तनमुभयचिन्तनञ्च विकल्प्येरन् उपसंह्रियेरन् वा | किं युक्तम् विकल्प्येरन्निति | कुतः पृथगाम्नानसामर्थ्यात् | समुच्चये हि सर्वत्रोभयानुसंधानं स्यात् | तच्च कौषीतकिवाक्येनैव सिद्धमिति अन्यत्राम्नानमनर्थकमेव स्यात् | अतो नैकत्राम्नातस्य विकल्प एव प्रयोजनम् | न चाध्येतृभेदेन परिहर्तुं शक्यमनेकत्राम्नानम् | अविशेषतः पुनःश्रवणं ह्यध्येतृभेदपरिहार्यम् अत्र तु हानिरेव द्वयोश्शाखयोः उपायनमेव चैकस्याम् | न च विद्याभेदेनैव व्यवस्थापयितुं शक्यं सर्वशेषभूतमिदमनुसन्धानमित्युक्तत्वात् | अत्रेदमुच्यते - || हानौ तूपायनशब्दशेषत्वादिति || तु शब्दः पक्षं व्यावर्तयति हानाविति प्रदर्शनार्थम् | केवलायां हानौ केवले चोपायने श्रूयमाणे तयोरितरेतरसमुच्चयोऽवश्यम्भावी | कुतः उपायनवाक्यस्य हानिवाक्यशेषत्वात् | उपायनवाक्यस्य हि हानिवाक्यशेषत्वमेवोचितम् विदुषा त्यक्तयोः पुण्यपापयोः प्रवेशस्थानवाचित्वात् उपायनवाक्यस्य | प्रदेशान्तराम्नातस्य वाक्यस्य प्रदेशान्तराम्नातवाक्यशेषत्वे दृष्टान्ता उपन्यस्वन्ते - कुशाच्छन्दः स्तुत्युपगानवत् - इति | कालापिनः कुशा वानस्पत्याः इत्यामनन्ति शाठ्यायनिनस्तु औदुम्बर्यः कुशाः इति वाक्यं सामान्येन वानस्पत्यत्वेनावगताः कुशाः औदुम्बर्य - इति विशिषत् तद्वाक्यशेषतामापद्यते | तथा देवासुराणां छन्दोभिः इत्यादिना अविशेषेण देवासुराणां छन्दसा प्रसङ्गे देवच्छन्दांसि
SK
पूर्वम् इत् वचनं क्रमविशेषं प्रतिपादयन् तद्वाक्यशेषतां गच्छति | तथा हिरण्येन षोडशिनः स्तोत्रमुपाकरोति इत्यविशेषेण प्राप्ते समयाविषिते सूर्ये षोडशिनः स्तोत्रमुपाकरोति इति विशे विषयं वाक्यं तद्वाक्यशेषतां भजते | तथा ऋत्विज उपगायन्ति इत्यविशेषप्राप्तस्य नाध्वर्युरुपगायेत् इति वाक्यमनध्वर्युविषयतामवगमयत् तद्वाक्यशेषत्वमृच्छति एवं सामान्येनावगतमर्थं विशेषे व्यवस्थापपितुं क्षमस्य वाक्यस्य तच्छेषत्वमनभ्युपगच्छद्भिः तयोरर्थयोर्विकल्पः समाश्रयितव्यः | स च सम्भवन्त्यां गतौ न युज्यते तदुक्तं पूर्वस्मिन् काण्डे - अपि तु वाक्यशेषत्वादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात् इति | तदेवं केवलहानोपायनवाक्ययोरेकवाक्यत्वात् केवलस्य हानस्य केवलस्य चोपायनस्याभावात् विकल्पो नोपपद्यते | कौषीतकिनामुभयाम्नानमविशेषपुनश्श्रवणत्वेन प्रतिपत्तृभेदादविरुद्धम् | ननु कथमर्थवादः प्रदेशान्तरस्थार्थवादसापेक्ष इति चेत् नामोपास्तिस्तायकत्वेन श्रुतस्यैकविंशा वा इति ह वा इत्यर्थवादस्यैकविंशत्यनिर्णयाय तैतिरीयगतसत्वप्रकरण स्थानार्थवादसापेक्षत्वदर्शनात् द्वादशमासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः इति | तत्र संख्यानिर्वाहमुक्त्वा ततोऽर्थवादत्वेऽप्युपायनमुपसंहार्यम् | हानोपायनयोरेकत्राप्यवगतिरस्ति | कौषीतकश्रुतौ तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम् इति व्यपदेशात् तस्मात्तयोस्सामञ्जस्यम् | साम्परायाधिकरणम् || १२ || वीरशैवदीक्षाकाले शिवदीक्षापूर्वकालिकपुण्यापुण्यकर्मविनाशः प्राणोत्क्रमणानन्तरं दीक्षानन्तरकालिकस्वाभाविकसुकृत- nanu mandavirāgiṇāmapi sarvavidyāsu paraśivopāsanāt puṇyāpuṇyaviyogapūrvakaṃ tattallokānubhūtirupadiṣṭā | tathāpi taccharīrajīvitakāle viyogakāle vā kiṃ sambhavatītyāśaṅkāyāṃ adhikaraṇāntareṇa kālanirṇayaṃ darśayati - || 207 || sāmparāye tartavyābhāvāt tathā hyanye || 27 ||
SK
साम्पराये परशिवब्रह्मलोकप्राप्तिहेतुभूतदेवयानमार्गे विरजानद्यतिक्रमणानन्तरं शैवदीक्षावच्छिन्नदिव्योपासकानां सुकृत- virajātaraṇānantaraṃ sukṛta-duṣkṛtakṣayaṃ pratipādayanti śrutayaḥ ityatra pramāṇamāha - || tathāhyanye || anye śākhinaḥ sa āgacchati virajāṃ nadīṃ tāṃ manasaivātyeti tatsukṛta-duṣkṛte vidhūnute | iti śrutau virajānadītaraṇānantaraṃ sukṛtaduṣkṛtakṣayaṃ pratipādayanti | tathāpi virajānadītaraṇānugataśaivadīkṣākāle tatpūrvabhāvikṛtapuṇyāpuṇyakarmaviyogāt dīkṣānantarakṛtaduṣkṛtakadambaṃ upāsakānāṃ prāṇotkramaṇakāle vinaśyatīti sūtrasūcitasūkṣmārthaḥ | sukṛta-duṣkṛtayorhānamupāyanañca sarvāsu vidyāsu cintanīyamityuktam | tacca hānaṃ kiṃ dehaviyogakāle dehādyutkrāntasyādhvani ca uta dehaviyogakāla eveti viśaye ubhayatreti yuktam | ubhayathā ca śrutatvāt | evaṃ hi kauṣītakinaḥ samāmananti | sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati ityupakramya sa āgacchati virajāṃ nadīm | tāṃ manasā'tyeti | tatsukṛta-duṣkṛte dhūnute iti | atra vākye adhvani sukṛtaduṣkṛtahāniḥ pratīyate | tāṇḍinastu - aśva iva romāṇi vidhūya pāpaṃ candra iva rāhormukhāt pramucya | dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisambhavāmi iti | atra tu dehaviyogakāla iti pratīyate | śāṭhyāyanako'pi - पुत्रेषु दायसंक्रान्तिसमकालं सुकृत-दुष्कृतसंक्रमणं श्रूयमाणं देहवियोगकाल इति गम्यते | अतः सुकृत-दुष्कृतयोरेकदेशो देहवियोगकाले हीयते | शेषस्त्वध्वनि इति प्राप्ते -
SK
उच्यते - || साम्पराये इति || साम्पराये - देहादपक्रमणकाले एव विदुषः सुकृत-दुष्कृते निरवशेषं हीयेते | कुतः || तर्तव्याभावात् || विदुषो देहवियोगात्पश्चात् सुकृत-दुष्कृताभ्यां तरितव्यभोगाभावात् | विद्याफलभूतब्रह्मप्राप्तिव्यतिरेकेण हि सुकृतदुष्कृताभ्यां भोक्तव्ये सुख- priyāpriye spṛśataḥ | eṣa samprasādo'smāccharīrāt samutthāya paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate tasya tāvadeva ciraṃ yāvanna vimokṣye atha sampatsye ityadiśrutiṣu lokāntaraprāptiṃ vinaiva sākṣāt brahmaprāptidarśanāt sarvaṃ śāstraṃ samañjasam | aśva iva romāṇi vidhūya pāpaṃ iti śrutau virajāvipāpmā iti śrutau ca pāpakṣayasyaiva upadeśāt na tu puṇyasyetyāśaṅkāyāmāha - || 208 || chandata ubhayāvirodhāt || 28 || || chandataḥ || icchātaḥ vipakṣabalādityarthaḥ | ajahallakṣaṇayā pāpaśabdena puṇyamapi pratipādyate | kutaḥ || ubhayāvirodhāt || yadā (thā) paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim | tathā (thā) vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti || ityādipuṇya-pāpobhayavināśavidhāyakaśrutyantaradarśanāt | kiñca - virajānadītāraṇatvena śivalokaprāptividhāyakaśrutismṛtipurāṇānāṃ ihaiva dehāvasāne paraṃjyotirmayaparaśivaliṅgaprāptipratiādakānāñca parasparavirodho dṛśyata iti cetviraktāviraktaparameśvaraikaniṣṭhaphalavidhāyakamiti veditavyam | chandaso yatheṣṭaṃ padānāmanvayo varṇanīya iti nyāyāt śruterarthasya bhāvasya vicāro yuktaḥ | śarīratyāgakāle puṇyāpuṇyamocanaśruteḥ tadūrdhvaṃ paraśivabrahmalokaprāptiśruterubhayaśrutyavirodhāya kaupītakavākye tatsukṛta- पन्थानमापद्य इति वाक्यखण्डात् प्रागुपनेतव्य इति सिद्धम् | ननु इहैव परञ्ज्योतिर्मयलिङ्गविलीनानां पुण्यपापक्षयविधिर्युक्ता | तद्भिन्नानां मन्दविरागिणां देहावसान-विरजानदीतरणानन्तरमेव पुण्य- durnivāra ityāśaṅkāyāmāha -
SK
|| २०९ || गतेरर्थवत्वमुभयथाऽन्यथा हि विरोधः || २९ || उभयथा उभयोः पुण्यपापयोः विनाशाङ्गीकारे सति गतेरर्चिरादिमार्गेण ब्रह्मलोकगमनस्यार्थवत्वं सफलत्वं भवति | अन्यथा पुण्यकर्मक्षयानङ्गीकारे परशिवब्रह्मलोके किञ्चित्कालं उपासनाफलभोगानन्तरं पुण्यफलभोगार्थं स्वर्गलोकं प्रति पुनरावृत्तेरवश्यमङ्गीकर्तव्यत्वात् विरोधः स्यात् | न स पुनरावर्तत इति श्रुतिविरोधश्च स्यात् | एतेन प्रतिपाद्यमानाया इमं मानवमावर्तं नावर्तन्त इति श्रुतेरप्रामाण्यं स्यात् | किञ्च - श्रुतिस्मृत्यागमेषु नित्यनैमित्तिककाम्यकर्मणामेव कर्मेति व्यवहारव्यवस्थापनात् बहुजन्मकृतनिष्कामकृतशिवार्पितनित्यनैमित्तिकादिकर्मद्वारा तत्प्रसादोद्भूतभक्तेः करणत्वव्यवहारायोगात् | तद्भक्त्या तल्लोके सर्वैश्वर्यसम्पन्ननिरतिशयानन्दकन्दकल्याणविभूतिर्विरुद्धा स्यात् | तथा शिअगीतासु च स्पष्टमुपदिष्टम् - कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते | इष्टापूर्तादिकर्मा.इ येनाचरति मानवः || शिवार्पणधिया कामान् परित्यज्य यथाविधि | इत्यादिना भक्तिमहिमाप्रपञ्चं प्रसाध्य तत्रैव धर्मार्थकाममोक्षाणां पारं यास्यथ येन वै | मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिधम् || कृत्वा तु विरजादीक्षां भूतिरुद्राक्षधारिणः | जपन्तो वेदसाराख्यं शिवनामसहस्रकम् || सन्त्यज्य तेन मर्त्यत्वं शैवं तनुमवाप्स्यथ | ततः प्रसन्नो भगवान् शङ्करो लोकशङ्करः || भवतां दृश्यतामेत्य कैवल्यं वः प्रदास्यति || रामाय दण्डकारण्ये यत्प्राह कुम्भसम्भवः | तत्सर्वं वः प्रवक्ष्यामि श्रुणुध्वं भक्तियोगिनः || अतस्त्वां दीक्षयिष्यामि विरजामार्गमाश्रितः | तेन मार्गेण मर्त्यत्वं हित्वा तेजोमयो भवेत् || इदं व्रतं पाशुपतं करिष्यामि समासतः | अथ रामगिरौ रामः पुण्ये गोदावरीतटे || शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षा. यथाविधि || भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः ||
SK
इत्यादिना कुम्भसम्भवेन श्रीरामस्य विरजापरपर्यायवाचकशिवदीक्षाविध्युपदेशात् | ननु देहत्यागवतां भक्तानां विरजानदीतरणकाले कर्मक्षये सत्येव देवयानगतेः प्रयोजकत्वं अन्यथा देहवियोगकाल एव सर्वकर्मक्षये तदनन्तरमेवासौ मुक्त इति चेन्न - देवयानगतेः निष्प्रयोजनत्वात् | परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति देवयानेन ब्रह्मप्राप्त्यनन्तरमेव तदाकाराकारितत्वश्रवणस्य विरोधः स्यात् | एवञ्च यद्यपि विद्यासामर्थ्यादेव देवयानगतिस्तत्तद्देशविहारचन्द्रसंवादादिकं अग्रिमविहारात् एवमुपपद्यते तथापि यावद्ब्रह्मप्राप्ति धीसङ्कोचरूपसंसारानुवृत्तिः विद्यासामर्थ्यान्नोपपद्यत इति तन्मूलभूतकर्मलेशानुवृत्तिरवश्यमेष्टव्या | न च परमेश्वरसङ्कल्पविशेषादेव तदनुवृत्तिस्स्यादिति वाच्यम् | तस्यैव अस्माभिः कर्ममूलतयोच्यमानत्वात् | न ह्यस्मिन्मते विहितनिषिद्धाचरणप्रयुक्तः परमेश्वरसङ्कल्पः कश्चिदस्ति | तत्सङ्कल्पमनपेक्ष्यैव पुण्यपापे स्तः | शिवैकनिष्टानां पुण्यनिराकारणपूर्वकशिवलोकप्रप्तिः शिवत्त्वप्राप्तिश्च ननु ब्रह्मप्राप्त्यनन्तरं विकासादिवृत्तिरहिततत्स्वरूपप्राप्तिः शिवलोकगमनेच्छापुरुषाणां धीविकासादिदिव्यमङ्गलविग्रहाविर्भावश्च युक्त इति चेत् तावत्पर्यन्तं तद्धीसङ्कोचहेतुकर्मवृत्या भाव्यम् | तथा विरजानदीतरणानन्तरमेव कर्मक्षय उच्यते | प्राकृतप्रपञ्चसीमावधि- parañjyotirupasampadyatetyanena brahmaprāptirvivakṣitā | viṣṇupadasambandhinī na virajānadī | prākṛtaprapañcasīmāvadhiḥtadanupraveśaḥ | prakṣīṇasarvakarmaleśayogino viṣṇupadādūrdhvamaprākṛtaṃ śivapadaṃ paramānandamayaṃ anupraviśanti | tathā hi śrutiḥ - so'dhvanah paramāpnoti tadviṣṇoḥ paramaṃ padam iti | smṛtiśca - parātparataraṃ brahmā tatparātparato hariḥ | tatparātparato hīśaḥ iti vedāntacodanāt || yaśśivaṃ paramātmānaṃ umāpatimaharniśam | dhyāyate viśvakartāraṃ puṇyāpuṇyanirākṛtāt ||
SK
विरजाख्यां नदीं तीर्त्वा विष्णुलोकात्परं पदम् | नित्यैश्वर्यसमायुक्तं मनोवाचामगोचरम् || स तु कैलासमाप्नोति शिवानुग्रहवैभवात् || इति दर्शनात् शिवैकनिष्ठानां पुण्यापुण्यनिराकरणपूर्वकशिवलोकप्राप्तिः शिवत्वप्राप्तिश्च वज्रलेपायते | ननु देहवियोगकाले विरजानदीतरणानन्तरं वा सर्वकर्मक्षयाङ्गीकारे सूक्ष्मशरीरनाशप्रसङ्गः स्यात् | तथा सति केवलस्यात्मनो गमनं नोपपद्यते | तस्मात् उत्क्रान्तिसमये विदुषो निःशेषकर्मक्षयो नोपपन्न इत्याशङ्कायामाह - || २१० || उपपन्नस्तल्लणार्थोपलब्धेर्लोकवत् || ३० || उपपन्न एव उत्क्रान्तिकाले सर्वकर्मक्षयः | कथम् तल्लक्षणार्थोपलब्धेः - क्षीणकर्मणोप्यार्विभूतस्वरूपस्य देहसम्बन्धलक्षणार्थोपलब्धेः | परं ज्योतिरुपसम्पद्य स्वेन रूपेणामिनिष्पद्यते | स तत्र पर्येति जक्षत् क्रीडन् रममाणः सः स्वराड् भवति | तस्य सर्वेषु लोकेषु कामचारो भवति | स एकधा भवति त्रिधा भवति इत्यादिषु देहसम्बन्धाख्योऽर्थो ह्युपलभ्यते | अतः क्षीणकर्मणोऽपि सूक्ष्मशरीरयुक्तस्य देवयानेन गमनमुपपद्यते | कथं सूक्ष्मशरीरमप्यारम्भककर्मविनाशेऽवतिष्ठत इति चेत् - विद्यामाहात्म्यादिति ब्रूमः | विद्या हि स्वयं सूक्ष्मशरीरस्यानारम्भिकाऽपि प्राकृतसुखदुःखोपभोगसाधनस्थूलशरीरस्य सर्वकर्मणाञ्च निरवशेषक्षयेऽपि स्वफलभूतपरशिवब्रह्मप्राप्तिप्रदानाय देवयानेन पथैनं गमयुतिं सूक्ष्मशरीरं स्थापयति - लोकवत् यथा लोके सस्यादिसमृध्यर्थमारब्धे तटाकादिके तद्धेतुषु तदिच्छादिषु विनष्टेष्वपि तद्व तटाकादिकर्मशिथिलं कुर्वन्तः तत्र पानीयपानादि कुर्वन्ति | तद्वदिति सिद्धम् |
SK
अथ स्यात् - ज्ञानिनां साक्षात्कृतपरशिवतत्त्वानां देहपातसमये कर्मणो निरवशेषक्षयात् देहपातादूर्ध्वं सूक्ष्मशरीरमात्रं गत्यर्थमनुवर्तते तथापि सुखदुःखानुभवो न विद्यत इति यदुक्तं - तन्नोपपद्यते | वसिष्ठ- sākṣātkṛtaśivatattvānāṃ dehapātādūrdhva. dehāntarasaṅgamaḥ putrajanmavipatyādinimittasukhaduḥkhānubhavaśca dṛśyata ityāśaṅkāyāmāha - || 211 || yāvadadhikāramavasthitirādhikārikāṇām || 31 || nāsmābhiḥ sarveṣāṃ jñānināṃ dehapātasamaye sukṛta-duṣkṛyorvināśa uktaḥ api tu yeṣāṃ jñānināṃ dehapātānantaraṃ arcirādikā gatiḥ prāptāḥ teṣāṃ dehapātasamaye sukṛtaduskṛtahāniruktā vasiṣṭhādīnāntu ādhikārikāṇāṃ na dehapātānantaraṃ arcirādigatiprāptiḥ prārabdhasyādhikārasyāsamāptatvāt | teṣāṃ karmaviśeṣeṇādhikāraviśeṣaṃ- कर्मणो भोगादेव क्षयः | अतः आधिकारिकाणां तदारम्भकं कर्म यावदधिकारमवतिष्ठते | अतस्तेषां न देहपातादनन्तरं अर्चिरादिगतिप्राप्तिः | अनियमाधिकरणम् || १३ || मूर्ताप्राकृतदिव्यरूपपरशिवब्रह्मोपासकप्राप्यचिद्विलासनन्दानु- nanu upakosalādividyopāsakānāṃ brahmaprāptiruta tadbhinnānāṃ sarveṣāṃ brahmopāsakānāmeva brahmaprāptissambhavati ityāśaṅkāyāmadhikaraṇāntareṇāha - || 211 || aniyamaḥ sarveṣāmavirodhaḥ śabdānumānābhyām || 32 || upakosalādiṣu yeṣūpāsaneṣu arcirādigatiḥ śrūyateḥ kiṃ tanniṣṭhānāmeva tayā brahmaprāptiḥ uta sarveṣāṃ dahara-śāṇḍilya- चेमे अरण्ये श्रद्धा तप इत्युपासते श्रद्धां सत्यमुपासते इतीतरसकलब्रह्मविद्योपासकत्वे प्रमाणाभावाच्च तन्निष्ठानामेवेति प्राप्तेऽभिधीयते अनियम इति | सर्वेषां - सर्वोपासननिष्ठानां तयैव गन्तव्यत्वात् तन्निष्ठानामेवेति नियमो नास्ति | सर्वेषां तयैव हि सति शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यां अविरोधः | अन्यथा विरोध एवेत्यर्थः |
SK
श्रुतिस्तावत् - तैत्तिरीय-छन्दोग्य-वाजसनेय-आथर्वणशिखा- yaścchandasāmṛṣabho viśvarūpaḥ chando'bhyo'dhyamṛtātsambabhūva sa mendro medhayā spṛṇotu amṛtasya devadhāraṇo bhūyāsam etatsomasya sūryasya sarvaliṅgaṃ sthāpayati pāṇimantraṃ pavitram iti taittirīyake pāśupatavidyāṅgaśivaliṅgabāhyābhyantara-dhyānadhāraṇādyupāsakānāṃ amṛtatvamabhidhīyate ya evametadvidurye ceme araṇye śraddhāṃ satyamupāsate | te'rciṣamabhisambhavanti iti chāndogye pañcāgnividyāyāṃ arcirādimārgeṇa dahara- गमनमुपदिश्यते | वाजसनेयके - तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धां तप इत्युपासते सते इति | य इत्थं विदुः इति पञ्चाग्निविद्यानिष्ठान् ये चेमे इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासिनश्चोद्दिश्य अचिरादिका गतिरुपदिश्यते ऋतं सत्यं परं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म सत्यं त्वेव विजिज्ञासितव्यम् इति सत्यशब्दस्य परशिवब्रह्मणि प्रसिद्धेः | तपश्शब्दस्यापि तेनैकार्थ्यात् सत्य-तपश्शब्दाभ्यां ब्रह्मैवाभिधीयते - श्रद्धापूर्वकं ब्रह्मोपासनं अन्यत्र श्रुतं श्रद्धाभक्तिध्यनयोगादवेहि इति सत्यं त्वेव विजिज्ञासितव्यम् इत्युपक्रम्य श्रद्धा त्वेव विजिज्ञासितव्या इति व्रतमेतत्पाशुपतं तत्समाचरेन्मुमुक्षुनं पुनर्भवाय इत्यादिना च अथर्वणशिखाश्वेताश्वेतरबृहञ्जावालादिषु पाशुपतविद्यानिष्ठानां पुनरावृत्तिरहितपरशिवब्रह्मप्राप्तिरुपदिश्यते | स्मृतिरपि - अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः || इति लिङ्गाङ्गसङ्गिनां वत्स पुनर्जन्म न विद्यते | युगपद्ज्ञानसिद्धिः स्यात् ततो मोक्षमवाप्नुयात् || इति दर्शनाच्च सर्वेषां ब्रह्मविद्योपासकानां अर्चिरादिमार्गेणैवेति नियमो दृश्यते | एवं विजातीयकाः श्रुतिस्मृतयो बहवस्सन्ति | एवं सर्वविद्यासाधारणीया गतिः प्राप्तैवोपकोसलविद्यादौ अनूद्याते |
SK
ननु आदित्यचन्द्रादिग्रहाणां अश्विन्यादिनक्षत्राणां इन्द्रादिदिक्पालप्रभृतिदेवानाञ्च अनेनैव शरीरेण मुक्तिरुपपद्यते अतः मनुष्याणामिव स्थूलसूक्ष्मशरीरवियोगपूर्वकशिवतत्त्वप्राप्तिर्न सम्भवतीति चेन्न - गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतासु | कर्माणि विज्ञानमयश्च आत्मा परेऽव्ययए सर्व एकीभवन्ति || इति श्रुतिदर्शनात् भक्तानां जीवन्मुक्तानां सूर्यचन्द्रनक्षत्रादीनां इन्द्रादिदेवानाञ्च स्वाधिकारदशावियोगानन्तरं स्थूलसूक्ष्मशरीरपरित्यागपूर्वकं परशिवब्रह्मण्येकीभावरूपं विदेहकैवल्यमेव व्यपदिश्यते | अक्षरध्यधिकरणम् || १४ || निरवयवपरशिवब्रह्मसाक्षात्कारवतां विदेहकैवल्यप्राप्तिनिर्णयः ननु मूर्तब्रह्मोपासकानां दहरादिविद्यानिष्ठानां अप्राकृतदिव्यमङ्गलविग्रहविशिष्टत्वेन सर्वैश्वर्यसम्पन्नमहाकैलासे सालोक्यादिनित्यमङ्गलवैभवचिद्विलासानन्दानुभवोऽस्तु द्वे वाव ब्रह्मणो रूपे मूर्तञ्चामूर्तमेवच इति श्रुतौ परशिवब्रह्मणः रूपद्वयावगमात् अमूर्तब्रह्मोपासकानां का गतिरित्याशङ्कायां अधिकरणान्तरेणाह - || २१३ || अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् || ३३ || अनियमस्सर्वेषां इति सूत्रे मूर्तपरशिवब्रह्मोपासकानां सर्वेषामपि परशिवब्रह्मलोक प्राप्तिरित्युक्तम् | अक्षरधियां निरवयवपरशिवब्रह्मसाक्षात्कारवतां तु अवरोधः परलोकगमनप्रतिबन्धः परलोकगमनाभाव एवाङ्गीकर्तव्यः कुतः सामान्यतद्भावाभ्याम् | अमूर्तब्रह्मसाक्षात्कारवतां सर्वेषामपि लिङ्गशरीरनाशस्य समानत्वात् तद्भावात् ब्रह्मण्येकभावात् तादात्म्मात् इत्यर्थः | औपसदवत् - यथा औपसदानां यज्ञादिकर्मकर्तॄणां सर्वेषां स्वर्गलोकप्राप्तिः तद्वत् | पूर्वोक्तसौधन्यायेन मूर्ताऽमूर्तब्रह्मसाक्षात्कारवतां सर्वेषामपि लिङ्गशरीरेण सह ब्रह्मण्येकीभावस्य च तुल्यत्वात् |
SK
तत्र प्रमाणमाह || तदुक्तं || न तस्य प्राणा उत्क्रामन्ते तत्रैव समवलीयन्ते परेऽव्यये सर्व एकीभवन्ति इत्यादिश्रुतिषु परशिवब्रह्मसाक्षात्कारवतां भक्तानां लिङ्गशरीरेण सह परशिवब्रह्मैक्यं प्रतिपादिवमिति सूत्रसूचितसूक्ष्मार्थः | एतेन मुक्तानामपि लिङ्गशरीरप्रधानसाधकद्वैत-विशिष्टाद्वैतमतद्वयं जडाजडयोरेकत्वासम्भवात् रज्जुसर्पवज्जीवस्य मिथ्यात्वव्यवस्थापक- sarvaśrutisamaprāmāṇyadvaitādvaitābhidhānamukhyavaidikamatena bauddhādivat śrutyekadeśaprāmāṇyāt nirastam | gārgibrāhmaṇe - bṛhadāraṇyake śrūyate - अलोहितं अस्नेहं अच्छायं अत अवाय्वनाकाशं असङ्गं अरसं अगन्धं अचक्षुष्कं अश्रोत्रं अवाङ्मन्सं अतेजस्कं अप्राणं असुखं अमात्रं अनन्तरं अबाह्यं न तदश्नाति किञ्चन | एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः || तथा आथर्वणे - अथ परा यया तदक्षरमधिगम्यते यत्तददेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्शोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं भूतयोनिं परिपश्यन्ति धीराः यथोर्णनाभिः सृजते गृह्यते च यथा पृथिव्यां ओषधयः सम्भवन्ति | यथा सतः पुरुषात्केशलोमानि तथा क्षरात्सम्भवतीह विश्वम् इति | तत्र संशयः - किमिमे अक्षरशब्दनिर्दिष्टब्रह्मसंबन्धितया श्रुताः अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतास्वरूपाः सर्वासु ब्रह्मविद्यास्वनुसन्धेयाः उत यत्र श्रूयन्ते तत्रैवेति | किं युक्तम् यत्र श्रुतास्तत्रैवेति कुतः विद्यान्तरस्वरूपभूतानां गुणानां विद्यान्तरस्वरूपत्वे प्रामाणाभावात् प्रतिषेधरूपाणामेषां आनन्दादिवत्स्वरूपावगमोपायत्वाभावाच्च आनन्दादिहिरवतस्वरूपे हि ब्रह्मणि स्थूलत्वादयः प्रपञ्चधर्माः प्रतिषिध्यन्ते निरालम्बनप्रतिषेधायोगात् | एवं प्राप्ते प्रचक्ष्महे -
SK
अक्षरधियां त्ववरोधः इत्यादिना अक्षरब्रह्मसम्बन्धिनां अस्थूलत्वादिधियां सर्वब्रह्मविद्यास्वविरोधः संगतमित्यर्थः | अतः अक्षरपरशिवब्रह्मसाक्षात्कारधियां भक्तानां लोकान्तरप्राप्तिविरोधो वा स्यात् कुतः सामान्यतद्भावाभ्यां | सर्वेषूपासनेषु उपास्याक्षरस्य परशिवस्य ब्रह्मणस्समानत्वादेकत्वात् तद्भावात् नाशह् कारणलयः इति न्यायेन लिङ्गशरीरविलयपूर्वकशिवत्वप्राप्तिसद्भावाच्च | असाधारणाकारेण ग्रहणं हि वस्तुनो ग्रहणम् | न च केवलमानन्दादिब्रह्मणोऽसाधारणमाकारमुपस्थापयति प्रत्यगात्मन्यप्यानन्दादेर्विद्यमानत्वात् हेयप्रत्यनीको ह्यनन्दादिः ब्रह्मणोऽसाधारणं रूपम् | प्रत्यगात्मनस्तु स्वतो हेयविरहिणोऽपि हेयसम्बन्धयोग्यताऽस्ति | हेयप्रत्यनीकत्वञ्च चिदचिदात्मकप्रपञ्चधर्मभूतस्थूलत्वादिविपरीतरूपम् | अतः असाधारणाकारेण ब्रह्मानुसन्दधता | अस्थूलत्वादिविशेषितज्ञानानन्दाद्याकारं ब्रह्मानुसन्धेयमिति अस्थूलत्वादीना मानन्दादिवद्ब्रह्मस्वरूपप्रतीत्यन्तर्भावात् सर्वासु ब्रह्मविद्यासु तथैव ब्रह्मानुसन्धेयमिति | गुणानां प्रधानानुवर्तित्वे दृष्टान्तमाह - || औपसदवदिति || यथा जामदग्न्यचतूरात्रपुरोडाश्युपसद्गुणभूतः सामयेदपठितः - अग्निर्वैहोत्रम् इत्यादिमन्त्रप्रधानानुवर्तितया याजुर्वेदिकेनोपांशुत्वेन प्रयुज्यते | तदुक्तं प्रथमे काण्डे - गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः इत्युच्यते |
SK
अक्षरपदवाच्यस्य ब्रह्मणः केवलनिर्गुणत्वनिर्विशेषत्वाङ्गीकारे तदुपासनविरोधः | किञ्च - अथ परा यया तदक्षरमधिगम्यते इत्यादिना ब्रह्मणो वर्णगात्रश्रोत्रादिनिराकरणपूर्वकत्वेन निरवयवत्वं प्रसाध्य अक्षरात्सम्भवतीह विश्वम् इत्युपसंहारे लूतवत् जगदुभयकारणत्वस्यैव अक्षरपुरुषस्यैव व्यवस्थापनात् सविशेषत्वं सगुणत्वञ्च वालानामपि विज्ञायते | बृहदारण्यकेऽपि एतद्वै तदक्षरं गार्गि इत्यादिना तदक्षरपुरुषस्य प्राकृतसर्वधर्मनिषेधपूर्वक-निरवयवत्वं प्रसाध्य तदुपसंहारे एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इति तस्यैव प्रशासकत्वादिधर्मव्यपदेशात् सगुणत्वं सविशेषत्वञ्चार्थात्सिद्धम् | नन्वेवं सर्वासु ब्रह्मविद्यासु ब्रह्मण एव गुणित्वात् गुणानाञ्च प्रधानानुवर्तित्वात् सर्वकर्म-सर्वगन्ध-सर्वरस इत्यादेर्गुणजातस्य प्रतिविद्यं व्यवस्थितस्याप्यव्यवस्था स्यात् इत्याशङ्क्य तत्राह - || २१४ || इयदामननात् || ३४ || आमननं - आभिमुख्येन मननं - अनुचिन्तनम् | आमननात् हेतोः इयत् एव गुणजातं सर्वत्रानुसन्धेयत्वेन प्राप्तम् | यदस्थूलत्वादिविशेषितमानन्दादिकं येन गुणजातेन विना ब्रह्मस्वरूपस्येतरव्यावृत्तस्यानुसन्धानं न सम्भवति तदेव सर्वत्रानुवर्तनीयम् | तच्च इयदेवेत्यर्थः | इतरे तु सर्वाक्र्मेत्यान्न्यः प्रधानानुवर्तिनोऽपि चिन्तनीयत्वेन प्रतिविद्यं व्यवस्थिताः |
SK
अत्र परे तु सामान्यतद्भावाभ्यां प्रतिषेधमुखेन प्रतिपादनपरस्य समानत्वादक्षरस्य ब्रह्माभिन्नतया प्रत्यभिज्ञानाच्चेति योजयन्ति | ततोऽपि वरं उक्तार्थपरत्वम् | निदर्शनानु गुण्यात् अङ्गानां प्रधानानुवर्तित्वे हि तादृशोऽपन्यासः | भावाभावरूपधर्मविषयत्वात् आनन्दादय इत्यनेन न पौनरुक्त्यमित्याहुः | तदयुक्तम् - सत्यादिवाक्यानां अतद्व्यावृत्तिपरत्वाभ्युपगमात् तत्रापि स्वरूपातिरिक्तव्यावृत्तिरूपधर्मानभ्युपगमात् सकलेतरव्यावृत्तस्वरूपस्य सत्यादिवाक्यप्रतिपन्नस्य व्यवच्छेद्यविशेषव्यावृत्तिप्रतिपत्तौ प्रयोजनाभावाच्च | न हि पांसुराशेर्विविक्तस्य रत्नस्य पुनःपुनः प्रत्येकपांसुव्यतिरेचने किँचित्प्रयोजनम् | ऋतं पिबन्तौ द्वासुपर्णा इति वाक्ययोर्विद्याभेदाभेदविषयं इयदामननादिति सूत्रं अधिकरणान्तरमाहुः | उभयोर्भोक्तृत्वं एकत्र एकस्य भोक्तृत्वमन्यस्य चाभोक्तृत्वमन्यत्र इति विद्याभेदमुक्त्वा छत्रिन्यायेनाविरोधाज्जीवोपादानस्य तादात्म्यप्रतिपादनार्थत्वाच्च रूपाभेदाद्विद्यैक्यमित्युक्तम् | तदयुक्तम् - छत्रिन्यायादिभिरर्थैकत्वस्य गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् इत्यत्र सिद्धत्वात् सूत्राक्षराणां तदसाधारणत्वाभावाच्च | इयच्छब्दोऽपि देशकालस्वरूपसङ्ख्येयतासाधारणः | किञ्च - यदा पैङ्गीश्रुत्यनुसारेण सत्त्वद्वितीयप्रत्यगात्मपरत्वं द्वासुपर्णा इति वाक्यस्यामिमतं तदा द्वयोऽरपि जीवसद्वितीयपरमात्मपरत्वं व्याहतम् | जीवसद्वितीयपरमात्मपरत्वेऽपि पौनरुक्त्यमुक्तम् |
SK
ननु न पौनरुक्त्यं - तत्प्रपञ्चनार्थो ह्यमारभ्य इति चेन्न अधिकरणान्तरनिरूप्यार्थानामिहाप्रपञ्चनात् अस्य तेभ्यो वैषम्याभावाच्च | किञ्च - इयदिति सौत्रं पदं न द्वित्वसङ्ख्याव्यवच्छेदेमेकान्ततोऽवगमयति | ततश्च विश्वमेवेदं पुरुषः महान् प्रभुर्वै पुरुषः इत्यादिषु जगदाकारव्यवच्छेदेन विद्यैक्यपरं सूत्रं किं न स्यात् | यदि सङ्ख्याव्यवच्छेदकत्वमेवाभिहितं तर्हि त्रिविधं ब्रह्ममेतत् चतुष्पात् ब्रह्म इत्यादिसङ्ख्यान्तरावच्छिनब्रह्मपरवाक्यविषयं किं न स्यात् सर्वत्र भेदाभेदहेतवश्च उत्प्रेक्षितुं शक्याः अतो यथाकथञ्चित् निर्वहणादपेक्षितार्थः सिध्यति | अन्तरत्वाधिकरणम् || १५ || परशिवस्य ब्रह्मण एव सर्वान्तरुपास्यत्वनिर्णयः अयमात्मा ब्रह्म इत्यादिश्रुतिषु क्षरास्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते इत्यादिस्मृतिषु च ब्रह्मत्वस्याक्षरशब्दवाच्यत्वस्य च जीवे द्योतनात् तस्यैव स्वज्ञानाय स्वस्योपासनमेव युक्तमित्याशङ्कायामधिकरणान्तरेणाह - || २१६ || अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् || ३५ || स्वात्मनो जीवस्य अन्तरा हृदयकमलमध्ये अवस्थितः परमात्मा शिवो व्यवस्थः कुतः भूतग्रामवत् भूतग्रामवाक्यवदित्यर्थः | एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा इत्यादिश्रुतिषु ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || इत्यादिस्मृतिषु च सकलभूतहृदयान्तर्वतित्वस्य शिवे परब्रह्मणि व्यपदेशात्तदनुसारेण यत्साक्षादपरोक्षाद्ब्रह्मेति प्रश्नद्वयोऽपि उपास्योपासकयोरन्त्ये ऐक्यन्यायात् जीवात्मपरमात्मानोरंशांशिभावेन परमात्मनस्सकलभूतान्तर्यामित्वमुच्यते |
SK
ननु जीवहृदयान्तर्वर्तित्वं जीवस्यैअ समुचितम् | अयमात्मा ब्रह्म इत्यादिषु जीवाभिन्नत्वेन ब्रह्मोपदिश्यत इति चेन्न - स्वान्तर्यामित्वस्य स्वस्मिन्नसम्भवात् | तथा चेत् एकोदेवस्सर्वभूतेषु मूढ इत्यादिश्रुतिस्मृतिषु सर्वजीवान्तर्यामित्वव्यपदेशकपरमात्मविषयकवाक्यानां अप्रमाणत्वप्रसङ्गो दुर्निवारः | ब्रह्मसाक्षात्कारवतां उषस्ति-कहोलादीना मृषीणां सर्वलोकोपकारार्थं खलु प्रश्नः | तथाचैकेनैव प्रश्नेन सर्वलोकोपकारस्य सिद्धत्वात् प्रश्नद्वयं व्यर्थमिति प्रासङ्गिकशङ्कायामाह - anyathā draṣṭavyabhedaṃ vinā bhedānupapattiḥ praśnabhedānupapattirloke dṛṣṭa | tathā ca prakṛtepyupāsakasya draṣṭuḥ jīvasya draṣṭavyasyopāsyasya śivasya jīvabhedasya ca praśnadvaye'pi bhedābhedatvavyavasthāpanāt praśnadvayaṃ vyarthamiti cet || upadeśavadupapattiḥ || yathā śvetaketunā bhūya eva mā bhagavānvijñāpayatu iti navavāraṃ praśne kṛte śvetaketuṃ prati uddālakena tattvamasi iti navavāraṃ bhedābhedātmakasiddhāntadṛḍhīkaraṇārthamuttaraṃ dattam | evamatrāpyuṣarita- द्वासुपर्णा इत्यादिमन्त्रेषु शिव-जीवयोः घटपटवत्परस्परवैलक्षण्यावगमात् | अयमात्मा ब्रह्म इत्यादिश्रुतिषु जीवाभिन्नत्वेन ब्रह्मव्यपदेशात् सर्ववेदान्तविचारे परस्परात्यन्ताप्रामाण्यशङ्काद्योतनात् उपास्योपासकयोर्भेदाभेदस्सम्भवेदिति न्यायेन सर्ववेदान्तसिद्धद्वैताद्वैतसिद्धान्तसन्धानसामरस्यविज्ञानस्य दुर्विज्ञेयत्वाच्च तज्ज्ञानदार्ढ्यार्थं बहुप्रश्नानां बहुप्रतिवचनानाञ्च सफलत्वमिति सूत्रसूचितसूक्ष्मार्थः |
SK
बृहदारण्यके उपस्तिप्रश्ने एवमाम्नायते - यत्साक्षादपरोक्षं ब्रह्म य आत्मासर्वान्तरः तन्मे व्याचक्ष इति | तस्य प्रतिवचनं यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेन अपानिति स त आत्मा इत्यादि | अतुष्टेन तेन पुनः पृष्ट आह - न दृष्टेर्द्रष्टारं पश्येः न श्रुतेः श्रोतारं श्रुणुयाः न मतेर्मन्तारं भन्वीथाः न विज्ञाते विज्ञातारं विजानीथाः | एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तम् इति | तथा तदनन्तरं कहोलप्रश्ने चैवमाम्नायते - यदेव साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष इति | प्रतिवचनञ्च - योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति एवं हैतमात्मानं विदित्वा ब्रह्मणः पुर्त्रैषणायाश्च वित्तैषणायाश्च इत्यादि अतोऽन्यदार्तमित्यन्तम् | तत्र संशीय्यते किमनयोर्विद्याभेदोऽस्ति नेति | किं युक्तम् भेद इति | कुतः रूपभेदात् | प्रतिवचनभेदाद्रूपं भिद्यते | प्रश्नस्यैकरूप्येऽपि प्रतिवचनप्रकारो हि भेदेनोपलभ्यते | पूर्वत्र प्राणादीनां कर्ता सर्वान्तरात्मत्वेनोच्यते परत्र अशनाया पिपासादिरहितः | अतः पूर्वत्र प्राणितद्देहेन्द्रियमनःप्राणव्यतिरिक्तः प्रत्यगात्मोच्यते | परत्र - तदतिरिक्तोऽशनाया पिपासादिरहितः परमात्मा | अतो रूपं भिद्यते भूतग्रामवतश्च प्रत्यगात्मनस्तस्य भूतग्रामस्य सर्वस्यान्तरात्मत्वेन सर्वान्तरत्वमप्युपपन्नम् |
SK
यद्यपि प्रत्यगात्मनः सर्वान्तरत्वं भूतग्राममात्रापेक्षत्वेनापेक्षितम् तथापि तदेव ग्राह्यम् | अन्यथा मुख्यान्तरात्मपरिग्रहलोभात् परमात्मस्वीकारे प्रतिवचनभेदो नोपपद्यते | प्रतिवचनं हि सर्वत्र प्रत्यगात्मविषयं परमात्मनः प्राणितृत्वाऽप्राणितृत्वाद्यसम्भवात् | परञ्च परमात्मविषयम् अशनायाद्यतीतत्वात् तदिदमाशङ्क्यते - अन्तराभूतग्रामवदिति | अन्तरा सर्वान्तरत्वेन प्रथमप्रतिवचनं भूतग्रामवत् स्वात्मनः भूतग्राभवान् तदन्तरः स्वात्मा प्रत्यगात्मा सर्वान्तर इत्युच्यते | अन्यथा यः प्राणेन प्राणिति योऽशनाया पिपासाद्यतीतः इति प्रतिवचनभेदानुपपत्तिरिति चेदत्रोत्तरं नेति - न विद्याभेद इत्यर्थः उभयत्रपरविषयत्वात् प्रश्नप्रतिवचनयोः | तथा हि - यत्साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरः इति प्रश्नस्तावत् परमात्मविषय एव | ब्रह्मशब्दस्य परमात्मसाधारणत्वेऽपि प्रत्यगात्मन्यपि कदाचिदुपचरितप्रयोगदर्शनात् तद्व्यावृत्या परमात्मप्रतिपत्यर्थं यत्साक्षात् ब्रह्मेति विशेषणं क्रियते | अपरोक्षत्वमपि सर्वदेह (शः ) सर्वकालसम्बन्धित्वम् | सत्यं ज्ञानमनन्तं ब्रह्म इत्यनन्तत्वेनावगतस्य परमात्मन एवोपपद्यते | सर्वान्तरत्वमपि यो रुद्रोऽग्नौ यो अप्सु य ओषधीषु यो रुद्रो इति तैत्तिरीये | तथा अथर्वशिरसि - अहमेकः प्रथममासं वर्तामि च भविष्यामि च | नान्यः कश्चिन्मत्तो व्यतिरिक्तः | सोऽन्तरादन्तरं प्राविशत् इति | काण्वशाखायां यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः इत्यारभ्य - य आत्मनि तिष्ठन् आत्मनोऽन्तरः इति सर्वान्तर्यामिणः परशिवस्यैव सम्भवति | प्रतिवचनमपि तथैव परमात्मविषयम् | यः प्राणेन प्राणिति इति निरुपाधिकं प्राणनस्य कर्तृत्वं परमात्मन एव प्रत्यगात्मनः सुषुप्तौ प्राणनं प्रति कर्तृत्वाभावात् | एवमजानतोषस्तिना प्राणनकर्तृत्वमात्रमुक्त. इति मन्वानेन प्रत्यगात्मनस्साधारण्यं प्रतिवचनस्य
SK
मत्वा अतुष्टेन पुनः पृष्टस्तं प्रति प्रत्यगात्मनो व्यावृत्तं निरुपाधिकत्वेन प्राणनस्य कर्तारं परमात्मानमाह - न दृष्टेर्द्रष्टारं पश्येः इत्यादिना | इन्द्रियाधीनानां दर्शन-श्रवण-मनन-विज्ञानानां कर्तारं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्तमिति न मन्वीथाः | तस्य सुषुप्तिमूर्छादौ प्राणनादेरकर्तृत्वात् | को ह्येवान्यात्कः प्राण्यात् - य एष आकाश आनन्दो न स्यात् इति सर्वप्राणनहेतुत्वं हि परमात्मन एव अन्यत्र श्रुतम् - अतः पूर्वप्रश्नप्रतिवचने परमात्मविषयेः एवमुत्तरे अपि अशनायाद्यतीतत्वस्य परमात्मासाधारणत्वात् उभयत्र अतोऽन्यदार्त मित्युपसंहारश्चैकरूपः | प्रश्नप्रतिवचनावृत्तिस्तु कृत्स्नप्राणिप्राणनहेतोश्शिवस्य परब्रह्मणः अशनायाद्यतीतत्वप्रतिपादनाय | तत्र दृष्टान्तमाह - || उपदेशवदिति || यथा सद्विद्यायां उत तमादेशमप्राक्षीः इति प्रक्रान्ते सदुपदेशे भगवांस्त्वेवमेतद्ब्रवीतु इति भूय एष मा भगवान्विज्ञापयतु इति प्रश्नस्य स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मातत्त्वमसि श्वेतकेतो इत् प्रतिवचनस्य च भूयो भूयः आवृत्तिस्सतो ब्रह्मणस्तत्तन्माहात्म्यविशेषप्रतिपादनाय शिष्यस्य सर्ववेदान्तसिद्धद्वैताऽद्वैतविज्ञानदृढीकरणाय च श्रूयते | तद्वदत्र एकस्यैव सर्वभूतान्तरस्य शिवस्य परब्रह्मणः सर्वप्राणिप्राणनहेतुत्वाशयनाद्यतीतत्त्वव्यवस्थापनेन स्वरूपैक्याद्विद्यैक्यम् | अथ स्याद्यद्यप्युभे प्रश्नप्रतिवचने परशिवब्रह्मविषये तथापि विद्याभेदो युक्तः एकत्र सर्वप्राणिप्राणनहेतुत्वेनोपास्यत्वमितरत्र अनशनाद्यतीतत्वेन उपस्यगुणभेदेन रूपभेदात् प्रष्ट्टभेदाच्च | पूर्वत्र ह्युवस्तिः प्रष्टा उत्तरत्र कहोल इत्याशङ्क्य तत्राह - || २१६ || व्यतिहारो विशिंषन्ति हीतरवत् || ३६ ||
SK
नात्र विद्याभेदः प्रश्नप्रतिवचनाभ्यां एकरूपार्थविषयाभ्यां एकेन च विधिपदेन एकवाक्यत्वप्रतीतेः | प्रश्नद्वयं तावत् सर्वान्तरात्मत्वविशिष्टपरशिवब्रह्मविषयम् | द्वितीयप्रश्ने यदेव साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरः इत्येवाकारश्च पूर्वत्रोवक्तेन पृष्टगुणविशिष्टब्रह्मविषयत्वं कहोलप्रश्नस्यावधारयति | प्रतिवचनञ्चोभयत्र स त आत्मा सर्वान्तरः इति सर्वान्तरात्मत्वविशिष्टपरशिवब्रह्मविषयमेकरूपमेव | विधिप्रत्ययश्चोत्तरत्रैव दृश्यते | तस्माद्ब्राह्मणः पाण्डित्वं निर्विद्य बाल्येन तिष्ठासेत् इति | एवं सर्वान्तरात्मत्वविशिष्टपरशिवब्रह्मैक्यविषयत्वे द्वयोरवधृते सति एकस्मिन्नेव सर्वान्तरात्मत्वविशिष्टे परशिवब्रह्मणि उपास्ये उषस्ति - कहोलयओः इतरेतरबुद्धिव्यतिहारः कर्तव्यः | उषस्तस्य या सर्वान्तरात्मनो ब्रह्मणः सर्वप्राणिप्राणनहेतुत्वविषया बुद्धिः सा कहोलेनापि प्रष्ट्रा कार्या | या च कहोलस्य तस्यैव ब्रह्मणोऽशनायाद्यतीतत्वविषया बुद्धिः सा उषस्तिनापि कार्या | एवं व्यतिहारे कृते उभाभ्यां सर्वान्तरस्य परशिवब्रह्मणो जीवव्यावृत्तिरवगता भवति | एनं सर्वान्तरात्मानं प्रत्यगात्मनो व्यावृत्तमवगमयितुं सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन विशिंषन्ति हि याज्ञवल्क्यस्य प्रतिवचनानि | अतः परशिवब्रह्मणस्सर्वान्तरात्मत्वमेवोपास्यगुणः | प्राणनहेतुत्वादयस्तु तस्योपपादकाः नोपास्याः |
SK
ननु उपास्यगुणः सर्वान्तरात्मत्वमेव चेत् प्राणनहेतुत्वस्य अशनायाद्यतीतत्वस्य च प्रष्ट्रोः व्यतिहृत्यानुसन्धानं किमर्थं तदुच्यते - सर्वप्राणिप्राणनहेतुत्वेन सर्वान्तरात्मनि जीवाद्व्यावृत्ते ब्रह्मणि उपस्तिनावधृते सति कहोलेन जीवस्य सर्वात्मना असम्भावितेन स्वभावविशेषेण सर्वान्तरात्मा जीवव्यावृत्तोऽनुसन्धेयः इति कृत्वा पुनः प्रश्नः कृतः | याज्ञवल्क्योऽपि तदभिप्रायमभिज्ञाय प्रत्यगात्मनोऽसम्भावितमशनायादिप्रत्यनीकत्वमुक्तवान् | अतश्चोपास्यस्य व्यावृत्तिप्रतीतिसिध्यर्थं उभाभ्यां परस्परबुद्धिव्यतिहारः कर्तव्यः | इतरवत् यथेतरत्र सद्विद्यायां भूयो भूयः प्रश्नैः प्रतिवचनैश्च तदेव सद्ब्रह्म व्यवच्छिद्यते न पुनः पूर्वप्रतिपन्नात् गुणात् गुणान्तरविशिष्टतयोपास्यं प्रतिपाद्यते तद्वत् | तत्रापि प्रश्नप्रतिवचनभेदे सति कथमैक्यं अवगम्यत इति चेत्तत्राह - || २१७ || सैव हि सत्यादयः || ३७ || || सैव हि || सच्छब्दाभिहिता परमकारणभूता परा दैवतैव सेयं देवतैक्षत तेजः परस्यां देवतायां इति प्रकृता यथा सौम्य मधु मधुकृतो निस्तिष्ठन्ति इत्यादिषु पर्ययेषु सर्वेषूपपाद्यते - यतः ऐतदात्म्यमिदं सर्व. तत्सत्यं स आत्मा इति प्रथमपर्यायोदिताः सत्यादयस्सर्वेषु पर्यायेषूपपाद्योपसंह्रियन्ते | केचित्तु - व्यतिहारो विशिंषन्ति हीतरवत् सैव हि सत्यादयः इति सूत्रद्वयं अधिकरणद्वयमिति वर्णयन्ति |
SK
तत्र पूर्वेण त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहम् इति वाक्ये जीवपरमयोर्व्यतिहारानुसन्धानं प्रतिपाद्यत इत्युच्यते - इत्याहुः | तत् सर्वं खल्विदं ब्रह्म ऐतदात्म्यमिदं सर्वत्र तत्त्वमसि इत्यवगतसर्वात्मभावविषयत्वादस्य वाक्यस्य नात्र प्रतिपादनीयमपूर्वमस्तीत्यनादरणीयम् | तत्तु वक्ष्यते आत्मेति तूपगच्छन्ति ग्राहयन्ति च इति | न च सर्वात्मत्वानुसन्धानातिरेकेण परस्मिन् ब्रह्मणि जीवत्वानुसन्धानं जीवे च परब्रह्मानुसन्धायं तथ्यं सम्भवति | उत्तरेण च सूत्रेण स यो हैतन्महत् यक्षं प्रथमजं वेद सत्यं ब्रह्म इत्यादिवाक्यप्रतिपादितस्य सत्योपासनस्य तद्यत् सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् इत्यादिवाक्यप्रतिपादितोपासनस्य चैक्यं प्रतिपाद्यत इति | तदप्ययुक्तम् | उत्तरवाक्ये अक्ष्यादित्यस्थानभेदेन विद्याभेदस्य पूर्वमेव न वा विशेषात् इत्यनेन प्रतिपादितत्वात् | न च द्वयोरनयोर्व्याहृत्यादिशरीरकत्वेन रूपवतोः हन्ति पाप्मानं जहाति च य एवं वेद इति पृथक् संयोगचोदनावतोर्द्वयोरुपासनयो स यो हैतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् इति संयोगरूपादिमत्तया निरपेक्षेण पूर्वेणैकेनोपासनेनाभेदः सम्भवति | न च हन्ति वाप्मानं जहाति इति गुणफलाधिकारत्वम् प्रमाणाभावात् | पूर्वेणकविद्यात्वं प्रमाणमिति चेत् - न इतरेतराश्रयत्वात् | एकविद्यात्वे निश्चिते सति पूर्वफलस्यैव प्रधानफलत्त्रेनोत्तरयोः फलयोर्गुणफलत्वं तयोर्गुणफलत्वे निश्चिते सति संयोगभेदाभावात् पूर्वेण विद्यैक्यमितीतरेतराश्रयत्वमिति | एवमादिभिर्यथोक्तप्रकारमेव सूत्रद्वयमिति निश्चीयते | कामाद्यधिकरणम् || १६ || परमशिवस्यैव प्रणवायतनत्वादिसमर्थनम्
SK
ननु ओमित्येतदक्षरमिदं सर्वम् इत्यादिना माण्डूक्ये प्रनवस्यैवाक्षरत्वं सर्वात्मकत्वं सर्वातीतत्वं तथा तैत्तिरीये दहरं विपाप्मं इत्यारभ्य दहरविद्यां प्रपञ्चयित्वा यो वेदादौ स्वरः प्रोक्ताः इत्यादिना प्रणवोपास्यत्वं प्रदेशान्तरेऽपि ओमित्येकाक्षरं ब्रह्म ॐ तद्ब्रह्म ॐ तद्वायुः इत्यादिना प्रणवस्यैव परत्वव्यवस्थापनात् वेदवेदान्तोपक्रमोपसंहारे हरिः ॐ इति प्रयोगदर्शनाच्च नारायणस्यैव प्रणवात्मकत्वं अर्थासिद्धम् | अतो दहरशाण्डिल्यादिसर्वविद्योपास्यत्वं तस्यैव समुचितमित्याशङ्कायां अधिकरणान्तरेणाह - || २१८ || कामादीतरत्र तत्र चायतनादिभ्यः || ३८ || माण्डूक्ये श्रूयते - ओमित्येकाक्षरं ब्रह्म तस्योपव्यख्यानम् | भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव यच्चान्यत त्रिकालातीतं तदप्योङ्कार एव सर्वं ह्येतद्ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुक् वैश्वानरः प्रथमः पादः | स्वप्नावस्थानोऽन्तःप्रज्ञः प्रविविक्तभुक् तैजसो द्वितीयः पादः | सुषुप्तिस्थान एकीभूतः प्रज्ञातघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः | एष सर्वेश्वर एष सर्वज्ञः एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां | यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ॐ तद्ब्रह्म इत्यादि तैत्तिरीयके च श्रूयते | तत्र संशयः - किमोङ्कारविधायामुपास्यः ओङ्कारो वा तदधिष्ठानपरशिवो वा तदात्मकनारायणो वा इति | किं युक्तम् विद्याभेद इति | कुतः रूपभेदात्
SK
ओमित्येतदरक्षमिदं सर्वम् इत्युपक्रम्य प्रणवस्यैव अयमात्मा ब्रह्म सोऽयमात्मा इत्यादिना सर्वात्मकत्वस्य अपरोक्षब्रह्मत्वस्य च व्यवस्थापनात् | अन्यत्र च ओमित्येकाक्षरं ब्रह्म ॐ तद्ब्रह्म ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यं ॐ तत्सर्वं इत्यादिना तैत्तिरीये तस्यैतद्दर्शनात् ॐ ब्रह्म देवानां प्रथमं सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह इति मुण्डके ॐ अथ हैनं पिप्पलाद आङ्गीरसः सनत्कुमारश्चाथर्वणमुवाच - भगवन् किमादौ प्रयुक्तं ध्यानं ध्यायेत् चत्वारो वेदाश्च तप्यं किं तद्ध्यानम् को वा ध्याता कश्च ध्येयः इति | स एभ्योऽथर्वणः प्रत्युवाच - ओमित्येतदक्षरमादौ प्रयुक्तम् | ध्यानं ध्यातव्यमित्येतदक्षरं परं ब्रह्म | अस्य पादाश्चतुष्पादिकमक्षरं परं ब्रह्मा इति | अथर्वणशिखोपनिषदि च तथा तस्यैव सर्वाध्कत्वनिर्देशाच्च नादरूप प्रणवध्यानधारणाद्युपासनम् उत हरिः ओम् इति दर्शनात् प्रणवात्मकविष्णुध्यानं वा मुमुक्षूणा. विधेयम् इति प्राप्ते प्रचक्ष्महे - || कामादितरत्रेति || इतरत्र - तैत्तिरीयादिषु श्रूयमाणानां दहरादिविद्याविधायकानां परमेश्वरधर्माणा एकत्वेन विद्यैक्यमुपपन्नम् | कुतः आवतनादिभ्यः || प्रणवायतनस्य उपास्यस्य परमशिव सर्वमयत्व हृत्पुण्डरीकस्थानत्वाद्यनन्यसाधारणलिङ्गानां सर्वासु शाखासु तुल्यत्वादित्यर्थः | तथा च सत्यकामस्सत्वसङ्कल्पस्सोऽन्वेपितव्यस्स विजिज्ञासितव्यः इत्याद्येकैकशाखायां श्रूयमाणानां गुणाना सत्यकामत्वादीनां सर्वासु शाखात्वप्युपसंहारः कर्तव्यः | तत्रैव माण्डूक्ये नान्तः प्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानधनं न प्रज्ञं नाप्रज्ञं अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्य- ātmā sa vijñeya so'yamātmā'dhyakṣaramoṃkāro'dhimātram pādā mātrā mātrāśca pādāḥ akāra-ukāra-makāraśceti jāgaritasthāno vaiśvānaroṅkāraḥ prathamā mātrā | āpterādimatvādāpnotīha
SK
प्द् १८९, प्. ३२४) वै सर्वान् कामान् आदिश्च भवति य एवं वेद स्वप्नस्थानस्तैजस-उकारो द्वितीयां मात्रा | उत्कर्षादुभयत्वात् | या उत्कर्षतीह वै ज्ञानसन्ततिं समानश्च भवति नास्या ब्रह्मवित्कुले भवति य एवं वेद सुषुप्तिस्थानः प्राज्ञो मकारस्तृतीया मात्रा | मितेरषीतेर्वा मिनोति ह वा इदं सर्वमषीतिश्च भवति य एवं वेद अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमश्शिवोऽद्वैत एवमोङ्कार संविशत्यात्मना-आत्मैवत्मानं य एवं वेद इत्यन्तेन प्रणवात्मकत्वस्य शिवस्यैव निर्देशात् सर्वात्मकत्वादिसर्वेषां धर्माणां नेतरस्योपपत्तिं | तथेतरत्र च तैत्तिरीये - ईशानः सर्वविद्यानां शिवोम् इत्यनेन प्रणवात्मकत्वं शिवस्यैव प्रदर्शितम् | दहरं विपापं तदुपासितव्यम् इति दहरविद्यां निरूप्य तत्रोवास्यः कः इत्याकाङ्क्षायां यो वेदादौ स्वरः प्रोक्तः यः परस्स महेश्वरः | इत्यादि-प्रणवप्रकृतिकमूर्तित्रयातीतमहेश्वरशब्दवाच्यकृष्णपिङ्गलत्व- atharvaṇaśikhopasaṃhāre brahmaviṣṇurudrendrāste kāraṇantu dhyeyaḥ sarvaiśvaraśśambhurākāśamadhye dhruvaṃ tattvādikaṃ kṣaṇamekakratuśatasyāpi catussaptatyā yatphalaṃ tadāpnoti kṛtyamoṅkāragatiṃ ca sarvajñānayogajñānānāṃ yatphalamoṅkāro veda para īśo vā śiva eko dhyeyaśśivaṅkarassarvamanyatparityajya ityantena praṇavātmakatvaṃ śivasyaiva nirdiśya mumukṣūṇāṃ śivetaradhyānanirākaraṇamuktam | hariḥ oṃ ityatra viṣṇoḥ praṇavātmakatvamiti yat tanna tadvidhāyakaprātyakṣikaśrutyadarśanāt | śakti-śivayoḥ viṣṇu-īśvarayoḥ tādātmya-sāmarasya pratipādanam kiñca - puruṣo vai rudraḥ tatpuruṣāya vidmahe ityādiśrutiṣu śivasya puruṣatvaṃ vāsudevaḥ parā prakṛtiḥ iti kṛṣṇagītāyāṃ viṣṇoḥ prakṛtitva prasiddham prakṛtistvaṃ pumān rudraḥ iti īśvaragītāyāṃ tathā spaṣṭamupadiṣṭam | śaṅkaraśśūlapāṇiśca khaṭvāṅgī viṣṇuvallabhaḥ iti śivakeśavasambhūta. kalaye kālabhairavaṃ iti skānda laiṅga kūrmādipurāṇeṣu tathā nirdiṣṭam |
SK
शिवस्य शक्तिर्विनियोगकाले चतुर्विधाभूच्छिवसत्प्रसादात् | भोगे भवानी पुरुषेषु विष्णुः क्रोधे च काली समरे च दुर्गां || इति सामशाखायामपि दर्शितम् | तस्मात् हरिः ॐ इत्यत्र हरिरूपमायाशक्तिविशिष्टत्वमोङ्कारात्मकशिवस्य व्यपदिशति | शक्ति- tādātmyasāmarasyamuktam | ataḥ namo rudrāya viṣṇave mṛtyurbhe pāhi ityādiśrutiṣu śivāya viṣṇurūpāya śivarūpāya viṣṇave ityādismṛtiṣu ca candra- उत छान्दोग्ये अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म | दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम् इत्यादिना वाजसनेयके च स वा एष अहानज आत्मा योऽयं विज्ञानमयः | प्राणेषु य एषोन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशानः इत्यादिना कैवल्ये च - हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्यमध्ये विशदं विशोकम् | अचिन्त्यमव्यक्तमनन्तबोधं शिवं प्रशान्तममृतं ब्रह्मयोनिम् || तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् || इत्यादिना सत्यकामत्वादीनां आत्मधर्मत्वेन नीलकण्ठत्वादीनां देहधर्मत्वेन च भेदावगमेऽपि उपास्यवस्त्वेकत्वेन विध्यैक्यम् | छान्दोग्यगताः अपहतपाप्मत्वादयः वाजसनेयशाखागताः वशित्वादयः कैवल्यगतास्सच्चिदानन्दादयश्च सर्वे गुणाः परशिवब्रह्मण्येवावगम्यन्ते | अतस्तदुपासकानां अभयं वै ब्रह्म भवति इति परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्यादिश्रुतिषु परशिवब्रह्मप्राप्तिरूपफलैकत्वेन च विद्यैक्यमनिवार्यम् |
SK
अथ स्यात् - यदुक्तं वाजसनेयके - वशित्वादिभिस्सह सत्यकामत्वादिसद्भावोऽवगम्यत इति तन्नोपपद्यते वशित्वादीनामेव परमार्थतस्तत्र सद्भावाभावात् | तदभावाच्च मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन मृत्योस्समृत्युमाप्नोति य इह नानेव पश्यति | एकधैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम् इति प्रकृतेन वाक्येन स वा एष नेति नेत्यात्मा इत्युत्तरेण चोपास्यस्य ब्रह्मणो निर्विशेषत्वप्रतीतिरवगम्यते | अतो वशित्वादयोऽपि स्थूलत्वाणुत्ववत् निषेध्या इति प्रतीयन्ते | अत एव छान्दोग्योऽपि सत्यकामत्वादयो न ब्रह्मणः पारमर्थिकगुणा उच्यन्ते | अतोऽपारमार्थिकत्वादेवं जातीव्यकानां गुणानां मोक्षार्येषूपासनेषु लोप इत्याशङ्क्य तत्राह - || २१९ || आदरादलोपः || ३९ ||
SK
ब्रह्मगुणत्वेन प्रमाणान्तराप्राप्तानां गुणानामेषां सत्यकामत्वादीनां तस्मिन् यदन्तः एव-आत्मा एष सर्वेश्वर एष भूताधिपतिरेषभूतपाल एष सेतुर्विधरणः शान्तं शिवमद्वैतं त्रिलोचनं नीलकण्ठं प्रशान्तं इत्यादिभिः नमो हिरण्यबाहवे हिरण्यवर्णाय नमो नीलग्रीवाय च शितिकण्ठाय च इति तैत्तिरीये च परब्रह्मणश्शिवस्य परमसत्त्वप्रधानत्वोमापतित्व-नीलकण्ठत्वादीनां वेदवेदान्तेष्वब्यासादलोप एव | तस्मात् पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इत्यादिना स्वाभाविकत्वेन अलुत्पशक्तिमत्वमभिहितम् | छान्दोग्ये तावत् तद्य-इहाऽऽत्मानमनुविद्यव्रजन्त्यैतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामाचारो भवति इति सत्यकामत्वादिगुणविशिष्टस्य ब्रह्मणो वेदनमभिधाय अथ य इह आत्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेष्वकामचारो भवति इति अत्रेदनन्दिना क्रियमाणा गुणाविष्टवेदनस्य आदरं दर्शयति | तथा वाजसनेमके - सर्वस्य वशी सर्वस्येशानः एष सर्वेश्वर एष भूताधिपतिरेष भूतपालः इति भूयोभूयश्शिवस्य परब्रह्मण ऐश्वर्योपदेशात् गुणेष्वादरः प्रतीयते | एवमन्यत्रापि | न च मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रं प्रतारकवदपारमार्थिकान् निरसनीयान् गुणान् प्रमाणान्तराप्रतिपन्नात् आदरेणोपदिश्य संसारचक्रपरिवर्तनेन पूर्वमेव वम्भ्रम्यमाणान् मुमुक्षून् भूयोऽपि भ्रमयितुमलम् | नेह नानास्ति किञ्चन एकधैवानुद्रष्टव्यम् इति तु सर्वस्य ब्रह्मकार्यत्वेन तदात्मकत्वोदेव तथानुसन्दर्शतं विधाय साब्रह्मकत्वेन पूर्वसिद्धनानात्वदर्शनं निषेधय्ति | अयमर्थः प्रागेव प्रपञ्चितः | स वा एष नेति नेत्यात्मा इत्यत्र च इतिशब्देन प्रमाणान्तरप्रतिपन्नं प्रपञ्चाकारं परामृश्य न तथाविधं ब्रह्म इति सर्वात्मभूतस्य परब्रह्मणः शिवस्य प्रपञ्चविलक्षणत्वं प्रतिपाद्यते |
SK
यो देवानां प्र्थमश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भं जनयामास पूर्वं स नो बुध्या शुभया संयुनक्तु || इति श्वेताश्वतरे विश्वाधिको रुद्रो महर्षिः इति तैत्तिरीयके च विश्वाधिकत्वं शिवस्यासाधारणं लक्षणं तदेव चानन्तरमुपपादयति | अग्राह्यो न गृह्यते अशीर्यो न हि शीर्यते असङ्गो न हि सज्जते अव्यथितो न व्यथते नरिष्यति इति प्रमाणान्तरग्राह्यविजातीयत्वात् प्रमाणान्तरेण न गृह्यते | विशरणीयविसजातीयत्वान्न विशीर्यते | एवमुत्तरत्रानुसन्धेयम् | छान्दोग्येऽपि नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमस्मिन् कामास्समाहिताः इति सर्वविजातीयत्व ब्रह्मणः प्रतिपाद्य तस्मिन् सत्यकामत्वादयो विधीयन्ते | नन्वेधमपि तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्वान् कामान् स यदि पितृलोककामो भवति इत्यादिना सत्यकामादिगुणविशिष्टवेदनस्य सांसारिकफलसम्बन्धश्रवणान्मुमुक्षोः ब्रह्मप्रेप्सोर्न सगुणं ब्रह्मोपास्यं परविद्याफलञ्च | परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इतीदमेव | अतस्सत्यकामादयो ब्रह्मप्रेप्सोर्नोपसंहार्या इत्याशङ्क्य तत्राह - सामरस्यमुक्ति-सारूप्यमुक्तिविवेकः || २२० || उपस्थितेऽतस्तद्वचनात् || ४० ||
SK
उपस्थितिः - उपस्थानम् ब्रह्मोपसम्पत्तिः | उपस्थिते - ब्रह्मोपसम्पन्ने सर्वविद्यविनिर्मुक्तेस्वेन रूपेणाभिनिष्पन्ने प्रत्यगात्मनि अत एव उपसम्पत्तेरेव हेतोः सायुज्यमुक्तौ तदात्मकत्वम् सारूप्यमुक्तौ शिवः सर्वेषु लोकेषु कामचार उच्यते | यथा नद्यः एव सम्प्रसादः स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति इति | तदेतच्चतुर्थे निपुणतरमुपपादयिष्यते | अतः सालोक्यादिमुक्तिषु सर्वेषु लोकेषु कामचारस्य मुक्तोपभोग्यफलत्वात् मुमुक्षोस्सयकामत्वादयो गुणा उपसंहार्याः यस्सर्वज्ञस्सर्ववित् इत्यादिबहुश्रुतिदर्शनात् | निष्कलं निष्क्रियं शान्तं इत्यादिश्रुतीनां सत्यज्ञानानन्दादिस्वरूपगुणधर्मिनिषेधो न व्यवह्रियते किन्तु जीववत् प्राकृतधर्मवैलक्षण्यगुणसम्पत्तिरुपपाद्यते | किञ्च - केचित् श्रुतीनां सृष्टिकालपरत्वं केचित् स्थितिविधायकत्वं केचिन्महिमाप्रकाशकत्वं केचित्संहारपरत्वं केचित्परिशेषपरत्वञ्चवर्णयन्ति | परिशेषशब्दार्थः परिशेषो नाम ब्रह्मणस्संहारानन्तरं पुनस्सृष्टिपर्यन्तं स्वशक्तिसंकोचत्वेन स्थितत्वात् तदवस्या परिशेष इत्युच्यते | तस्मान्निर्गुणश्रुतीनां सर्वासां तत्कालपरत्वमिति वेदितव्यम् | अत एव लोकयत्तु लीलाकैवल्यं इति सूत्रे परब्रह्मणश्शिवस्य स्वशक्तिप्राचुर्यतया सृष्ट्युन्मुखे लीलाश्रयत्वं संहारानन्तरं पुनः सृष्टिपर्यन्तं स्वेच्छया शक्तिसंङ्कोचत्वेन केवलत्वमुपदिष्टम् | अतस्सर्ववेदान्तमुख्यार्थवेदिभिः रेवणसिद्ध- śaktivikāsaparatvaṃ nirguṇaśrutīnāṃ śaktisaṃṅkocaviṣayaparatvamiti vyavasthā nirṇītā | hṛdayaṃ gārhapatyo manonvāhāryapacana ityādiśrutau prāṇāgnihotrātmakavaiśvānaropāsanamabhidhāya tadyadbhuktṃ prathamamāgacchettaddhomīyaṃ iti bhojanārthapakvānnasya
SK
प्राणाग्निहोत्रमात्रसाधकविध्युपदेशात् अतो तद्विद्यायाः परशिवप्राप्तिसाधकत्वं न सम्भवतीति चेन्न | अङ्गुष्ठमात्रः पुरुषो अङ्गुष्ठञ्च समाश्रितः ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् अहमन्नमहमन्नमहमन्नं मन्नादः || प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः इत्यादिश्रुतिषु जाठराग्न्यवच्छिन्नतया शिवस्येहान्नभोत्कृत्वनिर्देशात् एतद्धर्ममभिधाय जठरावच्छिन्नप्राणलिङ्गस्य विध्युक्तेन मार्गेण तत्क्रियावतां पुंसां परम्परया शिवप्राप्तिसाधनमुपदिश्यते | तस्माद्विद्यैक्यं युक्तम् | तन्निर्धारणानियमाधिकरणम् || १७ || परशिवे भययुक्तमुक्तित्रयविलक्षणसायुज्यमुक्तिप्रार्थनाविधिः ननु सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्यत्र विपश्चिता सर्वज्ञेन ब्रह्मणा सह सर्वानपि कामान् मुक्तः सह प्राप्नोति | सहशब्दो ब्रह्मानन्दभोगस्य च यौगपद्याभिप्रायः | तस्मात् मुक्तानां सारूप्यमुक्तिरेव फलमिति निश्चीयते ब्रह्मणस्सायुज्यṁ सलोकतामाप्नोति इत्युत्तरत्र दर्शनात् | एवं शिवजीवैक्यविधायकतत्त्वमस्यादि श्रुतीनां सर्वासां तात्पर्यम् | अतो लिङ्गशरीरविलयपूर्वकनिरवयवशिवत्वप्राप्तिर्न घटत इत्याशङ्कायामधिकरणान्तरेणाह - || २२१ || तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् || ४१ || || तन्निर्धारणानियमः || तन्निर्धारणा दहरशाण्डिल्यादिविद्योपासकानां भक्तानां सालोक्यादित्रिविधमुक्तिरेवेति व्यवस्था तदनियमः श्रुति-स्मृत्यादिषु तन्नियमाभावो दृश्यते | कुतः || तद्दृष्टेः || गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु | कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ||
SK
इत्यादिश्रुतिनिष्ठलिङ्गशरीरविलयपूर्वकशिवतत्वप्राप्तिविधायकदृष्टेः पृथग्ध्यप्रतिबन्धः फलम् | पृथक्सूक्ष्मशरीरावच्छिन्न सालोक्य- rājājñāvat bhayapratibandhābhāvaḥ trividhamuktimuktivan śivājñābhayarāhityaṃ phalaṃ | jīvabhāvanivṛttipūrvakaśivatvaprāptirūpaniratiśayānandakaivalyamuktiḥ phalaṃ śivaikaniṣṭhānāṃ jīvanmuktānāṃ sidhyati | trividhamuktiviṣṭānāṃ reṇuka-dāruka-nandīśvarādīnāṃ jaya-vijaya śivaśarmādīnāñca śaiva-vaiṣṇavapurāṇeṣu kadāciddhetutayā martyalokabhavatvamabhidhīyate | abhayaṃ vai janaka prāpno'ṣi na vibheti kutaścana ityādiśrutiṣu paramabhakti varamajñānaviśiṣṭānāṃ kaivalyapadakāṅkṣijīvanmuktānāṃ nirbhayatvamācakṣyate | tasmādbhayayuktamuktitrayavilakṣaṇasāyujyamuktireva śivaṃ prati prārthanīyeti sūtrasūcitasūkṣmārthaḥ | taittirīyake śrūyate brahmavidāpnoti paraṃ ityādinā | tatra brahmavidāpno'ti ityupakrame brahmaṇo vedyatvasya prāpyatvasya ca jīvasya veditṛtvasya prāpttṛtvasya ca uktatvena jīvabrahmaṇoratra bhedohyabhedo bhedā'bheda iti sandihyate | so'śnute sarvān kāmān saha brahmaṇā ityatra sahapadaṃ abhedaṃ na sahate | na hi devadatto yajñadattena saha bhuṅkte ityatra advaitaṃ pratīyata iti | na ca brahmaṇā brahmasvarūpeṇa saha yugapadityartha iti vācyam | saheti yugapadityartha ityasya kutrāpyaprasiddhatvāt skānda-laiṅgādiṣu jīvabrahmaṇossvābhāvikabhedanivṛttipūrvakaśivatatvaprāpteḥ prasiddhatvāditi cenna tadvacanānāṃ prakṣiptatvāt sarvavādibhiḥ pramāṇatvenābhyupagatatvācca | tasmādvā etasmādvijñānamayāt anyo'ntara ātmānandamayaḥ ityatrāpi dvaitameva dyotitam | yo'yaṃ vijñānamayaḥ prāṇeṣvantarjyotiḥ puruṣaḥ ityādiśrutiṣu vijñānamayo jīva ityadvaitavādibhirapi vyākhyātatvāt ānandamayo'bhyāsāt iti sūtreṇānandamayo brahmeti vyavasthādarśanācca rasaṁ hyevāyaṃ labdhvānandī bhavati ityādiṣu ghaṇṭāghoṣo bhedavāhaḥ |
SK
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति इत्यत्र तु शब्दो वाक्यालङ्कारे | किमिव हि मधुराणां मण्डनंन् नाकृतीनां इत्यादिकाव्येष्वप्यव्ययानां वाक्यालङ्कारत्वदर्शनात् दरमल्पं दहर- daharaśabdasyālpārthakatvāt | eṣa jīva asmin brahmaṇi viṣaye yadā daramalpaṃ antaraṃ bhedaṃ paramātmano jīvasya ca alpabhedaṃ kiṃcidbhedaṃ yadi kurute tadā tasya bhayaṃ bhavati | paramātmā svāmī jīvastu bhṛtya iti sadā mahābhedaṃ yaḥ kurute tasya na bhayaṃ bhavatīti darśitam | etamānandamayamātmānamupasaṅkrāmati ityupasaṃhāre'pi brahma-jīvayoḥ prāpya prāptavyatvena bhidā nirdiṣṭā | prajñānaṃ brahma etena prajñānātmanā asmāllokādutkramya amuṣmin svarge loke sarvān kāmānāptvā amṛtassamabhavat ityādinigamāntagirāpi so'śnute sarvān ityādivākyena ca bheda eva pracakṣyate | tatsatyaṃ sa ātmā tattvamasi śvetaketo iti sāmavedānte bheda eva ghoṣyate | jahallakṣaṇayā jīva-brahmaṇoḥ bho mantrin rājā tvam ityatra rājapadena rājapriyatvamiva tattvamasītyatra tatpadena paramaśivapriyatvaṃ sūcyata ityasyaiva nyāyyatvāt dvāsuparṇā ityādituryavedaśirogirāpi bhedaḥ spaṣṭaṃ pratipāditaḥ | nanu tayoranyaḥ pippalaṃ kṣādvatti iti | satyam anaśnannanyo abhicākaśīti jñastadetatsatyaṃ yena svapnān paśyati yo'yaṃ śārīra upadraṣṭā sa kṣetrajñassaha vā evaṃ vidi kiñcana raja ādhvaṃsata iti | paiṅgirahasya brahmaṇavākyena antaḥkaraṇādātmā bhinnaḥ iti śrutyā pratyāyyate | kiñca - jīvabrahmaṇoḥ pāramārthikabhedamaṅgīkṛtya tadvadabhedasvīkāre sati abhedasya nivṛtyasambhavāt bheda eva sa sarvavedāntatātparyamiti prāpte pracakṣmahe -
SK
द्वासुपर्णा इति भेदश्रुतिप्राधान्येन तत्त्वमस्यादि भेदाऽभेदप्रतिपादकश्रुतीनां जहल्लक्षणानुसारेण प्रभुमन्त्रिन्यायवत् तत्तुल्यत्वमात्रस्वीकारे श्रुतेः क्लिष्टार्थाऽसहिष्णुत्वात् मुख्यार्थव्यतिरेके मानाभावात् ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतिशतेषु लिङ्गशरीरपरित्यगेन नदीसमुद्रवत् जीवब्रह्मणोरेकत्वस्यैव स्पष्टमुपदिष्टत्वात् श्रुत्यैकदेशः मुख्यप्रामाण्ये वैदिकेतरत्वप्रसङ्गाच्च अत्र ब्रह्मविदाप्नोति इत्युपक्रमे ब्रह्मज्ञानिनः ब्रह्मप्राप्त्युपदेशात् नदी- so'śnute sarvān kāmān saha brahmaṇā vipaścitā iti vākyaṃ jīvanmuktviṣayam | satyajñānānandātmakaṃ brahma yaḥ bhaktaḥ śivayogamārgeṇa guhāyāṃ daharapuṇḍarīke nihitaṃ(sthitaṃ) veda sa bhaktaḥ parame vyoman taddaharapuṇḍarīkāvacchinnacidākāśe brahmaṇā saha parañjyotirmayaśivena saha prārabdhapratibhāsanāśaparyantaṃ ihaiva sarvān kāmān aśnute anantaraṃ videhamuktau liṅgaśarīreṇa saha tasmin paramaśive vilīno bhavatīti niścitārthaḥ | no cet - yāvanna vimokṣye atha sampatsye na tasya prāṇā utkrāmante tatraiva samavalīyante | yadā sarve pramucyante kāmā ye'sya hṛdi sthitāḥ | atha martyo'mṛto bhavatyatra brahma samaśnute || ityādividehamuktividhāyakasarvaśrutivirodho durnivāraḥ || viśiṣṭādvaitamatantu - muktopasṛṣyavyapadeśāt asminnasya ca tadyogaṃ śāsti ityādiṣu bahudhā nirastatvādatra saṅkṣiptam | ato vidyaikyamavirodham | pradānādhikaraṇam || 18 || paraśive brahmaṇi īṣaṇātrayatyāgapūrvaka-sarvasamarpaṇayukta- ब्रह्मविदाप्नोति परं इति वाक्यस्य सायुज्यमुक्तिविषयत्वं सोऽश्नुते सर्वान् कामान् सह इति वाक्यस्य जीवन्मुक्तिविधायकत्वं त्रिविधमुक्तिपरत्वं वा स्यात् तथापि केषां सायुज्यं केषां सालोक्यादित्रिविधमुक्तिः इत्याशङ्क्य तत्र अधिकरणान्तरमाह - || २२२ || प्रदानवदेव तदुक्तम् || ४२ ||
SK
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः | परिमुच्यन्ति सर्वे || इति तैत्तिरीयशाखायां श्रूयते | कामासक्तब्रह्मविद्योपासकानां जीवभावनिवृत्तिपूर्वकशिवसायुज्यफलं उत निष्कामानामेवेत्यत्र विषयः | दहरविद्यायां तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सर्वान् कामान् इत्यादिषु ब्रह्मज्ञानिनामपि कामव्यपदेशात् कामाभावे ब्रह्मविद्यायाः प्रयोजनाभावात् इहलोकभोगस्याऽपि कामस्यैव प्रधानत्वात् यदेव ज्ञानफलं तदेव कर्मफलम् इत्यादिश्रुतिषु मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्यादिस्मृतिषु च बुद्धेरेव सर्वफल मूलत्वावगमात् उदासीनस्य अभ्युदयश्रेयःफलादर्शनाच्च कामयुक्तानामेव चतुर्विधमुक्तिः सम्भवतीति प्राप्तेऽभिधीयते - || प्रदानवदेव तदुक्तम् || इति | प्रकर्षेण दानं त्यागः प्रदानं तद्वत् शरीरेन्द्रियादिविशिष्टस्सन् तदभिमानत्यागवत् शरीरेन्द्रियादिकं तदङ्गभूत दारादीषणात्रयञ्च परिहृत्य स्वाभिमाननिवर्तकत्वेन शिवोत्पन्नमेतत्सर्वं शिवे स्मर्प्य निराभारभावेन पारतन्त्र्यबुध्या शरीरेन्द्रियगतप्रारब्धानुभवो भोक्तव्यः | एवं तदुक्तम् - यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् | जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत् || लभते नासया यद्वत् तत्तदात्मेति भावयेत् | त्वचा यद्यत्स्पृशेद्योगी तत्तदात्मेति भावयेत् || यद्यच्छृणोति श्रोत्राभ्यां तत्तदात्मेति भावयेत् | दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् || द्रष्ट्ट-दर्शन-दृश्यानां विरामो यत्र वा भवेत् | दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकने || यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः || स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् | चित्तं काणमर्थानां तस्मिन् सति जगत्त्रयम् || तस्मिन् क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः | सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् || गच्छंस्तिष्ठन्नुपविशन् शयानोऽप्यन्यथापि वा | यथेच्छया वसेद्विद्वान् स्वात्मारामो महामुनिः ||
SK
ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः | आत्मानमात्मना साक्षात् ब्रह्मबुध्या सुनिश्चलम् || देहजात्यादिसम्बन्धान् वर्णाश्रमसमन्वितान् | वेदशास्त्रपुराणानि पदपांसुमिव त्यजेत् || एकाकी निस्पृहस्तिष्ठेन्न हि केन सहालपेत् | यतो न्निर्विषयस्यास्य मनसो मुक्तिरिष्यते || अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुभिः | चित्तमेव हि संसारः तत्प्रयत्नेन शोधयेत् || दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् | इत्यादिश्रुतिभिः देहेन्द्रियादिकं सर्वं शिवाय परमात्मने | दत्वा निरभिमानेन तत्प्रसादैकचेतनः || विषयाणि च सर्वाणि भोक्तव्यं शिवयोगिना | सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज || अहं त्वा सरपापेभ्यो मोक्षयिष्यामि मा शुचः | त्यजेद्धर्ममधर्मञ्च स्तुतिनिन्दा समस्थितिः || उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज || इत्यादिस्मृतिभिश्च देहेन्द्रियाद्यभिमाननिराकरणपूर्यकेषणात्रयपरित्यागलक्षणलक्षित- kiñca - śiva eko dhyeyaḥ śivaṅkarassarvamanyatparityajya na karmaṇā na prajayā ityatra śivaikadhyānaniṣṭhayā īṣaṇātrayasya pratibandhakatvāt śiva eko dhyeyaḥ iti śivadhyānamuktvā tadanyaṃ sarvaṃ dhanadhānyaputragehārāmādikaṃ parityajeti vidhirupadiśyate | prājñādhikārilakṣaṇam na karmaṇā ityatra karmaśabdenāgnihotrādikamuktaṃ bhavati | tannirākaraṇena bhāryātyāgaḥ samupadiṣṭaḥ | na prajayā ityatra santānāsaktibhramo nirastaḥ | dhanena ityanena vittabhramo nirākṛtaḥ | etena dāreṣaṇa-putreṣaṇa- तात्पर्यार्थो निश्चीयते | एवमीषणात्रयं निरस्य एकेन त्यागेन शरीरेन्द्रियादिषु सर्वेषु ममत्वभ्रान्तित्यागेन अमृतत्वं शिवसायुज्यं आनशुः - भक्ताः प्राप्नुवन्तीत्यर्थः | एतदुपदेशेन अहं - ममत्व-भ्रान्ति- prāpnuvantītyāśaṅkāyāṃ pareṇa śivajñānena guhāyāṃ dahara puṇḍarīke vibhrājat svaprakāśamānaṃ nākaṃ paramānandasvarūpaṃ etat - sthitaṃ śivaṃ yatayaḥ śivatattvaprāptiprayatnaśīlāḥ prāpnuvantīti bhāvaḥ | mandaprajñādhikārilakṣaṇam
SK
एवं तत्र प्राज्ञाधिकारिलक्षणमुक्त्वा तद्वन्मन्दप्रज्ञाधिकारिलक्षणमाह - वेदान्तविज्ञानसुनिश्चितार्थाः आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादिश्रुतिविहितयावद्वेदान्तषड्विधतात्पर्यलिङ्गैः श्रवण- pāśātmakatattvatrayārthajñānaniṣṭhāssantaḥ sanyāsayogāt samyak nyāsaḥ - saṃnyāsaḥ daharākṣi-puruṣavidyāvidhāyakatvena tailadhārāvadavicchinnatayā cittaṃ śivaikasandhānātmanā yogāt tadabhyāsayogāt yatayaḥ mokṣaprayatnaśīlāḥ śuddhasatvāḥ rāgadveṣādimalatrayanirmuktanirmalāntaḥkaraṇāḥ te bhaktāḥ brahmaloke brahmāparaparyāyaśivaloke sthitvā tatra sveṣṭānusāreṇa sarvaiśvaryayogamanubhūya tataḥ parāntakāle tacchivalokavāsanākṣayāvasāne parāmṛtāt kailāsāt sarve mucyanti | liṅgaśarīraṃ vihāya paripūrṇaparaśivasāyujyaṃ tatraiva prāpnuvantītyarthaḥ | tathānyatra daharavidyāyāṃ śrūyate - tadya ihātmānamanuvidya vrajantyetāṃñca sarvān kāmān iti jagadvāsanāsaktaparaśivopāsakānāṃ sarvakāmāvāptirdarśitā | tasmānniṣkāmaśivopāsakānāṃ ihaiva śivatattvaprāptiḥ | jagadvāsanāyuktabhaktāstāvat kāmavāsanayā śivalokamanupraviśya tatra sarvān kāmānanubhūya tallokādeva śivasāyujyaṃ prāpnuvantīti niścīyate | ataḥ sakāmaniṣkāmānāṃ bhaktānāṃ phalabhedatryapadeśe'pi caramasāṅkujyaphalasyaikatvāt vidyaikyamupadiśyate | ṛju-kuṭilenavāmārgeṇa sarvāsāṃ vidyānāṃ brahmaprāptiparatvam
SK
ननु ओमित्येतदक्षरमुद्गीथमुपासीत इत्यादीनि कर्माश्रयाण्युपासनानि कर्माङ्गत्वेन प्रतीयन्ते | किञ्च - यथा यस्य पर्णमयी जुहूर्भवति इति कर्माङ्गभूतोद्गीतादिमुखेन जुह्वादिमुखेन पर्णतादिवत् तत्तत्कर्माङ्गत्वेन निरूढानुष्ठानादुद्गीथाद्युपासनसम्बन्धो निर्दिष्टः तथा य एवं विद्वानुद्गायति य एवं विद्वान् सामगायति इत्यादिना तदुपासनस्य क्रतुसम्बन्धित्वमवगम्यते | अतः तानि यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति | इति वर्तमाननिर्देशेन पर्णतादिसम्बन्ध्यपापश्लोकश्रवणवत् पृथक्फलत्वकल्पनायोगात् क्रतुषु नियमेनोपसःआर्याणि | कर्मप्रकरणपठितत्वेन ब्रह्मप्राप्त्यङ्गत्वाभावव्यवस्थापनेन सर्वे वेदा यत्पदमामनन्ति इत्यादिश्रुतिविरोधो दुर्निवार इति चेदुच्यते - तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद इत्यविदुषोऽप्यनुष्ठानवचनात् न चाङ्गत्वे सत्युपासनस्य अनुष्ठानाऽनियम उपपद्यते | एवमुपासनाङ्गत्वे निश्चिते सति उपासनविधेः फलाकाङ्क्षायां रात्रिसत्रन्यायेन वीर्यवत्तरत्वं कर्मफलात् पृथग्भूतमेव फलमित्यवगम्यते | किमिदं वीर्यवत्तरत्वं कर्मफलस्यैवाप्रतिबन्धः बध्यते हि कर्मफलं प्रबलकर्मान्तरफलेन | तावन्तं कालं तदभावः प्रतिबन्धः | कर्मफलात् स्वर्गादिलक्षणात् पृथग्भूतमेव फलं तदिदमुच्यते | परमेश्वरार्पितफलस्य चित्तशुद्धिद्वारा मोक्षैकफलत्वमवगम्यते | यदेव ज्ञानफलं तदेव कर्मफलम् इति श्रुतेः | तस्मात् शुद्धान्तःकरणस्य काम्यवासनानिर्मुक्तस्य शिवैकनिष्ठस्य कर्माणि शिवानुग्रहद्वारा शिवप्राप्तिकराणि | मलिनान्तःकरणकृतपरमेश्वरार्पितकर्मणां दुरितनिवृत्तिद्वारा परम्परया ब्रह्मप्राप्तिकरत्वं इति निश्चीयते | अत. ऋजुकुटिलमार्गेण सर्वासां विद्यानां ब्रह्मप्राप्तिकरत्वमविरोधम् | लिङ्गभूयस्त्वाधिकरणम् || १९ || लिङ्गधर्मप्रचुरपरशिवब्रह्मणः सर्वविद्योपास्यत्वसमर्थनम्
SK
ननु सर्वेषामुपासनानां घटपटवदन्योन्यभेदावगमात् फलभेदोपदेशाच्च परस्मिन् ब्रह्मणि समन्वयः कथमुपपन्नः इत्याशङ्कायामधिकरणान्तरेणाह - || २२३ || लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि || ४३ || तैत्तिरीये श्रूयते - निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् इत्यादिना परब्रह्मणः शिवस्य लिङ्गात्मकत्वं तल्लिङ्गस्य सर्वात्मकत्वञ्चोपदिष्टम् | तत्रैव दहरविद्यानन्तरं - सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् | विश्वं नारायणं देवमक्षरं परमं पदम् || इत्यारभ्य सोऽक्षरः परमः स्वराट् इत्यन्तं शिववत् केशवस्यापि परमात्मत्वोपदेशात् शिवकेशवयोरुभयोरपि परत्वाङ्गीकारे व्यवस्थोच्छेदप्रसङ्गात् अत्र दहरादिसर्वविद्योपास्यत्व शिवस्य उत तदन्यस्यैव इति सन्दिह्यते | दहरादिसर्वविद्योपास्यत्वं नारायणस्यैवोपपद्यते तत्प्रकरणत्वात् | अस्मिंश्चानुवाके - पद्मकोशप्रतीकाशम् हृदयं चाप्यधोमुखम् इत्यादिना हृदयपुण्डरीकाभिधानस्य नारायणानुवाकस्य दहरविद्योपास्यनिर्धारणत्वमुपोद्बलयति | किञ्च - नारायणं महाज्ञेयं विश्वात्मानं परायणम् | नारायणं परोज्योतिरात्मा नारायणः परः || नारायणपरं ब्रह्म तत्त्वं नारायणः परः | नारायणपरो ध्याता ध्यानं नारायणः परः || यच्च किञ्चित् जगत्सर्वं दृश्यते श्रूयतेऽपि वा | अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः || इत्यादौ नारायणस्यैव सर्वात्मकत्व-सर्वव्यापकत्व-सर्वप्रकाशकत्व- asthūlamanaṇvādisarvāsāṃ śrutīnāṃ tatraiva tātparyam | atassarvasmātparo nārāyaṇa eva sarvavidyāsūpāsya iti prāpte pracakṣmahe -
SK
नारायणं महाज्ञेयं विश्वात्मानं परायणम् | नारायणपरञ्ज्योतिरात्मा नारायणः परः || इत्यादिना शक्ति-शक्त्योरूपास्योपासकयोः शिव-नारायणयोः तत्त्वमसि इत्यादाविव अभेदत्वेन परमशिवासाधारणधर्मेषु नारायणे प्रतिपादितेष्वपि परमशिवे लिङ्गभूयस्त्वात् ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः इत्यादिपरशिवलिङ्गधर्मप्राचुर्यात् बलीयः | अतः शिव एव तत्रान्यत्र प्रतिपादितदहरादिसर्वविद्यासूपास्य इति राद्धन्तः | सर्वत्रप्रसिद्धोपदेशाधिकरणे षड्विधतात्पर्यलिङ्गैः एतन्नारायणानुवाकतात्पर्यस्व स्पष्टमुपदिष्टत्वात् अत्र सङ्क्षेपत उक्तम् | सर्वो वै रुद्रः पुरुषो वै रुद्रः कद्रुद्राय प्रचेतसे मीदुष्टमाय तव्यसे वोवेम शान्तमग्ṁ हृदे सर्वो ह्येष रुद्रः इत्यादिना परमशिवलिङ्गभूयत्वात् सर्वविद्योपास्यत्वं तस्यैवोपपन्नम् | तद्यथा - सर्वो वै रुद्रः इति वाक्ये सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत इति छान्दोग्य-शाण्डिल्य-विद्योपास्यलिङ्गं पुरुषो वै रुद्रः इति वाक्ये पुरुषसूक्तोपकोसल-विद्योपास्यलिङ्गं सन्महो नमो नमः इत्यत्र सदेव सौम्य इति सद्विद्योपास्यलिङ्गं मह इत्यत्र मह इति तद्ब्रह्म स आत्मा अङ्गान्यन्या देवता इति महद्विद्योपास्यलिङ्गं शान्तमग्ṁ हृदि इति हृदयद्योतनात् दहरविद्योपास्यलिङ्गं नमो हिरण्यबाहवे हिरण्यवर्णाय इत्यादिना तस्य हिरण्मयत्वप्रदर्शनेन सवितृमण्डलोपास्यलिङ्गं तत्रोमापतय इति सर्वविद्योपास्यलिङ्गं संसारद्रावकत्वात् रुद्र इत्युच्यते परमात्मा शिव एव | उमापतेः परशिवब्रह्मणः परविद्योपास्यत्वं वाक्यैरवगम्यते | तदपि लिङ्गं वलीयः प्रकरणापेक्षया बलवत्तरं खलु | लिङ्ग-वाक्य-प्रकरण- pūrvamīmāṃsānyāyena vākyaṃ hi prakaraṇādbalīya iti daśanāt umāsahitaṃ saṃsāraduḥkhadrāvakaṃ śivābhidhaṃ parabrahma sarvavidyopāsyamiti niścīyate | pūrvavikalpādhikaraṇam || 20 || sālokyādicaturvidhamuktīnāṃ ekakāle paraśivopāsakaprāpyatvasamarthanam
SK
ननु पूर्वत्र परशिवब्रह्ममूर्ताऽमूर्तोपासकेषु प्राज्ञानां न कर्मणा न प्रजया इत्यादिना वैराग्यभाग्यान्वितानां निर्जगद्वासनायुक्तानां लोकान्तरनिरपेक्षितत्वेन इहैव शरीरे शिवत्वप्राप्तिः तद्भिन्नानां मन्दप्रज्ञानां क्रममुक्तेरुपदिष्टत्वेन ब्रह्मविद्यायाः विकल्पत्वं तन्महिमभङ्गप्रसङ्गस्य सिद्धत्वात् सर्वेषामुपासकानां एका गतिरुपपन्नेत्याशङ्कायामधिकरणान्तरमाह - || २२४ || पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् || ४४ || क्रियाज्योतिष्टोम-मानसज्योतिष्टोमवत् प्रकरणात् विराग सराग-प्रकरणात् पूर्वविकल्पः पूर्वे लोकालोकवासनयुक्तानां विकल्पः क्रममुक्ति- sūtrasūcitārthaḥ | taittirīye śrūyate - kaḥ kaṃ tatsatyamannamamṛto jīvo viśvaḥ katamaḥ svayambhūḥ brahmaitadamṛta eṣa puruṣa eṣa bhūtānāmadhipatiḥ brahmaṇassāyujyaṁ salokatāmāpnoti ityetāsāmeva devatānāṃ sāyujyaṃ sārūpyatāṃ sālokyatāmāpnoti ityādinā parameśvaropāsakānāṃ sarveṣāmekakāle tadupāsanāmāhātmyena sālokyādipadaprāptiḥ uta bhinnakāle adhikāratāratamyena vā iti sandihyate parameśvaropāsanamahimnā devādivadekakāle sālokyādisarvapadaprāptiḥ | sarvatra paryeti jakṣat krīḍan ramamāṇaḥ | tasya sarveṣu lokeṣu kāmacāro bhavati || iti śrutyantare muktajīvānāṃ kāmacāratvaśravaṇāt so'śnute sarvān kāmān saha brahmaṇā ityatrāpi viduṣāṃ brahmaṇā saha sarvakāmāvāptidarśanācca viduṣāmekakāle sālokyādisarvapadaprāptissambhavatīti prāpte vadāmaḥ | pūrvavikalpaḥ prakaraṇāt syāt kriyāmānasavat iti |
SK
ज्योतिष्टोमेन स्वर्गकामो यजेत भूतिकामो वायव्यं श्वेतमालभेत इत्यादिश्रुतिनिर्दिष्ट क्रियामयज्योतिष्टोम-वाजसनेय-पौण्डरीक-अतिरात्र- phalāni nirdiśyante - tasyaivam viduṣo yajñasyātmā yajamānaḥ śraddhā patnī śarīramidhmamuro vedirlomāni bahirvedaḥ śikhā hṛdayaṃ yūpaḥ kāma ājyaṃ manyuḥ paśustaṣo'gnirdamaḥśamayitā dakṣiṇā vāgghotā prāṇa udgātā cakṣuradhvaryurmano brahmā śrotramagnirdyāvādhriyate sā dīkṣā yadaśnāni taddhaviryatpivati tadasya somapānaṃ yadramate tadupasado yatsañcaratyupaviśatyuttiṣṭhate ca pravargyo yanmukhaṃ tadāhavanīyo yadyāhutīrāhutī yadasya vijñānaṃ tajjuhoti yatsāyaṃprataranti tatsamidho yatsāyam prātarmādhyandinaṃ ca tāni savanāni ye ahorātre te darśapūrṇamāsau ye'rdhamāsāśca māsāśca te cāturmāsyāniya ṛtavaste paśubandhā ye saṃvatsarāśca te'hargaṇāssarvavedasaṃ vā etatsatraṃ yanmaraṇaṃ tadavabhṛthaḥ etadvai jarāmaryamagnihotraṃ satraṃ ya evaṃ vidvānudagayane pramīyate devānāmeva mahimānaṃ gatvādityasya dakṣiṇe pramīyate te pitṛṇāmeva mahimānaṃ gatvā candramasassāyujyaṃ gacchati | etau vai sūryācandramasormahimānau brāhmaṇo vidvānabhijapati | tasmāt brahmaṇo mahimānamāpnoti iti | tatraiva pradeśāntare - cittiḥ sṛk cittamājyaṃ vāgvediḥ adhītaṃ barhiḥ ceto- प्राणश्चितः चक्षुश्चितः श्रोत्रश्चितः कर्मचितोऽग्निश्चितः इत्यादिश्रुतिषु मानसयागीये तत्तत्कर्मानुसारेण पृथक्फलत्वं प्रचक्ष्यते तद्वत् न कर्मणा इति विरक्तप्रकरणपठितब्रह्मविद्यायाः क्रममुक्तिहेतुत्वम् | पूर्वविकल्पः तीव्रप्रज्ञ-मन्दप्रज्ञाभेदेन पूर्वविकल्पो निर्दिष्टः | तद्वत्प्रकरणात् | परं मृत्यो अनु परे हि पन्थां यस्ते स्व इतरो देवयानात् इति प्रकरणभेदेन स्वाधिकारतारतम्येन परमेश्वरोपासकानां फलभेदः स्यात् |अतो नानादेशवासिनां उपासकानां एककाले देवागमनवत् परशिवोपासकानां एककाले सालोक्यादिचतुर्विधमुक्तिर्न सम्भवतीति निश्चीयते |
SK
ननु नराणामल्पज्ञानत्वात् अल्पायुप्यत्वाच्च चिरकालोपासनाभावेन एककाले चतुर्विधमुक्तिर्न भवेत् | हिरण्यगर्भादिदेवानां दिव्यशरीरत्वेन महिमातिशयत्वेन चिरकालोपासनया ज्ञानदार्ढ्येन च एककाले तत्सम्भवतीत्वाशङ्कायामाह - || २२५ || अतिदेशाच्च || ४५ || परीत्य लोकान् परीत्य भूतानि | परीत्य सर्वाः प्रदिशो दिशश्च प्रजापतिः प्रथमजा ऋतस्यात्मनात्मानमभिसम्बभूव इति श्रुतौ चतुर्मुखस्यापि न कर्मणा इत्यादिश्रुतिनिर्दिष्टविरक्तपुरुषवत् सर्ववासनात्यागेन परशिवब्रह्मप्राप्तेरतिदेशादुपदिष्टत्वाच्च देवमनुष्याणामपि शरीरभेद- siddham | nanu vājasaneyāgnirahasyabrāhmaṇe - manaścito vākcitaḥ prāṇaścitaḥ ityādinā brahmavidyāṅgabhūtayāgaprakaraṇapradarśane'pi asadvā idamagra āsīt ityādinā pūrvatra prakṛteṣṭakacitāgniśeṣībhūtakriyāmayakratvanupraveśaḥ syāt | tataśca teṣāṃ agnīnāṃ iṣṭakacitāgnivikalpabhāvo yuktaḥ | yathā dvādaśāhadaśame'hanyavivākye vidyārūpāṇāmapi kriyāmayakratvanupraveśena kriyārūpatvaṃ yujyate | kiñca - teṣāmekaika eva tarhi yāvānasau pūrva ityatra pūrvasyeṣṭakacitasyāgnervīryamanaścitādiṣvatidiśyate | tena tulyakāryatvāt vikalpaḥ | tataśceṣṭakacitavat kratunirvartanena tadaṅgabhūtā manaścitādayaḥ kriyāmayakratvanupraveśena netaraphalatvamevetyāśaṅkāyāmāha - || 226 || vidyaiva tu nirdhāraṇātdarśanācca || 46 ||
SK
तु शब्दोऽत्रनिश्चयार्थः | यदुक्तं मनश्चिदादयः क्रियामयकत्वनुप्रवेशेन क्रियारूपा एवेति - नैतदस्ति | विद्यारूपा एवैते | विद्यारूपक्रत्वन्वयिन इत्यर्थः | कुतः || निर्धारणाद्दर्शनाच्य || निर्धारणं तावत् ते है ते विद्याचित एव | विद्यया हैवैत एवंविदश्चिता भवन्ति इति | वाङ्मनश्चक्षुरादिव्यापाराणां इष्टकादिवच्चयनानु पपत्तेर्मनसा सम्पादिताग्नित्वेन विद्यारूपत्वे सिद्धेऽपि विश्वाचित एव विद्यया है वैते इति चावधारणं विद्यामयक्रत्वन्वयेन विद्यारूपत्वज्ञानार्थमिति निश्चीयते | दृश्यते चात्रैवैषां शेषी विद्यारूपः क्रतुः | तेमनसैवाधीयन्त मनसैवाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाऽशंसन् | यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञीयं कर्म मनसैव तेषु मनोमयेषु मनश्चित्सु मनोमयमक्रियत इति | इष्टकचितेष्वग्निषु यत्किमामयं यज्ञीयं कर्म क्रियते तत् मनोनिर्वर्त्येषु मनश्चिद्यग्निषु मनोमयमेवाक्रियतेति वचनात् क्रतुरपि विद्यामय एव | नन्वत्र विधिपदाश्रवणात् फलसम्बन्धाप्रतीतेश्चेष्टकचिताग्न्युपस्थापितक्रियामयक्रतुप्रकरणात् विद्यामयक्रत्वन्वयेन विद्यारूपतैषां बोध्येत नेत्याह - || २२७ || श्रुत्यादिबलीयस्त्वाच्च न बाधः || ४७ ||
SK
श्रुतिलिङ्गवाक्यानां प्रकरणाद्बलीयस्त्वेन श्रुत्याद्यवगतः क्रतुरेषां तदन्वयश्च दुर्बलेन प्रकरणेन बाधितुं न शक्यते | श्रुतिस्तावत् ते है ते विद्याचित एव इति | तां विवृणोति विद्याया है वै त एवं विदश्चिता भवन्ति इति | विद्यया विद्यामयेन क्रतुना सम्बद्धा मनश्चिदादयः चिता भवन्तीत्यर्थः | तान् है तानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते इति लिङ्गम् | वाक्यं च - एवं विदे चिन्वन्ति इति | समभिव्याहारो वाक्यम् | एवंविदे - विद्यामय क्रतुमते सर्वदा सर्वाणि भूतानि चिन्वन्तीत्यर्थः | सर्वभूतकर्तृकं सर्वकालत्र्यापि चयनं मनसा सम्पादितं परिमितकर्तृकालक्रियायेष्टकचितकार्यद्वारेण क्रत्वनुप्रवेशसम्भवमलभमानं विद्यामयक्रत्वनुप्रवेशे लिङ्गं भवति | यच्चेदमुक्तं विधिप्रत्ययाश्रवणात् फलसम्बन्धाप्रतीतेश्च क्रियामयात् क्रतोरन्यऽत्र विद्यामयः क्रतुर्न सम्भवतीति तत्राह - || २२८ || अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् || ४८ || इष्टकचितान्वयिनः क्रियामयात्क्रतोः विद्यामयोऽयं क्रतुः पृथक्त्वेन अनुबन्धादिभ्यः पृथक्त्वहेतुभ्योऽवगम्यते | अनुबन्धाः यज्ञानुबन्धिनो ग्रहस्तोत्रशस्त्रादयः मनसैषु ग्रहा अगृह्यन्त मनसाऽस्तुवन्त मनसाऽशंसन् इत्यादिना प्रतिपादिताः | आदिशब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते | श्रुति- prajñāntarapṛthaktvavat yathā prajñāntaraṃ daharavidyādikriyāmayāt kratoḥ pṛthagbhūtaṃ śrutyadibhiravagamyate evamayamapi | evañcānubandhādibhiḥ pṛthagbhūte vidyāmaye yajñe'vagate sati vidhiḥ parikalpyate | dṛṣṭaśca anuvādasarūpeṣu kalpyamāmo vidhiḥ | taduktam - vacanāni tvapūrvatvāt iti | phalañca - teṣāmekaika eva tāvān yāvānasau pūrvaḥ ityatideśāt svakratudvāreṇeṣṭakacitasyāgneryatphalam tadeva manaścidādīnāmapi svakratudvāreṇa phalamityavagamyate | mānasasyāpyagnicayanasya svātantryeṇa paraśivabahmalokaprāptisādhanatvavicāraḥ
SK
यत्पुनरतिदेशेन तुल्यकार्यत्वावगमात् क्रियामयक्रत्वनुप्रवेशोऽवगम्यत इत्युक्तम् तत्राह - || २२९ || न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः || ४९ || नावश्यमतिदेशादवान्तरव्यापारस्यापि तुल्यतया भवितव्यम् येन क्रियामयक्रत्वनुप्रवेश एषां स्यात् | यस्मात् कस्माच्चित् सामान्यमात्रादतिदेशोपलब्धेः | उपलभ्यते हि स एष एव मृत्युर्य एष एतस्मिन् मण्डले पुरुषः इत्यादिषु संहर्तृत्वादिसामान्यमात्रादतिदेशः | न हि तत्र म.डलपुरुषस्य मृत्युवत् तल्लोकापत्तिः - तद्देशप्राप्तिरपि भवति | एवमिहापि मनश्चिदादीनामिष्टकचिताग्निवद्भावातिदेशमात्रेणेष्टकचितग्निदेशरूपक्रियामयक् रत्वनुप्रवेशेनापि न भवितव्यम् | अत इष्टकचिताग्नेः स्वक्रतुद्वारेण यत्फलं तदेव मनश्चिदादीनामपि विद्यामयक्रतुद्वारेण फलमित्यतिदेशादवगम्यते | ननु यदि मानसाग्निचयनं स्वातन्त्र्येण ब्रह्मलोकप्राप्तिसाधनं स्वतन्त्रोपासनभूतं मानसाग्निचयनं मानसज्योतिष्टोमवत् उपनिषत्स्वेव पठितव्यम् | तथा च कर्मकाण्डे इष्टकाग्निचयनसन्निधौ पठितत्वमसङ्गतमित्याशङ्क्याह - || २३० || परेण (च) शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः || ५० || परेण च ब्राह्मणेन अस्यापि मनश्चिदाद्यभिधायिनः शब्दस्य ताद्विध्यं तद्विधत्वं विद्यामय क्रतौ प्रतिपादित्वमवगम्यते | परेण हि ब्राह्मणेन अयं वावलोक एषोऽग्निः चितः | तस्याप एव परिश्रितः इत्यादिना स यो हैतदेवं वेद लोकम्पृणानमेवम्भूतमेतत्सर्वमभिसम्पद्यते इति | पृथक्फला विद्यैव विधीयते | अतोऽग्निरहस्यस्य क्रियैकविषयत्वं नास्ति |
SK
एवंतर्हि विद्यामया मनश्चिदादयो बृहदारण्यकेऽनुबद्धव्याः किमर्थमिहानुबध्यन्ते | तत्रोच्यते - || भूयस्त्वात्त्वनुबन्धः इति || मनश्चिदादिषु सम्पादनीयानामग्न्यङ्गानां भूयस्त्वात् तत्सन्निधाविहानुबन्धः कृतः | तस्मात् तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी इत्यादिश्रुतिप्रतिपादितस्य साङ्गश्च मानसज्योतिष्टोमस्य यथा पृथक्त्वं स्वातन्त्र्येण परशिवब्रह्मलोकप्राप्तिसाधनत्वं तद्वन्मानसस्याग्निचयनस्यापि स्वातन्त्र्येण परशिवब्रह्मलोकप्राप्तिसाधनत्वं उपपन्नमित्यर्थः | एक-आत्माधिकरणम् || २१ || पारमार्थिकभेदाभेदवज्जीव-ब्रह्मणोर्मध्ये जीवस्य ब्रह्मोपासनायुक्ततानिराकरणम् ननु उपास्योपासकत्वेन जीव-ब्रह्मणोः पूर्वावस्थायां परस्परपारमर्थिकभेदः परशिवोपासनाप्रभावेन तद्वत्पारमार्थिकाभेदश्च सिध्यति इति यदुक्तं तन्न - ऐतदात्म्यमिदं सर्वं आत्म्मैवेदṁ सर्वं अयमात्मा ब्रह्म इत्यादिषु जीवातिरिक्तेश्वरसद्भावादर्शनात् स्वयं स्वमेव ध्यायत् मह्यमेव नमो नमः इत्यादिपूर्वाचार्यवचनेषु च स्वस्य स्वोपासनस्यैव न्यवस्थापनात् तदेव युक्तमित्याशङ्कायामधिकरणान्तरेण निराकरोति - || २३१ || एक आत्मनः शरीरे भावात् || ५१ || आत्मानः जीवात् एकधा परमात्मा शिवः शरीरे शरीरस्थितदहराकाशे भावात् जीवनियामकत्वेन सद्भावात् गुहाप्रतिष्ठे परमे परार्ध इत्यादिश्रुतिषु जीवातिरिक्तत्वेन ब्रह्मत्वोपदेशात् जीवस्यैव स्वस्योपासनं अयुक्तम् | सर्वासु परविद्यासु उपास्योपासकस्वरूपवत् उपासकस्वरूपस्यापि ज्ञातव्यत्वमुपदिष्टम् | त्रयाणामेव चैवमुपन्यासः प्रश्नश्चेति बृगुर्वै वारुणिः वरुणं पितरमुपससारः अधीहि भगवो ब्रह्मेति तस्मा एतत्प्रोवाच अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति तṁ होवाच यतो वा इमानि भूतानि इत्यारभ्य सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता इत्यादिना तैत्तिरीये श्रूयते | अत्रानन्दमयत्वेनोपास्यः परमात्मा उत जीवो वेति सन्दिह्यते |
SK
अयमात्मा ब्रह्म इत्यादिश्रुतिषु जीवस्यैव ब्रह्मत्वोपदेशात् योन्यां देवता मुपास्तेऽन्योऽसावन्योऽहमस्मि इति न स वेद यथा पशुः मृत्योस्स मृत्युमाप्नोति इत्यादिषु स्वातिरिक्तदेवतोपासनाऽदर्शनात् अहमस्मि ब्रह्माहमस्मि अहमेवाहं इत्यादिषु तथावगमाच्च स्वस्य स्वोपासनमेव सर्ववेदान्तसिद्धमिति प्राप्ते प्रचक्ष्महे - || एक आत्मनश्शरीरे भावात् || इति | एकः परमात्मा प्रधानक्षेत्रज्ञपतिर्महेश्वरः | आत्मनः स्थाबरजङ्गमात्मकजीवात् भिन्नः शरीरे ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे इत्यादिशुतिषु शरीरान्तस्थितदहरपुण्डरीके जीवेश्वरयोः स्थितेर्भावात् सर्ववेदान्तेषु सद्भावात् इत्यर्थः | भृगुर्वै वारुणिः इत्यारभ्य प्रश्न-प्रतिवचनाभ्यां ब्रह्मधर्मोपदेशात् विज्ञानमयाज्जीवात् अनन्दमयस्य भेदव्यपदेशात् जीवब्रह्मणोर्वैलक्षण्यमनिवार्यम् | किञ्च उपसंहारे - स यश्चायं पुरुषे यश्चासावादित्ये स एकः स य एवं वित् इत्यारभ्य अहमन्नमहमन्नमदन्तमद्मि अहं विश्वं भुवनमभ्यभुवां सुवर्णज्योतिः य एवं वेद इत्यन्तेन सर्वो वै रुद्रः सर्वं खल्विदं ब्रह्म ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नामः हिरण्मयोऽहं शिवरूपमस्मि नमो हिरण्यवाहवे इत्यादिश्रुतिसिद्धसर्वात्मकत्व-
SK
यो विज्ञाने तिष्ठन् यस्य विज्ञानं शरीरम् हिरण्मये परे कोशे विरजं ब्रह्मनिष्कलं तच्छुभ्रं ज्योतिषां ज्योतिस्तत्तदात्मविदो विदुः आत्मावाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ब्रह्म वेद ब्रह्मैव भवति इत्यादिस्यपरशाखासु सर्वासु विद्यासु शिवस्य परब्रह्मणः उपास्यत्वं जीवस्योपासकत्वं तस्य ब्रह्मोपासकत्वेनैव ब्रह्मात्मकत्वस्य स्पष्टमुपदिष्टत्वात् अन्नं ब्रह्म इत्युपातनादिवत् विज्ञानात्मकजीवब्रह्मोपासनायामपि परमेश्वरस्य सर्वान्तरत्वव्यपदेशार्थं तदनुक्रमसोपानमार्गसूचनार्थं चोपदिष्टम् केवलजीवस्य ब्रह्मत्वे अनीशया शोचति मुह्यमानः तरति शोकमात्मवित् इत्यादिबहुश्रुतिविरोधात् तत् भृगुवल्युपक्रमोपसंहारतात्पर्यभङ्गप्रसङ्गात् | अहं ब्रह्मास्मि इत्यादीनां तत्त्वमसि इत्यादिवत् उपास्योपासकयोरेकत्वफलसूचनार्थञ्च अनादिमलसंसारबद्धबहुशरीरप्रवेशनिर्गमनव्यापारतापत्रयानलदन्दह्यमान् अस्वभावस्य न स्वतो ब्रह्मत्वं सम्भवतीति सिद्धम् | मुमुक्ष्वनुष्टेयनैरन्तर्यानन्यभावयुक्तपरशिवब्रह्मोपासनस्य सर्वविद्याभिप्रेतत्वनिर्णयः अस्मिन्नर्थे हेत्वन्तरमाह - || २३२ || व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् || ५२ || सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत इत्यारभ्य तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति इत्यत्र ब्रह्मोपासकानां फलस्य ब्रह्मात्मकत्वोपदेशात् नत्वेतदस्ति ज्ञातृत्वाद्याकार एवानुसन्धेय इति | अस्यात्मनः संसारदशायाः मोक्षदशायाश्च यो व्यतिरेकः (भेदः) संसारदशायां स्वकृतकर्मफलेन देवतिर्यङ्मनुष्यादिनानाविधप्रवेशनिर्गमनं मोक्षदशायाञ्च सालोक्यादित्रिविधमुक्तौ परमानन्दप्राचुर्यकल्याणविभूतिः सायुज्यमुक्त्यभिधानकैवल्यविभूतौ अहंममत्वादिविकल्पशून्यत्वेन परमशिवाकाराकारितनिःश्रेयसफलञ्च निर्दिश्यते |
SK
किं च - अस्य मोक्षदशायां यादृशं रूपं तादृग्रूप ऐवोपासनवेलायामात्माऽनुसन्धेय इत्यर्थः | कुतः तद्भावभावित्वात् तद्रूपापत्तेः | यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति तं तथा यतोपासते तथैव भवति इति | यथोपासनमेव हि प्राप्तिः श्रूयते | न च परस्वरूपमात्रविषयमेवेदमिति वक्तुं शक्यते प्रत्यगात्मनोऽप्युपास्यभूत परब्रह्मवैलक्षप्योपदेशात् | अतः श्रुत्यन्तरे गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतासु | कर्माणि विज्ञानमयश्च आत्मा परेऽत्र्यये सर्व एकीभवन्ति || इत्यादिषु प्राणेन्द्रियप्रत्यगात्मादीनां परमेश्वरप्राप्यत्वव्यपदेशात् सदा परमात्मानुसन्धानं मुमुक्षूणां कर्तव्यमित्युपदिश्यते | उपलब्धिवत् यथा नद्यः इत्यत्र नदीसमुद्रोपलब्धिवत् जीव-ब्रह्मणोरेकत्वोपदेशो विधीयते | तस्मात् मुमुक्षूणां निरन्तरमनन्यभावेन नित्यनिरुपमपरशिवब्रह्मोपासनं सर्वविद्याभिप्रेतमिति वेदितव्यम् | अङ्गावबद्धाधिकरणम् || २२ || सर्वेषामुपासकानां सरविद्याधिकारयुक्ततानिर्णयः ननु स्वाध्यायोऽध्येतव्यः इत्यत्र स्वशाखाध्ययनविद्यावश्यकत्ववत् ब्रह्मविद्यायामपि स्वशाखाविहितब्रह्मविद्योपासनमेव मुख्यमित्याशङ्कायामधिकरणान्तरेणाह - || २३३ || अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदनम् || ५३ ||
SK
पूर्वत्र अहं ब्रह्मोपासननिराकरणपूर्वकपरशिवब्रह्मोपासनं सर्वेषां प्रसाध्य अत्र सर्वशाखागतब्रह्मोपासनं सर्वेषां मुमुक्षूणां आवश्यकं इति दर्शयति - ओमित्येतदक्षर मुद्गीथमुपासीत लोकेषु पञ्चविधं सामोपासीत सर्वं खल्विदं ब्रह्म अर्धत प्राचीन प्रियमेधासो अर्चत | अर्चन्त पुत्रकाः अग्निरित्यादिना भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशेत् | तस्माद्व्रतं पाशुपतं पशुपाशविमोक्षायेति तिस्रो रेखः प्रकुर्वीत इति छान्दोग्यादिषु सर्वशाखासु सर्वविद्योपासनानां मोक्षफलत्व श्रवणात् | मोक्षाङ्गविधायकसर्वशाखागतदहर-शाण्डिल्यादिसर्वासु विद्यासु मुमुक्षूणां स्वशाखाविद्योपासनं प्रधानं उत सर्वशाखाविद्योपासनं वेति सन्दिह्यते | सर्ववेदान्तप्रत्ययत्वे स्थितेऽपि प्रतिवेदं स्वरभेदात् उद्गीथादयो भिद्यन्त इति तत्र व्यवतिष्ठेरन्निति शङ्का | किमिदं युक्तम् व्यवतिष्ठेरन्निति कुतः उद्गीथमुपासीत इति | सामान्येन उद्गीथसम्बन्धितया श्रुतायास्तस्यामेव शाखायां स्वरविशेषयुक्तस्य उद्गीथविशेषस्य सन्निधानात्तस्मिन्नेव विशेषपर्यवसानं युक्तमिति | एवमाद्यास्तास्वेव शाखासु व्यवतिष्ठेरन्नित्येवं प्राप्ते प्रचक्ष्महे || अङ्गावबद्धास्त्विति || तु शब्दः पक्षं व्यावर्तयति | न ह्युद्गीथाद्यङ्गावबद्धा उपासनास्तास्वेव शाखासु व्यवतिष्ठेरन् अपि तु प्रतिवेदं सर्वासु शाखासु सम्बध्येरन् | हि शब्दो हेतौ | यस्मात् श्रुत्यैव उद्गीथाद्यङ्गमात्रावबद्धाः तस्माद्यत्रोद्गीथादयः तत्र सर्वत्र सम्बध्येरन् | यद्यपि स्वरभेदेन उद्गीथव्यक्तयो भिद्यन्ते तथाऽपि सामान्येन उद्गीथश्रुत्या सर्वा व्यक्तयः सन्निहिताः इति न क्वचिद्व्यवस्थायां प्रमाणमस्ति | सर्वशाखाप्रत्ययन्यायेन च सर्वासु शाखासु क्रतुरेकः | अतः सर्वासु शाखास्वेकस्य क्रतोस्सन्निधानात् क्रत्वङ्गभूतोद्गीथादयोऽपि सन्निहिता इति नैकस्य सन्निधिविशेषोऽस्तीति न व्यवस्था | तस्मात् सर्वेषां उपासनानां सर्वविद्यास्वधिकारो युक्तः |
SK
सर्वेषां ब्रह्मोपासकानां सर्वशाखागतब्रह्मविद्योपासनाधिकारौचित्यविवरणम् ननु धर्मकाण्डे सर्वेषां स्वशाखानुष्ठानधर्मावश्यकत्वव्यपदेशात् ब्रह्मकाण्डे समानभावेन सर्वेषां सर्वासु विद्यासूपासनाधिकारः कथमुपपद्यते इत्यत्राह - || २३४ || मन्त्रादिवद्वा विरोधः || ५४ || वा शब्दश्चार्थे | आदिशब्देन जाति गुण-सङ्ख्यासादृश्यक्रमद्रव्यकर्माणि गृह्यन्ते | यथा मन्त्रादीनां एकैकशाखासु आम्नातानामपि शेषिणः क्रतोः सवशाखास्त्वेकत्वेन यथायथं श्रुत्यादिभिः सर्वासु शाखासु विनियोगो न विरुध्यते किञ्च - स्मार्तकर्मस्वापि ऋग्वेदगतपुण्याहवाचनमन्त्राणि यजुस्सामशाखिभिरादृतानि तद्वद्यजुश्शाखागतशतरुद्रीयादिमन्त्राणि ऋक्सामगैरङ्गीकृतानि यथा शाखान्तर्गतसमित्कुशप्रभृतिमन्त्राणि सर्वशाखागतैः स्वीकृतानि तद्वत्सर्वशाखागतब्रह्मविद्यासु सर्वे वेदा यत्पदमामनन्ति इति वेदान्तविध्यवगमात् सर्वेषां ब्रह्मोपासकानां सर्वशाखागतब्रह्मविद्योपासनाधिकारस्समुचित इति निश्चीयते | भूम्नक्रतुवज्ज्यायस्त्वाधिकरणम् || २३ || समस्तोपासनस्यैव न्याय्यता भूमाख्यब्रह्मोपासनाधिक्य विचारः छान्दोग्ये - नाम ब्रह्मेत्युपासीत वाचं ब्रह्मेत्युपासीत मनो ब्रह्मेत्युपासीत इत्यादि बहूनि प्रतीकोपसनानि विधाया तदनन्तरं भूमात्वेव विजिज्ञासितव्यः | यत्र नान्यत्पश्यति नान्यत् शृणोति नान्यद्विजानानि स भूमा | अथ यत्रान्यत्पश्यति अन्यत् शृणोति अन्यद्विजानाति तदल्पम् इति श्रुतौ भूमाख्यब्रह्मोपासनस्य हि सर्वोपासनाधिक्यव्यवस्थापनात् तदेव मुमुक्षूणां आवश्यकमित्याशङ्कायामधिकरणान्तरमाह - || २३५ || भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति || ५५ || प्राचीनशाल औपमन्यवः इत्यारभ्य वैश्वानरविद्या आम्नाता | तत्र वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्यः श्रुतः स्वर्लोकादित्यवाय्वाकाशाप्पृथिव्यवयवः | तत्र च द्यौर्मूर्धा आदित्यश्चक्षुर्वायुः प्राणः आकाशः सन्देहः - मध्यकाय इत्यर्थः | आपो वस्तिः पृथिवी पादौ इत्यवयवविशेषाः
SK
तत्र संशयः किमस्य त्रैलोक्यशरीरस्य व्यस्तस्योपासनं कर्तव्यं उत व्यवस्तस्य समस्तस्य चेति अथ समस्तस्यैवेति | किं युक्तम् व्यस्त येति कुत उपक्रमे व्यस्तोपासनोपदेशात् | तथा ह्युपदिश्यते | औपमन्यवादयः किल उद्दालकपृष्टाः केकयमश्वपतिमुपसद्य आत्मानमेवेयं वैश्वातरं सम्प्रत्यध्येषि तमेव नो ब्रूहि इति पप्रच्छुः | स च तेभ्यः प्रत्येकं स्वोपास्यान् द्युप्रभृतीन् उक्त्वाद्भयो मूर्धादिषु व्यस्तेषूपासनं तत्र तत्र फलं चोक्तवान् अत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धात्वेष आत्मनः इति | एष वै सुतेजा आत्मा वैश्वानरः इत्यादिना तेषु तेषूपासनेषु उपास्यस्य वैश्वानरत्वञ्चाह | अतो व्यस्तस्यैवोपासनं कर्तव्यम् | परत्र यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते इति द्युप्रभृतिप्रदेशावच्छिन्नमात्रे वैश्वानरे उक्तस्य मूर्धाद्युपासनस्य समासेनोपसंहार इत्यवगन्तव्यम् | अपर आह - एवमेव समस्तस्याप्युपासनं कार्यमिति | पृथक् फलनिर्देशात् यस्त्वेतमेवं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति इति चैतावता वाक्यभेदः | यथा - भूमविद्योपक्रमे नामाद्युपासनं तत्फलञ्चाभिधाय एष तु वा अतिवदति यः सत्वेनातिवदति इत्यादिना भूमविद्यामुपदिश्य स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति इति तत्फलञ्च व्यपदिशति तत्र - भूमविद्यापरत्वेऽपि वाक्यस्य नामाद्यवान्तरोपासनं तत्फलञ्चाङ्गांक्रियते | तथेहापीति |
SK
एवम्प्राप्ते अभिधीयते - || भग्नज्यायस्त्वमिति || भूम्नः विपुलस्य समस्तस्यैव जायस्त्वं प्रामाणिकत्वमित्यर्थः एकवाक्यत्वावगतेः | तथाहि प्राचीनशाल औपमन्यवः इत्युमक्रम्य उद्दालको ह वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताब्यागच्छाम इति | वैश्वानरात्मबुभुत्सया औपमन्यवादयः पञ्च महर्षयः तमुद्दाल्कमुपेत्य तत्र वैश्वानरात्मवेदिनं अलभमानाः तेन च सहाश्वपतिं कैकयं वैश्वानरत्मवेदिनं उपसंगम्य आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि इति पृष्ट्वा तत्साकाशात् परमात्मानं वैश्वानरं स्वर्लोकादिपृथिव्यन्तशरीरमुपास्यभवगम्य तत्फलञ्च सर्वलोकसर्वभूतसर्वात्मगतान्नभूतब्रह्मानुभवमवगतवन्तः इत्युपसंहारतो वाक्यस्यैकत्वमवगम्यते | एवमेकवाक्यत्वेऽवगते सति अवयवविशेषोपास्तिवचनं फलनिर्देशश्च समस्तोपासनैकदेशानुवादमात्रमिति निश्चीयते | क्रतुवत् - यथा वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते इति विहितस्यैव क्रतोरेकदेशाः यदष्टाकपालो भवति इत्यादिभिरनूद्यन्ते | तथा समस्तोपासनमेव न्याय्यम् न व्यस्तोपासनम् | तथा हि दर्शयतीयं श्रुतिः व्यस्तोपासनेऽनर्थं ब्रुवती मूर्धा ते व्ययतिष्यन् यन्मां नागमिष्यः इति अन्धोऽभविष्यो यन्मां नागमिष्यः इत्यादिका | अत इदमप्यपास्तम् - यत् नामाद्युपासनसाम्यमुक्तम् | तत्र हि नामाद्युपासनेष्वनर्थो न श्रुतः | नामाद्युपासनेभ्यो भूमोपासनस्यातिशयितफलत्वं श्रुतम् | एष तु वा अतिवदति यस्सत्येनातिवदति इति | तत एव तत्र भूमविद्यापरत्येऽपि वाक्यस्य नामाद्युपासनानां सफलानां विवक्षितत्वम् अन्यथातिशयितफलत्वनिमित्तातिवादेन भूमविद्यास्तुत्यनुपपत्तेः | अतः समस्तोपासनमेव न्याय्यम् | नानाशब्दादिभेदाधिकरणम् || २४ || मोक्षफलैकगम्यसर्वोपासनानां सर्वविद्यासमन्वयसमर्थनम्
SK
ननु सामाद्युपासनानां वाक्यानां न चावान्तरतात्पर्यं नामब्रह्मेत्युपासीत इत्यादिवाक्यानां स्थूलारुन्धतीन्यायेन ब्रह्मोपासने तात्पर्यावगमात् | तथा च नामाद्युपासनानां सर्वैषां स्वातन्त्र्येण परशिवब्रह्मोपासनं कथं भवतीत्याशङ्कायामधिकरणान्तरेण प्रतिपादयति - || २३६ || नानाशब्दादिभेदात् || ५६ || नानाविधान्यनेकानि शिव-नारायण-ब्रह्म-इन्द्र-आदित्यादि नामाद्युपासनान्यपि अङ्गीकर्तव्यानि | कुतः शब्दादिभेदात् | नाम ब्रह्मेत्युपाषीत वाचं ब्रह्मेत्युपासीत नारायण परं ब्रह्म ध्यायीतेशानं उमासहायं असावादित्यो ब्रह्म इत्यादिश्रुतिशतेषु उपास्तिशब्दानां बहूनां अधिकारिभेदेन समक्षप्रवाहन्यायेन श्रूयमाणत्वात् परस्परभिन्नत्वं सिद्धम् | तथापि क्रमक्रमानुसारेण सोपानारोहणत्वात् बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते इति वाक्यदर्शनात् सर्वेषामुपासनानां मोक्षैकफलश्रवणात् सर्वविद्या समन्वयत्वं समञ्जसमिति सूत्रसूचितसूक्ष्मार्थः | विद्याप्रभेदाः इह ब्रह्मविद्याः सर्वाः ब्रह्मप्राप्तिरूपमोक्षैकफलाः सद्विद्या भूमविद्या दहरविद्या उपकोसलविद्या शाण्डिल्यविद्या वैश्वानरविद्या आनन्दमयविद्या अक्षरविद्या प्रतर्दनविद्या उद्गीथविद्या अक्षिपुरुषविद्या पाशुपतविद्या इत्याद्याः अन्याश्च प्राणाद्यैकविषयफलाश्च | किमत्र विद्यैक्यं उत विद्याभेद इति संशीय्यते | अत्रैव आसां परस्परभेदे समर्थिते सत्यैकस्याः दहरविद्यादिकायाः सर्ववेदान्त प्रत्ययन्यायः किं युक्तं विद्यैक्यमिति | कुतः वेद्यस्य ब्रह्मणः एकत्वात् | वेद्यं हि विद्याया रूपम् | अतो रूपैक्यात् विद्यैक्यमिति | एवं प्राप्तेऽभिधीयते - || नानेति ||
SK
नानाभूता विद्याः | कुतः || शब्दादिभेदात् || आदिशब्देन अभ्याससख्या-गुण- vidheyabhedahetavo'nubaddhabhedā dṛśyante | yadyapi veda upāsīta ityādayaḥ śabdāḥ pratyayā vṛttyabhidhāyinaḥ | pratyayāśca brahmaikaviṣayāḥ tathāpi tatprakaraṇoditajagadekakāraṇatvāpahatapāpmatvādiviśeṣaṇaviśiṣṭabrahmaviṣayapratya yāvṛttyavabodhinaḥ | pratyayāvṛttirūpāḥ vidyāḥ bhindanti | brahmaprāptirūpaphalasambandhyupāsanaviśeṣābhidhāyīni ca nirākāṅkṣāṇi vākyāni pratiprakaraṇaṃ vilakṣaṇaviśvābhidhāyīnīti niścīyante | asminnarthe śabdāntare karmabheda ityādibhiḥ pūrvamīmāṃsādikaiḥ sūtraiḥ siddhe'rapi punariha pratipādanaṃ vedāntavākyāni avidheyajñānaparāṇīti kudṛṣṭinirasanāya | ato vidyābheda iti śuddham | phalabhedena vidyānāṃ paraśivabrahmaprāptyātmakamokṣaikaphalavyapadeśāt na vidyāvirodha iti niścīyate | vikalpādhikaraṇam || 25 || daharādyupāsanāsu madhye sveṣṭānusāreṇekaikapuruṣasyekaikopāsanamavicchedenopāsanatvakartavya nirṇayaḥ nanu - vācaṃ brahmetyupāsīta ityādyupāsanānāṃ sarvāsāṃ daharādyuttamavidyāvaiśiṣṭyena paraśivaprāptiphalakatvaṃ uta svātantryeṇetyāśaṅkāyāṃ adhikaraṇāntareṇa nirūpyate - || 237 || vikalpo'viśiṣṭaphalatvāt || 57 || daharādīnāṃ paraśivabrahmalokaprāptiphalakānāṃ ahaṃgrahopāsanānāṃ vikalpaḥ - सम्भवति | अतस्समुच्चयो नाङ्गीकर्तव्यः | कुतः || अविशिष्टफलत्वात् || दहराक्षिपुरुषाद्यहंग्रहोपासनानां सर्वासु विद्यास्वपि परशिवब्रह्मसालोक्यादिक्रमेण परशिवप्राप्तिफलकत्वात् एतासूपासनासु मध्ये स्वेष्टानुसारेण एकैकपुरुषस्य एकैकोपासनमविच्छेदेन मरणपर्यन्तं भयभक्ति-श्रद्धा-वैराग्य-भूतदया-शम-दम-
SK
ब्रह्मप्राप्तिफलानां सद्विद्या-दहरविद्यादीनां नानात्वमुक्तं इदानीमासां विद्यानां एकैकस्मिन् पुरुषे प्रयोजनसत्वेन समुच्चयोऽपि सम्भवति उत प्रयोजनाभावात् विकल्पो संशयोवेति | किं युक्तम् समुच्चयोऽपि सम्भवतीति | कुतः एकफलानां भिन्नशास्त्रार्थानामपि समुच्चयदशनात् दृश्यते ह्येकस्यैव स्वर्गादेस्साधनानां अग्निहोत्र-दर्शपूर्णमासादीनां तस्यैव स्वर्गभूयस्त्वापेक्षयैकत्र पुरुषे समुच्चयः | एवं हि इहापि ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयोऽपि सम्भवतीति | कुतः अविशिष्टफलत्वात् | सर्वासां विद्यानां अनवधिकातिशयानन्दब्रह्मानुभवः फलमविशिष्टं श्रूयते | ब्रह्म वेद ब्रह्मैव भवति इत्यादिश्रुतिभ्यः निरतिशयानन्दपरशिवब्रह्मणः सालोक्यादिचतुर्विधमुक्तिः सम्भवति | स्वर्गादेर्हि देशतः कालतः स्वरूपतश्च परिमितत्वेन तत्र देशाद्यपेक्ष भूयस्त्वसम्भवात् तदर्थिनः समुच्चयः सम्भवति | इह तु तद्विपरीतस्वरूपे ब्रह्मणि तव सम्भवतीति सर्वाश्च विद्याः ब्रह्मानुभवविरोध्यनादिकर्माविद्यानिरसनमुखेन ब्रह्मप्राप्तिफल इत्यविशिष्टफलत्वात् सर्वासां विकल्प एव | ब्रह्मप्राप्तिव्यतिरिक्तफलास्तु विद्याः स्वर्गादिफलकर्मवद्यथेष्टं विकल्पेरन् समुच्चीयेरन् तासां परिमितफलत्वेन भूयस्त्वापेक्षासम्भवात् तत्राह - || २३८ || काम्यास्तु यथा कामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् || ५८ ||
SK
परशिवब्रह्मसाक्षात्कारानुभवव्यतिरिक्तकाम्याः आदित्यमण्डलादिप्रभृतिषु जडपदार्थे परशिवब्रह्मदृष्टिरूपाः ऐश्वर्यादिभिन्नभिन्नसाधनभूताः प्रतीकोपासनाः यथाकालं यथेद समुच्चीयेरन्न हि एतासां प्रतीकोपासनानां समुच्चयो वा विकल्पो वेत्यनियम एवाङ्गी कर्तव्यः | कुतः पूर्वोक्तहेत्वभावात् | पूर्वोक्तस्य तुल्यफलकत्वरूपस्य हेतोरत्राभावा इत्युपदिश्यते | देवो भूत्वा देवानप्येति अतो जीवत एव भावनाप्रकर्षवशाद्देवभावसाक्षात्प्राप्तिरवगम्यते | परविद्यासु अहङ्ग्रहोपासनेषु न तथा नामब्रह्माद्युपासना काम्यासु साक्षात्कारफलत्वे किञ्चिन्मानमस्ति | तत्तत्फलत्वाभावे च तत्र तत्र भोगभूस्त्वापेषया समुच्चय एव युक्तः - ब्रह्मवदेकत्वाभावात् तत एकं वा बहु समाश्रित्य अनुष्ठेयम् इति निर्णयः | तद्वदपरिमितफलत्वाभावादिति सिद्धम् | अङ्गेषु यथाश्रयभावाधिकरणम् || २६ || ब्रह्मप्राप्त्यङ्गभूतान्नमयाद्युपासनेषु पुरुषाणां ज्योतिष्टोमादिवत् परम्परया मुक्तिहेतुत्वनिर्णयः ननु दहर-शाण्डिल्य-अक्षि-पुरुषोपकोसल-उद्गीथाद्युपासनानामिव अन्नं ब्रह्म इत्याद्यङ्गावबद्धोपासनानां साक्षान्मोक्षहेतुत्वं किं न स्यादित्याशङ्कायां अधिकरणान्तरेणाह - || २३९ || अंगेषु यथाश्रयभावः || ५९ ||
SK
अङ्गेषु - अन्नं ब्रह्म प्राणो ब्रह्म मनो ब्रह्म नाम ब्रह्म इत्यादिमोक्षोपासनाङ्गेषूणसनेषु यथाश्रयभावः | आनन्दो ब्रह्मेति व्यजानात् इत्यादि सर्वातिशयपरमानन्दात्मकस्य परशिवब्रह्मणः प्राप्तिसाधनोपासनसाधनतया दहर-भूमाद्युपासनानामिव साक्षान्मोक्षहेतुत्वमसङ्गतम् - ब्रह्मविदाप्नोति परं सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा इत्यादिवाक्यानां परस्परभेदावगमात् | तैत्तिरीये श्रूयते - तत्र अन्नं ब्रह्मेति व्यजानात् प्राणो ब्रह्मेति व्यजानात् मनो ब्रह्मेति व्यजानात् सत्यं ज्ञानमनन्तं ब्रह्म इति वाक्यानां परस्परभेदावगमात् अन्नमयादीनामपि जगज्जन्मादिकारणत्वेन ब्रह्मत्वव्यवस्थापनात् अन्नमयादीनां वा उत आनन्दमयस्स वा ब्रह्मत्वम् दहराद्युपासनानां वा उत अन्नमयादीनामङ्गोपासनानां वा साक्षान्मोक्षहेतुत्वम् इति सन्दिह्यते | आनन्दो ब्रह्मेति व्यजानात् इतिवत् जगज्जन्मादिकारणत्वेन अन्नं ब्रह्मेति व्यजानात् इत्यादीनां तुल्यत्वोपदेशात् समानप्रकरणपठितत्वाच्च न वैषम्यसिद्धिः | शाखान्तरेष्वपि मनो ब्रह्मेत्युपासीत वाचं ब्रह्मेत्युपासीत नाम ब्रह्मेत्युपासीत इत्यादिवाक्यैः सर्वेषां समानत्वेन ब्रह्मत्वव्यपदेशात् दहर-शाण्डिल्य- na vaiśiṣṭyam | ataḥ sarveṣāmupāsanānāṃ samānatvena sākṣānmokṣahetutvaṃ sambhavatīti prāpte vadāmaḥ - anyontara ātmāṅandamayaḥ ityatra niratiśayaśiraskatvena ānandamayasya brahmatvavyavasthāpanāt yo veda nihitaṃ guhāyāṃ parame vyoman ityatra guhātmakadaharākāśe paramātmopāsanānāṃ sākṣānmokṣahetutvakathāt hṛtpuṇḍarīkaṃ virajaṃ viśuddhaṃ ityārabhya umāsahāyaṃ parameśvaraṃ prabhuṃ dhyātvā munirgacchati bhūtayoniṃ iti śākhāntareṣvapi daharapuṇḍarīke parameśvaropāsanānāṃ avilambena śivasāyujyamuktyupadeśāt tathā svaśākhāparaśākhasvapi annamayādīnāṃ ātmopāsanānāmapi sākṣānmuktyadarśanāt brahmaprāptyaṅgabhūtānnamayādyupāsaneṣu puruṣāṇāṃ parameśvarārpitajyotiṣṭomādivat paramparayā muktihetutvamiti niścīyate |
SK
नन्वानदमयस्य सर्वाधिकपरब्रह्मत्वे किं मानमित्याशङ्कायामाह - || २४० || शिष्टेश्च || ६० || शिष्टिः शासनं विधानमित्यर्थः | मीषास्माद्वातः पवते भीषोदेति सूर्यः | भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः || इत्यत्र सर्वशासकत्वेन सर्वभयहेतुत्वस्य सर्वाधिके आनन्दमये शिवे एव व्यपदेशात् अन्नमयादितुल्यत्वमेकप्रकरणपठितत्वेऽपि तस्य न सम्भवतीति निर्णीयते | ततैव प्रदेशान्तरे अन्तः प्रदेशान्तरे अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा इति श्रुतौ तथा श्रूयते | समाहाराधिकरणम् || २७ || दृढचित्तानां मुमुक्षूणामेव शिवयोगेन शिवसाक्षात्कारसमर्थनम् ननु चित्तस्य बहुसङ्कल्पयुक्तत्वात् चित्तनिरोधाभावे दहरादिसर्वविद्योपासनासिध्यसम्भवात् केन मार्गेण शिवसाक्षात्कारानुभवहेतुभूतचित्तस्थैर्यं सम्भवेदित्याशङ्कायां अधिकरणान्तरं दर्शयति - || २४१ || समाहारात् ||६१ || श्वेताश्वतरादिवेदान्तेषु शिवसाक्षात्कारानुभवस्य शिवयोगाख्यानेन जीवसुख्याङ्गभूतदृङ्मनः-प्राणसन्धानरूपसमाहारात् मेलनात् मुमुक्षूणां चित्तचलननिवृत्तिपूर्वकशिवसाक्षात्कारानुभवसिद्धिः सम्भवति | ॐ ब्रह्मवादिनो वदन्ति - किं कारणं ब्रह्म कुतस्स्म जाताः जीवामः केन क्व च सम्प्रतिष्ठा अधिष्ठितः केन सुखेतरेण वर्तामहे ब्रह्म ब्रह्मविदो व्यवस्थां इत्यारभ्य - ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् | सर्वा जीवे सर्वसंस्थे बृहन्ते तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे || पृथगात्मनि प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति | इति वेदान्तरत्न श्वेताश्वतरोपनिषत्सु श्रूयते | पाशुपतविद्याङ्गभूतयोगेन दहराद्युपासनानां शिवसाक्षात्कारानुभूतिः उत तद्विना सम्भवति इति सन्दिह्यते | तैत्तिरीये - दहरं विपापं उमासहायं ब्रह्मवेदब्रह्मैव भवति ब्रह्मविदाप्नोति परं इत्यादिषु ज्ञानेनैव ब्रह्मसाक्षात्कारव्यपदेशात् योगविद्यायां न किञ्चित् प्रयोजनमिति प्राप्ते वदामः |
SK
तस्याभिध्यानात्तुतीयं देहभेदे विश्वैश्वर्यं केवलं आप्तकामः इत्यारभ्य अग्निर्यत्राभिमथ्यते वायुर्यत्राभिमथ्यते सोमो यत्रातिरिच्यते तत्र संजायते मनः त्रिरुन्नतं प्राप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य | ब्रह्मोडुपेन पतरेत विद्वान् स्रोतांसि सर्पाणि भयावहानि || प्राणान् प्रपीड्ये ह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत | दुष्टाश्वयुक्तमिव वाहनमेव विद्वन् मनो धारयेति प्रमत्तः || इत्यारभ्य पृथिव्यप्तेजोऽनिलजीवे समुत्थिते पञ्चात्मके पञ्चगुणे प्रवृत्ते | न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् || लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्थलसौष्टवं च | गन्धश्शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति || यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् | तथात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः || इति श्वेताश्वतरे योगयुक्तस्यैव परशिवब्रह्मसाक्षात्कारावगमात् | अन्यत्र - वेदान्तश्रवणं कुर्वन् योगं समारभेत् | आकुञ्चनेन कुण्डलिन्या कवाटमुद्घाट्य मोक्षद्वारं विच्छेदयेत् | यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेद्ज्ञानमात्मनि | आत्मानञ्चेद्विजानीयादयमस्मीति पूरुषः | किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् || तमेव धर्मं विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः | नानुध्यायन् बहून् शब्दान् वाचो विग्लपनं हि तत् || यमैश्च नियमैश्चैव ह्याअनैश्च सुसंयुतः | नाडीशुद्धिञ्च कृत्वादौ प्राणायामं समाचरेत् || सर्वचिन्तां परित्यज्य सावधानेन चेतसा | निर्विकल्पः प्रसन्नात्मा प्राणायामं समभ्यसेत् || मरुदभ्यसनं नित्यं मनोयुक्तं समभ्यसेत् | इतरत्र न कर्तव्या मनोर्युक्तिर्मनीषिणा || इत्यादिना बाह्याभ्यन्तररूपसर्वोपासनेषु योगविद्याप्राधान्यकथनाञ्च - तैत्तिरीये - दहरं विपापं इत्यारभ्य तस्मिन्यदन्तस्तदुपासितव्यं इत्यादिना यत्र यत्रोपासनविधिरुपदिष्टा तत्र तत्र योगानुगुण्यमर्थात्सिद्धम् साधनं विना साध्यानिष्पत्तेरिति न्यायेन योगं
SK
विना चित्तस्थैर्याभावात् तदभावे ब्रह्मसाक्षात्कारभावाच्च | तस्मान्मुमुक्षूणां दृङ्मनःप्राणसन्धानात्मकशिवयोगविद्यावश्यकत्वं निर्दिश्यते | तथा कैवल्ये दहरोपासनायामपि हृत्पुण्डरीकं इत्यारभ्य ध्यात्वा मुनिर्गच्छति भूतयोनिं इत्यन्तेन ध्यानयोगयुक्तस्यैव परशिवब्रह्मावगतिदर्शनात् बह्म वेद ब्रह्मैव भवति इत्यादिश्रुतिषु वेदशब्देन ध्यानधारणयोगानुगुण्यमुपदिश्यते न वैद्यशास्त्रदिवद्वाक्यार्थज्ञानम् | तस्मात् सर्वशास्त्रसमन्वय एव युक्तः | अस्मिन्नर्थे हेत्वन्तरमाह - || २४२ || गुणसाधारण्यश्रुतेश्च || ६२ || ततः परं(दं) ब्रह्म परं बृहन्तं यथा निकायं सर्वभूतेषु गूढम् | विश्वस्यैकं वेष्टितारं तमीशं ज्ञात्वा अमृता भवन्ति || प्रधान क्षेत्रक्ष सर्वानन शिरोग्रीवः सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति || सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | सर्वस्य प्रभुमव्यक्तं सर्वस्य शरणं सुहृत् || न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् | हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति || तत्कर्म कृत्वा विनिवर्त्य भूयः तत्त्वस्य तत्त्वेन समेत्य योगम् | एकेन द्वाभ्यां त्रिभिरष्टभिर्वा भावेन चैवात्मगुणैश्च सूक्ष्मैः || आरुह्य कर्माणि गुणान्वितानि भावांश्च सर्वान्विनियुञ्जयेद्यः | तेषामभावे कृतकर्मनाशः कर्मक्षये यान्ति स तत्त्वतोन्यः || तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम् | पतिं पतीनां प्रथमं पुरस्तात् विदाम देवं भुवनेशमीडयम् || न तस्य कार्यं करणञ्च विद्यते न तत्समश्चाप्यधिकश्च दृश्यते || इत्यादिषु शिवस्य परब्रह्मणः गुणासाधारण्यश्रुतेश्च अनन्यसाधारणगुणश्रवणात् तत्साक्षात्कारानुभवकांक्षिणां योगयुक्तमेवोपासनं विधीयते | न वा तत्सहभावाधिकरणम् || २८ || अङ्गावाद्धोपासनानामपि दहरादिप्रतीकोपासनानामिव समुच्चयस्य अनुपपन्नतानिर्णयः ननु श्वेताश्वतरे -
SK
उद्गीथमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरञ्च | अत्रान्तरं वेदविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः || इति छान्दोग्ये - ओमित्येतदक्षरमुद्गीथमुपासीत इत्यारभ्य यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इत्यादिना प्रणवस्यैव परमात्मत्वप्रसाधनादुद्गीथविद्यायाः क्रत्वर्थतया क्रतुषु नियमेनोपादेयत्वात् परशिवब्रह्मपरत्वमसङ्गतम् | तस्मादुद्गीथाद्यङ्गावबद्धोपासनानां दहरादिविद्याभिस्सह समुच्चयः अनुपपन्नः इत्याशङ्कायामधिकरणान्तरमाह - || २४३ || न वा तत्सहभावाश्रुतेः || ६३ || न वा उद्गीथाद्यङ्गावबद्धोपासनानामपि समुच्चयनियमोऽस्ति | कुतः || तत्सहभावाश्रुतेः || तासामङ्गावबद्धोपासनानां उद्गीथादीनां दहरादिविद्याभिस्सहभावस्य समुच्चयस्य अश्रुतेः अश्रवणात् | यदेव विद्यया करोति इत्यङ्गावबद्धोपासनानां कर्माङ्गत्वं प्रतिपाद्यते - तन्निर्धारणानियमस्तद्दृष्टेः पृथाध्यप्रतिबन्धः फलं इति सूत्रे कर्माङ्गत्वस्य निरस्तत्वात् किन्त्वङ्गाववद्धोपासनापूर्वककर्मानुष्ठाने कृते सति स्वर्गादिलोकोत्पत्तिबन्धकपापानां निवृत्या शीघ्रमेव फलोत्पत्तिर्भवतीत्येतावन्मात्रमेव यदेव विद्यया करोति इति श्रुत्या प्रतिपाद्यते | तथा च अङ्गावबद्धोपासनानामपि दहरादिप्रतीकोपासनानामिव समुच्चयः अनुपपन्नः | ओमित्येतदक्षरमुद्गीथमुपासीत इत्यादिकाः विद्याः किमुद्गीथादिवत् क्रत्वर्थतया ऋतुषु नियमेनोपादेयाः उत गोदोहनादिवत्पुरुषार्थतया यथाकाममिति सन्दिह्यते | नियमेनोपादेया इति उक्तम् |
SK
ननु चासां पुरुषार्थत्वेन अनियमः प्रतिपादितः | तन्निर्धारणनियमस्तदृष्टेःपृथग्ध्यप्रतिबन्धः फलं इत्यत्र सत्यं तदेव द्रढयितुं कैश्चिल्लिङ्गदर्शनैर्युक्त्या आक्षिप्यते | तत्र हि तेनोभौ कुरुत इत्यनियमदर्शनात् पृथक्फलत्वमुक्तम् | उपासनाश्रयभूतोग्दीथादिवदुपासनानामप्यङ्गतया उपादानानियमे बहवो हेतवः उपलभ्यन्ते | उद्गीथमुपासीत इत्युद्गीथादिसम्बन्धितयैवोपासनं प्रतिपाद्यते यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं इति वर्तमानोपदेशरूपवाक्यान्तराद्धि फलसम्बन्धो जायते | स्ववाक्येनैव अव्यभिचरितक्रतुसंबन्ध्युद्गीथादिसंबन्धेन निर्ज्ञातक्रत्वङ्गभावस्य वाक्यान्तरस्थवर्तमानफलसबन्धनिर्देशोऽर्थवादमात्रं स्यात् | अपापश्लोकश्रवणात् ततो यदोद्गीथादय उपासनाश्रयाः क्रत्वङ्गतया प्रयोग विधिना नियमेनोपादीयन्ते उद्गीथमुपासीत इत्युद्गीथाङ्गतया उपासनविधानाच्चोपादाननियमः तदा गोदोहनेन पशुकामः प्रणयेत् इत्यादिवत् विधिवाक्ये अधिकारान्तराश्रवणात् उद्गीथाद्यङ्गभाव एव हि विधेय इति गम्यते | होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरेतीत्युपासनस्य समुच्चयनियमो दृश्यते | किञ्चोपासनगुणस्योपासनाश्रयस्य प्रणवस्योपासनस्य तेनेयं त्रयी विद्या वर्तते | ओमित्याश्रावयति ओमिति शंसन्ति ओमित्युद्गीथयति इति श्रुतेश्च उपासनासमुच्चयो गम्यते | तेनेति प्रकृतपरामर्शात्सोपासन एव प्रणवस्सर्वत्र सञ्चरति | अत उपासनस्य प्रणवसहभावनियमदर्शनाच्च उद्गीथाद्युपासनानां उद्गीथादिवन्नियमेनोपादानमिति प्राप्ते ब्रूमः || न वा तत्सहभावाश्रुतेः ||
SK
पूर्वमेव प्रणवात्मकत्वं प्रणवातीतत्वं शिवस्य परब्रह्मण एव स्पष्टमुपदिष्टम् | न चैतदस्ति यदुद्गीथाद्युपासनानां ऋतुषूद्गीथादिवदुपासननियम इति | कुतः तत्सहभावाश्रुतेः उद्गीथाङ्गभावाशुतेरित्यर्थः | अङ्गबावे हि सहभावनियमो भवति | यद्यपि उद्गीथमुपासीत इत्यस्मिन् पदसमुदाये अधिकारान्तरं न प्रतीयते | तथापि तदनन्तरमेव यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति इति विद्यायाः ऋतुवीर्यवत्तरत्वं प्रति साधनभावः प्रतिपाद्यते | तेन ऋतुफलात् पृथग्भूतफलसाधनतया अवगतस्योपासनस्य ऋत्वङ्गभूतोद्गीथाङ्गतया विनियोगो नोपपद्यते | अतः उपन्यासाश्रयापेक्षायां सन्निहित उद्गीथ आश्रयमात्रं भवति | उद्गीथश्च ऋत्वङ्गभूत इति ऋतुप्रयुक्तोद्गीथाद्याश्रये उपासने ऋत्वधिकारिण एव ऋतोर्वीर्यवत्तरत्वेच्छानिमित्तमिदं अधिकारान्तरमिति न ऋतुषु तदुपासननियमः | वीर्यवत्तरत्वञ्च ऋतुफलस्य प्रबलकर्मान्तरफलेन अप्रतिबन्धः इत्युक्तम् | ऋतोरविलम्बितफलस्वमित्यर्थः | पर्णतादीनां तु यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति इति विद्यायाः फलसाधनत्ववदपापश्लोकश्रवणादिफलं प्रति साक्षात्साधनभावो न श्रुत इति प्रत्यङ्गभूतजुह्वाद्यङ्गतया विनियोगात् तदङ्गभूतानां फलान्तरसाधनभावकल्पनानुपपत्तेस्तत्र फलश्रुतिरर्थवादमात्रं स्यादिति निश्चीयते | अस्मिन्नर्थे हेत्वन्तरमाह - || २४४ || दर्शनाच्च || ६४ || दर्शयति च श्रुतिरुपासनोपादानानियमन् | एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्चत्विजोऽभिरक्षति इति ब्रह्मणे वेदनेन सर्वेषां लक्षणं ब्रवीति | उद्गातृप्रभृतीनां वेदनस्यानियमे सत्येतदुपपद्यते | अनेन लिङ्गेन पूर्वोक्तानां समुच्चयादिधर्माणां प्रायिकत्वमवगम्यते | तस्मादनियम एवेति स्थितम् |
SK
किञ्च - पूर्वसूत्रे पूर्वपक्षयुक्तिर्निराकृता | अत्र लिङ्गानि प्रतिवक्ष्यन्ते | अनियमस्य प्रदर्शनत्वं उद्गीथे दृष्टम् | यजमानं सर्वाश्चत्विजो रक्षतीत्यत्र यजमानसंरक्षणं ऋतुफलाप्रतिबन्धकारणादिभिरिति मन्तव्यम् | उद्गातृप्रभृतिवेदनफलं हि क्रतुफलाप्रतिबन्धादि | तस्य ब्रह्माख्यऋत्विग्वेदनेन सिद्धौ सत्यां हि उद्गातृप्रभृतिवेदनानियमसिद्धिरर्थादवगम्यते | न च अङ्गावबद्धोपासनानां कर्माङ्गत्वाभावे फलप्रतिबन्धकपापरहितानां पुरुषाणां अङ्गावबद्धोपासनानुष्ठानवैयर्थ्य. स्यादिति वाच्यम् | अङ्गावबद्धोपासनासहकृतकर्मानुष्ठानवतां बहुकालस्वर्ग भोगस्य प्रधानवदेव तदुक्तमिति राद्धान्तः | इति श्रीमद्यतिव्रजपरिवृढ-श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत- śrīkarabhāṣye sādhanādhyāyasaṃjñikasya tṛtīyādhyāyasya sarvavedāntapratyayādhikaraṇāvacchinnasarvavedāntapratyayaṃ codanādyaviśeṣādityādicatuṣṣaṣṭisūtrātmakaḥ tṛtīyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ atha śrīkarabhāṣye tṛtīyādhyāyasya caturthaḥ pādaḥ puruṣārthādhikaraṇam || 1 || brahmacaryādyāśramacatuṣṭayadharmanirūpaṇam pūrvatra kāsāñcidupāsanānāṃ paramparayā muktihetutvam kāsañcit sākṣānmuktihetutvamuktam | iha tu kālāntarabhāvipāralaukikasvargādiphalabhogayogyasya śarīrendriyādiviśiṣṭasya jīvasya tanniyāmakaśivajñānaṃ vinaiva lokāntarakālāntarabhāvisvargādiphalabhogasādhaneṣu bahuvittavyayasādhyeṣu karmasu prekṣāvatāṃ pravṛtyasambhavāt śivajñānasya jyotiṣṭomādisarvakarmānuṣṭhānāṅgakatvaṃ vaktavyam | tathā ca aṅgāṅginorekaphalasādhanatvāt aṅgānāṃ karmaṇāṃ yatphalaṃ svargādikaṃ tadevāṅginaḥ cidacitprapañcavilakṣaṇaśivajñānasyeti svātantryeṇa mokṣaikalakṣaṇaphalāntarasādhanatvāsambhavāt sarvavedāntavidyārambho vyartha iti pūrvamīmāṃsāśaṅkāmāśaṅkya tannirākaraṇārthamidamadhikaraṇāntaramāha - ब्रह्मविद्यायाः कर्माङ्गत्वानुपपत्तिः
SK
|| २४५ || पुरुषार्थोऽतश्शब्दादिति बादरायणः || १ || अतः योगानुगुण्यदहराद्युपासनापूर्वकसदाशिवब्रह्मसाक्षात्कारात् पुरुषार्थः पुनरावृत्तिरहितनित्यनिरतिशयस्वाभाविकजीवत्वनिवृत्तिपूर्वकशिवत्व- śivaṃ śāntimatyantameti brahma veda brahmaiva bhavati brahmavidāpnoti paraṃ ātmānamaraṇiṃ kṛtvā praṇavañcottarāraṇim | dhyānanirmathanābhyāsāt pāśaṃ dahati paṇḍitaḥ || śraddhābhaktidhyānayogādavehi ityādiśrutidarśanāt mumukṣūṇāṃ nikhilakarmavāsanāpaṅkakalaṅkaśūnyatayā nirantaraṃ paraśivabrahmānusandhānaṃ kartavyamiti sūtrasūcitasūkṣmārthaḥ | śikṣāṃ vyākhyāsyāmaḥ varṇaḥ svaraḥ mātrā balaṃ sāmasantānaḥ ityuktaśśīkṣādhyāyaḥ | saha nau yaśaḥ saha nau brahmavarcasam athātassaṁhitāyā upaniṣadaṃ vyākhyāsyāmaḥ ityādinā taittirīye śrūyate | yajñena dānena tapasā'nāśakena ityādiśrutiṣu yajñādikarmaṇāṃ mokṣāṅgatvaśravaṇāt parikṣya lokān karmacitān brāhmaṇo nirvedamāyāt nāstyakṛtaḥ kṛtena | tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham || ityādau karmaṇo mokṣāṅgatvaniṣedhāt taittirīye karmajñānobhayatulyaprācuryāvagamāt karmaṇaḥ svātantryeṇa punarāvṛttirahitaparamapuruṣārthaphalasādhatvaṃ uta jñānāṅgatveneti saṃśayaḥ | jīvātirikteśvarasadbhāve mānābhāvāt jyotiṣṭomena svargakāmo yajeta aharahassandhyāmupāsīta ityatra śarīrasyaiva kartṛtvāvagamāt yasya parṇamayī juhūrbhavati vāyurvai kṣepiṣṭhā devatā yatprayājānuyājau yujyete ityādivat prajñānaṃ brahma ahaṃ brahmāsmi tattvamasi ityādivedāntānāṃ stutiparatvam |
SK
किञ्च - यदेव विद्यया करोति तदेव वीर्यावत्तरं भवति इत्यादिवेदान्तेष्वपि विद्यायाः कर्मसु विनियोगदर्शनात् कर्माङ्गत्वमनिवार्यम् | तं विद्याकर्मणी समारभेते इति विद्याकर्मणोरेकस्मिन् पुरुषे साहित्यं दृश्यते | आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाऽभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत् इत्यादौ अर्थज्ञानपर्यन्ताध्ययनवतः स्वाध्यायो अध्येतव्यः | कर्माणि विदधन् अर्थावबोधपर्यन्ताध्ययनवत एव विदधाति | अर्थावबोधपर्यन्तमध्ययनविधिरेवेति स्थापितम् | कुर्वन्नेवेह कर्माणि जिजीविषेत् शतगṁ समाः इत्यात्मविदः पुरुषायुषस्सर्वस्य कर्मसु नियमविधित्वेन विनियोगात् करण एव फलमित्यवगम्यते | तस्मात् ब्रह्मविद्यायाः कर्माङ्गत्वप्रतिहतमिति प्राप्ते प्रवक्ष्महे - || पुरुषार्थस्येति || अमृतस्य देवधारणो भूयासम् तमेवं विद्वान् अमृत इह भवति इत्यादिश्रुतिशतेषु परशिवब्रह्मणः ध्यानधारणज्ञानविधानादेव मोक्षोपदेशात् कर्मणः यत्र कुत्रापि स्वातन्त्र्येण युक्त्यदर्शनात् एष एव साधु कर्म कारयति इत्यादिश्रुतिषु भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया इत्यादिस्मृतिषु च कर्मकर्तुर्जीवस्यापि शिवाधीनत्वं शिवस्यैव जीवकृतसर्वपापमोचकत्वं चोक्तम् | किञ्च - न कर्मणा यावदुत्पद्यते ज्ञानं तावदनुष्ठेयानि कर्माणि त्यजेद्धर्ममधर्मं च उभे सत्यानृते त्यजेत् | उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज || इत्यादिश्रुतिषु ब्रह्मज्ञानेच्छावतां कर्मनिषेधावगमात् ब्रह्मविद्यायाः कर्माङ्गत्वमनुपपन्नमतश्चतुर्थ्यन्तदेवताप्राधान्यजैमिनिमतमविचारित- nanu vedacatuṣṭayavijñānanidānabhūtajaiminyācāryeṇāpi karmaṇaḥ prādhānyasya jñānopasarjanatvasya ca vyavasthāpanāt kathaṃ brahmavidyāyāḥ variṣṭhatvamityāśaṅkāyāmāha - || 246 || śeṣatvātpuruṣārthavādo yathā'nyeṣviti jaiminiḥ || 2 ||
SK
यद्धि मनसा मनुते तद्वाचा वदति तत्कर्मणा करोति यदेव ज्ञानपलं तदेव कर्मफलम् इत्यादिश्रुतिषु जीवस्य शेषित्वस्य कर्मणः शेषत्वस्य चावगमात् पुरुषार्थवादः पुरुषस्य जीवस्य अर्थस्य प्रयोजनस्य वादः वाक्योपन्यासादिकं कर्मशेषत्वात् जीवजन्यत्वेन तदंशात् || यथाऽन्येष्विति जैमिनिः || यदा तमस्तन्न दिवा न रात्रिः न सन्न चासच्छिव एव केवलः | तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी || तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि प्रचोदयात् इत्यादिश्रुतिषु शिवस्य परब्रह्मणो बुद्धिप्रेरकत्वं यथा दर्शितं तथा जीवस्यापि कर्मप्रेरकत्वमिति कर्मकाण्डे जैमिनिर्मन्यते | तस्मात्तन्मतेऽपि ज्ञानप्राधान्यस्यार्थात्सिद्धत्वात् ब्रह्मकाण्डे मोक्षफलं प्रति ज्ञानप्राधान्यं किं वक्तव्यमिति वादरायणाचार्यो मन्यते | किञ्च - सत्यं वद धर्मं चर इत्यादिवेदान्तसिद्धधर्माणामपि मोक्षहेतुत्वेन जैमिन्याचार्यैरपि स्वीकृतत्वात् कर्मचितो लोकः क्षीयते इत्यादिश्रितुषु कर्मफलानामनित्यत्वस्य ब्रह्म वेद ब्रह्मैव भवति न स पुनरावर्तते इत्यादिषु ब्रह्मज्ञानफलस्य नित्यत्वस्य चावगमात् अहरहस्सन्ध्यामुपासीत इत्यादिवत् आत्मा वाऽरे द्रष्टव्यः वेदान्तश्रवणं कुर्वन् योगं समारभेत आकुञ्चनेन कुण्डलिन्या कवाटमुद्घाट्य मोक्षद्वारं विच्छेदयेत् अमृतस्य देवधारणो भूयासं इत्यादिषु विधिदर्शनाच्च तत्त्वमस्यादिवेदान्तानां अर्थवादत्वमयुक्तम् | वसिष्ठ- yakṣyamāṇo ha vai bhagavannahamasmi iti śrutau kekaṣaṃ prati karmaniṣṭhabrāhmaṇānāṃ mokṣārthaṃ vedāntavidyāprārthanāvagamāt purāṇeṣvapi kṣatriyaṃ janakaṃ prati śukātreyādibrāhmaṇavariṣṭhānāṃ brahmajñānaprārthanadyotanācca brahmavidyāyāḥ sarvādhikatvaṃ gamyate | asminnarthe hetvantaramāha - || 248 || ācāradarśanāt || 3 ||
SK
आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दम् | शान्तिसमृद्धममृतं इति प्राचीनयोग्योपास्व इत्यत्र कर्मनिरपेक्षतया मुमुक्षूणां ब्रह्मविद्यायाः व्यवस्थापनात् तस्याः कर्माङ्गत्वमयुक्तम् | किञ्च - कर्मसु कर्तुर्जीवादन्यो मुमुक्षुभिः प्राप्यतया वेदान्तेषु वेद्यतया चोपदिश्यत इति प्रागेवोपपादितम् | नेतरोऽनुपपत्तेः भेदव्यपदेशाच्च अनुपपत्तेस्तु न शारीरः इतरपरामर्शात्स इति चेन्नासम्भवात् इत्येवमादिभिस्सूत्रैः तदेव ब्रह्म तत्त्वमसि इति महावाक्येषु जीवप्राप्यत्वेन शिवस्य जीवातिरिक्तत्वमुपदिष्टम् | अधिकं तु भेदनिर्देशात् इत्येवमादिभिः जीवब्रह्मवादो निरस्तः | ऐतदात्म्यमिदं सर्वं सर्वो वै रुद्रः विश्वरूपाय वै नमो नमः इत्यादिभिः शिवोपादानत्वेन प्रपञ्चस्य शिवात्मकत्वमुक्तम् | प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः उत्क्रमिष्यत एवं भावादित्यौडुलोभिः इति सूत्रद्वयेन श्रुत्यैकदेशभेदमतमभेदमतं च निराकृत्य अवस्थितेरिति काशकृत्स्नः इत्यादिभिः सर्ववेदान्तसिद्धद्वैताद्वैतमतमेव मुमुक्षुभिः प्रार्थनीयमित्युपपादितम् | तस्मात्तदर्थं कर्मसु कर्तुरात्मनो याथात्म्योपदेशपरा वेदान्तशब्दाः सम्पद्यन्त इति विद्यायाः कर्माङ्गत्वं प्रतिपाद्यते | पुनर्हेत्वन्तरमाह - || २४८ || तच्छ्रुतेः || ४ || श्रुतिरेव हि ब्रह्मण उपासनमेव मुमुक्षूणां मोक्षाङ्गमाह - य एषोऽन्तर्हृदय आकाशः तस्मिन्नयं पुरुषो मनोमयः | अमृतो हिरण्मयः | अन्तरेण तालुके | य एष स्तन इवावलम्बते | सेन्द्रयोनिः | यत्राऽसौ केशान्तो विवर्तते | व्यपोह्य शीर्षकाले | भूरित्यग्नौ प्रतितिष्ठति | भुव इति वायौ | सुवरित्यादित्ये | मह इति ब्रह्मणि || इति | किञ्च - ब्रह्मोपासनया सर्वकामावाप्तिः श्रुत्योपदिष्टा - यो वेद निहितं गुहायां परमे व्योमन् | सोऽश्नुते सर्वान् कामान् - सह ब्रह्मणा || इति | प्रदेशान्तरेऽपि ब्रह्मविद्यायाः सर्वकर्मावाप्तिफलमुपदिश्यते - शुचीनां श्रीमतां गेहे योगभ्रष्टो हि जायते | अथवा योगिनामेव कुले भवति धीमताम् ||
SK
इति स्मृतौ ब्रह्मोपासनरूपयोगभ्रष्टानां कामवासनया जन्मान्तरेऽपि मर्त्यलोके सदाचारावच्छिन्नधनिकगेहे जननंन् अकामुकानां पुनर्ब्रह्मोपासनात्मकयोगिनां गृहे भवनं च दृश्यते | अतो ब्रह्मविद्यायाः सर्वाधिकत्वमनवद्यम् | अस्मिन्नर्थे पुनर्हेत्वन्तरमाह - || २४९ || समन्वारम्भणात् || ५ || ब्रह्मविद्याङ्गत्वेन सत्कर्मारम्भकत्वस्य श्रुतिषु व्यवस्थापनात् ब्रह्मविद्यायाः कर्माङ्गत्वमयुक्तम् | वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति | सत्यं वद | धर्मं चर | स्वाध्यायान्मा प्रमदः | आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः | सत्यान्न प्रमदितव्यम् | दह्र्मान्न प्रमदितव्यम् | कुशलान्न प्रमदितव्यम् | भूत्यै न प्रमदितव्यम् | स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् | देवपितृकार्याभ्यां न प्रमदितव्यम् | इत्यत्र तथा स्पष्ठमुपदिष्टम् | पुनर्हेत्वन्तरमाह - || २५० || तद्वतो विधानात् || ६ || मातृदेवो भव | पितृदेवो भव | आचार्यदेवो भव | अतिथिदेवो भव | यान्यनवद्यानि कर्माणि तानि सेवितव्यानि | नो इतराणि | यान्यस्माकṁ सुचरितानि तानि त्वयोपास्यानि | नो इतराणि इत्यादिना तद्वतः ब्रह्मविद्याङ्गत्वेन मातापित्रादिभक्तिविधानावगमात् न ब्रह्मविद्यायाः कर्माङ्गत्वम् || पुनर्हेत्वन्तरमाह - || २५१ || नियमात् || ७ || ये के चास्मच्छ्रेयाग्ṁ सो ब्राह्मणाः | तेषां त्वयासने न प्रश्वसितव्यम् | श्रद्धया देयम् | अश्रद्धयाऽदेयम् | ह्रिया देयम् | भिया देयम् | संविदा देयम् | इत्यादिना तथा नियमविधित्वेन सर्वेषां कर्मणां ब्रह्मविद्याङ्गत्वप्रतिपादनात् नानार्थो युक्तः | एवं तैत्तिरीयश्रुत्या कर्मणः विद्याङ्गत्वं प्रसाध्य तदेव सत्यमिति स्वमतं दशयति - || २५२ || अधिकोपदेशात्तु वादारायणस्यैवं तद्दर्शनात् || ८ ||
SK
तु शब्दोऽत्र निश्चयार्थः | विद्यात एव पुरुषार्थः कुत || अधिकोपदेशात् || कर्मसु कर्तुर्जीवात् हेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणाकरत्वेन अधिकस्यार्थान्तरभूतस्य शिवस्य परब्रह्मणो वेद्यतयोपदेशात् भगवतो वादरायणस्य विद्यातपःफलमित्येवमेव मतम् लिङ्गानि तिष्टन्तु | वेद्यतयोपदेशस्तु तावत्कर्तुः प्रत्यगात्मनोऽधिकस्यैव | कथम् || तद्दर्शनात् || प्रत्यगात्मन्यशुद्धे शुद्धेऽप्यसम्भावनीयानन्तगुणाकरस्य महनीयस्य वेद्यस्व निरस्तनिखिलहेयगन्धस्य स्वसङ्कल्पकृतजगदुदयविभवलयलीलस्य सर्वज्ञस्य सर्वशक्तेर्वाङ्मनसापरिच्छेद्यानन्दस्य जीवाधिकस्य कृत्स्नस्य प्रशासितुश्शिवस्य ब्रह्मणो वेदनोपदेशवाक्येषु दर्शनात् | अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामस्सत्यसङ्कल्पः तेदैक्षत बहुस्यां प्रजायेय आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन एष सर्वेश्वरः एष भूताधिपतिरेष भूतपालः एष सेतुर्विधरणः सकारणं कारणाधिपाधिको न चास्य कश्चिज्जनिता न चाधिपः एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि भीषास्मात् वातः पवते इत्यादिषु वेदनोपदेशशब्देषु कर्तुः प्रत्यगात्मनः स्वद्योतकल्पनस्य अविद्यादिहेयसम्बन्धयोग्यस्य गन्धोऽपि नास्तीति परमपुरुषशिवविषयायाः विद्यायाः तत्प्राप्तिरूपममृतत्वं तत्र तत्र श्रूयमाणं फलमिति विद्यातः पुरुषार्थ इत्ययुक्तम् | अस्मिन्नर्थे पुनर्हेत्वन्तरमाह - || २५३ || तुल्यन्तु दर्शनात् || ९ || यदुक्तं ब्रह्मविदां कर्मानुष्ठानदर्शनात् विद्यायाः कर्माङ्गत्वमिति तन्न विद्यायाः अनङ्गत्वेऽपि तुल्यं दर्शनम् ब्रह्मविदां कर्मानुष्ठानदर्शनं अनैकान्तिकमित्यर्थः अननुष्ठानस्यापि
SK
दर्शनात् | दृश्यते हि ब्रह्मविदां कर्मत्यागः - ऋषयः कावषेयाः कर्मथां वयमध्येष्यामहे किमर्थं वयं यक्ष्यामहे किं प्रजया करिष्यामः इत्यादौ | अतो ब्रह्मविदां कर्मत्यागदर्शनात् न विद्या कर्माङ्गम् | कथमिदमुपपद्यते ब्रह्मविदां कर्मानुष्ठानमननुष्ठानञ्च फलाभिसन्धिरहितस्य यज्ञादिकर्मणो ब्रह्मविद्याङ्गत्वात् अतथाविधस्य कर्मणो मोक्षैकफलब्रह्मविद्याविरोधित्वात् तस्याननुष्ठानदर्शनं उपपन्नतरम् | विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते | यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति इति श्रुतिः विद्यायाः कर्माङ्गत्वमवगमयतीति आशङ्कायामाह - || २५४ || असार्वत्रिकी || १० || न दहर-शाण्डिल्य-वैश्वानर-उपकोसल-भूमादिसर्वविषयेयं श्रुतिः अपितु उद्गीथविद्याविषयैव | यदेव विद्यया करोति इति यच्छब्दस्य अनिर्धारितविशेषस्य उद्गीथमुपासीत इति प्रस्तुतोद्गीथविशेषनिष्ठत्वात् | न हि यत्करोति तद्विद्ययेति सम्बध्यते | विद्यया क्रियमाणं यच्छब्देन निर्दिश्य तस्य हि वीर्यवत्तरत्वमुच्यते | यच्चोक्तं तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च इति श्रुतौ आत्माज्ञानकर्मणोः अङ्गाङ्गिभावेन मिलितयोः स्वर्गलोकप्राप्तिसाधनत्वकथनात् ब्रह्मज्ञानस्य स्वातन्त्र्येण मोक्षसाधनत्वमयुक्तमित्याशङ्क्याह - || २५५ || विभागः शतवत् || ११ || तं विद्याकर्मणी समन्वारभेते इत्यत्रोक्तेन न्यायेन विद्याकर्मणोर्भिन्नफलत्वात् विद्या स्वस्मै फलाय समन्वारभते कर्म च स्वस्मै फलायेति विभागो द्रष्ठव्यः |
SK
किञ्च - विद्याशब्देनाऽमूर्तपरशिवज्ञानं मूर्तपरशिवज्ञानं वा प्रोच्यते | निरवयवतत्त्वज्ञानिनां कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति इति इहैव सूक्ष्मशरीरविलयपूर्वकं अत्रैव परशिवब्रह्मैकत्वस्य प्रतिपादितत्वात् परलोकगमनप्रसक्त्यसम्भवेन विद्याशब्देन मूर्तपरशिवब्रह्मोपासनैव गीयते | एवं स्थिते सति तं विद्याकर्मणी समन्वारभेते इति श्रुतौ विभागो निश्चीयते | तं देवयानमार्गेण परशिवब्रह्मलोकं गच्छन्तं मूर्तब्रह्मोपासकं विद्यामूर्तशिवोपासना समन्वारभते - अनुसृत्य गच्छति | तं धूमादिमार्गेण स्वर्गलोकं गच्छन्त कर्मिणं ज्योतिष्ठोमादिरूपं कर्म च समन्वारभते अनुसृत्य गच्छति इत्येवंकथं विभागोऽवगम्यते शतवत् | यथा क्षेत्ररत्नविक्रयिणं शतद्वयमन्वेतीत्युक्ते क्षेत्रार्थं शतं रत्नार्थं शतं इति विभागः प्रतीयते तद्वदिहापि वेदियव्यम् | उत - शतवदित्यत्र द्वयोर्ब्राह्मणयोः शतं पर्णा इति वाक्ये एकस्य ब्राह्मणस्य पञ्चाशत्पर्णा दातव्याः अन्यस्य ब्राह्मणस्य पञ्चाशत्पर्णा दातव्याः इति विभागो यथा निश्चीयते तद्वदमूर्तपरशिवब्रह्मोपासनाकर्मणोः स्वातन्त्र्येऽ प्रत्येकं मूर्तपरशिवब्रह्मलोक-स्वर्गलोकप्राप्तिसाधनस्य-उक्तत्वात् उभयोर्मिलित्वा परशिवब्रह्मलोकप्राप्तिं प्रति वा साधनत्वमिति संशये ज्योतिष्टोमादिकर्मोपासकानां स्वर्गलोकानुभवः मूर्तपरशिवब्रह्मोपासकानां निरतिशयानन्दस्वभावनित्वनिरुपमाद्वितीयपरशिवलोककल्याणविभूत्यात्मक-
SK
ननु तं विद्याकर्मणी समन्वारभेते तं स्वर्गलोकं गच्छन्तं कर्मिणं विद्याकर्मणी इति वाक्ये विद्याशब्देन कर्माङ्गभूतशरीरेन्द्रियमनःप्राणाद्यतिरिक्त जीवज्ञानं पशु- anusṛtya gacchatītivākye karmajñānayorubhayorekatvāvagamāt na vai lakṣaṇyamiti ceducyate - śarīrendriyādyatiriktajīvajñānasya śivopāsanāṅgabhūtatvāt jīva- देहेन्द्रियमनःप्राणजीवैक्यज्ञानानुसरणेन ज्योतिष्टोमादिकर्माचरणस्य स्वर्गलोक प्राप्तिहलमुच्यते | तस्मात् शरीरेन्द्रियाद्यभिमानिजीवज्ञानस्यैव कर्माङ्गत्वमिति निश्चीयते | यच्चोक्तं - य एवं विद्वान् यजते इति श्रुतौ शिवज्ञानिनामपि कर्माधिकारश्रवणात् शिवज्ञानमपि कर्मानुष्ठानाङ्गमेवेति पुनः शङ्कायां परिहरणार्थमाह - || २५६ || अध्ययनमात्रवतः || १२ || यदुक्तं विद्याकर्मवतः कर्मविधानाद्विद्याकर्माङ्गत्वमिति नैतद्युक्तम् - वेदमधीत्य इत्यध्ययनमात्रवतो विधानात् | न चाध्ययनविद्धिरेवार्थबोधे प्रवर्तयति आधानवदध्ययनस्याक्षरराशिग्रहणमात्रे पर्यवसानात् गृहीतस्य च स्वाध्यायस्य फलवत्कर्मावबोधित्वदर्शनात् तन्निर्णयफले तदर्थविचारे पुरुषः स्वयमेव प्रवर्तते | ततः कर्मार्थी कर्मज्ञाने प्रवर्तते | मोक्षार्थी च ब्रह्मज्ञाने इति न विद्या कर्माङ्गम् | यद्यप्यध्ययनविधिरेवार्थावबोधे प्रवर्तयति - तथाऽपि न विद्या कर्माङ्गं अर्थज्ञानादर्थान्तरत्वाद्विद्यायाः | यथा ज्योतिष्टोमादिकर्मस्वरूपविज्ञानात्फलसाधनभूतं तत्तत्कर्मानुष्ठानमर्थान्तरं तथार्थज्ञानरूपाद्ब्रह्मस्वरूपविज्ञानादर्थान्तरमेव ध्यान- karmasambandhagandho vidyate | ya evaṃ vidvān yajate vidvānagnihotraṃ juhuyāt ityādiśrutiniṣṭhavidvacchabdena karmakāṇḍaprakaraṇapaṭhitavedārthajñānipuruṣaviṣayatvam | na tu brahmajñānipuruṣaparatvam | tasmāt vedādhyayanavataḥ pāṇineya- परमेश्वरार्पितबहुजन्मकृतकर्मानुष्ठानं तु परम्परया मोक्षहेतुरिति विधीयते |
SK
कुर्वन्नेवेह कर्माणि इति श्रुतौ शिवज्ञानितदज्ञानिपुरुषाणां सर्वेषां शरीरपातपर्यन्तं कर्मानुष्ठानस्यावस्यकत्वकथनात् न परशिवब्रह्मज्ञानस्य स्वातन्त्र्येण मोक्षहेतुत्वमित्याशङ्क्य तत्परिहारमाह - || २५७ || नाविशेषात् || १३ || यच्चोक्तं कुर्वन्नेवेह कर्माणि इत्यात्मविदं ज्ञानात् व्यावर्त्य यावज्जीवं कर्मानुष्ठाने नियमयति इति तन्नोपपद्यते - अविशेषात् न ह्ययं नियमः फलसाधनभूतस्वतन्त्रकर्मविषय इति विशेषहेतुरस्ति विद्याङ्गभूतकर्मविषयतयाप्युपपत्तेः | कर्मणैव हि संसिद्धिं आस्थिता जनकादयः इत्यत्र कर्मणा जनकादीनां मोक्षप्रथमाङ्गभूतां चित्तशुद्धिं विन्दन्तीत्यवगम्यते | लिङ्गाङ्गिनां निष्कामकर्माणि विहितानिः श्रुतिस्मृत्युदितं धर्मं नित्यनैमित्तिकाश्रयम् | कुर्याल्लिङ्गाङ्गसम्बन्धी द्विजन्मा कामवर्जितः || विध्युक्तकर्मानुष्ठानात् चित्तशुद्धिर्भवेद्ध्रुवम् | चित्तशुध्या भवेद्भक्तिः सापि चाव्यभिचारिणी || तया सञ्जायते ज्ञानं न चाऽस्त्यज्ञानमात्मनः | तस्मान्मोक्षस्ततः कर्म विध्युक्तं सम्यगाचरेत् || इति शङ्करसंहितायां कर्मणां मोक्षस्य प्रथमाङ्गत्वं निरूपितम् | एवमर्थस्वभावेन चोद्यं परिहृत्य कुर्वन्नेवेह कर्माणि इति वाक्यस्य अर्थमाह - || 258 || stutaye'numatirvā || 14 || vā śabdo'vadhāraṇārthaḥ | īśāvāsyamidaṃ sarvaṃ yatkiñca jagatyāṃ jagat | tena tyaktena bhujjīthāḥ mā gṛdhaḥ kasyaciddhanam || iti vidyāprakaraṇāt vidyāstutaye sarvadā karmānuṣṭhānānumatiriyam | vidyāmāhātmyāt sarvadā karma kurvannapi na lipyate karmamiriti hi vidyā stutā bhavati | vākyaśeṣaścaivameva darśayati | evaṃ tvayi nānyaśrato'sti na karma lipyate nare iti | śivabhāvanayā sarvaṃ nityanaimittikādikam | kurvannapi mahāyogī guṇadoṣairna badhyate || iti siddhāntāgame śrūyate | ato na karmāṅgaṃ vidyā | nanu saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata | kuryādvidvāṃstathā saktaḥ cikīrṣurlokasaṅgraham ||
SK
ज्ञाने सिद्धेऽपि विदुषां कर्मापि विनियुज्यते | फलाभिसन्धिरहितं तस्मात्कर्म न सन्त्यजेत् || इत्यादिबहुस्मृतिषु विदुषामपि नित्यनैमित्तिकादिनिखिलकर्मानुष्ठानावश्यकत्वकथनात् कर्मानुष्ठानस्य विद्यास्तुतिपरत्वं कथमित्याशङ्कायामाह - || २५९ || कामचारेण चैके || १५ || अपि चैवं एके शाखिनः कामचारेण ब्रह्मविद्यानिष्ठस्य गार्हस्थ्यत्यागमधीयते | किं प्रजया करिष्यामः येषां नोऽयमात्मायं लोकः इति विदुषो विरक्तस्य कामचारेण गार्हस्त्थकर्मत्यागं ब्रुवदिदं वचनं ब्रह्मविद्यायाः कर्माङ्गत्वं दर्शयति | न कर्मणा इत्यादिश्रुतिषु | अनेकजन्मशुद्धानां श्रौतस्मार्तानुवर्तिनाम् | विरक्तानां प्रबुद्धानां प्रसीदति महेश्वरः || प्रसन्ने सति मुक्तोऽभून्मुक्तश्शिवसमो भवेत् | अल्पभावोऽपि यो मर्त्यः तस्य जन्मत्रयात्परम् || इत्यादिष्वपि यज्ञादिकर्माङ्गत्वे हि विद्यानिष्ठस्य कामचारेण गार्हंस्थ्यत्यागो न सम्भवति | अतो न विद्यायाः कर्माङ्गत्वम् | जीवब्रह्मभेदज्ञानस्य कर्मानुष्ठानाङ्गभावात् चतुर्विधमोक्षाङ्गत्वं साधितम् | इदानीं जीवबह्मज्ञानविषयकसाक्षात्कारस्य सर्वकर्मनाशकत्वादपि जीवब्रह्मभेदविषयकं परोक्षज्ञानं कथं न कर्माङ्गमित्याशङ्कायामाह - || २६० || उपमर्दं च || १६ || बहुशरीरप्रवेश-निर्गमन-प्रवेशव्यापारसांसारिकदुःखमूलपुण्य- bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ | kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || cittākāśaṃ cidākāśaṃ ākāśaṃ ca tṛtīyakam | dvābhyāṃ śūnyataraṃ viddi cidākāśaṃ mahāmune || dhyāyato hṛdayākāśe citiciccakradhārayā | mano māraya niśśaṅka tvāṃ prabadhnanti nārayaḥ || bhogaikavāsanāṃ tyaktvā tyaja tvaṃ bhedavāsanām | bhāvābhāvau tatastyaktvā nirvikalpaḥ sthiro bhava || tyaja dharmamadharmaṃ ca ubhe satyānṛte tyaja | ubhe satyānṛte tyaktvā yena tyajasi tattyaja || ātmanyatīte sarvasyātmasvarūpe'thavātate | ko bandhaḥ kaśca vā mokṣaḥ nirmūlaṃ mananaṃ kuru ||
SK
आदिमध्यावसानेषु दुःखं सर्वमिदं यतः | तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ || निद्राया लोकवार्ताया शब्दादेरात्मविस्मृतः | क्वचिन्नावसरं दत्वा चिन्तयात्मानमात्मनि || आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया | दद्यान्नावसरं किञ्चित् कामादीनां मनागपि || अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् | इत्यादिश्रुतिषि ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन इत्यादिस्मृतिषु च विद्यायाः कर्माङ्गत्वेन सर्वोत्कृष्टत्व सर्वदर्मलयहेतुत्वावगमात् तदेव युक्तम् | न च परशिवब्रह्मसाक्षात्कारस्य सकलकर्मानुष्ठानाङ्गावाभावेऽपि श्रवणोत्तरकालीनस्य जीवब्रह्मभेदस्य परोक्षज्ञानस्य च कर्मानुष्ठानाङ्गत्वं भवतीति वाच्यम् | वेदान्तविज्ञानसुनिश्चितार्थाः मुच्यन्ति सर्वे इत्यादिश्रुतिषु तद्ज्ञानस्यापि क्रममुक्तिहेतुत्वावगमात् न कर्माङ्गत्वं सिद्धम् | ऊर्ध्वरेतस्काधिकरणम् || २ || शैवागमविहितशैवचतुराश्रमिलिङ्गधारणनिर्णयः ननु - वीरहा वा एष देवानां योऽग्निमुद्वासयेत् इत्यादिश्रुतिष्वग्निहोत्रादिकर्मणां अकरणे प्रत्यवायावगमात् वसिष्ठ-जनकादिब्रह्मनिष्ठानामपि कर्मानुष्ठानदर्शनाच्च ब्रह्मविद्यायाः कर्माङ्गत्वं कथमनुपपन्नमित्याशङ्कायां तन्निराकरणार्थं अधिकरणान्तरमाह - || २६१ || ऊर्ध्वरेतस्सु च शब्दे हि || १७ || न्यास इति ब्रह्मणः परः परो हि ब्रह्मा तानि वा एतान्यावराणि तपाग्ṁसि न्यास एवात्यरेचयद्य एवं वेदेत्युपनिषत् इति तैत्तिरीये न्यास इत्याहुर्मनीषिणो ब्रह्माणं ब्रह्म इत्यादिषु बहुजन्मकृतपुण्यपुञ्जपरिपक्वशुद्धान्तःकरणानां ज्योतिष्टोमादिकर्मनिराकरणपूर्वकसंन्यासाश्रमोपदेशात् यावज्जीवमग्निहोत्रं जुहोति वीरहा वा एष देवानां योऽग्निमुद्वासयते इत्यादावकरणे प्रत्यवायपूर्वकत्वेन अग्निहोत्र-दर्शपूर्णमासादीनां यावज्जीवाधिकारव्यवस्थापनात् वामदेव- nirābhāra saṃjñikayatyāśramaviśiṣṭatvadyotanācca loke sarveṣāṃ brāhmaṇānāñca caturthāśramasaṃjñikasanyāsaḥ kartavyo'kartavyo veti sandihyate |
SK
ऊर्ध्वरेतसामपि सन्यासः कर्तव्य एवेति | यावज्जीवमग्निहोत्रं जुहोति इत्यादिना अग्निहोत्र-दर्शपूर्णमासादीनां यावज्जीवकर्तव्यदर्शनात् त्रयो धर्मस्कन्धाः इत्यादौ आश्रमत्रयस्यैवोपदेशात् ब्रह्मसंस्थोऽमृतत्वमेति न्यास इत्याहुर्मनीषिणो ब्रह्माणं ब्रह्म इत्यादितुर्याश्रमविधायकवाक्यानां अर्थवादमात्रं अत्र क्रियते | ये चेमेऽरण्ये श्रद्धां तप इत्युपासते इति च देवयानविधिपरत्वात् तत्रापि नाश्रमान्तरविधिः सम्भवति | किञ्च - अश्वालम्बं गवालम्बं सन्यासं पलपैतृकम् | देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् || इति पाराशरस्मृतौ सन्यासनिषेधावगमात् कृते तु मानवो धर्मः त्रेतायां गौतमस्मृतिः | द्वापरे शंखलिखितं कलौ पाराशरस्मृतिः || इति तत्रैव सर्वस्मृत्यपेक्षया पाराशरस्मृतेः बलीयस्त्वोपदेशात् शैवः पञ्चविवर्जयेत् प्रायश्चित्तं चोपवासं संन्यासं यतिवन्दनम् | तीर्थयात्राभिगमनं शैवः पञ्च विवर्जयेत् || इति शैवागमे तद्वदुपदेशाच्च सर्वथा वैदिकाना चतुर्थाश्रमो न कर्तव्य एवेति प्राप्ते प्रचक्ष्महे - न विद्या कर्माङ्गम् ऊर्ध्वरेतस्सु आश्रमेषु ब्रह्मविद्यादर्शनात् तेष्वग्निहोत्र- vaidika eva hi śabde te dṛśyante | trayo dharmaskandhāḥ | ye ceme'raṇye śraddhā tapa ityupāsate evameva pravrājino lokamicchantaḥ pravrajanti vedānamuṃ lokaṃ amuṃ lokamamuṃ parityajyātmānamanvicchet traya ete puṇyalokā bhavanti | brahma saṃstho amṛtatvameti saṃnyasya śravaṇaṃ kuryāt ityādau yatyāśramasthānāṃ agnihotrādikarmānuṣṭhānavidhyabhāvāt yāvajjīvamagnihotraṃ juhoti ityādiśrutisiddhayāvajjīvāgnihotravidhistvaviraktaviṣaya eveti siddham | tathā sūtasaṃhitāyāṃ - caturvidhāstu vijñeyā bhikṣavo vṛttibhedataḥ athātassaṃmpravakṣyāmi saṃnyāsaṃ munisattama | caturvidhāstu vijñeyā bhikṣavo vṛttibhedataḥ || kuṭīcako muniśreṣṭha tathaiva ca bahūdakaḥ | haṃsaḥ paramahaṃśaśca teṣāṃ vṛttiṃ vadāmi te ||
SK
कुटीचकस्तु संन्यस्य स्वे स्वे वेश्मनि नित्यशः भिक्षामादाय भुञ्जीत स्वबन्धूनां गृहेऽथवा || शिखा यज्ञोपवीती स्यात्तिदण्डी स कमण्डलुः सपवित्रश्च काषायी गायत्रीञ्च जपेत्सदा || सर्वाङ्गोद्धूलनं कुर्यात्त्रिपुण्ड्रञ्च त्रिसन्धिषु | शिवलिङ्गार्चनं कुर्यात् श्रद्धयैव दिने दिने || बहूदकस्तु संन्यस्य बन्धुपुत्रादिवर्जितः | सप्तागारं चरेद्भैक्षमेकान्नं परिवर्जयेत् || गोवालरज्जुसम्बन्धं त्रिदण्डी शिक्यमद्भुतम् | पात्रं जलपवित्रञ्च कौपीनञ्च कमण्डलुम् || आच्छादनं तथा कुर्यात्पादुकाच्छत्रमद्भुतम् | पवित्रमजिनं सूचिं पक्षिणीमक्षसूत्रकम् || योगपट्टं बहिर्वस्त्रं मृत्वनित्रं कृपाणिकाम् | सर्वाङ्गोद्धूलनं तद्वत्त्रिपुण्ड्रं भस्म धारयेत् || शिखायज्ञोपवीतञ्च देवताराधने रतः | स्वाध्यायं सर्वदाभ्यासमुत्सृजेद्ध्यानतत्परः || सन्ध्याकाले च सावित्रीजपकर्म समाचरेत् | हंसः कमण्डलुं शिक्यं भिक्षापात्रं तथैव च || कन्था कोपीनमाच्छाद्यमङ्गवस्रं बहिःपटम् | एकन्तु वैणवं दण्डं धारयेन्नित्यमादरात् || त्रिपुण्ड्रोद्धूलनं कुर्याच्छिवलिङ्गं समर्चयेत् | अष्टग्रासं सकृन्नित्यमश्नीयात्सशिखं वपेत् || सन्ध्याकाले तु सावित्रीजपमध्यात्मचिन्तनम् | तीर्थसेवा तथा कृच्छ्रं तथा चान्द्रायणादिकम् || कुर्वन् ग्रामैकरात्रेण न्यायेनैव समाचरेत् | परहंसस्त्रिदण्डञ्च रज्जुं गोवालनिर्मितम् || शिक्यं जलपवित्रञ्च पवित्रञ्च कमण्डलुम् | पक्षिणीमजिनं सूचिं मृत्वनित्रं कृपाणिकाम् || शिखायज्ञोपवीतञ्च नित्यं कर्म परित्यजेत् | कौपीनाच्छदनं वस्त्रं कन्थां शीतनिवारिणीम् || योगपट्टं बहिर्वस्त्रं पादुके छत्रमद्भुतम् | अक्षमालाञ्च गृह्णीयाद्वैणवं दण्डमव्रणम् || अग्निरित्यादिभिर्मन्त्रैः कुर्याद्धूलनं मुदा | ओमोमिति सदा प्रोच्यन् हंसः कुर्यात्त्रिदण्डकम् || मृत्पात्रं कांस्यपात्रं वा दारुपात्रञ्च वैणवम् | पाणिपात्रं च गृह्णीयादाचम्येवं तदोदकम् ||
SK
बहूदकानां हंसानां पाणिपात्रं ततोदकम् | कांस्यपात्रं न विध्युक्तं मृत्पात्रमिति हि श्रुतिः || मधूकरमथैकान्नं परहंसस्समाचरेत् | नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः || तस्माद्योगानुगुण्येन भुञ्जीत परहंसकः | अभिशस्तं समुत्सृज्य सार्ववर्णिकमाचरेत् || उत्तरोत्तरलाभे तु पूर्वं पूर्वं परित्यजेत् | गुरुशुश्रूषया नित्यमात्मज्ञानं समभ्यसेत् || उत्तमां वृत्तिमाश्रित्य नीचां वृत्तिं समाश्रितः | आरूढपतितो ज्ञेयस्सर्वकर्मबहिष्कृतः || प्रव्रजन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः | एषो हि मण्डलं भित्वा ब्रह्मलोकं स गच्चह्ति || दैवतं द्विविधं प्रोक्तमचरं चरमेव च | चरं संन्यासिनां रूपमचरं मृण्मयादिकम् || यस्याश्रमरतिर्नित्यं वर्तते मुनिपुङ्गवाः | न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते || दुर्वृत्तो वा सुवृत्तो वा मूढो वा पण्डितोऽपि वा | प्रेषोच्चारणमात्रेण पूज्यस्सर्वेश्वरो यथा || ब्रह्मचर्याश्रमस्थानां ब्रह्मा देवः प्रकीर्तितः | गृहस्थानाञ्च वैकुण्ठो वनस्थानां रविस्स्मृतः || यतीनां शङ्करो ज्ञेयः सर्वेषामुत्तमोत्तमः | इति दर्शनात् यज्ञोपवीतौ द्वौ धार्यौ श्रौतस्मार्ते च कर्मणि | तृतीयमुत्तरीयार्थं वस्त्राभावे चतुष्टयम् || पञ्चमं सुतकामश्च धनकामस्तथैव च | दशाष्टौ वा गृहस्थस्य चत्वारो वनवासिनाम् | एकैकमुपवीतन्तु यतेश्च ब्रह्मचारिणः | इति पाराशरस्त्मृतौ भगवता वादरायणेन यतीनामेकयज्ञोपवीतविधेः प्रपञ्चितत्वात् तदुक्त सन्यासिनिषेधागमवाक्यानां मुण्डसन्यासविषयत्व- śaivānāṃ caturāśramiṇāṃ liṅgadhāraṇopadeśavidhānam brahmacārī gṛhastho vā vānaprastho yatistu vā | yastu liṅgāṅgasaṃyuktaḥ sa evatyāśramī bhavet || ityādinā vātūlādyāgameṣu śaivānāṃ caturāśramiṇāṃ liṅgadhāraṇopadeśāt | nanu kīṭacakādicaturvidhasanyāseṣu vaidikānāṃ kalau kasya vidhānaṃ kasya niṣedhaḥ ityāśaṃkāyāṃ ācārāntaraṃ darśayati - || 262 || parāmarśaṃ jaiminiracodanāccāpavadati hi || 18 ||
SK
न कर्मणा इति तैत्तिरीये ब्रह्मचर्यं समाप्य गृही भवेत् बनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा प्रव्रजेत् | यदहरेव विरजेत्तदहरेव प्रव्रजेत् इत्याद्ना जाबाले लुत्पकेशनखश्मश्रुः पात्रदण्डसुकुम्भवान् | विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् || ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् || इति मनुस्मृतौ एकोरामशब्दार्थनिर्वचनम् सर्वभूतहितः शान्तः त्रिदण्डः सकमण्डलुः || एकोरामः परिव्रज्य भिक्सार्थं ग्राममाश्रयेत् || इति विज्ञानेश्वरे एकदण्डं त्रिदण्डं वा शिखां सूत्रं कमण्डलुम् | काषायञ्च शिखां कन्थां ब्रह्मसूत्रे कमण्डलुम् | धारयेऽछैवसंन्यासी तत्तन्मन्त्रविधानतः | इति गौतमस्मृतौ श्लक्ष्नकाषायसंवीतः शिखी छत्र-उपानही || वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू | परिव्राजकरूपेण वैदेहीमन्वपद्यते || इति रामायणे च ऊर्ध्वरेतस अश्रमधर्मा दृश्यन्ते तथापि प्रात्यक्षिकश्रुतिस्मृति-सूत्रपुराणेषु शिखा-गायत्री- andhaparamparānyāyabhramasiddha iti apavadati jaiminiḥ jaiminyācāryaḥ pratipādayati | tasmāt śrutismṛtyanusāreṇa yatīnāṃ ūrdhvaretasāmāsāṃ brahmadharmapradhānasāvitrī-śikhā-sūtrasandhānāvirodhasaṃnyāsagrahaṇaṃ yuktam | ūrdhvaretaskānāṃ brahmacāriṇāmeva sanyāsāśramānuṣṭheyatānirṇayaḥ evaṃ svasiddhāntānusāreṇa ācārāntaraṃ darśayitvā tadvat svasiddhāntamāha - || 263 || anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ || 19 || brahmacaryādyāśramāt ūrdhvaretasāṃ saṃnyāsāśramo'nuṣṭheya iti bhagavān bādarāyaṇo manyate | kutaḥ || sāmyaśruteḥ || trayo dharmaskandhāḥ etameva pravrājino lokamicchantaḥ pravrajanti iti śruteḥ ūrdhvaretasāṃ brahmacaryāśramavat yatyāśramasyāpi sarvādhikaparabrahmaprāpakatve hi mukhyahetutvaśravaṇāt | kiñca - prājāpatyaṃ brāhmaṇānāṃ ityārabhya brāhmaṃ sanyāsināṃ smṛtam ityantena varṇānāṃ āśramāṇāñca kevalānāṃ brahmalokaprāptyaṃtaṃ phalamabhidhāya
SK
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये | तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः || इति तेष्वेव ब्रह्मनिष्ठानां ब्रह्मप्राप्तिनभिदधता भगवता पाराशर्येण स्पष्टमुक्तम् | तत्रैव - एकैकमुपवीतं तु यत्नेश्च ब्रह्मचारिणः | इति यतीनां ब्रह्मचारिवदेक-यज्ञोपवीतकथनात् मन्वादिस्मृतिषु भारत-भागवत- nanu rāvaṇa-dharmarājā'rjunādisaṃnyāsastu kṛtrimatvena śikhāsūtradhāraṇamucitam | akṛtrimasaṃnyāsināṃ tannāṅgīkartavyamiti cenna | loke rāma-kṛṣṇādipratimāsu tadveṣāvalambanapuruṣeṣu ca tanniṣṭhamukhyalāñchanādikasyaiva dṛṣṭatvāt śikhopavītatyāgaviśiṣṭatvasya saṃnyāsalakṣaṇatve tādṛśadharmaparityāgaḥ kathamupadiśyate daśamukhādarśanapūrvakayatīśvaraveṣāvacchinnaikamukharāvaṇe dharmadevatāvaraprāptayudhiṣṭhirādiṣu śikhāsūtrādarśanamahimā kiṃ na syāt kiñca - pūrvodāhṛtamanu-pārāśara-yājñavalkyādismṛtīnāṃ dattāñjali syāt | tathā vṛddhaśātātape - rudraśśikhā pṛthivī yoniḥ iti taittirīyadarśanāt | śikhotpāṭanayā loke śivadrohī bhaveddhruvam | śikhāyajñopavītābhyāṃ vipratvaṃ paricakṣyate || tayorabhāve śūdratvaṃ ata eva na saṃśayaḥ | tasmācchikhā-brahmasūtraṃ caturāśramiṇastathā || dhāryaṃ tacca prayatnena vedamārgāvalambinām || iti śaṅkarasaṃhitāyāṃ - liṅgadhārisaṃnyāsi svarūpakathatam atyāśramī prāṇaliṅgasambandhī bhasmaghuṇṭikām | kanthāṃ kamaṇḍaluṃ bhikṣāpātraṃ daṇḍañca dhārayet | etāḥ pañcamahāmudrā yasmin yasmin vasanti hi || taṃ taṃ śaraṇamabhyetya sarvabhāvena pūjayet | pañcamudrānvito dharmaḥ yasmat vatsa pravartate || sampadya sarvadā pūjyaḥ prāṇaliṅgasamanvitaiḥ | iti tatraiva liṅgadhārisaṃnyāsināñca pañcamudrādhārakatvopadeśāt mukuṭāgame - दण्डं कमण्डलुं कन्थां ब्रह्मसूत्रं शिखां तथा | प्राणलिङ्गञ्च काषायं भिक्षापात्रमुपानही || भस्मघुट्टीं तथा छत्रं अत्याश्रमपरस्सदा | धृत्वा जितेन्द्रियो भूत्वा शिवयोगं समम्यसेत् ||
SK
शिवयोगिसमीपे वा शिवलिङ्गस्य सन्निधौ | शिवागमसमीपे वा निराभारं समाश्रयेत् || इत्यादिबहुस्मृति-पुराणागमेषु शिखा-ब्रह्मसूत्रवैशिष्ट्यस्य संन्यास एव बहुधा दर्शनात् तथैव वैयासिकमुख्याभिप्रेतत्वाच्च विदुषां स एवावश्यकः | मुमुक्षूणां इष्टलिङ्गधारणवत् ब्रह्मदण्डधार्यतानिर्देशः ननु केषुचित् स्मृतिपुराणादिषु बहूदकह् परो हंसः त्रिदण्डानितु धारयेत् इत्यादिना बहूदकपरमहंसानां अदण्डविधेः केषाञ्चिदेकदण्डत्वस्य च अवधारणात् ब्राह्मणानां को विधिराश्रीयते इत्याशङ्कायामाह - || २६४ || विधिर्वा धारणवत् || २० || वा शब्दोऽत्रावधारणार्थः | धारणवत् अमृतस्य देवधारणो भूयासम् | शरीरं मे विचर्षणम् नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासम् | इत्यादिषु मुमुक्षूणां परशिवलिङ्गधारणं यथाविधि तद्वत् तद्विधाने सस्वा मा गोपाय इति मन्त्रेण ब्रह्मदण्डं धारयेत् इति श्रवणात् ऊर्ध्वरेतसां ब्राह्मणानां कुटीचकादिचतुर्विधयत्याश्रमिणां एक दण्ड एव विधिरिति निश्चीयते | वाग्दण्डो हि मनोदण्डः कर्मदण्डस्तु ते त्रयः | इत्येते निहिता दण्डा यस्यास्ति स यतिस्मृतः || इति बोधायनस्मृतौ दण्डत्रयविशिष्टत्वस्य यतीनां मुख्यत्वेन द्योतनात् भारतरामायणादिग्रन्थेष्वपि अर्जुन-रघुमहाराजादीनां दण्डत्रयपरिग्रहणवचनाचारदर्शनात् तदेव युक्तमिति चेत्तदयुक्तम् | तत्रैव - दण्डमेकन्तु विप्राणां क्षत्रियाणां त्रिदण्डकम् | वैश्यानां च तथा प्रोक्तं ससानग्रन्थिसंयुतम् || सत्यमध्यात्मविज्ञानं वाग्दण्डस्तु प्रचक्ष्यते | स्वकीयाश्रमकर्माणि कर्मदण्ड इतीर्यते || शमादिकं शिवध्यानं मनोदण्डः प्रकर्तितः | वणवं ब्रह्मदण्डाख्यं एकं धृत्वा चरेद्यतिः || इति शातातपे - शिखी जटी वा मुण्डी वा ब्राह्मणो वेदवित्तमः | धारयेद्ब्रह्मदण्डैकं यतयो नैकचेतसः || कुटीचकादियतयो वसिष्ठाद्याश्च संस्मृताः | बहूदकादियतयो व्यास-श्वेतोपमन्यवः ||
SK
तेषामप्येकदण्डत्वं शिखा-यज्ञोपवीतकम् | दर्शनाद्ब्राह्मणो लोके दण्डमेकन्तु धारयेत् || इति बहूदकस्तु संन्यासी दण्डमेकं कमण्डलुम् || शिखां सूत्रं च काषायं धारयेदजिनादिकम् || इति वृद्धशातातपे दर्शनाच्च | वाग्दण्डो वाङ्नियमः मनोदण्डो मनोनिग्रहः कर्मदण्डः स्वाश्रमविहितकर्मनिष्ठेत्युपदेशात् वाग्दण्डादिकं वेणुरूपेण परित्यज्य ब्रह्मदण्डस्यैव विधिविहितत्वात् ब्राह्मणानां ऊर्ध्वरेतसां शरीरपातपर्यन्तं धार्यमिति निश्चीयते | किञ्च संन्यस्य वेदान्तश्रवणं कुर्यात् इत्यादिविधिदर्शनात् यतीनामेव वेदान्तश्रवणाधिकार इति चेदुच्यते | गुरोरपि गृहस्थाशमावश्याश्रयणीयतानिर्णयः परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन | तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् || इत्यत्र शिष्यस्य समित्पाणित्वप्रदर्शनेन गुरोरपि गृहस्थाश्रमत्वमुपदिष्टम् | श्रोत्रियत्वोपदेशेन गुरोर्निषिद्धकर्मनिराकरणं ब्रह्मनिष्टमित्यनेन वागद्वैतदुर्वादनिराकरणपूर्वकशिवैकनिष्ठागरिष्ठत्वं चोक्तम् | अत एव ब्रह्मचर्याद्याश्रमिणामपि वेदान्तश्रवणमननादिकमविरोधम् | तस्मादविद्यात्मककर्मणः ब्रह्मविद्याङ्गत्वं युक्तम् | स्तुतिमात्राधिकरणम् || ३ || कर्माङ्गब्रह्मचर्यादिवत् सन्यासाश्रमस्य विधेयता ननु ब्रह्मसंस्थोऽमृतत्वमेति इत्यादिवेदान्तवाक्यानां तावकत्वेन प्रमाणत्वाभावात् विरक्तानामपि धर्मप्रकरणपठितधर्माणामेवावश्यकत्वमित्याशङ्कायां अधिकरणान्तरं तन्निराकरणार्थं दर्शयति - || २६५ || स्तुतिमात्रमुपादानादिति चेन्न पूर्ववत् || २१ || न कर्मणा इति तैत्तिरीये श्रूयते | अत्र कर्मनिषेधवाक्यानि ब्रह्मविद्यास्तुतिमात्रपराणि आहोस्वित् विधिपराणि इति सन्दिह्यते | यावज्जीवमग्निहोत्रं जुहोति इत्यादिविधेर्बलीयस्त्वात् संन्यासविधायकवाक्यानां तत्तद्विध्यदर्शनात् जनकादिविदुषामप्यग्निहोत्रादिकर्मावश्यकत्वद्योतनात् ऊर्ध्वरेतस्कानां संन्यासविधिः स्तुतिमात्रमेवेति प्राप्ते प्रचक्ष्महे -
SK
ऊर्ध्वरेतस्कानां संन्यासविधायकश्रुतिस्मृत्यागमादीनां स्तुतिमात्रमुपादानादिति चेन्न पूर्वत्वात् पूर्वत्र जाबालादिश्रुतिस्मृतिषु असन्दिग्धतया विधिरूपेण प्रपञ्चितत्वात् ब्रह्मचर्यं समाप्य गृही भवेत् | गृहाद्वनी भूत्वा प्रव्रजेत् | यदि वेतरः ब्रह्मचर्यादेव प्रव्रजेत् इति जाबाले आसन्ने सङ्कटे घोरे चोरव्याघ्रादिगोचरे | भयं प्राप्तस्य संन्यासः कर्तव्यो मनुरब्रवीत् || आतुराणां च संन्यासे न विधिर्नैव च क्रिया | प्रैषमात्रं समुच्चार्य संन्यासं तत्र पूरयेत् || अहन्येकादशे प्राप्ते पार्वणन्तु विधीयते | न कुर्यात्पार्वणादन्यद्ब्रह्मीभूताय भिक्षवे || रोगवान् ज्ञाननिष्ठो वा योगी वा दुर्बलोऽपि वा | पुत्रमित्रकलत्रेभ्यः स भैक्ष्यं भोक्तुमर्हति || इति शौनक-बृद्धशातातपादिस्मृतिष्वपि तद्विधानस्य असन्दिग्धतया प्रपञ्चितत्वात् कर्माङ्गब्रह्मचर्यादिवत् संन्यासाश्रमः विधिबलाद्विधेय इति सिद्धम् | अत्र हेत्वन्तरमाह - || २६६ || भावशब्दाच्च || २२ || वेदान् इमं लोकममुञ्च लोकं परित्यज्यात्मानमन्विच्छेत् इत्यादिश्रुतिषु हारितस्मृतौ - कश्यपोऽत्रिभरद्वाजवसिष्ठभृगुगौतमाः | कपिलोऽमण्डपालश्च कुटीचकपथाश्रयाः || श्वेतोपमन्युदुर्वासा व्यासनारदशौनकाः | मार्कण्डेयो दधीचिश्च बहूदकपथाः स्मृताः || शाण्डिल्यः पुलिहोऽनतो गार्गेयो मुण्डकस्तथा | हंससंन्यासिनः प्रोक्ताः वोगध्यानपरायणाः || याज्ञ्यवल्क्यश्च जाबालकण्वमैत्रेयसंज्ञिकाः | परहंसा इति प्रोक्ताः जटावल्कलधारिणः || इत्यादिना कुटीचकादिचतुर्विधसंन्यासभावशब्दाचारदर्शनाच्च कलावप्यूर्ध्वरेतस्कानां संन्यासो विधेयः | तथापि - उपवीतं वटोरेकं द्वे तथेतरयोर्मते | एकमेव यतीनां स्यादिति शास्त्रविनिश्चयः || ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्रं कुरुतेऽथवा | स पाषण्ड इति ज्ञेयः सर्वकर्मबहिष्कृतः || ब्रह्मक्षत्रियवैश्यानां श्रौतसन्यास इष्यते | शूद्र-स्त्री-सङ्कराणाञ्च न्यासमश्रौतसंज्ञिकम् ||
SK
शिखासूत्रैकसंयुक्तं दण्डकाषायलाञ्छनम् | श्रौतसन्यास इत्युक्तं व्यासस्य वचनं यथा || श्रौताश्रौतविभेदेन सन्यासो द्विविधः स्मृतः | कन्थाकाषायदण्डकशिखासूत्रादिसंयुतः || श्रौतसन्यास इत्युक्तः साक्षान्मोक्षैकसाधकः | विप्राणां श्रौतसन्यासः कलौ व्यासेन गीयते || तस्माद्वैराग्यवान्विप्रः श्रौतसन्यासमाश्रयेत् | तेषां तद्वेदवेदान्तपठनं परिगीयते || ब्रह्मसूत्रैकसंसिद्धात् गायत्रीसमुपासनात् | इत्यादिना हारीत-शातातप-शौनक-गौतम-पाराशर- niścīyate | atra saṃnyāsastutimātraparatvābhāvāt yāvajjīvamagnihotraṃ juhuyāt iti vacanānāmatiriktaviṣayatvamiti veditavyam | pāriplavarthādhikaraṇam || 4 || brahmavidyāprakaraṇapaṭhitānāṃ upākyānānāmapi brahmavidyānukūlatvapratipādanam iyatā sūtrasandarbheṇa sanyāsasya brahmavidyānukūlatvaṃ prasādhya idānīṃ upaniṣanmadhyasthānāṃ yājñavalkya-maitreyīsaṃvāda- पूर्वपक्षमाशङ्क्य अधिकरणान्तरेण निराकरोति | || २६७ || पारिप्लवार्था इति चेन्न विशेषितत्वात् || २३ || पारिप्लवो नाम अश्वमेधाङ्गभूतः कर्मविशेषः | तस्मिन् कर्मणि ज्योतिष्टोमादिसकलकर्माङ्गभूतमन्त्राः पठनीयाः | एवं स्थिते सति याज्ञवल्क्य-मैत्रेयी संवादादिरूपाः कथाप्रबन्धा अपि पारिप्लवार्थाः कर्मकाण्डस्थपारिप्लवाख्यकर्माङ्गभूता इति चेन्न विशेषितत्वात् कर्मकाण्डस्थसकलकर्माङ्गभूता मन्त्राः पारिप्लवे पठितव्या इति विशिष्योक्तत्वात् | तथा च ज्ञानकाण्डस्थानामुपाख्यानानां कर्मकाण्डस्थपारिप्लवकर्माङ्गत्वप्रसक्तिर्नास्तीति सूत्रार्थः | प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम श्वेतकेतुर्वारुणेय आस इत्येवमादीन्याख्यानानि वेदान्तेषु किं पारिप्लवप्रयोगार्थानि उत विद्याविशेषप्रतिपादनार्थानि इति संशयः |
SK
किं तावत्प्राप्तम् आख्यानानि शंसन्तीत्याख्यानानि पारिप्लवार्थानि इति | अश्वमेधयागे राजानं सकुठुम्बमुपवेश्य तत्पुरतः वैदिकाख्यानानि अध्वर्युणा वक्तव्यानि | तदिदं पारिप्लवाख्यं कर्म पारिप्लवमाचक्ष्यते इति वाक्येन विहितं तस्सर्वा ख्यानानि पारिप्लवे शंसन्तीति विनियोगात् उपनिषदारम्भगता आप्याख्यायिकास्तदर्था इति न विद्याप्राधान्यत्वं न्याय्यमिति चेदुच्यते - || न विशेषितत्वात् || इति न पारिप्लवार्थाः ताः | ताः प्रथमेऽहनि मनुर्वैवस्वतो राजा द्वितीयेऽहनि यमो वैवस्वतो राजा इत्यादिना पारिप्लवार्थानां आख्यायिकानां विशेषितत्वात् उपनिषदाख्यानानां यदा कर्मभिरेकवाक्यता तदा विद्यादिभिः रेकवाक्यता | तस्मान्न सर्ववेदान्तेष्वाख्यानश्रुतयः पारिप्लवयोगार्थाः अपि तु विद्यार्था इति निश्चीयते | एतस्मिन्नर्थे हेत्वन्तरमाह - || २६८ || तथा चैकवाक्योपबन्धात् || २४ || आत्मा वारे द्रष्टव्यः इत्यादिविधिना एकवाक्यतयोपबन्धाच्च आख्यानानां विद्याविध्यर्थान्येव तानि इति गम्यते | सोऽरोदीत् इत्येवमादेः कर्मविध्यर्थत्वम् | तथा सति उपाख्यानानां पारिप्लवाङ्गत्वाभावे सति एकवाक्यत्वोपबन्धात् ब्रह्मविद्याङ्गत्वमुक्तम् | उपाख्यापूर्वकं ब्रह्मप्रतिपादने कृत्स्ने सति मन्दबुद्धीनामपि सुलभतया ब्रह्मज्ञानमुत्पद्यत इत्युच्यते | अग्नीन्धनाद्यधिकरणम् || ५ || ब्रह्मसाक्षात्कारे आधानादिकर्मणां मुख्यहेतुताया असङ्गतता ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् इत्यादिना मनुस्मृतौ विरागिणामप्याधानादिकर्मावश्यकत्वद्योतनात् न कर्मणा इत्यादिश्रुतावपि पूर्वत्र आधानादिरूपकर्मसापेक्षत्वस्य अर्थात् सिद्धत्वाच्च विरागिणामप्याधानादिसापेक्षता कथं वार्यते इत्याशङ्कायामधिकरणान्तरं दर्शयति - || २६९ || अत एव चाग्नीन्धनाद्यनपेक्षा || २५ ||
SK
दारेपण पुत्रेषण धुनेषणादि वासनानिर्मुक्तोर्ध्वरेतस्कानामेव मुख्यत्वेन ध्यान-धारणाद्यनुगत श्रवण-मननद्यङ्गब्रह्मविद्याधिकारत्वं यतः पूर्वत्र निर्दिष्टं अत एवाग्नीन्धनाद्यनपेक्षा- brahmasākṣātkārāya mukhyahetutvamasaṅgatamiti sūtrasūkṣmārthaḥ | pūrvatra brahmavidyāyāṃ karmāśatvadyotane'pi brahmaparatvaṃ sādhitam | atra yatyāśramiṇāmūrdhvaretaskānāṃ brahmavidyāṅgabhūtatvena ādhānādikarmasāpekṣā yuktā ayuktā veti sandihyate | vidyā'ñcāvidyāñca yastadvedobhayaṃ hi saḥ | avidyayā mṛtyuṃ tīrtvā vidyayāmṛ'tamaśnute || iti śrutau - iyāja so'pi subahūn yajñān jñānavyapāśrayaḥ | brahmavidyāmadhiṣṭhāya tartuṃ mṛtyumavidyayā || iti smṛtau ca karmaṇo brahmavidyāṅgatvopadeśāt vidyāvatāmūrdhvaretasāmapi brahmavidyāṅgatvenādhānādikarma kartavyameveti prāpte brūmaḥ | yataḥ ūrdhvaretasa āśramiṇo vidyāsambandhitvena śrutyā parigṛhyante brahmasaṃstho'mṛtatvameti ye veme'raṇye śraddhāṃ tapa ityupāsate eta meva pravrājino lokamicchantaḥ pravrajanti yadicchanto brahmacaryaṃ caranti ityādikayā | ata evordhvaretassu vidyā agnīndhanādyanapekṣā | agnīndhanaṃ agnyādhānam | ādhānapūrvakāgnihotradarśapūrṇamāsādikarmānapekṣā | teṣu vidyā kevalasvāśramavihitakarmāpekṣetyucyate | vidyāṃcā'vidyāñca iti śrutiraviraktaviṣayā | sarvāpekṣādhikaraṇam || 6 || cittaśuddhi-vairāgya-bhakti-jīvakāruṇya-śravaṇa- परशिवब्रह्मसाक्षात्कारहेतुत्वप्रतिपादनम् यज्ञेन दानेन इत्यादिश्रुतौ यज्ञादीनां ब्रह्मसाक्षात्कारहेतुत्वावगमात् कथं ज्योतिष्टोमादिकर्मणां ब्रह्मविद्याङ्गत्वमनुपपन्नमित्याशङ्कायामधिकरणान्तरमाह - || २७० || सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् || २६ ||
SK
यज्ञेन दानेन इति श्रुतिबलात् सर्वापेक्षा सर्वेषां परमेश्वरार्पितनित्य- pratyapekṣā - paramparayā sādhanatvaṃ gamyate | aśvavat yathā aśvasya gamanakriyayā paramparayā grāmaprāptihetutvaṃ tadvadupadiśyate | tathā ca tamevaṃ vedānuvacanena brāhmaṇā vividiṣanti iti śruteḥ cittaśuddhivairāgya-bhakti- यज्ञादिकर्मणां परशिवब्रह्मसाक्षात्कार हेतुत्वादप्रामाण्यं नास्तीति सूत्रार्थः | पूर्वाधिकरणे जितेन्द्रियाणां परिशुद्धान्तःकरणानां आधानादिकर्मापेक्षा न सम्भवतीति राद्धान्तितम् | अत्र गृहिणां ब्रह्मविद्याधिकारवत्वं विहितं न वेति चिन्त्यते | संन्यस्य वेदान्तश्रवणं कुर्यात् नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः इत्यादौ तदुभयविधिद्योतनात् न कुर्यान्निष्फलं कर्म इति न्यायाच्च गृहस्थानामपि ब्रह्मविद्याग्नीन्धनादिकर्मापेक्षा युक्तेति चेत् तस्याव्यभिचारेण विद्याङ्गत्वानुपपत्तेः | यत्तु विमता विद्या अङ्गभूतकर्मापेक्षाङ्गीकारात् प्रयाजाद्यपेक्षदर्शपूर्णमासवदित्यनुमानं तत्र आधानादेः कीदृशमङ्गत्वं साध्यम् प्रयाजादिवत्फलोपकारित्वम् अवघातादिवत् स्वरूपोपकारित्वं वा नाद्यः तज्जन्यत्वे मुक्तेरनित्यत्व. स्यात् द्वितीयेसाध्यविकलो दृष्टान्तः स्यात् | अतो न विद्याङ्गत्वं कर्मणः तस्माद्गृहिणामपि विद्या कर्मानपेक्षेति प्राप्ते प्रचक्ष्महे -
SK
तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन इत्यादिना यज्ञादयो हि विद्याङ्गत्वेन श्रूयन्ते | यज्ञादिना विविदिषन्ति वेदितुमिच्छन्ति यज्ञादिभिर्वेदनं प्राप्तुमिच्छन्तीत्यर्थः | यज्ञानां ज्ञानसाधनत्वे सत्येव यज्ञादिभिर्ज्ञानं प्राप्तुमिच्छन्तीति व्यपदेश उपपद्यते | यथा असेर्हननसाधनत्वे सत्यसिना जिधासन्तीति व्यपदेशः | अतो यज्ञादीनां ज्ञानसाधनत्वमवगम्यते | ज्ञानञ्च वाक्यार्थज्ञानात् अर्थान्तरभूतं ध्यानोपासनादिशब्दवाच्यं विशदतमप्रत्यक्षतावन्नश्रुतिरूपं निरतिशयप्रियं अहरहरभ्याऽसाधेयातिशयमाप्रयाणादनुवर्तमानं मोक्षसाधनमित्युक्तमस्माभिः पूर्वमेव | वक्ष्यति च - आवृत्तिरसकृदुपदेशात् इत्यादिना | एवंरूपञ्च ध्यानमहरहरनुष्ठीयमानैः नित्य-नैमित्तिककर्मभिः शिवाराधनरूपैः शिवप्रसादद्वारेण जायत इति यज्ञादिना विविदिषन्तीति शास्त्रेण प्रतिपाद्यते | अतः कर्मवत्सु गृहस्थेषु यज्ञादिनित्यनैमित्तिकसर्वकर्मापेक्षा विद्या भवति | यथा गमनसाधनभूतोऽश्वः स्वपरिकरबन्धपरिकर्मापेक्षः एवं मोक्षसाधनीभूतापि विद्या नित्यनैमित्तिककर्मपरिकरापेक्षा | तदिदमाह कृष्णः स्वयमेव - यज्ञो दानं तपः कर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् || यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् | स्वकर्मणा समभ्यर्च्य सिद्धिं विन्दति मानवः || इति दर्शनात् गृहस्थानां यज्ञादिसापेक्षा विद्या सर्वेषामाश्रमिणाञ्च स्वाश्रमविहितकर्मापेक्षेति युक्तम् शमाद्यधिकरणम् || ७ || सर्वाश्रमिणां ब्रह्मविद्याङ्गत्वेन शमदमादीनामवश्यनुष्ठेयातानिर्णयः तमेतं वेदानुवचनेन इत्यादिश्रुतिदर्शनात् गृहिणां विद्याङ्गत्वेन यज्ञादिकर्मावश्यकत्वं युक्तम् | शान्तो दान्त उपरतः तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्येत् इति श्रुतौ शान्त्यादीनामेव ब्रह्मसाक्षात्कारमुख्यहेतुत्वावगमात् सर्वेषामाश्रमिणां विद्याप्राधान्यं कथमित्याशङ्कायामधिकरणान्तरमाह -
SK
|| २७१ || शमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् || २७ || सर्वेषामाश्रमिणां परशिवब्रह्मसाक्षात्कारवतां अन्तरङ्गसाधनत्वेन शमाद्युपेतत्वं स्यात् - शमादिविशिष्टो भवेत् कुतः अन्तरङ्गतया सदाशिवब्रह्मसाक्षात्कारं प्रति साक्षात्साधनतया तद्विधेः तेषां शमदमादीनां शान्तो दान्तः इति वाक्येन विहितत्वाद्धेतोः तेषां शमदमादीनां परशिवसाक्षात्कारं प्रत्यन्तरङ्गसाधनानां अवश्यानुष्ठेयत्वात् सर्वेषां ब्रह्मविद्यावतां अवश्यं शमादिकं सम्पादनीयं इति सूत्रार्थः | शान्तो दान्तः इति श्रुतिदर्शनात् शमादिकं सर्वाश्रमविधेयं उत यत्याश्रमविषयं वेति सञ्चिन्त्यते - शमादिकं न ब्रह्मचर्यादिविषयं ब्रह्मचर्ये वेदाध्ययनादिव्यापारात्मकमनोवैकल्यात् गृहिणां श्रौतस्मार्तोक्तकर्मायासतया शमादिकस्य निरवकाशत्वात् वनिनां कृच्छ्रचान्द्रायणादिबहुक्लेशभूयिष्ठतावगमाच्च परिशेषप्रमाणेन निराभाराणां यतीनामेव शमादिकं युक्तम् | शान्तो दान्तः इत्यादीनां तत्परमेवेत्युपदिष्टम् | आन्तररागद्वेषप्रशमनं शमः सर्वेन्द्रियव्यापारनिर्वर्तनं दमः निषिद्धकाम्यकर्मव्यापरोपरमः उपरतिः सुख-दुःख शत्रु-मित्र- cittaikāgratvaṃ samādhānaṃ niratiśayānandakandanigamāgamaniṣṭhāpūrvakaduḥśśāstra- सकलेतरदेवतापराङ्मुखत्वपूर्वकमनोवाक्कायकर्मभिः श्रवणकीर्तन- vaidikaśivaparicaryāmayassadācāro bhaktiḥ nityaniratiśayānandamokṣalakṣmīkaṭākṣavīkṣaṇādhāranityānityavastuvivekajanita- एतादृशधर्माः नेतरविषयत्वाद्यतीनामेव समञ्जसाः इति प्राप्ते वदामः |
SK
शमादिकं सर्वाश्रमिणां ब्रह्मविद्याङ्गत्वेन परिग्राह्यं विद्याङ्गताया तेषां विधेः | तस्मादेवंवित् शान्तोदान्त उपरतस्तितिक्षुस्समाहितो भूत्वात्मन्येवात्मानं पश्येत् इति विद्योत्पत्तेः चित्तसमाधानरूपत्वेन दृष्टपरिकरत्वात् शमादीनामविद्यानिवृत्तये तेषामवश्यानुष्ठेयत्वम् | न च करणव्यापार- bhinnaviṣayatvāt | vihiteṣu karaṇavyāpāraḥ avihiteṣu prayojanaśūnyeṣu ca tadupaśama iti | na ca karaṇavyāpārarūpakarmasu vartamānasya vāsanāvaśāt śamādīnāmupādeyatvāsambhavaḥ | vihitānāṃ karmaṇāṃ śivarādhanatayā tatprasādadvāreṇa nikhilaviparītavāsanocchedahetutvāt | atassarvāśramiṇāṃ brahmavidyāṅgatvena śamadamādayopyanuṣṭheyāḥ | sarvānnānumatyadhikaraṇam || 8 || brahmavidāmapi prāṇasaṃśaya eva sarvānnānumatiḥ vihitā nanu sarveṣāmāśramiṇāṃ śivajñānena śamādyanuṣṭhānavidhirastu teṣāṃ varṇāśramadharmavartanaṃ vihitaṃ uta tajjñānamahimnā śivatulyatvāt svecchādhīnavartanaṃ vā yuktamityāśaṅkāyāṃ adhikaraṇāntaraṃ darśayati - || 272 || sarvānnānumatiśca prāṇātyaye taddarśanāt || 28 || vājināṃ chandogānāṃ ca prāṇavidyāyāṃ na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ parigṛhītaṃ bhavati | na ha vā evaṃ vidi kiñcanānannaṃ bhavati iti prāṇavidaḥ sarvānnānumatiḥ - saṅgīrtyate | kimiyaṃ prāṇavidyāniṣṭhasya sarvānnānumatiḥ sarvadāḥ uta prāṇātyayāpattau vā iti saṃśayaḥ | prāṇa eva prajñātmā idaṃ śarīraṃ parigṛhyotthāpayati iti śrutau prāṇasyaiva prajñātmakatvakathanāt smṛtipurāṇeṣvapi prāṇarakṣaṇe śreyaskaratvasya prāṇaśoṣaṇe pratyavāyasya ca śravaṇāt sarvathā sarvāśramiṇāṃ śivajñānināṃ mahātmanāṃ vidhiniṣedhābhāvena prāṇarakṣaṇārthaṃ sarvānnabhakṣaṇaṃ sarvaprayatnairyuktamiti prāpte tatrocyate - || prāṇātyaye ca iti ||
SK
च शब्दोऽवधारणे प्राणात्ययापत्तावेवेत्यर्थः | कुतः || तद्दर्शनात् || दृश्यतेह्यन्यत्र ब्रह्मविदामपि प्राणात्ययापत्तावेव सर्वान्नाभ्यनुज्ञा | किं पुनः प्राणविदः उषस्तः किल चाक्रायणो ब्रह्मविदग्रेसरः मटचीहतेषु कुरुषु दुर्भिक्षदूषितेषु इभ्यग्रामे वसन् अनशनेन प्राणसंशयापन्नः ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादमाकाङ्क्षमाणः इभ्यं कुल्माषात् खादन्तं भिक्षमाणः तेन च उच्छिष्ठेभ्योऽन्ये न विद्यन्ते इति प्रत्युक्तः पुनरपि एतेषां मे देहि इत्युक्त्वा तेन च एभ्येन उच्छिष्ठेभ्य आदाय दत्तान् कुल्माषान् प्रतिगृह्य अनुपानप्रतिग्रहं इभ्येनार्थितः उच्छिष्टं मे पीतं स्यात् इति वदंश्चाक्रायणः किमेते कुमाषा अनुच्छिष्टा इति इभ्येन पर्यनुयुक्तः न वा अजीविष्यामि मानखादन् कामो मा उदपानम् इति कुल्माषाखादने स्वस्य प्राणसंशयापत्तेस्तावन्मात्रखादनेन धृतप्राणस्य स्वस्योच्छिष्टोदकपानं कामकारितं निषिद्धं स्यात् इत्युक्त्वा स्वखादितशेषं जायायै दत्वा तया च रक्षितानपरेद्युर्ज्ञानार्जिजीषया जिगमिषुः पुनरपि प्राणसंशयापन्नस्थाने इभ्योच्छिष्टभूतान्नान् स्वोच्छिष्टभूतान् पर्युषितांश्चखाद | अतो ब्रह्मविदामपि प्राणसंशय एव सर्वान्नानुमतिदर्शनात् अत्र विशेषेण कीर्तितमपि प्राणविदस्सर्वान्नात्तृत्वं प्राणात्ययापत्तावेवेति निश्चीयते | अस्मिन्नर्थे हेत्वन्तरमाह - || २७३ || अबाधाच्च || २९ || श्रुतिस्मृतिर्ममैवाज्ञा तस्मात्तन्मार्गमाचरेत् | आज्ञाच्छेदी मम द्रोही यस्तानुल्लङ्घ्य वर्तते || मनीषी वैदिकाचारं मनसापि न लङ्घयेत् | आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः | स्मृतिलम्भेन सर्वेषां हृदयग्रन्थिर्वार्यते | इति वचतेषु श्रुतिस्मृतीनां परमेश्वराज्ञोपदेशेन सर्वेषामाश्रमिणां स्वाश्रमधर्मानुष्ठानमर्थात्सिद्धम् | आहार शुद्धौ इत्यादिना तद्वत् शिवज्ञानिना आहारशुद्धिविधानोपदेशेऽपि शिवयोगशिवज्ञाननिष्ठागरिष्टानां आपद्विषय एव सर्वान्नात्तृत्वं गम्यते न कामचारेणैकान्ते | अस्मिन्नर्थे हेत्वन्तरमाह - || २७४ || अपि स्मर्यते || ३० ||
SK
वर्णाश्रमसदाचाराः शिवेन कथिताः पुरा | एतानुल्लङ्घ्य वर्तन्ते शिवस्याज्ञापलापिनः || राजाज्ञाभङ्गकृन्नॄणां यथा दण्डो भवेत्तथा | शिवाज्ञाभङ्गकृन्नॄणां दण्डो हि नरकस्तथा || साम्बेन शम्भुनाज्ञप्तं धर्मं त्यक्त्वार्चयेच्छिवम् | स तस्मै कुप्यते शम्भुः स्वाज्ञाभङ्गनिमित्ततः || चोदनालक्षणं धर्मं शिवेनाज्ञप्तमर्चयन् | शङ्करं पूजयेद्यस्तु तस्मै साम्बः प्रसीदति || इत्यादिषु परमेश्वराज्ञापूर्वकस्ववर्णाश्रमोचितकर्ममुख्यत्वोपदेशेऽपि - प्राणसंशयमापन्नो योऽन्नमत्ति प्रयत्नतः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || इति विशेषविधिदर्शनात् | शिवज्ञानिनां सर्वाश्रमिणां आपद्विषयैव सर्वान्नास्वादनविधिरूपपद्यते नेतरकाल इति सिद्धम् | अस्मिन्नर्थे पुनर्हेत्वन्तरमाह - || २७५ || शब्दाश्चातोऽकामकारे || ३१ || यतो ब्रह्मविदामन्येषाञ्च सर्वान्नादनं आपद्विषयमेव अत एव सर्वेषां अकामकारे शब्दः कामकारस्य प्रतिषेधकः शब्दो वर्तते | अस्ति हि कठसंहितायां कामकारस्य प्रतिषेधकः शब्दः | तस्माद्ब्राह्मणः सुरां न पिबति पाप्मना नोत्सृजेत् इति पाप्मना संसृष्टो न भवानीति मत्वा ब्राह्मणः सुरां न पिबतीत्यर्थः | प्राणत्यागेऽपि वर्णचतुष्टयेषु भिक्षामात्रं विधेयम् | अन्यथा निषिद्धाचरणेन परमेश्वराज्ञाद्रोही स्यादिति निश्चीयते | विहितत्त्वाधिकरणम् || ९ || ज्ञानकर्मसमुच्चयानुष्ठानं सर्वेषामाश्रमिणां विधेयम् सर्वेषामाश्रमिणां परशिवब्रह्मसाक्षात्कारं प्रत्यन्तरङ्गसाधनस्य शमदमपूजाध्यानधारणादिकस्य विहितत्त्वेऽपि तद्वद्बाह्याङ्गानि कानि सन्तीत्याशङ्कायामधिकरणान्तरेण निरूपयति - || २७६ || विहितत्त्वाच्चाश्रमकर्मापि || ३२ || यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम् | तानि च यज्ञादीनि कर्माणि मुमुक्षूणां केवलाश्रमिणामप्यनुष्ठेयानि उत नेति सन्दिह्यते |
SK
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन इति श्रुतौ कर्मफलानामनित्यत्वस्य कर्मणा मोक्षाभावस्य चोक्तत्वात् नित्यानित्यवस्तुविवेको दृष्टः | तस्मात् ज्योतिष्टोमादिकर्मणां अविद्वद्विषयत्वं युज्यते | ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादौ ज्योतिष्ठोमादीनां कामकारविषयत्वागमात् केवलाश्रमधर्मत्वं न सम्भवतीति प्राप्ते प्रचक्ष्महे - आश्रमकर्मापि - यावज्जीवमग्निहोत्रं जुहोति इत्यादिना विध्यवगमात् आश्रमस्य कर्मापि भवति | केवलाश्रमिणां आश्रममात्रमनुष्ठेयं ब्रह्मविद्याङ्गत्वेन परमेश्वरार्पणबुध्या विहितत्वाच्च जनकादिब्रह्मविदामपि विहितत्वाच्च श्रुतिस्मृतिनिष्ठस्य आश्रमकर्माणि विदुषामविदुषाञ्च कर्तव्यानीति निर्णीयते | एतेन ब्रह्मचर्यादिचतुर्विधाश्रमिणां स्वाश्रमकर्मणो विहितत्वमर्थात्सिद्धम् | तथा च विद्याङ्गतया तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति | यज्ञेन दानेन इत्यादिना विहितत्वात् विद्याशेषतयापि अनुष्ठेयानि इत्याह - || २७७ || सहकारित्वेन च || ३३ || विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं सह इति ब्रह्मवित् पुण्यकृच्च सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग् ज्ञानेन ब्रह्मचर्येण नित्यम् इत्यादिषु धर्मब्रह्मोभयसहकारित्त्वेन च मोक्षावगमात् ज्ञानकर्मसमुच्चयानुष्ठानं सर्वेषामाश्रमिणां विधेयम् | तस्मादग्निहोत्रादीनामिव जीवनाधिकार- sadācāraniṣṭhānāṃ sarvāśramiṇāṃ bāhyābhyantaraliṅgadhāraṇa - pūjādikamanavadyam nanu viduṣāmaviṣāmapi svāśramavihitadharmānuṣṭhānaṃ mokṣāṅgamastu | mokṣāṅgatvena bāhyantarliṅgadhāraṇaṃ viduṣāmanāvaśyakamevetyāśaṅkāyāmāha - || 278 || sarvathā'pi ta evobhayaliṅgāt || 34 ||
SK
सर्वथापि सर्वश्रुतिपर्यालोचनयापि त एव धर्मेण पापमपनुदति इत्यादिना श्रौतस्मार्तोक्तकर्मानुष्ठानेन शुद्धचित्तस्य मुमुक्षोः भक्तस्य उभयलिङ्गात् सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रं अमृतस्य देवधारणो भूयासं तत्प्रानेष्वन्तर्मनसो लिङ्गमाहुः केसरे जाग्रदवस्था कर्णिकायां स्वप्नः लिङ्गे सुषुप्तिः पद्मत्यागे तुरीया इत्यादिश्रुतिशतेषु शिवस्य परब्रह्मणः स्वेच्छया भक्ततारणार्थं बाह्याभ्यन्तरेषु इष्ट-प्राणरूपेणोभयलिङ्गत्वावगमात् भक्तानां स्वाश्रमविहितकर्मवत्सर्वेषामाश्रमिणां तदुभयलिङ्गध्यान- vakṣyāmi dhṛtaliṅgasya caraṇaśrutisammatam | smṛtitantrapurāṇeṣu prasiddhante samānataḥ || śrutismṛtyuditaṃ karma nityanaimittikāśrayam | kuryālli᳚ṇgāṅgasambandhī dvijanmā kāmavarjitaḥ || vidhyuktakarmānuṣṭhānāt cittaśuddhirbhavet dhruvam | cittaśudhyā bhavedbhaktiḥ bhaktiravyabhicāriṇī || tayā saṃjāyate jñānaṃ naśyatyajñānamātmanaḥ | tasmānmokṣastataḥ karma vidhyuktaṃ samyagācaret || tasmātsadācārayuto bhaktyā māheśvaraṃ janaḥ | pūjayedguruṇā dattaṃ iṣṭaliṅgamatandritaḥ || pāṇipadmāsane nityaṃ trikālaṃ śuddhamānasaḥ || ityādinā tadvadupadeśāt sadācāraniṣṭhānāṃ sarvāśramiṇāṃ tadubhayaliṅgadhyāna-dhāraṇa-pūjādikamanavadyam | asminnarthe hetvantaramāha - || 279 || anabhibhavaṃ ca darśayati || 35 || yā te rudra śivā tanūraghorā apāpakāśinī | tayā nastanu vā śantamayā giriśantā'bhicākaśīhi amṛtasya devadhāraṇo bhūyāsam tasyābhidhyānādyojānāttattvabhāvādbhūyaścānte viśvamāyānivṛttiḥ ityādiśrutayaḥ pāparahitaśarīreṣuśivaprakāśakatvaṃ śivadhāraṇena māyāpāśanivṛttiṃ ca darśayati | tasmānmumukṣūṇāṃ svāśramavihitakarmānuṣṭhānaṃ bāhyābhyantarayoḥ parabrahmaṇaśśivasya dhyāna- कर्तव्यमेव | ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा | यस्तु लिङ्गाङ्गसंयुक्तः स एवात्याश्रमी भवेत् ||
SK
तथापि स्वाश्रमं धर्मं कृत्वा शास्त्रविधानतः | शिवपूजादिकं सर्वं यावज्जीवं समाचरेत् || इति स्मृतावपि दर्शनात् | विधुराधिकरणम् || १० || आश्रम-अनाश्रमसाधारण्येण सर्वेषां मुमुक्षूणां ब्रह्मविद्याधिकारनिर्णयः ननु श्रुत्युक्तचतुर्विधाश्रमधर्मानुष्ठानेन तेषां ब्रह्मविद्याधिकारोऽस्तु विधुराणामाश्रमाभावात् ब्रह्मविद्याधिकारः कुतस्सम्भवतीत्याशङ्कायामधिकरणान्तरेणाह - || २८० || अन्तरा चापि तु तद्दृष्टेः || ३६ || दैवात् पुराकृतप्रारब्धवशेन पत्नीवियोगे सति अन्तरा ब्रह्मचर्य- paraśivasya brahmaṇaḥ dhyāna-dhāraṇa-pūjā namaskāra-śravaṇa- लोके परशिवब्रह्मसाक्षात्कारवत्वावगमात् तेषां तदधिकारोऽस्तीति सूत्रार्थः | सर्वेषामाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति उत नेति सन्दिह्यते | अनाश्रमिणां विधुर-स्नातकादीनां ब्रह्मविद्याधिकारो नास्त्येव श्रुतिस्मृतिपुराणादिषु निराश्रमिणां ब्रह्मविद्याधिकारित्वादर्शनात् | निराश्रमे न तिष्ठेत क्षणकालमपि द्विजः इत्यादिषु स्मृतिषु निराश्रमनिराकरणावगमात् सर्वेषामाश्रमिणां विद्याङ्गत्वेन चोदनाच्च चतुर्णामाश्रमिणामेव ब्रह्मविद्यायामधिकार इति प्राप्ते प्रचक्ष्महे - | अन्तरा चापि तु तद्दृष्टेः इति || अत्र तु शब्दः पक्षव्यावृत्यर्थः | च शब्दोऽवधारणे | अन्तरा वर्तमानानां अनाश्रमिणामपि ब्रह्मविद्याधिकारो युक्तः | कुतः || तद्दृष्टेः || दृश्यते हि रैक्व-भीष्म-संवर्तादिनां अनाश्रमिणामपि ब्रह्मविद्यानिष्ठत्वम् | न च आश्रमधर्मैरेव विद्यानुग्रह इति वक्तुं शक्यम् | यज्ञेन दानेन तपसानाशकेन इति दानादीनां आश्रमेषु अनैकान्तिकानामप्यनुग्राहकत्वश्रवणात् | यथोर्ध्वरेतस्सु विद्यानिष्ठत्वदर्शनादग्निहोत्रादिव्यतिरिक्तैरेव विद्यानुग्रहः क्रियते | तथा अनाश्रमिणामपि ब्रह्मविद्या-दर्शनात् आश्रमानियतैर्जपोपवास- asminnarthe hetvantaramāha - || 281 || api smaryate || 37 || api ca anāśramiṇāmapi japādibhireva vidyānugrahaḥ smaryate |
SK
जप्येनापि च संसिध्येत् ब्राह्मणो नात्र संशयः | कुर्यादन्यं न वा कुर्यान्मैत्रो ब्राह्मण उच्यते || विधुरा-विधवानाञ्च स्नातकानां तथैव च | जपोपवासपूजादिविधानात् ज्ञानमुच्यते || इति स्मृतिदर्शनात् सर्वदा विधुरादिभिरपि अनन्यमनसा सदाचारसम्पत्या च अप- śuddhāntaḥkaraṇaviśiṣṭatayā śravaṇamananādinā paraśivabrahmavicāraḥ kartavyaḥ iti nirṇīyate | anāśramiṇāṃ vidhurādīnāṃ jñānasādhanībhūtakarmānuṣṭhānābhāvāt kathaṃ jñānotpattirityāśaṅkyāha - || 282 || viśeṣānugrahācca || 38 || tapasā brahmacaryeṇa śraddhayā vidyayā cātmānamanviṣyet iti śrutau anāśramaniyatairdharmaviśeṣaiḥ vidyānugrahaśravaṇāt vidhurādīnāmapi brahmāvidyādhikāravatvamanivāryamiti nirṇīyate | asminnarthe punarhetvantaramāha - || 283 || atastvitarajjāyo liṅgācca || 39 || yataḥ amṛtasya devadhāraṇo bhūyāsam śarīraṃ me vicarṣaṇaṃ ityādinā itaravat caturāśramadharmātiriktāśramānāśramasādhāraṇaliṅgadhāraṇavat ataḥ āśramānāśramasādhāraṇyena sarveṣāṃ mumukṣūṇāṃ brahmavidyādhikāraḥ jyāyaḥ śreṣṭhaḥ | kasmāt || liṅgāt || nidhanapataye namaḥ ityārabhya liṅgasya sarvātmakatvamuktvā etatsomasya sūryasya sarvaliṅgaṃ sthāpayati pāṇimantraṃ pavitram iti śrutau liṅgarūpasya parabrahmaṇaḥ pavitratvakathanāt āśramiṇāmanāśramiṇāmapi brahmavidyādhikāro'navadyaḥ | anāśramī na tiṣṭheta dinamekamapi dvijaḥ | yadi vā tiṣṭhate mohāt na sa puṇyena lipyate || iti vacanaṃ tvavirāgaviṣayamiti veditavyam | śraddhābhaktijñānayogādavehi ityādiśrutiṣu śivaprāptermukhyaupāyatvena śraddhābhaktyādikasyopadiṣṭatvāt sarveṣu śāstreṣu viśeṣavidyāsāmānyaśāstrabādhāvagamācca | āśramādāśramaṃ gacchennānyathā mokṣamāpnuyāt ityādivākyānāṃ sāmānyatvadurbalatvaṃ ca samañjasam | tadbhūtādhikaraṇam || 11 || kṛtaprāyaścittānāṃ jaiminyabhimataḥ brahmavidyādhikāraviṣayaḥ
SK
नन्वनाश्रमिणां स्नातकविधुरादीनां जितेन्द्रियत्व-दान-तपः- svāśramabhraṣṭānāmūrdhvaretasāṃ brahmavidyādhikāro yukto na veti viṣaye tacchaṅkāśūkamocanārthamadhikaraṇāntaraṃ darśayati - || 284 || tadbhūtasya tu nātadbhāvo jaiminerapi niyamāttadrūpābhāvebhyaḥ || 40 || tadbhūtasya sanyāsāśramaṃ prāptasya puruṣasya atadbhāvaḥ saṃnyāsāśramādbhraṃśaḥ śāstrāvihito na bhavati pratyuta śāstrapratiṣiddha eva | kutaḥ || niyamāttadrūpābhāvebhyaḥ | niyamebhyaḥ saṃnyāsāśramaprāptyanantaraṃ maraṇaparyantaṃ saṃnyāsāśrame sthātavyam | punaranirvartitavyamiti niyamapratipādakebhyaḥ manvādivacanebhyaḥ atadrūṣābhāvebhyaḥ atadrūpāṇāṃ niyamapratipādakānāṃ vacanānāṃ abhāvebhyo hetubhyaśca āśramabhraṃśaḥ śāstrapratiṣiddha ityucyate | tasmāt tadadhikāśramāntarābhāvena tatraiva yāvajjīvaṃ sthātavyaṃ iti sūtrārthaḥ | vedāntavijñānsuniścitārthāḥ saṃnyāsayogādyatayaḥ śuddhasattvāḥ | te brahmaloke tu parāntakāle parāmṛtātparimucyanti sarve || saṃnyasya vedāntaśravaṇaṃ kuryāt | ityādiṣu sarveṣāmāśramiṇāṃ madhye mukhyatvena nirantarabrahmavicārādhikāraḥ yatīnāmeva śrūyate tathāpi vidhurādivadāśramabhraṣṭa tāṃ svāśramaniṣṭhānāṃ vā brahmavidyādhikāra iti viśayaḥ | saṃnyasya vedāntaśravaṇaṃ kuryāt ityādiṣu saṃnyāsabhraṣṭānāṃ anadhikāritvāvagamāt brahmacaryaṃ samāpya gṛhī bhavet gṛhī bhūtvā vanī bhavet vanī bhūtvā pravrajet
SK
इत्याश्रमारोहे यथा विधिर्दर्शितः तद्वदवरोहे विध्यदर्शनात् स्वेच्छाधीनत्वं आनुमानिकं साध्यम् | तस्माद्विधुरादिवदत्याश्रमभ्रष्टानां ब्रह्मविद्याधिकारो युक्त इति प्राप्ते तत्रोत्तरं वदामः | || तद्भूतस्य तु नातद्भाव इति || तु शब्दः पक्षव्यावृत्यर्थः | तद्भूतस्य नैष्ठिकाद्याश्रमनिष्ठस्य नातद्भावः | अतथाभावः अनाश्रमित्वेनावस्थानं न सम्भवति | कुतः तद्रूपाभावेभ्यः | नियमात् तद्रूपाणि तेषां नैष्ठिकादीनां रूपाणि वेषाः धर्माः तेषां अभावाः तद्रूपाभावाः तेभ्यः शास्त्रे नियमात् | नैष्ठिकाद्याश्रमप्रतिष्ठान् स्वाश्रमधर्मनिवृत्तिभ्यो नियच्छन्ति हि शास्त्राणि | ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तामात्मानमाचार्य कुलेऽवसादयन् इति अरण्यमियात्ततो न पुनरायात् इति | संन्यास्याग्निं नपुनरावर्तयेत् इति च | अतो विधुरादिवत् नैष्ठिकादीनामनाश्रमित्वेन अवस्थानासम्भवात् नैतानधिकरोति ब्रह्मविद्या | जैमिनेरपीत्यविगानं दर्श्यन्नूक्तं स्वाभिमतं दृढयति | अथ स्यात् नैष्ठिकादीनां ब्रह्मचर्यात्प्रत्युतानां प्रायश्चित्तादधिकारस्सम्भवति | अस्ति च प्रायश्चित्तमाधिकारिकलक्षणे निरूपितं अवकीर्णपशुश्च तद्वदिति | अतः प्रच्युतब्रह्मचर्यस्य प्रायश्चित्तसंभवात् कृतप्रायश्चित्तो ब्रह्मविद्यायामधिकरिष्यतीति तत्राह - || २८५ || न चाधिकारिकमपि पतनानुमानात्तदयोगात् || ४१ || अधिकारिलक्षणोक्तमपि प्रायश्चित्तं नैष्ठिकादीनां न तद्भ्रष्टानां न सम्भवति | कुतः नैष्ठिकादीनां प्रच्युतानां पतनस्मृतेः तस्य प्रायश्चित्तस्यासम्भवात् | आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते द्विजः | प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा || इति उत्तमां वृत्तिमाश्रित्य नवां वृत्तिं समाश्रितह् | आरूढपतितो ज्ञेयः सर्वकर्मबहिष्कृतः || इत्यादिबहुस्मृत्यवगमात् प्रायश्चित्तमितरब्रह्मचारिविषयमिति वेदितव्यम् | यतिकृतानां मानसिकस्वाप्निकपापानां प्रायश्चित्तस्य तैरेव कृतानां आहङ्करिकस्थूलदेहजपापानां प्रायश्चित्तविरतेश्च शास्त्रीयतानिर्णयः
SK
अस्मिन्नर्थे हेत्वंन्तरं दर्शयति - || २८६ || उपपूर्वमपीत्येके भावमशनवत् तदुक्तम् || ४२ || नैष्ठिकादीनां ब्रह्मचर्यप्रच्यवनंउपपूर्वं-उपपातकं महापातकेष्वपरिगणितत्वात् इति तत्र प्रायश्चित्तस्य भावं विद्यमानतामषिकेन आचार्या मन्यन्ते अशनवत् - यथा मध्वशनादिनिषेधः तत्प्रायश्चितं चोपकुर्वाणस्य नैष्ठिकादीनाञ्च समानम् | तदुक्तं - स्मृतिकारैः - उत्तरेषां चैतदविरोधि इति | गुरुकुलवासिनो यदुक्तं तत्स्वाश्रमाविरोध्युत्तरेषामप्याश्रमिणां भवतीत्यर्थः | तद्वदिहापि ब्रह्मचर्यप्रच्यवने प्रायश्चित्तसम्भवात् ब्रह्मविद्या योग्यताप्यस्ति | तथापि मानसिकपापानां स्वप्नकृतपापानाञ्च प्रायश्चित्तं चान्द्रायण- svāhaṅkāreṇa sthūlaśarīrakṛtapāpānāṃ prāyaścittaṃ na sambhavatīti niścīyate | taduktaṃ śātātape - sadāśivaikaniṣṭhānāṃ yatīnāṃ brahmavarcasām | purā kṛtaikapāpena nārīṣu ca dhaneṣu ca || putrādiṣu ca samprītirjātaścetsudṛḍho yatiḥ | cāndrāyaṇaṃ carennityaṃ taddoṣaikanivṛttaye || svapne kalatrasaṃyogo bhavedyadi tadā yatiḥ | śatasnānaṃ hi kartavyaṃ mṛdā taddoṣaśāntaye || kāmacāreṇa saṃnyāsī lolaścet strīdhanādiṣu | bhraṣṭo bhavati sadyo hi prāyaścitaṃ na vidyate || ityādinā bahudhā prapañcitam | vratabhraṣṭānāṃ yatīnāṃ brahmavidyādhikāraniṣedhaḥ asminnarthe punarhetvantaramāha - || 287 || bahistūbhayathāpi smṛterācārācca || 43 ||
SK
तु शब्दोत्र निश्चयार्थकः | उपपातकत्वे महापातकत्वेऽप्येते बहिर्भूता एव ब्रह्मविद्याधिकारिभ्यः ब्रह्मविद्यायामनधिकृता इत्यर्थः | कुतः || स्मृतेः || पूर्वोक्तात् पतनस्मरणाद्यद्यपि कलुषनिर्हरणाय कैश्चिद्वचनैः प्रायश्चित्ताधिकारो विद्यते तथापि कर्माधिकारानुगुणशुद्धिहेतुप्रायश्चित्तं न सम्भवति प्रायश्चितं न पश्यामि येन शुध्येत्स-आत्महा इति स्मृतेः | || आचाराच्च || शिष्टा हि नैष्ठिकादीन् भ्रष्टान् कृतप्रायश्चित्तानपि वर्जयन्ति तेभ्यो ब्रह्मविद्यादिकं नोपादिशन्ति | तस्मात्तेषां नास्ति ब्रह्मविद्यायामधिकारः | स्वाम्यधिकरणम् || १२ || शिवस्यैव कर्म-ब्रह्मोपासनाफलदातृत्वप्रतिपादनम् ननु राजाज्ञाभङ्गकृन्नॄणां दण्डो हि नरकस्तथा || (सि. शि.) इत्यादिस्मृतिषु शिवाज्ञारूपस्वाश्रमभ्रष्टानां सर्वेषामाश्रमिणामपि यमशासनं सूचितम् | तथापि सर्वापेक्षा च इति सूत्रे स्वातन्त्र्येण यज्ञादीनां ग्रामं प्रत्यश्ववत् मोक्षाङ्गत्वत्र्यपदेशात् अत्र स्वाश्रमभ्रंशदण्डः शिवस्य परब्रह्मणः कथमुपपन्नं इत्याशङ्कायां यज्ञेश्वरत्वमपि शिवस्यैवाधिकरणान्तरेण दर्शयति - || २८८ || स्वामिनः फलश्रुतेरित्यात्रेयः || ४४ || यज्ञौ वै विष्णुः आवो राजानमध्वरस्य रूद्रṁ होतारṁ सत्ययजṁ रोदस्योः पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् इत्यादीनि तैत्तिरीये श्रूयन्ते | अत्र यज्ञाधिपतिर्नारायणो वा परब्रह्मरूपश्शिवो वेति विशयः | यज्ञो वै विष्णुः इत्यादिना नारायणस्यैव यज्ञात्मकत्वोपदेशात् तद्विष्णोरेक उत्तमः एक एव नारायण आसीत् न ब्रह्मा नेशानः इत्यादिषु नारायणस्यैव सर्वाधिकत्वकथनात् स्मार्तकर्मसु सर्वत्र सङ्गल्पादिषु विष्णुनामस्मरणपूर्वकत्वेन कर्माराध्यत्वमर्थात्तस्यैवोपपन्नम् | अत एव यज्ञात्मकत्वं यज्ँएश्वरत्वं यज्ञफलदातृत्वञ्च तस्यैव समञ्जसमिति प्राप्ते प्रचक्ष्महे - || फलश्रुतेः ||
SK
आवोराजानं इत्यत्र अध्वरस्य यज्ञस्य राजानं प्रभुं रुद्रमिति फलश्रवणात् स्वामिनश्शिवस्य परब्रह्मणः सर्वविद्योपास्यत्वमिति आत्रेयो मन्यते | किञ्च - त्रियम्बकं यजामहे इत्यादिना यज्ञेश्वरत्वं तस्यैवोपदिष्टम् | यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नोति स पापीयान् भवति इति स्वदेवतातिरिक्तदेवतान्तरयजनेनन् प्रत्यवायश्रवणात् | तदक्षरं तत्सवितुर्वणेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी इत्यादिश्रुतौ सर्ववैदिककर्मधारगायत्रीमन्त्रार्थवाच्यत्वस्य शिव एव दर्शनात् नेतरस्य यज्ञादिकर्माराध्यत्वं सम्भवति | एको देवस्सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा | कर्माध्यक्षस्सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च || यो देवानां प्रथमश्चोद्भव᳚च विश्वाधिको रुद्रो महर्षिः स नो देवः शुभया बुध्या संयुनक्तु यो देवानामधिपो यस्मिन् लोका अधिश्रिताः | य ईशे अस्य द्विपदश्चतुष्पदस्तस्मै देवाय हविषा विधेम || इत्यादिना श्वेताश्वतरे कर्माध्यक्षत्वस्य विश्वाधिकत्वस्य च तस्यैवोपदेशात् सर्वकर्माधिकत्वेन स्र्वकर्माराधितत्वेन सर्वकर्मफलप्रदायकत्वं शिवस्यैव निश्चीयते | अस्मिन्नर्थे हेत्वन्तरमाह - || २८९ || आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते || ४५ || इमं पशुं पशुअप्ते तेऽद्य बध्नाम्यग्रे सुकृतस्य मध्ये अनुमन्यस्व सयजा यजाम जुष्टं देवानामिदमस्तु हव्यं इत्यत्र आत्विज्यं ऋक्-सम्बन्धं पशुबधनात्मकोपकरणकर्मणि च पशुपुरोडाशं परमशिवसमर्पणत्वेन देवतार्हत्वव्यवस्थापनात् सर्वविद्योपास्यत्वं शिवस्यैव समुचितमिति औडुलोम्बाचार्यो मन्यते | कुतः तस्मै हि परिक्रियते यो रुद्रोऽग्नौ इत्यादिषु सर्वान्तर्यामित्वं सर्वो वै रुद्रः इति सर्वात्मकत्वं विश्वाधिको रुद्रो महर्षिः इत्यादौ विश्वाधिकत्वञ्च तस्यैवोपदेशात् इन्द्रोपेन्द्र-दिनेन्द्र- netarasyopapannam |
SK
किञ्च - ऋत्विजो वृणीते ऋत्विग्भ्यो दक्षिणां ददातीति ऋत्विक्कर्तृकत्वशास्त्रेण फलसाधनभूतं साङ्गं कर्म ऋत्विग्भिरनुष्ठेयं इति अवगम्यते | तदन्तर्गतानि कायिकानि मानसानि च कर्माणि ऋत्विक्कतृकाण्येव तथापि तत्फलं तत्स्वामिनः सम्भवति | तद्वद्यागीयप्रकरणपठितेन्द्रादिदेवदत्तस्वर्गादिफलभोगोऽपि तदन्तर्यागित्वेन तन्नियामकशिवस्यैवोपपद्यते | तस्मात् ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादौ ज्योतिष्टोमस्य स्वर्गफलकत्वेऽपि तत्स्वर्गस्येन्द्रदेवताप्राधान्येऽपि - यज्ञकर्ता च देवेन्द्रो वेदकर्ता च वाक्पतिः | अहमेव जगत्कर्ता मम कर्ता महेश्वरः || इति विष्णुना यज्ञकर्तृत्वस्येन्द्र एव स्कान्दे प्रतिपादितत्वेऽपि पाकशासनातिरिक्तशिवस्य परब्रह्मणः यज्ञकर्तृत्वविधायकश्रुतिस्मृतिपुराणानां प्रामाण्यं न विरुध्यते | यज्ञो वै विष्णुः इत्यत्र शिवशक्त्यात्मकविष्णोर्यज्ञमयत्वम् | आ वो राजानं अध्वरस्य रुद्रग्ṁ इत्यत्र रुद्रस्य यज्ञादिपतित्वस्यासङ्कुचितत्वेन निर्देशात् यज्ञात्मकस्य यज्ञपतित्वमयुक्तमिति सिद्धम् | अस्मिन्नर्थे पुनर्हेत्वन्तरमाह - || २२८० || श्रुतेश्च || ४६ || ईशानस्सर्वविद्यानामीश्वरस्सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिब्रह्मा शिवो मे अस्तु सदाशिवोम् इत्यादौ सर्वविद्यासर्वजीवनियामकत्वस्य शिव एवावगमात् कर्मब्रह्मोपासनाफलप्रदातृत्वं शिवस्यैव सिद्धम् | सहकार्यन्तरविध्यधिकरणम् || १३ || आशमधर्मवत् पाण्डित्यमौनादीनां विद्यासहकारितानिर्णयः ननु परमेश्वरार्पितयज्ञ-दान-तपः-पूजादिना शुद्धान्तःकरणानां ब्रह्मोपासकानां शमदमादिवन्मौननिष्ठावश्यकत्वं उत पाणिनीय-काणादशास्त्रादिवद्वागाडम्बरत्वप्राधान्यं इत्याशङ्कायामधिकरणान्तरं दर्शयति - || २९१ || सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विद्यादिवत् || ४७ ||
SK
विद्यादिवत् विद्यादौ कर्मकाण्डे यथा गृहस्याश्रमवतः साग्निहोत्रादीनि बहूनि कर्माणि स्वर्गफलोद्देशेन विहितानि एवं तद्वतः ब्रह्मविद्यावतः पुरुषस्य तस्माद्ब्राह्मणः पाण्डित्यं निरिद्य इति ज्ञानकाण्डश्रुतौ सहकार्यन्तरविधिः शम-दमाद्यपेक्षया सहकार्यन्तराणां श्रवण-मनन- trayāṇāṃ madhye śravaṇa-manane sarveṣāmapi tatsākṣātkārakāmānāṃ bahukālamanuṣṭhātavye | tṛtīyaṃ nididhyāsanantu pakṣeṇa kālaparipākatvena anuṣṭheyam | sādhakānāṃ śravaṇa-mananānantaramapi brāhmaṇa- कृशोऽहं कर्ताऽहं भोक्ताऽहम् इत्येवं विधो देहाभिमानश्च दृढो वर्तते | तस्मात्तेषां प्रशमनाय निदिध्यासनां कर्तव्यम् | येषां त्वतिविशुद्धान्तःकरणानां देहाद्यभिमानः श्रवणमननाभ्यासादेव शिथिलीभूतस्तेषां स्वल्पकालनिदिध्यासनेनैव तत्साक्षात्कारसम्भवात् बहुकालनिदिध्यासनमकर्तव्यमिति सूत्रार्थः | कौहलब्राह्मणे श्रूयते - तस्माद्ब्राह्मणः पाण्डित्वं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः इत्यत्र बाल्यपाण्डित्यवन्मौनमपि विधीयते | उत बहूपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं विशेषेण सम्पाद्य बाल्येन रागद्वेषादिरहितत्वात् बाल्यसदृशेनावस्थान्तरेण अवतिष्ठेत | ततः पाण्डित्यं बाल्यं च निश्शेषं सम्पाद्य अथ मुनिः इत्यत्र पाण्डित्यबाल्यवन्मौनमपि विधीयते न वा इति संशयः | मौनपाण्डित्यशब्दयोर्ज्ञानार्थकत्वात् पाण्डित्यं निर्विद्य इति विहितमेव ज्ञानं अथ मुनिः इत्यनूद्यते | विधिशब्दो न ह्यत्र श्रूयते इत्येवं प्राप्ते वदामः |
SK
सहकार्यन्तरविधिः तद्वतः विद्यावतः विद्यादिवत् विधीयते | यज्ञादिसर्वाश्रमधर्मः शमदमादिश्च विधिशब्देनोच्यते | आदिशब्देन श्रवणमनने गृह्येते | सहकार्यन्तरविधिरित्यत्रापि विधीयत इति विधिः | सहकार्यन्तरं विधिश्चेति सहकार्यन्तरविधिः | एतदुक्तम्भवति - यथा तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन इत्यादिना शान्तो दान्तः इत्यादिना च सहकारी यज्ञादिः शमदमादिश्च विधीयते | यथा च श्रोतव्यो मन्तव्यः इति श्रवण-मनने च अर्थप्राप्ते विद्यासहकारित्वेन गृह्येते तथा तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य इत्यादिना पाण्डित्यं बाल्यं मौनम् इति त्रयं ब्रह्मविद्यायाः सहकार्यन्तरं विधीयत - इति मौनञ्च पण्डित्यादर्थान्तरमित्याह || पक्षेणेति || मुनिशब्दस्य पक्षेण प्रकृष्टमननशीले व्यासादौ प्रयोगदर्शनात् मौनं पण्डित्यबाल्ययोर्द्वयोस्तृतीयम् | यद्यपि अथ मुनिः इत्यत्र विधिप्रत्ययो न श्रूयते तथापि मौनस्याप्राप्तत्वात् विधेयत्वमङ्गीकरणीयम् | अथ मुनिः स्यात् इति | इदञ्च मौनं श्रवणप्रतिष्ठार्थान्मननात् अर्थान्तरभूतं उपासनालम्बनस्य पुनःपुनः संशीलनं तद्भावनारूपम् | अयमेवात्र वाक्यार्थः - ब्राह्मणः विद्यावान् पाण्डित्यं निर्विद्य उपास्यं ब्रह्मतत्त्वं परिशुद्धं परिपूर्णञ्च विदित्वा श्रवण-मननाभ्यां प्राप्तं वेदनं प्रतिलभ्येत्यर्थः | तच्च भगवद्भक्तिकृतसत्त्वविवृद्धिकृतम् | यथोक्तं नाहं वेदैः इत्यारभ्य भक्त्या त्वनन्यथा शक्यः अहं एवं विघोर्जुन इति | श्रुतिश्च - यस्य देवे परा भक्तिः यथा देवे तथा गुरौ नाऽयमात्मा प्रवचनेन लभ्यः इत्यादिना | बाल्येन तिष्ठासेत् इति बाल्यस्वरूपञ्चानन्तरमेव वक्ष्यते | बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुनिः स्यात् बाल्यपाण्डित्ये यथावदुपादाय परिशुद्धे परिपूर्णे परशिवब्रह्मणि मननशीलो भवेत् | निदिध्यासनरूपविद्याव्यावृत्तये
SK
एवमेव त्रितयोपादानात् लब्धविद्यो भवतीत्याह - अमौनं मौनञ्च निर्विद्याथ ब्राह्मणः इति | अमौनं मौनेतरसहकारिकलापः | तञ्च मौनञ्च यथाअव्दुपाददानो विद्याकाष्ठां तदेकनिष्ठां आलम्बेत्यर्थः | स ब्राह्मणः केन स्यात् इत्युक्तादुपाया त्किमन्योऽप्युत्पादनीयोऽस्ति इति पृष्टे येन स्यात् तेनेदृश एवेति येन मौनिवर्यस्तेन ब्राह्मणः स्यात् इत्युक्तम् | तेनेदृशः स्यात् न केनाप्यन्येनोपायेन इति परिहृतम् | अतः सर्वेष्वाश्रमेषु स्थितस्य विदुषो यज्ञादिस्वाश्रमधर्मवत् पाण्डित्यादिक मौनं तृतीयं विद्यासहकार्यन्तरं विधीयते | अथ स्याद्यदि सर्वेष्वाश्रमेषु स्थितानां विदुषां तत्तदाश्रमधर्मसहकारिणी मौनतृतीया सचिवा विद्या ब्रह्मप्राप्तिसाधनमुच्यते कथं तर्हि छान्दोग्ये - अभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः इत्यारभ्य स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमनिसम्पद्यते न च पुनरावर्तते इति यावदायुषं गार्हस्थ्यधर्मेणस्थितिदर्शनमुपपद्यते | अत आह - ब्रह्मचर्याद्याश्रमिणामपि ब्रह्मविद्याधिकारस्य अविरोधितानिर्णयः गुरुशब्दार्थनिर्वचनञ्च || २२९२ || कृत्स्नभावात्तु गृहिणोपसंहारः || ४८ || तु शब्दः शङ्कनिरासार्थः | कृत्स्नेष्वाश्रमधर्मेषु ब्रह्मविद्यायास्सद्भावात् गृहिणोप्यस्तीति तेनोपसंहारः| तस्मात् सर्वाश्रमधर्मप्रदर्शनार्थो गृहिणोपसंहार इति भावः |
SK
ननु वेदान्तविज्ञानसुनिश्चितार्थाः इति वैकल्ये वेदान्तार्थज्ञानवतां संन्यासयोगविधिव्यपदेशात् अत्याश्रमस्थः इति ध्यानयोगस्य अत्याश्रमधर्मत्वोपदेशात् ब्रह्मचारिणां वेदव्रताद्यनुष्ठानाचार्यपरत्वशत्वात् गृहिणां कुटुम्बपोषणभारादिव्यापारसत्त्वात् वानप्रस्थानां उपवास-कृच्छ्र- tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ yatīnāmeva brahmavidyādhikāritvamiti cenna tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭham ityatra śiṣyasya asmitpāṇitvavyavasthāpanena gurorgṛhasthatvaṃ śrotriyaśabdena svāśramasadācāraniṣṭhatvaṃ brahmaniṣṭhaṃ ityanena brahmavettṛtvamapyasaṅkucitatvena nirdeśāt yatīnāmapi mukhyatvena brahmavidyādhikāritve siddhe'pi brahmacaryādisarveṣāmāśramiṇāmapi na brahmavidyā virudhyate | chāndogye - kuṭumbe śucau deśe svādhyāyamadhīyānaḥ ityārabhya sa khalvevaṃ vartayan yāvadāyuṣaṃ brahmalokamabhisampadyate iti kṛtsnāśrayeṣu brahmavidyākāritvaśravaṇāt gṛhiṇopasaṃhāratsarveṣāṃ pradarśanārthamiti veditavyam | sarvāśramiṇāṃ brahmavidyādhikārasya yuktatā nanu gṛhasthānāmapi brahmavidyādhikāritve na kuryānniṣphalaṃ karma iti nyāyena yatyāśramasya niṣprayojanatvam | yāvajjīvamagnihotaṃ juhoti iti śrautavidhivirodhābhāvāt sarveṣāmādhārabhūtatvena smṛtipurāṇeṣu gṛhasthāśramasya sarvādhikatvanirdeśāt atyāśramasthaḥ sakalendriyāṇi nirudhya bhaktyā svaguruṃ vraṇamya ityādiśrutisiddha-atyāśrama-saṃnyāsa- कवयो विदुः इति स्मृतिदर्शनात् फलत्यागः संन्यासः इति तत्त्वम् | यत्नशीलो यतिः इति नियमेन मोक्षप्रयत्नस्य गृहिष्वपि सम्भवेन सर्वेषामाश्रमिणामपि तत्सम्भवति | मौनाधिकरणम् || १४ || अत्याश्रमिलक्षणम् यस्तु लिङ्गाङ्गसंयुक्तः स एवात्याश्रमी भवेत् | लिङ्गं शिवो भवेत् क्षेत्रं अङ्गं संयोग आश्रयः || तस्माल्ल्ङ्गाङ्गसंयुक्तो योऽपि सोऽत्याश्रमी भवेत् |
SK
इत्यादिष्वत्याश्रमशब्दस्यापि सर्वाश्रमसाधारणत्वेन शिवोक्तवातुलागमे व्यपदेशाच्च मौनादिविधायकः यत्याश्रमः मुमुक्षूणाञ्च न युक्तः इत्याशङ्क्य तत्र अधिकरणान्तरमाह - || २९३ || मौनवदितरेषामप्युपदेशात् || ४९ || छान्दोग्ये - ब्राह्मणः पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरति इति पारिव्रज्यैकान्तधर्मं प्रतिपाद्य तयैव तस्मिन्नेव तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य इत्यादिना पारिव्रज्यधर्मस्थितिहेतुमौनतृतीयसहकारिविधानं प्रदर्श्य तद्वत् तत्रैव अभिसमावृत्य कुटुम्बे शुचौ देशे इत्यादिना गृहस्थादीनामपि ब्रह्मविद्योपदेशात् संन्यास-यत्यादिशब्दानां पङ्कजादिवत्तत्रैव रूढिः | तस्माशतीनां ब्रह्मविद्या मुख्या | तद्भिन्नानां अग्निहोत्रादिकं कर्म मुख्यम् | अत्याश्रमी प्राणलिङ्गसम्बन्धी भस्मघुट्टिकां कन्थां कमण्डलुं भिक्षापात्रं दण्डञ्च धारयेत् इत्यादिना शङ्करसंहितादिषु अत्याश्रमशब्दस्य सर्वाश्रमसाधारण्येऽपि यतीनां मुख्यत्वावगमात् | मौनवदितरेषां इत्यत्र मौनस्य यतेः मुख्यत्वेन ब्रह्मविद्याधिकारित्वं प्रदर्श्य समुद्रवत्तटाकं इति न्यायवत् तद्दृष्टान्तेनेतरेषामपि ब्रह्मविद्याया उपदेशात् सर्वाधिकत्वं यतीनामनवद्यमिति सूत्रार्थः | ब्रह्मसंस्थोऽमृतत्वमेति इत्यत्र ब्रह्मनिष्ठपुरुषस्य मोक्षाबगमात् ब्रह्मविदाप्नोति परम् इअयत्र ब्रह्मविदामेव मुक्त्युपदेशात् ध्याननिर्मथनाभ्यासात् पाशं दहति पण्डितः इत्यादौ ध्यानविधानस्य पाशविच्छेदलक्षणकथनात् अथर्वशिरसि - तृष्णां जित्वा हेतुजालस्य मूलं बुध्या संचिन्त्य स्थापयित्वाथ रुद्रे रुद्रं शाश्वतं पुराणं इष्टमूर्जं तपसा नियच्छत् | व्रतमेतत्पाशुपतं तत्समाचरेत् मुमुक्षुर्न पुनर्भवाय इति पाशुपतव्रतस्यैव मोक्षव्यवस्थापनात् पुराणेष्वपि तथा दर्शनाच्च केवलब्रह्मविद्यावतां अमृतत्वं उत पाशुपतव्रतनिष्ठानामेवेति सन्दिह्यते |
SK
पाशुपतव्रतस्य सर्वाश्रमिणामावश्यकत्वेन आश्रमेष्वन्तर्भावात् तस्य कालपरिमितिदर्शनात् कलत्र-पुत्रादिसाधनार्थं राम- sādhanāntaranirapekṣatvāvagamācca śrutisiddhatve'pi pāśupatavratasya kāmyamātraphalatvamiti prāpte pracakṣmahe - pāśupatavratadhāriṇāṃ muktireva phalaṃ vidyāsampatteśca parabrahmaṇo rudrasya anusandhānarūpamunidharmavaditareṣāmapi bhikṣācaryaśamādimokṣadharmāṇāṃ pāśuaptavrate nirdeśāt tanniṣṭhānāmapi rudra ekatvāhuḥ | agnirityādinā bhasma gṛhītvā vimṛjyāṅgāni saṃspṛśet | vratametatpāśupataṃ paśupāśavimokṣāya iti rudradhyānasya pāśavicchedarūpamokṣaphalatvāvagamāt yāvadāyuṣaṃ pāśupatavratadhāriṇāṃ muktirevaphalam | pūrvapāśupata-mahāpāśupatasvarūpam kiñca - pāśupatavratāśrame vidyāsādhanabrahmacaryādiyatidharmasamanvayāt atyāśramasaṃjñiko'yamāśramabhedaḥ svatantraparaśivaprāptihetuḥ | yāvaccharīrapātaṃ vā dvādaśābdamathāpi vā | kuryātpāśupataṃ divyaṃ paśupāśanivṛttaye || dvidhā pāśupataṃ jñeyaṃ pūrvāparavibhedataḥ | śaivadīkṣānusāreṇa bhasmarudrākṣadhāraṇam || labdhvā śivaṃ mahādevaṃ liṅgarūpamumāpatim | yo'rcayettaṃ trikālaṃ vai pūrvapāśupataṃ hi tat || nigamāgamasandhānaśaivadīkṣāvidhānataḥ | śivaliṅgaṃ kare kaṇṭhe dhṛtvā vakṣaḥsthale'pi vā || trikālaṃ yo'rcayedbhaktyā mahāpāśupato hi saḥ | śrautāśrautavibhedena tadridhā paricakṣyate || varṇāśramocitaṃ dharmaṃ vedabhārgāvirodhataḥ | kṛtvā'rcayati yaḥ śambhuṃ śrautaśaivassa īryate || varṇāśramocitaṃ dharmaṃ tyaktvā tāntrikamārgataḥ | yaḥ pūjayati viśveśaṃ tantraśaivassa ucyate || iti śivāgame śrūyate | tasmāt dvādaśābdaparimitapāśupatavratasya svābhīṣṭakāmyaphalahetutvaṃ yāvajjīvapāśupatavratasya hi pāśanivṛttipūrvakaśivatvaprāptirūpaṃ nityaphalakatvamiti niścīyate | yāvajjīvapāśupatavratasya hi pāśanivṛttipūrvakaśivatvaprāptirūpaṃ nityaphalakatvamiti niścīyate | nirābhāravīraśaivalakṣaṇam
SK
अत्याश्रमी निराभारः षट्स्थली जङ्गमश्चरः | शिवयोगयतिर्वीरो नान्येषु न कदाचन || इति वीरागमे दर्शनात् | अत्याश्रमशब्दस्य शैवदीक्षावच्छिन्नचतुर्विधाशमपरसाधारण्येऽपि सः त्यक्तेषणत्रयनिराभारवीरशैवे रूढः | ब्रह्मचारिणां यथेष्टभोजनपूर्वकत्वाध्यायाध्ययनत्वं असाधारणधर्मः | गृहिणां यथोचितभोजनपूर्वकनित्याग्निहोत्रादिकर्मानुष्ठानं वानप्रस्थानां उपवासादिप्रधानकायशोषणहेतुभूतपञ्चाग्निमध्यादिस्त्र्हानरूप- yamādyaṣṭāṅgapūrvakayogābhyāsānukūlaśravaṇa-manana- ब्रह्मविद्याधिकारित्वं सर्वाश्रमिणां युक्तम् | ब्रह्मवित्पाशुपतयोः मुक्त्युपदेशविधायकवाक्यानां परस्परविरोधः | एषामीशे पशुपतिः इत्यादिश्रुतिषु शिवस्य ब्रह्मणः सर्वजीवाधिपतित्वं तद्बन्धमोक्षहेतुत्वागमात् तदनुग्रहाभावे तत्प्राप्त्यसंभवात् ब्रह्मवेत्तृत्वविधायकवाक्यानां तद्दीक्षानुसरणे तदुपासकानां तत्साक्षात्कारः अर्थादुपदिश्यते | अनाविष्काराधिकरणम् || १५ || शिवयोगिनां बालादिवद्गुप्तशिवज्ञानवैभवत्वं स्वाभाविकम् ननु सर्वेषामाश्रमिणां ब्रह्मविद्याधिकारोऽस्तु तथापि तद्वृत्तिः किमित्याकाङ्क्षायां तल्लक्षणमधिकरणान्तरेण दर्शयति - || २९४ || अनाविष्कुर्वन्नन्वयात् || ५० || अनाविष्कुर्वन् बालकवत् स्वनिष्ठभक्ति-ज्ञान-वैराग्य-शम- sadā śravaṇa-manana-nididhyāsana-dhyāna-dhāraṇāvadhāna- कुर्वस्तिष्ठेत् | कुतः अन्वयात् शिवयोगिनः शरीरेन्द्रियाद्यभिमाननिराकरणपूर्वकस्वमनोवृत्तेः शिवे सदा समन्वयात् बालादिवत् ज्ञप्तिशिवज्ञानवैभवत्वं स्वाभाविकमिति सूत्रार्थः | तस्मात् ब्राह्मणः पाण्डित्यंनिविद्य बाल्येन न तिष्ठासेत् इति ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः | आत्मानमात्मना साक्षात् ब्रह्मबुध्या सुनिश्चितम् || देह बाल्यादिसंबन्धात् वर्णाश्रमसमन्वितान् | वेदशास्त्रपुराणानि पदपांसुमिव त्यजेत् || एतानि निस्पृहः तिष्ठेत् न हि तेन सहावसेत् मुनिः कौपिनवासोस्वान्नग्नो वा ध्यानतत्परः | अध्यात्मबुद्धिरासीनो निरपेक्षो निराशिषः ||
SK
आत्मनैव सहायेन सुखार्थी विचरेदिह | सन्दिग्धस्सर्वभूतानां वर्णाश्रमविवर्जितः || अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् | गच्छंस्तिष्ठन्नुपविशन् शयानो वान्यथापि वा || यथेच्छया वसेद्विद्वान् स्वात्मारामस्सदा मुनिः | बालोन्मत्तपिशाचवत् जडवृत्त्या लोकमाचरेत् || ब्राह्मणस्समाहितो भूत्वा तत्त्वंपदैक्यमेव सवा कुर्यात् | आशाम्बरो न नमस्कारो न स्वाहाकारो न स्वधाकारो न निन्दास्तुतिर्यादृच्छ्को भवेत् इत्यादिना शिवज्ञानवतां बालादिवदुपादेयतया श्रुतम् | अत्र बालवत् कामकर्मचारादिकं सर्वं विदुषोपादेयं उत डम्भादिरहितत्वमेवेति विशयः | वालोन्मत्तपिशाचवज्जडवृत्तित्वस्य ब्रह्मविदामुपदेशात् तद्वद्युक्तायुक्तशून्यतया पुण्यापुण्यकर्मानुष्ठानमुपादेयम् | तस्मात् आत्मा वाऽरे द्रष्टव्यः इत्यादिश्रुतिविहितवेदान्तश्रवणमननादि- anāviṣkurvanniti bālasya yat svabhāvānāviṣkārarūpaṃ karma tadupādāno varteta vidvān | kutaḥ || anvayāt || sadāśivasyaikaniṣṭhāgariṣṭhacittasamanvayāt yuktam | bālyena tiṣṭhāset ityasmin vidhau tasyaiva viduṣo'nvayasambhavo yuktaḥ | itareṣāṃ vidyāvirodhitvaśravaṇāt | nā'virato duścaritānnāśānto nāsamāhitaḥ | nāśāntamānaso vāpi prajñānenainamāpnuyāt || āhāraśuddhau satvaśuddhiḥ sattvaśudhyā dhruvā smṛtiḥ | ityādiṣu brahmaniṣṭhaniyamāḥ śrūyante | dṛṣṭāntena hi sarvasambhavaḥ iti nyāyena bāladivaddambharahitatvamātramuktam | pūrṇaśivajñānināṃ sarvaśivātmakatvanirantarabhāvānāṃ vedāntaśravaṇādikaṃ aprayojanam | mandaśivajñānināṃ sarvaśivātmakatvajñānadārḍhyārthaṃ śravaṇa- समाधिमग्नः कर्माणि मा करोतु करोतु वा | हृदये नास्ति सन्देहः स जीवन्मुक्त उच्यते || इत्यादिवेदान्तेष्वविदुषामेव विधिविहितकर्मानुष्ठातृत्वं विदुषां स्वेच्छाधीनप्रवर्तकत्वं चोपदिष्टम् | ऐहिकाधिकरणम् || १६ || जगद्वासनायुक्तानां जडभरतादिवत् कालान्तरेण मुक्तिः निर्वासनयुक्त शिवैकनिष्ठानां वामदेवादिवत् इहजन्मन्येव मोक्षः
SK
ननु श्रवणमननादिसहकृतशिवतत्त्वसाक्षात्कारवतां पुरुषाणां पूर्णाधिकारिणामिहैव जन्मनि जीवभावनिवृत्तिपूर्वकशिवत्वप्राप्तिर्वा सालोक्यादिक्रमेण क्रममुक्तिरुत जन्मान्तरेवेत्याशङ्कायां अधिकरणान्तरेणाह - || 295 || aihikamaprastutapratibandhe taddarśanāt || 51 || aprastutapratibandhe - prastutānāṃ bhakti-vairāgya-śama- ऐहिकं ज्ञानमुत्पद्यते | अस्मिन्नेव जन्मनि परशिवब्रह्मसाक्षात्कार उत्पद्यते | दृढदेहाद्यभिमानरूपप्रतिबन्धके सति तु जन्मान्तरे पुनरपि श्रवणमनन- anekajanmasaṃsiddhastato yāti parāṃ gatim ityādinā smṛtipurāṇeṣu jaḍabharatasya janmatrayeṇa janmāntaraphalena vāmadevasyaikajanmani pāśanivṛttipūrvakaśivatvaprāptyupagamāt prabaladehādyabhimānavatāṃ anekajanmakṛtadhyāna-dhāraṇa-pūjā-namaskāra-śravaṇa- स्वल्पदेहाभिमानवतां ईश्वरानुग्रहवतां एकजन्मानुष्ठित-शिवभक्ति- muṇḍakopaniṣadi - kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati tasmai sahovāca - dve vidye veditavye iti ha sma yat brahmavido vadanti ityupakramya sa yo ha vai paramaṃ brahma veda brahmaiva bhavati ityantaṃ abhyudaya- फलाभिलाषासक्तपुण्यकर्मोत्पादकफलं अभ्युदयसंज्ञिकं शम-दम- niḥśreyasasaṃjñikam | tatra śivajñānaniṣṭhāvatāṃ iha janmani janmāntare vā muktiriti sandihyate | atra brahma samaśnute iti viduṣāmihaiva brahmaprāptyupadeśāt kālavilambaphalasvīkāre vidyāyā māhātmyocchedaprasaṅgāt | tathā cet jyotiṣṭomādivat mukhyasādhanatvāyogāccā brahmavidyāvatāmihaiva janmani muktiphalaṃ ucitamiti prāpte tatra vakṣyāmaḥ |
SK
ऐहिकं अभ्युदयफलं उपासनं अप्रस्तुते प्रबलकर्मान्तरप्रतिबन्धे असति अनन्तरं प्रतिबन्धे सति तदुत्तरकालं इत्यनियमः | कुतः || तद्दर्शनात् || दृश्यते हि प्रबलकर्मान्तरेण कर्मफलप्रतिबन्धाभ्युपगमः श्रुतौ यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति इत्युद्गीथविद्यायुक्तस्य कर्मणः फलाप्रतिबन्धश्रवणात् भूतप्रतिबन्ध-वर्तमानप्रतिबन्ध- śruti smṛti-purāṇeṣu tāraṇopāyāvagamāt bhāvipratibandhanivṛtyupāyadarśanāt bharatasya trijanmasu jaḍabharatādīnāmiva janmāntaramuktihalaṃ na virudhyata | iha janmani muktividhāyakavākyānāṃ vāmadevādivadbhāvipratibandhanirmuktavidvadviṣayatvam | vāsanātānavaṃ brahman mokṣa ityabhidhīyate | na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale || sarvāṃśāsaṅkṣaye cetaḥkṣayo mokṣa itīryate | baddho hi vāsanābaddho mokṣasyādvāsanākṣayaḥ || ityādau nirvāsanāyuktasya brahmavidyāpūrṇasyaivāsmin janmani muktyupadeśādato na virodhaḥ | muktiphalādhikaraṇam || 17 || brahmavidyopāsakānāṃ svecchānusāreṇa saśarīrāśarīramuktidvayaprāptinirūpaṇam nanu jagadvāsanāyuktabrahmavidyāvatāṃ jaḍabharatādivat kālāntareṇa muktiḥ nirvāsanāmaunaniṣṭhānāṃ śivaikacetasāṃ vāmadevādivadihajanmanyeva mokṣaphalamastu tathāpi daharādi brahmavidyāvatāṃ saśarīramuktiraśarīramuktirvetyāśaṅkāyāmadhikaraṇāntareṇāha - || 296 || evaṃ muktiphalāniyamastadavasthāvadhṛtestadavasthāvadhṛteḥ || 52 || pūrvaṃ jagadvāsanāyuktānāṃ janmāntareṇa nirvāsanaśivajñānaniṣṭhānāmihaiva janmani śivaprāptirūpamuktiphalamabhihitam | tathāpyevaṃ śivatattvasākṣātkāravatāṃ sarveṣāṃ muktiphalamekamevetyaniyamaḥ | so'śnute sarvān kāmān saha brahmaṇā iti śrutau brahmavidāṃ brahmaṇā saha sarvakāmāvāptidarśanāt sarveṣāṃ brahmavidāṃ aśarīramuktisaṃjñikakaivalyamuktireveti niyamo nāsti |
SK
किन्तु शिवानुग्रहवतां शम- paralokavāsanānirmuktānāṃ ihaiva daharākāśajyotirliṅge suṣuptisukhavadaśarīreṇa prārabdhanāśaparyantaṃ jīvanmuktadaśāyāṃ nityaniratiśayānandamanubhūya tatsamādhikāle pracaṇḍātapamadhyanikṣiptanirvātakarpūradīpavat sthitvā videhamuktyavasare nadīsamudranyāyavadekatvaṃ paramākāśe paramaśive sambhavati | tadbhinnānāṃ mūrtapara᳚ṣivabrahmalokabhogavāsanāyuktānāṃ prāṇāvasāne śivalokanivāsocitadivyamaṅgalavigraheṇa sālokya-sāmīpya-sārūpyātmaka- अशरीरमुक्तिस्सशरीरमुक्तिरित्यनियमः कुतः || तदवस्थावधृतेः || यदेव ज्ञानफलं तदेव कर्मफलं यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति तत्त्वज्ञः सदा तद्भावभावितः || अन्त्यकाले प्रबुद्धो यः सुहृदा बुद्धितोऽपि वा | शिवमेकमनुध्यायन् स याति परमां गतिम् || सदाशिवात्मकं रूपं ध्यायन् प्राणान्विमुञ्चति | तदासौ शिवतां याति नान्या गतिरिति श्रुतिः || इत्यादिश्रुतिस्मृत्यागमादिषु तद्वदुपदेशात् मूर्तपरशिवब्रह्मोपासनावस्थायां तच्चित्तस्य मूर्तब्रह्मधृतेः मूर्तब्रह्माकाराकारितत्वात् अमूर्तपरशिवतत्त्वोपासनायां भक्तचित्तस्यामूर्तशिवतत्त्वधृतेः मुक्तिभेदो न विरुध्यत इति सूत्रार्थः | न तत्र प्राणा ऊत्क्रामन्ते तत्रैव समवलीयन्ते इत्यत सद्योमुक्तयवगमात् ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति इत्यत्र क्रममुक्त्युपदेशात् परशिवब्रह्मोपासकानां सद्योमुक्तिसंज्ञिक अशरीरमुक्तिः क्रममुक्तिसंज्ञिक- jyotiṣṭomena svargakāmo yajeta vājapeyena svārājyakāmo yajet ityādidharmaprakaraṇapaṭhitābhyudayaphalavat brahmavidyāphalasyāpi sātiśayatvamanavadyam | daharaśāṇḍilya- श्रुतौ कृतस्य कर्मणोऽकृतमोक्षहेतुत्वनिरासावगमात् आत्मा वा अरे द्रष्टव्यः इत्यादौ श्रवणजनिततद्ज्ञानस्यैव मोक्षाङ्गत्वव्यवस्थापनाच्च उपासनेन ब्रह्मप्राप्तिर्न सम्भवतीति प्राप्ते प्रचक्ष्महे -
SK
धर्मप्रकरणपठितज्योतिष्टोमाद्युपासकानामिव ब्रह्मप्रकरणदहरादिविद्योपासकानां अनित्वफलमश्रावणीयं तद्विधायकश्रुत्यदर्शनात् | तैत्तिरीये - सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा इत्यत्र सालोक्यादित्रिविधविभूत्यात्मककल्पायणविभूतिःवासनायुक्तदहरोपासकानां दृश्यते | दहरं विपापं परमेश्मभूतम् इत्यादिना तैत्तिरीये हृत्पुण्डरीकं विरजं विशुद्धं इत्यारभ्य उमासहायं परमेश्वरं ध्यात्वा मुनिर्गच्छति भूतयोनिम् इति कैवल्ये दहरोपासकानां निर्वासनपरशिवध्याननिष्ठानां अशरीरकैवल्यविभूतिरुपपद्यते | श्रद्धाभक्तिध्यानयोगादवेहि तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः इत्यादिश्रुतिशतेषु ब्रह्मविद्योपासकानां नित्यनिरूपमशरीराशरीरमुक्तिद्वयप्राप्त्युपदेशात् ब्रह्मविद्यायाः सर्वाधिकत्वमनिवार्यम् | ध्यानाद्युपासनानां कर्मत्वव्यपदेशे श्रवणादीनामपि कर्मत्वं प्रसज्येत् | आत्मा वारे द्रष्टव्यः इत्यत्र परशिवसाक्षात्कारफलमनूद्य तत्साधनत्वेन श्रवणादिकमुपदिष्टम् | तत्र श्रवण-मननादिसहकृतनिदिध्यासनारूपोपासनस्यैव मुख्यसाक्षात्कारहेतुत्वमुपदिष्टम् न वैद्यशाखादिवत्केवलवाक्यार्थज्ञानस्य |
SK
ननु लोके व्योमस्थितनक्षत्राणां सर्वानुभवदर्शनात् तत्पुण्यक्षये भूपतनद्योतनात् सशरीर मुक्तिः कैलासे सम्भवति इत्यूह्य उपमन्यु-दधीचि- puruṣāṇāṃ dṛṣṭatvāt tatrāpi pūjyapūjakabhāvasadbhāvāt bhallāṇa-cirutuṇḍa- सह शिवलोकप्राप्तिदर्शनाच्च नानुभवविषया अशरीरमुक्तिरिति चेन्न सशरीरमुक्तिवत् अशरीरमुक्तेरपि श्रुति-युक्त्यनुभवसिद्धत्वात् सुषुप्तिसमाधिषु स्थूल- aśarīrānubhavamanubhūya punastadanubhavopadeśācca | na ca svargaprāptatejaśśarīranakṣatrādivat śivalokaprāptamahāpuruṣāṇāmapi punaḥpunarāvṛttiḥ | te brahmaloke tu parāntakāle parāmṛtātparimucyanti sarve iti śrutau tallokādeva kaivalyamuktyupadeśāt brahmavidyopāsakānāṃ nityaniratiśayānandasvabhāvādvitīyasaśarīrāśarīramuktidvayaṃ svecchānusāreṇa labhyate | tasmānna caikamuktiriti niyamassambhavatīti niścīyate | iti śrīmadyativrajaparivṛḍha-śrīpatipaṇḍitabhagavatpādācāryasvāmikṛta- श्रीकरभाष्ये उपाअनाध्यायसंज्ञिकतृतीयाध्ययस्य पुरुषार्थाधिकरणादिसप्तदशाधिकरणावच्छिन्न पुरुषार्थोऽतशब्दादितिवादरायण-इत्यादि-द्विपञ्चाशत्सूत्रात्मकः चतुर्थः पादः समाप्तः अथ श्रीपतिपण्डितभगवत्पादाचार्यविरचिते ब्रह्ममीमांसासूत्रार्थप्रकाशके श्रीकरभाष्ये चतुर्थाध्यायस्य प्रथमः पादः आवृत्यधिकरणम् || १ || सर्वविद्याफलनिरूपणम् निरन्तरमनन्यभावानुगतश्रवणमननादिसाधकतदुपासनकर्तव्यता- tṛtīyādhyāye tattvaṃpadavākyārthasiddhopāsyopāsakaśivajīvapratipādakadaharādividyācintā kṛtā | idānīṃ caturthādhyāyasya prathamapāde sarvāsāṃ vidyānāṃ phalaṃ dvitīye tvampadārthabhūtajīvotkrāntidaśāviśeṣaphalaṃ tṛtīye arcirādigatiphalaṃ caturthe svābhāvikajīvabhāvanivṛttipūrvakaśivatvaprāptirūpaparamapuruṣārthaphalañca darśayati | tasmādetadadhyāyasya phalābhidhānam |
SK
पूर्वाध्याये दहरशाण्डिल्यादिविद्याविधानस्य पाशनिवृत्तिपूर्वकशिवत्वप्राप्तिसिध्यर्थं साधमैः सह निरूपणे सकृदेव प्रपन्नानां - सकृत्स्मरणमात्रेण सर्वसिद्धिकरं भवेत् | सकृदौपासनं कुर्यान्मायापाशनिवृत्तये || इत्यादिस्मृतिपुराणेषु सकृदुपासनामात्रेण जीवभावनिवृत्तिपूर्वकशिवत्वप्राप्तिः असकृदुपाअने मानाभावात् | ब्रह्मविदाप्नोति परं इत्यादिब्रह्मोपासनविधायकवाक्यानां सकृत्कालपरत्वमित्याशङ्कायां तन्निराकरणार्थमधिकरणान्तरमाह - || २९७ || आवृत्तिरसकृदुपदेशात् || १ || आत्मा वाऽरे द्रष्टव्यः तस्याभिध्यानात् योजनात् इत्यादिश्रुतिषु सकृदसकृन्नियमाद्र्शनेऽपि असकृत् अनेकवारं अविस्मरणेन आवृत्तिः परशिवध्यान-स्मरण-मननाद्यभ्यासः कर्तव्यः | कुतः उपदेशात् | आसुप्तेरामृतेः कालं नयेत् वेदान्तचिन्तया | दद्यान्नावसरं किञ्चित् कामादीनां मनागपि || सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैक्यं प्रविचिन्त्यताम् | गच्छंस्तिष्टन्नुपविशन् शयानोप्यन्यथापि वा || यथेच्छया वसेद्विद्वान् स्वात्मारामः सदा मुनिः | इति स्मृत्या सर्वतः स्वरूपमेव पश्यन् सः जीवन्मुक्तिमवाप्य प्रारब्धप्रतिभासनाशपर्यन्तं स्वरूपानुसन्धानेन वसेत् | स्वरूपानुसन्धानं विना अन्यथाचारपरो न भवेत् स विद्वान् वेदान्तश्रवणं कुर्वन् योगं समारभेत् इत्यादिश्रुतिषु तच्चिन्तनं तन्मननं अन्योदन्तप्रबोधनम् | एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः || तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायाणाः | दिने दिने च वेदान्तश्रवणात् भक्तिसंयुतात् || गुरुभक्तिं सदा लब्ध्वा भजन्ते शिवमव्ययम् || इत्यादिस्मृतिष्वपि निरन्तरं शिवस्मरण-मनन-ध्यान-धारण- buddhestadātmakatvābhāvācca avismaraṇena sadā tadupāsanamāvaśyakamiti sūtrasūkṣmārthaḥ | brahmavidāpnoti paraṃ brahma veda brahmaiva bhavati jñātvā śivaṃ śāntimatyantameti ityādiśrutiṣu brahmavedanarūpopāsanasya sakṛdasakṛditi vinigamakābhāvāt bhaktānāṃ sakṛdupāsanamutāsakṛdupāsanameveti sandihyate |
SK
ब्रह्म वेद ब्रह्मैव भवति इति वेदनमात्रस्यैव विधानात् असकृदावृत्तौ प्रमाणाभावात् | न च अवघातादिवत् वेदनस्य ब्रह्मापरोक्ष्यं प्रति दृष्टोपायत्वात् यावत्कार्यमावृत्तिरिति शक्यं वक्तुं वेदनस्य दृष्टोपायत्वाभावात् | ज्योतिष्टोमादिकर्मवत् वेदान्तविहितञ्च वेदनं शिवाराधनरूपम् | आराधिताच्च परमपुरुषात् धर्मार्थकाममोक्षाक्यपुरुषार्धाः वाप्तिरिति हि फलमत उपपत्तेः इत्यत्र प्रतिपादितम् | अतो ज्योतिष्टोमादिवत् यथाशब्दं सकृत्कृतमेव शास्त्रतात्पर्यमिति निश्चीयते | सकृत्कृतेः कृतशास्त्रार्थः इति न्यायदर्शनात् प्रयाजादिवत् सकृदनुष्ठेयमेवेति प्राप्ते प्रचक्ष्महे - || आवृत्तिरसकृदिति || असकृदावृत्तमेव वेदनं शास्त्रार्थः | कुतः उपदेशात् - sadā paraśivabrahmopāsanasya pāśanivṛttipūrvakaśivatvaprāptimūlamityupadeśādvyapadeśāt | yadā carmavadākāśaṃ veṣṭayiṣyati mānavaḥ | tadā śivamavijñāya duḥkhasyānto bhaviṣyati || ādimadhyāvasāneṣu duḥkhaṃ sarvamidaṃ yataḥ | tasmātsarvaṃ parityajya tattvaniṣṭho bhavānagha || nidrāyā lokavārtāyāśśabdāderātmavismṛteḥ | kvacinnāvasaraṃ datvā cintayātmānamātmani || ityādismṛtiṣu īśvaraṃ tamahaṃ vande yasya liṅgamaharniśam | yajante saha bhāryābhiḥ indrajyeṣṭhā marudgaṇāḥ || iti jaiminyācāryakṛtavedapādastave'pi ca asakṛdupāsanāvidhyavagamāt sakṛdeva prapannānāṃ sadymuktirvidhīyate ityādismṛtīnāṃ tanmāhātmyasmaraṇamātraparatvamiti vivakṣitam | mano brahmetyupāsīta bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda yatsa veda sa mayaitaduktaḥ anuma enāṃ bhagavo devatāṃ śādhi yāṃ devatā mupāse ityādiśrutiṣu upakramopasaṃhārayoḥ vidhyupāsyayoḥ vyatikaropadeśena mokṣasādhanarūpasya vedanasya upāsanarūpatvāvagamāt | upāsanaśabdasya ca smṛtisantānavācitvāt yaduktaṃ
SK
प्रयाजादिवदिति तन्न - तस्यादृष्टफलत्वात् युक्तं सकृदनुष्ठानम् | तथा ब्रह्मविदाप्नोति परं इत्यादिवाक्यसमानार्थेषु वाक्येषु आत्मा वारे द्रष्टव्यः ततस्तु तं पश्यति निष्कलं व्यायमानः इत्यादिषु ध्यायतिना वेदनमभिधीयते | ध्यानञ्च चिन्तनं तच्च स्मृतिसन्ततिरूपं न स्मृतिमात्रम् | उपास्तिरपि तदेकार्थः एकाग्रचित्तवृत्तिनैरन्तर्ये प्रयोगदर्शनात् | तयुभ्यैकार्थ्यात् असकृदावृत्तसन्ततस्मृतिरिह ब्रह्म वेद ब्रह्मैव भवति ज्ञात्वा देवं मुच्यते सर्वपाशैः इत्यादिषु वेदनादिशब्दैरुपासनमेवाभिधीयते | अस्मिन्नर्थे हेत्वन्तरमाह - || २९८ || लिङ्गाच्च || २ || ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः इत्यारभ्य लिङ्गस्य सर्वात्मकवं प्रसाध्य एतत्सोमस्य सूर्यस्य सर्वलिङ्गग्ṁ स्थापयति पाणिमन्त्रं पवित्रं इत्यत्र स्थापयतीति वाक्येन यथा सर्वथा भू-शरीरसाधारण्येन लिङ्गस्थापनविधानदर्शनात् तथा सर्वदा बाह्याभ्यन्तरेषु जप-पूजा-नमस्कार-श्रवण- gacchaṃstiṣṭhaṃtsadā vidvān śivaliṅgaṃ yathā mudā | bāhyābhyantaradeheṣu dhṛtvā bhaktyā cidātmakam || loke pravartate bhaktau tadvat śravaṇakīrtanāt | śravaṇātpūjanāt dhyānāt sāmbaṃ saṃsārabheṣajam || cintayetsatataṃ dhīmān nānyathā mokṣamāpnuyāt || iti darśanāt nirantaramananyabhāvena śravaṇamananādisādhanatvena tadupāsanaṃ kartavyamiti niścīyate | ātmādhikaraṇam || 2 || santataśivabhāvanājanyaśivatattvasākṣātkāraḥ tatprāptivicāraśca nanu asakṛta śivopāsanaṃ mumukṣūṇāmastu tathāpi kena mārgeṇa tadupāsanaṃ kartavyaṃ tatra bhedabhāvenotābhedena vetyāśaṅkāyāmadhikaraṇāntareṇa darśayati - || 299 || ātmeti tūpagacchanti grāhayanti ca || 3 || ātmā - jīvaḥ nirantarānusandhānena paraśivabrahmasākṣātkāraṃ tatprāptiñca labhata iti | mumukṣavo bhaktāḥ vedāntādibhirjñātvā dahara-śāṇḍilyādyupāsanena paramātmānaṃ grāhayanti-jānanti upagacchanti prāpnuvanti ceti sūkṣmārthaḥ | tu śabdo'tra niścayārthaḥ |
SK
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् | तदा विद्वान् पुण्यपापे विधूय निरञ्जनं परमं साम्यमुपैति || यथा नद्यः स्पन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय | तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् || इति मुन्डके ब्रह्मोपासकानां ब्रह्मसाक्षात्कारवत्वं ब्रह्मप्राप्तिमत्वञ्च दर्शितम् | हृत्पुण्डरीकं विरजं विशुद्धं इत्यारभ्य उमासहायं परमेश्वरं प्रभुं ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इत्यन्तेन कैवल्ये दहरोपासकानां मुमुक्षूणां शिवतत्त्वप्राप्तिः श्रूयते | उपासनात्रैविध्यप्रदर्शनम् उपासनानि त्रिविधानि - अहंग्रहोपासनानि प्रतीकोपासनानि अङ्गारबद्धोपासनानि चेति | तत्र अहंग्रहोपासनानि - दहर-शाण्डिल्य-वैश्वानर-उपकोसल- paramātmopāsanamupadiṣṭam | kāsucidvidyāsu adhikantu bhedanirdeśāt viśvādhiko rudro maharṣiḥ ityādi-śāstrānusaraṇena brahmaṇo jīvādadhikatvepi jīvasya svābhinnatayā brahmopāsanaṃ darśitam | tadevāhaṃgrahopāsanam | kaṃ brahma khaṃ brahma ityādiśrutiṣu tāmra-mṛṇmaya-śilādivigraheṣu śiva-keśavādivat nāya brahmetyupāsīta ityādinā nāmādijaḍapadārtheṣu brahmadṛṣṭayā brahmopāsanaṃ pratīkopāsanamityucyate | udgītādipadārtheṣu karmāṅgayajñādiṣu brahmadṛṣṭiḥ aṅgāvabaddhopāsanamityucyate | tasmādatra upāsakasya jīvasya cetanarūpasya syātmānameva śivatvenopāsanaṃ uta svabhinnajaḍapadārtheṣu brahmadṛṣṭyā brahmopāsanaṃ uta daharādiṣu kevalaśivopāsanaṃ kartavyaṃ veti sandihyate - ayamātmā brahma ahaṃ brahmāsmi ityādiṣu jīvasyaiva brahmatvavyavasthāpanāt svasya svātmānameva brahmopāsanamanivāryam |
SK
वाचं ब्रह्मेत्युपासीत नाम ब्रह्मेत्युपासीत मनो ब्रह्मेत्युपासीत प्राणो ब्रह्मेत्युपासीत इत्यादिषु वागाद्यचेतनपदार्थेषु ब्रह्मत्वोपदेशात् तदात्मकत्वेन ब्रह्मोपासनमप्युचितम् | अतश्चेतनाचेतनपदार्थविलक्षणत्वेन दहरादिस्थलेषु मुमुक्षूणां सदा शिवोपासनमकर्तव्यमेवेति प्राप्तेऽभिधीयते - दहरं विपापं परमेश्मभूतम् इत्यारभ्य तस्मिन् यदन्तस्तदुपासितव्यम् इति दहरान्तरत्वेन परमात्मोपासनमभिधाय सः कः इत्याकाङ्क्षायां यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः | तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः || इत्यादिना शिवतत्त्वोपासनं तैत्तिरीये मुमुक्षूणां चेतनाचेतनविलक्षणत्वेन बहुधा प्रपञ्चितम् | कैवल्ये - हृत्पुण्डरीकं विरजं विशुद्ध इत्यारभ्य उमासहायं परमेश्वरं प्रभुं त्रिलोचनम् नीलकण्ठं प्रशान्तम् इत्यादिना चित्प्रकृत्यात्मकलीलामङ्गलविग्रहोपासनकत्वंदहरपुण्डरीके मुमुक्षूणामुपदिष्टम् | आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मा आनन्दम् | शान्तिसमृद्धममृतम् | इत्यादिना तथा दर्शितम् | तस्मात् चेतनाचेतनविलक्षणत्वेन परशिवोपासनं मुमुक्षूणां कर्तव्यमिति निश्चीयते | सर्व खल्विदं ब्रह्म सर्वो वै रुद्रः ऋतṁ सत्यं इत्यादिषु शिवस्य परब्रह्मणः सर्वात्मकत्वं य आत्मनि तिष्ठन्नात्मनोऽन्तरः यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः इति यो रुद्रोऽग्नौ विवेश तस्मै रुद्राय नमो अस्तु इत्यादिषु तस्य सर्वान्तर्यामित्वनिर्देशात् चेतनाचेतनादिषु ब्रह्मोपासनं न विरुध्यते |
SK
किञ्च - अधिकन्तु भेदनिर्देशात् भेदव्यपदेशाच्चान्यः एषामीशे पशुपतिः पशूनाम् विश्वाधिको रुद्रो महर्षिः इत्यादिप्रात्यक्षिकशास्त्रदर्शनात् शिवाख्यं परब्रह्म जीवादधिकमेव | तथापि तत्त्वमसि इत्यादिभेदाभेदविधायकवाक्येषु उपास्योपासकानां चरमावस्थायामभेदव्यपदेशात् अहं ब्रह्मास्मि इत्यादिमहावाक्येन शिवोऽहमित्युपासनमविरोधम् | आत्मानमरणिं कृत्वा प्रणवञ्चोत्तरारणिम् ध्याननिर्मथनाभ्यासात् पाशं दहति पण्डितः इत्यादौ निरतिशयपरमानन्दचिदचित्प्रपञ्चविलक्षणसिवत्वप्राप्तिरेव मोक्ष इति सर्ववेदान्तसिद्धान्तोपदेशेऽपि तदुपासनरूपध्यानाभावेन पशुत्वनिवृत्तिः पाशविच्छेदश्च न सम्भवति | तदसम्भवे शिवतत्त्वप्राप्त्ययोगात् निरन्तरमनवच्छिन्नशिवोपासनं कर्तव्यम् | ध्यायीतेशानं प्रध्यायितव्यं इत्यारभ्य शम्भुराकाशमध्ये शिव एको ध्येयः शिवंकरः सर्वमन्यत् परित्यज्य इत्यन्तेन मुमुक्षूणा. अन्यदेवतोपासननिषेधावगमात् चेतनाचेतनात्मकजीवे वा जडप्रपञ्चे सन्ततशिवभावना-शिवत्वप्राप्तिहेतुरिति निश्चीयते | तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यत्र शिवोपादानप्रपञ्चस्य शिवात्मकत्वं असङ्कुचितत्वेन निर्दिष्टम् | अत्र केचित् - प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा इत्यादिश्रुतिशतेषु परब्रह्मणः शिवस्यात्मशब्दप्रयोगदर्शनात् आत्मा तु शिव एव मुमुक्षूणां दहर-शाण्डिल्यादिसर्वब्रह्मविद्यासु निरन्तरमुपास्यः इत्युपमन्यु- śravaṇa-manana-kīrtana-smaraṇādyupāsanena grāhayanti jānanti- शब्देन देवतान्तरध्याननिरासो निश्चीयत इति गम्यते | तदपि युक्तमेव | प्रतीकाधिकरणम् || ३ || शिवोत्पन्नचेतनेषु शिवदृष्ट्द्युपासनस्य शिवसाक्षात्कारहेतुत्वम् ननु प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः पृथगात्मानं प्रेरितारं च मत्वा इत्यादिश्रितुषु जीवब्रह्मणोः पृथक्त्वानुसन्धानविधानावगमात् कथं ब्रह्मभावेन जीवोओपासनं कर्तव्यमित्याशङ्कायामधिकरणान्तरेणाह - || ३०० || न प्रतीके न हि सः || ४ ||
SK
प्रतीकोपासनं तैत्तिरीये श्रूयते - भृगुर्वै वारुणिः वरुणं पितरमुपससार | अधीहि भगवो ब्रह्मेति | तस्मै एतत्प्रोवाच - अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति तद्ब्रह्मेत्युपासीत इत्यादिना अन्नादिप्रतीकोपासने ब्रह्मभावेन अन्नादीनामुपासनं कुर्तव्यमिति चेन्न | कुतः स हि सर्वव्यापकः शिव एव अन्नादिष्वन्तर्यामित्वेन स्थितः | अतस्तदुपासनेन मुमुक्षूणां स्थूलारुन्धतीन्यायवत् परस्परामुक्तिहेतुत्वं सम्भवतीति सूत्रसूचितभावार्थः | अन्नादीनां जगज्जन्मादिहेतुत्वेन ब्रह्मत्वोपदेशात् घटपटादिवत्परिच्छिन्नजडात्मकान्नादिषु ब्रह्मभावेनोपासनं कर्तव्यं न वेति संशयः | पिता वरुणोऽपि पुत्रं भृगुं प्रत्यन्नादीनां ब्रह्मत्वेनोपासनं यद्यप्यभिहिततवान् अथापि तन्न विधेयं जडत्वात् | लोके कृत्रिमगजाश्वादिषु गजादिभावभावितानां तत्फलादर्शनात् नश्वरान्नादिषु सत्यशिवोपासनं सर्वथा न सम्भवतीति प्राप्ते प्रचक्ष्महे - साधनाभावे साध्यनिष्पत्तेः इति न्यायेन लोके सौधारोहणकामानां सोपानारोहणं दृष्टम् | तद्वद्दहराद्युपासनाऽसमर्थानां मन्दप्रज्ञानां अन्नादिष्वपि परशिवब्रह्मत्वेनोपासनस्य समक्षजलन्यायेन स्थूलारुन्धतीन्यायेन च परम्परया ब्रह्मसाक्षात्कारहेतुत्वमिति निश्चीयते | लोके भृत्यादिषु प्रभुभावनया सन्मानस्य प्रभुकटाक्षहेतुत्वं राज्ञि भृत्यभावस्य दण्डनहेतुत्वं दृष्टम् | तद्वत् शिवोत्पन्नचेतनाचेतनेषु शास्त्रानिश्चितेष्वन्नादिषु शिवदृष्ट्योपासनस्य शिवसाक्षात्कारहेतुत्वमिति निश्चीयते | तस्मात् योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद कृत्स्नो ह्येष आत्मेत्येवोपासीत | त्वं वा अहमस्मि भगवो देवता देवता अहं वै त्वमसि भगवो देवता इति व्यतिकरेणोक्त-सर्वेषामुपासनानां सामञ्जस्यमेव | तद्वत् छान्दोग्ये - सर्वं खल्विदं ब्रह्म तज्जलानीति शान्त उपासीत इति चेतनाऽचेतनप्रपञ्चस्य सर्वस्य ब्रह्मत्वेनोपासनमुपदिशति | तज्जत्वात्तल्लत्वात्तदनत्वात्तन्नियामकत्वात्तदन्तर्यामित्वात्सर्वं ब्रह्मेत्युपदिष्टम् |
SK
अत्र हेत्वन्तरमाह - || ३०१ || ब्रह्मदृष्टिरुत्कर्षात् || ५ || उत्कर्षात् एक एव रुद्रो न द्वितीयाय तस्थे विश्वाधिको रुद्रो पुरुषो वै रुद्रस्सन्महः विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् सर्वो ह्येष रुद्रः इत्यादिश्रुतिशतेषु शिवस्य परब्रह्मणः चिअचिद्विश्वोत्कर्षत्वव्यपदेशात् सर्वाधिक्यं निष्प्रत्यूहम् | तथापि सर्वो वै रुद्रः इत्यादिषु तस्यैव सर्वात्मकत्वकथनात् अन्नादिषु ब्रह्मदृष्टिर्युक्ता | निधनपतये नमः इत्यारभ्य एतत्सोमस्य सूर्यस्य इत्यत्र सूर्यस्य सूर्यमण्डलान्तर्वर्तिनः सोमस्य उमासहितस्य भक्ततारणार्थं परिच्छिन्नपाण्यधिकरणकलिङ्गपूजाविधिमुक्त्वा सद्योजातादिपञ्चब्रह्ममन्त्रैः तदुत्कर्षत्वव्यपदेशात् व्यापकस्य शिवस्यान्नादिपरिच्छिन्नेषूपासनमविरुद्धम् | ननु वाचं ब्रह्मेत्युपासीत मनो ब्रह्मेत्युपासीत आदित्यं ब्रह्मेत्युपासीत इत्यादिवागादीनां ब्रह्मत्वनिर्देशात् ब्रह्मणि वागादिदृष्ट्या ब्रह्मोपासनं कर्तव्यमिति चेन्न तद्विधायकश्रुतियुक्त्यनुभवादर्शनात् | यस्मै नमस्तच्छिरो धर्मः मूर्धानं ब्रह्म उत्तरा हनुर्यज्ञोऽधरा हनुर्विष्णुर्हृदयं संवत्सरः प्रजतानं इत्यादिना शिशुमारात्मनिरूपणे हृदयादिरूपेभ्यः विष्ण्वादिभ्यः पार्थक्येन सर्वोत्कृष्टत्वादेव हि परब्रह्मणः शिवस्य प्रधानशिरोरूपत्वं यस्मै नमः तच्छिर इति नमस्कारविषयत्वेन लक्षणेनैवानूद्याभिहितम् |
SK
अवसाने च त्वं भूतानामधिपतिरसि त्वं भूतानां श्रेष्ठोऽपि इति तस्यैव सर्वभूतविषयमाधिपत्यं श्रेष्ठत्वं चोक्त्वा नमस्ते नमस्सर्वं ते नमः इति सर्वभूतो त्कृष्टत्वात् सिद्धं निखिलनमस्कारपर्यवसानभूमित्वमुक्तम् | सर्वत्र च नमस्ते रुद्रमन्यव इत्यादिषु सर्वोत्कृष्टतयैव पुनः पुनः तस्मै नमः प्रयुज्यते | ऐश्वर्यादिना हि लोकेऽधिकं नमन्ति ततस्सर्वनमस्कारविषयतया सर्वोत्कृष्टमुमासहितं विरूपाक्षं ईश्वरशब्दविषयीभूतं परं ब्रह्म अस्य सर्वोत्कृष्टस्य सर्वनमस्कार्यस्य व्याप्तिदृष्ट्या सर्वेषां मन आदित्यादीनां प्रतीकानामुपास्यत्वम् | अत एव श्वभ्यः श्वपतिभ्यश्च वो नमः इत्यादिषु अत्यन्तनिकृष्टेष्वपि सर्वोत्कृष्टब्रह्मव्याप्तिदृष्ट्या श्रुतिः नमः प्रयुङ्क्ते | तस्मादुत्कृष्टसम्बन्धात् निकृष्टेषूपचारदर्शनात् विश्वाधिकब्रह्मदृष्ट्या मनःप्रभृतीनामुपास्यत्वं सिद्धम् | प्रभु-भृत्यवद्ब्रह्मणि वागादिदृष्टिः प्रत्यवायकारी | आदित्यादिमत्यधिकरणम् || ४ || छान्दोग्ये आदित्यं यूपमुपासीत समुत्कृष्टस्यापकृष्टारोपणोपासनादर्शनात् उत्कृष्टे राजनि भृत्यदृष्टिः प्रत्यवायकरी भृत्येषु राजदृष्टिरभ्युदयफलायेति यदुक्तं तदयुक्तं इत्याशङ्कायामधिकरणान्तरेणाह - || ३०२ || आदित्यादिमतयश्चाङ्ग उपपत्तेः || ६ || आदित्यो ब्रह्मेत्युपासीत इत्यादिष्वङ्गावबद्धोपासनेषु आदित्यादीनां ब्रह्मत्वोपदेशेऽपि आदित्यादिमतयश्च आदित्यं यूपमुपासीत इत्यादिश्रौतविध्यनुसारेण आदित्यादिषु यूपादिबुद्धयः सर्वे च अङ्गाः ब्रह्मविद्याया अङ्गा एव | कुतः उपपत्तेः उद्गीथं ब्रह्मेत्युपासीत इत्यादिना उद्गीथविद्यायाः साक्षात् ब्रह्मसाक्षात्कारत्वावगमात् तदङ्गभूतयूपस्य ब्रह्मप्रकरणपठितत्वेन आदित्यादेस्समुत्कृष्टत्वेन आदित्यं यूपमुपासीत इति वाक्योपपत्तेरविरोधः |
SK
विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं सः इत्यादिषु कर्मप्रतिपादकवेदस्याविद्यात्मकत्वस्य ब्रह्मप्रतिपादकवेदस्य विद्यात्मकत्वस्य चोपदेशात् | ब्रह्मविदाप्नोति परं इत्यादिषु ब्रह्मविद्यायाः पाशनिवृत्तिपूर्वकपरशिवप्राप्तिरूपपरमपुरुषार्थफलत्वाच्च समुत्कृष्टत्वमनिवार्यम् | तस्मात् ब्रह्मप्रकरणपटितोद्गीथविद्यान्तर्गतयूपस्य अविद्याप्रपञ्चावच्छिन्न सूर्यादेरुत्कृष्टत्वात् प्रभुभृत्यादिवत् उत्कृष्टकनिष्ठत्ववादो ह्ययुक्तः इति सूक्ष्मार्थः | असावादित्यो ब्रह्म इत्यादौ सूर्यस्य ब्रह्मात्मकत्वश्रवणात् आदित्यं यूपमुपासीत इत्यादौ आदित्यस्य यूपत्वव्यपदेशाच्च आदित्यादौ यूपादिबुद्धयः सम्भवन्ति नवेति सन्दिह्यते | आदित्यो वा एष एतन्मण्डलं तपति असौ योऽवसर्पति नीलग्रीवो विलोहितः इत्यादिषु आदित्यस्य साक्षात् शिवत्वव्यवस्थापनात् एषोऽन्तरादित्ये हिरण्मयः पुरुषः इत्यादिश्रुतिषु सौरमण्डलमध्यस्थं साम्बं संसारभेषजं इत्यादिस्मृतिषु च शिवस्य परब्रह्मणः सूर्यमण्डलान्तर्वर्तित्वोपदेशाच्च तस्य यूपादिसाम्यत्वमयुक्तमिति प्राप्ते प्रचक्ष्महे - || आदित्यादिमतयश्चेति || च शब्दोऽवधारणे | आदित्यादिमतयः आदित्यादिषु मानसक्रत्वङ्गभूतयूपादिबुद्धयः अङ्गः साक्षात् ब्रह्मविद्याङ्ग एव | कुतः उपपत्तेः ब्रह्मादित्यादिपदार्थेभ्यः मानसिकब्रह्मविद्याङ्गयूपादेः समुत्कृष्टत्वोपपत्तेः | तत्प्राणेष्वन्तर्मनसो लिङ्गमाहुः मन एव मनुष्याणां कारणं बन्धमोक्षयोः | देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः || अजाड्यसंविन्मननं संविद्रूपं तदुच्यते | इत्यादिश्रुतिषु प्रपञ्चादिभ्यः स्थूलेभ्यः सूक्ष्मरूपमानसस्य सर्वाधिक्यत्वव्यवस्थापनात् मानसिकब्रह्मविद्याङ्गभूतयूपादेः सूर्यादिभ्यः समुत्कृष्टत्वम् |
SK
असावादित्यो ब्रह्म इत्यादिषु सूर्यस्य ब्रह्मात्मकत्वकथनात् सर्वोत्कृष्टत्वमिति यत्तदयुक्तम् - कं ब्रह्म खं ब्रह्म अन्नं ब्रह्म प्राणो ब्रह्म इत्यादिषु शिवोपादानत्वादुपासनार्थं सर्वं ब्रह्मेत्युक्तम् | एषोन्तरादित्ये हिरण्मयः पुरुषः इत्यादौ परमात्मनः सूर्यान्तर्वर्तित्वात् सूर्यस्य सर्वातिशयत्वमिति यत् तदप्यनुपपन्नम् - यो रुद्रो योऽग्नौ योऽप्सु इत्यादिषु शिवस्य सर्वान्तर्यामित्वव्यवस्थापनात् | अतो मानसिकोद्गीथविद्याक्रत्वङ्गयूपादेः समुत्कृष्टत्वमविरुद्धम् | आसीनाधिकरणम् || ५ || आसनोपविष्टस्यैव शिवैकध्यानार्हतानिर्णयः ननु गच्छंस्तिष्ठन्नुपविशंश्च्छयानोऽप्यन्यथाऽपि वा | यथेच्छया वसेद्विद्वान् आत्मारामस्सदा मुनिः || इत्यादौ ब्रह्मोपासकस्य आसनकालादिनियमादर्शनात् दहरादिविद्योपासकानां आसनाद्यपेक्षा न सम्भवतीत्याशङ्कायामधिकरणान्तरं दर्शयति - || ३०३ || आसीनः सम्भवात् || ७ || त्रिरुन्नतं प्राप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य | ब्रह्मोडुपेन व्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि || इति श्वेताश्वतरे विविक्तदेशे तु सुखासनस्थः शुचिस्समग्रीवशिरश्शरीरः | अत्याश्रमस्यः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य || इति कैवल्ये च श्रूयते | सुखासने समासीनस्सन् दहराद्युपासनारूपशिवैकध्यानं कुर्यात् | कुतः || सम्भवात् || पद्मासनाद्यासनेषु समासीनस्यैव चित्तैकाग्र्यसम्भवात् इति सूत्रसूचितसूक्ष्मार्थः | अत्र मोक्षसाधनभूतदहराद्युपासनात्मकं ज्ञानं असकृदार्वनं ततः स्मृतिरूपं आसनाभ्यासपूर्वकं उत तदतिरिक्तं वेति सन्देहः | गच्छंस्तिष्ठन् स्वात्मारामः सदा मुनिः | ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत् सदा यतिः || इत्यादिषु ब्रह्मोपासने पद्मासनादिनियमादर्शनात् मनोरूपोपासनस्य शरीरकृतस्वस्तिकाद्यासनादिविधानप्रयोजनाभावात् मन एव मनुष्याणां कारणं बन्धमोक्षयोः इति सर्वेषां कर्मिणां मनःप्राधान्योपदेशाच्च मुमुक्षूणां उपासने न ह्यासननियम इति प्राप्ते वदामः -
SK
श्वेताश्वतर-कैवल्याद्युपनिषत्सु ब्रह्मविद्याकामानां आसनपूर्वकत्वेन तदुपासनविध्युपदेशात् आरूढानां आसननियमाभावेऽपि आरुरुक्षूणामासनमुद्रालक्ष्याभ्यासनियमो न विरुध्यते | साधनं विना साधनाऽनिष्पत्तेः इति न्यायात् | स्थितिगत्योः प्रयत्नसापेक्षत्वात् शयाने च निद्रासम्भवात् आसीनस्यैव चित्तैकाग्रता भवति | तस्मात् आसीनस्सन् ब्रह्मोपासनमनुतिष्ठेत इति शास्त्रनियमावगमात् आसनपूर्वकत्वेन दहराद्युपासनं मुमुक्षुभिः कर्तव्यम् | अत्र हेत्वन्तरमाह - || ३०४ || ध्यानाच्च || ८ || तस्याभिध्यानाद्योजनात्तत्त्वभावात् इति श्वेताश्वतरे समासीनस्यैव ध्यानविधेरुपदेशात् | कैवल्ये तद्वत् विविक्तदेशे तु सुखासनस्थः शुचिः समग्रीवशिरः शरीरः इत्यादिना समासीनस्यैव हृत्पुण्डरीकं विरजं विशुद्धं इत्यारभ्य उमासहायं परमेश्वरं प्रभुं - ध्यात्वा मुनिर्गच्छति भूतयोनिम् आत्मानमरणिं कृत्वा प्रणवञ्चोत्तरारणिं | ध्याननिर्मथनाभ्यासात्पाशं दहति पण्डितः || इत्यादिना समासीनस्यैव ब्रह्मोपासनरूपध्वानं समञ्जसम् | सकलेतवरवस्तुपर्त्यागपूर्वकशिवैकविषयचित्तवृत्तिरेव ध्यानम् | पुनर्हेत्वन्तरमाह - || ३०५ || अचलत्वं चापेक्ष्य || ९ || ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् | यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः || इत्यादिना अचलत्वं निश्चलत्वं चापेक्ष्य उद्दिश्य आसीन एव परमेश्वरध्यानं कुर्यादित्यर्थः | पुनर्हेत्वन्तरमाह - || ३०६ || स्मरन्ति च || १० || न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरं | लघुत्वमारोग्यमनोलुपत्वं वर्णप्रसादं स्वरसौष्ठवञ्च || इत्यादिना श्वेताश्वतरे समासीनस्य शिवध्यानयोगनिष्ठस्य महिमानं बहुधा स्मरन्ति | चकारोऽत्र निश्चयार्थः | शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः | नात्युच्छिर्तं नातिनीचं चेलाजिनकुशोत्तरम् || तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः | उपविश्यासने युञ्ज्यात् योगमात्मविशुद्धये ||
SK
इत्यादिना स्मृतावपि तद्वदुपदिश्यते | पुनर्हेत्वन्तरमाह - || ३०७ || यत्रैकाग्रता तत्राविशेषात् || ११ || देवागारे तरुमूले गुहायां वसेदसङ्गो लक्षितशीलवृत्तः | निरिन्धनज्योतिरिवोपशान्तः न चोद्विजेद्ब्रह्मविदत्र लोके || दुष्टा᳚ष्वयुक्तमिव वाहमिदं विद्वान्मनो धारयति प्रमत्तः | समे शुचौ शर्करावह्निवालुकादिवर्जिते शब्दजलाश्रयादिभिः || मनोऽनुकूले न च नेत्रपीडने गुहानिवाताश्रयणे प्रयोजयेत् || इत्यादिना एकाग्रतानुकूलदेशकालविशेषाश्रयणात् एकाग्रतानुकूलो यो देशः कालश्च स एवोपासनस्य देशः कालश्चेति शास्त्रे निर्णीयते | तस्मात् नदीतीर-देवालय- cittaprasannatvaṃ tatra dhyānaṃ nirantaraśivopāsanātmakaṃ kartavyam | kutaḥ || aviśeṣāt || śuddhāntaḥkaraṇasya sarvatrāpi manaḥ prasādasya tulyatvāditi niścīyate | āsanamudrālakṣyābhyāsena śivadhyānaṃ kati saṃvatsarāṇi mumukṣubhiḥ kartavyaṃ ityākāṅkṣāyāmāha - || 308 || āprayāṇāttatrāpi hi dṛṣṭam || 12 || sa khalvevaṃ vartayan yāvadāyuṣaṃ brahmalokamabhisampadyate iti śrutidarśanāt āprayāṇāt - āmaraṇādanuvartanīyaṃ śivadhyānam | kutaḥ tatrāpi hi dṛṣṭam || jñātvā deva viśvapāśāpanītaḥ kṣīṇaiḥ klaiśaiḥ janmamṛtyuprahāṇi | tasyābhidhyānāttṛtīyadehabhede viśvaiśvaryaṃ kevalaṃ āptakāmaḥ || ityādinā tṛtīyadehasaṃjñikatamo'jñānanivṛttipūrvakaśivasākṣātkāraparyantaṃ śivopāsanaṃ dṛṣṭam | yaṃ yaṃ vāpi smaran bhāvaṃ tyajatyante kalevaram | taṃ tamevaiti tattvajñassadā tadbhāvabhāvitaḥ || iti smṛtau kalevarapatane śivatādātmyaṃ śivopāsakānāmupadiṣṭam | sthūlakalevarasya bahuvārapatanādarśanāt tyajedante kalevaram | ityanena kāraṇadehapatanamevāvagamyate | ataḥ kāraṇadehasaṃjñikapāśavicchedanārthaṃ śravaṇa-kīrtana pūjādiniyamena śivayogābhyāsaḥ mumukṣūṇāmāvaśyaka iti nirdiśyate | tadadhigamādhikaraṇam || 6 ||
SK
जगद्वासनायुक्तानां विदुषां आगामिसञ्चितकर्मक्षयात् अनुभवेन प्रारब्धनाशः निर्जगद्वासनायुक्तानां तु चतुर्विधकर्मक्षयविचारश्च शयानस्य निद्रादिपीडितत्वेन गमनस्य कण्टकादिबाधकत्वेन तिष्ठतः पादवेदनाजनकत्वेन समासीनस्यै सदाशिवोपासनमावश्यकमित्युक्तं तथापि अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् नाऽभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इति स्मृतिदर्शनात् उपासकस्य किं कर्मफलमित्याकाङ्क्षायामधिकरणान्तरेण निराकरोति - || ३०९ || तदधिगम उत्तरपूर्वाघयोः रश्लेषविनाशौ तद्व्यपदेशात् || १३ || तदधिगमे - तस्य परमशिवस्य अधिगमे - ध्यानोपासनया साक्षात्कारे सति उत्तरपूर्वाघयोः आगामि-सञ्चितपापयोः अश्लेष-विनाशौ भवतः | आगामिपापस्य असंस्पर्शः सञ्चितपापस्य विनाशश्च भवति | कुतः || तद्व्यपदेशात् || तद्यथा पुष्करपलाश आपो न संश्लिष्यन्ते | तद्यथेषौकातूलमग्नौ प्रोतं प्रदूयेत || यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन || ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा || इत्यादिस्मृतिष्वागामिसञ्चितकर्मणोः अश्लेषविनाशव्यपदेशादित्यर्थः | सञ्चित-प्रारब्धातीतागामिभेदेन कर्माणि चतुर्विधानि | तत्र पूर्वजन्मकृतानि भविष्यद्देहजननयोग्यानि स्वर्गादिफलोद्देशेन कृतानि कर्माणि सञ्चितानि | महता प्रयासेन श्रवण-कीर्तन-मनन- prārabdhāni | brahmasākṣātkāropapatteḥ pūrvasmin janmani janmāntare vā brahmasākṣātkāroddeśena kṛtāni karmāṇi atītāni | brahmasākṣātkārānantaraṃ asmin janmai kṛtāni karmāṇi āgāmīni | tatra caturvidhakarmasu sañcitānāṃ bhaviṣyaddehaparamparārūpaṃ phalamanutpādyaiva nāśaḥ | āgāmināñca karmaṇāṃ dehābhimānāgalitatvena kṛtatvān phalajananasāmarthyaṃ na sambhavati | tathā ca smṛtiḥ - prārabdhaṃ bhogato naśyet tattvajñānena sañcitam | āgāmidvitayaṃ karma tadveṣipriyavādinoḥ ||
SK
यथा रविस्सर्वरसान् प्रभुङ्क्ते हुताशनश्चापि च सर्वभक्षकः | तथा च योगी विषयान् प्रभुङ्क्ते न लिप्यते पुण्यपापैश्च शुद्धः || इत्यादिषु ब्रह्मोपासकानां सर्वकर्मक्षयफलावगमात् अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् इत्यादिस्मृतीनां अज्ञानविषयत्वमिति सूत्रसूक्ष्मार्थः | पूर्वाधिकरणे विद्यास्वरूपं विशोध्य विद्याफलविचारणार्थमिदमधिकरणमारभते | ब्रह्मविद्याप्राप्तौ पुरुषस्योत्तर-पूर्वाघयोरश्लोष-विनाशौ श्रूयते | यथा पुष्करपलाश आपो न श्लिष्यन्ते | एवमेवं विदि पापं कर्म न श्लिष्यते | तस्यैवात्मा परावरं विदित्वा न कर्मणा लिप्यते पापकेन इत्युत्तराघाश्लेषः | तद्यथेषिका तूलमग्नौ प्रोतं प्रदूयेतैव ह्यस्य सर्वे पाप्मानः प्रदूयन्ते | चीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे | इति पूर्वाघविनाशः | एतावदश्लेषविनाशौ विद्याफलभूतौ उपपद्येते न वेति संशयः | किं युक्तम् नोपपद्येते इति | कुतः नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इत्यादिशास्त्रविरोधात् अश्लेषविनाशव्यपदेशस्तु मोक्षसाधनभूतविद्याविधायकवाक्यशेषगतः कथञ्चिद्विद्यास्तुतिप्रतिपादनादप्युपपद्यते | न च विद्यापूर्वोत्तराघयोः प्रायश्चित्तप्रायश्चित्ततया विधीयते | येन प्रायश्चित्तेन अघविनाश उच्येत | विद्या हि ब्रह्म विदाप्नोति परं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ब्रह्म वेद ब्रह्मैव भवति इति ब्रह्मप्राप्त्युपायतया विधीयते | अतो विद्यार्थवादोऽयमघविनाशाश्लेषव्यपदेश इत्येवं प्राप्तेऽभिधीयते - || तदधिगम इति || विद्याप्राप्तौ पुरुषस्य विद्यामाहात्म्यादुत्तर पूर्वाक्योरश्लेष- pāpaṃ karma na śliṣyate | evaṃ hā'sya sarve pāpmānaḥ pradūyante | tadā vidvān puṇyapāpe vidhūya nirañjanaṃ paramaṃ sāmyamupaiti ityādibahuśrutidarśanāt |
SK
न च नाभुक्तं क्षीयते कर्म इत्यनेन शास्त्रेणास्य विरोधः भिन्नविषयत्वात् | तद्धि कर्मणां फलजननसामर्थ्यं द्रढिमविषयम् | एतत्तूत्पन्नायाः विद्यायाः प्राकृतानां पापानां फलजननशक्तिविनाशसामर्थ्यं उत्पत्स्यमानानाञ्च फलजननशक्त्युत्पत्तिप्रतिबन्धकरणसामर्थ्यञ्च प्रतिपादयतीति द्वयोर्विषययोर्भिद्यते | यथाग्निजलयोरौष्ण्यं तन्निवारणसाअर्थ्यञ्च विषययोर्द्वयोः प्रमाणयोरपि विषयभेदात् प्रामाण्यम् | एवमत्रापि न कश्चिद्विरोधः | अघस्याश्लेषकरणं वैदिककर्मयोग्यतावासना प्रत्यवायहेतुशक्त्युत्पत्तिप्रतिबन्धकरणम् | अघानि हि कृतानि पुरुषस्य वैदिकर्मयोग्यतां सजातीयकर्मान्तरारम्भरुचिं प्रत्यवायञ्च कुर्वन्ति | अघस्य विनाशकरणं उत्पन्नायास्तच्छक्तेर्विनाशकरणम् | शक्तिरपि परमपुरुषाप्रीतिरेव | तदेवं विद्यावेदितुर्वेद्यार्थप्रियत्वेन स्वयमपि निरतिशयप्रियानतिवेद्यभूतपरमपुरुषशिवाराधनरूपा पूर्वकृताघसञ्चयजनितपरमपुरुषाऽप्रीतिं विनाशयति | सैव विद्या स्वोत्पत्युत्तरकालभाव्यघनिमित्तपरमपुरुषाप्रीत्युत्पत्तिञ्च प्रतिबध्नाति | तदिदमश्लेषवचनं प्रामादिकविषयं मन्तव्यम् | नाविरतो दुश्चरितात् इत्यादिना आप्रयाणात् अहरहरुत्पद्यमानाया उत्तरोत्तरातिशययोगिन्याः विद्यायाः दुश्चरितविरतिनिष्पाद्यत्वाद्यवगमात् विदुषां जगद्वासनायुक्तानां आगामिसञ्चितकर्मक्षये सति प्रारब्धमात्रं अनुभवेन जहाति | निर्जगद्वासनानां अयस्कान्तसूचीन्यायेन सन्ततशिवाकाराकारितचित्तानां चतुर्विधकर्मनाशो भवतीति निश्चीयते | तथा स्कान्दे - ब्रह्मवित्सर्वकर्माणि श्रौतस्मार्तानि भक्तितः | कृत्वा काम्यानि संन्त्यज्य संसारीव प्रवर्तते || ब्रह्मविद्वरयोगी तु श्रौतस्मार्तानि सर्वदा | संन्त्यज्य पूर्णवैराग्यसिध्या वेदान्तचिन्तनम् || ध्याननिष्ठां परां लब्ध्वा भैक्ष्यान्नं प्राशयेन्मितम् | वरीयाख्यो ब्रह्मविच्च सर्वव्यापारमुत्सृजन् || निरन्तरशिवध्याननिष्ठानुष्ठानबोधतः | विश्वविस्मरणं प्राप्य सुप्तवद्वासनाक्षयः ||
SK
परदत्तान्नपानादीन् प्राशयित्वा निराशया | वसेदेकत्र निरतो नित्यानन्दस्वभावतः || वरिष्ठाख्यो ब्रह्मविच्च शिवतत्त्वे निरन्तरम् | चित्तं विलाप्य ध्यानेन जीवत्यक्तशरीरवत् || स्वबुध्या परबुध्या च पुनरुत्थानमार्गकम् | सन्त्यज्य शिवतादात्म्यसिध्या योगी वसेत्सदा || चतुर्णां मुक्तिरेकापि तारतम्यं प्रदृश्यते | प्रथमस्य द्वितीयस्य प्रारब्धं विद्यते सदा || तृतीयस्य तु प्रारब्धवार्तानुभव एव हि | चतुर्थस्य तु प्रारब्धं न स्पृशेन्न च लिप्यते || इति | इतराधिकरणम् || ७ || शक्तिपातमहिमाफलभूतशिवज्ञानोत्तरकालिकपुण्याऽपुण्यकर्मा- nanu brahmavidvariṣṭhasya manaśśūnyatvena jñānānantaragāmikarmābhāvatayā karmanirliptatvaṃ yuktam brahmavidādīnāṃ ajñānakṛtasarvakarmaṇāṃ jñānena vinaṣṭatve'pi śivajñānānantarakṛtāgāmikarmaṇāṃ kā gatirityāśaṅkāyāmadhikaraṇāntaraṃ darśayati - || 310 || itarasyāpyevamasaṃśleṣaḥ pāte tu || 14 || pāte gurukaṭākṣalabdhaśaktipāte tu śivajñānottarakālikapuṇyāpuṇyakarmaṇaḥ asaṃśleṣaḥ asaṃsparśo bhavati | śaktipātadīkṣābhāve'pi gurūpadeśapūrvakadṛḍhaśivayogamahimnā vicchinnapāśā'vidyā'jñānamāyādisaṃjñikatamorūpakāraṇadehānāṃ puruṣāṇāmapyevamupalakṣaṇaṃ draṣṭavyamiti sūtrasūcitasūkṣmārthaḥ galitapāśānāṃ śivajñānavatāṃ puruṣāṇāṃ tajjñānottarakṛtapuṇyāpuṇyarūpāgāmikarmaṇāṃ nivṛttissambhavati naveti sandihyate | jñānapūrvakālakṛtakarmaṇāṃ puṇyāpuṇyarūpāṇāṃ śrutismṛtiprāmāṇyadarśanānnivṛttirastu | jñānottarakālajanitakarmaṇāṃ naṣṭatvaṃ na sambhavati | naṣṭatvaṃ hi puṇyakarmaṇāṃ uta pāpakarmaṇāṃ vā nādyaḥ - puṇyakarmaṇāṃ jñānāvirodhitvāt parameśvarājñārūpatvācca nāntyaḥ - jñānapūrvakapāpānāṃ śāstre prāyaścittādarśanāt pāpakarmācaraṇe jñānabhaṅgaprasaṅgācca sarvathā jñānottarakālakṛtakarmakṣayo viduṣāṃ na ghaṭata iti prāpte pracakṣmahe - bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ | kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare ||
SK
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन | प्रारब्धं भोगतो नश्येत् तत्त्वज्ञानेन सञ्चितम् || आगामिद्वितयं कर्म प्रद्वेषिप्रियवादिनोः || इत्यादिश्रुतिस्मृतिषु सर्वकर्मक्षयत्वस्य विदुषामवगमात् विनिगमकादर्शनात् शिवज्ञानस्य अहामहिमातिशयस्य प्राचीनबहुजन्मकृतपुण्यापुण्यकर्मनाशकशक्तिसत्वेन ज्ञानोत्तरकालकृतकर्मनाशकत्वं किं न स्यात् श्रुतिस्मृतिसङ्कोचे मानाभावात् पुण्यस्यापि पापवत् शिवज्ञानप्रतिबन्धकत्वात् सर्वशिवात्मकभावकृतपुण्यकर्मणां तस्य कर्तृत्वाभावेन निर्लेपत्वं युक्तम् | मूढविदुषां स्वाहंकारेण पापाचरणाभावेऽपि प्रारब्धवज्ञात् प्रमादजनितपापानां असंस्पृष्टमविरुद्धम् | तदुक्तं सिद्धान्तागमे - शिवभावनया सर्वं नित्यनैमित्तिकादिकम् | कुर्वन्नपि महायोगी गुणदोषैर्न लिप्यते || इति दर्शनात् ᳚षिववत् शिवयोगिनामपि सर्वकर्मासंस्पृष्टत्वं सिद्धम् | अनारब्धकार्याधिकरणम् || ८ || शास्त्राध्ययनजन्यशिवज्ञानप्राप्यकालान्तरभाविमुक्तिफल- vistāraḥ viduṣāṃ āgāmijanitakarmabhirasaṃspṛṣṭatvamiti yaduktaṃ tadasaṅgatam | jaḍabharatādīnāṃ sukṛtaduṣkṛte anārabdhakārye apravṛttaphale'pi ca vidyayā na naśyate kutaḥ janmatrayadarśanāt ityāśaṅkāyāmadhikaraṇāntaramāha - || 311 || anārabdhakārye eva tu pūrve tadavadheḥ || 15 || pūrve śivajñānotpatteḥ pūrvaṃ śuddhajīvānāṃ ārūkṣūṇāṃ sukṛtaduṣkṛte anārabdhakārye apravṛttaphale eva vidyayā naśyataḥ kutaḥ tadavadheḥ tasya tāvadeva ciraṃ yāvannavimokṣye atha sampatsye ityatra śivajñānasampūrṇasiddhiparyantaṃ baddhajīvavat śuddhajīvānāṃ mokṣavilambābagamāt jaḍabharatādīnāṃ nirvāsanāpūrvakaśivajñānasidhyabhāvena vilambamuktiḥ | nirvāsanaśivajñānaniṣṭhānāṃ vāmadevādīnāṃ avilambamuktirityavirodha iti sūtrasūcitasūkṣmārthaḥ | śivajñānavatāṃ sarveṣāmāgāmiphalabhoganivṛttipūrvakasadyomuktiḥ uta adhikāritāratamyena vilambamuktiḥ sambhavati veti sandihyate |
SK
यावदुत्पद्यते ज्ञानं तावदनुष्ठेयानि कर्माणि इति श्रुतौ ज्ञानोत्पत्तिमात्रेण सर्वेषां सर्वकर्मत्यागावगमात् ज्ञानमात्रेणैव सद्योमुक्तिः सम्भवति | तदनङ्गीकारे ज्ञानादेव तु कैवल्यं नान्यः विमुक्तये इति बहुश्रुतिभङ्गप्रसङ्गः इति प्राप्ते प्रचक्ष्महे - शिवज्ञानसिद्धिं विना वैद्यशास्त्रादिज्ञानवत् परोक्षज्ञानेन पाशविच्छेदपूर्वकशिवत्वप्राप्तिर्न घटते | अनुभूतिं विना मूढो वृथा ब्रह्मणि मोदते | प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत् || इत्यादिश्रुतिषु शास्त्रजन्यापरोक्षज्ञाननिन्दाश्रवणात् केवलज्ञानशब्देनेच्छापर्यायत्वेन तदिच्छायाः पुरुषार्थात्वायोगात् यावदुत्पद्यते ज्ञानं इत्यादिश्रुतिषु ज्ञानशब्देन शिवयोगोपासनासिद्धिरवगम्यते | श्रद्धाभक्तिध्यानयोगादवेहि आत्मानमरणिं कृत्वा प्रणव`न्चोत्तरारणिम् | इत्यादिषु उपासनाज्ञानसिद्धानामेव पाशनिवृत्तिपूर्वकशिवत्वप्राप्तेरुपदेशात् ज्ञानसिद्धिरूपापरोक्षज्ञानस्यैव मोक्षहेतुत्वम् | अस्ति ब्रह्म इत्यादिशास्त्रजन्यपरोक्षज्ञानस्य कालान्तरमोक्षफलजनकत्वमिति निश्चीयते | तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्य इति श्रुतौ तद्वद्दर्शनात् श्रुत्यर्थस्तु तस्य वासनायुक्तशिवज्ञानस्य परोक्षानुभवस्य तावदेव चिरं तावदेव कैवल्यस्य कालविलम्बः | यावन्नविमोक्ष्ये यावत् प्रारब्धकर्म न विमुच्यते अथ सम्पत्स्यते | अथ प्राराब्धकर्मनाशानन्तरं संपत्स्यते विदेहकैवल्यं प्राप्नोतीत्युपदिशति | एतेन शास्त्रजन्यशिवज्ञानाभ्यासवतामुपासकानां कालान्तरमुक्तिफलत्वं निर्वासनापूर्वकशिवज्ञानसिद्धानां एतच्छरीरेणैव पाशनिवृत्तिपूर्वकपरशिवतत्त्वात्मकत्वं निश्चीयते | अग्निहोत्राधिकरणम् || ९ || निर्वासनावासितान्तःकरणपरिपूरित-निराभार- śivopāsakānāmapi tattvāgānaucityasya vinirṇayaḥ nanu rudro vā eṣa yadagnistasyaite tanuvau ghorānyā śivānyā iti śrutau agneśśivaśarīratvanirdeśāt yāvajjīvaṃ agnihotraṃ juhoti ya evaṃ vidvānagnihotraṃ juhuyāt ityādau vidvadavidvadāvaśyakatvena codanāvagamāt
SK
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | कुर्याद्विद्वांस्तथाऽसक्तः चिकीर्षुर्लोकसंग्रहम् || इति स्मृतौ तद्वद्व्यवस्थापनात् कथमग्निहोत्रादिकर्मणामावश्यकत्वं नास्ति इत्याशङ्कायामधिकरणान्तरेणाह - || ३१२ || अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् || १६ || शिवज्ञानोद्देशेन कृतमग्निहोत्रादिकं तत्कार्याय ज्ञानरूपकार्यायैव भवति | कुतः तद्दर्शनात् | तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इत्यादिश्रुतिषु अग्निहोत्रादीनां शिवज्ञानसाधनत्वेन शिवज्ञानं प्रत्युप जीव्यत्वात् ब्रह्मज्ञाननाश्यत्वं नास्तीत्युपदिश्यते | तदुक्तं शिवगीतासूपनिषत्सु - कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते | इष्टापूर्तादिकर्माणि येनाचरति मानवः || शिवार्पणधिया कामान् परित्यज्य यथाविधि || इत्यादिना बहुधा प्रपञ्चितम् | यद्यपि कर्माणां फलनाश्यत्वात् फलभूतेन ब्रह्मज्ञानेन नाशोऽस्त्येव | तथापि फलत्वेन रूपेणैव शिवज्ञानस्य कर्मनाशकत्वं न तु ज्ञानत्वेन रूपेणेति सूत्रसूचितसूक्ष्मार्थः | पूर्वाधिकरणे शिवज्ञानपूर्णनिष्ठानां सद्योमुक्तिः शास्त्रीयपरोक्षशिवज्ञानवतां शम-दम-वैराग्योपरति- tathaiva yāvajjīvaṃ śivopāsanamapyupapāditam iha tu vidvānagnihotraṃ juhuyāt na karmaṇā na prajayā dhanena ityādiṣu sāvakāśāgnihotracodanāvagamāt yāvaccharīrapātaparyantaṃ agnihotrādikarmānuṣṭhānaṃ vidheyaṃ uta jñānotpattiparyantaṃ iti sandihyate | yāvajjīvamagnihotraṃ juhuyāt aharahassandhyāmupāsīta ityādibahuśrutiṣu yāvajjīvavidhyupadeśāt | viduṣāmaviduṣāmabhyudayaphalahetukarmānuṣṭhānamāvaśyakamiti prāpte'bhidhīyate -
SK
यावच्छरीरेषणत्रयवासना दृश्यते तावत्कां सर्ववासनानिर्मुक्तशिवज्ञानसिध्यर्थं फलाभिसन्धिरहितपरमेश्वरार्पितकर्मानुष्ठानमारुरुक्षूणां शिवज्ञानवतां आवश्यकम् | एवं शिवज्ञानदृढहलकत्वात् तमेतं वेदानुवचनेन ब्राह्मणाविविषन्ति यज्ञेन दानेन तपसाऽनाशकेन इत्यादिना अग्निहोत्रादीनां विद्यासाधनत्वं विद्यायाश्च आप्रयाणादभ्यासाधेयातिशयायाः अहरहरुत्पाद्यत्वात् तदुत्पत्यर्थं आश्रमकर्म शिवार्पणबुध्या अनुष्ठेयमेव | अन्यथा अश्रमकर्मलोपे दूषितान्तःकरणस्य विद्योत्पत्तिरेव न स्यात् | तमेतं वेदानुवचनेन इत्यत्र वेदानुवचनं वेदाभ्यासः | परमशिवप्राप्तिफलसाधनज्ञानमध्यात्मवादिनां वेदमन्त्राणां जपावृत्तिः | शतरुद्रीयजपमाहात्म्यम् तथा जाबालोपनिषदि अथैनं ब्रह्मचारिण ऊचुः किं जत्पेनामृतत्वं ब्रूही इति | सहोवाच याज्ञवल्क्यः - शतरुद्रीयेणेत्यादि एतानि ह वा अमृतस्य नामधेयान्येतैर्हवाऽमृतो भवति इति | कैवल्ये - यः शतरुद्रीयं ब्राह्मणो नित्यमधीतसौऽग्निपूतो भवति स वायुपूतो भवति सुरापानात्पूतो भवति स्वर्णस्तेयात् पूतो भवति ब्रह्महत्यायाः पूतो भवति तस्मादविमुक्तमाश्रितो भवति अत्याश्रमी सर्वदा सकृद्वा जपेत् अनेन ज्ञानमाप्नोति संसारार्णवतारकम् | तस्मादेवं विदित्वैनं कैवल्यं पदमश्नुते इति | इह शतरुद्रीयसंज्ञिकानां ब्रह्मबोधकमन्त्राणां संस्मरणात् संसारतारणज्ञानोत्पत्तिविध्यवगमात् वेदश्शिवश्शिवो वेदः वेदाध्यायी सदाशिवः इत्यादि स्मृतिषु ईशानस्सर्वविद्यानां इत्यादिश्रुतिषु च वेदस्य शिवात्मकत्वस्य शिवाधीनत्वस्य च द्योतनेऽपि साक्षाच्छिवतत्त्वप्रतिपादकशतरुद्रीयपञ्चब्रह्मादिमन्त्राणां समुत्कृष्टत्वमविरुद्धम् | मद्यं पीत्वा गुरुदारांश्च गत्वा स्वर्णस्तेयं ब्रह्महत्याञ्च कृत्वा | भस्माच्छन्नो भस्मशाय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः ||
SK
इत्यादिना सामशाखायामपि शतरुद्रीयाधिक्य कथनात् | जाबाले - एतानि ह वा अमृतस्य नामधेयानि इति अमृतस्य अनादिमुक्तस्य शिवस्य नामधेयत्वाद्धेतोः शतरुद्रीयजपात्सर्वाघनाञ्चः स्मर्यते | अपि च - यश्चण्डालः शिव इति वाचं वदेत् तेन सह संवसेत् तेन सह भुञ्जीत अत्र हि शिवशब्दस्य ब्रह्मबोधकस्य समुच्चारणमात्रेण अत्यन्ताविशुद्धस्य पातकिनः परमशुद्धिविधीयते अन्यत्र योऽथर्वशिरसा ब्राह्मणो नित्यमधीयते इत्यारभ्य तदभ्यसनेन सर्वदुरितक्षयफलमुपदिश्य सकृज्जप्त्वा विशुद्धः पुनः कर्मण्यो भवति | द्वितीयं जप्त्वा गाणापत्यमवाप्नोति | तृतीयं जप्त्वा देवमेवानुप्रविशति इति मोक्षफलमवगम्यते | आत्मानमरणिं कृत्वा इत्यादिषु शिवात्मकप्राणाभ्यासस्य पाशविच्छेदकस्य लक्षणमुच्यते | एवमन्यत्रापि वेदितव्यम् | अतः शिवपराणां वेदमन्त्राणां पापक्षयद्वारा शिवज्ञानहेतुतया मोक्षसाधनत्वावगमात् तदभ्यासः कर्तव्यः विद्यावतां पूर्णवैराध्यनिष्ठारहितानां यावज्जीवमग्निहोत्रादियज्ञानां परशिवार्पित फलानां तदाज्ञासिद्धत्वात् तदाराधनरूपत्वाच्च वेदवदभ्यासः कर्तव्यः | एवं दानादीनामपि | तस्मान्निर्वासनानां निराभारधर्माश्रयिणां कर्मत्यागस्योचितत्वेऽपि लौकिकेषणत्रयबद्धानां गृहिणां शिवोपासकानां कर्मत्यागः असमञ्जसः | यदि अग्निहोत्रादिसाधुकृत्याः विद्योत्पत्यर्थाः विद्योत्पत्तेः प्राचीनं च सुकृतं यावत्सम्पातमुषिवा प्राप्त्यान्तं कर्मणः इत्यनुभवेन विनष्टम् तर्हि सहृदस्साधुकृत्यां इत्यस्य कोविषयस्तत्राह - || ३१३ || अतोऽन्यापि ह्येकेषामुभयोः || १७ || अतः अग्निहोत्रादिसाधुकृत्यायाः विद्योत्पत्यर्थायाः अन्यापि विद्याधिगमात्पूर्वोत्तरयोरुभयोरपि पुण्यकर्मणोः प्रबलकर्मप्रतिबद्धफला साधुकृत्याऽनन्ता सम्भवत्येव | तद्विषयमिदमेकेषां शाखिनां वचनम् | तस्य पुत्रा दायमुष यन्ति सुहृदस्साधुकृत्याम् इति विद्यया अश्लेषविनाशश्रुतिश्च तद्विषया |
SK
तस्माच्छिवार्पिताग्निहोत्रादिवैदिकद्वैतकर्मिणां भ्रमरकीटन्यायवत् जीवभावनिवृत्तिपूर्वकशिवत्वप्राप्तिरूपसिध्यङ्गत्वेन सर्ववेदान्तार्थविज्ञाननिधानभूत-जैमिनि- mumukṣūṇāṃ āvaśyakamiti niścīyate | etena śrutyābhāsapradhānādhyāropāpavādavidhāyakajaganmithyādvaitaṃ sarvathā mumukṣubhirnāśrayaṇīyamiti veditavyam | nanu tametaṃ vedānuvacanena brāhmaṇā viviṣanti ityādiśrutibhissarveṣāṃ puṇyakarmaṇāṃ jñānasādhanatvena codanāvagamāt jñānasādhanabhūtatvaṃ karmaṇāṃ sambhavatīti yaduktaṃ tadayuktam niṣkalaṃ niṣkriyaṃ śāntaṃ ityādiśrutiṣu tathā ca tadadhigama iti sūtre ca brahmaṇo nirviśeṣatva- || ३१४ || यदेव विद्ययेति हि || १८ || यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति इति श्रुतौ यत्कर्म विद्यया दहर- brahmajñānasādhanaṃ yadeva vidyayā karoti ityatra daharādyupāsanārahitaparameśvarārpitajyotiṣṭomādikarmaṇaḥ kālavilambena brahmajñānasādhanatvaṃ bhavatītyupadiśyate | hikāro niścayārthaḥ | parā'sya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca ityatra brahmaśakteḥ svābhāvikatvavyapadeśāt na nirviśeṣatvādyupapattiḥ tathāpi niṣkalaṃ niṣkriyaṃ ityādiśrutīnāṃ śaktisaṅkocakālaviṣayatvaṃ pradhānakṣetrajña patirguṇeśaḥ ityādiśrutīnāṃ śaktivikāsāvasthāviṣayatvamiti lokavattu līlākaivalyam ityādisūtrānusāreṇa pūrvamevoktam | tadadhigama iti sūtraṃ na nirviśeṣaviṣayamiti niścīyate | bhogādhikaraṇam || 10 || mukteḥ puṇya-pāpaphalānubhogasamanantaraprāpyatānirṇayaḥ nanu tathāpi daharādyupāsakānāṃ viduṣāṃ puṇyāpuṇyarūpaprārabdhakarmakṣayaḥ kathaṃ sambhavatītyāśaṅkāyāmadhikaraṇāntareṇāha - || 315 || bhogena tvitare kṣapayitvā'tha sampadyate || 19 || vidvān bhaktaḥ bhogena sukhaduḥkhātmakaprārabdhabhogena bhāviśarīrajanakāgāmirūpapuṇyapāpe vidyāmahimnā kṣapayitvā nāśayitvā svecchānusāreṇa caturvidhamuktiṃ sampadyate prāpnotīti sūtrasūcita sūkṣmārthaḥ |
SK
पूर्णाधिकारिणां साक्षादिह शरीरे मुक्तिः मन्दप्रज्ञानां जन्मत्रयेण केवल परमेश्वरार्पितवैदिककर्मणां बहुजन्मपरम्परया ज्ञानहेतुत्वमात्रं पूर्वाधिकरणे अभिहितम् | पूर्वत्र विद्यायाः पुण्यापुण्यनाशहेतुत्वव्यपदेशात् विद्यावतां पुंसामिह शरीरेण शरीरान्तरेण या विद्या फलिष्यतीति | अत्र सन्दिह्यते | तस्य तावदेव चिरं यावन्नविमोक्ष्ये इति श्रुतौ शरीरमोक्षावसानत्वश्रवणात् सर्वेषां ज्ञानवतां एतच्छरीरावसाने मुक्तिः सम्भवति | प्रारब्धभोगक्षयार्थं बहुशरीरस्वीकारे विद्यायाः अपुरुषार्थत्वं सम्भवति | पूर्वविद्यायामिव तदुत्तरविद्यायामपि पुरुषेण यत्कर्म क्रियते तदपि फलभोगाय भवत्येव | तस्माज्जन्मपरम्पराविच्छेदायोगात्सर्वथा मुक्तिर्न सम्भवतीति प्राप्ते वदामः - भोगेनत्विति तु शब्दः पक्षव्यावृत्यर्थः | इतरे आरब्धकार्ये पुण्य-पापे प्रारब्धफलभोगेन क्षपयित्वा तद्भोगसमाप्त्यनन्तरं ब्रह्म सम्पद्यते च | पुण्यपापे एकशरीरभोग्यफले चेत् तदवसाने ब्रह्म सम्पद्यते भोगेनैव क्षपयितव्यत्वात् आरब्धफलयोः कर्मणोः तस्य तावदेवचिरं इति च भोगेन तयोः कर्मणोः मोक्ष उच्यते | देहावधिनियमाश्रवणात् तदेवं ब्रह्मविद्यायाः प्रागनुष्ठितमभुक्तफलमनारब्धफलं पुण्यपापरूपं कर्म अनादिकालसञ्चितं अनन्तं विद्यामाहात्म्याद्विनश्यति विद्यारम्भोत्तरकालमनुष्ठितञ्च न श्लिष्यते | तत्र पुण्यरूपं सर्वं विदुषः सुहृदो गृह्णन्ति पापञ्च द्विषन्तः इति पूर्वमेवोक्तम् | इति श्रीमद्यतिव्रजपरिवृढ-श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत- viśeṣādvaitasiddhāntavyavasthāpakavaiyāsikabrahmamīmāṃsāsūtrārthaprakāśake śrīkarabhāṣye phalādhyāyasajñikacaturthādhyāyasya āvṛtyadhikaraṇādi daśādhikaraṇāvacchinna āvṛttirasakṛdupadeśādityādyekonaviṃśatisūtrātmaka prathamaḥ pādaḥ samāptaḥ atha śrīkarabhāṣye caturthādhyāyasya dvitīyaḥ pādaḥ vāgadhikaraṇam || 1 || tvaṃ pādārthabhūtajīvotkrāntidaśāviśeṣaphalapradarśanam
SK
पूर्वत्रोपासकानामेव मुक्तिरभिहिता | उपासकानामवस्था द्विविधा मरण- arcirādimārgeṇa niratiśayānandavibhavaśīlakalyāṇavibhūtyātmakaśivalokaprāptiḥ | sukṛtināntu dhūmādimārgeṇa svargalokaprāptiḥ | pāpināṃ tṛtīyamārgeṇa narakalokaprāptiḥ | daharabhūmādividyāvaśāt niravayavaparañjyotirmayaśivatattvasākṣātkāravatāṃ atraiva paraśivajyotirliṅge laya iti vaktuṃ prathamaṃ sarvasādhāraṇamaraṇāvasthāṃ darśayati - || 316 || vāṅmanasi darśanācchabdācca || 1 || sarvasādhāraṇamaraṇāvasthānirūpaṇam vāk indriyaṃ manasi sampadyate kutaḥ taddarśanāt - loke mumukṣūṇāṃ vāgvyāpāranāśānantaramapi manovyāpārasya dyotanāt śabdācca | asya prayato jīvasya vāṅmanasi sampadyate manaḥ prāṇe prāṇo'dhyakṣe adhyakṣastejasi tejaḥ parasyāṃ devatāyāṃ iti śrutau vāgindriyasya manasi sambandhavyapadeśāt suptivanmaraṇāvasthāyāmapi vāgindriyaṃ manasi līyata iti sūtrasūcitasūkṣmārthaḥ | upāsakasya viduṣaḥ gatiprakāramidānīṃ cintayitumārabhate | prathamaṃ tāvadutkrāntiścintyate | tatredamāmnāyate - asya saumya puruṣasya prayato vāṅmanasi sampadyate ityādi | atra vāṅmanasi sampadyata iti vāco manasi sampattiśrutiḥ kiṃ vagvṛttimātraviṣayā uta vāgviṣayeti saṃśaye vṛttimātraviṣayeti yuktam kutaḥ manaso vākprakṛtitvābhāvāt | atra vāksvarūpasampatyasambhavāt vāgādīnāṃ manodhīnatvena vṛttisampattiśrutiḥ kathañcidupapadyate | loke mṛdghaṭādivat kāryasya upādāne layāvagamāt vāgādīnāṃ brahmopādānakatvāt tasminneva svātantryeṇa evadvṛttilaya eva yukta iti prāpte pracakṣmahe -
SK
वाङ्मनसीति | वाक्स्वरूपमेव मनसि सम्पद्यते | कुतः तथा दर्शनात् | दृश्यते हि वागिन्द्रिये उपरतेऽपि मनःप्रवृत्ति | तन्मात्रसम्पत्यापि तदुपपद्यत इति चेत् तत्राह - vṛttimātrasampattau | na hi tadānīṃ vṛtyuparame vāgindriyaṃ pramāṇāntareṇopalabhyate yena vṛttimātraṃ sampadyata ityucyate | yaduktaṃ manaso vākpravṛttitvābhāvāt vāco manasi sampattirnopapadyata iti tat vāṅmanasi sampadyate iti vacanāt - manasā vāk saṃyujyate na tu tatra līyata iti parirtavyam | kiñca - asya saumya puruṣasya prayato vāṅmanasi sampadyate indriyāṇi manasi sampadyante iti vacanāt utkrāntau manasaḥ prāgeva vāgādīnāmuparamadarśanācca vāṅmanasi prathamaṃ sampadyate tatassarvendriyāṇi manasi sampadyanta kāryasyopādāne layaḥ iti yaduktaṃ tannasambhavati svarūpalayasyaivopādānāpekṣatvāt | ato vāgādīnāṃ manasi na sarvarūpalaya ucyate kintu vṛttilayaḥ | yathāmbumadhyanikṣiptāgnikaṇasya prakāśādivṛttilayaḥ tadvadanupādāne manasi vāgādīnāṃ vṛttilayo'pi nirdiṣṭaḥ vṛttivṛttimatorbhede sati abhedasiddhidarśanāt | atra hetvantaramāha - || 317 || ata eva (ca) sarvāṇyānu || 2 || yato vāco manasā saṃyogamātraṃ sampattiḥ na tu layaḥ ata eva vācamanu sarveṣāmindriyāṇāṃ manasi sampattiśrutirupapadyate tasmādupaśāntatejāḥ punarbhavamindriyairmanasi sampadyamānaiḥ iti | kiñca sṛṣṭimārge'pi manasaḥ prādhānyaṃ śrūyate yaddhi manasā dhyāyate tadvācā vadati tat karmaṇā karoti iti | śivayogasamādhiprakaraṇe - yacchedvāṅmanasi prājñaḥ tadyacchecchānta ātmani | jñānamātmani mahati tadyacchecchānta ātmani || ityādinā vāgādermānasasyotkṛṣṭatvamavagamyate | tasmānmaraṇakāle'pi vāgindriyasya manasi layatvaṃ na virudhyate | mano'dhikaraṇam || 2 || manasaḥ prāṇe layavicāraḥ
SK
ननु वागादीन्द्रियेभ्यो मानसस्य समुत्कृष्टत्वेन मनसि वाग्वृत्तिलयः अस्तु इन्द्रियाणां मनो नाथः इत्यादिशास्त्रयुक्त्यनुभवात् | तथापि मानसस्य कस्मिन् लयोपपत्तिः स्यादित्याशङ्कायामधिकरणान्तरमाह - || ३१८ || तन्मनः प्राण उत्तरात् || ३ || मनः प्राणे सम्पद्यते इति श्रुतौ इन्द्रियाणां मनो नाथः मनो नाथस्तु मारुतः | मारुते मध्यसञ्चारे मनःस्थैर्यं प्रजायते || इति वाक्ये मनसः प्राणाधीनत्वावगमात् मनः प्राणे लीयते | कुतः तदुत्तरात् | तदुत्तरवाक्यात् | मनः प्राणे इत्यादिना वागादिसर्वेन्द्रियाणां मनसि लयः | तन्मानसस्य प्राणे लयावस्थावगमात् तदुपादानमनसि वागादीनां प्राणे मानसस्य च स्वरूपलयो वृत्तिलयो वेति संशयः | अन्नमयं हि सौम्य मनः अपोमयः प्राणः तेजोमयी वाक् इति श्रुतौ मानसस्यान्नप्रकृतित्वमवगम्यते | अन्नस्य च - ता अन्नमसृजन्त इत्यादौ अन्नोपादानकारणत्वं जलस्यापि प्रतीयते | तस्मात् मनः प्राणे सम्पद्यते इत्यत्र प्राणशब्देन प्राणप्रकृतिरूपापो निर्दिश्य तासु मनस्सम्पत्तिप्रतिपादने परम्परया स्वकारणे लयः इति सम्पत्तिवचनं उपपन्नं भवतीति प्राप्ते ब्रूमः | पूर्ववदत्रापि मानसस्य प्राणे वृत्तिलयमात्रमेव न स्वरूपलयः | मनः प्राणे सम्पद्यते इत्युत्तरवाक्यदर्शनात् मानसस्य प्राणोपादानत्वायोगाच्च | अन्नमयं हि सौम्य मनः आपोमयः प्राणः इति मनःप्राणयोरन्नेनाद्भिश्चाप्यायनमुच्यते न तत्प्रकृतित्वं अहङ्कारिकत्वान्मनसः आकाशविकारित्वाच्च प्राणस्य प्राणशब्देनापां लक्षणा च स्यादिति निश्चीयते | अध्यक्षाधिकरणम् || ३ || प्राणस्य जीवे लयसम्पत्तिविचारः प्राणस्य मनोऽधिष्ठानत्वसम्भवेन मानसस्य प्राणे लयोऽस्तु तथापि प्राणस्य कस्मिन्नाप्यायनमुचितमित्याकाङ्क्षायामधिकरणान्तरमाह - || ३१९ || सोऽध्यक्षे तदुपगमादिभ्यः || ४ ||
SK
स प्राण अध्यक्षे जीवे सम्पद्यते | कुतः तदुपगमादिभ्यः हेतुभ्यः | तमुत्क्रामन्तं प्राणोनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति इति श्रुतौ प्राणादीनां क्षेत्रज्ञेन सह परलोकगमनश्रवणात् प्राणाध्यक्षत्वं सर्वथा जीवस्य न विरुध्यत इति सत्रसूचितार्थः | न तत्र प्राणा उत्क्रामन्ते तत्रैव समवलीयन्ते इति श्रुतौ प्राणानां परमात्मनि लयावगमात् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इति श्रुतौ जीवानुगामित्वश्रवणात् परमात्मन्याप्यायनं वा जीवानुगमनं वेति संशयः | एतस्माज्जायते प्राणः इति श्रुतौ तस्य परमात्मजन्यस्य प्राणानां ग्रन्थिरसि रुद्रोमाविशान्तकः इत्यत्र तदाधारत्वस्य न तत्र प्राणा उत्क्रामन्ते तत्रैव समवलीयन्ते इत्यत्र तस्मिन्नेतेषां लयत्वस्य च द्योतनात् परमात्माधीनत्वमेव प्राणस्य निर्दिश्यते | किञ्च - वाङ्मनसि सम्पद्यते मनः प्राणे इति वचनानुरोधेन यथा मनः प्राणयोरेव वाङ्मानसयोस्सम्पत्तिः तथा प्राणस्तेजसि इति वचनात् तेजस्येव प्राणस्सम्पद्यते इति प्राप्ते प्रचक्ष्महे - सोध्यक्षे इति सः प्राणः अध्यक्षे करणाधिपे जीवे सम्पद्यते | कुतः तदुपगमादिभ्यः | प्राणस्य जीवोपगमस्तावच्छ्रूयते | एवमेव ममात्मानमन्तकाले सर्वे प्राणा अभिसमायान्ति इति तथा जीवेन सह प्राणस्योत्क्रान्तिः श्रूयते | तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इति प्रतिष्ठा च जीवेन सह स्मर्यते | कस्मिन्नुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि इति | एवं जीवेन संयुज्य तेन सह तेजस्सम्पत्तिरिह प्राणस्तेजसीत्युच्यते यथा यमुनायाः गङ्गया संयुज्य सागरगमनेऽपि यमुना सागरं गच्छतीति वचो न विरुध्यत तद्वत् |
SK
न तत्र प्राणा उत्क्रामन्ते इति वाक्यानामविरोधः | एतस्माज्जायते प्राणः इत्यादिवाक्यानां सर्वकारणत्वं परमात्मनि व्यवस्थापितं च क्रमसृष्टिपरत्वम् | सर्वान्तर्यामित्वेन शिवस्यैव सर्वजगज्जन्मादिहेतुत्वात् सर्वं तत्र प्रतिष्ठितमिति न विरुध्यते तथापि प्राणानां जीवातिरिक्तस्थित्यनुपपन्नत्वेन जीवानुगामित्वं विहितम् || तस्मादुभयशास्त्रं समञ्जसम् | भूताधिकरणम् || ४ || जीवस्य सर्वभूतात्मके शिवे लयसम्पत्तिः ननु प्राणस्तेजसि इति श्रुतौ प्राणस्य वह्निलयावगमात् कथं जीवेन सह परमात्मानुप्रविष्टत्वमुचितमित्याशङ्क्य तन्निराकरणार्थमधिकरणान्तरमाह - || ३२० || भूतेषु तच्छ्रुतेः || ५ || स चाध्यक्षः भूतेषु पञ्चमहाभूतेषु सम्पद्यते | कुतः तच्छ्रुतेः || अक्षरस्तेजसि इति श्रुतेः | सर्वाप्यक्षत्वं सर्वान्तर्यामिणः शिवस्य समुचितत्वात् तेजश्शब्दवाच्यत्वं शिवे न विरुध्यते | तं देवो ज्योतिषां ज्योतिः न तत्र सूर्यो भाति न चन्द्रतारकं इत्यादौ परमतेजोमयत्वस्य शिव एव दर्शनात् | सर्वो वै रुद्रः इत्यादौ तस्य सर्वात्मकत्वस्य व्यपदेशात् | यो रुद्रो अग्नौ इत्यादिषु तस्य सर्वान्तर्यामित्वकथनात् सर्वभूताधिवासस्य सर्वात्मकस्य सर्वशब्दवाच्यत्वं युक्तमिति सूत्रसूचित सूक्ष्मार्थः | खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इति श्रुतौ लोके च तेजश्शब्दस्य वह्नौ प्रयोगदर्शनात् हिरण्मये परे कोशे विरजं ब्रह्मनिष्कलम् | तच्छुभ्रं ज्योतिषां ज्योतिः इत्यादौ शिवस्य तेजोमयत्वव्यपदेशात् प्राणस्तेजसि इति जीवसंयुक्तस्य प्राणस्य तेजसि सम्पत्यवगमात् प्राणजीवमयाधिष्ठानतेजश्शब्दस्य वह्निपरत्वं उत परमेश्वरपरत्वं वेति संशयः | तेजश्शब्दस्य भूताग्नावेव रूढत्वात् मुख्यार्थत्यागे मानाभावात् अग्निरग्रे प्रथमो देवतानां य एवं विद्वानग्निहोत्रं जुहुयात् यावज्जीवमग्निहोत्रं जुहोति
SK
इत्यादौ सर्वदेवताप्राधान्येन यावज्जीवमग्निहोत्रोपासनविधेर्विद्वदविद्वत्साधारण्येन कथनादुपास्य वस्तुनि सर्वेषामुपासकानां एकत्वस्य तत्त्वमसि इत्यादिवेदान्तेषु व्यवस्थापनात् वह्न्यपरपर्यायतेजसि जीवानामाप्यायनमविरुद्धमिति प्राप्ते प्रचक्ष्महे - प्रज्ञानं ब्रह्म अहं ब्रह्मास्मि तत्त्वमसि इत्यादिना सर्ववेदान्तेषु मुमुक्षूणां ब्रह्मोपासकानां परशिवब्रह्मात्मकत्वोपदेशात् | न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति || इत्यादौ निरतिशयशिरस्कतेजस्त्वस्य ब्रह्मण्यवगमात् जडरूपवह्नौ चेतनजीवस्य लयासम्भवात् श्रुत्युक्ततेजश्शब्दस्य परशिवब्रह्मण्येव सामञ्जस्यम् | ननु तेजःःप्रभृतिष्वेकस्मिन् क्रमेण सम्पत्तावपि पृथिवीमय इत्यादिका श्रुतिः कथमुपपद्यते अत आह - || ३२१ || नैकस्मिन् दर्शयतो हि || ६ || नैकस्मिन् एकैकस्य कार्याक्षमत्वात् दर्शयततो ह्यक्षमत्वं श्रुतिस्मृती - अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि | तासां तिवृतं त्रिवृतमेकैकां करवाणि इति नामरूपव्याकरणयोग्यत्वाय त्रिवृत्करणमुपदिश्यते | नानावीर्याः पृथक्भूतास्ततस्ते संहतिं विना | नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः || समेत्यान्योन्यसंयोगं परम्परसमाश्रयाः | महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते || इति | अतः प्राणस्तेजसि इति तेजःश्शब्देन सर्वभूतान्तरसंसृष्टं परशिवात्मकतेज एवाभिधीयते | आसृत्युपक्रमाधिकरणम् || ५ || मूर्तब्रह्मोपासकलिङ्गशरीरोत्क्रान्तमुक्तजीवलभ्यनिरतिशयसालोक्यादि- nanu tejaśśabsya paraśivabrahmaparatvamastu tathāpyutkrāntisamaye mūrtāmūrtaśivatatvopāsakānāṃ puṇyā'puṇyakarmiṇāñca ko bhedaḥ ityāśaṅkāyāmadhikaraṇāntaramāha - || 322 || samānā cāśṛtyupakramādamṛtatvaṃ cānupoṣya || 7 ||
SK
इयं मरणावस्था आसृत्युपक्रमात् - सृत्युपक्रमं वर्जयित्वा समाना निरवयवषट्स्थल परिशिवब्रह्मसाक्षात्कारवतां सावयवशिवतत्त्वोपासकानां कर्मिणाञ्च तुल्या | सृत्युपक्रमो नाम - हृत्पुण्डरीकस्थस्य पञ्चमहाभूतप्राणेन्द्रियमनः प्रभृतिचतुरङ्गबलपरिवृतस्य जीवाख्यस्य राज्ञः स्वर्ग-नरक-शिवलोकादिराष्ट्रदर्शनार्थं नाडीद्वारा देहाख्यान्तःपुरात् बहिर्निर्गमनरूपा उत्क्रान्तिः | एवमुत्क्रान्तिं विना जीवस्येन्द्रियादिसकलपरिवारमेलनरूपमरणावस्था लिङ्गशरीरमिव शिवज्ञानिनामपि तुल्येत्युच्यते | हृत्पुण्डरीके मिलितं शिवज्ञानिनां लिङ्गशरीरमनुपोष्य लोकान्तरमत्गवा हृत्पुण्डरीकावच्छिन्ने परशिवब्रह्मण्येव अमृतत्वं मोक्षः कारणपरशिवतत्त्वे लयः न मिथ्यात्वं प्राप्नोति | लीनं गमयतीति लिङ्गम् इति व्युत्पत्या परमात्मनि शिवे लीनं तदन्तर्लीनत्वं गमयति प्रापयतीति लिङ्गम् | शीर्यत इति शरीरम् | लिङ्गञ्च तत् शरीरञ्च लिङ्गशरीरम् | एतल्लिङ्गशरीरस्य ब्रह्मणि विलये सति तदवच्छिन्नाणुस्वरूपो जीवस्तु शिवतत्त्वमयो भवतीति भावः | तथा च तेजः परम्यां देवतायां इति श्रुतिः शिवज्ञानिमात्रविषया | ततः पूर्वोक्तलिङ्गशरीरविलयपूर्वकजीवोत्क्रान्तिविधायक श्रुतिस्सर्वसाधारणेति सूक्ष्मार्थः | इयमुत्क्रान्तिः किं विद्वदविदुषोस्समाना उत अविदुष एवेति संशयः | अविदुष एवेत प्राप्तम् | कुतः विदुषोऽत्रैवामृतत्ववचनादुत्क्रान्त्यभावात् विदुषो ह्यत्रैवाऽमृतत्वं श्राव्यते | यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः | अथ मर्त्योऽमृतोभवत्यत्र ब्रह्मसमश्नुते || इत्येवं प्राप्तेऽभिधीयते - || समानाचासृत्युपक्रमात् इति || विदुषोऽविदुषश्च उपसृत्युपक्रमात् उत्क्रान्तिः समाना | आसृत्युपक्रमात् आगत्युपक्रमात् - नाडीप्रवेशात् प्रागित्यर्थः | विदुषोऽपि हि नाडीविशेषेणोत्क्रम्य गतिः श्रूयते | शतञ्चेका च हृदयस्य नाड्यः तासां मूर्द्धानमभिनिःसृतैका | तयोर्ध्वमायन्नमृतत्वमेति विषवङ्न्या उत्क्रमणे भवन्ति ||
SK
इति | एवं नाडीविशेषेण गतिश्रवणात् विदुषोऽप्युत्क्रान्तिरवर्जनीया | सा च नाडीप्रवेशात् प्राक् विसेषाश्रवणात् समाना | तत्प्रवेशदशायां च विशेषः श्रूयते | तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषोवा मूर्ध्नो वा अन्येभ्योः वा शरीर देशेभ्यः इति | शतञ्चैका च हृदयस्य नाड्यः इत्यनया श्रुत्या ऐकार्थ्यात् मूर्ध्नो निष्क्रमणं विद्वद्विषयम् | यदुक्तं विदुषोऽत्रैवामृतत्वं श्राव्यते इति तत्रोच्यते अमृतत्त्वञ्चानुपोष्येति | च शब्दोऽवधारणे | अनुपोष्य - शरीरेन्द्रियादिसम्बन्धमदग्ध्वैव यदमृतत्वं - उत्तरपूर्वाघयोरश्लेष-विनाशरूपं प्राप्यते तदुच्यते | यदा सर्वे प्रमुच्यन्ते इत्यादिकया श्रुत्येत्यर्थः | अत्र ब्रह्मसमश्नुते इति च निरवयवपरशिवब्रह्मोपासकविद्वदुत्क्रान्तिविषयम् तदुपाअनवेलायां ये ब्रह्मानुभवस्तद्विषयमप्युपदिशति | पुण्याऽपुण्यकर्मिणां सुखदुःखभोगाश्रयस्वर्गनरकलोकप्राप्तिः मूर्तब्रह्मोपासकानां लौकिनामिव लिङ्गशरीरेण सहोत्क्रान्तिसत्वेऽपि निरतिशयनित्यमङ्गलालयसालोक्यादित्रिपाद्विभूतिः लभ्यते | ननु तेजः परस्यां देवतायां इति श्रुतिरपि पूर्वश्रुतिवत्सर्वसाधारणी विशेषबोधकाभावादित्याशङ्कायामाह - || ३२३ || तदापीतेः संसारव्यपदेशात् || ८ || तत् - लिङ्गशरीरं आपीतेः - मोक्षात् स्वाभाविकजीवभावनिवृत्तिपूर्वकशिवतत्त्वप्राप्तिपर्यन्तं तिष्ठति | कुतः संसारव्यपदेशात् | मूर्तब्रह्मोपासकानां कर्मिणां च शिवलोक-स्वर्ग- niravayavaparaśivajñāniparatvamiti niścīyate | kiñca - tasya tāvadeva ciraṃ yāvanna vimokṣye iti | atha iva romāṇi vidhūya pāpaṃ candra iva rāhormukhāt pramucya | dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisambhavāmi || iti ca niravayava-sāvayavaparaśivatatvopāsakānāṃ sāyujya- यदि लिङ्गशरीरं मरणकाले शरीराद्बहिर्निर्गच्छति तर्हि मृतशरीरसमीपवर्तिनां कथं न दृश्यत इत्याशङ्क्याह - || ३२४ || सूक्ष्मं प्रमाणतश्च तथोपलब्धेः || ९ ||
SK
लिङ्गशरीरं सूक्ष्मं - इन्द्रियाऽग्राह्यं प्रमाणतः - परिमाणतोऽपि सूक्ष्मम् | कुतः तथोपलब्धेः - श्रितुषु लिङ्गशरीरन्यातीन्द्रियत्वप्रतिपादनात् | तच्छरीरस्य स्थूलशरीरात् बहिर्निर्गननेऽपि सर्वेषामगोचरत्वमविरुद्धम् | किञ्च - क्षेत्रज्ञः स्थूलशरीरादुत्क्रान्तोऽपि सूक्ष्मशरीरमनुवर्तते अन्यथा गत्यनुपपत्या चन्द्रसंवादाद्यनुपपत्तिप्रसङ्गः | श्रूयते हि पर्यङ्कविद्यायां देवयाने पथि विदुषश्चन्द्रमसा सवादः ये वै चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति | इत्युपक्रश्य एतद्वै स्वर्गस्य लोकस्य द्वारं यच्चन्द्रमाः तं यः प्रत्याहतमतिसृजते अथ य एनं न प्रत्याहतमिह वृष्टिर्भूत्वा वर्षति | स इह कीटो वा पतङ्गो वा शकुनिर्वा शर्दूलो वा सिंहो वा मत्स्योवा परस्वान्वा पुरुषो वा अन्यो वै तेषु प्रेत्य जायते यथा कर्म यथाविधं तमागतं पृच्छसि कोऽति इति तं प्रतिब्रूयात् इत्यादिना शरीरादुत्क्रान्तस्य विदुषोऽर्चिरादिगतिः श्रूयते | निरवयवशिवोपासकातिरिक्तानां विदुषां स्थूलशरीरात् लिङ्गशरीरात् बहिर्निर्गमने को हेतुरित्याशङ्कायामाह - || ३२५ || नोपमर्देनातः || १० || अतो लिङ्गशरीरस्य मरणानन्नरं स्थूलशरीराद्बहिर्निर्गमनादेव उपमर्देन पीडासाधनेन दहनादिना स्थूलशरीरस्य दुःखवेदना नास्ति | तदुत्क्रमणे स्वकृतकर्मैव हेतुः | सर्व कामनिर्मुक्तानां तल्लिङ्गशरीरं परमात्मन्येवाऽत्र शरीरे विलीनं भवति | तथा श्रूयते - अत्र ब्रह्म समश्नुते इति | अस्मिन्नर्थे पुनर्हेत्वन्तरमाह - || ३२६ || अस्यैव चोपपत्तेरूष्म || ११ || अस्य - सूक्ष्मशरीरस्य क्वचिद्विद्यमानत्वोपपत्तेर्विदुषः प्रकान्तमरणस्य मरणात् प्राक् ऊष्मा स्थूलशरीरे क्वाचित्क उपलभ्यते | न च स्थूलस्यैव शरीरस्यायमूष्मा अन्यत्रानुपलब्धेः | ततश्चोष्मणः क्वचिदुपलब्धिर्विदुषः सूक्ष्मशरीरस्योत्क्रान्तिनिबन्धनेति गम्यते | तस्माद्विषुषोऽप्यासृत्युपक्रमात् समाना उत्क्रान्तिरिति सुष्टूक्तम् |
SK
यदा स्थूलशरीरे सूक्ष्मदेहसम्बन्धो युज्यते तावत्पर्यन्तं स्थूलस्य ऊष्म उष्णस्पर्शादिकं सर्वत्र दृश्यते | सूक्ष्मशरीरवियोगानन्तरं स्थूलस्य शैत्यादि धर्मान्तरोपपत्यवगमात् सूक्ष्मशरीरगमनमनुमीयते | पुनरपि विदुषां उत्क्रान्तिर्न सम्भवतीत्याशङ्क्य परिह्रियते - || ३२७ || प्रतिषेधादिति चेन्न शरीरात् स्पष्टो ह्येकेषाम् || १२ || यदुक्तं विदुषोप्युत्क्रान्तिः समानेति तन्नोपपद्यते विदुष उत्क्रान्तिप्रतिषेधात् | तथा हि - स एतास्तेजोमात्राः समभ्याददानो हृदयमेवाअन्ववक्रामति इत्युपक्रम्य तेन प्रद्योतेनैष आत्मा निष्क्रामति | तमुत्क्रामन्तं प्राणोऽनू(प)त्क्रामति इत्यविदुष उत्क्रान्तिप्रकारमभिधाय अन्यन्नवतरं कल्याणतरं रूपं कुरुते इति देहान्तरपरिग्रहं चाभिधाय- प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् | तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे || इति तु कामयमानः इत्यविद्वद्विषयं परिसमाप्य अथ कामयमानः योऽकामो निष्काम आप्तकाम आत्मकामः न तस्य प्राणा उत्क्रामन्ति | ब्रह्मैव सन् ब्रह्माप्येति इति विदुष उत्क्रान्तिः प्रतिषिध्यते तथा पूर्वत्र आर्तभागप्रश्नेऽपि विदुष उत्क्रान्तिप्रतिषेधो दृश्यते अप पुनर्मृत्युं विद्वांसं प्रस्तुत्य याज्ञवव्क्येति होवाच यत्रायं पुरुषो म्रियते उदस्मात् प्राणा क्रामन्त्याहो इति पृष्टः नेति होवाच याज्ञवल्क्यः अत्रैव समवलीयन्ते स उच्छ्वयत्याध्मायति आध्मातो मृतः शेते इति | अतो विद्वानिहैवामृतत्वं प्राप्नोतीति चेत् - तन्न - शारीरात्प्रत्यगात्मनः प्राणानामुत्क्रान्तिर्ह्यत्र प्रतिषिध्यते न शरीरात् | न तस्य प्राणा उत्क्रमन्ति इत्यत्र तच्छब्देन अथाकामयमानः इति प्रकृतः शरीर एव परामृश्यते नाश्रुतं शरीरम् | तस्येति षष्ठ्या प्राणानां सम्बन्धित्वेन शरीरो निर्दिष्टः न तूत्क्रान्त्यपादानत्वेन | उत्क्रन्त्यपादानं तु शरीरमेवेति चेन्न अपादानापेक्षायामश्रुताच्छरीरात् सम्बन्धितया श्रुतस्याऽऽत्मन एव सन्निहितत्वेनापादानतयाऽपि ग्राह्यत्वात् |
SK
किञ्च - प्राणानां जीवसम्बन्धितयैव प्रज्ञातानां तत्सम्बन्धकथने प्रयोजनाभावात् सम्बन्धमात्रवाचिन्या षष्ठ्या अपादानमेव विशेष इति निश्चीयते यथा नटस्य शृणोतीति | नात्र विवदितव्यम् | स्पष्टो ह्येकेषाम् - माध्यन्दिनानामाम्नाये शारीरो जीव एवापादानमिति - योऽकामो निष्काम आप्तकाम आत्मकामः न तस्मात् प्राणा उत्क्रामन्तीति शरीरात्प्राणानामुत्क्रान्तिप्रसङ्गाभावात् तत्प्रतिषेधो नोपपद्यते इति चेन्न तस्य तावदेव चिरम् इति विदुषः शरीरवियोगकाले ब्रह्मसम्पत्तिवचनेन प्राणानामपि तस्मिन् काले शारीरादविदुषो वियोगः प्रसज्यते | ततश्च देवयानेन पथा ब्रह्मसम्पत्तिर्नोपपद्यत इति न तस्य प्राणा उत्क्रामन्ति - देवयानेन पथा ब्रह्मप्राप्तेः प्राक् जीवाद्विदुषोऽपि प्राणा न विश्लिष्यन्तीत्युच्यते | आर्तभागप्रश्नोऽपि यदा विद्वदिषयः तदायमेव परिहारः स वविद्वद्विषयः | तत्र प्रश्नपर्तिवचनयोः ब्रह्मविद्याप्रसङ्गादर्शनात् | तत्र हि ग्रहातिग्रहरूपेणेन्द्रियार्थस्वभावः अपामग्न्यन्नत्वम् म्रियमाणस्य जीवस्य प्राणपरित्यागः मृतस्य नामवाचकीर्त्यनुवृत्तिः तस्य च पुण्यपापानुगुणगतिप्राप्तिरित्येतेऽर्थाः प्रश्नपूर्वकं प्रत्युक्ताः | तत्र च अप पुनमृत्युं जयतीत्यपामग्न्यन्नत्वज्ञानादग्निजय एव मृत्युजय उच्यते | अतो नात्र विदुषः प्रसङ्गः | अविषस्तु प्राणानुत्क्रान्तिवचनं स्थूलदेहवत् प्राणा न मुञ्चन्ति अपि तु भूतसूक्ष्मवज्जीवं परिण्वज्य गच्छन्तीति प्रतिपादयतीति निरवद्यम् | मूर्तपरशिवब्रह्मोपासकानां शुद्धजीवानां शिवलोकं प्राप्य तत्र निरतिशयानन्दमनुभूय तदनन्तरं शिवसायुज्यात्मककैवल्यविभूतिर्लभ्यत इत्यत्र किं मानं इत्याशङ्कायामाह - || ३२८ || स्मर्यते च || १३ || ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे इत्यादिश्रुतिषु - ऊर्ध्वमेकस्तितस्तेषां यो भित्वा सूर्यमण्डलम् | ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ||
SK
इत्यादिस्मृतिषु च स्मर्यते | तस्मात् सर्वकामनिर्मुक्तनिरवयवोपासकानां विदुषां मूर्तब्रह्मोपासकानाञ्च सद्योमुक्तिः क्रममुक्तिऽस्च न विरुध्यते | सर्वसम्पत्त्यधिकरणम् || ६ || जीव ब्रह्मणोः स्वरूपैक्यस्यानवद्यता केचित् शरीरवत्घट-पटवज्जीवब्रह्मणोः संयुक्ताऽसंयुक्तभेदवादिनः स्वशरीरे दहराकाशे परमशिवे लिङ्गशरीरेण सह जीवस्य तत्स्वरूपैक्यं न सम्भवतीति साधयन्ति | केचित् जगन्मिथ्यात्वसाधकाऽहंब्रह्मवादिनः विदुषामुत्क्रान्तौ लिङ्गशरीरोत्क्रान्तिं दूषयन्ति | तस्मात् बौद्धादिवत् श्रुत्यैकदेशप्रामाण्यपक्षैकदेशमतनिराकरणार्थं क्रममुक्तिं सद्योमुक्तिं चोपदिश्य तथा केचित् जलशर्करन्यायवत् जीवब्रह्मैक्यं न सम्भवतीति वदन्ति | तन्मतनिराकरणार्थमधिकरणान्तरमाह - || ३२९ || तानि परे तथाह्याह || १४ || तानि ज्ञानिनां भूतेन्द्रियप्राणान्तःकरणानि परे जीवातिरिक्ते परमशिवे लीयन्ते | कुतः तथा ह्याह | इमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति | गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतासु | कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति || यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः | अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते || भिद्यते हृदयग्रन्थिः इत्यादिश्रुतयः शिवज्ञानिसम्बन्धिनां दशेन्द्रियाणां पञ्चप्राणानां मनसश्च परमात्मनि विलयं प्रतिपादयन्तीत्यर्थः | यद्यपि समानाचासृत्युपक्रमात् इति सूत्रे ज्ञानिनां लिङ्गशरीरस्य ब्रह्मणि लय उक्तः | तथापि तानिपरे इति सूत्रे वक्ष्यमाण एवार्थः सुखभोधार्थं श्रुत्यैकदेशमतनिराकरणार्थं चाकृष्य पुनरुक्त इति न पौनरुक्त्य इति सूत्रार्थः | यथा नद्यः स्यन्दाअनः इत्यादिश्रुतिषु जीवब्रह्मणोः प्राप्यप्रापकत्वेन मोक्षदशायां एकत्वोपदेशात् मुक्तजीवमनह्प्राणादीनां ब्रह्मणि स्वरूपैक्यं उत सुषुप्तिप्रलयादिवत् तूष्णीं स्थिर्वेति सन्दिह्यते |
SK
जीवब्रह्मणोः सर्वथा न स्वरूपैक्यं जीवव्यतिरिक्तपरमात्माभावात् जडात्मकस्य लिङ्गशरीरस्य चिद्रूपे ब्रहण्येकत्वायोगात् | कर्योपाधिरयं जीवः कारणोपाधिरीश्वरः | कार्यकारणतां त्यक्त्वा पूर्णबोधोऽवशिष्यते || इत्यादिपूर्वाचार्यसिद्धान्तानुसारेण अहं ब्रह्मास्मि तत्त्वमसि इत्यादिजीवब्रह्मैक्यविधायकवेदान्तानां जहदजहल्लक्षणव्यपदेशकेन सोऽयं देवता इति न्यायेन बिम्बप्रतिबिम्बवद्घटाकाश-महाकाशवत् उपाधिपरित्यागपूर्वकचैतन्यैकत्वं वक्तुं युक्तम् | जीवेश्वरोपाधिभूताविद्या- nivṛtyasambhavācca uta satyasya anyathā yogāt liṅgaśarīrasya parameśvaravannityatvam | tadayoge muktānāṃ pṛthak sthityasambhavena śeṣatva pāratantrya-kaiṅkaryādividhāyakasarvaśāstravirodhāt saṃsāradaśāyāṃ jīvabrahmaṇoḥ svābhavikabhedaḥ muktadaśāyāṃ tadvadabhedaśca asamañjasa iti prāpte'bhidhīyate - tāni para iti tāni parasminnātmani jīvāḥ liṅgaśarīreṇa saha sampadyante | kutaḥ tathā hyāha - gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu ityādiśrutiśateṣu jīvānāṃ tadvadāha | cijjaḍānāṃ ekatvāyogena lakṣaṇā svīkāryā iti yaduktaṃ tadayuyktam mukhyārthabādhābhāvāt | yathā nadyaḥ ityādibahuśrutiṣu asandigdha tathā jīva-brahmaṇoḥ svarūpaikyavyapadeśāt loke maṇimantrādyaupadhasiddhānāṃ manuṣyādīnāṃ vyāghradinānāvidhasvarūpakalpanaṃ dṛṣṭam | aghaṭitaghaṭanāsamarthasya matyasaṅkalpādidharmāśrayasya sarvavidyānidhānasya śivasya parabrahmaṇaḥ svopāsakabhaktānāṃ jīvabhāvanivṛttipūrvakasvatādātmyasiddhipradāyakatve kiṃ cinnam | bhramarakīṭaloharasādibahudṛṣṭāntānusāreṇa
SK
स्वाभाविकस्थितिनिवृत्तिः पूर्वमेवोक्ता | जीवानां बद्धावस्थावत् मुक्तावस्थायामपि सूक्ष्मशरीरस्वीकारे संसारित्वप्रसङ्गात् मुक्तावस्थायां दास्यदासकत्वप्राधान्यराज-भृत्यन्यायवत् दासस्य भयहेतुत्वेन पूर्णानन्दानुभवायोगात् आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन अभयं वै जनक प्राप्तोऽसि इति मुक्तानां अभयत्वव्यवस्थापकश्रुतिशतविरोधात् यथा नद्यः इत्यादिश्रुतीनां सङ्कोचे मानाभावाच्च सर्वश्रुतिसिद्धजीवब्रह्मणोः स्वरूपैक्यमनवद्यम् | अविभागाधिकरणम् || ७ || अमूर्तशिवज्ञाननिष्ठजीव-परशिवयोः ज्लेजलवद्दपृथक्ततानिर्णयः ननु लिङ्गशरीरविलयपूर्वकत्वेन जीवानां शिवतत्त्वप्राप्तिः सुषुप्त्युत्क्रान्तिप्रलयादिकालेष्विव स्थूलावस्थाप्रतिषेधमात्रत्वमित्याशङ्कायामधिकरणान्तरेण निराकरोति - || ३३० || अविभागो वचनात् || १५ || अविभागः शिवज्ञानिनां सूक्ष्मशरीरस्य आत्यन्तिकनाशो विधीयते | कुतः वचनात् | अविद्यायाः परं पारं तारयसि न स पुनरावर्तते इत्यादिश्रुतिषु शिवतत्त्वनिष्ठानां अविद्यात्मकपाशनिवृत्तेः पुनरावृत्तिरहितत्वस्य च स्पष्टमुपदिष्टत्वात् पाशरूपाविद्याजन्यस्य लिङ्गशरीरस्य आत्यन्तिकनाश एवाङ्गीकर्तव्यः इति सूक्ष्मार्थः | क्षरात्यनावीशते देव एकः तस्याभिध्यानात् योजनात्तत्त्वभावाद्भूयश्चान्ते तत्त्वमायानिवृत्तिः भिद्यते हृदयग्रन्थिः तस्मिन् दृष्टे परावरे इत्यादिश्रुतिषु शिवज्ञानिनां अविद्यापाशरूपहृदयग्रन्थिविच्छेदलक्षणोपदेशात् लिङ्गशरीरोपादानभूतपाशरूपाविद्यानिवृत्तिपूर्वकत्वेन स्वरूपैक्यं सुषुप्तिप्रलयादिवत् पाशविकृतिरूपलिङ्गशरीरेण सह जले जलवत् विलयपूर्वकत्वेन वा सम्भवतीति सन्दिह्यते |
SK
जीवानां मुक्तदशायामपि मधुपिष्टे स्वर्णरेणुवत् कुसूलधान्यवत् लिङ्गशरीरेण सह ब्रह्मप्राप्तिः युक्ता | अजो ह्येको जुषाअणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ज्ञाज्ञौ इत्यादौ जीवानां अजन्यत्वव्यवस्थापनात् चिदात्मकस्य जीवस्य लयायोगात् लिङ्गशरीराभावे परमात्मानन्दानुभवसिध्यभावाच्च सर्वथा मुक्तानामपि जले जलवत् स्वरूपैक्यं अयुक्तमिति प्राप्ते वदामः - मधुपिष्टे स्वर्णरेखावत् जीव-ब्रह्मणोः पृथक् स्वरूपैक्यं न सम्भवति | किन्तु वह्नौ वह्निवज्जले जलवदपृथग्भावो युक्तः | कुतः || वचनात् || यथा नद्यः स्यन्दमाना पुरुषमुपैति दिव्यम् इत्यादिश्रुतिवचनात् स्वरूपैक्यं अविभागो निर्दिश्यते | वद्धावस्थावत् मुक्तावस्थायां लिङ्गशरीरसद्भावे कारणाभावे कार्याभावः इति न्यायेन तल्लिङ्गशरीरोपादानकारणपाशरूपाविद्यास्थितिरर्थात्सूचिता | तदङ्गीकारे ब्रह्मो पासनज्ञानस्य वैफल्यं प्रसज्येत | मुक्तानां अप्राकृतलिङ्गमस्तीति चेत्तदसङ्गतं सर्ववेदान्तविरुद्धप्रसङ्गात् अप्राकृतस्य लिङ्गशरीरोपादानकारणत्वायोगात् लिङ्गशरीरस्य भूतपञ्चकरजस्सत्वजन्यसप्तदशतत्त्वात्मकस्य सर्वशास्त्रेषु प्रसिद्धत्वाच्च | पूर्वोक्तमेव विदुषां विधेयम् | तदोकोऽग्रज्वलनाधिकरणम् || ८ || शिवस्य सर्वजीवहृदयपुण्डरीके स्थितित्व-मुमुक्षुजनध्येयत्वनिश्चयः एवं अमूर्तशिवज्ञाननिष्ठानां इहैव शरीरे शिवज्ञानसामर्थ्येन पाशरूपाविद्यापटलं भित्त्वा नदीसमुद्रवदविभागेन शिवसायुज्यमुक्तिर्लभ्यत इति व्यवस्थापने मूर्तब्रह्मोपासकानां विदुषां चरमकाले केन मार्गेण गत्वा सालोक्यादित्रिविधकल्याणात्मकविभूत्यनुभवः सम्पद्यत इत्याशङ्कायां अधिकरणान्तरेण तन्माहात्म्यं प्रपञ्चयति - || ३३१ || तदोकोग्रज्वलनं तत्प्राशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया || १६ ||
SK
तदोकोग्रज्वलनं - तस्य जीवस्य प्राणेन्द्रियादि परिवृतस्य ओकः स्थानं हृत्पुण्डरीकं तस्य अग्रज्वलनं तदोकोऽग्रज्वलनम् - अग्रस्य ऊर्ध्वभागस्य विकासो भवति | तत्प्रकाशितद्वारः तेन विकासिना प्रदर्शितदेवयानमार्गः सन् मूर्तब्रह्मोपासको भक्तः सुषुम्नानाडीद्वारा देहाद्बहिर्गच्छति | हृत्पुण्डरीकस्य ऊर्ध्वप्रवेशविकासे हेतुद्वयमाह - विद्यासामर्थ्यात् - मूर्तब्रह्मोभसनासामर्थ्यात् तच्छेवगत्यनुस्मृतियोगाच्च - तस्याः - मूर्तब्रह्मोपासनायाः शेषभूतया - गत्यनुस्मृत्या - देवयानमार्गचिन्तया योगात् - शिवयोग सम्बन्धाच्च तदोकोऽग्रज्वलनं भवति तत्प्रकाशितद्वारस्सन् उपासकः हार्दानुगृहीतः हृत्पुण्डरीकस्थेन उमासहितमूर्तपरशिवब्रह्मणा अनुगृहीतः प्रेरितस्सन् शताधिकया शतसंख्याकाभ्यः प्रधाननाडीभ्यः अधिकतया अतिरिक्तया एकशततम्या सुषुम्नानाड्या देहाद्बहिर्गच्छतीति भावः | शतं चैकः च हृदयस्य नाड्यः तासां मूर्धानमभिनिस्सृतैका | तयोर्ध्वमायन्नमृतत्वमेति विव्वङ्ङन्या उत्क्रमणे भवन्ति || इति श्रुतिबलादिति सूत्रसूचितसूक्ष्मार्थः | पूर्वं निर्वासनज्ञाननिष्ठानां निरवयवपरशिवोपासकानां उत्क्रान्तिलक्षणमभिहितम् | अत्र मूर्तब्रह्मोपासकानां महात्मनां कर्मिणां च उत्क्रन्तौ विशेषोऽस्ति वा न वा इति सन्दिह्यात्रेदमाम्नायते | शतं चैका च हृदयस्य नाड्यः तसां मूर्धानमभिनिस्सृतैका | तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमेणे भवन्ति ||
SK
इति | अस्याः श्रुतेरयमर्थः - हृत्पुण्डरीकसम्बन्धिन्यो नाड्यः एकोत्तरशतं भवन्ति | तासां मध्ये एका सुषुम्नाख्या नाडी मूर्धानमभिनिस्सृता ब्रह्मरन्ध्रपर्यन्तं व्याप्ता | तया द्वारादूर्ध्वमायन् - देहाद्बहिनिर्गच्छन् उपासकः अमृतत्वं परशिवलोकं प्राप्नोति | हृत्पुण्डरीकस्य चतसृषु दिक्षु विद्यमाना अन्याः नाड्यः कर्मिणामुत्क्रमणे द्वाराणि भवन्तीत्यर्थः | सुकृतिनां दुष्कृतिनाञ्च धूमादिमार्गेण तृतीयमार्गेण च स्वर्ग-नरकादिप्राप्तिः रंहतिपाद एवोक्तेति नात्रोच्यते | अनया नाडीनां शताधिकया मूर्धन्यनाड्यैव विदुषो गमनं अन्याभिरेव चाविदुषो गमनं इत्ययं नियम उपपद्यते वा नवेति संशयः | किं युक्तं - नियमो नोपपद्यत इति | कुतः नाडीनां भूयस्त्वादिति सूक्ष्मत्वाच्च दुर्विवेचनतया पुरुषेणोपादातुमशक्यत्वात् | तयोर्ध्वमायन्नमृतत्वमेति इति श्रुतिः यादृच्छिकीमुत्क्रान्तिमनुवदति | किञ्च - तेजः परस्यां देवतायां इति श्रुतौ भूतैः सह परमकारणे परमाकाशरूपे परब्रह्मणि स्वप्रकाशे विद्वानविद्वांश्च विलीय अविभागेन क्षणं विश्राम्यतीति श्रुतिश्रवणात् सर्वेषामुत्क्रान्तिस्समानैव | तस्य हैतस्य हृदयस्वाग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरेभ्यो गच्छति इति दर्शनात् विदुषामतिशयत्वं सर्वथा न घटत इति प्राप्ते ब्रूमः - शताधिकया इति | विद्वान् शताधिकया मूर्धन्ययैव नाड्या उत्क्रमति | न चास्याः विदुषो दुर्वचत्वम् | विद्वान् हि परमपुरुषशिवाराधनभूतात्यर्थप्रियविद्यासामर्थ्यात् विद्या शेषभूततयाऽऽत्मनोत्यर्थप्रियगत्यनुस्मरणयोगाच्च प्रसन्नेन हार्देण परब्रह्मणानुगृहीतो भवति | ततश्च तदोकः - तस्य जीवस्य स्थानं हृदयं अग्रज्वलनं भवति | अग्रेज्वलनं प्रकाशनं यस्य तदिदमग्रज्वलनम् | परमपुरुषशिवप्रसादात् प्रकाशितद्वारो विद्वान् तां नाडीं विजानातीति तया विदुषो गतिरुपपद्यते |
SK
तस्मादविदुषां हृदये सुषुम्ननाड्या लिङ्गशरीरेण सह जीवोत्क्रमणं न सम्भवति | इदमेव वैशेष्यं श्रुत्यन्तरेऽपि एतदुक्तम् - रुद्रो जानानां हृदये सन्निविष्टः | हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् | अचिन्त्यमव्यक्तमनन्तबोधं शिवं प्रशांतममृतं ब्रह्मयोनिम् || इत्यादि श्रुतिशतेषु ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | तमेव शरणं गच्छ सर्वभावेन भारत || शुचौ देशे समासीनो यथावत्कल्पितासनः | जितेन्द्रियो जितक्रोधः चिन्तयेच्छिवमव्ययम् || हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्यात्पनभोऽवकाशम् | अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत्परानन्दमयं महेशम् || ध्यानावधूताखिलकर्मबन्धः चिरं चिदानन्दनिमग्नचेताः | इत्यादिस्मृतिषु च सर्वजीवहृदयपुण्डरीकस्थितित्वं मुमुक्षुजनध्येयत्वं च शिवस्यैव निश्चीयते | लिङ्गे सुषुप्तिः सता सौम्य तदा सम्पन्नो भवति इत्यादिश्रुतिषु सर्वेन्द्रियवृत्तिभिस्स शरीरस्सुषुप्तौ स्वावृतपापेन सह सदाशिवमवगमयति | विश्वाधिको रुद्रो महर्षिः सर्वो वै रुद्रः रुद्र एकत्वमाहुः रुद्रो वै शाश्वतं वै पुराणं अजात इत्येव कश्चिद्भीरुः प्रपद्यते रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् शिव एको ध्येयः शिवङ्करस्सर्वमन्यप्तरित्ययज्य ईशं ज्ञात्वा अमृता भवन्ति इत्यादिश्रुतिषु सर्वोपादानत्वं सर्वमुक्तिफलप्रदायकत्वं च शिवस्यैवावगम्यते | तस्मान्मुमुक्षूणां शिवेतरज्ञेयवस्तु नास्तीति वेदितव्यम् | अस्य हि जन्तोः प्राणोत्क्रमणेषु रुद्रस्तारकं ब्रह्म प्रणवमाचष्ट इति विदुषामुत्क्रान्तौ स्वतत्त्वप्रकाशक प्रणवात्मकतारकब्रह्मोपदेशकथनेन मोक्षप्रदायकत्वं नेतरस्य सिद्धम् | अध्यवोच दधिवक्ता प्रथमो दैव्यो भिषक् | मा त्वा रुद्र चक्रुधार्मा मानमोभिर्मादुष्टुती वृषभमासहूती | उन्नो वीरां अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां श्रूणोमि |
SK
इत्यदिना संसारव्याधिनिर्मुक्तभिषक्त्वं शिवस्यैव दृश्यते | मायां तु प्रकृतिं विन्द्यात् मायिनं तु महेश्वरम् इत्यादौ निखिल ब्रह्माण्डनिर्माणलक्षणमायाशक्त्यवच्छिन्नत्वेन जगदेककारणत्वं श्रूयते | तस्मात् सकलहृदयपुण्डरीकावासः परमपुरुषश्शिवएवोमापति स्वाज्ञारूपश्रुतिचोदितेषु श्रौतस्मार्तादिषु स्वाराधनरूपेषु कर्मसु स्वाहङ्कारपरित्यागपूर्वकस्वार्पितस्वजात्याश्रमकर्मानुषङ्गिणं स्वभक्तं स्वानुग्रहविशेषेण पाशरूपाविद्यामलध्वंसं कृत्वा प्रकाशितात्मज्योतिः तं मूर्धन्यनाड्योद्धृत्य अर्चिरादिमार्गेण स्वकीयं परमपदमप्राकृतं निरति शयानन्दस्वभावं प्रापयित्वा स्वीयाकारेण नित्यनिरतिशयनिर्मलनिजानन्दं गमयति | तस्मादविदुषो विदुषश्च गतिवैषम्यमेवं निर्णीयते | रश्म्यनुसाराधिकरणम् || ९ || अखण्डज्योतिर्मयरश्म्यनुसारिणः शिवोपासकस्य शिवप्रकाशद्वारा शिवलोकावाप्तिविवरणम् शिवोपासको विद्वान् प्रारब्धावसाने मूर्धन्यया सुषुम्ननाड्या निर्गत्य केनाधारेण अप्राकृतनिरतिशयानन्दस्वभावं परशिवलोकं गच्छतीत्याशङ्कायां अधिकरणान्तरेणाह | || ३३२ || रश्म्यनुसारी || १७ || यदा परशिवानुग्रहेण मूर्धन्यया सुषुम्ननाड्या देहाद्बहिर्निर्गतः तत्काले स्वनेत्रादिमहाकैलासपर्यन्तं स्वप्रकाशो दृश्यते तदा शिवोपासकः अखण्डज्योतिर्मयरश्म्यनुसारी रश्म्यधिष्ठितस्सन् तच्छिवप्रकाशद्वारेण नित्यमङ्गलानिलयनिरतिशयविभवं शिवलोकं गच्छति | पूर्वत्र साधकस्य शिवयोगिनः स्वहृदयप्रकाशकपरशिवानुगृहीतस्य शताधिकया मूर्धन्यनाड्या महातेजोमयशिवप्रकाशमहिम्ना सूर्यमण्डलद्वारा महाकैलासप्राप्तिरुपदिष्टा | अथ यत्रैतस्मात् शरीरादुत्क्रामति अथैतैरेव रश्मिभिरूर्ध्वमाक्रामते इति श्रुतौ रश्मिभिर्विदुषां परलोकगमनमाम्नायते |
SK
अत्र रश्म्यनुसारेणैव गतिः उत अन्यथा सम्भवतीति चिन्त्यते | ब्रह्मवित् ब्रह्मैव भवति ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् यदा पश्यः पश्यते रुक्मवर्णं इत्यादिषु तदुपासकानां अन्यथा द्योतनात् रश्म्यनुसारेणैवेत्ययं गतिनियमो न सम्भवति | किञ्च - निशि मृतस्य विदुषो रश्म्यनुसरणासम्भवात् अनियमः प्रवर्तत इति प्राप्ते प्रचक्ष्महे - रश्म्यनुसार्येव विद्वानूर्ध्व गच्चह्ति कुतः अथैतैरेव रश्मिभिः इत्यवधारणात् | पाक्षिकत्वे ह्येवकारोऽनर्थकः स्यात् | यदुक्तं - निशि मृतस्य रश्म्यसम्भवात् रश्मीननुसृत्य गमनं नोपपद्यत इति चेन्न | निशायामपि सूर्यरश्म्यनुसरणं सम्भवति | लक्ष्यते हि निशायामपि निदाघसमये ऊष्मोपलब्ध्या रश्मिसद्भावः हेमन्तादौ तु हिमाभिभवात् दुर्दिन इवोष्मानुपलम्भः | श्रूयते च नाडीरश्मीनां सर्वदाऽन्योन्यान्वयः तद्यथा महापथ आततः उभौ ग्रामौ गच्छति इमञ्जामुञ्च एवमेवैते आदित्यस्य रश्मयः उभौ लोकौ गच्छन्ति इमञ्चामुञ्च | अमुष्मादादित्यात्प्रतायन्ते | ता आसु नाडीषु सुप्ताः | आभ्यो नडीभ्यः प्रतायन्ते | तेऽमुष्मिन्नादित्ये सुप्ताः इति | तस्मात् निश्यधि राश्मिसद्भावात् निशि मृतानामपि विदुषां रश्म्यनुसारेणैव परशिवब्रह्मप्राप्तिरस्तीति निश्चीय ब्रह्मवित् ब्रह्मैव भवति इत्यादिश्रुतीनां उत्क्रमणविधायकत्वादर्शनात् फलमात्रद्योतकत्वं आचक्ष्यते | निशाधिकरणम् || १० || अहोरात्र-रश्मिनाड्योरपृथग्भावताप्रतिपादनम् ननु - दिवा च शुक्लपक्षश्च उत्तरायणमेव च | मुमूर्षतां प्रशस्तानि विपरीतन्तु गर्हितम् || इति निशामरणनिन्दा श्रूयते | तस्मान्निशि मृतानां उपासकानां परशिवलोकप्राप्तिः कथमुपपद्यत इत्याशङ्कायां अधिकरणान्तरं दर्शयति - || 333 || niśi neti cennsa sambandhasya yāvaddehabhāvitvāt darśayati ca || 18 ||
SK
इयमिदानीं चिन्त्यते | विदुषो निशि मृतस्य परशिवब्रह्मलोकस्य प्राप्तिरस्ति वा न वा इति | यद्यपि निशायां सूर्यरश्मिसम्भवात् रश्म्यनुसारेण गतिर्निशायामपि सम्भवति | तथापि निशामरणस्य शास्त्रनिषिद्धत्वात् परमपुरुषार्थलक्षणपरशिवब्रह्मप्राप्तिः निशामृतस्य न सम्भवति | शास्त्रेषु दिवामरणं प्रशस्तम् | विपरीतन्तु निशामरणम् | दिवा च शुक्लपक्षश्च इत्यादिना दिवामरण-निशामरणयोः प्रशस्तत्व-विपरीतत्वे च उतमाधमगतिहेतुत्वेन स्याताम् | अतो निशामरणस्य अधोगतिहेतुत्वमिति प्राप्ते वदामः - || निशिनेतिचेन्न || निशि मरणस्य अधोलोकहेतुत्वावगमात् तिदुषां निशि मरणे परशिवब्रह्मलोकप्राप्तिर्नेति चन्ने | सम्बधस्य रुद्रदेवताकसुषुम्ननाडीसम्बधस्य ज्योतिषः यावद्देहभावित्वात् दिवारात्रौच रश्मिनाडीसम्बन्धस्य विद्यमानत्वात् दर्शयति च - आसु नाडीषु रश्मयः सृप्ताः इति श्रुतिः सर्वकालेष्वपि रश्मिनाडीसम्बधं प्रतिपादयति | किञ्च - विदुषः कर्मसम्बन्धस्य यावद्देहभावित्वात् | एतदुक्तं भवति अनारब्धकार्याणां अधोगति हेतुभूतानां कर्मणां विद्यासम्बन्धो नैव विनाशः तदुत्तरेषां चाश्लेषात् प्रारब्धकार्यस्य च चरमदेहावधित्वात् बन्धहेत्वभावत् विदुषो निशामृतस्यापि ब्रह्मप्राप्तिस्सिद्धैव | तस्य तावदेव चिरं यावन्नविमोक्ष्येऽथ सम्पत्स्य इति श्रुतिदर्शनात् दिवा च शुक्लपक्षश्च इत्यादिश्रुतीनां अविद्वद्विषयकत्वमिति निश्चीयते | दक्षिणायनाधिकरणम् || ११ || निशि मृतस्येव दक्षिणायनमृतस्यापि परशिवब्रह्मलोकावाप्तिविचारः ननु - अग्निज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छिन्ति ब्रह्म ब्रह्मविदो जनाः || धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||
SK
इति भगवद्गीतादिस्मृतिषु उत्तरायणदक्षिणायनयोः मृतानामेव उपासकानां कर्मिणाञ्च परशिवब्रह्मलोकप्राप्तिः स्वर्गलोकप्राप्तिश्चावगम्यते | तस्मात् कथं कृष्णपक्ष-दक्षिणायनरात्र्यादिकालेषु मृतानामुपासकानां ब्रह्मलोकप्राप्तिरित्याशङ्कायामधिकरणान्तरेण तन्निराकरोति - || ३३४ || अतश्चायनेऽपि हि दक्षिणे || १९ || ब्रह्मविदाप्नोति परम् इत्यादौ ब्रह्मविदां ब्रह्मप्राप्तेः ब्रह्मणा सह सर्वकामावाप्तेश्च श्रवणादत्र दक्षिणायनमृतानामुपासकानां परशिवब्रह्मलोके तेन सह सर्वकामावाप्तिः समानरूपत्वञ्च सम्भवति वा नवेति सन्दिह्यते | अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति इति | दक्षिणायने मृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रप्राप्तानाञ्च तेषां यावत्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तता इति पुनरावृत्तित्र्यपदेशात् ब्रह्मविद्यानिष्ठानां भीष्मादीनामुत्तरायणप्रतीक्षादर्शनाच्च दक्षिणायनमृतानां विदुषां सर्वथा ब्रह्मप्राप्तिर्नसम्भवतीति प्राप्ते तत्रोच्यते - सूत्रे हिकारो निश्चयार्थः | निशि मृतस्य विदुषो यतः परशिवब्रह्मलोकप्राप्तिहेतुरुक्तः तत एव होतोः दीक्षिणायने मृतस्य परशिवब्रह्मलोकप्राप्तिस्सिद्धा | ब्रह्मविदाप्नोति परं इत्यादिश्रुतिषु ब्रह्मविदां कालनियमादर्शनात् | यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः | अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते || इत्यादौ विदुषां यदा लौकिकसर्ववासनात्यागः तदा तरैव ब्रह्मप्राप्तेः प्रपञ्चितत्वाच्च अविदुषामेव पितृयानेन पथा चन्द्रप्राप्तिद्वारा पुनरावृत्तिः विदुषां तु चन्द्रप्राप्तानामपि तस्माद्ब्रह्मणो महिमानमाप्नोति इति वाक्यशेषात् तेषां दक्षिणायनमृतानां चन्द्रप्राप्तिः ब्रह्मलोकगमनेच्छावतां पुरुषाणां विश्रमहेतुमात्रमिति गम्यते | वाक्यशेषाभावेऽपि - पूर्वोक्तादेव बन्धहेत्वभावात् विदुषां चन्द्रप्राप्तिप्रसक्तावपि परशिवब्रह्मलोकप्राप्तिरन्निवार्या |
SK
वेदान्तविज्ञानसुनिश्चितार्थास्संन्यासयोगाद्यतयश्शुद्धसत्वाः | ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे || इति वेदान्तिनां सर्वेषां ब्रह्मलोकप्राप्तिद्वारा क्रममुक्त्युपदेशात् ब्रह्मभवनकामो ब्रह्मवेदनं कुर्यात् न स पुनरावर्तते इत्यादिषु ब्रह्मविदामेव पुनरावृत्तिरहितशिवसायुज्योपदेशात् दक्षिणायनमृतानामपि शिवज्ञानिनां शिवलोकप्राप्तिरेवेति घण्टाघोषः | भीष्मादीनां योगप्रभावात् स्वच्छन्दमरणानां धर्मप्रवर्तनाय उत्तरायणप्राशस्त्यप्रदर्शनार्थः तथाविधाचारः इति निश्चीयते | ननु च विदुषो मुमूर्षून् प्रति पुनरावृत्यपुनरावृत्तिहेतुत्वेन कालविशेषविधिः दृश्यते | यत्र कालेत्वनावृत्तिं आवृत्तिं चैव योगिनः | प्रायाता यान्ति तं कालं वक्ष्यामि भरतर्षभ || अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः || धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते || शुक्लकृष्णे गती ह्येते जगतश्शाश्वते मते | एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः || इति दर्शनात् अयनद्वयमृतानां सर्वेषां कथं बह्मप्राप्तिरित्याशङ्काया नत्राह - || ३३५ || योगिनः प्रति (च) स्मर्येते स्मार्ते चैते || २० || नात्र मुमुर्षून् प्रति मरणकालविऽसेषोपादानं स्मर्यते अपि तु योगिनः योगनिष्ठान् प्रति स्मार्ते स्मृतिविषयभूते स्मर्तव्ये देवयान-पितृयाणाख्ये गती सार्येते योगाङ्गतया अनुदिनं स्मर्तुम् | तथाह्युपसंहारः | नैते सृती पार्थ जानन् योगी मुह्यति कश्चन | तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन || इति अग्निर्ज्योति धूमो रात्रिः इति च देवयान-पितृयाणे प्रत्यभिज्ञायेते | उपक्रमे च यत्र काले तु इति कालशब्दः कालाभिमानिदेवतातिवाहिकपरः अग्न्यादेः कालत्वासम्भवात् | अतः तेऽर्चिषमभिसम्भवन्ति इति विहित देवयानानुस्मृतिरत्र विद्यानिष्ठान् प्रति विधीयते न मुमूर्षून् प्रति मरणकालविशेषः | तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ संपत्स्ये इति श्रुत्यवगमात् |
SK
अतस्सर्वदा विदुषां परशिवब्रह्मप्राप्तौ निशा-दक्षिणायन- veditavyam | bhagavadgītādismṛtiṣu vidyamānaśśabda rātriśabda-śukla- आतिवाहिकदेवतापरत्वेन कालपरत्वायोगात् | अस्याः श्रुतेः मूर्तपरशिवब्रह्मोपासकमात्रपरत्वेऽपि न कोऽपि विरोधः | इति श्रीमद्यतिव्रजपरिवृढ-श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत- viśeṣādvaitasiddhāntavyavasthāpakavaiyāsikabrahmamīmāṃsāsūtrārthaprakāśake śrīkarabhāṣye phalādhyāyasaṃjñikacaturthādhyāyasya vāgādhikaraṇādyekādaśādhikaraṇāvacchinnavāṅmanasi darśanācchabdāccetyādiviṃśatisūtrātmaka dvitīyaḥ pādaḥ samāptaḥ atha śrīkarabhāṣye caturthādhyāyasya tṛtīyaḥ pādaḥ arcirādyadhikaraṇam || 1 || ārcirādigatiphalam pūrvatra puṇyakarmavān svakālavidhiparipākena sthūlaśarīraṃ vihāya mukhanetrādyuttamadvāreṇotkramya pitṛyānamārgeṇa candramasaṃ prāpya tadanantaraṃ tallokāt svargādilokamanubhūya tatpuṇyaśeṣeṇa śrotriyabrāhmaṇādyuttamayonijananaṃn prāpnoti | duritakarmavān sthūladehāvasāne tattatkarmānusāreṇa gudādikaniṣṭhāṅgamārgeṇa nirgatya dhūmagasyā śamanaloke kumbhīpākādi ghoranarakamanubhūya tatpāpanāśena martyaloke gardabhasūkarādiduṣṭayonisambhavaṃ labhate | tathaivātra niravayavaparamākāśaśivatattvopāsanāviśeṣeṇa vidvānihaiva ṣoḍaśakalātmakaliṅgaśarīreṇa saha śivatattvaṃ gacchati |
SK
उमामहेश्वरात्मकमूर्तब्रह्मोपासको भक्तः स्थूलदेहत्यागे तदुपासनामहिम्ना सुषुम्ननाड्यग्रज्वलनतेजोमार्गेणेत्क्रम्य अर्चिरादिपथाऽनुगुण्येन उत्तरायणे प्रभाकरमण्डलानुसरणेन दक्षिणायने चन्द्रमण्डलद्वारा निरुपमनित्यकल्याणनिरतिशयशिवलोकादिकल्याणविभूत्यनुभववान् भवतीत्युपदेशेन य एवमेतद्विदुर्ये चेमेऽरण्मे श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति इत्युपक्रम्य षण्मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतम् इत्यादिना पुण्यकर्मिणां वायुलोक वरुणलोकेन्द्रलोकादिप्राप्तेः बृहदारण्यके व्यवस्थापनात् तेऽर्चिषमभिसम्भवन्ति इति छान्दोग्यश्रुत्या मूर्तब्रह्मोपासकानां अचिरादिमार्गेण तल्लोकादिप्राप्तिविधायकशास्त्रं कथमुपपद्यत इत्याशङ्क्य तृतीयपादमारभते - विदुषामर्चिरादिमार्गेणैव परशिवब्रह्मलोकावाप्तिनिर्णयः || ३३६ || अर्चिरादिना तत्प्रथितेः || १ || पूर्वत्र हृदयपुण्डरीकगतपरशिवानुग्रहेण प्रकाशितद्वारस्य तदुपासकस्य उत्क्रान्तस्य मूर्धन्यनाडीविशेषेण हार्दानुग्रहात् गत्युपक्रम उक्तः | तस्य गच्छतो मार्गे इदानीं निर्णीयते | तत्र श्रुतिषु मार्गान्तराणि बहुधा आम्नायन्ते | छान्दोग्ये तावत् यथा पुष्करपलाशे आपो न श्लिष्यन्ते || इत्युपक्रम्य ब्रह्मविद्यामुपदिश्याम्नायते | अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदु च न अर्चिषमेवाभिसम्भवन्ति अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षात् यान् षडुदङ्ङेति मासांस्तान् मासेभ्यः संव्त्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतम् | तत्पुरुषोऽमानवः | स एनान् ब्रह्म गमयति | एष देवपथो ब्रह्मपथः | एतेन प्रतिपद्यमाना इमंमानवमावर्तं नावर्तन्ते इति | तथात्रैवाष्टमे अथैतैरेव अश्मिभिरूर्ध्वमाक्रमते इति | कोषीतकिनश्च देवयानमार्गमन्यथाऽधीयते स एतं देवयानं पन्थानमापद्य अग्निलोकमागच्छति स वायुलोकं स वरुणलेकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकं इति |
SK
तथा बृहदारण्यके - य एवमेतद्विदुः ये चेमे अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति इति | तत्रैव पुनरन्यथा यथा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमभिग्रच्छति तस्मै स तत्र विजिहीते यथा अथचक्रस्य खम् | तेन स ऊर्ध्वमाक्रमते | स आदित्यमागच्छति | तस्मै स तत्र विजिहीते यथा आडम्बरस्य खम् | तेन स ऊर्ध्वमाक्रमते | स चन्द्रमसमागच्छति | तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् | इत्यादि तत्र संशयः - किमर्चिरादिरेक एव मार्ग आभिः श्रुतिभिः प्रतिपाद्यत इति तेनैव ब्रह्म गच्चह्ति विद्वान् उत तस्मात् अन्ये अन्यत्र मार्गा इति स्मर्यते | विदुषामर्चिरादिमार्गेणैव परशिवलोकप्राप्तिः इति नियमो नास्ति | तैत्तिरीये - य एषोन्तर्हृदय आकाशः | तस्मिन्नयं पुरुषो मनोमयः | अमृतो हिरण्मयः | अन्तरेण तालुके | य एष स्तन इवावलम्बते | सेन्द्रयोनिः | यत्राऽसौ केशान्तो विवर्तते | व्यपोह्य शीर्षकपाले | भूरित्यन्गौ प्रतितिष्टति | भुव इति वायौ | सुवरित्यादित्ये | मह इति ब्रह्मणि | आप्नोति स्वाराज्यम् इति | एवं बृहदारण्यक- ataḥ tallokāvāptiranyathaivaiti prāpte pacakṣmahe - viduṣāmarcirādimārgeṇaiva paraśivalokaprāptiḥ kutaḥ tatprathiteḥ pañcāgnividyādiṣu te'rciṣamabhisambhavanti ityādinā arcirādeḥ brahmaprāpakatvena prasiddhatvāt | bhūrityagnau pratitiṣṭhati ityādinā vidyādiṣu na paraśivabrahmalokaprāptimārga ucyate | kintu tadvibhūtiprāptireva | tasmāttallokaprāptirnānyathā gamyate | patyabhijñānātsa eva mārgaḥ sarvatra nyūnadhikabhāvena pratipādyata iti vidyāguṇopasaṃhāravat anyatra proktānāṃ anyatropasaṃhāraḥ kriyate | chāndogye tāvat upakosalavidyāyāṃ pañcāgnividyāyāṃ caikarūpatvamevāmnāyate | vājasaneyake ca pañcāgnividyayāṃ tathaivārcirādiralpānatara āmnāyate | atastathāpi sa eveti pratīyate | anyatrāpi sarvatra agnyādityādayaḥ pratyabhijñāyante | vāyvadhikaraṇam || 2 ||
SK
संवत्सरादूर्ध्वं आत्मनः वायुलोकप्रवेशविचारः ननु बृहदारण्यकश्रुतौ स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं इति वायुलोक-वरुणलोकादयश्चत्वार उक्ताः | तेषां कुत्रः प्रवेशः इत्याशङ्कायामधिकरणान्तरेणाह - || ३३७ || वायुमब्दादविशेषविशेषाभ्याम् || २ || अब्दात् संवत्सरादुपरि वायुलोकं प्रविशति | कुतः अविशेषविशेषाभ्याम् || स वायुलोकं इत्यविशेषवचनात् | सामान्यवचनात् वायुलोकस्य कुत्रचित्प्रवेशः कर्तव्यः | तत्र वाय्यादित्ययोः परस्पररूपसम्बन्धविशेषात् संवत्सरादित्ययोर्मध्ये वायोर्निवेश इति निश्चीयते | स वायु लोकं इति श्रुतेः लोकमात्रप्रतिपादकत्वेन क्रमप्रतिपादकत्वाभावात् अविशेषवचनत्वं द्रष्टव्य इति सूत्रसूचितसूक्ष्मार्थः | अर्चिरादिनैव गच्छन्ति विद्वांसः इत्युक्तम् | तत्र अर्चिरादिके मार्गे छान्दोगः मासादित्ययोरन्तराले संवत्सरमधीयते मासेभ्यः संवत्सरं संवत्सरादादित्यं इति अर्चिरादिक्रमः | बृहदारण्यके यदा वै पुरुषोऽस्माल्लोकात्प्रति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति इति श्रूयते | वाजसनेयिनस्तु - तयोरेवान्तराले देवलोकम् मासेभ्यो देवलोकं देवलोकादादित्यम् इति दर्शनात् संवत्सरादित्ययोर्मध्ये वायुः श्रुतः | स तत्र निवेश्यो न वेति संशये न निवेश्यः | श्रवणाद्बुणोपसंहारन्यायेन संवत्सरादूर्ध्वं आदित्यात्पूर्वं वायुर्निवेश्यः | छान्दोग्य-वाजसनेययोरुभयत्रापि मार्गैकत्वात् उभावुभयत्र उपसंहार्यौ तत्र मासादूर्ध्वमभिहितयोः संवत्सर-देवलेकयोः पञ्चम्या अभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षात्यान् षडुदङ्ङेति मासांस्तान् इत्यधिककालान न्यूनकालेभ्यः उत्तरोत्तरत्वेन निवेशदर्शनात् संवत्सरस्यैव मासानन्तरं बुद्धौ विपरिवृत्तेः संवत्सर एव मासादूर्ध्वं निवेशयितव्य इति तत ऊर्ध्वं देवलोक इति निश्चीयते |
SK
अन्यत्र वाजसनेयिनः - यदा वै पुरुषोऽस्माल्लोकात् प्रैति वायुमागच्चह्ति तस्मै स तत्र विजिहीते | यथा रथचक्रस्य खम् तेन स | ऊर्ध्वमाक्रमते स आदित्यमागच्छति | इत्यादित्यात् पूर्वं वायुमधीयते | कौपीतकिनस्तु - स एतं देवयानं पन्थानमापद्य अग्निलोकमागच्छति स वायुलोकं इत्यग्निलोकशब्दनिर्दिष्टादर्चिषः परं वायुमभिधीयते | तत्र कौषीतकिनां पाठक्रमेणार्चिषः परत्वेन प्राप्तस्य वायोः वाजसनेयिनां तेन स ऊर्ध्वमाक्रामते स आदित्यमागच्छति इत्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्बलीयसा आदित्यात् पूर्वं प्रवेशो निश्चीयते | अत आदित्यात्पूर्वं देवलोकस्य वायुलोकस्य च व्यपदेशाद्भिन्न इति गम्यते | भिन्नार्थत्वे च ऊर्ध्वशब्देन पञ्चम्या चोभयोः संवत्सरादित्यान्तराले श्रुतिक्रमेण प्राप्तत्वात् विशेषाभावाच्च यथेष्टमिति प्राप्ते तत्रोच्यते - वायुमब्दादिति | वायुं संवत्सरादूर्ध्वमधिगच्छेत् | कुतः अविशेषविशेषाभ्यां वायुरेव निर्दिष्टवान् | देवलोकशब्दो ह्यविशेषेण - सामान्येन देवानां लोक इत्यनेन रूपेण वायुमभिधत्ते | स वायुमभिगच्छति तस्मै स तत्र इति वायुशब्दो विशेषेण वायुमभिधत्ते | अतो देवलोक-वायुशब्दभ्यां अविशेषविशेषाभ्यां वायुरेवाभिधीयत इति संवत्सरादूर्ध्वं वायुमेवाभिगच्छेत् | कौषीतकिनां वायुलोकशब्दश्चाग्निलोकशब्दवत् वायुश्चसौ लोकश्च इति व्युत्पत्या वायुमेवाभिधत्ते | वायुश्च देवानामावासभृत इत्यन्यत्र श्रूयते | योऽयं पवते एष देवानां गृहाः इति दर्शनादविरोधः | वरुणाधिकरणम् || ३ || वायुलोकाज्जीवस्य तटिल्लोकप्रवेशविचारः नन्वर्चिरादिगत्यनुसरणानां विदुषां वायुलोकादूर्ध्वं कस्माल्लोकात् शिवलोकः सम्भवतीत्याशङ्कायामधिकरणान्तरेण दर्शयति - || ३३८ || तटितोऽधि वरुणः सबन्धात् || ३ ||
SK
वायुलोकानन्तरं जीवस्तटिल्लोकं प्रविशति | तटिल्लोकादुपरि अधिवरुणो वरुणलीकं गच्चह्ति | कुतः सम्बन्धात् | विद्युद्वरुणयोः परस्परसम्बन्धात् इन्द्रप्रजापतिलोकयोऽस्तु अवशिष्टानामन्ते निवेशः इति न्यायेन वरुणलोकादनन्तरमिन्द्रलोकः तदन्तरं प्रजापतिलोकद्वारा परशिवलोकं प्राप्नोतीति सूक्ष्मार्थः | कौपीतकीनां स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं इत्यत्रग्निलोकशब्दस्यार्चिष्पर्यायत्वेन प्राथम्यमविगीतम् | वायोश्च संवत्सरादूर्ध्वं प्रवेशः उक्तः | आदित्यस्याप्यत्र प्राप्तपाठक्रमबाधेन देवलोकादादित्यमादित्याद्वैद्युतम् इति | वाजसनेकोक्तश्रुतिक्रमात् देवलोकशब्दाभिहितात् वायोरुपरि निवेशः सिद्धः | इदानीं वरुणेन्द्रादिषु चिन्ता | किमेते वरुणादयो यथापाठं वायोरूर्ध्वं निवेशयितव्याः आहोस्वित् विद्युतोऽधीति विशये - अर्चिःप्रभृतिषु सर्वेषु अर्चिषोऽहः इत्यादिश्रुतिक्रमोपरोधात् विद्युतः परस्ताच्च तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति इति विद्युत्पुरुषस्य ब्रह्मगमयितृत्वश्रवणाच्च सर्वत्रावकाशाभावेन अप्राप्तौ चोपदेशावैय्यर्थ्यायावश्यं कस्यचित् बाध्यत्वे पाठक्रमानुरोधेन वायोरनन्तरं वरुणो निवेशयितव्यः वाय्वादित्ययोः क्रमस्य बाधितत्वेन इन्द्र- varuṇastāvat vidyuta upariṣṭānniveśayitavyaḥ | kutaḥ sambandhāt medhodavartitvādvidyuto varuṇena sambandho lokavedayoḥ prasiddhaḥ | etaduktaṃ bhavati - varuṇādīnāmupadeśāvaiyarthyāya kvacinniveśayitavyatve sati pāṭhakramādarthakramasya balīyastvāt vidyuto'dhi varuṇo niveśayitavyaḥ | tataścāmānavasya gamayitṛtvaṃ vyavadhānasahamityavagamyate | tasya ca vyavadhānasahatvādindrādeścopadiṣṭasyāvaśya-niveśayitavyasya varuṇāduparyupadiṣṭatvāt āgantūnāmante niveśayitavyatvācca varuṇādupari indrādirniveśayitavyaḥ iti veditavyam | ātivāhikādhikaraṇam || 4 || paraśivapreritātivāhikadevaiḥ daharādisarvavidyopāsakapuruṣasya mahākailāsānayanakramavicāraḥ
SK
नन्वर्चिरादिगत्या वायुतटिद्वरुणादिलोकगमने मुक्तजीवः केन सहायेन शिवलोकपर्यन्तं गच्छतीत्याशङ्कायां अधिकरणान्तरेण समाधानमुपदिशति - || ३३९ || आतिवाहिकास्तल्लिङ्गात् || ४ || तेष्वर्चिरादिलोकेषु पूर्वपूर्वलोकस्थाः देवाः ह्युत्तरोत्तरलोकप्राप्तिपर्यन्तमुपासकानां आतिवाहिकः सहायभूताः नेतराः | कुतः तल्लिङ्गात् स एनान् ब्रह्म गमयति इति श्रुतौ विद्युल्लोकप्राप्त्यनन्तरममानुषपुरुषस्य नेतृत्वप्रतिपादनरूपाल्लिङ्गात् दृष्टान्तेन पूर्वलीकेष्वपि नेतरा अङ्गीकर्तव्या इति सूक्ष्मार्थः | इदमिदानीं चिन्त्यते - किमर्चिरादयो मार्गाः चिह्नभूताः उत भोगभूमयः अथवा विदुषां ब्रह्मप्रेप्सतामतिवोढारः इति | किं तावत् युक्तम् मार्गचिह्नभूता इति | कुतः उपदेशस्य तथाविधत्वात् | दृश्यते हि लोके ग्रामादीन् प्रति गन्तॄणां एवं विधो देशिकैरुपदेशः | इतो निष्क्रम्यामुकं वृक्षं अमुकां नदीं अमुकञ्च पर्वतपार्श्व गत्वामुकं ग्रामं गच्छ इति | अथवा भोगभूमयः एताः स्युः | कालविशेषतया प्रसिद्धानां अहरादीनां मार्गचिह्नत्वानुपपत्तेरन्यस्य च मार्गचिह्नभूतस्यैतेषामनभिधायकत्वात् भोगभूमित्वम् | एत एव लोका यदहोरात्राण्यब्दमासा क्रतवस्संवत्सराः इत्यहरादीनां लोकपरत्ववचनमुपपद्यन्ते | अत एव च कौषीतकिनः - अग्निलोकमागच्छति इत्यादिना लोकशब्दानुविधानेन अर्चिरादीन् पठन्तीत्येवं प्राप्ते वक्ष्यामः - आतिवाहिका इति | विदुधामतिवाहे शिवेन परमपुरुषेण नियुक्ता आतिवाहिकाः देवताविशेषाः एतेऽर्चिरादयः | कुतः तल्लिङ्गात् - अतिवहनकलिङ्गात् | अतिवहनं हि तन्तॄणां गमयितृत्वम् | तच्च - तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयति | इत्युपसंहारे श्रूयमाणं पूर्वेषामप्यविशेषश्रुतानां स एव सम्बन्ध इति गमयति | वदन्ति - pṛthivyabravīt iti vat |
SK
किञ्चास्मिन् सूत्रे अगस्त्यमुनिसार्वभौमेन कृतलघुसूत्रवृत्तौ लिङ्गे सुषुप्तिः इत्यादि बहुश्रुतिषु घट-कुम्भशब्दादिवत् ब्रह्म-लिङ्गशब्दयोः पर्यायत्वावगमात् तल्लिङ्गात् पूर्वोक्तदहरादिसर्वविद्योपास्यपरशिवात् प्रेरिताः सन्तः आतिवाहिकाः मर्त्यलोक-शिवलोकान्तरालनिवासिदेवाः दहरादिसर्वब्रह्मविद्योपासकं पुरुषं सौधसोपान-आरोहण न्यायेन क्रमक्रमेण निरुपमानन्दनित्यवैभवं महाकैलासमानयन्तीति व्यख्यातं तदप्यविरुद्धम् | यदेवं तत्पुरुषोऽमानवस्स एतान् ब्रह्म गमयति इति वैद्युतस्यैव पुरुषस्य ब्रह्मगमयितृत्वश्रुतेः विद्युतः परेषां वरुणादीनां कथमातिवाहिकत्वेनान्वय इत्यत आह - || ३४० || वैद्युतेनैव ततस्तच्छ्रुतेः || ५ || ततः विद्युत उपरि वैद्युतेन - अमानवेनैवातिवाहिकेन विदुषां आब्रह्मप्राप्तेर्गमनम् | कुतः तच्छ्रुतेः | स एनान् ब्रह्म गमयति इति तस्यैव गमयितृत्वश्रुतेर्वरुणादयस्तदनुग्राहकाः इति तेषामप्यातिवाहिकत्वेनान्वयो विद्यत एव | केषाञ्चिदिहैव केषाञ्चिल्लोकान्तरे मुक्तिरित्युपदेशे ब्रह्मविद्योपासकानां सर्वेषां फलैक्यविधायकश्रुतिबाधप्रसङ्गादुभयोरेकपक्ष एवाङ्गीकरणीय इत्याशङ्कायामाह - || ३४१ || उभयव्यामोहात्तत्सिद्धेः || ६ || लोकान्तरप्राप्तिमात्रसाधकद्वैतमार्गिणां स्वकण्ठाभरण- muktividhāyakādvaitavādināṃ cobhayeṣāṃ vyāmohāt sarvaśrutisiddhamukhyārthaparijñānābhāvāt śrutyaikadeśaprāmāṇyapakṣaikadeśamatadvayaṃ mumukṣubhirnāṅgīkartavyam | kutaḥ tatsiddheḥ | na tatra prāṇā utkrāmante atraiva samavalīyante te brahmaloke tu parāntakāle parāmṛtātparimucyanti sarve iti ca | ihaloka-paraloka- समञ्जसम् | कार्याधिकरणम् || ५ || परब्रह्मोपासनालब्धमुक्तिमार्गगामिनो जीवस्य पादरेरप्यनुमतः शिवलोकगमनकार्यविचारः ननु प्रज्ञानं ब्रह्म इत्यादिश्रुतिषु जीवस्यैव साक्षात् ब्रह्मत्वव्यवस्थापनात् जीवब्रह्मणोः प्राप्य-प्रापकत्व विधायकशास्त्रं औपचारिकम् उत आकाशवत्सर्वगतश्च नित्यः
SK
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते || इत्यादिषु ब्रह्मणः सर्वव्यापकत्वावगमाच्च परब्रह्मप्राप्त्यर्थमर्चिरादिमार्गेण गमनं व्यर्थं स्यात् | किञ्च - जीवस्य ब्रह्मात्मकत्वेन ब्रह्मजन्यत्वायोगात् ब्रह्मप्राप्तिरयुक्ता | तस्मात् ब्रह्मप्राप्तिविधायकानां श्रुतीनां हिरण्यगर्भपरत्वमेवेत्याशङ्कायामधिकरणान्तरेणाह - || ३४२ || कार्यं वादरिरस्य गत्युपपत्तेः || ७ || कार्यं - यतो वा इमानि भूतानि जायन्ते इत्यादि श्रुतिषु जीवानामजन्यत्वेऽपि परब्रह्माविर्भूतत्वेन व्यपदेशात् वादरिरस्य जीवस्य ब्रह्मकार्यत्वं निर्दिशति | कुतः || गत्युपपत्तेः || यत्प्रयन्त्यभिसंविशन्ति इत्यत्र जीवानां ब्रह्मलयत्वावगमात् | अतः अर्चिरादिमार्गेण परशिवब्रह्मलोकगमनं युक्तमिति सूक्ष्मार्थः | अर्चिरादिनैव विद्वान् गच्चह्ति | अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांस ब्रह्म गमयतीत्युक्तम् | इदानीमत्र चिन्त्यते - किमयमर्चिरादिको गणः कार्यं हिरण्यगर्भोपासकान्नयति उत परब्रह्मण उपासकानेष अथ परब्रह्मोपासकेषु प्रत्यगात्मानं ब्रह्मात्मकतयोपासमानाश्च इति विशये कार्यब्रह्मोपासकानेव गमयतीति निश्चीयते | कुतः हिरण्यगर्भस्सपवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ब्रह्म वा इदमग्र आसीत् इत्यादिषु चतुर्मुखस्य हिरण्यगर्भस्य सर्वाधिक्यकथनात् तदुपासकानेव आतिवाहिकास्तल्लोकं गमयन्ति | न हि परिपूर्णं सर्वज्ञं सर्वगतं-सर्वात्मभूतं-परशिवब्रह्म उपासकस्य तत्प्राप्तये देशान्तरगतिरुपपद्यते | प्राप्तत्वादेव | नित्यप्राप्तपरब्रह्मविषयाऽविद्यानिवृत्तिमात्रमेव हि परविद्याकार्यम् | कार्यन्तु हिरण्यगर्भरूपं ब्रह्म उपासीनस्य परिच्छिन्नदेशवर्तिप्राप्य-प्रप्त्यर्थं गमनमुपपद्यते तस्मादर्चिरादिरातिवाहिकगणः तमेव नयतीति प्राप्ते प्रचक्ष्महे -
SK
अस्य परब्रह्मोपासकस्य कार्यं - परशिवलोकगमनकार्यं वादरिर्मन्यते | कुतः ब्रह्मविदाप्नोति परं सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ब्रह्मवित् ब्रह्मैव भवति इत्यत्र परब्रह्मोपासकानामेव तेन सह सर्वकामावाप्तिदर्शनात् लोके शिव-केशवपूजा-नमस्कारालयस्मरण-मन्त्र-तन्त्र- | kinnarā indrabhaktāśca brahmabhaktāstu rākṣasāḥ | viṣṇubhaktāstu gandharvāḥ siddhāśśāṅkarabhāktikāḥ || tathāpi bali-prahlāda-vibhīṣaṇa-surāntakāḥ | viṣṇubhaktā iti proktā vāṇāsura-daśānanau || śivabhaktāviti proktāvanye druhiṇabhāktikāḥ | iti hiraṇyagarbhasya rākṣasadevatātvānmumukṣūṇāṃ tadupāsanenārcirādigatirna sambhavati | kiñca - tasmādvā etasmādātmana ākāśassambhūtaḥ | ākāśādvāyuḥ | vāyoragniḥ | agnerāpaḥ | adbhayaḥ pṛthivī | pṛthivyā oṣadhayaḥ | oṣadhībhyo'nnam | annātpuruṣa ityādinā hiraṇyagarbhātprāgeva jīvasṛṣṭiḥ śrūyate | yathā sudīptātpāvakāt visphuliṅgāssahasraśaḥ prabhavante sarūpāḥ tathākṣarādvividhāssaumya bhāvāḥ prajāyante | tatra caivāṣi yanti || ityādibhiḥ parabrahmaṇo jīvānāmāvirbhūtatvasya tasminneva muktidaśāyāṃ teṣāmekatvasya ca vyavasthāpanāt nānyārtho yuktaḥ | dvāveva brahmaṇo rūpe mūrtañcā'mūrtameva ca namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye'mbikāpataya umāpataye paśupataye namo namaḥ ityādinā śivasyaiva mūrtā'mūrtatvanirūpaṇāvagamāt sarvagatasya tasya pavanādivanmūrtā'mūrtatvamavirodham | asminnarthe hetvantaramāha - || 343 || viśeṣitatvācca || 8 || yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca prahiṇoti tasmai | taṃ hi devabhātmabuddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye || iti śrutau śivātparabrahmaṇaścaturmukhotpattestasya vedaśāstrapurāṇādipradāyakatvasya ca darśanāt hiraṇyagarbhasya sarvātiśayitvamamṛtapradāyakatvañca sarvathā na sambhavati |
SK
ननु पुरुषोऽमानव एतान् ब्रह्म गमयति इत्यादौ मुमुक्षूणां हिरण्यगर्भलोकप्राप्तेर्हिरण्यगर्भप्राप्तेश्चावगमात् सर्वाधिकत्वं तस्यैवेत्याशङ्कायामाह - || ३४४ || सामीप्यात्तु तद्व्यपदेशः || ९ || तु शब्दोऽत्र शङ्कानिरासार्थः | यो देवानां प्रभवश्चोद्भवश्च ! विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमानं स नो बुध्या शुभया संयुतक्तु इत्यादिषु परब्रह्मणश्शिवात् हिरण्यगर्भोत्पत्तेः उपासकबुद्धिप्रेरकत्वस्य च निर्देशात् | उत तत्रैव तमीशानं यो देवानां इति स्वसमीपहिरण्यगर्भेक्षितृत्वस्य शुभस्मृतिहेतुत्वस्य च व्यवस्थापनाच्च मुमुक्षोरुपास्यत्वं शिवान्नेतरस्योपपन्नम् | यो वेद निहितं गुहायां परमे व्योमन् | सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता || इत्यत्रापि परशिवब्रह्मोपासकस्य तेन सह सर्वकामावाप्तेः अवगमात् तदेव सिद्धम् | तत्पुरुषोऽमानवः स एवान् ब्रह्म गमयति इत्यादिश्रुतिभिः शिय एवावगम्यते | शिव एको ध्येयश्शिवङ्करः सर्वमन्यत्परित्यज्य इत्यादिषु मुमुक्षूणां शिवेतरध्येयनिषेधदर्शनात् | अस्मिन्नर्थे हेत्वन्तरमाह - || ३४५ || कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् || १० || गताः कलाः पञ्चदश प्रतिष्ठाः देवाश्च सर्वे प्रतिदेवतासु | कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति || इति श्रवणात् कार्यात्यये चरमशरीरिणां मुमुक्षूणां विदेह - मुक्त्यवसरे कार्यात्मकप्राणेन्द्रियादिकस्य सर्वस्य नाशे सति अतः - तदधिष्ठानब्रह्मादिदेवताभिस्सह परमभिधानात् परमात्मन्येकीभावत्वव्यपदेशात् हिरण्यगर्भोपासनं मुमुक्षूणामविचारितमणीयम् | तस्मात् एष देवपथो ब्रह्मपथश्च एतेन प्रतिपाद्यमाना इमं मानवमावर्तन्ते तयोर्ध्वमायन्नमृतत्वमेति इत्यमृतत्वप्राप्त्युपदे᳚अकादिश्रुतीनां हिरण्यगर्भपरत्वं नोपपद्यते | अपुनरावृत्तिव्यपदेशेन चित्कैलास एवाभिहितम् | आब्रह्मभवनाल्लोकाः पुनरावृत्तिनोऽर्जुन | इत्यादिस्मृतिषु ब्रह्मादिलोकानां अनित्यत्वश्रवणात्
SK
यदा तमस्तन्नदिवा न रात्रिर्न सन्न चासच्छिव एव केवलः | तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी || इति जगतः प्रागवस्थायां प्रलयानन्तरमपि शिवे स्थितिमात्रस्यैवोपदेशात् ऋतं सत्यं परं ब्रह्म इत्यादौ तस्यैव त्रैकालिकाबाध्यत्वेन ऋतत्व- sambhavati | punarhetvantaramāha - || 346 || smṛteśca || 11 || śivāṃśabhūtajīvānāṃ śivopāsanamucyate | śivasyānugrahādeva krimikīṭakavatsadā || śivātmakatvaṃ saṃprāpya punarjanma na vidyate || iti smṛtiṣvapi śivopāsakānāmeva punarāvṛttirahitaśivatatvātmakatvavyapadeśāt mumukṣūṇāṃ nānyopāsakatvaṃ vidhīyate | asminnarthe hyācāryāntaramapyāha - || 347 || paraṃ jaiminirmukhyatvāt || 12 || ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam brahmādhipatirbrahmaṇo'dhiṣatirbrahmā śivo me astu sadāśivom ityādiśrutiṣu śivasya parabrahmaṇaḥ praṇavātmakatvasya sarvādhikatvasya ca nirdeśāt śivākhyaparabrahmopāsakān arcirādimārgeṇa ātivāhikāḥ svarlokaṃ gamayantīti jaiminyācāryo manyate | kutaḥ || mukyatvāt || brahmavidāpnoti paraṃ ityādiṣu brahmaśabdasya parasminneva brahmaṇi mukhyatvāt - caturmukhahiraṇyagarbhapakṣe ūpakramopasaṃhārādiṣadvidhatātparyaliṅgavirodhācca tasmāt tatpuruṣo'mānavaḥ sa enān brahma gamayati ityādiṣu brahmaśabdasya śivaparatvameveti niścīyate | punarhetvantaramāha - || 348 || darśanācca || 13 || eṣa samprasādo'smāccharīrātsamutthāya parañjyotirupasampadya syena rūpeṇābhiniṣpadyate yathā nadyaḥ syāndamānāssamudre astraṃ gacchanti nāmarūpe vihāya | tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam || ityādiśrutiṣu jīva-brahmaṇoḥ prāpya-prāpakatvena asandigdhatayā bhedābhedadarśanācca jīvasyaiva brahmatvaṃ sadā jīvabhinnatvañca nāṅgīkartavyam | punarhetvantaramāha - 349 na ca kārye pratyabhisandhiḥ || 14 ||
SK
विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं जनयामास पूर्वं इत्यादिश्रुतिदर्शनात् कार्ये हिरण्यगर्भे जीवानां प्रत्यभिसन्धिः जीवभावनिवृत्तिपूर्वकशिवत्वप्राप्तिरूपमोक्षो न विधीयते | नान्यः पन्था विद्यतेऽयनाय इत्यादिश्रुतिषु शिवैकज्ञानादेव तादात्म्यरूपसायुज्यमुक्तिव्यपदेशात् चतुर्मुखोपासकानां श्रुति-स्मृति पुराणागमेषु पुनरावृत्तिरहित मोक्षोपलब्ध्यदर्शनाच्च अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि इत्यादिश्रुतिनिर्दिष्टब्रह्मलोकस्य शिवलोकपरत्वं वेदितव्यम् | एवं बहवोप्येकयत्नतः इति न्यायेन स्वसिद्धान्तावुगुण्येनाचार्यान्तरमतं दर्शयित्वा तथा स्वमतं प्रकाशयति - || ३५० || अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च || १५ || अप्रतीकालम्बनान् प्रतीकालम्बनव्यतिरिक्तान् नयत्यर्चिरादिरातिवाहिको गण इति भगवान् वादरायणो मन्यते | एतदुक्तं भवति - कार्यप्रपञ्चोपासकान् नयतीति नायं पक्षः सम्भवति इति चेन्न | सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत तत्त्वमेव त्वमेव तत् इत्यादिश्रुतिषु ब्रह्मकार्यरूपचेतनाऽचेतनपञ्चस्य ब्रह्मात्मक्त्वध्यानेन ब्रह्मतत्त्वप्राप्त्यवगमात् || उभयथा च दोषात् || द्वासुपर्णा इत्यादिद्वैतश्रुत्यानुगुण्येन जीव-ब्रह्मणोर्भेदमात्रत्वोपादाने तत्त्वमस्याद्यद्वैतविधायकबहुश्रुतिसंङ्कोचदोषात् तथा अद्वैतप्राधान्ये द्वैतश्रुतिशतसङ्कोचदोषाच्च भ्रभरकीटादिबहुदृष्टान्तानुसारेण जीवब्रह्मणोर्भेदाऽभेदोऽङ्गीकर्तव्यः एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्यादि श्रुतिषु पक्षैकदेशनिराकरणावगमात् | तत्क्रतुश्चेति यथोपासकस्तथैव प्राप्नोतीत्यर्थः | यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्यभवति तं यथा यथोपासते इति श्रुतिशासनात् उपासकानां उपास्यवस्तुप्राप्तिस्सर्वत्रोपलभ्यते | तस्मात् सर्वेषु वेदान्तेषु भेदाभेदसिद्धिर्दुर्वारैव |
SK
ननु नारायणं परं ब्रह्म इत्यादिश्रुतिषु विष्ण्वादिनानादेवतोपासनावगमात् मुमुक्षूणां पुनरावृत्तिनिराकरणार्थं दहरादिसर्वविद्यासु मायापाशविच्छेदलक्षणं वस्तु किमुपास्यमित्याशङ्कायामाह - || ५१ || विशेषञ्च दर्शयति || १६ || चकारोऽत्र निश्चयार्थः | पशुरूपब्रह्मविष्ण्वादिजीवानां मध्ये पशुपतेश्शिवस्य परब्रह्मणः विशेषञ्च ऋगादिवेदेषु वेदान्तेषु दर्शयति - द्योतयति | अन्तरिच्छन्ति तं जने रुद्रं परो मनीषथा गृभ्णन्ति जिह्वयाससं अयं मे हस्तो भगवानयं मे भगवत्तरः | अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः || इत्यादिना ऋग्वेदे या ते रुद्र शिवा तनूरघोरापापकाशिनी | तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि || इत्यादिना यजुराम्नाये तथान्यत्रापि द्रष्टव्यम् | परशिवस्यैवोस्यतानिर्णयः किञ्च - तैत्तिरीये - दहरं विपापं इत्यादिना मुमुक्षूणां दहरपुण्डरीके परमात्मोपासनं विधाय स क इत्याकांक्षायां यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः | तस्य प्रकृतिलीनस्य यः परः स महेश्वरः इति महेश्वरस्यैव तत्रोपास्यत्वं निश्चित्य न कर्मणा इति दारेषणादिपरित्यागपूर्वकविरक्तानां तत्प्राप्तिं उपदिश्य सर्वेषां देवानां मध्ये तच्छिवोपासनाधिकारः कस्यास्तीत्याकाङ्क्षायां सहस्रशीर्षं देवं इत्यादिना नारायणं प्रस्तुत्य पद्मकोशप्रतीकाशं इत्यारभ्य तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः इत्यन्तेन तस्य सर्वगतत्वेन सर्वात्मकत्वं परिच्छिन्नत्वञ्च मूर्ताऽमूर्तलिङ्गात्मकत्वेन जगदभिव्यक्तत्वं चोपदिश्य सद्योजातादिपञ्चब्रह्ममन्त्रेः मूर्ताऽमूर्तशिवस्तुतिमभिधाय नमो हिरण्यवाहवे इत्यनेन तस्य ज्योतिर्मयविग्रहत्वं उमाशक्तिविशिष्टत्वेन सर्वोपास्यत्वञ्च प्रकीर्त्य ऋतṁ सत्यं परं ब्रह्म इत्यादिना तस्य कृष्णपिङ्गलत्वं विरूपाक्षत्वं विश्वरूपत्वञ्च प्रचक्षते | कैवल्ये - हृत्पुण्डरीकं विरजं विशुद्धं इत्यारभ्य दहरपुण्डरीके शिवोपासनमुक्त्वा स क इत्याकांक्षाया -
SK
तदादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् || इत्यादिना मूर्ताऽमूर्तत्वं तस्य समुपदिश्य सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | सम्पश्य ब्रह्म परमं याति नान्वेन हेतुना || इत्यादिना शिवोपासकस्यैव मुक्तिरुपदिष्टा | शिवसङ्कल्पोपनिषदि बोधायनसूत्रे च - परात्परततो ब्रह्म तत्परात्परतो हरिः | यत्परात्परतोऽधीशस्तन्मे मनश्शिवसङ्कल्पमस्तु || इति महेश्वरस्य सर्वाधिकत्वनिर्देशात् तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयाः इत्यत्र विष्णोः परं कैलासाख्यं शिवपदं सूरयः विद्वांसः ज्ञानदृष्ट्या सदापश्यन्तीत्युपदिश्यते | स्कान्दे - तद्विष्णोः परमं दिव्यं पदं कैलाससंज्ञिकम् | शिवकारुण्यलेशेन सदा पश्यन्ति सूरयः || इति माण्डूक्ये - प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इत्यादिना श्वेताश्वतरे - एक एव रुद्रो न द्वितीयाय तस्थे यो देवानां प्रथमश्चोद्भवश्च विश्वाधिको रुद्रो महर्षि | हिरण्यगर्भं जनयामास पूर्यं मायान्तु प्रकृतिं विन्द्यात् मायिनन्तु महेश्वरं तस्यावयवभूतोत्थं व्याप्तं सर्वमिदं जगत् क्षरं प्रधानममृताक्षरṁ हरः क्षरात्मना विशते देव एकः तस्याभिध्यानात् योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः | तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् || पतिं पतीनां परमं पुरस्तात् विदाम देवं भुवनेशमीऽडम् | न तस्य कार्यं करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते || पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च | न तस्य कश्चित्पतिरस्ति लोके न वेशिता नैव च तस्य लिङ्गम् |
SK
इत्यादिना अथर्वशिरसि - देवा ह वै स्वर्गं लोकमगमन् ते देवा रुद्रमपृच्छन् को भवानिति सोऽबवीत् - अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तः इति अथर्वणशिखायां - ध्यायीतेशानं प्रध्यायितव्यम् सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते इत्यारभ्य शिव एको ध्येयश्शिवङ्करः सर्वमन्यत्परित्यज्य इत्यादिश्रुतिशतेषु साक्षाच्छिवोपासकानामेव मोक्षोपदेशात् वाचं ब्रह्मेत्युपासीत मनो ब्रह्मेत्युपासीत नारायणं परं ब्रह्म इत्यादिश्रुतिसिद्ध-वाक्-प्राण- muktiriti nirṇīyate | tasmāt mūrtaparaśivabrahmopāsakānāṃ śarīrāvasāne suṣumnānāḍyā nirupamānasvaprakāśākhaṇḍatejorūpārcirādimārgeṇātivāhikābhidhāna- चित्कैलासंपरमानन्दकन्दपरमपदं सम्भवतीति राद्धान्तः | इति श्रीमद्यतिव्रजपरिवृढ-श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत- śrīkarabhāṣye phalādhyāyasaṃjñikacaturthādhyāyasya arcirādyadhikaraṇādipañcādhikaraṇāvacchinnārcirādinātatprathitetyādi- तृतीयः पादः समाप्तः अथ श्रीकरभाष्ये चतुर्थाध्यायस्व चतुर्थः पादः सम्पद्याविर्भूताधिकरणम् || १ || स्वाभाविकजीवभावनिवृत्तिपूर्तक शिवत्वप्राप्तिरूपपरमपुरुषार्थफलनिर्णयः पूर्वत्र इन्द्रादिनानाविधदेवतोपासकानामधिकारतारतम्येन निष्कामानाञ्च कालविलम्बेन शिवोपासनद्वारा पुनरावृत्तिरहितपाशनिवृत्तिपूर्वकशिवतत्त्वप्राप्तिं प्रदर्श्य इदानीं मुमुक्षूणां मुक्तिस्वरूपप्रकारश्चिन्त्यते | शिवतत्त्वोपासकानामिहैव दहरपुण्डरीके ब्रह्मदर्शनविचारः
SK
ननु अनात्मरूपदेहेन्द्रियादिषु आत्मभ्रान्तियुक्तानां स्वाऽभिन्नशिवोपासकानां अर्चिरादिमार्ग्ॐणेन्द्रलोकसोपानद्वारा शिवलोकप्राप्तिरस्तु दशमीविवेकसन्धानेन भूतपञ्चक-कोशपञ्चक-तनुत्रय- tadupāsanamahimnā tādṛśasvarūpaprāptirvā uta udgatadivyasūribhissaha śeṣatvakaiṅkaryapāratantryādibhāvena tatsāmīpyavartitvaṃ vā muktirityākāṅkṣāyāṃ bhagavān vādarāyaṇaḥ svābhiprāyaṃ mukhyavaidikasiddhāntaṃ mumukṣūṇāṃ darśayati - || 352 || sampadyāvirbhāvaḥ svena śabdāt || 1 || dvevāva brahmaṇo rūpe mūrtañcāmūrtameva ca iti śrutidarśanāt mūrtaśivopāsakānāñca kramamukti-sadyomuktibhedena caramamokṣadaśāyāṃ jyotirmayaśivatattvaṃ sampadya-prāpya svena sarvajña-sarvaśakta- आविर्भावः अभिव्यक्तस्वरूपवान् भवति | यथा ताम्रादिकं रसवेधया हिरण्यं भवति तथा दहरादि-ब्रह्मविद्योपासनमहिम्ना शारीरो जीवस्साक्षात् सदाशिवरूपो भवति | कुतः शब्दात् एष सम्प्रसादोऽस्मात् शरीरात्समुत्थाय इत्यादिश्रुतिदर्शनात् इति सूत्रसूचितसूक्ष्मार्थः | एवमेव एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिसम्पद्यते इत्याम्नायते | किमस्मात् शरीरात् समुत्थाय परञ्ज्योतिरुपसंपन्नस्य देवादिरूपवत्साध्येन रूपेण सम्बन्धोऽनेन वाक्येन प्रतिपाद्यते उत - स्वाभाविकस्य स्वरूपस्याविर्भाव एव इति संशये दशमीविवेकसन्धनादिवत् स्वाभाविकस्वरूपस्याविर्भावो मोक्ष इति निश्चीयते | आगन्तुकपरिग्रहत्वे स्वेन रूपेणेति विशेषणमनर्थकं स्यात् | तस्मादविशेषेऽपि तस्य स्वकीयस्वरूपत्वसिद्धिः | जलोष्णादिवज्जीवबहुत्वस्यागन्तुकत्वेन तद्वदनित्यत्वप्रसंङ्सो दुर्निवारः |
SK
अथवा द्वासुपर्णा इत्यादिबहुश्रुतिषु जीव-ब्रह्मणोः परस्परविलक्षणत्वेन भेद-व्यवस्थापनात् स्वाभाविकभेदस्य निवृत्ययोगाच्च परलोके तदुपास्यपरमेश्वरेण सह शेषत्वकैङ्कर्य-पारतन्त्र्यविधानेन स्थितिः उत तत्समानरूपेण स्वातन्त्र्यभावेन स्थितिर्वा स्यात् | अतो जीवब्रह्मणोः संसारदशायां पारमार्भिकभिन्नत्वं मुक्तदशायां तद्वत्पारमार्थिकभेदवत्वञ्च सम्भवतीति वादस्तु द्वैत-विशिष्ट-सांख्य-योग-न्याय- pracakṣmahe - || sampadyavirbhāva iti || ayaṃ pratyagātmā prārabdhasyāvasāne parañjyotirupasampadya imaṃ daśāviśeṣamāpadyate | bhramarakīṭanyāyavat jīvabhāvanivṛttipūrvakaśivatattvaprāptidaśāviśeṣaḥ na pūrvaprakārarūpaḥ | kutaḥ || svena śabdāt || svena rūpeṇa iti viśeṣaṇena nadīsamudravat svarūpa- एतेन रज्जुसर्पवत् जीवालीकवादः घट-पटवत् अङ्गाङ्गिवत् सदा जीव- brahmavidyāmahimnā jīvasya svābhāvikāvidyānivṛttipūrvakaśivatvaprāptivādo yuktaḥ | anyathā hyapuruṣārthāvabodhitvaṃ mokṣaśāstrasya syāt svarūpasya svataḥ puruṣārthatvādarśanāt | na hi suṣuptau dehendriya-vyāpāreṣūparateṣu kevalasyātmasvarūpasya puruṣārthasambandho dṛśyate | na ca duḥkhanivṛttimātraṃ paraṃjyotirupasampannasya puruṣārthaḥ yena svarūpāvirbhāva eva mokṣa ityucyeta | sa eko brahmaṇa ānandaḥ śrotriyasya cākāmahatasya rasaṁ hyevāyaṃ labdhvā'nandī bhavati ityādibhyo jīvanmuktasya sukhānanyatvaśravaṇāt | na ca aparicchinnānandarūpacaitanyamevāsya svarūpam tasya saṃsāradaśāyāṃ avidyātirohitaṃ parañjyotirupasampannasyāvirbhavatīti vaktuṃ śakyaṃ jñānasvarūpasya tirodhānāsambhavāt | prakāśaparyāyasya jñānasya tirodhānaṃ tadvināśa eveti hi pūrvamevoktam |
SK
न च प्रकाशमात्रस्यानन्दता सम्भवति | सुखस्वरूपत्वं हि आनन्दस्वरूपता | सुखस्वरूपत्वं चात्मनोऽनुकूलत्वेन वेदनीयत्वम् | प्रकाशमात्रत्ववादिनः कस्य प्रकाशोऽनुकूलवेदनीयो भवेदिति दुरुपपाद्या | स्वरूपापत्तिमात्रे च साध्ये स्वरूपस्य नित्यनिष्पन्नत्वादुपपन्नस्य स्वेन रूपेणाऽभिनिष्पद्यते इति वचनमनर्थकं स्यात् | अतः पूर्वेणोपासनासाध्येन रूपेण सम्बध्यते | एवञ्च अभिनिष्पद्यते इति वचनं मुख्यार्थमेव भवति | स्वेन रूपेण इत्यप्यानन्दैकात्मकेन स्वासाधारणेन अभिनिष्पद्यते इत्यनेन सङ्गच्छते | ननु एवमेवैष सम्प्रसादः इति वाक्ये निरवयवपरशिवोपासकानां ज्ञानिनामपि लिङ्गशरीरस्य शरीराद्बहिर्निर्गमात् कथं लिङ्गशरीरविलयपूर्वकत्वेन हृत्पुण्डरीकावच्छिन्नपरशिवब्रह्मप्राप्तिरित्याशङ्क्य तत्राह - || ३५३ || मुक्तः प्रतिज्ञानात् || २ || अस्माच्छरीरात्समुत्थाय इत्यत्र शरीरे वर्तमानोऽपि शरीराभिमाननिर्मुक्तशुद्धजीव उच्यते | कुतः || प्रतिज्ञानात् || स्वेन रूपेणाभिनिष्पद्यते इति उत्तरवाक्ये जीवस्य शिवतत्वप्राप्त्युपदेशेन जले जलमिव वह्नौ वह्निरिव शिवस्वरूपेण स्वरूपैक्यकथनात् निरवयवपरमाकाशपरञ्ज्योतिस्वरूपशिवतत्त्वोपासकानामिहैव दहरपुण्डरीके लिङ्गशरीरविलयपूर्वकत्वेन तत्प्राप्तिरुपदिश्यते | केचित्प्रपत्तेः वैकुण्ठपरमपदाख्यविष्णुलोकप्राप्तिहेतुत्वं तत्प्रपत्तेश्च पञ्चसंस्काराङ्गवत्वं तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः इति पञ्चसंस्कारः - सुदर्शनमहाज्वाल कोटिसूर्यसमप्रभ | अज्ञानान्धस्य मे देव विष्णोर्मार्गं प्रदर्शय || पाञ्चजन्य निजध्यानध्वस्तपातकसञ्चय | पाहि मां पापिनं घोरं संसारार्णवपातिनम् || इति मन्त्रं समुच्चार्य दहेत्सव्यं भुजं तथा | एतेनैव विधानेन शङ्खं चक्रं च धारयेत् ||
SK
इत्यादि च तान्त्रिकमन्त्रप्राधान्येन वदन्ति | तदनादरणीयम् - वेदबाह्यत्वात् | पञ्चसंस्काराणामपि पञ्चप्रयाजवत् आग्नेयादिपङ्भागवद्वा स्वप्रकरणे पाठाभावात् वेदाङ्गेषु कल्पसूत्रेषु वा सूत्रकारैरप्रतिपादनाच्च | किञ्च - वैष्णवधर्मप्रतिपादकेषु रामायण-भागवत-भारत- padmapurāṇahārītasmṛtyoḥ sarvajanāṅgīkārābhāvena viśvāsānarhatvāt pañcasaṃskāravidhiranādaraṇīyaḥ | śrutipathagalitānāṃ tantramārge praveśaḥ iti vaiyāsikasiddhāntāgamāt | uta vaiṣṇvamate'pi pañcasaṃskārāṇāmeva puruṣasaṃskārahetutve saṃskṛtasya puruṣasya paramapadaprāptirūpamokṣākhye sādhye viniyojakapramāṇābhāvāt rāvaṇena sabhāmadhye niṣkāsitasya vibhīṣaṇasya sadyo rāmacandraṃ prapadamānasya pañcasaṃskārāṇāṃ kalpanābhāvāt nāmāntarakaraṇasyānyasyāpi pramāṇavirodhena kalpayitumaśakyatvācca draupadyāśśatrubhirākrāntāyāḥ sadyaḥ kṛṣṇaṃ prapadamānāyāḥ pañcasaṃskārāṇāmabhāvācca tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī iti gītāvākyāt kṛṣṇasyāpi anyaviṣayapravṛttidarśanāt tatra ca teṣāṃ pañcasaṃskārāṇāmahetutvācca pravṛttiṃ vināpi gopikāprabhṛtīnāṃ dhyānamātrādeva viṣṇuprāpterbhāgavatapratipādanāt kāmāt gopyo bhayātkaṃso dveṣāccaityādayo nṛpāḥ | sambandhādvijayo rājan yūyaṃ bhaktyā vayaṃ prabhoḥ || iti anyatra ca - ye ye hatāścakradhareṇa rājan trailokyanāthena janārdanena | te te gatāstaṃ nilayaṃ narendrāḥ krodho'pi kṛṣṇasya pareṇa tulyaḥ || iti saṃskāraṃ vināpi mokṣapratipādanāt | nanu teṣāṃ pūrvajanmani pravṛttirasti sakṛtprapannasyāpyabhayaprāptyavagamavacanāt na virodhaḥ | taduktam - sakṛdeva prapannāya tavāsmīti ca yācate | abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama || iti cenna | prapannānāmapi daityādijanmaprāptau prapattivaiyarthyāt | taduktam - sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja | ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ ||
SK
इति पूर्वजन्मनि प्रपत्तिसन्देहेन प्रवृत्तौ प्रवृत्तिः कस्यापि न स्यात् | किञ्च - जय-विजयादीनां वैकुण्ठप्राप्तेः प्रपत्तिं विना दुर्लभत्वात् तादृशानामपि उनर्दैत्यजन्मप्राप्तौ सत्यामन्येषामपि प्रपन्नानां पुनस्संसारो न भविष्यतीत्यत्र का प्रत्याशा श्रद्धाभक्तिज्ञानयोगादवेति अर्चत प्रार्चत त्रियम्बकं यजामहे सर्वलिङ्गं स्थापयति पाणिमन्त्रं पवित्रम् इत्यादिना शिवभक्ति-पूजा-ध्यान-धारण-विधायकत्वश्रुतिवत् विष्णुभक्ति- nanu parañjyotirupasampadya iti vākye jyotiśśabdena ādityamaṇḍalamucyate | tasmānniravayavaparaśivajñānaniṣṭhānāṃ mūrtaśivopāsakānāmiva prabhākaramaṇḍaladvārā śvalokaprāptireva na tvatraiva liṅgaśarīravilayapūrvakavyāpakāmūrtaparaśivabrahmaprāptirna ghaṭata ityāśaṅkāyāmāha - || 354 || ātmā prakaraṇāt || 3 || jyotiśśabdenātra paramātmmaivocyate na tvādityamaṇḍalam | kutaḥ || prakaraṇāt || ya ātmā apahatapāpmā vijaro vimṛtyurviśoko vijighatso'pipāsassatyakāmassatyasaṃkalpaḥ iti hi prajāpativākyaprakramaḥ | idañca prakaraṇaṃ paramātmaviṣayamiti uttarāccedāvirbhūtasvarūpastvityatra pratipāditam | no cet anādipāśabaddhasya jīvasya apahatapāpmatvādikaṃ kathamupapadyate jñājñau dvāvajāvīśānīśau ityatra jīveśvarayora- nādisiddhasarvajñatva-kiñcijjñatva- नदीसमुद्रवत्परञ्ज्योतिरुपसम्पद्य आविर्भूतपरञ्ज्योतिर्मयपरशिवो भवति यथा नद्यः ब्रह्मविदाप्नोति परं इत्यादि श्रुतिशतेषु जीव-ब्रह्मणोर्भेदाभेदः स्पष्टमुपदिष्टः | अविभागाधिकरणम् || २ || अमूर्तपरशिवोपासकानां ब्रह्माऽभिन्नत्वस्थितिविचारः ननु - सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्यत्र मुक्तजीवस्य ब्रह्मणा सह सर्वकामावाप्तिदर्शनात् परंज्योतिरुपसम्पद्य इति वाक्ये शिवज्ञानिनां शिवसम्बन्ध एव विधीयते न तु शिवैक्यं इत्याकाङ्क्षायामधिकरणान्तरं दर्शयति - || ३५५ || अविभागेन दृष्टत्वात् || ४ ||
SK
नदीसमुद्रवन्मुक्तजीवः परशिवब्रह्मभिन्नाभिन्नत्वेन तिष्ठति न तु ब्रह्मसम्बन्धितया यदा ह्येवैष एतस्मिन् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति इत्यादिषु मुक्तदशायां जीवब्रह्मणोरभेदस्य दृष्टत्वात् - दर्शनादिति सूक्ष्मार्थः | परं ज्योतिरुपसम्पद्य तत्त्वमसि इत्यादिश्रुत्यर्थज्ञाननिष्ठानां शिवतत्त्वप्राप्तजीवानां कुसूलधान्य-पशुपिष्ट-स्वर्णरेणु- nadīsamudravadapṛthaksthitirveti saṃśayaḥ | yadā paśyaḥ paśyate rukmavarṇaṃ kartāramīśaṃ puruṣaṃ brahmayonim | tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyamupaiti || ityādiśrutiṣu - idaṃ jñānamupāśritya mama sādharmyamāgatāḥ | sarge'pi nopajāyante pralaye na vyathanti ca || anekajanmaśuddhānāṃ śrautasmārtānuvartinām | viraktānāṃ prabuddhānāṃ prasīdati maheśvaraḥ || prasanne sati mukto'bhūnmuktaḥ śivasamo bhavet || ityādismṛtiṣu ca muktānāṃ jīvānāṃ brahmaprāptyanantaramapi tilataṇḍulavat kusūladhānyavat pṛthagbhāvena sthiteḥ brahmavatsarvakāmāvāpteśca śravaṇāt muktajīvānāṃ brahmasādṛśyabhāvena sthitirniścīyate iti prāpte tatrocyate - || avibhāgeneti || śivatvaprāptānāṃ jīvānāṃ brahmābhinnatvena sthitirupadiśyate | kutaḥ dṛṣṭatvāt | hiraṇmayo'haṃ śivarūpamasmi tatvamasi sarvo vai rudraḥ sarvaṃ khalvidaṃ brahma ityādiśrutiṣu muktajīvasya brahmābhinnatvena dṛṣṭatvāt baddhāvasthāvanmuktāvasthāyāṃ jīvabrahmaṇorbhedo nāṅgīkaraṇīyaḥ | nirañjanaḥ paramaṃ sāmyamupaiti so'śnute sarvān kāmān ityādiśrutīnāṃ jīvanmuktadaśāyāṃ daharādyupāsanamahimnā svahṛdayakarṇikāntarabhāsamānaparaṃjyotirliṅgānubhavadaśāviśeṣabodhakatvaṃ iti veditavyam | tatpūrve satyaṃ jñānamanantaṃ brahma yo veda nihitaṃ guhāyāṃ parame vyoman iti daharākāśe paramātmavedanopadeśāt | paśantavṛttikaṃ citraṃ paramānandadīpakam | asaṃprajñātanāmāyaṃ samādhiryogināṃ priyaḥ ||
SK
तत्समाधौ महायोगी शिवं सत्यादिलक्षणम् | हृदाकाशे परं लब्ध्वा तद्रूपेणानुमोदते || इत्यादिना स्मृत्यागमेष्वपि शिवानुभवो बहुधा प्रपञ्चितः | तस्मात् समाधिकाले प्रारब्धावसानविदेहकैवल्यमुक्तौ च ब्रह्माविभागेन स्थितिमत्वमविरुद्धम् | ननु नमो हिरण्यबाहवे हिरण्यवर्णाय इत्यादिषु ब्रह्मणः सावयत्वं अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः इत्यादिषु निर्देहत्वनिर्विशेषत्वादिकस्य साक्षी चेतो केवलो निर्गुणश्च निष्कलं निष्क्रियं शान्तं इत्यादिषु निर्गुणत्वस्य आनन्दमयो ह्यानन्दभुक् सत्यकामस्सत्यसङ्कल्पः इत्यादिषु सगुणत्वस्य च दृष्टत्वात् सर्वेषां वेदान्तानां परस्परविरोधवत्वमनिवार्यम् | सर्वश्रुतिसमन्वयस्थापनार्थं ब्रह्मद्वयस्वीकारे - एकमेवाद्वितीयं ब्रह्म एक एव रुद्रो न द्वितीयाय तस्थे इत्यादिश्रुतिविरोधः | किञ्च - तत्त्वमसि इत्यादिश्रुतीनां जहदजहल्लक्षणया शिवजीवोपाधिभेदकल्पकमायाविद्योपाधित्यागेन बिम्बप्रतिबिम्बवदेकत्वं घटपटोपाधित्यागेनाकाशैकत्ववत् शिवजीवैक्यमिति केचित् - ब्रह्मणः शरीरेन्द्रियाद्यभावे जगज्जन्मादिकारणत्वायोगात् निष्प्रयोजकेन प्रयोजनाभावात् निर्विशेषवस्तुसत्वे मानाभावाच्च मुक्तदशायां तदुपासकः तद्वद्दिव्यमङ्गलविग्रहस्सन् शेषत्वकैङ्कर्यपारतन्त्र्यादिभावेन स्थित इत्यादिनानारूपेण तत्पूर्वाचार्यमतानुसारिणो वदन्ति | तस्माद्वेदान्तपूर्वाचार्यमतेष्वव्यवस्था कथं वार्यत इत्याशङ्कया श्रुत्यैकदेशप्रामाण्य-विशिष्टाचार्यान्तरमतं सर्वश्रुतिप्रामाण्यस्वमतञ्च भगवान् वादरायणो दर्शयति - || ३५६ || ब्राह्मेण जैमिनिरुपन्यासादिभ्यः || ५ || ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः | ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽजायत ||
SK
इत्यादौ शिवस्य परब्रह्मणः मुखाद्यवयवेषु ब्राह्मणाद्युत्पत्यवगमात् निर्देहस्य निरिन्द्रियस्य जगत्कल्पनायोगाच्च - अप्राणोह्यमाश्शुभ्रः इत्यादिश्रुतिभिः अप्राकृतासदृशशरीरेन्द्रियमनःप्राणसद्भावो विधीयत इति जैमिन्याचार्यो मन्यते | कुतः || उपन्यासादिभ्यः || य आत्माऽपहतपाप्मा इत्यादिना प्रजापतिवाक्ये मुक्तानां परब्रह्मवत्सत्यसङ्कल्पादिधर्मप्रतिपादनेन शरीरवत्वं गम्यते | जक्षन् क्रीडन् रममाणः इत्यादिश्रुतिषु मुक्तानां ब्रह्मभावमापन्नानां व्यवहारा दृश्यन्ते | अत एभ्यः उपन्यासादिभ्यः ब्रह्मशरीरवत्ववादः एव युक्तः इति जैमिन्याचार्यमतम् | एवं सावयवमात्रब्रह्मवादिमतमुपन्यस्य निरवयवनिष्क्रियनिर्विशेषब्रह्मवादिमतमाह - || ३५७ || चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः || ६ || सदेव सौम्येदमग्र आसीत् एकमेवाद्वितीयं ब्रह्म आत्मा वा इदमग्र आसीत् ब्रह्म वा इदमग्र आसीत् सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिषु ब्रह्मातिरिक्तवस्तुनिषेधस्य ब्रह्मणश्चैतन्यमात्रत्वस्य चोपदेशात् चैतन्यरूपस्य जडप्रपञ्चकारणत्वायोगात् चिति तन्मात्रेण चैतन्यमात्रस्वरूपत्वेन कालत्रयेषु ब्रह्मैकमेव तिष्ठतीति औडुलोम्याचार्यो मन्यते | कुतः || तदात्मकत्वात् || अदृश्यमव्यवहार्यमग्र- śāntaṃ śivamadvaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ iti yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādam nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ ityādiśrutiṣu śivasya parabrahmaṇaḥ śarīrendriyādinirākaraṇapūrvakacaitanyamātrātmakattvopadeśāt paramātmasvarūpasya nityaniravayātmakatvameva yuktam | jīveśvarādiprapañcaḥ rajjusarpavattatra bhrāntyā prasakta eveti auḍulomimatam | evaṃ śrutyaikadeśaprāmāṇyasāvayavavādimataṃ niravayavādimatañca nirūpya sarvavedāntasārabhūtaṃ svamatamapyāha - || 358 || evamapyupanyāsātpūrvabhāvādavirodhaṃ vādarāyaṇaḥ || 7 || dvai vāva brahmaṇo rūpe mūrtañcāmūrtameva ca |
SK
एवमुपन्यासात् - तदादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् || इत्यादिश्रुतिशतेषु शिवस्य परब्रह्मणः पवनादिवन्मूर्ताऽमूर्तोपन्यासात् - प्रतिपादनात् एकस्य ब्रह्मणः मूर्ताऽमूर्तात्मकत्वमविरुद्धमिति सर्ववेदान्तसिद्धान्तनिपुणो वादरायणाचार्यो मन्यते कुतः || पूर्वभावात् || भावात् - विद्यमानत्वात् उभयविधिबलादुभवसिद्धिः मूर्तामूर्तोभयविधायकश्रुतिबलात् उभयमङ्गीकर्तव्यम् | ब्राह्मणोस्य मुखमासीत् इत्यादिमूर्तब्रह्मश्रुतिमात्रप्रमाणत्वे च आकाशवत्सर्वगतश्च नित्यः अन्तः पूर्णो बहिः पूर्णः ऊर्णकुम्भ इवार्णवे | अन्तःश्शून्यो बहिश्शून्यः शून्यकुम्भ इवाम्बरे || खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी | यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् || इत्यादिना व्यापकत्वविहायक-बहुश्रुतिविरोधात् सावयवस्य च घटादिवत्परिच्छिन्नत्वात् तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इत्यादिश्रुतिनिर्दिष्टव्यापकामूर्ताकाशादिकारणत्वं कथमुपपद्यते उत - सर्वान्तर्यामित्वमप्यसङ्गतम् जगदधिष्ठानत्वञ्च नोपपन्नम् | सत्यं ज्ञानमनन्तं ब्रह्म स यथा सैन्धवघनोऽनन्तरो बाह्यकृत्स्नो रसघन एव | एवं वारेऽयमात्मानन्तरो बाह्यकृत्स्नः प्रज्ञानघन एव अप्राणो ह्यमाश्शुभ्रः अशरीरं वा वसन्तं न स्पृशत् प्रियाप्रिये इत्यादिश्रुत्यनुसारेण शिवस्य परब्रह्मणः निरवयव-निर्विशेष-चिन्मात्रत्वाङ्गीकारे सोऽकामयत बहुस्यां प्रजायेय तत्सृष्ट्वा तदेवानुप्राविशत् यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति इत्यादिबहुश्रुतिविरोधश्च दुर्निवारः | तस्मात्तस्य मूर्तामूर्तोभयत्वं युक्तन् | नो चेत् मूर्तपरशिवोपासनफलविधायकानां जक्षन् क्रीडन् रममाणः इत्यादिवाक्यानाममूर्तपरशिवोपासनफलप्रदर्शकानां - आत्मानं चेद्विजानीयादयमस्मीति पूरुषः | किमिच्छन् कस्य कामाय शरीरमनुसञ्चरेत् ||
SK
यत्र त्वस्य सर्वमात्म्यैवाभूत्केन कं पश्येत् केन किं वदेत् इत्यादिवाक्यानाञ्च परस्परविरोधः प्रसज्येत | मूर्तब्रह्मणः स्वरूपस्यानित्यत्वव्यपदेशे स्थिरेभिरङ्गैः पुरुरूप उग्र इत्यादिमूर्तब्रह्मशरीरस्थिरत्वव्यवस्थापकश्रुतिविरोधः प्रसज्यते | अपाणिपादोऽयमचिन्त्यशक्तिः | पश्याम्यचक्षुस्स शृणोम्यकर्णः इत्यादौ शरीरेन्द्रियनिपेक्षतया तस्य सर्वकर्तृत्वावगमात् स्वतन्त्रस्य तस्य सर्वमुपपन्नमिति सिद्धम् | सङ्कल्पाधिकरणम् || ३ || मूर्तपरशिवब्रह्मोपासकानां निरतिशयानन्दवैभवप्रकाशः एवममूरपरशिवब्रह्मोपासकानां तदभेदफलं प्रसाध्य मूर्तपरशिवब्रह्मोपासकानां फलं किमित्याकाङ्क्षायामधिकरणान्तरेण तत्फलं दर्शयति - || ३५९ || संकल्पादेव तच्छ्रुतेः || ८ || पूर्वत्र व्यापकामूर्तपरशिवब्रह्मध्यानज्ञाननिष्ठानां सर्वकामनिर्मुक्ततया तदात्मकत्वं तस्य मूर्तामूर्तत्वञ्च प्रसाध्य इदानीं मूर्तपरशिवब्रह्मोपासकानां निरतिशयानन्दवैभवं प्रपञ्चयति | उपासकानां सङ्कल्पादेव स्रक्चन्दनवनितादिसर्वविषयप्राप्तिर्भवति | कुतः || तच्छ्रुतेः || सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति इति श्रुतौ मूर्तपरशिवोपासकानां देवपितृगन्धर्वादयो भृत्यवत्परिचारका भवन्तीति सूक्ष्मार्थः | स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा युवैर्वा ज्ञातिभिर्वा इति श्रुतौ मूर्तब्रह्मोपासकस्य सत्यसङ्कल्पत्वप्रयुक्तव्यवहाराः श्रूयन्ते | अत्र मुक्तजीवस्य देहेन्द्रियाणि सन्ति न सन्ति वा ऊत सङ्कल्पादीनि सन्ति वा तस्य सङ्कलपरिग्रहः स्वातन्त्र्येण सम्भवति उत परमेश्वरसङ्कल्पादेव सम्भवति इति सन्दिह्यते | आत्मानञ्चेद्विजानीयादयमस्मीति पूरुषः | किमिच्छन् कस्य कामाय शरीरमनुसञ्चरेत् || न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति | अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः ||
SK
इति शरीरसम्बन्धे दुःखस्य अवर्जनीयत्वमभिधाय अस्माच्छरीरात्समुत्थाय परञ्ज्योति रुपसम्पद्य इति मुक्तस्याशरीरत्वं ह्याह श्रुतिः | तस्मात् सङ्कल्पवत्वं न सम्भवति | किञ्च - संकल्पसत्वे लोके राजादीनां सत्यसंकल्पादेव व्यवह्रियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनादस्यापि तत्सापेक्षा इति प्राप्ते उच्यते - saṃṅkalpādevāsya pitaraḥ samuttiṣṭhanti iti hi saṅkalpādeva pitrādīnāṃ samutthānaṃ śrūyate | na ca prayatnāntarasya vyapekṣatvābhidhāyi śrutyantaraṃ śrūyate yenāsya svasaṅkalpādevetyavadhāraṇasya vijñānaghana evetivadvyavasthāpanaṃ kriyate | sa ekadhā bhavati tridhā bhavati pañcadhā saptadhā ityādiśrutau ātmana ekasyācchedyasyānekadhā bhāvavyapadeśāt tridhā bhāvādayaḥ śarīrasambandhinaḥ ityavagamyante | śarīrābhāvavacanasya niravayavabrahmopāsakaviṣayatvam | kiñca - aśarīratvavacanaṃ tu karmanimittaśarīrābhāvaparam | tadeva hi śarīraṃ priyāpriyahetuḥ | kailāsapadaprāptabhaktaśarīraṃ aprākṛtajyotirmayatvena parameśvaraśarīravat na duḥkhahetutiri siddham | nanu mahākailāsapadaprāptānāṃ bhaktānāṃ parameśvaraśeṣatvapāratantryakaiṅkaryādividhīnāṃ sattvena rājabhṛtyanyāyavat bhayahetutvamasti | tasmāt ānandaṃ brahmaṇo vidvān na bibheti kutaśca na ityādiśrutivirodhaprasaṅgaḥ syādityāśaṅkyāha - || 360 || ata eva cānanyādhipatiḥ || 9 ||
SK
यतो मुक्तः सत्यसङ्कल्पः अत एवानन्याधिपतिश्च भवति | अन्याधिपतित्वं हि विधिनिषेधयोग्यत्वम् | विधिनिषेधयोग्यत्वे हि प्रतिहतसत्यसङ्कल्पत्वं भवेत् | अतः सत्य सङ्कल्पत्वश्रुत्यैव अनन्याधिपतित्वञ्च सिद्धम् | अत एव स स्वराट् भवतीत्युक्तम् | अत एव सर्वशक्तिविशिष्टशिवोपासनादेव तदुपासकः सत्यसङ्कल्पाधीनसर्वकामावाप्तिसत्त्वादन्याधिपतिः | शिव एको ध्येयः इति श्रुतिश्रवणात् शिवेतरो न विद्यतेऽन्यः अधिपतिः यस्य सोऽनन्याधिपतिः | अन्यः नियाम्यो भवति | तस्मात् शिववत् स्वतन्त्र एव | तदुक्तं स्कान्दे - शिवैकनिष्ठाप्रथितक्षमाणां शिवेतरध्याननिषेधकानाम् | तृणीकृतब्रह्मपुरन्दराणां किं दुष्कृतं शङ्करकिङ्कराणाम् || इति | अनन्याधिपतित्वव्यपदेशेन मुक्तस्य स्वातन्त्र्यमुपदिष्टम् | तेन न कदाचिदपि कर्माधीनत्वं सूचितम् | कर्मणां विनष्टस्वभावात् नान्यः परमेश्वरो नियामकः जन्ममरणप्रवाहलब्धशिवाज्ञारूपविधिनिषेधशास्त्रपथातीतत्वात् | कुतः पशुत्वव्यावृत्तेः | अनाद्यज्ञानवासनाबद्धेषणात्रयदोषविशिष्टानां शिवाज्ञारूपकर्माधीनत्वं युक्तम् | नित्यनिरतिशयमङ्गलाकारशिवसारूप्यधारिषु शिववत्सर्वज्ञत्वादीनां सत्त्वेन जरामरणशोकभयविलक्षणत्वेन निरतिशयानन्दानुभवैकस्यात्मारामत्वेन च स्वातन्त्र्यमविरोधम् | ननु यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः | अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते || बद्धो हि वापनाबद्धः मोक्षः स्याद्वासनाक्षयः | वासनातानवं ब्रह्मन मोक्ष इत्याभिधीयते || न मोक्षो नभसः पृष्ठे न पाताले न भूतये | सर्वाशासङ्क्षये चेतःक्षयो मोक्ष इतीर्यते || इत्यादिश्रुतिषु मुक्तस्य सर्वकामनिवृत्यवगमात् | मुक्त्यनुभवश्रुतौ - किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् | यन्मया पूरितं विश्वं महत्कल्पाम्बुना यथा ||
SK
इति देशान्तरनिषेधादिकं तस्य निर्दिश्यते | तस्मात् स तत्र पर्येति जक्षन् क्रीडन् रममाणस्त्रीभिर्वा ज्ञातिभिर्वेति इत्यादिश्रुतिनिर्दिष्टमुक्तस्य व्यवहारवत्वं कथमुपपद्यते | वादरेः केवलाद्वैतमतोपन्यासः किञ्च - नान्यत्किञ्चन मिषत् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् अतोऽन्यदार्तं न तु द्वितीयमस्ति इत्यादिषु ब्रह्मेतरवस्तुनिरासो दृश्यते | तथान्यत्र य आत्मानि तिष्ठन्नात्मनोऽन्तरोऽयमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः अन्तः प्रविष्टश्शास्ता जनानां द्वासुपर्णा ज्ञाऽज्ञौ द्वावजौ इत्यादिभिः श्रुतिभिर्जीवब्रह्मणोर्भेदोऽवगम्यते तत्त्वमस्यादिवाक्येषु अभेदावगमेन वेदान्तानां निश्चयार्थकत्वायोगात् अव्यवस्थाप्रसङ्गेन ब्रह्मजिज्ञासाशास्त्रमेवायुक्तमित्याशङ्कायां मतत्रयं दर्शयति - || ३६१ || अभावं बादरिराह ह्येवम् || १० || एकमेवाद्वितीयं ब्रह्म यत्र नान्यत्पश्यति नान्यत् शृणोति नान्यद्वैजानाति स भूमा नेह नानास्ति किञ्चन इत्यादावेवं कालत्रयेषु भेदनिषेधावगमात् मध्ये रज्जुसर्पवत् जगदवभासमानत्वेऽपि जगज्जीवेश्वरादिकस्य सर्वस्य अपारमार्थिकत्वेन शशशृङ्गादिवदभावं मिथ्यात्वमेव बादरिराचार्यो मन्यते | तस्मात् शिष्यबोधार्थं अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति न्यायानुसरणेन श्रुतियुक्त्यनुभवमार्गेण जगत्कल्पनादिकस्य उपदेशेऽपि बन्ध्यापुत्रराज्यविभववर्णनवत् मिथ्यात्वमेव निश्चीयत इति वादरेर्मतम् | जैमिनेः जगत्सत्यत्व-जीवेश्वरपरस्परभेदवत्वयोः उपन्यासः एवं श्रुत्याभासप्राधान्य-श्रुत्येकदेशप्रामाण्य-जगन्मिथ्यात्मक- darśayati - || 362 || bhāvaṃ jaiminirvikalpāmananāt || 11 ||
SK
ज्योतिष्तोमेन स्वर्गकामो यजेत भूतिकामो वायव्यं श्वेतमालभेत पापेनान्धो मूको बधिरो श्वानो भवति पुण्येन कुलवान् धनवान् भोगवान् भवति इत्यादिश्रुतिषु भगवदाज्ञारूपपुण्यकर्मनिराकरणपूर्वक-ब्रह्महत्या सुरापानादिदुरितकर्मानुष्ठानेन नरकादिकस्य भगवदाज्ञारूपपुण्यकर्मानुष्ठानेन स्वर्गादिलोकसुखानुभवस्य च श्रुतावसन्दिग्धत्वेन दर्शनात् यज्ञेन दानेन तपसा नाऽशकेन इत्यादिश्रुतिषु निष्कामानुष्ठानेन परमेश्वरार्पितज्योतिष्टोमादीनां जीवान्तःकरणसिद्धपापपङ्कनिवृत्तिद्द्वारा ब्रह्मज्ञानसाधकत्वावगमाच्च जीवेश्वरनिगमागमदिप्रपञ्चस्य भावं सत्यत्वं जैमिनिराचार्यो मन्यते कुतः || विकल्पामननात् || विविधः कल्पो विकल्पः आसमन्तान्मननं विचारः आमननं विकल्पस्यामननं तस्मात् विकल्पामननात् - जगतो मिथ्यात्वे बोद्धादिवत् ज्योतिष्टोमादिना स्वर्गादिहलभोगवत्वं ब्रह्महत्यादिना निरवयवत्वञ्च न स्यात् | अतः कृतनाशाकृताभ्यागमदोषः सम्भवेत् | तथा चेत् स एकधा भवति त्रिधा पञ्चधा सप्तधा इत्यादिश्रुतिविरुद्धप्रसङ्गात् सर्वदा जीवेश्वरादिप्रपञ्चस्य नित्यत्वं जीवेश्वरयोः परस्परभेदवत्वञ्च विदुषामङ्गीकर्तव्यमिति भेदवादिनो जैमिनेर्मतम् | वादरायणानुमत- evaṃ śrutyekadeśaprāmāṇyamatadvaye parasparāprāmāṇyasya prasaktatvena tadubhayamatanirākaraṇārthaṃ sarvavedavedāntāgamasiddhadvaitādvaitātmakasvamatamasaṅkocenāha - || 363 || dvādaśāhavadubhayavidhaṃ vādārāyaṇo'taḥ || 12 || yataḥ kāraṇāt śrutyekadeśabhūtajñānamātraprādhānyakevalādvaitamatasya karmabhaktiyogamātrasādhakadvaitamatasya ca parasparavirodhaḥ ato hetoḥ sarvavedavedāntamukhyābhipretaṃ yathā nadyaḥ ityādiśrutisiddhaṃ jñānakarmobhayātmakaṃ ubhayavidhaṃ dvaitādvaitamataṃ vādarāyaṇo manyate |
SK
उभयविधं नाम संसारदशायां जीवब्रह्मणोरुपास्योपासकयोः पारमार्थिकसत्यत्वं मोक्षदशायां नदीसमुद्रवत् भ्रमरकीटन्यायवत् स्वाभाविकजीवभावनिवृत्तिपूर्वकव्यापकाखण्ड- jīvasyeti nirṇīyate | dvādaśāhavat - yathā ṛddhikāmā upeyuḥ dvādaśāhena prajākāmaṃ yājayet ityupaiti - yajati - codanābhyāṃ saṅkalpabhedena satratvamahīnatvañca prayogabhedena pramāṇadvayabalādaṅgīkriyate tathā dvāsuparṇā ityādimantreṣu jīvabrahmaṇoḥ parasparavailakṣaṇyasya tattvamasyādivākyeṣu tayorekatvasya ca vyavasthāpanāt jīvabrahmaṇoḥ pāramārthikabhedā'bhedo hyaṅgīkartavyaḥ | śrutissatyārthavādinī iti bahuśrutipurāṇapūrvācāryavākyeṣu darśanāt śrutisaṅkoce mānābhāvāt vaidiketaratvaprasaṅgācca pūrvatra adhikantu bhedanirdeśāt ityādau jīvabrahmaṇoḥ parasparabhedavyavasthāpanena dvaitasya satyatvam | tadananyatvaṃ ityatra tathā advaitasya satyatvañca sūcitam | lokavattu līlākaivalyam ityatra parameśvarasya līlāvyapadeśena bhedatvaṃ dvaitaśrutīnāṃ sarvāsāṃ tatkālaparatvaṃ cābhihitam | kaivalyapadena tasya kevalāvasthāvyapadeśāt neha nānāsti kiñcana ityādyabhedaśrutīnāṃ tatpariśeṣāvasthāparatvamiti spaṣṭamupadiṣṭam | vyāpakasya sarvajñasya śivasya parabrahmaṇaḥ mūrtatvena kiṃ kāryamiti cet bhaktataraṇalīlaiva prayojanam | tasmāt śiva eva ghṛtakāṭhiṇyavallīlāmaṅgalavigrahassan svatattvāvabhāsakavedarāśisutpādya tadanantaraṃ hiraṇyagarbhadvārā sarvalokeṣu vedavedārthapracāraṃ kṛtavān | ato mumukṣuḥ vedamārgeṇa mūrtāmūrtaparaśivatattvamupāsya sālokyādidehavidehakalyāṇakaivalyamuktiṃ prāpnoti no cet śivatattvajñānaṃ kena labhyate ato na sandehakalaṅkaḥ | sāṃkhyayogau pṛthagvālāḥ pravadanti na paṇḍitāḥ iti dvaitādvaitamatameva svamatamiti kṛṣṇenāpi darśitam | tasmāt pakṣaikadeśamatamasamañjasam | sandhyādhikaraṇam || 4 || bhedābhedadṛṣṭānntena śivasya jagatkāraṇatvapratipādanam
SK
ननु भेदाभेदमतस्य सर्वश्रुतिसमन्वयवत्वेऽपि तमःप्रकाशवत् भेदाभेदयोः परस्परविरुद्धत्वेन युक्तिबाधः सम्भवतीत्याशङ्कायां भेदाभेददृष्टान्तेन जगत्कारणत्वं अधिकरणान्तरेण दर्शयति - || ३६४ || तस्य भावे सन्ध्यावदुपपत्तेः || १३ || यथा समन्वयाधिकरणे सर्वेषां वेदान्तानां ब्रह्मप्रतिपादकत्वं ब्रह्मज्ञानविधायकत्वञ्चोपदिष्टं तद्वत् द्वादशाहयज्ञदृष्टान्तेन उभयविधिबलादुभयसिद्धिः इति न्यायवत् सर्वेषां वेदान्तानां श्रुतिस्सत्यार्थवादिनी इति न्यायमनुसृत्य जीवब्रह्मणोर्भेदाभेदवत्वमेव स्वमतमिति साधितम् | एतेन सावयवब्रह्मोपासनस्य विदुषां सर्वकामावाप्तिद्वारा निरवयवब्रह्मप्रापकत्वं सूचितम् | प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः शिवोऽद्वैतः एक एव रुद्रो एकमेवाद्वितीयं इत्यादिश्रुतिष्वद्वितीयस्य परब्रह्मणः सत्यसङ्कल्पत्वादिसत्त्वेऽपि एतत्तदो भवति तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इत्यादिश्रुतिषु तस्य भावे गुणत्रयात्मकाऽचिच्छक्त्यभिधानप्रधानभावकाले लीलाया भूतभौतिकजगज्जालस्रष्ट्टत्वं तच्छक्तिसंङ्कोचकाले स्वयं सत्यसङ्कल्पेनापि जगज्जालं न सृजति | तस्मात् अद्वितीय-सद्वितीय-ब्रह्मप्रधान-समावेशेन जगत्सृष्टिरविरुद्धा | कुतः सन्ध्यावदुपपत्तेः | प्रबोधसुप्तिसाम्यावस्थारूपस्वप्नावस्थायाभिव उपपत्तेः - जगत्कारणत्वोपपत्तेः | यथा स्वप्नो अथ रथान् रथयोगान् पथः सृजते इत्यारभ्य अथ वेशान्तान् पुष्करिण्यः सम्प्रसृजते स हि कर्ता इति एषु सुप्तेषु जागर्ति कामं कामं निर्भिमाणः | तदेव शुक्लं तद्ब्रह्म तदेवामृतमुच्यते | तस्मिन् लोकाः श्रितास्सर्वे तदु नान्येति कश्चन ||
SK
इति श्रुतौ च जीवादृष्टसहायेन स्वप्नेऽपि परमेश्वरस्य रथादिसृष्टिरुपदिश्यते | अतः कालभेदेन यथा न विरुद्धः तद्वदेककालेऽपि भेदाभेदयोरविरुद्धत्वमुपदिष्टम् | एतदुपदेशेन मुक्तस्यापि प्रारब्धवासनावासितप्रकृतिरेवास्ति | यथा शिवलोके निरतिशयानन्दानुभवत्वं यदा सर्ववासनानिर्मुक्तिस्तदा केवलशिवैक्यकैवल्यानुभवो भवतीति दर्शितम् | अत्र अद्वितीयस्य शिवस्य परब्रह्मणः सच्चिदानन्दात्मकस्य जडस्य सद्वितीयस्य प्रधानस्य च जगत्सृष्टौ समावेशस्सम्भवति न वेति सन्दिह्यते | प्रधानशिवयोश्चेतनाचेतनयोस्तमःप्रकाशवत् परस्परविरुद्धस्वभावत्वेनाऽद्वितीयस्य शिवस्य सद्वितीयप्रधानसापेक्षा नास्त्येव | मुक्तस्याप्येवमुपलक्षणम् | एवं सापेक्षत्वे सत्यकामस्सत्यसङ्कल्पः इत्यादिश्रुतिसिद्धसत्यकामत्वादिप्राप्तस्वातन्त्र्यभङ्गप्रसङ्गः | अपाणिपादो जवनो गृहीता इत्यादिश्रुतिषु स्वतन्त्रस्य तस्य साधनान्तरनिरपेक्षतया स्वमहिमातिशयेन सर्वकर्तृत्वं दर्शितम् | अतश्शिवस्य तदुपासकस्य मुक्तस्य च कदाचित् प्रकृतिसापेक्षता सन्निहितैव इति प्राप्ते तत्रोच्यते - अद्वितीय-सद्वितीययोः शिवप्रधानयोः न तमःप्रकाशयोरिव परस्परविरोधः तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इत्यत्र तस्मात् - प्रधानात् एतस्मात् - samuccayārthakatvam | māyāntu prakṛtiṃ vindyānmāyinaṃ tu maheśvaram | tasyāvayavabhūthotthaṃ vyāptaṃ sarvamidaṃ jagat ||
SK
पराऽस्य शक्तिर्विविधैव श्रूयते स्याभाविकी ज्ञानबलक्रिया च इत्यादिश्रुतिषु मायायाः शिवाधीनत्वस्य तस्या एव जगत्कारणत्वस्य तस्याः शक्तेः स्वाभाविकत्वस्योपदेशात् तस्य भावे शिवाधीनप्रधानविकाससद्भावे सन्ध्यावदित्यत्र सन्ध्याशब्देन तनुत्रयमध्यावगतलिङ्गशरीरं स्वप्नावस्था च व्यवह्रियते | यथा मूढमुमुक्षुदशा हि सर्ववेदान्तविचारो वासनाहेतुः संशयस्तु पूर्वपक्षसिद्धान्तयोर्बीजं तथा लिङ्गशरीरमेव स्थूलशरीरव्यापारस्य कारणशरीराविद्याविच्छेदकशिवज्ञानस्य च हेतुः | तस्मात् तद्दृष्टान्तेन शिवस्य परब्रह्मणो जगत्सृष्टिरभिहिता | किञ्च - जीवन्मुक्तदशाविशेषसमाधिकाले बाह्येन्द्रियादिनिरपेक्षया केवलबुध्या शिवानन्दः शिवयोगिभिरनुभूयते | आत्मक्रीड आत्मरतिरात्मानन्दं स्वराड्भवति | सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति एतेन कारणकैलासप्राप्तिसारूप्यधारणमप्युपलक्षणम् | एत्तदो भवति | आकाशशरीरं ब्रह्म | सत्यात्मप्राणारामं मन आनन्दम् | महाकैलासवाससदाशिवस्यापि बाह्येन्द्रियनिरपेक्षतया परमानन्दानुभवः मन आनन्दं इत्यत्र मनसि आनन्दो यस्य सः मन आनन्दः प्राणेषु आसमन्तात् रमत इति व्युत्पत्या निश्चीयते | शान्तिसमृद्धममृतम् इत्यादिना तच्छरीरस्य सत्यत्वं शान्तिकरत्वं अमृतत्वं चोपदिष्टम् | अत्रापि तदुपासकस्याप्येवं लक्षणमुपदिष्टम् | अस्मिन्नर्थे हेत्वन्तरमाह - || ३६५ || भावे जाग्रद्वत् || १४ || भावे यथा स्थूलशरीरस्य सूक्ष्मशरीरवद्भावकाले पुण्यापुण्यहेतुकजाग्रदवस्था जायते तद्वच्छिवस्य परब्रह्मणः स्वशक्तिप्रकृतिविकाससद्भावे जगत्सृष्टि-स्थिति-लय-तिरोधान- etena pāśamuktasyāpi ihalokaparalokeṣu liṅgaśarīrasadbhāve tattallokocitaphalānubhūtistadabhāve sarvakarmāvāptirna sambhavati iti phalārthaḥ sūcitaḥ | phalārthaṃ paramapuruṣo
SK
महादेवोऽपि व्याघ्रासुर-गजासुर-त्रिपुरासुरादिसंहारं विषापहरण- yadā sarve pramucyante kāmā ye'sya hṛdi sthitāḥ | atra brahma samaśnute ityādivākyānāṃ niravayavavyāpakaśivatattvaniṣṭhāgariṣṭhadṛḍhavairāgyayuktavidvadviṣayakatvamiti veditavyam | parameśvaravat muktasyāpi nānālokanirmātṛtva- ननु मुक्तश्शिवसमो भवेत् इति | सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्यादौ मूर्तशिवोपासकस्य शिवसाम्यस्य समानभोगस्योपदेशेऽपि महेश्वरवदेककाले युगपदनेकशरीरेषु देशेषु च गमनं न सम्भवति आगन्तुकशिवशरीरसद्भावात् इत्याशङ्कायामाह - || ३६६ || प्रदीपवदावेशस्तथा हि दर्शयति || १५ || यथा प्रदीपस्यैकस्मिन् देशो वर्तमानस्य स्वप्रभया देशान्तरावेशस्तथा आत्मनोप्येकदेशस्थितस्यैव स्वभावरूपेण चैतन्येन सर्वशरीरावेशो नानुपपन्नः यथा चैकस्मिन्नपि देहे हृदयाद्देकदेशवर्तिनोऽपि चैतन्यव्याप्त्या सर्वस्मिन् देहे आत्माभिमानः तद्वत् | इयानत्र विशेषः - अमुक्तस्य कर्मणा सङ्कुचितज्ञानस्य देहान्तरेष्वात्मानुगुणा - व्याप्तिर्न सम्भवति मुक्तस्य त्वसङ्कुचितज्ञानस्य यथासङ्कल्पमात्माभिमानानुगुणा व्याप्तिः इदमिति ग्रहणानुगुणा च अनुपपत्तिः | तथा हि दर्शयति - बालाग्रशतभागस्य शतधा कल्पितस्य च | भागो जीवस्स विज्ञेयः स चानन्त्याय कल्पते || इति | अमुक्तस्य कर्म नियामकम् मुक्तस्य तु परमेश्वरवत् स्वेच्छया ब्रह्मलोकशरीरादिनिर्माणकर्तृत्वं अनेकशरीरेषु युगपदेव प्रवेशश्च सम्भवति | स एकधा भवति त्रिधा भवति सहस्रधा भवति इत्यादिश्रुतिषु परमेश्वरोपासकानां तदुपासनमहिम्ना सङ्कल्पमात्रेणैवानेकशरीरनिर्माणत्वदर्शनात् जीवाणुत्वादिविधायकशास्त्रं बद्धजीवविषयमिति निश्चीयते |
SK
ननु मुक्तस्य संसारिवत् शरीरेन्द्रियादिसिद्धेः प्रपञ्चदर्शनस्य च व्यपदेशे बद्धमुक्तयोर्न वैषम्यमिति चेन्न मुक्तस्यात्मपुरुषार्थरूपेण प्रपञ्चदर्शनाभावात् मुक्तस्य ब्रह्मकार्यरूपस्य प्रपञ्चस्य ब्रह्मत्वेन भासमानत्वाच्च | यत्र नान्यत्पश्यति नान्यत् शृणोति नान्यद्विजानाति स भूमा इत्यादिश्रुतौ मुक्तानुभव उपदिष्टः | किञ्च - एतत्तदो भवति आकाशशरीरं ब्रह्म शान्तिसमृद्धममृतम् इति पूर्वत्र आप्नोति स्वाराज्यं आप्नोति मनसस्पतिं इति स्वाराज्यसुखैकरसं शिवस्य परब्रह्मणः पदं मनसम्पतिं ज्ञानशक्त्याऽधिष्ठातृभूतमाप्नोति योगीत्युक्तम् | तदा स किं विशिष्ट इत्याकाङ्क्षायां वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः इति वागादीनां स्वेच्छाधीनत्वे तदाधिपत्यमुक्तम् | एवंविधस्य महाकैलासाभिधानशिवपदारूढस्य स्वेच्छाधीनविशुद्धवागादिकरणस्य ततः तत्पदप्राप्त्यनन्तरमेतद्विश्वजालं भवति | किं भवति आकाशशरीरं ब्रह्मैव | परप्रकृतिरूपपरमसत्ताप्रकाशानन्दसमरसा परमशक्तिर्हि परब्रह्मशरीरतया परमाकाश उच्यते | या मुक्तानां शिवस्य च साक्षादर्थक्रियाहेतुः सा परम्परया तद्भिन्नानम् | तथा हि - को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् | एष ह्येवानन्द याति रसो वै सः रसं ह्येवायं लब्ध्वाऽनन्दि भवति इति सर्वानुभवविषयत्वमस्याः श्रूयते | तदा च स एको मानुष आनन्दः इत्यारभ्य स एको ब्रह्मण आनन्दः इति ब्रह्मपर्यन्तं उपाधितिरोधानात् आनन्दाविर्भावस्तारतम्येन श्रूयते | निरुपाधिकतया ब्रह्मणि मुक्ते च परिपूर्णो वर्तते स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य इति मन्त्रवर्णात् ब्रह्मार्पणबुध्या निष्कामानुष्ठिताग्निहोत्रादिकर्मा परविद्यावानकामहतः श्रोत्रियः तस्य जीवत एव मुक्तस्य ब्रह्मणश्च तुल्य एवानन्दः | तस्य योगातिशयेन तत्तद्भूम्यारूढस्य पूर्वत्र भूम्याभ्यासः स्वल्पः | एतदनुसारेण तत्तद्भूमौ तदीयानन्दाविर्भावस्य मानुष्यानन्दासाम्यश्रुतिरिति न विरोधः |
SK
अतोऽयमेव परमानन्दः परा प्रकृतिः पराभेदानन्दो ब्रह्मेति व्यजानात् इति ब्रह्मत्वेन जगत्कारणत्वेन च श्रूयते | तस्याभिव्यक्तिः सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता इति | अतो मुक्तानां परमानन्दरूपपरमाकाशरूपशरीरं ब्रह्म जगद्भवति इति परमानन्दानुपविष्टानामेषां ब्रह्मण इति दुःखानुषङ्गाभावो दर्शितः | ननु परशिवब्रह्मसारूप्यप्राप्त्यनन्तरं बाह्यज्ञानलोपं दर्शयति श्रुतिः - प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं इति | तत्कथं मुक्तस्य सार्वज्ञत्वमुच्यते तत्रोत्तरं - || ३६७ || स्वाप्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हि || १६ || नेदं वचनं मुक्तविषयम् अपि तु स्वाप्ययसम्पत्योरन्यतरापेक्षम् | स्वाप्ययः सुषुप्तिः सम्पत्तिश्च मरणं वाङ्मनसि सम्पद्यते इत्यारभ्य तेजः परस्यां देवतायां इति वचनात् | तयोश्चावस्थयोः प्राज्ञाप्राप्तिनिस्सम्बोधत्वं च विद्यते | अतस्तयोरन्यतरापेक्षमिदं वचनम् | सुषुप्तिमरणयोनिःसम्बोधत्वं मुक्तस्य च सर्वज्ञत्वमाविष्कृतं हि श्रुत्या - नाहं खल्वयमेवं सम्प्रत्यात्मानं जानाम्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि इति सुषुप्तिवेलायां निस्सम्बोधत्वमुक्त्वा तस्मिन्नेव वाक्ये मुक्तमधिकृत्य स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके इति सर्वज्ञत्वमुच्यते | तथा सर्वं ह पश्यः पश्यति सर्वमाप्नोति इति च स्पष्टमेव सर्वज्ञत्वमुच्यते | तथा मरणे च निस्सम्बोधत्वम् | एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति इत्युक्तम् | विनश्यति - न पश्यतीत्यर्थः | अतः प्राज्ञेनात्मना इति वचनं स्वाप्ययसम्पत्योरन्यतरापेक्षम् | ननु - सर्वेषु लोकेषु कामचारो भवति इमान् लोकान् कामान्नीकामरूप्यनुसञ्चरन् इत्यादिश्रुतिषु मूर्तपरशिवब्रह्मोपासकस्य परिच्छिन्नत्वेन सर्वलोकसञ्चारावगमात् न व्यापकत्वम् | तस्मात् नानाशरीरसमावेशसङ्क्रमेणैव परमेश्वरवन्न युगपदिति चेन्न -
SK
स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा | यत्र देवा अमृतमानशुस्तृतीये धामान्यभ्यैरयन्त || परिद्यावा पृथिवी यन्ति सद्यः परिलोकान् परिदिशः परिसुवः | ऋतस्य तन्तुं विततं विधृत्य तदपश्यत्तदभवत्प्रजासु || इति श्रुतौ अविद्यापाशमोचने तदुपासकस्य तद्वद्विश्वव्याप्तिरावेशो भवतीति दर्शितम् | तत्प्रकरणं - एष हि देव इति जगत्कर्तुर्विश्वरूपस्य महादेवस्य | स - महादेवः नः - अस्माकं बन्धुः जनिता - पिता स विधाता - सकलश्रेयसां कर्ता धामानि - तेजोरूपाण्यप्राकृतानि भुवनानि - विश्वान्यपि जानाति तत्र बन्धुत्वादियोगस्य धामवेत्तृत्वस्य च प्रयोजनमुच्यते - यत्र - यस्मिन्निह देवे अमृतं कैवल्यलक्ष्मीमानसाशाः प्राप्यानुभवन्तः देवाः - तद्भावात् - देवनशीलाः तृतीये - द्युसंज्ञिके तत्पदे मायातीत्रे धामानि - तेजः प्रधानानि स्वाभिमतानि स्थानानि अभ्यैरयन्तस्वीकृतवन्तः | एतदुक्तं भवति - बन्धुवज्जनकवत् सकलहितकारिणा महादेवेन प्रसन्नेन दलितपाशबन्धाः अमृतभावं गताः मुक्ताः तृतीये परमव्योमलक्षणे स्वपदे कल्पितानि धामानि पदानि प्राप्तवन्त इति तस्मात्परमेषां व्याप्तिरुच्यते - परिद्यावापृथिवी यन्ति - मुक्तात्मानः स्वशक्तिमरीचिभिः द्यावापृथिवी परियन्ति - प्राप्नुवन्ति परिलोकान् - हिरण्यगर्भादिलोकानपि प्राप्नुवन्ति दिशश्च व्याप्नुवन्ति | एवं सकलजगद्व्यापिनो वर्तन्ते | तथा हि - ते सर्वज्ञाः ऋतस्य - कर्मणो विस्तीर्णं भोगतन्तुं विधृत्य - भित्वा पुण्यपापविनिर्मुक्ताः सन्तः सर्वप्राणेषु तदेव महादेवाख्यं वस्तु अपश्यन् | सर्वात्मकतया तदभवत् - तत्स्वभावाश्चाभवन् | तस्मान्मुक्तानां शिवैकरसानां व्यापकत्वमस्त्येव एते महादेवसधर्माणो मुक्तजीवाः देवशब्दवाच्याः द्युप्रभृतिव्यापिनो देवव्रताख्ये सामानि श्रूयन्ते - ये देवाः दिविषदः इत्यादिना | पुराणे च - ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा | पृथिवीषद इत्येते देवा देवव्रते स्तुताः ||
SK
इति | पृथिवीति ब्रह्माण्डरूपं अन्तरिक्षमिति द्वितीयं मायापदं तृतीयं परमाकाशपर्यायं शुद्धशक्तिरूपं शिवपदमुच्यते | अतो मुक्तानां विभुत्वमविरुद्धम् | किञ्च - प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं इति श्रुतौ मुक्तानां शिवेतरजगद्ज्ञानादिशक्तिसङ्कोच इति यदुक्तं तन्न | इदन्तु बद्धजीवसुषुप्त्यादिविषयम् | अथवा शिवेतरजगद्ज्ञानादिनिषेधपरं वा स्यात् | जगद्व्यापाराधिकरणम् || ५ || मुक्तप्राप्यजगत्सृष्ट्यादिपञ्चकृत्यवर्जनिर्व्याजब्रह्मानुभवैश्वर्य- nanu paraśivabrahmopāsakānāṃ tadvatsatyasaṅkalpatvavyāpakatva- स्यादित्याशङ्कायां स्यादित्याशङ्कायां मुक्तजीवपरमेश्वरयोर्वैलक्षण्यमधिकरणान्तरेणाह - || ३६८ || जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च || १७ || पूर्वत्र निरवयवस्य परब्रह्मणः शिवस्यैवाकाशादिवत्पूर्णत्वं व्यापकत्वं तदुपासकानां तत्प्राप्तिकत्वं मूर्तब्रह्मणः दीपादिवद्व्यापकत्वं तदुपासकानां तद्वत्स्वतन्त्रत्वं सर्वलोकसञ्चारकत्वं सर्वकामावाप्तिमत्वादिकञ्चोपदिश्य इदानीं उपास्योपासकयोः वै लक्षण्यं दर्शयति - || जगद्व्यापारवर्जं इति || देवगन्धर्वमनुष्यादिभूतभौतिकसृष्टिव्यापारं वर्जयित्वा स्वभोगसाधनीभूतकायव्यूहादिनिर्धारणसामर्थ्यमात्रमेव उपासकानाम् | देवगन्धर्वादिसृष्टिव्यापरस्तु शिवस्यैव | कुतः || प्रकरणात् || तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः | आकाशाद्वायुः | वायोरग्निः | अग्नेरापः | अद्भ्यः पृथिवी | पृथिव्या ओषधयः | ओषधीभ्योऽन्नम् | अन्नात्पुरुषः | यतो वा इमानि भूतानि जायन्ते ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्ते इत्यादिना चेतनाचेतनदेवादिशरीरस्रष्ट्टत्वप्रतिपादनात् तदुपासकानां स्वशरीरातिरिक्तदेवादिसर्वश्रीरस्रष्ट्टत्वस्य श्रुतिस्मृतिपुराणेष्वदर्शनाञ्च |
SK
किञ्च - असन्निहितत्वाच्च - विश्वाधिको रुद्रो महर्षिः यो ब्रह्माणं विदधाति पूर्वम् यो वै वेदांश्च प्रहिणोति तस्मै इत्यादौ देवगन्धर्वादिसकलजीवप्रागवस्थायां हिरण्यगर्भस्य साक्षात्परशिवब्रह्मजन्यत्वप्रतिपादनेन परशिवं प्रति सन्निहितत्वात् अन्तरङ्गत्वात् तत्काले तद्व्यतिरिक्तजीवस्य सृष्ट्यभावेन मुक्तजीवानां असन्निहितत्वाच्च तेषां परमेश्वरवज्जगज्जन्मादिकारणत्वं न सम्भवतीति सूत्रसूचितसूक्ष्मार्थः | यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुतिनिर्दिष्टजगज्जन्मादिहेतुत्वं उपास्योपासकयोश्शिवजीवयोस्सम्भवति उत शिवस्यैव सम्भवति इति संशयः | यदा पश्यः पश्यते रुक्मवर्णं परमं साम्यमुपैति इत्यादौ परमपुरुषेण शिवेन मुक्तानां साम्यापत्तिश्रवणात् य आत्मा अपहतपाप्मा इत्यादिना मुक्तस्य परमेश्वरवत्सत्यसङ्कल्पत्वादिधर्मोपदेशात् स यदि पितृलोककामो भवति इत्यादिषु सङ्कल्पमात्रात् पितृलोकादिसृष्टिसामर्थ्यश्रवणात् इमान् लोकान् कामान्नीकामरूप्यनुसञ्चरन् इति सर्वत्र व्यापारद्योतनात् परमेश्वरसाम्ये सङ्कोचायोगाच्च मुक्तस्यापि परमेश्वरवत् जगज्जन्मादिकारणत्वं सम्भवतीति प्राप्ते प्रचक्ष्महे - || जगद्वयापारवर्जमिति ||
SK
जगद्व्यापारः - निखिलचेतनस्वरूपस्थितिप्रवृत्तिभेदनियमनम् | तद्वर्जं - निरस्तनिखिलतिरोधानस्य निर्व्याजब्रह्मानुभवरूपं मुख्यैश्वर्यम् | कुतः || प्रकरणात् || निखिलजगन्नियमनं हि परशिवब्रह्मप्रकृतिरित्याम्नायते | यतो वा इमानि भूतानि जायन्ते द्यावापृथिवी जनयन् देव एकः सोमः पवते जनिता मतीनां इत्यादिश्रुतिनिर्दिष्टजगज्जन्मादिकारणत्वस्य मुक्तानां साधारण्ये ब्रह्मलक्षणं न सङ्गच्छते | आसाधारणधर्मस्यैव हि लक्षणत्वम् | तथा सदेव सौम्येदमग्र आसीत् एकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेय तदक्षरं तत्सवितुर्वरेण्यं यदा तमस्तन्न दिवा न रात्रिः तदेकं सन्नप्यभवत् तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवनक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः नान्यत्किञ्चन मिषत् इत्यादिषु शिवस्य परब्रह्मणः निखिलजगन्नियामकत्वं श्रूयते | निखिलजगन्नियमनादिप्रसङ्गेषु मुक्तस्य न सन्निधानमस्ति येन जगद्व्यापारः तस्यापि स्यात् | ननु हिरण्यगर्भस्समवर्तताग्रे धाता यथापूर्वमकल्पयत् एक एव नारायण आसीत् नारायणाद्ब्रह्मा जायते | नारायणाद्रुद्रो जायते | एको ह वै नारायण आसीत् इत्यादिषु हिरव्यगर्भनारायणादीनां प्रात्यक्षिकश्रुतिषु जगत्कारणत्वावगमात् कथमेकस्यैव शिवस्य परब्रह्मणह् जगज्जन्मादिकारणत्वं सम्भवति तस्मान्मुक्ताआमपि जगज्जन्मादिकारणत्वमविरोधमित्याशङ्कायामाह - || ३६९ || प्रत्यक्षोपदेशान्नेति चेन्नाधिकारिकमण्डलस्थोक्तेः || १८ ||
SK
हिरण्यगर्भः समवर्तताग्रे इत्यादिषु प्रात्यक्षिकश्रुतिषु हिरण्गर्भादीनां जगत्कारणत्वोपदेशात् परब्रह्मणश्शिवस्यैव जगत्कारणत्वं न सम्भवतीति चेत् - ityādibahuśrutiṣu śivahiraṇyagarbhanārāyaṇādīnāṃ kāraṇakāraṇatvāyogāt teṣāṃ tattulyatvaṃ na sambhavati | kutaḥ || ādhikārikamaṇḍalasthokteḥ || ādhikārikamaṇḍaleṣu - śivānugrahadatteṣu paricchinneṣu satyavaikuṇṭhādilokeṣu indrahiraṇyagarbhādīnāṃ cokteḥ sthityupadeśāt tena devā ayajanta sādhyā ṛṣayaśca ye ityādiśrutiṣu paraśivasyaiva devādisakalasraṣṭṭatvasya sākṣādupadiṣṭatvāt avāntarasṛṣṭau hiraṇyagarbhādīnāṃ jagatkāraṇatvāvagame'pi tadantaryāmitayā tatkāraṇatvaṃ parameśvarasyaiva siddham | nanu - saḥ svarāḍbhavati tasya sarveṣu lokeṣu kāmacāro bhavati ityādiśrutiṣu parameśvaravanmuktasyāpi jagadvyāpāra upadiśyate iti cenna | akarmapratihatajāno mukto vikṛtalokān brahmaṇaḥ śivasya vibhūtibhūtānanubhūya yathākāmaṃ tṛpya bhogān tallokāṃśca yathākāmaṃ prāpnuvantītyupadiśyate | tasmānna jagadvyāpāraḥ | yadi saṃsārivanmukto'pi vikārāntarvartino bhogān bhuṅkte tarhi baddhasyeva muktasyāpi antavadeva bhogyajātaṃ alpañca syādityāśaṅkya tatrāha - || 369 || vikārāvarti ca tathā hi sthitimāha || 19 || vikāre janmādike na vartata iti vikārāvarti nirdhūtanikhilavikāraṃ nikhilaheyapratyanīkakalyāṇaikatānaṃ niratiśayānandaṃ paraśivabrahma savibhūtikaṃ sakalakalyāṇaguṇamanubhavati muktaḥ | tadvadvibhūtyantargatatvena vikāravartināṃ lokānāmapi bhuktabhogyatvam | tathā hi - parasmin brahmaṇi nirvikāre anavadhikātiśayānande muktasyānubhavitṛtvena sthitimāha śrutiḥ - yadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhyaṃ pratiṣṭhāṃ vindate atha so'bhayaṃ gato bhavati || raso vai saḥ | rasaṃ hyevāyaṃ labdhvāṅandī bhavati ityādikā | tadvibhūtibhūtaṃ ca jagat tatraiva vartate | tasmillokāḥ śritāssarve tadu nānyeti kaścana |
SK
इति श्रुतेः | अतः सविभूतिकं ब्रह्मानुभवन् विकारान्तर्वर्तिन आधिकारिकमण्डलस्थानपि भोगान् भुङ्क्ते इति सर्वेषु लोकेषु कामचारः इत्यादिनोच्यते | शिवसामरस्यसमर्थनम् किञ्च - कैलासवासिनां नित्यमुक्तानां सूरिणां स्वेच्छया संचरतां कामान्नीकामरूप्यनुसञ्चरन् इत्यादौ कामान्निकामरूपमनुष्यादिशरीराभिमानरहितेच्छाशक्ति- nityavaibhavaparamānandakandasvaprakāśavibhūtimayaśivasāmarasya-sārūpya- श्रुतिर्दर्शयति - अहमन्नमहमन्नमहमन्नं अहमन्नादोऽहमन्नादोऽहमन्नादः इत्यादिना | तथा श्रुत्यन्तरेऽपि मुक्तानुभवः स्पष्टमुपदिष्टः - त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् | तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिवः || मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् | मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्व्यहम् || अणोरणीयनहमेव तद्वत् महानहं विश्वमिदं विचित्रम् | पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि || इत्यादिना | इयं श्रुतिः आकाशवत्सर्वव्यापकशिवत्वानन्दानुभवशिवयोगसमाधिनिष्ठानां जीवन्मुक्तानां शिवज्ञानिनां वामदेवादिवदुपलक्षणम् | शिवसारूप्यधारिणां जीवन्मुक्तानामपि दृढशिवैकज्ञाननिष्ठासत्त्वेऽपि शिववत्तेषां न जगज्जन्मादिहेतुत्वम् | अत्र मुक्तस्याहङ्कारो न सांसारिकः देवमनुष्यादिवर्णाश्रमावच्छिन्नपरिच्छिन्नसांसारिकाहङ्कराद्विलक्षणत्वात् सकलचिदचित्प्रपञ्चावगाहित्वेन परिपूर्णत्वाच्च | अत्र अहम्पदेन शिव एवाभिधीयते | अस्मिन्नर्थे हेत्वन्तरमाह - || ३७१ || दर्शयतश्चैवं प्रत्यक्षानुमाने || २० || अस्य प्रत्यगात्मनो मुक्तस्य नियाम्यभूतस्य नियन्तृभूतपरमपुरुषासाधारणं जगद्व्यापाररूपं नियमनं न सम्भवतीत्युक्तम् | निखिलजगन्नियमनरूपो व्यापरः परमपुरुषपरशिवासाधारण इति दर्शयतः श्रुतिस्मृती - भीषास्माद्वातः पवते भीषोदेति सूर्यः | भीषाऽस्मादग्निश्चेद्रश्च मृत्युर्धावति पञ्चमः ||
SK
इति | एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादि च | तथा एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय इति च श्रुतिः | मनुस्मृतौ - अप एव ससर्जादौ तासु वीर्यमवासृजत् | शिवेनोत्पादितं सर्वं शिवेन परिरक्ष्यते | पुनश्शिवे महादेवे लीयते सचराचरम् || इति | शातातपे च - शिवस्यैकस्यैव जगज्जन्मादिहेतुत्वोपदेशात् निरञ्जनः परमं साम्यमुपैति मुक्तः शिवसमो भवेत् इत्यादिषु मुक्तानां शिवसाम्यमात्रोपदेशेऽपि जगत्कारणत्वादर्शनात् शिववत्तेषां जगद्वयापारवर्जनं युक्तमेव | एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः | इति श्रवणात् पादोऽस्य विश्वाभूतानि इत्यत्र विश्वाभूतानीति विश्वपदेन अनन्तकोटिब्रह्माण्डानि भूतशब्देन नारायण हिरण्यगर्भेन्द्रादिभूतानि भूतपतेश्शिवस्यैकपादरूपाणि त्रिपादस्यामृतं दिवीति सच्चिदानन्दलक्षणलक्षित- niścīyate | tasmāt - śivamadvaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ iti māṇḍakye yo vedādau svaraḥ prokto vedānte ca pratiṣṭhitaḥ | tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ || iti taittirīye jīvanmuktānāṃ akārokāra-makārātmakabrahma-viṣṇu- सत्यसङ्कल्पत्वादिपरमपुरुषमहेश्वरसाम्यसत्वेऽपि जगद्व्यापारवर्जनमविरुद्धम् | ननु मुक्तानां परमेश्वरवज्जगज्जन्मादिकारणत्वायोगे निरञ्जनः परमं साम्यमुपैति मुक्तश्शिवसमो भवेत् इत्यादिश्रुतिनिर्दिष्टपरमसाम्यविरोधो दुर्निवार इत्याशङ्क्य तत्राह - || ३७२ || भोगमात्रसाम्यलिङ्गाच्च || २१ || भोगमात्रे मुक्तस्य ब्रह्मसाम्यप्रतिपादनात् लिङ्गाच्च सर्वजगत्कारण- jagadvyāpārarahitatvamavirodham | so'śnute sarvān kāmān saha brahmaṇā vipaścitā ityādau muktasya paraśivabhogasāmyaṃ darśitam |
SK
अत्र केचित् - लिङ्गात् जगज्जन्मादिकारणभूतपरिपूर्णनिरवयवशिवतत्त्वात् मूर्तपरशिवस्य तदुपासकमुक्तस्य च भोगमात्रसाम्यं यत उपदिष्टं अतः नित्यमुक्तमूर्तपरमशिववदवान्तरमुक्तजीवानां जगत्कारणत्वं देवमनुष्यादिनानाशरीरकल्पनञ्च न सम्भवति | एष ह्येवानन्दयाति इत्यादौ उपास्योपासकयोः प्राप्यत्व-प्रापकत्वादितारतम्यदर्शनाच्चेति वदन्ति | तदप्यविरुद्धम् | तथा स्कान्दे श्रूयते - यद्यपि भोगापगमे साम्ब तवाहं न मामकीनस्त्वम् | सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः || यदा सर्वे प्रमुच्यन्ते अत्र ब्रह्म समश्नुते न तस्य प्राणा उत्क्रामन्ते तत्रैव समवलीयन्ते || इत्यादौ निरवयवशिवतत्त्वोपासकज्ञाननिष्ठानां सर्वकामनिर्मुक्ततया लिङ्गशरीरविलयपूर्वकशिवतत्त्वप्राप्तेरुपदेशात् | न स पुनरावर्तते न स पुनरावर्तते इत्यादिश्रुतिनिर्दिष्ट मुक्तपुनरावृत्तिनिषेधस्य तत्परत्वमेवेति निर्दिश्यते | व्यापकस्य ब्रह्मणो मूर्तत्वस्य उपासनार्थं रज्जुसर्पवत्कल्पितत्वेन मिथ्यात्वात् मिथ्याभूतस्य वस्तुन उपासनेन मुक्त्ययोगात् श्रुतिप्रमाणसिद्धर्यं मूर्तब्रह्मोपासकानां पुनरावृत्तिद्वारा निर्गुणनिर्विशेषपरशिवब्रह्मज्ञानेनैव इहैव मुक्तिः | अनावृत्तिश्शब्दाधिकरणम् || ६ || मूर्तब्रह्मोपासकानां अमूर्तब्रह्मोपासकानां च अपुनरावृत्तिनिश्चयः किञ्च - सोऽश्नुते इत्यादौ बद्धजीववत् सालोक्यादिपदप्राप्तानां उपासकानां कामावाप्तिदर्शनात् तेषां पुनरावृत्तिरहितत्वमसङ्गतमित्याशङ्कायां सर्ववेदान्तसिद्धान्तं स्वाभिप्रेतं असङ्कुचितत्वेन शास्त्रान्ते दर्शयति - || ३७३ || अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् || २२ || पूर्वत्र निखिलकल्याणगुणाकर-नित्यतृप्त-निरतिशयानन्दस्वभाव- jagatkāraṇatvādyananyasādhāraṇadharmasaṅkucitatvasupadiṣṭam |
SK
इह तु - ब्रह्मवित् ब्रह्मैव भवति ब्रह्मविदाप्नोति परं तरति शोकमात्मवित् ज्ञात्वा शिवं शान्तिमत्यन्तमेति तत्त्वमसि इत्यादिशब्दात् श्रुतौ निरवयवब्रह्मोपासकानां ब्रह्मात्मकत्वव्यपदेशात् लोहरसादिन्यायवत् तदुपासनमहिम्ना स्वाभाविकजीवभावनिवृत्तिपूर्वक-शिवतत्वप्राप्तिसम्भवात् पाशबद्धजीववन्न पुनरावृत्तिः | उमासहायं ध्यात्वा मुनिर्गछति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् इति श्रुतौ मूर्तपरशिवब्रह्मोपासकानां विदुषां तमश्शब्दवाच्यगुणत्रयसाम्यावस्थारूपप्रकृतिविलक्षण- yāvadāyuṣaṃ brahmalokamabhisampadyate na ca punarāvartate na ca punarāvartate ityādiśrutiṣu mūrtamaheśvaropāsakānāṃ talloke tena saha sarvakāmān avāpyalabdhā tadanantaraṃ tallokādeva bhramarakīṭanyāyavat śivajñānapurṇabhāvena sarvaparipūrṇaśivasāyujyasiddhidarśanācca mūrtaparaśivopāsakānāmapi baddhajīvavatpunarāvṛttirna sambhavati iti sūtrasūcitasūkṣmārthaḥ | umāsahāyaṃ parameśvaraṃ prabhuṃ ityādau mūrtabrahmopāsakānāṃ śivatattvaprāptyupadeśāt tarati śokamātmavit ityādāvamūrtabrahmopāsakānāṃ janana-maraṇa-pravāhātmaka-saṃsāraduḥkhanivṛtyavagamācca mūrtopāsakānāmamūrtopāsakānāṃ vā punarāvṛtirahitatvamiti sandihyate | so'śnute sarvān kāmān saha brahmaṇā vipaścitā ityādau mūrtopāsakānāṃ baddhajīvavatkāmāvāptiśravaṇāt | yadā sarve pramucyante kāmā ye'sya hṛdi sthitāḥ | atha martyo'mṛto bhavatyatra brahma samaśnute || atmānaṃ codvijānīyādayamasmīti pūruṣaḥ | kimicchan kasya kāmāya śarīramanusañcaret || ityādau brahmavidāṃ sarvakāmanivṛttinirdeśācca mūrtabrahmopāsakānāṃpunarāvṛtirna sambhavati |
SK
किञ्च - कामान्नीकामरूप्यनुसञ्चरन् इत्यादौ मूर्तब्रह्मोपासकानां स्वेच्छाकल्पितनानाशरीरप्रवेशावगमात् सर्वभोगदर्शनाच्च पुण्यापुण्यकर्तुत्वमर्थात्सिद्ध्यति | क्षीणे पुण्ये मर्त्यलोकं विशन्ति पुण्यचितो लोकः क्षीयते कर्मचितो क्षीयते ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादिश्रुतिषु पुण्यफलप्राप्तस्वर्गादिपदनिष्ठानां पुनरावृतिव्यपदेशवत् शिवपदमहाकैलासपदारूढभक्तानामपि पुनरावृतिर्दुर्वारा कर्मसाध्यत्वात् स्वकर्तृहेतुत्वाच्च | परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्त्यकृतः कृतेन इस्यत्र कृतकर्मणां मुमुक्षूणां अकृतमोक्षनिरासदर्शनात् | उत - ते ब्रह्मलोके तु परान्तकाले इत्यादो ब्रह्मशब्दस्य चतुर्मुखे रूढत्वात् तदुपासकस्य तल्लोकप्राप्तिरभिहिता | नारायणं परं ब्रह्म इत्यादौ नारायणस्य परब्रह्मत्वव्यवस्थापनात् भगवच्छब्दस्य तत्रैव रूढत्वात् ब्रह्म- brahmaśabdavācyatvaṃ tasyaiva yuktam | tacchrutimārganirvāhārthaṃ mūrtacaturmukhanārāyaṇādyupāsakānāṃ bahujanmasiddhānāṃ sarvapāpaṅkanivṛttipūrvakacittaśuddhidvārā nitya niravayava-niṣprapañca-svasvarūpajñānena apunarāvṛttissiddhā | rajju- सम्भवतीति प्राप्ते प्रचक्ष्महे - || अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् || द्वै वाव ब्रह्मणो रूपे मूर्तञ्चामूर्तमेव च | तदादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् || इत्यादिश्रुतिषु शिवस्य परब्रह्मणः निरवयवत्वं सावयवत्वं च यथोपपन्नं तथा विरूपेभ्योविश्वरूपेभ्यश्च वो नमो नमः इत्यादिना शतरुद्रीये भक्तानामुभयविधत्वदर्शनात् मूर्तब्रह्मोपासकानाम मूर्तब्रह्मोपासकानाञ्च अनावृत्तिः शब्दात् वेदात् ध्यात्वा मुनिर्गच्छति भूतयोनिं इत्यादिना मूर्तब्रह्मोपासकानां यथा नद्यः एष संप्रसादोऽस्मात् शरीरात्स मुत्थाय परंञ्ज्योतिरुपसम्पद्य स्वेन रूपेण रूपेणाभिनिष्पद्यते इत्यादिशब्दात् अमूर्तोपासकानाञ्च अनावृत्तिः - अपुनरावृत्तिर्निश्चीयते |
SK
सोऽश्नुते इत्यत्र ब्रह्मणा सह सर्वकामावाप्तिश्रवणात् बद्धजीववैलक्षण्यं दर्शितम् | आप्तकामो पूर्णकामो निष्कामो जीर्णकामो भवति इत्यादिषु मुक्तात्मनां ब्रह्मवत्स्वाधीनसकलकामत्वं ब्रह्मलक्षणमुपदिष्टम् | विदुषां कामनामात्रेण बद्धत्वाङ्गीकारे सोऽकामयत बहुस्यां प्रजायेयेति इत्यादिषु ब्रह्मणोऽपि कामवत्वश्रवणादतिव्याप्तिः | यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः इत्यादि निष्कामश्रुतीनां विदुषां प्रारब्धस्यावसाने निरस्तलिङ्गशरीरपूर्वकपरशिवत्प्राप्तिकालपरत्वात् नो चेत् वामदेव-शुक- ityādivākyānāṃ liṅgaśarīragataśivasālokyādinityaniratiśayavaibhavakalyāṇamuktiparatvena svīkṛtatvāt śraddhābhaktidhyāna ātmānamaraṇiṃ kṛtvā kṣaraṃpradhānamamṛtākṣaraṃ haraḥ tasyābhidhyānāt amṛtasya devadhāraṇo triyambakaṃ yajāmahe ātmā vā are ityādibrahmaprakaraṇapaṭhita-paraśivabakti- साक्षात्परशिवप्राप्त्युपायत्वोपदेशात् धर्मप्रकरणपठिताज्योतिष्टोमादिकर्मणामेव पुनरावृत्तिरभिहिता | यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते इत्यादौ ब्रह्मलोकशब्दः न चतुर्मुखपरः लोके श्रुतिपुराणादिषु चतुर्मुखोपासनवचनाचारादर्शनात् तदुपासनं विना तल्लोकसिध्यभावाच्च ब्राह्मणानां शिवो देवः क्षत्रियाणान्तु माधवः इत्यादिस्मृतिषु विष्णोः क्षत्रियदेवतात्वव्यपदेशात् कारणकारणत्व- na yuktam | nārāyaṇaparaṃ brahma ityādau nārāyaṇasya yaḥ paraḥ śivaḥ sa eva brahmeti niścīyate | taduttaratra brahmā śivo me astu sadā śivom ṛtaṃ satyaṃ paraṃ brahma ityādiṣu śiva-brahmaśabdayoḥ ghaṭa-kalaśādivat paryāyatvaṃ spaṣṭamupadiṣṭam |
SK
प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः इति माण्डूक्ये उमासहायं इत्यारभ्य स ब्रह्मा स शिवस्स हिरस्सेन्द्रस्सोक्षरः परमस्स्वराट् इति कैवल्ये शिवस्यैव मूर्तित्रयातीतत्वोपदेशात् तथैव अथर्वशिरसि - ध्यायीतेशानं इत्यारभ्य शिव एको ध्येयः इत्यन्तेन मुमुक्षूणां शिवेतरदेवतोपासननिषेधावगमात् शिवङ्कर इत्यत्र भ्रमरकीटन्यायेन शिवं करोतीति शिवंकरः इति व्युत्पत्या भक्तानां स्वस्वरूपप्रदायकत्वं दर्शितम् | भगवच्छब्दस्य इन्द्रादिषु लौकिकप्रयोगदशंनेऽपि पितृमेघे - ईशानः पितृरूपेण महादेवो महेश्वरः | प्रीयतां भगवानीशः परमात्मा सदाशिवः || इति ब्रह्मकाण्डे श्वेताश्वतरे - सर्वाननशिरोग्रीवः सर्वव्यापी च भगवान् तस्मात्सर्वगतश्शिवः इति अथर्वशिरसि - यो वै रुद्रः स भगवान् यश्च ब्रह्मा यश्च विष्णुः इत्यादिना भूयो भूयः भगवच्छब्दः शिवे बहुधा प्रपञ्चितः | शतरुद्रीये - नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय इति तद्वदुपदिष्टम् | लौकिकप्रयोगात् श्रौतविधेर्बलीयस्त्वात् भगवच्छब्दो नेतरस्यमुख्यः | अथातो ब्रह्मजिज्ञासा इति शास्त्रारम्भे ब्रह्मणः मुमुक्षुजिज्ञास्यत्वोपदेशात् निर्विशेषब्रह्मवादस्तत्रैव निरस्तः | लक्षणप्रमाणाधीना हि वस्तुसिद्धिः इति न्यायेन ब्रह्मात्मकवस्तुसिद्धौ जन्माद्यस्य यतः शास्त्रयोनित्वात् इति लक्षणप्रमाणविधायकसूत्रेषु तदर्थप्रकाशकेषु यतो वा इमानि तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः यस्य निःश्वसितं वेदाः तन्त्वौपनिषदं पुरुषं पृच्छामि इत्यादिषु ब्रह्म-प्रपञ्चयोः कार्य- asatpadārthasya śaśaśṛṅgādeḥ utpattyasambhavāt satpadārthasyaivotpattiḥ nirdiṣṭā |
SK
असदिति चेत् न प्रतिषेधमात्रत्वात् पटवच्च इत्यादिषु प्रपञ्चस्य प्रलयेऽपि बीजाङ्कुरन्यायेन पटसंकोचवत् सूक्ष्मरूपेणावस्थानं सृष्टिकाले पठविस्तारवत् प्रपञ्चविजृम्भितत्वं प्रपञ्चितम् | तस्मात् सत्पदार्थस्य प्रपञ्चस्य प्रलये कारणरूपेणावस्थानं जीवानां चेतनत्वेन स्वरूपतो नित्यत्वं च परमात्मवदुपदिष्टं नित्योनित्यानां इति श्रुतौ | तथा स्मृत्यन्तरे - प्रवाहवत्प्रपञ्चस्य सत्यत्वमुपदिश्यते | स्वरूपतो हि सत्यत्वं चेतनानां विधीयते || अतिरोधानसत्यत्वं स्वतः सिद्धं शिवस्य हि || इति दर्शनात् निर्विशेषचिन्मात्रब्रह्मवादो न विद्वद्रमणीयः | रज्जुसर्पवत् भगवच्छरीरस्य मिथ्यात्मकत्वव्यपदेशे भीषास्माद्वातः पवते मृत्युर्धावति पञ्चमः इति श्रुतिनिर्दिष्टसूर्यादीनां विदुषां भयाविष्टत्वं कथमुपपद्यते इन्द्रो मायाभिः पुरुरूप उग्रः इति पारमैश्वर्यविशिष्टशिवस्याऽपि मायाशक्तिभिर्नीलकण्ठत्वादिलक्षणबहुशरीरग्रहणवस्तुदर्शनेऽपि स्थिरेभिरङ्गैः पुरुरूप उग्रः इति परमेश्वरपरिगृहीतदिव्यमङ्गलविग्रहणामप्राकृतानां शुद्धविद्या- | kiñca - yadā tamastanna divā na rātriḥ na sanna cāsacchiva eva kevalaḥ ityādau śivasya mahāpralayasākṣitvaṃ ajāta ityevaṃ kaścidbhīruḥ prapadyate | rudra dakṣiṇaṃ mukhaṃ tena māṃ pāhi nityam | ityādau parameśvarasya ajātatvaṃ viśvādhiko rudro mahīrṣiḥ parā'sya śaktirvividyaiva śrūyate māyāntu prakṛtiṃ
SK
विन्द्यात् इत्यादिना विश्वाधिकत्व-सर्वशक्तत्व-सर्वकारणत्वादिकं एक एव रुद्रो न द्वितीयाय तस्थुः न तस्य कार्यं करणञ्च विद्यते न तत्समश्चाभ्ययिकश्च दृश्यते इत्यादौ तस्याद्वितीयत्वं पुरुषो वै रुद्रस्स न्महोनमो नमः विश्वं भूतं भुवनं चित्रं सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु विश्वरूपाय वै नमो नमः इत्यादिषु विश्वात्मकत्वं नमो हिरण्यवाहवे इत्यादिषु तस्य ज्योतिर्मयत्वं च उपदिश्यते | कथं हिरण्यशब्दस्य ज्योतिर्वाच्यत्वमिति चेत् - शास्त्रेऽप् हिरण्यस्य वह्न्यात्मकत्वं सर्वत्र प्रसिद्धम् | हिरण्यशब्देन हेमत्वाङ्गीकारे सूर्यमण्डलान्तर्वर्तिनो हिरण्मयशिवशरीरस्य वह्निमध्यस्थसुवर्णवत् द्रवत्वप्रसक्त्या असत्यत्वप्रसङ्गः दुर्निवारः | अथर्वशिरसि भगवद्वचनं - पुष्करमहं पवित्रमहं अग्र्यञ्च मध्यञ्च बहिश्च पुरस्तात् | ज्योतिरहमेकस्सर्वे चाहमेव मां यो वेद स सर्वान् वेद || इति | तथा शैवपुराणे - दिनकृत्कोटिसङ्काशं स्थानमाद्यमुमापतेः | सर्वकामसमायुक्तं विशुद्धं नित्यमव्ययम् || सम्प्राप्यतत्पदं दिव्यं अतः क्लेशविवर्जिताः | सर्वज्ञास्सर्वदा शुद्धाः परिपूर्णा भवन्ति च || विशुद्धकार्यकरणाः परमैश्वर्यसंयुताः | सदेहाश्च विदेहाश्च भवन्त्यात्मेच्छया पुनः || ये सम्प्राप्ताः परस्थानं ज्ञानयोगरता नराः | न तेषां पुनरावृत्तिर्घोरे संसारमण्डले || इत्यादिना परमशिवस्थानस्य महाकैलासस्य दिनकृत्कोटिसंकाशत्वव्यवस्थापनात् तस्य ज्योतिर्मयत्वे न सन्देहकलङ्कः | सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इत्यत्र विष्णुपदस्यापि परमपदत्वमवगम्यत इति चेत् - परात्परतरं ब्रह्म तत्परात्परतो हरिः | यत्परात्परतोऽधीशस्तन्मे मनश्शिवसङ्कल्पमस्तु || इति बोधायनसूत्रे शिवसङ्कल्पे च विष्ण्वाद्यधिकत्वस्य महेश्वरे मननात् अत्र विष्णोः परमं नारायणादधिकं शिवस्थानं तद्विधस्याध्वनः परं तदतीतमुच्यते |
SK
तस्मात् ब्रह्मलोकमभिसम्पद्यते | न च पुनरावर्तत इत्यत्र अनावृत्तिलक्षणं ब्रह्मलोकशब्देन शिवपदमेवाभिधीयते | विरूपेभ्यो विश्वरूपेभ्यश्च वो नमः इत्यादौ शिवभक्तानां निरवयवेश्वरप्राप्तानां विगतरूपत्वं मूर्तपरशिवस्वरूपोपासकानां विश्वरूपशब्देन बहुरूपत्वं च दर्शितम् | नीलग्रीवाः शितिकण्ठाश्शर्वा अधः क्षमाचराः इत्यादिषु भक्तानां शरीरपरिग्रहे यादृशनीलकण्ठत्वादिलक्षणेश्वरशरीराणि तादृशानि तत्सदृशभक्तानामुपपद्यन्ते | अनावृत्तिश्शब्दात् इत्यत्र अध्यायपरिसमाप्तिद्योतनार्थं द्विरावृत्तिरिति केचिदाहुः | तदसमञ्जसम् - उभयव्यपदेशादहिकुण्डलवत् उभयथा च दोषात् न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि अधिकन्तु भेदनिर्देशात् तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यादिसूत्रेषु सर्ववेदान्तसङ्कोचं यथा तथा द्वैताद्वैतमतस्य स्वाभिप्रेतत्वेन सूचितत्वेऽपि एवमुपन्यासात्पूर्वभावादविरोधं वादरायणः द्वादशाहवदुभयविधं वादरायणोऽतः इति वेदमार्गनिष्ठानां स्वाभिप्रेतमुभयविधं जीवब्रह्मणोस्संसारदशायां स्वाभाविकभिन्नत्वं मोक्षदशायां तद्वदभिन्नत्वं च ब्रह्मणो मूर्ताऽमूर्तत्वं तदुपासकानां भक्तानां तद्वदुभयविधत्वस्य च कण्ठोक्त्या पूर्वोक्तसूत्रेषु उपन्यासत् अनावृत्तिः शब्दादनावृत्तिश्शब्दात् इत्यत्र मूर्ताऽमूर्तोबयविधोपासक भक्तपरैवेति निश्चीयते | अतस्सूत्रकारमतं द्वैताद्वैतमेवेति घण्टाघोषः || इति श्रीमद्यतिव्रजपरिवृढ-श्रीपतिपण्डितभगवत्पादाचार्यस्वामिकृत- śrīkarabhāṣye phalādhyāyasaṃjñikacaturthādhyāyasya sampadyāvirbhūtādhikaraṇādiṣaḍadhikaraṇāvacchinna- समाप्तः || श्रीशिवायगुरवे नमः चतुर्थाध्यायसमाप्तः

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. śrīkarabhāsya vedāntasūtrāṇām vīraśaivabhāṣyam [M00346].

Source