Essence of Yoga Upanishad

Yogatattvopaniṣat

Essence of Yoga Upanishad

Yogatattvopaniṣat

SK
योगतत्त्वोपनिषत् सह नाववतु- इति शान्तिः अष्टाङ्गयोगजिज्ञासा योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया | यच्छ्रुत्वा च पठित्वा च सर्वपापैः प्रमुच्यते || १ || विष्णुर्नाम महायोगी महाभूतो महातपाः | तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः || २ || तमाराध्य जगन्नाथं प्रणिपत्य पितामहः | पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम् || ३ || विवरणम् योगैश्वर्यं च कैवल्यं जायते यत्प्रसादतः | तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे || इह खलु कृष्णयजुर्वेदप्रविभक्तेयं योगतत्त्वोपनिषत् मन्त्रलयराजयोगविशिष्टारम्भघटपरिचयनिष्पत्तिचैत्यावस्थोपेतय- brahmamātraparyavasannā virājate | asyāḥ upaniṣadaḥ saṃkṣepato vivaraṇamārabhyate | sṛṣṭisthitikartṛbrahmaviṣṇvākhyāyikā tu vidyāstutyarthā | ādau tāvat vakṣyamāṇayogatattvopaniṣacchravaṇapaṭhanaphalaṃ p. 364) prakaṭayati- yogatattvamiti | pratyakparayoḥ yogaḥ tattvaṃ pratyakparavibhāgaikyāsahaṃ niṣpratiyogikabrahmamātraṃ yasyāmupaniṣadi pratipādyate seyaṃ yogatattvopaniṣat | kevalaṃ tacchravaṇapaṭhanataḥ sarvapāpanivṛttirbhavatītyarthaḥ || 1 || etadvidyācāryasvarūpaṃ viśadayati- viṣṇuriti | tattvajñānayogamārge yogibhiḥ yathā dīpaḥ tathā puruṣottamo viṣṇuḥ dṛśyate sākṣātkriyata ityarthaḥ || 2 || taṃ brahmā pṛcchatītyāha- tamiti || 3 || yogatattvasya durlabhatvam tamuvāca hṛṣīkeśo vakṣyāmi śṛṇu tattvataḥ | sarve jīvāḥ sukhairduḥkhairmāyājālena veṣṭitāḥ || 4 || teṣāṃ muktikaraṃ mārgaṃ māyājālanikṛntanam | janmamṛtyujarāvyādhināśanaṃ muktitārakam || 5 || nānāmārgaistu duṣprāpaṃ kaivalyaṃ paramaṃ padam | patitāḥ śāstrajāleṣu prajñayā tena mohitāḥ || 6 || anirvācyapadaṃ vaktuṃ na śakyaṃ taiḥ surairapi | svātmaprakāśarūpaṃ tat kiṃ śāstreṇa prakāśyate || 7 ||
SK
एवं पृष्टो भगवान् प्रश्नोत्तरमाह- तमिति | स्ववक्तव्यरहस्यार्थस्य नानामार्गालंकारनानाशास्त्रतत्प्रवर्तकैरपि दुष्प्रापतामाह- सर्व इति | मायाजालेन वेष्टिताः मायातत्कार्यपटैः आवृताः इत्यर्थः || ४-५ || कैवल्यमार्गस्य ज्ञानेतरसाधनेन दुष्प्रापत्वे नान्यः पन्था अयनाय विद्यते इति श्रुतेः | शास्त्रजालमोहितैः यन्मयोच्यमानं तद्वक्तुं न शक्यमित्याह- पतिता इति | तेन स्वाज्ञानेन च मोहिताः || ६ || सूर्यादिघटान्ताः येन प्रकाश्यन्ते प्. ३६५) येन वेदशास्त्राण्यर्थवन्ति तत् कदापि शास्त्रप्रकाश्यं न भवति, ब्रह्मणः स्वप्रकाशमात्रत्वेन व्याविद्धपदवाक्यार्थत्वात् || ७ || परस्यैव जीवत्वम् निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् | तदेव जीवरूपेण पुण्यपापफलैर्वृतम् || ८ || परमात्मपदं नित्यं तत् कथं जीवतां गतम् | सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् || ९ || वारिवत् स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता | पञ्चात्मकमभूत् पिण्डं धातुबद्धं गुणात्मकम् || १० || सुखदुःखैः समायुक्तं जीवभावनया कुरु | तेन जीवाभिधा प्रोक्ता विशुद्धे परमात्मनि || ११ || जीवः परस्मात् भिद्यत इत्याशङ्क्य यन्निर्विशेषं तदेव जीवतां गच्छतीव भातीत्याह- निष्कलमिति || ८ || तत् कथं जीवतामर्हति इत्याक्षिपति- परमात्मेति | प्रश्नोत्तरमाह- सर्वेति | वस्तुतो ब्रह्म सर्वभावपदातीतम् | स्वातिरिक्तभावः शशविषाणवत् नास्त्येव | यदि स्वाज्ञदृष्ट्या स्यात्तदा स्वज्ञदृष्ट्या सर्वभावपदातीतं ज्ञानरूपं ज्ञप्तिमात्रत्वात्, निरञ्जनं सर्वत्रासङ्गमित्यर्थः || ९ || यत् स्वमात्रम् अवशिष्टं तत्र स्वाज्ञः स्वातिरिक्तम् अध्यस्थतीत्याह- mandavāteritavārivat sphuritaṃ tatra guṇāsāmyātmikā mūlaprakṛtivācyā ahaṃkṛtirutthitā | tataḥ pañcatanmātrāṇi, tataḥ pañcīkṛtapañcamahābhūtāni, tataḥ saptadhātubaddhaṃ triguṇātmakaṃ pañcātmakaṃ piṇḍamabhūt || 10 || tatra sukhaduḥkhasamāyuktaṃ yaccaitanyaṃ tat
SK
प्. ३६६) जीवभावनया कुरु | सर्वभावातीतविशुद्धे परमात्मनि तेन प्राकृतगुणयोगेन निर्विशेषब्रह्मण एव जीवाभिधा प्रोक्ता || ११ || प्राकृतगुणवियुक्तस्य जीवस्य परमात्मत्वम् कामक्रोधभयं चापि मोहलोभमदो रजः | जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा || १२ || तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च | एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः || १३ || यदा प्राकृतगुणवियुक्तो भवति तदा जीव एव केवलपरमात्मा भवतीत्याह- कामेति | अत्र वचनलिङ्गव्यत्ययः छान्दसः || १२- jñānayogayoḥ yugapadabhyāsaḥ tasmāddoṣavināśārthamupāyaṃ kathayāmi te | yogahīnaṃ kathaṃ jñānaṃ mokṣadaṃ bhavati dhruvam || 14 || yogo'pi jñānahīnastu na kṣamo mokṣakarmaṇi | tasmājjñānaṃ ca yogaṃ ca mumukṣurdṛḍhamabhyaset || 15 || yasmādevaṃ tasmāt | kevalanirviśeṣajñānasya mokṣadatve'pi saviśeṣajñānasya tadabhāvāt yogākāṅkṣā bhavediti jñānayogau yugapadabhyasedityāha- yogahīnamiti || 14 || yasmādevaṃ tasmāt || 15 || jñānasvarūpam ajñānādeva saṃsāro jñānādeva vimucyate | jñānasvarūpamevādau jñānaṃ jñeyaikasādhanam || 16 || p. 367) jñātaṃ yena nijaṃ rūpaṃ kaivalyaṃ paramaṃ padam | niṣkalaṃ nirmalaṃ sākṣāt saccidānandarūpakam || 17 || utpattisthitisaṃhārasphūrtijñānavivarjitam | etajjñānamiti proktamatha yogaṃ bravīmi te || 18 || bandhamokṣahetū svājñānasvajñāne ityāha- ajñānāditi | tatra jñānaṃ kīdṛśam ityāha- jñāneti || 16-17 || svātirekeṇa idamutpannaṃ sthitaṃ upasaṃhṛtaṃ iti yā sphūrtiḥ tajjñānavivarjitaṃ tadeva nirviśeṣajñānamiti proktam | nahi tat svaphalāptau yogādisādhanamapekṣate | yadyaparabrahmagocaraṃ saviśeṣajñānaṃ svagataviśeṣatāśāntaye tadeva yogamapekṣate | yat saviśeṣajñānena samuccicīṣitaṃ tat bravīmītyāha- atheti | atha saviśeṣajñānotpattyanantaraṃ tannirviśeṣatāhetuyogaṃ śṛṇvityarthaḥ || 18 || mantrayogādiḥ caturvidho yogaḥ
SK
योगो हि बहुधा ब्रह्मन् भिद्यते व्यवहारतः | मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगकः || १९ || सोऽयं योगः कीदृश इत्याकाङ्क्षायां पारमार्थिकयोग एकोऽपि साधनवैचित्र्यात् बहुधा भिद्यते इत्याह- योगो हीति | तत् कथमित्यत्र मन्त्रेति | इति प्रधानयोगाः चत्वारः || १९ || आरम्भादयो योगावस्थाः आरम्भश्च घटश्चैव तथा परिचयः स्मृतः | निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता || २० || अङ्गयोगास्तु- आरम्भश्चेति || २० || प्. ३६८) मन्त्रयोगलक्षणम् एतेषां लक्षणं ब्रह्मन् वक्ष्ये शृणु समासतः | मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् || २१ || क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् | अल्पबुद्धिरिमं योगं सेवते साधकाधमः || २२ || इति सूत्रवाक्यानि, एतेषाम् | तत्रादौ मन्दानुकम्पया मन्त्रयोगमाह- मातृकेति || २१-२२ || लययोगलक्षणम् लययोगश्चित्तलयः कोटिशः परिकीर्तितः | गच्छंस्तिष्ठन् स्वपन् भुञ्जन् ध्यायेन्निष्कलमीश्वरम् || २३ || स एव लययोगः स्याद्घठयोगमतः शृणु | लययोगप्रकारमाह- लयेति | तत्रायं सारतरो गच्छन्निति || २३ || हठयोगाङ्गानि यमश्च नियमश्चैव ह्यासनं प्राणसंयमः || २४ || प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् | समाधिः समतावस्था साष्टाङ्गो योग उच्यते || २५ || महामुद्रा महाबन्धो महावेधश्च खेचरी | जालंधरोड्डियाणश्च मूलबन्धस्तथैव च || २६ || प्. २६९) दीर्घप्रणवसंधानं सिद्धान्तश्रवणं तथा | वज्रोली चामरोली च सहजोली त्रिधा मता || २७ || अष्टाङ्गविशिष्टहठयोगमाह- हठेति || २४-२५ || पुनः द्वादशाङ्गयोगमाचष्टे- महामुद्रेति || २६-२७ || यमनियमासनेषु प्रधानाङ्गानि एतेषां लक्षणं ब्रह्मन् प्रत्येकं शृणु तत्त्वतः | लघ्वाहारो यमेष्वेको मुख्यो भवति नेतरः || २८ || अहिंसा नियमेष्वेका मुख्या वै चतुरानन | सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् || २९ ||
SK
आहत्य अयं योगो विंशत्यङ्गविशिष्टः | एतेषामङ्गानां पृथग्लक्षणमाह- एतेषामिति | दशयमेषु प्रधानसाधनमाह- लघ्विति || २८ || तथा दशनियमेषु मुख्यसाधनमाह अहिंसेति | आसनानि अनन्तानि | तेषु अशीत्यासनानि मुख्यानि | तेष्वपि सिद्धाद्यासनचतुष्टयं मुख्यम् इत्याह- सिद्धमिति || २९ || योगाभ्यासविघ्नत्यागः प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन | आलस्यं कत्थनं धूर्तगोष्ठी मन्त्रादिसाधनम् || ३० || धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै | ज्ञात्वा सुधीस्त्यजेत् सर्वान् विघ्नान् पुण्यप्रभावतः || ३१ || योगाभ्यासकालप्रादुर्भूतविघ्नजालं त्यजेदित्याह- प्रथमेति || ३०-३१ || प्. ३७०) प्राणायामोचितमठासनयोः स्वरूपम् प्राणायामं ततः कुर्यात् पद्मासनगतः स्वयम् | सुशोभनं मठं कुर्यात् सूक्ष्मद्वारं तु निर्व्रणम् || ३२ || सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः | मत्कुणैर्मशकैर्लूकैर्वर्जितं च प्रयत्नतः || ३३ || दिने दिने च संमृष्टं संमार्जन्या विशेषतः | वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः || ३४ || नात्युछ्रितं नातिनीचं चेलाजिनकुशोत्तरम् | तत्रोपविश्य मेधावी पद्मासनसमन्वितः || ३५ || ततः किमित्यत आह- प्राणायाममिति | प्राणायामोचितमठलक्षणमाह- सुशोभनमिति || ३२-३४ || योगिनो लक्षणमाह- तत्रेति || ३५ || प्राणायामारम्भप्रकारः ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् | ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् || ३६ || निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः | यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् || ३७ || पुनस्त्यजेत् पिङ्गलया शनैरेव न वेगतः | पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः || ३८ || प्. ३७१) धारयित्वा यथाशक्ति रेचयेदिडया शनैः | यया त्यजेत् तयापूर्य धारयेदविरोधतः || ३९ || योगारम्भसमये प्रणमेत् | ततः किमित्यत्र प्राणायामानुष्ठानक्रममाह- तत इति || ३६-३९ || मात्रानियमपूर्वकः प्राणायामः
SK
जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् | अङ्गुलिस्फोटनं कुर्यात् सा मात्रा परिगीयते || ४० || इडया वायुमापूर्य शनैः षोडशमात्रया | कुम्भयेत् पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया || ४१ || रेचयेत् पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः | पुनः पिङ्गलयापूर्य पूर्ववत् सुसमाहितः || ४२ || प्रातर्माध्यंदिने सायमर्धरात्रे च कुम्भकान् | शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् || ४३ || सामान्यप्राणायामलक्षणमुक्त्वा अथ मात्राकालप्रदर्शनपूर्वकं विशेषप्राणायामलक्षणमाह- जान्विति || ४०-४२ || प्रत्यहं प्राणायामकालसंख्येयत्तामाह- प्रातरिति || ४३ || आन्तरालिकफलं नाडीशुद्धिः तच्चिह्नानि च एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् | यदा तु नाडीशुद्धिः स्यात् तदा चिह्नानि बाह्यतः || ४४ || प्. ३७२) जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः | शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् || ४५ || कृशत्वं च शरीरस्य तदा जायेत निश्चितम् | एवमभ्यासान्तरालिकफलमाह- एवमिति | नाडीशुद्धिचिह्नानि कानीत्यत आह- यदेति || ४४-४८ || योगाभ्यासकाले आहारादिनियमः योगविघ्नकराहारं वर्जयेद्योगवित्तमः || ४६ || लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् | शाकजातं रामठादि बह्निस्त्रीपथिसेवनम् || ४७ || प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत् | अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् || ४८ || गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः | केवलकुम्भकसिद्धिः ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे || ४९ || यथेष्टधारणाद्वायोः सिध्येत् केवलकुम्भकः | केवले कुम्भके सिद्धे रेचपूरविवर्जिते || ५० || न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते | ततः किमित्यत्र आह- तत इति || ४९ || तेन किं स्यादित्यत आह- यथेष्टेति || ५० || प्. ३७३) प्रस्वेदादिसिद्धयः प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् || ५१ || ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः | कम्पो भवति देहस्य आसनस्थस्य देहिनः || ५२ ||
SK
ततोऽधिकतराभ्यासात् दर्दरी स्वेन जायते | यदा च दर्दरो भाव उत्प्लुत्योत्प्लुत्य गच्छति || ५३ || पद्मासनस्थितो योगी तथा गच्छति भूतले | ततोऽधिकतराभ्यासाद्भूमित्यागश्च जायते || ५४ || पद्मासनस्थ एवासौ भूमिमुत्सृज्य गच्छति | अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत् || ५५ || न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम् | स्वल्पं वा बहुधा दुःखं योगी न व्यथते तदा || ५६ || अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते | कीलवो दूषिका लाला स्वेददुर्गन्धतानने || ५७ || एतानि सर्वथा तस्य न जायन्ते ततः परम् | ततोऽधिकतराभ्यासाद् बलमुत्पद्यते बहु || ५८ || येन भूचरसिद्धिः स्याद्भूचराणां जये क्षमः | व्याघ्रो वा शरभो वापि गजो गवय एव वा || ५९ || प्. ३७४) सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः | कंदर्पस्य यथा रूपं तथा स्यादपि योगिनः || ६० || तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य संगमम् | यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् || ६१ || वर्जयित्वा स्त्रियां सङ्गं कुर्यादभ्यासमादरात् | योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् || ६२ || पादार्धत्रिपादपूर्णाभ्यासतः प्रस्वेदाद्यतिमानुषचेष्टान्त- pādaprāṇāyāmataḥ prasvedaḥ || 51-55 || duḥkhaṃ prāpyāpi || 56 || evamabhyāsaṃ kurvato yogino mānuṣavikārarāhityapūrvakaṃ mahābalaṃ saundaryaṃ stryādiparāṅmukhatvaṃ svāṅgadivyasugandhaśca jāyata ityāha- alpeti | svadehajakīlaṃ saṃdhibandhamudbadhnantīti kīlavo vāyubandhāḥ | śarīraṃ dūṣayati kārśyabhāvaṃ karotīti dūṣikā kṣayādi, netramalaṃ vā | śiṣṭaṃ spaṣṭam || 57 || kiṃca- tata iti || 58 || tat katham ? vyāghra iti || 59-62 || yogapratibandhanāśāya praṇavajapaḥ ārambhāvasthā tato rahasyupāviṣṭaḥ praṇavaṃ plutamātrayā | japet pūrvārjitānāṃ tu pāpānāṃ nāśahetave || 63 || sarvavighnaharo mantraḥ praṇavaḥ sarvadoṣahā | evamabhyāsayogena siddhirārambhasaṃbhavā || 64 ||
SK
प्. ३७५) यदि प्रतिबन्धकवशात् योगो न सिध्यति तदा तच्छान्त्यै प्रणवजपः कार्यः इत्याह- तत इति || ६३ || प्रस्वेदादिसुगन्धश्च जायते इत्यन्तसिद्धेरारब्धत्वादयमारम्भः इत्याह- एवमिति || ६४ || घटावस्था ततो भवेद्घटावस्था पवनाभ्यासतत्परा | प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः || ६५ || अन्योन्यस्याविरोधेन एकतां घटते यदा | घटावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् || ६६ || पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् | दिवा वा यदि वा सायमेककालं समभ्यसेत् || ६७ || एकवारं प्रतिदिनं कुर्यात् केवलकुम्भकम् | घटयोगमाह- तत इति || ६५-६७ || प्रत्याहारलक्षणम् इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् || ६८ || योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते | प्रत्याहारस्वरूपमाह- इन्द्रियाणीति || ६८ || धारणास्वरूपम् यद्यत् पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् || ६९ || यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् | लभते नासया यद्यत् तत्तदात्मेति भावयेत् || ७० || प्. ३७६) जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत् | त्वचा यद्यत् स्पृशेद्योगी तत्तदात्मेति भावयेत् || ७१ || एवं ज्ञानेन्द्रियाणां तु तत्तदात्मनि धारयेत् | धारणालक्षणमाह- यद्यदिति || ६९-७१ || चक्षुरादीन्द्रियेन्द्रियार्थजातं स्वाज्ञदशायामब्रह्मतया विकल्पितं स्वज्ञदशायां तत् ब्रह्मेति प्रतीचि धारयेदित्यर्थः || धारणासिद्धयः तद्गोपनविधिश्च याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः || ७२ || यथा वा चित्तसामर्थ्यं जायते योगिनो ध्रुवम् | दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरागमस्तथा || ७३ || वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा | मलमूत्रप्रलेपेन लोहादेः स्वर्णता भवेत् || ७४ || खे गतिस्तस्य जायेत संतताभ्यासयोगतः | सदा बुद्धिमता भाव्यं योगिना योगसिद्धये || ७५ || एते विघ्ना महासिद्धेर्न रमेत् तेषु बुद्धिमान् | न दर्शयेत् स्वसामर्थ्यं यस्य कस्यापि योगिराट् || ७६ ||
SK
यथा मूढो यथा मूर्खो यथा बधिर एव वा | तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये || ७७ || प्. ३७७) शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः | तत्तत्कर्मकरव्यग्रः स्वाभ्यासे विस्मृतो भवेत् || ७८ || सर्वव्यापारमुत्सृज्य योगनिष्ठो भवेद्यतिः | अविस्मृत्य गुरोर्वाक्यमभ्यसेत् तदहर्निशम् || ७९ || एवं भवेत् घटावस्था संतताभ्यासयोगतः | अनभ्यासवतश्चैव वृथागोष्ठ्या न सिध्यति || ८० || तस्मात् सर्वप्रयत्नेन योगमेव सदाभ्यसेत् | ततः किं जायते इत्यत आह- याममात्रमिति || ७२ || किं तत् ? दूरश्रुतिरिति || ७३-७५ || यतः स्वात्तसिद्धिप्रकटनाद्योगान्तरायो भवति तस्मात् सिद्धिजालोपेक्षापूर्वकं स्वसामर्थ्यं गोपयन् योगमेवाभ्यसेत् इत्याह- एत इति || ७६-७७ || तत्तत्कर्मकरव्यग्रः तत्तत्कर्मकरणे व्यग्रचित्तो भवति | ततः स्वाभ्यासे || ७८-७९ || अभ्यासत एव इयं घटावस्था सिध्यति नान्यथेत्याह- एवमिति || ८० || परिचयावस्था ततः परिचयावस्था जायतेऽभ्यासयोगतः || ८१ || वायुः परिचितो यत्नादग्निना सह कुण्डलीम् | भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः || ८२ || वायुना सह चित्तं च प्रविशेच्च महापथम् | यस्य चित्तं स्वपवनः सुषुम्नां प्रविशेदिह || ८३ || परिचयस्वरूपमाह- तत इति || ८१ || तत् कथम् ? वायुरिति || ८२ || महापथं सुषुम्नाद्वारमित्यर्थः | तथा सेयं परिचयावस्थेत्युच्यते || ८३ || प्. ३७८) पञ्चभूतमण्डलेषु पञ्चब्रह्मधारणानि भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः | येषु पञ्चसु देवानां धारणा पञ्चधोच्यते || ८४ || पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते | पृथिवी चतुरश्रं च पीतवर्णं लवर्णकम् || ८५ || पार्थिवे वायुमारोप्य लकारेण समन्वितम् | ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् || ८६ || धारयेत् पञ्च घटिकाः पृथ्वीजयमाप्नुयात् | पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः || ८७ ||
SK
आ जानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् | अपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम् || ८८ || वारुणे वायुमारोप्य वकारेण समन्वितम् | स्मरन् नारायणं देवं चतुर्बाहुं किरीटिनम् || ८९ || शुद्धस्फटिकसंकाशं पीतवाससमच्युतम् | धारयेत् पञ्च घटिकाः सर्वपापैः प्रमुच्यते || ९० || ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते | आ पायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम् || ९१ || वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् | वह्नौ चानिलमारोप्य रेफाक्षरसमुज्ज्वलम् || ९२ || प्. ३७९) त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम् | भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् || ९३ || धारयेत् पञ्च घटिका वह्निनासौ न दह्यते | न दह्यते शरीरं च प्रविष्टस्याग्निकुण्डके || ९४ || आ हृदयाद् भ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम् | वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् || ९५ || मारुतं मरुतां स्थाने यकाराक्षरभासुरम् | धारयेत् तत्र सर्वज्ञमीश्वरं विश्वतोमुखम् || ९६ || धारयेत् पञ्च घठिका वायुवद्व्योमगो भवेत् | मरणं न तु वायोस्तु भयं भवति योगिनः || ९७ || आ भ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते | व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् || ९८ || आकाशे वायुमारोप्य हकारोपरि शंकरम् | बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् || ९९ || शुद्धस्फटिकसंकाशं धृतबालेन्दुमौलिनम् | पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् || १०० || सर्वायुधैर्धृताकारं सर्वभूषणभूषितम् | उमार्धदेहं वरदं सर्वकारणकारणम् || १०१ || आकाशधारणात् तस्य खेचरत्वं भवेद् ध्रुवम् | यत्र कुत्र स्थितो वापि सुखमत्यन्तमश्नुते || १०२ || प्. ३८०) एवं धारणाः पञ्च कुर्याद्योगी विचक्षणः | ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते || १०३ || ब्रह्मणः प्रलयेनापि न सीदति महामतिः |
SK
ततः स्वावयवप्रविभक्तपञ्चभूतमण्डले पञ्चब्रह्मधारणमाह- भूमिरिति | देवानां ब्रह्मादिसदाशिवान्तानाम् || ८४ || तत्रादौ पादादीति | पृथिवीशब्देन पार्थिवमण्डलमुच्यते || ८५ || ततः पार्थिवे || ८६-८७ || अस्मण्डले विष्णुध्यानं तत्फलं चाह- आ जानोरिति || ८८-९० || वह्निमण्डले रुद्रध्यानं तत्फलं चाह- आ पायोरिति || ९१-९४ || वायुमण्डले ईश्वरध्यानं तत्फलं चाह- आ हृदयादिति || ९५-९७ || आकाशमण्डले सदाशिवध्यानं तत्फलं चाह- आ भ्रूमध्यादिति || ९८-१०३ || सगुणध्यानम् समभ्यसेत् तथा ध्यानं घटिकाषष्टिमेव च || १०४ || वायुं निरुध्य चाकाशे देवतामिष्टदामिति | सगुणध्यानमेतत् स्यादणिमादिगुणप्रदम् | सगुणनिर्गुणभेदेन द्विप्रकारं ध्यानमाह- समभ्यसेदिति || १०४ || निर्गुणध्यानतः समाधिसिद्धिः निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् || १०५ || दिनद्वादशकेनैव समाधिं समवाप्नुयात् | वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम् || १०६ || समाधिः समतावस्था जीवात्मपरमात्मनोः | प्. ३८१) ब्रह्मातिरिक्तं न किंचिदस्तीति तत्स्वरूपेणावस्थानं समाधिरित्यर्थः || १०५ || तथाविधं दिनद्वादकेनैव || १०६ || समाधिशब्दं व्युत्पादयति- समाधिरिति | जीवात्मपरमात्मनोः वाच्यार्थवैषम्यत्यागपूर्वकं तयोः लक्ष्यरूपेण समतावस्थैव समाधिरित्यर्थः || सिद्धयोगस्य स्वेच्छया देहत्यागात्यागौ यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत् स्वयम् || १०७ || परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते | अथ नो चेत् समुत्स्रष्टुं स्वशरीरं प्रियं यदि || १०८ || सर्वलोकेषु विहरन्नणिमादिगुणान्वितः | कदाचित् स्वेच्छया देवो भूत्वा स्वर्गे महीयते || १०९ || मनुष्यो वापि यक्षो वा स्वेच्छयापि क्षणाद्भवेत् | सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात् || ११० || यथेष्टमेव वर्तेत योगी यद्वा महेश्वरः | अभ्यासभेदतो भेदः फलं तु सममेव हि || १११ ||
SK
यः स्वातिरेकेणाभासतोऽपि शरीरत्रयमस्तीति मन्यते सोऽयं योगी तत् त्यक्त्वा परब्रह्मणि लीयते | यद्येवं नहि त्यक्तुमिच्छति विचित्रशक्तिं प्रकटयन् आभूतसंप्लवम् अस्मिन् लोके विहरेदित्याह- यदीति || १०७- mukhyaphalaṃ kaivalyaṃ samamevetyarthaḥ || 111 || p. 382) mahābandhalakṣaṇam pārṣṇi vāmasya pādasya yonisthāne niyojayet | prasārya dakṣiṇaṃ pādaṃ hastābhyāṃ dhārayed dṛḍham || 112 || cubukaṃ hṛdi vinyasya pūrayedvāyunā punaḥ | kumbhakena yathāśaktyā dhārayitvā tu recayet || 113 || vāmāṅgena samabhyasya dakṣāṅgena samabhyaset | prasāritastu yaḥ pādastamurūpari mānayet || 114 || ayameva mahābandha ubhayatraivamabhyaset | mahāmudrālakṣaṇaṃ anyatrāmnāyate- vakṣonyastahanurnipīḍya suṣiraṃ yoneśca vāmāṅghriṇā hastābhyāmanudhārayan prasaritaṃ pādaṃ tathā dakṣiṇam | āpūrya śvasanena kukṣiyugalaṃ mūrdhni sthitaṃ dhāraye- deṣā pātakanāśanī nanu mahāmudrā nṛṇāṃ procyate || iti | mahābandhalakṣaṇamāha- pārṣṇimiti || 112-113 || mānayet samarpayet āropayedityarthaḥ || 114 || abhyaset vāmāṅgavat dakṣāṅge'pītyarthaḥ | mahāvedhalakṣaṇam mahābandhasthito yogī kṛtvā pūrakamekadhīḥ || 115 || vāyūnāṃ gatimāvṛtya nibhṛtaṃ kaṇṭhamudrayā | puṭadvayaṃ samākramya vāyuḥ sphurati satvaram || 116 || ayameva mahāvedhaḥ siddhairabhyasyate'niśam | p. 383) vedhasvarūpamāha- mahābandheti || 115 || ucchvāsaniśvāsarecakapūrakavāyūnāṃ gatim āvṛtya ācchādya kaṇṭhamudrayā jālaṃdharabandhena nirudhya tataḥ prāṇavāyuḥ iḍāpiṅgalāpuṭadvayaṃ samyagākramya atikramya satvaraṃ suṣumnāyāṃ sphuratīti yat ayameva || 116 || khecarīsvarūpam antaḥ kapālakuhare jihvāṃ vyāvṛtya dhārayet || 117 || bhrūmadhyadṛṣṭirapyeṣā mudrā bhavati khecarī | khecarīsvarūpamāha- antariti || 117 || bandhatrayasvarūpaṃ tatphalaṃ ca kaṇṭhamākuñcya hṛdaye sthāpayed dṛḍhayā dhiyā || 118 ||
SK
बन्धो जालंधराख्योऽयं मृत्युमातङ्गकेसरी | बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः || ११९ || उड्याणाख्यो हि बन्धोऽयं योगिभिः समुदाहृतः | पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद् दृढम् || १२० || अपानमूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते | प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् || १२१ || गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः | बन्धत्रयस्वरूपं तत्फलं चाह- कण्ठमिति || ११८-१२१ || प्. ३८४) विपरीतकरणीलक्षणं तत्फलं च करणी विपरीताख्या सर्वाधिव्याधिनाशिनी || १२२ || नित्यमभ्यासयुक्तस्य जाठराग्निविवर्धनी | आहारा बहवस्तस्य संपाद्याः साधकस्य च || १२३ || अल्पाहारा यदि भवेदग्निर्देहं हरेत् क्षणात् | अधःशिरश्चोर्ध्वपादः क्षणं स्यात् प्रथमे दिने || १२४ || क्षणात्तु किंचिदधिकमभ्यसेत्तु दिने दिने | वली च पलितं चैव षण्मासार्धान्न दृश्यते || १२५ || याममात्रं तु यो नित्यमभ्यसेत् स तु कालजित् | विपरीतकरणीं तत्फलं चाह- करणीति || १२२-१२३ || स्वस्थितिविपरीतं क्रियत इति विपरीतकरणी | तदेव प्रपञ्चयति- अध इति || १२४-१२५ || वज्रोलीस्वरूपम् वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् || १२६ || लभ्यते यदि तस्यैव योगसिद्धिः करे स्थिता | अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम् || १२७ || वज्रोल्यादिस्वरूपं तत्फलं चाह- वज्रोलीमिति | किं नाम वज्रोली ? कांस्यपात्रे गोक्षीरं निक्षिप्य वज्रोलीतुल्यलिङ्गनालेन ग्रसित्वा पुनर्विरेच्य प्. ३८५) पुनर्ग्रसनादिकमभ्यस्याथ स्त्रीयोनिमण्डले रेतो विसृज्य तच्छोणितेन साकं ग्रसेदिति यत् सैव वज्रोलीत्युच्यते | यस्तामभ्यस्यति स तु सिद्धो भवतीत्याह- लभ्यत इति | सोऽयं योगी अतीतानागतं वेत्ति | तस्यैव खेचरी || १२६-१२७ || अमरोलीस्वरूपम् अमरीं यः पिबेन्नित्यं नस्यं कुर्वन् दिने दिने | वज्रोलीमभ्यसेन्नित्यममरोलीति कथ्यते || १२८ ||
SK
अमरोलीस्वरूपमाह- अमरीमिति | अमरीशब्देन मूत्रमुच्यते | तत्र प्रथमान्त्यधारे विहाय मध्यधारां हस्ते पात्रे वा गृहीत्वा योऽयं योगी तत्त्रिभागं दिने दिने पिबन् नासापुटयोः नस्यं कुर्वन् नित्यं वज्रोलीमभ्यसेत् इति यत् सैव अमरोलीति कथ्यते | तथा च हठयोगतन्त्रे अभिहितम्- पित्तोल्बणात्वात् प्रथमां च धारां विहाय निःसारतयान्त्यधाराम् | निषेव्यते शीतलमध्यधारा वज्रोलिसिद्धैरमरोलिसिद्ध्यै || इति | एवममरोलीसिद्धस्यामरीपाननस्यं विना या सिद्धिरुदेति सैव सहजोलीत्युच्यते || १२८ || राजयोगनिष्पत्तिः ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् | यदा तु राजयोगेन निष्पन्ना योगिभिः क्रियाः || १२९ || तदा विवेकवैराग्यं जायते योगिनो ध्रुवम् | विष्णुर्नाम महायोगी महाभूतो महातपाः || १३० || तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः | प्. ३८६) राजयोगस्वरूपमाह- तत इति | न हि विंशत्यवयवहठाभ्यासमन्तरा राजयोगो भवतीत्यर्थः || १२९ || हठयोगसिद्धोऽयं राजयोगः योगराजत्वात् | तत्रैव हि भगवान् दृश्यते इत्याह- विष्णुरिति | क्षराक्षरकलनाविरलपुरुषोत्तमतत्त्वस्य सोऽहमस्मीति राजयोगेनैव लक्षितत्वात् || १३० || वैराग्यहेतुनिरूपणम् यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमश्नुते || १३१ || यस्माज्जातो भगात् पूर्वं तस्मिन्नेव भगे रमन् | या माता सा पुनर्भार्या या भार्या मातरेव हि || १३२ || यः पिता स पुनः पुत्रो यः पुत्रः स पुनः पिता | एवं संसारचक्रेण कूपचक्रे धटा इव || १३३ || भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान् समश्नुते |
SK
पुरुषोत्तमत्वातिरिक्तदारादिबाह्यवैराग्यहेतवे इदमाम्नायते- यः स्तन इति | तं तादृशमित्यर्थः || १३१ || तस्मिन्नेव तथाविधे भगे रमन् रममाणो मुदमश्नुते | अस्मिन् जन्मनि या माता सा पुनः भवान्तरे भार्या भवति, या भार्या सा भवान्तरे मातैव भवतीत्याह- या मातेति | मातरेव मातैवेत्यर्थः || १३२ || एवं पुरुषोत्तमतत्त्वातिरिक्तं किंचिदप्यस्तीति पश्यन्तः कूपचक्रे धटा इव- paribhramanto nānāyoniṣu janmamṛtī bhajante | yataḥ evaṃ ataḥ brahmaiva sarvam brahmātiriktaṃ na kiṃcidasti iti śrutyācāryamukhataḥ śrutvā mumukṣuruttamalokān brahmādyāvāsabhūtān samaśnute | yāvadbrahmopādhi tāvaduṣitvā tena sākaṃ kaivalyaṃ labhante || p. 387) hṛtpadme praṇavopāsanam trayo lokāstrayo vedāstisraḥ saṃdhyāstrayaḥ svarāḥ || 134 || trayo'gnayaśca triguṇāḥ sthitāḥ sarve trayākṣare | trayāṇāmakṣarāṇāṃ ca yo'dhīte'pyardhamakṣaram || 135 || tena sarvamidaṃ protaṃ tat satyaṃ tat paraṃ padam | puṣpamadhye yathā gandhaḥ payomadhye yathā ghṛtam || 136 || tilamadhye yathā tailaṃ pāṣāṇeṣviva kāñcanam | hṛdi sthāne sthitaṃ padmaṃ tasya vaktramadhomukham || 137 || ūrdhvanālamadhobindustasya madhye sthitaṃ manaḥ | akāre recitaṃ padmamukāreṇaiva bhidyate || 138 || makāre labhate nādamardhamātrā tu niścalā | śuddhasphaṭikasaṃkāśaṃ niṣkalaṃ pāpanāśanam || 139 || labhate yogayuktātmā puruṣastatparaṃ padam | tadupāyatvena parāparabrahmagocarākārādimātrācatuṣṭaya- प्रणवावयवाकारादित्र्यक्षरे क्रमेण भूरादयः त्रयो लोकाः, ऋगादयः त्रयो वेदाः, प्रातःसंध्यादिसंध्याः तिस्रः, अकारोकारमकारभेदेन त्रयः स्वराः || १३४ || गार्हपत्यादिभेदेन अग्नयः त्रयः, सत्त्वादित्रिगुणाश्च सर्वे स्थिताः प्रतिष्ठिता इत्यर्थः | अकारादित्रयाणामक्षराणां तदारोपाधिकरणविश्वविराडोत्रादि- śrutyācāryamukhato jānāti || 135 || tena turyabhāvamāpannena
SK
प्. ३८८) योगिना सर्वमिदं प्रपञ्चजातं प्रोतम् अहमेवेदं सर्वमिति व्याप्तम् | यद्व्याप्यसापेक्षव्यापकतापह्नवसिद्धं तत् सत्यम् | यत् सत्तामात्रं तदेव परं निरतिशयं स्वावशेषतया पद्यत इति पदं ब्रह्ममात्रमवशिष्यत इत्यर्थः | कथं पुनः तुर्यस्य सर्वप्रोतत्वमित्यत्र दृष्टान्तचतुष्टयमाचष्टे- पुष्पेति || १३६ || यथा हेमनिमिल[बिड]शिलायां निर्विशेषतया काञ्चनं तत् सर्वं व्याप्य वर्तते तथा इत्यर्थः | यदेवं व्यापकचैतन्यं तदुपलब्धिस्थाननिर्देशपूर्वकं तत्स्वरूपं तज्ज्ञानफलं च विशदयति- हृदिस्थान इति | हृदिस्थाने उरोभागे कदलीपुष्पवदूर्ध्व-नालं अधोवक्त्रं हृत्पद्मं स्थितं भवति || १३७ || तदधोभागे बिन्द्वव्याकृताकाशं विद्यते | तस्य मध्ये मन- tadvṛttisahasrabhāvābhāvaprakāśakatayā pratyakcaitanyaṃ sthita bhavati | tadūrdhvanayanārthaṃ vikasanārthaṃ tadgatacaitanyasākṣātkārārthaṃ copāyamāha- akāra iti | akāre viśvavirāḍotṛcaitanye sākṣātkṛte sati hṛtpadmamūrdhvamukhatayā recitam utthitaṃ bhavati | ukāratadadhyakṣataijasasūtrānujñātṛcaitanya-sākṣātkāreṇa tat padmaṃ bhidyate vikāsameti || 138 || makāratadadhyakṣaprājñabījānujñaikarasacaitanye sākṣātkṛte sati nādamīśvaratattvaṃ tadātmakapraṇavanādo vijṛmbhate | akārādimātrātrayaprapañcaparyavasānārdhamātrā tu dvituryāvikalpādhiṣṭhitā niścalā bhavati | tatra yadupalabhyate yadanusaṃdhānataḥ puṇyapāpajālaṃ naśyati tat śuddhasphaṭikasaṃkāśaṃ pāpanāśanaṃ vastuto niṣpratiyogikaniṣkalaṃ yat svamātramavaśiṣyate || 139 || yathoktayogayuktātmā puruṣaḥ tat paraṃ padaṃ labhate kṛtakṛtyo bhavatītyarthaḥ || sarvakaraṇavyāpāroparatiḥ ātmāvagatyupāyaḥ kūrmaḥ svapāṇipādādiśiraścātmani dhārayet || 140 || evaṃ dvāreṣu sarveṣu vāyupūritarecitaḥ | niṣiddhe tu navadvāre ūrdhvaṃ prāṅ niḥśvāsastathā || 141 ||
SK
प्. ३८९) घटमध्ये यथा दीपो निवातं कुम्भकं विदुः | निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे || १४२ || निश्चितं त्वात्ममात्रेणावशिष्टं योगसेवया || इत्युपनिषत् || तदवगत्युपायस्तु सर्वकरणव्यापृत्युपरतिरेवेत्याह- कूर्म इति | यथा कूर्मः स्वाङ्गान्युपसंहृत्य शिलावत् वर्तते || १४० || एवं योगी नवद्वारेषु सर्वेषु नाडीद्वारेषु च वायुपूरितरेचितः पूरकरेचकावस्थायां वायुना पूरितरेचितनाडीसुषिरावच्छिन्ननिर्- suṣumnāmārgeṇa ūrdhvaniḥśvāso bhavedityāha- niṣiddha iti | navadvāre niṣiddhe niruddhe satyatha suṣumnāyāḥ prāk pūrvadvāraṃ mūlādhārasthaṃ bhittvā athordhvaṃ niḥśvāsaḥ nirgataśvāsavyāpāro bhavet, kevalakumbhakena tiṣṭhedityarthaḥ || 141 || kumbhakalakṣaṇamāha ghaṭamadhya iti | evaṃ kevalakumbhakayogena ātmatattvamavagamya kṛtārtho bhavedityupasaṃharati- niṣiddhairiti | svasvavyāpṛtiniṣiddhaiḥ niruddhaiḥ navadvāraiḥ viśiṣṭadeho yogī nirjane nirupadrave pradeśe siddhādyāsanamāsthāya || 142 || nirvikalpakayogasevayā kaivalyanāḍīṃ bhittvā tatra ātmamātreṇāvaśiṣṭamiti tattvajñānena niścitaṃ vikalebarakaivalyaṃ bhajediti śeṣaḥ | tuśabdo'vadhāraṇārthaḥ | ityupaniṣacchabdau yogatattvopaniṣatsamāptyarthau || śrīvāsudevendraśiṣyopaniṣadbrahmayoginā | likhitaṃ syādvivaraṇaṃ yogatattvasya susphuṭam || yogatattvavivaraṇaṃ ṣaṣṭyuttaraśatadvayam || iti śrīmadīśādyaṣṭottaraśatopaniṣacchāstravivaraṇe ekacatvāriṃśatsaṃkhyāpūrakaṃ yogatattvopaniṣadvivaraṇaṃ saṃpūrṇam

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin [M00302].

Source