Greater Perfection of Wisdom

Larger Prajñāpāramitā · Lअर्गेर् Pरज्ञापारमिता

Greater Perfection of Wisdom

Larger Prajñāpāramitā

Lअर्गेर् Pरज्ञापारमिता

SK
Lअर्गेर् Pरज्ञापारमिता
SK
(LPG १र्) सिद्धं नमः सर्वज्ञाय एवं मया श्रुतम् एकसमये भगवान् राजगृहे विहरति स्म गृध्राकूटपर्वते महता भिक्षुसंघेन सार्धं पंचमात्रैर् भिक्षुसहस्रैः सर्वैर् अर्हद्भिः क्षीणास्रवैर् निष्क्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिप्राप्तैर् एकपुद्गलं स्थापयित्वा यद् उतायुष्मन्तम् आनन्दम्* शैक्षं स्रोतापन्नं पंचमात्रैश् च भिक्षुणीशतैर् यशोधरामहाप्रजापतीप्रमुखैः संबहुलैश् चोपासकैर् उपासिकाभिश् च सर्वैर् दृष्टधर्मभिः महता च बोधिसत्वसंघेन सार्धम् अप्रमेयासंख्येयैर् बोधिसत्वैर् महासत्वैः सर्वैर् धारणीप्रतिलब्धैः समाधिप्रतिलब्धैः शुन्यताविहारिभिर् आनिमित्तगोचरैर् अकल्पितप्रणिधानैः सर्वधर्मसमताक्षान्तिप्रतिलब्धैः असंगप्रणिधानसमन्वागतैः अक्षयनिर्देशप्रतिसंविन्नयप्रतिविद्धैः महाभिज्ञाविक्रीडितैर् अत्यन्ताच्युताभिज्ञैर् आदेयवचनैर् अकुसीदैर् आरब्धवीर्यैः कायजीवितनिरपेक्षैर् अकुहकैर् अलपकैर् अपगतज्ञातिलाभचित्तैर् निरामिषधर्मदेशकैः गंभीरधर्मक्षान्तिपरमगतिंगतैः महावैशारद्यप्राप्तैः असंकुचितमानसैः सर्वमारकर्मसमतिक्रान्तैः कर्मावरणप्रतिप्रस्रब्धैः निहतकर्मक्लेशप्रत्यर्थिकैः सर्वपरप्रवाद्यनभिभूतैः (LPG १व्) सर्वश्रावकप्रत्येकबुद्धदुरवगाहैर् धर्मप्रविचयविभक्तिनिर्देशकुशलैः असंख्येयकल्पसुसमारब्धप्रणिधानैः स्मितमुखैः पूर्वालापिभिः व्यपगतभ्रुकुटिकैः श्लक्ष्णमधुवचनैः गाथाभिगीतपरालपनकुशलैः अनाच्छेद्यप्रतिभानैर् अनन्तपर्षदभिभवनैर् वैशारद्यसमन्वागतैर् अनन्तकल्पकोटीनिर्देशज्ञाननिःसरणकुशलैः मायामरीचिदगचन्द्रस्वप्नप्रतिश्रुत्कप्रतिभासगगनगन्धर्वनगरप्रतिबिंबनिर्माणोपमधर्माधिमुक्तैर् अपगतसंलीनचित्तैः सर्वसत्वचित्तगतिसूक्ष्मज्ञानचर्याधिमुक्त्यवतारकुशलैः सर्वसत्वाप्रतिहतचित्तैर् अधिमात्रक्षान्तिसमन्वागतैः सर्वधर्मताप्रतिवेधज्ञानकुशलैर् गंभीरधर्मतादुरवगाहैः स्वचित्तवशिताप्रतिलब्धैः सर्ववशिताप्राप्तैः सर्वकर्मक्लेशदृष्ट्यावरणविमुक्तैः प्रतीत्यनिर्देशकुशलैर् गंभीरप्रतीत्यसमुत्पादाक्षयनयावतीर्णैः सर्वदृष्ट्यनुशयपर्युत्थानविगतैः सर्वसंयोजनप्रहीणैः सत्यप्रतिवेधज्ञानकुशलैः सततसमितप्रतिश्रुत्कासमसर्वधर्माधिमुक्तैः अप्रमाणधर्मनयनिर्देशविशारदैर् यथात्म्यावतारणकुशलैर् अनन्तबुद्धक्षेत्रव्यूहप्रणिधानप्रस्थानपरिगृहीतैर् असंख्येयलोकधातुगतबुद्धानुस्मृतिसमाधिसततसमितम् अभिमुखीभूतैः सर्वबुद्धोत्पादोपसंक्रमणकुशलैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्टिपर्युत्थानसत्वक्लेशप्रशमनकुशलैः समाधिशतसहस्राभिनिर्हारनिष्क्रीडनज्ञानप्रवेशकुशलैर् अपर्यन्तकल्पक्षीणगुणवर्णसमन्वागतैः | तद्यथा भद्रपालेन च बोधिसत्वेन महासत्वेन | रत्नाकरेण च | रत्नगर्भेण च | रत्नदत्तेन च | सुसार्थवाहेन च | नलदत्तेन च | गुहपुप्तेन च | वरुणदेवेन चेन्द्रदेवेन च | भद्रपालेन च | उत्तरमतिना च | विशेषमतिना च | वर्धमानमतिना च | अनन्तमतिना (LPG २र्) च | अमोघदर्शिना च | अनावरणमतिना च | सुसंप्रस्थितेन च | सुविक्रान्तविक्रामिणा च | अनन्तवीर्येण | नित्योद्युक्तेन च | नित्यप्रयुक्तेन च | अनिक्षिप्तधुरेण च | सूर्यगर्भेण च | अनुपममतिना च | बोधिसत्वेन महासत्वेन | अवलोकितेश्वरेण च | महास्थामप्राप्तेन च | मंजुश्रिया च कुमारभूतेन | मारबलप्रमर्दिना च | वज्रमतिना च | रत्नमुद्राहस्तेन च | नित्योत्क्षिप्तहस्तेन च | महाकरुणाचिन्तिना च | महाव्यूहेन च | व्यूहराजेन च | मेरुकूटेन च | मैत्रेयेण च बोधिसत्वेन महासत्वेन एतैश् चान्यैश् चानेकैर् बोधिसत्वकोटीनियुतशतसहस्रैः अथ खलु भगवांस् तस्यां वेलायां स्वयम् एव सिंहासनं प्रज्ञप्य न्यषीदत् पर्यंकम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य तत्र निषद्य समाधिराजो नाम समाधिं समापन्नो ऽभूत्* यत्र समाधौ सर्वसमाधयो ऽन्तर्गता अनुप्रविष्टाः संग्रहं समवसरणं गच्छन्ति | अथ भगवां स्मृतः संप्रजानंस् ततः समाधेर् व्युत्थाय दिव्येन चक्षुषेदं बुद्धक्षेत्रं व्यवलोकयति स्म | व्यवलोक्य सर्वकायात् प्रभां प्रामुञ्चत्* तस्याधस्तात् पदतलयोः सहस्राराभ्यां चक्राभ्यां षष्टिषष्टिरश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म : दशभ्यश् च पादांगुलिभ्यः षष्टिषष्टी रश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म | एवं द्वाभ्यां गुल्फाभ्यां द्वाभ्यां जंघाभ्यां द्वाभ्यां जानुभ्यां द्वाभ्याम् ऊरुभ्याम्* कटेर् नाभिमण्डलात्* द्वाभ्यां पार्श्वाभ्याम्* हृदये श्रीवत्सात् महापुरुषलक्षणात्* सष्टिषष्टी रश्मिकोटीनियुतशतसहस्राणि निश्चरन्ति स्म | दशभ्यो हस्ताङ्गुलिभ्यः षष्टिषष्टी रश्मिकोटीनियुतशतसहस्राणि निश्चरंति स्म | एवन् द्वाभ्यां बाहुभ्याम्* द्वाभ्याम् आंसाभ्याम्* ग्रीवायाश् चतसृभ्यो (LPG २व्) दंष्ट्राभ्यश् चत्वारिंशतो दन्तेभ्यः द्वाभ्यां चक्षुभ्यां द्वाभ्यां श्रोत्राभ्याम्* द्वाभ्यां घ्राणपुटेभ्याम्* मध्ये भ्रुवोर्णाया उपरिष्टाद् उष्णीषात्* मुखद्वाराच् च षष्टिषष्टी रश्मिकोटीनियुतशतसहस्राणि निश्चरंति स्म | सर्वाणि च तानि रश्मिकोटीनियुतशतसहस्राणि सर्वावन्तम् इमं त्रिसाहस्रमहासाहस्रं लोकधातुं महतावभासेन स्फरित्वा पूर्वस्यां दिशि गंगानदीवालुकोपमान् लोकधातून् महतावभासेन स्फरन्ति स्म | एवन् दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समंताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमान् लोकधातून् महतावभासेन स्फरन्ति स्म | यैश् च सत्वैः सो ऽवभासो दृष्टो ये च तेन रश्म्यवभासेन स्पृष्टास् ते सर्वे नियता अभवन्न् अनुत्तरस्यां सम्यक्संबोधौ | अथ भगवान् पुनर् एव सर्वरोमकूपेभ्यः प्रभां प्रामुंचत्* यया प्रभयायं त्रिसाहस्रमहासाहस्रो लोकधातुर् महतावभासेन स्फुटो ऽभूत्* पूर्वस्यां च दिशि गंगानदीवालुकोपमाल् लोकधातवो महतावभासेन स्फुटा अभूवन्* एवं दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टात्* यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातवो महतावभासेन स्फुटा अभूवन्* यैश् च सत्वैः सो ऽवभासो दृष्टो ये च तेनावभासेन स्पृष्टास् ते सर्वे नियता अभवन्न् अनुत्तरस्यां सम्यक्संबोधौ | अथ भगवान् पुनर् अपि या सा तथागतस्य प्रकृतिप्रभा तया प्रभयेमं (LPG ३र्) त्रिसाहस्रमहासाहस्रं लोकधातुं महतावभासेन स्फरति स्म | पूर्वस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातून् महतावभासेन स्फरति स्म | एवं दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टात्* यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातुंस् तेन महतावभासेन स्फरति स्म | यैश् च सत्वैः सो ऽवभासो दृष्टो ये च तेनावभासेन स्पृष्टास् ते सर्वे नियता अभवन्न् अनुत्तरस्यां सम्यक्संबोधौ | अथ भगवान् मुखद्वाराज् जिह्वेन्द्रियं निर्णमय्य सर्वावन्तम् इमं तृसाहस्रमहासाहस्रं लोकधातुं जिह्वेन्द्रियेण स्फरित्वा स्मितं प्रादुरकार्षीत्* ततश् च जिह्वेन्द्रियाद् अनेकानि नानावर्णानि रश्मिकोटीनयुतशतसहस्राणि निश्चरन्ति स्म | सर्वत्र च रश्म्यां नानारत्नमयानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि सन्तिष्ठन्ते स्म | चित्राणि दर्शनीयानि मनोरमाणि | सुवर्णानि सुगन्धीनि | मृदूनि काचलिन्दिकसुखसंस्पर्शानि | तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मन् देशयंति स्म | यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनां ते पूर्वस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातून् गच्छन्ति स्म | तत्र गत्वा धर्मन् देशयंति स्म | यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनाम्* एवं दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातून् गच्छन्ति स्म | तत्र गत्वा धर्मन् देशयन्ति स्म | यद् उतेमाम् एव षट्पारमिताप्रतिसंयुक्तान् धर्मदेशनाम्* यैश् च सत्वैः स धर्मः श्रुतस् ते सर्वे नियता अभवन्न् अनुत्तरस्यां सम्यक्संबोधौ | अथ भगवांस् तस्मिन्न् एव सिंहासने निषण्णः सिंहविक्रीडितं नाम बुद्धसमाधिं समापद्य तथारूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्करोति स्म | यथारूपेणर्ध्यभिसंस्कारेणाभिसंस्कृतेनायं त्रिसाहस्रमहासाहस्रो लोकधातुः (LPG ३व्) षड्विकारम् अकंपत प्राकंपत संप्राकंपत | अवेधत्* प्रावेधत्* संप्रावेधत्* अचलत् प्राचलत् संप्राचलत्* अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्* अगर्जत् प्रागर्जत् संप्रागर्जत्* अरणत् प्रारणत् संप्रारणत्* अन्तेषून्नमति स्म | मध्ये ऽवनमति स्म | मध्य औन्नमति स्मान्तेष्व् अवनमति स्म | मृदुकः स्निग्धः सूक्ष्मः सर्वसुखसंजननो ऽभूत्* अथ तेन क्षणलवमुहूर्तेन यावन्तो ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ नरकतिर्यग्योनियमलोकाक्षणापायदुर्गतिविनिपातास् ते सर्वे समुच्छिन्ना अभूवन्* सर्वे च ते सत्वा मनुष्याणां सभागतायै उपपन्ना अभूवन्* चातुर्महाराजकायिकानां च देवानां त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीनां परनिर्मितवशवर्तिनां देवानां सहभागतायै उपपन्ना अभूवन्* अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्येन पौर्विकीं जातिं समनुस्मरंति स्म | समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धा येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य प्रांजलीभूता भगवन्तं नमस्यन्ति स्म | एवं पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकासमेषु लोकधातुषु सर्वनरकाः सर्वतिर्यग्योनयः सर्वयमलोका समुच्छिन्नाः सर्वाक्षणाश् चास्तमिता अभूवन्* सर्वे च ते सत्वा मनुष्याणां सहभागतायै उपपद्यन्ते स्म | अथ ते मनुष्यास् ते च देवास् तेनैव प्रीतिप्रसादप्रामोद्येन पौर्विकीं जातिं समनुस्मरंति स्म | समनुस्मृत्य प्रीतिप्रसादप्रामोद्यप्रतिलब्धाः स्वकस्वकेषु बुद्धक्षेत्रेषु ये तत्र तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति तान् उपसंक्रमन्ति स्मोपसंक्रम्य प्रांजलीभूतास् तांस् तथागतान् अर्हतः सम्यक्संबुद्धान् नमस्यन्ति स्म | अथ तेन क्षणेन ये ऽस्मिंस् (LPG ४र्) त्रिसाहस्रमहासाहस्रे लोकधातौ जात्यन्धाः सत्वास् ते ऽपि सर्वे चक्षुषा रूपाणि पश्यन्ति स्म | वधिरा श्रोत्रेण शब्दांच् छृण्वन्ति स्म | उन्मत्ता स्मृतिं प्रतिलभंति स्म | विक्षिप्तचित्ता अविक्षिप्तचित्ततां प्रतिलभन्ते स्म | नग्नाश् चीवराणि प्रतिलभन्ते स्म | दरिद्रा धनानि प्रतिलभन्ते स्म | जिघत्सिता भोजनानि प्रतिलभन्ते स्म | पिपासिताः पानीयं प्रतिलभन्ते स्म | रोगस्पृष्टा विगतरोगा अभूवन्* विकलेन्द्रियाः परिपूर्णेन्द्रिया अभूवन्* क्लान्तकाया अक्लान्तकाया अभूवन्* अविरहिताकुशलकायवाङ्मनस्कर्मन्ताजीवा विगताकुशलकायवाङ्मनस्कर्मन्ताजीवा भवन्ति स्म | सर्वसत्वाश् च सर्वसत्वेषु समचित्ता अभूवन्* यद् उत मातापितृभ्रातृभगिनीसमचित्ताः मित्रज्ञातिसहायसमचित्ताः सर्वसत्वा दशकुशलकर्मपथसमन्वागता अभूवन्* ब्रह्मचारिणः शुचयो निरामगन्धाः सर्वाकुशलवितर्कविगताः सर्वसत्वास् तस्मिन् समये सर्वसुखसमर्पिता अभूवन्* एवंरूपेण सुखेन समन्वागतास् तद्यथा तृतीयध्यानसमापन्नस्य भिक्षोः सुखं सर्वसत्वाश् च तस्मिन् समये एवंरूपया प्रज्ञया समन्वागता अभूवन्* यद् एवं जानंति स्म | साधु दानं साधु दमः साधु संयमः साधु सत्यम् | साध्व् अप्रमादः साधु मैत्री साधु करुणा साध्व् अविहिंसा प्राणिभूतेषु | अथ भगवांस् तस्मिन्न् एव सिंहासने निषण्ण इमं त्रिसाहस्रमहासाहस्रं लोकधातुं ससुमेरुं सचक्रवाडं सदेवभवनं सेन्द्रकं सब्रह्मकं सवशवर्तिनं सशुद्धावासं सदेवदानवकायम् अभिभूय स्थितः शोभते भासते तपति विराजते आभया वर्णेन तेजसा शृया : तद्यथापि नाम बलवान् दिवाकरः परिशुद्धे गगनतले पौर्णमास्यां वा चन्द्रमण्डलम्* एवम् एव भगवान् पूर्वस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातून् अभिभूय दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् (LPG ४व्) अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु गंगानदीवालुकोपमाल् लोकधातून् अभिभूय स्थितः शोभते भासते तपति विरोचते आभया वर्णेन तेजसा श्रिया तद्यथापि नाम सुमेरुः पर्वतराजः सर्वांस् तदन्यान् पर्वतान् अभिभूय स्थितः शोभते भासते तपति विराजते | तद्यथापि नाम चन्द्रमण्डलम्* सर्वाणि तारारूपाण्य् अभिभूय स्थितं शोभते भासति तपति विरोचते | तद्यथापि नाम सूर्यमण्डलं सर्वांस् तदन्यान् अवभासान् अभिभूय स्थितं शोभते भासते तपति विरोचते | एवम् एव भगवान् दशसु दिक्षु सदेवकं सेन्द्रकं समारकं सब्रह्मकं सशुद्धावासम् अभिभूय स्थितः शोभते भासते तपति विरोचते आभया वर्णेन तेजसा शृया : पुनर् यादृशं भगवतः प्रकृत्यात्मभावोपदर्शनं तादृशम् इह त्रिसाहस्रमहासाहस्रे लोकधाताव् उपदर्शयति स्म | अथ यावन्तो ऽस्मिं त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासकायिका देवनिकायाः यावद् ब्रह्मकायिका परनिर्मितवशवर्तिनः निर्माणरतयः तुषिता यामास् त्रायस्त्रिंशाश् चातुर्महाराजकायिका देवनिकायास् ते सर्वे सिंहासननिषण्णं तथागतं पश्यन्ति स्म | ते तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाता दिव्यानि पुष्पाण्य् आदाय दिव्यानि माल्यानि दिव्यान् गन्धान् दिव्यानि विलेपनानि दिव्यानि चूर्णानि दिव्यान् वासान् दिव्यान्य् उत्पलपद्मकुमुदपुण्डरीकनडिनसौगन्धिकानि | दिव्यानि केसरतमालपत्राणि दिव्यानि चीवराणि | दिव्यान्य् आभरणानि | दिव्यानि च्छत्राणि दिव्यां ध्वजान्* दिव्याः पताका गृहीत्वा येन भगवांस् तेनोपसंक्रामन्ति स्म | उपसंक्रम्य तैः पुष्पादिभिर् यावच् छत्रध्वजपताकाभिर् भगवन्तम् अवकिरन्ति स्माभ्यवकिरन्ति स्माभिप्रकिरन्ति स्म | ये चेह त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्या विनेया भाजनीभूतास् ते जलजस्थलजानि पुष्पाणि गृहीत्वा येन भगवांस् तेनोपसंक्रम्य तथागतम् अभिपूजयंति स्म | (LPG ५र्) सर्वाणि च तानि पुष्पादीनि यावच् छत्रध्वजपताका भगवत्य् अवकीर्णानि | समनन्तरम् एव भगवतो ऽधिष्ठानेन त्रिसाहस्रमहासाहस्रलोकधातुप्रमाणो भगवत उपरि वैहायसे मूर्धसन्धौ महापुष्पादिकूटागारः संस्थितो ऽभूत्* ततश् च कूटागाराद् दिव्यानि पुष्पपट्टदामानि प्रलंबन्ते स्म प्रलंबन्ते स्माभिप्रलंबन्ते स्म | तैश् च पुष्पपट्टदामाभिर् अयं त्रिसाहस्रमहासाहस्रो लोकधातुस् तेन च सुवर्णवर्णेन भगवतः प्रभावभासेनात्यर्थं शोभते भासते तपति विरोचते | यथा चायं त्रिसाहस्रमहासाहस्रो लोकधातुर् एवं पूर्वस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातवो ऽवभासिताः स्फुटाश् चाभूवन्* एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु लोकधातवो ऽवभासिताः स्पुटाश् चाभूवन्* तत्र जांबूद्वीपकानां मनुष्याणां तथागतस्यासेचनकदर्शनम् अत्मभावन् दृष्ट्वैवम् अभवत्* अस्माकं पुरतः तथागतो निषण्णो धर्मन् देशयतीति | यथा जांबूद्वीपकानां मनुष्याणाम् एवं गोदानीयानां पूर्वविदेहकानाम् उत्तरकौरवाणां चातुर्महारजकायिकानां देवानां यावद् अघनिष्ठानान् देवानां एवं साहस्रे लोकधातौ द्विसाहस्रे त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्वानाम् एतद् अभूत्* अस्माकं पुरतस् तथागतो निषण्णो धर्मन् देशयतीति | अथ भगवांस् तस्मिन्न् एव सिंहासने निषण्णः पुनर् एव प्रभां प्रामुंचत्* यया प्रभया पुनर् एवायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितो ऽभूत्* येनावभासेन य इह त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु तथागतान् अर्हतः सम्यक्संबुद्धान् सश्रावकसंघान् पश्यन्ति स्म | तत्र च पूर्वस्यान् दिशि ये गंगानदीवालुकोपमेषु लोकधातुषु सत्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं च शाक्यमुनिं तथागतं सभिक्षुसंघपरिवारम् अद्राक्षुर् यथा च पूर्वस्यान् दिश्य् एवं दक्षिणस्यां (LPG ५व्) पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु ये गंगानदीवालुकोपमेषु लोकधातुषु सत्वास् ते ऽपीमं त्रिसाहस्रमहासाहस्रं लोकधातुं भगवन्तं च शाक्यमुनिं तथागतं सभिक्षुसंघपरिवारम् अद्राक्षुः // अथ पूर्वस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातून् अतिक्रम्य या सर्वपश्चिमा लोकधातू रत्नावती नाम तत्र रत्नाकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति धृयते यापयति स इमाम् एव प्रज्ञापारमितां बोधिसत्वानां महासत्वानां संप्रकाशयति | अथ तत्र लोकधातौ समन्तरश्मिर् नाम बोधिसत्वो महासत्वस् तं महान्तम् अवभासं तं च महान्तं पृथिवीचालं तं च तथागतात्मभावन् दृष्ट्वा येन स भगवान् रत्नाकरस् तथागतस् तेनोपसंक्रान्त-र्-उपसंक्रम्य तं भगवन्तं रत्नाकरं तथागतम् एतद् अवोचत्* को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्य अयं चेदृशस् तथागतकायः सन्दृश्यते | एवम् उक्ते भगवान् रत्नाकरस् तथागतस् तं समन्तरश्मिं बोधिसत्वं महासत्वम् एतद् अवोचत्* एष कुलपुत्र पश्चिमायान् दिशि सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति धृयते यापयति | स बोधिसत्वानां महासत्वानां प्रज्ञापारमितां संप्रकाशयति | तस्यैष ईदृशो ऽनुभाव अथ समन्तरश्मिर् बोधिसत्वो महासत्वस् तं भगवन्तं रत्नाकरं तथागतम् एतद् अवोचत्* गच्छेयम् अहं भगवंस् तां सहाल् लोकधातुम् तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय | तेषां च बोधिसत्वानां महासत्वानां तेषां च सर्वेषां कुमारभूतानां धारणीप्रतिसंवित्प्रतिलब्धानां समाधिसमापत्तिवशिताप्रतिलब्धानां स भगवान् रत्नाकरस् तथागत | आह | गच्छ त्वं (LPG ६र्) कुलपुत्र ऽस्य शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय यस्येदानीं कालं मन्यसे | अथ रत्नाकरस् तथागतः सुवर्णनिर्भासानां सहस्रपत्राणां पद्मानां सहस्रं समन्तरश्मये बोधिसत्वाय महसत्वाय प्रादात्* इमैः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यवकिर संप्रजानच्चारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेस् तत् कस्य हेतोः दुरासदा हि कुलपुत्र ते बोधिसत्वा महासत्वा ये तत्र लोकधाताव् उपपन्ना मा तत्र क्षण्येथा | अथ समन्तरश्मिर् बोधिसत्वो महासत्वस् तस्य भगवतो रत्नाकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकारूपैश् च ततो बुद्धक्षेत्राद् अन्तर्हितः यावन्तः पूर्वस्यान् दिशि बुद्धा भगवन्तस् तिष्ठन्ति दृयन्ते यापयंति | तान् सर्वान् सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन्* पुष्पैर् माल्यैर् गन्धैर् विलेपनैर् यावच् छत्रध्वजपताकाभिर् महत्या बोधिसत्वर्ध्या महता बोधिसत्वानुभावेन येन स भगवांच् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्त-र्-उपसंक्रम्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते ऽस्थाद् एकान्तस्थितः समन्तरश्मिर् बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्* रत्नाकरो भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पावाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलं च सुखस्पर्शविहारतां च | इमानि च तेन भगवता सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रहितानि | भगवतः पूजाकर्मणे | अथ भगवांस् तानि पद्मानि गृहीत्वा येन ते पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत्* अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा ऽभूवन्* तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मन् देशयन्ति स्म | (LPG ६व्) यद् उतेमा एव षट्पारमिता आरभ्य : यैश् च सत्वैः सा धर्मदेशना श्रुता ते नियता अभवन्न् अनुत्तरस्यां सम्यक्संबोधौ | ते ऽपि गृहस्थाः प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैस् तथागतं सत्कुर्वन्ति स्म गुरुकुर्वन्ति स्म मानयंति स्म पूजयन्ति स्म | // एवं दक्षिणस्यान् दिशि गंगानदीवालुकोपमाल् लोकधातून् अतिक्रम्य या सर्वपश्चिमा लोकधातुः सर्वशोकापगता नाम तत्राशोकश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति धृयते यापयति तत्र विगतशोको नाम बोधिसत्वो महासत्व यावद् विस्तरेण कर्तव्यम्* // एवं पश्चिमायान् दिश्य् उपशान्ता नाम लोकधातुः तत्र रत्नार्चिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति धृयते यापयति | तत्र चारित्रमतिर् नाम बोधिसत्वो महासत्व यावद् विस्तरेण कर्तव्यम्* // उत्तरस्यान् दिशि जया नाम लोकधातुस् तत्र जयेन्द्रो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति धृयते यापयति तत्र जयदत्तो नाम बोधिसत्वो महासत्व यावद् विस्तरेण कर्तव्यम्* // एवम् उत्तरपूर्वस्यान् दिशि समाध्यलंकृता नाम लोकधातुस् तत्र समाधिहस्त्युत्तरश्रीर् नाम तहागतस् तिष्ठति धृयते यापयति तत्र विजयविक्रामी नाम बोधिसत्वो महासत्व यावद् विस्तरेण कर्तव्यम्* // पूर्वदक्षिणस्यान् दिशि बोधिमण्डालंकारसुरुचिरा नाम लोकधातुस् तत्र पद्मोत्तरश्रीर् नाम तथागतस् तिष्ठति धृयते यापयति तत्र पद्महस्तो नाम बोधिसत्वो महासत्व यावद् विस्तरेण कर्तव्यम्* // दक्षिणपश्चिमायान् दिशि विगतरजःसंचया नाम लोकधातुस् तत्र सूर्यमण्डलप्रभासोत्तमश्रीर् नाम तथागतस् तिष्ठति ध्रियते यापयति | तत्र सूर्यप्रतिभासो नाम बोधिसत्वो महासत्वः यावद् विस्तरेण कर्तव्यम्* // पश्चिमोत्तरस्यान् दिशि वशीभूता नाम लोकधातुस् तत्रैकच्छत्रो नाम तथागतस् तिष्ठति धृयते यापयति तत्र रत्नोत्तमो नाम बोधिसत्वो महासत्वो यावद् विस्तरेण कर्तव्यम्* // (LPG ७र्) अधस्ताद्दिशि पद्मा नाम लोकधातुस् तत्र पद्मश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते यापयति | तत्र पद्मोत्तरो नाम बोधिसत्वो महासत्व यावद् विस्तरेण कर्तव्यम्* उपरिष्टाद्दिशि गंगानदीवालुकोपमाल् लोकधातून् अतिक्रम्य या सर्वपश्चिमा लोकधातुर् नन्दा नाम तत्र नन्दश्रीर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति धृयते यापयति | स इमाम् एव प्रज्ञापारमितां बोधिसत्वानां महासत्वानां संप्रकाशयति | अथ तत्र लोकधातौ नन्ददत्तो नाम बोधिसत्वो महासत्वस् तं महान्तम् अवभासं तञ् च महान्तं पृथिवीचालं तं च तथागतात्मभावन् दृष्ट्वा येन स भगवां नन्दश्रीस् तथागतस् तेनोपसंक्रान्त उपसंक्रम्य तं भगवन्तं नन्दश्रियं तथागतम् एतद् अवोचत्* को भगवन् हेतुः कः प्रत्ययो ऽस्य महतो ऽवभासस्य लोके प्रादुर्भावायास्य च महतः पृथिवीचालस्य अयं चेदृशस् तथागतकायः सन्दृश्यते | एवम् उक्ते स भगवान् नन्दश्रीस् तथागतस् तं नन्ददत्तं बोधिसत्वं महासत्वम् एतद् अवोचत्* एष कुलपुत्राधस्ताद्दिशि सहा नाम लोकधातुस् तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति धृयते यापयति | स बोधिसत्वानां महासत्वानां प्रज्ञापारमितां संप्रकाशयति | तस्यैष ईदृशो ऽनुभावः अथ नन्ददत्तो बोधिसत्वो महासत्वस् तं भगवन्तं नन्दश्रियं तथागतम् एतद् अवोचत्* गच्छेयम् अहं भगवंस् तां सहां लोकधातुं तस्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय | तेषां च बोधिसत्वानां महासत्वानां तेषां च सर्वेषां कुमारभूतानां धारणीप्रतिसंवित्प्रतिलब्धानां सर्वसमाधिसमापत्तिवशिताप्रतिलब्धानां स भगवान् नन्दश्रीस् तथागत आह | गच्छ त्वं कुलपुत्र तस्य शाक्यमुनेस् तथागतस्यार्हतः (LPG ७व्) सम्यक्संबुद्धस्य दर्शनाय यस्येदानीं कालं मन्यसे | अथ नन्दश्रीस् तथागतः सुवर्णनिर्भासानां सहस्रपत्राणां पद्मानां सहस्रं नन्ददत्ताय बोधिसत्वाय महासत्वाय प्रादात्* इमैः कुलपुत्र पद्मैस् तं भगवन्तं शाक्यमुनिं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभ्यवकिर संप्रजानचारी च कुलपुत्र तत्र बुद्धक्षेत्रे भवेत् तत् कस्य हेतोः दुरासदा हि कुलपुत्र ते बोधिसत्वा महासत्वा ये तत्र लोकधाताव् उपपन्ना मा तत्र क्षण्येथा अथ नन्ददत्तो बोधिसत्वो महासत्वस् तस्य भगवतो नन्दश्रियस् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् तानि सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि गृहीत्वानेकैर् बोधिसत्वकोटीनियुतशतसहस्रैः सार्धं गृहस्थैः प्रव्रजितैश् च दारकदारिकरूपैश् च ततो बुद्धक्षेत्राद् अन्तर्हितः यावन्त उपरिष्टाद्दिशि बुद्धा भगवन्तस् तिष्ठन्ति दृयन्ते यापयन्ति तान् सर्वान् सत्कुर्वं गुरुकुर्वन् मानयन् पूजयन्* पुष्पैर् माल्यैर् गन्धैर् विलेपनैर् यावच् छत्रध्वजपताकाभिः महत्या बोधिसत्वर्ध्या महता बोधिसत्वानुभावेन | येन भगवांच् छाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते ऽस्थाद् एकान्तस्थितः नन्ददत्तो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्* नन्दश्रीर् भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतो ऽल्पाबाधतां परिपृच्छत्य् अल्पातङ्कतां लघूत्थानतां बलं च सुखस्पर्शविहारतां च इमानि च तेन भगवता सुवर्णनिर्भासानि सहस्रपत्राणि पद्मानि प्रहितानि भगवतः पूजाकर्मणे | अथ भगवांस् तानि पद्मानि गृहीत्वा येन ते उपरिष्टाद्दिशि गंगानदीवालुकोपमेषु (LPG ८र्) लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तेनाक्षैप्सीत्* अथ तैः पद्मैस् ते सर्वे लोकधातवः स्फुटा अभूवन्* तत्र च पद्मेषु तथागतविग्रहा निषण्णा धर्मन् देशयन्ति स्म | यद् उतेमा एव षट्पारमिता आरभ्य : यैश् च सत्वैः सा धर्मदेशना श्रुता ते नियता अभवन्न् अनुत्तरस्यां सम्यक्संबोधौ | ते ऽपि बोधिसत्वा गृहस्था प्रव्रजिताश् च दारकदारिकाश् च स्वकस्वकैः कुशलमूलैस् तथागतं सत्कुर्वन्ति स्म गुरुकुर्वन्ति स्म | मानयंति स्म पूजयंति स्म | // अथ तेन क्षणलवमुहूर्तेनायं त्रिसाहस्रमहासाहस्रो लोकधातू रत्नमयः संस्थितो ऽभूत्* विचित्रपुष्पाभिकीर्णो ऽवसक्तपट्टदामागन्धघटिकानिर्धूपितः सर्वपुष्पगन्धवृक्षप्रतिमण्डितः तद्यथापि नाम पद्मावती लोकधातुः समन्तकुसुमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रं यत्र मंजुश्रीः कुमारभूतः प्रतिवसति सुस्थितमतिश् च देवपुत्रो ऽन्ये च महौजस्का बोधिसत्वाः महासत्वा
SK
// // प्रज्ञापारमितायां निदानपरिवर्तः प्रथमः // //
SK
यदा च भगवान् आज्ञासीत् सदेवकं लोकं समागतं समारकं सब्रह्मकं सश्रमणब्राह्मणीप्रजाः सदेवमानुषीस् तांश् च बोधिसत्वान् महासत्वान्* यद्भूयस्त्वेन कुमारभूतान् तदा भगवान् आयुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयत : इह शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वाकारम् सर्वधर्मान् अभिसंबोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः एवम् उक्ते अयुष्मांच् छारिपुत्रो भगवन्तम् एतद् अवोचत्* कथं भगवं बोधिसत्वेन महासत्वेन सर्वाकारं सर्वधर्मान् अभिसंबोद्धुकामेन प्रज्ञापारमितायां योगः करणीयः एवम् उक्ते भगवान् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्* इह शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां स्थित्वा अस्थानयोगेन दानपारमिता परिपूरयितव्या अपरित्यागयोगेन (LPG ८व्) देयदायपरिग्राहकानुपलब्धिताम् उपादाय | एवं शीलपारमिता परिपूरयितव्या आपत्त्यनापत्त्यनध्यापत्तिताम् उपादाय | क्षान्तिपारमिता परिपूरयितव्या अक्षोभणताम् उपादाय | वीर्यपारमिता परिपूरयितव्या कायिकचैतसिकवीर्यास्रंसनताम् उपादाय | ध्यानपारमिता परिपूरयितव्या ध्यानमदानास्वादनताम् उपादाय | प्रज्ञापारमिता परिपूरयितव्या सर्वधर्मानुपलब्धिताम् उपादाय | प्रज्ञापारमितायां शारद्वतीपुत्र स्थित्वा बोधिसत्वेन महासत्वेन चत्वारि स्मृत्युपस्थानानि परिपूरयितव्यानि स्मृत्यनुपलब्धिताम् उपादाय | एवं चत्वारि सम्यक्प्रहाणानि | चत्वार ऋद्धिपादाः पंचेन्द्रियाणि पंच बलानि सप्त बोध्यङ्गान्य् आर्याष्टांगो मार्गः परिपूरयितव्यः शुन्यतासमाधिर् आनिमित्तः समाधिर् अप्रणिहितः समाधिः परिपूरयितव्यः चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि | चतस्रः आरूप्यसमापत्तयः अष्टौ विमोक्षा नवानुपूर्वसमापत्तयः पंचाभिज्ञा नव संज्ञाः व्याध्यात्मकसंज्ञा : विपटुमकसंज्ञा | विपूतिकसंज्ञा : विलोहितकसंज्ञा : विनीलकसंज्ञा : विखादितकसंज्ञा : विक्षिप्तकसंज्ञा : अस्थिकसंज्ञा : विदग्धकसंज्ञा : बुद्धानुस्मृतिर् धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिस् त्यागानुस्मृतिर् देवतानुस्मृतिर् आनापानानुस्मृतिर् उद्वेगानुस्मृतिर् मरणानुस्मृतिः कायगतानुस्मृतिः अनित्यसंज्ञा दुःखसंज्ञा | अनात्मसंज्ञा | अशुभसंज्ञा मरणसंज्ञा सर्वत्र लोके अनभिरतिसंज्ञा | सर्वत्र लोके अविश्वाससंज्ञा | दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं क्षयज्ञानम् अनुत्पादज्ञानं धर्मज्ञानम् अन्वयज्ञानं संवृतिज्ञानं परिचयज्ञानं यथावज्ज्ञानम्* सवितर्कः सविचारः समाधिर् अवितर्को विचारमात्रः समाधिः अवितर्कः (LPG ९र्) अविचारः समाधिर् अनाज्ञातमाज्ञास्यामीतीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम् अभिभ्वायतनं कृत्स्नायतनं चत्वारि संग्रहवस्तूनि | चत्वारि व्यवस्थानानि | दश भूमयो दश चर्या दश क्षान्तयो विंशतिर् अध्याशयाः सर्वज्ञज्ञानं | शमथविपश्यनाज्ञाने | तिस्रो विद्या चतस्रः प्रतिसंविदः चत्वारि वैशारद्यान्य् अच्युताः पंचाभिज्ञाः षट् पारमिताः सप्त धनान्य् अष्टौ महापुरुषवितर्का नव सत्वावासा दश तथागतबलान्य् अष्टादशावेणिका बुद्धधर्मा महामैत्री महाकरुणा सर्वाकारवरोपेतं सर्वज्ञज्ञानम् अभिसंबोद्धुकामेन मार्गाकारज्ञतां सर्वज्ञतां सर्वसत्वचित्तचरितज्ञानाकारतां परिपूरयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां योगः करणीयः सर्ववासनानुसन्धिक्लेशान् प्रहातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां योगः करणीयः एवं हि शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // बोधिसत्वन्यामं शारद्वतीपुत्रावक्रान्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // श्रावकप्रत्येकबुद्धभूमी प्रज्ञातुकामेन ते च भूमी अतिक्रान्तुकामेनावैवर्तिकभूमौ च स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // षडभिज्ञतायां स्थातुकामेन सर्वसत्वचित्तचरितविस्पन्दितानि ज्ञातुकामेन सर्वश्रावकप्रत्येकबुद्धानां ज्ञानम् अभिभवितुकामेन तथा धारणीमुखसमाधिमुखं प्रतिलब्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहित्रीणां च दानं ददतां यावत् प्रज्ञां भावयताम् एकानुमोदनासहगतेन चित्तोत्पादेन सर्वं तत् कुशलमूलम् अभिभवितुकामेन सर्वश्रावकप्रत्येकबुद्धानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनम् (LPG ९व्) एकानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन ध्यानविमोक्षसमाधिसमापत्तीर् एकानुमोदनासहगतेन चित्तोत्पादेनाभिभवितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // प्रज्ञापारमितायां योगः करणीयः // अल्पं दानं ददतः परिणमनायोगेन कथम् अप्रमेयासंख्येयाप्रमाणापरिमाणं भवेद् इति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // एवम् अल्पं शीलं रक्षतो क्षान्तिं भावयतो ऽल्पं वीर्यम् आरभमाणस्याल्पं ध्यानं समापद्यमानस्याल्पं प्रज्ञां भावयतः परिणमनायोगेन कथम् अप्रमेयम् असंख्येयाप्रमाणापरिमाणं भवेद् इति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन दानपारमितायां स्थातुकामेन दानपारमितां परिपूरयितुकामेन | शीलपारमितायां चरितुकामेन | शीलपारमितां परिपूरयितुकामेन | क्षान्तिपारमितायां चरितुकामेन | क्षान्तिपारमितां परिपूरयितुकामेन | वीर्यपारमितायां चरितुकामेन | वीर्यपारमितां परिपूरयितुकामेन | ध्यानपारमितायां चरितुकामेन | ध्यानपारमितां परिपूरयितुकामेन प्रज्ञापारमितायां चरितव्यम्* प्रज्ञापारमितायां शिक्षितव्यम्* // कथं मे सर्वत्र जातौ बुद्धविग्रहदर्शनं भवेद् बुद्धचोदना | बुद्धसमन्वाहारो बुद्धाभिराधनं बुद्धपरिग्रहो भवेद् इति | प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बुद्धकायं परिनिष्पादयितुकामेन द्वात्रिंशतं महापुरुषलक्षणानि प्रतिलब्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* अशीतिम् अनुव्यंजनानि प्रतिलब्धुकामेन सर्वत्र जातौ जातिस्मरतां बोधिचित्ताविप्रणाशतां सर्वबोधिसत्वचर्यासंप्रमोषतां (LPG १०र्) प्रतिलब्धुकामेन | सर्वपापमित्रपापसहायान् विवर्जयितुकामेन सर्वबुद्धबोधिसत्वकल्याणमित्राण्य् आरागयितुकामेन सर्वमारमारकायिकदेवतान् निर्जेतुकामेन सर्वावरणीयानि विशोधयितुकामेन | सर्वधर्मानावरणतां प्रतिलब्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // बोधिसत्वकुलं निष्पादयितुकामेन बुद्धकुलम् आरागयितुकामेन त्रिरत्नवंशानुपच्छेदाय स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // कुमारभूमिम् अनुप्राप्तुकामेन बुद्धबोधिसत्वैर् अविरहितेन भवितुकामेन बोधिसत्वभूमीर् अतिक्रान्तुकामेन क्षिप्रं तथागतभूमीं परिपूरयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // यैश् च कुशलमूलैर् यैर् आकारैर् आकांक्षेद् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि मे कुशलमूलानि त आकाराः समृद्ध्येयुर् इति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // सर्वसत्वान् संतोषयितुकामेन सर्वसत्वानाम्म् आशाः परिपूरयितुकामेन | अन्नेन पानेन यानैर् वस्त्रैर् विभूषणैः पुष्पैर् माल्यैर् गन्धैर् विलेपनैः शयनैर् आसनैर् उपाश्रयैर् ग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वोपकरणपरिभोगैः सर्वसत्वान् संतर्पयिष्यामीति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां योगः करणीयः //
SK
पुनर् अपरं शारद्वतीपुत्र ये दशसु दिक्षु गंगानदीवालुकोपमेषु लोकधातुषु सत्वासत्वास् तान् सर्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयितुकामेन | चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु पंचस्व् अभिज्ञासु त्रिशरणगमने बुद्धधर्मसंघप्रसादप्रतिलंभे प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां (LPG १०व्) शिक्षितव्यम्* // ये वा ते गंगानदीवालुकोपमेषु लोकधातुषु सत्वास् तान् सर्वान् महायाने समादापयितुकामेन | दानपारमितायां प्रतिष्ठापयितुकामेन शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम् | //
SK
पुनर् अपरं शारद्वतीपुत्र एकम् अपि कुशलचित्तोत्पादम् अक्षयं कर्तुकामेन बोधिमण्डनिषदनाद् बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्*//
SK
पुनर् अपरं शारद्वतीपुत्र ये पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते मे वर्णं भाषेरन्न् इति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यानि पूर्वस्यान् दिशि गंगानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रान्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु गंगानदीवालुकोपमानि बुद्धक्षेत्राणि तानि सर्वाण्य् एकचित्तोत्पादेनोपसंक्रान्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र एकस्वरघोषेण पूर्वस्यान् दिशि गंगानदीवालुकोपमानि बुद्धक्षेत्राणि विज्ञपयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // एवन् दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु गंगानदीवालिकोपमानि बुद्धक्षेत्राणि विज्ञपयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* (LPG ११र्)
SK
पुनर् अपरं शारद्वतीपुत्र बुद्धोत्पादानुपच्छेदाय स्थातुकामेन बोधिसत्वकुलम् आरक्षितुकामेन बुद्धवंशानुच्छेदाय स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // अध्यात्मशुन्यतायां स्थातुकामेन बहिर्धाशुन्यतायाम् अध्यात्मबहिर्धाशुन्यतायां | शुन्यताशुन्यतायां | महाशुन्यतायां | परमार्थशुन्यतायां संस्कृतशुन्यतायां | असंस्कृतशुन्यतायां | अत्यन्तशुन्यतायां | अनवराग्रशुन्यतायां | अनवकारशुन्यतायां | प्रकृतिशुन्यतायां | स्वलक्षणशुन्यतायां | सर्वधर्मशुन्यतायां | अनुपलंभशुन्यतायां * अभावशुन्यतायां | स्वभावशुन्यतायां | अभावस्वभावशुन्यतायां स्थातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // आलंबनाधिपतेयसमनन्तरहेतुप्रत्ययताम् अनुबोद्धुकामेन | तथाकारलक्षणान्य् अवबोद्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // सर्वधर्माणां तथताम् अवितथताम् अनन्यतथताम् अविकारतथतां यथावत्तथातम् अवबोद्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // सर्वधर्माणान् धर्मधातुम् अवबोद्धुकामेन सर्वधर्माणां भूतकोटिम् अवबोद्धुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यावन्त्यस् तृसाहस्रमहासाहस्रे लोकधातौ गंगानदीवालुकास् ताः सर्वा ज्ञातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // यस् त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रेष्व् अप्स्कन्धो नदीषु महानदीषु कुनदीषूत्ससरस्तडाकेषु पल्वलेषु तन् सर्वं शतधाभिन्नया बालाग्रकोट्याभ्युत्क्षेप्तुकामेन न च तन्निशृतान् प्राणिनो विहेठयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां (LPG ११व्) शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यावांस् त्रिसाहस्रमहासाहस्रे लोकधाताव् अग्निस्कन्धः स सर्व एकज्वालीभूतो भवेत् तद्यथापि नाम कल्पोद्दाहे वर्तमाने तम् एनम् एकेन मुखवायुना निर्वापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यास् त्रिसाहस्रमहासाहस्रे लोकधातौ बातमण्डल्यो या इमं त्रिसाहस्रमहासाहस्रं लोकधातुं विधुनुयुर् विकिरेयुर् विध्वंसेयुस् तद्यथापि नाम बुसमुष्टिन् ताः सर्वा एकेनाङ्गुल्याः प्रान्तकेन संच्छादयितुकामेन विष्कंभयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यस् त्रिसाहस्रमहासाहस्रे लोकधाताव् आकाशधातुस् तं सर्वम् एकपर्यंकेन स्फरितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सुमेरुचक्रवाडमहाचक्रवाडाः पर्वतराजास् तान् सर्वान् एकबालेन बध्वाभ्युत्क्षिप्याप्रमेयान् असंख्येयाल् लोकधातून् क्षिपेयम् इति तेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यावांस् त्रिसाहस्रमहासाहस्रे लोकधातौ तृणवृक्षगुल्मौषधिवनस्पतयो लोष्टदण्डशर्करापाषाणपर्वतामहापृथिवीसंचयस् तं सर्वं परमाणुरजोयोगेन ज्ञातुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यावन्तः पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्वाः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेन एकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकचीवरेणैकच्छत्रेणैकध्वजेनैकपताकया तान् सर्वान् तथागतान् अर्हतः (LPG १२र्) सम्यक्संबुद्धान् सबोधिसत्वान् सश्रावकसंघान् सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // एवं दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् ऐकैकस्यान् दिशि ये गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सबोधिसत्वाः सश्रावकसंघास् तान् सर्वान् एकपिण्डपातेन प्रतिपादयितुकामेनैकपुष्पेणैकमाल्येनैकगन्धेनैकविलेपनेनैकचूर्णेनैकचीवरेणैकच्छत्रेणैकध्वजेनैकपताकया | तन् सर्वांस् तथागतान् अर्हतः सम्यक्संबुद्धान् सबोधिसत्वान् सश्रावकसंघान् सत्कर्तुकामेन गुरुकर्तुकामेन मानयितुकामेन पूजयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र ये पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु सत्वास् तान् सर्वांच् छीलस्कन्धे प्रतिष्ठापयितुकामेनैवं समाधिस्कन्धे प्रज्ञास्कन्धे विमुक्तिस्कन्धे विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन एवं स्रोतआपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले अनागामिफले अर्हत्वे प्रत्येकबोधौ यावद् अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // एवं दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु ये गंगानदीवालुकोपमेषु लोकधातुषु सत्वास् तान् सर्वांच् छीलस्कन्धे | प्रतिष्ठापयितुकामेनैवं समाधिस्कन्धे प्रज्ञास्कन्धे | विमुक्तिस्कन्धे विमुक्तिज्ञानदर्शनस्कन्धे प्रतिष्ठापयितुकामेन एवं स्रोतआपत्तिफले प्रतिष्ठापयितुकामेन सकृदागामिफले अर्हत्वे प्रत्येकबोधौ यावद् अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
(LPG १२व्) पुनर् अपरं शारद्वतीपुत्र यावन्तो दशदिग्लोके सर्वलोकधातुषु सत्वास् तान् सर्वां श्रावकप्रत्येकबुद्धयानेन च परिनिर्वापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरता दानं ददता एवं शिक्षितव्यम्* यद् एवं दानं दत्वा महाफलं भवत्य् एवं दानं दत्वा क्षत्रियमहासालकुलेषूपपद्यत्ऽ; ऐवं ब्राह्मणमहासालकुलेषूपपद्यते | गृहपतिमहासालकुलेषूपपद्यत्ऽ; एवं दानं दत्वा तद् एव दानं निश्राय चातुर्महाराजकायिकेषु देवेषूपपद्यते | एवं त्रायस्त्रिंशेषु यामेषु तुषितेषु निर्माणरतिषु परनिर्मितवशवर्तिषु देवेषूपपद्यते | एवं दानं दत्वा तद् एवं दानं निश्राय प्रथमं ध्यानं समापद्यते द्वितीयं त्रितीयं चतुर्थं ध्यानम् उत्पाद्यते आकाशानंत्यायतनसमापत्तिं समापद्यते | विज्ञानानन्त्यायतनसमापत्तिम् आकिंचन्यायतनसमापत्तिं नैवसंज्ञानासंज्ञायतनसमापत्तिं समापद्यते एवं दानं दत्वार्याष्टांगो मार्ग उत्पाद्यते | एवं स्रोतआपत्तिफलम् अनुप्राप्यते | सकृदागामिफलम् अनुप्राप्यते | अनागामिफलम् अनुप्राप्यते ऽर्हत्वम् अनुप्राप्यते | प्रत्येकबोधिर् अनुप्राप्यते ऽनुत्तरा सम्यक्संबोधिर् अनुप्राप्यते | //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरं जानात्य् एवम् उपायकौशल्येन दानं दत्तं दानपारमितां परिपूरयति | एवं शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां परिपूरयति | // अथायुष्मांच् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्* कथं भगवं बोधिसत्वेन महासत्वेन दानं ददता दानपारमिता परिपूरिता भवति | कथं यावत् प्रज्ञापारमिता परिपूरिता भवति | भगवान् आह | अनुपलंभयोगेन शारद्वतीपुत्र (LPG १३र्) दानस्य दायकस्य परिग्राहकस्य त्रिमण्डलपरिशुद्ध्या दानपारमिता परिपूरिता भवति | एवम् आपत्त्यनापत्त्यनध्यापत्तिताम् उपादाय शीलपारमिता | अक्षोभणताम् उपादाय क्षान्तिपारमिता | कायचित्तवीर्यास्रंसनता वीर्यपारमिता | अविक्षेपासंकल्पनताम् उपादाय ध्यानपारमिता | सर्वधर्मप्रजाननानुपलंभयोगेन प्रज्ञापारमिता परिपूरिता भवति | //
SK
पुनर् अपरं शारद्वतीपुत्रातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवताम् सर्वबुद्धगुणान् प्रज्ञातुकामेनानुप्राप्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र संस्कृतासंस्कृतानां धर्माणां पारंगंतुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // एवं सास्रवानास्रवाणां धर्माणां कुशलाकुशलानां लौकिकलोकोत्तराणां रूप्यरूपिणां व्याकृताव्याकृतानां नियतानियतानां नैर्याणिकानैर्याणिकानाम् | हानभागीयानां विशेषभागीयानां पृथग्जानधर्माणां आर्यधर्माणां शैक्षाशैक्षधर्माणां श्रावकप्रत्येकबुद्धधर्माणां बोधिसत्वधर्माणां बुद्धधर्माणां | सर्वधर्माणां पारंगंतुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेनातीतानागतप्रत्युत्पन्नानां सर्वधर्माणां तथताम् अनुबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं // सर्वधर्माणाम् अनुत्पादकोटिम् अनुप्राप्तुकामेन भूतकोटिं प्रतिवेद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वश्रावकप्रत्येकबुद्धानां पूर्वंगमेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन बुद्धानां भगवताम् उपस्थायकेन (LPG १३व्) भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन बुद्धानां भगवताम् अभ्यन्तरपरिवारेण भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन महापरिवारेण भवतुकामेन बोधिसत्वपरिवारं प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वदात्रीणां दक्षिणां शोधयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन दाने ऽनवगृहीतचित्तेन भवितुकामेन दौःशील्यचित्तं पृथक्कर्तुकामेन व्यापादचित्तम् उत्स्रष्टुकामेन कौसीद्यचित्तं दौष्प्रज्ञचित्तम् अनुत्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वसत्त्वान् दानमये पुण्यकृयावस्तुनि प्रतिष्ठापयितुकामेन शीलमये भावनामये वैयापृत्यसहगते सर्वौषधिकसहगते पुण्यकृयावस्तुनि प्रतिष्ठापयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन सर्वाकाराणि पंच चक्षुंषि निष्पादयितुकामेन | मांसचक्षुर् दिव्यं चक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् निष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्*
SK
पुनर् अपरं शारद्वतीपुत्र ये पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो दक्षिणस्यां (LPG १४र्) पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् तान् सर्वान् दिव्येन चक्षुषा द्रष्टुकामेन यं च ते बुद्धा भगवन्तो धर्मं भाषन्ते तं सर्वं दिव्येन श्रोत्रेण श्रोतुकामेन तेषां च बुद्धानां भगवतां चेतसैव चित्तं प्रज्ञातुकामेन | तेषां च बुद्धानां भगवतां पूर्वयोगसहगतां बोधिसत्वचर्याम् अनुस्मर्तुकामेन तेषां च बुद्धानां भगवताम् अनेकविधम् ऋद्धिविधिविकुर्वितं संद्रष्टुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन यन् ते बुद्धा भगवन्तः समन्ताद् दशसु दिक्षु गंगानदीवालुकोपमेषु लोकधातुषु धर्मं भाषन्ते तं श्रुत्वानाच्छेद्येन स्मृतिबलाधानेन सन्धारयितुकामेन यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध एतस्मिन्न् अन्तरे सर्वम् अविप्रणाशयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेनातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बुद्धक्षेत्राणि च बुद्धक्षेत्रपरिशुद्धीश् च परिनिष्पादयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यत् किंचित् तथागतेन भाषितं सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्यावदानोपदेशाद्भुतधर्मा यच् छ्रावकैर् न श्रुतं तत् सर्वं पर्यवाप्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यत् किंचित् पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु सर्वबुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते एवन् दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु यत् किंचित् सर्वबुद्धैर् भगवद्भिर् भाषितं भाष्यते भाषिष्यते तत् सर्वं श्रोतुकामेनोद्ग्रहीतुकामेन (LPG १४व्) धारयितुकामेन पर्यवाप्तुकामेन परेषां च विस्तरेण संप्रकाशयितुकामेन तत्र च तथत्वाय प्रतिपत्तुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र याः पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुष्व् अन्धाकारतमिस्रा लोकान्तरिका अघा अघस्फुटाः यत्रेमौ सूर्याचन्द्रमसाव् एवं महर्द्धिकाव् एवं महेशाख्याव् एवं महानुभावौ न भासेते न तपतो न विरोचेते ताः सर्वाः अवभासयितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* // एवन् दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु या अन्धाकारतमिस्रास् ताः सर्वा अवभासयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र यावन्तः पूर्वस्यान् दिशि गंगानदीवालुकोपमा लोकधातवो यत्र न बुद्धशब्दो न धर्मशब्दो न संघशब्दस् तत्र लोकधातुषु तान् सर्वसत्वान् बुद्धधर्मसंघशब्दांच् छ्रावयितुकामेन सम्यग्दृष्टौ प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // एवं दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु : //
SK
पुनर् अपरं शारद्वतीपुत्र ये पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुष्व् अन्धाः सत्वास् ते ममानुभावेन चक्षुषा रूपाणि द्रक्ष्यन्ति बधिराः श्रोत्रेण शब्दां श्रोष्यन्ति उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म | नग्नाश् चीवराणि प्रतिलप्स्यन्ते | क्षुधितपिपासिता अन्नपानं प्रतिलप्स्यन्ते | ग्लाना व्याधिभ्यः परिमुच्यन्ते | बन्धनावरोधगता यथाकामंगता भविष्यन्ति | मम रिद्ध्या ममानुभावेनेति | तेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // किम् इति (LPG १५र्) ये तत्र समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुष्व् अक्षणापायगताः सत्वा नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते ममानुभावेन ततश् च्यवित्वा मानुष्यकम् आत्मभावं प्रतिलप्स्यन्ते | सर्वांश् च तान् सत्वांच् छीले प्रतिष्ठापयितुकामेन समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने प्रतिष्ठापयितुकामेन स्रोतआपत्तिफले सकृदागामिफले अनागामिफले अर्हत्वे प्रत्येकबोधौ यावद् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुकामेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन तथागतेर्यापथं शिक्षितुकामेन तथागतचर्याचारित्रविशुद्धिं तथागतस्य ज्ञानपूर्वंगमकायकर्मवक्कर्ममनस्कर्मपरिशुद्धिं शिक्षितुकामेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यम्* किम् इत्य् अहं नागावलोकितम् अवलोकयेयं किम् इत्य् अहं महासिंहविजृंभितेन विजृम्भेयं किम् इत्य् अहम् अमोघविक्रामितया विक्रामेयं किम् इत्य् अहं चतुरंगुलमात्रेण महापृथिवीम् अस्पृशन् गच्छेयं | किम् इत्य् अहं सहस्रपत्रेषु पाद्मेषु पादतलौ निक्षिपन् गच्छेयं पादतलसन्निशृतान् प्राणिनो अविहेठयन्* किम् इत्य् अहं सहस्रारचक्रतलाभ्यां महापृथिवीं विचित्रयन् गच्छेयम् // किम् इत्य् अहं समन्ताच् चक्रप्रमाणमात्रं महापृथिव्याः परिवर्तयेयं चंक्रमे चंक्रम्येय किम् इत्य् अहं सर्वां महापृथिवीम् अनुचंक्रम्यमाणः पृथिवीरजसा नानुलिप्येय | किम् इति मे एकं वा योजनं द्वे वा त्रीणि वा चत्वारि वा | पंच वा दश वा विंशतिर् वा तृंशद् वा चत्वारिंशद् वा पंचाशद् वा योजनशतं वा | यावद् योजनसहस्रं वा | योजनशतसहस्रं वा | अप्रमेयाणि वा असंख्येयानि वा अचिन्त्यानि वा | अतुल्यानि (LPG १५व्) वा | अनंतानि वा अपर्यन्तानि वा | अमाप्यानि वा बुद्धक्षेत्राण्य् अनुविचरतो ऽनुचंक्रम्यमाणस्य न कायक्लमे न चित्तम् इति प्रज्ञापारमितायां शिक्षितव्यम्* // किम् इत्य् अहम् अधस्तात् क्रमतलयोः सहस्राराभ्यां चक्रभ्यां रश्मिकोटीनियुतशतसहस्राणि प्रमुंचन्* सर्वाक्षणापायदुःखानि प्रशमय्य सर्वसत्वान् सुखितान् कुर्याम् इति बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यम्* किम् इत्य् अहं चतुर्महाराजकायिकैर् देवैर् यावद् अकनिष्ठैर् अनेकैर् देवकोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो बोधिमण्डम् उपसंक्रमेयम् इति प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यम्* | किम् इति मे बोधिवृक्षमूले निषीदतश् चातुर्महाराजकायिका देवा यावद् अघनिष्ठा देवा दुष्यसंस्तरं कुर्युर् इति प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं व्युपपरीक्षितव्यम्* किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य गच्छतो निषण्णस्य शयानस्य स पृथिवीप्रदेशो वज्रमयः संतिष्ठेत | तेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवम् उपपरीक्षितव्यम्* किम् इत्य् अहं यत्रैव दिवसे ऽभिनिष्क्रमेयं तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं तत्रैव दिवसे धर्मचक्रं प्रवर्तयेयं प्रवर्तयतश् चाप्रमेयासंख्येयानां सत्वानां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुध्येत्* अप्रमेयासंख्येयानांम् अनुपादायास्रवेभ्यश् चित्तानि विमुच्येरन्* अप्रमेयासंख्येयाः सत्वा ऽवैवर्तिका (LPG १६र्) भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेन प्रज्ञापारमितायां शिक्षितव्यम्* //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरतैवं चित्तम् उत्पादयितव्यम्* किम् इत्य् मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्याप्रमेयासंख्येयः श्रावकसंघो भवेत्* एकधर्मदेशनयाप्रमेयासंख्येया एकासनिका अर्हन्तो भवेयुर् बोधिसत्वा महासत्वा सर्वे अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ | अप्रमेयासंख्येयापरिमाणो बोधिसत्वसंघो भवेत्* अमितं चायुष्प्रमाणं भवेत्* अमिता प्रभासंपद् भवेद् इति प्रज्ञापामितायां शिक्षितव्यम्* किम् इति मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे रागद्वेषमोहशब्दो ऽपि न भवेद् इति प्रज्ञापारमितायां शिक्षितव्यम्* // सर्वसत्वा एवंरूपया प्रज्ञया समन्वागता भवेयुः साधु दानं साधु दमः साधु ब्रह्मचर्यं साध्व् अविहिंसा सर्वप्राणिभूतेषु | किं मे परिनिर्वृतस्य सद्धर्मान्तर्धानशब्दो ऽपि न भवेत् तेन बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // किम् इति मे सह श्रवणमात्रेण नामधेयस्य गंगानदीवालुकोपमेषु लोकधातुषु सत्वा नियता भवेयुर् अनुत्तरायां सम्यक्संबोधौ | तेन शारद्वतीपुत्र बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां शिक्षितव्यम्* // यस्मिंच् छारद्वतीपुत्र समये बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् इमान् गुणान् उत्पादयति | तस्मिन् समये आत्तमनस्का भवंति चत्वारो महाराजा वयम् अत्र चत्वारि पात्राणि प्रतिष्ठापयिष्यामो यानि पौर्वकैर् महाराजैः पौर्वकेषु तथागतेषु प्रतिष्ठापितानि | आत्तमनस्का भवन्ति त्रायस्त्रिंशा देवा यामास् तुषिता निर्माणरतयः आत्तमनस्का भवन्ति परनिर्मितवशवर्तिनो देवा वयम् अस्योपस्थानपरिचर्यां (LPG १६व्) करिष्याम एवम् आसुराः कायाः परिहास्यंते दिव्याः काया अभिवर्धिष्यन्ते | // आत्तमनस्का भवन्ति ब्रह्मकायिका देवा आभास्वरा शुभकृत्स्ना बृहत्फला अवृहा अतपाः सुदृशाः सुदर्शना आत्तमनस्का भवन्ति अघनिष्ठा देवा वयम् एनम् अध्येषिष्यामहे धर्मचक्रप्रवर्तनाय | यस्मिन् समये शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् विवर्धते षड्भिः पारमिताभिर् आत्तमनस्कास् तस्मिन्* समये भवन्ति कुलपुत्राः कुलदुहितरश् च वयम् अस्य महासत्वस्य मातापितरौ भविष्यामो // भ्रातृभगिनीभार्यापुत्रदुहितृमित्रामात्यज्ञातिसहायसांमोदा भविष्याम | आत्तमनस्का भवन्ति चत्वारो महाराजा यावद् अघनिष्ठा देवा बोधिसत्वस्यामैथुनसंयोगप्रस्थानतायै स पुनर् ब्रह्मचारी भवति सत्वानां बोधिनियोजनतायै न संयोजनीयैर् धर्मैः संयुज्यते स एवं प्रणिदधाति | प्रथमचित्तोत्पादं मयोपादाय ब्रह्मचारिणा भवितव्यं नाब्रह्मचारिणा // तत् कस्य हेतोः कामां खलु पुनः प्रतिषेवमाणस्य ब्रह्मलोकोपपत्तये-र्-अन्तरायो भवति | कः पुनर् वादो ऽनुत्तरायाः सम्यक्संबोधेर् इति | // तस्मात् तर्हि बोधिसत्वेन महासत्वेन ब्रह्मचारिणैवाभिनिष्क्रम्यानुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या नाब्रह्मचारिणा : // एवम् उक्ते आयुष्मांच् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्* किं पुनर् बोधिसत्वस्य महासत्वस्यावश्यं भार्यपुत्रदुहितृभिर् भवितव्यम्* भगवान् आह | केषांचिच् छारद्वतीपुत्र बोधिसत्वानां महासत्वानाम् अवश्यं मातापितृभिर् भवितव्यम्* न भार्यापुत्रदुहितृभिः केषांचिद् अवश्यं मातापितृभार्यापुत्रदुहित्रिभिर् भवितव्यम्* केषांचिच् छारद्वतीपुत्र बोधिसत्वानां महासत्वानां प्रथमचित्तोत्पादम् उपादाय ब्रह्मचर्यंसमादानं भवति (LPG १७र्) ते नित्यं कुमारभूता एव यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते केचित् पुनः बोधिसत्वा महासत्वा उपायकौशल्येन सत्वपरिपाकाय पंच कामगुणान् परिभुंज्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते | केचित् पुनः शारद्वतीपुत्र बोधिसत्वा महासत्वा गम्भीरा प्रज्ञापारमिताप्रतिलब्धा अपगतकामक्लेशास् ते सत्वपरिपाकाय कामगुणपरिभोगं चोत्पादयन्ति न च परिभुंजन्ते | // तद्यथापि नाम शारद्वतीपुत्र दक्षो मायाकारो मायाकारान्तेवासी वा सुशिक्षितो मायाविद्यासम्योगज्ञाने स पंच कामगुणान् अभिनिर्माय तैः पंचभिः कामगुणै रममाणं क्रीडन्तं परिचारयंतम् आत्मानम् उपदर्शयेत्* तत् किं मन्यसे शारद्वतीपुत्रापि नु तेन मायाकारेण वा मायाकारान्तेवासिना वा पंच कामामगुणाः परिभुक्ता भवेयुर् आह | नो हीदं भगवन् भगवान् आह | एवम् एव शारद्वतीपुत्र बोधिसत्वा महासत्वा महायानमायासुशिक्षिता मायोपमधर्मताविहारप्रतिलब्धाः सर्वक्लेशविगता विनेयसत्वपरिपाकाय महाकरुणावशेन कामगुणभोगं चोपदर्शयन्ति न च कामगुणान् परिभुंज्यन्ते | न च तैः सार्धं संवसन्ति न लिप्यंते अनेन पर्यायेण शारद्वतीपुत्र बोधिसत्वा महासत्वाः कामानाम् अवर्णं भाषन्ते | आदीप्ताः कामा जुगुप्सिताः कामा वधकाः कामाः प्रत्यर्थिकाः कामाः प्रत्यमित्राः कामाः एवं हि शारद्वतीपुत्र बोधिसत्वा महासत्वाः सत्वानां पंचभ्यः कामगुणेभ्यो विवेचनार्थं विच्छन्दनार्थं पंच कामगुणान् उपदर्शयंति | न च तैर् माद्यन्ति न प्रमाद्यन्ति | न कामहेतोर् न कामनिदानं (LPG १७व्) पापं कर्माध्यवस्यन्ति | // एवम् उक्ते आयुष्मांच् छारद्वतिपुत्रो भगवन्तम् एतद् अवोचत्* कथं पुनर् भगवन् बोधिसत्वेन महासत्वेन प्रज्ञापारमितायां चरितव्यम्* भगवान् आह | इह शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् बोधिसत्व इति न समनुपश्यति | बोधिसत्वनामापि न समनुपश्यति | बोधिसत्वचर्याम् अपि न समनुपश्यति | प्रज्ञापारमितेति न समनुपश्यति | प्रज्ञापारमितानामापि न समनुपश्यति | चरतीति न समनुपश्यति | न चरतीति न समनुपश्यति | रूपम् अपि न समनुपश्यति | वेदनां संज्ञां संस्कारान् विज्ञानम् अपि न समनुपश्यति | तत् कस्य हेतोः तथा हि स बोधिसत्वो नामस्वभावेन शुन्यः न शुन्यतया रूपं शुन्यं न वेदना संज्ञा संस्कारा न शुन्यतया विज्ञानं शुन्यम्* नान्यत्र रूपाच् छुन्यता नान्यत्र वेदनायाः संज्ञायाः संस्कारेभ्यो नान्यत्र विज्ञानाच् छुन्यता | शुन्यतैव रूपं शुन्यतैव वेदना संज्ञा संस्काराः शुन्यतैव विज्ञानं तत् कस्य हेतोः तथा हि नाममात्रम् इदं यद् उत बोधिः नाममात्रम् इदं यद् उत बोधिसत्वः नाममात्रम् इदं यद् उत च्छुन्यता | नाममात्रम् इदं यद् उत रूपं वेदना संज्ञा संस्कारा विज्ञानं | तथा हि मायोपमं रूपम् वेदना संज्ञा संस्कारा मायोपमं विज्ञानं माया च नाममात्रं न देशस्था न प्रदेशस्था : असद् अभूतं वितथसमं मायादर्शनं स्वभावरहितं अस्वभावश् चानुत्पादः अनिरोदः न हानिर् न वृद्धिः न संक्लेशो न व्यवदानम् एवं चरन् बोधिसत्वो महासत्वः उत्पादं न समनुपश्यति | निरोधं न समनुपश्यति | स्थानं न समनुपश्यति | हानिं न समनुपश्यति | (LPG १८र्) वृद्धिं न समनुपश्यति | संक्लेशन् न समनुपश्यति | व्यवदानन् न समनुपश्यति | रूपन् न समनुपश्यति | वेदनां संज्ञां संस्कारान् विज्ञानं न समनुपश्यति | बोधिर् इति बोधिसत्व इति यद् उच्यते तद् अपि न समनुपश्यति | तत् कस्य हेतोः कृत्रिमन् नाम प्रतिप्रतिधर्मन् ते कल्पिता आगन्तुकेन नामधेयेनाभूतपरिकल्पितेन व्यवहृयन्ते // व्यवहाराच् चाभिनिविश्यन्ते | तद् बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् सर्वधर्मान् न समनुपश्यत्य् असमनुपश्यन् न मन्यते | नाभिनिविशते | //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् एवं व्युपपरीक्षते | नाममात्रम् इदं यद् उत बोधिसत्व इति नाममात्रम् इदं यद् उत बोधिर् इति | नाममात्रम् इदं यद् उत बुद्ध इति | नाममात्रम् इदं यद् उत प्रज्ञापारमितेति | नाममात्रम् इदं यद् उत प्रज्ञापारमितायां चरतीति | नाममात्रम् इदं यद् उत रूपम् इति | वेदना संज्ञा संस्कारा विज्ञानम् इति | तद्यथापि नाम शारद्वतीपुत्र आत्मात्मेति व्यवहृयते स च परिगवेष्यमाणो नोपलभ्यते | एवं सत्वो जीवः पोषः पुद्गलो मनुजो मानवः कारकः कारापको वेदको वेदयितृकः उत्थापकः समुत्थापको जानकः पश्यकः स्पर्शको विजानकः सर्व एते यथाभूतं परिगवेष्यमाणाः सर्वेण सर्वन् नोपलभ्यन्ते | अनुपलंभशुन्यताम् उपादाय | यावद् एव नामसंकेतेन व्यवह्रियन्ते | // एवम् एव बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् बोधिसत्वन् न समनुपश्यति | बोधिन् न समनुपश्यति | बुद्धन् न समनुपश्यति | प्रज्ञापारमितां न समनुपश्यति | प्रज्ञापारमितायां चरतीति न समनुपश्यति | रूपन् न समनुपश्यति | वेदनां संज्ञां संस्कारान् विज्ञानन् न समनुपश्यति | येन नाम्ना व्यवहृयेत | तद् अपि नामं न समनुपश्यत्य् एवं चरन् बोधिसत्वो महासत्वः प्रज्ञापारमितायां तथागतप्रज्ञां स्थापयित्वा सर्वास् तदन्याः प्रज्ञा यावत् सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा अभिभवत्य् अनुपलम्भशुन्यताम् (LPG १८व्) उपादाय | तत् कस्य हेतोः तथा हि स तद् अपि न समनुपश्यति | येनाभिनिविशेत एवं चरंच् छारद्वतीपुत्रायं जंबुद्वीपः परिपूर्णो भवेच् छारद्वतीपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः तद्यथापि नाम नडवनं वा वेणुवनं वा इक्षुवनं वा शरवणं वा शालिवनं वा तिलवनं वा तेषां या प्रज्ञा सा बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः प्रज्ञायाः शततमीम् अपि कलान् नोपैति | सहस्रतमीम् अपि | शतसहस्रतमीम् अपि | कोटीशतसहस्रतमीम् अपि | संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि न क्षमते | तत् कस्य हेतोः तथा हि शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य या प्रज्ञा सा सर्वसत्वानां परिनिर्वापणार्थाय प्रत्युपस्थिता //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो या एकदिवसपरिभाविता प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा अभिभूय तिष्ठति // तिष्ठतु शारद्वतीपुत्र जम्बुद्वीपः परिपूर्णः शारद्वतीपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः सचेच् छारद्वतीपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णो भवेद् युष्मादृशैर् भिक्षुभिः तेषां या प्रज्ञा सा बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः शततमीम् अपि कलान् नोपैति यावद् उपनिशाम् अपि न क्षमते // तिष्ठतु शारद्वतीपुत्र त्रिसाहस्रमहासाहस्रो लोकधातुः सचेच् छारद्वतीपुत्र पूर्वस्यान् दिशि गंगानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः शारद्वतीपुत्रमौद्गल्यायनसदृशैर् भिक्षुभिः एवन् दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमा लोकधातवः परिपूर्णा भवेयुः तेषां या प्रज्ञा सा बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभावितायाः (LPG १९र्) प्रज्ञायाः शततमीम् अपि कलान् नोपैति यावद् उपनिशाम् अपि न क्षमते | शारद्वतीपुत्र आह | येयं भगवंच् छ्रावकाणां प्रज्ञा स्रोतआपन्नस्य सकृदागामिनः अनागामिनः अर्हतः या च प्रत्येकबुद्धस्य बोधिसत्वस्य तथागतस्य चार्हतः सम्यक्संबुद्धस्य प्रज्ञा सर्वास् ताः प्रज्ञा अभेदः शुन्यता विविक्ताः अनुत्पादप्रकृतिकाः स्वभावशुन्या न च भगवन्न् अभेदस्य विविक्तस्यानुत्पादस्य स्वभावशुन्यस्य विशेषो वा नानाकरणं वोपलभ्यते | तत् कथं भगवन् येयं बोधिसत्वस्य महासत्वस्यैकदिवसपरिभाविता प्रज्ञा सा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञाम् अभिभवति | // भगवान् आह | तत् किं मन्यसे शारद्वतीपुत्र येन कार्येण बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः एकदिवसपरिभाविता प्रज्ञा प्रत्युपस्थिता मया मार्गाकारज्ञतायां चरता सर्वसत्वानाम् अर्थं कुर्वता सर्वाकारैः सर्वधर्मान् अभिसंबुध्य सर्वसत्वाः परिनिर्वापयितव्या अपि नु तेन कृत्येन सर्वश्रावकप्रत्येकबुद्धानां प्रत्युपस्थिता | आह | नो हीदं भगवन्* भगवान् आह | तत् किं मन्यसे शारद्वतीपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवत्य् अस्माभिर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सर्वसत्वा अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्या आह | नो हीदं भगवन् भगवान् आह | तद् अनेनापि ते शारद्वतीपुत्र पर्यायेणैवं वेदितव्यम्* येयं सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा या च बोधिसत्वस्य महासत्वस्य प्रज्ञा इमां प्रज्ञाम् उपनिधायैषा सर्वश्रावकप्रत्येकबुद्धानां प्रज्ञा शततमीम् अपि कलान् नोपैति | यावद् उपनिशाम् अपि न क्षमते | तत् किं मन्यसे शारद्वतीपुत्रापि नु सर्वश्रावकप्रत्येकबुद्धानाम् एवं भवति वयं षट्सु पारमितासु चरित्वा सत्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् (LPG १९व्) अभिसंबुद्ध्यापरिमाणान् अप्रमेयान् असंख्येयान् सत्वान् परिनिर्वापयिष्याम इति आह | नो हीदं भगवन्* भगवान् आह | बोधिसत्वस्य पुनः शारद्वतीपुत्रैवं भवति | मया षट्सु पारमितासु चरित्वा सत्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्याप्रमेयासंख्येयापरिमाणाः सत्वाः परिनिर्वापयितव्याः // तद्यथापि नाम शारद्वतीपुत्र खद्योतकस्य प्राणिकजातस्य नैवं भवत्य् अहम् आभया जम्बुद्वीपम् अवभासयेयं ममाभया जम्बुद्वीपः स्फुटो भवेत्* एवम् एव शारद्वतीपुत्र सर्वश्रावकप्रत्येकबुद्धानां नैवं भवति वयं षट्सु पारमितासु चरित्वा यावद् अष्टादशावेणिकां बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्याप्रमेयासंख्येयापरिमाणान् सत्वान् परिनिर्वापयिष्यामः // तद्यथापि नाम शारद्वतीपुत्र सूर्यमण्डलम् उदागच्छत् सर्वजंबूद्वीपम् अवभासेन स्फरति | सर्वजम्बुद्वीपम् अवभासेन स्फुटीकरोति एवम् एव शारद्वतीपुत्र बोधिसत्वो महासत्वः षट्सु पारमितासु चरन् सत्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य दश तथागतबलानि परिपूर्य चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् परिपूर्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्याप्रमेयासंख्येयापरिमाणान्* सत्वान् परिनिर्वापयति | एवम् उक्ते आयुष्मांच् छारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्* कथं भगवं बोधिसत्वो महासत्वः श्रावकप्रत्येकबुद्धभूमी अतिक्रम्यावैवर्तिकभूमीम् अनुप्राप्नोति | बोधिसत्वमार्गं च परिशोधयति | // एवम् उक्ते भगवान् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्* इह शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रथमचित्तोत्पादम् उपादाय षट्सु पारमितासु चरंच् छुन्यतानिमित्ताप्रणिहितेषु (LPG २०र्) धर्मेषु स्थित्वा श्रावकप्रत्येकबुद्धभूमी अतिक्रम्य बुद्धभूमिम् अनुप्राप्नोति | // शारद्वतीपुत्र आह | कतमस्यां भगवन् भूमौ स्थित्वा बोधिसत्वो महासत्वः सर्वश्रावकप्रत्येकबुद्धानां दक्षिणीयो भवति | भगवान् आह | प्रथमचित्तोत्पादं शारद्वतीपुत्रोपादाय बोधिसत्वो महासत्वः षट्सु पारमितासु चरन् यावद् बोधिमण्डनिषण्णः अत्रान्तराद् बोधिसत्वो महासत्वः सर्वश्रावकप्रत्येकबुद्धानाम् अग्रो वक्तव्यः तत् कस्य हेतोः तथा हि शारद्वतीपुत्र बोधिसत्वं महासत्वम् आगम्य सर्वेषां कुशलानां धर्माणां लोके प्रादुर्भावो भवति | यद् उत दशानां कुशलानां कर्मपथानां पंचानां शिक्षापदानाम् अष्टांगसमन्वागतस्य पोषधस्य चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनां पंचानाम् अभिज्ञानां षण्णाम् अनुस्मृतीनां चतुर्णां स्मृत्युपस्थानानां चतुर्णां सम्यक्प्रहाणानां चतुर्णाम् ऋद्धिपादानां पंचानाम् इन्द्रियाणां पंचानां बलानां सप्तानां बोध्यंगानाम् आर्याष्टांगस्य मार्गस्य लोके प्रादुर्भावो भवति | दशानां तथागतबलानां चतुर्णां वैशारद्यानां चतसृणां प्रतिसंविदाम् अष्टादशानाम् आवेणिकानां बुद्धधर्माणां लोके प्रादुर्भावो भवति | एषां कुशलानां धर्माणां लोके प्रादुर्भावो भवति | एषां कुशलानां धर्माणां लोके प्रादुर्भावात्* क्षत्रियमहासालकुलानि प्रज्ञायन्ते | ब्राह्मणमहासालकुलानि श्रेष्ठिगृहपतिमहासालकुलानि प्रज्ञायन्ते | चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनः ब्रह्मकायिका देवा यावद् अघनिष्ठा देवाः प्रज्ञायन्ते | // यावन् नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते | स्रोतआपन्नाः सकृदागामिनः अनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्वास् तथागता ऽर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायन्ते | // आह | तत् किं पुनर् भगवन् बोधिसत्वो दक्षिणां शोधयति भगवान् आह | (LPG २०व्) पर्यायेण शारद्वतीपुत्र बोधिसत्वो महासत्वो दक्षिणां शोधयति | तत् कस्य हेतोः अत्यन्तपरिशुद्धा शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य दक्षिणा | तथा हि दायकः शारद्वतीपुत्र बोधिसत्वो महासत्वः कस्य दायकः अनेकेषां कुशलानां धर्माणां यद् उत दशानां कुशलानां कर्मपथानां यावद् अष्टादशावेणिकानां बुद्धधर्माणां | आह | कथं युज्यमानो भगवन् बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वेदितव्यः भगवान् आह | इह शारद्वतीपुत्र बोधिसत्वो महासत्वो रूपशुन्यतायां युक्तो युक्त इति वक्तव्यः वेदनाशुन्यतायां संज्ञाशुन्यतायां संस्कारशुन्यतायां विज्ञानशुन्यतायां युक्तो युक्त इति वक्तव्यः //
SK
पुनर् अपरं चक्षुःशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं श्रोत्रघ्राणजिह्वाकायमनःशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं रूपशब्दगन्धरसस्पर्शधर्मशुन्यतायां युक्तो युक्त इति वक्तव्यः चक्षुर्धातुशुन्यतायां रूपधातुशुन्यतायां चक्षुर्विज्ञानधातुशुन्यतायां युक्तो युक्त इति वक्तव्यः एवं श्रोत्रधातुशुन्यतायां शब्दधातुशुन्यतायां श्रोत्रविज्ञानधातुशुन्यतायां घ्राणधातुशुन्यतायां गन्धधातुशुन्यतायां घ्राणविज्ञानधातुशुन्यतायां जिह्वाधातुशुन्यतायां रसधातुशुन्यतायां जिह्वाविज्ञानधातुशुन्यतायां कायधातुशुन्यतायां स्पर्शधातुशुन्यतायां कायविज्ञानधातुशुन्यतायां मनोधातुशुन्यतायां धर्मधातुशुन्यतायां मनोविज्ञानधातुशुन्यतायां युक्तो युक्त इति वक्तव्यः दुःखशुन्यतायां समुदयशुन्यतायां निरोधशुन्यतायां मार्गशुन्यतायां युक्तो युक्त इति वक्तव्यः स्कन्धशुन्यतायां धातुशुन्यतायां आयतनशुन्यतायां युक्तो युक्त इति वक्तव्यः अविद्याशुन्यतायां युक्तो युक्त इति वक्तव्यः संस्कारशुन्यतायां विज्ञानशुन्यतायां नामरूपशुन्यतायां (LPG २१र्) षडायतनशुन्यतायां स्पर्शशुन्यतातायां वेदनाशुन्यतायां तृष्णाशुन्यतायाम् उपादानशुन्यतायां भवशुन्यतायां जातिशुन्यतायां जरामरणशुन्यतायां युक्तो युक्त इति वक्तव्यः सर्वधर्मशुन्यतायाम् युक्तो युक्त इति वक्तव्यः | ये केचित् संज्ञागताः संस्कृतासंस्कृता धर्माः सर्वेषां धर्माणां शुन्यतायां युक्तो युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् प्रकृतिशुन्यतायां युक्तो युक्त इति वक्तव्य एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः // स आभिर् दशभिः शुन्यताभिः प्रज्ञापारमितायां चरन् न तावद् युक्त इति वा अयुक्त इति वा वक्तव्यः तत् कस्य हेतोः तथा हि स न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति | न वेदनां न संज्ञान् न संस्कारान् न विज्ञानम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति | न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति | न वेदनां न संज्ञां न संस्कारान् न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति | न रूपं वेदनया सार्धं समवसरतीति समनुपश्यति | न वेदना संज्ञया न संज्ञा संस्कारैर् न संस्कारा विज्ञानेन सार्धं समवसरन्तीति समनुपश्यति | न विज्ञानं संस्कारैः सार्धं समवसरतीति समनुपश्यति | तत् कस्य हेतोः तथा हि न स कश्चिद् धर्मः केनचिद् धर्मेण सार्धं समवसरति न विसरति | // न युज्यते न वियुज्यते प्रकृतिशुन्यताम् उपादाय | या शारद्वतीपुत्र रूपशुन्यता न सा रूपं या वेदनाशुन्यता न सा वेदना | या संज्ञाशुन्यता न सा संज्ञा | या संस्कारशुन्यता न ते संस्कारा | या विज्ञानशुन्यता न सा विज्ञानं | तथा हि शारद्वतीपुत्र या रूपशुन्यता न सा रूपयति | या वेदनाशुन्यता न सा (LPG २१व्) वेदयति | या संज्ञाशुन्यता न सा संजानाति | या संस्कारशुन्यता न साभिसंस्करोति | या विज्ञानशुन्यता न सा विजानाति | तत् कस्य हेतोः न हि शारद्वतीपुत्रान्यद् रूपम् अन्या शुन्यता नान्या शुन्यतान्यद् रूपम्* रूपम् एव शुन्यता शुन्यतैव रूपम्* एवं नान्या वेदनान्या शुन्यता | नान्या संज्ञा नान्या शुन्यता | नान्ये संस्कारा अन्या शुन्यता | नान्यद् विज्ञानम् अन्या शुन्यता | नान्या शुन्यतान्यद् विज्ञानं | विज्ञानम् एव शुन्यता शुन्यतैव विज्ञानं | या शारद्वतीपुत्र शुन्यता न सा उत्पद्यते न निरुध्यते | न संक्लिश्यते न व्यवदायते | न हीयते न वर्धते | नातीता नानागता न प्रत्युत्पन्ना या नोत्पद्यते न निरुध्यते | न संक्लिश्यते न व्यवदायते | न हीयते न वर्धते | नातीता नानागता न प्रत्युत्पन्ना : न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा कायो न मनः न रूपं न शब्दो न गन्धो न रसो न स्पर्शो न धर्माः न तत्र स्कन्धा न धातवो नायतनानि न तत्र चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञानधातुर् न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् न तत्राविद्या नाविद्यानिरोधः न संस्कारा न्न संस्कारनिरोधः न विज्ञानं न विज्ञाननिरोधः न नामरूपं न नामरूपनिरोधः न षडायतनं न षडायतननिरोधः न स्पर्शो न स्पर्शनिरोधः न वेदना न वेदनानिरोधः न तृष्णा न तृष्णानिरोधः नोपादानं नोपादाननिरोधः न भवो न भवनिरोधः न जातिर् न जातिनिरोधः न जरामरणं न जरामरणनिरोधः न दुःखं न समुदयो न निरोधो न मार्गः न प्राप्तिर् नाभिसमयः न स्रोतआपन्नो न स्रोतआपत्तिफलं न सकृदागामी (LPG २२र्) न सकृदागामिफलं नानागामी नानागामिफलं नार्हन् नार्हत्वम्* न प्रत्येकबोधिर् न प्रत्येकबुद्धः न तत्र मार्गाकारज्ञता न बोधिसत्वः न तत्र बोधिर् न बुद्धः एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः स एवं प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति | न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति | न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न चक्षुर् युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न श्रोत्रं न घ्राणं न जिह्वां न कायं न मनो युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न शब्दं न गन्धं न रसं न स्पर्शं न धर्मान् न चक्षुर्धातुं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न रूपधातुं न चक्षुर्विज्ञानधातुं यावन् न मनोधातुं न धर्मधातुं न मनोविज्ञानधातुं युक्त इति वा अयुक्त इति वा समनुपश्यति | न स्मृत्युपस्थानेषु युक्त इति वा अयुक्त इति वा समनुपश्यति | न सम्यक्प्रहाणेषु न रिद्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यंगेषु न मार्गे युक्त इति वा अयुक्त इति वा समनुपश्यति | यावन् न दशसु तथागतबलेषु न चतुर्षु वैशारद्येषु न चतसृषु प्रतिसंवित्सु नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति | यावन् न सर्वज्ञतायां न सर्वाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति | अनेनापि शारद्वतीपुत्र पर्यायेण बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः सर्वधर्मायोगावियोगताम् (LPG २२व्) उपादाय | पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न शुन्यतां शुन्यतया योजयति न वियोजयति | न शुन्यतायोगम्* नानिमित्तम् आनिमित्तेन योजयति न वियोजयति | नानिमित्तयोगम्* नाप्रणिहितम् अप्रणिहितेन योजयति न वियोजयति | नाप्रणिहितयोगम् | तत् कस्य हेतोः तथा हि शुन्यता न योगो न वियोगः एवम् आनिमित्तम् अप्रणिहितं न योगो न वियोगः एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशुन्यताम् अवतरति | एवम् अवतरन् न रूपं योजयति न वियोजयति | न वेदनां न संज्ञां न संस्कारान् न विज्ञानं योजयति न वियोजयति | न रूपं पूर्वान्तेन योजयति न वियोजयति | तथा हि पूर्वान्तम् एव न समनुपश्यति | न रूपम् अपरान्तेन योजयति न वियोजयति | तथा ह्य् अपरान्तम् एव न समनुपश्यति | न रूपं प्रत्युत्पन्नेन योजयति न वियोजयति | तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं पूर्वान्तापरान्तप्रत्युत्पन्नैर् योजयति न वियोजयति | तथा हि पूर्वान्तापरान्तप्रत्युत्पन्नान्य् एव न समनुपश्यति | //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति न वियोजयति | नापरान्तं पूर्वान्तेन योजयति न वियोजयति | न प्रत्युत्पन्नं पूर्वान्तेनापरान्तेन वा योजयति न वियोजयति | न पूर्वान्तम् अपरान्तं वा प्रत्युत्पन्नेन योजयति न वियोजयति | अध्वसमताशुन्यताम् उपादाय | // एवं हि युक्तः शारद्वतीपुत्र बोधिसत्वो महासत्वः (LPG २३र्) प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् एवं युज्यते यथा युज्यमानो न सर्वज्ञताम् अतीतेन योजयति तथा ह्य् अतीतम् एव न समनुपश्यति | असमनुपश्यन् | कथं सर्वज्ञताम् अतीतेन योजयिष्यति | न सर्वज्ञताम् अनागतेन योजयिष्यति | तथा ह्य् अनागतम् एव न समनुपश्यत्य् असमनुपश्यन् कथं सर्वज्ञताम् अनागतेन योजयिष्यति | न सर्वज्ञतां प्रत्युत्पन्नेन योजयति | तथा हि प्रत्युत्पन्नम् एव न समनुपश्यत्य् असमनुपश्यन् कथं सर्वज्ञतां प्रत्युत्पन्नेन योजयिष्यति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न रूपं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपम् एव न समनुपश्यत्य् असमनुपश्यन् कथं रूपं सर्वज्ञतया योजयिष्यति | // एवं न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं सर्वज्ञतया योजयति न वियोजयति | तथा हि विज्ञानम् एव न समनुपश्यति | यावन् न चक्षुः सर्वज्ञतया योजयति न वियोजयति | तथा हि चक्षुर् एव न समनुपश्यति | एवन् न श्रोत्रं न घ्राणं न जिह्वां न कायन् न मनः सर्वज्ञतया योजयति न वियोजयति | तथा हि मन एव न समनुपश्यति | एवं न रूपं सर्वज्ञतया योजयति न वियोजयति | तथा हि रूपम् एव न समनुपश्यति | एवं न शब्दगन्धरसस्पर्शधर्मान् सर्वज्ञतया योजयति न वियोजयति | तथा हि धर्मान् एव न समनुपश्यति | एवं न स्कन्धान् सर्वज्ञतया योजयति न वियोजयति | (LPG २३व्) तथा हि स्कन्धान् एव न समनुपश्यति | न धातून् सर्वज्ञतया योजयति न वियोजयति | तथा हि धातून् एव न समनुपश्यति | नायतनानि सर्वज्ञतया योजयति न वियोजयति | तथा ह्य् आयतनान्य् एव न समनुपश्यति | // न चक्षुर्धातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि चक्षुर्धातुम् एव न समनुपश्यति | // न रूपधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि रूपधातुम् एव न समनुपश्यति | न चक्षुर्विज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि चक्षुर्विज्ञानधातुम् एव न समनुपश्यति | यावन् न मनोधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि मनोधातुम् एव न समनुपश्यति | न धर्मधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि धर्मधातुम् एव न समनुपश्यति | न मनोविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि मनोविज्ञानधातुम् एव न समनुपश्यति | असमनुपश्यन् कथं मनोविज्ञानधातुं सर्वज्ञतया योजयिष्यति | एवं चरंच् छारद्वतिपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वज्ञतया योजयति न वियोजयति | तथा हि दानपारमिताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | एवं न शीलपारमितां न क्षान्तिपारमितां न वीर्यपारमितां न ध्यानपारमितां न प्रज्ञापारमितां सर्वज्ञतया योजयति न वियोजयति | तथा हि प्रज्ञापारमिताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | एवं न स्मृत्युपस्थानानि न सम्यक्प्रहाणर्धिपादेन्द्रियबलबोध्यंगमार्गान् सर्वज्ञतया योजयति न वियोजयति | एवन् न दश तथागतबलानि न चत्वारि वैशारद्यानि न चतस्रः प्रतिसंविद (LPG २४र्) नाष्टादशावेणिकान् बुद्धधर्मान् सर्वज्ञतया योजयति न वियोजयति | तथा ह्य् आवेणिकबुद्धधर्मान् न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वज्ञतया योजयति न वियोजयति | न सर्वज्ञतां बुद्धेन योजयति न वियोजयति | तथा हि बुद्धम् एव न समनुपश्यति सर्वज्ञताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | न बोधिं सर्वज्ञतया योजयति न वियोजयति | न बोद्ध्या सर्वज्ञतां योजयति न वियोजयति | तथा हि बोधिम् एव न समनुपश्यति | सर्वज्ञताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | एवं हि शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न रूपं भाव इति योजयति न रूपं विभाव इति योजयति | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं भाव इति न विज्ञानं विभाव इति योजयति | // न रूपं नित्यम् इति योजयति | न रूपम् अनित्यम् इति योजयति एवन् न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं नित्यम् इति योजयति | न विज्ञानम् अनित्यम् इति योजयति न रूपं सुखम् इति योजयति न रूपं दुःखम् इति योजयति | एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं सुखम् इति योजयति | न विज्ञानं दुःखम् इति योजयति | न रूपम् आत्मेति योजयति | न रूपम् अनात्मेति योजयति | एवं न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् आत्मेति योजयति | न विज्ञानम् अनात्मेति योजयति | न रूपं शान्तम् इति योजयति | न रूपम् अशान्तम् इति योजयति | एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं शान्तम् इति (LPG २४व्) योजयति | न विज्ञानम् अशान्तम् इति योजयति | न रूपं शुन्यम् इति वा अशुन्यम् इति युज्यते | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं शुन्यम् इति वा अशुन्यम् इति वा युज्यते | न रूपं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते | न रूपं प्रणिहितम् इति वा अप्रणिहितम् इति वा युज्यते | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं प्रणिहितम् इति वा अप्रणिहितम् इति वा युज्यते | न रूपम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते | एवं न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् उत्पद्यत इति वा निरुध्यय इति वा युज्यते | न रूपम् अतीतम् इति युज्यते | न रूपम् अनागतम् इति युज्यते | न रूपं प्रत्युत्पन्नम् इति युज्यते एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् अतीतम् इति युज्यते न विज्ञानम् अनागतम् इति युज्यते | न विज्ञानं प्रत्युत्पन्नम् इति युज्यते | न रूपं सारम् इति न दुर्बलम् इति युज्यते | एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् सारम् इति न दुर्बलम् इति युज्यते | न रूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते | एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते | स प्रज्ञापारमितायां चरतीति नोपैति | न चरतीति नोपैति | चरतीति च न चरति चेति नोपैति | नैव चरति च न चरतीति नोपैति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न प्रज्ञापारमितायाः कृते प्रज्ञापारमितायां चरति | न दानपारमिताया न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमितायाः कृते प्रज्ञापारमितायां चरति | नावैवर्त्यभूमेः कृते प्रज्ञापारमितायां चरति | न सत्वपरिपाकहेतोः न बुद्धक्षेत्रपरिशोधनार्थं न दशानां (LPG २५र्) तथागतबलानां कृते | न चतुर्णां वैशारद्यानां कृते | न चतस्र्णां प्रतिसंविदानां कृते | नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां कृते प्रज्ञापारमितायां चरति | नाध्यात्मशुन्यतायाः कृते प्रज्ञापारमितायां चरति | न बहिर्धाशुन्यताया नाध्यात्मबहिर्धाशुन्तताया | न शुन्यताशुन्यताया न महाशुन्यताया न परमार्थशुन्यताया न संस्कृतशुन्यताया नासंस्कृतशुन्यताया नात्यन्तशुन्यताया | नावराग्रशुन्यताया | नावकारशुन्यताया | न प्रकृतिशुन्यताया | न स्वलक्षणशुन्यताया | न सर्वधर्मशुन्यताया | नानुत्पादशुन्यताया | नाभावस्वभावशुन्यतायाः कृते | न तथतायाः कृते | न धर्मधातोर् न भूतकोटेः कृते प्रज्ञापारमितायां चरति | तत् कस्य हेतोः न हि बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य भेदं वा नानाकरणं वा विशेषं वा समनुपश्यति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः // स न दिव्यस्य चक्षुषः कृते प्रज्ञापारमितायां चरति | न दिव्यस्य श्रोत्रस्य न परचित्तज्ञानस्य न पूर्वनिवासानुस्मृतेर् नर्धिपादानां कृते प्रज्ञापारमितायां चरति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा दिव्येन चक्षुषा पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सत्करिष्यामि गुरुकरिष्यामि मानयिष्यामि पूजयिष्यामि // एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सत्करिष्यामि गुरुकरिष्यामि मानयिष्यामि पूजयिष्यामि न चास्यैवं (LPG २५व्) भवति यत् ते बुद्धा भगवन्तो भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोष्यामि | अहं तत्र लोकधातुषु सत्वानां चेतसैव चित्तं ज्ञास्ये | अहं एषां पूर्वेनिवासान् अनुस्मरिष्यामि | अहं दिव्येन चक्षुषा तां सत्वांश् च्यवमानान् उपपद्यमानान् उपपन्नांश् च द्रक्ष्यामि | अहम् अप्रमेयासंख्येयान् सत्वान् परिनिर्वापयिष्यामि ति | // एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः // एवं खलु शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो मारः पापीयान् अवतारं न लभते | यान्य् अपि कानिचिल् लौकिकलोकोत्तराणि करणीयानि तान्य् अपि सर्वाणि प्रदक्षिणीभवन्त्य् अनाभोगेनापरिकल्पितानि // ये च ते पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो ये च दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि बुद्धा भगवन्तस् तं बोधिसत्वं महासत्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति | ये च चत्वारो महाराजा यावद् अघनिष्ठा देवास् ते ऽपि तं बोधिसत्वं महासत्वम्म् आरक्षन्ति मा हैव कश्चिद् बोधिसत्वस्य महासत्वस्यान्तरायं कार्षीत्* ये च केचित् कायिका रोगास् ते ऽपि तस्य दृष्टे ऽपि धर्मे सर्वेण सर्वं न भवन्ति | तत् कस्य हेतोः तथा हि बोधिसत्वो महासत्वः सर्वसत्वान् मैत्र्या स्फरति | // एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः अल्पकृच्छ्रेण धारणीमुख समाधिमुखानि प्रतिभानप्रतिसंविन्मुखान्य् आमुखीभवन्ति | // तथागतांश् चार्हतः (LPG २६र्) सम्यक्संबुद्धान् आरागयति | तैश् च बुद्धैर् भगवद्भिर् न कदाचिद् विरहितो भवति | यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते | //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति | अस्ति कश्चिद् धर्मो यो धर्मैः सार्धं संयुज्यते वा विसंयुज्यते वा | समेति वा न समेति वा | तत् कस्य हेतोः | तथा हि स तद् धर्मं न समनुपश्यति | यो युज्येत वा वियुज्येत वा | समेयाद् वा न समेयाद् वा : एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति * कच्चिद् अहं धर्मधातुम् अभिसंबुद्ध्येय न वाभिसंबुध्येय तत् कस्य हेतोर् न हि धर्मधातुम् अभिसंबुद्धो नाभिसंबुध्यते | नाभिसम्भोत्स्यते | एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न कंचिद् धर्मं धर्मधातुव्यतिरिक्तं समनुपश्यति | एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न धर्मधातोर् धर्माणां च नानाकरणं करोति | //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति // धर्मधातुं प्रतिविध्येय वा न वा प्रतिविध्येय | तथा हि स न कंचिद् धर्मं समनुपश्यति | येन धर्मेण यो धर्मः प्रतिविध्येत तथा हि न स धर्मधातुं शुन्यम् इति योजयति | नाशुन्यम् इति योजयति | एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
(LPG २६व्) पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं शुन्यतया योजयति | न शुन्यतां चक्षुर्धातुना योजयति | न रूपधातुं शुन्यतया योजयति | न शुन्यतां रूपधातुना योजयति | न चक्षुर्विज्ञानधातुं शुन्यतया योजयति | न शुन्यतां चक्षुर्विज्ञानधातुना योजयति | एवं न श्रोत्रधातुं न शब्दधातुं न श्रोत्रविज्ञानधातुं न घ्राणधातुं न गन्धधातुं न घ्राणविज्ञानधातुं न जिह्वाधातुं न रसधातुं न जिह्वाविज्ञानधातुम् | न कायधातुं न स्प्रष्टव्यधातुं | न कायविज्ञानधातुं | यावन् न मनोधातुं शुन्यतया योजयति | न शुन्यतां मनोधातुना योजयति | न धर्मधातुं शुन्यतया योजयति | न शुन्यतां धर्मधातुना योजयति | न मनोविज्ञानधातुं शुन्यतया योजयति | न शुन्यतां मनोविज्ञानधातुना योजयति | एष हि शारद्वतीपुत्र परमो योगो यद् उत शुन्यतायोगः शुन्यतायां शारद्वतीपुत्र चरन् बोधिसत्वो महासत्वो न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति | बुद्धक्षेत्रं च परिशोधयति | सत्वांश् च परिपाचयति | क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते ये केचिच् छारद्वतीपुत्र योगाः प्रज्ञापारमितायोगस् तेषाम् अग्र्य-म्-आख्यायते | श्रेष्ठ वरः प्रवरः प्रणीत-म्-आख्यायते तत् कस्य हेतोः अनुत्तर एष योगो यद् उत प्रज्ञापारमितायोगः शुन्यतानिमित्ताप्रणिहितयोग | एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वो व्याकृतो वक्तव्यः असन्निभूतश् चानुत्तरायाः सम्यक्संबोधेः एवं युज्यमानः (LPG २७र्) शारद्वतीपुत्र बोधिसत्वो महासत्वो ऽप्रमेयाणाम् असंख्येयानां सत्वानाम्म् अर्थं करोति न चास्यैवं भवत्य् अहं प्रज्ञापारमितायां युज्ये ऽति वा वियुज्ये ऽति वा मां बुद्धा भगवन्तो व्याकरिष्यन्त्य् अहम् आसन्नीभूतो व्याकरणस्य // अहं बुद्धक्षेत्रं परिशोधयिष्यामि | अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्ये | // तत् कस्य हेतोस् तथा हि स धर्मधातुं न व्यतिरेकीकरोति | // न च धर्मधातोः कंचिद् अन्यधर्मं समनुपश्यति | यः प्रज्ञापारमितायां चरेद् यो वा बुद्धैर् भगवद्भिर् व्याकृयेत | यो वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत : तत् कस्य हेतोः तथा हि तस्य बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो न सत्वसंज्ञोत्पद्यते | न जीवसंज्ञा न पुद्गलसंज्ञा न जानकपश्यककारकवेदकसंज्ञोत्पद्यते | // तत् कस्य हेतोः तथा ह्य् अत्यन्तं सत्वो नोपलभ्यते न निरुध्यते | न हि सत्वस्योत्पादो न निरोधः यस्य च नोत्पादो न निरोधः कथं स प्रज्ञापारमितायां चरिष्यति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः सत्वानुत्पादतया प्रज्ञापारमितायां चरति | सत्वशुन्यतया प्रज्ञापारमितायां चरति | सत्वानुपलब्ध्या सत्वविविक्ततया सत्वप्रकृत्या | सत्वास्वभावतया प्रज्ञापारमितायां चरति | एष शारद्वतीपुत्र बोधिसत्वानां महासत्वानां परमो योगो यद् उत शुन्यतायोगः अयं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः परमो योगः यस् तदन्यान् योगान् अभिभूय तिष्ठति | अत्र च शारद्वतीपुत्र योगे चरन् बोधिसत्वो महासत्वो महामैत्रीम् अभिनिर्हरति | महाकरुणां चाभिनिर्हरति | अत्र शारद्वतीपुत्र योगे चरन् बोधिसत्वो महासत्वो न मात्सर्यचित्तम् उत्पादयति | न दौःशील्यचित्तं न व्यापादचित्तं न कौसीद्यचित्तं (LPG २७व्) न विक्षेपचित्तं न दौष्प्रज्ञचित्तम् उत्पादयति |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Larger Prajñāpāramitā (sa_larger-prajJApAramitA.htm).

Source