पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् प्रकृतिशुन्यतायां युक्तो युक्त इति वक्तव्य एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः // स आभिर् दशभिः शुन्यताभिः प्रज्ञापारमितायां चरन् न तावद् युक्त इति वा अयुक्त इति वा वक्तव्यः तत् कस्य हेतोः तथा हि स न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न रूपम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति | न वेदनां न संज्ञान् न संस्कारान् न विज्ञानम् उत्पादधर्मि वा निरोधधर्मि वा समनुपश्यति | न रूपं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति | न वेदनां न संज्ञां न संस्कारान् न विज्ञानं संक्लेशधर्मि वा व्यवदानधर्मि वा समनुपश्यति | न रूपं वेदनया सार्धं समवसरतीति समनुपश्यति | न वेदना संज्ञया न संज्ञा संस्कारैर् न संस्कारा विज्ञानेन सार्धं समवसरन्तीति समनुपश्यति | न विज्ञानं संस्कारैः सार्धं समवसरतीति समनुपश्यति | तत् कस्य हेतोः तथा हि न स कश्चिद् धर्मः केनचिद् धर्मेण सार्धं समवसरति न विसरति | // न युज्यते न वियुज्यते प्रकृतिशुन्यताम् उपादाय | या शारद्वतीपुत्र रूपशुन्यता न सा रूपं या वेदनाशुन्यता न सा वेदना | या संज्ञाशुन्यता न सा संज्ञा | या संस्कारशुन्यता न ते संस्कारा | या विज्ञानशुन्यता न सा विज्ञानं | तथा हि शारद्वतीपुत्र या रूपशुन्यता न सा रूपयति | या वेदनाशुन्यता न सा (LPG २१व्) वेदयति | या संज्ञाशुन्यता न सा संजानाति | या संस्कारशुन्यता न साभिसंस्करोति | या विज्ञानशुन्यता न सा विजानाति | तत् कस्य हेतोः न हि शारद्वतीपुत्रान्यद् रूपम् अन्या शुन्यता नान्या शुन्यतान्यद् रूपम्* रूपम् एव शुन्यता शुन्यतैव रूपम्* एवं नान्या वेदनान्या शुन्यता | नान्या संज्ञा नान्या शुन्यता | नान्ये संस्कारा अन्या शुन्यता | नान्यद् विज्ञानम् अन्या शुन्यता | नान्या शुन्यतान्यद् विज्ञानं | विज्ञानम् एव शुन्यता शुन्यतैव विज्ञानं | या शारद्वतीपुत्र शुन्यता न सा उत्पद्यते न निरुध्यते | न संक्लिश्यते न व्यवदायते | न हीयते न वर्धते | नातीता नानागता न प्रत्युत्पन्ना या नोत्पद्यते न निरुध्यते | न संक्लिश्यते न व्यवदायते | न हीयते न वर्धते | नातीता नानागता न प्रत्युत्पन्ना : न तत्र रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न चक्षुर् न श्रोत्रं न घ्राणं न जिह्वा कायो न मनः न रूपं न शब्दो न गन्धो न रसो न स्पर्शो न धर्माः न तत्र स्कन्धा न धातवो नायतनानि न तत्र चक्षुर्धातुर् न रूपधातुर् न चक्षुर्विज्ञानधातुर् न श्रोत्रधातुर् न शब्दधातुर् न श्रोत्रविज्ञानधातुः न घ्राणधातुर् न गन्धधातुर् न घ्राणविज्ञानधातुर् न जिह्वाधातुर् न रसधातुर् न जिह्वाविज्ञानधातुः न कायधातुर् न स्प्रष्टव्यधातुर् न कायविज्ञानधातुर् न मनोधातुर् न धर्मधातुर् न मनोविज्ञानधातुर् न तत्राविद्या नाविद्यानिरोधः न संस्कारा न्न संस्कारनिरोधः न विज्ञानं न विज्ञाननिरोधः न नामरूपं न नामरूपनिरोधः न षडायतनं न षडायतननिरोधः न स्पर्शो न स्पर्शनिरोधः न वेदना न वेदनानिरोधः न तृष्णा न तृष्णानिरोधः नोपादानं नोपादाननिरोधः न भवो न भवनिरोधः न जातिर् न जातिनिरोधः न जरामरणं न जरामरणनिरोधः न दुःखं न समुदयो न निरोधो न मार्गः न प्राप्तिर् नाभिसमयः न स्रोतआपन्नो न स्रोतआपत्तिफलं न सकृदागामी (LPG २२र्) न सकृदागामिफलं नानागामी नानागामिफलं नार्हन् नार्हत्वम्* न प्रत्येकबोधिर् न प्रत्येकबुद्धः न तत्र मार्गाकारज्ञता न बोधिसत्वः न तत्र बोधिर् न बुद्धः एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः स एवं प्रज्ञापारमितायां चरन् न दानपारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति | न शीलपारमितायां न क्षान्तिपारमितायां न वीर्यपारमितायां न ध्यानपारमितायां न प्रज्ञापारमितायां युक्त इति वा अयुक्त इति वा समनुपश्यति | न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न चक्षुर् युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न श्रोत्रं न घ्राणं न जिह्वां न कायं न मनो युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न रूपं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न शब्दं न गन्धं न रसं न स्पर्शं न धर्मान् न चक्षुर्धातुं युक्तम् इति वा अयुक्तम् इति वा समनुपश्यति | न रूपधातुं न चक्षुर्विज्ञानधातुं यावन् न मनोधातुं न धर्मधातुं न मनोविज्ञानधातुं युक्त इति वा अयुक्त इति वा समनुपश्यति | न स्मृत्युपस्थानेषु युक्त इति वा अयुक्त इति वा समनुपश्यति | न सम्यक्प्रहाणेषु न रिद्धिपादेषु नेन्द्रियेषु न बलेषु न बोध्यंगेषु न मार्गे युक्त इति वा अयुक्त इति वा समनुपश्यति | यावन् न दशसु तथागतबलेषु न चतुर्षु वैशारद्येषु न चतसृषु प्रतिसंवित्सु नाष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु युक्त इति वा अयुक्त इति वा समनुपश्यति | यावन् न सर्वज्ञतायां न सर्वाकारज्ञतायां युक्त इति वा अयुक्त इति वा समनुपश्यति | अनेनापि शारद्वतीपुत्र पर्यायेण बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्तो युक्त इति वक्तव्यः सर्वधर्मायोगावियोगताम् (LPG २२व्) उपादाय | पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न शुन्यतां शुन्यतया योजयति न वियोजयति | न शुन्यतायोगम्* नानिमित्तम् आनिमित्तेन योजयति न वियोजयति | नानिमित्तयोगम्* नाप्रणिहितम् अप्रणिहितेन योजयति न वियोजयति | नाप्रणिहितयोगम् | तत् कस्य हेतोः तथा हि शुन्यता न योगो न वियोगः एवम् आनिमित्तम् अप्रणिहितं न योगो न वियोगः एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् धर्माणां स्वलक्षणशुन्यताम् अवतरति | एवम् अवतरन् न रूपं योजयति न वियोजयति | न वेदनां न संज्ञां न संस्कारान् न विज्ञानं योजयति न वियोजयति | न रूपं पूर्वान्तेन योजयति न वियोजयति | तथा हि पूर्वान्तम् एव न समनुपश्यति | न रूपम् अपरान्तेन योजयति न वियोजयति | तथा ह्य् अपरान्तम् एव न समनुपश्यति | न रूपं प्रत्युत्पन्नेन योजयति न वियोजयति | तथा हि प्रत्युत्पन्नम् एव न समनुपश्यति | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं पूर्वान्तापरान्तप्रत्युत्पन्नैर् योजयति न वियोजयति | तथा हि पूर्वान्तापरान्तप्रत्युत्पन्नान्य् एव न समनुपश्यति | //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न पूर्वान्तम् अपरान्तेन योजयति न वियोजयति | नापरान्तं पूर्वान्तेन योजयति न वियोजयति | न प्रत्युत्पन्नं पूर्वान्तेनापरान्तेन वा योजयति न वियोजयति | न पूर्वान्तम् अपरान्तं वा प्रत्युत्पन्नेन योजयति न वियोजयति | अध्वसमताशुन्यताम् उपादाय | // एवं हि युक्तः शारद्वतीपुत्र बोधिसत्वो महासत्वः (LPG २३र्) प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन्न् एवं युज्यते यथा युज्यमानो न सर्वज्ञताम् अतीतेन योजयति तथा ह्य् अतीतम् एव न समनुपश्यति | असमनुपश्यन् | कथं सर्वज्ञताम् अतीतेन योजयिष्यति | न सर्वज्ञताम् अनागतेन योजयिष्यति | तथा ह्य् अनागतम् एव न समनुपश्यत्य् असमनुपश्यन् कथं सर्वज्ञताम् अनागतेन योजयिष्यति | न सर्वज्ञतां प्रत्युत्पन्नेन योजयति | तथा हि प्रत्युत्पन्नम् एव न समनुपश्यत्य् असमनुपश्यन् कथं सर्वज्ञतां प्रत्युत्पन्नेन योजयिष्यति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न रूपं सर्वज्ञतया योजयति न वियोजयति तथा हि रूपम् एव न समनुपश्यत्य् असमनुपश्यन् कथं रूपं सर्वज्ञतया योजयिष्यति | // एवं न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं सर्वज्ञतया योजयति न वियोजयति | तथा हि विज्ञानम् एव न समनुपश्यति | यावन् न चक्षुः सर्वज्ञतया योजयति न वियोजयति | तथा हि चक्षुर् एव न समनुपश्यति | एवन् न श्रोत्रं न घ्राणं न जिह्वां न कायन् न मनः सर्वज्ञतया योजयति न वियोजयति | तथा हि मन एव न समनुपश्यति | एवं न रूपं सर्वज्ञतया योजयति न वियोजयति | तथा हि रूपम् एव न समनुपश्यति | एवं न शब्दगन्धरसस्पर्शधर्मान् सर्वज्ञतया योजयति न वियोजयति | तथा हि धर्मान् एव न समनुपश्यति | एवं न स्कन्धान् सर्वज्ञतया योजयति न वियोजयति | (LPG २३व्) तथा हि स्कन्धान् एव न समनुपश्यति | न धातून् सर्वज्ञतया योजयति न वियोजयति | तथा हि धातून् एव न समनुपश्यति | नायतनानि सर्वज्ञतया योजयति न वियोजयति | तथा ह्य् आयतनान्य् एव न समनुपश्यति | // न चक्षुर्धातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि चक्षुर्धातुम् एव न समनुपश्यति | // न रूपधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि रूपधातुम् एव न समनुपश्यति | न चक्षुर्विज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि चक्षुर्विज्ञानधातुम् एव न समनुपश्यति | यावन् न मनोधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि मनोधातुम् एव न समनुपश्यति | न धर्मधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि धर्मधातुम् एव न समनुपश्यति | न मनोविज्ञानधातुं सर्वज्ञतया योजयति न वियोजयति | तथा हि मनोविज्ञानधातुम् एव न समनुपश्यति | असमनुपश्यन् कथं मनोविज्ञानधातुं सर्वज्ञतया योजयिष्यति | एवं चरंच् छारद्वतिपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न दानपारमितां सर्वज्ञतया योजयति न वियोजयति | तथा हि दानपारमिताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | एवं न शीलपारमितां न क्षान्तिपारमितां न वीर्यपारमितां न ध्यानपारमितां न प्रज्ञापारमितां सर्वज्ञतया योजयति न वियोजयति | तथा हि प्रज्ञापारमिताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | एवं न स्मृत्युपस्थानानि न सम्यक्प्रहाणर्धिपादेन्द्रियबलबोध्यंगमार्गान् सर्वज्ञतया योजयति न वियोजयति | एवन् न दश तथागतबलानि न चत्वारि वैशारद्यानि न चतस्रः प्रतिसंविद (LPG २४र्) नाष्टादशावेणिकान् बुद्धधर्मान् सर्वज्ञतया योजयति न वियोजयति | तथा ह्य् आवेणिकबुद्धधर्मान् न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न बुद्धं सर्वज्ञतया योजयति न वियोजयति | न सर्वज्ञतां बुद्धेन योजयति न वियोजयति | तथा हि बुद्धम् एव न समनुपश्यति सर्वज्ञताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | न बोधिं सर्वज्ञतया योजयति न वियोजयति | न बोद्ध्या सर्वज्ञतां योजयति न वियोजयति | तथा हि बोधिम् एव न समनुपश्यति | सर्वज्ञताम् एव न समनुपश्यत्य् असमनुपश्यन् न योजयति न वियोजयति | एवं हि शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न रूपं भाव इति योजयति न रूपं विभाव इति योजयति | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं भाव इति न विज्ञानं विभाव इति योजयति | // न रूपं नित्यम् इति योजयति | न रूपम् अनित्यम् इति योजयति एवन् न वेदनां न संज्ञान् न संस्कारान् न विज्ञानं नित्यम् इति योजयति | न विज्ञानम् अनित्यम् इति योजयति न रूपं सुखम् इति योजयति न रूपं दुःखम् इति योजयति | एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं सुखम् इति योजयति | न विज्ञानं दुःखम् इति योजयति | न रूपम् आत्मेति योजयति | न रूपम् अनात्मेति योजयति | एवं न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् आत्मेति योजयति | न विज्ञानम् अनात्मेति योजयति | न रूपं शान्तम् इति योजयति | न रूपम् अशान्तम् इति योजयति | एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं शान्तम् इति (LPG २४व्) योजयति | न विज्ञानम् अशान्तम् इति योजयति | न रूपं शुन्यम् इति वा अशुन्यम् इति युज्यते | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं शुन्यम् इति वा अशुन्यम् इति वा युज्यते | न रूपं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं निमित्तम् इति वा अनिमित्तम् इति वा युज्यते | न रूपं प्रणिहितम् इति वा अप्रणिहितम् इति वा युज्यते | न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानं प्रणिहितम् इति वा अप्रणिहितम् इति वा युज्यते | न रूपम् उत्पद्यत इति वा निरुध्यत इति वा युज्यते | एवं न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् उत्पद्यत इति वा निरुध्यय इति वा युज्यते | न रूपम् अतीतम् इति युज्यते | न रूपम् अनागतम् इति युज्यते | न रूपं प्रत्युत्पन्नम् इति युज्यते एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् अतीतम् इति युज्यते न विज्ञानम् अनागतम् इति युज्यते | न विज्ञानं प्रत्युत्पन्नम् इति युज्यते | न रूपं सारम् इति न दुर्बलम् इति युज्यते | एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् सारम् इति न दुर्बलम् इति युज्यते | न रूपम् अस्तीति न नास्तीति युज्यते न वियुज्यते | एवन् न वेदनान् न संज्ञान् न संस्कारान् न विज्ञानम् अस्तीति न नास्तीति युज्यते न वियुज्यते | स प्रज्ञापारमितायां चरतीति नोपैति | न चरतीति नोपैति | चरतीति च न चरति चेति नोपैति | नैव चरति च न चरतीति नोपैति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न प्रज्ञापारमितायाः कृते प्रज्ञापारमितायां चरति | न दानपारमिताया न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपारमिताया न ध्यानपारमितायाः कृते प्रज्ञापारमितायां चरति | नावैवर्त्यभूमेः कृते प्रज्ञापारमितायां चरति | न सत्वपरिपाकहेतोः न बुद्धक्षेत्रपरिशोधनार्थं न दशानां (LPG २५र्) तथागतबलानां कृते | न चतुर्णां वैशारद्यानां कृते | न चतस्र्णां प्रतिसंविदानां कृते | नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां कृते प्रज्ञापारमितायां चरति | नाध्यात्मशुन्यतायाः कृते प्रज्ञापारमितायां चरति | न बहिर्धाशुन्यताया नाध्यात्मबहिर्धाशुन्तताया | न शुन्यताशुन्यताया न महाशुन्यताया न परमार्थशुन्यताया न संस्कृतशुन्यताया नासंस्कृतशुन्यताया नात्यन्तशुन्यताया | नावराग्रशुन्यताया | नावकारशुन्यताया | न प्रकृतिशुन्यताया | न स्वलक्षणशुन्यताया | न सर्वधर्मशुन्यताया | नानुत्पादशुन्यताया | नाभावस्वभावशुन्यतायाः कृते | न तथतायाः कृते | न धर्मधातोर् न भूतकोटेः कृते प्रज्ञापारमितायां चरति | तत् कस्य हेतोः न हि बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् कस्यचिद् धर्मस्य भेदं वा नानाकरणं वा विशेषं वा समनुपश्यति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः // स न दिव्यस्य चक्षुषः कृते प्रज्ञापारमितायां चरति | न दिव्यस्य श्रोत्रस्य न परचित्तज्ञानस्य न पूर्वनिवासानुस्मृतेर् नर्धिपादानां कृते प्रज्ञापारमितायां चरति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवत्य् अहम् ऋद्धिपादेषु स्थित्वा दिव्येन चक्षुषा पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सत्करिष्यामि गुरुकरिष्यामि मानयिष्यामि पूजयिष्यामि // एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु ये बुद्धा भगवन्तस् तान् सत्करिष्यामि गुरुकरिष्यामि मानयिष्यामि पूजयिष्यामि न चास्यैवं (LPG २५व्) भवति यत् ते बुद्धा भगवन्तो भाषन्ते तत् सर्वं दिव्येन श्रोत्रेण श्रोष्यामि | अहं तत्र लोकधातुषु सत्वानां चेतसैव चित्तं ज्ञास्ये | अहं एषां पूर्वेनिवासान् अनुस्मरिष्यामि | अहं दिव्येन चक्षुषा तां सत्वांश् च्यवमानान् उपपद्यमानान् उपपन्नांश् च द्रक्ष्यामि | अहम् अप्रमेयासंख्येयान् सत्वान् परिनिर्वापयिष्यामि ति | // एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः // एवं खलु शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो मारः पापीयान् अवतारं न लभते | यान्य् अपि कानिचिल् लौकिकलोकोत्तराणि करणीयानि तान्य् अपि सर्वाणि प्रदक्षिणीभवन्त्य् अनाभोगेनापरिकल्पितानि // ये च ते पूर्वस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो ये च दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्ष्व् एकैकस्यान् दिशि गंगानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तस् ते ऽपि बुद्धा भगवन्तस् तं बोधिसत्वं महासत्वम् आरक्षन्ति मा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा पतेद् इति | ये च चत्वारो महाराजा यावद् अघनिष्ठा देवास् ते ऽपि तं बोधिसत्वं महासत्वम्म् आरक्षन्ति मा हैव कश्चिद् बोधिसत्वस्य महासत्वस्यान्तरायं कार्षीत्* ये च केचित् कायिका रोगास् ते ऽपि तस्य दृष्टे ऽपि धर्मे सर्वेण सर्वं न भवन्ति | तत् कस्य हेतोः तथा हि बोधिसत्वो महासत्वः सर्वसत्वान् मैत्र्या स्फरति | // एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति | अस्ति कश्चिद् धर्मो यो धर्मैः सार्धं संयुज्यते वा विसंयुज्यते वा | समेति वा न समेति वा | तत् कस्य हेतोः | तथा हि स तद् धर्मं न समनुपश्यति | यो युज्येत वा वियुज्येत वा | समेयाद् वा न समेयाद् वा : एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति * कच्चिद् अहं धर्मधातुम् अभिसंबुद्ध्येय न वाभिसंबुध्येय तत् कस्य हेतोर् न हि धर्मधातुम् अभिसंबुद्धो नाभिसंबुध्यते | नाभिसम्भोत्स्यते | एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न धर्मधातोर् धर्माणां च नानाकरणं करोति | //
SK
पुनर् अपरं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो नैवं भवति // धर्मधातुं प्रतिविध्येय वा न वा प्रतिविध्येय | तथा हि स न कंचिद् धर्मं समनुपश्यति | येन धर्मेण यो धर्मः प्रतिविध्येत तथा हि न स धर्मधातुं शुन्यम् इति योजयति | नाशुन्यम् इति योजयति | एवं खलु शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् युक्त इति वक्तव्यः //
SK
(LPG २६व्) पुनर् अपरं शारद्वतीपुत्र बोधिसत्वो महासत्वः प्रज्ञापारमितायां चरन् न चक्षुर्धातुं शुन्यतया योजयति | न शुन्यतां चक्षुर्धातुना योजयति | न रूपधातुं शुन्यतया योजयति | न शुन्यतां रूपधातुना योजयति | न चक्षुर्विज्ञानधातुं शुन्यतया योजयति | न शुन्यतां चक्षुर्विज्ञानधातुना योजयति | एवं न श्रोत्रधातुं न शब्दधातुं न श्रोत्रविज्ञानधातुं न घ्राणधातुं न गन्धधातुं न घ्राणविज्ञानधातुं न जिह्वाधातुं न रसधातुं न जिह्वाविज्ञानधातुम् | न कायधातुं न स्प्रष्टव्यधातुं | न कायविज्ञानधातुं | यावन् न मनोधातुं शुन्यतया योजयति | न शुन्यतां मनोधातुना योजयति | न धर्मधातुं शुन्यतया योजयति | न शुन्यतां धर्मधातुना योजयति | न मनोविज्ञानधातुं शुन्यतया योजयति | न शुन्यतां मनोविज्ञानधातुना योजयति | एष हि शारद्वतीपुत्र परमो योगो यद् उत शुन्यतायोगः शुन्यतायां शारद्वतीपुत्र चरन् बोधिसत्वो महासत्वो न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति | बुद्धक्षेत्रं च परिशोधयति | सत्वांश् च परिपाचयति | क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते ये केचिच् छारद्वतीपुत्र योगाः प्रज्ञापारमितायोगस् तेषाम् अग्र्य-म्-आख्यायते | श्रेष्ठ वरः प्रवरः प्रणीत-म्-आख्यायते तत् कस्य हेतोः अनुत्तर एष योगो यद् उत प्रज्ञापारमितायोगः शुन्यतानिमित्ताप्रणिहितयोग | एवं युज्यमानः शारद्वतीपुत्र बोधिसत्वो महासत्वो व्याकृतो वक्तव्यः असन्निभूतश् चानुत्तरायाः सम्यक्संबोधेः एवं युज्यमानः (LPG २७र्) शारद्वतीपुत्र बोधिसत्वो महासत्वो ऽप्रमेयाणाम् असंख्येयानां सत्वानाम्म् अर्थं करोति न चास्यैवं भवत्य् अहं प्रज्ञापारमितायां युज्ये ऽति वा वियुज्ये ऽति वा मां बुद्धा भगवन्तो व्याकरिष्यन्त्य् अहम् आसन्नीभूतो व्याकरणस्य // अहं बुद्धक्षेत्रं परिशोधयिष्यामि | अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्तयिष्ये | // तत् कस्य हेतोस् तथा हि स धर्मधातुं न व्यतिरेकीकरोति | // न च धर्मधातोः कंचिद् अन्यधर्मं समनुपश्यति | यः प्रज्ञापारमितायां चरेद् यो वा बुद्धैर् भगवद्भिर् व्याकृयेत | यो वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत : तत् कस्य हेतोः तथा हि तस्य बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतो न सत्वसंज्ञोत्पद्यते | न जीवसंज्ञा न पुद्गलसंज्ञा न जानकपश्यककारकवेदकसंज्ञोत्पद्यते | // तत् कस्य हेतोः तथा ह्य् अत्यन्तं सत्वो नोपलभ्यते न निरुध्यते | न हि सत्वस्योत्पादो न निरोधः यस्य च नोत्पादो न निरोधः कथं स प्रज्ञापारमितायां चरिष्यति | एवं चरंच् छारद्वतीपुत्र बोधिसत्वो महासत्वः सत्वानुत्पादतया प्रज्ञापारमितायां चरति | सत्वशुन्यतया प्रज्ञापारमितायां चरति | सत्वानुपलब्ध्या सत्वविविक्ततया सत्वप्रकृत्या | सत्वास्वभावतया प्रज्ञापारमितायां चरति | एष शारद्वतीपुत्र बोधिसत्वानां महासत्वानां परमो योगो यद् उत शुन्यतायोगः अयं शारद्वतीपुत्र बोधिसत्वस्य महासत्वस्य प्रज्ञापारमितायां चरतः परमो योगः यस् तदन्यान् योगान् अभिभूय तिष्ठति | अत्र च शारद्वतीपुत्र योगे चरन् बोधिसत्वो महासत्वो महामैत्रीम् अभिनिर्हरति | महाकरुणां चाभिनिर्हरति | अत्र शारद्वतीपुत्र योगे चरन् बोधिसत्वो महासत्वो न मात्सर्यचित्तम् उत्पादयति | न दौःशील्यचित्तं न व्यापादचित्तं न कौसीद्यचित्तं (LPG २७व्) न विक्षेपचित्तं न दौष्प्रज्ञचित्तम् उत्पादयति |