पृ० १०) अत्र सांख्याः प्रत्यवतिष्ठन्ते | भवेदप्येतदेवं यदि किंचिदेकैकमेव कस्यचित् कारणं स्यात्, यावतानेकमेव तत्तदेककार्याभिव्यक्तिनिमित्ततां संतताविविक्तदेशकालादियोगेन उपयाति | ततश्च ये ते सहभावमापन्नाः कार्यभाविर्भावयन्ति ते परस्परयोगे विचित्रवृत्तयो दृश्यन्ते | तथा हि बीजान्तर्गमनेन बीजभूता जलभूम्यादयो रसादिपरिणामात् दीर्घप्रचितसंनिवेशमङ्कुरं सहकारितया कुर्वन्ति | क्रियापि देशान्तराक्रमणलक्षणा न तद्देशपरिणामवद्रूपातिरिक्ता काचिदुपलभ्यते | तेन यथैकोपादानदेशे एव प्रतिक्षणं परिणामस्तथा देशान्तरस्थितरूपतया यदि स्यात् तत्को विरोधः | कूटस्थनित्यताभ्युपगमे भावानामेष दोषो न तु क्षणपरिणामनये, वायुवह्निप्रभृतीनामपि भावानां दिगन्तराक्रमणमनियमेन यथा भावे, तथा तथाविधसहकारिकारणविशेषसाहित्यात् नियमेन | सजातीयतायोग्यकार्योत्थापनसमर्था अपि ते यदि स्युस्तन्न किंचिद्दुष्येत् | न च दृश्यमानार्थयोगितोपपन्नं वस्तु अदृष्टकल्पनाय अङ्गतामुपनयति, ईश्वरोपगमेऽप्यनवस्थाप्रसङ्गात् | अर्थानां स्वभाववैचित्र्यमभ्युपगमनीयं सर्ववादिभिः, येन बीजादेवाङ्कुरो मृद एव घटः, ततः सहकारिसामर्थ्यातिशयावेशितविशेषादेव देशान्तराक्रमणेन उपादानविलक्षणसंस्थानतया उद्भवन्तो भावा न
SK
वाच्यताभाजः | यत्र पुनः सहकारिणो बहिः स्वदेशसंनिविष्टा एव कार्येषु उपयुज्यन्ते यथा मृत्पिण्डचक्रादयः, तत्रोपादानसंनिवेशवैसादृश्ये स्यादवसरो बुद्धिमतः कुम्भकारस्येव, उपादानमात्रस्य हि देशान्तरगमनसमर्थावयवत्वे पूर्वमपि तथा- पृ० ११) भावः स्यात् | न पुनरत्र बुद्धिमदुपयोगमात्रेण सर्वत्र सहकारिणामियमेव व्यवस्था स्थापिता प्रामाणिकतां पुष्णाति || तदाह अत्रोच्यते गतिश्चित्रा दृश्यते सहकारिणाम् | केचित्कथंचिदेवेयु- रुपादानैः समागमम् || १५ || हेतुमन्तःप्रविश्यान्ये प्राप्योपादानरूपताम् | चित्रयन्ति हि कार्याणि भौमोदकरसा इव || १६ || अन्ये पुनरुपादाने बहिर्विपरिवर्तिनः | रूपवैचित्र्ययोगाय कार्येषु न तथा क्षमाः || १७ || तत्र बुद्धिमतो नाम प्रसरो यदि कल्प्यते | न तावतैव सर्वत्र व्यवस्था घटते तथा || १८ || इति ||
SK
पृ० १२) एवं कारणानामेकत्र कार्यात्मना व्याप्रियमाणानां प्रवृत्तिप्रकारवैचित्र्ये व्यवस्थापिते, प्रस्तुततनुकरणादिसकलभागलक्षणकार्यकारि प्रधानसंज्ञं तावन्मूलकारणं प्रधानसिद्धौ समन्वयादिवीतोपन्यासेन निर्बाधमेव साधितमेव,-इति नेह तत्प्रमेयम् | न हि प्रधानसिद्धिमात्रेणैव ईश्वरनिराकृतिः स्यात् उपादानकारणतया परमाणुस्थान एव प्रधानस्य मूलकारणत्वेन समर्थनात् | तच्च प्रधानेन परमाणुवाद एव यदि परं निराक्रियेत, ततः प्रधानव्यवस्था विश्वस्य उपादानकारणविचारप्रस्तावे प्रमेयीभवति, न तु निमित्तकारणोपपादनप्रक्रमे | तदेवं मूलप्रकृतिः सत्त्वरजस्तमःसंज्ञगुणत्रयसाम्यात्मिका प्रकृतितयैव प्रसवधर्मिणी गुणानामेवाङ्गाङ्गिभावगमनेन यावन्महदादिविकारात्मना परिणमते, तावत्पुरुषार्थत्वमेव तत्र तस्याः स्वभावभूतं निमित्तम् | न हि यदृच्छया वर्तमानायाः कार्यवर्गस्य देवमानुषतिर्यग्योनिरूपस्य तदवान्तरजातिवैचित्र्यवतो नियमेन स्त्रीपुंससंस्थानद्वयस्य वा अन्योन्यानुगुण्यमुपपद्यते | तदेतत्संनिवेशविशेषरूपतया अभ्युपेतमीश्वरवादिनापि | तदेतदप्येषां सप्रकृतिकानां व्यूहविभवभावेनावस्थितानामशेषविकाराणाम् इतरेतराङ्गाङ्गिभावगमनं लोकयात्रोपयोगितया तावत्संनिवेशविशेषफलंनिरर्थकम् | यदुक्तं न
SK
स्यात्क्रियाव्यूहविधिस्तथायं यादृच्छिका................... | इत्यादि | अर्थवत्त्वं च सुखदुःखोपलम्भसंपादनार्थतयैव सर्वस्यैव अर्थरूपस्य परम्परया पर्यवस्यति | सन्तोऽपि हि सविधमुपयान्तोऽर्थाः शशविषाणकल्पाः प्रकल्पन्ते | अ-
पृ० १९) स्य बुद्धिमदविनाभावसिद्धेर्देहादिसंनिवेशादप्यदृष्टस्य तादृशो बुद्धिमतः कथं नानुमतिः || तदाह पुरुषार्थस्वभावत्वं समस्तार्थक्रियासु चेत् || २७ || निमित्तकारणत्वेन प्रधानस्योपकल्प्यते | तद्विना कुम्भकारेण घटोऽपि न भवेत्कथम् || २८ || प्रधानमयमृत्पिण्डा- देव तादृक्स्वभावतः | अथ स्वभाव एषोऽस्य यत्कुलालाद्यपेक्षणम् || २९ || तथेश्वरव्यपेक्षास्तु देहहेतोः स्वभावतः | इति || न चापि सहकारिणामुपादानकारणस्यान्तः प्रवेशमात्रादुपयोगविशेषानुसंधानवतः कस्यचिदव्यापारेऽपि विचित्रा पुरुषार्थोपयोगिनी रचना उपकल्प्यते | तथाहि यावदिदमितो भवति किंचिदधिकविशेषात्पुनरत एवानेन विशेषेण सविशेषमिदमेव भवति, अपरविशेषयुक्तात्पुनरस्मादेव अन्यदेव अन्यजातीयमेव कार्यं जायते, ततः संप्रति
SK
पृ० २०) एवंविधमुपयुज्यते तथैव करोमीत्येवं विचारचतुरा मतिर्न स्यात्, तावत्कथं तथाभूतविशेषकरणाय हानोपादाने स्याताम् | तथा विज्ञत्वे च सर्वदा तथाभूतकार्यसंभवो न भवति, तस्य प्रज्ञावतः सर्वदा तत्करणेच्छाया अभावात्, ततः सापि तस्यापेक्षणीया; इच्छानुसंधानशून्येन तु जलभूम्यादिरसेन उपादानान्तःप्रविष्टेनापि कार्यस्य स्थूलतामात्रमविचित्रमेव स्यात्, न तूपयोगविभागप्रयोजिता अवयवसंस्थानभङ्ग्यः | विलक्षणा दृश्यन्ते एताः सर्वास्तथा | न चाप्येता एकान्तविलक्षणा एव, यावदेकार्थक्रियोपयोगिन्यः, सजातीया अपि प्राज्ञकृततत्तत्सहकारिसंयोजनवियोजनवशादुपलक्ष्यन्ते | बुद्धिशून्यसहकारिमात्रसामर्थ्ये संशयरूपता केवलकार्यस्योचिता; काकतालीयोऽवयवविभाग एकत्रैव सा..................दन्यत्रान्यादृशतैव भवेत् | यत्पुनरनुगामित्वमवश्यमुपयोगविशेषानुगामितानुविधायि सर्वकार्येषूपलभ्यते, तत्तथा नियमेन न स्यात् | तस्मान्मृत्पिण्डायातघटशरावोदञ्चनेष्टकादिसंनिवेशविभागकारी प्रयोजनभेदानुसारितया दृश्यते बुद्धिमत इच्छादिव्यापारः प्रज्ञाविशेषमयो, न तु जडविजातीयतापात्रतया सहकारित्वेन | तथा सति हि स कुम्भकारसंबन्धाद्घट एव वा स्यात् शराव एव वा, न तु कुण्डमपीष्टकान्य[द्य]पि वा | ततो यथाभूतमिच्छति जानाति
SK
च कर्तुं तादृगेवात्र कार्यविशेषोद्गमः | अत एव संनिवेशस्य विशेषः पुरुषार्थोपयोगित्वेनार्थनीयत्वात् न तु पृथुबुध्नोदराकारत्वादि, येन सिद्धं यादृगधिष्ठातृभाव........... इत्यादि चोद्येत | इच्छया सह संनिवेशस्यापि हि पुनर्हस्ताद्यपेक्षयानवस्थानात् | ततश्च
SK
पृ० २१) तनुकरणभुवनानामन्योन्यानुगुण्यविद एकस्यैव कर्तुस्तथेच्छामात्रसंनिवेशविशेषवत्त्वम् | रथादौ तक्ष्णो यद्यप्ययःसंनिवेशविज्ञतापि स्यात् तथापि तस्य हस्तादिव्यापारानभ्यासादयोयोजनेऽयस्कार एव कर्ता | भिन्नदेशकालगतविवर्तितत्वाद्यनुसंधानवतस्तु संहतेच्छामात्रात्कार्यस्य सिद्धौ न सिद्धा विश्वभागे कर्त्रन्तरापेक्षा, अयस्कार इव हस्ताभ्यासानपेक्षणादित्येक एव तन्वादिविश्वकर्ता पुरुषार्थोपयोगित्वेन | तच्चार्थिसार्थैरर्थनीयत्वं न घटमात्राश्रयेण, कुण्डपटशकटादिगतत्वेन प्राज्ञशक्तकर्तृकतया च तादृश एवानुमिताधिकृतो न तु घटकुम्भकारमात्रदर्शी, यथा तार्णपार्णचान्दनाद्यनेकाग्निधूमगतप्रत्यक्षानुपलम्भप्रवृत्तिमानग्निमात्रानुमाने | अनेकविशेषदर्शने हि सामान्यनिष्ठकार्यकारणभावप्रतिष्ठायां विशेषव्यभिचारः सिद्ध्यति; एकविशेषव्यभिचाराच्च सर्वविशेषव्यभिचारनिश्चयेन अत्यन्तादृष्टपूर्वशांशपादिविशेषानिराकरणात् न सर्वविशेषदर्शनमुपयुज्यते | एवमिहापि संनिवेशविशेषमात्रस्य तथाभूतचिकीर्षायाश्च अनेकसंनिवेशदर्शनात् सामान्येन कार्यकारणतासिद्धौ कुलालानीश्वरादिविशेषव्यभिचारनिश्चयेऽत्यन्तादृष्टतनुकरणादिचिकीर्षाविशेषानिराकरणेन संनिवेशविशेषात् तथा चिकीर्षामात्रानुमानम्; इच्छाकार्येषु अनङ्गभूतेऽप्यनीश्वरत्वे
SK
सहदर्शनमात्रादपेक्षोपगमेन किंचिदपीच्छाकार्यमुपदेशाद्यमीश्वरस्य अनीश्वरस्य वा सिद्ध्येत्; देहरागादिसहभावदर्शने च रूप्यधात्वादौ इच्छावतां तत्कार्यं न स्यात् | तदेवं तनुकरणभुवनानां संस्थानभङ्गीवैचित्र्यं तदनुगुणप्रज्ञा- पृ० २२) महिमानं विना कथं प्राधानिकजडवस्तुस्वभावमात्रादुपयोगविभागनियतमनुगामि चार्थितास्पदमुपपद्येत || तदाह नैवोपादनहेत्वन्तः- प्रवेशात्सहकारिभिः || ३० || संनिवेशविशेषोऽपि शक्यः कर्तुमिति क्षमम् | लोकयात्रानुसंधान- वतीं प्रज्ञां विना नहि || ३१ || तथा चिकीर्षां च विना विचित्ररचनोद्भवः | स्थूलतामात्रमेव स्या- न्न तु लोकोपयोगिनी || ३२ || रचना नियमेन स्या- द्विचित्रा जातिरूपिणी | कुलालसहकारित्व- मात्राच्चेज्जायते घटः || ३३ || न स्याज्जातु शरीरादि दीर्घमृत्पिण्ड एव वा | अत एवार्थनीयत्वा- त्संनिवेशो विशिष्यते || ३४ ||
SK
पृ० २३) न घटादितया सिद्धः सोऽर्थितापरिपूरकः | न चेश्वरोऽनीश्वरो वा प्रकृतोऽत्राणुलक्षणः || ३५ || वैचित्र्यकारी यो यत्र स तत्रेश्वर इष्यते | इति || न च प्रधानस्यैव मूलकारणस्य व्यवसायादिभिर्व्यक्तिरस्ति तत्कथं तस्येच्छादियोगः पुरुषार्थोद्देशानीतः स्यात् यतः प्रवृत्तिर्भवेत् | यद्यपि च बुद्धेरस्तीच्छानुसंधानं च व्यापारस्तथापि पुरुषसंनिधानाद्यावन्न चेत्यमानः प्रकाशमानोऽसौ संपन्नस्तावन्नेच्छादिरूपतां धत्ते तथालक्षणत्वादिच्छानुसंधानादीनाम् | अन्यथार्थान्तरमेव तत्स्यात् | तथा च सति न बुद्धिप्रवृत्तिरेव पुरुषार्था यावत्पुरुषस्य संवेदनव्यापारोऽपि पुरुषार्थः स्यात् न तु केवलं प्रधानमेव संवेदनमेव च पुरुषस्यार्थः, तस्मात्पुरुषनैरपेक्ष्येण प्रधानबुद्ध्यादिव्यापारस्य पुरुषार्थता न वाच्या, तादृशस्य चेष्टानुसंधानरूपत्वाभावात् न सा युक्ता,-इति युक्तमेव | अथ सर्वपुरुषसाधारणस्य एकस्यापि बुद्धितत्त्वस्य महत्संज्ञकस्य प्रतिपुरुषमध्यवसायलक्षणवृत्तिः सत्यं भिद्यते, महत्कारणास्मिताजन्मनो वा मनःसंज्ञकरणस्य | एषा अध्यवसायादिवृत्तिः प्रत्येकपुरुषनियतास्तु, न तया उत्तरकालभाविन्या प्रधानस्य महतो वा पुरुषार्थानुसंधानेच्छावत्ता युज्यते किं तु प्रधानस्यैव