The Upanishad on the Womb

Garbhopaniṣad · Gअर्भोपनिषद्

The Upanishad on the Womb

Garbhopaniṣad

Gअर्भोपनिषद्

SK
Gअर्भोपनिषत्
SK
ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् / तं सप्तधातुं त्रिमलं द्वियोनिं चतुर्विधाहारमयं शरीरम् || Gअर्Uप्_१
SK
पञ्चात्मकम् इति कस्मात् पृथिव्य् आपस् तेजो वायुर् आकाशम् इत्य् अस्मिन् पञ्चात्मके शरीरे का पृथिवी का आपः किं तेजः को वायुः किम् आकाशम् / तत्र पञ्चात्मके शरीरे यत् कठिनं सा पृथिवी यद् द्रवं ता आपः यद् उष्णं तत् तेजः यत् संचरति स वायुः यच् छुषिरं तद् आकाशम् / तत्र पृथिवी धारणे आपः पिण्डीकरणे तेजः प्रकाशने वायुर् व्यूहने आकाशम् अवकाशप्रदाने / पृथक् श्रोत्रे शब्दोपलब्धौ त्वक् स्पर्शे चक्षुषी रूपे जिह्वा रसने नासिका घ्राणे उपस्थ आनन्दने अपानम् उत्सर्गे बुद्ध्या बुध्यति मनसा संकल्पयति वाचा वदति / षडाश्रयम् इति कस्मात् मधुराम्ललवणतिक्तकटुकषायरसान् विन्दतीति षड्जऋषभगान्धारमध्यमपञ्चमधैवतनिषादाश् चेतीष्टानिष्टशब्दसंज्ञाः प्रणिधानाद् दशविधा भवन्ति || Gअर्Uप्_२
SK
सप्तधातुकम् इति कस्मात् शुक्लो रक्तः कृष्णो धूम्रः पीतः कपिलः पाण्डुर इति / यथा देवदत्तस्य द्रव्यादिविषया जायन्ते / परस्परं सौम्यगुणत्वात् षड्विधो रसः रसाच् छोणितं शोणितान् मांसं मांसान् मेदो मेदसः स्नायवः स्नायुभ्यो ऽस्थीनि अस्थिभ्यो मज्जा मज्जातः शुक्रं शुक्रशोणितसंयोगाद् आवर्तते गर्भो हृदि व्यवस्थां नयति हृदये ऽन्तर् आग्निः अग्निस्थाने पित्तं पित्तस्थाने वायुः वायुतो हृदयं प्राजापत्यात् क्रमात् || Gअर्Uप्_३
SK
ऋतुकाले सम्प्रयोगाद् एकरात्रोषितं कललं भवति सप्तरात्रोषितं बुद्बुदम् अर्धमासाभ्यन्तरे पिण्डं मासाभ्यन्तरे कठिनं मासद्वयेन शिरः मासत्रयेण पादप्रदेशः चतुर्थे गुल्फजठरकटिप्रदेशाः पञ्चमे पृष्ठवंशः षष्ठे मुखनासिकाक्षिश्रोत्राणि सप्तमे जीवेन संयुक्तः अष्टमे सर्वलक्षणसम्पूर्णः / पितू रेतोऽतिरेकात् पुरुषः मातू रेतोऽतिरेकात् स्त्री उभयोर् वोजतुल्यत्वान् नपंउसकं व्याकुलितमनसो ऽन्धाः खञ्चाः कुब्जा वामना भवन्ति / अन्यो ऽन्यवायुपरिपीडितशुक्रद्वैध्याद् द्विधा तनू स्याद् युग्माः प्रजायन्ते / पञ्चात्मकः समर्थः पञ्चात्मिका चेतसा बुद्धिर् गन्धरसादिज्ञानाक्षराक्षरम् ॐकारं चिन्तयतीति तद् एकाक्षरं ज्ञात्वाष्टौ प्रकृतयः षोडश विकाराः शरीरे तस्यैव देहिनः / अथ मात्राशितपीतनाडीसूत्रगतेन प्राण आप्यायते / अथ नवमे मासि सर्वलक्षणज्ञानसम्पूर्णो भवति पूर्वजातिं स्मरति शुभाशुभं च कर्म विन्दति || Gअर्Uप्_४
SK
पूर्वयोनिसहस्राणि दृष्ट्वा चैव ततो मया / आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः / जातश् चैव मृतश् चैव जन्म चैव पुनः पुनः || Gअर्Uप्_५
SK
यन् मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् / एकाकी तेन दह्ये ऽहं गतास् ते फलभोगिनः || Gअर्Uप्_६
SK
अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् / यदि योन्याः प्रमुच्ये ऽहं तत् प्रपद्ये महेश्वरम् || Gअर्Uप्_७
SK
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् / यदि योन्याः प्रमुच्ये ऽहं तत् प्रपद्ये नारायणम् || Gअर्Uप्_८
SK
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् / यदि योन्याः प्रमुच्ये ऽहं तत् सांख्यं योगम् अभ्यसे || Gअर्Uप्_९
SK
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् / यदि योन्याः प्रमुञ्चामि ध्याये ब्रह्म सनातनम् || Gअर्Uप्_१०
SK
अथ योनिद्वारं सम्प्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस् तु वैष्णवेन वायुना संस्पृष्टस् तदा न स्मरति जन्म मरणानि न च कर्म शुभाशुभं विन्दति || Gअर्Uप्_११
SK
शरीरम् इति कस्मात् अग्नयो ह्य् अत्र श्रियन्ते ज्ञानाग्निर् दर्शनाग्निः कोष्ठाग्निर् इति तत्र कोष्ठाग्निर् नामाशितपीतलेह्यचोष्यं पचति / दर्शनाग्नी रूपाणां दर्शनं करोति / ज्ञानाग्निः शुभाशुभं च कर्म विन्दति / त्रीणि स्थानानि भवन्ति मुखे आहवनीय उदरे गार्हपत्यो हृदि दक्षिणाग्निः आत्मा यजमानो मनो ब्रह्मा लोभादयः पशवो धृतिर् दीक्षा संतोषश् च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः कपालं केशा दर्भाः मुखम् अन्तर्वेदिः चतुष्कपालं शिरः षोडश पार्श्वदन्तपटलानि सप्तोत्तरं मर्मशतं साशीतिकं संधिशतं सनवकं स्नायुशतं सप्त सिराशतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानि षष्टिः सार्धचतस्रो रोमाणि कोट्यो हृदयं पलान्य् अष्टौ द्वादश पला जिह्वा पित्तप्रस्थं कफस्याढकं शुक्रकुडवं मेदः प्रस्थौ द्वाव् अनियतं मूत्रपुरीषम् आहारपरिमाणात् / पैप्पलादं मोक्षशास्त्रं पैप्पलादं मोक्षशास्त्रम् इति || Gअर्Uप्_१२

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Garbhopaniṣad (sa_garbhopaniSad.htm).

Source