The Section on the Benefits of Breath
Prāṇatoṣiṇī Arthakāṇḍa
SKटित्ले पगे || श्रीः || प्राणतोषिणी श्रीरामतोषण भट्टाचार्येण तन्त्रशास्त्रात् संकलय्य विरचिता Vइ, ए उपाधिधारिणा पण्डितकुलपतिना �स्रीजीवानन्दविद्यासागरभट्टाअचर्य्येण प्रका�सिता | Kअलिकातानगरे Kअलिकातायन्त्रे मुद्रिता १८९८ आड् ३) अर्थकाण्ड नवशशधरखण्डं बिभ्रती चन्द्रकान्तद्युतिरमरनराद्यैरर्चिता भारती नः | श्रवतु विशदपद्मे सन्निषणा प्रसन्ना नवरसरुचिरा सङ्गीतविद्याद्यधीशा || श्रीप्राणकृष्णकृतिरस्य निदेशववर्त्ती मैत्रेयवंशजकुलाश्रितचक्रवर्ती | श्रीरामतोषण इदं विदधे निजेष्टदेवीप्रसादजनितं रुचिरार्थकाण्डम् || तृतीयस्यार्थकाण्डस्य निर्घण्टः क्रियते मया | केषाञ्चिदन्यन्निर्द्दिष्टं यथास्थानं विलोक्यताम् | आचारसप्तकं तत्र वेदाचारक्रमस्तथा | उत्थाय भूतशुद्ध्यादिकार्य्यं ध्यानं गुरोस्ततः | पञ्चभूतात्मकैः पञ्चोपचारैर्मानसार्च्चनम् | ततश्च सद्गुरुध्यानं कुलवृक्षनतिस्ततः | पादुकामन्त्रकथनं तस्य माहात्म्यकीर्त्तनम् | गुरुतत्स्त्रीपूजनस्य मन्त्रस्तु तदनन्तरम् | जपमन्त्रो गुरुस्तोत्रकवचानि गुरोर्नतिः | सद्गुरोश्च नमस्कारो ब्राह्मणादिनमस्कृतिः | स्त्रीगुरुध्यानस्तवनकवचानि ततः परम् | तद्गाता गुरुपूजा च गुरुपङ्क्तिनिरूपणम् | इति ग्रन्थस्वरूपाद्यपरिच्छेदसमापनम् | ततः कुण्डलिनीध्यानं तत्स्तोत्रकवचे ततः | सौरगणेशमन्त्राद्यजपसमर्पणं ततः | हंसध्यानाजपासंख्याजपाभेदनिरूपणम् | प्. २७७) आत्मध्यानादिकं तस्माद्वहिर्गतिक्रमस्तथा | मैत्रं दन्तधावनञ्च नासाशुद्ध्यञ्जने तथा | देवालयोपलेपादिक्रमस्तोत्रं ततः परम् | परिच्छेदो द्वितीयश्च समाप्तस्तदनन्तरम् | स्नानफलं स्नानभेदाभ्यन्तरस्नाननिर्णयः | नित्यस्नान स्नानविधिर्यस्तत् सदिति भाषणम् | सङ्कल्पश्च तन्निषिद्धपात्रं तत्पात्रनिर्णयम् | तीर्थावाहनाङ्गषट्कन्यासौ मूलजपस्तथा | मृतिकालम्भनादिश्च शङ्खतोयाभिषेचनम् | सङ्क्षेपतर्पणं पश्चात् परखातेतिकार्य्यता | तेन स्नाननिषेधश्च गात्रमार्जनवस्त्रकम् |
SKगात्रमार्जननिषेधस्तत्कारणनिरूपणम् | गङ्गाध्यानमन्त्रफलं क्षेत्रमाहात्म्यमेव च | गङ्गानामादिमाहात्म्यं गङ्गामृत्युफलं ततः || तद्यात्रिकस्याध्वमृत्युतत्तीरमृत्युजफलम् | गङ्गाजलाच्चतुर्हस्तमध्ये पिण्डप्रदानजम् | फलं गङ्गातर्पणजं कालाकालविचारणम् | तत्र नास्ति च गङ्गायां चौर्य्यादिदोषनिर्णयः | अभिषेकामृतकृतमानसस्नानमेव च | परिधेयवस्त्रमानं कर्मभेदेऽंशुकं ततः | नीलांशुकादेश्च ततो निषेधश्चोत्तरीयकम् | त्रिधा योगपदं यज्ञोपवीतमार्जनं ततः | तिलकं स्थानभेदे तु तदाकारनिरूपणम् | ऊर्द्ध्वपुण्ड्रं तत्फलञ्च तदृते कर्मनिन्दनम् | ऊर्द्ध्वपुण्ड्रे त्रिपुण्ड्रस्य निषेधस्तदनन्तरम् | वैष्णवानामूर्द्ध्वपुण्ड्रं ब्राह्मणादेस्त्रिपुण्ड्रकम् | ऊर्द्ध्वपुण्ड्रस्य निर्माणविधिस्त्रेधोत्तमादिकः | तस्य वर्णभेदफलं निन्द्यपुण्ड्रं ततः परम् | ऊर्द्ध्वपुण्ड्राकृतिस्त्रेधा हरिमन्दिरलक्षणम् | पुण्ड्रकृत्येऽङ्गुलीभेदफलं पुण्ड्रस्य मृत्तिका | गोपीचन्दनमाहात्म्यं तद्दानस्य फलं ततः | तुलसीमूलमृत्स्नाया माहात्म्यं तदनन्तरम् | विष्णुनिर्माल्यानुलेपतिलकञ्च ततः परम् | द्वादशतिलकविधिवद्दाने चोपक्रमस्ततः | त्रिपुण्ड्रधारणस्थाननिरूपणमतः परम् | भस्मान्तरं त्रिपुण्ड्रस्य पञ्चब्रह्म-ऋचस्ताः | प्. २७८) कालाग्निरुद्रोपनिषत्त्रिपुण्ड्रस्य फलं ततः | त्रिपुण्ड्राकरणे निन्दा शक्तितिलकनिर्णयः | इतिच्छेदतृतीयस्य समापनमथोच्यते | सन्ध्या वेदोदिता कार्य्या तान्त्रिकी तदनन्तरम् | सन्ध्याविहीननिन्दा च द्वादश्यादौ च तत्क्रिया | ततः परं योगिसन्ध्या योगिनां तर्पणं ततः | तेषामादित्यपूजापि कौलसन्ध्या ततः परम् | मार्जनस्य वैदिकस्य प्रकारस्तदनन्तरम् | गायत्रीव्याहृतेरर्थो गायत्र्यर्थस्ततः परम् | सन्ध्यासवर्णरूपस्तु सवर्णदैवतन्तथा | सवर्णध्यानफलकन्तस्या यन्त्रं ततः परम् | ऋषयः प्रणवस्यापि गायत्र्याश्च ततः परम् | पदन्यासः शिरोन्यासः षडङ्गन्यास एव च |
SKध्यानं तस्यास्ततो ध्यानान्तरे ऋष्यादिरेव च | निन्दा जपस्य न्यासेन विना न्यासस्य मुद्रिका | गायत्रीपूजनं पीठपूजनं तदनन्तरम् | दशावरणपूजा च द्रव्याभावे जलादिना | पुनर्जन्तु जपफलं विशेषो जपनक्रमः | अशौचेऽपि च गायत्र्या मानसो जप ईरितः | तस्यै जपार्पणं तस्याः कवचं तत्पुरस्क्रिया | तत्काम्यकर्म्म तान्त्रिक्या गायत्र्याः फलनिर्णयः | तज्जपस्य फलं तस्याः पुरश्चरणमेव च | तस्या ऋष्यादिविवन्यासस्त्रिसन्ध्यध्यानमेव च | यागस्थानागतिः पादप्रक्षालनमतः परम् | द्वारपूजा वैष्णवादिमतभेदेन तत्परम् | पूजागृहप्रवेशश्चासनञ्च तदनन्तरम् | फलभेदे त्वासनस्य भेदश्च गृहमेधिनाम् | कृष्णाजिनविशेषश्चासनानाञ्च फलं ततः | काष्ठासनविशेषश्च मृद्वाद्यासनमेव च | परिमाणमासनस्य कर्मभेदासनं ततः | शवासनादि च ततः सलोमासननिन्दनम् | आसनस्य च ऋष्यादि यतीनामासनाकृतिः | यतिभिन्नासनं ज्ञेयं चतुरस्रं समन्ततः | प्रौढपादनिषेधश्च प्रौढपादस्य लक्षणम् | सिद्धासनं ततः पद्मासनं योगोपयोगि च | द्रव्यस्थापनदेशश्च त्रिविधं पात्रमेव च | पाद्यपात्रं ततः पाद्याधारपात्रस्य लक्षणम् | प्. २७९) चर्मपात्रलक्षणञ्च चामपात्रस्य लक्षणम् | पानीयपात्रताम्बूलपात्रस्य लक्षणं ततः | इति पल्लवविच्छेदचतुर्थस्य समापनम् | भूतशुद्धिर्भूतशुद्धौ पापदेहविनाशनम् | पापपुरुषध्यानन्तु पृथिव्यादिविलापनम् | आवश्यकं भूतशुद्धेः स्वप्राणानां प्रतिष्ठितिः | प्राणायामस्तु तत्पूजाधारो मन्त्रशिलार्च्चने | न यन्त्रकरणं मूर्त्तिनिकटेऽपि कदाचन | पूजाद्वयं कृते यन्त्रे पार्थिवेऽर्च्चानिषेधनम् | विद्याविशेषे तत्रापि पूजासाधकसिद्धये | ब्रह्मणो मूर्तिराख्याता श्वेतकृष्णादिरूपिणी | कालिकाया रूपनेत्रादिबीजं तदनन्तरम् | आविर्भावो देवतायाः प्रतिमादौ निरूपितः | कृष्णादिमूर्त्तेर्नित्यत्वं मन्त्रः प्राणप्रतिष्ठिते | तस्य ऋष्यादिविन्यासः षडङ्गन्यास एव च |
SKमन्त्रन्यासस्ततो ध्यानं पूजा तस्य पुरस्क्रिया | प्राणदूत्यः प्रयोगश्च तद्यन्त्रकरणं ततः || आसनं पाद्यमर्घ्यञ्चाचमनीयं ततः परम् | मधुपर्कः पुनराचमनीयं तदनन्तरम् | गन्धशब्दस्य व्युत्पत्तिर्गन्धस्तद्दानजं फलम् | गन्धाष्टकं पञ्चविधं पुष्पव्युत्पत्तिरेव च | पुष्पञ्च करवीरस्य फलं तदनु कीर्त्तितम् | करवीरादिमूले तु प्राणत्यागफलं ततः | श्वेतादिकरवीराणां माहात्म्यं तदनन्तरम् | अपराजितादिमाहात्म्यं विशेषपुष्पदानजम् | फलं पुष्पफलं कृष्णापराजिताफलं ततः | रसालमञ्जरीत्यादिफलं श्रीचक्रपूजने | कृते पुष्पविशेषेण प्रायश्चित्तं ततः परम् | वृक्षस्थपुष्पदानस्य निषेधकारणं ततः | मध्याह्नस्नानमर्त्त्यस्य पुष्पाहरणनिन्दनम् | पुष्पमालायज्ञसूत्रमालाभेदनिषेधनम् | वर्ज्यपुष्पं कालभेदे देवभेदेऽपि तत्परम् | धूपशब्दस्य व्युत्पत्तिर्धूपस्तद्दानजं फलम् | दीपशब्दस्य व्युत्पत्तिर्दीपो वस्त्रं ततः परम् | अलङ्कारश्च नैवेद्यं ताम्बूलं तदनन्तरम् | निषिद्धञ्चैव ताम्बूलं नतिभेदस्ततः परम् | निर्माल्यकालविज्ञानं देवतायै निवेद्यकम् | सन्देशादिनारिकेलशस्यं मिष्टसमन्वितम् | प्. २८०) इङ्गुद्यादिफलं शस्तं शाको मूलादिसम्भवः | तिन्तिडीगिरिकुष्माण्डे निषिद्धे वनजं तथा | वीजपूर्णकदल्यादि चाकालपनसस्तथा | शस्यानि यानि देयानि निषिद्धानि ततः परम् | निषिद्धं लवणं क्षारं प्राचीभूतादिकं तथा | मार्गादिमांसं दातव्यं निषिद्धं माहिषं तथा | क्षीरं दधि घृतञ्चैव पक्षिणां हरितादयः | देया मत्स्याश्चित्रकाद्या निषिद्धा च विडालिका | अभक्ष्या जानपादाद्याः शकुना ये तथाभिधाः | अभक्ष्याश्च तथा प्रोक्ताः शाकाः कौसुम्भकादयः | निषिद्धं रामरम्भादि धान्यं श्रावणिकादि च | नारिकेलं सुवर्णाभं कर्कन्धुः शर्करान्विता | न देयास्तिक्तकमठो मत्स्या गोमीनकादयः | भक्ष्याभक्ष्ये देशभेदे तान्त्रिकैर्वर्ज्यमेव च | मृतमांसं त्रिरात्रावस्थितं मांसं तथैव च |
SKमांसत्यागफलञ्चैव कार्त्तिकादौ विशेषतः | पक्षी भक्ष्योऽप्यभक्ष्योऽप्यभक्ष्या नृवानरादयः | कुक्कुरादिमांसभोगे प्रायश्चित्तं ततः परम् | मांसत्यागे तुलादौ तु फलं नानाविधं तथा | यावज्जीवनमांसादित्यागस्य फलमेव च | हविव्यान्नं ततोऽन्यानि ज्ञेयानीति यथास्थलम् | नित्यातन्त्रे प्रथमपटले || चत्वारो देवि ! वेदाद्या पशुभावप्रतिष्ठिताः | वामाद्यास्त्रय आचारा दिव्ये वीरे प्रतिष्ठिताः | एतान् सप्ताचारान् स्पष्टयति कुलार्णवे पञ्चमखण्डे || सर्वेभ्यश्चोत्तम वेदा वेदेभ्यो वैष्णवं महत् | वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् | दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् | सिद्धान्तादुत्तमं कौलं कौलात्परतरं न हीति || नित्यातन्त्रे || वेदाचारं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि ! | ब्राह्म्ये मुहूर्ते उत्थाय गुरुं नत्वा स्वनामभिः | आनन्दनाथशब्दान्ते पूजयेदथ साधकः | सहस्राराम्बुजे ध्यात्वा उपचारैस्तु पञ्चभिः | प्रजप्य वाग्भवं बीजं चिन्तयेत् परमां कलाम् || रुद्रजामले उत्तरखण्डे द्वितीयपटले || प्. २८१) प्रभाते च समुत्थाय अरुणोदयकालतः | प्रातःकृत्यादिकं कृत्वा पुनः शय्यास्थितो नरः | गुरुं सञ्चिन्तयेत् शीर्षाम्भोजे सहस्रके दले | अत्र पूर्वोक्तवचनेनैकवाक्यतया प्रभाते ब्राह्ममुहूर्ते एवं वक्ष्यमाणपश्चिमयामेत्यादावपि || तत्र रुद्रजामल प्रथमख्ण्डे प्रथमपटले | ब्राह्म्ये मुहूर्ते उत्थाय बद्धपद्मासनः सुधीः | विधाय भूतशुद्ध्यादीन् गुरुं प्रातः स्मरेन्नरः | आदि शब्दादिष्टदेवताध्यानादिकमेव च || तथा च नीलातन्त्रे प्रथमपटले || उत्थाय पश्चिमे यामे चिन्तयेदुग्रतारिणीम् | आमूलाद्ब्रह्मरन्ध्रान्तं विषतन्तुस्वरूपिणीम् | मूलमन्त्रमयीं साक्षादमृतानन्दरूपिणीम् | सूर्य्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् | तडित्काटिसमप्रेक्षां कामानलशिखोपरि | तत्प्रभापटलव्याप्तपाटलीकृतदेहवान् | सहस्रदलपङ्कजे सकलशीतरश्मिप्रभं वराभयकराम्बुजं विमलगन्धपुष्पोक्षितम् |
SKप्रसन्नवदनेक्षणं सकलदेवतारूपिणम् | स्मरेच्छिरसि हंसगं तदभिधानपूर्वं गुरुम् || रुद्रजामले पूर्वखण्डेऽपि एतत् किन्तु द्वितीयचरणान्ते पुष्पस्रजमिति पाठः || विश्वसारे द्वितीयपटलेऽपि || प्रातः शिरसि शुक्लेऽब्जे द्विनेत्रं द्विभुजं गुरुम् | वराभयकरं शान्तं स्मरेत्तन्नामपूर्वकम् || कङ्कालमालिनीतन्त्रे प्रथमपटले च | सहस्रदलपद्मस्थं अन्तरात्मानमुज्ज्वलम् | तस्योपरि नादविन्दोर्मध्ये सिंहासनोज्ज्वले | तत्र निजगुरुं नित्यं रजताचलसन्निभम् | वीरासनसमासीनं सर्वाभरणभूषितम् | शुक्लमाल्याम्बरधरं वरदाभयपाणिनम् | वामोरुशक्तिसहितं कारुण्येनावलोकितम् | प्रियया सव्यहस्तेन धृतचारुकलेवरम् | वामेनोत्पलधारिण्या रक्ताभरणभूषया | ज्ञानानन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् || पूर्वखण्डेऽपि || वामोरुन्यस्तशक्तिञ्च स्वपाण्यालिङ्गितप्रभम् | वामहस्तोत्पलां रक्तां ध्यायेत्परमतृप्यतीम् || प्. २८२) यत्तु रुद्रजामले उत्तरखण्डे द्वितीयपटले || तरुणादित्यसङ्काशं तेजोविम्बं महागुरुम् | अनन्तानन्तमहिमासागरं शशिशेखरम् | महासूक्ष्मभास्वराङ्गं तेजोविम्बं महागुरुम् | महाशुक्लाम्बराब्जस्थं द्विनेत्रं द्विभुजं गुरुम् | आत्मोपलब्धिविषयं तेजसा शुक्लवाससम् | आज्ञाचक्रोर्द्धनिकरं कारणञ्च सतां सुखम् | धर्मार्थकाममोक्षाङ्गं वराभयकरं विभुम् | प्रफुल्लकमलारूढं सर्वज्ञं जगदीश्वरम् | अन्तःप्रकाशचपलं वनमालाविभूषितम् | रत्नालङ्कार्भूषाढ्यं देवदेवं सदा भजेत् || इति रक्तवर्णगुरुध्यानमुक्तम् | तद्राजसगुरुपरम् | राघवभट्टमते तु शक्तिमात्रविषये रक्तवर्णस्यैव गुरोर्ध्यानम् | न तु शुक्लस्य तदितरविषये शुक्लवर्णमेव ध्यायेदिति तन्न समीचीनम् | शक्तिविषयेऽपि नीलतन्त्रादौ शुक्लवर्णध्यानदर्शनात् | गुरुकवचेऽपि | सहस्रारे महापद्मे कर्पूरधवलो गुरुरित्यस्य वक्ष्यमाणत्वाच्च |
SKअर्वाचीनैस्तु कर्पूरैर्धवल इति तृतीयासमासाङ्गीकारेण धवलत्व मुक्तं वस्तुतो रक्तवर्णध्यानमिति वदति तदनुशासनविरुद्धं कर्पूरलेपनस्य कुत्रापि प्रमाणं नास्ति इति | रक्तवर्णशक्तिप्रभापटलेन रक्तं वा | एतत्तु सितरक्तप्रभमिति वक्ष्यमाणे व्यक्तीभविष्यति | अत्र तु जवास्फाटिकन्यायेन शक्तिप्रभाधिक्यद्योतनाय रक्तमात्रमित्युक्तम् | कश्चित्तु व्यत्ययो बहुलमिति पाणिनीयसूत्रबलाल्लिङ्गव्यत्ययेन स्त्रीगुरुध्यानमिदमाह | राजसे रक्तवर्णध्यानन्त्वग्रे प्रतिपादयिष्ये || नीलतन्त्रे || ततो मानसगन्धाद्यैररर्चयेत् स्वस्वमुद्रया | कनिष्ठा पृथिवी तत्त्वं तद्योगाद्गन्धयोजनम् | अङ्गुष्ठो गगनं तत्त्वं तेनैव पुष्पयोजनम् | तर्ज्जनी वायुतत्त्वं स्याद्धूपं तेनैव योजयेत् | तेजस्तत्त्वं मध्यमा स्याद्दीपं तेनैव योजयेत् | अनामा जलतत्त्वं स्यात्तेनैव योजयेच्च कम् | ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः | जपं समर्प्य भक्त्या च प्रणमेद्दण्डवद्भुवि || प्. २८३) अन्नदाकल्पेऽपि || मिथुनं चिन्तयित्वा तु मानसैरुपचारकैः | भौतिकैः पूजयेद्विद्वान् मुद्रामन्त्रसमन्वितेः | भूम्याकाशमरुद्वह्निवारिमन्त्रैः सबिन्दुकैः | कनिष्ठाङ्गुलितर्ज्जन्यौ मध्यमानामिके तथा | अङ्गुष्ठेन समायोगान्मुद्राः पञ्चप्रकीर्त्तिताः | पृथिव्यात्मकगन्धः स्यादाकाशात्मकपुष्पकम् | धूपो वाय्वात्मकः प्रोक्तो दीपो वह्न्यात्मकः परः | रसात्मकञ्च नैवेद्यं पूजा पञ्चोपचारिका | ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः || कङ्कालमालिनीतन्त्रे प्रथमपटले च || मानसैरुपचारैश्च सम्पूज्याकल्पयेन्मुदा | गन्धं भूम्यात्मकं दद्याद्भावपुष्पं ततः परम् | धूपं वाय्वात्मकं देयं तेजसा दीपमेव च | नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम् | अम्बरं मुकुरं दद्याच्चामरं छत्रमेव च | तत्तन्मुद्राविधानेन सम्पूज्यात्मगुरुं जपेत् | यथाशक्ति जपं कृत्वा समाप्य कवचं पठेत् || पूजाक्रमस्तु कुलमूलावतारकल्पसूत्रटीकायां तृतीयकाण्डे |
SKनिजगुरुं ध्यात्वा मुकानन्दनाथामुकशक्त्यम्बा श्रीपादुकां पूजयामीति मानसैर्गन्धाक्षतकुसुमैरर्च्चयेत् || कनिष्ठाभ्यां लं पृथिव्यात्मकं गन्धं समर्पयामि नमः | अङ्गुष्ठाभ्यां हं आकाशात्मकं पुष्पं समर्पयामि नमः | तर्जनीभ्यां यं वाय्वात्मकं धूपं समर्पयामि नमः | मध्यमाभ्यां रं वह्न्यात्मकं दीपं समर्पयामि नमः | अनामिकाभ्यां वं अमृतात्मकं नैवेद्यकं समर्पयामि नमः || ध्यानान्तरन्तु गुरुगीतायाम् | हृदम्बुजे कर्णिकमध्यसंस्थं सिंहासने संस्थितदिव्यमूर्त्तिम् | ध्यायेद्गुरुं चन्द्रकलाप्रकाशं सच्चित्सुखाभीष्टवरप्रदानम् | मुक्ताफलाभूषितदिव्यमूर्त्तिं वामाङ्कपीठस्थितदिव्यशक्तिम् | श्वेताम्बरं श्वेतविलेपयुक्तं मन्दस्मितं पूर्णकलाविधानम् || अथ शिरःपद्मं गुरुस्थानमुक्तम् | तत्कथं हृदम्बुजे ध्यानमिति चेन्न कदाचित् हृदयाम्भोजे कदाचिद्दृष्टिगोचरे | इति पूर्वलिखितरुद्रजामलवचनेनैव तत्सन्देहनिरासः कृतः || प्. २८४) अथ सद्गुरुध्यानम् गुरुगीतायाम् || ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्त्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् | एकं नित्यं विमलमचलं सर्वदा साक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि || इति सद्गुरुध्यानम् || रुद्रजामले पूर्वखण्डे तु कुलवृक्षप्रणामानन्तरं गुरुध्यानमुक्तम् || कुलवृक्षाश्च रेवतीतन्त्रे चतुर्थपटले उक्ताः || यथा | हरीतकी तथा धात्री निम्बाश्वत्थकदम्बकाः | डुम्बरुर्वटविल्वौ च तिन्तिडी नवमः स्मृतः | कुलकाष्ठादिकं देवि ! होमार्थञ्च समाहरेत् || एतेन तिन्तिडीप्रभृतिकाष्ठेनापि होमार्थवह्निप्रज्वालनम् | समिद्धोमस्तूक्तकाष्ठादिभिः कार्य्य इत्यायातम् || रुद्रयामले || ब्राह्म्ये मुहूर्ते उत्थाय कुलवृक्षं प्रणम्य च | शिरःपद्मे सहस्रारे चन्द्रमण्डलमध्यके | अकथादित्रिरेखीये हंसमन्त्रसुपीठके | ध्यायेन्निजगुरुं वीरो रजताचलसन्निभम् | पद्मासीनं स्मितमुखं वराभयकराम्बुजम् | शुक्लमाल्याम्बरधरं शुक्लगन्धानुलेपनम् |
SKवामोरुस्थितया रक्तशक्त्यालिङ्गितविग्रहम् | तया स्वदक्षहस्तेन धृतचारुकलेवरम् | वामेनोत्पलधारिण्या सुरक्तवसनस्रजा | सितरक्तप्रभां बिभ्रच्छिवदुर्गास्वरूपिणम् || परानन्दरसापूर्णं स्मरेत्तन्नामपूर्वकम् | तारत्रयं समुच्चार्य्य हसखफ्रें ततः परम् | हसक्षमलवरयूं हसखफ्रें हसौ ततः | अमुकानन्दनाथान्ते अमुकीदेव्यनन्तरम् | अम्बाश्रीपादुकां दत्त्वा पूजयामि नमोऽन्तकः | अयं श्रीपादुकामन्त्रः सर्वेप्सितफलप्रदः | मिथुनं चिन्तयित्वा तु इत्यादि | ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीरित्यन्तमन्नदाकल्पेन समानमिति || पादुकामाहात्म्यन्तु कुलमूलावतारकल्पसूत्रटीकाधृतपद्मवाहिन्याम् || पादुकाज्ञानमात्रेण जीवन्मुक्ता भवन्ति हि || कुलार्णवे || वागुरामूलबलयमुद्राद्याः कवलाः कृताः | एवं कुलार्णवज्ञानां पादुकायां प्रतिष्ठितम् | प्. २८५) कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् | कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः | कोटिकोटिमहातन्त्रात् कोटितीर्थावगाहनात् | कोटिदेवार्च्चनाद्देवि ! परा श्रीपादुकास्मृतिः | महारोगे महोत्पाते महादोषे महाभये | महापदि महापापे स्मृता च गुरुपादुका || रुद्रजामले पूर्वखण्डे प्रथमपटले || मायां लक्ष्मीं पुरो दत्त्वा सर्वत्र पूजने विधिः | पृथिव्यां भूमिवीजञ्च गन्धं समर्पयेति च | आकाशात्मकं शम्भुबीजं नादबिन्दुसमाहृतम् | पुष्पं समर्पयामीति वायुबीजं ततः परम् || पुरश्चरणरसोल्लासे षष्ठपटले | गुरुपूजां विधायादौ स्रक्चन्दनविभूषणैः | अलङ्कारैर्विचित्रैश्च सुवर्णादिविनिर्मितैः | वसनैरतिसूक्ष्मैश्च शुक्लरक्तैस्तथापरैः | पीतैः कृष्णैश्च चार्वङ्गि ! पूजयेद् गुरुमुत्तमम् | चतुर्विधैर्भोजनैश्च स्वर्णपात्रैर्मनोहरैः | षोडशैरुपचारैश्च स्वर्णराजतनिर्मितैः | पानपात्रैर्महेशानि ! शुद्धस्वर्णविनिर्मितैः | ताम्बूलैश्च सकर्पूरैर्नानागन्धसमन्वितैः | स्वर्णपात्रयुतैर्देवि ! शिवसिंहं प्रपूजयेत् || शिवसिंहं गुरुम् | अनेन विधिना देवि ! पूजयेज्जगदीश्वरम् |
SKअतः परं वरारोहे ! गुरुदारान् प्रपूजयेत् | षोडशैरुपचारैश्च इष्टदेवीं सुभक्तिभिः | आदौ गुरुं ततो देवीं सम्पूर्णं पूजयेत् प्रिये ! || एवं गुरुं ध्यात्वा अन्तर्यागक्रमेणैव पद्मपुष्पैः समर्च्चयेदितिवचनान्मानसोपचारैः सम्पूजयेत् | पूजामन्त्रस्तु मातृकाभेदतन्त्रे सप्तमपटले || वाग्वीजञ्च महामायां विष्णुशक्तिं समुच्चरेत् | हसखफ्रें तथानन्दभैरवस्य मनुं ततः | तस्य शक्तेर्मनुं पश्चात्ततश्चैवं सेहौ सेहौ | श्रीगुरोश्च तथा शक्तेर्मन्त्रमेतत् सुरेश्वरि ! | गुरुरानन्दनाथान्तश्चाम्बान्ता शक्तिरीरिता | पूजयामीति देवेशि ! पूजाविधिरिति प्रिये ! || अन्नदाकल्पेऽपि || तारत्रयं समुच्चार्य्य हसखफ्रें ततः परम् | हसक्षमलवरयूः हसखफ्रें सेहौ ततः | प्. २८६) अमुकानन्दनाथान्ते अमुकीदेव्यनन्तरम् | अम्बा श्रीपादकां दत्त्वा चिन्तयामि नमोऽन्तकः | अयं श्रीपदुकामन्त्रः सर्वेप्सितफलप्रदः | रुद्रजामले पूर्वखण्डे प्रथमपटले || त्रितारञ्च पुरो दत्त्वा शिवशक्तिखकारकम् || फाग्निरेकारबिन्दुञ्च शिवशक्तिक्रमेति च | भूमीन्दूवह्निवायू च उकारान्तं सुरेश्वरि ! | आनन्दनाथशक्तिश्च शिवश्च भुवनेश्वरः | सविसर्गो महत्येव प्रकाशिनी परेत्यपि | वह्नेः कारलक्ष्मीर्माया सरस्वती श्रीपादुकां पूजयामीति स्मृत्वा पादुकाम् | जपमन्त्रस्तु रुद्रजामले पूर्वखण्डे पञ्चदशपटले || आनन्दनाथशब्दान्ते गुरुं ङेऽन्तं समुद्धरेत् | नमः पदं ततो ब्रूयात् प्रणवं सवसिद्धिदम् | महागुणेर्मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् | वाक्सिद्धिर्वदनाम्भोजे गुरुमन्त्रप्रसादतः | शतमष्टोत्तरं नित्यं सहस्रं वा तथाष्टकम् | प्रजप्यार्पणमाकृत्य प्राणायामत्रयञ्चरेत् | वाग्भवेन ततः कुर्य्यात् प्राणायामविधिं मुदा | पूर्वोक्तान्नदाकल्पोक्तनीलतन्त्रोक्तवचनाभ्यां वाग्भवोऽपि जपमन्त्र इति | सम्प्रदायक्रमेणाष्टोत्तरशतं सहस्रं वा गुरुमन्त्रं जप्त्वा वाग्भवेन प्राणायामत्रयं कृत्वा गुह्यातीत्यादिना जपं समर्प्य स्तवकवचादिकं पठेत् || स्तवो यथा ||
SKशिरःस्थितसुपङ्कजे तरुणकोटिचन्द्रप्रभं वराभयकराम्बुजं सकलदेवतारूपिणम् | भजामि वरदं गुरुं किरणचारुशोभोज्ज्वलं प्रकाशितपदद्वयाम्बुजमलक्तकोटिप्रभम् || १ || जगद्भ्यनिवारणं भुवनभोगमोक्षप्रदं गुरोः पदयुगाम्बुजं भजति यत्र योगे जयम् | भजामि परमं गुरुं नयनपद्ममध्यस्थितं भवाब्धिभयनाशनं शमनरोगकालक्षयम् || २ || प्रकाशितसुपङ्कजे सुदलषोडशाख्ये प्रभुं परापरगुरुं भजे सकलराज्यभोगप्रदम् | विशालनयनद्वयाम्बुजतडित्प्रभामण्डलं कडारमणिपाटलद्युतिमदिन्दुविन्द्विन्दुकम् || ३ || महौजसमुमापतेर्विगतदक्षभागे हृदि प्रभाकरशतोज्ज्वलं सुविमलेन्दुकोट्याननम् | प्. २८७) भजामि परमेष्ठिनं गुरुगभीररावोल्वनं चलाचलकलेवरं प्रचपले दले द्वादशे || ४ || गुर्वङ्घ्र्यब्जं शुभं मादनगणदहनं हेममञ्जीरसारं नानाशब्दाद्भुताक्लादितपरिचरणाचारुचक्रं त्रिभङ्गम् | नित्यं ध्यायेत् प्रभाते अरुणशतघटाशोभनं योगगम्यं नाभौ पद्मेति कान्ते दशदलमणिभे भाव्यते योगिभिर्यत् || ५ || या माता मय दानवादिसुभुजा निर्माणसीमा पुरे स्वाधिष्ठाननिकेतने रसदले वैकुण्ठमूले मया | जन्मोद्धारविकारभावलहरी वेदप्रभा भाव्यते कन्दर्पार्पितशान्तियोनिजननी विष्णुप्रिया शाङ्करी || ६ || या भासानलकुण्डलीकुलपथोद्दामाभशोभाकरी मूले पद्मचतुर्दले कुलवती निश्वासदेशाश्रिता | साक्षात्काङ्क्षितकल्पवृक्षलतिका सुप्तास्वयम्भूप्रिया नित्या योगिभयापहा विषहरा गुर्वम्बिका भाव्यते || ७ || ऊर्द्ध्वाम्भोरुहनिःसृतामृतघटामोदाज्जलाप्लाविता गुर्वाद्या परिपातु सूक्ष्मपथगा तेजोमयी भास्वती | सूक्ष्मा साधनगोचरामृतमयी मूलादिशीर्षाम्बुजे पूज्या चेतसि भाव्यते भुवि कदा माता सदोर्द्ध्वोद्गमा || ८ || स्थितिपालनयोगेन ध्यानेन पूजनेन वा | यः पठेत् प्रत्यहं व्याप्य स देवो न तु मानुषः | कल्याणं धनदञ्चैव कीर्त्तिमायुर्यशः श्रियम् | सायाह्ने च प्रभाते च पठेद्यदि सुबुद्धिमान् |
SKस भवेत् साधकश्रेष्ठः कल्पद्रुमकलेवरः | स्तवस्यास्य प्रभावेण वागीशत्वमवाप्नुयात् || इति रुद्रजामले स्वशक्तिकगुरुस्तोत्रं समाप्तम् || कुलमूलावतारकल्पसूत्रटीकायाम् || पादुकापञ्चकस्तोत्र स्याधिकश्लोको वर्त्तते | सोऽप्यत्र लिखितः | आदि कादि किल खादि तारकं वर्णमण्डलमखण्डसिद्धिदम् | अन्तरुल्लसितहक्षलाक्षरं लक्षयन्ति पशवः कथं शिवे ! || १ || ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् | कुण्डलीविवरकाण्डमण्डितं द्वादशार्णसरसीरुहं भजे || २ || प्. २८८) तस्य कन्दलितकर्णिकापुटे कॢप्तरेखमकथादिरेखया | कोणलक्षितहलक्षमण्डलीभावलक्ष्यमबलामयं भजे || ३ || तत्पुटे पटुतडित्कडारिमस्पर्द्धमानमणिपाटलप्रभम् | चिन्तयामि हृदि चिन्मयं वपुर्बिन्दुनादमणिपीठमण्डलम् || ४ || ऊर्द्ध्वमस्य हुतभुक्शिखाखं तद्विलासपरिवृंहणास्पदं विश्वघस्मरमहोत्सवोत्कटं व्यामृषामि युगमादिहंसयोः || ५ || तत्र नाथचरणारविन्द्रयोः कुङ्कुमासवझरीमरन्दयोः | द्वन्द्वमिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् || ६ || निषक्तमणिपादुकानियमिताघकोलाहलस्फुरत्क्रियशलयारुणं नखसमुल्लसच्चन्द्रकम् | परामृतसरोवरोदितसरोजसद्रोचिषं भजामि शिरसि स्थितं गुरुपदारविन्दद्वयम् || ७ || पादुकापञ्चकस्तोत्रं वञ्चवक्त्राद्विनिर्गतम् | षडाम्नायफलं प्राप्तं प्रपञ्चे चातिदुर्लभम् || इति शिवपञ्चवक्त्राद्विनिर्गतं पादुकापञ्चकस्तोत्रं समाप्तम् || कुब्जिकातन्त्रे || अथ गुरुस्तोत्रम् || ॐ नमस्तुभ्यं महामन्त्रदायिने शिवरूपिणे | ब्रह्मज्ञानप्रकाशाय संसारदुःखतारिणे | अतिसौम्याय दिव्याय वीराय ज्ञानहारिणे | नमस्ते कुलनाथाय कुलकौलिन्यदायिने | शिवतत्त्वप्रबोधाय ब्रह्मतत्त्वप्रकाशिने ! | नमस्ते गुरवे तुभ्यं साधकाभयदायिने | अनाचाराचारभावबोधाय भावहेतवे | भावाभावविनिर्मुक्तमुक्तिदात्रे नमो नमः | नमस्ते शम्भवे तुभ्यं दिव्यभावप्रकाशिने | ज्ञानानन्दस्वरूपाय विभवाय नमो नमः |
SKशिवाय शक्तिनाथाय सच्चिदानन्दरूपिणे | कामरूपाय कामाय कामकेलिकलात्मने | कुलपूजोपदेशाय कुलाचारस्वरूपिणे | आरक्तनिजतच्छक्तिसमभागविभूतये | नमस्तेऽस्तु महेशाय नमस्तेऽस्तु नमो नमः | इदं स्तोत्रं पठेन्नित्यं साधको गुरुदिङ्मुखः | प्रातरुत्थाय देवेशि ! ततो विद्या प्रसीदति || प्. २८९) इति कुब्जिकातन्त्रोक्तं गुरुस्तोत्रं समाप्तम् || अथ गुरुकवचं कङ्कालमालिनीतन्त्रे || देव्युवाच || भूतनाथ ! महादेव ! कवचं तस्य मे वद | गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः || ईश्वर उवाच || अथातः कथयामीशे ! कवचं मोक्षदायकम् | यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः || ब्रह्मादयोऽपि गिरिजे ! सर्वत्र याजिनः स्मृताः | अस्य प्रसादात् सकला वेदागमपुरःसराः | कवचस्यास्य देवेशि ! ऋषिर्विष्णुरुदाहृतः | छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः | चतुर्वर्गज्ञानमार्गे विनियोगः प्रकीर्त्तितः | सहस्रारे महापद्मे कर्पूरधवलो गुरुः | वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु || परमाख्यो गुरुः पातु शिरसं मम वल्लभे ! | परापराख्यो नासां मे परमेष्ठी मुखं सदा | कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः | बाहू द्वौ सनकानन्दः कुमारानन्द एव च | वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा | क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम | ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने || सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः | इति ते कथितं भद्रे ! कवचं परमं शिवे ! | भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् || अस्यैव पठनाद्देवि ! धारणात् श्रवणात् प्रिये ! | जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते | कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! | धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा | इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये ! | तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् | शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन || इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ||
SKपुरश्चरणरसोल्लासे द्वितीयप्रश्ने दशमपटले || ईश्वर उवाच | प्. २९०) शृङु देवि ! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् | लोकोपकारकं प्रश्नं न केनापि कृतं पुरा | अद्यप्रभृति कस्यापि नाख्यातं कवचं मया | देशिका बहवः सन्ति मन्त्रसाधनतत्पराः | न तेषां जायते सिद्धिर्मन्त्रैर्वा चक्रपूजनैः | गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः | वृथा श्रमो भवेत्तस्य न सिद्धिर्मन्त्रपूजनैः | गुरुपादं पुरस्कृत्य प्राप्यते कवचं शुभम् | तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति तत्क्षणात् | सुगोप्यन्तु प्रजप्तव्यं न वक्तव्यं वरानने ! || ॐ नमोऽस्य श्रीगुरुकवचनाममन्त्रस्य परमब्रह्मर्षिः सर्ववेदानुज्ञो देवदेव श्री- आदिशिवो देवता नमो हेसौं हंसः हसक्षमलवरयूं वीजं सोऽहं हंसः हसक्षमलवरयूं शक्तिः हंसः सोऽहं कीलकं श्रीसमस्तगुरुमण्डलप्रीत्यर्थे जपे विनियोगः | अथ ध्यानम् | श्रीसिद्धमानवमुखा गुरवः स्वरूपं संसारदाहशमनं द्विभुजं त्रिनेत्रम् | वामाङ्गशक्तिसकलाभरणैर्विभूषं ध्यायेज्जपेत् सकलसिद्धिफलप्रदञ्च | इति मनसा प्रणम्य || हसां हृदयाय नमः | हसीं शिरसे स्वाहा | हसूं शिखायै वषट् | हैं कवचाय हुं | हेसौं नेत्रत्रयाय वौषट् | हसः अस्त्राय फट् | एवं कराङ्गन्यासं कृत्वा उपचारैः सम्पूज्य | ॐ नमः प्रकाशानन्दनाथश्च शिखायां पातु मे सदा | परशिवानन्दनाथश्च शिरो मे रक्षयेत् सदा | परशक्तिदिव्यानन्दनाथो भाले च रक्षतु | कामेश्वरानन्दनाथो मुखं रक्षतु सर्वधृक् | दिव्यौघो मस्तकं देवि ! पातु सर्वं शिरः सदा | कण्ठादिनाभिपर्य्यन्तं सिद्धौघा गुरवः प्रिये ! | भोगानन्दनाथगुरुः पातु दक्षिणबाहुकम् | समयानन्दनाथश्च सन्ततं हृदयेंऽवतु | सहजानन्दनाथश्च कटिं नाभिञ्च रक्षतु | एषु स्थानेषु सिद्धौघा रक्षन्तु गुरवः सदा | अधरे मानवौघाश्च गुरवः कुलनायिके ! | गगनानन्दनाथश्च गुल्फयोः पातु सर्वदा | नीलौघानन्दनाथश्च रक्षयेत्पादपृष्ठतः |
SKस्वात्मानन्दनाथगुरुः पादाङ्गुलीश्च रक्षतु | प्. २९१) कन्दोलानन्दनाथश्च रक्षेत्पादतले सदा | इत्येवं मानवौघाश्च न्यसेन्नाभ्यादिपादयोः | गुरुर्मे रक्षयेदुर्व्यां सलिले परमो गुरुः | परापरगुरुर्वह्नौ रक्षयेत् शिववल्लभे ! | परमेष्ठी गुरुश्चैव रक्षयेद्वायुमण्डले | शिवादिगुरवः साक्षादाकाशे रक्षयेत् सदा | इन्द्रो गुरुः पातु पूर्वे आग्नेय्यां गुरुरग्नयः | दक्षे यमो गुरुः पातु नैर्-ऋत्यां निर्-ऋतिर्गुरुः | वरुणो गुरुः पश्चिमे च वायव्यां मारुतो गुरुः || उत्तरे धनदः पातु ऐशान्यामीश्वरो गुरुः | ऊर्द्ध्वं पातु गुरुर्ब्रह्मा अनन्तो गुरुरप्यधः | एवं दश दिशः पान्तु इन्द्राद्या गुरवः क्रमात् | शिरसः पादपर्य्यन्तं पान्तु दिव्यौघसिद्धयः | मानवौघाश्च गुरवो व्यापकं पान्तु सर्वदा | सर्वत्र गुरुरूपेण संरक्षेत् साधकोत्तमम् | आत्मानं गुरुरूपञ्च ध्यायेन्मन्त्रं सदा बुधः | इत्येवं गुरुकवचं ब्रह्मलोकेऽपि दुर्लभम् | तव प्रीत्या मयाख्यातं न कस्य कथितं प्रिये ! | पूजाकाले पठेद् यस्तु जपकाले विशेषतः | त्रैलोक्यदुर्लभं देवि ! भुक्तिमुक्तिफलप्रदम् | सर्वमन्त्रफलं तस्य सर्वयन्त्रफलं तथा | सर्वतीर्थफलं देवि ! यः पठेत् कवचं गुरोः | अष्टगन्धेन भूर्जे च लिख्यते चक्रसंयुतम् | कवचं गुरुपङ्क्तेस्तु भक्त्या च शुभवासरे | पूजयेद्धूपदीपाद्यैः सुधाभिः सितसंयुतैः | तर्पयेद्गुरुमन्त्रेण साधकः शुद्धचेतसा | धारयेत् कवचं देवि ! इह भूतभयापहम् | पठेन्मन्त्री त्रिकालं हि स मुक्तो भवबन्धनात् | एवं कवचं परात्परं दिव्यौघसिद्धौघकालवान् || इति गुरुकवचं समाप्तम् || शक्तश्चेत्तदा योगसारोक्त गुरुसहस्रनामस्तोत्रमपि पठेत् || इह तु ग्रन्थगौरवभिया तन्न लिखितम् || रुद्रजामले || एकान्तभक्त्या प्रणमेदायुरारोग्यवृद्धये | अखण्डमण्डलाकारं व्याप्तं येन चराचरम् | तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः | अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
SKचक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः | प्. २९२) देवताया दर्शनञ्च करुणावरुणालयम् | सर्वसिद्धिप्रदातारं श्रीगुरुं प्रणमाम्यहम् | वराभयकरं नित्यं श्वेतपद्मनिवासिनम् | महाभयनिहन्तारं गुरुदेवं नमाम्यहम् | महाज्ञानाच्छादिताङ्गं नराकारं वरप्रदम् | चतुर्वर्गप्रदातारं स्थूलसूक्ष्मदयान्वितम् | सदानन्दमयं देवं नित्याञ्जननिरञ्जनम् | शुद्धसत्त्वमयं देवं नित्यकालं कुलेश्वरम् | ब्रह्मरन्ध्रे महापद्मे तेजोविम्बे निराकुले | योगिभिर्योगगम्ये च चारुशुक्रविराजिते | सहस्रदलसङ्काशे कर्णिकामध्यमध्यके | महाशुक्लभास्वरार्ककोटिकोटीमहौजसम् | सर्वपीठस्थममलं परहंसं परात्परम् | वेदोद्धारकरं नित्यं काम्यकर्मफलप्रदम् | सदा मनःशक्तिमयलयस्थानपदाम्बुजम् | शरज्ज्योत्स्नाज्वलन्मालाशोभेन्दुकोटिवन्मुखम् | वाञ्छातिरिक्तदातारं सर्वसिद्धीश्वरं गुरुम् | भजामि तन्मयो भूत्वा तं हंसमण्डलोपरि | आत्मानं सुनिराकारं साकारब्रह्मरूपिणम् | विद्यामन्त्रप्रदातारं श्रीगुरुं परमेश्वरम् | सर्वसिद्धिप्रदातारं गुरुदेवं नमाम्यहम् | कायेन मनसा वाचा ये नमन्ति निरन्तरम् | अवश्यं श्रीगुरोः पादाम्भोरुहे ते वसन्ति हि | प्रभाते कोटिपुण्यञ्च प्राप्नोति साधकोत्तमः | मध्याह्ने दशलक्षञ्च सायाह्नेऽनन्तपुण्यदम् || इति रुद्रजामले उत्तरखण्डे गुरुप्रणामस्तुति कथनम् || नित्यं शुद्धं निराभासं निरकारं निरञ्जनम् | नित्यबोधचिदानन्दं गुरुं ब्रह्म नमाम्यहम् | आनन्दमानन्दकरं रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम् | योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि || इति गुरुगीतोक्तसद्गुरुप्रणामः || निर्वाणतन्त्रे तृतीयपटले || तुरीयधाम ! महादेव ! परमात्माशये स्थितः | शिरःपद्मे स्थिते वाह्ये नमस्कारः कथं भवेत् || शिव उवाच || प्. २९३) शिरःपद्मे महादेवस्तथैव परमो गुरुः | तत्समो न तु देवेशि ! पूज्योऽस्ति भुवनत्रये | तद्रूपं चिन्तयेन्मन्त्री वाह्ये गुरुचतुष्टयम् |
SKतदंशभावसम्भूता ये चान्ये गुरवो जनाः | तथैव ब्राह्मणाः सर्वे चांशावतारसंस्थिताः | यदैव वाह्ये चैतांश्च प्रत्यक्षे भावयेत्तदा | सहस्रारे महापद्मे सदा चित्तं विवर्ज्जयेत् | प्रत्यक्षदर्शने देवि ! साक्षात्तं ब्रह्म चिन्तयेत् | नमस्कारादिकं देवि ! कुर्य्यात् साधकसत्तमः | ब्राह्मणादीन् समालोक्य ब्रह्मचारियतित्रयम् | दृष्टिमात्रेण गिरिजे ! प्रणमेद्दण्डवद्भुवि | महापातकयुक्तोऽपि मुक्तो भवति नान्यथा | न कुर्य्याद् यदि मोहेन महापातकवान् भवेत् | रक्तवस्त्रं समालोक्य तथा भस्माङ्गभूसणम् | दण्डहस्तं त्रिशूलञ्च दृष्ट्वा प्रदक्षिणत्रयम् | प्रकुर्य्यात् साधकश्रेष्ठश्चान्यथा पातकी भवेत् | इति वाह्यगुर्वादिदर्शने जाते तदानीं सहस्रारे गुरुचिन्तानिषेधः || अथ स्त्रीगुरुध्यानं गुप्तसाधनतन्त्रे द्वितीयपटले || पार्वत्युवाच || गुरुध्यानं श्रुतं नाथ ! सर्वतन्त्रेषु गोपितम् || स्त्रिया दीक्षा शुभा प्रोक्ता सर्वकामफलप्रदा || बहुजन्मार्जितात् पुण्यात् बहुभग्यवशाद् यदि | स्त्रीगुरुर्लभ्यते नाथ ! तस्या ध्यानन्तु कीदृशम् | कुत्र वा सा गुरुर्ध्येया श्रोतुमिच्छामि साम्प्रतम् || कथयस्व महादेव ! यद्यहं तव वल्लभा | शिव उवाच || शृणु पार्वति ! वक्ष्यामि तव स्नेहपरिप्लुतः | रहस्यं स्त्रीगुरोर्ध्यानं यथा ध्येया च सा गुरुः | सहस्रारे महापद्मे किञ्जल्कगणशोभिते | प्रफुल्लपद्मपत्राक्षी घनपीनपयोधरा | प्रसन्नवदना क्षीणमध्या ध्यायेच्छिवां गुरुम् | पद्मरागसमाभासां रक्तवस्त्रसुशोभनाम् | रक्तकङ्कणपाणिञ्च रक्तनूपुरशोभिताम् | शरदिन्दुप्रतीकाशां रक्तोद्भासितकुण्डलाम् | स्वनाथवामभागस्थां वराभयकराम्बुजाम् | इति ते कथितं देवि ! स्त्रीगुरोर्ध्यानमुत्तमम् | गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन || प्. २९४) अथ स्तुतिः || मातृकाभेदतन्त्रे सप्तपटले || देव्युवाच || स्तुतिञ्च कवचं नाथ ! श्रोतुमिच्छामि साम्प्रतम् | श्रीगुरोः कवचं प्रोक्तं त्वया नाथ ! पुरा प्रभो ! |
SKइदानीं स्त्रीगुरोः स्त्रोत्रं कवचं मयि कथ्यताम् | यस्य विज्ञानमात्रेण पुनर्जन्म न जायते || श्रीशिव उवाच || शृणु देवे ! प्रवक्ष्यामि स्तोत्रं परमगोपनम् | यस्य श्रवणमात्रेण संसारान्मुच्यते नरः | नमस्ते देवदेवेशि ! नमस्ते हरपूजिते ! | ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः || १ || अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | यया चक्षुरुन्मीलितं तस्यै नित्यं नमो नमः || २ || भवबन्धनपारस्य तारिणी जननी परा | ज्ञानदा मोक्षदा नित्यं तस्यै नित्यं नमो नमः || ३ || श्रीनाथवामभागस्था सदया सुरपूजिता | सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः || ४ || सहस्रारे महापद्मे सदानन्दस्वरूपिणी | महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः || ५ || ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी | त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः || ६ || चन्द्रसूर्य्याग्निरूपा च मदाघूर्णितलोचना | स्वनाथञ्च समालिङ्ग्य तस्यै नित्यं नमो नमः || ७ || ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी | ज्ञानविज्ञानयोर्दात्री तस्यै श्रीगुरवे नमः || ८ || इदं स्तोत्रं महेशानि ! यः पठेद्भक्तिसंयुतः | स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः || प्रातःकाले पठेद् यस्तु गुरुपूजापुरःसरम् | स एव धन्यो लोकेशो देवीपुत्र इव क्षितौ | इति मातृकाभेदतन्त्रे स्त्रीगुरोः स्तोत्रं सम्पूर्णम् || स्तोत्रं समाप्तं देवेशि ! कवचं शृणु सादरम् | यस्य स्मरणमात्रेण वागीशसमतां व्रजेत् | स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः | ताराख्या देवता ख्याता चतुर्वर्गफलप्रदा | क्लीं बीजं चक्षुषोर्मध्ये सर्वाङ्गं मे सदावतु | ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु | प्. २९५) श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम् | हकारः कण्ठदेशं मे सकारः षोडशं दलम् | क्षवर्णस्तदधः पातु लकारो हृदयं मम | वकारः पृष्ठदेशञ्च रकारो दक्षपार्श्वकम् | यूङ्कारो वामपार्श्वञ्च सकारो मेरुमेव च | हकारो मे दक्षभुजं क्षकारो वामहस्तकम् |
SKमकारश्चाङ्गुलीं पातु लकारो मे नखं वतु | वकारो मे नितम्बञ्च रकारो जठरं वतु | षीङ्कारः पादयुगलं हेसौः सर्वाङ्गं मेऽवतु | हेसौर्लिङ्गञ्च लोमानि केशञ्च परिरक्षतु | ऐं बीजं पातु पूर्वे मे ह्रीं बीजं दक्षिणेऽवतु | श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् | श्रीं पातु चाग्निकोणे च वेदाख्या नैर्-ऋतेऽवतु | देवाम्बा पातु वायव्यां शम्भौ श्रीपादुकां तथा | पूजयामि तथा चोर्द्ध्वं नमश्चाधः सदाऽवतु | इति ते कथितं कान्ते ! कवचं परमाद्भुतम् | गुरुमन्त्रं जपित्वा तु कवचं प्रफठेद्यदि | ससिद्धः सगणः सोऽपि शिव एव न संशयः | पूजाकाले पठेद् यस्तु कवचं मन्त्रविग्रहम् | पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ! | त्रिसन्ध्यं यः पठेद्देवि ! स सिद्धो नात्र संशयः | भूर्ज्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि | तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः | विवादे जयमाप्नोति रणे च निर्-ऋतेः समः | सभायां जयमाप्नोति मम तुल्यो न संशयः | सहस्रारे भावयन् यस्त्रिसन्ध्यं प्रपठेद् यदि | स एव सिद्धो लोकेशो निर्वाणपदमीयते | समस्तमङ्गलं नाम कवचं परमाद्भुतम् | यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन | देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् | अभक्तेभ्यश्च देवेशि ! पुत्रेभ्योऽपि न दर्शयेत् | इदं कवचमज्ञात्वा दशविद्याश्च यो जपेत् | स नाप्नोति फलं तस्य चान्ते च नरकं व्रजेत् | समाप्तं कवचं देवि ! किमन्यत् श्रोतुमिच्छसि | तव स्नेहानुबन्धेन किं मया न प्रकाशितम् || इति मातृकाभेदतन्त्रे स्त्रीगुरुकवचं समाप्तम् || प्. २९६) अथ स्त्रीगुरुगीता || कङ्कालमालिनीतन्त्रे द्वितीयपटले || पार्वत्युवाच || लोकेश ! कथ्यतां देव ! गुरुगीता मयि प्रभो ! | श्रीभगवानुवाच || शृणु तारिणि ! वक्ष्यामि गीतां ब्रह्ममयीं पराम् | गुरुस्त्वं सर्वशास्त्राणामहमेव प्रकाशकः | त्वमेव गुरु रूपेण लोकानां त्राणकारिणी | गया गङ्गा काशिका च त्वमेव सकलं जगत् |
SKकावेरी यमुना रेवा करतोया सरस्वती | गोमती चन्द्रभागा च त्वमेव कुलपालिके ! | ब्रह्माण्डं सकलं देवि ! कोटिब्रह्माण्डमेव च | न हि ते वक्तुमर्हामि क्रियाजालं महेश्वरि ! | उक्त्वा चोक्त्वा भावयित्वा भिक्षुकोऽहं नगात्मजे ! | कथं त्वं जननी भूत्वा बधूस्त्वं मम देहिनाम् | तव चक्रं महेशानि ! अतीतं परमात्मनि | इति ते कथिता गीता गुरुदेवस्य ब्रह्मणः | सङ्क्षेपेण महेशानि ! प्रभुरेव गुरुः स्वयम् | जगत् समस्तमास्थाय गुरुस्त्वेको हि केवलम् | इति तं तोषयित्वा च नुतिभिः स्तुतिभिस्तथा | नानाविधद्रव्यदानैः सिद्धः स्यात् साधकोत्तमः || इति स्त्रीगुरुगीता समाप्ता || अत्र प्रसङ्गप्राप्तगुरुपूजनमपि लिख्यते | वृहन्नीलतन्त्रे द्वितीयपटले || गुरुपूजाविधानञ्च कथयामि वरानने ! | आदौ भद्रासनं दद्यात् पाद्यं दद्यात्ततः परम् | अर्घ्यं दद्याद्विशेषेण तथा चाचमनीयकम् | स्नानीयं वसनं दद्याद्गन्धं पुष्पञ्च शोभनम् | धूपञ्च गुग्गुलुं दद्याद्दीपं स्यात् सुशोभनम् | चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोहरम् | नानाविधं फलं दद्यान्नानारससमन्वितम् | भक्ष्यं भोज्यं विशेषेण दद्याच्चैव वरानने ! | पुष्पाणामञ्जलिं दद्याच्चन्दनेन समन्वितम् | शय्यां दद्यान्महेशानि ! विचित्रां सर्वमोहिनीम् | खट्वां दद्यान्महेशानि ! विचित्राम्बरधारिणीम् | पादसेवां गुरोः कुर्य्यादतियत्नेन सुन्दरि ! | गुरुवत् गुरुपुत्रेषु गुरुवत्तत्सुतादिषु || प्. २९७) अथ सपत्नीकगुरुपूजनम् || पुरश्चरणरसोल्लासे दशमपटले | आनीय स्वगुरुं देवि ! सपत्नीकं प्रयत्नतः | नानागन्धैर्युतैस्तैलैरञ्जयेदङ्गयष्टिकाम् | स्नापयेद्विविधैः शुद्धैरुदकैः सुरपूजितैः | दिव्यवस्त्रेण तद्गात्रं सम्मार्ज्य वरवर्णिनि ! | पूजयेद्विविधैः पुष्पैर्गन्धैश्च विविधैस्तथा | धूपदीपैस्तथा पेयैस्ताम्बूलाद्यैः सुवासितैः | प्रकृत्या सह चार्वङ्गि ! पूजयेद्गुरुदैवतम् | गुरोरङ्गं महेशानि ! चन्दनैः परिलेपयेत् | गुरोः कण्ठे महेशानि ! मालां दद्याद्विलक्षणाम् |
SKनानालङ्कारसुभगैः पूजयेद् गुरुदैवतम् | पट्टवस्त्रादिभिर्देवि ! स्वर्णरत्नादिभूषणैः | तत्पत्नीं तोषयेद्भक्त्या साक्षात्तां जगदीश्वरीम् | शङ्खकङ्कणकेयूरनूपुरादिविलक्षणैः | हारैरत्नमयैर्देवि ! तत्पत्नीं पूजयेत् प्रिये ! | तस्यास्तु वामतस्तिष्ठेद् भक्त्यापि च शुभिस्मिते ! | तुल्यं निष्कं प्रदद्याद्वै भक्त्या रत्नानि पार्वति ! | तन्मन्त्रं शृणु चार्वङ्गि ! अतिगुह्यं परात्परम् | कामबीजं समुद्धृत्य तस्याश्चाख्यानमुद्धरेत् | पुनः कामं समुद्धृत्य मन्त्रमेतदुदीरितम् | सपत्नीकं गुरुं देवि ! पूजयेद् यस्तु साधकः | अनेन विधिना देवि ! सम्पूज्य गुरुपादयोः | सहस्रारे महेशानि ! तत्र कोषोपरि प्रिये ! | भावयेत्तु सपत्नीकं पूजयेद्गुरुराज्ञया | गुरोराज्ञां मूर्द्ध्नि धृत्वा एकधा पूजयेद् यदि | तदैव सहसा सिद्धिर्जायते वीरवन्दिते ! | अयुतं प्रजपेद् यस्तु किं तस्य शतकोटिभिः | एवन्तु प्रत्यहं कुर्य्याद् यावल्लक्षं समाप्यते | दिवालक्षण महेशानि ! पशुवत् साधकाग्रणीः | रात्रौ लक्षं जपित्वा तु दिव्यवीरमतैः प्रिये ! | समाप्य विधिवद्भक्त्या गुरवे दक्षिणां ततः | दत्त्वा सिद्धिमवाप्नोति चन्द्रसूर्य्यग्रहेण किम् || अथ सिद्धौघगुरुपंक्तिचिन्तनम् || वृहन्नीलतन्त्रे द्वितीयपटले || सिद्धौघा गुरवो देवि ! दिव्यौघा गुरवस्तथा | मानवौघाः समासेन कथ्यन्ते गुरवस्तथा | प्. २९८) उर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः || कुलचूडामणौ || मूलादिब्रह्मरन्ध्रान्तं कुलं ध्यात्वा गुरुं स्मरेत् | प्रह्लादानन्दनाथाख्यं सनकानन्दमेव च | कुमारानन्दनाथञ्च वशिष्ठानन्दनाथकम् | क्रोधानन्दसुखानन्दौ ध्यानानन्दं ततः परम् | बोधानन्दं ततश्चैव ध्यायेत् कुलमुखोपरि | कुलमुखोपरि सहस्रारास्थितचन्द्रमण्डले इत्यर्थः | महारसरसोल्लासहृदया घूर्णलोचनाः | कुलालिङ्गनसंयुक्ताश्चूर्णिताशेषतामसाः | कुलशिष्यैः परिवृताः पूर्णान्तःकरणोद्यताः | वराभययुताः सर्वे कुलतन्त्रार्थवेदिनः |
SKकुलमूलावतारकल्पसूत्रटीकायां तृतीयकाण्डे || प्रातः प्रभृति सायान्तं सायादिप्रातरन्ततः | यत् करोमि जगत्यर्थे तदस्तु तव पूजनम् || इति प्राणतोषिण्यां तृतीयेऽर्थकाण्डे आचारसप्तकादिगुरुपंक्तिनिरूपणान्तरूपग्रन्थिकथनं नाम प्रथमः परिच्छेदः | इति सर्वं गुरवे निवेद्य मनसा गुरोराज्ञां गृहीत्वा मूलाधारकर्णिकान्तःस्थत्रिकोणान्तर्गताधोमुखस्वयम्भू-लिङ्गवेष्टिनीं प्रसुप्तभुजगाकारां सार्द्धत्रिबलयां विद्युत्पुञ्जप्रभां नीवारशूकवत्तन्वीं कुलकुण्डलिनीं निजेष्टदेवतारूपां हूङ्कारेण मनुना हंस इति मनुना वा त्रिकोणमण्डलाग्निना पवनदहनयोगाच्चैतन्यं विधाय ब्रह्मवर्त्मना सहस्रारं नीत्वा तत्रत्यपरशिवे संयोज्य तयोः सामञ्जस्यं विभाव्यात्यन्तं श्यामारहस्योक्तं | तत्प्रमाणं तद्धृतकालिकाश्रुतिर्यथा || मूलाधारे स्मरेन्नित्यं त्रिकोणं तेजसां निधिम् | तस्याग्निरेखामानीय अध ऊर्द्ध्वव्यवस्थिताम् | नीलतोयदमध्यस्थतडिल्लेखेव भास्वराम् | नीवारशूकवत्तन्वीं पीतां भास्वदनुपमाम् | नीवारशूकवदिति उडिधान्यसुङ्गा इति प्रसिद्धिः | तस्याः शिखाया मध्ये च परमोर्द्ध्वव्यवस्थिताम् | स ब्रह्मा स शिवः सूर्य्यः शङ्करः परमस्वराट् | प्. २९९) स एव विष्णुः स प्राणः स कालाग्निः स चन्द्रमाः | इति कुण्डलिनीं ध्यात्वा सर्वपापैः प्रमुच्यते | इति गुरोराज्ञां गृहीत्वेति प्रमाणशून्यलिखनम् | कुण्डलीध्यानानन्तरं योगसारे || मूलाधारे कुण्डलिनीं ध्यात्वा सम्पूजयेन्नरः | ध्यानं तथा प्रवक्ष्यामि येन योगी प्रजायते | ॐ प्रसुप्तभुजगाकारां स्वयम्भूलिङ्गमाश्रिताम् | विद्युत्कोटिप्रभां देवीं विचित्रवसनान्विताम् | शृङ्गारादिरसोल्लासां सर्वदा कारणप्रियाम् | एवं ध्यात्वा कुण्डलिनीं ततो यजेत् समाहितः | मनसा गन्धपुष्पाद्यैः सम्पूज्य वाग्भवं जपेत् | ततो वै तोषयेत्ताञ्च स्तवेनानेन साधकः | रुद्रजामले || अथ प्रातः समुत्थाय पशुरुत्तमपण्डितः | गुरूणां चरणाम्भोजमङ्गलं शीर्षपङ्कजे | विभाव्य पुनरेवं हि श्रीपदं भावयेद् यदि |
SKपूजयित्वा च विविधैरुपचारैर्नमेत् स्तवैः || त्रैलोक्यं तेजसा व्याप्तं मण्डलस्थां महोत्सवाम् | तदित्कोटिप्रभादीप्तिं चन्द्रकोटिसुशीतलाम् | सार्द्धत्रिबलयाकारस्वयम्भूलिङ्गवेष्टिताम् | उत्थापयेन्महादेवीं महावक्त्वां मनोन्मनीम् | श्वासोच्छ्वासादुद्गच्छन्तीं द्वादशाङ्गुलरूपिणीम् | योगिनीं खेचरीं वायुरूपां मूलाम्बुजस्थिताम् | चतुर्वर्णस्वरूपां तां वकारादिसमान्तकाम् | कोटिकोटिसहस्रार्ककिरणोज्ज्वलमोहिनीम् | महासूक्ष्मपथप्रान्तरान्तरान्तरगामिनीम् | त्रैलोक्यरक्षितां वाक्यदेवतां शब्दरूपिणीम् | महाबुद्धिप्रदां देवीं सहस्रदलगामिनीम् | महासूक्ष्मपथे तेजोमयीं मृत्युस्वरूपिणीम् | कालरूपां ब्रह्मरूपां सर्वत्र सर्वचिन्मयीम् | ध्यात्वा पुनः पुनः शिर्षे सुधाब्धौ विनिवेष्टिताम् | सुधापानं कारयित्वा पुनः स्थाने समानयेत् | समानयनकाले तु सुषुम्नामध्यमध्यके | अमृताभिप्लुतं कृत्वा पुनः स्थानेषु पूजयेत् | ऊर्द्ध्वोद्गमनकाले तु महातेजोमयीं स्मरेत् | प्रतिप्रयाणकाले तु सुधाधाराभिराप्लुताम् | प्. ३००) महाकुण्डलिनीं देवीममृतानन्दविग्रहाम् | ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सर्वसिद्धीश्वरो भवेत् | तस्मिन् स्थाने महादेवीं विभाव्य किरणोज्ज्वलाम् | अमृतानन्दमूर्तिं तां पूजयित्वा शुभां मुदा | मानसोच्चारवीजेन मायां वा कामवीजकम् | पञ्चाशद्वर्णमालाभिर्जप्त्वानुलोमतस्तथा | विलोमेन पुनर्जप्त्वा सर्वत्र शुभदं स्तवम् | पठित्वा सिद्धिमाप्नोति तत् स्तोत्रं शृणु भैरव ! || अथ कुण्डलिनीस्तोत्रम् || जन्मोद्धारिणि ! रक्षिणीह तरुणी वेदादिवीजादिमा नित्यं चेतमि भाव्यते भुवि कदा मद्वाक्यसञ्चारिणी | मां सा तु प्रियदा सदा सविपदं सङ्घातय श्रीधरे धात्री त्वं स्वयमादिदेववनिता दीनातिदीनं परम् || १ || रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिर्निद्रिता जाग्रद्धर्मसमाश्रिता भगवती त्वं सांशलोकाश्रयः | मांसोद्गन्धकगन्धदोषजडितं वेदादिकार्य्यान्वितं सम्पाल्यामलचन्द्रकोटिकिरणे नित्यं शरीरं कुरु || २ ||
SKसिद्धार्थो निजदोषवित् खलगतिर्व्याधीयते विद्यया कुण्डल्याकुलमार्गयुक्तनगरी सायाह्नमाज्ञाश्रया | यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा नित्यं यः कुलकुण्डलीनिजपदाम्भोजं स सिद्धो भवेत् || ३ || ये वाकाशचतुर्दलेऽतिविमले वाञ्छाफलोन्मूलके नित्यं सम्प्रति नित्यदेशघटिता सङ्केतिता भाविता | विद्याकुण्डलमालिनी स्वजननी सारक्रिया भाव्यते यैस्तैः सिद्धिकुलोद्भवैः प्रणतिभिः कीर्त्त्या परं शम्भुभिः || ४ || वाचा शङ्करमोहिनी त्रिपलयाच्छायापटोद्गामिनीं सारामादिमहासुखप्रहरणी नेत्रस्थिता योगिनी | सर्वग्रन्थिविभेदिनी सुभुजगा सूक्ष्मातिसूक्ष्मा परा ब्रह्मज्ञानविनोदिनी कुलकुठाराघातिनी भाव्यते || ५ || वन्दे श्रीकुलकुण्डलीं त्रिबलिभिः सार्द्धं स्वयम्भूप्रियां प्रावेष्ट्यासुरसारचित्तचपलां बालाबलां निष्कलाम् | या देवी परिभाति वेदवदना सम्भावना भावना तामिष्टां शिरसि स्वयम्भुवनितां सम्भावयामि क्रियाम् || ६ || प्. ३०१) वाणीकोटिमृदङ्गनादमदना निःश्रेणिकोटिध्वनिः प्राणेशीवशवाममूलकमलोल्लासैकपूर्णानना | आषाढोद्भवमेघराजनियुतध्वान्तान्तरस्थायिनी माता सा परिपातु सूक्ष्मपथगे ! मां योगिनं संस्कुरु || ७ || त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोरानन्दैकविलासिनीं शशिगतानन्दाननां कारणम् | मातः ! श्रीकुलकुण्डलिप्रियकले ! कालीकुलोद्दीपने ! भूयस्त्वां प्रणमामि रुद्रवनिते ! मामुद्धर त्वं पथि || ८ || कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकं महाफलम् | यः पठेत् प्रातरुत्थाय स योगी भवति ध्रुवम् | क्षणादेव हि पाठेन कविनाथो भवेदिह | परत्र कुण्डलीयोगाद्ब्रह्मलीनो भवेन्महान् | इति ते कथितं नाथ ! कुण्डलीकोमलस्तवम् | एतत्स्तोत्रप्रसादेन देवेषु गुरुगीष्पतिः | सर्वे देवाः सिद्धियुक्ता अस्याः स्तोत्रप्रसादतः | द्वापरार्द्धचिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः | त्वञ्चापि मम निकटे स्थितो भगवतीपतिः | मां विद्धि परमां शक्तिं स्थूलसूक्ष्मस्वरूपिणीम् | सर्वप्रकाशकरणीं विन्ध्यपर्वतवासिनीम् |
SKहिमालयसुतां सिद्धां सिद्धमन्त्रस्वरूपिणीम् | वेदान्तशक्तितन्त्रस्थां कुलतन्त्रार्थगामिनीम् | रुद्रजामलमभ्यस्थां स्थितिस्थापकभावनाम् | पञ्चमुद्रास्वरूपाञ्च शक्तिजामलमालिनीम् | रत्नमालाबलाकाढ्यां चन्द्रसूर्य्यप्रकाशिनीम् | सर्वभूतमहाबुद्धिदायिनीं दानवापहाम् | स्थित्युत्पत्तिलयकरीं करुणासागरस्थिताम् | महामोहनिवासाढ्यां दामोदरशरीरगाम् | छत्रचामररत्नाढ्यां महाशूलकरां पराम् | ज्ञानदां बिद्धिदां विद्यां रत्नमालाकलापदाम् | सर्वतेजःस्वरूपां मामनन्तकोटिविग्रहाम् | दरिद्रधनदां लक्ष्मीं नारायणमनोरमाम् | सदा भावय शम्भो ! त्वं योगनायक ! पण्डित ! || प्. ३०२) इति रुद्रजामले उत्तरखण्डे कुण्डलीस्तोत्रं समाप्तम् | कुण्डलिन्यां स्तोत्रान्तरं योगसारे तृतीयपटले || ॐ नमस्ते देवदेवेशि ! योगीशप्राणबल्लभे ! सिद्धिदे ! वरदे ! मातः ! स्वयम्भूलिङ्गवेष्टिते || १ || ॐ प्रसुप्तभुजगाकारे ! सर्वदा कारणप्रिये ! | कामकलान्विते ! देवि ! ममाभीष्टं कुरुष्व च || २ || असारे घोरसंसारे भवरोगात् कुलेश्वरि ! | सर्वदा रक्ष मां देवि ! जन्मसंसारसागरात् || ३ || इति कुण्डलिनीस्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः | मुच्यते सर्वपापेभ्यो भवसंसाररूपके || इति कुण्डलिनीस्तोत्रं समाप्तम् | अथ कुण्डलिनीकवचम् || रुद्रजामले उत्तरखण्डे पञ्चत्रिंशत्पटले || श्री आनन्दभैरव्युवाच || अथ वक्ष्ये महादेव ! कुण्डलीकवच शुभम् | परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् | यद्धृत्वा योगिनः सर्वे धर्म्माधर्मप्रदर्शकाः | ज्ञानिनो मानिनो धीरा विचरन्ति यथा नराः | सिद्धयोऽप्यणिमाद्याश्च करस्थाः सर्वदेवताः | एतत्कवचपाठेन देवेन्द्रो योगिराड्भवेत् | ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः | प्रातःकाले त्रिवारञ्च मध्याह्ने वारयुग्मकम् | सायाह्ने वारमेकस्तु पठेत् कवचमेव च | पाठादेव महायोगी कुण्डलीदर्शनं लभेत् | कुण्डलीकवचस्य ब्रह्मा ऋषिर्गायत्रीच्छन्दः कुण्डलीदेवता सर्वाभीष्टसिद्ध्यर्थे विनियोगः |
SKओमीश्वरी जगद्धात्री ललिता सुन्दरी परा | कुण्डली कुलरूपा तु पातु मां कुलचण्डिका | शिरो मे ललिता देवी पातूग्राख्या कपोलकम् | ब्रह्मरन्ध्रेण पुटितं भ्रूमध्यं पातु मे सा | नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् | दन्तावलीं विशालाक्षी ओष्ठमिष्टान्नवासिनी | कामवीजात्मिका विद्या अधरं पातु मे सदा | दृग्गण्डस्था चाण्डयुग्मं मायावीजा रसप्रिया | प्. ३०३) भुवनेशी कर्णयुग्मं चिबुकं क्रोधकालिका | कपिला मे गलं पातु सर्ववीजस्वरूपिणी | मातृकावर्णपुटिता कुण्डली कल्पमेव च | हृदयं कालपुत्री च कङ्काली पातु मे मुखम् | भुजयुग्मं चण्डदुर्गा चण्डदोर्दण्डखण्डिनी | स्कन्धयुग्मं पातु देवी चिवुकं क्रोधकालिका | अङ्गुल्यग्रं कुलानन्दा श्रीविद्या नखमण्डलम् | कालिका भुवनेशानी पृष्ठदेशं सदाऽवतु | पार्श्वयुग्मं महावीरा वीरासनधराऽभया | मातु मां कुलदर्भस्था नाभिमुदरमल्लिका | कटिदेशं पृष्ठसंस्था महामहिषघातिनी | लिङ्गस्थानं महामुद्रा भगमाला मनुप्रिया | भगीरथप्रिया धूम्रा मूलाधारं गणेश्वरी | चतुर्दलं कामविद्या दलाग्रं मे वसुन्धरा | धीर्धरा धारणाख्या च ब्रह्माणी पातु मे मुखम् | भेदिनी पातु कमला वाग्देवी पूर्णगं दलम् | छेदिनी दक्षिणे पार्श्वे पातु चण्डा महातपाः | चण्डघण्टा सदा पातु योगिनी वारुणं दलम् | उत्तरस्थं दलं पातु पृथिवीमिन्द्रलालिताम् | चतुष्कोणं कामविद्या ब्रह्मविद्याष्टकोणकम् | अष्टदलं सदा पातु सर्ववाहनवाहना | चतुर्भुजा सदा पातु डाकिनी कुलचञ्चला | मेढ्रस्थ मदनाधारा पातु मे चारुपङ्कजम् | स्वयम्भूलिङ्गं चार्वङ्गी कोटराक्षी ममासनम् | कदम्बवनगा पातु कदम्बवनवासिनी | वैष्णवी परमा माया पातु मे वैष्णवं पदम् | षड्दलं राकिणी पातु रङ्गिनी कामवासिनी | कामेश्वरी कामरूपा कृष्णं मे पीतवाससम् | धनुः सा वनदुर्गा मे शङ्खं मे शङ्खिनी शिवा | चक्रं चक्रेश्वरी पातु कमलाक्षी गदां मम | पद्मं मे पद्मगन्धा च पद्ममालामनोहरा | वादिसान्ताक्षरं पातु लाकिनी लोकपावनी |
SKषड्दलस्थितदेवांश्च पातु कैलासवासिनी | अग्निवर्णा सदा पातु गलं मे परमेश्वरी | मणिपूरं सदा पातु मणिमालाविभूषणा | दशपत्रं दशवर्णं कादिफान्तं त्रिविक्रमा | पातु नीलामहाकाली भद्रा भीमा सरस्वती | प्. ३०४) अयोध्यावासिनी देवी महापीठनिवासिनी | वाग्भवाद्या महाविद्या कुण्डली कालरूपिणी | दशच्छदशतं पातु रुद्रं रुद्रात्मकं मम | सूक्ष्मा सूक्ष्मतरा पातु सूक्ष्मस्थाननिवासिनी | लाकिनी लोकजननी पातु कूटाक्षरान्विता | तेजसं पातु नियतं रजकी राजपूजिता | विजया कुलवीजस्था तवर्गं तिमिरापहा | चन्द्रात्मिका मणिग्रन्थिं भेदिनी पातु सर्वदा | भगमाला भृगुसुता पातु मां नाभिवासिनी | नन्दिनी पातु सकलं कुण्डली कालकल्पिता | हृत्पद्मं पातु कालाख्या धूम्रवर्णा मनोहरा | दलद्वादशवर्णञ्च भास्करी भावसिद्धिदा | पातु मे परमा विद्या कवर्गं कामचारिणी | चवर्गं चारुरसना व्याघ्रास्या टङ्कधारिणी | टकारं पातु कृष्णाख्या काकिनीं पातु कालिका | ठङ्कुराङ्गी ठकारं मे वीजभाषा महोदया | ईश्वरं पातु विमला मम हृत्पद्मवासिनी | कालिकां कालसन्दर्भा योगिनी योगमातरम् | इन्द्राणी वारुणी पातु कुलमाला कुलान्तरम् | तारिणी शक्तिमाता च कण्ठवाक्यं सदाऽवतु | विप्रचित्ता महोग्रोग्रा प्रभादीप्ता घनामला | वाक्स्तम्भिनी वज्रदेहा वैदेही वृषवाहिनी | उन्मत्ता नन्दचित्ता च कुलेशी सा भगातुरा | मम षोडश पत्राणि पातु मातृतया स्थिता | सुरान् रक्षतु वेदज्ञा सर्वभाषा च कालिकाम् | ईश्वरार्द्धासनगता प्रपायान्मे सदाशिवा | शाकम्भरी महामाया शाकिनी पातु सर्वदा | भवानी भवमाता च पयोद्रुमध्यपङ्कजम् | द्विदलं व्रतकामाख्या अष्टाङ्गसिद्धिदायिनी | पातु मामखिलानन्दा मनोरूपा जपप्रिया | लकारं लक्षणाक्रान्ता सर्वलक्षणलक्षणा | कृष्णाजिनधरा देवी क्षकारं पातु सर्वदा | द्विदलस्थं सर्वदेवं सदा पातु वरानना | बहुरूपा विश्वरूपा हाकिनी पातु चण्डिका | हरा परशिवं पातु मानसं पातु पञ्चमी | षट्चक्रस्था सदा पातु षट्चक्रकुलवासिनी |
SKप्. ३०५) अकारादिक्षकारान्ता बिन्दु सर्गसमन्विता | मातृकार्णा सदा पातु कुण्डली ज्ञानकुण्डली | पूर्णकाली गतिप्रेता पूर्णगिरितटं शिवा | उड्डीयानेश्वरी देवी सकलं पातु सर्वदा | कैलासपर्वतं पातु कैलासगिरिवासिनी | डाकिनी राकिणी शक्तिर्लाकिनी काकिनी कला | साकिनी हाकिनी देवी षट्चक्रादीन् प्रपातु मे | कैलासाख्यं सदा पातु पञ्चाननतनूद्भवा | हिरण्यवर्णा रजनी चन्द्रसूर्य्याग्निभक्षिणी | सहस्रदलपद्मं मे सदा पातु कुलाकुला | सहस्रदलपद्मस्था दैवतं पातु भैरवी | काली तारा षोडशाख्या मातङ्गी पद्मवासिनी | शशिकोटिगलद्रूपा पातु मे सकलां तनुम् | रणे घोरे जले दोषे युद्वे वादे श्मशानके | सर्वत्र गमने ज्ञाने सदा मां पातु शैलजा | पर्वते विविधावासे विनाशे पातु कुण्डली | पदादिब्रह्मरन्ध्रान्तं सर्वाकाशा सुरेश्वरी | सदा पातु सर्वविद्या सर्वज्ञानं सदा मम | नवलक्षमहाविद्या दशदिक्षु प्रपातु माम् | इत्येतत् कवचं देवि ! कुण्डलिन्याः प्रसिद्धिदम् | ये पठन्ति ध्यानयोगे योगमार्गव्यवस्थिताः | ते यान्ति मोक्षपदवीमैहिकेनात्र संशयः | मूलपद्मे मनोयोगं कृत्वा दृढासनस्थितः | मन्त्री ध्यायेत् कुण्डलिनीं सूक्ष्मपद्मप्रकाशिनीम् | धर्मोदयां दयारूढामाकाशस्थानवासिनीम् | अमृतानन्दरसिकां विकलां सकलां सिताम् | असितां रक्तरहितां विरक्तां रक्तविग्रहाम् | रक्तनेत्रां कुलक्षिप्तां ज्ञानाकुलजलोज्ज्वलाम् | विप्रकारां मनोरूपां मूले ध्यात्वा प्रपूजयेत् | यो योगी कुरुते एवं स सिद्धो नात्र संशयः | रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् | वस्तु प्रियमवाप्नोति वस्तुहीनः पठेद् यदि | पुत्रहीनो लभेत् पुत्रं योगहीनो भवेद्वशी | कवचं धारयेद्यस्तु शिखायां दक्षिणे भुजे | वामा वामकरे धृत्वा सर्वाभीष्टमवाप्नुयात् | स्वर्णे रौप्ये तथा ताम्रे स्थापयित्वा प्रपूजयेत् | प्. ३०६) सर्वदेशे सर्वकाले पठित्वा सिद्धिमाप्नुयात् | स भूयात् कुण्डलीपुत्रो नात्र कार्य्या विचारणा || इति रुद्रजामले उत्तरखण्डे कन्दवासिनीकवचं समाप्तम् ||
SKतत आचारात् स्वेष्टदेवताप्रणाममन्त्रेण कुण्डलिनीं नत्वा दशसु द्वारेषु चौरगणेशमन्त्रं कवाटवन् न्यसेत् तदुक्तं गणेशविमर्षिण्यां || चक्षुर्द्वयं तथा कर्णद्वयं नासापुटद्वयम् | मुखं नाभिं लिङ्गमूलं गुदस्थानं तथैव च | मनोद्वारं भ्रुवोर्मध्ये दशैव द्वारसंज्ञिताः | अङ्कुशं प्रथमं बीजं हृदये दशधा जपेत् | प्रजपान्ते ततो मातः ! कवाटं निक्षिपेत्ततः | कर्णयोश्च तथा कूर्च्चं कालीं नासापुटे ततः | मुखे स्त्रीं द्विविधं बीजं नाभौ वाणीं ततो जपेत् | हेसौः बीजं लिङ्गमूले ब्लुं मूले परिकीर्त्तितम् | ॐकारञ्च भ्रुवोर्मध्ये मनःस्थाने तथैव च | एतदेकादशं बीजं प्रतिद्वारे कवाटवत् || चौरगणेशमन्त्रं न जप्त्वा कर्म्ममात्रं न कुर्य्यात् | यदि कुर्य्यात्तदा दोष उक्तो वर्णविलासतन्त्रे || गणेश उवाच || अधुनाहं प्रवक्ष्यामि चौरमन्त्रमतः शृणु | चौरमन्त्रपरिज्ञानं विना हे ब्राह्मणीश्वरि ! | पुराणं प्रपठेद्यस्तु स एव मूर्त्तिमान् कलिः | परजन्मनि पापिष्ठः स भवेच्चौरकुक्कुरः | शिवपूजा विष्णुपूजा शक्तिपूजा तथैव च | सर्वपूजासु यत्तेजो हरते गणपः स्वयम् | पञ्चाशद्गणदेवानां ज्योतींषि मुनिपुङ्गवाः | प्रतिद्वारपथे गत्वा प्रतिपद्मेषु जृम्भते | हरन्ति जपतेजांसि प्रतिपद्मेषु संस्थिताः | जपपूजासु यत्तेजस्तत्र चौरगणाधिपः | तस्माच्चौरप्रबोधार्थं चौरमन्त्रान् जपेद्दश | ततस्तु पूजयेद्धीमान् यस्य या इष्टदेवताः | ततः फलमवाप्नोति ब्रह्मादित्रिदिवौकसः | चौरमन्त्रं महामन्त्रं पञ्चाशद्गणतोषणम् | चौरमन्त्रं विना भद्रे ! शान्तिस्वस्त्ययनं कुतः | कर्णद्वयं तथा चक्षुर्द्वयं नासामुखं ततः | प्. ३०७) नाभिस्थाने लिङ्गमूले गुदस्थाने तथैव च | मनोद्वारे भ्रुवोर्मध्ये दशैकं द्वारमीरितम् | प्रतिद्वारे न्यसेन्मन्त्रं चौराख्यं ब्राह्मणीश्वरि ! | चौरमन्त्रञ्चाह भद्रे ! प्रतिद्वारे कवाटवत् | रहस्यं ते प्रवक्ष्यामि पञ्चाशद्गणतोषणम् | अङ्कुशं पञ्चमं बीजं प्रथमे दशधा जपेत् |
SKप्रजप्य सुभगे ! मातः ! कवाटं निक्षिपेत्ततः | अन्यथा अङ्कुशैर्वीजैः कवाटं भेदिरे गणाः | चन्द्रिकान्तर्गता नित्यं शङ्करं वरसुन्दरम् | चन्द्रिका सुषमा सीता शिञ्जिनी अणिमागुणा | चन्द्रविन्द्वात्मिका नित्या गणेशपरिपूजिता | ह्रीं ह्रीं वीजद्वयमिति विन्यसेन्नयनद्वये | कर्णयोश्च तथा ह्रीं ह्रीं हुं हुं नासाद्वये तथा | मुखे स्त्रीं द्विविधं बीजं नाभौ क्लीं सुभगेश्वरि ! | हेसौर्बीजं लिङ्गमूले गुदे व्लुं परिकीर्त्तितम् | हुङ्कारञ्च भ्रुवोर्मध्ये मनःस्थाने तथैव च | एतदेकादशद्वारे चौरमन्त्राणि विन्यसेत् | दशधा चौरमन्त्रञ्च एकधा वापि वीजकम् | अनेनैव जपेनापि प्रतिद्वारे कवाटकम् || जपकालोऽपि तत्रैव || शृणु चापि प्रवक्ष्यामि मन्त्रस्य जपनिर्णयम् | प्रातःकाले च शय्यायां मुक्तस्वापः स्वदेहके | पूर्ववन्मातृकान्यासं विन्यसेन्मातृकास्थले | तथा एकादशद्वारे चौरमन्त्राणि विन्यसेत् | दशधा चौरमन्त्रञ्च एकधा वापि सञ्जपेत् | चौरमन्त्रजपात् तुष्टिर्गणेशस्य तदा भवेत् | यमस्य नाधिकारोऽपि चौरमन्त्रजपात् प्रिये ! | सर्वमन्त्रजपात्तेजः सर्वस्मात् समुपस्थितम् | तत्तेजोहरणे शक्तिर्गणेशस्य न चैव हि || इति || अथ प्रयोगः || हृदि क्रोमिति दशधा जपेत् दक्षिणचक्षुषि ह्रीं ह्रीमिति || १० || वामचक्षुषि ह्रीं ह्रीमिति || १० || दक्षकर्णे ह्रीं ह्रीमिति || १० || वामकर्णे ह्रीं ह्रीमिति || १० || दक्षिणनासायां हुं हुं इति || १० || वामनासायां हुं हुं इति || १० || मुखे ह्रीं ह्रीं ह्रीं ह्रीं ह्रीमिति || १० || नाभौ ऐं लीमिति || १० || प्. ३०८) लिङ्गे हौः इति || १० || गुह्ये व्लुमिति || १० || भ्रूमध्ये हूमिति || १० || सर्वत्र दशधा जपेत् || ततः स्थाने स्थानेऽजपामन्त्रसमर्पणं कुर्य्यात् || कुलमूलावतारकल्पसूत्रटीकायां तृतीयकाण्डे अस्याजपागायत्रीमन्त्रस्य शिरसि हंस ऋषये नमः || मुखे अव्यक्तगायत्रीच्छन्दसे नमः || हृदि परमहंसदेवतायै नमः | लिङ्गे हं वीजाय नमः || आधारे सः शक्तये नमः |
SKपरमात्मप्रीतये उच्छासनिश्वासाभ्यां षट्शताधिकैकविंशतिसहस्रजपेन पूर्वभूतेभ्यो निवेदयामि | मूलाधारमण्डपे स्वर्णवर्णचतुर्दलपद्मे वादिसान्तचतुर्वर्णान्विते गायत्रीसहिताय गणनाथाय षट्शतसंख्यजपमहर्निशं समर्पयामि नमः | स्वाधिष्ठानमण्डपे अनेकविद्युन्निभे वादिलान्तषड्वर्णान्विते षड्दलपद्मे सावित्रीसहिताय ब्रह्मणे अजपामन्तषट्सहस्रं निवेदयामि नमः | मणिपूरमण्डपे नीलोत्पलमेघनिभे डादिफान्तदशवर्णान्विते दशदलपद्मे लक्ष्मीसहिताय विष्णवे षट्सहस्रजपं समर्प्यामि नमः | अनाहतमण्डपे तरुणरविनिभे द्वादशवर्णयुते द्वादशदलपद्मे गौरीसहिताय शिवाय अजपाषट् सहस्रजपं समर्पयामि नमः | विशुद्धमण्डपे षोडशदलकर्णिकामध्ये जीवात्मने अकारादि-अःकारान्ते अजपासहस्रसंख्यजपं निवेदयामि नमः | आज्ञामण्डपे श्रीचन्द्रप्रभे द्विदलपद्मे हक्षवर्णान्विते मायासहितगुरुमूर्त्तये एकसहस्रजपं निवेदयामि नमः | ब्रह्मरन्ध्रमण्डपे नानावर्णोज्ज्वले सहस्रशब्दोऽसंख्यपर इति बोध्यम् | उक्तञ्च पद्मं कोटिसमन्वितमिति | सहस्रपद्मस्थिताय प्रमात्मने अकारादिक्षकारान्तसहिताय एकसहस्रजपं निवेदयामि नमः | इति जपं समर्प्य अष्टोत्तरशतसंख्यमजपाजपं कुर्य्यात् | अकारादिक्षकारान्ता वर्णा हंस इति शिवशक्तिबिन्दुना ब्रह्माणं अ इति विसर्गरूपबिन्दुभ्यां हरिहरयोरभेदः | सोऽहमित्यभेदभावनया ब्रह्मरूपता स्वं स्वं परिभाव्य उक्तः | प्. ३०९) षट्शताधिकैकविंशतिसहस्रजपेन परदेवतारूपः श्रीपरमेश्वरः प्रीयतामित्येकवारं सङ्कल्प्य हंसस्य ध्यानं यथा || आराधयामि मणिसन्निभमात्मलिङ्गं मायापुरीहृदयपङ्कजसन्निविष्टम् | श्रद्धानदीविमलचित्तजलावगाहं नित्यं समाधिकुसुमैरपुनर्भवाय || प्रसङ्गाज्जपरहस्यं लिख्यते | पञ्चाशद्वर्णसम्पुटत्वेनानुलोम्यप्रातिलोम्येन ब्रह्मरूपं मेरुं क्षकारं परिकल्प्य तया सह जपं कुर्य्यादिति दोषलेशैर्न बाध्यते |
SKएतेन विश्वमेव हंसमातृकयोरेकाकारेण कालात्मना लोके चिदात्मा उच्यते | अजपाविधानं विना श्रीविद्यादिसकलविद्याया अनधिकारी भवेत् | तदुक्तम् | हंसज्ञानविमुग्धेन कृतमप्यकृतं भवेत् | इति | तद्धृतपद्मकोषराघवभट्टधृततन्त्रान्तरदक्षिणामूर्त्ति-संहितासप्तमपटलेषु | अजपाधारणं देवि ! कथयामि तवानघे ! | यस्य विज्ञानमात्रेण परं ब्रह्मैव देशिकः | हंसः पदं परेशानि ! प्रत्यहं प्रजपेन्नरः | मोहरन्ध्रं न जानाति मोक्षस्तस्य न विद्यते | श्रीगुरोः कृपया देवि ! ज्ञायते जप्यते यदा | उच्छासनिश्वासतया तदा बन्धक्षयो भवेत् | उच्छ्वासे चैव निश्वासे हंस इत्यक्षरद्वयम् | तस्मात् प्राणस्तु हंसात्मा आत्माकारेण संस्थितः | नाभेरुच्छासनिश्वासात् हृदयाग्नेर्व्यवस्थितिः || अहोरात्रमध्येऽजपाजपसंख्यापि तत्रैव | षष्टिश्वासैर्भवेत् प्राणः षट्प्राणा नाडिका मता | षष्टिनाड्या अहोरात्रं जपसंख्याक्रमो मतः | एकविंशतिसाहस्रं षट्शताधिकमीश्वरि ! | जपते प्रत्यहं प्राणी सान्द्रानन्दमयीं पराम् | उत्पत्तिश्च जपा रम्भो मृत्युस्तस्य निवेदनम् | अजपानामकारणमपि तत्रैव | विना जपेन देवेशि ! जपो भवति मन्त्रिणः | अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी | एवं जपं महेशानि ! प्रत्यहं विनिवेदयेत् | गणेशब्रह्मविष्णुभ्यो हराय परमेश्वरि ! | जीवात्मने क्रमेणैव तथैव परमात्मने | प्. ३१०) षट्शतानि सहस्राणि सहस्रञ्च तदेव हि | पुनः सहस्रं गुरवे क्रमेण च निवेदयेत् | एवं यथा स्थानावस्थितेभ्यो गणेशादिभ्यस्तज्जपसमर्पणमुक्त्वा तत्तत्स्थानानां तत्तदवस्थितमातृकार्णानाञ्च रूपमाह तत्रैव || आधारे स्वर्णवर्णेऽस्मिन् वादिसान्तानि संस्मरेत् | द्रुतसौवर्णानि तथा वर्णानि परमेश्वरि ! | स्वाधिष्ठाने विद्रुमाभे वादिलान्तानि च स्मरेत् | विद्युत्पुञ्जप्रभाभाणि सुनीले मणिपूरके | डफान्तानि महानीलप्रभाणि च विचिन्तयेत् | पिङ्गवर्णे महावह्निकलिकाभानि चिन्तयेत् |
SKकादिठान्तासिवर्णानि चतुर्थेऽनाहते प्रिये ! विशुद्धौ धूम्रवर्णे च रक्तवर्णान् स्वरान् यजेत् | आज्ञायां विद्युदाभायां शुभ्रौ हक्षौ विचिन्तयेत् | कर्पूरद्युतिसंराजत्सहस्रदलनीरजे | नादात्मकं ब्रह्मरन्ध्रं जानीहि परमेश्वरि ! | एतेषु सप्तचक्रेषु स्थितेभ्यः परमेश्वरि ! | जपं निवेदयित्वा तु अहोरात्रभवं प्रिये ! | सहजं परमेशानि ! न्यासं कुर्य्याद्विचक्षणः | ऋषिर्हंसो व्यक्तरूपो गायत्रीच्छन्द उच्यते | देवता परमादिस्तु हंसोऽहं वीजमुच्यते | सः शक्तिः कीलकं सोऽहं प्रणवस्तु त्वमेव हि | नेत्रस्थलं भवेत् श्वेतं वर्णञ्च परमेश्वरि ! | तदा तत् सह इत्येवं मनोरस्य प्रकीर्त्तितः | मोक्षार्थे विनियोगः स्यादेवं जानीहि पार्वति ! | ततः षडङ्गविन्यासं कुर्य्याद्देहस्य सिद्धये | सूर्य्यं सोमं महेशानि ! निरञ्जनमतः परम् | निराभासं चतुर्थ्यन्तं स्वाहान्ते क्रमतो न्यसेत् | कवचान्तं प्रविन्यस्य ततोऽनन्तपदं स्मरेत् || अजपाया द्वविध्यमुक्तं यथा निरुत्तरतन्त्रे चतुर्थपटलेऽपि || हंसेति प्रकृतिर्ज्ञेया ॐकारः प्रकृतेर्गुणः | हङ्कारेण वहिर्याति सकारेण विशेत् पुनः | हंसेति परमं मन्त्रं जीवो जपति सर्वदा | षट् शतानि दिवारात्रौ सहस्राण्येकविंशतिः | अजपा नाम गायत्री योगिनां मोक्षदायिनी | अजपा द्विविधा देवि ! व्यक्ता गुप्ता क्रमेण च | प्. ३११) व्यक्ता च द्विविधा प्रोक्ता शब्दज्योतिःस्वरूपिणी | ज्योतीरूपा च सा देवी हृदि स्थाने प्रतिष्ठिता | ठकाररूपा गुप्ता च शिवशक्तिः प्रकीर्त्तिता | चन्द्रबीजं ठकारस्तु वीप्सितः स्वर उच्यते | अजपार्थमयी गुप्ता वह्निजाया प्रकीर्त्तिता | अस्याः सङ्कल्पमात्रेण पुरश्चरणमुच्यते | इति स्वेष्टदेवतागुरुकुण्डलिनीध्यानेन परिपूतमनःकायश्चिन्तयेद् यथा | राघवभट्टधृतम् || अहं देवो न चान्योष्मि ब्रह्मैवाहं न शोकभाक् | सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् | गुरुदेवात्मनामैक्यं भावयित्वा तु प्रार्थयेत् || भावनाप्रकारस्तु धर्मकाण्डे दर्शितः |
SKत्रैलोक्यचैतन्यमयाधिदेव ! श्रीनाथ ! विष्णो ! भवदाज्ञयैव | प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्त्तयिष्ये | जानामि धर्मं न च मे प्रवृत्तिः जानाम्यधर्मं न च मे निवृत्तिः | केनापि देवेन हृदि स्थितेन यथानियुक्तोऽस्मि तथा करोमि || अत्र श्रीनाथविष्णो इति शैवादावूहः कार्य्यः | अत एव शाक्तानन्दतरङ्गिण्यां पञ्चमोल्लासे | त्रैलोक्यचैतन्यमयेश्वरेशि ! श्रीपार्वति ! त्वच्चरनाज्ञयैव | इति शक्तिविषये अर्द्धमुक्तम् इति प्रार्थनामन्त्रः || तत उत्थाय भूमिनतिं कृत्वा वामपदपुरःसरं मूत्रपुरीषे कुर्यात्तदुक्तं तत्रैव | एवं सञ्चिन्त्य मनसा गृहान्निर्गत्य संयतः | आचम्य प्रयतो मन्त्री दन्तधावनमाचरेत् | प्रयत इत्यनेन मूत्रपुरीषोत्सर्गान्तशुद्ध इति सूचितम् | तथा च | महानिर्वाणतन्त्रे पञ्चमोल्लासे || नमस्कृत्य वहिर्गच्छेद्वामपादपुरःसरम् | त्यक्त्वा मूत्रपुरीषञ्च दन्तधावनमाचरेत् | गन्धर्वतन्त्रे पञ्चमपटले || सर्वमङ्गलसम्पन्नो वहिर्निर्गत्य साधकः | त्यक्त्वा मूत्रपुरीषे तु दन्तधावनमाचरेत् | दन्तकाष्ठमखादित्वा पूजयेद् यस्तु देवताम् | सा पूजा विफला देवि ! मृते तु नरकं व्रजेत् | दक्षिणामूर्त्तौ || क्लीमात्मकं कामदेवं स्र्वजनमथालिखेत् | प्. ३१२) प्रियाय हृदयान्तोऽयं मनुर्दन्तविशुद्धये | चतुर्दशाक्षरैर्वक्त्रं क्षालयेत् सिद्धिहेतवे || मन्त्रतन्त्रप्रकाशे || विधायावश्यकं शौचमाचमं दन्तधावनम् | मुखप्रक्षालनादीनि कृत्वा स्नानं समाचरेत् || पदार्थदर्शने || ब्राह्म्ये मुहूर्ते उत्थाय करपादौ विशोधयेत् | मुख प्रखाल्य देवेशि ! नासारन्ध्रद्वयं तथा | नेत्राञ्जनं विधायैव शुद्धस्थानं समाश्रयेत् | नेत्राञ्जनमकृत्वा तु यः पश्येत् सौरमण्डलम् | जन्मार्जितफलं नश्येत् का कथा तस्य दुर्मतेः | इति निन्दार्थवादो हरिद्वारादावावश्यकत्वप्रतिपादको यस्मिन् देशे इत्याद्युक्तवचनादन्यत्र काम्यत्वज्ञापक इति |
SKस्मृत्युक्तविधानेन शौचादिकं देहशुद्धिञ्च विधाय रात्रिवासः परित्यज्य वासोऽन्तरं परिधाय मन्त्रस्नानं कृत्वा देवगृहमागत्य सम्मार्जनोपलेपादिं कृत्वा देवस्य निर्माल्यमपसार्य्य पूर्वदिनावशिष्टपत्रादि नाभ्यर्च्य नमस्कुर्य्यात् | अन्यथा दोषः | यदाहुः || तृषार्त्तान्तः पशुर्बद्धः कन्यका च रजस्वला | देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् | मन्त्रतन्त्रप्रकाशे || स्मृत्युक्तेन विधानेन सम्यक् शौचं विधाय च | प्रक्षाल्य पादावाचम्य कृत्वा न्यासं यतात्मवान् | प्रविश्य देवतास्थानं निर्माल्यमपकृष्य च | दद्याद् पुष्पाञ्जलिं विद्वानर्घ्यपाद्ये तथैव च | मुखप्रक्षालनं दद्याद् दद्याद्वै दन्तधावनम् | दद्यादाचमनीयञ्च दद्याद्वासोऽमलं शुभम् || सम्मार्जनन्तु योगिनीतन्त्रे तृतीयभागे नवपटले || सम्मार्जनं प्रवक्ष्यामि तत् शृणुष्व वरानने ! | यां गतिं पुरुषा यान्ति स्त्रियो वा कर्मनिश्चिताः | यावद्धूलिनिःसृताश्च भूमिसम्मार्जने प्रिये ! | तावद्वर्षसहस्राणि सप्तद्वीपे महेश्वर इति | विधिनिषेधद्रव्यमपि तत्रैव || न काष्ठेन न पत्रेण न कुशेन कदाचन | वस्त्रेण तृणगुच्छेन वीरणेन नलेन च | मार्जयेद्वर्जयेद् गुच्छं कुशकाशांश्च वर्जयेत् | इति देवगृहसम्मार्जनम् | प्. ३१३) उपलेपनमपि तत्रैव || मृद्गोमयेन वै भूमेः क्रियते लेपनं प्रिये ! | एकेनैवोपलेपेन स योन्यां नैव जायते | स्नात्वावलेपने देवि ! सलिलं यो ददाति च | तस्य पुण्यं महाभागे ! शृणु तत्त्वेन न सुन्दरि ! | यावन्ति जलबिन्दूनि लिप्यमानस्य सुन्दरि ! | तावद्वर्षसहस्राणि स्वर्गलोके महीयते | मृत्तोयैः प्रोक्सणं कुर्य्याद्देवस्य च विलेपनम् | सर्वपापविनिर्मुक्तो वारुणं लोकमश्नुते | इत्युपलेपनम् | ततः स्तवनमात्रेण नमस्कुर्य्याद् यथा विश्वसारतन्त्रे तृतीयपटले || ईश्वर उवाच || प्रातरेव समुत्थाय हस्तपादौ विशुध्य च | उत्तराभिमुखीभूय कुर्य्याद्भक्त्या गुरोर्नतिम् | मनसा वचसा वापि कायेन च विशेषतः |
SKक्षेत्रेशं वास्तुराजञ्च विघ्नराजं ततः परम् | दुर्गां विनायकं शम्भुं भैरवं वटुकान्वितम् | ब्रह्माणं नैर्-ऋतिञ्चैव चक्रपाणिं नमेत् सदा | विघ्नेभ्यो विघ्ननाथेभ्य ऋषिभ्योऽपि नभेत्ततः | देवेभ्यो वेदशास्त्रेभ्यो वेदार्थेभ्यश्च वै नमः | रामायणेभ्यो भागवतेभ्यः पुराणेभ्यः सदा प्रिये ! | ब्राह्मणेभ्यो गुरुभ्यश्च योगिनीभ्यो विशेषतः | यतिभ्यो मनुवंशेभ्यो मनुष्येभ्यो नमेत् सदा | वृक्षेभ्य ओषधिभ्यश्च लतागुल्मेभ्य एव च | कुलाचलेभ्यो दिग्भ्यश्च दिक्पालेभ्यो नमो नमः | संहिताभ्यः शिवेभ्यश्च रुद्रेभ्योऽपि नमो नमः | योगेभ्यः करणेभ्यश्च तिथिभ्यस्तेभ्य एव च | दिवसेभ्यश्च पक्षेभ्यः सर्वकालेभ्य एव च | योगिनीभ्योऽपि कालेभ्यः प्रणमेत् सर्वकालतः | क्षणेभ्यो निमिषेभ्यश्चं कर्मभ्यः कारणेभ्यश्च | पीठेभ्यः सागरेभ्यश्च तीर्थेभ्योऽपि नमो नमः | नदीभ्यः कर्मयोगेभ्यो मन्त्रेभ्यः प्रणमेत् पुरा | वृक्षेभ्य ओषधिभ्यश्च लतागुल्मेभ्य एव च | कृत्रिमाकृत्रिमेभ्यश्च ह्रदेभ्यः प्रणमेत् सदा | जीवेभ्यः सर्वभावेभ्यो रसेभ्योऽपि विशेषतः | पुष्पेभ्यश्च प्रणम्याथ चागमेभ्यो नमेत्ततः | भाष्येभ्यश्चार्थशास्त्रेभ्य आख्यानेभ्यो नमेत् सदा | प्. ३१४) अस्त्रेभ्यः सर्वशास्त्रेभ्यो मातृकाभ्यश्च पार्वति ! | पुरुषेभ्यश्च शक्तिभ्यो धर्मशास्त्रेभ्य एव च | भूतेभ्यः पञ्चभूतेभ्यो महाभूतेभ्य एव च | ज्योतिर्भ्यो ज्योतिषेभ्यश्च आचार्य्येश्च पार्वति ! | श्रुतिभ्यश्च प्रणम्याथ ऋतुभ्यः प्रणमेत् सदा | वर्णेभ्यो वर्णशक्तिभ्यः कलाभ्यः प्रणमेत् सदा | सब्रह्मविष्णुरुद्रेभ्यो मुद्राभ्यः प्रणमेत् सदा | स्थानेभ्यः स्थानदेवेभ्यः सर्वकालात्मने नमः | विघ्नेभ्यः कालपीठेभ्यो योगिनीगणपालिके ! | भैरवेभ्यस्तत्पत्नीभ्यो मातृमण्डलचक्रके | रत्नेभ्यश्च स्वरेभ्यश्च देवीप्रीतिकरेश्वपि | एवं प्रणम्य देवेशि ! ध्यायेद्देवीं विचक्षणः | प्रान्तरे वा श्मशने वा शून्यवासे तथा गृहे | अद्वैतभावनां कुर्य्याद् ब्रह्माण्डसदृशीं तनुम् |
SKआधारशक्तिं सञ्चिन्त्य पङ्कजद्बयधारिणीम् | तन्मूर्द्ध्नि चिन्तयेद्देवि ! कूर्मरूपं जनार्दनम् | नीलमेघनिभं देवं सर्वतत्त्वसमन्वितम् | तस्य पृष्ठे स्थितं देवमनन्तं चिन्तयेद्धिया | सहस्रफणसंयुक्तं शुद्धस्फटिकसन्निभम् | ककुदंसे हलं ध्यायेन्मुद्गरं वामपार्श्वके | एककुण्डलरत्नेन भूषणेनातिभूषितम् | एकचक्रस्य उपरि पृथिवीं चिन्तयेद्धिया | यथा पृथिव्याः सिद्ध्यर्थं तथेमां चिन्तयेत् सुधीः | कृष्णवर्णां शुकव्रीहिभुजयुग्मेन भूषिताम् | तत्रापि मण्डपं ध्यायेन्मनसा मणिभूषितम् | तत्र कल्पतरुं ध्यायेत् सर्ववाञ्छाफलप्रदम् | तदधःस्थं चिन्तयेच्च स्वर्णसिंहासनं महत् | तत्र सञ्चिन्तयेद्देवीं हृत्पद्मस्थां सुरेश्वरीम् || इति छिन्नमस्ताया विशेषः | यद्यपि सुरीक्रमस्तव एव फलमुक्तं न तु छिन्नग्रस्तादीनां तथाप्येकत्र निर्णीतः शास्त्रार्थो बाधकमन्तरेणान्यत्रापि तथेति न्यायात् सर्वत्र क्रमस्तवे तत्फलमुन्नेयम् | अन्यथा क्रमस्तवस्यानित्यत्वप्रसङ्गः स्यादिष्टापत्तिरिति चेन्न | प्राचीननिबन्धृभिरलिखितस्य तच्छङ्केति | दक्षिणकाल्यास्तु || ब्राह्म्ये मुहूर्ते उत्थाय हस्तपादौ विशुद्ध्य च | प् ३१५) पूर्वोक्तञ्च गुरुध्यानं कुर्यात् साधकसत्तमः | प्रणम्य विधिवद्देवीं ध्यायेत्तां वै सनातनीम् | अष्टोत्तरसहस्रं हि जपित्वा विधिनामुना | क्रमस्तवं पठेन्नित्यं विधिनानेन देशिकः | ॐ नमो गुरुभ्यो देवेभ्यस्तथा परतराय च || परापरेभ्यस्तद्वच्च तथा परात्पराय च | क्षेत्रपालं नमस्मृत्य द्वारदेवान् विधानतः | लक्ष्मीं सरस्वतीं दुर्गां गङ्गां गोदावरीं तथा | भोगवतीं नमस्कृत्य वास्तुदेवान्नमेत्तदा | विघ्नराजञ्च वास्त्वीशं क्षेत्रेशं प्रणमाम्यहम् | नैर्-ऋतञ्चैव ब्रह्माणं ब्रह्मकर्मात्मकं प्रिये ! | विघ्नान् प्रणम्य विधिना तान् देवांश्च नमेत्ततः | आधारशक्तिं तां नत्वा प्रङ्कजद्वयधारिणीम् | नीलवर्णां महामायां द्वादशाक्षररूपिणीम् | ततो धर्मगणैः सेव्यां तां देवीं शक्तिरूपिणीम् |
SKनीलवर्णं महाकायं कूर्मं हिमाद्रिसंस्थितम् | सर्वशक्तितनुं विष्णुं कूर्माकारं नमाम्यहम् | तस्य पृष्ठे स्थितं देवमनन्तं तं नमाम्यहम् | सहस्रफणसंयुक्तं सर्पाकारं हरिं नमः | हिमाद्रिसदृशं विष्णुं एकदण्डधरं विभुम् | फणासहस्रैर्मणिभिर्भूषितं तं नमाम्यहम् | तस्य कुक्षगतं ध्यायेल्लाङ्गलञ्चाशुभावहम् | मुद्गरं वामभागे च तत्रैकादशसंयुतम् | तस्य मूर्द्ध्निस्थितं ध्यायेद्वराहं विष्णुमव्ययम् | एकदन्तं महाकायं कालमेघसमप्रभम् | तस्य दन्ते सदा ध्यायेत् पृथिवीं पद्मपायिनीम् | नीलवर्णां महादेवीं शालिशूकविभूषिताम् || अणिमादिगुणैर्युक्तां सर्वतत्त्वविभूषिताम् | तस्या मूर्द्ध्नि सदा ध्यायेत् समुद्रान् रत्नसंयुतान् | नानापर्वतसंयुक्तां पृथिवीं चिन्तयेद्धिया | पर्वतांश्चिन्तयेत्तस्यां सर्वत्र कुलभूषितान् | दिग्गजेभ्यो नमस्कृत्य योगेभ्यः प्रणमेत् सदा | मुनीन्द्रेभ्य ऋषिभ्यश्च योगशास्त्रधराय च | शाक्तेभ्यो वैष्णवेभ्यश्च शैवेभ्यः प्रणमेत् सदा | यन्त्रेभ्यो मन्त्रदेवेभ्यः सर्वशास्त्रपराय च | चन्द्राय चन्द्रवंशेभ्यः सूर्य्यवंशेभ्य एव च | प्. ३१६) मनुवंशमनुष्येभ्यः पञ्चभूतेभ्य एव च | महाभूतेभ्यो भूतेभ्यः कलाभ्यः प्रणमेत् सदा | रसेभ्योऽपि नमस्कृत्य गन्धेभ्यं प्रणमेत् सदा | पुष्पेभ्यः पुष्पहासेभ्यो गन्धर्वेभ्यो नमो नमः | यक्षेभ्यो भूतवर्गेभ्यः प्रेतेभ्यं सर्वकर्मसु | शब्दब्रह्मस्वरूपेभ्यः प्रणमामि सदा प्रिये ! | रुद्रेभ्यो रुद्रवंशेभ्यो भैरवेभ्यो नमो नमः | लिङ्गेभ्यो लिङ्गदेवेभ्यो वेदशास्त्रेभ्य एव च | वेदेभ्योऽपि च शास्त्रेभ्यस्तेभ्यो नित्यं नमो नमः | स्थावरेभ्यो नमस्कृत्य ऋषिभ्यः प्रणमेत् सदा | प्रणमामि सदार्थेभ्यो वेशेभ्योऽपि नमो नमः | मन्त्रेभ्योऽपि नमस्कृत्य मन्त्रार्थेभ्यो नमो नमः | पूजोपकरणेभ्यश्च ब्राह्मणेभ्यो नमो नमः | योगिनीभ्यो नमस्कृत्य शक्तिभ्योऽपि नमो नमः | रत्नेभ्योऽपि नमस्कृत्य नदीभ्यः प्रणमेत् सदा |
SKपीठेभ्योऽपि नमस्कृत्य मातृभ्यः प्रणमेत् सदा | अन्नेभ्योऽपि नमस्कृत्य इन्द्रेभ्योऽपि नमो नमः | क्षेत्रेभ्योऽपि नमस्कृत्य क्षेत्रपालेभ्य एव च | कुलाचलेभ्यो नत्वा तु प्रादुर्भावेभ्य एव च | उक्तानुक्तञ्च यत् किञ्चित्तेभ्यो नित्यं नमो नमः | ॐ नमामि कालिकां देवीं कलिकल्मषनाशिनीम् | नमामि शम्भुपत्नीञ्च नमामि भवसुन्दरीम् | आद्यां देवीं नमस्कृत्य नमस्त्रैलोक्यमोहिनीम् | नमामि सत्यसङ्कल्पां सर्वपर्वतवासिनीम् | पार्वतीञ्च नमस्कृत्य नमो नित्यं नगात्मजे ! | मातस्त्वदीयचरणं शरणं सुराणां ध्यानास्पदैर्दिशति वाञ्छितवाञ्छनीयम् | येषां हृदि स्फुरति तच्चरणारविन्दं धन्यास्त एव नियतं सुरलोकपूज्याः | गन्धैः शुभैः कुङ्कुमपङ्कलेपैर्मातस्त्वदीयं चरणं हि भक्ताः | स्मरन्ति शृण्वन्ति लुठन्ति धीरास्तेषां जरा नैव भवेद्भवानि ! | तवाङ्घ्रिपद्मं शरणं सुराणां परापरा त्वं परमा प्रकृष्टिः | दिने दिने देवि ! भवेत् करस्थः किमन्यमुच्चैः कथयन्ति सन्तः | कवीन्द्राणां दर्पं करकमलशोभापरिचितं विधुन्वज्जङ्घा मे सकलगणमेतद्गिरिसुते ! | प्. ३१७) अतस्त्वत्पादाब्जं जननि ! चेतसि मम हितं नारीभूतं प्रणिहितपदं शाङ्करमपि | ये ते दरिद्राः सततः हि मातस्त्वदीयपादं मनसा नमन्ति | देवासुराः सिद्धवराश्च सर्वे तव प्रसादात् सततं लुठन्ति || हरिस्त्वत्पादाब्जं निखिलजगतां भूतिरभवत् शिवो ध्यात्वा ध्यात्वा किमपि परमं तत्परतरम् | प्रजानां नाथोऽयं तदनु जगतां सृष्टिविहितं किमन्यत्ते मातस्तव चरणयुग्मस्य फलता || इन्द्रः सुराणां शरणं शरण्ये ! प्रजापतिः काश्यप एव नान्यः | वरः पतिर्विष्णुभवः परेशि ! त्वदीयपादाब्जफलं समस्तम् || त्वदीयनाभीनवपल्लवे वा नवाङ्कुरैर्लोमवरैः प्रफुल्लम् | सदा वरेण्ये ! शरणं विधेहि किंवापरं चित्तवरैर्विभाव्यम् | त्वदीयपादार्चितवस्तुसम्भवः सुरासुरैः पूज्यमवाप शम्भुः | त्वदीयपादार्च्चनतत्परो हरिः सुदर्शनाधीश्वरतामुपालभत् |
SKधरित्री गन्धरूपेण रसेन च जलं धृतम् | तेजो वह्निस्वरूपेन प्रणवे ब्रह्मरूपधृक् | मुखं चन्द्राकारं त्रिभुवनपदे यामसहितं त्रिनेत्रं मे मातः ! परिहरति यः स्यात् स तु पशुः | न सिद्धिस्तस्य स्यात् सुरतसततं विश्वमखिलं कटाक्षैस्ते मातः ! सफलपदपद्मं स लभते || क्रतुस्त्वं हविस्त्वं स्वधा त्वं मुरारेः पुरा त्वं परा त्वं सदाशीर्मुरारेः | हरस्त्वं हरिस्त्वं शिवस्त्वं शिवानां गतिस्त्वं गतिस्त्वं गतिस्त्वं भवानि ! || नवाहं नवा त्वं नवा वा क्रियाया वरस्त्वं चरुस्त्वं शरण्यं धरायाः | नदस्त्वं नदी त्वं गतिस्त्वं निधीनां सुतस्त्वं सुता त्वं पिता त्वं गृहिणाम् || त्वदीयमुण्डाख्य भवानि ! मालां विधाय चित्ते भवपद्मजादयः | सुराधिपत्वं लभते मुनीन्द्रः शरण्यमेतत् किमपीह चान्यत् | नरस्य मुण्डञ्च तथा हि खड्गं भुजद्वये ये मनसा जपन्ति | सव्येतरे देवि ! वराभयञ्च भवन्ति ते सिद्धजना मुनीन्द्राः | शिवोपरि त्वां हृदये निधाय जपन्ति विद्यां हृदये कदाचित् | प्. ३१८) सदा भवेत् काव्यरसस्य वेत्ता अन्ते पदद्वन्द्वमुपाश्रयेत || दिगम्बरीं त्वां मनसा विचिन्त्य जपेत् पराख्यां जगतां जनीति | जपेत्पराख्यां जगतां मतिश्च किंवा पराख्याशरणं भवामः | शिवाविरावैः परिवेष्टितां त्वां निधाय चित्ते सततं जपन्ति | भवेय देवेशि ! परापरादिनिरीशतां देवि ! परा वदन्दि || त्वदीयशृङ्गाररसं निधाय जपन्ति मन्त्रं यदि वेदमुख्याः | भवन्ति ते देवि ! जनापवादं कविः कवीनामपि चाग्रजन्मा || विकीर्णवेशां मनसा निधाय जपन्ति विद्यां चकितं कदाचित् | सुधाधिपत्यं लभते नरः स किमस्ति भूम्यां सृणु कालकालि ! || त्वदीयवीजत्रयमातरेतज्जपन्ति सिद्धास्तु विमुक्तिहेतोः | तदेव मातस्तव पादपद्मगा भवन्ति सिद्धिश्च दिनत्रयेऽपि || त्वदीयकूर्च्चद्वयजापकत्वात् सुरासुरेभ्योऽपि भवेच्च वर्णः | धनित्वपाण्डित्यमयन्ति सर्वे किं वा परां देवि ! परापराख्या ||
SKत्वदीयलज्जाद्वयजापकत्वाद्भवेन्महेशानि ! चतुर्थसिद्धिः | त्वदीयसत्सिद्धिवरप्रसादात्तवाधिपत्यं लभते नरेशः || ततः स्वनाम्नः शृणु मातरेतत् फलं चतुर्वर्ग वदन्ति सन्तः | वीजत्रयं वै पुनरप्यु पास्य सुराधिपत्यं लभते मुनीन्द्रः || पुनस्तथा कूर्च्चयुगं जपन्ति नमन्ति सिद्धा नरसिंहरूपाः | ततोऽपि लज्जाद्वयजापकत्वाल्लभन्ति सिद्धिं मनसो जनास्ते | अन्ते पदं क्षिप्य विभा विभावसोस्त्वन्मन्त्रमुद्धारमिदं वदन्ति || त्रिपञ्चारे चक्रे जननि ! सततं सिद्धिसहितां विचिन्वन् सञ्चिन्वन् परमममृतं दक्षिणपदम् | सदा कालीं ध्यात्वा विधिविहितपूजापरिकरा विशेषाख्यानं ते न खलु भवभङ्गाभयपदः || त्वं श्रीस्त्वमीश्वरी काली त्वं ह्रीस्त्वञ्च करालिका | लज्जा लक्ष्मीः सती गौरी नित्याचिन्त्या चितिः क्रिया || परा आद्या पराख्या च परमा परमा वसुः | अकुल्याद्यैश्चित्ते प्रचयपदपद्यैः पदयुतैः सदा जप्त्वा स्तुत्वा जपति हृदि मन्त्रं मनुविदा | प्. ३१९) न तेषां संसारे विभवपरिभङ्गप्रमथने क्षणं चित्तं देवि ! प्रभवति विरुद्धे परिकरम् || त्रयस्त्रिंशैः श्लोकैर्यदि जपति मन्त्रं स्तवति च नमेच्चैतानेतान् परममृतकल्पं सुरवरम् | भवेत् सिद्धिः शुद्धौ जगति शिरसा त्वत्पदयुगं प्रणम्य प्राकाम्यं वरसुरजनैः पूज्यविततिम् || इति विश्वसारतन्त्रे दक्षिणकालिकाक्रमस्तोत्रं नाम चतुर्थः पटलः || यासां यासां क्रमस्तोत्रं तासां तासां दक्षिणाप्रकृतिकत्वेनापवादविषयम् परित्यज्योत्सर्गस्य प्रवृत्तित्वात् दक्षिणकालिकाक्रमस्तोत्रपाठेनैव तत्फलनिर्वाहः | सम्प्रति गुह्यकाल्या अपि विशेष उक्तस्तत्रैव षष्ठपटले तत्कवचात् परम् || क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने ! | ब्राह्म्ये मुहूर्ते उत्थाय गुरुदेवान्नमेत् सदा | वारुणीमुखमाश्रित्य नमस्कुर्यादुपर्य्यधः | गुरुभ्योऽपि नमो नित्यं नमस्तत्पादुकाय च | परं परेभ्यश्च परापरेभ्यः परात्परेभ्योऽपि नमोऽस्तु ते च | आधारशक्तिं नमस्कृत्य कुलाचलान्नमस्कुर्य्यात् |
SKधर्म्मकर्म्मणे नमस्कृत्य कूर्म्मराजाय वै नमः | अनन्ताय नमो नित्यं वराहाय नमो नमः | पृथिव्यै च नमो नित्यं कुलाचलेभ्यो नमो नमः | समुद्रेभ्यो नमो नित्यं सरत्नैरमृतैर्जलैः | कुलवृक्षेभ्यो नमो नित्यं कल्पवृक्षेभ्यो नमो नमः | स्वर्णसिंहासनेभ्यश्च मणिवेद्यै नमो नमः | चतुर्दिशि नमस्कुर्य्यात् सर्वदेवान् नमस्ततः | वेदेभ्योऽपि नमो नित्यं वेदार्थेभ्यो नमो नमः | शाखाभ्यस्तस्य वै नित्यं तत्पादेभ्यो नमो नमः | तद्वर्णेभ्यो नमो नित्यं वर्णार्थेभ्यो नमो नमः | असंस्कारपदेभ्यश्च नमो वै परमात्मने | विद्याभ्योऽपि नमो नित्यमविद्याभ्यो नमो नमः | शास्त्रेभ्योऽपि नमो नित्यमशास्त्रेभ्यो नमो नमः | धर्मेभ्योऽपि नमो नित्यमधर्मेभ्यो नमो नमः | भागवतेभ्यो नमो नित्यं विद्याभ्योऽपि नमो नमः | प्. ३२०) श्रुतिभ्योऽपि नमो नित्यं श्रुत्यर्थेभ्यो नमो नमः | श्रीरामभागवतेभ्यश्च दण्डवत् प्रणमेत् सदा | भागवतेभ्यो नमो नित्यं भागवतार्थेभ्यो नमो नमः | तत्त्वार्थेभ्यो नमो नित्यं तत्त्वेभ्योऽपि नमो नमः | योगेभ्योऽपि नमो नित्यं योगार्थेभ्यो नमो नमः | संहिताभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः | मातृकाभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः | कलाभ्योऽपि नमो नित्यं शक्तिभ्योऽपि नमो नमः | स्वरेभ्योऽपि नमो नित्यं रागेभ्योऽपि नमो नमः | रागिणीभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः | अस्त्रेभ्योऽपि नमो नित्यं शस्त्रेभ्योऽपि नमो नमः | जीवेभ्योऽपि नमो नित्यं वीजेभ्योऽपि नमो नमः | भूचरेभ्यो नमो नित्यं खेचरेभ्यो नमो नमः | योगेभ्योऽपि नमो नित्यं करणेभ्यो नमो नमः | मुहूर्तेभ्यो नमो नित्यं यामेभ्योऽपि नमो नमः | ऋतुभ्योऽपि नमो नित्यं वत्सरेभ्यो नमो नमः | डाकिनीभ्यो नमो नित्यं रुद्रेभ्योऽपि नमो नमः | भूतेभ्योऽपि नमो नित्यं प्रेतेभ्योऽपि नमो नमः | यक्षेभ्योऽपि नमो नित्यं विघ्नेभ्योऽपि नमो नमः | भूतेभ्योऽपि नमो नित्यं महाभूतेभ्यो नमो नमः |
SKआचार्येभ्यो नमो नित्यं शङ्करेभ्यो नमो नमः | वैष्णवेभ्यो नमो नित्यं ये च मायाविमोहिताः | मायायै प्रणमेन्नित्यं प्रत्त्वेभ्योऽपि नमो नमः | शरीरेभ्यो नमो नित्यं व्यापकेभ्यो नमो नमः | मन्त्रेभ्योऽपि नमो नित्यं यन्त्रार्थेभ्यो नमो नमः | नमो वर्णात्मिकाभ्यश्च देवताभ्यो नमो नमः | तत्पदेभ्यो नमो नित्यं सत्पदेभ्यो नमो नमः | भावनाभ्यो नमो नित्यं भावशास्त्रेभ्य एव च | स्तवेभ्यः कवचेभ्यश्च नामभ्योऽपि नमो नमः | आगमेभ्यो नमो नित्यं तदर्थेभ्यो नमो नमः | तत्क्रियाभ्यो नमो नित्यं श्रेष्ठशास्त्रेति कीर्त्त्यते | रसेभ्योऽपि नमो नित्यं गन्धेभ्योऽपि नमो नमः | प्. ३२१) पीठेभ्योऽपि नमो नित्यं तत्स्थेभ्योऽपि नमो नमः | सत्त्वेभ्योऽपि नमो नित्यं राजसेभ्यो नमो नमः | तामसेभ्यो नमो नित्यं गुणेभ्योऽपि नमो नमः | सर्वविद्यावतारेभ्यः सिद्धेभ्योऽपि नमो नमः | आनन्दकन्दाय नमस्कृत्य कन्दनाय नमो नमः | सर्वतत्त्वात्मकमलाय प्रकृतिपत्रेभ्य एव च | सिद्धपीठाय सत्त्वस्य शवरूपशिवाय च | त्रिपञ्चाराय चक्राय नमो नित्यं नमो नमः | तत्रस्थायै कालिकायै गुह्यायै कामरूपिण्यै | गुरुकुलादिशक्तिभ्यः कालिकायै नमो नमः | नमो नमो नमस्तेऽस्तु परापराभ्यो नमो नमः | विशालनेत्रां सुरसङ्घवन्दितां सुरासुराभ्यर्च्चितपादपद्माम् | नृमुण्डमालाकलिताशताङ्गैः परावरे ते प्रभवन्ति सिद्धाः || स्थूले केचित् प्रवदन्ति सिद्धाः सूक्ष्मेति केचिन्मुनयो वदन्ति | तामम्बिकां नौमि विशालनेत्रसुमङ्गलं धेहि मदीयदेहे || त्वदीयपादाम्बुजमेवमेतत् निषेव्य सिद्धाः प्रभवं प्रयान्ति | मातस्तवायं पापात् सर्वशोकदुःखाज्जगज्जनरम्ये | ये त्वा ध्यायेयुर्मनसि विधानाः सर्वे ते सकलफलाः || इति विश्वसारतन्त्रे गुह्यकाल्याः क्रमस्तवो नाम षष्ठपटले || अथ त्रिपुरासुन्दर्य्याः क्रमस्तवः सप्तमपटले || क्रमस्तवं प्रवक्ष्यामि शृणुष्व कमलानने ! | ॐ गुरुभ्यो नमो नित्यं परात्परतराय च |
SKपरापरेभ्यः परेभ्यश्च नमो नित्यं नमो नमः | गोभ्यो नमो ब्राह्मणेभ्यो ब्रह्मपुत्रेभ्यो वै नमः | मुनिभ्यो मुनिपत्नीभ्यो मुनिपुत्रेभ्यो वै नमः | दिग्भ्यो नमो दिक्पतिभ्यो दिगम्बरेभ्यश्च वै नमः | भ्रमणेभ्यो नमो नित्यं रसनाभ्यश्च वै नमः | वेदेभ्यो वेदशास्त्रेभ्यो वेदार्थेभ्यो नमो नमः | भागवतेभ्यो नमो नित्यं श्रीभागवतेभ्यो नमो नमः | श्रीरामभागतेभ्यो नमो नित्यं भागवतेभ्यो नमो नमः | तीर्थेभ्यः पर्वतेभ्यश्च पीठेभ्यः सततं नमः | योगिभ्यो योगिनीभ्यश्च योगादिभ्यश्च वै नमः | प्. ३२२) ध्यानेभ्यो मन्त्रवर्णेभ्यो मातृकाभ्यो नमो नमः | आचार्य्येभ्यो नमो नित्यं भैरवेभ्यो नमो नमः | रुद्रेभ्यो रुद्रपत्नीभ्यो गन्धर्वेभ्यो नमो नमः | किन्नरेभ्यः पिशाचेभ्यः कुष्माण्डेभ्यो नमो नमः | अवतारेभ्यो मूर्त्तिभ्य आदित्येभ्यो नमो नमः | नमः संवत्सरेभ्यश्च दिवसेभ्यो नमो नमः | नक्षत्रग्रहयोगेभ्यः करणेभ्यश्च वै नमः | तिथिभ्यः सर्वकालेभ्य ऋतुभ्योऽपि नमो नमः | ककाराद्यैर्महादेव्यै कालिकायै नमो नमः | एकारस्थां महादेवीं सर्वाधारस्वरूपिणीम् | ईकारस्थां महादेवीं रतिं कामाङ्गसुन्दरीम् | लकारस्थमहादेव्यै इन्द्राण्यै सर्वसिद्धये | हकारस्थ महादेव्यै शिवायै सर्वतो नमः | एतैर्वर्णैर्महामाया पातु मां सुन्दरी शुभा | सकारस्था महामाया सावित्री पातु मां सदा | शिव मां पातु देवेशी हकाराद्या सुरेश्वरी | शिवानी सर्वदा पातु हकारस्था महोदया | वकारस्था महादेवी पातु मां कामदायिनी | लकारस्था मकुदेवी इन्द्राणी पातु सर्वदा | सर्वाङ्गं पातु मां देवी सर्वाणी सर्वसुन्दरी | एतैर्वर्णैर्महामाया पातु मां सुन्दरी सदा | ककारस्था महामाया ब्रह्माणी पातु मां सदा | हकारस्था शिवा पातु सर्वत्र शिवदूतिका | ककारस्था शिवा पातु हकारस्था सुरेश्वरी | सकारस्था सदा पातु सावित्री शर्मदायिनी | लकारस्था महादेवी लक्ष्मीर्मां सर्वदावतु | भुवनेशी सदा पातु सर्वाङ्गे भवसुन्दरी |
SKअनन्ता सर्वदा पातु अकारस्था सुरेश्वरी | अकाराद्या सदा पातु शिवदूती सुरेश्वरी | सकारस्था सदा पातु कामिनी कामदायिनी | लकारे पातु मां सर्वक्षेत्रे त्रिभुवनेश्वरी | लकारस्था सदा पातु इन्द्राणी सर्वदा मम | मकारस्था सदा पातु सर्वत्र मां सुरेश्वरी | एभिर्वर्णैः स्थिता देवी पातु मां भुवनेश्वरी | शिवानी मां सदा पातु सर्वत्र हरसुन्दरी | चन्द्रवीजस्थिता विद्या सावित्री शम्भुरूपिणी | प्. ३२३) पातु मां सर्वक्षेत्रेषु देवता भुवनेश्वरी | एतैर्वर्णैर्महामाया पञ्चविंशतिवर्णिका | भुवनेशी सदा पातु सर्वाङ्गे त्रिपुराम्बिका | सर्ववीजेषु सर्वत्र योजयेद्भुवनेश्वरीम् | सर्वाङ्गे मां सदा पातु देवी त्रिभुवनेश्वरी | शिखायां भ्रूयुगे चाक्ष्णोरोष्ठयोर्गण्डयोर्नसि | तथा च चिवुके दन्ते जिह्वायां तालुमूलके | हृदये पार्श्वयुगले पृष्ठे नाभौ तथोदरे | नितम्बे च तथोपस्थे गुह्ये च जानुयुग्मके | जानुचक्रे च जङ्घायां कटिके पादके पुनः | सर्वाङ्गे पातु मां देवी श्रीमत्त्रिपुरसुन्दरी | शास्त्रे वादे च संग्रामे राजद्वारे सुरार्च्चने | प्रान्तरे गिरिदुर्गे च शत्रुमध्ये तथापरे | चौरे व्याघ्रे च सिंहे च विषमादिभयादिषु | अत्यन्तरोगयुक्तेषु पातु मां त्रिपुराम्बिका | सुन्दरी पातु सर्वत्र सुन्दरी परिरक्षतु | इदं त्रिपुरसुन्दर्य्याः क्रमस्तोत्रमुदाहृतम् | यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् | शठाय भक्तिशून्याय निन्दकाय महेश्वरि ! | न्यूनाङ्गे चातिरिक्ताङ्गे दर्शयेन्न कदाचन | शूद्राय न च दद्याच्च स्तवराजं महेश्वरि ! | वदेद्वा दर्शयेद्वापि शङ्करेण च भाषितम् | श्लोकं वा स्तवमेकं वा पूजयेद्वा पठन्नपि | ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः | सर्वमाशु तरत्येव स्तवस्यास्य प्रसादतः | अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् | अरोगी बलवांश्चैव जायते स्पर्शनादपि | किमन्यद्बहुना देवि ! यद्यद्वाञ्छितमात्मनः | तत्सर्वं लभते देवि ! स्तवस्यास्य प्रसादतः || इति विश्वसारतन्त्रे त्रिपुरासुन्दरीक्रमस्तवः समाप्तः |
SKइति श्रीप्राणतोषिण्यां तृतीयेऽर्थकाण्डे प्रातःकृत्यविधिरूपशाखाकथनं नाम द्वितीयः परिच्छेदः | जामले || स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् | तस्मात् स्नानं निषेवेत श्रीपुष्ट्यारोग्यवर्द्धनम् | एतद्वचनं मत्स्यसूक्ते दशमपटलेऽपि || स्नानाकरणे दोष उक्तो राघवभट्टेन || प्. ३२४) यतश्चाशुचिवस्त्रमस्नानमनलङ्कारं पुरुषं देवता नाधितिष्ठन्तीति || स्नानभेदमाह रुद्रजामले उत्तरखण्डे एकविंशतिपटले || स्नानन्तु द्विविधं प्रोक्तं मज्जनं गात्रमार्ज्जनम् | मन्त्रजलादिभिः स्नानमुत्तमं परिकीर्त्तितम् || तत्प्रकारं शृणु प्राणवल्लभ ! प्रियकारणम् || विश्वसारतन्त्रे द्वितीयपटले || मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च || वारुणं मानसञ्चैव सप्तस्नानं प्रकीर्त्तितम् | एवं स्नात्वा विधानेन शुचिर्भवति नान्यथा || तत्र मान्त्रस्नानादिकं विशेषयति तत्रैव || आपो हिष्ठादिभिर्मान्त्रं भौमं देहप्रमार्ज्जनम् | आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् | यत्तदातपवर्षेण स्नानं दिव्यमिहोच्यते | वारुणञ्चावगाहः स्यान्मानसं विष्णुचिन्तनम् | तत्र मन्त्रस्नानं द्विविधमान्तरं वाह्यञ्च | तत्र वैष्णवस्नानमान्तरमुक्तम् वशिष्ठसंहितायाम् | अनन्तादित्यसङ्काशं वासुदेवं चतुर्भुजम् | शङ्खचक्रगदापद्ममुकुटं वनमालिनम् | द्वादशार्णाम्बुजगतं ध्यायेन्नारायणं विभुम् || विश्वसारतन्त्रे द्वितीयपटले || खस्थितं पुण्डरीकाक्षं मूर्त्तिमन्तं प्रभुं स्मरन् | तत्पादोदकजां धारां निपतन्तीं स्वमूर्द्धनि | चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तं स्वकां तनुम् | तया संक्षालयेत् सर्वमेतद्देहगतं मलम् | तत्क्षणाद्विरजो मन्त्री जायते स्फटिकोपमः | इदं स्नानवरं मन्त्रात् सहस्रमधिकं स्मृतमिति || इति वैष्णवान्तरस्नानम् || शाक्तमभ्यन्तरस्नानमुक्तं श्रीपञ्चमीमते || स्नानप्रकारो द्विविधो वाह्याभ्यन्तरभेदतः | आन्तरं स्नानमत्यन्तं रहस्यमपि सादरात् | कथयामि भवध्वस्त्यै चतुर्वर्गफलाप्तये |
SKसंवित्त्रयमनुस्मृत्य चरणत्रयमध्यतः | स्रवन्तं सच्चिदानन्दप्रवाहं भावगोचरम् | विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् | तेन प्लावितमात्मानं भावयेद्भवशान्तये || इति शाक्ते आन्तरस्नानम् | शैवान्तरस्नानं शैवागमे उक्तम् | मनसा मूलमन्त्रेण प्राणायामपुरःसरम् | प्. ३२५) कुर्वीत मानसस्नानं सर्वत्र विहितञ्च यत् || गन्धर्वतन्त्रे षष्ठपटले || स्नानञ्च त्रिविधं प्रोक्तं सन्ध्या च त्रिविधा स्मृता | आन्तरञ्च भवेद्देवि ! वाह्यं मानसमेव च | मानसं वै भवेत् स्नानं यः सदा शुद्धमानसः | स्पर्शलेपादिके वापि निर्विकल्पः सदैव हि | वाह्यमन्त्रैश्च सम्प्रोक्तमान्तरं शृणु साम्प्रतम् | प्रागुक्तक्रमयोगेन प्राणायामपरो बुधः | शक्तिं परशिवेनैव सङ्गमय्य विधनतः | तदुद्भवामृते शश्वन्निमज्ज्य पुनरेवहीति || अथ नित्यस्नानफलम् मत्स्यसूक्ते दशमपटले || याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति | नित्यस्नानेन पूज्यन्ते येऽपि पापकृतो जनाः | अगम्यागमनात् पापात् पापिभ्यश्च प्रतिग्रहात् | रहस्याचरितात् पापान्मुच्यते स्नानमाचरन् || अथ वाह्यस्नानम् || रुद्रजामले पूर्वखण्डे द्वितीयपटले || नदीसरस्तडागेषु कूपवापीषु वा पुनः | प्रातर्मध्याह्नसायाह्ने नरः स्नायाद् यथाविधि || विश्वसारतन्त्रे द्वितीयपटले || विधिना स्नानमुद्दिश्य कुर्य्यात् पूर्वाह्णिकीं क्रियाम् | नदीं वा देवखातं वा दीर्घिकां सागरं तथा || एतान् प्राप्य स्नानमुद्दिश्य पौर्वाह्णिकीं क्रियां कुर्य्यादित्यन्वयः | नद्यादीनामुद्धृतजलापेक्षया स्थानस्थजलस्य प्राशस्त्यमुक्तम् तत्रैव || गङ्गाद्याः सरितः सर्वाः शस्यन्ते स्थानतो बुधैः | काश्यादिसर्वतीर्थानि भारते यानि सन्ति वै | तानि स्थाने प्रशस्यन्ते सर्वपापहराणि वै || इति वक्ष्यमाणवचने योजनपर्य्यन्तदेशस्य गङ्गात्वात् कैमुतिकन्यायसिद्धं गङ्गाजलस्योद्धृतस्यापि प्राशस्त्यमिति | एवञ्च गङ्गाद्या इत्यत्र तद्गुणसंविज्ञानबहुब्रीहिणा गङ्गाभिन्ना इति ज्ञेयम् || नीलतन्त्रे द्वितीयपटले ||
SKमृत्कुशानपि संगृह्य गत्वा जलान्तिकं ततः | मलापकर्षणं स्नात्वा मन्त्रस्नानं समाचरेत् || शाक्ते कुशान् विशेषयति श्यामारहस्यधृतम् || तर्ज्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया | प्. ३२६) एष एव कुशः शाक्ते न दर्भो वनसम्भवः || इति शाक्तकुशः | महानिर्वाणतन्त्रे पञ्चमोल्लासे || आदावप उपस्पृश्य प्रविशेत् सलिले ततः | नाभिमात्रजले स्थित्वा मलानामपनुत्तये | सकृत् स्नात्वा तथोन्मज्ज्य मन्त्रस्नानमथाचरेत् || एतेन मलापकर्षणं विना सङ्कल्पपूर्वकस्नानमात्रमनुशासनविरुद्धम् | केचित्तु प्रागुक्तविश्वसारवचने पौर्वाह्णिकक्रियानन्तरस्नानदर्शनादकृततत्क्रियास्तैलाभ्यक्ता अपि स्नानात् पूर्वं पौर्वाह्णिककृत्यमाचरन्ति | तन्न मनोरमम् | प्रागुक्तजामलवचनेन क्रियामात्रस्य स्नानमूलकत्वादत एव राघवभट्टेन मन्त्रस्नानं कृत्वा देवगृहमागत्य सम्मार्जनादीत्याद्युक्तम् || नीलतन्त्रे || विद्यया त्रिर्निमज्ज्यैवमाचरेत् पाथसा तथा | पुनर्निमज्ज्य पयसि सङ्कल्पञ्च समापयेत् | इष्टदेव्याः पूजनार्थं कुर्य्यात् स्नानं जलाशये || मन्त्रतन्त्रप्रकाशे || अरुणेऽनुदिते मन्त्री तीर्थे वा विमले जले | वैदिकं स्नानमाचर्य्य तान्त्रिकं स्नानमाचरेत् | इति वैदिकस्नानानन्तरं तान्त्रिकस्नानम् || गन्धर्वतन्त्रे प्रथमपटले || प्रणवं पूर्वमुद्धृत्य तदिति परतस्ततः | सदिति तु समाभाष्य कर्म कुर्य्याद्विचक्षणः | स्मरणात् कर्मणामाद्ये ब्रह्मभूयाय कल्पते | इति तत्सदिति निर्देशफलम् | तोडलतन्त्रे द्वितीयपटले || अद्येत्यादि समुच्चार्य्य सौरमासं समुच्चरेत् | देवताप्रीतये पश्चात् स्नायाच्च शुद्धवारिणा || कुलचूडामणौ || कृष्णरक्तहरिन्नीला विविधा मम मूर्त्तयः | तत्र यः कुलगः शिष्यः स तद्रूपं परामृषन् | दिवं सर्वामथोर्वीञ्च पातालं भूतसम्भवम् | आचान्तः कुलदर्भेण सदर्भकुलपुण्ड्रकः | कुलपात्रं सदूर्वञ्च सतिलं सजलं ततः | गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् | कृतसङ्कल्प एवादौ कुलचक्रं जले न्यसेत् ||
SKकुलपात्रं ताम्रपात्रम् | कुलचक्रं त्रिकोणकमिति सङ्कल्पविधिः || मत्स्यसूक्ते || नित्ये नैमित्तिके काम्ये पितृदैवतकर्मणि | प्. ३२७) सङ्कल्पपूर्वकं कर्म अन्यथा नं फलं स्मृतम् || इति सङ्कल्पाकरणे दोषः || सङ्कल्पार्थं निषिद्धविहितपात्रमपि तत्रैव || शुक्तिशङ्खाश्महस्तैश्च कांस्यरौप्यादिभिस्तथा | सङ्कल्पो नैव कर्त्तव्यो मृण्मयैश्च कदाचन || इति सङ्कल्पे निषिद्धपात्रम् || गृहीत्वौडुम्बरं पात्रं सौवर्णञ्च विशेषतः | सङ्कल्पन्तु बुधः कुर्य्यान्मेध्यपत्रपुटेन वा || इति सङ्कल्पे विहितपात्रं तत्रैव || स्नानकाले तु हस्तेन ताम्रपात्रेण वा ततः | पैतृके श्राद्धपात्रेण दैवे शङ्खः प्रशस्यते || इति कर्म विशेषे पात्रविशेषः || मज्जनप्रकारमाह तत्रैव || स्रोतसोऽभिमुखो मज्जेत् सूर्य्याभिमुखतोऽथ वा | स्मरेन्नारायणं गङ्गामिष्टदेवं ततः परम् | मज्जनं मुक्तकेशेन बध्नीयाच्च शिखां पुनः | ततः कृताञ्जलिर्भूत्वा तीर्थान्यावाहयेत्ततः | ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति | नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु | ब्रह्माण्डे देवतीर्थानि करैः स्पृष्टानि ते रवेः | तेन सत्येन मे देव ! तीर्त्थं देहि दिवाकर ! | प्रियव्रतानि तीर्थानि सूर्य्यरश्मिस्थितानि च | आगत्यार्घ्यं गृहीत्वा च सर्वसिद्धिं प्रयच्छ मे | चतुरस्रं विनिर्माय तत्र स्नानं दिशेत् सुधीः || राघवभट्टधृतम् | आवाहयामि त्वां देवि ! स्नानार्थमिह सुन्दरि ! | एहि गङ्गे ! नमस्तुभ्यं सर्वतीर्थसमन्विता | इति मन्त्रैरङ्कुशमुद्रया आदित्यमण्डलात्तीर्थमावाह्य वमित्यम्भसि संयोज्य सोमसूर्य्याग्निमण्डलानि तत्र सञ्चिन्त्य वमित्यमृतवीजेन द्वादशधा अभिमन्त्र्य कवचेनावगुण्ठ्य अस्त्रेण संरक्ष्य मूलमन्त्रेणैकादशधा अभिमन्त्रयेत् | तत्प्रमाणं वशिष्ठसंहितायाम् || हृन्मन्त्रोऽङ्कुशमुद्राभ्यां तीर्थमाकृष्य मण्डलात् | आवाह्याम्भसि संयोज्य सोमसूर्य्याग्निमण्डलम् | सञ्चिन्त्य मन्त्री तन्मध्ये निमज्जेत् सुसमाहितः |
SKमूलमन्त्रं समावर्त्त्य मनसोल्लिख्यम् चाकृति || ज्ञानार्णवे || प्. ३२८) विन्यस्याङ्गे षडङ्गानि प्राणायामपुरःसरम् | श्रीसूर्य्यमण्डलात्तीर्थमाकृष्याङ्कुशमुद्रया | वमित्यनेन चाप्लाव्य कवचेनावगुण्ठयेत् | संरक्ष्यास्त्रेण मूलेन मन्त्रयेत् रुद्रसंख्यया | निमज्ज्य तस्मिन् श्रीदेवं ध्यायेच्छक्त्या जपेन्मनुम् | मत्स्यसूक्तेऽपि | रुद्रसंख्यं जपेन्मन्त्रमाच्छाद्य मीनमुद्रया | सूर्य्यायाभिमुखं तोयं निक्षिप्य रविसंख्यया | रविसंख्यया द्वादशसंख्याया | मूलमन्त्रं समुच्चार्य्य क्षालयेच्च करद्वयम् | चरणान्निःसृते तोये त्रिर्निमज्ज्य जपेन्मनुम् | अथ मृदालम्भनं विश्वसारतन्त्रे || मृदोदकञ्च गङ्गायां म्रक्षयित्वा विधानतः | स्नानं कुर्वीत विधिना महाकालवचो यथा || मृत्तिकालम्भनप्रकारस्तु मन्त्रतन्त्रप्रकाशे || मूलेनानीय मृत्स्नान्तु त्रिभागं तत्र कारयेत् | भागमेकं जलेनैव क्षिपेन्मन्त्रं समुच्चरन् | एवं मूर्द्धादिनाभ्यन्तं तथैव परिलेपयेत् | तथैव भागान्तरेण परिलेपयेदधोभागमिति शेषः || लेपनप्रकारो मत्स्यसूक्ते || नासाभाले च गण्डे च चिवुके पार्श्वयोः पदे | पृष्ठे नाभ्यूरुजङ्घासु निरग्नेर्मृत्तिकाविधिः || क्षेपणमन्त्रस्तु तत्रैव || इदं विष्णुरिति मन्त्रस्य मेधातिथिर्-ऋषिर्गायत्रीच्छन्दो विष्णुर्देवता तोये मृत्तिकालम्भने विनियोगः | ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पांशुले || गात्रलेपनमन्त्रस्तु विश्वसारे || ॐ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ! | मृत्तिके ! हर मे पापं यन्मया दुष्कृतं कृतम् | ॐ उद्धृतासि वराहेण कृष्णेन शतबाहुना | नमस्ते सर्वदेवानां प्रभवारुणि ! सुव्रते ! | ततः ॐ आधारं सर्वरूपस्य विष्णुरतुलतेजसः | तद्रूपाश्च ततो जाता अग्रे ताः प्रणमाम्यहम् | इत्युपदिश्याम्भसि च त्रिर्निमज्जेत् ततो बुधः || वशिष्ठसंहितायाम् || उत्थायाचम्य तत्पश्चात् षडङ्गन्याससंयुतः | आत्मानं मूलमन्त्रेण मुद्रया कलसाख्यया | सप्तकृत्वोऽभिषिच्याथ मूलेनामन्त्रितैर्जलैः ||
SKकलसमुद्रा यथा ज्ञानार्णवे || प्. ३२९) वामहस्ते कृता मुष्टिर्दक्षहस्तस्य पार्वति ! | कलसाख्या भवेन्मुद्रा सर्वपापहरा शुभा || वशिष्ठसंहितायाम् || उन्मज्ज्य कुम्भमुद्रान्तु बद्ध्वा स्नायाद्वषट् ततः | शालग्रामशिलातोयं तुलसीगन्धमिश्रितम् | कृत्वा शङ्खं भ्रामयन् त्रिः प्रक्षिपेन्निजमूर्द्धनि | ततः संक्षेपतो विप्रान् मनुष्यान् तर्पयेत् पितॄन् | पीडयित्वा स्वकं चोरु प्रक्षाल्याचम्य यत्नतः || इति संक्षेपतर्पणम् || परखाते तु विशेषोऽस्ति विश्वसारे द्वितीयपटले || परखाते तु कर्त्तव्यः पङ्कपिण्डोद्धरः सदा | उत्तिष्ठोत्तिष्ठ पङ्क ! त्वं त्यज पुण्यं परस्य च | पापानि विनाशय मे शान्तिं देहि सदा मम || इति परखातेतिकर्त्तव्यता || अथ अयनादौ तैलस्नाननिषेधः || योगिनीतन्त्रे उत्तरखण्डे नवमपटले || अयने विषुवे चैव भौमवारे दिनक्षये | द्वादश्यां राहुग्रस्ते च तैलस्नानं न कारयेत् || अथ गात्रमार्ज्जनं तत्रैव || वस्त्रेण मार्जयेद्देवि ! कार्पासेनाथ वाल्कलैः | रक्तवस्त्रैर्भवेत् कुष्ठी पाण्डरैर्व्याधिमाप्नुयात् | न कुर्य्यात् कुसुमैश्चैव कृत्वा नाशमवाप्नुयात् | पटैश्चक्षुः समाप्नोति नीलैरक्तक्षयं व्रजेत् | मध्याह्नस्नाने तु गात्रमार्जननिषेधो मत्स्यसूक्ते दशमपटले || मध्याह्नस्नानं देवेशि ! वस्त्रेण वाथ पाणिना | न च प्रमार्जयेद्गात्रं प्रातर्भोग्यं न दुष्यति | प्रेतस्नाने च तीर्थे च गङ्गायां सार्वकालिकम् | न तूलिकस्य वीजेन गात्रं नैव प्रमार्जयेत् | एषु गात्रं नैव मार्जयेत् | अधिकदोषदर्शनार्थं न तूलिकस्य वीजेनेत्युक्तम् | मध्याह्नेगात्रमार्जननिषेधकारणमपि तत्रैव || देवाः पिबन्ति शिरसो मुखस्य पितरस्तथा | उरसः पितृगन्धर्वा अधरे सर्वजन्तवः | तस्मान्न मार्जयेद् गात्रं मध्याह्ने तु विशेषतः | पुरश्चरणरसोल्लासे || गङ्गास्नानं विना देवि ! पूजयेद् यस्तु कालिकाम् | दशविद्या महेशानि ! पूजयेद् यस्तु भक्तितः | सर्वं तस्य वृथा देवि ! गङ्गास्नानं विना प्रिये ! |
SKप्. ३३०) गङ्गामन्त्रं समुच्चार्य्य क्षेत्रे नद्यान्तु पार्वति ! | स्नापयेद् यस्तु पापात्मा सर्वपापैः प्रमुच्यते | ध्यानञ्चैव तथा मन्त्रं गङ्गायाः शृणु सुन्दरि ! | तन्त्रोक्तं ध्यानमन्त्रञ्च प्रशस्तं भारते कलौ || अथ ध्यानम् || शुद्धस्फटिकसङ्काशां शुक्लाम्बरविभूषिताम् | शुक्लमुक्तावलीमालां हृदयोपरिशोभिताम् | श्वेतमालाधरां देवीं श्वेताभरणभूषिताम् | सदा षोडशवर्षीयां ब्रह्मादिपरिषेविताम् | एवं ध्यात्वा जपेद्विद्यां गङ्गायाः शृणु शङ्करि ! | प्रणवं पूर्वमुच्चार्य्य मायाबीजं समुद्धरेत् | गङ्गायै परमेशानि | ततः परमुदीरयेत् | पूर्ववीजद्वयञ्चोक्त्वा वह्निजायां समुद्धरेत् | एषा नवाक्षरी विद्या सुषुम्नामार्गसंस्थिता || १ || अपरैकं प्रवक्ष्यामि मन्त्रं परमगोपनम् | प्रणवं पूर्वमुद्धृत्य गङ्गायै तदनन्तरम् | पुनः प्रणवमुद्धृत्य मन्त्रमेतदुदीरयेत् || २ || अपरैकं प्रवक्ष्यामि सुषुम्नामार्गसंस्थितम् | मायाबीजं समुद्धृत्य पुनः प्रणवमुद्धरेत् | ततो गङ्गापदं देवि ! चतुर्थ्यन्तं कुरु प्रिये ! | पूर्ववीजद्वयं प्रोक्त्वा मन्त्रमेतं जपं कुरु | एषा सप्ताक्षरी विद्या सदा मे शिरसि स्थिता || ३ || अपरैकं प्रवक्ष्यामि मन्त्रं परमदुर्लभम् | मायाबीजं समुद्धृत्य गङ्गायै तदनन्तरम् | पुनर्मायां समुद्धृत्य मन्त्रमेतदुदीरयेत् || ४ || अनेन ध्यानमार्गेण मन्त्रमार्गेण पार्वति ! | पूजयेत् सततं गङ्गां तस्य सिद्धिरदूरतः | दिने दिने च जप्त्वा वै गङ्गास्नानफलं लभेत् | तथा | तस्मादादौ जपेद्विद्यां गङ्गायाः सुरपूजिते ! | गङ्गापि स्वयमायाति पूतार्थं साधकस्य च || इति गङ्गामन्त्रफलम् || या गङ्गा महती माया कुण्डली परकुण्डली | सा गङ्गा परमेशानि ! ब्रह्माण्डं व्याप्य तिष्ठति | महानदनदीरूपा सर्वं व्याप्य हि तिष्ठति || गङ्गाक्षेत्रमाहात्म्यमपि तत्रैव || यत्र क्षेत्रे नदी देवी ! आयामे योजनात् प्रिये ! | सा गङ्गा चञ्चलापाङ्गि ! किञ्चिन्नास्त्यत्र संशयः | प्. ३३१) न हि गङ्गासमं पुण्यं मम ज्ञाने हि विद्यते |
SKयोगिनीतन्त्रे पूर्वखण्डे अष्टादशपटले || माहात्म्यं किमु वक्ष्यामि गङ्गायाश्च सुरेश्वरि ! | यन्नामस्मरणादेव पापिनो मुक्तिभागिनः | गङ्गा गङ्गेति यो ब्रूयात् पापिनामपि पातकी | तेषाञ्च पातकं हित्वा तैर्गच्छेद्वैष्णवीं पुरीम् || इति गङ्गानाममाहात्म्यम् | यानि कानि च पापानि प्रोक्तानि ते महेश्वरि ! | प्रायश्चित्तविहीनानि प्रायश्चित्तपराण्यपि | तानि सर्वाणि नश्यन्ति गङ्गानीराभिषेकतः || इति गङ्गाजलमाहाम्त्यम् || नगरी घर्घराद्यम्बु पतेद्गङ्गा प्रवाहयेत् | सर्वं गङ्गा भवत्येव मन्त्रमाहात्म्यतः शिवे ! | यत्र देशे वहेद् गङ्गा स देशः पुण्यभाजनः | पुण्यक्षेत्रं समुद्दिष्टं पवित्रं योजनद्वयम् | तत्र यत् क्रियते कर्म्म गङ्गायां नात्र संशयः | गङ्गायां यत् कृतं देवि ! तदक्षयफलं लभेत् | सङ्गमं वा विहीनं वा कथितं शम्भुवल्लभे ! | तत्रस्थाः प्राणिनः सर्वे देवलोकविनिःसृता | भुक्त्वा च विविधान् भोगान् कृत्वा च सुकृतं सदा | अनायासेन यास्यन्ति स्थानं परमदुर्लभम् | इति सगङ्गदेशफलम् || यत्र गङ्गा न शोचन्ति देवर्षिगणसंस्तुताः | गङ्गायां त्यजते प्राणान् यस्तु पुण्यप्रभावतः | ज्ञानतो मोक्षमाप्नोति वैकुण्ठं तदभावतः | स्वर्लोकाद्यामहेशानि ! गङ्गा पापविवर्जितः || इति गङ्गायां प्राणत्यागफलम् || गङ्गामुद्दिश्य व्रजतः पथि प्राणान् विमुञ्चति | विष्णुलोकं बहुगुणं पापी चेत्सोऽपि गच्छति || इति गङ्गायात्रिकस्य पथि मृत्युफलम् | तत्तीरे यस्त्यजेत् प्राणान् न्यायतोऽन्यायतोऽपि वा | सोऽपि स्वर्गमवाप्नोति सर्वसम्भारसंयुतम् | इति गङ्गातीरमृत्युफलम् | यावदस्थीनि गङ्गायां निक्षिप्यन्ते मृतस्य च | तावदब्दसहस्राणि स्वर्गलोके महीयते | इति गङ्गायां मृतास्थिनिक्षेपफलम् || गङ्गाजलसमायोगान् म्रियते यत्र कुत्रचित् | सर्वपापविनिर्मुक्तो विष्णुलोके महीयते | प्. ३३२) इत्यन्यत्र गङ्गाजलसमायोगमरणफलम् || गङ्गातीरे चतुर्हस्ते पिण्डं दद्यात् समाहितः | पितॄणां निष्कृतिं कृत्वा विष्णुलोके महीयते ||
SKइति चतुर्हस्तमध्ये पिण्डदानफलम् || गङ्गायां तर्पणं देवि ! पुण्यवान् यः समाचरेत् | महातृप्तिर्भवेत् सत्यं पितॄणाञ्च शताब्दिकी | ऋषीणां देवतानाञ्च तथैव समुदाहृतम् | इति गङ्गायां तर्पणफलम् || दिवा वा यदि वा रत्रौ सन्ध्यायां वा महानिशि | स्नानं दानं तपो होमस्तर्पणं पूजनं शिवे ! | सर्वं कुर्य्यात्तु गङ्गायां कालभेदं न चाचरेत् | इति गङ्गायां पर्य्युदस्तकालाभावः | कालभेदं समाचर्य्य यदि कार्य्यं त्यजेत् शिवे ! | ततस्तु स्थावरो भूयादरण्ये तदनन्तरम् | दावाग्निना शिखा तस्य दग्धाशु भस्मनैकधा | तदन्ते परमेशानि ! चाण्डालो नित्यदुःखितः | जायते सप्तजन्मानि तदन्ते रजको भवेत् | जन्मत्रयं महेशानि ! तदन्ते शूद्रयोनिषु | दशजन्म महेशानि ! ततो वैश्यत्वमाप्नुयात् | चतुर्जन्मव्यतीते तु क्षत्रियत्वं त्रिजन्मतः | ब्राह्मणत्वं ततः प्राप्य लभेत् पुण्यगतिं नरः | इति गङ्गायां कालाकालविचारनिन्दा || गङ्गायां हरते यो हि यत्किञ्चित् परमेश्वरि ! | तस्य मोहान्धतमसो रौरवान्नास्ति निष्कृतिः | आभूतसंप्लवं देवि ! कथितं ते सुरेश्वरि ! | इति गङ्गायां किञ्चिद्धरणदोषः || गङ्गातीरे च गङ्गायां प्रतिगृह्णाति यो नरः | श्वपचो जायते नित्यं दशजन्मनि कामिनि ! | ततो दारिद्र्यदोषेण परिभ्रमति मेदिनीम् | सप्तजन्म महादेवि ! तदन्ते निष्कृतिं लभेत् || इति गङ्गादौ प्रतिग्रहणदोषः || एवन्ते कथितं तस्य मन्त्रमाहात्म्यमुत्तमम् | कालिकाया महेशानि ! गङ्गामाहात्म्यकारणम् || इति योगिनीतन्त्रे गङ्गामाहात्म्यम् || ॐ सिसृक्षोर्निखिलं विश्वं मुहुः शुक्रं प्रजायते | मातरः सर्वभूतानामापो देव्यः पुनन्तु माम् | प्. ३३३) तारवारुणवीजेन पुटितं तत् समुच्चरेत् | अलक्ष्मीं मलरूपां यां सर्वभूतेषु संस्थिताम् | क्षालयन्ति निजस्पर्शादापो नित्यं पुनन्तु माम् | इति मन्त्राभ्यां राघवभट्टधृताभ्यामात्मानमभिषिच्य | ॐ यन्मे केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि | ललाटे कर्णयोरक्ष्णोरापस्तत्त्वं तु वो नमः |
SKआयुरारोग्यमैश्वर्यमरिपक्षक्षयं सुखम् | सन्तोषक्षान्तिरास्तिक्यं विद्या भवतु वो नमः | इत्यनेन राघवभट्टधृतेन जलं नमेत् || अथ मानसस्नानम् || तत्र प्रथमं बन्धमोक्षादौ मनसः कारणत्वं दर्शयति || योगिनीतन्त्रे तृतीयभागे अष्टमपटले || मन एव तु वै नित्यं मन एव तु कारणम् | मन एव मनुष्याणां कारणं बन्धमोक्षयोः | तस्य नियन्त्रणादेव संसारी न भवेत् क्वचित् | वदत्यन्यं करोत्यन्यं यत्तु वाङ्मनसि स्थितम् | दर्शयति तथा चान्यं वृथा तस्य क्रिया भवेत् | इत्यधिकं मत्स्यसूक्ते षड्विंशतिपटले || चिन्तयेद् यः कृतं दुष्टं तीर्थस्नानेन तस्य किम् | शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचिरित्यपि मत्स्यसूक्ते || योगिनीतन्त्रे || तन्नेष्टं तत्परं जातं तन्मुख्यं दुःखकारणम् | चित्तमन्तर्गतं दुष्टं तीर्थस्नाने निषिद्ध्यते | सर्वदापि जलैर्धौतं सुराभाण्डमिवाशुचिः | यदि वसति गुहायां पर्वताग्रे चिरं वा यदि वसति त्रिखण्डं तस्य पिण्डं पटं वा | यदि पठति पुराणं वेदसिद्धान्ततत्त्वं यदि हृदयमशुद्धं सर्वमेतद्विरुद्धम् | न तीर्थानि न दानानि न व्रतानि न चाश्रमाः | दुष्टाशयं दुष्टमतिं पावयन्ति कदाचन | इति दुष्टमनसो दोषकथनम् || तथैव || इतिं चेतो वशीकृत्य यत्र तत्र वसेन्नरः | तत्र तस्य कुरुक्षेत्रं प्रयागं पुष्करं गया || इति शुद्धचेतसः फलकथनम् | ज्ञानसङ्कुल्याम् || इदं तीर्थमिदं तीर्थं भ्रमन्ति तामसा जनाः | आत्मतीर्थं न जानन्ति कथं मुक्ता वरानने ! || प्. ३३४) रुद्रजामले उत्तरखण्डे एकविंशतिपटले || स्नानमात्रेण मुक्तः स्यात् पापशैलादनन्तगः | स्नायाच्च विमले तीर्थे हृदयाम्भोजपुष्करे | बिन्दुतीर्थेऽथवा स्नायात् सर्वजन्माघमुक्तये | इडासुषुम्ने शिवतीर्थकेऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे | ब्रह्माम्बुभिः स्नाति तयोः सदा यः किं तस्य गाङ्गैरपि पुष्करैर्वा || एतद्वचनद्वयं कल्पसूत्रटीकायामुदयाकरपद्धत्यामिति कृत्वा लिखितम् || ज्ञानसङ्कुल्याम् ||
SKइडा भागीरथी गङ्गा पिङ्गला यमुना नदी | तयोर्मध्यगता नाडी सुषुम्नाख्या सरस्वती | त्रिवेणीसङ्गमो यत्र तीर्थराजः स उच्यते | तत्र स्नानं प्रकुर्वीत सर्वपापैः प्रमुच्यते || इति मानसप्रयोगः || रुद्रजामले || इडा मलस्थाननिवासिनी या सूर्य्यात्मिका या यमुना प्रवाहिका | तथा सुषुम्ना मलदेशगामिनी सरस्वती रक्षति मज्जनात्मकम् | मनोगतस्नानपरो मनुष्यो मन्त्रक्रियायोगविशिष्टतत्त्ववित् | महीस्थतीर्थे विमले जले मुदा मूलाम्बुजे स्नाति सुमुक्तिभाग् भवेत् | सर्वाणि तीर्थे सुरतीर्थपावनी गङ्गा महासत्त्वविनिर्गता सती | करोति पापक्षयमेव मुक्तिं ददाति साक्षादमलार्थपुण्यदा | इति मूलाधारस्थतीर्थम् || स्वर्गस्थं यावता तीर्थं स्वाधिष्ठाने सुपङ्कजे || मनो निधाय योगीन्द्रः स्नाति गङ्गाजले यथा | इति स्वाधिष्ठानस्थतीर्थम् | मणिपूरे देवतीर्थं पञ्चकुण्डं सरोवरम् | तत्र श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति | इति मणिपूरतीर्थम् || अनाहते सर्वतीर्थं सूर्य्यमण्डलमध्यगम् | विभाव्य सर्वतीर्थानि स्नाति यो मुक्तिमिच्छति | इत्यनाहततीर्थम् || विशुद्धाख्ये महापद्मे अष्टतीर्थसमुद्भवः | कैवल्यमुक्तिदं ध्यात्वा स्नाति वीरो विमुक्तये | इति विशुद्धस्थतीर्थम् | मानसं बिन्दुतीर्थञ्च कालीकुण्डं कलाधरम् | आज्ञाचक्रे सदा ध्यात्वा स्नाति निर्वाणसिद्धये | इत्याज्ञास्थतीर्थम् || एतत् कुलप्रियस्नानं कुर्वन्ति योगिनो मुदा | प्. ३३५) अतो वीराः सत्त्वयुक्ताः सर्वसिद्धियुताः सुराः | नानापापं सदा कृत्वा ब्रह्महत्याविनिर्गतम् | कृत्वा स्नानं महातीर्थे सिद्धाः स्युरणिमादिगाः | स्नानमात्रेण निष्पापोऽशक्तः स्याद्वायुसंग्रहे | तीर्थानां दर्शनादेषां मुक्तो योगी भवेद् ध्रुवम् || इति मानसस्नानफलम् || मत्स्यसूक्ते दशमपटले || जलादुत्थाय कर्त्तव्यं जले चैवोपविश्य यत् | अनयोर्विपरीतेन यत्करोति न तत्कृतम् | यज्जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा | न कुर्य्यादाह्निकं कर्म जले चापि स्थलेषु च |
SKइति जले शुष्कवाससा स्थले चार्द्रवाससा कर्म्मनिषेधः || गौतमीये || पीडयित्वाम्बरं चोरु प्रक्षाल्याचम्य वाग्यतः | धारयेद्वाससी शुद्धे परिधानोत्तरीयके | अच्छिन्ने सदशे शुक्ले आचामेत् पीठसंस्थितः || मत्स्यसूक्ते || उत्तीर्य वाससी धौते परिधाय विचक्षणः | न रक्तं मलिनञ्चैव न नीलञ्च प्रशस्यते | अष्टौ सप्त तथा षष्ठ चतुर्हस्तान्यनुक्रमात् | ब्राह्मणादिक्रमेणैव पिधानाम्बरमीरितम् | इति परिधेयवस्त्रपरिमाणम् || मात्स्ये || श्वेतं रक्तं तथा पीतं कृष्णञ्चेत्यनुपूर्वशः | अनुपूर्वश इति ब्राह्मणाद्यनुक्रमेण | वस्त्रमन्यधृतञ्चैव सदैव परिवर्जयेत् | वस्त्रमूलं समुद्धृत्य पृष्ठवंशे षडङ्गुलम् | दशायां त्र्यङ्गुलं त्यक्त्वा नाभिमात्रे विनिर्दिशेत् | दशाहीनं न कर्त्तव्यं परिवर्त्तं न कारयेत् | इति वस्त्रपरिधानप्रकारः || अथ कर्मविशेषे वस्त्रविशेषः || उदयभानुनाथकृतकृष्णार्चनचन्द्रिकायाम् || श्यामारहस्यधृतस्वतन्त्रतन्त्रे || मोक्षार्थी रक्तवस्त्रे द्वे भोगार्थी श्वेतवाससी | मारणे कृष्णवासस्तु वश्ये रक्तं सदा गृही | एवञ्च पूर्वोक्तमत्स्यसूक्तवचने यद्रक्तवस्त्रस्याप्रशस्तत्व-मुक्तं तन्मोक्षादिविशेषकर्म्मातिरिक्तकर्म्मपरं सामान्यविशेषन्यायात् | अत-एव अन्नदाकल्पोक्तवक्ष्यमाणवचने रक्तवस्त्रपरिधानं वक्ष्यते | प्. ३३६) उच्चाटे व्याघ्रचर्म्माणि वृक्षत्वक् स्तम्भकर्म्मणि | परिधाय ततो मन्त्री यागभूमिमथाविशेत् | मत्स्यसूक्ते || न चैवं धुनयेद्वस्त्रं न केशान् धुनयेत् क्वचित् || नीलीरक्तेन वस्त्रेण यत्कर्म्म कुरुते द्विजः | स्नानं दानं जपं होमं तत्सर्वं विफलं भवेत् || इति नीलादिवस्त्रेण कर्म्मकरणनिषेधः || कलौ कार्पासवस्त्रञ्च पट्टं क्षौमं प्रशस्यते | नित्यं कापचितं कुर्य्यादशुद्धं शुद्धतानियात् | केन जलेनापचितं प्रक्षालितभित्यर्थः | इति कलौ कार्पासादिवस्त्रप्रशंसा || सूचीविद्धेन वस्त्रेण आखुदष्टेन वा द्विजः | कटिशून्येन देवेशि ! सर्वं स्नानफलं हरेत् ||
SKइति सूचीविद्धादिवस्त्रनिषेधः | वस्त्रान्तरेण यद्वस्त्रं कृमिजं वा प्रदृश्यते | न देयं दैवे पैत्र्ये च कोष्ठजञ्च प्रशस्यते || इति विजातीयवस्त्रनिषेधः | कृमिजेन तु वस्त्रेण यः स्नानं कुरुते नरः | सर्वकालकृतं पुण्यं स्नानमात्रेण नश्यति || इति कृमिजवस्त्रेण स्नाननिषेधः | एतदेव श्वेतजातवृक्षजाते न दुष्यति | श्वेतकृमेश्च सम्भूतं प्रशस्तं दैवपैत्र्ययोः || इति कृमिजश्वेतवस्त्रप्रशंसा || अथोत्तरीयम् || मत्स्यसूक्ते || शतद्वयेन सूत्रेण उत्तीरयस्य मानकम् || तदर्द्धेनाथ वा कार्य्यमभावे सर्वतः स्वयम् | योगपदादीनां पूजादावुपयोगात्तल्लक्षणं वीरमित्रोदयधृतसिद्धान्तशेखरे || त्रिविधं योगपदकमाद्यं व्याघ्राजिनोद्भवम् | द्वितीयं मृगचर्म्माढ्यं तृतीयं तन्तुनिर्म्मितम् | चतुर्म्मात्रप्रविस्तारं दैर्घ्येण यज्ञसूत्रवत् | चतुर्मात्रं चतुरङ्गुलमात्रम् || यज्ञोपवीतमार्जनस्य स्नानात् परतः कर्त्तव्यत्वं तदत्र लिख्यते || गायत्रीतन्त्रे चतुर्थब्राह्मणपटले || सम्मार्ज्य दधिदुग्धेन घृतेन बहुयत्नतः | घृताद्यभावे चार्वङ्गि ! मार्जयेत्तण्डुलपिष्टकैः | तदभावे सार्षपेण तिलतैलं परित्यजेत् | विल्वस्य फलनिर्यासैर्मार्जयेत् द्विजसत्तमः | शुद्धसत्त्वात्मकं सूत्रं तदा भवति प्रत्यहम् | प्. ३३७) इति यज्ञोपवीतमार्जनद्रव्याणि || यज्ञोपवीतमार्जनप्रकारस्तु तत्रैव || वामस्कन्धात् समुत्तार्य्य वामाङ्गुष्ठे नियोजयेत् | वामाङ्गुष्ठं वामस्कन्धमेवमेव न चान्यथा | वामाङ्गुष्ठयुतं सूत्रं कृत्वा सम्मार्जयेद् द्विजः || इति यज्ञोपवीतमार्जनप्रकारः | कण्ठादौ यज्ञोपवीतकरणदोषश्च तत्रैव || कण्ठे शिरसि दक्षकरे कृत्वा शूद्रत्वमर्हति | गायत्र्या अयुतं जप्त्वा तस्मात् पापात् प्रमुच्यते | तथा | वर्णविप्रे तथा भट्टे मार्जनं न हितं सदा | धारणं यज्ञसूत्रस्य जातिभेदे पृथक् पृथक् | रक्तचन्दनतोयेन मार्जयेत् क्षत्रजातयः | हारिद्रैर्मार्जयेद्वैश्य इति शास्त्रस्य निर्णयः ||
SKअथ तिलकं मत्स्यसूक्ते दशमपटले || अथोपविश्य पूर्वाशामुखो भूत्वा सुसंयुतः | प्रकुर्य्यात्तिलकं मन्त्री उत्तराशामुखेन वा | गोपीचन्दनकेनाथ रोचनाकुङ्कुमेन वा | मृत्तिकया मलयजेन तुलसीविल्वजेन वा || योगिनीतन्त्रे तृतीयभागे नवमपटले || मलयजेन गन्धेन गोपीचन्दनकेन वा | विल्वकाष्ठोद्भवेनाथ तुलसीकाष्ठकेन वा | पद्मकेन तमालेन तथा रोचनयाथवा | पिधाय तिलकं श्रेष्ठमेषामेकतमेन वा || विल्वकाष्ठोद्भवेनेत्युदासीनपरम् | तत्काष्ठचन्दनं भाले यो धारयति सम्भ्रमादित्यादि योगिनीतन्त्रीयपूर्वखण्डे पञ्चमपटलोक्तवचनात् || मृदादिफलं मत्स्यसूक्ते || मृदा तु मुक्तिमाप्नोति आयुष्यं चन्दनेन तु | कुङ्कुमेन भवेत्कार्य्यं रोचना वश्यमीरितम् | जलस्थामृत्तिका वर्ज्या तीरस्थं पुण्यदायकम् | तस्मात्तीरोद्भवं ग्राह्यमश्वक्रान्तेति सम्पठन् | नोत्थाय तिलकं कुर्य्यान्मुदा स्त्रीसरितो बुधः | शस्तञ्च जाह्नवीतीरोद्भवैर्वा गोपिचन्दनैः || इति तिलकस्य मृत्तिकाविधिनिषेधौ | तिलककरणमन्त्रस्तु मत्स्यसूक्ते | केशवानन्त ! गोविन्द ! वराह ! पुरुषोत्तम ! पुण्यं यशस्यमायुष्यं तिलकं मे प्रसीदतु || चन्दनधारणमन्त्रोऽपि तत्रैव || कान्तिं लक्ष्मीं धृतिं सौख्यं सौभाग्यमतुलं मम | प्. ३३८) ददातु चन्दनं नित्यं सततं धारयाम्यहम् | इत्यनेन च मन्त्रेण प्रदध्यान्मन्त्रवित्तमः || तिलकधारणस्थानानि मत्स्यसूक्ते || ललाटे प्रथमं दद्यान्मूर्द्ध्नि दद्यात्ततो हृदि | कण्ठे च श्रोत्रयोर्बाह्वोर्बाहुमूलद्वयेऽपि च | नाभौ पृष्ठे च सन्दध्यात् पार्श्वयोश्च युगं युगम् | तिलकानि लिखेच्चैव मुच्यते सर्वपातकैः | भाले दीपशिखाकारं बाहुभ्यां विल्वपत्रवत् | हृदये कमलाकारं ग्रीवायां चन्द्रमुद्दिशेत् || वैष्णवतिलके तु विशेषः || ललाटे तु गदा कार्य्या मूर्द्ध्नि चापं शरं तथा | नन्दकञ्चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये | शङ्खचक्राङ्कितो विप्रः श्मशाने म्रियते यदि | प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य नारद ! |
SKश्यामाप्रदीपे द्वितीयपरिच्छेदे | यज्ञपार्श्वे मा तिलकी कर्म्म कुर्वीतेति | तस्मान्मृदा जलेनापि कर्त्तव्यं तिलकं बुधैः | अन्यथा निष्फलं ज्ञेयं वीजोप्तिरूषरे यथा | तिलकाकरणनिन्दापि तत्रैव मत्स्यसूक्ते || अकृत्वा तिलकं भाले चण्डालं यस्तु पश्यति | पुनः स्नानन्तु कर्त्तव्यं विण्मूत्रोत्सारणे तथा | जले च घटे च छायायां संवीक्ष्य तिलकं चरेत् | दर्पणे वीक्षयेद्यत्नादमावास्यां विवर्जयेत् || इत्यमावास्यायां तिलकनिषेधः | तथा | तिलके निजदेवास्त्रं विलिखेद्दक्षिणादितः | बीजं बाहूदरोत्सङ्गे भाले वा प्रणवादिकम् | उत्सङ्गे क्रोडे || राघवभट्टधृतब्रह्माण्डपुराणे || ऊर्द्ध्वपुण्ड्रमृजुं सौम्यं ललाटे यस्य दृश्यते | स चण्डालोऽपि शुद्धात्मा पूज्य एव न संशयः | ऊर्द्धपुण्ड्रं मृदा सौम्येति पद्मपुराणे प्रथमचरणे पाठः | अशुचिश्चाम्यनाचारो मनसा पापमाचरेत् | शुचिरेव भवेन्नित्यमूर्द्ध्वपुण्ड्रान्वितो नरः | मत्प्रियार्थं शुभार्थं वा रक्षार्थं चतुरानन ! | मद्भक्तो धारयेन्नित्यमूर्द्ध्वपुण्ड्रमतन्द्रितः | मत्पूजाहोमकाले च सायं प्रातः समाहितः | मद्भक्तो धारयेन्नित्यमूर्द्ध्वपुण्ड्रं भवापहम् | प्. ३३९) इति भगवद्भक्तिविलासधृतपद्मपुराणे अधिकम् | तद्धृतस्कन्दपुराणे कार्त्तिकप्रसङ्गे || ऊर्द्ध्वपुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते | चण्डालोऽपि विशुद्धात्मा याति ब्रह्म सनातनम् | ऊर्ध्व पुण्ड्रे स्थिता लक्ष्मीः ऊर्द्ध्वपुण्ड्रे स्थितं यशः | ऊर्द्ध्वपुण्ड्रे स्थिता मुक्तिरूर्द्ध्वपुण्ड्रे स्थितो हरिः | उत्तरखण्डे शिवपार्वतीसंवादे || ऊर्द्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे | लक्ष्म्या सार्द्धं समासीनो देवदेवो जनार्दनः | तस्माद् यस्य शरीरे तु ऊर्द्ध्वपुण्ड्रं धृतं भवेत् | तस्य देह भगवतो विमलं मन्दिरं स्मृतम् | ऊर्द्ध्वपुण्ड्रधृतो विप्रः सर्वलोकेषु पूजितः | विमानवरमारुह्य याति विष्णोः परं पदम् | ऊर्द्ध्वपुण्ड्रधरं विप्रं दृष्ट्वा पापैः प्रमुच्यते | नामस्मृत्या तथा भक्त्या सर्वदानफलं लभेत् |
SKऊर्द्ध्वपुण्ड्रधरं विप्रं यः श्राद्धे भोजयिष्यति | आकल्पकोटिपितरस्तस्य तृप्ता न संशयः | ऊर्द्ध्वपुण्ड्रधरो यस्तु कुर्य्यात् श्राद्धं शुभानने ! | कल्पकोटिसहस्राणि वैकुण्ठे वासमाप्नुयात् | यज्ञदानतपश्चर्य्याजपहोमादिकञ्चरेत् | ऊर्द्ध्वपुण्ड्रधरः कुर्य्यात्तस्य पुण्यमनन्तकम् || ब्रह्माण्डपुराणे विष्णुवाक्यम् || ऊर्द्ध्वपुण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् | श्वपाकोऽपि विमानस्थो मम लोके महीयते | ऊर्द्ध्वपुण्ड्रधरो मर्त्यो गृहे यस्यान्नमश्नुते | तदा विंशत्कुलं तस्य नरकादुद्धराम्यहम् || इत्यूर्द्ध्व पुण्ड्रमाहात्म्यम् || पद्मपुराणे नारदोक्तौ || यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् | व्यर्थं भवति तत् सर्वमूर्द्ध्वपुण्ड्रं विना कृतम् || उत्तरखण्डे || ऊर्द्ध्वपुण्ड्रविहीनस्तु किञ्चित् कर्म करोति यः | इष्टापूर्त्तादिकं सर्वं निष्फलं स्यान्न चान्यथा | ऊर्द्ध्वपुण्ड्रविहीनस्तु सन्ध्याकर्मादिकञ्चरेत् | तत्सर्वं राक्षसं ज्ञेयं नरकञ्चाधिगच्छति | यच्छरीरं मनुष्याणामूर्द्ध्वपुण्ड्र विना कृतम् | द्रष्टव्यं नैव तत्तावच्चाण्डालसदृशं भवेत् || प्. ३४०) स्कान्दे || यस्योर्द्ध्वपुण्ड्रं दृश्येत ललाटे न नरस्य हि | तद्दर्शनं न कर्त्तव्यं दृष्ट्वा सूर्य्यं निरीक्षयेत् || इत्यूर्द्ध्वपुण्ड्राकरणे दोषः || उत्तरखण्डे || ऊर्द्ध्वपुण्ड्रं धरेद्विप्रो मृदा शुभ्रेण वैदिकः | न तिर्य्यग्धारयेद्विद्वानापद्यपि कदाचन | भगवद्भक्तिविलासधृतम् || ऊर्द्ध्वपुण्ड्रे त्रिपुण्ड्रं यः कुरुते स नराधमः | भुङ्क्त्वा विष्णुगृहं पुण्यं स याति नरकं ध्रुवम् || स्कन्दपुराणे || तिर्य्यक् पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च | नैवान्यनाम च ब्रूयात् पुमान्नारायणादृते || इत्यूर्द्ध्वपुण्ड्रे त्रिपुण्ड्रकरणनिषेधः || शाक्तानन्दतरङ्गिणीधृतम् || ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रं वा कृत्वा सन्ध्यां समाचरेत् | तदेव व्यवस्थापितम् स्कन्दपुराणे || वैष्णवानां ब्राह्मणानामूर्द्ध्वपुण्ड्रं विधीयते | अन्येषान्तु त्रिपुण्ड्रं स्यादिति ब्रह्मविदो विदुः || पद्मपुराणे ||
SKत्रिपुण्ड्रं यस्य विप्रस्य ऊर्द्ध्वपुण्ड्रे न दृश्यते | तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलः स्नानमाचरेत् || ऊर्द्ध्वपुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् | कृतत्रिपुण्ड्रमर्त्यस्य क्रिया न प्रीतये हरेः || अथोर्द्ध्वपुण्ड्रनिर्माणविधिः ब्रह्माण्डपुराणे || वीक्ष्य देशे जल वापि यो विदध्यात् प्रयत्नन्तः | ऊर्द्ध्वपुण्ड्रं महाभाग ! स याति परमां गतिम् | दशाङ्गुलप्रमाणन्तु उत्तमोत्तममुच्यते | नवाङ्गुलं मध्यमं स्यादष्टाङ्गुलमतः परम् | एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् || उर्द्ध्वपुण्ड्रलक्षणन्तु मत्स्यसूक्ते || नासिकाकेशपर्य्यन्तमूर्द्ध्वपुण्ड्रं विधीयते | मध्ये छिद्रन्तु कर्त्तव्यं तच्छिद्रं हरिमन्दिरम् || पद्मपुराणे उत्तरखण्डे || एकान्तेन महाभागाः सर्वभूतहिते रताः | सान्तरालं प्रकुर्वन्ति पुण्ड्रं हरिपदाकृतिम् | श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा | श्रीकरं पीतमित्याहुः श्वेतं मोक्षप्रदं शुभम् || इति कर्मविशेषे वर्णविशेषत्रिपुण्ड्रम् | वर्त्तुलं तिर्य्यगच्छिद्रं ह्रस्वं दीर्घतरं तनुम् || प्. ३४१) वभ्रूं विरूपं बह्वग्रं भिन्नमूलं पदच्युतम् | अशुभ्रं रूक्षमासक्तं तथा नाङ्गुलिकल्पितम् | विगन्धमपसव्यञ्च पुण्ड्रमाहुरनर्थकम् || इति निन्दितपुण्ड्रम् || नाङ्गुलिकल्पितमिति विहितकाष्ठिकाभिन्नोपलक्षणम् || अन्यथा मत्स्यसूक्ते दशमपटलोक्तवचनमनर्थकं स्यात् | तद्वचनन्तु || कुशेनैव सुवर्णेन न काष्ठेनायसेन च | न शङ्खेन न ताम्रेण न कांस्येन कदाचन || तुलस्या विल्वकाष्ठेन रजतेन समुल्लिखेत् || ऊर्द्ध्वपुण्ड्राकारस्तु उत्तरखण्डे || अश्वत्थपत्रसङ्काशो वेणुपत्राकृतिस्तथा | पद्मकुट्मलसङ्काशो मोहनं त्रितयं स्मृतम् | आरभ्य नासिकामूलं ललाटान्तं लिखेन्मुदा | ललाटान्तमिति न्यूनत्वव्यवच्छेदकमन्यथा दशाङ्गुलस्योत्तमत्वकीर्त्तनं व्यर्थं स्यात् | दशाङ्गुलपरिमाणन्तु नासिकातृतीयभागावधि ब्रह्मरन्ध्रपर्य्यन्तमेव | मृदेति विहितद्रव्योपलक्षणम् |
SKमृदमिति पाठे व्यत्ययो बहुलमिति सूत्राद्विभक्तिव्यत्ययेन स एवार्थः || नासिकायास्त्रयो भागा नासामूलं प्रचक्षते | समारभ्य भ्रुवोर्मध्यमन्तरालं प्रकल्पयेत् || त्रयो भागा इति निर्देशबलात् पूरणप्रत्ययार्थावगतेस्तृतीयो भागो लभ्यते | स च भागो यत्र मस्तकावस्थितो नासिका निर्गता तत्रैव || तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् | विप्राणां सततं कार्य्यं स्त्रीणाञ्च शुभदर्शने ! | नासिकाकेशपर्य्यन्तं ऊर्द्ध्वपुण्ड्रं सुशोभनम् || मध्ये छिद्रसमायुक्तं तद्विद्याद्धरिमन्दिरम् || इति हरिमन्दिरलक्षणम् || वामभागे स्थितो ब्रह्मा दक्षभागे सदाशिवः | मध्ये विष्णुं विजानीयात् तस्मान्मध्यं न लेपयेत् || यजुर्वेदीयस्य हिरण्यकेशीयशाखायाम् || हरेः पदाक्रान्तिम् आत्मनो निधाय यन्मध्ये छिद्रमूर्ध्वपुण्ड्रं यो धारयति स परस्य प्रियो भवति स पुण्यवान् भवति स मुक्तिभाग्भवतीति | तिलकरचनायामङ्गुलिनियममाह भगवद्भक्तिविलासधृता स्मृतिः || अनामिका कामदोक्ता मध्यमायुष्करी भवेत् | प्. ३४२) अङ्गुष्ठः पुष्टिदः प्रोक्तस्तर्जनी मोक्षसाधनी || ऊर्ध्वपुण्ड्रस्य मृत्तिका तु पद्मपुराणे || पर्वताग्रे नदीतीरे विल्वमूले जलाशये | सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः || विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः | पुण्ड्राणां धारणार्थाय गृह्णीयात्तस्य मृत्तिकाम् | श्रीरङ्गे वेङ्कटाद्रौ च श्रीकुर्म्मद्वारके शुभे | प्रयागे नारसिंहाद्रौ वाराहे तुलसीवने | गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह | धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयात् || पर्वताग्रे इत्यादौ षष्ठीसप्तभ्योरर्थं प्रति भेदाभाव इति न्यायात् पर्वताग्रस्येत्यादि लभ्यते | गृहीत्वा मृत्तिकामिति परेणान्वयः | व्यत्ययो बहुलमिति षष्ठ्यर्थे सप्तमी वा | नदीतीर इति गङ्गांतीरस्येति ज्ञेयम् | प्रागुक्तमत्स्यसूक्तवचनेन स्त्रीसरितो मृत्तिकाग्रहणनिषेधादिति | श्रीरङ्गः कावेरीमध्यस्थः क्षेत्रविशेषो दक्षिणदेशेषु प्रसिद्धः |
SKवेङ्कटाद्रिः शेषाचलनाम्ना तैलङ्गदेशे प्रसिद्धः | श्रीकूर्म्मः कलिङ्गदेशे प्रसिद्धः क्षेत्रविशेषः || गोपीचन्दनमाहात्म्यन्तु मत्स्यसूक्ते | दुर्लभं चन्दनं लोके गोपीनां विष्णुनिर्मितम् | यत् कृत्वा तिलकं सद्यो ब्रह्महत्यां व्यपोहति || स्थितस्येत्यध्याहारादेककर्त्तृकता | पद्मपुराणे नारदवाक्येऽपि || ब्रह्मघ्नो वाथ गोघ्नो वा हैतुकः सर्वपापकृत् | गोपीचन्दनसम्पर्कात् पूतो भवति तत्क्षणात् | गोपीचन्दनखण्डन्तु यो ददातीह वैष्णवे | कुलमेकोत्तरं तेन स्वं भवेत्तारितं शतम् || इति वैष्णवे गोपीचन्दनदानफलम् || स्कन्दपुराणे ध्रुववाक्यम् || शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः | गोपीचन्दनलिप्ताङ्गो दृष्टश्चेत्तदघं कुतः | गोपीमृत्तुलसी शङ्खः शालग्रामः सचक्रकः | गृहेऽपि यस्य पञ्चैते तस्य पापभयं कुतः || सचक्रकं सश्रीचक्रकमित्यर्थः | काशीखण्डे || श्रीखण्डे क्व स आमोदः स्वर्णे वर्णः क्व तादृशः | प्. ३४३) तत्पवित्रं क्व वै तीर्थे श्रीगोपीचन्दने यथा || गरुडपुराणे श्रीनारदवाक्यम् | यो मृत्तिकां द्वारवतीसमुद्भवां करे समादाय ललाटपट्टे | करोति नित्यन्त्वथ चोर्द्ध्वपुण्ड्र क्रियाफलं कोटिगुणं सदा भवेत् | क्रियाविहीनं यदि मन्त्रहीनं श्रद्धाविहीनं यदि कालवर्जितम् | कृत्वा ललाटे यदि गोपिचन्दनं प्राप्नोति तत्कर्म्मफलं सदाक्षयम् | गोपीचन्दनसम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो नित्यं धारयते यदि द्विजपते ! रात्रौ दिवा सर्वदा | यत् पुण्यं कुरुजाङ्गले रविगृहे माघ्यां प्रयागे तथा तत्प्राप्नोति खगेन्द्र ! विष्णुसदने सन्तिष्ठते देववत् || यस्मिन् गृहे तिष्ठति गोपिचन्दनं भक्त्या ललाटे मनुजो बिभर्ति | तस्मिन् गृहे तिष्ठति सर्वदा हरिः श्रद्धान्वितः कंसनिहा विहङ्गम ! || यो धारयेत् कृष्णपुरीसमुद्भवां सदा पवित्रां कलिकल्मषापहाम् | नित्यं ललाटे यदि मन्त्रसंयुतां यमं न पश्येद् यदि पापसंवृतः | यस्यान्तकाले खग ! गोपिचन्दनं बाह्वोर्ललाटे हृदि मस्तके च |
SKप्रयाति लोकं कमलालयाप्रभोर्गोबालघाती यदि ब्रह्महा भवेत् || ग्रहा न पीडन्ति न रक्षसां गणो यक्षाः पिशाचोरगभूतदानवाः | ललाटपट्टे खग ! गोपिचन्दनम् सन्तिष्ठते यस्य हरेः प्रसादतः || पद्मपुराणे || अम्बरीष ! महाघस्य क्षयार्थे कुरु वीक्षणम् | ललाटे यैः कृतं नित्यं गोपीचन्दनपुण्ड्रकम् || काशीखण्डे यमोक्तिः | दूताः ! शृणुत यद्भालं गोपीचन्दनलाञ्छितम् | ज्वलदिन्धनवत् सोऽपि दूरे त्याज्यः प्रयत्नतः || इति गोपीचन्दनमाहात्म्यम् || भगवद्भक्तिविलासधृतकाशीखण्डे || अथ तस्योपरि श्रीमत्तुलसीमूलमृत्स्नया | तथैव वैष्णवैः कार्य्यमूर्ध्वपुण्ड्रं मनोरमम् | स्कन्दपुराणे तुलसीमूलमृत्तिकामुपक्रम्य || तन्मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः | प्रयाणकं कृतं तैस्तु मोक्षाय गमनं प्रति || प्. ३४४) तुलसीमृत्तिकापुण्ड्रं ललाटे | यस्य दृश्यते | देहं न स्पृशते पापं क्रियमाणन्तु नारद ! || गरुडपुराणे || तुलसीमृत्तिकापुण्ड्रं यः करोति दिने दिने | तस्यावलोकनात् पापां याति वर्षकृतं नृणाम् || तुलसीमूलमृत्तिकामाहात्म्यम् गारुडे | तस्योपरिष्टाद्भवगन्निर्माल्यमनुलेपनम् | तथैव धार्य्यमेवं हि त्रिविधं तिलकं स्मृतमिति || पूर्वोक्त्या अथ तस्योपरि गोपीचन्दनतिलकोपरि | तत्र तु तस्योपरिष्टात्तुलसीमूलमृत्तिका तिलकोपरिष्टादित्यर्थः || तेन प्रथमं गोपीचन्दनतिलकं कृत्वा तदुपरि तुलसीमूलमृत्तिकातिलकं करणीयम् || तदुपरि च विष्णुनिर्माल्यानुलेपने तिलकं कार्य्यमिति त्रिविधं तिलकम् || अथ द्वादशतिलकविधिः || ब्रह्मपुराणे || ततो द्वादशभिः कुर्य्यान्नामभिः केशवादिभिः | द्वादशाङ्गेषु विधिवदूर्ध्वपुण्ड्राणि वैष्णवः || पद्मपुराणे उत्तरखण्डे || ललाटे केशवं ध्यायेन्नारायणमथोदरे | वक्षःस्थले माधवन्तु गोविन्दं कण्ठकूपके | विष्णुञ्च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् | त्रिविक्रमं स्कन्धदेशे वामनं वामपार्श्वके | श्रीधरं वामबाहौ तु हृसीकेशन्तु कन्धरे |
SKपृष्ठे तु पद्मनाभञ्च कट्यां दामोदरं न्यसेत् | तत्प्रक्षालनतोयन्तु वासुदेवेति मूर्द्धनि | योगिनीतन्त्रे || पिधाय तिलकं श्रेष्ठमेषामेकतमेन वा | चतुःसमञ्च त्रिसमं द्विसमञ्च सुरेश्वरि ! | अथालिप्य ततो देहमयने तु विवर्जयेत् | चतुःसममित्यादिपूर्वोक्तमलयजगोपीचन्दनविल्वतुलसीकाष्ठ-पद्मकृतमालगोरोचनानाम् | शीते रात्रौ पुनः स्नाने नानुलिप्य सुगन्धिभिः | ललाटे तु विशेषेण वराङ्गे न कदाचन || मत्स्यसूक्ते || न रात्रौ तिलकं कुर्य्याद् भक्त्वा नैव च नैव च | महागुरुनिपाते च तिलकं छेदयेन्नरः | बह्वृचपरिशिष्टम् | तत्रादावनुलेपेन भगवच्चरणाब्जयोः | निर्म्माल्येन प्रसादेन सर्वाण्यङ्गानि मार्जयेत् || ब्रह्मपुराणे || शालग्रामशिलालग्नं चन्दनं धारयेत् सदा | प्. ३४५) सर्वाङ्गेषु महाशुद्धिसिद्धये कमलासनम् || इत्यूर्ध्व पुण्ड्रप्रकरणम् | अथ त्रिपुण्ड्रधारणविधिः || राघवभट्टधृतम् || भस्माग्निहोत्रसम्भूतमानयेच्छोधिनं बुधः | यद्वा धरामसंस्पृष्टं सत्येनानीय गोमयम् || सत्येन प्रणवेन || वामेन पात्रे संशोध्य अघोरेण विनिर्दहेत् || तत्पुरुषेण समुद्धृत्य ईशानेन विशोधयेत् | इत्थन्तु संस्कृतं भस्म अग्निरित्यादिमन्त्रतः | विमृज्याङ्गानि संस्पृश्य पुनरादाय मन्त्रतः | तस्माद्ब्रह्मेति यजुषा मन्त्रयेद्रुद्रसंख्यया | प्रणवाद्यैश्चतुर्थी हृदन्तैस्त्वघोर ईशकैः | पञ्चवर्णाक्षराद्यैश्च भालांशोदरहृत्सु च | त्रिपुण्ड्रधारणं कुर्य्यान्मूर्द्ध्निं पञ्चाक्षरेण च | त्रिपुण्ड्रं धारयेन्मन्त्री साक्षाच्छिव इवापरः || वायवीसंहितायाम् भस्मग्रहणमन्यदप्युक्तम् || यथा | शिवाग्नेर्भस्म संग्राह्यमग्निहोत्रोद्भवन्तु वा | वैवाह्याग्न्युद्भवं वापि पक्वं शुचि सुगन्धि च | कपिलायाः शकृच्छुद्धं गृहीतं गगने पतत् | न क्लिन्नं नापि कठिनं न दुर्गन्धि न चोषितम् | उषितं पर्य्युषितमित्यर्थः || उपर्य्यधः परित्यज्य गृह्णीयात् पतितं यदि | पिण्डीकृत्य शिवाग्नौ तु प्रक्षिपेन्मूलमन्वतः |
SKअपक्वमतिपक्वञ्च सन्त्यज्य भसितं सितम् | आदाय यस्माच्छुद्धं तद् यथा भस्म प्रजायत इति कालाग्निरुद्रोपनिषदा वृषगोमयस्याप्येवम्प्रकारः प्रदर्शितः || वामेनेति || ॐ वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः | कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः || अघोरेणेति मन्त्रस्तु ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः || तत्पुरुषेणेति मन्त्रस्तु ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् || ईशानेनेति मन्त्रस्तु | प्. ३४६) ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मेऽस्तु सदाशिवौम् | अग्निरित्यादिमन्त्रस्तु | अग्निरिति भस्मवायुरिति भस्मजलमिति भस्मस्थलमिति भस्मव्योमेति भस्मसर्वहरा इदम् | भस्ममन एतानि सक्षूंषि तस्माद्व्रतमेतत् पाशुपतं यत् | भस्मनाङ्गानि संस्पृशेत् | तस्माद्ब्रह्म तदेतत् पाशुपतं पशुपतं पशुपाशविमोक्षाय | यजुषा यजुर्मन्त्रेण पञ्चाक्षरेण नमः शिवायेति मन्त्रेण वा कुलमूलावतारकल्पसूत्रतृतीयकाण्डटीकाधृता श्रुतिः || शुद्धद्रव्यं तदाग्नेयभस्मत्रिपुण्ड्रकं त्रिरेखात्मकमर्द्धचन्द्ररूपात्मकमर्द्धचन्द्ररूपम् || अथ सनत्कुमारप्रमाणस्य त्रिधा ललाटादाचक्षुः पश्चाद् भ्रूवोर्मध्यतः | यस्येह प्रथमा रेखा सा आहवनीयोऽर्क ऋग्वेदः | प्रातः सवनं महेश्वरः | यस्येह द्वितीया रेखा सावसथ्य उकारो यजुर्वेदः सदाशिवः | यस्येह तृतीया रेखा सा गार्हपत्यः परमात्मज्ञानशक्तिर्मकाराद्यैरिति || अथ कालाग्निरुद्रोपनिषत् || संबर्त्तोऽग्निर्-ऋषिर्विराड्विश्वरूपी रुद्रो देवता अनुष्टुप्छन्दः श्रीविश्वरूपप्रीत्यर्थे विनियोगः |
SKअथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ अधीहि भोस्त्रिपुण्ड्रविधिं सतत्त्वं किं द्रव्यं किञ्च स्थानं कति प्रमाणं का रेखाः के मन्त्राः किं दैवतं कः कर्त्ता किं फलमिति तं होवाच भगवान् कालाग्निरुद्रः | सत्यमुक्तं यद्द्रव्यं यदाग्नेयं यद्भस्म सद्योजातादि पञ्चरुद्रब्रह्ममन्त्रैः परिगृह्य अग्निरिति भस्म अनेनाभिमन्त्र्य मानस्तोक इति संक्षुभ्य त्र्यायुषमित्यादिना शिरोललाटस्कन्धकण्ठहृद्बाहुद्वयेषु त्रिभिरायुषैस्त्र्यम्बकैस्तिर्यक् तिस्रो रेखाः प्रकुर्वीत एतदेव तच्छाम्भवं सर्ववेदेषु वेदविद्भिरुक्तम् | तत् समाचरन् मुमुक्षुर्न पुनर्भवाय | भेदमाललाटादाचक्षुषोराभ्रुवोर्मध्यतः | कर्णादाकर्णपर्य्यन्तं तिर्य्यक् तिस्रो रेखाः प्रकुर्वीत | या स्यात् प्रथमा रेखा सा गार्हपत्याग्निश्चाकारा भूर्लोक आत्मक्रियाशक्तिश्च ऋग्वेदः | प्. ३४७) प्रथमं सवनं महेश्वरः या स्याद् द्वितीया रेखा सा दक्षिणाग्निरुकारः | सत्यमन्तरीक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदः | मध्यन्दिनं द्वितीयसवनं सदाशिवदेवेतेति | या स्यात् तृतीया रेखा सा आहवनीयोऽग्निर्मकारस्तमो द्यौः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं शिवदेवेति | त्रिपुण्ड्रकं भस्मना करोति यो विद्वान् ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स समस्तमहापातकोपपातकेभ्यः पूतो भवति सर्वान् वेदान् पठिता भवति सर्वतीर्थेषु स्नातो भवति स सन्ततं सर्वमन्त्रजापी भवति | सकलभोगभुग्देहं त्यक्त्वा शिवसायुज्यमेति न पुनरावर्त्तते | स वैष्णवः शिवः सोऽपि स च ब्रह्मा प्रजापतिः | स मुक्तः सर्वपापेभ्यो न पुनर्भवमिष्यते | इत्यस्ति भगवान् कालाग्निरुद्रः पुनराह | अग्निरिति भस्मजलमिति भस्मवायुमिति भस्मस्थलमिति भस्मसर्वं विश्वं तदाग्नेयं याज्ञ्यं वृषपुरीषभस्म तेन त्रिपुण्ड्रकं तेन तद्विद्वान् किञ्चिद्याज्ञिकं कर्म्म इत्याह भगवान् भवः || इति कालाग्निरुद्रोपनिषत् समाप्ता || वायवीयसंहितायां त्रयोदशसु स्थानेषु त्रिपुण्ड्रधारणमुक्तम् ||
SKयथा राघवभट्टधृतम् || ललाटे ब्रह्म विज्ञेयं हृदये हव्यवाहनः | नाभौ स्कन्धे गले पूषा रुद्रो दक्षिणबाहुके | आदित्यो बाहुमध्ये च शशी च मणिबन्धके | वामदेवो वामबाहौ बाहुमध्ये प्रभञ्जनः | मणिबन्धे च वसबः पृष्ठदेशे हरः स्मृतः | शम्भुः ककुदि सम्प्रोक्तः परमात्मा शिवः स्मृतः | तस्मात् कालाग्निरुद्रोपनिषद्वायवीयसंहितोक्तस्थानानामिच्छा-विकल्पः || पुरश्चरणलहरीतन्त्रे द्वितीयपटले || आग्नेयमुच्यते भस्म दग्धगोमयसम्भवम् | शोध्यं षडक्षरैर्मन्त्रैर्वेदमन्त्रविवर्जितैः | शिरोदेशे ललाटे च स्कन्धे च भ्रूप्रदेशके | मध्यमानामिकाङ्गुल्यङ्गुष्ठेन तिलकं ततः | प्. ३४८) तिलकस्तिस्रो रेखा स्याद्रेखाणां नव देवताः | पृथिव्यग्निस्तथा आत्मा क्रियाशक्तिर्महेश्वरः | देवता आद्यरेखाया भक्त्या ते परिकीर्त्तिताः | लभस्व त्वञ्च सुभगे ! द्वितीयायाश्च देवताः | परमात्मा शिवो देवस्तृतीयायास्तु देवते | एतान्नित्यं नमस्कृत्य त्रिपुण्ड्रं धारयेद् यदि | महेश्वरव्रतमिदं कृत्वा सिद्धीश्वरो भवेत् | ब्रह्मचारी गृहस्थो वा वनस्थो यतिरेव वा | महापातकसङ्घातैर्मुच्यते सर्वपातकात् | तथान्ये क्षत्रविट्शूद्रस्त्रीहत्यादिकपातकैः | वीरब्राह्मणहत्याभ्यां मुच्यते सुभगेश्वरि ! | अमन्त्रेणापि यत् कुर्य्यात् कृत्वा चैव महोन्नतिम् | त्रिपुण्ड्रभालतिलको मुच्यते सर्वपातकैः | परद्रव्यापहरणं परदाराभिमर्षणम् | परनिन्दा परक्षेत्रहरणं परपीडनम् | असत्यवाक्यं पैशुन्यं पारुष्यं देवविक्रयम् | कूटसाक्ष्यं व्रतत्यागं कैतवं नीचसेवनम् | गोभूहिरण्यमहिषीतिलकम्बलवाससाम् | अन्नधान्यजलादीनां नीचेभ्यश्च प्रतिग्रहः | दासीवेश्यासु कृष्टासु वृषलीषु नटीषु च | रजःस्वलासु कन्यासु विधवासु च सङ्गमः | मांसचर्म्मवसादीनां लवणस्य च विक्रयः | एवंरूपाण्यसंख्यानि पापानि विविधानि च | सद्य एव विनश्यन्ति त्रिपुण्ड्रस्य च धारणात् | शिवद्रव्यापहरणात्तन्निन्दायाश्च कुत्रचित् | निन्दायाः शिवभक्तानां प्रायश्चित्तैर्न शुध्यति |
SKदेवद्रव्यापहरणे ब्रह्मस्वहरणेन च | कुलान्याशु विनश्यन्ति ब्राह्मणातिक्रमेण च | रुद्राक्षा यस्य देहेषु ललाटे च त्रिपुण्ड्रकम् | यदि स्यात् स च चाण्डालः सर्ववर्णोत्तमोत्तमः | यानि तीर्थानि लोकेऽस्मिन् गङ्गाद्याः सरितश्च याः | स्नातो भवति सर्वत्र यल्ललाटे त्रिपुण्ड्रकम् | सप्तकोटिर्महामन्त्रा उपमन्त्रास्तथैव च | श्रीविष्णोः कोटिमन्त्राश्च कोटिमन्त्राः शिवस्य च | ते सर्वे तेन जप्ताः स्युर्यो बिभर्त्ति त्रिपुण्ड्रकम् | सहस्रं पूर्वजातानां सहस्रञ्च जनिष्यताम् | प्. ३४९) स्ववंशजानां मर्त्यानामुद्धरेद्यस्त्रिपुण्ड्रधृक् | अष्टैश्वर्य्यगुणोपेतः प्राप्य दिव्यत्रिपुण्ड्रतः | दिव्यं विमानमारुह्य दिव्यस्त्रीशतसेवितः | विद्याधराणां सिद्धानां गन्धर्वाणां महौजसाम् | इन्द्रादिलोकपालानां लोकेषु च यथाक्रमम् | भुक्त्वा भोगान् सुविपुलान् प्राक्तनानां पुरेषु च | ब्रह्मणः पदमासाद्य तत्र कल्पायुतावधि | विष्णोर्लोके च रमते आब्रह्मणः शतायुषम् | शिवलोकं ततः प्राप्य रमते कालमक्षयम् | शिवसायुज्यमाप्नोति न स भूयो विजायते || इति त्रिपुण्ड्रधारणफलम् || शाक्तानन्दतरङ्गिणीधृतभविष्यपुराणे || त्रिपुण्ड्रेण विना कुर्य्याद् यां काञ्चिद्वैदिकीं क्रियाम् | सा निष्फला भवेद्देवि ! ब्रह्मणापि कृता यदि || श्यामाप्रदीपे तु स्कन्दपुराणीयमिति कृत्वा लिखितम् || कूर्मपुराणे || वैष्णवो वाथ शैवो वा शाक्तो वा सौर एव वा | त्रिपुण्ड्रेण विना पूजां कुर्वाणो यात्यधोगतिम् || शिवधर्मे | सितेन भस्मना कुर्य्यात् ललाटे च त्रिपुण्ड्रकम् | सर्वपापविनिर्मुक्तः शिवलोके महीयते || भस्मेत्युपलक्षणं द्रव्यान्तरेणापि त्रिपुण्ड्रं कार्य्यम् || सर्वस्त्रिपुण्ड्रकं कुर्य्यात् सर्वदा यज्ञभस्मना | तदभावे चन्दनेन मृदा वा वारिणापि वा | इति भविष्यपुराणवचनात् | यत्किञ्चित् कुरुते कर्म विना विप्रस्त्रिपुण्ड्रकम् | व्यर्थमेव भवेत् सर्वं बन्ध्यास्त्रीसङ्गमो यथा | सच्छिद्रं कुरुते यस्त्रिपुण्ड्रं पशुमतिर्द्विजः | धर्मार्थकाममोक्षेषु तस्य छिद्रं प्रजायते | इति सच्छिद्रत्रिपुण्ड्रधारणनिन्दा |
SKननूर्द्ध्वपुण्ड्रे त्रिपुण्ड्रकरणमुक्तवचनजातात् निषिद्धं पूर्वोक्तकूर्मपुराणवचनेन वैष्णवादीनां त्रिपुण्ड्रेण विना पूजाकरणे दोषश्रुतिश्चेति लम्बोदरस्य रतिकाले प्रियामुखचुम्बनमिवैकं सन्धित्सतोऽन्यत् प्रच्यवत इति चेति नैवम् | ऊर्ध्वपुण्ड्रत्रिपुण्ड्रयोः सच्छिद्रकरणनिषेधो वैधेतरपर इत्यवेहि | सर्वत्रैव निषेधस्य वैधभिन्नपरत्वाद् यथा विशिखनिन्दा प्रायश्चित्ताद्यनाघ्रातपरा | प्. ३५०) अत-एव शैवैस्तूर्ध्व पुण्ड्रधारणानन्तरमेव भस्मना त्रिपुण्ड्रधारणमपि कार्य्यं यतो द्विजानामूर्ध्वपुण्ड्रस्थावश्यकत्वमिति राघवभट्टः || अथ शक्तितिलकम् || शाक्तानन्दतरङ्गिणीधृतगौतमीये || तिलकं रक्तगन्धेन चन्दनेनाथ वा प्रिये ! | देव्यस्त्रं विलिखेद्भाले ताराबीजं ततो हृदि | शक्तिमध्यगतां कुर्य्यादित्येतच्छक्तितिलकम् || तिलके निजदेवास्त्रमिति प्रागुक्तेनैकवाक्यतया देव्यस्त्रं स्वीयेष्टदेवतावीजमिति || अन्नदाकल्पे पञ्चमपटले || प्रक्षाल्य पाणिपादौ च रक्तवस्त्रयुगं ततः | परिधायार्द्धचन्द्राभं सबिन्दुं तिलकं चरेत् | चन्दनेन सुरक्तेन कुङ्कुमेनाथ वा पुनः | सिन्दूरबिन्दुसंयुक्तं रेखात्रयविराजितम् | देवीपादाम्बुजरजो ध्यात्वा मूलेन साधकः | पूजाधिकारी दुर्गाया यथासौ चन्द्रशेखरः || कृष्णार्च्च्नचन्द्रिकाधृतमालिनीविजयेऽपि || भाले चन्द्राद्धरेखा त्रितयविरचितं विद्युदाभाविलासं तस्याधश्चान्तरालेऽरुणकिरणनिभं भ्रूयुगस्याथ बिन्दुम् | हृण्मध्ये पद्मरूपं शशधरविशदं दोर्युगे वीरणाभं स्थानेष्वन्येषु बिन्दून् रचयति तिलकं सो हि विश्वेशरूपः || भ्रूयुगस्यान्तराले मध्ये रक्तवर्णं बिन्दुं रचयतीत्यन्वयः | हृण्मध्ये श्वेतपद्मरूपमित्यर्थः | दोर्युगे बाहुद्वये | वीरणाभं वीरणपत्राकारम् | अन्येषु स्थानेषु पुरोक्तेषु इति एतच्छब्दस्य प्रयोगस्तच्छब्दार्थमभिधत्ते | उक्तञ्च सर्वनामसूत्रटीकायां त्यत्तदावेकार्थौ यदि निर्दिष्टार्थौ |
SKइतरे त्रयः साभिनयप्रत्यक्षे साभिनयो हस्तभङ्गिमादिरिति कुलचन्द्रः | अन्यथा विमर्गलोपे सतीत्यनेन च्छन्दोभङ्गः स्यात् | प्रक्रान्तवाचिनस्तस्य न यच्छब्दापेक्षा | उक्तञ्च काव्यप्रकाशे || एवं प्रक्रान्तप्रसिद्धानुभूतार्थविषयकस्तच्छब्दोऽपि यच्छब्दस्योपादनं नापेक्षते | ऋजवस्तु तन्त्रेऽपशब्दविचारनिषेधात् सो हीति पठन्ति | प्. ३५१) जले यदि सन्ध्यादि क्रियते तदा यागमण्डपं गत्वा उपविश्य तिलकं कार्य्यम् || अन्नदाकल्पे तथोक्तत्वात् || इति श्रीप्राणतोषिण्यां तृतीये अर्थकाण्डे स्नानादितिलकान्तप्रशाखाकथनरूपस्तृतीयः परिच्छेदः || अथ सन्ध्या || वैदिकसन्ध्यानन्तरं तान्त्रिकी सन्ध्या कार्य्या || तथाच पुरश्चरणरसोल्लासे प्रथमपटले | प्रातःस्नानं समासाद्य सन्ध्यां परमदुर्लभाम् | उपास्य चञ्चलापाङ्गि ! गायत्रीं प्रजपेत्ततः | ततस्तु तान्त्रिकीं सन्ध्यां गायित्रीं तान्त्रिकीं तथा | सूर्य्यार्घ्यञ्च ततो दत्त्वा पूजार्थं गृहमाविशेत् || वृहन्नीलतन्त्रे प्रथमपटलेऽपि || आदौ च वैदिकीं सन्ध्यां कृत्वा चागमसम्मताम् | सन्ध्यां कृत्वा ततो वीरः कुलकोटीः समुद्धरेत् | तथा | एतत्सन्ध्यात्रयेणैव दिवारात्रौ च वन्दनेति || गन्धर्वतन्त्रे षष्ठपटले || अपरां कथयाम्यत्र सर्वपापविनाशिनीम् | उपविश्य शुचौ देशे त्रितत्त्वेन त्रिधाचमेत् | प्राणायामत्रयं कृत्वा त्रिधावीजैस्त्रिधाविधम् | वामहस्ते जलं गृह्य गलितोदकबिन्दुभिः | सप्तधा प्रोक्षणं कुर्य्यान्मूर्द्ध्नि मन्त्रमनुस्मरन् | अवशिष्टोदकं दक्षहस्ते संगृह्य साधकः | नासामाश्लिष्य तोयेन ततस्तेनाघमर्षणम् | इडयाकृष्य देहान्तः क्षालितैः पापसञ्चयैः | कृष्णवर्णं तदोदकं वामनाड्या विरेचितम् | दक्षहस्ते तु तन्मन्त्री पापरूपं विचिन्त्य च | पुरतो वज्रपाषाणे निक्षिपेदस्त्रमन्त्रतः | इत्यघमर्षणं कृत्वा पुनराचमनं तथा | अभिषिञ्चेत्ततो मूर्ध्नि विधिना साधकोत्तमः | ॐ आपो देवी रसोऽमृतं पूतं ब्रह्म पुनीमहे | जलाञ्जलित्रयं भूमौ मार्त्तण्डभैरवाय च |
SKऊर्ध्वबाहुस्ततो मन्त्री मार्त्तण्डं समुपाश्रयेत् | ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्य्यम् | मार्त्तण्डशेषे देवेशि ! भैरवं पदमीरयेत् | एतादृक् सन्ध्या तु गौड देशे न प्रचरद्रूपा | प्. ३५२) गौडदेशीया तु तोडलतन्त्रे तृतीयपटले || आत्मविद्याशिवैस्तत्त्वैराचामेत् पाथसा तथा | वह्नि जायान्विता मन्त्रा विज्ञेयाः प्रणवादिकाः | गङ्गे चेत्यादिना देवि ! तीर्थावाहनमाचरेत् | मूलेन मनुना भूमौ त्रिवारं निक्षितेत् सुधीः | तज्जलेन सप्तवारमात्माभिषेकमाचरेत् | अङ्गन्यासं ततः कृत्वा वामहस्ते सुरेश्वरि ! | गगनं वायुवीजञ्च वरुणं भूमिवीजकम् | वह्निबीजं बिन्दुयुतं त्रिवारं जपमाचरेत् | अनेन मनुना देवि ! तज्जलञ्चाभिमन्त्रितम् | मूलमन्त्रं समुच्चार्य्य सप्तधा तत्त्वमुद्रया | आत्माभिषेकमात्रेण मुच्यते सर्वपातकैः | शेषं जलं महेशानि ! दक्षहस्ते समानयेत् | इडया पूरयेत्तोयं क्षालयेद्देहमध्यगम् | ततः पिङ्गलया देवि ! तत्तोयन्तु विरेचयेत् | कृष्णवर्णं तदुदकं पापरूपं विचिन्तयेत् | पुरतो वज्रपाषाणे फट्कारेण विनिक्षिपेत् | हस्तं प्रक्षाल्य चाचम्य सूर्य्यायार्घ्यं निवेदयेत् | देवतार्घ्यं ततः पश्चात् गायत्रीं परमाक्षरीम् | प्रपठेत्तु ततो धीमान् त्रिवारं जलमुत्क्षिपेत् | ततो जपेन्महामन्त्रं गायत्रींपरमाक्षरीम् | अङ्गन्यासं ततः कृत्वा आचम्य परमेश्वरि ! | इष्टदेवीं महेशानि ! ध्यात्वा तु रविमण्डले | प्राणायामादिकं कृत्वा चाष्टोत्तरशतं जपेत् || कल्पसूत्रटीकातृतीयकाण्डधृतलक्ष्मीकुलार्णवे || सन्ध्यया तु विहीनो यो न दीक्षाफलमाप्नुयात् | मन्त्रसन्ध्यापूर्विका सन्ध्या कार्य्या तदुक्तं नवरत्नेश्वरे || वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगत इति || महानिर्वाणतन्त्रे पञ्चमोल्लासेऽपि || सन्ध्यां समाचरेन्मन्त्री तान्त्रिकीं शृणु कथ्यते | आचम्य पूर्ववत्तोये तीर्थान्यवाहयेच्छिवे ! | गङ्गे चेत्यादिमन्त्रेण मुद्रयाङ्कुशसंज्ञया | आवाह्य तीर्थं सलिले मूलं द्वादशधा जपेत् |
SKततस्तत्तोयतो बिन्दून् त्रिधा भूमौ विनिक्षिपेत् | अङ्गुष्ठानामिकायोगान्मूलोच्चारणपूर्वकम् | सप्तवारं स्वमूर्द्धानमभिषिच्य ततो जलम् | प्. ३५३) वामहस्ते समादाय छादयेद्दक्षपाणिना | ईशानवायुवरुणवह्नीन्द्रवीजपञ्चकम् | प्रजप्य वेदधा तोयं दक्षहस्ते समानयेत् | वीक्ष्य तेजोमयं ध्यात्वा चेडयाकृष्य साधकः | देहान्तः कलषं तेन रेचयेत् पिङ्गलाख्यया | निष्कृष्य पुरतो वज्रशिलायां वज्रमुच्चरन् | त्रिवारं ताडयेन्मन्त्री हस्तौ प्रक्षालयेत्ततः | आचम्योक्तेन मन्त्रेण सूर्य्यायार्घ्यं निवेदयेत् | तारमाया हंस इति घृणिसूर्य्यस्ततः परम् | इदमर्घ्यं तुभ्यमुक्त्वा दद्यात् स्वाहेत्युदीरयन् | ततो ध्यायेन्महादेवीं गायत्रीं परदेवताम् | प्रातर्मध्याह्नसायाह्ने त्रिरूपं गुणभेदतः | प्रातर्वह्निरक्तवर्णां द्विभुजाञ्च कुमारिकाम् | कमण्डलुं तीर्थपूर्णमक्षमालाञ्च बिभ्रतीम् | कृष्णाजिनाम्बरधरां हंसारूढां शुचिस्मिताम् || १ || श्यामवर्णां वैष्णवीञ्च चतुर्भुजां महेश्वरि ! | शङ्खचक्रगदापद्मधारिणीं गरुडासनाम् | पीनतुङ्गकुचद्वन्द्वां वनमालाविभूषिताम् | युवतीं सततं ध्यायेन्मध्ये मार्त्तण्डमण्डले || २ || सायाह्ने वरदां देवीं गायत्रीं संस्मरेद्यतिः | शुक्लांशुक्लाम्बरधरां वृषासनकृताश्रयाम् | त्रिनेत्रां वरदां पाशं शूलञ्च नृकरोटिकाम् | बिभ्रतीं करपद्मैश्च वृद्धां गलितयौवनाम् || ३ || एवं ध्यात्वा महादेव्यै जलानामञ्जलित्रयम् | दत्त्वा जपेत्तु गायत्रीं दशधा शतधापि वा | त्रिसन्ध्यमेतां प्रजपन् सन्ध्यायाः फलमाप्नुयात् | ततस्तु तर्पयेद्देवि ! देवर्षिपितृदेवताः | प्रणवः स द्वितीयाख्यस्तर्पयामि नमः पदम् | शक्तौ तु प्रणवो मायां नमः स्थाने द्विठं वदेत् | ततश्चार्घ्यं महादेव्ये दत्त्वा मूलं जपेत् सुधीः | यथाशक्ति जपं कृत्वा देव्या वामकरेऽर्पयेत् | प्रणम्य देवीपूजार्थं जलमादाय साधकः | नत्वा तीर्थे पठन् स्तोत्रं देवताध्यानतत्परः | यागमण्डपमागत्य पाणिपादौ विशोधयेत् || वृहन्नीलतन्त्रे प्रथमपटले ||
SKसन्ध्यां सायन्तनीं कुर्य्याद् द्वादश्यादिष्वपि प्रिये ! | प्. ३५४) अकुर्वन्निरयं याति यतो नित्यागमक्रिया | एतद्वचनमविज्ञाय वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगत इति तन्त्रसारधृतवचने अनुक्रमपदस्वरसात् यत्र वैदिकी सन्ध्या न विद्यते तत्र तान्त्रिक्यपि न करणीया | तेन द्वादश्यादौ सायम् एवमशौचादौ तान्त्रिकसन्ध्या न कार्य्येति कश्चिद्वदति तन्न | अशौचस्य वैदिकविषयत्वादिति || तथा च विश्वसारतन्त्रे द्वितीयपटले || महागुरुनिपातादौ न पूजाया विकल्पना | मोहाद्वा यदि वा दैवात् पूजयेन्न कदाचन | तस्य सर्वविनाशः स्यादित्युक्तन्तु सदाशिवैरिति | पूजयेदिति तान्त्रिकनित्यकर्मोपलक्षणम् | यथा कामदतन्त्रे नवमपटले || उपासका ये श्रीकाल्यास्ते शुद्धाः सर्वदैव हि | जनुर्मरणजाशौचं तथान्यद् यदशौचकम् | सर्वं न बाधते क्वापि कालिकाया उपासके | गङ्गेव शुद्धः सततं किमशौचं सुरेश्वरि ! | कालीमुद्दिश्य पूजादिजपहोममशौचके | न त्याज्यं तेन शाक्तेन सर्वं कार्य्यं सदैव हि | कालीमुद्दिश्य दानादि न च त्याज्यमशौचके | सर्वदा परमः शुद्धः शाक्त एव महेश्वरि ! | अत्र शाक्त इति सामान्येनोपदानात् पूर्ववचने काल्या इति शक्तिमात्रोपलक्षणम् || अथ योगिनां सन्ध्या कल्पसूत्रटीकायां तृतीयकाण्डे || या गुरुरूपिणी मृणालसूत्रान्तरगा स्वप्रकाशा कुण्डलिनीशक्तिः कुलाकुलसमरसभावेन साधनान्तर्ध्येया | तथा मध्याह्नसमये तरुणावयवामतिभास्वरां कामराजरूपिणीं मूलादिब्रह्मरन्ध्रान्तं ब्रह्मरन्ध्रादिमूलान्तं ध्यायेत् | तथा सायंसमये श्वेतवर्णां शक्तिवीजस्वरूपां मृणालतन्तुनिभां कुलाकुलयोगेनानुसन्दध्यात् | अर्द्धरात्रे परापरकुण्डलिनीरूपां पद्मरागवर्णां मूलादिहृदयार्व्यन्तं वाग्भववीजरूपिणीं हृदयाद्भ्रूमध्यपर्य्यन्तं कामवीजरूपां भ्रूमध्याद्ब्रह्मरन्ध्रान्तं शक्तिवीजरूपां ध्यायेत् | तदुक्तमुदयाकरपद्धत्याम् || आद्या मृणालसूत्राभा पीता रक्ता तु मध्यमा | प्. ३५५) श्वेता त्वन्तर्गता शक्तिः सन्ध्याचोभयरूपिणी |
SKतर्पणन्तु मूलाधारात् सोमसूर्य्याग्निरूपिणीम् | कुण्डलिनीं समुत्थाप्य परबिन्दुं निर्भिद्य तदुद्भवामृतेन स्वेष्टदेवतां तर्पयेत् | तदुक्तं नवचक्रेश्वरे || चन्द्रार्कानलसङ्घट्टाद् गलितं यत्परामृतम् | तेनामृतेन दिव्येन तर्पयेत् सुन्दरीं पराम् || अथ सूर्य्यपूजा || मूलाधारात् कुलकुण्डलिनीमुत्थाप्य हृदयार्कमण्डलं नीत्वा तत्कर्णिकान्तर्गतसुधाधारया मूलमन्त्रं स्मरन् सिञ्चेदिति योगिनामन्तर्यागः || अथ कौलानां सन्ध्या गन्धर्वतन्त्रे षष्ठपटले || आत्मानं सर्वदा सम्यक् ध्यायेद् ध्यानपरायणः | देवताभेदतः सन्ध्या मानसीयं परा प्रिये ! | शिवशक्त्योः समायोगो यस्मिन् काले प्रजायते | सा सन्ध्या कुलनिष्ठानां समाधिस्थैः प्रतीयते | भूतशुद्धितन्त्रे प्रथमपटलेऽपि || अन्तः सन्ध्यां महेशानि ! शृणु यत्नेन पार्वति ! | शिवशक्तिसमायोगो यस्मिन् काले प्रजायते | सा सन्ध्या कुलसाधूनां समाधिस्थैः प्रतीयते || वैदिकसन्ध्यादिप्रयोगस्तु ब्राह्मणसर्वस्वादावनुसन्धेयः | केवलमार्जनस्य विशेषो निर्वणतन्त्रे तृतीयपटले यथा | आपो मार्जनमन्त्रस्य प्रकारं शृणु यत्नतः | भूमौ शिरसि चाकाशे आकाशे भूमिमस्तके | मूर्ध्निभूमौ तथाकाशे यजुर्वेदे सुरेश्वरि ! | सामाथर्वैरिदं देवि ! ऋग्वेदे शृणु शैलजे ! | शून्ये शिरसि चाकाशे भूमौ शून्ये शिरे तथा | भूमौ शून्ये तथा मूर्ध्नि चापो मार्जनमाचरेत् | आपोहिष्ठेति मन्त्रस्य अष्टाक्षरक्रमेण तु | मार्जनं तत्क्रमेणैव सर्वपापविनाशनम् | व्यतिक्रमेण चार्वङ्गि ! ब्रह्महत्या पदे पदे | वरथस्त्रीन् मूर्ध्नि दद्याद् ये सवो व्योम्नि चोच्यते | भूमौ दद्यान्न त्रयेण इति सम्मार्जनं विदुः | अत-एव क्रमं सर्वं तव स्नेहात् प्रकाशितम् | स्तुतिञ्च कवचं देवि ! पठित्वा प्रणमेत् सुधीः | अथ गायत्री || प्. ३५६) निर्वाणतन्त्रे तृतीयब्राह्मणपटले || गायत्रीं शृणु चार्वङ्गि ! चतुर्वेदप्रपूजिताम् | वेदमातेति विख्यातां त्रिवर्गफलदायिनीम् | हालाहलं समुद्धृत्य इत्यादि गायत्री ज्ञेया ||
SKइति जप्त्वा महेशानि ! मुक्तो भवति नान्यथा | अन्त्ययकारयोः स्थाने य इति च यः पठेत् | स चण्डाल इति ख्यातो ब्रह्महत्या दिने दिने | अत-एव महेशानि ! तव स्नेहात् प्रकाशितम् | सावित्री परमा विद्या त्रैलोक्ये च सुदुर्लभा | अस्या ग्रहण मात्रेणाभूद्ब्रह्मा नात्र संशयः || यत्तु गायत्रीतन्त्रस्य प्रथमब्राह्मणपटले || प्रणवत्रयसंयुक्तं ब्राह्मणेषु प्रकीर्त्तितम् | क्षेत्रादौ परमेशानि ! शस्यते प्रणवद्वयम् || द्वितीयब्राह्मणपटलेऽपि || प्रणवत्रयसंयुक्तां गायत्रीं प्रजपेत्तु यः | गायत्र्याः फलमाप्नोति अन्यथारण्यरोदनमिति | प्रणवत्रययुक्तगायत्रीकथनम् | तत्प्रबलकलौ तत्पुटितत्वाभिप्रायेण तथा च तत्रैव || विद्या वा उपविद्या वा प्रणवैः पुटितं कलौ | जप्त्वा सिद्धिमवाप्नोति तदृते विफलं भवेत् || अस्यार्थः | राघवभट्टधृतम् || तत्र प्रणवेन ब्रह्म प्रतिपाद्यते व्याहृतिभिरपि तदेव प्रतिपाद्यते | भूरिति सन्मात्रमुच्यते सर्वं भावयति प्रकाशयति इति व्युत्पत्त्या भुवमिति चिद्रूपमुच्यते | सर्वप्रेरणात् स्वरिति तेजोरूपत्वात् पूजनीयत्वात् मह इति | सर्वजननत्वाज्जन इति | ज्ञानस्वरूपतया सर्वतापनतया वा तप इति | परत्वात् सर्वात्मकत्वान् अनन्तज्ञानत्वात् सत्यमिति सप्तव्याहृतिभिः परं ब्रह्मैवोच्यते | प्रणवेन सह आसामान्तरः सम्बन्धो यथा | प्रणवस्य अकारादिसप्तमात्राः सप्तव्याहृतय इति यद्वा भूरादिसप्तलोकाः प्रणववाच्यब्रह्मात्मकास्तदतिरिक्तं न किञ्चिदस्तीत्यर्थः | तत्पदेन ब्रह्मोच्यते | ॐ तत् सदिति निर्देशो ब्रह्मणस्त्रिविधो मत इति वचनात् | सुञ् प्राणिप्रसव इति धातोर्जातत्वात् सर्वप्रपञ्चोपदेशकत्वेन सवितुरिति | निरतिशयानन्दरूपत्वात् सर्ववरणीयत्वात् सर्वसेवनीयमिति वरेण्यम् | प्. ३५७) पापतर्जनाद्भक्तवर्त्मनाऽभयाद्भर्गः | सर्वप्रकाशकत्वेन देवस्येति सवितुर्देवस्येत्यत्र षष्ठीप्रयोगो राहोः शिरवदौपचारिकत्रयं भूतम् | ब्रह्मधीमहि ध्यायेमहि नोऽस्माकं धियो बुद्धीर्यः प्रचोदयात् प्रेरयेत् |
SKअत्र य इति लिङ्गव्यत्ययः छान्दसत्वात् | तेन सर्वान्तःकरणप्रकाशकः सर्वसाक्षी परमात्मोक्तः | व्याप्नोतीत्यापः सर्वप्रकाशकमिति ज्योतिः सर्वातिशायित्वात् ह्रस्वः | यद्वा | आपोज्योतीरस इति सोमाग्न्योस्तेज उच्यते | यतस्तदात्मकं जगत् | अनाशित्वादमृतं वृहत्त्वाद्वृंहणत्वाद् ब्रह्म सत्यज्ञानानन्दलक्षणम् | भूर्भुवःस्वःपदवाच्यं सोऽहमित्यास्पदवाच्यमिति | एवं सर्वात्मकब्रह्मबोधको गायत्रीमन्त्रः | प्रणवाद्या इति व्याहृतिः सम्बध्यते | तत्पदादिकेत्यग्रिमेण सम्बध्यते || अत्र सप्त व्याहृतयः || ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् | एतदग्रे तत् सवितुरिति ऋक् तदन्ते ॐ आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः स्वरोमिदं शिवह् | अस्यास्तन्त्रान्तरोक्तं वीजादिर्यथा | रे इत्येतत्तु बीजं स्याद् यवर्णं शक्तिरुच्यते | नीत्येतत् कीलकं प्रोक्तं गायत्र्यास्त्रिपदात्मन इति | पत्सन्धिष्विति पादद्वयसन्धिचतुष्के अक्षरचतुष्कं तदुक्तं पद्द्वयसन्धिचतुष्कमिति | एवं भुजद्वयसन्धिचतुष्के अक्षरचतुष्कम् | अन्यत्रैकैकमक्षरम् एवं चतुर्विंशत्यक्षराणि न्यसनीयानि | नीयेत्यस्य पृथक् तेन चतुर्विंशत्यक्षरात्मकं प्रत्येकमक्षराणाम् ऋषिच्छन्दोदेवताध्यानमुच्यते | अक्षराणाञ्च सर्वेषां प्रजापतिर्-ऋषिस्तथा | विनियोगोऽङ्गविन्यासे गायत्रीच्छन्द उच्यते | अक्षराणान्तु सर्वेषां वक्ष्यन्ते देवताः क्रमात् | अग्निवायुसूर्य्यविद्युद्यमा वरुण एव च | वृहस्पतिश्च पर्जन्य इन्द्रो गन्धर्व एव च | पूषा शिवश्च त्वष्टा च वासवश्च मरुत्तथा | सोमोऽङ्गिरा विश्वेदेवा अश्विनी च प्रजापतिः | प्. ३५८) सर्वदेवश्च रुद्रश्च ब्रह्मा विष्णुस्तु देवताः | जपकाले चिन्तनीयास्तासां सायुज्यमाप्नुयात् | तत्कारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् | शतपत्रासनारूढं ध्यायेत् सुस्थासनस्थितम् | सकारं चिन्तयेदेवमतसीपुष्पसन्निभम् | पद्म मध्यस्थितं सौम्यमुपपातकनाशनम् |
SKअतसीकुसुमाभा ते-उडीति यस्य भाषा नत्वतसी शोणपुष्पं वक्ष्यमाणगायत्रीतन्त्रोक्तवचने श्यामवर्णदर्शनात् || विकरं कपिलं नित्यं कमलासनसंस्थितम् | ध्यायेच्छान्तः द्विजश्रेष्ठो महापातकनाशनम् | तुकारं चिन्तयेत् प्राज्ञ इन्द्रनीलसमप्रभम् | निर्दहेत् सर्वपापाणि ग्रहरोगसमुद्भवम् | र्वकारं वह्निदीप्ताभं चिन्तयेच्च विचक्षणः | भ्रूणहत्याकृतं पापं तत्क्षणादेव नश्यति | रेकारं विमलं ध्यायेत् शुद्धस्फटिकसन्निभम् | पापं नश्यति तत् क्षिप्रमगम्यागमनोद्भवम् | णीकारं चिन्तयेद् योगी शुद्धस्फटिकसन्निभम् | अभक्ष्यभक्षणं पापं तत्क्षणादेव नश्यति | यकारं तारकावर्णमिन्दुशेषविभूषितम् | योगिनां वरदं ध्यायेद् ब्रह्महत्याविनाशनम् | भकारं कृष्णवर्णन्तु नीलमेघसमप्रभम् | ध्यात्वा पुरुष इत्यादि पापं नाशयति द्विजः | र्गोकारं रक्तवर्णञ्च कमलासनसंस्थितम् | गोहत्यादिकृतं पापं ध्यात्वा नश्यति तत्क्षणात् | देकारं रक्तसङ्काशं कमलासनसंस्थितम् | चिन्तयेत् सततं योगी स्त्रीहत्या दहनं परम् | वकारं चिन्तयेच्छुद्धं जातीपुष्पसमप्रभम् | गुरुहत्याकृतं पापं ध्यात्वा नश्यति तत्क्षणात् | स्यकारन्तु तथा पीतं सुवर्णसदृशप्रभम् | मनसा चिन्तितं पापं ध्यात्वा नुदति चानघः | धीकारं चिन्तयेच्छुक्लं कुन्दपुष्पसमप्रभम् | पितृमातृबधात् पापान्मुच्यते नात्र संशयः | मकारं पद्मरागाभं चिन्तयेद्दीप्ततेजसम् | पूर्वजन्मार्ज्जितं पापं तत्क्षणादेव नश्यति | हिकारं शङ्खवर्णन्तु पूर्णचन्द्रसमप्रभम् | अशेषपापदहनं ध्यायेन्नित्यं विचक्षणः | प्. ३५९) धिकारं पाण्डवं ध्यायेत् पद्मस्योपरिसंस्थितम् | प्रतिग्रहकृतं पापं स्मरणादेव नश्यति | योकारं रक्तवर्णन्तु इन्द्रगोपसमप्रभम् | ध्यात्वा प्राणिबधे पापं निर्दहेन्मुनिपुङ्गवः | द्वितीयश्चैव यः प्रोक्तो योकारो रक्तसन्निभः | निर्दहेत् सर्वपापाणि नान्यैः पापैः प्रलिप्यते | नःकारन्तु मुखःपूर्वमादित्योदयसन्निभम् |
SKसकृद्ध्यात्वा द्विजश्रेष्ठः स गच्छेत् परमं पदम् | नीलोत्पलदलश्याभं प्रकारं दक्षिणायनम् | सकृद्ध्यात्वा द्विजश्रेष्ठः स गच्छेदैश्वरं पदम् | सौम्यं गोरोचनापीतं चोकारं चतुराननम् | सकृद्ध्यात्वा द्विजश्रेष्ठः स गच्छेद्वैष्णवं पदम् | शुक्लवर्णेन्दुसङ्काशं दकारं पश्चिमाननम् | सकृद्ध्यात्वा द्विजश्रेष्ठः स गच्छेद्ब्रह्मणः पदम् | यात्कारन्तु शिवं प्रोक्तं चतुर्वदनसप्रभम् | प्रत्यक्षफलदो ब्रह्मविष्णुरुद्र इति स्मृतिः | एतद्ध्यात्वा तु मेधावी जपं होमं करोति यः | न भवेत् सूतकं तस्य मृतकञ्च न विद्यते | यस्त्वेवं न विजानाति गायत्रीञ्च तथाविधाम् | कथितं सूतकं तस्य मृतकञ्च मयानघ ! | नैव दानफलं तस्य न च यज्ञफलं भवेत् | न च तीर्थफलं प्रोक्तं तस्यैव सूतके सतीति || अथ वर्णकल्पः | तथा गायत्रीतन्त्रे || तकारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् | त्सकारं चिन्तयेत् श्यामं विकारं कपिलं तथा | तुकारमिन्द्रनीलाभं र्वकारं वह्निसन्निभम् | रेकारं वह्निसङ्काशं णिकारं रक्तवर्णकम् | यङ्कारं धूम्रसङ्काशं भकारं कृष्णमेव च | र्गोकारं रक्तवर्णञ्च देकारं श्यामलं तथा | वकारं शुक्लसङ्काशं स्यकारं नीलशोभितम् | धीकारं कुन्दपुष्पाभं मकारं शुक्लमेव च | हिकारं चन्द्रसङ्काशं धिकारं पीतमेव च | योकारं तडिदाकारं योकारं धूम्रवर्णकम् | अशेषं शोषयेत् पापं वायुबीजं यथा तथा | नकारन्तु मुखं प्रोक्तं प्रतप्तकनकप्रभम् | नकारस्य समीपे तु बिन्दुद्वयं विशेषतः | ऊर्ध्वबिन्दुरक्तवर्णमधः श्यामं प्रकीर्त्तितम् | प्. ३६०) नीलोत्पलदलश्यामं प्रकारं दक्षिणामुखम् | सौम्यं गोरोचनापीतं चोकारं पश्चिमामुखम् | शुक्लशङ्खसमाकारं दकारं चतुरामुखम् | यात्कारं मूर्ध्नि विज्ञेयं ऊर्ध्वास्यं ब्रह्ममन्दिरम् || पूर्वोक्तगायत्रीवर्णध्यानोक्तवर्णेन यत्र यत्र विशेषस्तत्र तत्राम्नायभेदेन ज्ञेयः || अथ गायत्रीयन्त्रम् || आदौ त्रिकोणं विन्यस्य षट्कोणं तद्वहिर्न्यसेत् |
SKवृत्तञ्चाष्टदलं पद्मं तद्वहिश्चतुरस्रकम् | चतुर्द्वारसमायुक्तं सावित्रीयन्त्रमीरितम् || शारदायाम् || विधाय मण्डलं विद्वान् त्रिकोणोज्ज्वलकर्णिकम् | मण्डलमिति सर्वतोभद्रमण्डलम् || त्रिकोणोज्ज्वलमिति तत्कर्णिकायां त्रिकोणं लिखेत् || अथ गायत्र्या ऋष्यादिन्यासः || शारदातिलके एकविंशतिपटले || ऋष्याद्याः प्रणवस्यैते मुनिभिः परिकीर्त्तिताः | जमदग्निभरद्वाजभृगुगौतमकाश्यपान् | विश्वामित्रवशिष्ठाख्यौ व्याहृतीनामृषीन् विदुः | गायत्र्युष्णिगथानुष्टुव्वृहतीपङ्क्तयः पुनः | त्रिष्टुव्जगत्यौ छन्दांसि कथितानि मनीषिभिः | सप्तार्चिर्बलिनः सूर्य्यो वाक्पतिर्वरुणो वृषा | विश्वेदेवाः क्रमादासां देवताः परिकीर्त्तिताः | गायत्र्या मुनिराख्यातो विश्वामित्रो महाद्युतिः | गायत्रीच्छन्द इत्युक्तं देवता सविता स्मृता | शिरसोऽस्य मुनिर्ब्रह्मा छन्दोदेव्यादिका स्मृता | गायत्री परमात्मा स्याद्देवता कथिता बुधैः | व्याहृतीः सप्त ताराद्या हृण्मुखांसोरुयुग्मके | जठरे न्यस्य मन्त्रज्ञो गायत्र्यर्णान् तनौ न्यसेत् | पत्सन्धिषु ध्वजे नाभौ हृत्कण्ठभुजसन्धिषु | आस्यनासाकपोलाक्षिकर्णभ्रूमस्तके पुनः | पाश्चात्योत्तरयाम्यग्रामूर्ध्व वक्त्रेषु साधकः | पदानि दश विन्यस्येदेषु स्थानेषु मन्त्रवित् | शिरोभ्रूमध्यहृद्वक्त्रकण्ठहृन्नाभिगुह्यके | जानुनोः पादयोर्युग्मे तच्छिरः शिरसि न्यसेत् || प्. ३६१) अथ षडङ्गन्यासः || निर्वाणतन्त्रे || षडङ्गन्यासमन्त्रं यत् तत् शृणुष्व प्रियंवदे ! | प्रणवद्वयं हृत्पद्मे भूःकारं शीर्षदेशके | भुवः शिखायां स्वःकारं कवचे विन्यसे सुधीः | नेत्रत्रये भूर्भुवःस्वः स्वःकारं करयुग्मके | नमः स्वाहा वषट् कूर्च्चं वौषट् फट् क्रमतो न्यसेत् || शारदायान्तु || ब्रह्मणे हृदयं प्रोक्तं विष्णवे शिर ईरितम् | शिखा रुद्राय कवचमीश्वराय समीरितम् | नेत्रं सदाशिवायोक्तमस्त्रं सर्वात्मने स्मृतम् | षडङ्गान्येवमुक्तानि यथास्थानं प्रविन्यसेत् || अथ ध्यानम् || निर्वाणतन्त्रे || ध्यानं शृणु वरारोहे ! यथा ध्यात्वा जपेन्नरः |
SKश्वेतवर्णा समुद्दिष्टा कौशेयवसना तथा | श्वेतैर्विलेपनैः पुष्पैरलङ्कारैश्च भूषिता | आदित्यमण्डलान्तःस्था ब्रह्मलोकगताथ वा | अक्षसूत्रधरा देवी पद्मासनगता तथा | ॐ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि | गायत्र्यसि एकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुरीयाय दर्शिताय पराय परोरजसे | शारदोक्तध्यानं यथा | मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्ता-मिन्दुनिबद्धरत्नमुकुटां तत्त्वार्णवर्णात्मिकाम् | गायत्रीं वरदाभयाङ्कुशकरां शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे || गायत्रीतन्त्रप्रथमब्राह्मणपटले || चतुर्भुजां शशिकलां जटाजूटसमन्विताम् | ऋक्सामयजुषां नाथां प्रफुल्लकमलेक्षणाम् | पञ्चाशद्वर्णग्रथितमालाद्योतितहृत्स्थलाम् | अनेकरत्ननिर्माणकण्ठदेशविराजिताम् | दिव्यगन्धप्रलिप्ताङ्गीं शुक्लवस्त्रपरिष्कृताम् | शुक्लपद्मसमासीनां शुक्लवस्त्रोत्तरीयिणीम् | ब्रह्मादिदेवतावृन्दैः संस्तुतां नित्यनूतनाम् | एवं ध्यात्वा न्यसेद्वर्णं पठित्वा छन्द उत्तमम् | अस्याग्निमुखीगायत्र्याः परंब्रह्म ऋषिर्-ऋग्यजुःसामाथर्वच्छन्दः सविता देवता परंब्रह्ममातुर्न्यासे विनियोगः | प्. ३६२) पादादिमस्तकान्तञ्च न्यासं कुर्य्याद्विशालधीः | विना न्यासं जपेद् यस्तु गायत्री विपला भवेत् | विना मुद्रां न्यसेद् यस्तु न्यासो भवति निष्फलः | यतिस्तु पञ्चमुद्राभिर्न्यासं कुर्यात् प्रयत्नतः | गृही च यत्नतः कुर्य्यात् त्रिसन्ध्यं तत्त्वमुद्रया | कनिष्ठानामिकाङ्गुष्ठा अङ्गुष्ठा तर्ज्जनी तथा | अङ्गुष्ठामध्यमाभ्याञ्च अङ्गुष्ठानामिका तथा | कनिष्ठाङ्गुष्ठसंयोगात् पञ्चमुद्राः प्रकीर्तिताः | पादादि मस्तकान्तञ्च भूर्भुवः स्वर्न्यसेत् सुधीः | सप्तधा विन्यसेद्विद्वान् गायत्रीं क्रमयोगतः | पादाङ्गुष्ठे न्यसेद्योगी तकारं भावयेत् परम् | त्सकारं गुल्फयोर्मध्ये विकारं जङ्घयोस्तथा | तुकारं जानुनोर्मध्ये र्वकारमूरुमध्यतः |
SKरेकारं गुह्यदेशे च णिकारं वृषणे न्यसेत् | यङ्कारं कटिदेशे च भकारं नाभिमण्डले | र्गोकारं जठरे न्यसेद्देकारं स्तनयोर्न्यसेत् | वकारं हृदि मध्ये च स्यकारं कण्ठतो न्यसेत् | धीकारं वदने भद्रे मकारं तालुनि न्यसेत् | हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेत् | योकारं प्रथमं योगी भ्रुवोर्मध्ये च विन्यसेत् | द्वितीयञ्च ततो ज्ञेयं ललाटे च न संशयः | नःकारन्तु मुखे ज्ञेयं प्रकारं दक्षिणामुखम् | चोकारं पश्चिमे तद्वद्दकारं चोत्तरे तथा | यात्कारं मूर्ध्नि विज्ञेयं सर्वं व्याप्य स्थितं सदा || गायत्रीतन्त्रे दशमब्राह्मणपटले || अधुना सम्प्रवक्ष्यामि गायत्र्याः पूजनं प्रिये ! | उपासितस्य मन्त्रस्य यथा पूजा विधीयते | गायत्र्याः पूजनं भद्रे ! तथैव कथयामि ते | शिवपूजा शक्तिपूजा विष्णुपूजादिका च या | सर्वा पूजा वृथा भद्रे ! गायत्रीपूजनं विना | पूजामण्डपमागत्य गायत्र्याचमनं चरेत् | गायत्र्याः प्रथमं बीजं पूजास्थाने न्यसेत् सुधीः | कुशासने चोपविश्य प्राणायामं समाचरेत् | पूरकादिक्रमेणैव गायत्र्याः प्राणधारणम् | सामान्यार्घ्यं ततः कुर्य्यात् पूर्वोक्तक्रमवर्त्मना | प्. ३६३) गायत्रीं संकृदुच्चार्य्य ताम्रपात्रे जलं क्षिपेत् | तीर्थमावाह्य यत्नेन गायत्रीं प्रजपेत्ततः | ततो धेन्वामृतीकृत्य प्रथमाष्टाक्षरेण वै | द्वितीयाष्टाक्षरे विप्रो जलं वीक्ष्य प्रशान्तये | तृतीयाष्टाक्षरे देवि ! जलैरात्मविशोधनम् | अनेनैव विधानेन सृष्टिस्थितिलयात्मकम् | पूजनं परमेशानि ! तदैव फलदायकम् | यन्त्रन्यासध्यानादिकन्तु पूर्वमेव लिखितम् || सौरं पीठं यजेत्तत्र दीप्तादिनवशक्तिभिः | तत्र सर्वतोभद्रमण्डले दीप्तादयस्तु चतुर्दशपटले || यथा || दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला पुनः | अघोरा विद्युता सर्वतोमुखी पीठशक्तयः | सौरपीठं सूर्य्यप्रकरणेऽनुसन्धेयम् || मूलमन्त्रेण कॢप्तायां मूर्त्तौ देवीं प्रपूजयेत् || निर्वाणतन्त्रे || जीवन्यासादिकं कृत्वा पूजयेत्तां त्रिवर्गदाम् |
SKहालाहलादिकं मन्त्रं समस्तं परमेश्वरि ! | समुच्चार्य्य वदेत् पाद्यं सावित्रीं ङेयुतां ततः | त्यागात्मकमनुं पश्चाद् यथा विभवविस्तरैः | पूजयेद्बहुयत्नेन चान्यथा ब्राह्मणः स्मृतः | शारदायाम् || कोणेषु त्रिषु सम्पूज्याः ब्राह्म्याद्याः शक्तयो वहिः | आदित्याद्यास्ततः पूज्या ऊषादिसहिताः क्रमात् | आदित्याद्याश्चोषादयश्च सूर्य्यप्रकरणे वेदितव्याः | ततः षडङ्गान्यभ्यर्चेत् केशरेषु यथाविधि | प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वम्भरां पुनः | विलासिनीप्रभावत्यावूषां शान्तां यजेत् पुनः | कान्ति दुर्गासरस्वत्यौ विद्यारूपास्ततः परम् | विशालासहितामीशां व्यापिनीं विमलां जपेत् | तमोऽपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् | पद्मालयां परां शोभां पद्मरूपां ततोऽर्च्चयेत् | ब्राह्म्याद्याः सारुणा वाह्ये पूजयेत् प्रोक्तलक्षणाः | ततोऽभ्यर्च्चेद् ग्रहान् वाह्ये शक्रांदीनायुधैः सह | इत्थमावरणैर्देवीं दशभिः परिपूजयेत् | धर्मार्थकाममोक्षाणां भोक्ता स्याद्द्विजसत्तमः || निर्वाणतन्त्रे || द्रव्याभावे वरारोहे ! पाद्याद्यैरुदकात्मकैः | पूजयित्वा जपेद्देवीं गायत्रीं परमाक्षरीम् | प्. ३६४) एतेन द्रव्याभावे जलादिना पूजायां कर्त्तव्यायामपि एतत्पाद्यमित्यादिवक्तव्यमत-एव स्मृतिः | तैलं प्रतिनिधिं कुर्य्याद् यज्ञार्थे याज्ञिको यदि | प्रकृत्यैव तदा हेतोर्ब्रूयाद् घृतवतीमिति | तेनैतत्पाद्यार्थं जलमिति वाक्यमनुशासनविरुद्धमिति | जपफलमपि तत्रैव || दशभिर्जन्मजनितं शतेनापि पुराकृतम् | त्रिजन्मजं सहस्रेण गायत्री हन्ति पातकम् | जपे तु विशेष उक्तो गायत्रीतन्त्रे || गायत्र्या पुटितं कृत्वा इष्टमन्त्रं जपेच्छतम् | इष्टमन्त्रेण पुटितं गायत्रीं प्रजपेच्छतम् | एतज्जपं महेशानि ! आधाराधेयमुत्तमम् | विनाधारं महेशानि ! आधेयेन विना तथा | नाधारं सिध्यते भद्रे ! आधेयञ्च न सिध्यति | सर्वेषु विष्णुमन्त्रेषु सौरगाणपतौ तथा || आधाराधेयभावस्तु सर्वत्र करवर्णिनि ! | साङ्गनाल्लोचनाद् यस्तु झटिति प्रविशेद् गृहम् |
SKन पश्येच्चक्षुषा किञ्चिद् गृहमध्येषु यत् स्थितम् | एवमाधारमाधेयं यः करोति द्विजातिकः | अङ्कुरो जायते भद्रे ! लक्षजापान्नं संशयः | नच जीवात्मनोर्भिन्ना गायत्री ब्रह्मरूपिणी | गायत्री न हि भिन्ना स्याज्जीवात्मा तत्स्वरूपिणी | सर्वदा उभयोरैक्यं नारिकेले यथोदकम् | द्विजातिः कथ्यते देवभाव एव हि ब्राह्मणः | यथा स्पर्शमणिस्पर्शात् ताम्रोऽपि काञ्चनं सदा | गायत्रीसहित आत्मा द्विजात्मा तेन ईरितः || गयत्रीतन्त्रे || जपेत् सूर्य्यमुखो विप्रो नास्ति दिङ्नियमः क्वचित् | गायत्रीं प्रजपेन्नित्यं त्रिसन्ध्यं नात्र संशयः | अशौचे तु महेशानि ! गायत्रीं मनसा स्मरेत् | गायत्री बहुरूपा च त्रिसन्ध्या ध्यानमेव || तत्रैव || ॐ महेश्वरवदनोत्पन्ना विष्णोर्हृदयसंस्थिता | ब्रह्मणा समनुज्ञाता गच्छ देवि ! यथेच्छया | इति मन्त्रं समुच्चार्य्य देव्या वामकरे बुधः | समर्पयेज्जपफलं ततः स्तोत्रादिकं पठेत् || अथ गायत्रीकवचम् || श्रीदेव्युवाच || प्. ३६५) देवदेव ! महादेव ! संसारार्णवतारक ! | गायत्रीकवचं देव ! कृपया कथय प्रभो ! || श्रीदेवदेव उवाच || मूलाधारेषु या नित्या कुण्डली तत्त्वरूपिणी | सूक्ष्मातिसूक्ष्मा परमा विसतन्तुस्वरूपिणी | विद्युत्पुञ्जप्रतीकाशा कुण्डलाकृतिरूपिणी | परमब्रह्मगृहिणी पञ्चाशद्वर्णरूपिणी | शिवस्य नर्त्तकी नित्या परं ब्रह्मप्रपूजिता | ब्रह्मणः सैव गायत्री सच्चिदानन्दरूपिणी | तद्भ्रमावर्त्तवातोऽयं प्राणात्मा नित्यनूतनः | नित्यं तिष्ठतु सानन्दा कुण्डली भवविग्रहे | अतिगोप्यं महत् पुण्यं त्रिकोटीतीर्थसंयुतम् | सर्वयज्ञमयं देवि ! सर्वदानमयं सदा | सर्वज्ञानमयं देवि ! परंब्रह्ममयं सदा | कवचं कथयाम्यद्य पार्वति ! प्राणवल्लभे ! |
SKॐ ॐ भूः ॐ ॐ ॐ ॐ भुवः ॐ ॐ ॐ ॐ स्वः ॐ ॐ ॐ ॐ त ॐ ॐ त्स ॐ ॐ वि ॐ ॐ तु ॐ ॐ र्व ॐ ॐ रे ॐ ॐ णि ॐ ॐ यं ॐ ॐ भ ॐ ॐ र्गो ॐ ॐ दे ॐ ॐ व ॐ ॐ स्य ॐ ॐ धी ॐ ॐ म ॐ ॐ हि ॐ ॐ धि ॐ ॐ यो ॐ ॐ यो ॐ ॐ नः ॐ ॐ प्र ॐ ॐ चो ॐ ॐ द ॐ ॐ यात् ॐ ॐ ॐ ॐ | ॐ भूः ॐ पातु मे मूलं चतुर्दलसमन्वितं | ॐ भुवः ॐ पातु मे लिङ्गं षड्दलसमन्वितम् | ॐ स्वः ॐ पातु मे कण्ठं साकाशं दलषोडशम् | ॐ त ॐ पातु मे रूपं ब्रह्मण्यकारणं परम् | ॐ त्स ॐ वदनं पातु रसनासंयुतं मम | ॐ वि ॐ पातु मे गन्धं सदा शरीरसंयुतम् | ॐ तु ॐ पातु मे स्पर्शं शरीरस्य च कारणम् | ॐ र्व ॐ पातु मे शब्दं शब्दविग्रहकारणम् | ॐ रे ॐ पातु मे नित्यं त्वचं शरीररक्षकम् | ॐ णि ॐ पातु मे अक्षं सर्वतत्त्वैककारणम् | ॐ यं ॐ पातु मे श्रोत्रं श्रवणस्य च कारणम् | ॐ भ ॐ पातु मे घ्राणं गन्धोपादानकारणम् | ॐ र्गो ॐ पातु मे वाक्यं सभायां शब्दरूपिणी | प्. ३६६) ॐ दे ॐ पातु मे बाहुयुगलं ब्रह्मकारणम् | ॐ व ॐ पातु मे पादयुगलं ब्रह्मकारणम् | ॐ स्य ॐ पातु मे लिङ्गं सजलं षड्दलैर्युतम् | ॐ धी ॐ पातु मे नित्यं प्रकृतिं शब्दकारणम् | ॐ म ॐ पातु मे नित्यं मनोब्रह्मस्वरूपिणीम् | ॐ हि ॐ पातु मे बुद्धिं परंब्रह्ममयं सदा | ॐ धि ॐ पातु मे नित्यमहङ्कारं यथा तथा | ॐ यो ॐ पातु मे नित्यं पृथिवीं पार्थिवं वपुः | ॐ यो ॐ पातु मे नित्यं जलं सर्वत्र सर्वदा | ॐ नः ॐ पातु मे नित्यं तेजःपुञ्जं यथा तथा | ॐ प्र ॐ पातु मे नित्यमनिलं शरीरकारणम् | ॐ चो ॐ पातु मे नित्यमाकाशं शशिसन्निभम् | ॐ द ॐ पातु मे जिह्वां जपयज्ञस्य कारणम् | ॐ यात् ॐ पातु मे चित्तं शिवज्ञानमयं सदा | ॐ तत्त्वानि पातु मे नित्यं गायत्री परदेवता | ॐ भूर्भुवःस्वः पातु मे नित्यं ब्रह्माणी जठरं क्षुधा | त्वष्टा मे सततं पातु ब्रह्माणी भूर्भवःस्वरः |
SKअस्याः श्रीगायत्र्याः परं ब्रह्म ऋषिर्-ऋग्यजुःसामाथर्वांश्छन्दांसि श्रीगायत्रीब्राह्मणो देवता धर्मार्थकाममोक्षार्थे विनिगोगः || ततो गायत्रीं पठेत् | कामक्रोधादिकं सर्वं स्मरणाद् याति साम्यताम् | इदं कवचमज्ञात्वा गायत्रीं प्रजपेद् यदि | शतकोटिजपेनैव न सिद्धिर्जायते प्रिये ! | गायत्रीवाचनात् सर्वं स्मरणं सिध्यति ध्रुवम् | पठित्वा कवचं विप्रो गायत्रीं सकृदुच्चरेत् | सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्द्विजः | इदं कवचमज्ञात्वा कवचान्यं पठेत्तु यः | सर्वं तस्य वृथा देवि ! त्रैलोक्यमङ्गलादिकम् | गायत्रीकवचं यस्य जिह्वायां विद्यते सदा | तदामृतमयी जिह्वा पवित्रा जपपूजने | इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद् यदि | व्यर्थं भवति चार्वङ्गि ! तज्जपं वनरोदनम् | ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः | महान्ति पातकान्येव स्मरणान्नाशमाप्नुयुः | प्. ३६७) त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्रविनिर्मितम् | वातपित्तकफैर्युक्तं स्थूलदेहं तदुच्यते | सूक्ष्मं ज्योतिर्मयं देहं पञ्चभूतात्मकं विदुः | महापद्मवनान्तःस्थं सर्वावयवसंयुतम् | आधाराधेयसम्बन्धाद् गायत्री ब्राह्मणः स्वयम् | अत-एव परं ब्रह्म कथ्यते चोभयात्मकम् | ब्राह्मणस्यैव जीवात्मा गायत्रीसहितं वपुः | आत्मनो हृदयाम्भोजे प्रदीपकलिकोपमम् | निर्धूमञ्च यथा ज्योतिस्तैलाग्निवर्त्तियोगतः | तज्ज्योतिः परमं ब्रह्म स एव परमः शिवः | गायत्रीकवचन्यासं मातृकास्थानसन्धिषु | यः कृत्वा ब्राह्मणः श्रेष्ठो ह्यन्यन्यासं समाचरेत् | अन्यन्यासस्तदा सिद्धो ह्यन्यथारण्यरोदनम् | गायत्रीन्यासमात्रेण परंब्रह्ममयो द्विजः | इदं कवचमज्ञात्वा ब्रह्मचर्य्यं करोति यः | ब्रह्मचर्य्यं भवेद्व्यर्थं गायत्रीकवचं विनां | कवचस्य प्रसादेन ब्राह्मणो ज्वलदग्निवत् | कवचं परमेशानि ! सृष्टिस्थितिलयात्मकम् | कवचस्य प्रसादेन ब्रह्मा सृष्टिं करोति हि | स्थितिञ्च कुरुते विष्णूरुद्रोऽहं लयकारणः | अन्यद्धि कवचं देवि ! सृष्टिस्थितिलयं विना |
SKइदमेव ब्रह्ममयं सृष्टिस्थितिलयात्मकम् | कवचं ब्राह्मणो नाम प्रातरुत्थाय यः पठेत् | गायत्रीञ्च सकृत् स्मृत्वा जपलक्षफलं लभेत् | गायत्रीं दशधा जप्त्वा शतलक्षफलं लभेत् | एवं क्रमेण गायत्रीं शतधा प्रजपेद् यदि | शतलक्षफलं प्राप्य विहरेद्देववद्भुवि | ग्रहणे चन्द्रसूर्य्यस्य पठित्वा कवचं द्विजः | सकृद् यदि जपेद्विद्वान् गायत्रीं परमाक्षरीम् | तत्क्षणात् स भवेत् सिद्धो ब्रह्मसायुज्यमाप्नुयात् | इदं कवचमज्ञात्वा गायत्रीं प्रजपेत्तु यः | जप एव स एव स्यान्निस्तेजा न च सिद्धिदः | यः पठेत् कवचं देवि ! सततं शिवसन्निधौ | सन्निधौ विष्णुदेवस्य कवचं शक्तिसन्निधौ | तेजःपुञ्जमयो विप्रस्तत्क्षणाज्जायते ध्रुवम् || इत्यागमसन्दर्भे ज्ञानदर्पणे गायत्रीब्राह्मणसर्वस्वे देवदेवीसंवादे गायत्रीकवचं समाप्तम् || प्. ३६८) अथास्याः पुरश्चरणम् || शारदायाम् || लक्षं तत्त्वविधानेन भिक्षाशी विजितेन्द्रियः | क्षीरौदनं तिलान् दूर्वाः क्षीरद्रुमसमिद्वरान् | पृथक् सहस्रत्रितयं जुहुयान्मन्त्रसिद्धये | लक्षं तत्त्वविधानेनेत्यनेन चतुर्विंशतिलक्षं पुरश्चरणमुक्तम् | विधानेन पुरश्चरणोक्तविधानेन | क्षीरौदनमिति क्षीरमोदनम् | तिलान् दूर्वाश्चेति द्रव्यचतुष्टयम् | क्षीरद्रुमेति अश्वत्थोडुम्बरप्लक्षवटा इति द्रव्यचतुष्टयम् | पृथक् सहस्रत्रितयमित्यनेन चतुर्विंशतिसहस्रहोमः || निर्वाणतन्त्रे तु || विधिवल्लक्षजापेन पुरश्चरणमीरितम् | तद्दशांशं हुमेत् पश्चात् पुरश्चरणसिद्धये | होमस्य तु दशांशेन तर्पणं समुदीरितम् | तर्पणस्य दशांशेन चाभिषेकं ततः परम् | अभिषेकदशांशेन कुर्य्याद्ब्राह्मणभोजनम् | ततः सिद्धो भवेद्देवि ! त्रिवर्गफलसाधकः | माहात्म्यं चास्य मन्त्रस्य चतुर्वेदेन भाषितम् || अथ काम्यकर्माणि शारदायाम् | तत्त्वसंख्यसहस्राणि मन्त्रविज्जुहुयात्तिलैः | सर्वपापविनिर्मुक्तो दीर्घमायुः स विन्दति | आयुषे साज्यहविषा केवलेनाथ सर्पिषा | दूर्वात्रिकैस्तिलैर्मन्त्रो जुहुयात् त्रिसहस्रकम् |
SKअरुणाञ्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः | महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः | ब्रह्मश्रिये प्रजुहुयात् प्रसूनैर्ब्रह्मवृक्षजैः | बहुना किमिहोक्तेन यथावत् साधुसाधिता | द्विजन्मनामियं विद्या सिद्धिकामदुघा मता || अथ तान्त्रिकगायत्री अन्नदाकल्पे पञ्चमपटले || मोचनी सर्वपापानां शोषणी सकलापदाम् | दारिद्र्यदमनी नित्यं सुखमोक्षप्रदायिनी | एकोच्चारेण सकलं ब्रह्महत्यादिपातकम् | नाशमायाति नियतं जन्मान्तरसमुद्भवम् | दशभिर्दशजन्मोत्थं शतेन शतजन्मजम् | सहस्रेण सहस्रोत्थमित्थं पातकनाशिनी | प्. ३६९) सर्वागमाणां साङ्गानां सारभूता सनातनी | चित्कलेयं समाख्याता सहस्रेण पुरस्क्रिया || इति पुरश्चरणम् || ऋषिर्ब्रह्मास्य गायत्रीच्छन्दो देवी प्रकीर्त्तितम् | देवतान्नप्रदा देवी चतुर्वर्गप्रदायिनी || आनप्रदेति स्वीयेष्टदेवतोपलक्षणम् || मायाबीजं नमः शक्तिः कीलकं स्यात् प्रचोदयात् | ध्यायेत् कालत्रये देवीं त्रिगुणां गुणभेदतः | प्रातः ब्राह्मी रक्तवर्णा द्विभुजा च कुमारिका | कमण्डलुं तीर्थपूर्णमक्षमालाञ्च बिभ्रती | कृष्णाजिनाम्बरधरा हंसारूढा शुचिस्मिता | मध्याह्ने सा श्यामवर्णा वैष्णवी च चतुर्भुजा | शङ्खचक्रगदापद्मधारिणी गरुडासना | पीनोन्नतकुचद्वन्द्वा वनमालाविभूषिता | युवती च सदा ध्येया मध्ये मार्त्तण्डमण्डले | सायं सरस्वतीरूपा चन्द्रार्द्धकृतशेखरा | अर्द्धास्तमितमार्त्तण्डे ध्येया सततयौवना | गायत्री तु तन्त्रसारे सर्वासां देवतानां प्रायेण द्रष्टव्या || अन्नदाकल्पे || पूजार्थं जलमानीय तीर्थं नत्वा यथाविधि | देवीं ध्यायन् पठन् स्तोत्रं यागमण्डपमाविशेत् || मत्स्यसूक्ते पञ्चदशपटले च | देशिको विधिवत् स्नात्वा कृत्वा पूर्वाह्णिकीः क्रियाः | यायादलङ्कृतो मन्त्री यागार्थं यागमण्डपम् || रुद्रजामले पूर्वखण्डे द्वितीयपटलेऽपि || पूजामण्डपमागत्य प्रक्षाल्याङ्घ्रिकरौ ततः | अस्त्रेण द्वारमभ्युक्ष्य वामदक्षिणशाखयोः | गङ्गायै यमुनायै च नम उच्चार्य्य पूजयेत् |
SKऊर्द्ध्वद्वारे श्रियै अधोदेहल्यै च नमस्ततः || यागमण्डपमित्यत्र लक्षणया यागमण्डपसमीपमिति लब्धमन्यथा अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा इति न सङ्गच्छते || मत्स्यसूक्ते || आचम्य विधिवत्तत्र सूर्य्यार्घ्यन्तु विधाय च | पश्चिमद्वारमासाद्य प्रविशेद्दक्षिणाङ्घ्रिणा | द्वारानस्त्राम्बुना प्रोक्ष्य द्वारपूजां समाचरेत् | ऊर्द्ध्वाधःक्रमभावेण गणेशं विघ्ननाशनम् | प्. ३७०) महालक्ष्मीं महामायां तथा देवीं सरस्वतीम् | क्षेत्रेशञ्च तथा गङ्गां यमुनां पुष्पवारिभिः | अस्त्रमन्त्रेण देवेशि ! देहलीञ्च समर्च्चयेत् || अस्त्रमन्त्रेण अस्त्राय फडिति मन्त्रमुच्चार्य्य द्वारमभ्युक्ष्येत्यर्थः || शारदायाम् || ऊर्द्ध्वोडुम्बरके विघ्नं महालक्ष्मीं सरस्वतीम् | ततो दक्षिणशाखायां विघ्नं क्षेत्रेशमन्यतः || ऊर्द्ध्वोडुम्बरके देहल्यां गृहदक्षिणद्वारि देहल्यां कोणद्वये विघ्नं सरस्वतीं मध्ये महालक्ष्मीं पूजयेदिति तात्पर्य्यम् | दक्षिणशाखायां विघ्नम् अन्यतः वामशाखायां क्षेत्रेशमर्च्चयेदित्यर्थः || तयोः पार्श्वगते गङ्गायमुने पुष्पवारिभिः | देहल्यामर्च्चयेदस्त्रं प्रतिद्वारमिति क्रमात् || तयो पार्श्व इति विघ्नक्षेत्रेशयोः पार्श्वे | दुर्गापूजनमप्युक्तं राघवभट्टधृतेन || कोणेषु विघ्नं दुर्गाञ्च वाणीं क्षेत्रेशमर्च्चयेत् || एतेषां मन्त्रस्तु || तारं सबिन्दुमानाद्यक्षरं चतुर्थ्यन्तं नाम नमोऽन्वितम् | तदुक्तमुड्डामरेश्वरे || ओङ्कारं बिन्दुसंयुक्तं नामधेयाद्यमक्षरम् | ङेयुतं नाम सर्वेषां मन्त्रो देवि ! नमोऽन्वितः || वैष्णवमते द्वारपूजा तु राघवभट्टेनोक्ता यथा || वैष्णवादिप्रभेदेन द्वारपालान् समर्च्चयेत् | प्रतिद्वारं पार्श्वयोस्तु द्वौ द्वावष्टाविति क्रमात् | नन्दः सुनन्दश्चण्डाख्यः प्रचण्डश्चण्डनायकः | प्रबलो भद्रनामा च सुभद्रो वैष्णवा मताः || शैवद्वारपालास्तु || अथ नन्दिमहाकालौ गणेशवृषभौ पुनः | ततो भृङ्गरिटिः स्कन्दः पार्वतीशश्च सप्तमः | चण्डेश्वरोऽष्टमः शैवाद्वारपालाः क्रमादमी | गणेशस्य तु ||
SKवक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ | लम्बोदराख्यश्च कठो विघ्नराजश्च सप्तमः | धूम्रराजोऽष्टमो ज्ञेया गाणपत्या इति क्रमात् | ब्राह्म्याद्या मातरः प्रोक्ताः शाक्तेया द्वारपालकाः || शारदायाम् || अनन्तरं साधकेन्द्रो दिव्यदृष्ट्यावलोकनात् | दिव्यानुत्सारयेद्विघ्नानस्त्राद्भिश्चान्तरीक्षगान् | पार्ष्णिघातैस्त्रिभिर्भौमानिति विघ्नान् निवारयेत् | प्. ३७१) किञ्चित् स्पृशन् वामशाखां देहलीं लङ्घयेत्ततः | अङ्गं सङ्कोचयन्नन्तः प्रविशेद्दक्षिणाङ्घ्रिणा | मत्स्यसूक्तेऽपि || अवलोक्यं दिव्यदृष्ट्या विघ्नानुत्सारयेत्ततः | त्रिः कृत्वा च पदाघातं दत्त्वा तालत्रयं ततः | अङ्गं सङ्कोचयन्नन्तः प्रविशेत साधकोत्तमः || अथासनम् | शाक्तानन्दतरङ्गिणीधृतगौरीजामले || सलिले यदि कुर्वीत देवतानां प्रपूजनम् | तथाप्यासनमासीनो नोत्थितस्तु तथाचरेत् | आसनं कल्पयित्वा तु मनसा पूजयेज्जले || आसनस्थो जपेत् सम्यङ्मन्त्रार्थगतमानसः || सम्मोहनतन्त्रे || रक्तासनोपविष्टस्तु लाक्षागुरुगृहे स्थितः | नमःकल्पितरक्तो वा साधकः स्थिरसानसः | तूलकम्बलवस्त्राणां सिंहव्याघ्रमृगाजिनम् | कल्पयेदासनं धीमान् सौभाग्यज्ञानवर्द्धनम् | कौशेयं वाथ वा चर्म तैलतौलमथापि वा | शरपत्रं तालपत्रं कम्बलं दारवासनम् || कृष्णाजिने ज्ञानसिद्धिर्मुक्तिः स्याद्व्याघ्रचर्म्मणि | कृष्णाजिने गृहस्थानां नाधिकारः कथञ्चन | नादीक्षितो विशेज्जातु कृष्णसाराजिने गृही || विशेद्यतिर्वनस्थश्च ब्रह्मचारी च भिक्षुकः | वस्त्रासने व्याधिनाशः कम्बलं दुःखमोचनम् | जपध्यानतपोहानिं वस्त्रासनं करोति हि || अत्र वस्त्रनिषेधः केवलवस्त्रपरः अन्यथा विरोधापत्तेः | कुशासने भवेदायुर्मोक्षः स्याद्व्याघ्रचर्म्मणि | अजिने तु भवेत् पुत्री कम्बले सिद्धिरुत्तमा | शान्तिके धवलः प्रोक्तः सर्वार्थं चित्रकम्बले | स्यात् पौष्टिके तु कौशेयं कम्बले दुःखमोचनम् | त्रिपुरापूजने देवि ! प्रशस्तं रक्तकम्बलम् | नैतद्द्विहस्थतो दीर्घं सार्द्धहस्तान्न विस्तृतम् |
SKन त्र्यङ्गुलात् समुच्छायं पूजाकर्म्मणि संग्रहम् | आसनञ्च ततः कुर्य्यान्नातिनीचं न चोच्छ्रितम् || गन्धर्वतन्त्रे || धरण्यां दुःखसम्भूतिर्दौर्भाग्यं दारुजासने | आम्रनिम्बकदम्बानामासनं वंशनाशनम् | वकुले किंशुके चैव पनसेषु हतश्रियः | वंशेष्टका च धरणी तृणपल्लवनिर्मितम् | प्. ३७२) वर्ज्जयेदासनं मन्त्री दारिद्र्यव्याधिदुःखदम् || एतेषां फलान्तरमुक्तम् || धरण्यां दुःखसम्भूतिर्दौर्भाग्यं दारुजासने | वंशासने दरिद्रः स्यात् पाषाणे व्याधिपीडनम् || तृणासने यशोहानिः पल्लवे चित्तविभ्रमः | जपध्यानतपोहानिर्वस्त्रासने विधीयते | मृद्वासने यदा मन्त्री चेलाजिजकुशोत्तरे | नादीक्षितो विशेज्जातु कृष्णाजिनासने गृही | विशेद्यतिर्वनस्थो वा ब्रह्मचारी च भिक्षुकः | इत्युक्तम् || दारुजासनं विशेषयति गन्धर्वतन्त्रे || गाम्भारीनिर्म्मितं शस्तं नानादारुमयं शुभम् | चतुर्विशत्यङ्गुलं हि दीर्घं काष्ठासनं प्रिये ! | षोडशाङ्गुलविस्तीर्णमुच्छ्राग्रे चतुरङ्गुलम् | कम्बलम् चार्म्मणं शैलं महामायाप्रपूजने | प्रशस्तमासनं देवि ! कथितं वरवर्णिनि ! || मुण्डमालातन्त्र तृतीयपटले || व्याघ्राजिनं सर्वसिद्ध्यै ज्ञानसिद्ध्यै मृगाजिनम् | वस्त्रासनं रोगहरं वेत्रजं प्रीतिवर्द्धनम् | कौशेयं पुष्टिदं प्रोक्तं कम्बलं सर्वसिद्धिदम् | शुक्लं वा यदि वा कृष्णं विशेषाद्रक्तकम्बलम् | उत्तराम्नायासनन्तु तत्रैव || मृदु कोमलमास्तीर्णं संग्रामपतितं हि यत् | जन्तुव्यापादितं वापि मृतं वानरमासनम् | गर्भच्युतां त्वचं वापि नारीणां योनिजां त्वचम् | सर्वसिद्धिप्रदं देवि ! सर्वतोऽतिसमृद्धिदम् | त्वचं वा यौवनस्थानां कुर्य्याद्वीरतरासनम् | श्मशानकाष्ठघटितं पीठं वा दारुजं शुभम् | नादीक्षितो विशेज्जातु कृष्णसाराजिने गृही | उदासीनवदासीनः स्नातकब्रह्मचारिणाम् | कुशाजिनाम्बरेणाढ्यं चतुरस्रं समन्ततः | एकहस्तं द्विहस्तं वा चतुरस्रं समाचरेत् | कर्म्मविशेषे आसनविशेषस्तु समयाचारतन्त्रे द्वितीयपटले ||
SKमेषासनन्तु वश्यार्थमाकृष्टौ व्याघ्रचर्म्म च | शान्तौ मृगाजिनं शस्तं मोक्षार्थं व्याघ्रचर्म्म च | गोचर्म्म स्तम्भने देवि ! सम्भवे वाजिचर्म्म च | चर्म्मोष्ट्रस्य तु चोच्चाटे विद्वेषे श्वानचर्म्म च | प्. ३७३) मारणे माहिषं चर्म्म कर्मोद्दिष्टं समाचरेत् | सर्वकामार्थदं देवि ! वस्त्रपट्टासनं तथा | ऊर्णासनं कम्बलं वा सर्वकर्म्मसु पूजितम् | दुःखदारिद्र्यकरणं काष्ठपाषाणजासनम् | स्वर्णादिरत्नजं देवि ! महासौभाग्यवर्द्धनम् | शृणु देवि ! विशेषेण उत्तराम्नायस्य चासनम् | येनाशु लभते पुण्यं फलं देवस्य दुर्लभम् | शवासनन्तु सुभगे ! मृतमुण्डासनं तथा | श्मशानमासनं देवि ! भगस्य दर्शनं तथा | भगदर्शासनञ्चैव मैथुनासनकं तथा | कृतमैथुनकं वापि वाञ्छितार्थफलप्रदम् || मात्स्ये पञ्चदशे || रुरुचर्मणि सत्कामः श्रीमोक्षौ व्याघ्रचर्मणि | शक्तेः शस्तं कृष्णचर्म कृष्णव्याघ्रस्य भाविनि ! | प्रस्तारमृच्छिले चैव रक्ते पीते च वाससी | कम्बले द्रुतसिद्धिः स्याद्भद्रदारुमयेऽपि च | तथा | योगासनञ्च कूर्मञ्च विशेत् क्षौणीमनुस्मरन् || योगसारे द्वितीयपरिच्छेदे || कम्बलं कोमलञ्चैव कौशञ्च दारबं तथा | एतेषामासनं प्रोक्तं चर्मासनं तथैव च | लोम्नि चैव यदासीनस्तदा सर्वं विनश्यति | लोमदर्शनमात्रेण सिद्धिहानिः प्रजायते | काम्यार्थं कम्बलं प्रोक्तं ज्येष्ठं स्याद्रक्तकम्बलम् | कृष्णाजिने ज्ञानसिद्धिः श्रीमोक्षौ व्याघ्रचर्मणि | कुशासने मन्त्रसिद्धिर्नात्र कार्य्या विचारणा || समयाचारतन्त्रे || पृथ्वीमन्त्रस्य च ऋषिर्मेरुपृष्ठ उदाहृतः | सुतलञ्च तथा छन्दः कूर्मो देवोऽस्य सुन्दरि ! | आसने विनियोगः स्याद्बद्धपद्मासने विशेत् | बद्धपद्मासन इत्युपलक्षणम् || पद्मस्वस्तिकवीरादिष्वेकासनसमास्थितः | जपार्च्चनादिकं कुर्य्यादन्यथा निष्फलं भवेत् | इति राघवभट्टवचनात् || आसनन्तु यतीनां कूर्माकारमन्येषां चतुष्कोणम् | यथा राघवभट्टधृतम् || यतीनामासनं श्लक्ष्णं कूर्माकारन्तु कारयेत् |
SKअन्येषान्तु चतुष्पादं चतुरस्रन्तु कारयेत् || तथा || दानमाचमनं होमं भोजनं देवतार्च्चनम् | प्. ३७४) प्रौढपादो न कुर्वीत स्वाध्यायञ्चैव तर्पणम् || प्रौढपादलक्षणमपि तत्रैव | आसनारूढपादस्तु जानुनोर्वाथ जङ्घयोः | कृतावसक्तकोषस्तु प्रौढपादः स उच्यते || इति राघवट्टधृतप्रौढपादलक्षणम् || गोरक्षसंहितायाम् | आसनानि च तावन्ति यावन्तो जीवजन्तवः | एतेषामखिलान् भेदान् विजानाति महेश्वरः | चतुरशीतिलक्षाणामेकैकं समुदाहृतम् | तथा शिवेन पीठानां षोडशानां शतं कृतम् | आसनेषु समस्तेषु द्वयमेतदुदाहृतम् | एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् | योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत् मेढ्रे पादमथैकमेव हृदयं कृत्वा समं विग्रहम् | स्थाणुः संयमितेन्द्रियोऽन्यनदृशा पश्यन् भ्रुवोरन्तरम् एतन्मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते || इति सिद्धासनम् || १ || वामोरूपरि दक्षिणं नियमतः संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां धृतम् | अङ्गुष्ठं हृदये निधाय चिवुकं नासाग्रमालोकयेत् एतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते || अन्यदत्रापि || वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथाप्यन्योरूपरि तस्य बन्धनविधौ धृत्वा कराभ्यां धृढम् | अङ्गुष्ठौ हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते || २ || इति पद्मासनम् || इत्याद्यासनानि योगोपयोगीन्येव | पूजायां नैतेषां प्रयोजनम् || मत्स्यसूक्ते || पञ्चगव्येन संशोध्य मण्डपं यागभूमिकम् | शरेण प्रोक्षणं कुर्य्यान्मूलमन्त्रेण वीक्षणम् | विकिरान् विकिरेत्तत्र सप्तजप्तान् शराणुना | धूपयेदन्तरे पश्चाच्चन्दनागुरुभिस्तथा || तथा || आत्मनो दक्षिणे भागे पूजाद्रव्याणि स्थापयेत् | सव्ये सुवासितं कुम्भं तीर्थतोयेन पूरितम् | वस्त्रपूतं ततः कार्य्यं रात्रितोयं विवर्ज्जयेत् || शारदायाम् || प्रक्षालनाय करयोः पत्श्चा पात्रं निवेशयेत् |
SKप्. ३७५) घृतप्रज्वलितान् दीपान् स्थापयत् परितः शुभान् || पाद्यार्घ्याचमनमधुपर्काचमनपात्राण्यप्यधुनैव स्थापयेत् || देवीपुराणे || हेमराजतताम्राणि मृच्छिलाशैलजानि च | बलिदानादेपात्राणि शुभरेखोत्कराणि च | अर्घ्यनैवेद्यपूजार्थं बलिदाने प्रकल्पयेदिति | शिवरहस्ये शेषार्द्धम् || हैमपात्राणि सर्वाणि विहितानि भवन्तु मे | अर्घ्यं दत्त्वा तु रौप्येण आयूराज्यसुताल्लभत् | ताम्रपात्रेण सौभाग्यं धर्मं मृण्मयसम्भवे | सर्वाभावे तु माहेयं स्वहस्तघटितं यदि | माहेयं मृण्मयम् || आसनं चार्घ्यपात्रञ्च भग्नमासादयेत्ततः | सर्वत्र स्वर्णकं ताम्रमन्यमात्रे ततोऽधिकम् | पात्राणामादरः कार्य्यः पात्राण्येवोत्तमादरः | बलिहोमक्रियार्थं हि विना पीठन्तु सिध्यति | षट्त्रिंशदङ्गुलं पात्रमुत्तमं परिकीर्त्तितम् | मध्यमं तत्त्रिभागोनं कनिष्ठं द्वादशाङ्गुलम् || चतुर्विंशाङ्गुलं मध्यं कनिष्ठं द्वादशाङ्गुलमिति क्वचित् पाठः | वस्वङ्गुलविहीनन्तु न पात्रं कारयेद्बुध इति पाठान्तरम् || सर्वाभावे त्यजेत् पात्रं स्रवतै यत्र वारि तत् | यत्रोदक न स्रवते तत् कर्मार्हमिति कार्य्यक्षमोपलम्भकमिति | नाभीविवररूपाणि पुण्डरीकाकृतीनि च | शङ्खशुक्तिवृक्षजानि पात्राणि परिकल्पयेत् || अथ पाद्यपात्रलक्षणम् | वैखानसग्रन्थे || पादावनेजनजलग्रहणं पात्रमद्भुतम् | लौहजं वा सरोजातं हैमं राजतमेव वा | ताम्रं सचरणमपि वायवे न सतामिति || सिद्धान्तशेखरे || षडङ्गुलप्रविस्तारमुत्सेधं चतुरङ्गुलम् | ओष्ठमेकाङ्गुलं कुर्य्यान्नासिकां चतुराङ्गुलाम् | पृष्ठे पादसमायुक्तं चतुरङ्गुलमानतः | पाद्यपात्रमिति ख्यातं सर्वदेवप्रपूजने || इति पाद्यपात्रलक्षणम् || अथ पाद्यप्रक्षेपणीयपात्रलक्षणम् || तत्रैव || अष्टाङ्गुलसमुत्सेधं विस्तारं षोडशाङ्गुलम् | ओष्ठमेकाङ्गुलं कुर्य्याच्छरावाकृतिपात्रकम् | प्. ३७६) पात्रयोरुभयोः कुर्य्याद्वृत्तकं कणके समे | पृष्ठे पादसमायुक्तं षडङ्गुलसुविस्तृतम् |
SKपादोत्सेधं चतुर्मात्रं पाद्याधारं प्रकीर्त्तितम् | इति पाद्यप्रक्षेपणीयपात्रलक्षणम् | अथार्घ्यपात्रलक्षणम् || सिद्धान्तशेखरे || अर्घ्यस्य लक्षणं वक्ष्ये पलद्रव्यादिभेदतः | सामान्यार्घ्यं तिरोधाम्यं विशेषार्घ्यपराङ्मुखम् | अर्घ्यपात्राणि चत्वारि स्वर्णदूर्वाक्षतानि च || दुर्बलं राजतं ज्ञेयमधमानि ततः परम् | ताम्रशुक्तिशिलादारुकर्ममृत्पात्रजानि च | उत्तमं पलविंशत्या मध्यमं दशभिः पलैः | हीनं पञ्चपलं कुर्य्यादेवमाचम्य पाद्ययोः | चतुःपर्वाणि तानि स्युः निःसृतान्यष्टपर्वभिः | पृष्ठेनाङ्कशुभाङ्कानि कृताकाराणि वा पुनः | चतुरस्राणि कुर्वीत चतुष्पात्राणि चार्घ्यके | कर्पूरं कुङ्कुमं दूर्वां सिधार्थं विल्वपत्रकम् | यवदर्भान् कुशांश्चेति सामान्यार्घ्यं विनिक्षिपेत् | तिलप्रसूनसिद्धार्थदर्भदूर्वायवाक्षतान् | द्रव्याण्येतानि सप्तैव तिरोधाय विनिक्षिपेत् | तिलतण्डुलसिद्धार्थदूर्वामुद्गयवानपि | पराङ्मुखार्घ्यदाने च द्रव्यशुद्धिं प्रकल्पयेत् || इत्यर्घ्य पात्रलक्षणम् || अथाचमनपात्रलक्षणं वैखानसग्रन्थे || आचम्य वारिग्रहणपात्रमुत्तमलौहजम् | सरोजकर्णिकाकारं कुर्य्यादद्भुतदर्शनम् || कार्त्तस्वरमयं स्थूलं राजतं वाथ पावनम् || कार्त्तस्वरं सुवर्णमिति || उत्तमलौहमपि तथा || सर्वन्तु तैजसं लौहमिति स्वरसात् रजतं ताम्रं वा || सिद्धान्तशेखरे || द्वादशाङ्गुलविस्तारं कुक्षिमध्यं सवृत्तकम् | षडङ्गुलं तद्दलान्तमोष्ठं कुर्य्यात्तथाङ्गुलम् || अस्य तारं त्रिमात्रं स्यात् पार्श्वे नासागुणाङ्गुलम् | रन्ध्रं कनिष्ठकातुल्यमग्रे तद्द्विगुणे त्वधः | पृष्ठे पादं चतुः कुर्य्यादुत्सेधं द्व्यङ्गुलं ततः | सडङ्गुलप्रविस्तारं पात्रमाचमनार्थकम् || इति आचमनपात्रलक्षणम् || अथ गन्धपात्रलक्षणम् || प्. ३७७) सिधान्तशेखरे || अर्घ्यवद्गन्धपात्रं स्यादिति | अत्र अर्घ्यपात्रवदित्यनेन सम्पूर्णार्घ्य पात्रलक्षणातिदेशः | यथा अर्घ्यपात्रं क्रियते तथैव गन्धपात्रं कर्त्तव्यमित्यर्थः ||
SKइति गन्धपात्रलक्षणम् || अथ धूपपात्रलक्षणं वैखानसग्रन्थे || धूपपात्रं सरोजातं सुवर्णादिविनिर्मितम् | पादयोरपि तस्य स्यादुत्सेधं चतुरङ्गुलम् | अनेकशुषिरं तस्य पिधानं सदृशं भवेत् | शुषिरं छिद्रम् || पिधानमाच्छादनम् | सिद्धान्तशेखरे || धूपपात्रविधिं वक्ष्ये पलद्रव्यादिपूर्ववत् | चतुःपञ्चरसाश्वैर्वै पात्रविस्तारमङ्गुलैः | रसाः षट् अश्वाः सप्त | पात्रोत्सेधतो दैर्घ्यं स्यादोष्ठमर्द्धान्तकं मतम् | पद्माभं परितः पात्रं द्व्यङ्गुलोऽधोगलो भवेत् | पादमेकाङ्गुलोत्सेधं विस्तृतं द्व्यङ्गुलं ततः | षट्पर्वदीर्घनाभं स्यादुन्नतं द्व्यङ्गुलं मतम् | पूर्वकोत्सेधसंयुक्तं वृत्तञ्च चक्रचापवत् | पिधानं द्व्यङ्गुलोत्सेधं नानाच्छिद्रसमन्वितम् | एकच्छिद्रयुतं कुर्य्यात् कलसाकारमूर्द्ध्वतः || इति धूपपात्रलक्षणम् || वैखानसग्रन्थे || दीपपात्रं तता नालमध्ये कुमुदकोज्ज्वलम् | वर्त्त्याधारैः शतेनापि युक्तमष्टाभिरेव च | त्रिसप्तकाष्टभिश्चैव द्वाभ्यां वा दशभिश्च वा | पञ्चभिर्वा यथाशक्ति कल्पयेच्चिह्नवित्तमः | सिद्धान्तशेखरे || दीपपात्रविधिं वक्ष्ये पलद्रव्यादिरर्घ्यवत् | पदेन नागलाद्यं हि धूपपात्रवदुच्यते | एकपत्रं चतुष्पत्रं षड्दलं वाष्टपत्रकम् | तत्रैकपत्रं मध्ये स्यान्निम्नाश्वत्थदलाकृति | चतुष्पत्रं चतुर्दिक्षु मध्यमा निम्नकर्णिका | षड्दले तु स्मृतं तद्वदुपपत्रसमन्वितम् || इति दीपपात्रलक्षणम् || अथ दीपमालालक्षणम् || सिद्धान्तशेखरे || दार्वयस्ताम्रसम्भूता दीपमालाऽधमा मता | मध्यमा च तथा श्रेष्ठा स्वर्णा वा रौप्यजा क्रमात् | यष्ट्या तु द्वारवत् कुर्य्यात् लिङ्गपृष्ठे प्रभाकृतिम् | द्वाराभामन्यदेशे तु दीपमालां सुशोभनाम् | चतुर्भिरङ्गुलैर्दीर्घं स्कन्धमङ्गुलविस्तृतम् | प्. ३७८) एवं कृत्वा विभागैकं दण्डमध्ये नियोजयेत् | स्कन्धात् स्कन्धं समं कुर्य्यादन्तरं भूतमात्रकम् | दीपमालेति कथिता सर्वदेवादिपूजने | इति दीपमालालक्षणम् || अथ दीपाधारलक्षणम् ||
SKसिद्धान्तशेखरे || हेमताम्रादिसम्भूतं विदध्यादुत्तमादिकम् | द्वादशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवृद्धितः | अष्टादशोदितोत्सेधा दीपाधारस्य चोच्छ्रता | स्नेहाधारस्य पादे तून्नाहं दैर्घ्यसमं मतम् | पादनावशरावांशः स्नेहाधारोऽपि तत्समः | तदूर्द्ध्वं मुकुलं कुर्य्यात् प्रादिकादिसमन्वितम् | नानापरीसमायुक्तं नानाकुम्भांशमालिकम् | दीपाधार इति प्रोक्तो लौहजान् दीपकांस्तु तान् | नानावर्णान् तथा रम्यान् चतुर्हस्तप्रमाणकान् | त्रिहस्तानेकहस्तान् वा द्विहस्तान् वा यथाबलम् | ताम्रजान् राजतीयान् वा युग्मैस्तैः स्नेहधारकैः || इति दीपाधारलक्षणम् || वैखानसग्रन्थे || नीराजनक्रियापात्री हेमाद्रिद्रव्यनिर्म्मिता | त्रितालोपेतविस्तीर्णघृतमध्या मनोहरा || सिधान्तशेखरे || हिरण्यतारताम्रादिनिर्म्मितं ह्युत्तमादिकम् | षट् त्रिंशताङ्गुलैः श्रेष्ठं मध्यमं त्रिंशताङ्गुलैः | चतुर्विंशतिमात्रैः स्यादधमं विस्तृतौ क्रमात् | अग्निभागैकभागेन कुर्य्यान्मध्ये च कर्णिकाम् | उत्तरकासमुत्सेधं कर्णिकायाः प्रमाणतः | पीठिकं परितः कुर्य्यात् यवयुग्मेन विस्तृतम् | तत्समानोन्नतानीह परितोऽष्टदलानि च | परितोऽर्द्धप्रमाणेन काष्ठानामष्टकं समम् | ओष्ठमेकाङ्गुलं कुर्याद्विस्तारात् कर्णिकोन्नते | समानं पूर्णचन्द्राभं दीपाधारश्च कुम्भवत् || उन्नतादिचतुर्मात्रैर्विस्तृतैश्चाङ्गुलद्वयम् | तत्र रन्ध्रद्वयं कुर्य्यात् कर्णिकामध्यमं समम् || इति नीराजनपात्रलक्षणम् || अथ घण्टालक्षणम् || वैखानसग्रन्थे | शब्दब्रह्ममयी घण्टा हस्तोत्सेधप्रमाणिका | ब्रह्माण्डगोलकाकारा सुराद्यात्मतमा भवेत् | अधोमुखतालमानविस्तारोत्सेधनं ततः | प्. ३७९) नानाविधाश्चतस्रो वा घण्टाः प्रतिदिशः कृता | चक्राङ्का पङ्कजाङ्का वा सा घण्टा परिकीर्त्तिता | एवं विधा भवेद्घण्टा यद्वा चित्तानुसारतः | सिधान्तशेखरे || पञ्चाङ्गुलोन्नता घण्टा तद्वद्विस्तारसंयुता | घण्टायास्तु परीणाहो विस्तारार्द्धेन कीर्त्तितः | अङ्गुलस्तु भवेद्दण्डो दैर्घ्ये वृत्तसमं मतम् |
SKदण्डाग्रे वृषभं शूलं नलिनं वापि कारयेत् | शुद्धकांस्येन कर्त्तव्यं घण्टालक्षणमीरितम् || इति घण्टालक्षणम् || अथ नैवेद्यपात्रलक्षणम् || वीरमित्रोदये || नैवेद्यपात्रं वक्ष्यामि केशवाय महात्मने | हैरण्यं राजतं ताम्रं कांस्यं मृण्मयमेव वा | पालासं मध्यमं प्लाक्षपात्रं विष्णोरतिप्रियम् | हविर्द्रव्यप्रमाणानि पात्राणि परिकल्पयेदिति || सिद्धान्तशेखरे || सुवर्णरूप्यताम्रेभ्यः स्थालिकां ह्युत्तमादिकाम् | शुद्धकांस्येन वा कुर्य्याद्देवनैवेद्यपात्रके | एकपात्रं समारभ्य चासप्तात्तु ततः क्रमात् | कुर्य्यान्नैवेद्यपात्राणि हीननैवेद्यकादिषु | पात्रं शतं पलं श्रेष्ठं तदर्द्धं मध्यमं मतम् | तदर्द्धं मध्यमं ज्ञेयम् पात्रसंख्येति कीर्त्तिता | स्थालिका नवधा कार्य्या भावाः षट्त्रिंशदङ्गुलम् | अङ्गुलार्द्धमितैर्मूलैरष्टधाङ्गुलकैः क्रमात् | इति विस्तारमाख्यातं स्थालिकानवके क्रमात् | उत्तमत्रयमग्रे स्यान्मध्यमे मध्यमत्रयम् | पुनस्त्रयमधस्तात् स्यात् स्थालिकानां यथाक्रमम् || इति नैवेद्यपात्रलक्षणम् || अथ पानीयपात्रलक्षणम् || वैश्वानरसंहितायाम् || पानीयपात्रं सौवर्णं राजतं ताम्रमेव वा | वृक्षायतसुवृत्तं वा भवेदायतमेव वा | प्रस्थमानप्रमाणाम्भः पुरयोग्यान्तरं शुभम् || इति पानीयपात्रलक्षणम् || अल ताम्बूलपात्रलक्षणम् || वैखानसग्रन्थे || कल्पयेद्रागलतिका दलपत्रसमन्विता | अरत्निमानविस्तीर्णं कारयेद्वा यथाबलम् | इति ताम्बूलपात्रलक्षणम् || इति प्राणतोषिण्यां तृतीयेऽर्थकाण्डे गन्धादिपात्रस्थापनान्तरूपपल्लवकथनं नाम चतुर्थः परिच्छेदः | प्. ३८०) शारदायाम् || कृताञ्जलिपुटो भूत्वा वामदक्षिणपार्श्वयोः | नत्वा गुरुं गणेशानं भूतशुद्धिमथाचरेत् || करशुद्धिं समापाद्य कुर्य्यात्तालत्रयं ततः | ऊर्द्ध्वोर्द्धमस्त्रमन्त्रेण दिग्बन्धमपि देशिकः | तेन संज्वलितं तेजो रक्षां कुर्य्यात् समन्ततः | चतुर्थपटले || सुषुम्नावर्त्मनात्मानं परमात्मनि योजयेत् | योगयुक्तेन विधिना चिन्मन्त्रेण समाहितः |
SKआत्मानं हृदयकमलस्थितं सुषुम्नावर्त्मना कुण्डलिन्या सह योगयुक्तेन विधिना चिन्मन्त्रेण हंस इति मन्त्रेण परमात्मनि योजयेदित्यन्वयः | सुषुम्ना वर्त्म यस्याः सा तया | हृदयकमलस्थ आत्मा तु | हृदम्बुजे ब्रह्मरन्ध्रसम्भूते ज्ञाननालके | ताराग्रमग्रे जीवस्तु चिन्तनीयो मनीषिभिरिति राघवभट्टधृतवचनेन ज्ञातव्यः | योगयुक्तेन विधिना इत्यस्यायमर्थः | गुरूपदिष्टमार्गेण हङ्कारेण कुण्डलिनीमुत्थाप्यैतां हृदयकमलगतां विभाव्य ततो जीवं मुखे गृहीत्वा सहस्रारगतां विभावयेत् | तेन व्यो हंसमन्त्रेण द्वादशार्णोषिते परे | इति वचनेनैकवाक्यतया चिन्मन्त्रो हंस इति | शारदायाम् || कारेण सर्वभूतानां तत्त्वान्यपि विचिन्तयेत् | वीजभावेन लीनानि व्युत्क्रमात् परमात्मनि | सर्वभूतानां कारणे परमात्मनि वीजभावेन लीनानि तत्त्वानि चिन्तयेदित्यर्थः || व्युत्क्रमादिति सृष्टिक्रमापेक्षया | अपि शब्दाद्वर्णानपि | तदुक्तं पिङ्गलामते || सङ्कल्प्यैवं ततो न्यासस्थानाद्वर्णांश्च संहरेत् | प्रतिलोमेन क्षलयो लकारस्य हकारके | हलयश्च सकारेऽथ सलयश्च यकारके | क्रमेणैवमपर्य्यन्तं लयमुत्पाद्य यत्नतः | अकारं ब्रह्मरन्ध्रे च सहस्रारे नियोजयेदिति || प्. ३८१) शारदायाम् || ततः संशोषयेद्देहं वायुवीजेन वायुना | वह्निवीजेन तेनैव सन्दहेत् सकलां तनुम् | वायुवीजेन यकारेण वायुना तदुत्थवायुना | वह्निवीजेन रेफेण तेनैवाग्निवीजोत्थवह्निना सकलामिति कलं पापं पापपुरुषसहितां तनुं निदहेदित्यर्थः | सविशेषणविधितया न प्रकृतशरीरनाशः | तत्कारणन्तु सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे इति न्यायः | बाधस्त्वन्वयानुपपत्तिः | तात्पर्य्यविषयीभूते अर्थे अन्वयानुपपत्तौ | यत्र तु विशिष्टे तात्पर्य्यं तत्र विशिष्टमप्युपगच्छतो विधिनिषेधौ न विशेष्यमात्रम् | तथाच भर्तृहरिः || नीलं पटं विधेहीति लोकेऽपि द्वयमीक्षते | क्वचिन्नीलगुणस्यैव विशिष्टस्य विधिः क्वचित् ||
SKअत-एव गुप्तसाधनतन्त्रे षष्ठपटले || भूतशुद्धौ महादेव ! यदि देहन्तु नाशयेत् | कुत्र स्थाने भवेत् सृष्टिरमृतं कुत्र सञ्चयेदिति देवीसन्देहप्रश्नस्योत्तरम् || महादेव उवाच || वामकुक्षौ स्थितं पापपुरुषं कज्जलप्रभम् | तस्य संहरणार्थाय महती प्रकटीकृता | लिङ्गदेहो महेशानि ! तस्य देहो न संशयः | पापदेहं भवेद्दग्धं स्वदेहं नैव नाशयेत् || इति शिववचनम् || पापपुरुषध्यानन्तु राघवभट्टधृतम् || ब्रह्महत्याशिरस्कन्तु स्वर्णस्तेयभुजद्वयम् | सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् | तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् | उपपातकरोमाणं रक्तश्मश्रुविलोचनम् | खड्गचर्मधरं पापमङ्गुष्ठपरिमाणकम् | अधोमुखं कृष्णवर्णं वामकुक्षौ विचिन्तयेत् || शारदायाम् || विश्लेषयंस्तदा दोषानमृतेनामृताम्भसा | आपाद्य प्लावयेद्देहमापादतलमस्तकम् | दोषस्वरूपपापपुरुषभस्मविश्लेषोऽपि वायुवीजेनैव | तथाच गणेशविमर्षिण्याम् || तद्भस्मकूटमखिलं वायुवीजोत्थवायुना | विकीर्य्यामृतवीजेन स्वदेहं प्लावयेत्ततः | अमृतेनेति अमृतवीजेन वमित्यनेन | प्. ३८२) अमृताम्भसा तदुत्थेनामृतेनापादतलमस्तकं देहमापाद्याप्लावयेदित्यन्वयः || शारदायाम् || आत्मलीनानानि तत्त्वानि स्वस्थान प्रापयेत्तदा | आत्मानं हृदयाम्भोजमानयेत् परमात्मनः | मनुना हंसदेवस्य कुर्यान्न्यासादिकं ततः | परमात्मनः सकाशात् हंसदेवस्य मनुना आत्मानं हृदयाम्भोजमानयेदित्यन्वयः || हंसस्य वीजस्य देवः परमात्मा उपास्यत्वात् तन्मन्त्रेण सोऽहमित्यनेन | तदुक्तं वशिष्ठसहितायाम् || सोऽह मन्त्रेण ता मन्त्री नादान्ते सिद्धिभाविताम् | ध्यात्वैवं ब्रह्मरन्ध्राच्च हृदि जीवं न्यसेदिति || तत्र गुरूपदेशतः प्रकारो लिख्यते |
SKओमद्येत्यादि श्रीदेवपूजाद्यधिकारसिद्धये भूतशुद्ध्याद्यहं करिष्ये इति सङ्कल्प्य मूलाधारादुत्थितां विद्युत्सहस्रप्रभाभास्वरां विसतन्तुरूपां सुषुम्नामार्गेण हृदयकमलगता कुण्डलिनीं विभाव्य हृदयकमलाज्जीवं प्रदीपकलिकाकारं मुखे गृहीत्वा द्वादशार्णाम्बुजं सहस्रदलगतं विभाव्य तत्र जीवात्मानं हंसमन्त्रेण परमात्मनि योजयेत् | ततः पादादिजानुपर्य्यन्तं चतुरस्रं पृथिवीमण्डलं विभाव्य तत्र पादगमनक्रियागन्तव्यगन्धघ्राणपृथिवीब्रह्मनिवृत्ति समानवायु संस्मृत्य ॐ ह्लीं ब्रह्मणे पृथिव्यधिपतये निवृत्तिकलात्मने हुं फट् स्वाहा इत्यमुंमन्त्रमुच्चार्य्य तान् कुण्डलिनीद्वारा अप्सु प्रविलापयेदित्यप्स्थाने संहरेत् | जान्वादिनाभिपर्य्यन्तं शुक्लमर्द्धचन्द्राकारं जलमण्डलं विभाव्य तत्र हस्तादानदातव्यरसरसनाजलविष्णुं प्रतिष्ठेदनिलस्य ॐ ह्लीं विष्णवे जलाधिपतये प्रतिष्ठाकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्य्य तान् सर्वान् कुण्डलिनीद्वारा अग्नौ प्रविलापयामीत्यग्निस्थाने संहरेत् | नाभ्यादिहृदयपर्य्यन्तं त्रिकोणं वह्निमण्डलं रक्तवर्णं विभाव्य तत्र पायुविसर्जनीयरूपचक्षुस्तेजोरुद्रविद्याव्यानानिलं संस्मृत्य ॐ हुं रुद्राय तेजोऽधिपतये विद्याकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्य्य तान् सर्वान् कुण्डलिनीद्वारा वायौ प्रविलापयामीति वायुस्थाने संहरेत् | प्. ३८३) ततो हृदयाद्रिभ्रूपर्य्यन्तं कृष्णवर्त्तुलं षड्विन्दुलाञ्छितं वायुमण्डलं विभाव्य तत्रापस्थानतद्विषयस्पर्शस्प्रष्टव्यवायवीयशान्त्यपानान् संस्मृत्य ॐ हौं ईशानाय वाय्वधिपतये शान्तिकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्य्य तान् सर्वान् कुण्डलिनीद्वारा आकाशे प्रविलापयामीत्याकाशस्थाने संहरेत् |
SKततो भ्रूमध्यादिब्रह्मरन्ध्रान्तपर्य्यन्तं शुक्लवर्त्तुलमाकाशमण्डलं विभाव्य तत्र वाग्वदनवक्तव्यशब्दश्रोत्राकाशसदाशिवशान्त्यतीतप्राणान् संस्मृत्य ॐ हौं सदाशिवाय आकाशाधिपतये शान्त्यतीतकलात्मने हुं फट् स्वाहा इत्यमुं मन्त्रमुच्चार्य्य तान् सर्वान् कुलकुण्डलिनीद्वारा अहङ्कारे प्रविलापयामीत्यहङ्कारे प्रविलाप्य महत्तत्त्वं मातृकासंज्ञकशब्दब्रह्मस्वरूपायां हृल्लेखानुभूतायां प्रकृतौ प्रविलापयामीति प्रविलाप्य तां तथाविधां नित्यशुद्धस्वभावे परमब्रह्मणि प्रविलापयामीति प्रविलापयेत् || तदुक्तं मन्त्रतन्त्रप्रकाशे || गन्धादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत् | रसादिजिह्वया सार्द्धं जलमग्नौ विलापयेत् | रूपादिचक्षुषा सार्द्धमग्निं वायौ विलापयेत् | समीरमीश्वरे विद्वान् स्पर्शादित्वक्समन्वितम् | अहङ्कारे हरेद्व्योम सशब्दं तन्महत्यपि | महच्च सर्वशक्तानामव्यक्ते कारणे परे | सच्चिदानन्दरूपं यद् वैष्णवं परमं पदम् || पृथिव्यादिक्रमात् सर्वं तत्र लीनं विचिन्तयेत् | ततः शरीरस्यान्तर्य्यामी ऋषिः सत्यं देवता प्रकृतिपुरुषं छन्दः शोधनेन विनियोगः | इत्युक्त्वा वामकुक्षिषु मुक्तरूपं पापपुरुषं विचिन्त्य यमिति वायुवीजस्य किष्किन्ध ऋषिर्वायुर्देतता जगतीच्छन्दः शरीरपापपुरुषशोधने विनियोगः | इत्युक्त्वा नाभिमूले बिन्दुद्वयलाञ्छितमण्डले यं विचिन्तयेत् | प्. ३८४) तद्वायुबीजं धूम्रं चञ्चलध्वजसंयुक्तं धूं धूं शब्दयुतं सर्वशोषणं हंसदैवतमिति ध्यात्वा पूरकप्रयोगेण षोडशवारं वीजमुच्चार्य्य तद्वीजोत्थवायुना स्वशरीरस्थं पापपुरुषं शोधितं विभावयेत् | ततो रमित्यग्निवीजस्य कश्यप ऋषिरग्निर्देवता त्रिष्टुप्च्छन्दः तद्दाहे विनियोगः | इत्युक्त्वा हृदये रक्तं त्रिकोणं वह्निमण्डलं विद्याकलायुतं रुद्रदैवतमिति ध्यात्वा प्रयोगेण चतुःषष्टिवारं वीजमावर्त्त्य तद्वीजोत्थाग्निना तद्भस्मीभूतं विभावयेत् | ततो रेचकेण द्वात्रिंशन्मात्रया पूर्वोक्तरूपं वायुवीजमावर्त्त्य पापपुरुषभस्म रेचयेत् |
SKततो वमिति वरुणवीजस्य हिरण्यगर्भ ऋषिर्हंसो देवता त्रिष्टुप्छन्दः प्लावने विनियोगः | इत्युक्त्वा | वारुणं मण्डलं मूर्ध्नि शुभ्रं चन्द्रार्द्धसन्निभम् | सितपङ्कजयुग्माभयकरं स्याद्वरुणदैवतम् || इति ध्यात्वा तद्वीजोत्थस्रुतांमृतेन तच्छरीरभस्म पिण्डीभूतं विभावयेत् | ततो लमिति पृथिवीवीजस्य ब्रह्म-ऋषिरिन्द्रो देवता गायत्रीच्छन्दः कठिनीकरणे विनियोगः | इत्युक्त्वा | आधारमण्डले पृथ्वीमण्डलं वज्रलाञ्छितम् | चतुष्कोणञ्च कठिनं पीतवर्णेन्द्रदैवतम् | लंवीजेन समायुक्तं ध्यायन् मनसि पूर्ववत् || इति ध्यात्वा तद्वीजोत्थकाठिन्येन तनुं दृढां भावयेत् | ततो हमित्याकाशवीजस्य ब्रह्म ऋषिराकाशं देवता पंक्तिच्छन्दः व्यूहने विनियोग इत्युक्त्वा | आकाशमण्डलं वृत्तं द्वादशान्ते ह्यनुज्ज्वलम् | शान्त्यतीताकलायुक्तं विचिन्त्याकाशदैवतम् | इति ध्यात्वा तदुत्थेनाकाशेनाकाशं विभावयेत् | तद्वत् हमिति वीजेनावाय्वीकरणं भवेदिति | एवं स्वशरीरं विचिन्त्य परमात्मनः सकाशात् सृष्टिक्रमेण तत्त्वानि स्वस्वस्थानं प्रापयेदिति || ततः परमात्मनः सकाशात् सोऽहं मन्त्रेण जीवं हृत्पद्ममानयेदिति संक्षेपः | इयञ्च भूतशुद्धिरावश्यकी || पञ्चशुद्धिविहीनेन कृता पूजाभिचारवत् | विपरीतफलं दद्यादभक्त्या पूजनं यथा | प्. ३८५) निर्-ऋतिर्विधिहीनानां फलं हन्ति हि कर्म्मणाम् | निशाचराधिपत्यञ्च कुरुते शङ्कराज्ञया || इति शैवागमोक्तेः | अन्यत्रापि | देहकारणभूतानां भूतानां यद्विशोधनम् | अवयवः ब्रह्मसंयोगाद् भूतशुद्धिरियं मता | भूतशुद्धिं विना कर्म्म जपहोमार्च्चनादिकम् | भवेत्तु निष्फलं सर्वं प्रकारेणाप्यनुष्ठितम् || इति मत्स्यसूक्ते पञ्चदशपटले || नत्वा गुरुं गणेशानं भूतशुद्धिं समाचरेत् | उभाभ्यामपि पाणिभ्यां तर्ज्जन्यङ्गुष्ठयोगतः | गृहीत्वा यं क्षमं देवि ! यमित्याघ्राय निक्षिपेत् || महानिर्वाणतन्त्रे पञ्चमोल्लासे च || स्वाङ्के निधाय च करावुत्तानौ साधकोत्तमः | मनो निवेश्य मूले च हुङ्कारे शैवकुण्डलीम् |
SKउत्थाप्य हंसमन्त्रेण पृथिव्या सहितान्तु ताम् | स्वाधिष्ठानं समानीय ततस्तत्त्वे नियोजयेत् | घ्राणादिघ्राणसंयुक्तां पृथिवीमप्सु संहरेत् | रसादि जिह्वया सार्द्धं जलमग्नौ विलापयेत् | रूपादि चक्षुषा सार्द्धमग्निं वायौ विलाप्य च | स्पर्शादि त्वग्युतं वायुमाकाशे विप्रलापयेत् | अहङ्कारे तरेद्व्योम सशब्दं तन्महत्यपि | महत्तत्त्वञ्च प्रकृतौ तां ब्रह्मणि विलापयेत् | एवं विलाप्य मतिमान् वामकुक्षौ विचिन्तयेत् | पुरुषं कृष्णवर्णञ्च रक्तश्मश्रुविलोचनम् | खड्गचर्म्मधरं क्रुद्धमङ्गुष्ठपरिमाणकम् | सर्वपापस्वरूपञ्च सर्वदाधोमुखस्थितम् | ततस्तु वामनासायां यं बीजं धूम्रवर्णकम् | सञ्चिन्त्य पूरयेत्तेन वायुं षोडशमात्रया | तेन पापात्मकं देहं शोधयेत् साधकाग्रणीः | नाभौ रं रक्तवर्णञ्च ध्यात्वा तज्जातवह्निना | चतुःषष्ट्या कुम्भकेन दहेत् पापवतीं तनुं | ललाटे वरुणं बीजं शुक्लवर्णं विचिन्त्य च | द्वात्रिंशता रेचकेन प्लावयेदमृताम्भसा | आपादशीर्षपर्य्यन्तमाप्लाव्य तदनन्तरम् | उत्पन्नं भावयेद्देहं नवीनं देवतामयम् | पृथ्वीबीजं पीतवर्णं मूलाधारे विचिन्तयन् | तेन दिव्यावलोकेन दृढीकुर्य्यान्निजां तनुम् | प्. ३८६) हृदये हस्तमादाय आं ह्रीं क्र्ॐ हं स उच्चरन् | सोऽहं मन्त्रेण तद्देहे देव्याः प्राणान् प्रतिष्ठयेत् | भूतशुद्धिं विधायेत्थं देवीभावपरायणः || नीलतन्त्रे चतुर्थपटलेऽपि || भूतशुद्धिं ततो वक्ष्ये शृणुष्वावहितानघे ! | अपानमूर्द्ध्वगं कृत्वा दिव्यतत्त्वैः प्रपूर्य्य च | हंसमन्त्रेण चाधाराच्छक्तिं कुण्डलिनीं पराम् | क्रमाच्चक्राणि निर्भिद्य जीवात्मानं ततोऽम्बुजम् | सहस्रारं ततो नीत्वा परे ब्रह्मणि योजयेत् | इन्द्रियाणि दशेकञ्च महत्तत्त्वानि तद्गुणान् | शुद्धं करोति चित्तानि तत्त्वानि प्रकृतेर्वपुः | चतुर्विंशतितत्त्वानि वीजभावेन योजयेत् | ततः शून्ये शरीरे च वामभागे विचिन्तयेत् | निर्लेपं निर्गुणं शुद्धमात्मानं तारिणीमयम् | अन्तरीक्षे ततो ध्यायेदाः काराद्रक्तपङ्कजम् |
SKभूयस्तस्योपरि ध्यायेत् टाङ्कारेच्छेतपङ्कजम् | पुनस्तस्योपरि ध्यायेद् हुङ्कारं नीलसन्निभम् | ततो हुंङ्कारवीजे तु कर्त्तृका वीजभूषितम् | कर्त्तुः परिगतां ध्यायेदात्मानं तारिणीमयम् | तथा | वश्यादौ रक्तवर्णं तमाकृष्टौ पीतरूपिणम् | मारणोच्चाटनैर्धूम्रं कृष्णम् तत्तदपेक्षया | एवम्भूतं स्वमात्मानं ध्यायेच्च तारिणीमयम् || विश्वसारतस्त्रे द्वितीयपटले || यमिति वायुवीजेन षोडशेन तु पूरयेत् | चतुः षष्ट्या च तेनैव पापदेहं प्रशोधयेत् | तेन वीजेन विधिना पिङ्गलायाञ्च रेचयेत् | द्वात्रिंशन्मात्रया भस्म श्वासमार्गेण वै शनैः | एवं वारत्रयं कृत्वा भूतानां शोधनं स्मृतम् | पूरयेत् प्रतिलोमेन वह्निवीजेन देशिकः | षोडशेन चतुःषष्ट्या कुम्भयेद्रेचयेत्ततः | द्वात्रिंशन्मात्रया चैव दहनं परिकीर्त्तितम् | चतुर्द्धा च प्रजप्याथ तद्वर्णं प्रजपेत् क्रमात् | शोषणं दहनञ्चैव प्ल्वावनं परिकीर्त्तितम् | किस्किन्धः कश्यपश्चैव हिरण्यगर्भस्ततः परम् | वीजानां ऋषयः प्रोक्ताः शृणुष्व कमलेक्षणे ! | प्राणायामं ततः कुर्य्यात् क्रमेण देशिकोत्तमः | प्. ३८७) सहस्रारे महापद्मे चिन्तयेदिष्टदेवताम् | यथा ध्यानं यथोक्तेन गुरुमार्गेण देशिकः | तदा भूतानि तज्ज्ञानि सगुणानि विधानतः | सकलाशक्तियुक्तानि वर्णमात्रक्रमेण च | प्रतिलोमेन संहृत्य सतत्त्वधातुसंयुतैः | मूलाधारं सहस्रारं षट्चक्रक्रमयोगतः | व्युत्क्रमेण विचिन्त्याथ सहस्रारं ततोऽवधि | ॐ मन्त्रे चालयेद्बीजं षट्चक्रक्रमयोगतः | ऐक्यं विभाव्य तत्स्थाने मन्त्रमेकं समभ्यसेत् | सोऽहं मन्त्रं समुच्चार्य्य सूक्ष्मब्रह्म विचिन्तयेत् | तत्क्षणान्निर्मलं देहं निर्द्वन्द्व निष्परिग्रहम् | अद्वैतं चिन्तयेत्तत्र मनसा वह्नियोगतः | अकारादिक्षकारान्तवर्णमालाक्रमेण च | चिन्तयेत् श्वासरोधेन पूरकुम्भकरेचकैः | एवं विचिन्त्यतान् वर्णान् ततश्चन्द्रमनुं स्मरेत् | टान्तं बिन्दुसमायुक्तमर्द्धचन्द्रविभूषितम् | चतुर्द्धा प्रजपेन्मन्त्रं मनसा वायुना सुधीः |
SKइन्द्रबीजं जपेद्देवि ! तत्त्वबीजं ततः परम् | दूरीकृत्य विधानेन धारया सुधया पुनः | ततः सञ्चिन्तयेद्देवि ! पूर्वोक्तं मातृकामयम् | सकलानादसंयुक्तं स्वशक्तिसहितं ततः | पञ्चाशद्वर्णसंयुक्तं महाभूतसमन्वितम् | पञ्चभूतात्मकं देहमनुलोमेन चिन्तयेत् | अन्तर्य्यामी ऋषिस्तस्य प्राणायामस्य देवता | वक्षःस्थले दक्षहस्तं दत्त्वा साधकसत्तमः | पूर्वोक्तप्राणमनुना ऋषिश्छन्दःसमन्वितम् | हंसमन्त्रेण तं प्राणमावाहनमुदाहृतम् | सधातूनि सतत्त्वानि इहागत्य चिरं सुखम् | तिष्ठन्तु वह्निजायान्तं मन्त्रमेनं समुद्धरेत् | अकारादिक्षकारान्तं पञ्चाशद्वर्णसंयुतम् | विचिन्त्य मनसा देहं तदा देवो भवेन्नरः | प्राणायामं त्रिरावृत्य बलं प्राणेषु निक्षिपेत् | अकारादिक्षकारान्तं पूरकुम्भकरेचकैः | प्रतिलोमानुलोमेन विचिन्त्य प्राणमावहन् | तत्क्षणाद्विरजो मन्त्री भवेत् साक्षात् सदाशिवः | नृसिंहेनैव मन्त्रेण देहे बीजं विनिक्षिपेत् | प्. ३८८) मूलाधारं ततः प्राप्य जीवात्मानं विचिन्तयेत् | कुण्डलीरूपसम्भूता विद्युदग्निसमप्रभा | निर्म्मला निर्विकारस्था सर्वसिद्धिसमन्विता | तदन्ते विन्यसेद्देहे मातृकां वर्णरूपिणीम् | मन्त्रेणानेन तां ध्यात्वा विन्यसेत् सकलां तनुम् || अथ प्राणायामः || दक्षिणामूर्त्तितन्त्रे सप्तमपटले || मूलमन्त्रेण देवेशि ! वामेनापूर्य्य चोदरम् | कुम्भकेन त्रिरावृत्त्या दक्षिणेन च रेचयेत् | कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुटधारणम् | प्राणायामः स विज्ञेयस्तर्ज्जनीमध्यमे विना || प्राणायामे विशेषः पश्चाद्वक्ष्यते || ततो दीक्षापद्धत्युक्तं तन्त्रसारधृततत्तत्कल्पोक्तञ्च न्यासादिकं कुर्य्यात् || अथ पूजाधारनिरूपणम् | मातृकाभेदतन्त्रे द्वादशपटले || शालग्रामे मणौ यन्त्रे प्रतिमायां घटे जले | पुस्तिकायाञ्च गङ्गायां शिवलिङ्गे प्रसूनके | आधारभेदे फलविशेषस्तत्रैव | शालग्रामे शतगुणं मणौ तद्वत् फलं लभेत् | यन्त्रे लक्षगुणं पुण्यं मूर्त्तौ लक्षं सुलोचने ! | घटे चैकगुण पुण्यं जले चैकगुणं प्रिये ! |
SKपुस्तिकायां सहस्रन्तु गङ्गायास्तत्समं फलम् | शिवलिङ्गे ह्यनन्तं हि विना पार्थिवलिङ्गकम् | पुष्पयन्त्रे महेशानि ! पूजनात् सर्वसिद्धिभाक् | शालग्रामादिनिकटे यन्त्रकरणनिषेधोऽपि | शालग्रामे च पूजायां न लिखेद् यन्त्रमुत्तमम् | मणौ स्थिते महेशानि ! न लिखेद्यन्त्रमुत्तमम् | प्रतिमायाश्च पुरतो घटं संस्थाप्य यत्नतः | परिवारान् यजेत्तत्र घटे तु परमेश्वरि ! | यन्त्राधिष्ठातृदेवांश्च घटवक्त्रे प्रपूजयेत् | समस्तदेवतारूपं घटञ्च परिचिन्तयेत् | सुरद्रुमस्वरूपो हि घटोऽयं परमेश्वरि ! || प्रतिमानिकटे यन्त्रकरणनिषेधोऽपि तत्रैव | जन्मस्थानं महायन्त्रं यदि कुर्य्यात्तु साधकः | तत्र मूर्त्तिं न कुर्य्यात्तु यदि यन्त्रञ्च कारयेत् | यदि कुर्य्यात्तु मोहेन यजेद्वारद्वयं प्रिये ! | द्विगुणं पूजनं तत्र द्विगुणं बलिदानकम् | द्विगुणं प्रजपेन्मन्त्रं द्विगुणं होममाचरेत् | प्. ३८९) अन्यथा विफला पूजा विफलं बलिदानकम् | सर्वं हि विफलं यस्मात्तस्माद् यन्त्रं न कारयेत् | गुप्तसाधनतन्त्रे अष्टमपटले | सामान्ये च जले देवि ! पूजा दोषादिशान्तये | तथा | न कुर्य्यात् पार्थिवे लिङ्गे देवीपूजादिकाः क्रिया | पार्थिवे पूजनाद्देवि ! सिद्धिहानिः प्रजायते | यदि दैवान्महेशानि ! मृत्तिकास्खलनं भवेत् | तावद्वर्षसहस्राणि नरके पूयशोणिते | कुम्भीपाके महाघोरे पितृभिः सह पच्यते | अत एव महेशानि ! पार्थिवे न हि पूजयेत् | स्फाटिकादीन् समानीय लिङ्गं निर्माय यत्नतः | तत्र लिङ्गे पूजनाद्धि सर्वसिद्धियुतो भवेत् || तन्त्रान्तरे || कालिकां तारिणीञ्चैव त्रिपुरां भुवनेश्वरीम् | योऽर्च्चयेत् पार्थिवे लिङ्गे स याति परमां गतिम् | तारिण्याः कालिकायाश्च सुन्दर्य्याः परमेश्वरि ! | पार्थिवे पूजनाद्देवि ! चतुर्वर्गफलं लभेत् | एवञ्च गुप्तसाधनोक्तवचनं कालिकादिविशेषेतरपरम् समान्यविशेषन्यायात् |
SKयद्यपि देवताया निराकारत्वेन ध्यानादिकमसम्भवं तथापि साकारतया ध्यानं सर्वसमञ्जसं तस्याः साकारत्वकारणन्तूक्तम् मुण्डमालातन्त्रे सप्तमपटले || शिव उवाच || निर्गुणा प्रकृतिः सत्यमहमेव च निर्गुणः | यदैव सगुणा त्वं हि सगुणोऽहं सदाशिवः | सत्यं हि सगुणा देवी सत्यं हि निर्गुणः शिवः | उपासकानां सिद्ध्यर्थं सगुणा सगुणो मतः || महानिर्वाणतन्त्रे पञ्चमोल्लासे || ध्यानन्तु द्विविधं प्रोक्तं स्वरूपारूपभेदतः | अरूपं तव यद्ध्यानमवाङ्मनसगोचरम् | अव्यक्तं सर्वतो व्याप्तमिदमित्थं विवर्ज्जितम् | अगम्यं योगिभिर्गम्यं कृत्स्नैर्बहुसमाधिभिः | मनसो धारणार्थाय शीघ्रं स्वाभीष्टसिद्धये | सूक्ष्मध्यानं पुरोधाय स्थूलध्यानं वदामि ते | त्रयोदशोल्लासे || देव्युवाच || महादेवेशादिशक्तेर्महाकाल्या महाद्युतेः | सूक्ष्मातिसूक्ष्मभूतायाः कथं रूपनिरूपणम् || रूपं प्रकृतिकार्य्याणां सातु साक्षात् परात्परा | प्. ३९०) एतन्मे संशयं देव ! विशेषाच्छेत्तुमर्हसि || इति देवीप्रश्नानन्तरं श्रीसदाशिव उवाच || उपासकानां कार्य्याय पुरैव कथितं प्रिये ! | गुणक्रियानुसारेण रूपं देव्याः प्रकल्पितम् || इत्युक्तम् || श्वेतपीतादिको वर्णो यथा कृष्णे विलीयते | प्रविशन्ति तथा काल्यां सर्वभूतानि शैलजे ! | अथ तस्याः कालशक्तेर्निर्गुणाया निराकृतेः | हितायाः प्राप्तमूर्त्तेस्तु वर्णः कृष्णो निरूपितः | नित्यायाः कालरूपाया अरूपायाः शिवात्मनः | अमृतत्वाल्ललाटेऽस्याः शशिचिह्नं निरूपितम् | शशिसूर्य्याग्निभिर्नेत्रैरखिलं कालिका जगत् | सम्पश्यति यतस्तस्मात् कल्पितं नयनत्रयम् | ग्रसनात् सर्वसत्त्वानां कालदण्डेन चर्वणात् | तद्रक्तवासोरूपेण भासितं सकलं जगत् | समये समये जीवरक्षणं विपदः शिवे ! | प्रेरणं स्वस्वकार्य्येषु वरञ्चाभयमीरितम् | रजोजनितविश्वानि विष्टभ्य परितिष्ठति | अतो हि कथितं भद्रे ! रक्तपद्मासनस्थिताम् || कुलार्णवे पञ्चमखण्डे षष्ठोल्लासेऽपि || चिन्मयस्याप्रमेयस्य निष्कलस्याशरीरिणः |
SKसाधकानां हितार्थाय ब्रह्मणो रूपकल्पना | लिङ्गस्थण्डिलवह्न्यम्बु यन्त्रकुड्यपटेषु च | मण्डले फलके मूर्ध्नि हृदि वा दश कीर्त्तिताः | एषु स्थानेषु देवेशि ! यजन्ति परमां शिवाम् | अरूपां रूपिणीं कृत्वा कर्मकाण्डरता नराः | गवां सर्वाङ्गजक्षीरं स्रवेत् स्तनमुखाद् यथा | तथा सर्वगतो देवः प्रतिमादिषु राजते | आभिरूप्याच्च विम्बस्य पूजायाश्च विशेषतः | साधकस्य च विश्वासाद्देवतासन्निधिर्भवेत् | नारदपञ्चरात्रे द्वितीयरात्रे च || नारद उवाच || भक्तिज्ञानञ्च भक्तानां योगज्ञानञ्च योगिनाम् | केषां वर्त्म प्रशस्तञ्च तन्मां कथितुमर्हसि || श्रीमहादेव उवाच || ध्यायन्ति योगिनः सर्वे ज्योतीरूपं सनातनम् | निर्गुणस्य शरीरञ्च न मन्यन्ते च योगिनः | प्. ३९१) शरीरं प्रक्तनं सर्वं निर्गुणं प्रकृतेः परम् | गुणेन सञ्जातदेहो निर्गुणस्य कुतो भवेत् | इति सर्वं योगशास्त्रं योगविद्भिः प्रकीर्त्तितम् | वैष्णवास्तं न मन्यन्ते कुमाराद्या वयं द्विज ! | वदन्ति वैष्णवाः सर्वे तेजस्तेजस्विनां विना | कृष्णो नित्यशरीरी च तस्य तेजो हि वर्त्तते | तेजोऽभ्यन्तर एवाहुः कृष्णमूर्त्तिः सनातनी | ध्यायन्ते योगिनः सर्वे तत्तेजो भक्तिपूर्वकम् | सुपक्वभक्त्या कामेन स योगी वैष्णवी भवेत् | तेजोऽभ्यन्तररूपञ्च ध्यायन्ते योगिनः सदा | दासानाञ्च कुतो दास्यं विना देहेन नारद ! | वैष्णवानां मतं शस्तं सर्वेभ्योऽपि च नारद ! | न वैष्णवात् परो ज्ञानी ब्रह्माण्डेषु च ब्रह्मणाम् || एवं देवतायाः साकारत्वे सिद्धे स्वस्वकल्पोक्तं तन्त्रसाराद्युक्तं देवताध्यानं कृत्वाः मानसैः सम्पूज्य शङ्खस्थापनाद्यावरणपुजान्तं तन्त्रसारोक्तं कर्म्म कुर्य्यात् | मानसपूजान्तु अग्रे उपपादयिष्ये | सम्प्रति प्राणप्रतिष्ठायां विशेषो लिख्यते || शारदातिलके त्रयोविंशतिपटले || प्राणप्रतिष्ठामन्त्रस्य विधानमभिधीयते | येन प्रागीरिता मन्त्राः प्राणवन्तो भवन्ति ते |
SKयद्यपि मन्त्राणां प्राणप्रतिष्ठा नास्ति तेषां स्वत एव समर्थत्वात् तथापि यन्त्रादौ लिखितानां प्राणप्रतिष्ठा क्रियते तद्द्वारेण प्राणवन्त इत्युक्तिः | प्राणप्रतिष्ठया समस्तयन्त्रविहितयन्त्रप्रयोगपुत्तल्यादि सर्वं प्रतिष्ठितप्राणं क्रियते इत्यर्थः || पाशाङ्कुशपुटा शक्तिर्वाणीबिन्दुविभूषितः | याद्याः सप्त कलावन्तो व्योम सार्द्धेन्दुसंयुतम् | प्रथमं पाशबीजं ततः शक्तिबीजं ततोऽङ्कुशबीजं वाणीयः बिन्दुभूषित इत्यनेन यं याद्या इति उद्धृतयकारानुवादेन सप्तमन्तु तद्यमिति भिन्नवीजम् | पूर्वं पृथगुद्धारस्तु सप्तानामपि सबिन्दुताख्यापनाय | तथा च राघवभट्टधृतम् || पाशाङ्कुशान्तरितः शक्तिमनोः परस्तादुच्चार्य्य यदि वसुवर्णगुणं सहंसमिति व्योम हकारः सार्द्धेन्दुसंयुतं हं | क्वचित्तु सनेन्दुसंयुतमिति पाठस्तदा होमिति | प्. ३९२) तदन्ते हंसमन्त्रः स्यात् ततोऽमुष्य पदं वदेत् | प्राणा इति वदेत् पश्चादिह प्राणास्ततः परम् | अमुष्य जीव इहतः स्थितोऽमुष्य पदं वदेत् | सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः | श्रोत्रघ्राणपदे प्राणा इहागत्य सुखं चिरम् | तिष्ठन्त्वग्निबधूरन्ते प्राणमन्त्रोऽयमीरितः | प्रत्यमुष्य पदं पूर्वं पाशादीनि प्रयोजयेत् | षडधिकषष्ट्यक्षरोऽयं मन्त्रः | प्रयोगेषु समाख्यातः प्राणमन्त्रो मनीषिभिः | केवलमेतत्साधनार्थं जपव्यतिरेकेण सर्वत्रान्यत्र प्रयोग एव | तेनात्मनि यत्र पुत्तल्यादावपि प्राणप्रतिष्ठासमये प्रत्यमुष्य पदं पाशादीनि संयोज्य अमुष्य पदस्थाने षष्ठ्यन्तं साध्यनाम संयोज्य मन्त्रमुच्चरेदिति ज्ञेयम् || ब्रह्मविष्णुशिवाः प्रोक्ता मुनयस्तन्त्रवेदिभिः | उक्तमृग्यजुषांसामच्छन्दश्छन्दोविशारदैः | चैतन्यरूपाः प्राणा मे देवताशक्तिरीरिता | कवर्गेण वियत्पूर्वे भूते हृदयमीरितम् | शिवश्च वर्गसन्धाद्यैरीरितं तदनन्तरम् | ज्ञानेन्द्रियेऽष्टवर्गाद्यैस्तच्छिखा परिकीर्त्तिता | कर्मेन्द्रियैस्तवर्गाद्यैः कवचं परिकीर्त्तितम् | वचनाद्यैः पवर्गाद्यैर्विलोचनमुदीरितम् |
SKबुद्ध्याद्यैर्यादिसंयुक्तैरस्त्रस्य न्यासमीरितम् | आत्मनेऽन्ताः समाख्याता अङ्गमन्त्राः सजातिभिः || प्रयोगो यथा || ङं कं खं घं गं आकाशवायुवह्निसलिलभूम्यात्मने हृदयाय नमः | ञं चं छं झं जं शब्दस्पर्शरूपरसगन्धात्मने शिरसे स्वाहा | णं टं ठं ढं डं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने शिखायै वषट् | नं तं थं धं दं वाक्पाणिपादपायूपस्थात्मने कवचाय हुं | मं पं फं भं बं वचनादानविहरणविसर्गानन्दात्मने नेत्रत्रयाय वौषट् | हं यं रं वं लं क्षं शं षं लं सं बुद्धिमनोऽहङ्कारचित्तज्ञानात्मने अस्त्राय फट् || नाभेश्चरणपर्य्यन्तं पाशवीजं प्रविन्यसेत् | हृदयान्नाभिपर्य्यन्तं शक्तिवीजं ततः परम् | मूर्द्ध्वादिहृदयं यावदङ्कुशं विन्यसेत्ततः | प्. ३९३) हृदये धातुषु न्यस्येदतिदीप्तं यथाक्रमम् | प्राणे जीवे ततो न्यस्येद्धंसवर्णद्वयं पृथक् || प्राणजीवयोरपि हृदय एव न्यासः | पृथगिति प्रत्येकम् || कुर्य्याद्व्यापकमेतेन समस्तेन विधानवित् || समस्तेन मूलेनेत्यर्थः || ततो विचिन्तयेद्देवीं जीवभूतां जगन्मयीम् | रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशाविक्षुशरासवाणान् | शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् | एवं ध्यात्वा जगद्धात्रीं लक्षमेकं जपेन्मनुम् | जुहुयात्तद्दशांशेन चरुभिर्घृतसंयुतैः | सपाशाढ्यशक्तिपीठे विधिनानेन पूजयेत् | अर्च्चयेत् षट्सु कोणेषु ब्रह्माणं विष्णुमीश्वरम् | वणीं लक्ष्मीमुमां पश्चात् षडङ्गानि प्रपूजयेत् | पूजाक्रमस्तु || आग्नेयवारुणेशेषु ब्रह्मविष्ण्वीशा ऐन्द्रनैर्-ऋतवायव्येषु वाणीलक्ष्म्युमाः पूज्याः | प्रमाणन्तु प्रागुक्तम् || दलेषु मातरः पूज्यास्तद्वाह्ये लोकनायकाः | एवं सम्पूजयेद्देवीं सुगन्धिकुसुमादिभिः | इति संसाधितो मन्त्रः षट्कर्म्मफलदो भवेत् | स्थापयेन्मनुनानेन प्राणान् सर्वत्र देशिकः | बीजान्तेऽमुष्यशब्दानामादौ दूतीः प्रयोजयेत् || सर्वत्र सर्वकर्म्मसु पुत्तल्यादौ च प्राणप्रतिष्ठास्थापनप्रकारोऽनेन दर्शितः |
SKवीजान्ते पाशादिहंसमन्त्रान्ते | अमुष्यशब्दानामादाविति साध्यनाम्न आदौ | तदुक्तं राघवभट्टधृतेन | गत्वा बद्ध्वा पाशवीजेन साध्यं शक्त्या गृह्णन् शक्तिवीजेन भूयः | प्राणानाकृष्याङ्कुशेनाथ यादीन् दूतीश्चोक्त्वा साध्यनामाथ मन्त्री || मृतवैवस्वता भूयो जीवहा प्राणहा ततः | आकृष्याग्रहणा पश्चात् प्रमदा विस्फुलिङ्गिनी | क्षेत्रज्ञा प्रतिहा ह्येताः प्राणदूत्यो नव स्मृताः | पाशेन बद्धचेष्टस्य शक्त्या स्वीकृतचेतसः | अङ्कुशेनाहृतस्याद्भिः सार्द्धस्याशु समाहरेत् | द्वादशाङ्गुलमानेन कृत्वा साध्यस्य पुत्तलीम् | तस्यां प्राणात्मकं मन्त्रं सकीटं हृदये न्यसेत् | निशीथसमये साध्ये सुप्तेऽस्य हृदयाम्बुजे | प्. ३९४) दलेषु वायुवह्नीन्द्रवरुणानामतः परम् | ईशराक्षसशीतांशुयमानां कर्णिकान्तरे | यादीन् हंससमायुक्तान् भृङ्गाकाराननुस्मरेत् | शिवो विन्दुसमुद्भूतं तन्तुसम्बद्धविग्रहान् | एवमात्महृदम्भोजे भृङ्गीरूपा सवर्त्मना | एकैकां साध्यहंपद्मां भृङ्गमेकैकमानयेत् | पुत्तल्यां स्थापयेन्मन्त्री सचित्ते वा विधानवित् || अत्र प्रथमवत् द्वितीयादीनामपि साध्यनाम्नामेकैकस्यादौ पाशादिहंसमन्त्रान्तानि बीजान्युच्चार्य्य सम्बुद्ध्यन्तं प्रथमदूतीनाम एवं चतुर्षु स्थानेषु प्रथमं प्रयुज्यते | एवं दूत्यन्तरेष्वपि | नवकृत्त्वो मन्त्रावृत्तिः | मन्त्रोऽयमित्थमुदितो ग्रहसंख्ययैवेति राघवभट्टधृतवचनात् | अत्रैकैकस्यामावृत्तौ एकैकभृङ्गानयनमिति ज्ञेयम् | प्रथमदूतीनामप्रयोगे प्रथमभृङ्गानयनं द्वितीयदूतीनामप्रयोगे द्वितीयभृङ्गानयनमिति नवान्तमयमेव क्रमः | तन्तुच्छेदं प्रकुर्वीत वह्निबीजेन संयुतः | आकृष्ट्वा साध्यहृद्भृङ्गांस्ततः संज्ञम्भ्रमेद्भवा | एवमेकादशावृत्तीः कुर्य्यात् सर्वेषु कर्मसु | वश्याकर्षणयोर्यादीन् वरुणान् संस्मरेत् सुधीः | मोहविद्वेषयोर्धूम्रान् कृष्णान् मारणकर्मणि | पीतान् संस्तम्भने ध्यायेत् प्राणाकर्षणकर्म्मवित् | आकृष्टान् साध्यहृत्प्राणान् स्थापयेदात्मनो हृदि | क्रूरकर्मसु पुत्तल्यां तेषां स्थापनमीरितम् |
SKप्राणान् साध्यस्य मण्डूकानात्मानन्तु भुजङ्गमान् | संस्मरेत्तत्र निपुणः सदा क्रूरेषु कर्मसु | वाय्वग्निशक्रवरुणेश्वरराक्षसेन्दुप्रेतेशपत्रलिखितैरथ यादिवर्णैः | बिन्द्वान्तिकैः क्षगत हंससमेतसाध्यं प्राणात्मयन्त्रमथ वर्णवृतं धरास्थम् | इत्थं प्रयोगकुशलो मनुनानेन मन्त्रवित् | वशयेत् सकलान् देवान् किं पुनः पार्थिवान् जनान् || आवाहनादिमुद्रा तु तन्त्रसारकारेण धृता न त्वत्र प्रयोजनं तासामिति | अथासनं मातृकाभेदतन्त्रे पञ्चमपटले | चतुरङ्गुलविस्तारमित्यदि || अथ पाद्यम् || प्. ३९५) प्रपञ्चसारे षष्ठपटले || पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते इति पाद्यम् || अथार्घ्यम् || गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपाः | दूर्वा चेति क्रमादर्घ्य द्रव्याष्टकमुदीरितम् | शाक्तेयार्घ्ये विशेषो योगिनीतन्त्रे सप्तमपटले || वक्रधान्योद्भवं यच्च सूक्ष्मधान्योद्भ्वं तथा | तत्तु तण्डुलमक्षुणं सप्ताष्टनवसंख्यया | दूर्वाङ्कुरसमेतञ्च भगवत्यै निवेदयेत् | अष्टम्यां वा नवम्यां वा सोऽश्वमेधफलं लभेत् || इत्यर्घ्यम् || अथाचमनीयम् || जातीलवङ्गकक्कोलैर्निर्मिताचमनीयकम् || इत्याचमनीयम् | अथ मधुपर्क्कम् || मधुपर्कञ्च सक्षौद्रं दधि प्रोक्तं मनीषिभिः || शारदायाम् || आज्यं दधि मधून्मिश्रमेतदुक्तं मनीषिभिरिति मधुपर्कम् || अथ पुनराचनमीयम् || शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् || इति पुनराचमनीयम् | अथ गन्धः | गन्धशब्दव्युत्पत्तिस्तु कुलार्णवे पञ्चमखण्डे सप्तदशोल्लासे || गम्भीरापारदौर्भाग्यक्लेशनाशनकारणात् | धर्मज्ञानप्रदानाच्च गन्ध इत्यभिधीयते || प्रपञ्चसारे || चन्दनागुरुकर्पूरपङ्कं गन्धमिहोच्यते || तद्दानफलन्तु योगिनीतन्त्रे || गन्धानुलेपनं दत्त्वा ज्योतिष्टोमफलं लभेत् | कुङ्कुमेन विलिप्यार्य्यां गोसहस्रफलं लभेत् | चन्दनागुरुकर्पूरैः शुक्लपुष्पैः सकुङ्कुमैः | विलिप्तां पूजयेद्दूर्गां वह्निष्टोमफलं लभेत् | अथ गन्धाष्टकम् || मेरुतन्त्रे चतुर्थप्रकाशे ||
SKगन्धाष्टकं तस्य तस्य देवस्याथ प्रकीर्त्त्यते | चन्दनागुरुकर्पूररोचनाकुङ्कुमं मदम् | रक्तचन्दनजावासगाणपत्यमुदाहृतमिति गणेशगन्धाष्टकम् || ह्रीवेरं चन्दनं कुष्ठमगुरुं चन्दनं मुरा | सेव्यकञ्च जटामांसी वैष्णवं तदुदाहृतमिति विष्णुगन्धाष्टकम् || चन्दनागुरुकर्पूरजलकुङ्कुमरोचना | जटामांसी कपियुतं शाक्तं गन्धाष्टकं विदुरिति शक्तिगन्धाष्टकम् || जलकाश्मीरकुष्ठैस्तु रक्तचन्दनचन्दनैः | प्. ३९६) उशीरागुरुकर्पूरैः सौरं गन्धाष्टकं विदुरिति सूर्य्यगन्धाष्टकम् || गोरोचना च कुष्ठञ्च कर्पूरागुरुकुङ्कुमैः | चन्दनेन सदास्यञ्च वरदेन च पत्रकम् || शारदायाम् || चन्दनागुरुकर्पूरतमालजलकुङ्कुमम् | कुशीतकुष्ठसंयुक्तं शिवं गन्धाष्टकं स्मृतमिति शैवगन्धाष्टकम् || अथ पुष्पम् || पुष्पशब्दव्युत्पत्तिस्तु कुलार्णवे || पुण्यसंवर्द्धनाच्चापि पापौघपरिहारतः | पुष्कलार्थप्रदानाञ्च पुष्पमित्यभिधीयते || प्रपञ्चसारे || तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरकौ | शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च | उत्पलानि च नीलानि कह्लारकुमुदानि च | विश्वसारतन्त्रे द्वितीयपटले शेषचरणे बहूनि कुसुमानि चेति पाठः || मालतीं कुन्दमन्दारं नन्द्यावर्त्त्यादिकानि च | पलाशपाटलापार्थपरन्त्यावर्त्मकानि च | चम्पकानि स नागानि रक्तमन्दारकाणि च | अशोकोद्भवविल्वाख्यकर्णिकारोद्भवानि च || विश्वसारतन्त्रे शक्तिविषये विशेष उक्तो यथा || अथ देव्या मते वक्ष्ये पुष्पाणि शृणु पार्वति ! | इत्युक्त्वा तुलस्यौ पङ्कजे इत्याद्युक्तम् || तदनन्तरम् | एतान्यन्यानि तन्त्रेऽस्मिन् पुष्पाणि सन्ति वै प्रिये ! | नानादेशोद्भवानि स्युः सर्वकालोद्भवानि च | कुलानि चैव पुष्पाणि दद्याद्देव्यै विशेषतः | अथ पुष्पं प्रवक्ष्यामि कर्मयोगे महेश्वरि ! | शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा | कमले करवीरे द्वे कुसुम्भे तुलसीद्वयम् | जात्यशोके केतके द्वे कुमारीचम्पकोत्पलम् | कुन्दमन्दारपुन्नागपाटलानागचम्पकम् |
SKआरग्वधं कर्णिकारं पावन्ती नवमल्लिका | सौगन्धिकं सकोरण्डं पलाशाशोकसर्जकाः | सिन्धुवार अपामार्गं वापुलीकञ्च कामजम् | व्याघ्रचेलं दमनकं मरुवकञ्च ततः परम् | लवङ्गं जलकर्पूरं तगरञ्च जवा तथा | शिवपुष्पं द्रोणपुष्पं कामराजं सुकेतकम् | अन्यानि वनपुष्पाणि जलजस्थलजानि च | गिरिजानि देशजानि नानापुष्पाण्यतः परम् || प्. ३९७) शारदायामपि || कमले करवीरे द्वे कुमदे तुलसीद्वयम् | जातीद्वयं केतके द्वे कह्लारं चम्पकोत्पले | कुन्दमन्दारपुन्नागपाटला नागचम्पकम् | आरग्बधं कर्णिकारं पावन्ती नवमल्लिका | सौगन्धिकं सकोरण्टं पलाशाशोकमल्लिकाः | धुस्तूरं सर्जकं विल्वमर्जुनं मुनिपुष्पकम् | अन्यान्यपि सुगन्धीनि पत्रपुष्पाणि देशिकैः | उपदिष्टानि पूजायामाददीत विचक्षणः || योगिनीतन्त्रे तृतीयभागे सप्तमपटलेऽपि || शृणु देवि ! प्रवक्ष्यामि पुष्पाध्यायं समासतः | ऋतुकालोद्भवैः पुष्पैर्मल्लिकाजातिकुङ्कुमैः | सितरक्तैस्तथा पुष्पैर्नीलपद्मैश्च पाण्डरैः | किंशुकैस्तगरैश्चैव जवाकनकचम्पकैः | वकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरुण्डकैः | धुस्तूरकादियुक्तैश्च बन्धूकागस्त्यसम्भवैः | मदनैः सिन्धुवारैश्च दूर्वाङ्कुररसुकोमलैः | मञ्जरीभिः कुशानाञ्च विल्वपत्रैः सुकोमलैः || नवमपटलेऽपि || तुलसी द्वे मालती तमालामलकी तथा | पुन्नागं मुनिपुष्पञ्च मल्लिकाञ्च निवेदयेत् | करवीरस्य कुसुमैर्येऽर्च्चयन्ति जनार्दनम् | दर्शनात्तस्य देवेशि ! नरकाग्निः प्रणश्यति || अथ करवीरादिमाहात्म्यम् | पुरश्चरणरसोल्लासे दशमपटले || करवीरं जवा देवि ! स्वयं काली न चान्यथा | तारा च अपरा चैव स्वयं त्रिपुरसुन्दरी | तथा | करवीरजवामूले तुलस्या नगनन्दिनि ! | यदि प्राणांस्त्यजेद्देवि ! माहात्म्यं तस्य सुन्दरि ! | वक्त्रकोटिशतेनापि जिह्वाकोटिशतेन च | वर्णितुं तस्य माहात्म्यं न शक्नोमि कदाचन || इति करवीरजवामूले प्राणत्यागफलम् | शुक्लकृष्णं तथा पीतं हरितं लोहितं तथा |
SKकरवीरं महेशानि ! जवापुष्पं तथैव च | स्वयं काली ! महामाया स्वयं स्वयं त्रिपुरसुन्दरी | अनादरो न कर्त्तव्यः कृत्वा च नरकं व्रजेत् || दशमपटले || कृष्णापराजिता साक्षाद्भद्रकाली न संशयः || करवीरञ्च भुवना द्रोणं भुवनसुन्दरी | प्. ३९८) जवा साक्षाद्भगवती सर्वविद्यास्वरूपिणी | ये साधका जगन्मातरर्च्चयन्ति शिवप्रियाम् | एतैश्च कुसुमैश्चण्डि ! स शिवो नात्र संशयः | किं जपैः किं तपोभिर्वा किं दानैर्वा किमध्वरैः | येनार्च्चिता जगद्धात्री द्रोणकृष्णाजवादिभिः | राजसूयाश्वमेधाद्यैर्वाजपेयाग्निहोत्रकैः | फलं यज्जायते चण्डि ! तत्सर्वं कुसुमार्च्चनात् | जवा द्रोणं तथा कृष्णा मालूरं करवीरकम् | साक्षाद्ब्रह्मस्वरूपञ्च महादेव्यै निवेदयेत् | श्वेतचन्दनसंयुक्तं रक्तचन्दनलेपितम् | यो दद्याद्भक्तिभावेन स विश्वेशो न संशयः || अथ सकामस्य पुष्पविशेषस्तत्रैव || करवीरस्य माघ्यस्य सहस्राणि ददाति यः | स कामान् प्राप्य चाभीष्टान् देवीलोके महीयते | तत्रैककरवीरेण पद्मानां द्वे सहस्रके | महाघोरे महोत्पाते महापदि च सङ्कटे | महादुःखे महारोगे महाशोके महाभये | पूजयेत् कालिकां तारां भुवनां षोडशीं शिवाम् | बालां छिन्नाञ्च वगलां धूमां भीमां करालिनीम् | कमलामन्नपूर्णाञ्च दुर्गां दुःखविनाशिनीम् | सर्वविद्या जवाद्रोणकरवीरैर्मनोहरैः | मालूरपत्रैः कृष्णाभिः कृष्णां सम्पूज्य भूतले | साधकेन्द्रो महेशानि ! भवेन्मुक्तो न संशयः || मुण्डमालायां दशमपटले || जवापुष्पैर्द्रोणपुष्पैः करवीरैर्मनोहरैः | कृष्णापराजितापुष्पैरब्जैश्च मुनिपुष्पकैः | पूजयेत् परया भक्त्या चण्डिकां परमेश्वरीम् || योगिनीतन्त्रमत्स्यसूक्तयोः || येऽर्च्चयन्ति जनाध्यक्षं करवीरैः सितासितैः | चतुर्युगाणि देवेशि ! प्रीतो भवति माधवः | सितासितैरिति श्वेतकृष्णमित्याद्युक्तवचनेनैकवाक्यतया असितशब्देन रक्तपीतादिकमवगम्यते न तु कृष्णमात्रम् | योगिनीहृदये || वकपुष्पं जातिपुष्पं तथा रुद्रजटस्य च |
SKवाजपेयस्य यज्ञस्य फलं प्राप्नोति नान्यथा | सर्वेषामेव पुष्पाणां प्रवरं नीलमुत्पलम् | नीलोत्पलसहस्रेण यस्तु मालां प्रयच्छति | प्. ३९९) दुर्गायै विधिवद्देवि ! तस्य पुण्यफलं शृणु | वर्षकोटिसहस्राणि वर्षकोटिशतानि च | देव्या अनुचरो भूत्वा रुद्रलोके महीयते | मुण्डमालायामि || लक्षाणां महिषैर्मेषैरजैर्दानैर्मखैः शुभैः | पूजिता सा जगद्धात्री यद्येषा कुसुमार्च्चिता | माहात्म्यञ्चैव कृष्णायाः कृष्णा जानाति कृत्स्नशः | तदर्द्धञ्चाप्यहं देवि ! तदर्द्धं श्रीपतिः सदा | तदर्द्धमब्जजन्मा वै तदर्द्धं वेदसाधकः | अन्य पुष्पस्य माहात्म्यं संक्षेपाद्वच्मि शङ्करि ! | पृथिव्या मण्डले स्वर्गो वैकुण्ठे कालिकापुरे | जवादिकरवीरैश्च दलैः किं किं फलं लभेत् | न जानाति जगद्धात्रि ! को वेद पार्वतीं विना | करवीरैः श्वेतरक्तै रक्तचन्दनमिश्रितैः | पूजयेत् क्ष्मातले यस्तु स विश्वेशो भवेद्ध्रुवम् | कृष्णापराजितापुष्पैर्यस्तु देवीं प्रपूजयेत् | सोऽश्वमेधसहस्राणां फलं प्राप्य शिवां व्रजेत् | महाविपत्तौ यो दद्याज्जवां कृष्णापराजिताम् | द्रोणं वा करवीरं वा स गच्छेत् कालिकापुरम् || इति महाविपत्तिनिवृत्तिकारणजवादिदानेनापि कालिपुरगमनम् || तत्रैव || किञ्च पाद्यैः किञ्च वाद्यैर्नैवेद्यैः किञ्च पूजनैः | मधुदानैर्मधुपर्कैः कुम्भकैः किञ्च रेचकैः | पूरकैः किञ्च वा ध्यानैः प्राणायामैश्च किञ्च वा | किं जपैः किं तपोभिर्वा मत्स्यैर्मांसैश्च पञ्चमैः | किमन्यमन्त्रैः किं तन्त्रैः किं यन्त्रैः किञ्च साधनैः | किं वेदैरासवैः किं वा श्मशानैर्मन्त्रसाधनैः | किमध्वरैर्मन्त्रपूतैर्मन्त्रार्थैर्मन्त्रजीवनैः | किं योनिमुद्रया किं वा तीर्थैः किं ब्रह्मसाधनैः | किं मातृकान्यासगणैः किं कटैः किं घटैः पटैः | किं काकचञ्चुभिः षोढान्यासैः किं धर्म्मसाधनैः | येनार्च्चिता महादेवी करवीरैर्जवादिभिः | कृष्णापराजितापुष्पैः करवीरैर्मनोहरैः | द्रोणैस्तु केतकीपुष्पैर्जवामालूरपत्रकैः |
SKपूजिता यैर्भगवती तेषां किं कर्म्मसाधनैः || नित्यातन्त्रे एकादशपटले || न तुलस्या यजेत् कालीं नाक्षतैर्विष्णुमर्च्चयेत् | प्. ४००) अपराजिताया दानेन साक्षात्तुष्टा भवेच्छिवा | कालिकायाश्च तारायाः करवीरमतिप्रियम् | जवापुष्पं महेशानि ! दद्यान्न धारयेत् क्वचित् | रक्तोत्पलेन देवेशि ! कालिकां पूजयेत् सकृत् | शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् || तथा | दूर्वापि गर्भसंयुक्ता देवीतुष्टिकरी भवेत् | पुरश्चरणरसोल्लासे || मञ्जरीं सहकारस्य केशवाय निवेदयेत् | जम्बुतिन्दुकयोरेव तथा वै केशवस्यं च | शेफालिकाञ्च तगरं बन्धूकञ्च निवेदयेत् | रुद्रजटां शिरीषञ्च दाडिमं काञ्चनं तथा | नीलकण्ठं मयूरञ्च योन्याकारञ्च वर्ज्जयेत् | पुष्पदाने काम्यफलं नित्यातन्त्रे तत्रैव || ईश्वर उवाच || ब्रह्महत्यादिपापानां प्रायश्चित्तं सुरेश्वरि ! | रक्तपुष्पैर्महादेवि ! चक्रराजं प्रपूजयेत् | कुलाचारक्रमेणैव कर्पूरक्षोदमण्डितम् | महापातककोटीश्च जन्मान्तरकृता अपि | मासमात्रेण हन्यन्ते सत्यं सत्यं न संशयः | लक्ष्मीस्तस्य भवेद्गेहे सुस्थिरा वीरवन्दिते ! | जवापुष्पैर्महेशानि ! पूर्ववद्यदि पूजयेत् | मासमात्रेण नश्यन्ति सप्तजन्मकृतान्यपि | ब्रह्महत्यादिपापानि धनवान् जायते कविः | पूर्ववत् केतकीपुष्पैः पत्रैर्वा यदि पूजयेत् | मासमात्रेण देवेशि ! उपपातककोटयः || नश्यन्तीति पूर्वोक्तेनान्वयः | लभते राजसौभाग्यं साधको नात्र संशयः | शतपत्रैर्महेशानि ! पूर्ववत् पूजयेच्छिवाम् | मासमात्रेण देविशि ! सर्वपापं विनाशयेत् | चम्पकैः पूजयेद्देवीं पूर्ववन्मासमात्रकम् | निहत्य परमेशानि ! पातकं शतजन्मजम् | सौभाग्यं लभते मन्त्री त्रिषु लोकेषु पार्वति ! | श्वेतपद्मैर्महेशानि ! मासमात्रं प्रपूजयेत् | त्रिंशज्जन्मकृतान् पापान्नाशयेन्नात्र संशयः | बन्धूकैः पूर्ववद्देवि ! मासमात्रं प्रपूजयेत् | निहत्य सर्वपापानि त्रैलोक्यं वशमानयेत् | मालतीमल्लिकाजातीकुन्दैः श्वेतोत्पलैः सह |
SKसुमिश्रैः पूर्ववद्देवि ! मासमात्रं प्रपूजयेत् | प्. ४०१) ब्रह्महत्यादिपापानि शतजन्मकृतान्यपि | नाशयेत् परमेशानि ! मुक्तिस्तस्य करे स्थिता | रक्तोत्पलजवावह्निबन्धूकागस्त्यकैः शिवाम् | पूर्ववत् परमेशानि ! मासमात्रं प्रपूजयेत् | पातकं नाशयित्वासौ मम तुल्यो भवेन्नरः | नागकेशरकह्लारवकुलैः सिन्धुवारकैः | पाटलैः पूजयेद्देवि ! श्रीपीठान्तर्निवासिनीम् | पूर्ववत् पूजयेद्देवि ! मासमात्रं प्रसन्नधीः | सहस्रजन्मजं पापं नाशयेन्नात्र संशयः | सौभाग्यमतुलं तस्य भवेद्देवीप्रसादतः || योगिनीतन्त्रे || नोत्सृज्य दद्यात् पुष्पाणि वनस्थानि कदाचन | न शक्नुवन्ति वै देवाः समाकर्षितुमुद्यताः | एकैकं कुसुमं यक्षा रक्षन्ति दश वै यतः | तथा यक्षाङ्गनाः पञ्च सर्वतः कुसुमावृताः | तस्मादाहृत्य कुसुमं यजेद्देवान् पितॄनपि || इति वृक्षस्थपुष्पदाननिषेधः || मत्स्यसूक्ते || स्नात्वा मध्याह्नसमये यश्छिन्द्यात् कुसुमं नरः | तत्पुष्पैरर्चने देवि ! रौरवे प्रतिपच्यते || मध्याह्न इत्युपादानात् प्रातःस्नातस्य पुष्पाहरणे न दोषः || अथ पुष्पमाला || विश्वसारतन्त्रे || नीलोत्पलसहस्रेण यस्तु मालां प्रयच्छति | दुर्गायै विधिवद्देवि ! तस्य पुण्यफलं शृणु | वर्षकोटिसहस्राणि वर्षकोटिशतानि च | देव्या अनुचरो भूत्वा रुद्रलोके महीयते || योगिनीतन्त्रे नवमपटले || मालतीमालया विष्णुरर्च्चितो येन कार्तिके | पापाक्षरकृतमाला नाशिता तस्य विष्णुना | पट्टे सौरे प्रमार्ज्जिता इति मत्स्यसूक्ते चतुर्दशपटले शेषचरणे पाठः || तथा || करवीरकृतां मालां माधवाय प्रयच्छति | देवेन्द्रोऽपि महेशानि ! करोति करसम्पुटम् || अथ मासविशेषे धात्रीफलादिदानफलं तत्रैव || धात्रीफलेन पत्रेण योऽर्च्चयेन्मेषगे रवौ | दशानामश्वमेधानां फलन्तु लभते प्रिये ! | मञ्जरीं सहकारस्य केशवाय निवेदयेत् | जम्बूतिन्दुकयोरेव तथा वै केशवस्य च || मत्स्यसूक्ते || करवीर कृतां मालां यो दद्यान्माधवाय च |
SKप्. ४०२) देवेन्द्रोऽपि महेशानि ! करोति करसम्पुटम् || चकारादन्यस्यै देवतायै च || तत्रैव || न भेदयेद् यज्ञसूत्रं मालाञ्चैव न भेदयेत् | विशेषे मालतीमाला व्याघ्रचर्म्म तथैव च || वृहन्नीलतन्त्रे द्वितीयपटले || कोकनदञ्च बन्धूकं कर्णिकाद्वयमेव | वकमन्दाररक्तानि करवीराणि शस्यते | मल्लिकात्रितयं जाती क्षौमपुष्पं जयन्तिका | विल्वपत्रं कुरुवकं मुनिपुष्पञ्च केशरम् | वसन्तीञ्चैव सौगन्धं कालपुष्पं मनोहरम् | आमलकञ्च कादम्बं वकुलं यूथिकां तथा | विल्वैर्मरु वकाद्यैश्च तुलसीवर्जितैः शुभैः | ओड्रपुष्पैर्विशेषेण वज्रपुष्पेण शोभितम् | सर्वं पुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा | जवापुष्पं महेशानि ! दद्याद्देव्यै विशेषतः | पद्मं प्रियतरं देव्याः शेफाली वकुलं तथा | रक्तोत्पलेन देवेशि ! पूजयेत् परमां शिवाम् | लक्षवर्षसहस्राणां पूजायाः फलमाप्नुयात् | शिरीषं परमं देव्याः प्रीतिदं तगरं तथा | स्थलपद्मं सुष्ठुतरं लक्षसंख्यक्रमेण तु | यदि दद्यान्महेशानि ! सर्वसिद्धिः सुरेश्वरि ! | तदैव मन्त्रसिद्धिः स्यान्नात्र कार्य्या विचारणा | विजातीं तुलसीं रम्यां तस्यां प्रीतिकरां पराम् | काञ्चनं रक्तवर्णञ्च आदिप्रियतरं महत् | भक्तियुक्तो महेशानि ! सर्वं पुष्पं निवेदयेत् || वृहन्नीलतन्त्रे || चातुर्मास्ये तु लक्षैकमालत्या योऽर्च्चयेद्धरिम् | शतजन्मकृतं पापं तत्क्षणादेव नश्यति | करवीरस्य कुसुमैर्येऽर्च्चयन्ति हरेर्दिने | दर्शनात्तस्य देवेशि ! नरकाग्निः प्रणश्यति || अथ वर्ज्यपुष्पाणि || नार्च्चयेत् झिण्टिपुष्पेण पीतैश्च तगरैस्तथा | श्वेतेनोड्रेण कृष्णेन विजयेन न चार्चयेत् || प्रपञ्चसारे षष्ठपटले || अङ्गने पतितैर्माल्यैः शीर्णैर्वा जन्तुदूषितैः | आघ्रातैरङ्गसंस्पृष्टैरूंषितैर्नापि चार्चयेत् || शारदायाम् || मलिनं भूमिसंस्पृष्टं कृमिकेशादिदूषितम्-अङ्गस्पृष्टं समाघ्रातं त्यजेत् पर्य्युषितं गुरुः || मत्स्यसूक्ते चतुर्द्दशपटले ||
SKप्. ४०३) शेफालिकान्तु कह्लारं शरत्काले प्रशस्यते | अन्यत्र न स्पृशेद्देवि ! प्रायश्चित्तन्तु पूजनात् | नार्चयेद्रक्तकृष्णेन तथोग्रगन्धिकेन च | करवीरस्य माघ्यस्य बन्धूजीवस्य चैव हि | केशरस्य च वज्रस्य रक्तं देवि ! प्रशस्यते || योगिनीतन्त्रे || विल्वपत्रं शमीपत्रं तमालामलकीदलम् | अपाङ्गभृङ्गपत्रञ्च कुशं दूर्वां तथैव च | पुष्पाणामप्यभावे तु फलान्यपि निवेदयेत् | फलानामप्यभावे तु तत्पत्रैः पूजयेद्धरिम् || इति पुष्पाद्यभावे पत्रेणापि पूजनम् || गुप्तपूजापुष्पञ्च तत्रैव || सिंहास्यञ्चैव मासूरं धुस्तूरञ्च चतुर्विधम् | तथा रुद्रजटे द्वे च गुह्यपुष्पञ्च शङ्करि ! || पद्मे नीलोत्पले देवि ! वकमन्दारकाञ्चने | माधवी द्वे तमालञ्च गुप्तमेतद्वरार्चने || दिवारात्रिभेदेन पुष्पविशेषेण पूजनमुक्तं तत्रैव || कनकानि सुगन्धीनि रात्रौ देयानि शङ्करि ! | दिवा चान्यानि पुष्पाणि दिवा रात्रौ च मल्लिका || देवालयस्य पुष्पेण यो देवं प्रतिपूजयेत् | अन्धत्वं प्राप्नुयात् सोऽपि दश वर्षाणि पञ्च च || देवताविशेषे पुष्पविशेषवर्ज्जनमपि तत्रैव || शिवे विवर्जयेत् कुन्दं माघे माघ्यं प्रशस्यते | गणेशे वर्ज्जयेन्माघ्यमशोकं तगरं तथा | सूर्य्ये माघ्यञ्च मन्दारं कनकञ्च तथैव च | महालक्ष्म्यै च तुलसीं झिण्टिकां काञ्चनं तथा | अत्र झिण्टिकावर्जनमधिकदोषार्थम् || बन्धूजीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत् | ग्रहाणां विल्वपत्रञ्च शमीपत्रं तथैव च | ब्रह्मणे वर्जयेत् काशं कौसुम्भं शमिपुष्पकम् | धात्रीपुष्पं कुरुण्टञ्च जलपुष्पं तथैव च | दुर्गायै न प्रदद्याच्च सोमपुष्पं तथैव च | त्रिपुरायै काञ्चनञ्च कनकं वासकं तथा | किंशुकं कृष्णकान्ताञ्च इन्द्राक्षीं वर्च्चनां तथा || योगिनीतन्त्रे || विल्वपत्रञ्च माघ्यञ्च तमालामलकीदलम् | कह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम् | एतत् पर्य्युषितं न स्यात् यच्चान्यत् कलिकात्मकम् | न दुष्येच्छिन्नभिन्नञ्च जातीपुष्पञ्च शङ्करि ! |
SKप्. ४०४) धूपशब्दत्र्युत्पत्तिस्तु कुलार्णवे || धूताशेषमहादोषपूतिगन्धप्रभावतः | परमानन्दजननाद्धूप इत्यभिधीयते || प्रपञ्चसारे || स गुग्गुल्वगुरूशीरसिताज्यमधुचन्दनैः | साराङ्गारे विनिक्षिप्तैर्मन्त्री पीठेः प्रधूपयेत् || योगिनीतन्त्रे || कृष्णागुरुसकर्पूरं चन्दनं सिह्लकं तथा | भगवत्यै नरो यस्तु इदं दत्त्वा महेश्वरि ! | इह काममवाप्नोति दुर्गालोके महीयते || इति धूपः || दीपव्युत्पत्तिस्तु कुलार्णवे || मोहध्वान्तप्रशमनात् क्षयजन्मनिवारणात् | दिव्यरूपप्रदानाच्च परतत्त्वप्रकाशनात् | मोक्षदीप इति ख्यातो मोक्षमार्गैकसाधनम् || प्रपञ्चसारे || गोसर्पिषा वा तैलेन वर्त्या च लघुगर्भया | दीपितं सुरभिं दुग्धं दीपमुच्चैः प्रदीपयेत् || इति दीपः || वस्त्रदानन्तु वरदातन्त्रे चतुर्थपटले || षट्त्रिंशदङ्गुलान्यूनायामं वस्त्रं न चार्पयेत् | विभवे सति देवेशि ! काम्ये कर्मणि कुत्रचित् || अलङ्कारस्तु तत्रैव || अष्टवर्षकन्यकाया नोपयुक्तं भवेत्तु यत् | अलङ्कारं न दद्याच्च वित्तशाट्यं विवर्जयेत् || हीनोत्तमयोः फलन्तु सर्वोपचाराणां तत्रैव || हीने हीनफलं देवि ! श्रेष्ठे श्रेष्ठफलं लभेत् || नैवेद्यशब्दव्युत्पत्तिस्तु कुलार्णवे || चतुर्विधं कुलेशानि द्रव्यं ते षड्रसान्वितम् | निवेदनाद्भवेत्तृप्तिर्नैवेद्यं तदुदाहृतम् || प्रपञ्चसारे || सुसितेन सुशुद्धेन पायसेन ससर्पिषा | सितौदनं सकदलीदध्याद्यैश्च निवेदयेत् | इति नैवेद्यम् || ताम्बूलं मत्स्यसूक्ते षड्विंशतिपटले || अथ वास्तुगुवाकञ्च कृत्वा पर्णसमन्वितम् | शङ्खशम्बूकचूर्णेन विलिप्तेन निवेदयेत् | तथा | कर्पूरवासितं देवि ! मृगदर्पसमन्वितम् | धन्याकमधुरीकाद्यैः साधितन्तु निवेदयेत् | एलाचम्पकमुस्ताद्यैर्मुखवासः प्रशस्यते || निषिद्धचूर्णपर्णे अपि तत्रैव || कपर्दकस्य वृक्षस्य पलाशस्य च शङ्करि ! | तच्चूर्णं वर्ज्जयेद्देवि ! वृक्षपर्णं न दापयेत् | कलिवृक्षस्थितं पर्णं पनसस्थं न दापयेत् |
SKप्. ४०५) अशोकशाल्मलिस्थं वा सदैव परिवर्जयेत् || कलिवृक्षो भूतावासः गौडे वयडा इति यस्य प्रसिद्धिः | शस्तमपि तत्रैव || आम्रनिम्बगतञ्चैव शस्तं पर्णं मम प्रिये ! | इति ताम्बूलम् || ततः प्राणायामादिकं कृत्वा अष्टोत्तरसहस्रं शतं वा मूलमन्त्रं जप्त्वा जपं समर्प्य स्तवकवचादिकं पठित्वा प्रणमेत् | तदुक्तं गन्धर्वतन्त्रे पञ्चदशपटले || स्तुवन्नानाविधैः स्तोत्रैर्भक्तिभावसमन्वितः | प्रणमेत् परमेशानीं विधिना साधकोत्तमः | देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः | नमस्कारेण तुष्यन्ति महात्मानः समन्ततः | नमस्कारेण लभते चतुर्वर्गं महोदयम् | सर्वत्र सर्वसिद्ध्यर्थं नतिरेका प्रवर्त्तते | नत्या विजयते लोकान् नत्या धर्मः प्रवर्त्तते | नमस्कारेण दीर्घायुरच्छिन्ना लभते प्रजाः | चतुर्वर्गं लभेद्भक्तो न चिरादेव साधकः | नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा | नमस्कुरु महादेवीं प्रदक्षिणञ्च भक्तितः || योगिनीतन्त्रे पूर्वख्ण्डेऽष्टमपटले || प्रदक्षिणत्रयं कुर्य्यात् पद्माकारं नमेत्ततः | दक्षिणादुत्तरं गत्वा देवस्य च महेश्वरि ! || प्रदक्षिणत्रयमित्यादि मध्यावसाने ज्ञेयम् | तथा च कुमारीपूजामधिकृत्य रुद्रजामले उत्तरखण्डे षष्ठपटले || प्रदक्षिणत्रयं कुर्य्यादादौ मध्ये तथान्ततः | पश्चात्तु दक्षिणां कुर्य्याद्रजतैः स्वर्णमौक्तिकैः | कृताञ्जलिं ततो बद्ध्वा भ्रामयित्वा नमेत्ततः | प्रत्येकभ्रमणे देवि ! दण्डवत् प्रणिपातयेत् | यो नो नमेद्भ्रमित्वा तु अपराधो भवेत्तदा | अबद्धाञ्जलिना यस्तु नमस्कारं करोति सः | मोहान्धकारनरके पच्यते नात्र संशयः | पातान्तरे च प्रणमेन्मूर्ध्ना न च क्षितिं स्पृशेत् | शपन्ति देवतास्तस्य विफलं तत् प्रकीर्त्तितम् | प्रणामे देवदेवस्य यावत्यो मृत्तिकाः प्रिये ! | शरीरे वा महेशानि ! तस्य पुण्यफलं शृणु | यावन्तो रेणवस्तस्य यावत्कालञ्च तिष्ठति | तावद्वर्षसहस्राणि ब्रह्मलोके महीयते || प्. ४०६) गन्धर्वतन्त्रे ||
SKकायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः | नमस्काराश्च विज्ञेया उत्तमाधममध्यमाः | कायिकैस्तु नमस्करैर्देवास्तुष्यन्ति सर्वदा | नमस्कारेषु सर्वेषु कायिकः प्रथमः स्मृतः | जानुभ्यामवनीं गत्वा संस्पृश्य शिरसा क्षितिम् | क्रियते यो नमस्कारः प्रोच्यते कायिकस्तु सः | पुटीकृत्य करौ शीर्षे सर्वधर्मार्थसाधनम् | प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः | दर्शयन् दक्षिणं पार्श्वं भक्तिश्रद्धासमन्वितः | सकृत् प्रदक्षिणं कृत्वा वर्त्तुलाकृति साधकः | स तु प्रदक्षिणो ज्ञेयः सर्वदेवैकतुष्टिदः | अष्टोत्तरशतं यस्तु देव्याः कुर्य्यात् प्रदक्षिणम् | स सर्वकाममासाद्य पश्चान्मोक्षमवाप्नुयात् | त्रिकोणमथ षट्कोणमर्द्धचन्द्रं प्रदक्षिणम् | दण्डमष्टाङ्गमुग्रञ्च सप्तधा नतिलक्षणम् | दक्षिणाद्वायवीं गत्वा तस्माद्व्यावृत्य दक्षिणम् | गत्वा योऽसौ नमस्कारः सोऽर्द्धचन्द्रो मम प्रियः | नमस्कारेषु जानीयादासां प्राकृतमद्रिजे ! | त्यक्त्वा स्वमासनं स्थानं पश्चाद्गत्वा नमस्कृतः | निपत्य दण्डवद्भूमौ दण्ड इत्युच्यते बुधैः | तथैव दण्डवद्भूमौ निपत्य हृदयेन च | चिवुकेन मुखेनाथ नासया हनुकेन च | चक्षुषा चाथ कर्णाभ्यां ब्रह्मरन्ध्रेण चैव हि | तदष्टाङ्गमिति प्रोक्तं यद्भूमिं स्पृशते क्रमात् || मेरुतन्त्रे || हस्ताभ्यां चरणाभ्याञ्च जानुभ्यां वक्षसा तथा | मूर्ध्ना दृष्ट्या तथा वाचा चित्ते चाष्टाङ्ग ईरितः | हस्तजानुशिरोवाक्यधीभिः पञ्चाङ्ग ईरितः || गन्धर्वतन्त्रे || ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यस्या नमस्कृते | स उग्र इति विज्ञेयो विष्णोस्तुष्टिप्रदायकः | या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः | क्रियते भक्तियुक्तेन वाचिकस्तूत्तमः स्मृतः | पौराणिकैर्वैदिकैर्वा तान्त्रिकैः क्रियते नतिः | स मध्यमो नमस्कारो भवेदाचारतः सदा | परेषां गद्यपद्याभ्यां नमस्कारो यदा भवेत् | स वाचिकोऽधमो ज्ञेयो नमस्कारेषु सर्वतः | प्. ४०७) इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं भवेत् |
SKनमनं मानसं प्रोक्तमुत्तमाधममध्यमम् | त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः || ततो देवतां विसृज्यनैवेद्यावशेषेण तत्तत्कल्पोक्तां देवतां सम्पूज्य स्थानमार्ज्जनादिकं कुर्य्यात् || अथ निर्माल्यकालनिरूपणम् योगिनीतन्त्रे तृतीयभागे सप्तमपटलीयवचनन्तु तन्त्रसारकारेणैव धृतं न त्वत्र प्रयोजनम् | मत्स्यसूक्ते षोडशपटले || मणिमुक्ताप्रबालानि देवदत्तानि यानि च | न निर्माल्यं द्वादशाब्दं तैजसानि तथैव च | तूलिका चैव षण्मासमविजं पञ्चवत्सरम् | पटनिर्माणकञ्चैव कार्पासं वस्त्रमेव च | वत्सरञ्च तदर्द्धञ्च मृदुवस्त्रं तदर्द्धकम् | नैवेद्यं दर्शनादेव महापूजावसानके | यावदुष्णं भवेदन्नं यज्ञसूत्रं ततः स्मृतम् | सोदकं कृशरञ्चैव यामार्द्धेन महेश्वरि ! | करवीरस्रजो देवि ! तथा पद्मोत्पलानि च | यामार्द्धेन महेशानि ! तथा विल्वमयस्य च | मस्तकं रुधिरञ्चैव अहोरात्रेण सुन्दरि ! तुलसी द्वे मालती द्वे तमालामलकी तथा | पुन्नागमुनिपुष्पञ्च मल्लिका त्रिविधानि च | जाती द्वे केतकी द्वे च कुमुदे पद्मकद्वयम् | वासुदेवाय यो दद्यात्तस्य पुण्यमनन्तकम् || अथ देवतासम्प्रदानकविहितनिषिद्धद्रव्याणि || वृहन्नीलतन्त्रे षष्ठपटले || सन्देशं परमं दद्याद्देव्यै द्रव्येण संयुतम् | गुडं क्षीरं मधुद्राक्षामिक्षुदण्डं पुरातनम् | रम्भाफलं बीजपूरं तथा च नारिकेलकम् | मधुयुक्तं नारिकेलशस्यं दद्यान्महेश्वरि ! | मधुयुक्तं मिष्टयुक्तं व्यवहारोऽपि च तथा || योगिनीतन्त्रोत्तरखण्डीयाष्टमपटले || इङ्गुदीफलविल्वानि वदरामलकानि च | खर्ज्जूरं पनसञ्चैव मातुलुङ्गं मधूनि च | आम्रातोडुम्बरञ्चैव तथा तालफलानि च | दाडिमं कदलञ्चैव प्रयत्नेन नियोजयेत् | लकुचं मधुकं युक्तं तथा पूगफलानि च | बीजपूरञ्च मधुरं कर्कन्धूञ्च निवेदयेत् | मूलकस्य च शाकञ्च अन्यच्च विविधं तथा | प्. ४०८) सर्षपस्य च शाकञ्च राजीवस्य तथैव च |
SKयस्य मूलं विशालञ्च शाकं तस्य प्ररोहकम् | वास्तूकस्य शाकञ्च पालङ्कस्य मम प्रिये ! | देयानि वर्ज्जनीयानि तथा च तिन्तिडीफलम् | कुष्माण्डं पर्वतीयञ्च यथा चारण्यसम्भवम् | कदलं बीजपूरञ्च वामकं पीण्ड्रकं तथा | अकालपनसञ्चैव तथान्यदपि वर्ज्जयेत् || इति विहितनिषिद्धफलकथनम् | व्रीहीणाञ्च प्रवक्ष्यामि उपयोग्यानि शङ्करि ! | एकचित्तं समाधाय प्रापणं शृणु शङ्करि ! | सोमधान्यं वृहद्धान्यं रक्तशालिकमेव च | महद्धान्यं यवञ्चैव तिलमाषञ्च मुद्गकम् | कलायं वर्त्तुलञ्चैव सिद्धार्थं कुङ्कुमानि च | क्षुद्रजीरञ्च मधुरीमेतान्यपि नियोजयेत् || वर्ज्यशस्यान्यपि तत्रैव || कालशाकं कलायञ्च जीवकीयं तथैव च | चणकं कोद्रवञ्चैव वर्ज्जयेन्मम सुन्दरि ! || अत्र कलायं त्रिकोणम चिपिटं वा | वर्त्तुलस्य विहितत्वात्तेनातसीमसूरादीनि वर्ज्जयेदित्यर्थः || क्षीरञ्च कृष्णाक्षीरञ्च लवणं मृत्तिकोद्भवम् | लवणं प्राचीसम्भूतं तथोत्तरसमुद्भवम् || क्षीरं कृष्णगव्यादिक्षीरम् || पशूनाञ्च प्रवक्ष्यामि वन्यानां ग्रामवासिनाम् | येन चाप्युपयोज्यानि गव्यं देवि ! पयो घृतम् | मार्गं मांसं तथा छागं शालभं शाशकन्तथा | एतैस्तु प्रापणं दद्याद्विष्णोश्चैव प्रियावहम् | माहिषं वर्ज्जयेन्मांसं क्षीरं दधि घृतं ततः | पक्षिणाञ्च प्रवक्ष्यामि ये प्रयोज्या मम पिये | यांश्चैव विष्णुयागेषु उपयुञ्जन्ति नित्यशः | हरितञ्च मयूरञ्च लावकं वर्त्तकं तथा | कपिलश्चैव चासश्च काककुक्कुटकौ शिरः | वन्यकुक्कुटकश्चैव शरारिश्च कपोतकम् | वेल्लकः कुलिकश्चैव रक्तपुच्छश्च टिट्टिभः | कृष्णो मत्स्याशिनाञ्चैव पतत्रीणां विशिष्यते | अभक्ष्यञ्चैव यद्वा पञ्चनखस्य च | यद्वा यदिवार्थे | मांसमभक्ष्यं यदि वा भक्ष्यं तदा पञ्चनखस्य चकारादेश्च इत्यन्वयः || प्. ४०९) चित्रमत्स्यं रोहितञ्च पाठीनं नलमीनकम् | महाशालञ्च शालञ्च राजीवं सिंहतुण्डकम् | मत्स्यान्येतानि देवानि वडालीञ्च विवर्जयेत् |
SKचित्रमत्स्यश्चितल इति | नलमीनश्चिङ्डीति प्रसिद्धः | सिंहतुण्डः रिठा इति प्रसिद्धः | वडाली भेदा इति प्रसिद्धः || जानपादांश्च शकुनान् क्षुद्रवाराहकं तथा | कौसुम्भशाकपिन्नाकं रक्तपादांश्च वर्जयेत् | खर्जूरं पनसं द्राक्षां मातुलङ्गञ्च शीरकम् | कदलीं नागरङ्गञ्च तथा जम्बू फलानि च | शालुकं मधुकञ्चैव प्रयत्नेन निवेदयेत् | कदलं बीजपूरञ्च दुग्धपक्वं निवेदयेत् | कन्दुपक्वं कशेरुञ्च जम्बूं बालप्रियं भवेत् | आर्द्रकं लवणञ्चैव जीरकं पिप्पलीयकम् | जातीकोषं तिन्दुकञ्च देव्याः प्रियतरं भवेत् | वर्जनीयफलमाह तत्रैव || रामरम्भाफलं पक्वं कदलं धूम्रतापितम् | न योजयेन्महादेव्यै उत्पलस्य च बीजकम् | धान्यं श्रावणिकं मर्त्यो द्विःस्विन्नञ्च विवर्जयेत् | नारिकेलं सुवर्णाभं नारिकेलञ्च रामकम् | निवेदयेन्महादेव्यै तोयं तस्य विशेषतः | नारिकेलञ्च भाण्डीरं दैवे श्राद्धे विवर्जयेत् | वकुलस्य फलं पक्वं पद्मस्य च फलं तथा | नियोजयेन्महादेव्यै चान्द्रायणफलं लभेत् || निषिद्धमाह तत्रैव || कर्क्कन्धूं शर्करायुक्तं दण्डशाकं तथैव च | कुष्माण्डं पर्वतीयञ्च दूरतः परिवर्जयेत् || मत्स्यसूक्ते षड्विंशतिपटले || शृणु देवि ! प्रवक्ष्यामि मांसभेदान्निबोध मे | न देयं तिक्तकमठं पशुशृङ्गिणमेव च | गोमीनं चक्रशकुलं वडालं राघवं तथा | वामीनं चनवर्णञ्च सचक्रं चेङ्गमेव च | भूविलं चानिरुद्धञ्च गाङ्गेयानि विवर्जयेत् | आतोषिणीहिरण्यानि चक्रविम्बानि वर्जयेत् | अजञ्च वृहदाजञ्च पर्वतीयं तथैव च | मेषञ्च द्विविधञ्चैव एणं चैव चतुर्विधम् | अकलौ तु गवां मांसं गोधामांसञ्च शाशकम् | लुलापञ्चैव नेपाले वाराहं कामरूपके | प्. ४१०) खड्गं चतुर्मुखं भक्ष्यं चाहारे परमेश्वरि ! | गवयं गन्धमृगञ्चैव महिषन्तु विशिष्यते | सर्वत्र क्षुद्रवाराहं नीलहयं तथैव च | मलये सगुणे चैव तथा जालन्धरेषु च |
SKअभक्ष्यं मत्स्यमांसञ्च वडालं सर्वपीठके | अत्र देशविशेषे मत्स्यमांसभोजननिषेधाद् देशान्तरे गौडनेपालादौ मत्स्यमांसभोजनमनुमतं भवति | वडाली तु अभक्ष्या सर्वदेश इत्यर्थः || मान्त्रिको वर्ज्जयेन्नित्यं पार्वतं शृङ्गवेरकम् | कुष्माण्डं पर्वतीयञ्च स्वर्णरोहितकं त्यजेत् | स्वर्णाभां गोधिकाञ्चैव वाराहं श्वेतमेव च | चक्राङ्कितञ्च कमठं राजहंसं न भक्षयेत् | ग्राम्यं जलचरं चैव भक्ष्यं तस्य विवर्ज्जयेत् | कपोतं कुक्कुटं चैव मयूरं क्रौञ्चमेव च | वर्द्धनं वभ्रुबालञ्च दात्यूहं कोकिलं तथा | गृध्रोलूकञ्च कङ्कञ्च विस्ताराक्षं न भक्षयेत् | अलावुं वार्त्ताकुं चैव तित्तिरञ्च मयं तथा | भारद्वाजं मत्स्यचक्रं दशावतारमेव | अकामेन द्विजो भुक्त्वा प्राणायामेन शुध्यति | त्रिरात्रावस्थितं मांसं तत्सर्वं परिवर्ज्जयेत् | भुक्तस्य पर्वतीयस्य सिंहतुण्डस्य पार्वति ! | न हि स्वेदातपे शुद्धं वह्निशुद्धं तथैव च | संस्कृतं गन्धपृक्तेन पल्लवं परमेश्वरि ! | तन्मांसभक्षणाद्देवि ! भूयश्च तत्र विद्यते | यो मांसं वर्ज्जयेद्देवि ! मांसमात्रं विशेषतः | सर्वयज्ञफलं सम्यक् लभते नात्र संशयः | संवत्सरे दशगुणं षण्मासे च चतुर्गुणम् | पर्वकाले त्वशक्ते तु पितृमेधफलं लभेत् | विष्णोः शयनकाले च चातुर्मास्ये च यत्नतः | अग्निष्टोमस्य यज्ञस्य लभते फलमुत्तमम् | अशक्तः कार्त्तिके देवि ! मत्स्यमांसौ विवर्ज्जयेत् | कार्त्तिके शौकरं मांसं गोमीनं मत्स्यमेव च | तस्मात् सर्वप्रयत्नेन कार्त्तिके परिवर्ज्जयेत् | भक्षयेल्लावकं वर्त्तं हरिच्चित्रकरं तथा | चासं चित्रकपोतञ्च तृणाक्षञ्च मयूरकम् | कामञ्च कलभञ्चैव तोलिकालकमेव | एतान्येव च भक्ष्याणि प्रवदन्ति मनीषिणः || प्. ४११) निषिद्धमपि तत्रैव || भृङ्गराजद्वयञ्चैव पिकं कदलमेव च | सारङ्गं दीर्घतुण्डञ्च दीर्घग्रीवं हिरण्मयम् | नर्त्तञ्चलं रक्तकण्ठं रक्तपक्षिणमेव च |
SKचिल्लं कीलालकञ्चैव गङ्गाचिल्लकमेव च | एतान्येव द्विजातीनामभक्ष्याणीति शब्दितम् | रक्तपुच्छं तथारण्यं कुक्कुटं शोणतुण्डकम् | श्वेतग्रीवो नीलकण्ठो रक्तकण्ठस्तथैव च | शशकः पत्रवाहश्च पीडको जीवकस्तथा | एतानि शस्तमांसानि काले प्राप्तानि भक्षयेत् || अभक्ष्यमांसमाह तत्रैव || नरवानर-ऋक्षांश्च व्याघ्रमार्जारकच्छपान् | विड्वराहञ्च शरलं हयमांसं तथैव च | न भक्षयेत् शुनो मांसं भुक्त्वा चान्द्रायणञ्चरेत् | सकामो गवयञ्चैव गवां मांसं तथैव च | हस्तिमांसं प्रमादेन भुक्त्वा चान्द्रायणद्वयम् | शूकरस्य च खड्गस्य स्थूलमांसं तथाशयम् | स्थूलं द्वाभ्यां त्रिभिर्वर्षैश्चतुर्भिः षड्भिरेव च | अतिस्थूलमिति प्रोक्तं तन्न भवेत् कदाचन | एणस्य शशकस्यैव अजस्य वृषभस्य च | तथा खस्य भृगस्यैव वराहमहिषस्य च | अतिस्थूलानि मांसानि भक्ष्यं मांसं कलौ युगे | अकलौ तु गवां मांसं देशाचारेण शौकरम् | न भक्षयेन्मृतं मांसं द्विविधं मूषिकस्य च | मेकस्य क्षुद्राटकस्य शम्बूककर्कटस्य च | अकामेन द्विजोभुक्त्वा प्राणायामेन शुध्यति | अनुक्तमत्स्यमांसस्य भोक्ता स्नानेन शुध्यति | गोमांसं मांसकामेन भुक्त्वा चान्द्रायणञ्चरेत् | फेरवस्य तथा भुक्त्वा ऋषिचान्द्रायणञ्चरेत् | पूतिगन्धसकीटानि भुक्त्वा चान्द्रायणञ्चरेत् | रौद्रशुष्काणि भुक्त्वा वै प्राणायामेन शुध्यति | त्रिरात्रावस्थितं मांसं तत्सर्वं परिवर्ज्जयेत् | शल्लस्य पर्वतीयस्य सिंहतुण्डस्य पार्वति ! | न दुष्येदातपे शुद्धं वह्निशुद्धं तथैव च | संस्कृतं गन्धपृक्तेन यन्नवं परमेश्वरि ! | तन्मांसभक्षणाद्देवि ! प्रायश्चित्तं न विद्यते | अत्र भक्षणनिषेधादनिवेद्य भक्षणदोषदर्शनेन सुतरां देवतासम्प्रदानकत्वम् | मांसत्याग फलमपि तत्रैव || प्. ४१२) तुलामकरमेषेषु यो मांसं परिवर्ज्जयेत् | हयमेधस्य यज्ञस्य तदेव फलमाप्नुयात् | यावज्जीवं त्यजेद्वापि राजसूयफल लभेत् |
SKएकस्य वर्ज्जनाद्देवि ! मत्स्यमांसस्य वर्जनम् | गृहमेधी महेशानि ! पितृश्राद्धं विना त्यजेत् | प्रमादाद्वा तथाज्ञानात् सङ्कल्पं वा समाचरेत् | चान्द्रायणं ततः कृत्वा पौर्णमास्यां समाचरेत् | पितृश्राद्धं ततः कृत्वा कृत्वा यस्तु निरामिषम् | सत्यत्वं वर्जयेद्वापि पितृहत्याव्रतञ्चरेत् | सर्वव्रताधिकतरं सर्वयज्ञाधिकं परम् | पितृमेधं महेशानि ! सर्वस्वेनापि कारयेत् | तस्याधिकतरं वापि स्वभार्य्यार्त्तवलङ्घने | षोडशेदिवसे पूर्णे भर्त्ता प्रोषित आगतः | हरिवासरकञ्चान्यमथवा श्राद्धवासरम् | ऋतुं न लङ्घयेत्तत्र तदेव व्रतमेव हि | ऋतुहा परमेशानि ! ब्रह्महत्याव्रतञ्चरेत् | व्रते विनष्टे देवेशि ! प्रायश्चित्तं भवेदनु | तस्मात् पुण्यतमं ज्ञेयं स्वभार्य्यापरितोषणम् || अथ हविष्यादौ भक्ष्याभक्ष्यविधिः || विश्वसारे द्वितीयपटले || अथ भक्ष्यं प्रवक्ष्यामि शृणुष्व कमलानने ! | अन्नं दुग्धं तथा तक्रं पायसं पूपसूपकम् | नवनीतं फलान्येव गुडपायससंयुतम् | सर्वाणि फलपुष्पाणि विविधानि विधानवित् | न मूलं गृञ्जनं लक्ष्म मसूरं लसुनं तथा | जम्बीरं लकुचं कांस्यमलावुञ्चाम्लमेव च | राजमाषं तथा माषं शाकञ्चैव पलाण्डुकम् | आमिषं रक्तशाकादीन् ताम्बूलञ्चाथ तैलकम् | तालखर्जूरमुषितं दुग्धवुष्टादिकञ्च यत् | कुचेलञ्च तथा तैलं माध्वीञ्च नखलोमकान् | अभ्यङ्गमसदालापं हविष्याशी विवर्ज्जयेत् | हरिष्येषु सुधा मुख्या तदनु व्रीहयो मताः | अक्षारलवणञ्चैव शङ्करस्य मतेन च | यवगोधूममुद्गाश्च दुग्धं शर्करसंयुतम् | फलमूलादिकं हृद्यमक्षारलवणं घृतं | रक्तवस्त्रं तथा क्षुरं हविष्येषु विवर्ज्जयेत् || शारदायां द्वितीयपटले || भैक्ष्यं हविष्यं शाकानि विहितानि फलं पयः | प्. ४१३) मूलं शक्तुर्यवोत्पन्नो भक्ष्याण्येतानि मन्त्रिणाम् | भैक्ष्यमिति ब्रह्मचारियतिपरम् | भिक्षास्वरूपमुक्तं राघवभट्टधृतवचने || वैदिकाचारयुक्तानां शुचीनां श्रीमतां गृहे |
SKसत्कुलस्थानजातानां भिक्षा स्यादग्रजन्मनाम् | हविष्यमुक्तं स्मृतौ || हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः | कलायकङ्गुनीवारा वास्तूकं हिलमोचिका | षष्टिका कालशाकञ्च मूलकं केमुकेतरत् | कन्दं सैन्धवसामुद्रे गव्ये च दधिसर्पिषी | पयोऽनुद्धृतसारञ्च पनसाम्री हरीतकी | तिन्तिडीजीरकञ्चैव नागरङ्गञ्च पिप्पली | कदली लवली धात्रीफलान्यगुरुमैक्षवम् | अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते | फलं पयो मूलं विहितमित्यनुषज्यते || अथाभक्ष्यं मत्स्यसूक्ते || नारिकेलोदकं कांस्ये अजाक्षीरञ्च काचके | पाषाणे महिषीक्षीरमभक्ष्यं परिकीर्त्तितम् || पञ्चदशपटले || वराहपूजको यस्तु कोलं कूर्मं न भक्षयेत् | ब्रह्माणं पूजयेद् यस्तु माहिषं चामरं चरुम् | गणेशयाजी मधुकं पनसं कोरदूषणम् | आदित्यभक्तो देवेशि ! मयूरं कुण्डसाहकम् | शिवयाजी तिलपिष्टं चिञ्चाञ्च चक्रपूजकः | तथा च मद्गुरं मत्स्यं शक्तिचिञ्चां वडालकम् | कुसुम्भशाकं देवेशि ! लशुनं शृङ्गिणं तथा | त्रैपुरे तु निम्बतिक्तं त्वरितार्थी तथाम्रकम् | गोपालार्थी तु पालङ्कमाममत्स्यं न भक्षयेत् | पारावतं वामनार्थी चक्रशाकं वडालकम् | निम्बं सारस्वतैर्वर्ज्यं लक्ष्म्यर्थी च करञ्जकम् | कालान्धं कोद्रवञ्चैव चन्द्रमत्स्यं तथैव च | सर्वमन्त्रे वडालञ्च सर्वयज्ञेषु शङ्करि ! | श्वेतपूतीञ्च वार्त्ताकीं कुष्माण्डं पर्वतीयकम् || चिञ्चाञ्चैव परान्नञ्च यत्नेन परिवर्जयेत् | वैष्णवैः पत्रशाकञ्च मूलं कन्दं प्ररोहकम् | शुष्कं राजीववास्तूकं पालङ्कीञ्च तथैव च | यदा सङ्कल्पपूर्वेण यस्त्यजेद्वैष्णवः क्वचित् | तथापि न त्यजेद्देवि ! प्रायश्चित्तं समाचरेत् | सौरव्रते घृतं वर्ज्यं ताम्बूलं वैष्णवेषु च | प्. ४१४) गव्यत्यागी महापापी मधुत्यागी श्रियं हरेत् | सप्तविंशतिपटले || जम्बू खर्जूरदाडिम्बनारिकेलञ्च पूगकम् | जलविम्बा त्रपूषा तु उर्वारुं पीनकन्तथा | वदरीलवलीधात्रीपनसाम्रहरीतकी |
SKशालूकं पद्मषण्डञ्च कशेरु करमर्द्दकम् | नागरङ्गञ्च मधुकं मधुरं तेन्दुकानि च | आनाडञ्चैव कुष्माण्डं वासन्त्याः फलमेव च | तिलकान्नं कलायञ्च माषञ्च राजमाषकम् | तण्डुलं यवधान्यञ्च नीवारं कुङ्कुमं तथा | जीरकञ्च लवङ्गञ्च धन्याकं जातिकोषकम् | एलकञ्चैव कर्पूरं चन्दनागुरुमुस्तकम् | सरलं देवदारुञ्च कृष्णभल्लातकानि च | शृङ्गवेरः कटुद्रव्यं मरिचं लवणं कणा | फलं यच्च शिवायाश्च स्वक्षाम्रं पनसस्य च | कृष्णकोषं ग्रन्थिपर्णं स्वर्गादेवाङ्कुराणि च | द्राक्षाञ्च वकुलं कच्वीफलञ्चेक्षु च खण्डितम् | एतान्याचमनीयानि सुरभिः पाचकान्यपि | तथा | पर्वतीयं तथा वर्त्तु तथा कैतवजानि च | लक्ष्मीलकुचकञ्चैव तिलकं क्षुद्रतिल्लकम् | हिन्तालं पनसाम्रञ्च पीवरं बद्धजीरकम् | वृहच्छोटा च वदरी पर्वतीयं विवर्ज्जयेत् | क्षुद्र उर्वारुकञ्चैव जीवन्त्याः क्षुद्रमेव च | मधुकं मधुरीं द्राक्षां कलायं यन्न वर्त्तुलम् | श्वेतमुद्गं तथा कृष्णं फलं तस्य विवर्जयेत् | नारिकेलफलञ्चैव स्वर्णाभं नागरङ्गकम् | नारिकेलञ्च स्वर्णाभं दुग्धशस्यं तथैव च | सोमधान्यं नीवारञ्च कलम्बं षष्टिकानि च | वृहद्धान्यं क्षुद्रधान्यं वाल्कलिकमुपासुकम् | एतानि व्रीहिमुख्यानि हविष्याण्येव भोजने | मौक्तिकं रक्तशाकञ्च उत्तमौधैः प्रचक्ष्यते | इक्षुञ्च श्वेतत्रपुषं तथा मृगफलानि च | मद्यकुम्भ प्ररोपञ्च जग्धान्नं तटसम्भवम् | तथा श्रावणिकं देवि ! हविष्यान्ने विवर्ज्जयेत् | व्रतेषु आमिषं देवि ! ताम्बूलं पर्णचूर्णके | निरामिषं चातुरे च आमिषं लकुचानि च | अभक्ष्यं वर्त्तुलं तस्य हस्तभग्नस्तथैव | प्. ४१५) वार्त्ताकुं श्वेतरक्तञ्च श्वेतपूतिकमेव च | व्रते तु वर्ज्जयेद्देवि ! फलाहारविधिं शृणु | नमस्कारं फलाहारं सगव्यं वा विशिष्यते | त्रिभागपूरणं कृत्वा जलाहारं कलौ त्यजेत् | फलाहारं महेशानि ! गृहस्थानां कलौ युगे | शतं तिलं तदर्द्धं वा तिलाहारे महेश्वरि ! |
SKक्षीराहारे च चणकं पञ्चगव्ये फलं भवेत् | आज्याहारे तु तोलैकं हविष्यस्य विधिं शृणु | पक्वमन्नं स्वयं वाथ भार्य्यया सोदरेण तु | मातापितुर्गुरोर्वापि न भुक्त्वा यदि वा पचेत् | लघ्वाहारो जितक्रोधो हविष्यव्रतभोजने | तथा | वेत्राङ्कुरं तथा मुस्तां सैन्धवं सिन्धुसम्भवम् | तथा पर्वतसम्भूतं हविर्द्रव्यादि कीर्त्तितम् | विल्वामलतिलस्यैव वदर्य्याः पत्रमेव च | हविष्यभोजने प्राप्ते हविष्यान्नं प्रचक्षते | सुन्दार्घ्य पात्रे पत्रे वा पलाशस्य च पत्रके | कदल्याश्च त्वचे पत्रे हविष्यव्रतभोजने | सौरव्रते कटुद्रव्यं शैवे चान्नं विवर्जयेत् | वैष्णवे कोरदूषञ्च शाक्ते शालिं विवर्जयेत् | पूगं सर्वव्रतेत्याज्यं आरनालकमेव च | न भक्षयेल्लौहच्छिन्नं हस्तभग्नं न भक्षयेत् | कालिकासु स्थितं द्रव्यं तथा पनसपत्रके || विख्यातस्वीयकीर्त्त्याऽजनि जगति दयारामविश्वासनामा धर्मात्मा तस्य सूनुः सकलगुणयुतो रामहर्य्याख्य एव | जातौ तस्यात्मजौ श्रीसुकृतियुतजगन्मोहनप्राणकृष्णौ ज्येष्ठः श्रीप्राणकृष्णो गुणिगणकुमुदश्रेणिपूर्णौषधीशः || तदादिष्टः शिष्टविद्वन्मनःसन्तुष्टिकारिणीम् | श्रीप्राणतोषिणीं वल्लीं निर्ममे रामतोषणः || आदेष्ट्टसत्वरतया गुरुताभिया च ग्रन्थस्य सर्वरचनं न समाचचक्षे | धीराः ! कृताञ्जलिरहं विनिवेदयामि युष्माभिरेव सकलन्तु विचरणीयम् || इति श्रीप्राणकृष्णविश्वासानुमतायां श्रीरामतोषणविद्यालङ्कारभट्टाचार्य्यविरचितयां श्रीप्राणतोषिण्यां तृतीयमर्थकाण्डाङ्गं समाप्तम् ||