SK
स्रीगुरवे नमः | अथ श्रीसर्वानन्दनाथकृत-सर्वोल्लासस्य उल्लासनिर्णयः || प्रकृतेर्लक्षणं शास्त्रर्देवतामूर्तिकल्पनं | उल्लासे प्रथमे वक्ष्ये निगमागमलक्षणम् || १ || वक्ष्येऽहं तन्त्रनामानि द्वितीयोल्लासकेपि च | त्रिचतुःपञ्चमोलासे सृष्ट्युत्पत्तिं वदाम्यहम् || २ || षष्ठे सृष्टिलयं वक्ष्ये सप्तमे भावलक्षणम् | आचारञ्चाष्टमे वक्ष्ये कुमार्या लक्षणं विधिम् || ३ || वक्ष्येऽहं नवमोल्लासे भावादिनामलक्षणम् | दशमे श्रीगुरोर्ध्यानमेकादशेऽपि लक्षणम् || ४ || द्वादशे वैष्णवाचारं ततो भक्तिं त्रयोदशे | वक्ष्ये चतुर्दशोल्लासे बलि-लक्षणमुत्तमम् || ५ || अष्टाङ्गयोगसंसिद्धिं वैष्णवाचारमेव च | वक्ष्ये पञ्चदशोल्लासे शैवाचारं तथैव च || ६ || बिभावौ वीरपशवोर्ल्लक्षणं पञ्चतत्त्वकम् | तत्त्वस्यैवानुकल्पञ्च तिलकञ्चैव षोडशे || ७ || उल्लासे सप्तदशके यन्त्रराजस्य लक्षणम् | शाक्ताचारक्रमं वक्ष्ये वामदक्षिणभेदतः || ८ || निन्दकस्य पशोश्चापि अष्टादशे निरूपितम् | लक्षणं साधकानाञ्च दिव्यचक्रस्य लक्षणम् || ९ || वीरचक्रक्रमं वक्ष्ये उल्लासेऽप्यूनविंशतौ | चक्रस्थानमासनञ्च चक्रमध्ये प्रवेशनम् || १० || वक्ष्येऽहं देवचक्रस्य लक्षणञ्चैव विंशतौ | जात्यभेदं चक्रमध्ये तथा द्रव्यनिरूपणम् || ११ || (ख्) गुरोः कृपाप्रसादेन तं वक्ष्येऽप्येकविंशतौ | द्वाविंशतिकोल्लासे पात्राधारौ च लक्षणौ || १२ || आद्य-तत्त्वस्य-माहात्म्यं वक्ष्येऽहं त्रयोविंशतौ | द्रव्याभेदं शक्तिशुद्धिं चतुर्विंशतिकेऽपि च || १३ || पञ्चविंशतिकोल्लासे चाद्य-तत्त्वस्य शोधनम् | आनन्दभैरवध्यानं तथैवानन्दभैरवीम् || १४ || षड्विंशतौ प्रवक्ष्यामि संक्षेपे द्रव्यशोधनम् | मांसं मत्स्यञ्च मुद्राञ्च लक्षणं शोधनं तथा || १५ || गुरुपादरजो ध्यात्वा वक्ष्येऽहं सप्तविंशतौ | वक्ष्येऽहं लक्षणं शक्तेरष्टाविंशतिकेऽपि च || १६ || ऊनविंशदिकोल्लासे वक्ष्येऽहं शक्तिशोधनम् | विधानं सम्विदा-पानमुल्लासे त्रिंशदिकेऽपि च || १७ ||