The Yoga Vasistha Part 1 with Commentary on the Meaning

Yogavāsiṣṭha Part 1 With Commentary Tātparyaprakāśa

The Yoga Vasistha Part 1 with Commentary on the Meaning

Yogavāsiṣṭha Part 1 With Commentary Tātparyaprakāśa

SK
योगवासिष्ठ ओf वाल्मीकि श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशाख्यव्याख्यासहितः Wइथ् थे चोम्मेन्तर्य् वासिष्ठमहारामायणतात्पर्यप्रकाश पणशीकरोपह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा सम्पादितः Eदितेद् ब्य् Vअसुदेव ळxमन ष्हर्म Pअन्सिक वैराग्यप्रकरणं प्रथमम् | प्रथमः सर्गः १ श्रीमहागणपतिचरणारविन्दाभ्यां नमः | ॐ नमो ब्रह्मणे ब्रह्मविद्भ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वसिष्ठविश्वामित्रव्यासवाल्मीकिशुकादिभ्यः श्रीरामभद्राय च | अजमजरमनाद्यनन्तमन्तर्निजसुखबोधसदद्वितीयपूर्णम् | शिवमखिलहृदि स्फुरत्स्वमायाविकसितविश्वविलासमानताः स्मः || १ || स्मृतिफलितसमस्ताभीष्टमुद्यद्दिनेश- kamapi śivabhavānyoraṅkasaubhāgyamantaḥ suramaṇimavalambe cāru lambodarākhyam || 2 || mugdhasmitāñcitamanojñamukhendubimbaṃ snigdhāmṛtapratimacārukṛpākaṭākṣam | agresarairanusṛtaṃ munibhirmunīnāṃ nyagrodhamūlavasatiṃ gurumāśrayāmaḥ || 3 || tribhuvanāvanakṛtyakṛtodayaḥ sadabhayāmalabodhasukhādvayaḥ [sukhodayaḥ] | sujanahṛdgirigahvarakesarī śaraṇamastu sadā narakesarī || 4 || dakṣe varākṣavalayāvabhayaṃ ca vāme yā pustakaṃ ca dadhatī vidhinetrapeyā | sā śāradābjanayanā śaradinduśobhā bhāsā svayā haratu me hṛdayāndhakāram || 5 || ye netrāṇi harasya yairjagadidaṃ pradyotitaṃ ceṣṭate yatraivāyatate [vāpatate] śrutismṛtinuto dharmaḥ saśarmodayaḥ | yekālaṃ kalayanti ye ca paramasvajyotirātmopamā- stesūryendvanalā bhavantu hṛdi me bodhābjinībhānavaḥ || 6 || vakrendubhirdikṣu tamo haradbhirvedārthasārāmṛtamudgirantam | vāṇībhujāśiṣṭamabhīṣṭasiddhyai taṃ brahmavidyādiguruṃ prapadye || 7 || yadvākyāmṛtapāyināṃ pratipadaṃ satyaṃ sudhā nīrasā yadvākyārthavicāraṇādabhimataḥ svargo'pi kārāgṛham | yadvāṇīviśadātmapūrṇamanasāṃ tucchaṃ jagattūlava- ttasmai śrīgurave vasiṣṭhamunaye nityaṃ namaskūrmahe || 8 ||
SK
[यस्यार्षप्रथिता; यशार्धप्रथिता] यस्यार्षं प्रथिता जगत्त्रयहिता सा वेदमाता परा यश्चक्रे तपसा वशे सुरगणानन्य [नन्यान्सिसृक्षुः] त्सिसृक्षुर्जगत् | तं बोधाम्बुनिधिं तपस्विमुकुटालंकारचिन्तामणिं विश्वामित्रमुनिं शरण्यमनघं भूयो [नमस्यामहे] नमस्याम्यहम् || ९ || श्रुत्या ब्रह्मैव रामः प्रकटितमहिमा येन तस्मै वसिष्ठो यः सीतां ब्रह्मविधामिव सदसि पुनः सत्यशुद्धां किलादात् | यद्वाणी मोहमूलं शमयति जगदानन्दसंदोहदोग्ध्री तस्मै वाल्मीकये श्रीगुरुतमगुरवे भूरिभावैर्नताः स्मः || १० || पूर्णानन्दस्वभावः स्वजनहितकृते माययोपात्तकायः कारुण्यादुद्दिधीर्षुर्जनमनवरतं मोहपङ्के निमग्नम् | आविश्यान्तर्वसिष्ठं बहिरपि कलयञ्शिष्यभावं वितेने यः संवादेन शास्त्रामृतजलधिमनुं रामचन्द्रं प्रपद्ये || ११ || विद्याभिः सह विश्रुता श्रितवती येषां मुखं भारती सत्त्वोत्कर्षसमाधिभिः स्थिरमहो तद्ब्रह्म येषां हृदि | पादाम्भोरुहमाश्रिताश्च सततं तीर्थैः समं संपदः श्रीसर्वज्ञसरस्वतीति विदिताञ्श्रीमद्गुरूंस्तान्भजे || १२ || श्रीः संश्रितैव चरणौ हृदयं च राम- श्चन्द्रो मुखं गुणभरेण सरस्वती च | येषामतस्तदभिधाङ्कितनामधेयान् श्रीमद्गुरून्गुरुतरान्प्रणतोऽस्मि नित्यम् || १३ || तापध्वस्तिव्यापृतकारुण्यकटाक्षान् व्याख्यावाणीनिर्वृतसर्वाङ्घ्रिशरण्यान् | श्रीमद्रामाननदमुनीनद्भुतचर्या- नार्यान्नित्यं देशिकवर्यान्प्रणतोऽस्मि || १४ || विश्वेशोऽपि हरिः शरण्यचरणो यान्मानयन्सौहृदा- च्छान्तान्नित्यमनुव्रजामि रजसा पूयेय चेत्यब्रवीत् | यत्पूजां विदधे श्रुतिर्मतिमतां सर्वेष्टसिद्ध्यै सदा जीवन्मुक्तसुखात्मपूर्णमनसस्तान्ब्रह्मनिष्ठान्भजे || १५ || कृतिभिरसुकराः क्व नु प्रबन्धाः क्व च बत बालिशबुद्धिरेष जन्तुः | तदपि विरचनेऽत्र सद्गुरुणां सदयनीक्षणमेव मेऽवलम्बः || १६ || अशेषविद्याम्बुधिपारगाणामपास्तरागादिमनोमलानाम् | कृपानिधीनां कृतिनां ममास्मिन्सतां पदाब्जस्मरणं सहायः || १७ ||
SK
यत्कृपालेशमात्रेण तीर्णोऽस्मि भवसागरम् | श्रीमद्गङ्गाधरेन्द्राख्यान्श्रीगुरूंस्तान्सदा भजे || १८ || आनन्दबोद्ययतिना श्रीमद्गुरुवचोमृतैः | वासिष्ठार्थप्रकाशोऽयं यथामति वितन्यते || १९ || प्रशंसन्तु स्वैरं मतिभिरथ निन्दन्तु सुधियः प्रवृत्तिर्मे यस्मान्न भवति जनाराधनकृते | अनेन व्याजेनामृतरसवसिष्ठोक्तिभरिते विहर्तुं वाञ्छामि प्रतिदिवसमाननन्दजलधौ || २० || यथामति बुभुत्सुभ्यः साहाय्यं संकटेष्विव | दुरूहश्लोकभावेषु दर्शयिष्ये परिश्रमम् || २१ || स्थितमेकरसे युक्त्या नानारसविजृम्भणम् | वासिष्ठं रोचयत्वेतत्सुभोज्यं लवणं यथा || २२ || अप्यल्पमतिदुर्बोधं स्फुटं व्याख्यास्यते पदम् | द्विस्त्रिर्व्याख्यातपूर्वं तु दुरूहमपि मोक्ष्यते || २३ || अनन्यपूर्वव्याख्यातं ग्रन्थं मे व्याचिकीर्षतः | सन्तः श्रमज्ञाः कृपया क्षमध्वं स्खलितं क्वचित् || २४ || श्रीः | यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च | यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः || १ ||
SK
अथ जगदिदमनादिमहामोहनिशासुप्तमनवरतदुःस्वप्नभ्रमपरम्परा- grahātigrahavyāghrabhīṣaṇe tāpatritayadāvānalajvālamālākule [jvālāmālā] ṣaḍūrbhijāle'riṣaḍvaṣavyādha [bādhyamān] badhyamānaprāṇinikāye saṃsāra mahāraṇye momuhyamānaṃ vivekāndhaṃ prabodhopāyadaurlabhyā-dviṣīdatsamuddikṣya śāstrabhānudayena tatprabodhanāya bhagavataḥ padmajanmanah śāsanātsvataśca pravartamānaḥ paramakāruṇiko bhagavānvālimīkiḥ prāripsitasya mahataḥ śāstrasya nirvighnaparisamāpti-pracayagamanādisiddhaye vakṣyamāṇāśrutismṛtisadācāraprāpitaṃ sarva-vighnamūlocchedakṣamaṃ saccidānandādvayapratyagātmaparabrahmapraṇati-lakṣaṇaṃ maṅgalamācarannarthācchāstrasya viṣayaprayojane taṭasthasvarūpa- जाअयन्ते | येन जातानि जीवन्ति | यत्प्रयन्त्यभिसंविशन्ति | तद्विजिज्ञासस्व | तद्ब्रह्मेति इति श्रुत्युक्ततटस्थलक्षणसिद्धसदद्वयस्वभावं तत्पदार्थं नमस्यति - यत इति | यतो यस्मात्परमार्थसदद्वितीयात्मवस्तुनः प्रकृतिभूतात्सर्वाण्याकाशादीनि महाभूतानि भौतिकानि च सर्गादिकाले यत्सत्तयैव सत्तां प्रतिलभ्य भान्ति प्रथन्ते आविर्भवन्तीत्यर्थः | तथा स्थितिकाले च यत्सत्तयैव स्थितानि तथा प्रलयकालेऽपि यत्रैव यत्सत्तामात्रपरिशेषेणोपशमं तिरोभावं यान्ति तस्मै सत्यात्मने स्वाध्यारोपितसर्वभावानां पारमार्थिकस्वरूपभूताय सर्वप्राणिनां वास्तवात्मभूताय च परब्रह्मणे नमः | तन्नमस्कारे च यत्र देवाः सर्व एकं [एकीभवन्ति] भवन्ति इति श्रेतेरनमस्मृतस्य देवतान्तरस्यापरिशेषात्सर्वनमस्कारसिद्ध्यास्य मङ्गलस्य सर्वोत्कर्षात्सर्वविघ्नोच्छेदादिफलसिद्धिः || अत्र यतोभूतानीति पदाभ्यां यतो वा इमानि भूतानि जायन्ते जन्माद्यस्य यतः इति तद्घटितश्रुतिसूत्रोक्तलक्षणप्रत्यभिज्ञानादस्य तन्मूलकत्वमिति न सांख्यादिकल्पितमहदादिकारणेषु यास्कोपदर्शितावान्तरकारणेषु चातिव्याप्तिः | अत्र प्रकृतिपञ्चम्यैवोपादानत्वलाभास्त्रितयोअपादानं लक्षणत्रयप्रदर्शनायेति
SK
केचित् | निमित्तेऽपि पञ्चमीदर्शनाल्लयाधारत्वोक्तिरूपादानत्वलाभाय | स्थितिहेतुत्वोक्तिस्तु चेतनानामेव पालक्स्त्वदर्शनाच्चेतनत्वालाभेन कर्त्रन्तरनिरासायेति त्रितयलब्धमभिन्ननिमित्तोपादानत्वमेकमेव लक्षणमितन्ये | वस्तुतस्तु सत्यं ज्ञानमनन्तं ब्रह्म सदेव सोम्येदमग्र आसीत् इति श्रुतौ ज्ञेयत्वेनोपक्रान्ताद्वितीयसन्मात्रवस्तुपरिचयाय तस्माद्वा एतस्मादात्मन आकाशः संभूतः तत्तेजोऽसृजत इत्यादिना तटस्थलक्षणावतारात् सर्वं खल्विदं ब्रम तज्जलानिति शान्त उपासीत इति श्रुत्युपदर्शितदिशोत्पत्त्यादिकालत्रयेऽपि सदव्यभिचारात्कार्यस्य कारणव्यतिरिक्तसत्त्वानुपलम्भाच्च कारणतत्त्वमेव ब्रह्म वस्तुसत्यमित्यध्यारोपापवादाभ्याम् निष्प्रपञ्चविषयप्रयोजनसिद्धिप्रतिपादनाय त्रितयघटितलक्षणोपादानम् | नह्येकैकोपादाने कार्यस्य विवर्तत्वसिद्धिरिति | अतएव हि श्रुतौ जायन्ते - अभिसंविशन्तीति पदे प्रतिभानाप्रतिभानलक्षणाविर्भावतिरोभावपरे न विकारपरे इति सूचनाय प्रतिभान्त्युपशमं यान्तीत्युक्तम् | वृद्धिविपरिणामयोराविर्भा-वेऽपैषयस्य च तिरोभावेऽन्तर्भावात् स्थितेश्चाधिष्ठानसत्तानुवेधमात्ररूपत्वान्नाध्यारोपातिरिक्तविकार- || 1 || jñātā jñānaṃ tathā jñeyaṃ draṣṭā darśanadṛśyabhūḥ | kartā hetuḥ kriyā yasmāttasmai jñaptyātmane namaḥ || 2 ||
SK
प्रतिभान्तीति सामान्यतः सूचितं तस्य चिदेकरसत्वं सर्वानुभवसिद्धत्वेनोपपादयंस्त्वंपदार्थतत्त्वभूतं तमेव पुनर्नमस्यति - ज्ञातेति | अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति श्रुतेर्यस्माद्बिम्बभूतात्कूटस्थचिदेकरसात्सतः स्वयमेव प्रतिमिम्बभावेन समस्टिव्यष्टिविज्ञानमनोमयकोशद्वयात्मकान्तःकर- tajjāḍyamabhibhūya tadabhijvalayan jñātā | visphuliṅgāniva tadvṛttīrabhijvalayan jñānam | vṛttau viṣayākārāpannāyāṃ svayamapi daddvārā tadākārastadbhāvamivāpanno jñeyam | parokṣasādhāra.yenokta- ज्ञानेन्द्रियाण्यु-पादाय दृष्टा | तत्संप्रयोगजन्यवृत्तीरुपादाय दर्शनम् | तत्फलात्मना विषयान्व्याप्य ताद्रूप्यानुरञ्जनात्स्वयमपि दृश्य एव भवतीति दृश्यभुः | तथा स एव कर्मेन्द्रियप्राणशरीराण्युपादाय कर्ता | फलभोक्तृभावेन क्रियोत्पादननिमित्तत्वाद्धेदुः | क्रियासाकल्यवैकल्ययोरहमेव सकलो विकल इति क्रियाभिमानाच्च क्रिया | एष हि द्रष्टा श्रोता मन्ता कर्ता बोद्धा विज्ञानात्मा पुरुषः प्राणन्नेन प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः इत्यादि श्रुतेः | एवं सर्वव्यवहारेषु प्रतिचः स्वपरस्फूर्तिनिर्वाहकत्वाच्चिद्रूपतया सर्वानुभवसिद्धोऽपि विचित्रोपाध्य-नुरञ्जनव्यामोहाच्चित्रपटे प्रभाशौक्ल्यमिव न विविच्यानुभूयत इति पृथक्करणाय यस्मादिति निमित्तपञ्चम्या निर्देशः | यत्संनिधान-निमित्तकमेव कर्तादिस्फुरनं नतु यत्स्वभावभूतं व्यभिचारित्वाद्दृशो दृश्यस्वभावत्वानुपपत्तेश्चेति भावः | अतस्तस्मै ज्ञात्रादिसाक्षिणे परमार्थतो ज्ञप्त्यात्मने ज्ञप्तिमात्रत्वेन परिशिष्टाय प्रत्यगात्मने नम इत्यर्थः || २ || स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ | सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः || ३ ||
SK
एवं पदार्थौ परिशोध्य तटस्थलक्षणपर्यवसानस्थानं आनन्दोब्रह्मेति व्यजानात् इति श्रुतिदर्शितनिरतिशयानन्दरूपं परमपुरुषार्थभूतम- brahmalokānte svarge deveṣviti yāvat | tathā avanau bhūmau manuṣyādistamba- [वैषम्य] शद्यतारतम्येनावरणाभिभवतारतम्यात्सरोमुकुरमण्यादिषु गिरिप्रतिबिम्बा इवौपाधिकभेदतारतम्येन विभाव्यमानत्वादानन्दस्य सीकराः कणा इव सीकराः स्फुरन्ति | सर्वैर्भ्रान्त्या अनात्मत्वेनात्म-शेषत्वेन परिच्छेदभेदवैचित्र्यदुःखसंभेदक्षयिष्णुत्वादिभिश्चानु-भूयन्त इति यावत् | परमार्थतस्तु न तथा किंतु तदेव निष्.कृष्तोपाधिभेदं सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां जीव्यते अनेनेति जीवन. म्सारभूत-मात्मतत्त्वम् | न प्राणेन नापानेन मर्त्यो जीवति कश्चन | इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् इति श्रुतेः | अतएव भेदकाभावात्स्वरूपलक्षणैक्याच्च स एव यतो वाचो निर्वर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन इति श्रुति प्रसिद्धापरिच्छिन्नब्रह्मानन्द आत्मा च | नान्य आत्मा नाम कश्चिदस्ति नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति विज्ञाता इत्यादिश्रुतेः | तस्मै ब्रह्मानन्दाद्मने परमपुरुषार्थरूपाय नम इत्यर्थः | इह मङ्गलाचरणं शास्त्रनिर्माणारम्भार्थमुत्तरसर्गे तु शिष्येभ्यस्तदुपदेशस्यारम्भार्थमिति न पौनरुक्त्यम् || ३ || सूतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः | अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् || ४ || अत्रार्षदैवसंवादः संप्रदायविशुद्धये | रामाज्ञाननिमित्तं चाप्युपोद्धाताय वर्ण्यते ||
SK
इत्थं मङ्गलविषयादिप्रदर्शनमुखेन शास्त्रार्थं सुप्रबोधाय संक्षेपतः प्रदर्श्य सहसाधनोपपत्त्यादिभिर्विस्तरेण तमेवार्थं व्युत्पादयितुं शास्त्रमारभमाणस्तस्मिन् श्रोतॄणां विश्वासदार्ढ्याय बहुतरब्रह्मविन्मूर्धन्यमहर्षिजुष्टब्रह्मादिसंप्रदायप्राप्त- ityādinā | sutīkṣṇaḥ tapaḥkarmopāsanāśodhitatvācchobhanā durūhārtha- ब्राह्मणग्रहणं ब्राह्मणानामेव ब्रह्मविद्यायां मुखाधिकार इति द्योतनार्थम् | संशयेन जिज्ञासायै आकृष्टं मानसं यस्येति जिज्ञासुरित्यर्थः | सादरं विध्युक्तसमित्पाणित्वप्रणिपातप्रपत्त्याद्या- sutīkṣṇa uvāca | bhagavandharmatattvajña sarvaśāstraviniścita | saṃśayo'sti mahānekastvametaṃ kṛpayā vada || 5 || dharma tattvaṃ ca jānāsīti dharmatattvajña | sarveṣu śāstreṣu viśiṣṭaṃ niścitaṃ niścayo yasya sa tathā | parasparaviruddhārthānekaśrutismṛtivādi- मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् | उभयं वा विनिश्चित्य एकं कथय कारणम् || ६ ||
SK
कारणमुत्पादकम् | साधनं व्यञ्जकम् | अत्र मोक्षो हि परमपुरुषार्थ- duḥkhena saṃ bhinnaṃ na ca grastamanantaram | abhilāṣopanītaṃ ca tatsukhaṃ saḥpadāspadam || iti śrutyā sa svargaḥ syātsarvānpratyaviśiṣṭatvāt iti jaiminivacanācca tasya tathātvasiddheḥ | naca janyatvena nāśānumānam | śrutiviruddhe'rthe anumānānudayāt tasyājanyatve sādhanopadeśānarthakya- कल्पः | न कर्मणा न प्रजया प्लवा ह्येते अदृढा यज्ञरूपाः इत्यादि- panthā vimuktaye ityādiśrutyā muktau jñānātiriktasādhananiṣedhājjñānasya ca pramāṇajanyasya vastvabhivyaktyatiriktaphalāprasiddherityaupaniṣadamatamava- जिजीविषयेच्छतṁ समाः इति यावज्जीवानुष्ठेयत्वेन कर्म असुर्या नाम ते लोका अन्धेन तमसा वृताः इत्यादिना अविद्वन्निन्दापूर्वक. म्ब्रह्मविद्यां च प्रस्तुत्य तयोरेकैकस्य मोक्षसाधनताम् अन्धं तमः प्रविशन्ति येऽविद्यामुपासते [अविद्यामग्निहोत्रादिलक्षनं कर्मेति महीधरः] | ततो भूय इव ते तमो य उ विद्यायाṁ रताः इति निन्दित्वा विद्यां चाविद्यां च यस्तद्वेदोभयṁ सह | अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते इति समुच्चितयोरात्यन्तिकानर्थनिवृत्तिनिरतिशयानन्दावाप्तिलक्षणमोक्षहेतु- nirṇayakāraṇaṃ kathayetyarthaḥ || 6 || agastiruvāca | ubhābhyāmeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ | tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam || 7 || yanna duḥkhena iti śruterbahutaraśrutyādivirodhenāpekṣikanityatvaparatvātteṣu prathamakalpasyāsaṃbhavaṃ dvitīyatṛtīyakalpayoḥ karmaṇāṃ cittaśuddhi- प्रतिवचनमुवाच - उमाभ्यामित्यादिना | यथा खे आकाशे पक्षिणामु- tadviṣṇoḥ paramaṃ padam iti śrutiprasiddhaṃ saṃsārādhvanaḥ pāraṃ kaivalya- पूर्वभावस्तु प्रवृत्तिनिवृत्त्योर्युगपदसंभवाद्विरुद्धाधिकारिविशेष- pratibimbodaye mārjanālokau dvāpyāvaśyakau tadvatkarmakṛtacittaśuddhiḥ pramāṇajanyavṛttiścāvidyānivṛttāvāvaśyake aśuddhacittaiḥ śataśaḥ śrute'pi jñānaphalādarśanāditi bhāvaḥ || 7 ||
SK
केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते | किंतुभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः || ८ || तदेव द्रढयन्पुनराह - केवलादिति | साधनं व्यञ्जकं विदुः | ब्रह्मविद इति शेषः | तथाच विदुषामनुभवसिद्धे नत्र विप्रतिपत्तव्व्यमिति भावः | विद्यां चाविद्यां च इति श्रुतिस्तूपासनकर्मसमुच्चयपरा न ब्रह्मविद्यायाः कर्मसमुच्चयपरा | तदङ्गत्वेनोपक्रमे तेन त्यक्तेन भुञ्जीथाः इति संन्यासविधिविरोधादिति प्रपञ्चितं भाष्यकृभिरिति न कश्चिद्विरोधः | नत्वत्र यथाश्रुतमापाततो गृहीत्वा ज्ञानकर्मसमुच्चय-पक्ष एवैतद्ग्रन्धाभिमत इति भ्रमितव्यम् | अलब्धज्ञानदृष्टीनां क्रियामात्रं [क्रियामुत्र] परायणम् | यस्य नास्त्यम्बरं पट्टं कम्बलं किं त्यजत्यसौ || इत्यादिना मणिकाचोपाख्यानेन चोत्तरत्र केवलज्ञानेनैव मुक्तिरिति व्यवस्थापनेन पूर्वोत्तरविरोधापत्तेः || ८ || अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते | कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः || ९ || अग्निवेश्यस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः | गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति || १० || तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा | अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् || ११ || अग्निवेश्य उवाच | किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः || १२ || प्राह एतदित्यसंधिः संहिताया अनित्यत्वात् | निन्द्यमविधिना कर्मपरित्यागान्निन्दार्हं पुत्रम् || १२ || अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद | कर्मणोऽस्मान्निवृत्तेः किं कारणं तन्निवेद्यताम् || १३ || सिद्धिं प्रत्यवायपहिराहं स्वर्गं मोक्षं वा || १३ || कारुण्य उवाच | यावज्जिवमग्निहोत्रं नित्यं संध्यामुपासयेत् | प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः || १४ || अग्निहोत्रं जुहोति इति वाक्यशेषः | चोदितो विहितः || १४ || न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा | त्यागमात्रेण किंत्वेके यतयोऽश्नन्ति चामृतम् || १५ || एके मुख्याः | चकारोऽनर्थनिवृत्तिसमुच्चयार्थः || १५ ||
SK
इति श्रुत्योर्द्वयोर्मध्ये किं कर्तव्यं मया गुरो | इति संदिग्धतां गत्वा तूष्णींभूतोऽस्मि कर्मणि || १६ || द्वयोर्विरुद्धार्थेयोरिति यावत् | संदिग्धतां संदिहानताम् | अकर्मकत्वात् गत्यर्थाकर्मक इति कर्तरि क्तः || १६ || अगस्तिरुवाच | इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः | तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् || १७ || अग्निवेश्य उवाच | शृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् | मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु || १८ || एकां सर्वसंदेहमूलाज्ञानोच्छेदित्वान्मुख्यां कथां वक्ष्यमाण- jñānaṃ na tvātmano dharmo na guṇo vā kathaṃcana | jñāna-svarūpa evātmā nityaḥ sarvagataḥ śivaḥ || ahamātmā samastānāṃ bhūtānāṃ parameśvaraḥ | eka eva padārthāśca kalpitā mayi ṣaṇmukha || vijñānametadakhilaṃ viśvākāramabuddhayaḥ | paśyantijñāninastvekamātmarūpamidaṃ jagat || durvijñeyaṃ vasiṣṭhena rāmāya kathitaṃ purā || iti ṣaṇmukhaṃ prati śivenāvidyāsvarūpaṃ brahmatattvaṃ ca vistareṇopadiśya svavākye viśvāsadārḍhyāya viśvasanīyatamatvena prasiddhasya brahmavidyā- संबोधनं कथार्थलक्षणपितृधनग्रहणयोग्यत्वद्योतनार्थम् || १८ || सुरुचिर्नाम काचित्स्त्री अप्सरोगणौत्तमा | उपविष्टा हिमवतः शिखरे शिखिसंवृते || १९ || उत्तमा ब्रह्मविद्याधिकारिविशेषणसंपन्नत्वाच्छ्रेष्ठा || १९ || रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः | स्वर्धुन्योधेन संसृष्टे महाघौघविनाशिना || २० || दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा | तमुवाच महाभागा सुरुचिश्चाप्सरोवरा || २१ || ज्ञानोपदेशफलभागिनीत्वान्महाभागा | चकारो न केवलं नाम्नैव किंतु शोभनायां ब्रह्मविद्यायां रुचिः संजाता अस्या इत्यर्थगोऽपि सुरुचिरिति समुच्चयार्थः | दिव्यदृशा दूतब्रह्मवित्त्वपरिज्ञानसमर्थ- suruciruvāca | devadūta mahābhāga kuta āgamyate tvayā | adhunā kutra gantāsi tatsarvaṃ kṛpayā vada || 22 ||
SK
सुरुचिरुवाचेति | अर्थाद्योग्यतयाभ्युत्थानाभिवादनयोपायनाहरणपूजनो- dyotanāya mahābhāgeti saṃbodhanam | prakṛtopayogayogyo'nyo'pi kvaiṣa tadābhūtkuta etadāgādito mucyamānaḥ kva gamiṣyasi iti śrautapraśnasā- कस्मिन्स्वरूपे गन्तासि त्वमिति सर्वाधिष्ठानब्रह्मतत्त्वविषय एव पर्श्नोऽभिप्रेत इति गम्यते | तत्सर्वं पूर्णं वदेति पदस्वारस्यादप्ययमेव प्रश्नार्थ इति गम्यते || २२ || देवदूत उवाच | साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते | अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै || २३ || गूढाभिसंधिर्महान्प्रश्नार्थो भ्रूविलासेन सुचितः स्वेन परिज्ञात इति स्वाभिप्रायं सूचयंस्तथैव संबोधयति - सुभ्र्विति | यथावत् यथावृत्तं यथार्थमात्मतत्त्वं च || २३ || वीतरागह् स धर्मात्मा निर्ययौ तपसे वनम् | तपश्चरत्यसौ राजा पर्वते गन्धमादने || २४ || कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना | गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् || २५ || कार्यमवश्यसंपाद्यमात्मज्ञानेन कृतार्थत्वं तस्य स्वस्य च कृत्वा संपाद्य | वृत्तः संपन्नः अन्तः संसारसीमा यस्य तं तथाभूतं राजानमिति चार्थः || २५ || अप्सरा उवाच | वृत्तान्तः कोऽभवत्तत्र कथयस्व मम प्रभो | प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि || २६ || देवदूत उवाच | अतएव हि तत्तथाविधं जिज्ञासमाना सोवाच | वृत्तन्तः प्राप्तसंसारान्तः स राजा कोऽभवत् कीदृक्स्वरूपेण स्थित इति निगूढः प्रश्नः | बह्वत्र वक्तव्यं नाल्पेन तदसंभावनादिदोषशान्तिरित्यनुद्वेगप्रार्थना | देवानां परोक्षप्रियत्वाच्च स्फुटोक्त्या प्रश्नोत्तरयोः स्वायत्तयोरपि निगूढोक्त्यात्र उच्यते || २६ || शृणु भद्रे यथावृत्तं विस्तरेण वदामि ते | तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् || २७ || इत्यहं देवराजेन सुभ्रूराज्ञापितस्तदा | दूतं त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् || २८ ||
SK
इति वक्ष्यमाणप्रकारेण | तत्र गन्धमादने | विरक्तश्चेत्तत्तद्दृष्ट्याल्पं कुत्सितं चेत्युपेक्षार्हमिति सूचनाय विमानकमिति [कन्प्रत्ययः] कन्प्रयुक्तः || २८ || अप्सरोगणसंयुक्तं नानावादित्रशोभितम् | गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् || २९ || शोभितान्तानि विमानविशेषणानि || २९ || तालवेणुमृदङ्गादि पर्वते गन्धमादने | नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे || ३० || विमानाद्बहिरपि सैनिकैस्तालवेणुमृदङ्गादि गृहीत्वेत्यनुषङ्गः || ३० || अरिष्टनेमि राजानं दूतारोप्य विमानके | आनय स्वर्गभोगाय नगरीममरावतीम् || ३१ || दूत उवाच | इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्विमानकम् | सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ || ३२ || उपस्कराणि गुणवत्तयोपकल्पितानि भोगसाधनानि | उपात्प्रतियत्न - इति सुट् | संप्रति स्वस्य तत्त्वज्ञत्वादज्ञदृशाभिमते देहादिद्वारके स्वगमने उन्मादादिकृत इव पारोक्ष्यारोपान्मत्तोऽहं किल विललापेतिवद्ययाविति लिट् || ३२ || आगत्य पर्वते तस्मिन्राज्ञो गत्वाश्ह्रमं मया | निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये || ३३ || इति मद्वचन. म् श्रुत्वा संशयानोऽवदच्छुभे | राजोवाच | प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि || ३४ || गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः | ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि || ३५ || स्थितिं गुणदोषन्यूनाधिक्यव्यवस्थितिम् | तत्रत्यां स्वर्गस्थाम् || ३५ || दूत उवाच | स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् | उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् || ३६ || सामग्र्या समग्रतया | क्षुद्रपुण्यानामपि प्राचुर्येणेत्यर्थः | परम- sukhaṃ labhyamityāha - uttameneti || 36 || madhyamena tathā madhyaḥ svargo bhavati nānyathā | kaniṣṭhena tu puṇyena svargo bhavati tādṛśaḥ || 37 || evaṃ madhyamakaniṣṭhatve api prācuryotkṛṣṭatvābhyāṃ bodhye || 37 || parotkarṣāsahiṣṇutvaṃ spardhā caiva samaiśca taiḥ | kaniṣṭheṣu ca saṃtoṣo yāvatpuṇyakṣayo bhavet || 38 ||
SK
अनुत्तमपुण्यफलेषु दोषान्तराण्याह - परेति | तैरुत्क्ष्टैः स्पर्धमानैश्च सहेति शेषः | तथाच तत्प्रयुक्तं दुःखं दुःसहमिति भावः | यावदिति सर्वसाधारणमिदम् || ३८ || क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः | इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः || ३९ || मानवाश्च भवन्ति रमणीयकर्मावशेषे | तच्च दुर्लभमिति सूचनाय चकारः || ३९ || इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत | राजोवाच | नेच्छामि देवदुताहं स्वर्गमीदृग्विधं फलम् || ४० || स्वर्ग फलमित्यभेदान्वयः || ४० || तत्ः परं [महोग्रं तु] महोग्रं च तपः कृत्वा कलेवरम् | त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः || ४१ || पापानां तपसा निःशेषं क्षपणात् सुकृतानामसति रागे जन्मा- devadūtaṃ vimānedaṃ gṛhītvā tvaṃ yathāgataḥ | tathā gaccha mahendrasya saṃnidhau tvaṃ namo'stu te || 42 || vimānaṃ ca tadidaṃ ceti karmadhārayaḥ | athavā svāgamanapratākhyānena vigato māno'yasyeti devadūtaviśeṣaṇam | vimāneti pṛthakpadam | ata eva tatkṣamāpanāya namo'stu te ityuktiḥ || 42 || devadūta uvāca | ityukto gato bhadre śakrasyāgre niveditum | yathāvṛttaṃ nivedyātha mahadāścaryatāṃ gataḥ || 43 || mahatāṃ śakrasabhāgatānāmāścaryatāṃ vismayahetutām || 43 || punaḥ prāha mahendro māṃ ślakṣṇaṃ madhurayā girā | indra uvāca | dūta gaccha punastatra taṃ rājānaṃ nayāśramam || 44 || aviṣayaniyogaduḥkhitadūtāśvāsanāya madhurayā | āśramaṃ vālmīkerityuttareṇānvayaḥ || 44 || vālmīkerjñātatattvasya svabodhārthaṃ virāgiṇam | saṃdeśaṃ mama vālmīkermaharṣestvaṃ nivedaya || 45 || svabodhārthamātmatattvajñānāya | svapade śleṣāttavāpi svātmabodho bhāvīti dhvanitam | saṃdeśaṃ vācikam || 45 || aharṣe tvaṃ vinītāya rājñe'smai vītarāgiṇe | nasvargamiccyate tattvaṃ prabodhaya mahāmune || 46 ||
SK
[रागिणो राग] वीतरागिणे | रागमूलाः काम्यप्रवृत्तयो रागापगमादेव वीता गता यस्येथर्थः | स्वर्गं नेच्छयते || ४६ || तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् | इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके || ४७ || तेन तत्त्वबोधनेन | [उपदेशक्रमा] क्रमादुपदिष्टार्थस्य चित्ते संक्रमात् मनोनाशान्तमननादिक्रमाद्वा || ४७ || मयागत्य पुनस्तत्र राजा वल्मीकजन्मने | निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् || ४८ || मया महेन्द्रस्य संदेशेन सह राजा निवेदितः | राज्ञा स्वमोक्षस्य साधनं स्वाभिलषितं निवेदितमिति विपरिणामेन संबन्धः || ४८ || ततो वल्मीकजन्मासौ राजानं समपृच्छत | अनामयमतिप्रीत्या कुशलप्रश्नवार्तया || ४९ || देशकोशपुत्रतपः प्रभृतीनां कुशलप्रश्नवार्तयैवार्थादनामयं समपृच्छतेत्यर्थः || ४९ || राजोवाच | भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर | कृतार्थोऽहं भवद्दृष्ट्या तदेव कुशलं मम || ५० || आद्येन विशेषणेन कर्मकाण्डरहस्यज्ञता द्वितीयेन ब्रह्मतत्त्वज्ञता तृतीयेन लोकतत्त्वज्ञता च दर्शिता | भवद्दृष्ट्या भवतो दर्शनेन भवदीयकृपादृष्ट्या च | तत् भवद्दृष्टिप्रयुक्तं [कार्तार्थ्यं कृतकृत्यत्वम्] कार्तार्थ्यमेव || ५० || भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद | संसारबन्धदुःखार्तेः कथं मुञ्चामि तद्वद || ५१ || प्रष्टुमिछामीति दूतसंदेशादेव प्रश्नविषयपरिज्ञानेऽपि नाऽपृष्टः कस्यचिद्ब्रूयात् इति प्रसक्तोपेक्ष्यतावारणाय | तत् तत्र श्रेओरूपे | श्रेयांसि बहुविघ्नानि इतिप्रवादप्रसक्तां विघ्नसंभावनां निवारयति - अविघ्नेनेति | तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः इति श्रुतेः | देवानां प्रातिकुल्ये हि विघ्नसंभावना स्यान्नतु तदस्ति देवराजाज्ञयैवाहं यतः पृच्छामीति भावः | संसारबन्धप्रौक्तदुःखैरार्तिः पुनःपुनर्नाशस्त-स्मान्मुञ्चामि मुक्तो भवामि | आद्यो मोक्षस्वरूपस्य प्रश्नो द्वितीयो मोक्षसाधनस्य || ५१ || वाल्मीकिरुवाच |
SK
शृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् | श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि || ५२ || कैकेयीवरापदेशात्स्वस्थानप्रच्युतस्य रामस्य राक्षसान्विजित्य पुनः स्वस्थानायनाभ्युदयप्राप्तिवच्छापापदेशात्स्वरूपात्प्रच्युतस्य तस्य वसिष्ठोपदेशादज्ञानादिराक्षसान्निहत्य पुनः स्वस्वरूपावाप्त्यभ्यु- pramāṇāsaṃbhāvanāṃ mananena tvavadhārya prameyā-saṃbhāvaṇāṃ yatnena nididhyāsanena viparītabhāvanāṃ ca nirasya | sākṣātkāreṇeti śeṣaḥ || 52 || vasiṣṭharāmasaṃvādaṃ mokṣopāyakathāṃ śubhām | jñātasvabhāvo rājendra vadāmi śrūyatāṃ budha || 53 || vasiṣṭharāmayoḥ saṃvādarūpeṇa pravṛttaṃ mokṣopāyānāṃ katham | na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ iti śruternātattva- ज्ञातस्वभाव इति || ५३ || राजोवाच | को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा | एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर || ५४ || वसिष्ठरामसंवादमित्यत्र द्वन्द्वेऽल्पाचोऽपि परनिपाताद्रामस्य शिष्यता सूचिता सा त्वज्ञस्यैव संभवति नेश्वरस्य | रामस्तु भगवदवतारत्वात्- kaścidrāma-nāmā uta prasiddho nityamukto viṣṇurityarthaḥ | jñāyate'neneti jñānaṃ niścayakāraṇamitarthaḥ || 54 || vālmīkiruvāca | śāpavyājavaśādeva rājaveṣadharo hariḥ | āhṛtājñānasaṃpannaḥ kiṃcijjño'sau bhavatprabhuḥ || 55 || tadevāha - śāpeti | vyājo'padeśaḥ | āhṛtena svabhaktavākyasatyatāsaṃpā-danāyecchayā svīkṛtenājñānenājñaprāyaḥ saṃpannaḥ bhavat abhavat | aḍabhāvaśchāndasaḥ || 55 || rājovāca | cidānandasvarūpe hi rāme caitanyavigrahe | śāpasya kāraṇaṃ brūhi kaḥ [kaḥ śaśāpeti] śaptā ceti me vada || 56 ||
SK
महर्षिभिरपराधिनो हि शप्यन्ते अपराधो ह्यपूर्णकामस्याज्ञस्य स्यात् नचानावृतचिदानन्द स्वरूपत्वादथाभूतस्य रामस्य तत्संभवः शापादेव तदुक्तौ त्वनोन्याश्रय इत्यभिप्रेत्याह - चिदानन्देति | परमार्थ-तश्चिदभिन्नानन्दस्वरूपे [श्चिदानन्दस्वरूपे] | व्यवहारेऽपि चैतन्यमेव भक्तानुकम्पया विग्रहात्मना परिणतं यस तस्मिन् | ५६ || वाल्मीकिरुवाच | सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि | वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः || ५७ || निष्काम अवसदिति च्छान्दसं यत्वम् | निर्गताः कामा रागादयो यत्रेति निष्कामे [निष्कामे] ब्रह्मसद्मनीति वा || ५७ || ब्रह्मणा पूजितस्तत्र सत्यलोकनिवासिभिः | विना कुमारं तं दृष्ट्वा ह्युवाच प्रभुरीश्वरः || ५८ || कुमारं सनत्कुमारं विनान्यैः सत्यलोकनिवासिभिः पूजित इत्यनुषङ्गः || ५८ || सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया | अतस्त्वं भव कामार्तः शरजन्मेति नामतः || ५९ || कामेन ऋतो व्याप्तः | ऋते च तृतीयासमासे इति वृद्धिः || ५९ || तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् | किंचित्कालं हि त्यक्त्वा त्वमज्ञानी भविष्यसि || ६० || किंचित्कालमिति कर्मधारयः | कालाध्वनोरत्यन्तसंयोगे इति द्वितीया || ६० || भृगुर्भार्यां हतां दृष्ट्वा ह्युवाच क्रोधमूर्च्छितः | विष्णो तवापि भार्याया वियोगो हि भविष्यति || ६१ || क्रोधेन मूर्छितो मोहितः समुच्छ्रितश्च || ६१ || वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् | अतस्त्वं स्त्रीवियोगं ति वचनान्मम यास्यस्य् || ६२ || वृन्दया जलन्धर भार्यया | छलनं पतिवेषेण मोहयित्वा पातिवृत्यभङ्ग-रूपं वञ्चनम् | शापितः शप्तः | अध्यारोपित- bhāryā hi devadattasya payoṣṇītīrasaṃsthitā | nṛsiṃhaveṣadhṛgviṣṇuṃ dṛṣṭvā pañcatvamāgatā || 63 || veṣadhṛgviṣṇumiti karmadhārayaḥ || 63 || tena śapto hi hṛharirduḥkhārtaḥ strīviyogataḥ | tavāpi bhāryayā sārdhaṃ viyogo hi bhaviṣyati || 64 || duḥkhairduḥkhasādhyaiḥ sukṛtaiḥ ṛtaḥ sākṣātkṛto'pi nṛharistena śaptaḥ || 64 ||
SK
भृगुणैवं कुमारेण शापितो देवशर्मणा | वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः || ६५ || आद्यशापेन साक्षादितरैराक्षेपादज्ञानप्राप्तिः | अतएव हि रामस्य त्रिः सीतावियोगो रावणापहारेण मिध्यापवादेन भूतलप्रवेशेन् चेति | न चिरं त्वयि वत्स्यतीति ताराया वचनं त्वधिक्षेपमात्रं न शापः | तस्या जीवत्यपि वालिनि सुग्रीवेणोपमुक्तत्वस्य धर्मतो मातरं यस्तु स्वीकरोति जुहुप्सितः इत्यङ्गदवाक्येन प्रसिद्धत्वात्पातिवृत्यभङ्गेन निकृष्टयोइतया चोत्कृस्ताय रामाय शापपरदाने असामर्थ्यात् मानुष्यतां मनुष्य एव मानुष्यस्तद्-भावम् || ६५ || एतत्ते कथितं सर्वं शापव्याजस्य कारणम् | इदानीं वच्मि तत्सर्वं सावधानमतिः शृणु || ६६ || तत् पूर्वपृष्टं मोक्षसाधनम् | सर्वं सानुबन्धनम् | तत् महारा- ityārṣe śrīmadvāsiṣṭhamahārāmāyaṇe vālmīkīye devadūtokte mokṣopāye dvātriṃśatsāhastryāṃ samhitāyāṃ vairāgyaprakaraṇe sūtrapātanako nāma prathamaḥ sargaḥ || 1 || iti vāsiṣṭhamāhārāmāyaṇatātparyaprakāśe vairāgyaprakareṇe prathamaḥ sagaraḥ || 1 || dvitīyaḥ sargaḥ 2 divi bhumau tathākāśe bahirantaśca me vibhuḥ | yo vibhātyavabhāsātmā tasmai sarvātmane namaḥ || 1 ||
SK
अथ प्रारिप्सितस्य महतः शास्त्रस्य निर्विघ्नपरिसमाप्तिप्रचयगमनादि- vīrapuruṣakāṇyāyuṣmatpuruṣakāṇi ca bhavanti iti mahābhāṣyopadarśita- दर्शयति - दिवीति | दिवि द्युलोके भूमौ भूलोके तथा आकाशे अन्तरिक्षलोके बहिरधिभूतं [अन्तरमध्यात्म] अन्तराध्यात्मं चकारादधिदैवं च मे मम यो विभुर्विभाति विविधरूपेण प्रथते स्वाविद्यया | परमार्थतस्त्ववभा-सात्मा निर्विकारचिन्मात्रस्वभावस्तस्मै सर्वेषामात्मने नम इत्यर्थः | अथवा पृथिवी पूर्वरूपं द्यौरुत्तररूपम इति श्रुत्वाविवात्रापि दिवि ब्रह्माण्डस्योर्ध्वकपाले स्वर्णमये भूमावधःकपाले रजतमये आकाशे तयोः संधौ सूक्ष्माकाशे ब्रह्माण्डाद्बहिरन्तश्च यो विशेषेण सूर्यश्चन्द्राग्निवागादिभ्योऽप्यतिशयेन स्वप्रकाशाअपरिच्छिन्नस्वभा-वत्वाद्भाति | तत्कुतः यतोऽयमवभासात्मा सूर्यादीनामप्यवभासक आत्मा च | येन सूर्यस्तपति तेजसेद्धः आत्मैवास्य ज्योतिर्भवति ज्योतिषामपि तज्ज्योतिः इत्यादिश्रुतिस्मृतिभ्यः | तस्मै सर्वात्मने सर्ववस्तूनां पारमार्थिकस्वरूपभूताय नम इत्यर्थः | अथवा दिवि द्योतनैकरसे भूमानन्दाद्मके तुर्यस्वरूपे तथा अवस्थाद्वयोत्पत्तिभूमावव्या-कृताकाशे बहिर्बहिःप्रज्ञभोग्ये जागरेऽन्तः अन्तःप्रज्ञभोग्ये स्वप्ने चकारात्तत्संधौ मरणमूर्छाद्यवस्थासु च यो विविधो भाति स्थूल- avabhāsātmeti | cinmātrasvabhāva ityarthaḥ | tasmai dṛśyasya dṛgvavyatire- इत्यर्थः | अथवा दिवि सार्वज्ञ्यादिसंपन्नत्वाद्द्योतमाने कारणोपाधौ तथा भूमौ कर्मबीजोद्भवबूमौ कार्योपाधौ तथाकाशे अन्तराले आसमन्तात्काशते इति व्युत्पत्या स्वरूपप्रकाशबहुले वा जीवन्मुक्तिदशायां बहिर्निरुपाधिस्वरूपेऽन्तः कार्यकारणोपाध्यन्तर्गतमायान्तःकरणवृत्ति- sarvopādhiniṣkṛṣṭāyāt-mane nama ityarthaḥ | athavā divi dyotanātmake tejasi bhūmau pṛthivyāmākāśe vyomni antaḥ āntarālikayoḥ salilapavanayorbahirbahirbhūte vyākṛte cakārānni- पूर्णानन्दस्वरूपाय मे मह्यं नम इत्यर्थः | अथवा दिवि
SK
देवलोके बहिस्तटस्थतया पूज्यदेवतेश्वराद्यात्मना भूमौ भूलोके अन्तः देहान्तर्वर्तितया पूजकात्मना आकाशे अन्तराले च क्रियाफलसाधना- ya. sa.prati tattvadṛṣṭyudayātspaṣṭamavabhāsamānātmā vibhustrividhaparicchedaśūnyo vispaṣṭaṃ bhāti tasmai sarvātmane | sarvaśabdaḥ pūrṇaparastasmāttatsarvamabhavadivatpūrṇānandasvarūpāya nama ityarthaḥ | athavā divi upariṣṭādbhūmāvadhastādākāśe'ntarāle bahiḥ prāgādidikṣu ca antaḥ śarīrāntaḥ cakārāttatpūrvottarakālayoryaḥ avabāsātmā cidekaraso vibhāti tattvadṛśo mama | ātmaivādhastādātmopariṣṭāt ityādiśruteḥ | tasmai sarvātmane ātmaivedaṃ sarvamiti sarvaprapañcabādhena pariśeṣitāya paramātmane nama ityarthaḥ evamarthāntarāṇyapi yathābuddhivaibhavamū- ज्ञानात्तद्भावस्थितिश्च परमनिव्राणरूपं प्रयोजनमिति सूचितम् | उत्तरत्राप्येतदेव स्पष्टं दर्शयिषते | अधिकारि कथोपायसंबन्धो धातृशासनात् | निर्माणमस्य ग्रन्थस्य मुक्तचर्या च कीर्त्यते || १ || वाल्मीकिरुवाच | अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः | नात्यन्तमज्ञो [नो तज्ज्ञः] नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवान् || २ ||
SK
अथास्मिन ग्रन्थेकोऽधिकारी किमज्ञ उत ज्ञः | नाद्यः | तस्य देहादावात्म- naca viṣayadoṣadarśanājjana-namaraṇādiḥkhadarśanācca tasyai vairāgyodayecchayā mumukṣāsaṃpattāva-dhikāra iti vācyam | rāgiṇāmutkaṭaviṣayarirakṣiṣā-darśanena satsveva viṣayeṣu taddoṣanirharaṇopāyonveṣitayā [anveṣaṇatayā] viśiṣṭaviṣayānveṣitayā caihikāmuṣmikata-dupāyecchutayā pravṛtteḥ | nāpi jñaḥ | tasya kṛtakṛtatayā granthasādhyaprayo-janālipsutayā granthe pravṛttyanupapatterityāśaṅkya viśiṣṭādhikāriṇaṃ darśayati - ahamiti | utetyapyarthe | satyaṃ nātyantamajño nāpi jño'smiñ-śāstre'dhikāri | kintu yasyāhaṃ baddhosmin saṃsāre'nādikālādārabhya kārānigaḍādibaddha iva paricchedapāravaśyajanmajarāmaraṇādiduḥkhamanu-bhavañśocāmi | ātyantikaśokataraṇe cātmajñānamevopāyaḥ | tarati śokamātmavit iti śruteḥ | tenātmajñānenāhaṃ vimuktaḥ syāmityutkaṭa-jijñāsāsahito niścayo'sti sa vinayopāyanādinā gurumupagato'smiñchāstre'-dhikāravān | śāstraśravaṇādiphalabhāgiatyarthaḥ | tathācājñasyaiva bahutarasukṛtaiḥ kṣīṇarāgādidoṣasya vivekodayājjijñāsoradhikāra iti bhāvaḥ || 2 || kathopāyānvicāryādau mokṣopāyānimānatha | yo vicārayati prājño na sa bhūyo'bhijāyate || 3 ||
SK
ननु क्षीणरागादिदोषस्त्रैवर्णिकश्चेत्स संन्यासपूर्वकवेदान्तश्रवण एवाधिकारी | पूर्वकाण्डार्थानुष्ठानस्य चित्तशुद्धिद्वारोत्तरकाण्डाधि- traivarṇikasya tretāgnisādhye karmaṇyadhikāre'pyanāhitāgnisādhāraṇaḥ smārtakarmādhikāro'smannapi granthe'styadhikāraḥ | ajñānāvadhikaśca | asyāpi smṛtivadvedopabṛṃhaṇatvāt | tathācoktam - vedavedye pare puṣi jāte daśarathātmaje | vedaḥ prācetasādāsītsākṣādrāmāyaṇātmanā | iti | tatra pūrvakāṇḍasya rāmacaritakathāvyājenopabṛṃhaṇaṃ ṣaṭkāṇḍam sottaraṃ pūrvarāmāyaṇam uttarakāṇḍasya ṣaṭprakarṇamidaṃ sottaramiti | yathāca keṣucitsmārtakarmasu strīśudrasādhāraṇo'dhikārastathāsyāpi śravaṇe purāṇavāt | śrāvayeccaturo varṇānkṛtvā brāhmaṇamagrataḥ janaśca śudro'pi mahattvamīyāt ityādivacanalilgāt | nāvedavinmanute taṃ bṛhantaṃ taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi ityādivacanaṃ tvavedavidaḥ śrautajñānānadhikāraparamiti kecit | aparokṣajñānāparyavasānaparamityanye | vedapūrvakatvaprāśastyaparamityapare | sarvathāpyastyevānyeṣāmapi paurāṇikasādhāraṇe jñāne'dhikāraḥ sa hi sarvairvijijñāsya ātmā varṇaistathāśhramaiḥ ityādivacanebhyaḥ | tatra śrautajñāne pūrvakāṇḍokta- हेतुरिति पूर्वोत्तररामाअणयोर्हेतुहेतुमद्भावसंगतिं दर्शयन्सर्वानर्थ- dharmatattvajñā-nānuṣṭhāneśvaraprapattiṣu jñānādhikāraprāpakeṣūpāyo yasmin granthe sa pūrvārāmāyaṇagranthaḥ kathopāyaḥ | kāṇḍābhedābhiprāyaṃ bahuvacanam | tānādau vicārya tadarthānuṣṭhānaprāptādhikāraḥ sanyo'dhikārīmānva-kṣyamāṇaṣaṭprakaraṇarūpānmokṣopāyānvicārayati prājñaḥ prajñāpluṣṭa-kāmakarmavāsanā'jñānabījaḥ sa bhūyo nābhijāyate janmādiduḥkhabhāṅ na bhavati | vimucyata ityarthaḥ || 3 || asminrāmāyaṇe rāmakadhopāyānmahābalān | etāṃstu prathamaṃ kṛtvā purāhamarimardana || 4 || asminsāṃpratike ṣaṭpañcāśatsahasrasaṃmite rāmāyaṇe anādikālābhyasta-
SK
शिष्यायास्मि [शिष्यायास्मै] विनीताय भरद्वाजाय धीमते | एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने || ५ || शिष्यविशेषणान्यधिकारसंपत्तिद्योतकानि | एक एवाग्रो [एवाग्रं] ग्रहणधारणप्रचारपटुः प्रधानशिष्यो यस्य स तथा | अनुग्रहप्रेम- tata ete kathopāyā bharadvājena dhīmatā | kasmiṃścinmerugahane brahmaṇo'gra udāhṛtāḥ || 6 || ete mattaḥ prāptāḥ pūrvarāmāyaṇarūpāḥ | udāhṛtāḥ kīrtitāḥ || 6 || athāsya tuṣṭo bhagavānbrahmā lokapitāmahaḥ | varaṃ putra gṛhāṇeti tamuvāca mahāśayaḥ || 7 || varavyājena jagaduddhārasādhanaṃ mokṣaśāstraṃ karaṇīyamiti mahānāśayo'bhiprāyoyasya sa tathā || 7 || bharadvāja uvāca | bhagavanbhūtabhavyeśa varo'yaṃ me'dya rocate | yeneyaṃ janatā duḥkhānmucyate tadudāhara || 8 || bhūtaṃ pūrvamutpannama | bhavamutpatsyamānam | adya pūrvarāmāṇārthānu- श्रीब्रह्मोवाच | गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः | तेनेदं यत्समारब्धं रामायणमनिन्दितम् || ९ || अत्रास्मिन् पृष्टेऽर्थे | यद्यस्मात्समारब्धं नतु कृत्स्नं क्र्तम् || ९ || तस्मिञ्छ्रुते नरो मोहात्समग्रात्संतरिष्यति | सेतुनेवाम्बुधेः पारमपारगुणशालिना || १० || श्रुते अर्थात्कृत्स्नसिद्ध्यनन्तरमिति गम्यते | सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति इत्यादिस्मृतिप्रसिद्धानन्तगुणशालिना || १० || श्रीवाल्मीकिरुवाच | इत्युक्त्वा स भरद्वाजं परमेष्ठी मदाश्रमम् | अभ्यागच्छत्समं तेन भरद्वाजेन भूतकृत् || ११ || तूर्णं संपूजितो देवः सोऽर्घ्यपाद्यादिना मया | अवोचन्मां महासत्त्वः सर्वभूतहिते रतः || १२ || यद्यपि सृष्टौ रजः प्रधानस्तथापि जगदुद्धारोद्भूतकरुणत्वान्महा- rāmasvabhāvakathanādasmādvaramune tvayā | nodvegātsa parityājya āsamāpteraninditāt || 13 || lyablope pañcamī | rāmasvabhāvakathanaṃ prastutyetyarthaḥ | udvegādvistṛta- समग्रो निर्मातव्य इति यावत् || १३ ||
SK
ग्रन्थेनानेन लोकोऽयमस्मात्संसारसंकटात् | समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् || १४ || संसारसंकटादित्यपादानपञ्चम्या समुत्तीर्णस्यात्यन्तिकं संसार- prathamā | anyathā āśupadena punaruktyāpatteḥ | kṣiprapotena iti pāṭhaścenna kāpi cintā | āśu jñānodayasamakālameva | nanu potena sāgarasamuttaraṇame- पोतेनोद्धरणमेवात्र समुत्तरणं विवक्षितं आशुपदस्वारस्यात् | अतएवापादानपञ्चम्यमेव कृतेति || १४ || वक्तुं तदेवमेवार्थमहमागतवानयम् | कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः || १५ || तत्तस्माद्धेतोर्भरद्वाजद्वारा आज्ञासंदेशसंभवेऽप्येवमर्थं वक्तुमयं जगन्मान्योऽहमेवागतवानिति संबन्दः || १५ || मम पुण्याश्रमात्तस्मात्क्षणादन्तर्द्धिमागत्ः | मुहूर्तभ्युत्थितः प्रोच्चैस्तरङ्ग इव वारिणः || १६ || ब्रह्मपादस्पर्शेन पुण्यतमवमाश्रमस्य || १६ || तस्मिन्प्रयाते भगवत्यहं विस्मयमागतः | पुनस्तत्र भरद्वाजमपृच्छं स्वस्थया धिया || १७ || स्वस्थया धियेत्युक्तेः पुर्वं प्रब्मागमनहर्षविष्मयव्यत्रचित्तत्वाद्ब्र- kimetadbrahmaṇā proktaṃ bharadvāja vadāśu me | ityuktena punaḥ proktaṃ bharadvājena tena me || 18 || bharadvāja uvāca | etaduktaṃ bhagavatā yathā rāmāyaṇaṃ kuru | sarvalokahitārthāya saṃsārṇavatārakam || 19 || yathā pūrvaṃ kathopāyarāmāyaṇaṃ kṛtaṃ tathā mokṣopāyarāmāyaṇamiti śeṣaḥ || 19 || mahyaṃ ca bhagavanbrūhi kathaṃ saṃsārasaṃkaṭe | rāmo vyavahṛto hyasminbharataśca mahāmanāḥ || 20 || rāma kathaṃ vyavahṛto vyavahṛtavān kimajñaḥ śocannitaravaduta jīvanmuktavat || 20 || śatrughno lakṣamaṇaścāpi sītā cāpi yaśasvinī | rāmānuyāyinaste vā mantriputrā mahādhiyaḥ || 21 || cakārāddaśarathaparigrahaḥ | cakāro'piśabdadvayaṃ ca tatparivārasamucca- [निर्दुःखतां यथैते तु] निर्दुःखितां यथैते नु प्राप्तास्तद्ब्रूहि मे स्फुटम् | तथैवाहं भविष्यामि ततो जनतया सह || २२ ||
SK
स्फुटं मद्बोधपर्यवसितम् | जनतया त्वदुपदेशश्रवणकृतार्थजन- bharadvājena rājendra vadetyukto'smi sādaram | tadā kartuṃ vibhorājñāmahaṃ vaktuṃ pravṛttavān || 23 || sādaramupāyanāharaṇopagamanapraṇatiprāthanādyādarasahitam || 23 || śṛṇu vatsa bharadvāja yathāpṛṣṭaṃ vadāmi te | śrutena yena saṃmohamalaṃ dūre kariṣyasi || 24 || saṃmoha ātmatattvāparijñānaṃ tadrūpaṃ malaṃ paṅkam | alamiti vā chedaḥ || 24 || tathā vyavahara prājña yathā vyavahṛtaḥ sukhī | sarvāsaṃsaktayā buddhyā rāmo rājīvalocanaḥ || 25 || asaṃsaktayā mithyeti niścayādanabhiniviṣṭayā || 25 || lakṣmaṇo bharataścaiva śatrughnaśca mahāmanāḥ | kausalyā ca sumitrā ca sītā daśarathastathā || 26 || mahāmanā aparicchinnāvastuniveśātathāvidhacittaḥ | cakārāḥ pūrvavat || 26 || kṛtāstraścā'virodhaśca bodhapāramupāgatāḥ | vasiṣṭho vāmadevaśca mantriṇo'ṣṭau tathetare || 27 || kṛtāstrāvirodhau rāmasakhāyau | bodhapāraṃ caramaṃ bodhaṃ yaduttaraṃ boddhavyāntarāpariśeṣaḥ || 27 || dhṛṣṭirjayanto bhāsaśca satyo vijaya eva ca | vibhīṣaṇaḥ suṣeṇaśca hanumānindrajittathā || 28 || satyo yathārthavaktā | indrajidayamanya eva sugrīvāmātya || 28 || ete'ṣṭau mantriṇaḥ proktāḥ samanīrāgacetasaḥ | jīvanmuktā mahātmāno yathāprāptānuvartinaḥ || 29 || antaḥ samanīrāgacetaso bahistu yathāprārabdhaṃ rāptamanuvartamānāḥ || 29 || etairyathā hutaṃ dattaṃ hṛhītamuṣitaṃ smṛtam | tathā cedvartase putra mukta evāsi saṃkaṭāt || 30 || hutaṃ dattamiti śrautasmārtakarmopalakṣaṇam | smṛtamityubhayagocarapūrvā- अपारसंसारसमुद्रपाती [समुद्रमध्ये] लब्ध्वा परां युक्तिमुदारसत्त्वः | न शोकमायाति न दैन्यमेति गतज्वरस्तिष्ठति नित्यतृप्तः || ३१ ||
SK
युक्तिं तत्त्वनिश्चयादन्तः समरसत्वम् | उदारसत्त्वो दृढिकृतोत्कृष्त ज्ञानबलः | इष्टवियोगजं दुःखं शोकः दीनः कृपणस्तद्भावो दैन्यम् तयोर्मूलमभिमानज्वरः स गतो यस्य | निरतिशयानन्दात्मना स्थितः सानित्यतृपतः || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे सूत्रपातनको नाम द्वितीयः सर्गः || २ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे सुत्रपातनको नाम द्वीतियः सर्गः || २ || तृतीय सर्गः ३ भरद्वाज उवाच | जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वा राघवमादितः | क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा || १ || दृश्यसंमार्जनोपायो वासनाभेदलक्षणम् | रामस्य तीर्थयात्रा च विस्तरेणात्र वर्ण्यते || यथा रामादयो जीवन्मुक्ता व्यवहृतवन्तस्तथा त्वं व्यवहरेत्युक्तो जीवन्मुक्तस्थितिप्राप्त्युपायं रामस्य तत्प्राप्तिक्रमोपवर्नश्रवणद्वारैव जिज्ञासमानो भरद्वाजः पृच्छति - जीवन्मुक्तेति | राघवमादितः कृत्वा वर्ण्यत्वेन प्रथानीकृत्य जीवन्मुक्तस्थितिं कथयेति संबन्धः | अथवा राघवं क्रमाज्जीवन्मुक्तस्थितिं जीवन्मुक्तावस्थं कृत्वा कल्पयित्वा मे आदितः कथय | यथा येन क्रमेणाहं नित्यं सुखी भविष्यामीति संबन्धः | अथवा राघवं संवादकथायामादितः प्रष्टृत्वेन वसिष्ठं च वक्तृत्वेन कृत्वेत्यर्थः | तथाच जनकयाज्ञवल्क्यौ कल्पयित्वा यथा श्रुतिः स्वयमेव संवादकथया तत्त्वं बोधयति तथा त्वमपि बोधयेत्यर्थः | तथाचात्र तत्वज्ञत्वेन कल्पितानां दरशथादीनां पूर्वरामायणे मूढचर्यामुक्त्यभावर्दशने नित्यमुक्तस्य च रामस्य तस्य ह न देवश्च नाभूत्या ईशते इत्यादिश्रुतिविरुद्धशापनिमित्ताज्ञत्वा-दिवर्णने च न क्षतिः अनादेर्जीवस्य ब्रह्माभेदबोधनाय श्रुतौ ब्रह्मण एव कार्योपाधिप्रवेशेनागन्तुकजीवभावकल्पनवदविरोधोपपत्तेः || १ || श्रीवाल्मीकिरुवाच | भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् | अपुनःस्मरणं मन्ये साधो विस्मरनं वरम् || २ ||
SK
एवं वाल्मीकिः पृष्टो लक्षणस्वरूपसाधनफलैर्जीवन्मुक्तिस्थितिं विस्तरेण विवक्षुः प्रथमं सुखप्रतिपत्तये संक्षिप्य मुक्तिलक्षणस्वरूपे दर्शयति - भ्रमस्येति | हे साधो आकाशे नैल्यवदत्यन्तासंभावितस्य कल्पनया जातस्य जागतस्य जगतः संबन्दिनोऽध्यासलक्षणस्य ब्रमस्य तन्मूलाविद्यावास-नोच्चेदेनापुनःस्मरणं यथा भवति तथा विस्मरणं यत्तदेव वरं सर्वोत्कृटं मुक्तिलक्षणं स्वरूपं च मन्ये | प्रमानानुभवाभ्यां निश्चितवानस्मीत्यर्थः | यद्यपि परोक्षज्ञानिनोऽपि सुषुप्तौ निर्विकल्प-समाधौ च दृश्यविस्मरणमस्ति तथापि तनापुनःस्मरणम् | अथवा पुनः स्मर्यते येनान्तःकरणेन तत्पुनःस्मरणं न विद्यते यस्मिंस्तत्तथा विस्मरणं स्मरनाभावं | द्वैतप्रतिभासमात्राभावोपलक्षणमेतत् | अथवा विस्मरणमिव विस्मरणम् | यथा विस्मृतविषयस्य सत्येवानुभवितर्य-प्रतीतिस्तथा सत्येव चैतन्ये दृश्याप्रतीतिरित्यर्थः | तर्हि किं परमार्थ-सत्यस्यैव दृश्यस्य सांख्याभिमतमुक्ताविवाप्रतीतिमात्रं तन्नेत्याह- भ्रमस्येति | अधस्तसेत्यर्थः | कथं तस्य भ्रमत्वं संस्काराजन्यत्वादि- pūrvapūrvajagadvyavahārajanyasaṃskārapari-niṣṭhitasyetyarthaḥ | nanu tarhi doṣajatvābhāvānniradhiṣṭhānatvācca na bhramatvamityāśaṅkyāha - ākāśavarṇavajjātasyeti | yathā dūratvāvimarśa- जगद्भ्रमैत्यर्थः | तथा चान्त्यन्तिकदृश्योच्छेदस्तल्लक्षणं तदुपलक्षितचिन्मात्रावस्थ्तिः स्वरूपमित्यर्थः || २ || दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते | कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः || ३ ||
SK
मन्ये इत्यनेन तयोः स्वानुभवसिद्धत्वं दर्शितम् | तर्ह्यस्माभिस्तत्कुतो नानुभूयते तत्राह - दृश्येति | दृश्यस्यात्यन्ताभावबोधो बाधस्त्वं विना | तत् उक्तं लक्षणं स्वरूपं च | अननुभवस्य कालतो देशतश्च व्यापकत्व-प्रदर्शनाय कदाचित्केनचिदिति | दृश्यबाधस्तर्हि केन हेतुना तमाह - स्वबोध इति | सर्वजगदधिष्टानप्रत्यगभिन्नात्मतत्त्वसाक्षात्कारादेव स इत्यतस्तत्सा- sa ceha saṃbhavatyeva tadartha midamātatam | śāstramākarṇayasi cettattvamāpsyasi nānyathā || 4 || tarhi tasya ka upāyastatrāha - sa ceti | ihāsminañcaśāstre adhigate satīti śeṣaḥ | ākarṣanayasi cet | yāvattattvanirṇayamiti śeṣaḥ || 4 || jagadbhramo'yaṃ dṛśyo'pi nāstyevetyanubhūyate | varṇo vyomna ivākhedādvicāreṇāmunā'nagha || 5 || uktamarthameva sphuṭataramāha - jagaditi dvābhyām | amunā etadgranthopadarśitena || 5 || dṛśyaṃ nāstīti bodhena manaso dṛśyamārjanam | saṃpannaṃ cettadutpannā parā nirvāṇanirvṛtiḥ || 6 || anubhūyata ityukto'nubhavaḥ kimātmacaitanamevotānyaḥ | na tāvadanyaḥ | cidvyatiriktasya jaḍatayā viṣayatayā cānubhavatvāyogāt | ātmaiva cetsa pūrvamevāstīti kiṃ śāstreṇetyāśaṅkyāha - dṛśyamiti | satyamātmaivānu-bhavastathāpyasau dṛśyasahakṛto na tadanubhavaḥ kiṃtu manaso vṛttirūpeṇātma- दृश्यं कालत्रयेऽपि नास्तीत्येवंरूपं संपन्नं चेन्नित्यसिद्धात्मरूपापि परा निव्राणनिर्वृतिस्तस्मात्तत्त्वज्ञानादुत्पन्नेव भवतीति केवलस्तद्वारा स्वरूप-भूतोऽप्यनुभवः शास्त्रफलमित्यर्थः || ६ || अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह | भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः || ७ || ननु शास्त्रान्तरोपदर्शितोपायैरेव मुक्तिः किं न स्यात्तत्राह - अन्यथेति | उक्तोपायापरिग्रहे अकृतिमा अजन्या अनादिरज्ञा अज्ञानं येषां अनात्म- punaḥpunariha saṃsāre bhavatāṃ janma gṛhṇatāṃ puruṣāpasadānāmantair- ज्ञानातिरिक्त-साधनसहस्रैरप्यनिवृत्तेरिति भावः || ७ ||
SK
अशेषेण परित्यागो वासनानां य उत्तमः | मोक्ष इत्युच्यते ब्रह्मन्स एव विमलक्रमः || ८ || ननु उपासनाद्युपायान्तरसाध्याः सालोक्यादयोऽन्येऽपि मोक्षाः प्रसिद्धा- janmabījānāma-śeṣeṇa yaḥ parityāgo mūlocchedenātyantochedah sa mukhyo mokṣaḥ | mucadhātorbandhanivṛttau rūḍhatvāsanānāmeva mukhyabandhatvātsālokyādau tadabhāvānmokṣaśabdo gauṇa iti sa mukhya eva vimalairvigatāvidyādimalaih kramyate nānyaiḥ | karmabhirupāsanaiḥ śravaṇādibhiśca dinedine cittavaimalya-meva sarvavāsanākṣayāntaṃ sādhanakramo yasya tathāvidha iti vārthaḥ || 8 || kṣīṇāyāṃ vāsanāyāṃ tu ceto galati satvaram | kṣīṇāyāṃ śītasaṃtatyāṃ brahmanhimakaṇo yathā || 9 || nanu vāsanāpagame'pi taddhetormanasaḥ sattvātpunarvāsanā utpatsyante tato bandho'pi syādityāśaṅkyāha - kṣīṇāyāmiti | manaso vāsanāpuñjarūpatvā-dityārthaḥ || 9 || ayaṃ vāsanayā deho dhriyate bhūtapañjaraḥ | tanunāntarniviṣṭena muktaughastantunā yathā || 10 || manasi naṣṭe'pi sthūladeha eva bandhaḥ sthāsyatītyāśaṅkyāha - ayamiti | bhūtapañjaro bhūtasamudāyārabdhaḥ bhūtānāṃ prāṇipakṣiṇāṃ pañcarasthānīyo vā | tathāca vāsanākṣaye [sarvavāsanākṣaye] so'pi nivartata ityarthaḥ || 10 || vāsanā dvividhā proktā śuddhā ca malinā tathā | malinā janmano hetuḥ śuddhā janmavināśinī || 11 || evamupoddhātena parāṃ muktimupavarṇya prastutāṃ jīvanmuktiṃ vivakṣustadarthaṃ vāsanādvaividhyamāha - vāsaneti || 11 || ajñānasughanākārā ghanāhaṃkāraśālinī | punarjanmakarī proktā malinā vāsanā budhaiḥ || 12 || tatra malināṃ lakṣayati - ajñāneti | vasanābījānāṃ prarohe ajñānaṃ sukṣetraṃ tasminsughanākārā viṣayānusaṃdhānābhyāsopacitākārā vāsanā bījam | rāgadveṣādibhurupacitatvāt ghano nibiḍo'haṃkāra upasecakaḥ kṣetrikastena hi sā varthyamānā saṃtanyamānā ca śālate śobhate || 12 ||
SK
पुनर्जन्माङ्कुरं त्यक्त्वास्थिता संभृस्टबीजवत् | देहार्थं ध्रियते [म्रियते] ज्ञातज्ञेया शुद्धेति चोच्यते || १३ || शुद्धां [शुद्धां तां लक्षयति] लक्षयति - पुनरिति | यथा बीजान्तः सूक्ष्माअङ्कुराः सन्त एव कालजलादिसंबन्धादाविर्भवन्ति तथा वासनान्तर्भाविजन्मपरम्पराः सत्य एव कामकर्मादिनिमित्तवशादाविर्भवन्ति | अत्यन्तासतो जन्मायोगात्तत्र तत्त्वज्ञानेनाविद्याक्षेत्रदाहेनान्तर्गतजन्माङ्कुरनाशेऽपि स्वपरप्रा- śiṣyate sā śuddhetyarthaḥ || 13 || apunarjanmakaraṇī jīvanmukteṣu dehiṣu | vāsanā vidyate śuddhā dehe cakra iva bhramaḥ || 14 || uktamevārthaṃ sphuṭayati - anupanariti | dehiṣviti | dehadhāraṇakāryeṇa teṣvapi vāsanāsadbhāvo'numīyata iti bhāvaḥ || 14 || ye śuddhavāsanā bhūyo na janmānarthabhājanam | jñātajñeyāsta ucyante jīvanmuktā mahādhiyaḥ || 15 || phalena saha prastutāṃ jīvanmuktimāśrayeṇa lakṣayati - ya iti | tathā ca tattvajñānapluṣṭajanmāṅkuraśaktikavāsanāmātradṛtaśarīratvaṃ [śaktikatvādvāsanā] jīvanmuktalakṣaṇaṃ phalitam || 15 || jīvanmuktipadaṃ [muktipada] prāpto yathā rāmo mahāmatiḥ | tatte'haṃ śṛṇu vakṣyāmi jarāmaraṇaśāntaye || 16 || tatsādhananirūpaṇaṃ pratijānīte - jīvanmuktīti | tathāvidhaṃ jīvanmuktipadaṃ rāmo yathā yena sādhanakrameṇa prāptastadvakṣyāmi | jarāmaraṇopalakṣita- भरद्वाज महाबुद्धे रामक्रममिमं शुभम् | शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा || १७ || उक्तार्थमेव स्फुटयन्फलान्तरमाह - भरद्वाजेति | एकविज्ञानेन सर्वविज्ञनमपि तत्फलमित्यर्थः || १७ || विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः | दिवसाननयद्गेहे लीलाभिरकुतोभयः || १८ || विद्यागृहाद्ब्रह्मचर्याश्रमोचितगुरुकुलवासाद्विनिष्क्रम्येत्यर्थात्सर्व- || atha gacchati kāle tu pālayatyavaniṃ nṛpe | prajāsu vītaśokāsu sthitāsu vigatajvaram || 19 ||
SK
विगतज्वरमिति सौराज्यात्प्रजानां ज्वरादिपीडापि नास्ति किं वाचमन्याः पीडा न सन्तीति द्योतनार्थम् || १९ || तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः | रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः || २० || रामस्य मनस्तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितमभूदिति संबन्धः | पूर्वशोकस्थसप्तम्यन्तानामप्यत्रैवान्वयः || २० || राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः | हंसः पद्मानिव नवौ जग्राह नखकेसरौ || २१ || नन्वध्यात्मशास्त्रेऽस्मिंस्तीर्थयात्रोपवर्णनस्य वक्ष्यमाणमृगयोप- rāmajanmāderapyatraiva varṇanīyatvāpatteḥ pūrvarāmāyaṇavaiyarthyācceti cedatrocyate | kathopāyānvicāryetyatra svasvavarṇocitayajñādikarmajanyā cittaśuddhirbrahmavidyādhikāre upayujyata ityuktam | yastu vayovidyādyasa.pattyā yajñādyanuṣṭhātumakṣamastasya tīrthayātrādināpi yajñādiphalacitta- यज्ञास्तीर्थरूपेण निर्मिताः इति वचनादिति सूचनाय तीर्थयात्रोपवर्णनम् | अतएव हि न रामं वृद्धवयस्कं परिकल्प्यात्मजिज्ञासोपवर्णं कृतमुक्तार्थसूचनाना-पत्तेः | मृगयोपवर्णं तु दृष्टकौतुकदर्शनोत्कण्ठाया अप्यात्मजिज्ञासा-प्रतिबन्धकत्वात् यदि तत्कुतुकानुभवमन्तरेण सोत्कण्ठा नापैति तर्हि तदनुभूयैव वा तदसारतानिश्चयेन तदुत्कण्ढामपोह्य निष्प्रत्यहं श्रवणादिप्रतिष्ठो भवेदिति विशेषबोधनार्थमिति सर्वं समञ्चसम् | राघव एवमुक्तमर्थं चिन्तयित्वा पितुश्चरणौ जप्राह | जीवत्पितृकस्य पितृसंनिधौ पित्राज्ञापूर्वमेव धर्माधिकारादिति भावः || २१ || श्रीरम उवाच | तीर्थानि देवसद्मानि वनान्यायतनानि च | द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् || २२ || नाथेति स्वस्य पारतन्त्र्यसूचनार्थम् || २२ || तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि | न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः || २३ || पूर्वां प्राथमिकीम् | न मानितः अभिलषितार्थसंपादनेन न संतोषितः || २३ ||
SK
इति संप्रार्थितो राजा वसिष्ठेन समं तदा | विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् || २४ || अमुञ्चदेव न पुत्रविश्लेषदुःखान्नानुमेने || २४ || शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः | मङ्गलालंकृतवपुः कृतस्वस्त्ययनो द्विजैः || २५ || वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः | स्निग्धैः कतिअयैरेव राजपुत्रवरैः सह || २६ || अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः | निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः || २७ || निर्गतः स्वपुरात्पौरैस्तूर्यघोषेण वादितः | पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः || २८ || भृङ्गौघ्भङ्गुरैर्भ्रमरसमूहवच्चञ्चलैः | अर्थात्कुसुमेष्विति गम्यते || २८ || ग्रामीणललनालोलहस्तपद्मापनोदितैः | जालवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः || २९ || अपनोदितैः प्रेरितैः || २९ || आवर्जयन्विप्रगणान्परिशृण्वन्प्रजाशिषः | आलोकयन्दिगतांश परिचक्राम जाङ्गलान् || ३० || आवर्जयन्दानमानादिना वशीकुर्वन् | जाङ्गलान्येव जाङ्गलान् जीर्णारण्यानि || ३० || अथारभ्य स्वकात्तस्मात्क्रामात्कोशमण्डलात् | स्नानदानतपोध्यानपूर्वकं स ददर्श ह || ३१ || ददर्शेत्यस्य पावनानाश्रमाञ्छुभानित्यन्ते सर्वत्र संबन्धः || ३१ || नदीतीराणि पुण्यानि वनान्यायतनानि च | जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् || ३२ || आयतनानि देवमुन्यायतनानि | जनान्तेषु लक्षणया जनपदान्तेषु || ३२ || मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् | सरस्वतीं शतद्रूं च चन्द्रभागामिर्वावतीम् || ३३ || वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा | चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि || ३४ || वेणीं केवलाम् | कृष्णवेणीं कृष्णया संभिन्नां ताम् || ३४ || प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा | वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा || ३५ || श्रीगिरिं श्रीशैलम् || ३५ || मानसं च क्रमसरस्तथैवोत्तरमानसम् | वडवावदनं चैव तीर्थवृन्दं स सादरम् || ३६ ||
SK
क्रमप्राप्तं सरं | वडवावदनं हयग्रीवतीर्थं || ३६ || अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा | सरांसि सरितश्चैव तथा नदह्रदावलीम् || ३७ || महातीर्थमितीन्द्रद्युम्नसरोविशेषणम् || ३७ || स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथ | स्थानानि च चतुःषष्टिं हरेरथ हरस्य च || ३८ || नानाश्चर्यविचित्राणि चतुरब्धितटानि च | विन्ध्यमन्दरकुञ्चांश्च कुलशैलस्थलानि च || ३९ || कुञ्जाṁल्लतागृहान् | कुलशैला हिमवदादयः || ३९ || राजर्षिणां च महतां ब्रह्मर्षिणां तथैव च | देवानां ब्राह्मणानां च पावनानाश्रमाञ्छुभान् || ४० || चकारोऽनुक्ततत्तत्स्थानसमुच्चयार्थः || ४० || भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः | चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् || ४१ || भूयोभूय इति पूर्वदृष्टानामपि परावृत्तौ संनिहितानां कौतुकान्महिमातिशयप्रकटनाय वा भूयो गमनम् || ४१ || अमरकिन्नरमानवमानितः समवलोक्य महीमखिलामिमाम् | उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकमिवेश्वरः || ४२ || तत्रतत्र संनिहितैरमरादिभिर्मानितः पूजितो रथुनन्दनोऽखिलां जम्बूद्वीपात्मिकां महीं सम्यगवलोक्य स्वगृहमयोध्यामुपययाविति संबन्धः | ईश्वरः शिवः || ४२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तीर्थयात्राकरणं नाम तृतीयः सर्गः || ३ || इति श्रीवासिड्ठमारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे तीर्थयात्राकरणं नाम तृतीयः सर्गः || ३ || चतुर्थः सर्गः ४ श्रीवाल्मीकिरुवाच | रामः पुष्पाञ्जलिव्रातैर्विकीर्णः पुरवासिभिः | प्रविवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा || १ || तीर्थयात्रागतस्यात्र सुहृदानन्दनं गृहे | रामस्याखेटकचर्यादिव्यवहारश्च वर्ण्यते || राम इति | व्रातैः समूहैर्मङ्गलाचारार्थं विकीर्णः | विष्टपं त्रिविष्टपम् | नामैकदेशे नामप्रहणात् || १ || प्रणनामाथ पितरं वसिष्ठं भ्रातृबान्धवान् | ब्राह्मणान्कुलवृद्धांश्च राघवः प्रथमागतः || २ ||
SK
प्रथामगतः प्रथमप्रवासदागतः || ५ || सुहृद्भिर्भ्रातृभिश्चैव [र्मातृभिश्चैव] पित्रा द्विजगणेन च | मुहुरालिङ्गिताचारो राघवो न ममौ मुदा || ३ || मुहुः आलिङ्गितस्य तेषु समुचितमभिवादप्रियाभिलापाद्याचरणं यस्य स तथोक्तः | न ममौ स्वदेह इति शेषः | हर्षेणोत्फुल्ल इति भावः || ३ || तस्मिन्गृहे दाशरथेः प्रियप्रकथनैर्मिथः | जुघूर्णुर्मधुरैराशा मृदुवंशस्वनैरिव || ४ || तस्मिन् दशरथगृहे | दशरथेः रामस्य | प्रियकथनैः प्रियवाक्यैः | आनन्दिता जना इति शेषः | मिथोऽन्योन्यं दिशो जुघूर्णुर्बभ्रमुर्दिशिदिशि भ्रान्तवन्तः | हर्षकृतव्यामोहाद्दिग्भ्रमं प्रापुरिति वार्थः | दृष्टान्तेऽप्येवम् | अथवा दिक्शब्देन तत्रस्था जना लक्ष्यन्ते | दाशरथेः प्रियकथाभिरुपकषिता मिथः समवेता उत्सवविशेषे मृदुवंशस्वनैः क्रीडन्त इव बभ्रमुरित्यर्थः || ४ || बभूवाथ दिनान्यष्टौ रामागमन उत्सवः | सुखं मत्तजनोन्मुक्तकलकोलाहलाकुलः || ५ || मत्तैर्हृष्टैर्जनैरुत्कृष्टतया मुक्तः कलो गम्भीरो यः कोलाहलस्तेन आकुलो व्याप्तः || ५ || उवास स सुखं गेहे ततः प्रभृति राघवः | वर्णयन्विविधाकारान्देशाचारानितस्ततः || ६ || सुमुखवासेत्यन्वयः || ६ || प्रातरुत्थाय रामोऽसौ कृत्वा संध्यां यथाविधि | सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तथा || ७ || प्रातरित्यादि वीप्साभिप्रायम् | तथेति पूर्वश्लोकोक्तसमुच्चयार्थम् || ७ || कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह | स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः || ८ || स रामो वसिष्ठादिभिः सह स्थित्वा अनुरूपाभिः कथाभिरादृतः सन् दिनचतुर्भागम् | अत्यन्तसंयोगे द्वितीया | दिनस्य चतुर्थभागे इत्यर्थः | आखेटकेच्छया वनं जगामेत्युत्तरेणान्वयः || ८ || जगाम पित्रानुज्ञातो महत्या सेनया वृत्तः | वराजमहिषाकीर्णं वनमाखेतकेच्छया || ९ || आखेटकं मृगया || ९ || तत आगतुअ सदने कृत्वा स्नानादिकं क्रमम् | समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् || १० ||
SK
एवंप्रायदिनाचारो भ्रातृभ्यां सह राघवः | आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे || ११ || मृगयादीनामनित्यत्वद्योतनाय प्रायेति | भ्रातृभ्यां लक्ष्मणशत्रुघ्नाभ्याम् || ११ || नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकयानया | परिनिनाय दिनानि स चेष्टया स्तुतसुधारसपेशलयाऽनघ || १२ || हे अनघेति राज्ञो भरद्वाजस्य वा संबोधनम् | स रामो नृपतीनां राज्ञां समुचितेन व्यवहारेण मनोज्ञया मनोहरया सुजनानां चेतसि चन्द्रिकावदाह्लादिकया अतएव स्तुता प्रशस्ता सुधारसवत्पेशला चतुरा च या तथाविधया | स्रुतेति स्रुतेति वा पाठे क्षरिता या सुधा तद्वद्रसेन माधुर्येण पेशलयाऽनया पूर्वोक्तया चेष्टया दिनानि परिनिनायाति-वाहयामास || १२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दिवसव्यवहारनिरूपणं नाम चतुर्थः सर्गः || ४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे दिवसव्यवहारनिरूपणं नाम् चतुर्थः सर्गः || ४ || पञ्चमः सर्गः ५ वाल्मीकिरुवाच | अथोनषोडशे वर्षे वर्तमाने रघूद्वहे | रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च || १ || रामस्य काये कार्श्यादि निर्वेदादिह [दादीह] वर्ण्यते | राज्ञस्तद्धेतुजिज्ञासा [जिज्ञासोर्वसिष्ठोक्तेः] वसिष्ठोक्तेरुपक्रमः || इत्थं श्रीरामस्य चित्तशुद्धापायानुष्ठानचर्यामुपवर्ण्य तत्फल वैराग्यादिसाधनसंपत्तिं विवक्षुरुपक्रमते - अथेति | ऊने चतुर्थांशेन षोडशे वर्षे वर्तमाने रामः कार्श्य जगामेति चतुर्थेन संबन्धः | रघूद्वहे इति व्यवहितस्य राज्ञः संनिहितस्य शत्रुघ्नस्य लक्ष्मणस्य वा विशेषणं नतु रामपरामर्शि | रामः कार्श्यं जगामेत्यनेनानन्वया- bhāvāntarālakṣakatve bhāvalakṣaṇasaptamyanupapatteḥ || 1 || bharate saṃsthite nityaṃ mātāmahagṛhe sukham | pālayatyavaniṃ rājñi yathāvadakhilāmimām || 2 ||
SK
भरति इति | इत एव पूर्वरामायणानुक्तमपि विना शत्रुघ्नं भरतस्य मातामहगृहगमनं विवाहात्प्रागागमनं च कल्प्यते | नित्यमित्यनेनापि पूर्वमपि बहुवारं तत्र भरतगमनमवथानं चासीदिति गम्यते || २ || जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः | कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे || ३ || जर्नी वधुं वहन्तीति जन्यास्तांश्रायते वस्त्रालंकारादिभिरिति जन्यत्रो विवाहस्तदर्थम् || ३ || कृतायां तीर्थयात्रायां रामो निजगृहे स्थितः | जगामानुदिनं कार्श्यं शरदीवामलं सरः || ४ || कार्श्यादीनि निर्वेदचिन्तादुःखलिङ्गानि वर्ण्यन्ते || ४ || कुमारस्य विशालाक्षं पाण्डुतां मुखमाददे | पापफूल्लदलं शुक्लं सालिमालमिवाम्बुजम् || ५ || विशालाक्षत्वविशिष्टस्योपमानाय सालिमालमिति || ५ || कपोलतलसंलीनपाणिः पद्मासनस्थितः | चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह || ६ || अव्यापारो निश्चेष्टः || ६ || कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः | नोवाच कस्यचित्किंचिल्लिपिकर्मार्पितोपमः || ७ || लिपिकर्मार्पितश्चित्रलिखित उपमा यस्य || ७ || खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः | चकाराह्निकमाचारं परिम्लानमुखाम्बुजः || ८ || आह्निक. महन्यवश्यकर्तव्यम् || ८ || एवंगुणविशिष्टं तं रामं गुणगणाकरम् | आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् [तामेवावापतुः] || ९ || गुणगणाकरं तं रामदेवं पूर्वोक्तचिन्तादिभिर्गुणैर्विशेषनैर्विशिष्ट- tathā teṣu tanūjeṣu khedavatsu kṛśeṣu ca | sapatnīko mahīpālaścintāvivaśatāṃ yayau || 10 || kā te putra ghanā cintetyevaṃ rāmaṃ punaḥ punaḥ | apṛcchatsnigdhayā vācā naivākathayadasya saḥ || 11 || nākathayadeva | kathanaprayojanāsiddhiniścayāditi bhāvaḥ || 11 || na kiṃcittāta me duḥkhamityuktvā pituraṅkagaḥ | rāmo rājīvapatrākṣastūṣṇīmeva sma tiṣṭhati || 12 || na [neti kvacinna labhyate] duḥkhaṃ tvayā parihartuṃ śakyamityāśaya iti nānṛtavāditā | tiṣṭhati sma tasthau | smayogālliḍviṣaye laṭ || 12 ||
SK
ततो दशरथो राजा रामः किं खेदवानिति | अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् || १३ || किंनिमित्तमिति शेषः || १३ || इत्युक्तश्चिन्तयित्वा स वसिष्ठमुनिना नृपः | अस्त्यत्र कारणं श्रीमन्मा राजन्दुःखमस्तु ते || १४ || इति पृष्टेन वसिष्ठमुनिना स नृप इति एवं प्रकारेण उक्तः | तदेवाह - अस्त्यत्रेत्यादिनार्धेनोत्तरश्लोकसहितेन | रामचिन्तायाः शुभोदर्कत्व- kopaṃ viṣādakalanāṃ vitataṃ ca harṣaṃ nālpena kāraṇavaśena vahanti santaḥ | sargeṇa saṃhṛtijavena vinā jagatyāṃ bhūtāni bhūpa na mahānti vikāravanti || 15 || santaḥ alpena kāraṇavaśena kopaṃ viṣādakalanāṃ ca na vahanti | yathā mahānti bhūtāni pṛthivyādīni sargeṇa sṛṣṭiphalavaśena saṃhāravegena ca vinā na vikāravanti nopacayāpakṣayavikāraṃ bhajante || 15 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye vairāgyaprakaraṇe kārśyanivedanaṃ nāma pañcamaḥ sargaḥ || 5 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe vairāgyaprakaraṇe kārśyanivedanaṃ nām pañcamaḥ sargaḥ || 5 || ṣaṣṭhaḥ sargaḥ 6 vālmīkiruvāca | ityukte munināthena saṃdehavati pārthive | khedavatyāsthite maunaṃ kiṃcitkālapratīkṣaṇe || 1 || viśvāmitrāgamo rājñā vidhivatpūjanaṃ muneḥ | rājñaḥ praharṣātkāryasya pratijñā cātra varṇyate || munināthena vasiṣḥena | iti uktaprakāreṇa | sāmānyākāreṇetyarthaḥ | ataeva pārthive viśeṣeṇa saṃdehavati sati [satīti kvacinna labhyate] nirṇayāya kaścitkālo yasya tatkiṃcitkālaṃ pratīkṣaṇaṃ yasya tathābhūte sati || 1 || parikhinnāsu sarvāsu rājñīṣu nṛpasadmasu | sthitāsu sāvadhānāsu rāmaceṣṭāsu sarvataḥ || 2 || rājñīṣu nṛpasadmasu sthitāsviti saṃbandhaḥ | rājñībhedātsadmabhedaḥ prasiddha iti bahuvacanam | ceṣṭāviśeṣaliṅgairnirvedakāraṇaparijñānāya sāvadhānāsu || 2 || etasminneva kāle tu viśvāmitra iti śrutaḥ | maharṣirabhyagāddraṣṭuṃ tamayodhyānarādhipam || 3 ||
SK
एतस्मिन्निति | यद्यपि भावलक्षणसप्तमीभिरेव कालविशेषो लभ्यते तथापि लोकदृष्ट्या अनवसरे विश्वामित्रागमनमिति सूचनाय विशिष्य काले इत्युपादानम् | श्रुतो विश्रुतः || ३ || तस्य यज्ञोऽथ रक्षोभिस्तथा विलुलुपे किल | मायार्वीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः || ४ || धर्म एव कार्योऽवश्यकर्तव्यो यस्य तथाभूतस्य यज्ञस्तथा विलुलुपे यथा स तं नराधिपमभ्यगादिति पूर्वेण पार्थिवं द्रष्टुमैच्छदित्युत्तरेण वा संबन्धः || ४ || रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् | नहि शक्नोत्यविघ्नेन समाप्तुं स मुनिः क्रतुम् || ५ || समाप्तुं समापयितुं सम्यगासमाप्तेः प्राप्तुं वा || ५ || ततस्तेस्.आं विनाशार्थमुद्यतस्तपसां निधिः | विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् || ६ || उद्यत उद्युक्तः || ६ || स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह | शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् || ७ || आख्यात | राज्ञे इति शेषः || ७ || तस्य तद्वचनं श्रुत्वा द्वास्था राजगृहं ययुः | संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः || ८ || विलम्बे शापभयात्संभ्रान्तमनसः || ८ || ते गत्वा राजसदनं विश्वामित्रमृषिं ततः | प्राप्तमावेदयामासुः प्रतीहाराः पतेस्तदा || ९ || सीदति निषीदत्यस्मिन्निति सदनं सभास्थानम् | प्रतीहारा द्वारपालाः | पतेर्बहिर्द्वास्थस्य स्वस्वामिनः सभाद्वास्थस्य वा याष्टीकस्य | गतिबुध्दि - athāsthānagataṃ bhūpaṃ rājamaṇḍalamālinam | samupetya tvarāyukto yāṣṭīko'sau vyajijñapat || 10 || asau dvāsthairniveditārtho yāṣṭīko yaṣṭipraharaṇaḥ | śaktiyaṣṭyorīkak || 10 || deva dvāri mahātejā bālabhāskarabhāsuraḥ | jvālāruṇajaṭājuṭaḥ pumāñchrīmānavasthitaḥ || 11 || mahātejā mahāprabhāvaḥ | kāntyā tu bālabhāskara iva bhāsura | tadupapādanāya jvālāruṇeti | śrīmāṃstapolaṃsmīvān || 11 || samhāsurapatākāntaṃ sāśvebhapuruṣāyudham | kṛtavāṃstaṃ pradeśaṃ yastejobhiḥ kīrṇakāñcanam || 12 ||
SK
तं राजद्वारप्रदेशमूर्ध्वतः सभासुरपताकान्तं परितश्च साश्वेभपुरुषायुधम् | कीर्णकाञ्चनं व्याप्तसौवर्णमिव पिङ्गलम् || १२ || वीक्ष्यमाणे तु याष्टीके निवेदयति राजनि | विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा || १३ || विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा राजनि राजानं प्रति निवेदयति विज्ञापनं कुर्वाणे याष्टीके वीक्ष्यमाणे तु दृष्टमात्रे सति स राजसत्तमः प्रोत्तस्थावित्युत्तरेण संबन्धः || १३ || इति याष्टीकवचनमाकर्ण्य नृपसत्तमः | स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टरात् || १४ || किमनवधार्यैव नेत्याह - इति याष्टीकवचनमाकर्ण्येति | सामन्ता अल्पदेशाधीश्वराः | विष्टरात्सिंहासनात् || १४ || पदातिरेव सहसा राज्ञां वृन्देन मालितः | वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः || १५ || मालितो वेष्टितः | स राजसत्तमो वसिष्ठवामदेवाभ्यां सह जगामेत्युत्तरेणान्वयः || १५ || जगाम [यत्र तत्रासौ] तत्र यत्रासौ विश्वामित्रो महामुनिः | ददर्श मुनिशार्दूलं द्वारभूमाववस्थितम् || १६ || यत्र द्विश्वामित्रो महामुनिस्तत्रासौ जगामेति संबन्धः || १६ || केनापि कारणेनोर्वीतलमर्कमुपागतम् | ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा || १७ || तपःपराक्रमाभिव्यञ्जकवैलक्षण्याम्भ्यामोजस्तेजसोर्भेदः || १७ || जराजरठया नित्यं तपःप्रसररूक्षया | जटावल्या वृतस्कन्धं ससंध्याभ्रमिवाचलम् || १८ || जराजरठया वयःप्रकर्षपलितया || १८ || उपशान्तं च कान्तं च दीप्तमप्रतिघाति च | निभृतं चोर्जिताकारं दधानं भास्वरं वपुः || १९ || दीप्तं तेजःप्रकर्षाद्दुर्दर्शम् | उपशान्तं सौम्यम् | अप्रतिघाति अपऋधृष्यम् | कान्तं प्रियदर्शनम् | ऊर्जितः प्रगल्भ आकारोऽवयसंनिवेशो यस्य तत्तथोक्तम् | निभृतं विनयोपपन्नम् | भास्वरं कान्तिमत् | भास्करमिति पाठे सूर्यसदृशम् | देवपथादित्वात्कनो लुप् | विशेषणान्युभयत्र योज्यानि || १९ ||
SK
पेशलेनातिभीमेन प्रसन्नेनाकुलेन च | गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रभम् || २० || पेशलेन दृष्टिमनःप्रीणचतुरेण | अतिभीमेन भयानकेन | आकुलेन प्रकर्षाच्चलता | गम्भीरेण अनाकलनीयेन | अतिपुर्णेनापरिच्छेद्येन | आश्रयंसंवलितं तेजः बहिःप्रसृता प्रभा | तेजःप्रकर्षवैलक्षण्यानु- tathoktiḥ || 20 || anantajīvitadaśāsakhīmekāmaninditām | dhārayantaṃ kare ślakṣaṇāṃ kuṇḍīmamlānamānasam || 21 || anantajīvitadaśā cirajīvitadaśā tasyāḥ sakhīṃ ciraparigṛhītāmityarthaḥ | ślakṣṇāṃ snigdhām | kuṇḍīṃ kamaṇḍalum | amlānaṃ prasannaṃ mānasaṃ mano yasya || 21 || karuṇākrāntacetastvātprasannairmadhurākṣaraiḥ | vīkṣaṇairamṛteneva saṃsiñcantamimāḥ rajāḥ || 22 || madhurāṇakṣarāṇi saṃbhāṣaṇāni yeṣu | madhurābhāṣaṇasaitairityarthaḥ || 22 || yuktayajñopavītāṅgaṃ dhavalapronnatabhruvam | anantaṃ viṣmayaṃ cāntaḥ prayacchantamivekṣituḥ || 23 || yuktāni vayaḥprakarṣānurūpāṇi yajñopavītānaṅge yasya tam || 23 || munimālokya bhūpālo dūrādevānatākṛtiḥ | praṇanāma galanmaulimaṇimānitabhūtalam || 24 || durādālokya pūrvamevānatākṛtirbhūpālo muniṃ praṇanāmeti saṃbandhaḥ | antyaṃ padaṃ kriyāviśeṣaṇam || 24 || munirapyavanīnāthaṃ bhāsvāniva śatakratum | tatrābhivādayāṃcakre madhurodārayā girā || 25 || abhivādayāṃcakre saplutamāśīrbhiḥ pratyabhivādayāmāsetyarthaḥ || 25 || tato vasiṣṭhapramukhāḥ sarva eva dvijātayaḥ | svāgatādikrameṇainaṃ pūjayāmāsurādṛtāḥ || 26 || pūjayāmāsuḥ praśaśaṃsuḥ | ādṛtā ādarayuktāḥ || 26 || daśaratha uvāca | aśaṅkitopanītena bhāsvatā darśanena te | sādho svanugṛhītāḥ smo raviṇevāmbujākarāḥ || 27 || aśaṅkitopanītenāvitarkitopagatena | te iti karmaṇi kartari vā ṣaṣṭhī || 27 || uadanādi adakṣuṇṇaṃ yadapāyavivarjitam | tadānandasukhaṃ prāptaṃ mayā tvaddarśanānmune || 28 ||
SK
अनुग्रहमेव भाविभाग्यानुरूपं रूपयन्निरूपयति - यदिति | अनादिकारण-रहितम् | अनेनोत्पत्तिवृद्धिविपरिणामानां निरासः | अक्षुण्णमनपक्षयम् | अपायेन विनाशेन च विवर्जितम् | औपाधिकैः स्वांशसुखलवैः सर्वानानन्दयतीत्यानन्दं यत्परमपुरुषार्थसुखं प्रसिद्धं तदेव प्राप्तमित्यर्थः || २८ || अद्य वर्तामहे नूनं धन्यानां धुरि धर्मतः | भवदागमनस्येमे यद्वयं लक्ष्यमागताः || २९ || धन्यानां कृतार्थानां धुरि अग्रस्थाने | लक्ष्यम् | भावप्रधानो निर्देशः | लक्ष्यताम् || २९ || एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः | आसनेषु सभास्थानमासाद्य समुपाविशन् || ३० || एवं दशरथोक्तप्रकारेणैव राजानो महर्षयश्च प्रकथयन्तः अथ सभास्थानमासाद्य आसनेषु समुपाविशन्नित्यन्वयः || ३० || स दृष्ट्वा मालितं लक्ष्म्या भीतस्तमृषिसत्तमम् | प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् || ३१ || लक्ष्म्या तपोलक्ष्म्या भीतः अर्घ्यार्थस्योदकस्याप्यन्यद्वारा आहरणेऽपराधशङ्कया स्वयमेवाहृत्यार्घ्यं न्यवेदयदित्यर्थः || ३१ || स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा | प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् || ३२ || पर्यपूजयत्प्रशशंस || ३२ || स राज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा | कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् || ३३ || कुशलं देहमन्त्रिभूत्यादिषु | अव्ययं कोशेषु || ३३ || वसिष्ठेन समागम्य प्रहस्य मुनिपुंगवः | यथार्हं चार्चयित्वैनं प्रपच्छानामयं ततः || ३४ || एवं वसिष्ठमर्चयित्वा यथार्हं शिष्यम्र्.गपक्ष्यादिष्वनामयं पप्रच्छेत्यथः || ३४ || क्षणं यथार्हमन्योन्यं पूजयित्वा समेत्य च | ते सर्वे हृष्टमनसो महाराजनिवेशने || ३५ || अन्योन्यं समेत्य पूजयित्वा च यथोचितासनगताः सण्तोऽनामयं पप्रच्छुरित्युत्तरेण संबन्ध. || ३५ || यथोचितासनगता मिथः संवृद्धतेजसः | परस्परेण पप्रच्छुः सर्वेऽनामयमादरात् || ३६ ||
SK
उपविष्टाय तस्मै स विश्वामित्राय धीमते | पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत् || ३७ || आद्येन चकारेणानुक्तगन्धपुष्पवस्त्रालंकारादेः समुच्चयः | द्वितीयेन दक्षिणाफलताम्बूलादेः | तेषां च बहुविधत्वाद्भूयोभूय इति || ३७ || अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत | प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमना नृपः || ३८ || प्रयतः पवित्रः | इदं वक्ष्यमाणम् || ३८ || यथाऽमृतस्य संप्राप्तिर्यथा वर्षमवर्षके | यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा || ३९ || यथायोगं मर्त्यस्य कर्षकस्येति च शेषः || ३९ || यथेष्टदारसंपर्कात्पुत्रजन्माऽप्रजावतः | स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा || ४० || अर्थलाभो दरिद्रस्येति शेषः || ४० || यथेप्सितेन संयोग इष्टस्यागमनं यथा | प्रणष्टस्य यथा लाभो भवदागमनं तथा || ४१ || ईप्सितेन चिराभिलषितेन मणिमन्त्राभ्युदयादिना | इष्टस्य प्रियतमस्य पुत्रभ्रात्रादेः | दुरादिति शेषः || ४१ || यथा हर्षो नभोगत्या मृतस्य पुनरागमात् | तथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने || ४२ || त्वदागमाद्धर्ष इत्यनुषज्यते || ४२ || ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् | मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते || ४३ || कश्च ते परमः कामः किं च ते करवाण्यहम् | पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः || ४४ || प्रथमः प्रश्नः प्रदेयविषयः | द्वितीयः कर्तव्यसेवाविषयः || ४४ || पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः | ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि भगवन्मया || ४५ || पूजापात्रत्वमेवोपपादयति - पूर्वमिति | तपसा ब्रह्मर्षित्वमनुप्राप्त इति संबन्धः || ४५ || गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम | तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् || ४६ || शीतयति तापशान्त्या सुखयति | मुख्यार्थाभेदोत्प्रेक्षार्थ इवशब्दः || ४६ || विगतेच्छाभयक्रोधो वीतरागो निरामयः | इदमत्यद्भुतं ब्रह्मन्यद्भवान्मामुपागतः || ४७ ||
SK
इच्छादीनां परोपसर्पणहेतुत्वं प्रसिद्धम् | विषयस्नेहातिशयो विषयाकारेण चित्तस्य रञ्जनाद्रागः || ४७ || शुभक्षेत्रगतं चाहमात्मानमपकल्मसम् | चन्द्रबिम्ब इवोन्मग्नं वेदवेद्य विदांवर || ४८ || देवर्षिजुष्टस्थानानामेव क्षेत्रत्वात्त्वत्संनिधानाद्गृहमपि तथेति भावः | अतेवापकल्मषमपगतपापं अतएव धर्मोत्कर्षादमृतमयचन्द्रमण्डल-प्राप्त्या तत्रोन्मग्नमित्युत्प्रेक्षा || ४८ || साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् | पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनान्मुने || ४९ || धर्मेण पूतः यशोभ्युदयाभ्यामनुगृहीतः || ४९ || त्वदागमनपुण्येन साधो यदनुरञ्जितम् | अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् || ५० || तदेव स्फुटयति - त्वदिति || ५० || त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च | आत्मन्येव नमाम्यन्तर्दृष्ट्वेन्दुं जलधिर्यथा || ५१ || पुण्यहर्षाभ्यामभिवृद्धत्वादात्मनि शरीरे प्रस्थान्तः कारीव न संमामीत्यर्थः | जलधिर्वेलासीम्नोरिति शेषः || ५१ || यत्कार्यं येन वार्थेन प्राप्तोऽसि मुनिपुङ्गव | कृतमित्येव तद्विद्धि मान्योऽसीति सदा मम || ५२ || सदा मान्योऽसीति हेतोस्तदुभयम् कृतमित्येव विद्धि || ५२ || स्वकार्ये न विमर्शं त्वं कर्तुमर्हसि कौशिक | भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते || ५३ || अन्यैः कर्तुमशक्यमपि करिष्याम्येव दातुमशक्यमपि दास्यामेव | यद्यस्माद्दीयमानं वस्तु त्वयि त्वादृशे सत्पात्रे प्रतिपद्यते | प्रतिपत्तिलाभेन सार्थकं भवतीति भावः || ५३ || कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः | कर्ता चाहमशेषं ते दैवतं परमं भवान् || ५४ || उत्साहातिशयात्पूर्वार्धोक्तमेव पुनराह - कार्यस्येति | लोभादिहेतुकत्वं वारयति - धर्मतः कर्तेति || ५४ || इदमतिमधुरं निशम्य वाक्यं श्रुसुखमात्मविदा विनीतमुक्तम् | प्रथितगुनयशा गुणैर्विशिष्टं मुनिवृषभः परमं जगाम हर्षम् || ५५ || आत्मविदा स्वतपःप्रभावाभिज्ञेन | गुणैर्विशिष्टमिति वाक्यविशेषणम् || ५५ ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे विश्वामित्राभ्यागमनं नाम षष्थः सर्गः || ६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे विश्वामित्राभ्यागमनं नाम् षष्ठः सर्गः || ६ || सप्तमः सर्गः ७ श्रीवाल्मीकिरुवाच | तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् | हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत || १ || राज्ञः प्रशंसाथ मुनेर्यज्ञविघ्ननिवेदनम् | रक्षोवधाय रामस्य यात्वा चात्रिओअवर्ण्यते || अद्भुतविस्तरं आश्चर्यार्थविस्तारयुक्तम् || १ || सदृशं राजशार्दूल तवैवैतन्महीतले | महावंशप्रसूतस्य वसिष्ठवशवर्तिनः || २ || सदृशं युक्तम् | तत्र हेतुगर्भे विशेषणे | वंशप्रभावाद्गुरुप्रभावा- yattu me hṛdgataṃ vākyaṃ tasya kāryavinirṇayam | kuru tvaṃ rājaśārdūla dharmaṃ samanupālaya || 3 || hṛdgataṃ vivakṣitaṃ tasya kāryavinirṇayaṃ tatsaṃbandhikartavyārthaniścayaṃ kuru prathamamiti śeṣaḥ | tatkadācidadharmyaṃ cedaśakyamityāśaṅkyāha - dharmamiti || 3 || ahaṃ dharmaṃ samātiṣṭhe siddhyarthaṃ puruṣarṣabha | tasya vighnakarā ghorā rākṣasā mama saṃstithāḥ || 4 || tadevāha - ahamityādinā | dharmaṃ yajñaṃ | samātiṣṭhe ārabhe || 4 || yadā yadā tu yajñena yaje'haṃ vibudhavrajān | tadā tadā tu me yajñaṃ vinighnanti niśācarāḥ || 5 || vibudhavrajāndevasaṅghān || 5 || bahuśo vihite tasminmayā rākṣasanāyakāḥ | akiraṃste mahīṃ yāge māṃsena rudhireṇa ca || 6 || vihite'nuṣṭhite || 6 || avadhūte tathābhūte tasminyāgakadambake | kṛtaśramo nirutsāhastasmāddeśādupāgataḥ || 7 || avadhūte vighnairniraste | yāgakadambake yajñasamūhe || 7 || na ca me krodhamutsraṣṭuṃ buddhirbhavati pārthiva | tathābhūtaṃ hi tatkarma na śāpastasya vidyate || 8 || nanu śāpenaiva te kuto na nirastāstatrāha - naceti || 8 || īdṛśī yajñadīkṣā sā mama tasminmahākratau | tvatprasādādavighnena prāpayeyaṃ mahāphalam || 9 ||
SK
ईदृशी क्रोधशापाद्ययोरया | प्रापयेयम् | स्वार्थे णिच | प्राप्नुयाम् || ९ || त्रातुर्महसि मामार्तं शरणार्थिनमागतम् | अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः || १० || सत्तमे साधुतमे | सत्तम् इति पाठे तु संबोधनम् | अभिभवस्तिरस्कारः अर्थात्सत्तमानाम् | ऐकपद्यं वा || १० || तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः | महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः || ११ || उत्तरत्र तमिति दर्शनादत्र य इत्यध्याहार्यम् | विशेषणानि विवक्षितार्थोप- taṃ putraṃ rājaśārdūla rāmaṃ satyaparākramam | kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dāturmahasi || 12 || satyaparākramamoghaparākramam | kākapakṣau karṇamūlaśikhe kṣatriyācārasiddhe || 12 || śakto hyeṣa mayā gupto divyena dvena tejasā | rākṣasā ye'pakartārasteṣāṃ mūrdhavinigrahe || 13 || nanvakṛtāstro bālo'yaṃ kathaṃ śaktastatrāha - śakta iti | gupto rakṣitaḥ | apakartāro yajñasya lokasyeti vā śeṣaḥ | mūrdhavinigrahe śiraśchede || 13 || śreyaścāsya kariṣyāmi bahurūpamanantakam | trayāṇāmapi lokānāṃ yena pūjyo bhaviṣyati || 14 || śreyo'stravidyāpradānarūpam | astrabhedādbahurūpaṃ prabhāvastvanantakama- न च ते राममासाद्य स्थातुं शक्ता निशाचराः | क्रुद्धं केसरिणम् दृष्ट्वा [वनेरिणे वनोद्भूते ईरिणाख्ये] वनेरण इवैणकाः || १५ || स्थातुम् | पुर इति शेषः | [वनेरिण] वनेरणे वनोद्भूते ईरणाख्ये तृणे | तस्य पेलवतया मृगत्राणाक्षमत्वात् | रणे इति वा छेदः || १५ || तेषां न चान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् | ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव || १६ || ननु मद्भृत्यैर्मया वा ते निग्राह्या इति राजाभिसंधिमालक्ष्याह - तेषां चेति | काकुत्स्थात्प्रकृताद्रामात् || १६ || वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे | करदूषणयोर्भृत्याः कृतान्ताः कुपिता इव || १७ || तत्कुतस्तत्राह - वीर्येति | उत्सिक्ता गर्विताः | न केवलं स्वबलेनैव किंतु स्वामिबलेनापीत्याह - खरेति || १७ ||
SK
रामस्य राजशार्दूल सहिष्यन्ते न सायकान् | अमारतगता धारा जलदस्येव पांसवः || १८ || तर्हि रामस्यापि ते कथं साध्यास्तत्राह - रामस्येति | अनारतगता अविरतनिर्गताः | यथा दृष्ट्यभिभवे क्षमा अपि पांसवो न वृष्ट्यभिभवे क्षमास्तद्वदित्यर्थः || १८ || न च पुत्रकृत्ऽम् स्नेहं कर्तुमर्हसि पार्थिव | न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् || १९ || भवतु तथा तथापि पुत्रो दुस्त्यजः पितृभिरित्याशङ्क्याह - नचेति | मम पुत्रोऽयमिति प्राकृतं स्नेहमनुरागम् | तत्कुतस्तत्राह - न तदिति | तथाहि | शिबिदधिच्यलर्कप्रभृतयः स्वदेहचक्षुराद्यपि ददुरिति भावः || १९ || हन्त नूनं विजानामि हतांस्तान्विद्धि राक्षसान् | नह्यस्मदादयह् प्राज्ञाः संदिग्धे संप्रवृत्तयः || २० || नात्रापायशङ्कापि किन्तु विजयाभ्युदय एवेत्याह - हन्तेति | नूनमिति निश्चये | विजानामि तपसेति शेषः | त्वमपि विद्धि | मद्वचसेति शेषः | तदेव द्रढयति - नहीति || २० || अहं वेद्मि महात्मानं रामं राजीवलोचनम् | वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः || २१ || महान्तं जीवोपाध्यपरिच्छिन्नमात्मानम् | ईश्वरमित्यर्थः | प्रभावतो वा महात्मानम् | वसिष्ठश्च वेत्तिति विपरिणामेनानुषङ्गः | एवमुत्तरत्रापि | दीर्घदर्शिनो योगसिद्ध्या व्यवहितविप्रकृस्टदर्शनशीलाः || २१ || यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् | तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि || २२ || धर्मो महत्त्वं यशश्च रक्ष्यमिति मनसि ते स्थितं यदि तत्तर्हि | समभिप्रेतं प्रियतममित्यात्मजविशेषणं सम्यगभिप्रेतमध्यवसितं यथा भवतीति क्रियाविशेषणं वा || २२ || दशरात्रश्च मे यज्ञो अस्मिन्रामेण राक्षसाः | हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः || २३ || दशरात्रो दशाहोरात्रसाध्यः || २३ || अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः | वसिष्ठप्रमुखाह् सर्वे तेन रामं विसर्जय || २४ ||
SK
अत्रास्मिन्नर्थे तव मन्त्रिणः सर्वे वसिष्ठप्रमुखा अपीति संबन्धः | तेन तेषामनुज्ञादानेन || २४ || नात्येति कालः कालज्ञ यथायं मम राघव | तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः || २५ || कालो यज्ञाङ्गभूतो वसन्तादिर्यथा नात्येतीति संबन्धः || २५ || कार्यमण्वपि काले तु कृतमेत्युपकारताम् | महदप्युपकारोऽपि रिक्ततामेत्यकालतः || २६ || अभिलषितसाधनानुग्रह उपकारस्तद्भावम् | महद्बहुवित्तव्ययायास- prītiriktatāmetītyarthaḥ || 26 || ityevamuktvā dharmātmā dharmārthasahitaṃ vacaḥ | virarāma mahātejā viśvāmitro munīśvaraḥ || 27 || munivākyamupasaṃharati - ityevamiti || 27 || śrutvāvaco munivarasya mahānubhāva- stūṣṇīmatiṣṭhadupapannapadaṃ sa vaktum | no yuktiyuktakathanena vinaiti toṣaṃ dhīmānapūritamano'bhimataśca lokaḥ || 28 || upapannāni yuktiyuktāni padāni prasiddhāni vacanārhavastūni vā yasminkarmaṇi tattathā | nanu śakyamucyatāṃ kimupapatticintayeti tatrāha - dhīmāniti | loko manorathapūrtyāpi tuṣyati dhīmāṃstu tatpūrtāvapi yuktiyuktakathanena vinā na tuṣyatīti yuktopapatticinteti bhāvaḥ || 28 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye vairāgyaprakaraṇe viśvāmitravākyaṃ nāma saptamaḥ sargaḥ || 7 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe vairāgyaprakaraṇe viśvāmitravākyaṃ nām saptamaḥ sargaḥ || 7 || aṣṭamaḥ sargaḥ 8 vālmīkiruvāca | tacchrutvā rājaśārdūlo viśvāmitrasya bhāṣitam | muhūrtamāsīnniśceṣṭaḥ sadainyaṃ cedamabravīt || 1 || snehādrājño'tra rāmasya yudhāyogyatvavarṇanam | rāvaṇādibalaṃ jñātvā viṣādaścopavarṇyate || 1 || upapannatarottarālābhānniśceṣṭaḥ | pūrvoktarāmadaśānusaṃdhānātprati- वक्ष्यमाणम् || १ || ऊनषोडशवर्षोऽयं रामो राजीवलोचनः | न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः || २ || किंचिदूनः षोडशो वर्षोऽस्येति त्रिपदबहुर्वीहिः | युद्धयोग्यतैव नास्ति राक्षसैः सह तु सुतरामिति भावः || २ ||
SK
इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो | तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् || ३ || तर्हि किं व्यर्थः प्रयासो नेत्याह - इयमिति | अक्षौहिणीलक्षणं तु एकेभैकरथा त्र्यक्षा पत्तिः पञ्चपदातिका | पत्त्यङ्गैस्त्रिगुणैः सर्वैः यथोत्तरम् | सेनामुखं गुल्मगणौ वाहिनी पृतना चमुः | अनीकिनी दशाकिनिक्न्य(न्यो?)क्षौहिणी इत्यमरसिंहेनैव भारतादिप्रसिद्धं संगृह्योक्तम् || ३ || इमे हि शूरा विक्रान्ता भृत्या मन्त्रविशारदाः | [अत्र] अहं चैषां धनुस्पाणिर्गोप्ता समरमूर्धनि || ४ || अत्र युद्धे | गोप्ता रक्षकः || ४ || एभिः सहैव वीराणां महेन्द्रमहतामपि | ददामि युद्धं मत्तानां करिणामिव केसरी || ५ || महेन्द्रादपि महताम् || ५ || बालो रामस्त्वनीकेषु न जानाति बलाबलम् | अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः || ६ || नन्वनेन रणावनिर्न दृष्टेत्येव वक्तव्ये अन्येति विशेषणवैयर्थ्यम् | एवं तर्हि पुरस्यान्तरन्तःपुरमित्यव्ययीभावः | पुरमध्ये खुरलीक्रीडार्थ- na śastraiḥ paramairyukto na ca yuddhaviśāradaḥ | navāstraiḥ śūrakoṭīnāṃ tajjñaḥ samarabhūmiṣu || 7 || dhṛtvā yaiḥ prahriyate tāni śastrāṇi | kṣiptvā yaiḥ prahriyate tānyastrāṇi | śūrakoṭīnāṃ samarabhūmiṣviti saṃbandhaḥ | tajjño yuddhajñaḥ | vaiśāradyaṃ dūre jñānamapyasya nāstīti bhāvaḥ || 7 || kevalaṃ puṣpakhaṇḍeṣu nagaropavaneṣu ca | udyānavanakuñjeṣu sadaiva pariśīlanam || 8 || pariśīlanam | asyeti śeṣaḥ | puṃliṅgapāṭhe tu parimitaṃ śīlanamasyeti bahuvrīhiḥ || 8 || vihartumeṣa jānāti saha rājakumārakaiḥ | kīrṇapuṣpopahārāsu svakāsvajirabhūmiṣu || 9 || kīrṇapuṣpāṇyevopahārāḥ pūjā yāsu | svakāsu svīyāsu | ajirabhūmiṣu catvarasthaleṣu || 9 || adya tvatitarāṃ brahmanmama bhāgyaviparyayāt | himeneva hi padmābhaḥ saṃpanno hariṇaḥ kṛśaḥ || 10 ||
SK
अतितरामित्यस्य पञ्चम्यन्तेन हरिणः कृश इत्याभ्यां च संबन्धः | हरिणः पण्डुरः | तत्र दृष्टान्तः | पद्मैः पद्मया वा आभातीति पद्माभस्तदाकारः | आतश्चोपसर्गे इति कः | सः | हिमेन तुषारेणेव || १० || नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनिम् | अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् || ११ || विहर्तुं संचरितुम् | क्रीडितुमिति तु न | अकर्मकत्वापत्तेः || ११ || सदारः सहभृत्योऽहं तत्कृते मुनिनायक | शरदीव पयोवाहो नूनं निःसारतां गतः || १२ || तत्कृते तन्निमितम् | निःसारतां निरुत्साहबलतां निःसुखतां वा || १२ || ईदृशोऽसौ सुतो बाल आधिनाऽथ वशीकृतः | कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः || १३ || ईदृश इति शरीरेण बाल इति वयसा, आधिना वशीकृत इति बुद्ध्यादिना च तस्याशक्रता प्रेषणानर्हता च दर्शिता | तत्रापि योद्धुं तदपि निशाचरैः सह सुतरामयुक्त इति भावः || १३ || अपि बालाङ्गनासङ्गादपि साधो सुधारसात् | राज्यादपि सुखायैव पुत्रस्नेहो महामते || १४ || ननु धर्मलिप्सोस्तव किं तद्विरोधिना पुत्रस्नेहेनेत्याशङ्क्याह - अपीति | उक्तसुखान्येव हि धर्मफलं तानि पुत्रसुखं नातिशेरत इति भावः || १४ || ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः | पुत्रस्नेहेन सन्तोऽपि कुर्वते तानसंशयम् || १५ || दुरन्गाश्चिरसाध्यास्तपःक्लेशास्तान् | सन्तो धार्मिका अपि || १५ || असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम् | न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु || १६ || सुखं त्यज्यत इति विपरिणामेनानुषङ्गः || १६ || राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः | रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा || १७ || इत्थं पूर्वोक्तप्रकारेण स्थितो रामः इत्थमीदृशी युक्तिरिति वा || १७ || वोप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे | जीवितुं जीविताकाङ्क्षी न रामं नेतुमर्हसि || १८ ||
SK
रामे नीते राक्षवधो न संभावितः प्रत्युत सपुत्रस्य ममैव वधस्तव्या संपादितः स्यादित्याह चतुर्भिः - विप्रयुक्त इति | तथा च यज्ञधर्मापेक्षया तव महानधर्मः स्यादिति भावः || १८ || नववर्षहस्राणि मम जातस्य कौशिक | दुःखेनोत्पादितास्त्वेते चत्वारः पुत्रका मया || १९ || ननु षष्टिवर्षसहस्राणि जातस्य मम कौशिक इति पूर्वरामायणे उक्तं कथं तद्विरुद्धत्रोच्यते | सत्यम् | अतो न यथाश्रुतोऽन्वयः किंतु नववर्ष- duḥkhasādhyenāśvamedhaputreṣṭyādinā catvāra utpāditā iti || 19 || pradhānabhūtasteṣveva rāmaḥ kamalalocanaḥ | taṃ vineha trayo'pyanye dhārayanti na jīvitam || 20 || teṣu rāma eva prathānabhūto yathā śarīreṣu prāṇaḥ | ataeva teṣa'm priyatamaḥ | kiṃ tatastatrāha - taṃ vineti || 20 || sa eva rāmo bhavatā nīyate rākṣasānprati | yadi tatputrahīnaṃ tvaṃ mṛtamevāśu viddhi mām || 21 || yasya nayane trayāṇāmanyeṣāmapi maraṇaṃ sa tādṛśorāma eva mṛtyurūpānrākṣasānprati nīyate bhavateti caturbhirapi hīnaṃ māṃ mṛtameva vidhītyarthaḥ || 21 || caturṇāmātmajānāṃ hi prītiratraiva me parā | jyeṣṭhaṃ dharmamayaṃ tasmānna rāmaṃ netumarhasi || 22 || caturṇāṃ maraṇāditi kiṃ vācyam ekasya rāmasya nayanamātreṇāpi svamṛtyuḥ saṃbhāvita ityabhipretyāha - caturṇāmiti | dharmamayaṃ dharmapracuram || 22 || niśācarabalaṃ hantuṃ mune yadi tavepsitam | caturaṅgasamāyuktaṃ mayā saha balaṃ naya || 23 || yadi rāmaṃ na nayāmi tadā kathaṃ kārasiddhistatrāha - niśācareti | hastyaśvarathapādātaiścaturaṅgaṃ balaṃ sainyam || 23 || kiṃvīryā rākṣasāste tu kasya putrāḥ kathaṃ ca te | kiyatpramāṇāḥ ke caiva iti varṇaya me sphuṭam || 24 || aparijñāya nāskandediti parabalaṃ jijñāsuḥ pṛcchati - kiṃvīryā iti | kathaṃ ca te vartanta iti śeṣaḥ | kiyatpramāṇāḥ saṃkhyāparimāṇena | ke caiva nāmataḥ || 24 ||
SK
कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् | मामकैर्बालकैर्ब्रह्मन्मया वा कूटयोधिनाम् || २५ || प्रकर्तव्यं प्रतिकर्तव्यम् | प्रहर्तव्यम् इति पाठे स्पष्टम् || २५ || सर्वं मे शंस भगवन्यथा तेषां महारणे | स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः || २६ || वीर्येणोत्सिक्ता ऊर्जिताः | हि प्रसिद्धाः || २६ || श्रूयते हि महावीर्यो रावणो नाम राक्षसः | साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः || २७ || तदेव स्फुटयति - श्रूयत इति || २७ || स चेत्तव मखे विघ्नं करोति किल दुर्मतिः | तत्संग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः || २८ || किलेति संभावने | स चेत् शंसेति संबन्धः | तत्तर्हि || २८ || काले काले पृथग्ब्रह्मन्भूरिवीर्यविभूतयः | भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः || २९ || तत्कुतस्तत्राह - काले इति | पृथगिति | कदाचित्केषुचिदेवेति व्यवस्थयेत्यर्थः | वीर्याणि विभूतयश्चेति द्वन्द्वगर्भकर्मधारयः || २९ || अद्यास्मिंस्तु वयं काले रावणादिषु शत्रुषु | न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः || ३० || किं ततस्तत्राह - अद्येति | अस्मिन्काले न समर्थास्तत्राप्यद्य सुतरामित्याशयः | नियतेर्दैवस्य | ईश्वरस्येति यावत् || ३० || तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके | मम चैवाल्पभाग्यस्य भवान्हि परदैवतम् || ३१ || अनुकम्प्यः पुत्रः पुत्रकस्तस्मिन् | अर्थिमनोरथसमर्थनासमर्थत्वादल्प- devadānavagandharvā yakṣāḥ patagapannagāḥ | na śaktā rāvaṇaṃ yoddhuṃ kiṃ punaḥ puruṣā yudhi || 32 || nanu kutastavedṛśamadharyaṃ tatrāha - deveti | puruṣā manuṣyāḥ || 32 || mahāvīryavatāṃ vīryamādatte yudhi rākṣasaḥ | tena sārdhaṃ na śaktāḥ sma saṃyuge tasya bālakaiḥ || 33 ||
SK
महतां पूज्यतमानां वीर्यवतामिन्द्रादीनामपि आदत्ते अपहरतीव | राक्षसो रावणः | संयुगे योद्धुमिति शेषः | येन सह वयं न शक्ताः स्म तस्य बालकैः किं शक्यमिति शेषः | अथवा तस्य बालकैरिन्द्रजित्प्रभृतिभिः सहापि न शक्ताः स्म इति पूर्वेण संबन्धः || ३३ || अयमन्यतमः कालः पेलवीकृतसज्जनः | राघवोऽपि गतो दैन्यं यतो वार्धकजर्जरः || ३४ || अशक्तौ हेत्वन्तरमाह - अयमिति | पेलवीकृता निर्बलीकृताः सज्जना येन सः | राघवः स्वयमेव वार्धकेन यतो जर्जरः शिथिलः | अथवा राघवो रामो वृद्धक एव वर्धकः स एव जर्जरः || ३४ || अथवा लवणं ब्रह्मन्यज्ञघ्नं तं मधोः सुतम् | कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम् || ३५ || अथवेति कल्पान्तरे | जज्ञघ्नं तवेति शेषः | कथयतु भवानिति शेषः | असुरप्रख्यं दैत्यसदृशं दैत्याद्राक्षस्यामुत्पन्नत्वात् | शैवशूलबलेन तस्याजय्यत्वान्मान्धातृमृत्युत्वाच्च नैवेत्यवधारणम् || ३५ || सुन्दोपसुन्दयोश्चैव पुत्रौ वैवस्वतोपमौ | यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम् || ३६ || अथवेत्यनुषज्यते | सुन्दोपसुन्दपुत्रौ मारीचसुबाहू || ३६ || अथ नेष्यसि चेद्ब्रह्मंस्तद्धतोऽस्म्यहमेव ते | अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः || ३७ || अदत्तमपि रामं तपोबलान्नेष्याम्येवेति चेत्तत्राह - अथेति | ते त्वया | तत्तर्हि उक्तकल्पे | कर्तुरेव शेषत्वविवक्षया षष्ठी | एवकारो राक्षसव्यावृत्त्यर्थः | अन्यथा अमृत्वा तु | शाश्वतं निश्चितम् || ३७ || इत्युक्त्वा मृदु वचनं रघूद्वहोऽसौ कल्लोले मुनिमतसंशये निमग्नः | नाज्ञासीत्क्षणमपि निश्चयं महात्मा प्रोद्वीचाविव जलधौ स मुह्यमानः || ३८ || असौ रघूद्वहो दशरथो मुनेरभिमते रामप्रेषणे राक्षसवधे च संशये कर्तव्यमथवा न कर्तव्यं सेत्स्यथवा न सेत्स्यतीत्यादिरूपे कल्लोले महोर्मिजाले निमग्न इव क्षणं सुखं निश्चयमपि नाज्ञासीत् | यतः स प्रोद्वीचौ जलधौ मुह्यमान इवासीदिति शेषः || ३८ ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दशरथवाक्यं नामाष्टमः सर्गः || ८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे दशरथवाक्यं नामाष्टमः सर्गः || ८ || नवमः सर्गः ९ वाल्मीकिरुवाच | तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम् | समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् || १ || विश्वामित्रस्य कोपोऽत्र तत्तपोस्त्रबलोक्तिभिः | वसिष्ठेन शनै राज्ञः समाधानं च वर्ण्यते || स्नेहेन पर्याकुले व्याकुले ईक्षणे नेत्रे यस्मिंस्तुल्यकालतया तत्तथाभूतं वचनं श्रुत्वेत्यर्थः || १ || करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमर्हसि | स भवान्केसरी भूत्वा मृगतामिव वाञ्छसि || २ || संश्रुत्य अङ्गीकृत्य | स प्रसिद्धो भावन्पूज्यः त्वमित्यध्याहार्यम् | अन्यथा मध्यमपुरुषद्वयानुपपत्तेः || २ || राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः | न कदाचन जायन्ते शीतांशोरुष्णरश्मयः || ३ || राघवाणां कुलस्यायं विपर्ययोऽनृतवादलक्षणोऽयुक्तः | तदेव व्यतिरेकन्यासेन समर्थयति - नेति || ३ || यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् | हीनप्रतिज्ञ काकुत्स्थ सुखी भव सबान्धवः || ४ || न क्षमो न समर्थः || ४ || वाल्मीकिरुवाच | तस्मिन्कोपपरीतेऽथ विश्वामित्रे महात्मनि | चचाल वसुध कृत्स्ना सुरांश्च भयमाविशत् || ५ || परीते व्याप्ते | महात्मनि तपोमाहात्म्यशालिनि | पत्युरपराधादपराधि- tapasā rāvaṇādihantāraṃ srakṣyati sa cāsmānapi jeṣyatīti surānbhayamāviśat | cādanyānapi || 5 || krodhābhibhūtaṃ vijñāya jaganmitraṃ mahāmunim | dhṛtimānsuvrato dhīmānvasiṣṭho vākyamabravīt || 6 || jaganmitraṃ viśvāmitram | viśvasya mitraṃ viśvāmitra miti [viśvasya ha vai mitraṃ viśvāmitra āsa] tannāmārthaprasiddheḥ | mitre carṣau iti pūrvapadasya dīrghaḥ | yadyapi vasiṣṭho'pi kopenaiva tatkopapratīkāre samarthastathāpi na cukrodha | yato'sau dhṛtyādimāniti bhāvaḥ || 6 || vasiṣṭha uvāca |
SK
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः | भवान्दशरथः श्रीमांस्त्रैलोक्यगुणभूषितः || ७ || त्रैलोक्येऽपि ये गुणवतां गुणाः प्रसिद्धास्तैः सर्वैर्भूषितः || ७ || धृतिमान्सुव्रतो भूत्वा न धर्मं हातुर्मर्हसि | त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः || ८ || प्रतिज्ञापालनं व्रतं तच्छोभनं यस्य तथाविध एतावन्तं कालं भूत्वेत्यर्थः | भवच्छब्दमध्यमपुरुषौ पूर्ववत् | धर्मेण यशसा च युत इति त्रिषु लोकेषु विख्यातः || ८ || स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि | मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि || ९ || स्वस्य स्वानां च धर्म प्रतिज्ञापालन. प्रतिपद्यस्व | त्रिष्वपि भुवनेष्वभि- kariṣyāmīti saṃśrutya tatte rājannakurvataḥ | iṣṭāpūrtaṃ harerddharmaṃ tasmādrāmaṃ visarjaya || 10 || tat haredityanvayaḥ || 10 || ikṣvākuvaṃśajāto'pi svayaṃ daśaratho'pi san | na pālayasi cedvākyaṃ ko'paraḥ pālayiṣyati || 11 || yadvṛttāḥ santi rājānastadvṛttāḥ santi hi prajāḥ iti nyāyātprajāmaryādā- पालयस्यनृतीकरोषि चेत् || ११ || युष्मदादिप्रणीतेन व्यवहारेण जन्तवः | मर्यादां न विमुञ्चन्ति तां न हातुं त्वमर्हसि || १२ || प्रणीतेन प्रवर्तितेन | जन्तवो जन्तुसदृशा अज्ञा अपि || १२ || गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा | कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः || १३ || पुरुषसिंहेन पुरुषश्रेष्ठेन विश्वामित्रेण | ज्वलनेनेति | इन्द्रनिलयेऽवस्थितममृतं परितः प्राकारभूतेनाग्निना रक्ष्यत इति प्रसिद्धम् | कृतास्त्रं शिक्षितास्त्रम् | शक्ष्यन्ति धर्षयितुमिति शेषः || १३ || एष विग्रहवान्धर्म एष वीर्यवतां वरः | एष बुद्ध्याऽधिको लोके तपसां च परायणम् || १४ || उक्तार्थोपपत्तये विश्वामित्रप्रभावं प्रपञ्चयति - एष इति | परं अयनं स्थानम् || १४ || एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये स्चराचरे | नैतदन्यः पुमान्वेत्ति न च वेत्स्यति कश्चन || १५ ||
SK
सचराचरे प्रसिद्धमिति शेषः सचराचरे अन्यो न वेत्तित्युत्तरान्वयि वा || १५ || न देवा नर्षयः केचिन्नासुरा न च राक्षसाः | न नागा यक्षगन्धर्वाः समेताः सदृशा मुनेः || १६ || न सदृशाः प्रभावेणेति शेषः | नन्विदं कथं संगच्छतां भृग्विङ्गिरोऽगस्त्यप्रभृतीनां महर्षीणां ब्रह्मादीनां देवानां च प्रत्येकमपि न्यूनप्रभावत्वानुपपत्तेरिति चेदेवं तर्हि तत्त्वदृशाऽस्य ब्रह्मभावमन्येषामाभिमानिकं परिच्छिन्नभावमभिप्रेत्येदमुच्यत इत्यदोषः | नच ब्रमभावेनापि तेषामेतत्सादृश्यम् | तत्र भेदाभावेन तद्घटितस्य तस्यायोगात् | तथाच श्रुतिः - तस्य ह न देवाश्च नाभूत्या ईशते आत्मा ह्येषां स भवति इति || १६ || अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् | कौशिकाय पुरा दत्तं यदा राज्यं समन्वगात् || १७ || दृशाश्वेन जनितमिति शेषः | दत्तं तपसा तोषितेन रुद्रेणेति शेषः | प्रसिद्धमिदं पूर्वरामायणे || १७ || ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः | एनमन्वचरन्वीरा दीप्तिमन्तो महौजसः || १८ || ते अस्त्रदेवाः | प्रजापतिसुतो रुद्रस्तदुपमाः संहारे | वीर विक्रान्ताः | ओजः शत्रुनिर्जयसामर्थ्यम् | एनं विश्वामित्रं तपःप्रभावेण वशीकृतत्वादन्वचरन्ननुचरवृत्सेवन्ते | भूतकालो न विवक्षितः || १८ || जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे | तयोस्तु यान्यपत्यानि शतं परमदुर्जयम् || १९ || तेषु प्रधानानाह - जयेत्यादिना | दाक्षायण्यौ दक्षकन्ये || १९ || पञ्चाशतं सुताञ्जज्ञे जया लब्धवरा पुरा | वधार्थं सुरसैन्यानां ते क्षमाः कामचारिणः || २० || तान्विभज्य दर्शयति - पञ्चाशतमिति | लब्धवरा पतिशुश्रूषयेति शेषः | सुरसैन्यानामिति कर्तरि षष्ठी | अतो योग्यतया असुरवध एव लभ्यते || २० || सुप्रभा जनयामास पुत्रान्पञ्चाशतं परान् | संघषान्नाम दुर्धर्षान्दुराकारान्बलीयसः || २१ || संघर्षान्परास्त्राभिभवनशीलत्वात्तदाख्यान् | दुराकारांस्तीक्षा-कारान् || २१ ||
SK
एवंवीर्यो महातेजा विश्वामित्रो जगन्मुनिः | न रामगमने बुद्धिं विक्ल्वां कर्तुमर्हसि || २२ || जगत्सर्वं मनुते योगबलात्साक्षात्पश्यति तच्छीलो जगन्मुनिः | अतएव रामविजयमपि भाविनं दृष्टैव समागत इति न बुद्धिवैक्लव्यं युक्तमिति भावः || २२ || अस्मिन्महासत्त्वतमे मुनीन्द्रे स्थिते समीपे पुरुषस्य साधो | प्राप्तेऽपि मृत्यावमरत्वमेति मा दीनतां गच्छ यथा विमूढः || २३ || तदेव द्रढयन्नाह - अस्मिन्निति | सत्त्वं प्रभावः | पुरुषस्य साधारण-स्यापि | अमरत्वमेति अर्थात्स पुरुषः | तथाच साधारणपुरुषस्याप्येतत्सं-निधानमात्रेणापि यत्र प्राप्तादपि मृत्योर्न भयं प्रत्युतामरत्वप्राप्ति-स्तत्र महाप्रभावस्य रामस्य गोप्तरि तस्मिन्क्षुद्रेभ्यो राक्षसेभ्यो भयम-त्यन्तमसंभावितमिति मूढवन्मा विषीदेत्यर्थः || २३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वसिष्ठसमाश्वासनं नाम नवमः सर्गः || ९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे वसिष्ठसमाश्वासनं नाम् नवमः सर्गः || ९ || दशमः सर्गः १० वाल्मीकिरुवाच | तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् | संप्रहृष्टमना राममाजुहाव सलक्ष्मणम् || १ || राज्ञात्र प्रहितो गत्वा याष्टीको रामचेष्टितम् | विज्ञाय पुनरागत्य राज्ञे कृत्स्नं न्यवेदयत् || तथेति | उक्तिफलस्य संप्रहर्षस्य परगामित्वाद्ब्रूञः परस्मैपदम् | हेतौ शता || १ || दशरथ उवाच | प्रतिहारं महाबाहुं रामं सत्यपराक्रमम् | सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय || २ || अविघ्नेन पुण्यार्थं निर्विघ्नं मुनेर्यज्ञसिद्ध्यर्थं | अथवा सत्यवचन- mā bhūdityabhipretyaivamuktam | śīghrapadenāpyetadeva dyotyate || 2 || iti rājñā visṛṣṭo'sau gatvāntaḥpuramandiram | muhūrtamātreṇāgatya samuvāca mahīpatim || 3 || visṛṣṭaḥ preṣitaḥ | antaḥpurāntasthaṃ rāmamandiram || 3 || deva dordalitāśeṣaripo rāmaḥ svamandire | vimanāḥ saṃsthito rātrau ṣaṭpadaḥ kamale yathā || 4 ||
SK
विमनाः विषण्णमनाः || ४ || आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः | न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः || ५ || क्षणो घटिकायाः पृष्ठो भागः | एकत इति वक्तीत्यनेनापि संबध्यते | उक्तिर्वाङ्मात्रेण न मनःपूर्वकं मुख्यं तु ध्यायत्येवेति भाअः || ५ || इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् | सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् || ६ || तं प्रतीहारेण सह रामसमाचारनिवेदनायागतं रामानुचरं जनमनाश्वस्ता न सम्यङिवेदयेयुरित्याश्वासयामास || ६ || कथं कीदृग्विधो राम इति पृष्टो महीभृता | रामभृत्यजनः खिन्नो वाक्यमाह महीपतिम् || ७ || एकः क्रियायाः प्रश्नः अपरः कार्श्यविषादाद्यवस्थानाम् || ७ || देयहष्टिमिमां देव धारयन्त इमे वयम् | खिन्नाः खेदे परिम्लानतनौ रामे सुते तव || ८ || यष्टिमिव कृश्ऽम् देहं देहयष्टिम् | खिन्ना दुःखिताः | तछाच यद्दृष्टॄणामप्येतादृशे खेदकार्श्ये तस्य ते किं वाच्ये इति भावः || ८ || रामो राजीवपत्राक्षो यतःप्रभृति चागतः | सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः || ९ || राजीवं कमलम् | यतो यस्माद्दिनात्प्रभृत्यागतस्तिष्ठतीति पदमध्या- āgatastataḥ-prabhṛtītyetāvataiva siddheḥ | sthitestu prātyahikatvāddaurmanasyavadastyevādhi- यत्नप्रार्थनयास्माकं निजव्यापारमाह्निकम् | सोऽयमाम्लानवदनः [सायमम्लान्] करोति न करोति वा || १० || आह्निकं निजव्यापारं भोजनादि | न करोति वेत्यनास्थाद्योतनाय || १० || स्नानदेवार्चनादानभोजनादिषु दुर्मनाः | प्रार्थितोऽपि हे नातृप्तेरश्नात्यशनमीश्वरः || ११ || देवार्चना च दानं चेति वा देवार्चनं च आदानं चेति वा विग्रहः || ११ || लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे | नच क्रीडति लीलाभिर्धाराभिरिव चातकः || १२ || नारीभिः सहेति शेषः | दोला प्रेङ्खोलिका | अङ्गणे क्रीडाचत्वरे | यथा वर्षधाराभिः सह ता उपभुञ्जानश्चातकः क्रीडति तथा न क्रीडति चेत्यन्वयः || १२ ||
SK
माणिक्यमुकुलप्रोता केयूरकटकावलिः | नानन्दयति तं राजन्द्यौः पातविषयं यथा || १३ || मुकुलाकारैर्माणिक्यैः प्रोता खचिता | द्यौः स्वर्गः | पातविषयमासन्न- krīḍadvadhūvilokeṣu vahatkusumavāyuṣu | latāvalayageheṣu bhavatyativiṣādavān || 14 || krīḍantībhirvadhūbhirvilokyanta iti vā krīḍantīnāṃ vadhūnāṃ vividhaṃ lokanāni lokā yatreti vā padabhede | krīḍadvadhūnāṃ vilokā eveṣavo bāṇāsta iva vahantaḥ kusumavāyavo yatretyaikapadye vigrahaḥ | latānāṃ valayanaṃ veṣṭanaṃ valayastatsaṃbandhiṣu geheṣu | kuñjeṣvityarthaḥ || 14 || yaddravyamucitaṃ svādu peśalaṃ cittahāri ca | bāṣpapūrṇekṣaṇa iva tenaiva parikhidyate || 15 || ucitamupabhoge lokaśāstrāviruddham | peśalaṃ caturam | cittahāri manoharam || 15 || kimimā duḥkhadāyinyaḥ prasphūrantīḥ purāṅganāḥ | iti [nṛtyavilāseṣu] nṛttavilāseṣu kāminīḥ parinindati || 16 || prasphurantīrhāvabhāvalāvaṇyavilāsādibhiḥ śobhamānā nṛtyantīrvā dṛṣṭvā kiṃ yato duḥkhadāyinya iti nindatīti yojanā | prasphūranti iti pāṭha ṛjuḥ || 16 || bhojanaṃ śayanaṃ yānaṃ vilāsaṃ snānamāsanam | unmattaceṣṭita iva nābhinandatyaninditam || 17 || śayanamāsanamityadhikaraṇe lyuṭau anye karaṇe lyutaḥ | vilasanti yena yasminvā tam | aninditaṃ nirdoṣam | idaṃ sarvaviśeṣaṇam || 17 || kiṃ saṃpadā kiṃ vipadā kiṃ gehena kimiṅgitaiḥ | sarvamevāsadityuktvā [tyuktyā] tūṣṇīmeko'vatiṣṭhate || 18 || iṅgitairmanorathaiḥ | asat asāram || 18 || nodeti parihāseṣu na bhogeṣu nimajjati | na ca tiṣṭhati kāryeṣu maunamevāvalambate || 19 || udeti hṛṣyati | nimajjati sajjate | kāryeṣvārambheṣu na tiṣṭhatyāsthāṃ na karoti || 19 || vilolālakavallaryo helāvalitalocanāḥ | nānandayanti taṃ nāryo mṛgyo vanataruṃ yathā || 20 ||
SK
अलकेषु वल्लर्यः पुष्परत्नादिमञ्जर्यो विलोला यासां ताः | हेलाः शृङ्गारभावजाश्चेष्टाः | मृगीपक्षे अलका इव पुष्पमञ्जर्यः | हेलयेव चलितलोचनाश्चपलेक्षणाः || २० || एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च | रतिमायात्यरण्येषु विक्रीत इव जन्तुषु || २१ || विपिनेष्वरण्येषु | जन्तुषु जन्तुसदृशेषु पामरेषु | दैवाद्विक्रीतो मनुष्यो यथा एकान्तादिष्वेव रतिं बध्नाति तद्वत् || २१ || वस्त्रपानाशनादानपराङ्मुखतया तया | परिव्राड्धर्मिणं भूपं सोऽनुयाति तपस्विनम् || २२ || तया प्रसिद्धया | परिव्राजां ये धर्मा अपरिग्रहादयस्तद्वत्तं परिव्राजमेव अनुयाति अनुकरोति || २२ || एक एव वसन्देशे जनशून्ये जनेश्वर | न हसत्येकया बुद्ध्या न गायति न रोदिति || २३ || एकया मुख्यया || २३ || बद्धपद्मासनः शून्यमना वामकरस्थले | कपोलतलमाधाय केवलं परितिष्ठति || २४ || तर्हि तत्र किं करोति तत्राह - बद्धेति | शून्यं परमार्थालम्बनेन मनो यस्य सः परितिष्ठति | ध्यायन्नित्यर्थाल्लभ्यते || २४ || नाभिमानमुपादत्ते नच वाञ्छति राजताम् | नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु || २५ || उदयास्तमयावत्र प्रसादविषादौ | सुखदुःखानुवृत्तिष्विष्टानिष्ट- na vidmaḥ kimasau yāti kiṃ karoti kimīhate | kiṃ dhyāyati kimāyāti kathaṃ kimanudhāvati || 26 || īhate icchati | anudhāvatyanusarati || 26 || pratyaha. kṛśatāmeti pratyahaṃ yāti pāṇḍutām | virāgaṃ pratyahaṃ yāti śaradanta iva drumaḥ || 27 || virāgaṃ vairāgyam | drumapakṣe vaivarṇyaṃ rūpatāmiti yāvat || 27 || anuyātau tathaivaitau rājañchatrughnalakṣmaṇau | tādṛśāveva tasyaiva pratibimbāviva sthitau || 28 || anuyātau snehādanusṛtau | arthādrāmamiti gamyate | tādṛśāveva yādṛśo rāmaḥ || 28 || bhṛtyai rājabhirambābhiḥ saṃpṛṣṭo'pi punaḥ punaḥ | uktvā na kiṃcideveti tūṣṇīmāste nirīhitaḥ || 29 || na kiṃcidityuktestaiḥ parihartuṃ śakyaṃ kiṃcinnāstīti rāmāśayaḥ | nirīhitaḥ svābhiprāyavyañjakacesṭāśūnyaḥ || 29 ||
SK
आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः | इति पार्श्वगतं भव्यमनु᳚आस्ति सुहृज्जनम् || ३० || आपतनमापातो विषयेन्द्रियसंयोगः | मात्रपदात्परिणामकटुता द्योत्यते | भवतीति भव्यो विवेकी तं नतु सर्वम् || ३० || नानाविभवरम्यासु स्त्रीषु गोष्ठीगतासु च | पुरस्थितमिवास्नेहो नाशमेवानुपश्यति || ३१ || गोष्ठी विलासस्थानम् || ३१ || नीतमायुरनायासपदप्राप्तिविवर्जितैः | चेष्टितैरिति काकल्या भूयोभूयः प्रगायति || ३२ || प्राप्तिविवर्जितैह् पुरुषैः | चेष्टितैर्बहिःप्रवृत्तिभिः | नीतं वृथेति शेषः | प्राप्तिविवर्जितैश्चेष्टितैरिति सामानाधिकरण्यं वा | अस्मिन्कल्पे नीतं मयेति शेषः | काकल्या मधुरास्फुटया वाचा || ३२ || सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् | प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः || ३३ || येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः | शास्ति यश्चाज्ञया राज्ञः स सम्राट् | अन्यमना इति | सम्यक्स्वप्रकाशतया राजत इति सम्राट् परमात्मेत्यर्थान्तरे मनो यस्येत्यर्थः | तस्य चापरिज्ञान्मुनिस्तत्पर्यालो- na proktamākarṇayati īkṣate na purogatam | karotyavajñāṃ sarvatra susametyāpi vastuni || 34 || sarvatra vastuni susametya guṇataḥ phalataśca śobhanaṃ svānurūpaṃ tatprāpyāpi || 34 || apyākāśasarojinyā apyākāśamahāvane | itthametanmana iti vismayo'sya na jāyate || 35 || nanu guṇādyutkarṣādvismayayogye vastuni vismaya evocitaḥ kathaṃ tatrāvajñā tatrāha - apīti | yasminmanasi bāhyavastugocaro vismayaḥ syāttanmana eva ittham | īdṛśavismayāspadamityarthaḥ | katham | yata ākāśarūpe ākāśasthite vā mahāraṇye tādṛśakamalinyā sadṛśamiti śeṣaḥ | dvāvaiśabdāvasaṃbhāva-nādvayadyotakau | yathā ākāśe'raṇyamaraṇye ca kamalinyatyantamasaṃbhā-vitā tathā ātmani mano manasi ca vismaya iti niścayādasya bāhyavastuni vismayo na jāyata iti bhāvaḥ || 35 || kāntāmadhyagatasyāpi mano'sya madaneṣavaḥ | na bhedayanti durbhedyaṃ dhārā iva mahopalam || 36 ||
SK
न भेदयन्ति न भिन्दन्ति | प्रेषणाध्यारोपाण्णिच् | धारा जलधाराः || ३६ || आपदामेकमावासमभिवाञ्छसि किं धनम् | अनुशिष्येति सर्वस्वमर्थिने संप्रयच्छति || ३७ || आवासं निवासस्थानम् | अर्थिने याचकाय || ३७ || इयमापदियं संपदित्येवं कल्पनामयः | मनसोऽभ्युदितो मोह इति श्लोकान्प्रगायति || ३८ || कल्पनामयः कल्पनाप्रचुरः | मोहो भ्रमः || ३८ || हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् | न जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ || ३९ || आक्रन्दपरः | इष्टवियोगादिति शेषः | तथा चान्वयव्यतिरेकाभ्यां रागादिदुःखमिति पश्यन्नपीति भावः || ३९ || रघुकाननशालेन रामेण रिपुघातिना | भृशमित्थं स्थितेनैव वयं खेदमुपागताः || ४० || रघुपदेन रघुवंशो लक्ष्यते | शालो वृक्षविशेषः प्रसिद्धः | एवकारो हेत्वन्तरव्यावृत्तये || ४० || न विद्मः किं महाबाहो तस्य तादृशचेतसः | कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् || ४१ || किं कुर्मः शोकापनाअर्थमिति शेषः || ४१ || राजानमथवा विप्रमुपदेष्टारमग्रतः | हसत्यज्ञमिवाव्यग्रः सोऽवधीरयति प्रभो || ४२ || ननु नीतिज्ञैः संव्यवहारोपदेशेनास्य मोहोऽपनीयतां तत्राह - राजानमिति | उपदेष्टारं राजनीतिव्यवहारानिति शेषः | अवधीरयत्य- yadevedamidaṃ sphāraṃ jagannāma yadutthitam | naitadvastu nacaivāhamiti nirṇīya saṃsthitaḥ || 43 || yātīti yat gatvaram | naśvaramevetyarthaḥ | idamidaṃ bahuvidhaṃ bahirdṛṣṭigamyam | sphāraṃ vistīrṇam | vasatīti vastu sadaikarūpam | ahamiti buddhigamyaṃ ca naivaṃ vastu kiṃtvanyādṛśameveti nirṇīya tajjijñāsuḥ saṃsthitaḥ || 43 || nārau nātmani no mitre na rājye na ca mātari | na saṃpadā na vipadā taśāsthā na vibho bahiḥ || 44 || viṣaye pañca saptamyaḥ | viṣayasyaiva hetutvavivakṣayā dve tṛtīye | bahiḥ śabdena sāmānyoktasyaiva pūrvaḥ prapañcaḥ || 44 ||
SK
निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः | न मूढो न च मुक्तोऽसौ तेन तप्यामहे भृशम् || ४५ || स्वपराधीनविषयत्वाभ्यामास्थाशयोर्भेदः | विशेषाभावादेव निरीहो निरिच्छः बाह्यविषये चेत् अन्तर्हि दुःखहेत्वभावात्कुतोऽसौ दुःखी तत्राह- निरास्पद इति | यतोऽव्यमऽब्धात्मविश्रान्तिरित्यर्थः | न मूढो विवेकित्वात् | नच मुक्तो विश्रान्त्यनुदयात् || ४५ || किं धनेन किमम्बाभिः किं राज्येन किमीहया | इति निश्चयवानन्तः प्राणत्यागपरः स्थितः || ४६ || प्राणत्यागपर इति | रागादिदोषाणामेव जन्मबीजत्वात्तद्रहितस्य मम प्राणापगमादेव मुक्तिः सेत्स्यतीति तदाशय इति भावः || ४६ || भोगेऽप्यायुषि राज्येषु मित्रे पितरि मातरि | परमुद्वेगमायातश्चातकोऽवग्रहे यथा || ४७ || अवग्रहे वर्षप्रतिबन्धे || ४७ || इति तोके समायातां शाखाप्रसरशालिनीम् | आपत्तामलमुद्धर्तुं समुदेतु दयापरः || ४८ || तोके पुत्रे चिन्दाकार्श्यादिशाखानां प्रसरेण प्रतानेन शालिनीं विस्तीर्णां | आपत्तामापल्लताम् | आर्षत्वाल्लकारलोपः | यद्वा आपद्यत् इत्यापत् आपन्नस्तद्भावम् | अथवा आपत् तां इति च्छेदः | इति तोके आपदिति व्यवहितेन संबन्धः | द्वितीयान्तानि पूर्वाणि तामित्यस्य विशेषणानि | उद्धर्तुमुन्मूलयितुं समुदेतु सम्यगुद्युक्तोऽस्तु भवानिति शेषः || ४८ || तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् | संसारजालमाभोगि प्रभो प्रतिविषायते || ४९ || आभोगि कृत्रिमवेषवत् | वेषः कृत्रिम आभोगः | प्रतिविषायते प्रतिकूलविषवदाचरति || ४९ || ईदृशः स्यान्महासत्त्वः क इवास्मिन्महीतले | प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः || ५० || एवंभूतं तं यः प्रकृते व्यवहारे निवेशयितुं क्षमः स ईदृशो महासत्त्वो महाबलः क एव स्यात् | न कोऽपीत्यर्थः | एवेत्यनर्थको निपातः | अथवा त्वां विनेति शेषः | त्वमिव यो भवति स एव क्षमः स्यादिति भावः || ५० ||
SK
मनसि मोहमपास्य महामनाः सकलमार्तितमः किल साधुताम् | सफलतां नयतीह तमो हरन् दिनकरो भुवि भास्करतामिव || ५१ || आर्तिलक्षणानि तमांसि विवेकप्रतिरोधकानि यस्मात्तथाविधं सकलं मोहं [मोहशब्दस्य नपुंसकत्वं चिन्त्यम्] रामस्य मनसि अपास्य इहास्मिन् रामे विषये स्वीयां साधुतामुपदेशसमर्थतां यः सफलतां नयति स तादृशो महामनाः क एव स्यादिति पूर्वेण संबन्धः | तत्र दृष्टान्तः - nayati tadvat || 51 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye vairāgyaprakaraṇe rāghavaviṣādo nāma daśamaḥ sargaḥ || 10 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe vairāgyaprakaraṇe rāghavaviṣādo nām daśamaḥ sargaḥ || 10 || ekādaśaḥ sargaḥ 11 viśvāmitra uvāca | evaṃ cettanmahāprājñā bhavanto raghunandanam | ihānayantu tvaritā hariṇaṃ hariṇā iva || 1 || viśvāmitrājñayā rāmasyānītasya sabhāntare | rājñāśvāsanamādhyādibījapraśnaśca varṇyate || evamuktaprakāreṇa nirviṇṇo duḥkhito mohitaścettasminviṣaye mahāprājñāḥ parīkṣaṇakuśalā bhavantaḥ | hariṇaṃ yūthapatiṃ | hariṇāstadanuyāyino mṛgāḥ || 1 || eṣa moho raghupaternāpadbhyo na ca rāgataḥ | vivekavairāgyavato bodha eva mahodayaḥ || 2 || āpadbhyo rāgato vā yo jaḍībhāvaḥ sa eva mohaḥ | ayaṃ tu vivekādimato bodhaphalatvādbodha eveti mahodaya evetyarthaḥ || 2 || ihāyātu kṣaṇādrāma iha caiva vayaṃ kṣaṇāt | mohaṃ tasyāpaneṣyāmo māruto'drerghanaṃ yathā || 3 || kṣaṇaśabdau śīghramityarthe | ihaiva cetyanvayaḥ | dvitīya ihaśabda āgamanadeśa eva mohāpanayanadyotanārthaḥ | ghanaṃ megham || 3 || etasminmārjite yuktyā mohe sa raghunandanaḥ | viśrāntimeṣyati pade tasminvayamivottame || 4 || nanu mohe'panīte'pi tasya kā siddhistatrāha - etasminniti | tasminnupasthite tadviṣṇoḥ paramaṃ padam iti śrutiprasiddhe uttame pade svātmani || 4 ||
SK
सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् | पीनतां वरवर्णत्वं पीतामृत इवैष्यति || ५ || सत्यतामबाधितवस्तुताम् | मुदितां मुदितताम् | तलोपश्च्छान्दसः | परमानन्दरूपताम् | प्रज्ञां अपरिच्छिन्नज्ञानरूपताम् | मुदि आनन्दाविर्भावे सति तां प्रसिद्धां प्रज्ञामिति वा | पीतामृतपक्षे श्रुत्युक्तस्य धर्मफलस्य प्रत्यक्षीकरणाद्यथार्थतां स्वर्गसुखितां दैवज्ञानसंपन्नतां चेति क्रमादर्थः | पीनतां वरवर्णत्वं शरीरे || ५ || निजां च प्रकृतामेव व्यवहारपरम्पराम् | परिपूर्णमना मान्य आचरिष्यत्यखण्डितम् || ६ || ननु व्यवहारस्याविद्यकत्वप्रसिद्धेश्छत्रापाये छायापाय इव तदपायोऽपि स्यात् स त्वनिष्टः प्रजानां तत्राह - निजामिति | निजां स्ववर्णाश्रमोचिताम् | प्रकृतामुपक्रान्ताम् | यद्यपि परिपूर्णकामस्तथापि जीवता सर्वव्यवहारस्य दुस्त्यजत्वादवश्यमुपादेये व्यवहारे प्रकृतत्यागेऽन्योपादाने च हेत्वभावात्स्वचरितग्राहिजनानुग्राहकत्वाच्च निजामेव व्यवहारपरम्परामविच्छिन्नमाचरिष्यतीत्यर्थः || ६ || भविष्यति महासत्त्वो ज्ञातलोकपरावरः | सुखदुःखशाहीनः समलोष्टाश्मकाञ्चनः || ७ || ननु तामाचरंस्तत्रासज्जेत ततः पूर्ववत्सुखदुःखदशावानपि स्यान्नेत्याह - भविष्यतीति | सत्त्वं मननादिजं ज्ञानदार्ढ्यबलम् | परं कारणतत्त्वमवरं कार्यतत्त्वम् | लोके तदुभयं ज्ञातं येन | अथवा लोकानां प्राणिनां परं परमपुरुषार्थरूपमवरं सांसारिक- paramavyākṛtaṃ avaraṃ hiraṇyagarbhākhyaṃ ca paramārthato brahmaiva na pṛthagastīti jñātaṃ yena | ataevānāsaktau samaloṣṭāśmakāñcanaḥ sukhaduḥkhādihīnaścetyarthaḥ || 7 || ityukte munināthena rājā saṃpūrṇamānasaḥ | prāhiṇodrāmamānetuṃ bhūyo dūtaparamparām || 8 || bhūya ityukte vasiṣṭhavacanātprāk pratīhārādanye'pi dūtāḥ preṣitā eveti gamyate || 8 || etāvatātha kālena rāmo nijagṛhāsanāt | pituḥ sakāśamāgantumutthito'rka ivācalāt || 9 ||
SK
अथ प्रतीहारागमनानन्तरं निजगृहासनादुत्थितो राम एतावता मुनिसंवादपरिमितेन कालेन स्वपितुः स्थानं जगामेत्युत्तरेण संबन्दः || ९ || वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां च जगाम ह | तत्पुण्यं स्वपितुः स्थानं स्वर्गं सुरपतेरिव || १० || वसिष्ठविश्वामित्रादिमहर्षिजुष्टत्वात्पुण्यम् || १० || दूरादेव ददर्शासौ रामो दशरथं तदा | वृतं राजसमूहेन देवौघेनेव वासवम् || ११ || वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर्द्वयोः | सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन मालितम् || १२ || सेवितं प्रियहितमधुरोक्तिभिर्लालितम् | सर्वाञ्शास्त्रार्थांस्तन्वन्ति लोके विस्तारयन्तीति सर्वशास्त्रार्थततस्तथाविधाश्च ते [ज्ञाश्चेत्यस्याग्रे तेषां इना] ज्ञाश्च ये मन्त्रिणस्तेषां वृन्देन || १२ || चारुचामरहस्ताभिः कान्ताभिः समुपासितम् | ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् || १३ || ककुब्भिर्दिग्भिः || १३ || वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः | ददृशु राघवं दूरादुपायान्तं गुहोपमम् || १४ || उप समीपे आयान्तम् | गुहः कार्तिकेयः || १४ || सत्त्वावष्टब्धगर्भेण शैत्येनेव हिमाचलम् | श्रितं सकलसेव्येन गम्भीरेण स्फुटेन च || १५ || कीदृशं ददृशुस्तदाह - सत्त्वेत्यादिपञ्चभिः | शीतस्तापोपशमनेनाल्हाद-कस्तुषारश्च तद्भावः शैत्यं तेन हिमाचलमिव श्रितम् | शैत्यस्यैव सत्त्वेत्यादीनि चत्वारि श्लिष्टानि विशेषणानि | सत्त्वेन शान्तिविवेकहेतुना सत्त्वगुणेन प्राणिनिकायेन च व्याप्तान्तरेण | सकलैः पूर्णैः कला-सहितचन्त्रेण च सिवेतुं योग्येन | गम्भीरेणानवगाह्यान्तेन स्फुटेन चेति यथोचितं संबन्धः || १५ || सौम्यं समं शुभाकारं विनयोदारमानसम् | कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् || १६ || सौम्यं प्रियदर्शनम् | सममन्यूनानतिरिक्ताङ्गम् | कान्तं मनोहरम् | उपशान्तमनुग्रम् | परस्यार्थस्य पुरुषार्थस्य || १६ || समुद्यद्यौवनारम्भं वृद्धोपशमशोभनम् | अनुद्विग्नमनानन्दं पूर्णप्रायमनोरथम् || १७ ||
SK
सम्यगुद्यन्यौवनारम्भो यस्य तम् | वृद्धवदुपशमेन शोभनम् | अनुद्विग्नमविवेकापगमात् | अनानन्दमप्राप्तपरमानन्दम् || १७ || विचारितजगद्यात्रं पवित्रगुणगोचरम् | महासत्त्वैकलोभेन गुणैरिव समाश्रितम् || १८ || जगद्यात्रा संसारगतिः | पवित्राणां गुणानां पवित्रगुणानां पुरुषाणां वा गोचरं विषयम् | गुणैः सर्वैर्महासत्त्विकलोभेनैव सम्यगाश्रितम् || १८ || उदारमार्यमापूर्णमन्तःकरणकोटरम् | अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम् || १९ || अविक्षुभितया वृत्त्या स्थित्या सर्वसाधनसंपत्तावपि तत्त्वबोधविश्रान्त्य- darśayantaṃ sūcayantam | anuttamamiti rāmaviśeṣaṇaṃ vā || 19 || evaṅguṇagaṇākīrṇo dūrādeva raghūdvahaḥ | parimeyasmitāñchācchasvahārāmbarapallavaḥ || 20 || raghūdvahaḥ praṇanāmetyuttareṇānvayaḥ | ambarameva pallavo'mbarapallavaḥ parimeyau smitamivācchādacchau svīyau hārāmbarapallavau yasya yaḥ || 20 || praṇanāma calaccārucūḍāmaṇimarīcinā | śirasā vasudhākampaloladevācalaśriyā || 21 || cūḍāmaṇiḥ śiroratnam | devācalaḥ sumeruḥ || 21 || evaṃ munīndre bruvati pituḥ pādābhivandanam | kartumabhyājagāmātha rāmaḥ kamalalocanah || 22 || evaṃ sargādiślokasaptakoktaprakāreṇa munīndre viśvāmitre bruvati sati atha rāmaḥ pituḥ pādābhivandanaṃ kartumabhyājagāmeti saṃbandhaḥ || 22 || prathamaṃ pitaraṃ paścānmunī mānyaikamānitau | tato viprāṃstato bandhūṃstato gurugaṇānsuhṛt || 23 || munī vasiṣṭhaviśvāmitrau | mānyairapi mukhyatayā mānitau | suhṛt śobhanahṛdayo rāmaḥ || 23 || jagrāha ca tato dṛṣṭyā manāṅmūrdhnā tathā girā | rājalokena vihitāṃ tāṃ praṇāmaparamparām || 24 || manāṅnamreṇa mūrdhneti taduciteṣu vinayasūcanāya || 24 || vihitāśīrmunibhyāṃ tu rāmaḥ susamamānasaḥ | āsasāda pituḥ puṇyaṃ samīpaṃ surasundaraḥ || 25 || susamamānasaḥ āśīrarthalābhālābhayoḥ || 25 ||
SK
पादाभिवन्दनपरं तमथासौ महीपतिः | शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनःपुनः || २६ || शिरसि आघ्रायेति शेषः | अभ्यालिलिङ्ग अभिमुखमालिङ्गितवान् || २६ || शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा | आलिलिङ्ग घनस्नेहो राजहंसोऽम्बुजे यथा || २७ || यथा रामं तथैव | राजहंसोऽम्बुजे यथेति चुम्बने दृष्टान्तः || २७ || उत्सङ्गे पुत्र तिष्ठेति वदत्यथ महीपतौ | भूमौ परिजनास्तीर्णे स्ॐऽशुकेऽथ न्यविक्षत || २८ || उत्सङ्गे अङ्के | अंशुके वस्त्रे | न्यविक्षत उपाविशत् || २८ || राजोवाच | पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् | जडवज्जीर्णया बुद्ध्या खेदायात्मा न दीयताम् || २९ || जडवदविवेकिवत् | जीर्णया शिथिलया | खेदाय दैन्याय | आत्मा जीवः || २९ || वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता | पदमासाद्यते पुण्यं न मोहमनुधावता || ३० || वृद्धैः पित्रादिभिः | गुरुभिराचार्यैः | प्रजापालनधर्मसाधनत्वात्- tāvadevā''pado dūre tiṣṭhanti paripelavāḥ | yāvadeva na mohasya prasaraḥ putra dīyate || 31 || asannihitā dūre tiṣṭhanti nopasarpanti | sannihitāstu paripelavāḥ sarvato ladhīyasyastiṣṭhanti na kāryakṣamā ityarthaḥ | mohasya prasare tu tadviparītā bhavantītyarthaḥ || 31 || śrīvasiṣṭha uvāca | rājaputra mahābāho śūrastvaṃ vijitāstvayā | durucchedā durārambhā apyamī viṣayārayaḥ || 32 || tvameva śūro yatastvayā viṣayārayo vijitāḥ | prasiddhā arayo durucchedā eva na te svena duḥkhenārabhyante | viṣayārayastu svenaiva saṃpāditā suḥkhāntarapara- किमतज्ज्ञ इवाज्ञानां योग्ये व्यामोहसागरे | विनिमज्जसि कल्लोलबहुले जाड्यशालिनि || ३३ || एवंभूतोऽपि त्वमज्ञानां योग्ये व्यामोहसागरे अतज्ज्ञ इवानात्मज्ञ इव किं निमज्जसि | कल्लोला बृहत्तरङ्गा विक्षेपकाः | जाड्यं मौढ्यमावरणम् || ३३ || विश्वामित्र उवाच | चलन्निलोत्पलव्यूहसमलोचनलोलताम् | ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि || ३४ ||
SK
चलता नीलोत्पलसमूहेन समां लोचनयोर्लोलतां चञ्चलताम् | चेतो व्यग्रचित्तं तेन कृताम् | केन हेतुना विमुह्यसि भ्राम्यसि | तव भ्रान्तिहेतुः क इत्यर्थः || ३४ || किंनिष्ठाः के च ते केन कियन्तः कारणेन ते | आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः || ३५ || आधयो मानसव्यथा मनः परिलुम्पन्ति विषादयन्ति | कस्मिन्निष्ठा समाप्तिर्येषां ते | कस्मिन्कामे संपन्ने शामन्तीत्यर्थः | अथवा किमाश्रिताः के चेति तत्स्वरूपप्रश्नः | केनेति तन्निमित्तप्रश्नः | कियन्त इति तद्विभागप्रश्नः | कारणेनेति केनेत्यनेन संबध्यते | गेहं गृहं आखनन्तीत्याखवो मूषकाः || ३५ || मन्ये नानुचितानां त्वमाधीनां पदमुत्तमम् | आपत्सु चाऽप्रयोज्यं ते निहीना अपि चाधयः || ३६ || नन्वाधिहेत्वादयो जगति प्रसिद्धा एव ते कुतः पृच्छ्यन्ते तत्राह - मन्य इति | सत्यं प्रसिद्धाः त्वं तु तेषामनुचितानामुत्तममुचितं पदं स्थानं न भवसि | आपन्नो दरिद्रो वा तत्पदं स्यात् | ते तव च आपत्सु अप्रयोज्यं प्रतीकार्यं नास्ति | पितृप्रभावेणैव सर्वापदां निरस्तत्वात् | अपिच ते आधयो निहीनाः स्वत एव निरस्ताः | सर्वसौभाग्यसंपन्नतया पूर्णत्वादिति भावः || ३६ || यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ | सर्वमेव पुनर्येन भेत्स्यन्ते त्वां तु नाधयः || ३७ || अभिमतमनतिक्रम्य यथाभिमतम् | अभिमतार्थमप्रच्छाद्येत्यर्थः | अनघेति हेतुगर्भम् | सर्वमेवाभिमतं प्रप्स्यसीति संबन्धः | येनाभिमतलाभेन पुनराधयस्त्वां न भेत्सन्ते || ३७ || इत्युक्तमस्य सुमते रघुवंशकेतु- राकर्ण्य वाक्यमुचितार्थविलासगर्भम् | तत्याज खेदमभिगर्जति वारिवाहे बर्ही यथा त्वनुमिताभिमतार्थसिद्धिः || ३८ || सुमतेर्विश्वामित्रस्य इति उक्तमुचितानां स्वाभिलाषानुरूपाणामर्थानां विलासः प्रकाशो गर्भे तात्पर्ये यस्य तथाविधं वाक्यं निशम्य रघुवंशकेतुः श्रीमः अनुमिताभिमतार्थसिद्धिः सन् खेदं तत्याजेति संबन्धः | वारिवाहे मेघे | बहीं मयूरः || ३८ ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवसमाश्वासनं नामैकादशः सर्गः || ११ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे राघवसमाश्वासनं नामैकादशः सर्गः || ११ || द्वादशः सर्गः १२ वाल्मीकिरुवाच | इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः | उवाच वचनं चारु परिपूर्णार्थमन्थरम् || १ || भोगानां दुःखस्वरूपत्वं विषयादेरसत्यता | संपदामप्यनर्थत्वमित्याद्यत्रोपवर्ण्यते || समाश्वस्य सम्यगाश्वास. म्प्राप्य | परुपूर्णार्थगौरवादिव मन्थरं मन्दप्रवृत्तमतएव चारु || १ || श्रीराम उवाच | भगवन्भवता पृष्टो यथावदधुनाऽखिलम् | कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः || २ || को लङ्घयतीति | तथा च भवदाज्ञापरिपालनाय वदामि नतु घाष्ट्येंनेति भावः || २ || अहं तावदयं जातो निजेऽस्मिन्पितृसद्मनि | क्रेमण वृद्धिं संप्राप्तः प्राप्तविद्यश्च संस्थितः || ३ || इत्थं विनयोक्त्या मुनिं वशिकृत्य स्ववृत्तानुवादव्याजेन धर्मानुष्ठान-जन्यचित्तशुद्ध्या विवेकवैराग्याभ्यां विचारोदयं स्वस्य दर्शयति - अहं तावदित्यादिचतुर्भिः || ३ || ततः सदाचारपरो भूत्वाहं मुनिनायक | विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् || ४ || विहृतः संचरितवान् | गत्यर्थत्वात्कर्तरि क्तः || ४ || एतावताथ कालेन संसारास्थामिमां हरन् | समुद्भूतो मनसि मे विचारः सोऽयमीदृशः || ५ || ईदृशो वक्ष्यमाणलक्षणः || ५ || विवेकेन परीतात्मा तेनाहं तदनु स्वयम् | भोगनीरसया बुद्ध्या प्रविचारितवानिदम् || ६ || भोगेषु रसो रागस्तच्छून्यया || ६ || किंनामेदं बत सुखं येयं संसारसंततिः | जायते मृतये लोको म्रियते जननाय च || ७ || किंनाम सुखम् | न किंचिदित्यर्थः | संततिर्विस्तारः | असुखत्वमेवोप- vacanāditi bhāvaḥ || 7 || asthirāḥ sarva eveme sacarācaraceṣṭitāḥ | āpadāṃ patayaḥ pāpā bhāvā vibhavabhūmayaḥ || 8 ||
SK
नन्वस्तु तथा तथाप्यन्तराले विभवभूमिषु सुखमनुभूयत एवेति तत्राह - daivopapannasādhanāyattetyubhayavidhā [sādhanopapannetyubhaya] bhogapravṛttistallakṣaṇaceṣṭitasahitā api vibhavabhūmayo vaibhavasamayamātrasthitikā bhāvā viṣayāḥ srakcandanānnapānādayo na sukhadāḥ yato'sthirāḥ | alābhaviyogakālayorduḥkhadā ityarthaḥ | tavāpyuṃpabhogakāle tebhyaḥ sukhamāśaṅkyāha - āpadāṃ pataya iti | patayaḥ svāminaḥ | śreṣṭhā iti yāvat | rāgādidoṣopajananena paramāpatprāpakatvāttadrūpā evetyarthaḥ | aniṣiddhā evaṃ niṣiddhāstu pāpā api pāpajakatvāt | tathāca viṣasaṃpṛktānnasadṛśa-tvānna tadbhoge sukhamiti nāsti saṃsāre sukhamiti siddhamiti bhāvaḥ || 8 || ayaḥśalākāsadṛśāḥ parasparamasaṅginaḥ | śliṣyante kevalaṃ bhāvā manaḥkalpanayā svayā || 9 || yadi na te sukhadāstarhi kathaṃ sukhakārakatvena parasparaṃ saṃbadhyante tatrāha - aya iti | sarve'pi bhāvāḥ svato lohaśalākāḥ sūcyādaya iva parasparamasaṅginaḥ saṃbandhaśunyā eva paraṃtu anayā mamedaṃ bhogasādhanamanenetthamidaṃ kariṣyāmītyādimanaḥkalpanayā kevalaṃ kriyākārakādibhāvena śliṣyante saṃbandhyante | tathaivānvayavyatireka- मनः समायत्तमिदं जगदाभोगि दृश्यते | मनश्चासदिवाभाति केन [केन स्मः] स्म परिमोहिताः || १० || न केवलं भावानां संबन्धमात्रं मनोधीनं किंतु जन्मस्थिति- tarhi mana eva sukhasādhanamastu netyāha - mana iti | asacchunyamiva viveke ābhāti | tathāca na tato'pi sukhasiddhiriti vyametāvantaṃ kālaṃ kena sukhaṃ syāditi mohitāḥ smaḥ || 10 || asataiva vayaṃ kaṣṭaṃ vikṛṣṭā mūḍhabuddhayaḥ | mṛgatṛṣṇāmbhasā dūre vane mugdhamṛgā iva || 11 || ataḥ pariśeṣādbhrāntireveyamiti darśayati - asataiveti | saṃsāre saukhatatsādha-nayorasatvādevetyarthaḥ | kaṣṭaṃ yathā syāttathā vikṛṣṭā ākṛṣṭāḥ | dārṣṭāntike mṛgatṛṣṇāmbhaḥsadṛśyā sukhāśayeti gamyate | mugdhamṛgā mūḍhahariṇāḥ || 11 ||
SK
न केनचिच्च विक्रीता विक्रीता इव संस्थिताः | बत मूढा वयं सर्वे जानानां अपि शाम्बरम् || १२ || संस्थिताः [पारवश्यादित्यर्थः] परवशा इत्यर्थः | जाअनाना अभिज्ञंमन्या अपि वयं मूढा एव | शाम्बरं शम्बरसंबन्धि | मायेयमिति भावः || १२ || किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः | मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः || १३ || भोगा विषयसुखलवाः किंनाम | दृष्टनष्टस्वभावत्वाद्दुरन्तदुःख- vyarthameva baddhā iti bhāvanā bhrāntiryeṣāṃ te tathābhūtāḥ saṃsthitāḥ || 13 || ā jñātaṃ bahukālena vyarthameva vayaṃ vane | mohe nipatitā mugdhāḥ śvabhre mugdhā mṛgā iva || 14 || ā iti smaraṇābhilāpe | bahukālena jñātam | kiṃ tadāha - vyarthameva mohe nipatitā iti | vane śvabhre vanāntargatagarte || 14 || kiṃ me rājyena kiṃ bhigaiḥ ko'haṃ kimidamāgatam | yanmithyaivāstu tanmithyā kasya nāma kimāgatam || 15 || ko'ham idaṃ dṛśyajātaṃ kiṃsvarūpam kimarthaṃ cāgatam rājyena ca me kim bhogaiśca kim kimidaṃ sarvaṃ mithyaivota kiṃcitsatyamapi | tatra kiṃ dṛṣṭiḥ satyota [satyota asatyā] dṛśyam | tara yanmithyaia tadeva mithyāstu natu vaiparītyam | tasya mityātve kasya kimāgatam | na kāpi kṣatiriti bhāvaḥ || 15 || evaṃ vimṛśato brahmansarveṣveva tato mama | bhāveṣvaratirāyātā pathikasya maruṣviva || 16 || evaṃ kiṃnāmedamityādinavaślokoktaprakāreṇa vimṛśato vicārayataḥ | aratirvairasyam | maruṣu nirjalabhūmiṣu || 16 || tadetadbhagavanbrūhi kimidaṃ pariṇaśyati | kimidaṃ jāyate bhūyaḥ kimidaṃ parivardhate || 17 ||
SK
एवं स्वस्य विचारोत्पत्तिप्रकारमुपवर्ण्य प्रष्टव्यांश. म्दर्शयति - तदेतदित्यादिपञ्चभिः | तत्तस्माद्विमर्शे असारत्वात्तत्रादौ विनाशोत्पत्ति- mimidamityādinā | idaṃ satyatayā sarvānubhavapramāṇasiddhaṃ dṛśyaṃ pariṇaśyati sarvātmanā asadivāpadyate tatkiṃ sato'sattvavirodhāt yadyasadeveti kaścidbrūyāttarhi bhūyo jāyate sattvamāpadyate tadidaṃ kiṃ sattvāsattvabahirbhūtānvṛddhyādi-vikārāṃścedaṃ bhajate tadapi yadi pūrvāvasthaṃ naśyatyavasthāntara-vaccotpadyate tarhi pratyabhijñāvirodho vṛddhyādivyavahārānupapattiśca | yadi pūrvāvasthaṃ na naśyati tarhi yugapadubhayāvasthatvaprasaṅgaḥ avasthāntara- भिद्येरंस्तर्हि तासामभावत्वम् अभेदे च [अवस्थायिनि अवस्था चेति अनयोः पर्यायवृत्तिता स्यात्] स्थायिन्यवस्थावति पर्यायवृत्ति- praśnatrayasyottarārthamutpattisthityupaśamapraka-raṇāni | athavā idaṃ śarīraṃ kiṃ naśyati | punaḥ kiṃ jāyate kiṃ vardhate | na kaścidasya janmādinārtha ityarthaḥ || 17 || jarāmaraṇamāpacca jananaṃ saṃpadastathā | āvirbhāvatirobhāvairvivardhante [vivardhanti] punaḥ punaḥ || 18 || artho nāstītyetāvadeva na pratyutānarthaparamparāpyastītyāha - jareti | saṃpadāmapyanarthahetutvādanartheṣu gaṇanam || 18 || bhogaistaireva taireva tucchairvayamamī kila | paśya jarjaratāṃ nītā vātairiva giridrumāḥ || 19 || nanu bhogahetutvāddehasyārtho.pyastītyāśaṅkyāha - bhogairiti | taireva taireveti teṣāmapūrvatvābhāvātpiṣṭapeṣaṇavadvairasyadyotanāya | amī bhogalampaṭāḥ | jarjaratāṃ śaithilyam | tathāca bhogānāmapyanarthatvameveti bhāvaḥ || 19 || acetanā iva janāḥ pavanaiḥ prāṇanāmabhiḥ | dhvanantaḥ saṃsthitā vyarthaṃ yathā kīcakaveṇavaḥ || 20 || prajñāvatāmapyātyantikaduḥkhopaśamanopāyāsaṃpādane vṛthaiva sā prajñetyacetanaprāyāsta ityabhipretyāha - acetanā iti | vyarthaṃ puruṣārthopayogaṃ vinā | veṇavaḥ kīcakāste syurye svanantyaniloddhatāḥ || 20 ||
SK
शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया | जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना || २१ || हेतुना केन मुह्यसीति प्रश्नस्योत्तरमाह - शाम्यतीति || २१ || संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् | निजलोकभयादेव गलद्बाष्पं न रोदिमि || २२ || संसारदुःखैः पाषाण इव नीरन्ध्रं निश्छिद्रं निबिडपूरितं हृदयं यस्येत्यर्थः | निजलोकाः स्वजनास्तेऽपि मदर्थं [मारोदिषुरिति] रुद्युरिति भयादेव || २२ || शून्या मन्मुखवृत्तीस्ताः शुष्करोदननीरसाः | विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति || २३ || शुष्केणानश्रुणा रोदनेन नीरसाः प्रीतिशून्या अतएव स्वहेतुहर्षादि- kṛtrimasmitābhilāpādivṛttirmama viveka eva paśyatītyarthaḥ || 23 || bhṛśaṃ muhyāmi saṃsmṛtya bhāvābhāvamayīṃ sthitim | dāridryeṇeva subhago dūre saṃsāraceṣṭayā || 24 || bhāvānāṃ priyatamaviṣayāṇāmabhāvo vināśastatpracurām | athavā bhāvaḥ sarvaduḥkhopaśamanopalakṣitaparamānandabhāvastadabhāvo'jñānaṃ tadvikārabhūtāṃ sthitiṃ saṃsmṛtya vicārya saṃsāraceṣṭayā bhṛśaṃ muhyāmi | subhago dhanādisaṃpanno dūre arthātsaubhāgyātparato daivātprāptena dāridryeṇa pūrvadaśāṃ saṃsmṛtya yathā muhyati tadvat || 24 || mohayanti manovṛttiṃ khaṇḍayanti guṇāvalim | duḥkhajālaṃ prayacchanti vipralambhaparāḥ śriyaḥ || 25 || nanu śrībhireva tvadabhimato'rthaḥ setsyati śrīmatāṃ kiṃ nu durlabham iti pravādāttatrāha - mohayantīti | vipralambho vañcanam || 25 || cintānicayacakrāṇi nānandāya dhanāni me | saṃprasūtakalatrāṇi gṛhāṇyugrāpadāmiva || 26 || tadeva prapañcayati - cinteti | dhaninaścintādhārābhistilaśaḥ khaṇḍanena nicayāya rāśīkaraṇāya pravṛttāni cakrāṇi | ugrāpadāṃ dāridryaśatru- विविधदोषदशापरिचिन्तनैर्विततभङ्गुरकारणकल्पितैः | मम न निर्वृतिमेति मनो मुने निगडितस्य यथा वनदन्तिनः || २७ ||
SK
देहादिभावानां संततसंभावितभङ्गुरत्वहेतुसमर्थितैर्विविधानां दृष्टादृष्टदोषाणां दुर्दशानां च परिचिन्तनैर्हेतुभिर्मम मनो नोर्वृतिं सुखं नैति | दन्तिपक्षे विस्ताररहितगर्तपिधानभङ्गुरकाष्ठादि-दुर्दशानां च परिचिन्तनैरित्यर्थः || २७ || खलाः कालेकाले निशि निशितमोहैकमिहिका- गतालोके लोके विषयशतचौराः सुचतुराः | प्रवृताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणे रणे शक्तास्तेषां क इव विदुषः प्रोज्झ्य सुभटाः || २८ || अज्ञानलक्षणायां निशि लोके जने मोहोऽविचारस्तल्लक्षणाभिर्मिहिकाभिस्तु- sucaturā viṣayaśatacaurāḥ kālekāle sarvadā diśidiśi sarvadikṣu vivekalakṣaṇa- वर्तन्त इति शेषः | रणे युद्धे तेषां वधाय विदुषः प्रोज्झ्य तत्त्वज्ञानविहायान्ये के सुभटाः शक्ताः | न केऽपीत्यर्थः | इवकारस्तत्सदृशानामपि दौर्लभ्यद्योतनार्थः | विना तमोनाशं तद्वधासंभवादिति भावः || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे प्रथमपरितापो नाम द्वादशः सर्गः || १२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे प्रथमपरितापो नाम द्वादशः सर्गः || १२ || त्रयोदशः सर्गः १३ श्रीराम उवाच | इयमस्मिन्स्थितोदारा संसारे परिकल्पिता | श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा || १ || या प्रिया सर्वमूढानां या भोगानर्थदा सदा | दोषैर्बहुविधैः सा श्रीरासर्गान्तं विनिन्द्यते || इत्थं विषयाणामसारानर्थतां प्रतिपाद्य विषयसंपादनमूलश्रियोऽपि तथाविधतां प्रतिपादयितुमुपक्रमते - इयमित्यादिना | अस्मिन्संसारे स्थिता अनपगता सती बहुतरसुखहेतुत्वादुदारा उत्कृष्टेति परिकल्पिता | मूढजनैरिति शेषः | वस्तुतस्तु सापि परिमोहायैव नूनम् | यतो वधबन्धनरकादिक- parimohāyāprāptā viyuktā vā kadarthadeti vā kutsitānarthān dhanāni dadāti na vivekamiti vā kadarthadā || 1 || ullāsabahulānantakallolānalamākulān | jaḍānpravahati sphārānprāvṛṣīva taraṅgiṇī || 2 ||
SK
उल्लासैरुत्साहैर्बहुला अनन्ताः कल्लोला मनोरथपरम्परा येषां तान् स्फारान्बहून् जडान्मूर्खान् प्रवहति पारवश्यमापाद्याकर्षति | तरङ्गिणीपक्षे ऊर्ध्वं लासो नाट्यं तेन बहुलानुपचिताननन्तान्- cintāduhitaro bahvyo bhūridurlalitaidhitāḥ | cañcalāḥ prabhavantyasyāstaraṅgāḥ sarito yathā || 3 || asyāḥ śriyaścintālakṣaṇā duhitaraḥ putryaḥ prabhavanti | durlalitairduṣṭaceṣṭitairedhitā vardhitāḥ || 3 || eṣā hi padamekatra na nibadhnāti durbhagā | dagdhevāniyatācāramitaścetaśca dhāvati || 4 || yathā kāciddurbhagā mohādvahniṃ padā āskandya dagdhā satī ekatra padaṃ na nibadhnāti pādaṃ na sthāpayati kiṃtvaniyataceṣṭaṃ yathā syāttathā itaścetaśca dhāvati tathā śrīrapi padaṃ sthānaṃ aniyatācāraṃ śāstra- जनयन्ती परं दाहं [परिक्षीणाङ्गका सती] परामृष्टाङ्गिका सती | विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् || ५ || व्ययापहारादिना परामृष्टैकदेशा परं दाहं जनयन्ती श्रीमत इत्यर्थः | अन्तः मध्ये | अकाण्ड एवेत्यर्थः | विनाशं स्वस्याः स्वोपभोक्तुर्वा | दीपलेखापक्षे परामृष्टाङ्गिका स्पृष्टावयवा | विनाशस्य तमोनिष्ठत्वद्योतनाय कज्जलदृष्टान्तः || ५ || गुणागुणविचारेण विनैव किल पार्श्वगम् | राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते || ६ || दुरारुढा दुःखेन संपादितापि न गुणवतां धार्मिकाणामेवोप- [sakāmapuṇyavaśādyaṃ kacit] kaṃcitsaṃnihitamavalambate | yathā rājñāṃ prakṛtiḥ svabhāvaḥ | bahudhā mūḍhā rājāno na dhārmikairguṇavadbhiḥ saha snihyanti kiṃtu yenakenacitsaṃnihitena saheti prasiddham || 6 || karmaṇā [tenaiva] tenatenaiṣā vistāramanugacchati | doṣāśīviṣavegasya yatkṣīraṃ vistarāyate || 7 || yasya karmaṇaḥ kṣīraṃ phalaṃ dhanarājyalābhādilobhahiṃsānṛtādidoṣasarpa-vegānāṃ vistārāya bhavati tenatenaiva yuddhadyūtavāṇijyādikarmaṇaiṣā śrīrvistāramadhigacchati na yāgadānādinā | pratyuta teṣāṃ vyayahetutvādityarthaḥ || 7 ||
SK
तावच्छीतमृदुस्पर्शाः परे स्वे च जने [जनः] जनाः | वात्ययेव हिमं यावच्छ्रिया न परुषीकृताः [परुषीकृतः] || ८ || शीतमृदुस्पर्शपदेन दयादाक्षिण्यस्नेहाद्युपलक्ष्यते | वातसमूहो वात्या | परुषीकृता [कृतः इत्युभयत्रैकवचनं क्वचित्] दुःसहीकृताः || ८ || प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये | पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः || ९ || तदेव स्पष्टयति - प्राज्ञा इति | स्पष्टम् || ९ || न श्रीः सुखाय भगवन्दुःखायैव हि वर्धते | गुप्ता विनाशनं धत्ते मृतिं विषलता यथा || १० || गुप्ता रक्षिता विनाशनं विनाशसाधनं धत्ते संपादयति | मृतिं मरणम् || १० || श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः | समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः || ११ || ननु श्रीमन्तोऽपि धार्मिका यशस्विनश्च केचिद्दृश्यन्ते तत्राह - श्रीमानिति | स्पष्टम् || ११ || एषा हि विषमा दुःखभोगिनां गहना गुहा | घनमोहगजेन्द्राणां विन्ध्यशैलमहातटी || १२ || सुःखलक्षणानां भोगिनां सर्पाणाम् || १२ || सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका [कैरवं शुभ्रकमलम्] | सुदृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी || १३ || सत्कार्याणि पुण्यकर्माणि तल्लक्षणपद्मानां रजनी रात्रिः | संकोचहेतुरित्यर्थः | एवं दुःखकैरवाणां चन्द्रिका विकासहेतुः | सुदृष्टिर्दयादृष्टिः परमार्थदृष्टिर्वा तद्रूपदीपिकाया वात्या वातसमूहः | कल्लोलौघयुक्ता तरङ्गिणीव | अस्या अपि दीपप्रशमन- saṃbhramābhrādipadavī viṣādaviṣavardhinī | kedārikā vikalpānāṃ khedāyabhayabhoginī || 14 || saṃbhramo bhayaṃ bhrāntiśca tadrūpāṇāmabhrāṇāmādipadavī prathamamārgaḥ purovātādiḥ | kedārikā kṣetrabhaktirvikalpasasyānām | khedaḥ āyo lābho yasya tathāvidhasya bhayasya janane bhoginī sarpiṇī bhayabhāgavatī | khedāyeti pṛthakpadaṃ vā || 14 || himaṃ vairāgyavallināṃ vikārolūkayāminī | rāhudaṃṣṭrā vivekendoḥ saujanyāmbhojacandrikā || 15 || vikārāścittavikārāḥ kāmādayaḥ || 15 ||
SK
इन्द्रायुधवदालोलनानारागमनोहरा | लोला तडिदिवोत्पन्नध्वंसिनी च जडाश्रया || १६ || इन्द्रायुधं शक्रधनुस्तद्वत् | चन्द्रायुधमिति पाठेऽप्यर्धचन्द्रवद्व- mūrkhāḥ | ta eva prāyaḥ śrīmanto dṛśyate || 16 || cāpalāvajitāraṇyanakulī nakulīnajā | vipralambhanatātparyajitogramṛgatṛṣṇikā || 17 || cāpalenāvamatya jitā araṇyanakulyo yayā | nakulīnajā dauṣkuleyā | naśabdo'yaṃ natu nañ | vipralambhanatātparyaṃ pratāraṇānukūlyam | mṛgatṛṣṇāyā ugratā grīṣme prasiddhā || 17 || laharīvaikarūpeṇa padaṃ kṣaṇamakūrvatī | calā dīpaśikhevātidurjñeyagatigocarā || 18 || ekarūpeṇa kṣaṇamapi padaṃ sthānakāryamavasthānamakurvatī | sadā kṣayavṛddhisvabhāvatvāt | durjñeyā gatiratarkitadurdaśā gocaro yasyāḥ || 18 || siṃhīva vigrahavyagrakarīndrakulapothinī [pātinī] | khaḍgadhāreva śiśirā tīkṣṇatīkṣṇāśayāśrayā || 19 || vigravyagrā yuddhotsukajanāsta eva karīndrāḥ | svayaṃ ca tīkṣṇā tīkṣṇāśayānkrūrahṛdayānāśrayate ca | karmadhāraye pūrvatīkṣṇāpadasya puṃvadbhāvaḥ || 19 || nānayāpahṛtārthinyā durādhiparilīnayā | paśyāmyabhavyayā lakṣmyā kiṃcidduḥkhādṛte [dṛte yathā] sukham || 20 || apahṛtaiḥ parasvairarthavatyā apahṛtānvā mṛtyunā arthayate vāñchati tacchīlayā | durādhayaḥ parilīnāḥ pracchannāścoravadyasyām | āhitā- दूरेणोत्सारिताऽलक्ष्म्या पुनरेव तमादरात् | अहो बताश्लिष्यतीव निर्लज्जा दुर्जना सदा || २१ || तमिति परामर्शाद्यस्येति लभ्यते | तथाच यस्य पुरुषस्य अलक्ष्म्या सपत्न्येव स्वयं दूरेणोत्सारिता तमेव चिरं सपत्न्योपभुक्तं पुनरादरादाश्लिष्य- manoramā karṣati cittavṛttiṃ kadarthasādhyā kṣaṇabhaṅgurā ca | vyālāvalīgātravivṛttadehā śvabhrotthitā puṣpalateva lakṣmīḥ || 22 || kutsito'rthaḥ patanamaraṇādiryasmāditi kadarthaḥ sāhasaṃ tena sādhyā labhyā | vyālāvalīgātrairvivṛttadehā veṣṭitaśarīrā | śvabhre jīrṇakūpādigarte || 22 ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः || १३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः || १३ || चतुर्दशः सर्गः १४ श्रीराम उवाच | आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् | उन्मत्तमिव संत्यज्य यात्यकाण्डे शरीरकम् || १ || व्याधिरोगजराग्रस्तं कामादिकलुषीकृतम् | जीवितं यौवनं चायुरिह मूर्खस्य निन्द्यते || श्रीरिवायुरपि न सुखायेत्याह - आयुरित्यादिना | पल्लवस्य कोणः प्रान्तभागस्तस्याप्यग्रे लम्बमानोऽम्बुकणो हिमजलबिन्दुरिव भङ्गुरमस्थिरम् | उन्मत्तमिति प्रथमान्तमायुरुपमानं द्वितीयान्तं शरीरोपमानं वा | अकाण्डेऽनवसरे | कुत्सायामनुकम्पायां च कन् || १ || विषयाशीविषासङ्गपरिजर्जरचेतसाम् | अप्रौढात्मविवेकानामायुरायासकारणम् || २ || विषयलक्षणैः सर्पैरासङ्गेन सर्वतः शिथिलितचित्तानाम् | न विद्यते प्रौढ आत्मनि विवेको येषां पुरुषाणाम् || २ || ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे | भावाभावसमाश्वासमायुस्तेषां सुखायते || ३ || किं ब्रह्मविदामप्येवं नेत्याह - ये त्विति | वितते पदे अपरिच्छिन्ने वस्तुनि | भावाभावयोर्लाभालाभयोः सम आश्वासश्चित्तसमाधानं यस्य तत् || ३ || वयं परिमिताकारपरिनिष्ठितनिश्चयाः | संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः || ४ || परिमिताकारे देहादौ परिनिष्ठित एतावदेवात्मरूपमिति सिद्धो निश्चयो येषाम् | निर्वृताः सुखिताः || ४ || युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् | ग्रथनं च गरङ्गाणामास्था [मास्थायुषि न युज्यते] नायुषि युज्यते || ५ || आस्था विश्वासः || ५ || पेलवं शरदीवाभ्रमस्नेह इव दीपकः | तरङ्गक इवालोलं गतमेवोपलक्ष्यते || ६ || पेलवमल्पम् | अस्नेहो निस्तैलः | आयुरिति विपरिणामेन [व्यवहितं वा] व्यवहितेन वा संबध्यते || ६ || तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् | ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ || ७ ||
SK
हतस्थितौ अस्थिरे || ७ || अविश्रान्तमनाः शून्यमायुराततमीहते | दुःखायैव विमूढोऽन्तर्गर्भमश्वतरी यथा || ८ || आत्यन्तिकतृष्णोपरमो मनसो विश्रान्तिः | [न्यं सुखेन व्यर्थं] शून्यं व्यर्थमित्यर्थः | आततं विस्तीर्णम् | ईहते इच्छति | अश्वाद्गर्दभ्यामुत्पन्ना अश्वतरी | तस्या उदरविदारणेनैव गर्भनिर्गमनं प्रसिद्धम् || ८ || संसारसंसृतावस्यां फेनोऽस्मिन्सर्गसागरे | कायवल्ल्याम्भसो ब्रह्मञ्जीवितं मे न रोचते || ९ || अस्यां संसारसंसृतौ संसारसंभ्रमणे प्रसिद्धा कायवल्ली देहलता सर्गसागरे आम्भसो जलविकारभूतः फेन एव अत्यन्तास्थिरत्वात् | अतोऽस्मिन् जीवितं जीवनं मे न रोचत इत्यर्थः || ९ || प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते | पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते || १० || प्राप्यमवश्यं प्राप्तुं योग्यं परमपुरुषार्थरूपम् | निर्वृतेर्जीवन्मुक्तिसुखस्य || १० || तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः | स जीवति मनो यस्य मननेन न जीवति || ११ || मननेन मननफलेन तत्त्वबोधेन वासनाक्षयेण वा न जीवति तुच्छीभवति || ११ || जातास्त एव जगति जन्तवः साधुजीविताः | ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः || १२ || त एव साधुजीविताः प्रशस्यजीवना जाता इति संबन्धः | जरठाश्चिरजीविनोऽपि गर्दभवदप्रशस्यजीवनाः | अशुचिदेहात्मबुधेरिति भावः || १२ || भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः | अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः || १३ || भारो भार इव व्यर्थश्रमहेतुः | ज्ञानं च ज्ञानमपि यत्सर्वश्रम- rūpamāyurmano buddhirahaṃkārastathehitam | bhāro bhāradharasyeva sarvaṃ duḥkhāya durdhiyaḥ || 14 || īhitaṃ ceṣṭitam | bhāraśabdārthaṃ svayamevāha - bhāradharasyevetyādinā || 14 || aviśrāntamanāpūrṇamāpadāṃ paramāspadam | nīḍaṃ rogavihaṅgānāmāyurāyāsanaṃ dṛḍham || 15 || viśrāntiḥ sarvaśramanivṛttiḥ | āpūrtiḥ pūrṇakāmatā | āyāsanaṃ śramasādhanam || 15 ||
SK
प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् | आखुनेव जरच्छ्वभ्रं कालेन विनिहन्यते || १६ || प्रत्यहमित्यस्य खेदमुत्सृज्येत्यनेनैव निराकाङ्क्षीकरणादनारतमित्यस्य न वैयर्थ्यम् | विनिहन्यते आयुरित्यर्थः || १६ || शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः | रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः || १७ || विषवद्दाहप्रदानशीलैः | आपीयते आयुरिति शेषः | व्यालैः सर्पैः || १७ || प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवासिभिः | दुःखैरावृश्च्यते [राधृष्यते] क्रूरैर्घुणैरिव जरद्द्रुमः || १८ || प्रस्नुवानैः क्षरद्भिः पूरक्तमलादि | धुणपक्षे रजांसि | दुःखै रोगादिदुःखैः आसमन्ताद्वृश्च्यते च्छिद्यते | आघृष्यत इति पाठेऽप्ययमेवार्थः | घुणाः काष्ठकीटकाः || १८ || नूनं निगरणायाशु घनगर्धमनारतम् | आखुर्मार्जारकेणेव मरणेनावलोक्यते || १९ || निगरणं ग्रसनम् | घनगर्धं प्रचुराभिलाषं यथा स्यात्तथा || १९ || गन्धादिगुणगर्भिण्या शून्ययाऽशक्तिवेश्यया | अन्नं महाशनेनेव [जरसा] जरया परिजीर्यते || २० || जरया वेश्यया अशक्ति क्षीणबलं यथा स्यात्तथा परिजीर्यते आयुः पुरुषो वा | तत्र दृष्टान्तः | महाशनेन बह्वाशिनान्नमिवेति || २० || दिनैः कतिपयैरेव परिज्ञाय गतादरम् | दुर्जनः सुजनेनेव यौवनेनावमुच्यते || २१ || यौवनस्यादरः पुरुषार्थोपयोजनं तद्द्रहितं परिज्ञाय | गतादरमिति क्रियाविशेषणं वा | दुर्जन इति यावन्न परिज्ञायते तावदेव सुजनैराद्रियत इति प्रसिद्धम् || २१ || विनाशसुहृदा नित्यं जरामरणबन्धुना | रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते || २२ || किङ्गवरो विटश्रेष्ठः | रूपं सौन्दर्यमिव | अभिलष्यते आयुः पुरुषो वा || २२ || स्थिरतया सुखभासितया तया सततमुज्झितमुत्तमफल्गु च | जगति नास्ति तथा गुणवर्जितं मरणभाजनमायुरिदं यथा || २३ ||
SK
तया जीवन्मुक्तप्रसिद्ध्यया सुखभासितया स्थिरतया च सततमुज्झितं त्यक्तमुत्तमफल्गु अतितुच्छं गुणवर्जितं च यथेदमायुस्तथा जगत्यन्यन्नास्तीति संबन्धः || २३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे जीवितगर्हा नाम चतुर्दशः सर्गः || १४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे जीवितगर्हा नाम चतुर्दशः सर्गः || १४ || पञ्चदशः सर्गः १५ श्रीराम उवाच | मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते | मिथ्यामयेन भीतोऽस्मि दुरहंकारशत्रुणा || १ || सर्वानर्थसमारम्भमूलस्तम्भोऽत्र निन्द्यते | ममताव्रततेर्मूलमहंकारो विशेषतः || एवमहंकारस्यापि न सुखहेतुता प्रत्युत सर्वदोषाणामभिमानमूल- mohādajñānā-nnimittānmudhā vyarthamevāhaṃkāro'bhyutthito vyarthameva ca parito vardhate na tataḥ puruṣārtho'stītyarthaḥ | tasyopādānamapi moha eveti darśayati - mithyāmayeneti | āmayeneti vā cchedaḥ | ahaṃkārākhyena śatruṇā śātanaśīlena rogeṇeti tadarthaḥ || 1 || ahaṃkāravaśādeva doṣakośakadarthatām | dadāti dīnadīnānāṃ saṃsāro vividhākṛtiḥ || 2 || vividhāḥ sādhyasādhanaphalavṛttilakṣaṇā ākārā yasya sa tathāvidhaḥ saṃsāraḥ [kālamārabhya] anādikālādārabhya janmamaraṇanarakādyanantaduḥkhaparamparāmanubhūyāpi punaḥpunastaddhetūnsukhalavānāyāsasahasrairapi lipsamānatvāddīnebhyo'pi dīnānāṃ viṣayalaṃpaṭānāṃ [durvāsanādi] rāgadveṣadurvyasanādidoṣalakṣaṇeṣu kośagṛheṣu sadvyavahārānupa- अहंकारवशादापदहंकाराद्दुराधयः | अहंकारवशादीहा [नाहंकारात्परो रिपुः] त्वहंकारो ममामयः || ३ || तत्फलमेव दिक्प्रदर्शनेन प्रपञ्चयति - अहंकारवशादिति | आपत् शारीरदुःखम् | आधयो मानसदुःखानि | ईहा रागो दुश्चेष्टा वा | मम आमयो रोगः | मनोमय इति पाठेऽपि लुप्तैकदेशः मनस आमयो मनोविकार इति वार्थः || ३ ||
SK
तमहंकारमाश्रित्य परमं चिरवैरिणम् | न भुजे न पिबाम्यम्भः किमु भोगान्भुजे मुने || ४ || भुजे भुञ्जे | विकरणलोपश्छान्दसः | भजे इति वा पाठः || ४ || संसाररजनी दीर्घा माया मनसि मोहिनी | ततोऽहंकारदोषेण किरातेनेव वागुरा || ५ || संसारलक्षणतमिस्रायां दीर्घा आयता वागुरा मृगबन्धनी || ५ || यानि दुःखानि दीर्घाणि विषमाणि महान्ति च | अहंकारात्प्रसूतानि तान्यगात्खदिरा इव || ६ || विषमाणि दुरुत्तराणि | अगात्पर्वतात् | खदिरा वृक्षविशेषाः || ६ || शमेन्दुसैंहिकेयास्यं [सिंहिकेयास्यमिति; सिहिकेयो=राहुः; वृद्ध्यभावश्छान्दसः] गुणपद्महिमाशनिम् | साम्यमेघशरत्कालमहंकारं त्यजाम्यहम् || ७ || सैंहिकेयो राहुः | हिममशनिरिवेत्युपमितसमासः | साम्यं समदर्शिता स एव सर्वभूतेषु दयावर्षित्वान्मेघः || ७ || नाहं रामो न मे वाञ्छा भावेषु न च मे मनः | शान्त आसितुमिच्छामि स्वात्मनीव जिनो यथा || ८ || अहंकारत्यागे देहाभिमानममतादयः स्वयमेव शाम्यन्तीति दर्शयति - नाहमिति | शान्तो निर्वैरः | स्वात्मनीव आत्मौपम्येन सर्वभूतानि पश्यन्नित्यर्थः | जिनो बुद्धः | स यथा अहिंसापरस्तद्वत् | निन्द्येष्वपि गुणो ग्राह्यः इति न्यायेन जिनोदाहरणम् | जित इति वा पाठः || ८ || अहंकारवशाद्यद्यन्मया भुक्तं हुतं कृतम् | सर्वं तत्तदवस्त्वेव वस्त्वहंकाररिक्तता || ९ || अवस्तु तुच्छमसारं वा || ९ || अहमित्यस्ति चेद्ब्रह्मन्नहमापदि दुःखितः | नास्ति चेत्सुखितस्तस्मादनहंकारिता [वरा] वरम् || १० || अहंकारं परित्यज्य मुने शान्तमनस्तया | अवतिष्ठे गतोद्वेगो भोगौघो भङ्गुरास्पदः || ११ || उद्वेगानामशान्तमनोमूलत्वात्तच्छान्त्या गदोद्वेगः | ननु भोगसंपत्तिभिरेव कुतो न तथा स्यात्तत्राह - भोगौघ इति | भङ्गुरो देहेन्द्रियविषयाद्यधीनः | तथाच तत्तदेकैकभङ्गेऽद्वेगप्रसक्तिर्दुर्वारेति भावः || ११ || ब्रह्मन्यावदहंकारवारिदः परिजृम्भते | तावद्विकासमायाति तृष्णाकुटजमञ्जरी || १२ ||
SK
अहंकार एव [एवेति क्वचिन्नोपलभ्यते] विवेकज्योतिर्गणतिरोधायकत्वाद्वारिदः | परितो जृम्भते गात्राणि विस्तारयति || १२ || अहंकारघने शान्ते तृष्णा नवतडिल्लता | शान्तदीपशिखावृत्त्या क्वापि यात्यतिसत्वरम् || १३ || वृत्तिरत्र तुल्यशीलता || १३ || अहंकारमहाविन्ध्ये मनोमत्तमहागजः | विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः || १४ || स्तब्धत्वदुर्विनामत्वाभ्यां विन्ध्यसाम्यम् | विस्फूर्जति गर्जति | घनैरास्फोतैर्युद्धोत्साहैः घनानां निबिडशिलादीनामास्फोटन- iha dehamahāraṇye ghanāhaṃkārakesarī | yo'yamullasati sphārastenedaṃ jagadātatam || 15 || sphārastaistairgarvahetubhirupacitaḥ | jagadātataṃ sukṛtaduṣkṛtādibījopacayena vistāritam | sahīdamannaṃ dhiyādhiyā janayate karmabhiḥ iti śruteriti bhāvaḥ || 15 || tṛṣṇātantulavaprotā bahujanmaparamparā | ahaṃkārograkhiṅgena kaṇṭhe muktāvalī kṛtā || 16 || lava ekadeśaḥ | janmaparamparā dehaparamparā | khiṅgo viṭaḥ || 16 || putramitrakalatrāditantramantravivarjitam | prasāritamaneneha mune'haṃkāravairiṇā || 17 || putramitrādirūpaṃ tantramantravivarjitaṃ vaśīkaraṇonmādādisādhanamiti śeṣaḥ | laukikayauktikopāyastantram || 17 || pramārjite'hamityasminpade svayamapi drutam | pramārjitā bhavantyete sarva eva durādhayaḥ || 18 || pramārjite mūlocchedena niraste || 18 || ahamityambude śānte śanaiśca śamaśātinī | manogaganasaṃmohamihikā kvāpi gacchati || 19 || ahaṃkārocchedasya mandādhikāriṇāṃ cirasādhanābhyāsuprabodhasādhya- शमशातनी शान्तिनिकृन्तनी | मनोगगनस्था मोहमिहिका महाभ्रान्तिनीहा- nirahaṃkāravṛtterme maurkhyācchokena sīdataḥ | yatkiṃciducitaṃ brahmaṃstadākhyātumihārhasi || 20 || sarvāpadāṃ nilayamadhruvamantarastha- munmuktamuttamaguṇena na saṃśrayāmi | yatnādahaṃkṛtipadaṃ parito'tiduḥkhaṃ śeṣeṇa māṃ samanuśādhi mahānubhāva || 21 ||
SK
एवमहंकारं तत्प्रयुक्तानर्थं तदुच्छेदफलं चोपवर्ण्य स्वस्य तत्त्यागप्रयुक्तां श्रवणाधिकारसंपत्तिं वदन्नुपदेशं प्रार्थयते - सर्वापदामिति | अन्तरस्थं हृदयस्थम् | उत्तमगुणेन शान्त्यादिनोन्मुक्तम् | अहंकृतिरूपं पदं लक्ष्म लाञ्छनमित्यर्थः | पदं व्यवसितत्राण- śeṣeṇāvaśiṣṭena saṃpādyena saha māmanuśādhyupadiśa | ātmatattvamiti śeṣaḥ || 21 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye vairāgyaprakaraṇe ahaṃkārajugupsā nāma pañcadaśaḥ sargaḥ || 15 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe vairāgyaprakaraṇe ahaṃkārajugupsā nāma pañcadaśaḥ sargaḥ || 15 || ṣoḍaśaḥ sargaḥ 16 śrīrāma uvāca | doṣairjarjaratāṃ yāti satkāryādāryasevanāt | vātāntaḥpicchalavavaccetaścalati cañcalam || 1 || iha cittamanodoṣā vistareṇopapattibhiḥ | rāmeṇa samprakāśyante dṛṣṭāntaiścāpi bhūribhiḥ || 1 || ahaṃkāravaccitamanasorapi na sukhahetutā kiṃtu duḥkhahetutaivetyāha - doṣairityādinā | lyablope pañcamyau | mahatsevāṃ dvāramāhurvimukteḥ iti vacanātsadbhirmumukṣubhiravaśyaṃ kartavyamāryasevanaṃ vihāyetyarthaḥ | doṣaiḥ kāmādibhirjarjaratāṃ śaithilyaṃ puruṣārthasādhanāpaṭutvamiti yāvat | vātāntarvāyupravāhamadhye picchalavavadbarhāpravaccalati | yataścañcalam capalasvabhāvamityarthaḥ | manaso'pi prāṇavātādhīnaṃ calanamiti vakṣyati || 1 || itaścetaśca suvyagraṃ vyarthamevābhidhāvati | dūrāddūrataraṃ dīnaṃ grāme kauleyako yathā || 2 || tadeva sadṛṣṭāntaṃ darśayati - itaśceti | yuktāyuktavimarśamantareṇetyarthaḥ | suvyagramativyākulam | kvāpi svapūrtihetvalābhāddīnam | kauleyakaḥ sārameyaḥ || 2 || na prāpnoti kvacitkiṃcitprāptairapi mahādhanaiḥ | nāntaḥ saṃpūrṇatāmeti karaṇḍaka ivāmbubhiḥ || 3 || vaṃśavetrādiśalākāracito vastrādyādhānapātraviśeṣaḥ karaṇḍakaḥ || 3 || nityameva mune śūnyaṃ kadāśāvāgurāvṛtam | na mano nirvṛtiṃ yāti mṛgo yūthādiva cyutaḥ || 4 ||
SK
शून्यं स्वतो विषयतश्च | सजातीयानां तिरश्चां समूहो यूथः || ४ || तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् [दीर्घता] | परित्यज्य क्षणमपि हृदये याति न स्थितिम् || ५ || स्थूलावयवानां विभाग आलूनता | सूक्ष्माणां तु स [दीर्घता] शीर्णता | कर्मथारयात्तल् || ५ || मनो मननविक्षुब्धं दिशो दश विधावति | मन्दराहननोद्धूतं क्षीरार्णवपयो यथा || ६ || मननैर्विषयानुसंधानैर्विक्षुब्धं विविधक्षोभं प्राप्तम् || ६ || कल्लोलकलितावर्तं मायामकरमालितम् | न निरोद्धुं समर्थोऽस्मि मनोमयमहार्णवम् || ७ || कल्लोलसदृशैर्भोगलाभोत्साहैः कलितावर्तं संपादितमज्जनानुकूल- bhogadūrvāṅkurākāṅkṣī śvabhrapātamacintayan | manohariṇako brahmandūraṃ viparidhāvati || 8 || śvabhrapātaṃ narakagartapātam || 8 || na kadācana me cetaḥ svāmālūnaviśīrṇatām | tyajatyākulayā vṛttyā cañcalatvamivārṇavaḥ || 9 || ālūnaviśīrṇatā vyākhyātā || 9 || cetaścañcalayā vṛttyā cintānicayacañcuram | dhṛtiṃ badhnāti naikatra pañjare kesarī yathā || 10 || cañcuramaticapalam | carateryaṅantātpacādyaci yaṅo'ci ca iti yaṅluki caraphalośca ityabhyāsasya nuk utparasyātaḥ ityutvam | dhṛtiṃ dhairyam | svata eva capalasvabhāvaṃ cintānicayena cālamānaṃ tu sutarāmiti balānnirudhyamāna-mapi dhairyaṃ na badhnātītyarthaḥ || 10 || mano moharathārūḍhaṃ śarīrātsamatāsukham | haratyapahatodvegaṃ haṃsaḥ kṣīramivāmbhasaḥ || 11 || utkarṣāpakarṣayorupādhikalpitatvātparamārthataḥ sarvabhūteṣvātmana ekarūpatā | saiva tathā jīvanmuktairanubhūyamānā samatā sukhamityucyate | sā ca manaso moharathānārohaṇe nityasiddhatvādasminneva śarīre prāptāpi moharathārūḍhena manasā grastatvādasāradehamātrātmabhāvaḥ pariśiṣyata iti bhāvaḥ || 11 || analpakalpanātalpe vilīnāścittavṛttayaḥ | munīndra na prabudhyante tena tapye'hamākulaḥ || 12 ||
SK
चित्तस्य प्रत्यक्प्रवणवृत्तयो [प्रवृत्तय] बहुतरद्वैतविषयासक्तिकल्पना-लक्षणशय्यायां विलीनाः सुप्तप्रायाः प्रबोधकशास्त्राचार्योपदेश-मन्तरेण केवलस्वबुद्धिकृतविचारसहस्रेणापि न प्रबुध्यन्ते | तेन तदप्रबोधेनाहं तप्ये || १२ || क्रोडीकृतदृढग्रन्थितृष्णासूत्रे स्थितात्मना | विहगो जालकेनेव ब्रह्मन्बद्धोऽस्मि चेतसा || १३ || क्रोडीकृता अन्तर्निवेशिता अहमिदं ममेदमित्यन्योन्यतादात्म्यसंसर्गा- sthitātmaneti jālakaviśeṣaṇam | āmiṣatṛṣṇāsūtre sthitātmanā vyādhena kartrā jālakena karaṇeneti vārthaḥ || 13 || saṃtatāmarṣadhūmena cintājvālākulena ca | vahnineva tṛṇaṃ śuṣkaṃ mune dagdho'smi cetasā || 14 || saṃtato vistāritaḥ amarṣaḥ krodha eva dhūmo yasya | cintaiva jvālā tayā ākuleneti rūpakasaṃpāditadhūmādisaṃpattyā vahnisādṛśyameva vivakṣyate na vahnitvamiti na rūpakopamānavirodhaḥ | upamānaviśeṣaṇatvapakṣe na mṛṣyate sahyata ityamarṣo duḥsahastathāvidhena dhūmena | cintyate dagdhairiti cintā jvāleti vyākhyeyam | evamanyatrāpi || 14 || krūreṇa jaḍatāṃ yātastṛṣṇābhāryānugāminā | śavaṃ kauleyakeneva brahmanbhukto'smi cetasā || 15 || jaḍatāmajñatāṃ yātaḥ prāpto'hamiti śeṣaḥ | krūreṇa niṣṭhureṇa | tṛṣṇā bhāryevetyupamitasamāso rūpakaṃ vā | anyatra tṛṣṇāvatsadā'pūrṇodarī bhāryā śunī tadanugāminā kauleyakena śunā jaḍatāṃ bhāratāṃ prāptaṃ śavaṃ kuṇapa iveti saṃbandhaḥ || 15 || taraṅgataralāsphālavṛttinā jaḍarūpiṇā | taṭavṛkṣa ivaughena brahmannīto'smi cetasā || 16 || taraṅgavattaralā āsphālāḥ alabhyaviṣaye pratihanyamānā vṛttayo yasyeti cetaḥpakṣe | anyatra taraṅgāstaralā āsphālavṛttayo yasmiṃstena ḍalayora- अवान्तरनिपाताय शून्ये वा भ्रमणाय च | तृणं चण्डानिलेनेव [दूरं नीतोऽस्मि] दूरे नीतोऽस्मि चेतसा || १७ ||
SK
धर्मप्रवृत्त्या स्वर्गारोहे अकाण्डनिपाताय तदभावे सुखलेशशून्ये इहैव कीटपतङ्गादिजन्मभिर्भ्रमणाय | तथाच श्रुतिः एतमेवाध्वानं पुनर्निवर्तन्ते इति अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्य- upamānapakṣe spaṣṭam || 17 || saṃsārajaladherasmānnityamuttaraṇonmukhaḥ | setuneva payaḥpūro rodhito'smi kucetasā || 18 || saṃsārajaladheruttaraṇonmukho nirgamanodyuktaḥ | jaladhau hyasmāditi saptamīpāṭhe uttaraṇonmukho'haṃ saṃsārajaladhāveva nirudhya sthāpito'smītyarthaḥ | yathā setunā kṣudranadīpayaḥpūro rudhyate tadvat || 18 || pātālādgacchatā pṛthvīṃ pṛthvyāḥ pātālagāminā | kūpakāṣṭhaṃ kudāmneva veṣṭito'smi kucetasā || 19 || pṛthvīpātālaśabdābhyāṃ tatsadṛśāvūrdhvādhodeśau lakṣyete | rajjvā jalādibhārākarṣaṇāyaikato baddhabhāraṃ triyakkāṣṭhaprotavalayākāra- मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा | बालो वेतालकेनेव गृहीतोऽस्मि कुचेतसा || २० || बालबिभीषिकार्थं कल्पितवेतालको यथा बालबुद्धा स्फारतां प्राप्तस्तस्येव बाल्यापगमे विचारादसत्त्वमापद्यते तथाऽज्ञबुद्ध्या दुर्जयं मनो विवेके तु निःस्वरूपमेवेत्यर्थः || २० || वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः | वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः || २१ || दुःखेनापि ग्रतीतुमशक्यो मनोलक्षणे गृह्णातीति ग्रहः पिशाच उष्णतरः सदासन्तापकत्वात् | कष्टतरः क्रमः अतिक्रमणं वशीकार इति यावत् | वज्राद्धीरकादपि दृढो दुर्भेदः | अशनेरपि निष्ठुर इति वा || २१ || चेतः पतति कार्येषु विहगः सामिषेष्विव | क्षणेन विरतिं याति बालः क्रीडनकादिव || २२ || कार्येषु विषयेषु पतति झटित्येवासज्जते | विरतिं निवृत्तिम् | चिराभ्यस्तेभ्योऽपि सद्व्यापारेभ्य इति शेषः | यथा बालः कदाचिदपि प्राप्ताक्रीडनकान्निमित्ता- jaḍaprakṛtirālolo vitatāvartavṛttimān | mano'bdhirahitavyālo dūraṃ nayati tāt mām || 23 ||
SK
सर्वाणि विशेषणान्यब्धिमनसोस्तुल्यानि स्पष्टानि | अहिताः कामाद्यरयः षट् त एव व्यालाः सर्पा यस्मिन् || २३ || अप्यब्धिपानान्महतः सुमेरून्मूलनादपि | अपि वह्न्यशनात्साधो विषमश्चित्तनिग्रहः || २४ || विषमः कष्टतरः || २४ || चित्तं कारणमर्थानां तस्मिन्सति जगत्रयम् | तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः || २५ || चिकित्स्यं रोगवदवश्यमपनेयम् || २५ || चित्तादिमानि सुखदुःखशतानि नून- मभ्यागतान्यगवरादिव काननानि | तस्मिन्विवेकवशतस्तनुतां प्रयाते मन्ये मुने निपुणमेव गलन्ति तानि || २६ || उक्तमेव दृष्टान्तेन स्पष्टयति - चित्तादिति | नूनमिति वितर्के | अभ्यागतानि प्ररूढानि | अगवराद्गिरिश्रेष्ठाद्विन्ध्यादेः | तनुतां सूक्ष्मताम् | निर्वासनतया भर्जितबीजप्रायतामिति यावत् || २६ || सकलगुणजयाशा यत्र बद्धा महद्भि- स्तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् | विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं जडमलिनविलासां मेघलेखामिवेन्दुः || २७ || महद्भिर्मुमुक्षुभिर्यत्र यस्मिंश्चित्ते जिते सति सकलानां शान्तिदान्त्यादि- guṇā ānandalavā yasminniratiśayānande tasya jayaḥ prāptistasya vā | āśānibaddhetyarthaḥ | iha asminneva śarīre | iha cedavedīdatha satyamasti na cedihāvedīnmahatī vinaṣṭiḥ iti śruteḥ | abhyudyata udyukto'smi | vigataratitayā vairāgyasaṃpattyā antarmanasi jaḍānmūrkhānmalinānaśuddhāṃśca vilāsayatyutsāhayati śobhayati vā | jaḍo mohaheturmalinaḥ pāpaheturvilāso yasyā vā tām | meghalekhāpakṣe jalena malinā nīlā vilasatītyarthaḥ || 27 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye vairāgyaprakaraṇe vairāgyacittadaurātmyaṃ nāma ṣodaśaḥ sargaḥ || 16 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe vairāgyaprakaraṇe vairāgyacittadaurātmyaṃ nāma ṣodaśaḥ sargaḥ || 16 || saptadaśaḥ sargaḥ 17 śrīrāma uvāca | hārdāndhakāraśarvayā tṛṣṇayeha durantayā | sphuranti cetanākāśe [doṣāḥ kauśika] doṣakauśikapaṅktayaḥ || 1 ||
SK
सर्वपापौघजननी दैन्यकार्पण्यमृत्युदा | भ्रमयन्ती जगत्कृत्स्नं तृष्णैकात्र विनिन्द्यते || हार्दस्य परमप्रेमास्पदस्य आत्मतत्त्वस्य हृदयोद्भवस्य विवेकादेश्च तिरोधाने अन्धकारशर्वया तमिस्रया | दुरन्तया दुरुच्छेदया | इह चेतनाकाशे जीवे | रागादिदोषलक्षणाः कौशिकपङ्क्तय उलुकश्रेणयः || १ || अन्तर्दाहप्रदायिन्या समूढरसमार्दवः | पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया || २ || समूढे अपहृते रसमार्दवे स्नेहदये दाक्षिण्यविनयौ वा यस्य | शोषं नैष्ठुर्यम् | प्रसिद्धे वा रसमार्दवे पङ्कसाधारणे | अथवा | सम्यगूढे प्राप्ते रसमार्दवे येन तथाविधोऽहं संप्रति शोषं तच्छून्यतां नीत इत्यर्थः || २ || मम चित्तमहारण्ये व्यामोहतिमिराकुले | शून्ये ताण्डविनी जाता भृशमाशापिशाचिका || ३ || शून्ये विचारेण | अरण्यपक्षे जनैः || ३ || वचोरचितनीहारा काञ्चनोपवनोज्ज्वला | नूनं विकासमायाति चिन्ताचणकमञ्जरी || ४ || तत्तदार्तिविलापवचोभिर्विरचिताश्रुनीहारजलकणा | काञ्चनस्य स्वर्णादेरुप समीपे वनं वननं मनोभिलाषातिशयस्तेन पाण्डुतापादनादुज्ज्वला | अन्यत्र नीहारजलेनैव चणका वर्धन्त इति वचोभङ्ग्या निशारचिता नीहारजलकणा यस्याम् | समीपस्थेन धत्तूरवनेनोज्ज्वलाशोभमाना चिन्तालक्षणा चणकसस्यानां मञ्जरी अर्थात्तृष्णा क्षेत्रे विकासमायाति | नूनमित्युत्प्रेक्षा || ४ || अलमन्तर्भ्रमायैव तृष्णातरलिताशया | आयाता विषमोल्लासमूर्मिरम्बुनिधाविव || ५ || तरलिताशया विक्षोभितचित्ता | अन्यत्र चञ्चलितमध्यभागा | तृष्णा अम्बुनिधावूर्मिरिव अलमत्यर्थमन्तर्भ्रमायैव विषमोल्लासं कष्टबहलं धनार्जनोत्साहं आयाता प्रापितवती [प्राप्तवती] | अन्यत्र भ्रमणायैव विसदृशमूर्ध्वनाट्यं प्राप्तेत्यर्थः || ५ || उद्दामकल्लोलरवा देहाद्रौ वहतीह मे | तरङ्गतरलाकारा तरत्तृष्णातरङ्गिणी || ६ ||
SK
उद्दामा उच्छ्रिताः अधिक्षेपानृतभाषणादयः प्रवृत्तिकल्लोलरवा यस्याः | अतएव उक्ततरङ्गैस्तरलाकारा तरन्ती विषयाद्विषयान्तरं प्लवमाना या तृष्णा तल्लक्षणा तरङ्गिणी नदी मे देहपर्वते वहति प्रवहति || ६ || वेगं संरोद्धुमुदितो वात्ययेव जरत्तृणम् | नीतः कलुषया क्वापि तृष्णया चित्तचातकः || ७ || वेगं स्वचापल्यम् | उदित उद्युक्तः | धर्ममेघाख्यसमाधिरसपानाये- vātasamūhena kvāpi ayogye viṣaye nītaḥ || 7 || yāṃ yāmahamatīvāsthāṃ saṃśrayāmi guṇaśriyām | tāṃ tāṃ kṛntati me tṛṣṇā tantrīmiva kumūṣikā || 8 || guṇaśriyāṃ vivekavairāgyādiguṇasaṃpadāṃ viṣaye yāṃ yāmāsthāmut- पयसीव जरत्पर्णं वायाविव जरत्तृणम् | नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् || ९ || पयसि आवर्तजले || ९ || गन्तुमास्पदमात्मीयमसमर्थधियो वयम् | चिन्ताजाले विमुह्यामो जाले शकुनयो यथा || १० || आत्मीयं स्वीयमास्पदं प्रतिष्ठाम् | पारमार्थिकं रूपमिति यावत् | गन्तुं प्राप्तुम् || १० || तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा | यथा दाहोपशमनमाशङ्के नामृतैरपि || ११ || आशङ्के संभावयामि || ११ || दूरं दूरमितो गत्वा समेत्य च पुनः पुनः | भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी || १२ || द्विरुक्तिर्व्यवहितविप्रकृष्टविषयलाभाय || १२ || जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा | क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् || १३ || धर्माधर्मरूपविषयानुसारात् कृतौ संपादितौ स्वर्गनरकयोर्गमागमौ गमनागमने यया | क्षुब्धा संचलिता | भोक्तृभोग्यतादात्म्यसंसर्गा- catvāri viṣeṣaṇāni prasiddhānyeva || 13 || antargrathitayā dehe sarvaduśchedayā'nayā | rajjvevāśu balīvardastṛṣṇayā vāhyate janaḥ || 14 || dehe antarmanasi [granthitayeti kvacit] grathitayā protayā balīvardarajjupakṣe nāsādipradeśe protayā | vāhyate aihikāmuṣmikasādhanasahasrabhāramityarthaḥ || 14 ||
SK
पुत्रमित्रकलत्रदितृष्णया नित्यकृष्टया | खगेष्विव किरात्येदं जालं लोकेषु रच्यते || १५ || नित्यं कृष्टमाकर्षणं यस्याह् स्वभावस्तथाभूतया तृष्णया किरात्या खगेषु जालमिव इदं प्रसिद्धं पुत्रमित्रकलत्रादिजालं लोकेषु जनेषु रच्यते || १५ || भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् | खेदयत्यपि सानन्दं तृष्णा कृष्नेव शर्वरी || १६ || धीरं प्राज्ञं धैर्यवन्तं च | सेक्षणं विवेकचक्षुष्मन्तं प्रसिद्धं च | शर्वरी रात्रिः || १६ || कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी | दशत्यपि मनाक्ष्पृष्टा तृष्ना कृष्णेव भोगिनी || १७ || कौटिल्यसहस्रवती | कोमलः सुखलवोन्मुखः स्पर्शो विषयलाभो यस्याः | परिणामे तु विषयसदृशं यद्वैषम्यं वैरबन्धवधादि तच्छंसनशीला | दशतीव मोहयति | भोगिनीपक्षे स्पष्टोऽर्थः || १७ || भिन्दती हृदयं पुंसां मायामयविधायिनी | दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी || १८ || मायाश्च आमया रोगाश्च तेषां मायाकार्यवञ्चनादीनां सर्वस्यैव वा मायाकार्यप्रपञ्चस्य उत्पादनशीला | दौर्भाग्यं हतभाग्यता | दीना दैन्यवती || १८ || तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् | नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी || १९ || तन्द्रीभिः प्रमीलाभिस्तन्त्रीगणैर्नाडीसमूहैश्च परिवेष्टितं कोशं शरीरं दधाना | जर्जरवल्लकी जीर्णस्फुटितालाबुका वीणा | सापि हि तन्द्र्या अलाब्वन्तरसंपादनालस्येन विच्छिन्नतन्त्रीभिः सीवनेन वेष्टितमलाबु- rṣṇāpi tṛṣṇākṣayalabhye nirvikṣepaniratiśayānande na rājate | tathācoktam yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham | tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām || iti || 19 || nityamevātimalinā kaṭukonmādadāyinī | dīrghatantrī ghanasnehā tṛṣṇā gahvaravallarī || 20 || kaṭukaḥ pariṇāmaduḥkho ya unmādastaddānaśīlā | śeṣaṃ spaṣṭam | gahvaravallarī parvataguhotpannā latā | sāpi hi sūryaraśmyasaṃsparśānnitya- घनस्नेहा बहुनिर्यासा चेति तद्दर्शिनां प्रसिद्धम् || २० ||
SK
अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता | अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी || २१ || तृष्णापक्षे स्पष्टोऽर्थः | अन्यत्र शून्या पुष्पैः | उन्नता आम्रादेरूर्ध्वशाखासु स्थिता क्रूरा शुष्कत्वात्कण्टकप्राया || २१ || अनावर्जितचित्तापि सर्वमेवानुधावति | न चाप्नोति फलं किंचित्तृष्णा जीर्णेव कामिनी || २२ || अनावर्जितमवशीकृतं चित्तं यया | फलं लाभं भोगं वा | जीर्णा कामिनी वृद्धवेश्या || २२ || संसारवृन्दे महति नानारससमाकुले | भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकी || २३ || नानारसैः शोकमोहादिभिः नर्तकीपक्षे करुणहास्यबीभत्सादिभिः | रङ्गेषु नृत्यशालासु || २३ || जराकुसुमितारूढा पातोत्पातफलावलिः | संसरजंगले दीर्घे तृष्णा विषलता तता || २४ || जंगले जीर्णारण्ये | तता विस्तीर्णा || २४ || यन्न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् | न्ट्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी || २५ || न शक्नोति साधयितुमिति शेषः | अन्यत्र यद्यत्र गन्तुमिति शेषः | आनन्दरहितं नैर्बल्येन निरुत्साहत्वात् || २५ || भृशं स्फुरति नीहारे शाम्यत्यालोक आगते | दुर्लङ्घ्येषु पदं धत्ते चिन्ता चपलबर्हिणी || २६ || नीहारे वर्षावश्याये तत्सदृशमोहावरणे च स्फूरति नृत्यति | आलोके विवेकप्रकाशे प्रकाशोपलक्षिते शरदि च | दुरलङ्घ्येषु असाध्यदुर्गमेषु | पदं व्यवसायं नीडं च || २६ || जडकल्लोलबहुला चिरं शून्यान्तरान्तरा | क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी || २७ || फलजलान्यकाले चिरम् शून्या | तत्कालेऽपि अन्तरान्तरामध्ये मध्ये शून्या | उल्लासं फलजलसंपत्त्योपचयम् | प्रावृट्तरङ्गिणी वर्षर्तुमात्रप्रवहा नदी || २७ || नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् | पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी || २८ || नष्ट्ं नष्टफलम् | तृष्णालोला क्षुत्तड्व्याकुला || २८ || पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते | चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी || २९ ||
SK
अलङ्घ्ये दुष्प्रापे दुर्लङ्घ्ये च | पदं व्यवसितं पादन्यासं च | फलं लाभं शलाटुं च || २९ || इदं कृत्वेदमायाति सर्वमेवासमञ्चसम् | अनारतं च यतते तृष्णा चेष्टेव दैविकी || ३० || इदं शुभमुचितं वा कृत्वा आरभ्य तदपरिसमाप्यैव इदमशुभमनुचितं च असमञ्जसं प्रक्रमविरुद्धं सर्वमेव कार्यं सहसैवायात्यनुसरति तथापि नोपरमते किंतु अनारतं सर्वदैव यतते शुभाशुभफलाय | यथा प्राणिकर्मानुसारिणो देवस्य विधातुश्चेष्टा तद्वत् || ३० || क्षणमायाति पातालं क्षणं याति नभस्थलम् | क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृपद्मषट्पदी || ३१ || हृत्पद्मे षट्पदी भ्रमरिका | शेषं प्राग्व्याख्यातप्रायम् || ३१ || सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा | अन्तःपुरस्थमपि या योजयत्यतिसंकटे || ३२ || दीर्घसुःखदा चिरदुःखदा | दीर्घबडिशरज्जुरिव वधकसंनिधावाकृष्य मरणादिदुःखदा | तदेवोपपादयति - अन्तःपुरस्थमपीति || ३२ || पयच्छति परं जाड्यं परमालोकरोधिनी | मोहनीहारगहना तृष्णा जलदमालिका || ३३ || जाड्यं मौर्ख्यं शैत्यं वा | परमालोकः परं ज्योतिरात्मा सूर्यश्च | मोहयति पूर्वापरं दिग्विभागं चेति मोहोऽविवेकस्तद्रूपेण नीहारेण गहना दुर्गमा || ३३ || सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् | परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् || ३४ || यथा बहुनां पशूनां कण्ठदामभिः प्रोता मालोपमाना तिर्यग्दीर्घ- vicitravarṇā viguṇā dīrghā malinasaṃsthitiḥ | śūnyā śūnyapadā tṛṣṇā śakrakārmukadhariṇī || 35 || vicitraviṣayānurañjitatvādvicitravarṇā vividhavismayaheturūpavatī ca | viguṇā asadguṇā jyāśūnyā ca | malinaḥ puruṣo meghaśca saṃsthitirādhāro yasyāḥ svatastucchatvācchūnyā avastuḥ manonabhodhiṣṭhitatvācchūnyapadā | śakrakārmukamindrāyudham || 35 || aśanirgunasasyānāṃ phalitā śaradāpadām | himaṃ saṃvitsarojānāṃ tamasāṃ dīrghayāminī || 36 ||
SK
गुणलक्षणसस्यानां अशनिः | संवित्सरोजानां बोधपद्मानां हिमं विघातिकेत्यर्थः | आपदां तु फलिता फलितसस्या शरद्वर्धिकेत्यर्थह् | एवं तमसामपि हेमन्तरात्रिः || ३६ || संसारनाटकनटी कार्यालयविहंगमी | मानसारण्यहरिणी स्मरसंगीतवल्लकी || ३७ || कार्यालयस्य प्रवृत्तिलक्षणनीडस्य गृहविटङ्कस्य वा | मानसा मनोरथाः | वल्लकी वीणा || ३७ || व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला | सर्गन्यग्रोधसुलता दुःखकैरवचन्द्रिका || ३८ || न्यग्रोहतीति न्यग्रोधो वटस्तस्य सुलता प्ररोहवल्ली | कैरवाणां कुमुदानाम् || ३८ || जरामरणदुःखानामेका रत्नसमुद्रिका | आधिव्याधिविलासानां नित्यं मत्ता विलासिनी || ३९ || समुद्गिका संपुटिका || ३९ || क्षणमालोकविमला [आलोकविषया] सान्धकारलवा क्षणम् | व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम् || ४० || आलोक ईषद्विवेकप्रकाशः | व्योमैव वीथी तदुपमा | नीहारसदृशैर्व्या- gacchatyupaśamaṃ tṛṣṇā kāyavyāyāmaśāntaye | tamī ghanatamaḥkṛṣṇā yathā rakṣonivṛttaye || 41 || evaṃ tṛṣṇāmupavarṇya tadupaśāntiphalamāha - gacchatītyādinā | kāyavyāyāmo dehaprayuktaśramastasya śāntaye | muktaya iti yāvat | tamī kṛṣṇapakṣarātriḥ | ghanatamo meghāndhakārastena kṛṣṇā | sā yathā rakṣonivṛttaye naktaṃcarapracārābhāvāya upaśamaṃ vināśaṃ gacchati tadvat || 41 || tāvanmuhyatyayaṃ mūko loko vilulitāśayaḥ | yāvadevānusaṃdhatte tṛṣṇā viṣaviṣūcikā || 42 || mūkaḥ adhyātmaśāstrakathāśūnyaḥ | loko janaḥ | vilulitāśayo vyākulacittaḥ | viṣaviśeṣaprayuktaviṣūcikārogavanmṛtyuhetustṛṣṇā yāvadevānusarantī saṃdhatte samyagdhārayati | na saṃtyajatītyarthaḥ || 42 || loko'yamakhilaṃ duḥkhaṃ cintayojjhitayojjhati | tṛṣṇāviṣūcikāmantraścintātyāgo hi kathyate || 43 || tarhi tattyāge ka upāyastatrāha - loka iti | cintātra viṣayānusmaraṇam | ujjhitayā tyaktayā | tathāca bhagavadvākyam - dhyāyato viṣayānpuṃsaḥ saṅgasteṣupa-jāyate iti || 43 ||
SK
तृणपाषाणकाष्ठादिसर्वमामिषशङ्कया | आददाना स्फुरत्यन्ते तृष्णा मत्स्यी ह्रदे यथा || ४४ || आमिषशङ्कया भक्ष्यमिति संभावनया | सा यथा अन्ते बडिशमप्यादा- rogārtiraṅganātṛṣṇā gambhīramapi mānavam | uttānatāṃ nayantyāśu sūryāṃśava ivāmbujam || 45 || rogapīḍā strītṛṣṇā ca | gambhīraṃ dhīram | uttānatāṃ adhīratām ūrdhvavikāsitāṃ ca || 45 || antaḥśūnyā granthimatyo dīrghasvāṅkurakaṇṭakāḥ | muktāmaṇipriyā nityaṃ tṛṣṇā veṇulatā iva || 46 || granthayo dṛḍhābhiniveśāḥ parvāṇi ca | tṛṣṇāyā aṅkurā᳚cintāḥ | kaṇṭakā duḥkhāni | muktāmaṇayaśca priyā yāsām | veṇulatāpakṣe tāsāṃ muktākara- अहो बत महच्चित्रं तृष्णामपि महाधियः | दुश्छेदामपि कृन्तन्ति विवेकेनामलासिना || ४७ || विवेकोऽपि तदुच्छेदहेतुरिति दर्शयति - अहो इति || ४७ || नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः | तथा तीक्ष्णा यथा भ्रमंस्तृष्णेयं हृदि संस्थिता || ४८ || असिधारादयो बाह्यत्वात्कदाचिदेवानर्थः तृष्णा तु हृदि स्थितत्वात् सदैवेति तेभ्योऽप्याधिक्यमिति भावः || ४८ || उज्ज्वलाऽसिततीक्ष्णाग्रा स्नेहदीर्घदशा परा | प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव || ४९ || मध्ये भोगविभवोज्ज्वला अन्ते तु असितं तीक्ष्णं चाग्रं यस्याः सा | तमोमृत्युपर्यवसानेत्यर्थः | मातृभार्यापुत्रस्नेहैर्दीर्घा बाल्ययौवनवार्धकदशाः परा उत्कृष्टा यस्याः | प्रकाशा प्रत्यक्षा | इष्टवियोगप्रयुक्तैरन्तर्दाहैर्दुःस्पर्शा असह्या | दीपशिखापक्षे स्नेहस्तैलम् | दशा वर्तिः | शिष्टं स्पष्टम् || ४९ || अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् | तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् || ५० || मेरुसमं गौरवेण | स्थिरं अपरिग्रहव्रतेन तृणीकरोति याञ्चादैन्यमा- tṛṇāllaghutarastūlastūlā-dapi ca yācakaḥ | vāyunā kiṃ na nīto'sau māmayaṃ yācayiṣyati || iti || 50 || saṃstīrṇagahanā bhīmā ghanajālarajomayī | sāndhakārogranīhārā tṛṣṇā vindhyamahātaṭī || 51 ||
SK
संस्तीर्णानि विस्तीर्णानि गहनानि साहसकार्याण्यरण्यानि च यस्याम् | अथवा एकैव तृष्णा आशा कामलोभलाम्पट्यादिभावैश्चतुर्दशसु लोकेषु विस्तीर्णा चासौ गहना दुर्लक्ष्या चेति कर्मधारयः | एवं निबिडजालबद्बन्धन- nibiḍatājāladhūlipracurā ca | śiṣṭaṃ spaṣṭam || 51 || ekaiva sarvabhuvanāntaralabdhalakṣyā durlakṣyatāmupagataiva vapuḥsthitaiva | tṛṣṇā sthitā jagati cañcalavīcimāle kṣīrodakāmbutarale madhureva śaktiḥ || 52 || kathaṃ vistīrṇā kathaṃ ca gahanā kathaṃ caikā | āśrayaviṣayaśabdādibhede- दृष्टान्तेनोपपाद-यति - एकैवेति | अपुःस्थितैव तृष्णा एकैव सर्वभुवनानामान्तरेषु भोग्येषु लब्धलक्ष्या प्राप्तविषया सती जगति व्यवहारभूमौ दुर्लक्ष्यतामुपगतैव स्थिता देहतृष्णैव सर्वतृष्णात्वमाशाकामादिभावं च प्राप्तेति न स्पष्टं विभाव्यत् इत्यर्थः | यथा रसनेन्द्रियात्मना वपुःस्थिता एकैव माधुर्यशक्तिः सर्वेषां भुवनानां जलानामान्तरे जलसामान्ये लब्धप्रतिष्ठा चञ्चलवीचिमाले नदीसमुद्रादौ क्षरणात्क्षीरमुन्दनात् क्लेदनादुदकमम्भनात् शब्दनादम्ब्वति क्रियाशब्दभेदेन तरले अव्यवस्थिते जले शिता दुर्लक्ष्यतामुपगता एकैवेति न विभाव्यते तद्वत् | जीवनं भुवनं वनम् नीरक्षीराम्बुशम्बरम् इत्यमरः || ५२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तृष्णाभङ्गो नाम सप्तदशः सर्गः || १७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे तृष्णाभङ्गो नाम सप्तदशः सर्गः || १७ || अष्टादशः सर्गः १८ श्रीराम उवाच | आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् | देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् || १ || आधिव्याधिबहुक्लेशजरामरणभङ्गुरः | निदानं मानतृष्णादेर्देह एवात्र निन्द्यते ||
SK
अस्तु तृष्णा दुःखहेतुस्तथापि जीवन्भद्राणि पश्यति इति न्यायाद्देहस्य सुखभोगायतनत्वप्रसिद्धेः सर्वेषां तत्र प्रीत्यतिशयदर्शनाच्च सुखहेतुत्वमित्याशङ्क्य तस्यापि दुःखहेतुत्वमेवेत्युपपादयति - आर्द्रेत्यादिना | आन्त्राण्युदरस्थमलमूत्रादिभस्त्राः | तन्त्र्यो नाड्यः | परितः पातः पतनोपघातो मरणं च || १ || अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः | युक्त्या भव्योऽप्यभव्योऽपि न जडो नापि चेतनः || २ || अज्ञो जडोऽपि तज्जडं जानातीति तज्झ आत्मा तत्सदृशस्तत्प्रायः | स्वतस्ता- ātmacamatkṛtiradhyastacittādātmyaṃ yasmin | bhavyo mokṣādhikārasaṃpattau | na jaḍo netarajaḍatulyaḥ || 2 || jaḍājaḍadṛśormadhye dolāyitadurāśayaḥ | avivekī vimūḍhātmā mohameva prayacchati || 3 || ataeva cijjaḍadṛṣṭyormadhye kimayamātmakoṭau syādutānātmakoṭāviti saṃśaye dolāyito'nirṇayaduṣṭa āśayo mano yasmin | vivekaḥ śodhastacchunya- अजडदृग्विवेकी तयोराद्योऽस्मिन्देहे आत्मबुद्ध्या मोहं संसारमेव प्रपश्यति न पुरुषार्थम् | यतोऽसौ दोलायितदुराशयः | चञ्चलाशुद्धचित्त इत्यर्थः || ३ || स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् | नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः || ४ || स्तोकेनाल्पेनान्नपानादिना शीतातपादिना च | नीचोअधमोऽशुचिरिति यावत् || ४ || आगमापायिना नित्यं दन्तकेसरशालिना | विकासस्मितपुष्पेण प्रतिक्षणमलंकृतः || ५ || उपेक्षार्हतां वक्तुं वृक्षत्वेन रूपयति [रूपयति चतुर्भिः] - आगमेत्यादिचतुर्भिः | प्रतिक्षणं प्रतिहर्षलवं प्रत्यार्तवं च || ५ || भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः | लोचनालिबिलाक्रान्तः शिरः पीठबृहत्फलः || ६ || घन उन्नतः स्कन्ध्ॐऽसः शाखा मूलं च | द्विजा दन्तास्त एव श्लेषात्प- śravadantarasagrasto hastapādasupallavaḥ | gulmavānkāryasaṃghāto vihaṅgamakṛtāspadaḥ [tatāspada] || 7 ||
SK
श्रवौ कर्णौ तावेव दन्तेन रसयत इति दन्तरसौ काष्ठकुट्टकाख्यौ पक्षिणौ ताभ्यां ग्रस्तश्चञ्चुप्रहारैः कुट्टित इव सच्छिद्रः | गुल्मं रोगविशेषो मूलप्ररोहाश्च तद्वान् | कार्यः कर्तुं शक्यः सम्यक् घात- mantraprasiddhau jīveśvarau buddhijīvau vā tābhyāṃ dṛtahṛdayanīḍaḥ || 7 || sacchāyo dehavṛkṣo'yaṃ jīvapānthagaṇāspadaḥ | kasyātmīyaḥ kasya para āsthānāsthe [āsthānāsthā] kilātra ke || 8 || chāyā kāntiḥ prasiddhacchāyā ca | paraḥ śatruḥ | āsthā prītiranāsthā dveṣaśātrāsmindehatarau ke ayukte ityupekṣya iti bhāvaḥ || 8 || tāta saṃtaraṇārthena gṛhītāyāṃ punaḥ punaḥ | nāvi dehalatāyāṃ ca kasya syādātmabhāvanā || 9 || nanvātmatvena sarvajanaprasiddho'yaṃ kathamupekṣyastatrāha - tāteti | saṃtaraṇamāyurnadyāḥ saṃsārāmbudhervā paratīragamanam | nāvi naukāyām || 9 || dehanāmni vane śūnye bahugartasamākule | tanuruhāsaṃkhyatarau viśvāsaṃ ko'dhigacchati || 10 || viśvāsaṃ niḥśaṅkacirāvasthānayogyatāpratyayam || 10 || māṃsasnāyvasthivalite śarīrapaṭahe'dṛḍhe | mārjāravadahaṃ tāta tiṣṭhāmyatra gatadhvanau || 11 || snāyavaḥ śirāḥ | paṭaho vādyaviśeṣaḥ | adṛḍhe asāre sacchidre ca | gatadhvanau aprāptinirgamanopāyopadeśaśabde || 11 || saṃsārāraṇyasaṃrūḍho vilasaccittamarkaṭaḥ | cintāmañjaritākāro dīrghaduḥkhaghuṇakṣataḥ || 12 || dehameva punaḥ ṣaḍbhiḥ plakṣatvena rūpayati - saṃsāretyādinā | ghuṇāḥ kāṣṭhakīṭāstaiḥ kṣataśchidritaḥ || 12 || tṛṣṇābhujaṅgamīgeha. kopakākakṛtālayaḥ | smitapuṇyodgamaḥ śrīmāñchubhāśubhamahāphalaḥ || 13 || plakṣasya tvakpallavādermāṅgalikatvena puṇyodgamahetutvātsthitapuṇyodgamaḥ | puṣpodgama iti vā pāṭhaḥ || 13 || suraskandhaughalatājālo hastastabakasundaraḥ | pavanaspantitāśeṣasvāṅgāvayavapallavaḥ || 14 ||
SK
स्कन्धशब्देन बाहू लक्ष्येते | लते शाखे | समे शास्त्रालते इत्यमरः | ओघजालशब्दौ शरीरभेदेन नेयौ | जात्यैक्येनैव प्लक्षत्वरूपणात् [निरूपणात्] | पवनोऽत्र प्राणः || १४ || सर्वेन्द्रियखगाधारः सुजानुस्तम्भ उन्नतः | सरसच्छायया युक्तः कामपान्थनिषेवितः || १५ || शोभने जानुनी मध्यमपर्वणी यस्य स तथाविधोऽधःकाय एव स्तम्भसदृशो भागो यस्य | स यावत्सरसच्छायया यौवनकान्त्या शीतलच्छायया च युक्तस्तावत्कामपान्थनिषेवितः इत्यर्थः || १५ || मूर्धसंजनिताऽऽदीर्घशिरोरुहतृणावलिः | अहंकारगृध्रकृतकुलायः सुषिरोदरः || १६ || आदीर्घेति छेदः | प्लक्षोपर्यपि क्वचित्तृणोत्पत्तिः प्रसिद्धा || १६ || विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः | व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे || १७ || विभक्तवासनालक्षणप्ररोहजटाजालवेष्टितमूलत्वाद्दुर्लवा दुरुच्छेदा आकृतिः स्वरूपं यस्य | व्यायामः श्रमः स एव विविध आयामो विटपदैर्घ्यं तेन विरसः प्रियसंस्पर्शहीनो रूक्षश्च || १७ || कलेवरमहंकारगृहस्थस्य महागृहम् | लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम || १८ || लुठतु भूमौ पतित्वा परिवर्तताम् || १८ || पङ्क्तिबद्धेन्द्रियपशुं बलत्तृष्णागृहाङ्गनम् | रागरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम || १९ || वलन्ती मुहुः प्रसरन्ती तृष्णालक्षणा गृहस्वामिनी यस्मिन् | अतएव रागेण कामेन गैरिकादिरञ्जकद्रव्येण च रञ्जितानि सर्वाङ्गानि यस्मिन् || १९ || पृष्ठास्थिकाष्ठसंघट्टपरिसंकटकोटरम् | आन्त्ररज्जुभिराबद्धं नेष्टं देहगृहं मम || २० || पृष्ठास्थिलक्षणकाष्ठानां संघट्टनेन परितः संकटः संकुचितावकाशः कोटरो यस्य | [अन्त्राणि] आन्त्राणि मलमूत्रान्नरसादि-प्रसारार्था दीर्घपेश्यः || २० || प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् | जरामङ्कोलधवलं नेष्टं देहगृहं मम || २१ ||
SK
स्नायवः शिरास्ता एव तन्त्र्यो वीणादिसूत्राणि बन्धनरज्जवो वा यस्मिन् | अस्वाङ्गत्वात् नाडीतन्त्र्योः स्वाङ्गे इति न कन्निषेढः | मङ्कोलं चूर्णम् || २१ || चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति | मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम || २२ || अवष्टम्भः पतनप्रतिविधानम् | मिथ्या अनृतं मोहोऽज्ञानं च स्थूणे आधारस्थम्भौ | कर्मधारयो वा || २२ || दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् | दुरीहादग्धदासीकं नेष्टं देहगृहं मम || २३ || दुरीहा दुश्चेष्टा सैव दग्धा दाहव्रणपीडिता दासी यस्मिन् || २३ || मलाढ्यविषयव्यूहभाण्डोपस्करसंकटम् | अज्ञानक्षारवलितं नेष्टं देहगृहं मम || २४ || अतएव मलाढ्यैर्दोषबहुलैरनिर्णिक्तैश्च विषयव्यूहलक्षणैर्भाण्डैरूप- gulphagugguluviśrāntajānūrdhvastambhamastakam | dīrghadordārusudṛḍhaṃ neṣṭaṃ dehagṛhaṃ mama || 25 || jaṅghāstambhasya gulpho gugguluḥ ādhārakāṣṭhasthānīyastatra viśrāntasya pratiṣṭhitasyārthāt jaṅghāstambhasya jānu mastakaṃ tadapi svādhārādhāre paramparyā pratiṣṭhitameva | mūlaśaithilye sarvaśaithilyāpatteḥ | doṣau bāhū || 25 || prakaṭākṣagavākṣāntaḥ krīḍatprajñāgṛhāṅganam | cintāduhitṛkaṃ brahmanneṣṭaṃ dehagṛhaṃ mama || 26 || prakaṭāṇyakṣāṇi jñānendriyāṇi | prajñā buddhiḥ | prakaṭeti tadviśeṣeṇaṃ kriyāviśeṣaṇaṃ vā || 26 || mūrdhajācchādanachannakarṇaśrīcandraśālikam | ādīrghāṅgulinirvyūhaṃ neṣṭaṃ dehagṛhaṃ mama || 27 || mūrdhajāḥ keśāsta eva cchādanaṃ chadiḥ | karṇāveva kuṇḍalamuktādi- सर्वाङ्गकुड्यसंघातघनरोमयवाङ्कुरम् | संशून्यपेटविवरं नेष्टं देहगृहं मम || २८ || पेटविवरमुदरच्छिद्रम् || २८ || नखोर्णनाभिनिलयं सरमारनितान्तरम् | भाङ्कारकारिपवनं नेष्टं देहगृहं मम || २९ || सरमा शुनीव भ्रमणदैन्यकलहादिकारिणी क्षुत्तया रणितान्तरम् | भाङ्कारो भीषणध्वनिः || २९ ||
SK
प्रवेशनिर्गमव्यग्रवातवेगमनारतम् | वितताक्षगवाक्षं तन्नेष्टं देहगृहं मम || ३० || जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् | दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम || ३१ || मर्कटिका प्रसिद्धा कवाटविष्कम्भकाष्ठं वा || ३१ || त्वक्सुधालेपमसृणं यन्त्रसंचारचञ्चलम् | मनः सदाखुनोत्खातं नेष्टं देहगृहं मम || ३२ || सुधा चूर्णम् | त्वगेव सुधालेपस्तेन मसृणं स्निग्धम् | यन्त्राणि घरट्टशकटादीनि तेषामिव सन्धीनां संचारो भ्रमणादिस्तेषामेव संचारो वा | मन एव सदातन आखुर्मूषकस्तेनोत्खातमिव शैथिल्य- smitadīpaprabhodbhāsi kṣaṇamānandasundaram | kṣaṇaṃ vyāptaṃ tamaḥpūrairneṣṭaṃ dehagṛhaṃ mama || 33 || smitāni īṣaddhasitānyeva dīpāḥ | tamaḥpūrairajñānāndhakārapravāhaiḥ || 33 || samastarogāyatanaṃ valīpalitapattanam | [sarvātisāra] sarvādhisāragahanaṃ neṣṭaṃ dehagṛhaṃ mama || 34 || valī tvakśaithilyam | pattanaṃ nagaraṃ nivāsasthānamiti yāvat | ādhayo mānasaduḥkhāni tānyeva sāraḥ prādhānyena bhogyatvāttairgahanaṃ durgamamaraṇyāyamānaṃ vā || 34 || akṣarkṣakṣobhaviṣamā śūnyā niḥsārakoṭarā | tamogahanadikkuñjā neṣṭā dehāṭavī mama || 35 || akṣāṇīndriyāṇyeva ṛkṣā ballukāḥ || 35 || dehālayaṃ dhārayituṃ na śaknomi munīśvara | paṅkamagnaṃ samuddhartuṃ gajamalpabalo yathā || 36 || kiṃ śriyā kiṃ ca rājyena kiṃ kāyena kimīhitaiḥ | dinaiḥ katipayaireva kālaḥ sarvaṃ nikṛntati || 37 || īhitaiśceṣṭitairmanorathairvā | nikṛntati chinatti || 37 || raktamāṃsamayasyāsya sabāhyābhyantaraṃ mune | nāśaikadharmiṇo brūhi kaiva kāyasya ramyatā || 38 || sabāhyābhyantaraṃ vimṛśyeti śeṣaḥ || 38 || maraṇāvasare kāyā jīvaṃ nānusaranti ye | teṣu tāta kṛtaghneṣu kaivāsthā vada dhīmatām || 39 || nānusaranti nānugacchanti | kṛtaṃ pālanapoṣaṇādyupakāraṃ ghnanti pratyupa-
SK
मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः | न संत्यजति मां यावत्तावदेनं त्यजाम्यहम् || ४० || चलश्चपलः | लम्बं लम्बमानं यदम्बु जलकणः | संनिधानान्मत्तेभ- pavanaspandataralaḥ pelavaḥ kāyapallavaḥ | jarjarastanuvṛttaśca neṣṭo me kaṭunīrasaḥ || 41 || ādhivyādhikaṇṭakaśatakṣatatvājjarjaraḥ śithilaḥ | tanuvṛttaḥ kṣudrasvabhāvaḥ || 41 || bhuktvā pītvā ciraṃ kālaṃ bālapallavapelavām | tanutāmetya yatnena vināśamanudhāvati || 42 || bālapallavamiva pelavāṃ mṛdvīṃ tanutāṃ kārśyam | pelavamiti pāṭhe kriyāviśeṣaṇam | āśrayadvārā ubhayatrāpi yogyatā || 42 || tānyeva sukhaduḥkhāni bhāvābhāvamayānyasau | bhūyo'pyanubhavankāyaḥ prākṛto hi na lajjate || 43 || tāni punaḥ punaḥ pūrvopabhuktānyeva | vīpsitārthasyaiva buddhyārūḍhasya sarvanāmnā parāmarśādvināpi dvirvacanaṃ [rvacanaṃ vā labhyate] vīpsā labhyate | prākṛtaḥ pāmaraḥ || 43 || suciraṃ prabhutāṃ kṛtvā saṃsevya vibhavaśriyam | nocchrāyameti na sthairyaṃ kāyaḥ kimiti pālyate || 44 || saṃsevya saṃprāpya | ucchrāyamupacayamutkarṣaṃ vā | sthairyamavināśitām || 44 || jarākāle jarāmeti mṛtyukāle tathā mṛtim | sama evāviśeṣajñaḥ kāyo bhogidaridrayoḥ || 45 || saṃsārāmbhodhijaṭhare tṛṣṇākuharakāntare | suptasthiṣṭhati mukteho mūko'yaṃ kāyakacchapaḥ || 46 || tṛṣṇaiva kuharakamalpacchidram | suptaḥ supta iva mūḍhaḥ | ataeva mukteha ātmoddhārānukūlecchāceṣṭāvidhuro'taeva mūko gurūpasarpaṇena tatpraśnādivāgvikalaśca | kacchopalakṣitadurindriyairdurviṣayakardamarasā- दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः | संसाराब्धाविहोह्यन्ते कंचित्तेषु नरं विदुः || ४७ || दहनमेवैकोऽर्थो मुख्यं प्रयोजनं तद्योग्यानि | तेषु तेषां मध्ये || ४७ || दीर्घदौरात्म्यवलया निपातफलपातया | न देहलतया कार्यं किंचिदस्ति विवेकिनः || ४८ ||
SK
वलनं वलः प्रतानवेष्टनम् | निपातोऽधोगतिस्तत्फलस्तत्पर्यवसितः पातो मरणं यस्याः | निपातफलैर्दुश्चरितैः पातो यस्या इति वा || ४८ || मज्जन्कर्दमकोशेषु झटित्येव जरां गतः | न ज्ञायते यात्यचिरात्कः कथं देहदर्दुरः || ४९ || कर्दमकोशेषु पङ्काधारेषु विषयपल्वलेषु | कथं कैर्दुर्दशाप्रकारैः | दुर्दुरो मेकः || ४९ || निःसारसकलारम्भाः कायाश्चपलवायवः | रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् || ५० || निःसारा नीरसाः | काया एव चपला वायवो झंझापवनाः | रजोमार्गेण राजसप्रवृत्त्या धूलिमात्रपरिशेषेण वा धूलिसहितेनाकाशमार्गेणान्यत्र || ५० || वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः | आगच्छतश्च भगवञ्छरीरस्य कदाचन || ५१ || अत्र दीपशरीरयोर्गत्यागती विनाशोत्पत्ति पूर्वश्लोकादनुकृष्य शरीरस्य नेह केनचिज्ज्ञायत इति संबन्धः || ५१ || बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ | तान्मोहमदिरोन्मत्तन्धिग्धिगस्तु पुनः पुनः || ५२ || आस्था सारत्वचिरस्थायित्वसत्यत्वाद्यभिमानः | कण्ठोक्तेऽपि पौनःपुन्ये द्विर्वचनमतिशयार्थम् || ५२ || नाहं देहस्य नो देहो मम नायमहं तथा | इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः || ५३ || अयमिदंत्वेन घटादिवज्जडो देहोऽहं नेति विचार्य विश्रान्तचित्तः | परमात्मनीति शेषः | पुरुषोत्तमाः पुरुषश्रेष्ठाः विष्णुस्वरूपा एवेति वा || ५३ || मानावमानबहुला बहुलाभमनोरमाः | शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् || ५४ || दोषदृशो दुर्दृष्टयो विशेष्याः | घ्नन्ति मृत्युवशं नयन्ति || ५४ || शरीरश्वभ्रशायिन्या पिशाच्या पेशलाङ्गया | अहंकारचमत्कृत्या छलेन छलिता वयम् || ५५ || अहंकारस्य चमत्कृतिर्भोगतृष्णादिः सैव पिशाची | छलेन कपटेन छलिता असारे सारतामापाद्य सारापहारेण प्रतारिताः || ५५ || प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया | मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका || ५६ ||
SK
प्रज्ञा सद्बुद्धिः | वराकी दीना | मिथ्याज्ञानमेव कुराक्षसी | एकिका विवेकादिस्वसहायशून्या || ५६ || न किंचिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना | चित्रं दग्धशरीरेण जनता विप्रलभ्यते || ५७ || यदा दृश्यवर्गे न किंचिदपि सत्यं तदा तदन्तःपाति शरीरमपि तथैवेति स्वत एव दग्धप्रायेणासतापि शरीरेण जीवसमूहः प्रतार्यते चित्रमाश्चर्यमेतदित्यर्थः || ५७ || दिनैः कतिपयैरेव निर्झराम्बुकणो यथा | पतत्ययमयत्नेन जरठः कायपल्लवः || ५८ || यदि जनताविप्रलम्भेन कायस्य किंचित्प्रयोजनं स्यात्तदा युज्येतापि तदपि नास्तीत्याह द्वाभ्याम् || ५८ || कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव | व्यर्थं कार्यपरावर्ते परिस्फूरति निष्फलः || ५९ || कार्याणि सांसारिकधावनान्येव पर आवर्तोऽम्भसां भ्रमः | व्यर्थं स्वार्थशून्यं यथा स्यात्तथा निष्फलः | परार्थशून्योऽपीत्यर्थः || ५९ || मिध्याज्ञानविकारेऽस्मिन्स्वप्नसंभ्रमपत्तने | काये स्फुटतरापाये क्षणमास्था न मे द्विज || ६० || कुतः कायादिदृश्यवर्गस्यासत्यत्वं तत्राह - मिथ्येति | यतो मिथ्याभूतस्याज्ञानस्य विकार इत्यर्थः | स्वप्नसंभ्रमनगरतुल्ये | अथवा स्वाप्नभ्रान्तीनामाधारे | शरीरे एव स्वप्नदर्शनात् | स्वे शरीरे यथाकामं परिवर्तत इति श्रुतेः | नगरस्य नागरिकव्यापारतुल्यसत्ताक-त्वादित्यर्थः || ६० || तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च | स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे || ६१ || विश्वसितु विश्वासं करोतु | विग्रहे देहे || ६१ || सतत्भङ्गुरकार्यपरम्परा विजयिजातजयं हठवृत्तिषु | प्रबलदोषमिदं तु कलेवरं तृणमिवाहमपोह्य सुखं स्थितः || ६२ || हठवृत्तिषु भङ्गुरताशैघ्र्ये स्वस्वोत्कर्षख्यापनाय बलात्प्रवृत्तेषु पदार्थेषु मध्य् सततभङ्गुरकार्यसमूहविजयिनो ये ये तडिच्छरदभ्रा- nāśahetudoṣasāmagrībāhulyādityarthaḥ | apohya tuchabuddhyā nirasya || 62 ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कायजुगुप्सानामष्टादशः सर्गः || १८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे कायजुगुप्सानामष्टादशः सर्गः || १८ || एकोनविंशः सर्गः १९ श्रीरम उवाच | लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि | संसारसागरे जन्म बाल्यं दुःखाय केवलम् || १ || अज्ञानक्षुत्तृषारोगाशौचचापलदूषितम् | तिर्यग्जन्तुसमावस्थं बाल्यमप्यत्र निन्द्यते || ननु न देहस्य सर्वा अवस्था दुःखरूपास्तद्बाल्यस्य सर्वजनस्पृहणीयतया रम्यतरत्वात् तद्यथा महाराजो वा महाब्राह्मणो वा महाकुमारो वा अतिघ्नीमानन्दस्य गत्वा शयीत इति श्रुत्यापि बाल्यस्यानन्दबहुलत्वप्रति- - labdhvāpīti | kāryabhārairnānākartavyābhinivaiśaiḥ | prakṛtyāditvāttṛtīyā | dhānyena dhanavātivattaddhitaprakṛtyarthe abhedenānvayaḥ | taralā asthirā ākārāścaturvidhaśarīrāṇi yasmin | anyatra cañcalasvabhāve saṃsārasāgare janma manuṣyajanma | bālyaṃ kevalaṃ duḥkhāyaiva labhate janturiti śeṣaḥ | apinā manuṣyajanmano'tidaurlabhyaṃ dyotyate | tathāca śrutiḥ tato vai taddurniṣprapataram iti || 1 || aśaktirāpadastṛṣṇā mūkatā mūḍhabuddhitā | gṛdhnutā lolatā dainyaṃ sarvaṃ bālye pravartate || 2 || pratijñātārthaṃ prapañcayati - aśaktirityādinā | gṛdhnutā sābhilāṣatā | tṛṣṇā bhakṣaṇādiviṣaye | gṛdhnutā krīḍākautukādiviṣaye tadalābhe dainyamiti bhedaḥ || 2 || roṣarodanaraudrāsu dainyajarjaritāsu ca | daśāsu bandhanaṃ bālyamālānaṃ kariṇāmiva || 3 || cakāro'nuktānantadurdaśāsamuccayārthaḥ | bandhanam | adhikaraṇe lyuṭ | ālānaṃ gajabandhanastambhaḥ || 3 || na mṛtau na jarāroge na cāpadi na yauvane | tāścintāḥ [vinikṛntati] parikṛntanti hṛdayaṃ śaiśaveṣu yāḥ || 4 || jarāroge | samāhāradvandve ekavadbhāvaḥ | tāstādṛśyaḥ | paritaḥ kṛntanti chindantīva pīḍayanti | yā yādṛśyaḥ || 4 ||
SK
तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः | लोलो बालसमाचारो मरणादपि दुःखदः || ५ || तिर्यग्जातयः पश्वादयस्तैः सम आरम्भो यस्य | अवधीरितो भर्त्सितः || ५ || प्रतिबिम्बघनाज्ञानं नानासंकल्पपेलवम् | बाल्यमालूनसंशीर्णमनः [संशीर्णं मन] कस्य सुखावहम् || ६ || पुरःस्थितं प्रतिबिम्बमिव स्फुटं घनं निबिडं अज्ञानं प्रतिक्षणं चित्ते तत्तद्विषयप्रतिबिम्बनैर्वा घनानि बहुलानि भ्रान्तिज्ञानानि यस्मिन् | अतएव नानासंकल्पैः पेलवं मृदु | तुच्छमिति यावत् | तत्तत्संकल्पित- yasmin || 6 || jalavahnyanilājasrajātabhītyā pade pade | yadbhayaṃ śaiśave'buddhyā kasyāpadi hi tadbhavet || 7 || bhayaṃ lakṣaṇayā duḥkhaṃ mukhyameva vā bhayādapi bhayāntarotpatteḥ | abuddhyā'jñānena | hiśabdo'pyarthe || 7 || līlāsu durvilāseṣu durīhāsu durāśaye | paramaṃ mohamādhatte bālo balavadāpatan || 8 || sāmānyaviśeṣābhyāṃ buddhyabuddhipūrvakatvābhyāṃ [kāyikatveneti kvacinna] kāyikatvena mānasatvena ca līlādīnāṃ bhedaḥ | mohaṃ sāratābhramam || 8 || vikalpakalpitārambhaṃ durvilāsaṃ durāspadam | śaiśavaṃ śāsanāyaiva puruṣasya na śāntaye || 9 || niṣphale'pi karmaṇi bālapramattādivacanādapi kautuhalena kalpitamahārambham | durāspadaṃ duṣpratiṣṭham | śāsanāya gurvādikṛtakaśātāḍanādiduḥkhā- ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः | ते सर्वे संस्थिता बाल्ये [दुर्गते इव] दुर्गर्त इव कौशिकाः || १० || दुष्क्रमा दुरुत्तराः | कौशिका वायसारात्यः || १० || बाल्यं रम्यमिति व्यर्थबुद्धयः कल्पयन्ति ये | तान्मूर्खपुरुषान्ब्रह्मन्धिगस्तु हतचेतसः || ११ || यच्छङ्कितं बाल्यं रम्यतरमिति तत्राह - बाल्यमिति | श्रुतिस्तु रागादि- yatra dolākṛti manaḥ parisphurati vṛttiṣu | trailokyā'bhavyamappi tatkathaṃ bhavati tuṣṭaye || 12 || tadaramyatāmevopapādayati - yatretyādinā | trailokye abhavyamamaṅgalaṃ tadapītyanvayaḥ || 12 ||
SK
सर्वेषामेव सत्त्वानां सर्वावस्थाभ्य एव हि | मनश्चञ्चलतामेति बाल्ये दशगुणं मुने || १३ || न केवलं मनुष्याणामेवाभव्यमपि तु सर्वजन्तूनामित्याह - सर्वेषामिति | मनश्चाञ्चल्यातिशयस्य दुःखातिशयहेतुता प्रसिद्धैवेति भावः || १३ || मनः प्रकृत्यैव चलं बाल्यं च चलतां वरम् | तयोः संश्लिष्ट्यतोस्त्राता क इवान्तः कुचापले || १४ || संश्लिष्यतोर्मिलतोः | कुचापले तत्प्रयुक्तानर्थे || १४ || स्त्रीलोचनैस्तडित्पुञ्जैर्ज्वालाजालैस्तरङ्गकैः | चापलं शिक्षितं ब्रह्मञ्छैशवाक्रान्तचेतसः || १५ || शैशवेनाक्रान्ताच्चेतसश्चित्तात्सकाशात् शिक्षितमभ्यस्तं नूनमित्युत्प्रेक्षा || १५ || शैशवं च मनश्चैव सर्वास्वेव हि वृत्तिषु | भ्रातराविव लक्ष्येते सततं भङ्गुरास्थिती || १६ || भङ्गुरस्थिती | नुमभावश्छान्दसः | चपलस्वभावे || १६ || सर्वाणि दुःखभूतानि सर्वे दोषा दुराधयः | [बाल्यमेव] बालमेवोपजीवन्ति श्रिमन्तमिव मानवाः || १७ || दु.खभूतानि प्रभूतदुःखानि दुर्व्यसनादीनि || १७ || नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि | प्राप्नोति तदसौ याति विषयैषम्यमूर्छनाम् || १८ || तत्तदा विषयद्दुःसहेन वैषम्येण चित्तविकारेण | मूर्छनां मूर्छाम् || १८ || स्तोकेन वशमायाति स्तोकेनैति विकारिताम् | अमेध्य एव रमते बालः कौलेयको यथा || १९ || कौलेयकः श्वा | विशेषणानि साधारणानि || १९ || अजस्रबाष्पवदनः कर्दमाक्तो जडाशयः | वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः || २० || बाष्पमश्रु ऊष्मोद्गमश्च | जडाशयोऽज्ञबुद्धिरचेतनश्च | वर्षोक्षिततप्तभूमावपि बाष्पादयः प्रसिद्धाः || २० || भयाहारपरं दीनं दृष्टादृष्टाभिलाषि च | लोलबुद्धि वपुर्धत्ते बाल्यं दुःखाय केवलम् || २१ || भयं च आहारश्च भयाहारौ | दृष्टं संनिहितम् | अदृष्टमसंनिहितम् | लोले बुद्धिवपुषी यस्य || २१ || स्वसंकल्पाभिलषितान्भावानप्राप्य तप्तधीः | दुःखमेत्यबलो बालो [विनिष्कृत] विनिष्कृत्त इवाशये || २२ ||
SK
भावान्पदार्थान् | विनिष्कृत्तश्छिन्नः || २२ || दुरीहालब्धलक्षाणि [लक्ष्याणि] बहुवक्रोल्बणानि च | [बाल्यस्य] बालस्य यानि दुःखानि मुने तानि न कस्यचित् || २३ || दुरीहाभिर्दुश्चेष्टाभिर्दुष्टमनोरथैर्वा लब्धलक्षाणि प्राप्तास्पदानि | बहुभिर्वक्रैरनृजुभिर्वञ्चनोपायैरुल्बणानि क्रूराणि || २३ || बालो बलवता स्वेन मनोरथविलासिना | मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थली || २४ || विद्यागृहगतो बालो परामेति कदर्थनाम् | आलान इव नागेन्द्रो विषवैषम्यभीषणाम् || २५ || अपरां प्रागुक्तादन्यामपि कदर्थनां पारवश्यकशाघाद्यनिष्ट- nānāmanorathamayī mithyākalpitakalpanā | duḥkhāyātyantadīrghāya bālatā pelavāśayā || 26 || mithyāvastuṣveva kalpitā kalpanā satyatābuddhiryasyām || 26 || saṃhṛṣṭo bhuvanaṃ bhoktumindumādātumambarāt | vāñchate yena maurkhyeṇa tatsukhāya kathaṃ bhavet || 27 || kadācidbhojanecchayā rudanbālo bhuvanaṃ te bhojanaṃ dāsyāmīti pratāraṇena saṃhṛṣṭastadeva bhoktuṃ vāñchate vāñchatīti prasiddham || 27 || antaścitteraśaktasya śītātapanivāraṇe | ko viśeṣo [mahābāho] mahābuddhe bālasyorvīruhastathā || 28 || antarmanai cittiḥ śītātapādiduḥkhasaṃvedanaṃ yasya | urvīruhovṛkṣasya || 28 || uḍḍītumabhivāñchanti pakṣābhyāṃ kṣutparāyaṇāḥ | bhayāhāraparā nityaṃ bālā vihagadharmiṇaḥ || 29 || uḍḍītumuḍḍayitum | iṅguṇābhāvaśchāndasaḥ | pakṣābhyāṃ lakṣaṇayā bāhubhyām | vihagadharmiṇaḥ pakṣisamāḥ || 29 || śaiśave guruto bhītirmātṛtaḥ pitṛtastathā | janato jyeṣṭhabālācca śaiśavaṃ bhayamandiram || 30 || sakaladoṣadaśāvihatāśayaṃ śaraṇamapyavivekavilāsinaḥ | iha na kasyacideva mahāmune bhavati bālyamalaṃ parituṣṭaye || 31 || sakalābhirdoṣadaśābhirvihatāśayaṃ dūṣitāntaḥkaraṇam | avivekalakṣaṇasya vilāsino niraṅkuśavihāraśīlasya śaraṇaṃ gṛham | ciditi nipāto'pyarthe | evakāro bhinnakramaḥ | kasyāpi parituṣṭaye sukhāya alamatyarthe naiva bhavatītyarthaḥ || 31 ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे बाल्यजुगुप्सानामैकोनविंशः सर्गः || १९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे बाल्यजुगुप्सानामैकोनविंशः सर्गः || १९ || विंशः सर्गः २० श्रीराम उवाच | बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः | आरोहति निपाताय यौवनं संभ्रमेण तु || १ || लोभद्वेषमदासूयामानमात्सर्यदूषितम् | कामाद्यनर्थसदनं यौवनं चात्र निन्द्यते || अस्तु बाल्यमतिमौर्ख्याशक्तिपारतन्त्र्येभ्यो दुःखबहुलम् यौवनं तु तदभावान्नानाभोगरसरञ्जितत्वाच्च सुखहेतुरेवेति स्पृहणीयमेवे- bālyānartha-mityādinā | saṃbhrameṇa bhogotsāhena bhrāntyā vakṣyamāṇakāmapiśācā-dinā vā abhihatāśayo dūṣitāntaḥkaraṇaḥ | ācaturdaśavarṣaṃ māṇḍavyena maryādākaraṇānna tathā bālyaṃ nipātāya yauvanaṃ tu nipātāyaiveti bhāvaḥ || 1 || tatrānantavilāsasya lolasya svasya cetasaḥ | vṛttiranubhavanyāti duḥkhādduḥkhāntaraṃ jaḍaḥ || 2 || tatra yauvane | anantā vilāsāśceṣṭā yasya | vṛtti rāgadveṣādipariṇāmān | jaḍo mūrkhaḥ || 2 || svacittabilasaṃsthena nānāsaṃbhramakāriṇā | balātkāmapiśācena vivaśaḥ paribhūyate || 3 || paribhūyate vivekaṃ tiraskṛtya vaśīkriyate || 3 || cintānāṃ lolavṛttīnāṃ lalanānāmivā'vṛtīḥ | arpayatyavaśaṃ ceto bālānāmañjanaṃ yathā || 4 || ataevā'vaśamasvatantraṃ ceto lalanānāṃ yuvatīnāmiva lolavṛttīnāṃ cañcalasthitikānāṃ cintānāṃ avṛttiḥ varaṇaṃ vṛtistirodhānaṃ tadabhāvān | svairaprasarāniti yāvat | arpayati prayacchati | yathā nidhyādidarśanāya bālānāṃ karatale'rpitaṃ siddhāñjanaṃ lolavṛttīnāṃ tannayanaprabhāṇāṃ avṛtīḥ anāvaraṇāni | bhūmiśilādivyavadhānatiraskāreṇa svairaṃ nidhidarśanasamarthatāmiti yāvat || 4 || te te doṣā durārambhāstatra taṃ tādṛśāśayam | tadrūpaṃ pratilumpanti duṣtāstenaiva ye mune || 5 ||
SK
तत्र यौवने तादृशाशयं कामचिन्तादिवशीकृतचित्तमतएव तद्रूपं तत्प्रायं तं पुरुषं नरकादिहेतुत्वाद्व्ययक्लेशसाध्यत्वाच्च दुष्टा आरम्भाः स्त्रीद्यूतकलहादिव्यसनारम्भा येभ्यस्ते तथाविधास्ते ते प्रसिद्धा रागलोभादिदोषाः प्रतिलुम्पन्ति विनाशयन्ति | ये दोषास्तेन यौवनेनैव दुष्टाः | अतिशयं नीता इत्यर्थः || ५ || महानरकबीजेन संततभ्रमदायिना | यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः || ६ || अतएव महानवरकेति | स्पष्टम् || ६ || नानारसमयी चित्रवृत्तान्तनिचयोम्भिता | भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते || ७ || रसाः शृङ्गारादयः कट्वादयो विषयाभिलाषा दुस्तरजलानि च | प्राचुर्ये मयट् | रागलोभादीनां चोरव्याघ्रसर्पादीनां च चैत्रैराश्चर्यहेतु- [bhāsvarākāra] nimeṣabhāsurākāramālolaghanagarjitam | vidyutprakāśamivaṃ yauvanaṃ me na rocate || 8 || ghanāni bahulāni garjitānīva sābhimānoktayo ghanānāṃ meghānāṃ garjitāni ca yasmin | ataeva vidyudiva prakāśamānam || 8 || madhuraṃ svādu tiktaṃ ca dūṣaṇaṃ doṣabhūṣaṇam | surākallolasadṛśaṃ yauvanaṃ me na rocate || 9 || bhogakāle madhuramataeva svādu hṛdyaṃ tiktaṃ pariṇāmataḥ dūṣaṇaṃ nindāhetudoṣāṇāṃ bhūṣaṇamalaṃkārāyamāṇam | surāyāḥ kallolā madavilāsāḥ || 9 || asatyaṃ satyasaṃkāśamacirādvipralambhadam | svapnāṅganāsaṅgasamaṃ yauvanaṃ me na rocate || 10 || vipralambhadaṃ vañcanapradam || 10 || sarvasyāgre sarvapuṃsaḥ kṣaṇamātramanoharam | gandharvanagaraprakhyaṃ yauvanaṃ me na rocate || 11 || sarvasya kṣaṇamanoharasya vastujātasya madhye agre agresaraṃ śreṣṭhamityarthaḥ | gandharvanagaradarśanasya maraṇacihnatvāttatpakṣe sarvasya vayaso'gre ante ityarthaḥ || 11 || iṣuprapātamātraṃ hi sukhadaṃ duḥkhabhāsuram | dāhapoṣapradaṃ nityaṃ yauvanaṃ me na rocate || 12 || jyāmukta iṣuryāvatā kālena lakṣyaṃ prapatati tāvatkālaṃ sukhadam || 12 ||
SK
आपातमात्ररमणं सद्भावरहितान्तरम् | वेश्यास्त्रीसंगमप्रख्यं यौवनं मे न रोचते || १३ || रमणं रमणीयम् | सद्भावः शुभचित्तता || १३ || ये केचन समारम्भास्ते सर्वे सर्वदुःखदाः | तारुण्ये संनिधिं यान्ति महोत्पाता इव क्षये || १४ || सर्वेषां दुःखदा ये केचन समारम्भास्ते सर्वे इत्यन्वयः | क्षये प्रलये || १४ || हार्दान्धकारकारिण्या भैरवाकारवानपि | यौवनाज्ञानयामिन्या बिभेति भगवानपि [ज्ञानवानपि] || १५ || भैरवाकारवान् भगवानीश्वरोऽपि यौवनयुक्ताज्ञानरात्रेर्नूनं बिभेति कथमन्यथा सदैव विवेकज्ञानचन्द्रं धारयतीति भावः || १५ || सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् | ददात्यतितरामेष भ्रमं यौवनसंभ्रमः || १६ || भ्रमं भ्रान्तिम् | संभ्रमो मोहः || १६ || कान्तावियोगजातेन हृदि दुःस्पर्शवह्निना | यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा || १७ || दुःस्पर्᳚अः स्प्रष्टुमशक्यः शोकवह्निस्तेन हृदि चित्ते दह्यते || १७ || सुनिर्मलापि विस्तीर्णा पावन्यपि हि यौवने | मतिः कलुषतामेति प्रावृषीव तरङ्गिणी || १८ || दोषमार्जनेन निर्मला | औदार्येण | विस्तीर्णा | गुणाधानैः [गुणाधानेन] पावनी | चकारः शैत्यमाधुर्याद्यनुक्तसमुच्चयार्थः || १८ || शक्यते घनकल्लोला भीमा लङ्घयितुं नदी | न तु तारुण्यतरला तृष्णातरलितान्तरा || १९ || तारुण्येन तरला चञ्चला चित्तवृत्तिः | भोगतृष्णया तरलितानि आन्तराणीन्द्रियाणि यस्याम् || १९ || सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् | तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः || २० || जर्जरतां शैथिल्यम् || २० || नरं तरलर्ष्णार्ति युवानमिह साधवः | पूजयन्ति न तु च्छिन्नं जरत्तृणलवं यथा || २१ || तरलास्तृष्णार्तयो यस्मिन् | न [नेति क्वचिन्न लभ्यते] केवलं न पूजयन्ति किंत्ववमन्यन्तेऽपीति द्योतनाय तु शब्दः || २१ || नाशायैव मदार्तस्य दोषमौक्तिकधारिणः | अभिमानमहेभस्य नित्यालानं हि यौवनम् || २२ ||
SK
मानभङ्गस्तु मनस्विनां मरणोपम इत्यभिप्रेत्याह - नाशायैवेति | अभिमान एव महेभस्तस्य अथवा अभिमानैर्महेभवत्स्तब्धस्याविवेकि- || 22 || manovipulamūlānāṃ doṣāśīviṣadhāriṇām | śoṣarodanavṛkṣāṇāṃ yauvanaṃ bata kānanam || 23 || iṣṭālābhaviyogābhyāmantardāhācchoṣastadyuktarodanānyeva vṛkṣāḥ | doṣā evāśīviṣāḥ sarpāḥ | bateti khede || 23 || rasakesarasaṃbādhaṃ kuvikalpadalākulam | duścintācañcarīkāṇāṃ puṣkaraṃ viddhi yauvanam || 24 || rasyate iti rasaḥ sukhalavamakarandastena ke sukhe viṣaye saranti prasarantīti rāgādaya eva kesarāstaiśca saṃbādhaṃ nibiḍitam | dalāni patrāṇi | cañcarīkā bhramāraḥ | puṣkaraṃ padmam || 24 || kṛtākṛtakupakṣāṇāṃ hṛtsarastīracāriṇām | ādhivyādhivihaṃgānāmālayo navayauvanam || 25 || kṛtaṃ pāpamakṛtaṃ puṇyaṃ laukikakāryāṇi vā kṛtākṛtāni patanahetutvātku-pakṣāḥ | ālayo nīḍam || 25 || jaḍānāṃ gatasaṃkhyānāṃ kallolānāṃ vilāsinām | amapekṣitamaryādo vāridhirnavayauvanam || 26 || asaṃkhyatvādeva gatasaṃkhyānāṃ kallolānāṃ vikalpataraṅgāṇām | vilāsināṃ vilasanaśīlānām | anapekṣitamaryādo'navadhiḥ | anapekṣita-maniṣṭaṃ jarādiduḥkhameva maryādā paryavasānabhūryasyeti vā || 26 || sarveṣāṃ guṇasargāṇāṃ parirūḍharajastamāḥ | apanetuṃ sthitiṃ dakṣo viṣamo yauvanānilaḥ || 27 || citākāśe prasādaprakāśavivekadṛkprasarādīnāṃ sarveṣāṃ guṇānāṃ sṛjyante sādhusaṃgamasacchāstraprayatnādibhirutpādyanta iti sargāsteṣām | viśeṣyaviśeṣaṇabhāve kāmacārātparanipātaḥ | prayatnasahasrasādhitānāmapi [sādhyānāmapi] sadguṇānāmiti yāvat | sthitiṃ sthairyamapanetuṃ dakṣaḥ samarthaḥ | anilapakṣe guṇasargāṇāṃ lūtāsṛṣṭatantūnāṃ ca || 27 || nayanti pāṇḍutāṃ vakramākulāvakarotkaṭāḥ | ārohanti parāṃ koṭiṃ rūkṣā yauvanapāṃsavaḥ || 28 || pāṇḍutāmiti | viṣayavāsanottharogairityarthaḥ | ākulaiścālitairavakarairutkarā- दोषोत्कर्ष-मूर्ध्वदेशं च || २८ ||
SK
उद्बोधयति दोषालिं [विकृन्नति] निकृन्तति गुणावलिम् | नराणां यौवनोल्लासो विलासो दुऋकृतश्रियाम् || २९ || दोषाणामालिं समूहम् | दुष्कृतश्रियां पापसंपदां विलासहेतुत्वाद्विलासः || २९ || शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम् | निबन्धन्मोहयत्येष नवयौवनचन्द्रमाः || ३० || रजोगुणपरागनिरुद्धविवेकपक्षत्वाद्देहपङ्कज एव चञ्चलां मतिषट्पदीं बुद्धिभ्रमरीमर्थात्तदभिमानकोशे निबध्नन्मोहयति || ३० || शरीरखण्डकोद्भूता रम्या यौवनवल्लरी | लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता || ३१ || शरीरलक्षणे खण्डके अल्पे वनखण्डे कुञ्जे वा | वल्लरी पुष्पमञ्जरी | मदयति मोहयति | उन्नतिमुत्कर्षमूर्ध्वदेशं च || ३१ || शरीरमरुतापोत्थां युवतामृगतृष्णिकाम् | मनोमृगाः प्रधावन्तः पतन्ति विषयावटे || ३२ || शरीरमेव मरुभूमिस्तत्र कामातपतापेनोत्थां प्रतिभातां युवता यौवनं सैव मृगतृष्णिका तां प्रति धावन्तः | विषयलक्षणे अवटे गर्ते || ३२ || शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा | लहरी जीविताम्भोधेर्युवता मे न तुष्टये || ३३ || शरीरमेव शर्वरी रात्रिस्तस्या ज्योत्स्ना चन्द्रिका | चित्तलक्षणस्य केसरिणः सटास्कन्धलोम | तेन हि स शोभते | लहरी वीचिमाला || ३३ || दिनानि कतिचिद्येयं फलिता देहजङ्गले | युवता शरदस्यां हि न समाश्वासमर्हथ || ३४ || येयं युवता सेयं हि यस्माद्देहजङ्गले कतिचिद्दिनानि फलिता संजातफला शरत् शरत्कालः | अचिरादेव क्षयमेष्यतीति भावः | अतोऽस्यां समाश्वासं नार्हथेति स्वजनान्प्रत्युक्तिः || ३४ || झटित्येव प्रयात्येव शरीराद्युवताखगः | क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा || ३५ || उक्तमेव प्रपञ्चयति - झटितीत्यादिभिः षड्भिः || ३५ || यदा यदा परां कोटिमध्यारोहति यौवनम् | वल्गन्ति सज्वराः कामास्तदा नाशाय केवलम् || ३६ || परां कोटिमुत्कर्षकाष्ठाम् | वल्गन्ति गच्छन्ति | वृद्धमिति यावत् | सज्वराः ससंतापाः | पूर्वत्र वीप्सादर्शनात्तदातदेति परिणेयम् || ३६ ||
SK
तावदेव विवल्गन्ति रागद्वेषपिशाचकाः | नास्तमेति समस्तैषा यावद्युवनयामिनी || ३७ || विवल्गन्ति विशेषेण संचरन्ति | यामिनी रात्रिः || ३७ || नानाविकारबहुले वराके क्षणनाशिनि | कारुण्यं कुरु तारुण्ये म्रियमाणे सुते यथा || ३८ || विकाराश्चित्तविकारा बाललीलाश्च || ३८ || हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना | यौवनेन महामुग्धः स वै नरमृगः स्मृतः || ३९ || क्षणभङ्गिना यौवनेन मोहाद्यो हर्षमायाति स नरमृगो मनुष्यः सन्नपि पशुरेव | यतोऽसौ महामुग्धः || ३९ || मानमोहान्मदोन्मत्तं यौवनं योऽभिलष्यति | अचिरेण स दुर्बुद्धिः पश्चात्तापेन युज्यते || ४० || मानमोहादभिमानसहितादज्ञानात् | अभिलष्यति सारबुद्ध्या सज्जते || ४० || ते पूज्यास्ते महात्मानस्त एव पुरुषा भुवि | ये सुखेन समुत्तिर्णाः साधो यौवनसंकटात् || ४१ || सुखेन अहिंसासत्यास्तेयब्रह्मचर्याद्यनुपक्षयेण || ४१ || सुखेन तीर्यतेऽम्भोधिरुत्कृष्टमकराकरः | न कल्लोलबलोल्लासि सदोषं हतयौवनम् || ४२ || उत्कृष्टानां महतां मकराणां ग्राहाणामाकरः खनिः | रागादिकल्लोलानां बलेनोल्लसनशीलम् | हतं निन्दितम् | कुत्सितानि कुत्सनैः इति तत्पुरुषः || ४२ || विनयभूषितमार्यजनास्पदं करुणयोज्ज्वलमावलितं गुणैः | इह हि दुर्लभमङ्ग सुयौवनं जगति काननमम्बरगं यथा || ४३ ||
SK
ननु बाल्यवार्थकयोर्मौर्ख्याशक्तिभ्यां [मौग्ध्याशक्तिभ्यां] पुरुषार्थसाधनायोग्यत्वाद्यौवनस्यापि दोषबहुलत्वान्नास्ति कदापि पुरुषस्य साधनसंपत्त्या [पुरुषार्थं प्रत्याशेति] पुरुषार्थप्रत्याशेत्याशङ्क्य न सर्वं यौवनं निन्द्यते किंतु दुर्यौवनमेव सुयौवनं तु पुरुषार्थपर्यवसितमेवेति लक्षणैस्तद्दर्शयंस्तस्य दुर्लभतामाह - विनयेति | आर्याः पूज्या जना मुनिजना आस्पदं स्थानं यस्य आर्यजनानां साधुनामास्पदमावासस्थानवद्विश्रान्तिदमिति वा | गुणैः शान्तिदान्त्यादिभिः | जगति संसारे | हिशब्दोऽप्यर्थे | इहास्मिन्मनुष्यजन्मन्यपि सुदुर्लभं किमन्यत्रेत्यर्थः | अम्बरगं काननं नन्दनवनम् | तत्पक्षे वीन् पक्षिणो नयन्ति प्रापयन्ति स्वसंनिधिमिति विनयाः कल्पवृक्षास्तैर्भूषितम् | आर्यजना देवास्तेषामास्पदम् | अतएव करुणया दयया ऊर्जितम् | गुणैः फलपुष्पसमृद्ध्यादिभिः कल्पलतागुणैरावलितं वेष्टितमिति वा | इह भुवि सुदुर्लभमिति योज्यम् || ४३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे यौवनगर्हा नाम विंशतितमः सर्गः || २० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे यौवनगर्हा नाम विंशतितमः सर्गः || २० || एकविंशः सर्गः २१ श्रीराम उवाच | मांसपाञ्चलिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे | स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनं || १ || प्रत्यक्षनरकव्रातनिष्पन्ननिखिलाङ्गिकाः | स्त्रियोऽप्यत्र विनिन्द्यन्ते पुंसां नरकजन्मदाः || येषु स्त्रीपिण्डेषु यूनां रमणीयताभ्रमस्तेषां स्वरूपं विविच्य दर्शयितुमुपक्रमते - मांसेत्यादिना | स्नायवः शिराः | ग्रथनं ग्रन्थिस्तेन शालिन्याः शोभनाया मांसमय्याः पाञ्चालिकायाः प्रतिमायाः स्त्रियाः शकटादियन्त्रमिव लोले चञ्चले अङ्गपञ्चरे शोभनमिव यन्मन्यन्ते तत्किम् | न किंचिदित्यर्थः || १ || त्वड्वांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचनम् | समालोकय रम्यं चेत्किं मुधा परिमुह्यसि || २ ||
SK
उक्तमेव प्रपञ्चयिष्यन्प्रधमं यूनां यत्र नेत्रे विलासविभ्रमस्तत्र विवेके अशोभनतां दर्शयति - त्वगिति | समाहारद्वन्द्वः | रम्यं चेत्सज्जस्व [सज्जस्वेति फलितार्थकथनम्] | किं मुधेति | नोचेदिति शेषः | मुधा व्यर्थम् || २ || इतः केशा इतो रक्तमितीयं प्रमदातनुः | किमेतया निन्दितया करोति विपुलाशयः || ३ || विपुलाशयो विवेकविस्तीर्णबुद्धिः || ३ || वासोविलेपनैर्यानि लालितानि पुनः पुनः | तान्यङ्गान्यङ्ग लुण्ठन्ति क्रव्यादाः सर्वदेहिनाम् || ४ || अङ्गेति कोमलामन्त्रणे | लुण्ठन्ति उपघ्नन्ति | क्रव्यादा मांसाशिनो गृध्रगोमाय्वादयः || ४ || मेरुशृङ्गतटोल्लासिगङ्गाजलरयोपमा | दृष्टा यस्मिन्स्तने मुक्ताहारस्योल्लासशालिता || ५ || रयः प्रवाहः | मुक्ताहारस्य उल्लासशालिता शोभा यस्मिन्स्तने दृष्टा स एव ललनास्तन इत्युत्तरेण संबन्धः || ५ || श्मशानेषु दिगन्तेषु स एव ललनास्तनः | श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः || ६ || आस्वाद्यते रुच्या भक्ष्यते | अन्धस ओदनस्य || ६ || रक्तमांसास्थिदिग्धानि करभस्य यथा वने | तथैवाङ्गानि कामिन्यास्तां प्रत्यपि हि को ग्रहः || ७ || दिग्धान्युपचितानि करभस्य खरस्योष्ट्रस्य वा | ग्रह आग्रहः | आशातिशय इति यावत् || ७ || आपातरमणीयत्वं [कल्प्यते केवलं स्त्रियः] कल्पते केवलं स्त्रियाः | मन्ये तदपि नास्त्यत्र मुने मोहैककारणम् || ८ || अविचारजं ज्ञानमापातं पतनावधीति वा | कल्पते युज्यते | यतो मोहैककारणं चित्तविभ्रमैकनिमित्तकं तत् | नहि तथाविधं शुक्तिरजताद्यस्तीति भावः || ८ || विपुलोल्लासदायिन्या मदमन्मथपूर्वकम् | को विशेषो विकारिण्या मदिरायाः [स्त्रियस्तथा] स्त्रियास्तथा || ९ || विकारिण्याः स्वतः कामकिण्वादिविकारवत्याः स्खलनकलहादिविकारिण्या [विकारकारिण्या] वा || ९ || ललनालानसंलीना मुने मानवदन्तिनः | प्रबोधं नाधिगच्छन्ति दृधैरपि शमाङ्कुशैः || १० || सम्यग्लीना मदमोहात्सुप्तप्रायाः | प्रबोधं विवेकजागरणम् || १० ||
SK
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः | दुष्कृताग्निशिखा नार्थो दहन्ति तृणवन्नरम् || ११ || नार्यः स्त्रियः द्ष्कृताग्नीनां शिखा ज्वालाः | तदेव तद्धर्मैःरुपपादयति - केशेति | केशा एव कज्जलानि केशान्कज्जलानि च धारयितुं शीलं यासाम् | दुःस्पर्शाः स्प्रष्टुमशक्याः | लोचनप्रियाः प्रियदर्शनाः | अतएव हि नरं तृणवद्दहन्ति || ११ || ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः | स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् || १२ || अतिदूरे संयमिन्यां दारुणं यथा स्यात्तथा ज्वलतामपि नरकाग्नीना- svataśca virodhābhāsaḥ | athavā dāruṇamityapīndhanaviśeṣaṇameva | tathāca tatrāpi svata eva virodhābhāsaḥ | parihārastu vāsanāduṣṭatvāt sarasāḥ āpātataḥ nīrasāḥ paramārthataḥ | evaṃ cāru āpātataḥ dāruṇaṃ phalata iti || 12 || vikīrṇākārakabarī tarattārakalocanā | purṇendubimbavadanā kusumotkarahāsinī || 13 || yāminyā ākāro'ndhakāraḥ sa eva sa iva vā kabarī keśapāśo yasyāḥ | tarantyo bhramantyastārakā nakṣatrāṇyeva locanāni tānīva ca tarattārake calatkanīnike vā locane yasyāḥ | evamindubimbameva indubimbamiva vā vadanaṃ yasyāḥ | kusumotkara eva kusumotkara iva vā hāso'syā astīti vigrahaḥ || 13 || līlāvilolapuruṣā kāryasaṃhārakāriṇī | paraṃ vimohanaṃ buddheḥ kāminī dīrghayāminī || 14 || śṛṅgāralīlābhirvilolāḥ puruṣāyasyām | ataeva teṣāṃ kāryāṇāmavaśya- व्यर्थमायुर्विनाशायेति भावः || १४ || पुष्पाभिराममधुरा करपल्लवशालिनी | भ्रमराक्षिविलासाढ्या स्तनस्तबकधारिणी || १५ || न केवलं पुरुषार्थविघातिता अपित्वनर्थहेतुतापीत्याह - पुष्पेत्यादि- stanāveva stanāviva || 15 || puṣpakeṣaragaurāṅgī naramāraṇatatparā | dadātyunmattavaivaśaṃ kāntā viṣalatā yathā || 16 || puṣpakesaraiḥ puṣpakesarāṇīva vā | unmattānāṃ kāmonmādātsvasevināṃ mūrkhāṇāṃ mūrchāmaraṇādivaivaśyaṃ dadāti || 16 ||
SK
सत्कार्योच्छ्वासमात्रेण भुजङ्गदलनोत्कया | कान्तयोद्ध्रियते जन्तुः करभ्येवोरगो बिलात् || १७ || करभ्यत्र भल्लुकी | सा हि बिलस्थान्सर्पादीन्श्वासबलेनाकृष्य भक्षयतीति प्रसिद्धम् | तथा सत्कार्यैरलीकसत्कारैरुच्छ्वास आश्वासनं तावन्मात्रेण भुजङ्गानां विटानां दलने वित्तचित्तापहारेण विनाशे सोत्कण्ठया कान्तया जन्तुरुद्ध्रियते | वशीक्रियत इत्यर्थः || १७ || कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् | नार्यो नरविहंगानामङ्गबन्धनवागुराः || १८ || विकीर्णाः प्रसारिताः | वागुरा जालानि || १८ || ललनाविपुलालाने मनोमत्तमतंगजः | रतिशृङ्खलया ब्रह्मन्बद्धस्तिष्ठति मूकवत् || १९ || जन्मपल्वलमत्स्यानां [वित्तकर्दम] चित्तकर्दमचारिणाम् | पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका || २० || बडिशं मत्स्यवेधनकण्टकस्तत्रत्या पिष्टपिण्डिका || २० || कन्दुरं च तुरङ्गाणामालानमिव दन्तिनाम् | पुंसां मन्त्र इवाहीनां बन्धनं वामलोचना || २१ || मन्दुरं मन्दुरा वाजिशाला || २१ || नानारसवती चित्रा भोगभूमिरियं मुने | स्त्रियमाश्रित्य संयाता परामिह हि संस्थितिम् || २२ || इयं भोगभूमिर्ब्रह्माण्डलक्षणा इह संसारे परां दृढां संस्थितिं चिरस्थितिं संयाता प्राप्ता || २२ || सर्वेषां दोषरत्नानां सुसमुद्गिकयाऽनया | दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया || २३ || सुसमुद्गिकया दृढसंपुटिकया | अलं पर्याप्तम् | प्रयोजनं नास्तीत्यर्थः || २३ || किं स्तनेन किमक्ष्णा वा किं नितम्बेन किं भुवा | मांसमात्रैकसारेण करोम्यहमवस्तुना || २४ || अवस्तुना तुच्छेन || २४ || इति मांसमितो रक्तमितोऽस्थीनीति वासरैः | ब्रह्मन्कतिपयैरेव याति स्त्री विशरारुताम् || २५ || विशरारुतां विशीर्णताम् || २५ || यास्तात् पुरुषैः स्थूलैर्ललिता मनुजैः प्रियाः | ता मुने प्रविभक्ताङ्ग्यः स्वपन्ति पितृभूइषु || २६ || स्थूलैरसूक्ष्मदर्शिभिः | ललिता लालिताः | पितृभूमिषु श्मशानेषु || २६ ||
SK
यस्मिन्घनतरस्नेहं मुखे पत्राङ्कुराः स्त्रियः | कान्तेन रचिता ब्रह्मन्पीयते तेन जङ्गले || २७ || कर्पूरगोरोचनचन्दनादिकृतास्तिलकरचनाविशेषाः पत्राङ्कुराः | पीयते शुष्यते | पै शोषणे | अकर्मत्वाद्भावे लः || २७ || केशाः श्मशानवृक्षेषु यान्ति चामरलेखिकाम् | अस्थीन्युडुवदाभान्ति दिनैरवनिमण्डले || २८ || स्त्रियः केशाः लेख उल्लेख उत्प्रेक्षा सैव लेखिका ताम् | भस्मधूसरत्वा- pibanti pāṃsavo raktaṃ kravyādāścāpyanekaśaḥ | carmāṇi ca śivā bhuṅkte khaṃ yānti prāṇavāyavaḥ || 29 || pibanti śoṣayanti | pāṃsavo dhūlayaḥ | kravyaṃ māṃsamadantīti kravyādā anekaśaḥ santīti śeṣaḥ | śivā sṛgālī || 29 || ityeṣā lalanāṅgānāmacireṇaiva bhāvinī | sthirmayā vaḥ kathitā kiṃ bhrāntimanudhāvatha || 30 || sthitiḥ pariṇatiḥ || 30 || bhūtapañcakasaṃghaṭṭasaṃsthānaṃ lalanābhidham | rasādabhipatatvetakathaṃ nāma dhiyānvitaḥ || 31 || saṃghaṭṭanaṃ saṃghaṭṭastakṛtaṃ saṃsthānaṃ saṃniveśam | rasādrāgāddhiyānvito buddhimānkathamabhipatatu | arhe kṛtyatṛcaśca iti cakāreṇa loḍapi samuccīyata iti kecit || 31 || śākhyāpratānagahanā kaṭvamlaphalamālinī | sutālottālatāmeti cintā kāntānusāriṇī || 32 || pāralaukikaṃ duḥkhaṃ kaṭuphalamaihikaśokarāgādikaṃ tvīṣatsukhalavamiśra- वानानामम्लता | उत्तालतामूर्ध्वविस्तीर्णताम् || ३२ || कान्दिग्भूततया चेतो घनगर्धान्धमाकुलम् | परं मोहमुपादत्ते यूथभ्रष्टमृगो यथा || ३३ || आकुलमुक्तचिन्तयेति गम्यते | अतएव घनेन निबिडेन गर्धेन धनाभिलाषेणान्धम् | कां दिशं गमिष्यामि क्व धनं लप्स्यामीत्येवंभूततया चेतोमोहमुपादत्ते || ३३ || शोच्यतां परमां याति तरुणस्तरुणीपरः | निबद्धः करिणीलोलो विन्ध्यखाते यथा गजः || ३४ || खाते गर्ते || ३४ || यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः | स्त्रियं त्यक्त्वा जतत्त्यक्तं जतत्त्यकत्वा सुखी भवेत् || ३५ || भवनं भूः संभवः || ३५ ||
SK
आपातमात्ररमणेषु सुदुस्तरेषु भोगेषु नाहमलिपक्षतिचञ्चलेषु | ब्रह्मन्नमे मरणरोगजरादिभीत्या शाम्याम्यहं परमुपैमि पदं प्रयत्नात् || ३६ || पक्षतिः पक्षमूलम् | मरणजन्मजरादिभीत्या भोगेष्वहं न रमे इति संबन्धः | शाम्याम्युपरतोऽस्मि | उपैमीति वर्तमानसामीप्ये वर्तमानवत् || ३६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे स्त्रीजुगुप्सा नामैकविंशतितमः सर्गः || २१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे स्त्रीजुगुप्सा नामैकविंशतितमः सर्गः || २१ || द्वाविंशः सर्गः २२ श्रीराम उवाच | अपर्याप्तं हि बालत्वं बलात्पिबति यौवनम् | यौवनं च जरा पश्चात्पश्य कर्कशतां मिथः || १ || शोकमोहवियोगार्तिविषादगदसंकुलम् | चिन्तापरिभवस्थानं वृद्धत्वमिह निन्द्यते || ननु कामादिदोषप्राबल्यान्मास्तु यौवने सुखम् वृद्धावस्थायां तु तदुपशान्तौ विनीतैः पुत्रपौत्रादिभिर्गृहे सेव्यमानस्य बहुतरं सुखं भविष्यतीत्याशङ्क्य तत्र दुःखस्थानामानन्त्यं विस्तरेण विवक्षुः प्रथमं स्वकुलग्रासिसर्पाणां दया परकुले कुतः इति न्यायेन कर्क- 1 || himāśanirivāmbhojaṃ vātyeva śaradambukam [dambujaṃ] | dehaṃ jarā nāśayati nadī tīrataruṃ yathā || 2 || pāmarāṇāṃ paramapremāspadasukhāyatanasya dehasyaiva śithilīkaraṇe kva tatra sukhapratyāśetyāha - himāśanirivetyādinā | himamaśanirvajramiveti himāśaniḥ | [dambujaṃ] ambukamambukaṇaṃ tṛṇāgrasthamiti yāvat || 2 || jarjarīkṛtasarvāṅgī jarā jaraṭharūpiṇī | virūpatāṃ nayatyāśu dehaṃ viṣalavo yathā || 3 || jaraṭharūpiṇītyautprekṣikam | yadi svayaṃ tathā na syātkathamanyāṃstathā kuryāditi | viṣalavo bhukta iti śeṣaḥ || 3 || [dīrghasarvāṅgaṃ] śidhilādīrṇasarvāṅgaṃ jarājīrṇakalevaram | samaṃ paśyanti kāminyaḥ puruṣaṃ karabhaṃ yathā || 4 ||
SK
समशब्दोऽत्र सर्वपर्यायः | कामिन्यो जराजीर्णकलेवरं सर्वं पुरुषं करभं उष्ट्रं यथा तथा पश्यन्ति | तदेवोपपादयति - शिथिलेति | शिथिलान्यादीर्णानि सर्वाङ्गानि यस्य तम् || ४ || अनायासकदर्थिन्या गृहीते जरसा जने | पलाय्य गच्छति प्रज्ञा सपत्न्येवाहताङ्गना || ५ || अनायासेन विनैवायासम् | कदर्थयितुं दैन्यं प्रापयितुं शीलं यस्याः | आहता परिभूता || ५ || दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा | हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् || ६ || उन्मत्तकमिति कुत्सायां कन् || ६ || दुष्प्रेक्ष्यं जरठं दीनं हीनं गुणपराक्रमैः | गृधो वृक्षमिवादीर्घं गर्धो ह्यभ्येति वृद्धकम् || ७ || आदीर्घमतिदीर्घम् | गर्धोऽभिलाषातिशयः | वृक्षपक्षे सफलशाखा- dainyadoṣamayī dīrghā hṛdi dāhapradāyinī | sarvāpadāmekasakhī vārdhake vardhate spṛhā || 8 || dainyadoṣapracurā || 8 || kartavyaṃ kiṃ mayā kaṣṭaṃ paratretyatidāruṇam | apratīkārayogyaṃ hi vardhate vārdhake bhayam || 9 || kaṣṭamiti daurmanasyadyotako nipātaḥ || 9 || ko'haṃ varākaḥ kimiva karomi kathameva ca | tiṣṭhāmi kaunameveti dīnatodeti vārdhake || 10 || ko'hamityādirdīnatāyā evollekhaḥ | kiṃkathaṃśabdau sādhyasādhanacintā- कथं कदा मे किमिव स्वादु स्याद्भोजनं [जनादिति] जनात् | इत्यजस्रं जरा चैषा चेतो दहति वार्धके || ११ || वार्धके जनान्प्राप्य | एषा उक्तलक्षणा अपरापि जरा चेतो दहतीति संबन्धः | इह पूर्वश्लोके च इवशब्दो विषयविसंवादद्योतनार्थः || ११ || गर्धोऽभ्युदेति सोल्लासमुपभोक्तुं न शक्यते | हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके || १२ || भोक्तुं शक्तौ जरणाशक्तिस्तच्छक्तौ भोक्तुमशक्तिरित्यादिशक्तिदौस्थ्यम् || १२ || जराजीर्णबकी यावत्कायक्लेशापकारिणी | रौति रोगोरगाकीर्णा कायद्रुमशिरःस्थिता || १३ ||
SK
कायस्य क्लेशैः पीडनैरपकारिणी | बक्या अपि स्वाश्रयद्रुमपीडकत्वं [पिडिकात्वं] प्रसिद्धम् | रोगलक्षणेनोरगेणाकीर्णा ग्रस्ता यावद्रौति रोदिति तावन्मरणकौशिकः कुतोऽप्यागत एव दृश्यत इति संबन्धः || १३ || तावदागत एवाशु कुतोऽपि परिदृश्यते | घनान्ध्यतिमिराकाङ्क्षी मुने मरणकौशिकः || १४ || घनमान्ध्यं मूर्च्छा तदेव तिमिरमन्धकारः || १४ || सायंसंध्यां प्रजातां वै तमः समनुधावति | जरां वपुषि दृष्ट्वैव मृतिः समनुधावति || १५ || पूर्वार्थार्थो दृष्टान्तः | प्रजातां संभूताम् || १५ || जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः | अध्यापतति वेगेन मुने मरणमर्कटः || १६ || अथि उपर्यापतति तद्विनाशायेति भावः || १६ || शून्यं नगरमाभाति भाति च्छिन्नलतो द्रुमः | भात्यनावृष्टिमान्देशो न जराजर्जरं वपुः || १७ || आभाति ईषच्छोभतेऽपि || १७ || क्षणान्निगरणायैव कासक्वणितकारिणी | गृध्रीवामिषमादत्ते तरसैव नरं जरा || १८ || कास एव क्वणितं ध्वनिस्तत्करणशीला | गृध्री आमिषमिव नरं तरसा वेगेन निगरणायैवादत्त इत्यन्वयः || १८ || दृष्ट्वैव सोत्सुकेवाशु प्रगृह्य शिरसि क्षणम् | प्रलुनाति जरा देहं कुमारी कैरवं यथा || १९ || प्रलुनाति विनाशयति | कुमारी बालिका | कैरवं कुमुदम् || १९ || सीत्कारकारिणी पांसुपरुषा परिजर्जरम् | शरीरं शातयत्येषा वात्येव तरुपल्लवम् || २० || वात्यात्र शिशिरर्तुवायुसमूहः | सा हि सीत्कारादि कारयति शरीरं तरुपल्लवं च पांसुध्वस्तं कृत्वा विदारयत्येवं जरापि || २० || जरसोपहतो देहो धत्ते जर्जरतां गतः | तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् || २१ || परिम्लानाम्बुजस्य श्रियं साम्यम् || २१ || जरा ज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः | विकासयति संरब्धं वातकासकुमुद्वती || २२ || जरैव ज्योत्स्ना कौमुदी | शिर एव शिखरिपृष्ठं पर्वतोर्ध्वदेशः | वातकासौ रोगौ तावेव कुमुद्वतीं कुमुदलतां संरब्धं सोद्योगं विकासयति || २२ ||
SK
परिपक्वं समालोक्य जराक्षारविधूसरम् | [कूश्माण्डेत्युभयत्र] शिरःकूष्माण्डकं भुङ्क्ते पुंसां कालः किलेश्वरः || २३ || जरैव क्षारो लवणादिचूर्णं तेन विधूसरमुपस्कृतमिति यावत् | ईश्वरः स्वामी शिरःकुष्माण्डस्य [कूश्माण्डेत्युभयत्र] | तेनैवोत्पाद्य वर्थितत्वात् || २३ || जराजह्नुसुतोद्युक्ता मूलान्यस्य निकृन्तति | शरीरतीरवृक्षस्य चलत्यायुषि सत्वरम् || २४ || जह्नुसुत गङ्गा | अविरामादुद्युक्तेव | आयुषि आयुःप्रवाहे सत्वरं चलति सति || २४ || जरामार्जारिका भुङ्क्ते यौवनाखुं तथोद्धता | परमुल्लासमायाति शरीरामिषगर्धिनी || २५ || यौवनमेवाखनति विषयबिलमित्याखुस्तं भुङ्क्ते तथा शरीराभिषस्य गर्धिनी भक्षणेच्छुः || २५ || काचिदस्ति जगत्यस्मिन्नाम᳚गलकरी तथा | यथा जराक्रोशकरी देहजङ्गलजम्बुकी || २६ || जरैव देहजङ्गले तम्बुकी शिवा | आक्रोशो रोदनमारावश्च || २६ || कासश्वासससीत्कारा दुःखधूमतमोमयी | जराज्वाला ज्वलत्येषा यस्यासौ दग्ध एव हि || २७ || आर्द्रकाष्ठे दह्यमाने ज्वालायामपि सीत्कारः प्रसिद्धह् || २७ || जरसा वक्रतामेति शुक्लावयवपल्लवा | तात तन्वी तनुर्नॄणां लता पुष्पानता यथा || २८ || तन्वी अल्पा | तनुः शरीरम् || २८ || जराकर्पूरधवलं देहकर्पूरपादपम् | मुने मरणमातङ्गो नूनमुद्धरति क्षणात् || २९ || कर्पूरपादपं कदलीतरुम् | उद्धरति उन्मूलयति || २९ || मरणस्य मुने राज्ञो जराधवलचामरा | आगच्छतोऽग्रे निर्याति स्वाधिव्याधिपताकिनी || ३० || आगच्छत आगमिष्यतः | वर्तमानसामीप्ये वर्तमानवत् | जरा धवलचामरं यस्याः | स्वा स्वीया आधिव्याधीनां पताकिनी सेना || ३० || न जिताः शत्रुभिः संख्ये प्रविष्टा येऽद्रिकोटरे | ते जराजीर्णराक्षस्या पश्याशु विजिता मुने || ३१ || अद्रिकोटरे दुष्प्रवेशे पर्वतविवरेऽपि ये धैर्येण प्रविष्टाः || ३१ || जरातुषारवलिते शरीरसदनान्तरे | शक्नुवन्त्यक्षशिशवः स्पन्दितुं न मनागपि || ३२ ||
SK
तुषारो हिमं तेन बलिते संकोचिते | अक्षाणीन्द्रियाण्येव शिशवो बालाः || ३२ || दण्डतृतीयपादेन प्रस्खलन्ती मुहुर्मुहुः | कासाधोवायुमुरजा जरा योषित्प्रन्र्त्यति || ३३ || दण्डोऽवलम्बनयष्टिस्तद्रूपेण तृतीयपादेनोपलक्षिता | कासाधोवायू मुरजो वाद्यविशेषो यस्याः || ३३ || संसारसंसृतेरस्या गन्धकुट्यां शिरोगता | देहयष्ट्यां जरानाम्नी चामरश्रीर्विराजते || ३४ || अस्याः प्रसिद्धायाः | संसाराख्यस्य [संसाराख्यराज्ञः] राज्ञः संसृतेर्व्यवहारस्य संबन्धिनी | गन्धयति रागादिभिर्वासयति चित्तं सभां चेति गन्धो विषयभोगः कस्तूर्यादिगन्धद्रव्यं च तस्य कुठ्यां आश्रयभूतायां देहयष्ट्यां शिरोगता जरानाम्नी चामरश्रीर्विराजते | सौन्दर्यसौरभ्यमन्दवायुप्रसरादिभिरित्यर्थः || ३४ || जराचन्द्रोदयसिते शरीरनगरे स्थिते | क्षणाद्विकासमायाति मुने मरणकैरवम् || ३५ || स्थिते जीविताशासरसीति शेषः || ३५ || जरासुधालेपसिते शरीरान्तःपुरान्तरे | अशक्तिरार्तिरापच्च तिष्ठन्ति सुखमङ्गनाः || ३६ || सुधा चूर्णम् || ३६ || अभावोऽग्रेसरी यत्र जरा जयति जन्तुषु | कस्तत्रेह समाश्वासो मम मन्दमतेर्मुने || ३७ || यत्र येषु जन्तुषु चतुर्विधशरीरेषु प्रथमं जरा जयत्यभिभवति | अग्रे च अभावो मृत्युः सरणं सरः सरोऽस्यास्तीति सरी | अवश्यमागन्तेत्यर्थः | अभावाग्रेसरीति पाठश्चेत्स्पष्टः | तत्र तेषु शरीरेषु मध्ये इहास्मिन् शरीरे मम कः समाश्वासो विस्रम्भः | ननु वसिष्ठादीनामपि तुल्यमेतदित्या- kiṃ tena durjīvitadurgraheṇa jarāgatenāpi hi jīvyate yat | jarājagatyāmajitā janānāṃ sarvaiṣaṇāstāt tiraskaroti || 38 || durjīvite duḥkhajīvane durgraho durāgrahastena kim | vyarthamityarthaḥ | sarvaiṣaṇāḥ sarvānabhilāṣān || 38 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye vairāgyaprakaraṇe jarājugupsā nāma dvāviṃśatitamaḥ sargaḥ || 22 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe vairāgyaprakaraṇe jarājugupsā nāma dvāviṃśatitamaḥ sargaḥ || 22 ||
SK
त्रयोविंशः सर्गः २३ श्रीराम उवाच | विकल्पकल्पनानल्पजल्पितैरल्पबुद्धिभिः | भेदैरुद्धुरतां नीतः संसारकुहरे भ्रमः || १ || रमयन्स्वविलासौघैः सर्वप्राणिक्रियाप्रियाम् [क्रियापराम्] | गुणदोषबलोत्कर्षैः काल एकोऽत्र वर्ण्यते || इत्थं भोग्यायाः श्रियो भोगतृष्णाया भोगावसरभूतबाल्याद्यव- svasyehāmutrārthaphalabhogavirāgo darśitaḥ | saṃprati kāmādisvabhāva- विकल्पेति | ममेदं भोग्यम् अहमस्य भोक्ता इमानि च तत्साधनानि अनेनेदमित्थं संपाद्य चिरं भोक्ष्यामि इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् इत्याद्यनन्तमनोविकल्पकल्पनैरनल्पानि जल्पितानि व्यवहारवचनानि येषां तैः | स्ल्पे देहे आत्मबुद्धिरल्पेषु सुखलवेषु परमपुरुषार्थबुद्धिश्च येषां तैर्मूढजनैः | शत्रुमित्रोदासीनादि- saṃsaratyasminniti saṃsāro brahmāṇḍaṃ tasya kuhare chidre bhramo'nyathā- सतां कथमिवास्थेह जायते जालपञ्जरे | बाला एवात्तुमिच्छन्ति फलं मुकुरबिम्बितम् || २ || जालमिव दूरादप्याकृष्य बन्धका विषयाः पञ्जरमिव परिच्छिद्य बन्धको देहस्तयोः समाहारे | भ्रान्तिसिद्धत्वादेवावस्तुभूते इह संसारे सतां विवेकिनामास्था कथमिव जायते | तत्प्रकारे दृष्टान्तोऽप्यप्रसिद्ध इति सूचनायेवकारः | तदेव दृष्टान्तेन द्रढयति - बाला एवेति | मुकुरे दर्पणे || २ || इहापि विद्यते येषां पेलवा सुखभावना | आखुस्तन्तुमिवाशेषं कालस्तामपि कृन्तति || ३ || इह ईदृशेऽपि संसारे येषां पेलवा क्षुद्रा सुखभावना सुखाशा तामाखुर्बिलतृणाग्रात्कूपे लम्बमानं तन्मात्रावलम्बजिजीविषुकीटा- na tadastīha yadayaṃ kālaḥ sakalaghasmaraḥ | grasate tajjagajjātaṃ protthābdhimiva vāḍavaḥ || 4 || ihāsyāṃ vyavahārabhūmau jagati jātamutpannaṃ tattādṛśaṃ vastu nāsti yatkālo na grasata iti naña āvṛttyā saṃbandhaḥ | ghasmaro bhakṣakaḥ | candrodādinimittaiḥ protthamupacitamabdhiṃ vāḍavo vaḍavānalaḥ || 4 ||
SK
समस्तसामान्यतया भीमः कालो महेश्वरः | दृश्यसत्तामिमां सर्वां कवलीकर्तुमुद्यतः || ५ || समस्तसामान्यतया सर्वपदार्थसाधारण्येन | काल एव महेश्वरः संहाररुद्रः || ५ || महतामपि नो देवः प्रतिपालयति क्षणम् | कालः कवलितानन्तविश्वो विश्वात्मतां गतः || ६ || महतामपीति कर्मण एव शेषत्वविवक्षया षष्ठी | बलबुद्धिवैभवादिना महान्त्यपि भूतानि क्षणमपि न प्रतिपालयति न प्रतीक्षते | सद्य एव निहन्तीत्यर्थः || ६ || युगवत्सरकल्पाख्यैः किंचित्प्रकटतां गतः | रूपैरलक्ष्यरूपात्मा सर्वमाक्रम्य तिष्ठति || ७ || आक्रम्य वशीकृत्य || ७ || ये रम्या ये शुभारम्भाः सुमेरुगुरवोऽपि ये | कालेन विनिगीर्णास्ते गरुडेनेव पन्नगाः || ८ || निर्दयः कठिनः क्रूरः कर्कशः कृपणोऽधमः | न तदस्ति यदद्यापि न कालो निगिरत्ययम् || ९ || पाषाणादिवत्कठिनः व्याघ्रादिवत्क्रूरः क्रकचादिवत्कर्कश इति भेदः | निगिरति ग्रसति || ९ || कालः कवलनैकान्तमतिरत्ति गिरन्नपि | अनन्तैरपि लोकोघैर्नायं तृप्तो महाशनः || १० || कवलनविषय एवैकान्तमतिर्नियतचित्तः | एकं गिरन्नपरमति | गिरीनपीति पाठे स्पष्टम् || १० || हरत्ययं नाशयति करोत्यत्ति निहन्ति च | कालः संसारनृत्तं हि नानारूपं यथा नटः || ११ || हरणादि यत्किंचिद्धनादौ प्रसिद्धं तत्सर्वं तत्तत्कर्तृरूपेण स्थितः काल एव करोत्तिति भावः || ११ || भिनत्ति प्रविभागस्थ भूतबीजान्यनारतम् | जगत्यसत्तया बन्धाद्दाडिमानि यथा शुकः || १२ || प्रविभागो व्याकृतावस्था तत्स्थान्यण्डजादिचतुर्विधभूतबीजानि असत्तया बन्धात् नाशेन असत्त्वापादनात् भिनत्ति विदार्य भक्षयत्तित्युत्प्रेक्षा | दृष्टान्तः स्पष्टः || १२ || शुभाशुभविषाणाग्रविलूनजनपल्लवः | स्फूर्जति स्फीतजनताजीवराजीवनीगजः || १३ ||
SK
स्फीता अभिमानाद्युपचिता या जनता जनसमूहास्तेषां जीवराजी जीवसमूहः सैव वनी महद्वनं तत्रत्यो गजः कालः | राजीविनीति पाठे तु कमलिनी तस्या विनाशने गज इत्यर्थः | तदनुरूपं विशिनष्टि - शुभाशुभेति | स्फूर्जति गर्जति || १३ || विरिञ्चिमूलब्रह्माण्डबृहद्देवफलद्रुमम् | ब्रह्मकाननमाभोगि परमावृत्य तिष्ठति || १४ || विरिञ्चिरपञ्चीकृतभूतात्मा मूलं येषां तथाविधा ब्रह्माण्डा एव [मूलस्थबृहच्छब्दपर्याया महान्त] महान्तो देवतारूपफलविशिष्टा द्रुमा यस्मिंस्तथाभूतम् | वेषः कृत्रिम आभोगो मायिकं जगद्रूपं तदस्यास्तीत्याभोगि | द्वे वाव ब्रह्मणो रूपे मूर्त चैवामूर्तं च इति श्रुतेः सप्रपञ्चमित्यर्थः | ब्रह्मैव काननं दुस्तरत्वादरण्यं परमत्यर्थमावृत्य सर्वतो व्याप्य कालस्तिष्ठति | कालोदर एव सर्ववस्तूनामुत्पत्तिस्थितिविनाशदर्शनादिति भावः | विरिञ्चिमजब्रह्माण्डं महद्दिवफलद्रुतम् इति पाठस्यैव सार्वत्रिकत्वे तु विरिञ्चिमुक्तब्रह्माण्डकारणं मायाशबलमिति यावत् | अजाश्चतुर्मुखाः प्रतिब्रह्माण्डं तस्यैव लीलाविग्रहास्तत्सहितं ब्रह्माण्डम् | जातावेकवचनम् | तदेव महत् | दिवा देवाः | गुणाभावश्छान्दसः | तदुपलक्षितचतुर्विधभूतान्येव तत्तत्कर्मफलयुक्ता द्रुमा यस्मिंस्तथाविधम् | आभोगि कृत्रिमवेषवत् ईषद्भोगयुक्तं सर्वतः सर्पवाप्तप्रायं वा ब्रह्मकाननमावृत्य तिष्ठतीत्यर्थः || १४ || यामिनी भ्रमरापूर्णा रचयन्दिनमञ्जरीः | वर्षकल्पकलावल्लीर्न कदाचन खिद्यते || १५ || यामिन्यो रात्रयस्तद्रूपैर्भ्रमरैरापूर्णाः | दिनान्यहान्येव मँजर्यो यासु ताः | वर्षः संवत्सरः कल्पो ब्रह्माहः कलास्त्रिंशत्काष्ठा- khedādviramatīti yāvat || 15 || bhidyate [na ca bhagno'pi] nāvabhagno'pi dagdho'pi hi na dahyate | dṛśyate nāpi dṛśyo'pi dhurtacūḍāmaṇirmune || 16 || tattatkāryātmanā avabhagno dagdho dṛśyo'pi vā svarūpeṇa na bhaṅgādi prāpnotītyarthaḥ || 16 ||
SK
एकेनैव निमेषेण किंचिदुत्थापयत्यलम् | किंचिद्विनाशयत्युच्चैर्मनोराज्यवदाततः || १७ || दुर्विलासविलासिन्या चेष्टया कष्टपुष्टया | द्रविअय्करूपकृद्रूपं जनमावर्तयन्स्थितः || १८ || तत्तद्युगानुरूपचेष्टैव स्वकीयदुर्विलासेषु विलासिनी प्राणिनां कष्टेनैव पुष्टा कालस्य भार्या तया द्रव्यैर्भौतिकदेहेन्द्रियादिभिस्तादात्म्याध्या- svarganarakādisvāvartayansthitaḥ || 18 || tṛṇaṃ pāṃsuṃ mahendraṃ ca sumeruṃ parṇamarṇavam | ātmaṃbharitayā sarvamātmasātkartumudyataḥ || 19 || ātmaṃbharitayā svakukṣipūraṇamātrasvabhāvena | ātmasātsvādhīnaṃ kartum | grasitumiti yāvat || 19 || krauryamatriva paryāptaṃ lubdhatātraiva saṃsthitā | sarvadaurbhāgyamatraiva cāpalaṃ [cāpi] vāpi duḥsaham || 20 || paryāptaṃ samagram | atrāsminkāle || 20 || prerayaṁllīlayārkendū krīḍatīva nabhastale | nikṣiptalīlāyugalo nije bāla ivāṅgaṇe || 21 || nikṣiptaṃ punaḥpunarāsphālitaṃ līlārthaṃ kandukayugalaṃ yena || 21 || sarvabhūtāsthimālābhirāpādavalitākṛtiḥ | vilasatyeva kalpānte kālaḥ kalitakalpanaḥ || 22 || kalitakalpano nāśitaprāṇivibhāgaḥ || 22 || asyoḍḍāmaravṛttasya kalpānte'ṅgavinirgataiḥ | prasphuratyambare merurbhūrjatvagiva vāyubhiḥ || 23 || uḍḍāmaraṃ niraṅkuśaṃ vṛttaṃ caritraṃ yasya | aṅgebhyo vinirgatairvāyubhirmerurbhūrjatvagiva sarvato viśīryamāṇaḥ || 23 || rudro bhūtvā bhavatyeṣa mahendro'tha pitāmahaḥ | śakro vaiśravaṇaścāpi punareva na kiṃcana || 24 || dhatte'jasrotthitoddhvastānsargānamitabhāsvarān | anyāndadhaddivānaktaṃ vīcīrabdhirivātmani || 25 || anyānsargāndadhaddhārayannaivārthādanyānajasramutthitānuddhvastāṃśca sargāndhatte | ajasrotthito nityodyukta iti kālaviśeṣaṇaṃ vā | vīcīstaraṅgān || 25 || mahākalpābhidhānebhyo vṛkṣebhyaḥ pariśātayan | devāsuragaṇānpakvānphalabhārāniva sthitaḥ || 26 || śātayan pātayan || 26 ||
SK
कालोऽयं भूतमशकघुंघुमानां प्रपातिनाम् | ब्रह्माण्डोदुम्बरौघानां वृहत्पादपतां गतः || २७ || भूतानि प्राणिन एव मशकास्तैर्घुघुमानां घुंघुमिति ध्वनतां ब्रह्माण्डोदुम्बरफलौघानाम् || २७ || सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया | वपुर्विनोदयत्येकं क्रियाप्रियतमान्वितः || २८ || चित् सर्वाधिष्ठानचैतन्यमेव ज्योत्स्ना चन्द्रिका तत्संनिधानमात्रेण परितः फुल्लया व्यक्ततां प्राप्तया जगत्सत्तासामान्यलक्षणया कुमुद्वत्या कुमुदिन्या विनोदहेतुभूतया तत्तत्प्राणिशुभाशुभक्रियालक्षण- [vihārakautukaiḥ] vyavahārakautukaiḥ kālakṣepastatra kālasya vihartuḥ kālāntarāprasiddheḥ svavapureva vinodayatīti bhāvaḥ || 28 || anantāpāraparyantabaddhapīṭha nijaṃ vapuḥ | mahāśailavaduttuṅgamavalambya vyavasthitaḥ || 29 || anante'paricchinne anantāyāṃ bhuvi ca ataevāpāraparyante pūrvottarāvadhiśunye brahmaṇi pradeśe ca baddhapīṭhaṃ pratiṣṭhitam || 29 || kvacicchyāmatamaḥśyāmaṃ kvacitkāntiyutaṃ tatam | dvayenāpi kvacidriktaṃ svabhāvaṃ bhāvayan sthitaḥ || 30 || kvacinniśīthāñjanādau śyāmaistamobhistama iva vā śyāmam | svabhāvaṃ svakāryam || 30 || saṃlīnāsaṃkhyasaṃsārasārayā svātmasattayā | urvyeva bhāraghanayā nibaddhapadatāṃ gataḥ || 31 || saṃlīnānāmasaṃkhyaprāṇisaṃsārāṇāṃ sāravatpariśiṣṭayā svātmasattayā svarūpasthityā sarvādhāratvādbhāraghanayā nibaddhapadaḥ pratiṣṭhitastadbhāvam || 31 || na khidyate nādriyate nāyāti na ca gacchati | nāstameti na codeti mahākalpaśatairapi || 32 || kevalaṃ jagadārambhalīlayā ghanahelayā | pālayatyātmanātmānamanahaṃkāramātatam || 33 || [ghaneti] ghanahelayā anāsthayā | pālayati na vināśayati | anahaṃkāraṃ nirabhimānaṃ yathā syāttathā ātataṃ vistīrṇam || 33 || yāminīpaṅkakalitāṃ dinakokanadāvalīm | [bhramarikāṃ svātma] meghabhramarikāmātmasarasyāropayansthitaḥ || 34 ||
SK
यामिनी रात्रिः सैव मालिन्यात्पङ्कस्तस्मात्कलितामुद्गताम् | दिनान्येव कोकनदावली रक्तोत्पलसमूहः स्वात्मा कालस्वरूपमेव सरस्तस्मिन् || ३४ || गृहीत्वा कृपणः कृष्णां रजनीं जीर्णमार्जनीम् | आलोककनकक्षोदानाहरत्यभितो गिरिम् || ३५ || कृपणो लुब्धोऽत एव नूतनसंमार्जन्यन्तरसंपादनासमर्थः | सकृन्मार्जनेन बहुतरकनकलाभेऽप्यसंतुष्टश्चेति भावः | गिरिं कनकाचलम् | अतएव कनकक्षोदान् गिरेः शीर्णानिति गम्यते || ३५ || संआरयन्क्रियाङ्गुल्या कोणकेष्वर्कदीपिकाम् | जगत्सद्मनि कार्पण्यात्क्व किमस्तीति वीक्षते || ३६ || प्रकारान्तरेण तस्य कार्पण्यमाह - संचारयन्निति | कोणकेषु दिक्कोणेषु || ३६ || प्रेक्ष्याहर्विनिमेषेण सूर्याक्ष्णा पाकवन्त्यलम् | लोकपालफलान्यत्ति जगज्जीर्णवनादयम् || ३७ || सूर्याक्ष्णोऽनुरूपोऽहरेव विनिमेषस्तेन || ३७ || जगज्जीर्णकुटीकीर्णानर्पयत्युग्रकोटरे | क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके || ३८ || जगदेव जीर्णा कुटी तृणगृहं तत्र कीर्णान्प्रमादात्पतितान् | मृत्युरेव समुद्गकः संपुटकस्तस्मिन् || ३८ || गुणैरापूर्यते यैव लोकरत्नावली भृशम् | भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तन्ति || ३९ || गुणैस्तन्तुभिर्विद्याविनयादिभिश्च | लोको जनः अङ्गे स्वावयवे कृतत्रेतादौ | यद्यपि सर्वं निकृन्तति तथापि गुणवतां विनाश एव प्रसिद्धिमायातीति श्लोकद्वये तदुक्तिः || ३९ || दिनहंसानुसृतया निशेन्दीवरमालया | तारकेसरयाजस्रं चपलो वलयत्यलम् || ४० || ताराणि दीर्घाणि नक्स्ऽत्राण्येव वा केसराणि यस्यामुत्पलमालायाम् | हंसनिवेशस्यानौचित्यद्योगनाय चपल इति | वलयति वलयवद्धारयति | पञ्चर्त्वङ्गुलिकवत्सरकरप्रकोष्ठे इति शेषः || ४० || शैलार्णद्युधराशृङ्गजगदूर्णायुसौनिकः | प्रत्यहं पिबते प्रेक्ष्य तारारक्तकणानपि || ४१ ||
SK
अर्णा अर्णवाः | द्यौर्लोकः | शैलादयश्चत्वारः प्रधानत्वाच्छृङ्गाणि येषां जगल्लक्षणानामूर्णायूनां मेषाणां सूना हिंसास्थानं तत्र भवः सौनिको हिंसकः कालो नभोङ्गणविकीर्णांस्तारा नक्षत्राण्येव रक्तकणास्तानपि प्रेक्ष्य प्रत्यहमहन्यहनि पिबते लेढीत्युत्प्रेक्षा | आत्मनेपदं छान्दसम् || ४१ || तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी | न तदस्ति न यस्यायं तुच्छातुच्छस्य तस्करः || ४२ || तुच्छस्य न क्षुद्रस्यातुच्छस्य महतश्च वस्तुजातस्य मध्ये यस्यायं तस्करो न भवति तन्नास्तीति संबन्धः || ४२ || कल्पकेलिविलासेन पिष्टपातितजन्तुना | अभावो भावभासेन रमते स्वात्मनात्मनि || ४३ || पिष्टाः संचूर्णिता मृत्युमुखे पातिताश्च जन्तवो येन तथाभूतेन | कल्पः संवर्तस्तद्रूपेण केलिविलासेन | न विद्यन्ते भावा यस्य तथाभूतः सन् सुषुप्ताविव भावरूपज्ञानावभासकेन स्वात्मना स्वाधिष्ठानब्रह्म- ityarthaḥ || 43 || kartā bhoktātha saṃhartā smartā sarvapadaṃ gataḥ || 44 || evaṃ pralaye viśramyātha punaḥ sargakāle viśvasya kartā bhoktā saṃhartā smartetyādisarvavastubhāvaṃ gataḥ svayameva bhavatīti śeṣaḥ || 44 || sakalamapyakalākalitāntaraṃ subhagadurbhagarūpadharaṃ vapuḥ | prakaṭayansahasaiva ca gopayan vilasatīha hi kālabalaṃ nṛṣu || 45 || na kalābhirbuddhikauśalaiḥ kalitaṃ kenāpi niścitamāntaraṃ rahasyaṃ yasya tat | tathā subhagaṃ puṇyaphalabhogānurūpaṃ tadviparītaṃ durbhagaṃ yadrūpaṃ tasya dhar'm sakalamapi vapuḥ prakaṭayan gopayannupasaṃharaṃśca vilasati | kāla iti śeṣaḥ | hīti prasiddhau | iha jagati kālasya balaṃ nṛṣu prasiddhamevetyarthaḥ || 45 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye vairāgyaprakaraṇe kālāpavādo nāma trayoviṃśatitamaḥ sargaḥ || 23 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe vairāgyaprakaraṇe kālāpavādo nāma trayoviṃśatitamaḥ sargaḥ || 23 || caturviṃśaḥ sargaḥ 24 śrīrāma uvāca |
SK
अस्योड्डामरलीलस्य दूरास्तसकलापदः | संसारे राजपुत्रस्य कालस्याकलितौजसः || १ || स एव वर्ण्यते कालश्चण्डीप्रियतमान्वितः | मृगयाकौतुकाविष्टराजपुत्रतयाधुना || सांप्रतं तमेव कालं मृगयाकौतुकविहारिमहाराजपुत्रभावेन रूपयितुं प्रतिजानीते - अस्येति | उड्डामरा उद्भटा लीला यस्य | दूरे अस्ता निरस्ताः सकलापदो यस्य | अकलितौजसः अचिन्त्यपराक्रमस्य | राजते प्रसिद्ध- putrasya kālasya [mṛgayā varṇyate] caritraṃ varṇyata iti śeṣaḥ || 1 || asyaivācarato dīnairmugdhairbhūtamṛgavrajaiḥ | ākheṭakaṃ jarjarite jagajjaṅgalajālake || 2 || asyaiva kalpakālamahārṇavaḥ krīḍāpuṣkariṇīkṛta ityuttaratra saṃbandhaḥ | mugdhairajñaiḥ | bhūtānyeva mṛgavrajāstaiḥ | vadhyānāmapi vadhakavinoda- एकदेशोल्लसच्चारुवडवानलपङ्कजा | क्रीडापुष्करणी रम्या कल्पकालमहार्णवः || ३ || अर्थाज्जगज्जङ्गलस्यैकदेशे || ३ || कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः | तैरेव तैः पर्युषितैर्जगद्भिः कल्यवर्तनम् || ४ || भूतपदं प्रत्येकं संबध्यते | दधिक्षीरादिसागरसहितैस्तैरेव प्रत्यहमेकरूपैः पर्युषितैश्चिरस्थितैर्जगद्भिः कल्यवर्तनं प्रातरशनं तस्येत्यनुषज्यते | कटुतिक्तदध्यादिसहितपर्युषितप्रातराशो द्रविडेषु प्रसिद्धः || ४ || चण्डी चतुरसंचारा सर्वमातृगणान्विता | संसारवनविन्यस्ता व्याघ्री भूतौघघातिनी || ५ || तस्यानुरूपां प्रियामाह - चण्डीति | व्याघ्रीव भूतौघघातिनी संसारवने विन्यस्ता विहर्तुं विनियुक्ता चण्डी कालरात्रिस्तस्य प्रियेति शेषः || ५ || पृथ्वी करतले पृथ्वी पानपात्री रसान्विता | कमलोत्पलकल्हारलोलजालकमालिता || ६ || तस्य् पानपात्रीमाह - पृथ्वीति | पृथ्वी भूरेव तस्य करतले पृथ्वी महती पानपात्री | आसवसौगन्ध्यशोभाद्यर्थं पानपात्र्या अपि कमलोत्पलादि- virāvī vikaṭāsphoṭo nṛsiṃho bhujapañjare | saṭāvikaṭapīnāṃsaḥ kṛtaḥ krīḍāśakuntakaḥ || 7 ||
SK
तस्य भुजावष्टब्धे पञ्जरे नृसिंहोऽवतारो दानवादिवधक्रीडार्थं वाजाख्यः शकुन्तकः पक्षी कृतः | स कीदृक् | विरावी गर्जनशीलः | विकटो दुःसह आस्फोटो भुजास्फालनध्वनिर्यस्य | सटाभिः केसरैर्विकटो दुर्दर्शः पीन्ॐऽसः स्कन्धो यस्य || ७ || अलाबुवीणामधुरः शरद्व्योमलसच्छविः | देवः किल महाकालो लीलाकोकिलबालकः || ८ || महाकालः पाषाणाख्यायिकायां वक्ष्यमाणः संहारभैरवो लीलार्थं कोकिलबालकः कृतः | सोऽपि कीदृक् | तस्य ब्रह्माण्डमालाधा- tatsvarūpadhvanī anyeṣāṃ bhīṣaṇau tathāpi tato'pyugraśīlānāṃ dṛṣṭyā madhura eveti tathoktiḥ | śaradvyomeva śyāmalasvacchakāntiḥ || 8 || ajasra sphūrjitākāro vāntaduḥkhaśarāvaliḥ | abhāvanāmakodaṇḍaḥ parisphurati sarvataḥ || 9 || sphūrjitaṃ ṭaṃkāradhvaniḥ | vāntā niḥsāritā duḥkhaśarāvaliryena tasya abhāvaḥ saṃhārastannāmā kodaṇḍo dhanuḥ sarvataḥ parisphūrati || 9 || anuttamastvadhikavilāsapaṇḍito bhramaccalanparivilasanvidārayan | jarajjagajjanitavilolamarkaṭaḥ parisphūradvapuriha kāla īhate || 10 || bhramatsvapi lakṣyeṣu svayaṃ calannapyamoghabāṇatvāllakṣyaṃ vidārayannata eva sarvebhyo lakṣyavedhibhyaḥ pari upari vilasannata eva jarati jagati janitāḥ saṃpāditā vilolā vyākulā markaṭā markaṭavaccapalavṛttayo viṣayalampaṭa-janā yena sa tathāvidhaḥ kālo rājakumāraḥ parisphuradvapurvirājamānaśarīra īhate mṛgayāvihāreṇa ceṣṭate | markaṭatvena rūpaṇaṃ tu prakramaviśeṣaṇā- इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कालविलासो नाम चतुर्विंशतितमः सर्गः || २४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे कालविलासो नाम चतुर्विंशतितमः सर्गः || २४ || पञ्चविंशः सर्गः २५ श्रीरम उवाच | अत्रैव दुर्विलासानां चूडामणिरिहापरः | करोत्यत्तीति लोकेऽस्मिन्दैवं कालश्च कथ्यते || १ ||
SK
[अपरस्यात्र] अपारस्यात्र कालस्य क्रियातत्फलरूपिणः | चित्रो नियतिकान्तस्य नृत्यविस्तर ईर्यते || एवं महाकालं राजपुत्रत्वेनोपवर्ण्य तदुपाधिभूतं क्रियात्मक कालं तद्विनोदाय द्वैरूप्येण नर्तकत्वेन परिकल्प्य वर्णयितुमुपक्रमते - अत्रैवेत्यादिना | दुष्टो विलासो येषां तेषु चूडामणिरिव श्रेष्ठः | अपरः पूर्वोक्तादन्यः | दीव्यति व्यवहरति प्राणिनां कर्मफलदानेनेति दैवं फलावस्थः कृतान्तः | कलयत्यवश्यं फलं संपादयतीति क्रिया काल इत्येक एव पूर्वोत्तरावस्थाभेदेन द्वेधा कथ्यत इत्यर्थः || १ || क्रियामात्रादृते यस्य स्वपरिस्पन्दरूपिणः | नान्यदालक्ष्यते रूपं न कर्म न समीहितम् || २ || तत्र द्वितीयं सूचीकटाहन्यायेन प्रथमं वर्णयति - क्रियेति | क्रियात्र फलसिद्धिः | समीहितमभिलषितम् || २ || तेनेयमखिला भूतसंततिः परिपेलवा | तापेन हिममालेव नीता विधुरतां भृशम् || ३ || भूतसंततिः प्राणिनिकायः | तापेनातपेन | हिममाला नीहारपटली | विधुरतां विनाशितां | सर्वस्याप्यनर्थस्य स्वकर्मकृतत्वादिति भावः || ३ || यदिदं दृश्यते किंचिज्जगदाभोगि मण्डलं | तत्तस्य नर्तनागारमिहासावतिनृत्यति || ४ || आभोगि विस्तीर्णं जगन्मण्डलं नर्तनागारं नृत्यशाला | रागद्वेषादि- varṇyate || 4 || tṛtīyaṃ ca kṛtānteti nāma bibhratsudāruṇam | kāpālikavapurmattaṃ [vapurbhūtaṃ] daivaṃ jagati nṛtyati || 5 || ādyaṃ śāstraikagamyatvādviśvāsadārḍhyāya vistareṇa varṇayitumupakramate - tṛtīyamityādinā | pūrvasargoktāpekṣayā tṛtīyam | kāpālikavapuḥ kāpālika-veṣam || 5 || nṛtyato hi kṛtāntasya nitāntamiva rāgiṇaḥ | nityaṃ niyatikāntāyāṃ mune paramakāmitā || 6 || niyatiḥ kṛtasya karmaṇaḥ phalāvaśyaṃbhāvaniyamastasyāmatirāgiṇaḥ | avaśyaṃ phalaṃ prayacchata ityarthaḥ || 6 || śeṣaḥ śaśikalāśubhro gaṅgāvāhaśca tau tridhā | upavīte avīte ca ubhau saṃsāravakṣasi || 7 ||
SK
तस्याङ्गेषु भूषणान्याह - शेष इति | त्रिधा प्रसिद्धो गङ्गावाहो गङ्गाप्रवाहः | चकारेण समुच्चितयोरेकशेषेण ताविति परामर्शः | अवीते प्राचीनावीते | संसरत्यस्मिन्निति संसारस्त्रैलोक्यं तदेव वक्षः || ७ || चन्द्रार्कमण्डले हेमकटकौ करमूलयोः | लीलासरसिजं हस्ते ब्रह्मन्ब्रमाण्डकर्णिका || ८ || करमूलयोः प्रकोष्ठयोः | ब्रह्माण्डकर्णिका मेरुः || ८ || ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् | एकार्णवपयोधौ तमेकमम्बरमम्बरम् || ९ || बिन्दवश्चित्रबिन्दवः | पुष्करावतौ संवर्तमेघौ पल्लवौ दशे यस्य | धौतं क्षालितमम्बरमाकाशमेवाम्बरं वस्त्रम् | कापालिकानां मध्यच्छिद्रकण्ठावसक्तैककन्थाम्बरधारणप्रसिद्धेः || ९ || एवंरूपस्य तस्याग्रे नियतिर्नित्यकामिनी | अनस्तमितसंरम्भमारम्भैः परिनृत्यति || १० || अनस्तमितसंरम्भमविरतप्रयत्नम् | प्राणिसभ्यभोगानुकूलकार्या- tasyā nartanalolayā jaganmaṇḍapakoṭare [nmaṇḍalakoṭare] | aruddhaspandarūpāyā āgamāpāyacañcure || 11 || aruddhaspandarūpāyāḥ apratibaddhakriyāśakteḥ | nṛtyadraṣṭṛprāṇināmā- इत्यभ्यासस्य नुक् उत्परस्यातः इत्युत्वम् || ११ || चारुभूषणमङ्गेषु देवलोकान्तरावली | आपातालं नभोलम्बं कबरीमण्डलं बृहत् || १२ || देवसहिता लोकान्तराणां भुवनभेदानामावलिस्तस्या नियतेरङ्गेषु चारु भूषणं भवतीति प्रतिवाक्यं कल्प्यम् | आपातालं पातापपर्यन्तं नभस्तस्यालम्बं लम्बमानं कबरीमण्डलं श्यामत्वात् || १२ || नरकाली च मञ्जीरामाला कलकलोज्ज्वला | प्रोता दुष्कृतसूत्रेण पातालचरणे स्थिता || १३ || कलकलै रोदनकोलाहलैरुज्ज्वला नरकाग्निभिर्दीप्यमाना या नरकाली तस्याः पाताललक्षणे चरणे स्थिता मञ्जरीमाला | मञ्जरीशब्देन पादकिङ्किण्यो लक्ष्यन्ते | अन्यथा सूत्रप्रोतत्वानुपपत्तेः || १३ || कस्तूरिकातिलककं क्रियासंख्योपकल्पितम् | चित्रितं चित्रगुप्तेन यमे वदनपट्टके || १४ ||
SK
प्राणिकर्मसौरभ्यप्रकटनहेतुत्वात्कस्तूरीभूतेन चित्रगुप्तेन करणेन यमरूपे वदनावयवभूते पट्टके फलकेललाटे इति यावत् | यमे हि चित्रगुप्तो विराजते | पादललाटयोराद्यन्तावयवयोः कॢप्त्यैव तद्वदतिरावयवकॢप्तिर्य-थायोगमर्थाद्बोध्या || १४ || कालास्यं समुपादाय कल्पान्तेषु किलाकुला | नृत्यत्येषा पुनर्देवी स्फुटच्छैलघनारवम् || १५ || कालस्य पत्युः आस्यं लक्षणया मुखविलासभ्रूभङ्गकटाक्षादिसूचित- tattathā || 15 || paścātprālambavibhrāntakaumārabhṛtabarhibhiḥ | netratrayabṛhadrandhrabhūribhāṅkārabhīṣaṇaiḥ || 16 || tasyā nṛtyaprakārameva prapañcayati ṣaḍbhiḥ | paścātpṛṣṭhataḥ | barhibhrmayūraiḥ | sarveṣāṃ tṛtīyāntānāṃ rājate iti pañcamasthena saṃbandhaḥ | bīṣaṇairityantasya haramūrdhabhirityuttareṇānvayaḥ | bhāṅkāro dhvaniviśeṣaḥ || 16 || lambalolajaṭācandravikīrṇaharamūrdhabhiḥ | uccaraccārumandāragaurīkabaracāmaraiḥ || 17 || candrāntabahurvīhighaṭitaḥ karmadhārayaḥ | kabarāḥ keśāstadrūpaiścā- उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः | रणत्सशतरन्ध्रेन्द्रदेहभिक्षाकपालकैः || १८ || अचलाः पर्वतास्तदाकारैस्तुम्बकैरलाबुपात्रैः | तैः कापालिकव्यवहारस्य प्रसिद्धत्वात् | शतशब्दस्य कृतैकशेषस्य बहुवचनान्तस्य बहुव्रीहिस्तेन [इन्द्रदेहस्य सहस्राक्षत्वेन सप्ताधिकसहस्राच्छिद्रत्वान्नवच्छिद्रत्वेन प्रसिद्धेभ्यो देहेभ्यो वैलक्षण्यं ज्ञेयम्] सप्तोत्तरसहस्रलाभः || १८ || शुष्कशारीरखट्वाङ्गभरैरापूरिताम्बरम् | भीषयत्यात्मनात्मानं सर्वसंहारकारिणी || १९ || शारीरं शरीरावयवभूतं पृष्ठास्थि | भीषयति भापयतीव अन्येषां भयार्थम् || १९ || विश्वरूपशिरश्चक्रचारुपुष्करमालया | ताण्डवेषु विवल्गन्त्या महाकल्पेषु राजते || २० || विश्वरूपाणि नानाकाराणि यानि शिरश्चक्राणि मस्तकवृन्दानि तान्येव पुष्करमाला तया विविधं वल्गन्त्या भ्रमन्त्या || २० ||
SK
प्रमत्तपुष्करावर्तडमरोड्डामरारवैः | तस्याः किल पलायन्ते कल्पान्ते [तुम्बरादयः] तुम्बुरादयः || २१ || पुष्करावर्ताख्याः संवर्तमेघा एव डमरो डमरुकं तस्योड्डामरार- nṛtyato'ntaḥ kṛtāntasya candramaṇḍalabhāsinaḥ | tārakācandrikācāruvyomapicchāvacūlinaḥ || 22 || itthaṃ niyateḥ saparikaraṃ nṛtyamupavarṇya tadbharturapi tadvarṇayanbhūṣaṇā-nyāha - nṛtyata ityādinā | antaḥ prāguktanṛtyaśālāntaḥ | candramaṇḍalena vakṣyamāṇakuṇḍalabhūtena bhāsinaḥ śobhamānasya | tārakābhiścandrikayā ca tārakālakṣaṇacandrapratikṛtibhiśca cāru manoharaṃ vyomaiva picchaṃ tenāvacūlino bhūṣitakeśasya kṛtāntasya śravaṇe ityuttareṇānvayaḥ || 22 || ekasmiñchravaṇe dīptā himavānasthimudrikā | apare ca mahāmeruḥ kāntā kāñcanakarṇikā || 23 || ekasmindakṣiṇe śravaṇe karṇe | asthimayī mudrikā mudrkākāraṃ kuṇḍalaṃ kāpālikānurūpam | apare vāme | karṇikā karṇabhūṣaṇaṃ kuṇḍalamiti yāvat || 23 || atraiva kuṇḍale lole candrārkau gaṇḍamaṇḍale | lokālokācalaśreṇī sarvataḥ kaṭimekhalā || 24 || atra anayoreva karṇayoḥ | śreṇīti śṛṅgabāhu.yāt kalpabrahmāṇḍabhedādvā || 24 || itaścetaśca gacchantī vidyudvalayakarṇikā | anilāndolitā bhāti nīradāṃśukapaṭṭikā || 25 || vidyudvalayakarṇikā karṇikākṛti kaṅkaṇam | nīradā meghā eva nānāvarṇatvādvastrapaṭṭādipaṭaccaraghaṭitā kanthā || 25 || musalaiḥ paṭṭiśaiḥ prāsaiḥ śūlaistomaramudgaraiḥ | tīkṣṇaiḥ [jagadvātakṛtānta] kṣīṇajagadvāntakṛtāntairiva saṃbhṛtaiḥ || 26 || kṣīṇebhyo jagadbhyaḥ pūrvasargebhyo vāntairnigataiḥ kṛtāntarimṛtyubhiḥ saṃbhṛtairmilitairiva sthitairmusalādibhirvaricitā asya mālā śobhate ityutta- संसारबन्धानादीर्घे पाशे कालकरच्युते | शेषभोगमहासूत्रप्रोते मालास्य शोभते || २७ ||
SK
शेषस्य नागराजस्य भोगः शरीरम् | आयुधभृच्छरीरसामान्योपलक्षण- prota iva saṃbaddhe kālasya pūrvoktarājaputrasya karāddaivāccyute saṃsaraṇa- इत्यादिफलितोऽर्थः] आमुक्ते पाशे ग्रथिता माला अस्य कृतान्तस्य कण्ठे शोभते || २७ || जीवोल्लसन्मकरिकारत्नतेजोभिरुज्ज्वला | सप्ताब्धिकङ्कणश्रेणी भुजयोरस्य भूषणम् || २८ || मकरिकादिलाञ्छनान्यन्येषां कङ्कणेषु निर्जीवानि प्रसिद्धानि तद्वैलक्षण्यार्थं जीवोल्लसदिति || २८ || व्यवहारमहावर्ता सुखदुःखपरम्परा | रजःपूर्णतमःश्यामा रोमाली तस्य राजते || २९ || व्यवहाराः शास्त्रीयाः स्वाभाविकाश्च त एव महान्तो लक्षणभूता रोमावर्ताः | रजस्तमसी प्रकृतिगुणौ || २९ || एवंप्रायः स कल्पान्ते कृतान्तस्ताण्डवोद्भवाम् | उपसंह्र्त्य नृत्येहां सृष्ट्वा सह [महेश्वरैः] महेश्वरम् || ३० || ताण्डवस्योद्भवो यशास्तथाविधां नृत्येहां गात्रविक्षेपेच्छामुप- sṛṣṭvā imāṃ nṛtyalīlāṃ tanotītyuttareṇa saṃbandhaḥ || 30 || punarlāsyamayīṃ nṛtyalīlāṃ sargasvarūpiṇīm | tanotīmāṃ jarāśokaduḥkhābhibhavabhūṣitām || 31 || lāsyamayīmabhinayapracurām || 31 || bhūyaḥ karoti bhuvanāni vanāntarāṇi lokāntarāṇi janajālakakalpanāṃ ca | ācāracārukalanāmacalāṃ calāṃ ca paṅkādyathārbhakajano racanāmakhinnaḥ || 32 || ācārāṇāṃ śrautasmārtādisatkarmaṇāṃ cārukalanāṃ samyakpravṛttim | acalāṃ kṛtatretayoḥ calāṃ kalidvāparayoḥ | racanāṃ krīḍāputrikādirūpām || 32 || ityārṣe śrīvāsiṣṭhamahārāmāyaṇe vālmīkīye vairāgyaprakaraṇe kṛtāntavilasitaṃ nāma pañcaviṃśatitamaḥ sargaḥ || 25 || iti śrīvāsiṣṭhamahārāmāyaṇatātparyaprakāśe vairāgyaprakaraṇe kṛtāntavilasitaṃ nāma pañcaviṃśatitamaḥ sargaḥ || 25 || ṣaḍviṃśaḥ sargaḥ 26 śrīrāma uvāca | vṛtte'sminnevameteṣāṃ kālādīnāṃ mahāmune | saṃsāranāmni kaivāsthā mādṛśānāṃ [bhavatviha] vadatviha || 1 || iha prapañcyate doṣairbhūrisaṃsāradurdaśā | kālādipāratantryeṇa vairāgyasyopapattaye ||
SK
करोत्वेव कालः किं ते तत इत्याशङ्य कालादिसर्ववस्तुषु स्वस्य दोषदर्शनं प्रपञ्चयिष्यंस्तत्फलं वैराग्यरूपानास्थासंपत्तिं दर्शयति - वृत्त इत्यादिना | एवमुक्तरूपे | वृत्ते चरित्रे | आस्था आश्वासः || १ || विक्रीता इव तिष्ठाम इतैर्दैवादिभिर्वयम् | मुने प्रपञ्चरजनैर्मुग्धा वनमृगा इव || २ || दैवं प्राक्तनं कर्म आदिः प्रधानं येषां तैरेतैः प्रागुक्तैश्चतुर्भिः शब्दादिविषयप्रपञ्चरचनैर्मुग्धा मोहिताः || २ || एषोऽनार्यसमाम्नायः कालः कवलनोन्मुखः | जगत्यविरतं लोकं पातयत्यापदर्णवे || ३ || अनार्यैः सम आम्नायश्चरित्राभ्यासो यस्य | अविरतमसमाप्तभोगजीवितादि- samāmnāyo bauddhādyasacchāstropadeśo yasya | kavalanonmukha udarabharaṇamātraparaḥ | kālanāmā dhūrtaḥ asanmārgapravartanena lokaṃ janamityarthāntaramapi gamyate || 3 || dahatyantardurāśābhirdevo dāruṇaceṣṭayā | lokamuṣṇaprakāśābhirjvālābhirdahano yathā || 4 || durāśābhirantardahanti | dāruṇaceṣṭayā duścāritryeṇa bahirapīti śeṣaḥ | tathā dṛṣṭānte'pi yojyam || 4 || dhṛtiṃ vidhurayatyeṣā maryādārūpavallabhā | strītvātsvabhāvacapalā niyatirniyatonmukhī || 5 || kālamaryādārūpakṛtāntasya vallabhā priyā indriyāṇāṃ parākpravṛttiniyama-lakṣaṇā niyatirniyateṣu samādhipareṣu unmukhī udyuktā teṣāṃ dhṛtiṃ dhairyaṃ vidhūrayati viyojayati | tatra hetuḥ - strītvāditi || 5 || grasate'virataṃ bhūtajālaṃ sarpa ivānilam | kṛtāntaḥ karkaśācāro jarāṃ nītvā'jaraṃ vapuḥ || 6 || ajaraṃ taruṇaṃ vapurjarāṃ nītvā prāpayya || 6 || yamo nirghṛṇarājendro nārtaṃ nāmānukampate | sarvabhūtadayodāro jano durlabhatāṃ gataḥ || 7 || nirdayarājānāmindraḥ svāmī | atinirdaya iti yāvat || 7 || sarvā eva mune phalguvibhavā bhūtajātayaḥ | duḥkhāiava durantāya dāruṇā bhogabhūmayaḥ || 8 || sarvā brahmāntā api bhūtajātayaḥ prāṇijātayo viraktadaśā phalguvibhavāstu-
SK
आयुरत्यन्तचपलं मृत्युरेकान्तनिष्ठुरः | तारुण्यं चातितरलं बाल्यं जडतया हृतम् || ९ || जडतया मोहेन | हृतमपनीतम् || ९ || कलाकलङ्कितो लोको बन्धवो भवबन्धनम् | भोगा भवमहारोगास्तृष्णाश्च मृगतृष्णिकाः || १० || कलनं कला विषयानुसंधानम् || १० || शत्रवश्चेन्द्रियाण्येव सत्यं यातमसत्यताम् | प्रहरत्यात्मनैवात्मा मनसैव मनो रिपुः || ११ || सत्यं परमार्थत आत्मेति गृहीतं देहादि | तस्य विवेके असत्यतां अपरमार्थात्मताम् | यद्वा सत्यं सत्यज्ञानादिलक्षणं वस्तु असत्यताम् | मन एव बन्धहेतुत्वाद्रिपुर्यस्य तथाभूत आत्मा मनोभिमानान्मनोभूत आत्मानं मनसैवात्मना प्रहरतीव दुःखीकरोति || ११ || अहंकारः कलङ्काय बुद्धयः परिपेलवाः | क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः || १२ || अहंकारोऽभिमानप्रधानमन्तःकरणं कलङ्काय लाञ्छनाय | स्वरूपदूषणायेति यावत् | बुद्धयोऽध्यवसायात्मिकास्तद्वृत्तयो बहिर्मुखत्वात्परिपेलवा मृदवः स्वरूपनिष्ठा दार्ढ्यशून्याः | क्रियाः प्रवृत्तयः शारीराः | लीला मानसविलासाः || १२ || वाञ्छाविषयशालिन्यः सच्चमत्कृतयः क्षताः | नार्यो दोषपताकिन्यो रसा नीरसतां गताः || १३ || सच्चमत्कृतय आत्मस्फूर्तिचमत्काराः | दोषाणां पताकिन्यो ध्वजिन्यः | रसा अनुरागाः | नीरसतामनुरागशून्यताम् | विषया अस्पृहणीयतामिति वा || १३ || वस्त्ववस्तुतया ज्ञातं दत्तं चित्तमहंकृतौ | अभाववेधिता भावा भावान्तो नाधिगम्यते || १४ || वस्तु अलौकिकं कार्यकारणसंघातात्मना ज्ञातम् | चित्तं दत्तम् | अभिनिवेशितमिति यावत् | अभाववेधिता नाशग्रस्ताः | भावानामनित्य- tapyate kevalaṃ sādho matirākulitāntarā | rāgarogo vilasati virāgo nopagacchati || 15 || nopagacchatītyādirloke atidaurlabhyoktirnatu svasya prakramavirodhāt || 15 || rajoguṇahatā dṛṣṭistamaḥ saṃparivardhate | na cādhigamyate sattvaṃ tattvamatyantadūrataḥ || 16 || adhigamyate labhyate || 16 ||
SK
स्थितिरस्थिरतां याता मृतिरागमनोन्मुखी | धृतिर्वैधुर्यमायाता रतिर्नित्यमवस्तुनि || १७ || स्थितिर्जीवनम् | अवस्तुनि फल्गुविषये || १७ || मतिर्मान्द्येन मलिना पातैकपरमं वपुः | ज्वलतीव जरा देहे प्रतिस्फुरति दुष्कृतम् || १८ || मान्द्येन मौर्ख्येण | पातैकपरमं नाशैकपर्यवसितम् || १८ || यत्नेन याति युवता दूरे सज्जनसंगतिः | गतिर्न विद्यते काचित्क्वचिन्नोदेति सत्यता || १९ || ननु धार्मिकस्य तव कथं गतिर्न विद्यते तत्राह - क्वचिदिति | स्वर्गादिगतेरप्य-नित्यतया स्वप्न सुखप्रायत्वादिति भावः || १९ || मनो विमुह्यतीवान्तर्मुदिता दूरतां गता | नोज्ज्वला करुणोदेति दूरादायाति नीचता || २० || मुदिता परसुखदर्शनसंतोषः | नीचताशब्देन तद्धेतुरसूयादिर्गृह्यते || २० || धीरताऽधीरतामेति पातोत्पातपरो जनः | सुलभो दुर्जनाश्लेषो दुर्लभः सत्समागमः || २१ || अधीरतामस्थिरताम् | पातोत्पातौ मरणजन्मनी ऊर्ध्वाधोगमने वा | आश्लेषः सङ्गः || २१ || आगमापायिनो भावा भावना भवबन्धनी | नीयते केवलं क्वापि नित्यं भूतपरम्परा || २२ || भावना वासना | भावेष्वपगतेष्वपि सा नापैतीति भवे बन्धनी बन्धहेतुः भूतपरम्परा प्राणिनिकायः | कालेनेति शेषः || २२ || दिशोऽपि हि न दृश्यन्ते देशोऽप्यन्यापदेशभाक् | शैला अपि विशीर्यन्ते कैवास्था मादृशे जने || २३ || दिशो यासु कालाद्भयं नास्ति तादृश्यः | तदेव प्रपञ्चयति - देश इति | देशः सद्व्यवहारोपदेशः | यद्वा - दिशति प्रयच्छति प्राणिभ्योऽवकाशमिति देश इति | व्यपदेशादन्यं विरुद्धमपदेशं व्यवहारम् | स्वस्यैव निरवका-शत्वमिति यावत् || २३ || अद्यते सत्तयापि द्यौर्भुवनं चापि भुज्यते | धरापि याति वैधुर्यं कैवास्था मादृशे जने || २४ || दौराकाशोऽपि सत्तया सन्मात्रस्वभावेनेश्वरेणाद्यते || २४ || शुष्यन्त्यपि समुद्राश्च श्रीयन्ते तारका अपि | सिद्धा अपि विनश्यन्ति कैवास्था मादृशे जने || २५ || सिद्धा ज्ञातिरिक्तैर्योगमन्त्ररसायनादिभिः || २५ ||
SK
दानवा अपि दीर्यन्ते ध्रुवोऽप्यध्रुवजीवितः | अमरा अपि मार्यन्ते कैवास्था मादृशे जने || २६ || शक्रोऽप्याक्रम्यते वक्त्रैर्यमोऽपि हि नियम्यते | वायुरप्येत्यवायुत्वं कैवास्था मादृशे जने || २७ || वक्त्रैराक्रम्यते चर्व्यते | नितरां यम्यते उपरमं प्राप्यते || २७ || सोमोऽपि व्योमतां याति मार्तण्डोऽप्येति खण्डताम् | मग्नतामग्निरप्येति कैवास्था मादृशे जने || २८ || व्योमतां शून्यताम् || २८ || परमेष्ठ्यपि निष्ठावान्ह्रियते हरिरप्यजः | भवोऽप्यभावमायाति कैवास्था मादृशे जने || २९ || निष्ठा परिसमाप्तिः | ह्रियते संह्रियते || २९ || कालः संकाल्यते येन नियतिश्चापि नीयते | खमप्यालीयतेऽनन्तं कैवास्था मादृशे जने || ३० || कालः प्रागुक्तस्त्रिविधः | खमत्र बहिरावणाकाशः || ३० || अश्राव्यावाच्यदुर्दर्शतत्त्वेनाज्ञातमूर्तिना | भुवनानि विडम्ब्यन्ते केनचिद्भ्रमदायिना || ३१ || अश्राव्यं श्रोत्रेन्द्रियाविषयः | अवाच्यं वागगम्यं दुर्दर्शं चक्षुराद्यगम्यं च तत्त्वं सूक्ष्मं रूपं यस्य | मूर्तिः स्थूलं रूपम् | विडम्ब्यन्ते स्वात्मन्येव मायया प्रदर्श्यन्ते | तत्त्वमाच्चाद्य कल्पितमेव प्रदर्शयत्तित्यर्थः || ३१ || अहंकारकलामेत्य सर्वत्रान्तरवासिना | न सोऽस्ति त्रिषु लोकेषु यस्तेनेह न बाध्यते || ३२ || अहंकारकलामभिमानांशमेत्य प्राप्य स्थितेषु मध्ये इति शेषः || ३२ || शिलाशैलकवप्रेषु साश्वभूतो दिवाकरः | वनपाषाणवन्नित्यमवशः परिचोद्यते || ३३ || सर्वबाधकत्वोपपादनाय तस्य निरङ्कुशं स्वातन्त्र्यमाह - शिलेत्यादित्रिभिः | साश्वोऽश्वसहितो रथस्तद्भावं प्राप्तः | य आदित्ये तिष्ठन् इत्यादिश्रुतेः | स्वाधिरूढेनेश्वरेण प्रेर्यमाणः शिलाशैलवप्रादिदुर्गम- vanaṃ jalaṃ yogyatayā parvataśikharādvegena pravahattena yathā vartulāḥ sphatikādipāṣāṇā adhodhaḥ preryante tadvadavaśo'svatantraḥ | sūryādī- धरागोलकमन्तस्थसुरासुरगणास्पदम् | वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटमिव त्वचा || ३४ ||
SK
धरा भूमिः सैव गोलकम् | ज्योतिःशास्त्रे तथा प्रसिद्धेः | धिष्ण्यं देवानामायतनभूतं चक्रं ज्योतिश्चक्रं तेन वेष्ट्यते परितो व्याप्यते | अक्षोटं फलविशेषः | युगावर्तेषु भूमेर्दाहप्लवनादिविकारेऽप्याकल्पं ज्योतिश्चक्रस्याविनाशाद्दार्ढ्यसूचनाय पक्वेति विशेषणम् || ३४ || दिवि देवा भुवि नराः पातालेषु च भोगिनः | कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् || ३५ || कल्पमात्रेण संकल्पमात्रेण | तथाचात्यन्तपारवश्यमपि जगतो महान् दोष इति भावः || ३५ || कामश्च जगदीशानरणलब्धपराक्रमः | अक्रमेणैव विक्रान्तो लोकमाक्रम्य वल्गति || ३६ || दोषान्तराण्यप्याह - काम इत्यादिना | अक्रमेण अनुचितप्रकारेण | आक्रम्य वशीकृत्य | नियन्तुरीश्वराद्बिभेति चेन्न विशृङ्खलः स्यात् | नासौ तथेत्याह - जगदीशानेति || ३६ || वसन्तो मत्तमागङ्गो मदैः कुसुमवर्षणैः | आमोदितककुप्चक्रश्चेतो नयति चापलम् || ३७ || वसन्त एव मत्तमातङ्गः कुसुमवर्षणमेव मदवर्षणमिति व्यस्तरूपकम् | चापलमिति भयोन्मादभावद्वयसंभेदः || ३७ || अनुरक्ताङ्गनालोललोचनालोकिताकृति | स्वस्थीकर्तुं मनः शक्तो न विवेको महानपि || ३८ || परोपकारकारिण्या परार्तिपरितप्तया | बुद्ध एव सुखी मन्ये स्वात्मशीतलया धिया || ३९ || बुद्धः प्रबुद्धतत्त्वः पुरुषः | बोधश्चातिदुर्लभ इति भावः || ३९ || उत्पन्नध्वंसिनः कालवडवानलपातिनः | संक्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधौ || ४० || ध्वंसित्वे हेतुः - कालेति | भावा इति शेषः || ४० || सर्व एव नरा मोहाद्दुराशापाशपाशिनः | दोषगुल्मकसारङ्गा विशीर्णा जन्मजङ्गले || ४१ || पूर्वोक्तदोषलक्षणेषु गुल्मकेषु स्थिताः सारङ्गाः मृगाः पक्षिणो वा दुराशापाशेन पाशिनो बधाः सन्तो जन्मजङ्गले विशीर्णा इति संबन्धः || ४१ || संक्षीयते जगति जन्मपरम्परासु लोकस्य तैरिह कुकर्मभिरायुरेतत् | आकाशपादपलताकृतपाशकल्पं येषां फलं नहि विचारविदोऽपि विद्मः || ४२ ||
SK
[] तैरुक्तदोषप्रयुक्तैः कुकर्मभिः काम्यनिषिद्धाचरणैरायुः संक्षीयते | फलं स्वर्गनरकादि | आकाशे चेत्पादपस्तत्र लतापि स्यात्कृतकण्ठपाशोल्ल-म्बनसदृशमसारं इरालम्बनदुःखं पतनावसानस्थितिकमित्यर्थः | आस्तां तन्निवृत्त्युपायो दूरे तच्चिन्दापि दुर्लभेत्याह - नहीति || ४२ || अद्योत्सवोऽयमृतुरेष तथेह यत्रा ते बन्धवः सुखमिदं सविशेषभोगम् | इत्थं मुधैव कलयन्सुविकल्पजाल- मालोलपेलवमतिर्गलतीह लोकः || ४३ || तत्प्रमोषसामग्री तु प्रतिक्षणमतिसुलभेत्याह - अद्येति | गलति विशीर्यते || ४३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दैवदुर्विलासवर्णनं नाम षड्विंशतितमः सर्गः || २६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे दैवदुर्विलासवर्णनं नाम षड्विंशतितमः सर्गः || २६ || सप्तविंशः सर्गः २७ श्रीरम उवाच | अन्यच्च ताताटितरामरम्ये मनोरमे चेह जगत्स्वरूपे | न किंचिदायाति तदर्थजातं येनातिविश्रान्तिमुपैति चेतः || १ || उक्तानुक्तेषु भावेषु निःश्रेयसविरोधिषु | विस्तरेण पुनर्दोषा वैराग्यायेह कीर्तिताः || प्रत्येकमुक्तेष्वनुक्तेषु च भावेषु समुच्चित्य दोषान्तराणि प्रपञ्चयन्स्व- śeṣaḥ | āpātato manorame vastutastvaramye jagatsvarūpe yena labdhena ceto'tiviśrāntiṃ pūrṇakāmatāmupaiti tattādṛśaṃ kiṃcidapyarthajātaṃ nāyāti cetasi tato'nyacca tattvaṃ nāyāti na labhyata iti vārthaḥ || 1 || bālye gate kalpitakelilole manomṛge dādarīṣu jīrṇe | śarīrake jarjaratāṃ prayāte vidūyate kevalameva lokaḥ || 2 || dārā eva daryo giriguhāḥ | viśeṣeṇa dūyate upatapyate | kevalaṃ puruṣārtha- जरातुषाराभिहतां शरीरसरोजिनीं दूरतरे विमुच्य | क्षणाद्गते जीवितचञ्चरीके जनस्य संसारसरोऽवशुष्कम् || ३ || जीवितं जीवनं स एव चञ्चरीको भ्रमरः | संसारोऽत्रैहिकसमारम्भस्त-
SK
यदा यदा पाकमुपैति नूनं तदा तदेयं रतिमातनोति | जराभराऽनल्पनवप्रसूना विजर्जरा कालयता नराणाम् || ४ || रतिं प्रीतिमातनोति | मृत्योरिति शेषः | नराणां काय एव लता वल्लि || ४ || तृष्णानदी सारतरप्रवाहग्रस्ताखिलानन्तपदार्थजाता | तटस्थसंदोषसुवृक्षमूलनिकाषदक्षा वहतीह लोके || ५ || सारतरो वेगवत्तरो बलवत्तरो वा मूलनिकाषो वप्रनिकृन्तनं तत्र दक्षा समर्थाः || ५ || शारीरनौश्चर्मनिबन्धबद्धा भवाम्बुधावालुलिता भ्रमन्ती | प्रलोड्यते पञ्चभिरिन्द्रियाख्यैरधोभवन्ती मकरैरधीरा || ६ || सर्मणा निबन्धनेन आछादनेन बद्धा | चर्ममयी तरिर्दक्सिणदेशे प्रसिद्धा | ऊर्मिभिरालुलिता व्याकुलिता स्वतश्च लघुत्वाद्भ्रमन्ती अतएवाधोभवन्ती मज्जनोन्मुखी इन्द्रियग्राहैरपि प्रलोड्यते | यतोऽधीरा न विद्यन्ते धीरा विवेकधीमन्तो वैराग्यधरियशालिनो वा जीवा यस्यां तथाविधा || ६ || तृष्णालताकाननचारिणोऽमी शाखाशतं काममहीरुहेषु | परिभ्रमन्तः क्षपयन्ति कालं मनोमृगा नो फलमाप्नुवन्ति || ७ || लताप्रथानं काननं लताकाननम् | शाख्याशतं परिभ्रमन्त इति विशेषणान्मृगाः अत्र शाखामृगाः कालमायुः क्षपयन्ति || ७ || कृच्छ्रेषु दूरास्तविषादमोहाः स्वास्थ्येषु नोत्सिक्तमनोभिरामाः | सुदुर्लभाः संप्रति सुन्दरीभिरनाहतान्तःकरणा महान्तः || ८ || कृच्छ्रेषु आपत्सु | स्वास्थ्येषु संपत्सु | नोत्सिक्तेनागर्वितेन मनसा अभिरामाः | नञर्थको नशब्दोऽप्यस्ति तस्य समासः || ८ || तरन्ति मागङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः | शूरास्त एवेह मनस्तरङ्गं देहेन्द्रियाम्बोधिमिमं तरन्ति || ९ || घटाः समूहास्त एव तरङ्गा यस्मिन् | ये तरन्ति ते मयि शौर्योत्कर्षविमर्श- bhāvaḥ || 9 || akliṣṭaparyantaphalābhirāmā na dṛśyate kasyacideva kācit | kriyādurāśāhatacittavṛttiryāmetya viśrāntimupaiti lokaḥ || 10 ||
SK
ननु कर्मैव तत्रोपायोऽस्तु तत्राह - अक्लिष्टेति | अप्यर्थ एवकारः | कस्यचित्काचि-दपि क्रिया अक्लिष्टं क्लेशेन नाशेन वा रहितं पर्यन्तः संसारावसानं तद्रूपं यत्फलं तेन अभिरामा न दृश्यते | तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयत इत्यादिश्रुतेः | कृतकफलस्य नाशनियमादिष्टनाशस्य दुःखपर्यवसितत्वाच्चेति भावः | यां क्रियामेत्य आश्रित्य | विश्रान्तिं स्वास्थ्यम् || १० || कीर्त्या जगद्दिक्कुहरं प्रतापैः श्रिया गृहं सत्त्वबलेन लक्ष्मीम् | ये पूरयन्त्यक्षतधैर्यबन्धा न ते जगत्यां सुलभा महान्तः || ११ || यत्र असति भाग्योदये कीर्तिप्रतापलक्ष्म्याद्यल्पफलानामपि धैर्यादिक्षति- mokṣasyetyabhipretyāha - kīrtyeti | śriyā saṃpadā | gṛhamarthigṛham | sattvabalena sāttvikakṣamāvinayaudāryādibalena lakṣmīm | tena hi sā purṇeva rājate || 11 || apyantarasthaṃ giriśailabhittervajrālayābhyantarasaṃsthitaṃ vā | sarvaṃ samāyānti sasiddhivegāḥ sarvāḥ śriyaḥ santatamāpadaśca || 12 || sati tu bhāgyodaye sarvasya sarvatra sarvābhilaṣitaprāptiḥ sulabheti puruṣaprayatna-vaiyarthyamabhipretyāha - apyantarasthamiti | gireḥ śailī śilāmayī yā bhittiḥ | karmadhārayanimittaḥ puṃvadbhāvaḥ | tanmadhye sthitamapi vajranirmitatvāda-bhedyasyālayasyābhyantare saṃsthitamapi vā sarvaṃ sabhāgyajanamiti śeṣaḥ | siddhayo'ṇimādayasteṣāṃ vegaistvarābhiḥ sahitāḥ | āpadgrahanaṃ dṛṣṭāntārtham || 12 || putrāśca dārāśca dhanaṃ ca buddhyā prakalpyate tāta rasāyanābham | sarvaṃ tu tannopakarotyathānte yatrātiramyā viṣamūrchanaiva || 13 || akliṣṭaparyantetyanupadoktameva prapañcayati - putrāścetyādinā | prakalpyate bhrāntyeti śeṣaḥ | ante mṛtyukāle | atiramyā api bhogaviṣayā yatra viṣamūrcha-nāvadduḥkhāyaiva || 13 || viṣādayukto viṣamāmavasthā mupāgataḥ kāyavayovasāne | bhāvānsmaransvāniha dharmariktān janturjarāvāniha dahyate'ntaḥ || 14 ||
SK
धर्मरिक्तान् पुण्यसंग्रहशून्यान् || १४ || कामार्थधर्माप्तिकृतान्तराभिः क्रियाभिरादौ दिवसानि नीत्वा | चेतश्चलद्बर्हिणपिच्छलोलं विश्रान्तिमागच्छतु केन पुंसः || १५ || आदौ धनार्जनभोगतृष्णाप्राबल्यात्कामार्थाभ्यामेव धर्मावाप्तौ कृतान्तराभिराक्रान्तावकाशाभिर्लौकिकक्रियाभिः | बर्हिणो मयूरस्तस्य पिच्छं बर्हमिव लोलम् | कायवयोवसाने इत्येतदत्राप्यनुषज्यते || १५ || पुरोगतैरप्यनवाप्तरूपैस्तरङ्गिणीतुङ्गतरङ्गकल्पैः | क्रियाफलैर्दैववशादुपेतैर्विडम्ब्यते भिन्नरुचिर्हि लोकः || १६ || ननु मास्तु धर्मार्जनशुन्यानां चेतसि विश्रान्तिस्तदर्जनवतां भवदादीनां तत्फललाभात्कुतो न सेत्याशङ्क्य धर्मफलस्वर्गपुत्रादे- taraṅgavadbhaṅgurairataevānavāptarūpaira-prāptaprāyaiḥ | hi yasmādbhinne anātmani ruciryasya sa loko jano viḍambyate vañcyate | ayaṃ bhāvaḥ - sa eva hi lābha ityucyate yallabdhaṃ nāpaiti anarthe vā na paryavasyati | anyastu lābho viḍambanamātram | yathā alpāyuḥputralābho yathā vā matsyasya baḍiśāmiṣalābhaḥ | tathāca śrutiḥ sa yo'nyadātmanaḥ priyaṃbruvāṇaṃ brūyātpriyaṃ rotsyati iti | tathāca na tallābhādāśvāsa iti || 16 || imānyamūnīti vibhāvitāni kāryāṇyaparyantamanoramāṇi | janasya jāyājanarañjanena javājjarāntaṃ jarayanti cetaḥ || 17 || uktamevārthamāsurasaṃpadvistārapradarśanena prapañcayati - imānītyādinā | imāni saṃnihitāni sadyaḥ kartavyānyamūni viprakṛsṭāni deśakālāntare kartavyānīti vibhāvitāni nirantaraṃ cintitānyaparyantamanoramāṇi | pariṇāme'nartharūpāṇi | jāyānāṃ janānāṃ ca rañjanena priyācaraṇena dehajarāntaṃ ceto'pi jarayanti | vivekādbhraṃśayantīti yāvat || 17 || parṇāni jīrṇāni yathā tarūṇāṃ sametya janmāśu layaṃ prayānti | tathaiva lokāḥ svavivekahīnāḥ sametya gacchanti kuto'pyahobhiḥ || 18 || kuto'pyahobhiḥ katipayaireva dinaiḥ || 18 ||
SK
इतस्ततो दूरतरं विहृत्य प्रविश्य गेहं दिवसावसाने | विवेकिलोकाश्रयसाधुकर्म रिक्तेऽह्नि रात्रौ क उपैति निद्राम् || १९ || अह्नि दिवसे विवेकिजनानामनुसरणेन सत्कर्मभिश्च रहिते सति को निद्रामुपैति विना मूढमिति शेषः || १९ || विद्राविते शत्रुजने समस्ते समागतायामभितश्च लक्ष्म्याम् | सेव्यन्त एतानि सुखानि यावत्तावत्समायाति कुतोऽपि मृत्युः || २० || कुतोऽपि संवर्धिततुच्छरूपैर्भावैरमीभिः क्षणनष्टदृष्टैः | विलोड्यमाना जनता जगत्यां नवेत्युपायातमहो न पातम् || २१ || कुतोऽप्यनिर्धारिततत्त्वाद्धेतोः संवर्थितैः भावैर्विषयैर्विलोड्यमाना भ्राम्यमाणा | पातं मृत्युम् | यातमिति पाठे उपायातमागतं यातं गतं च अहो न वेत्ति || २१ || प्रियासुभिः कालमुखं क्रियन्ते जनैडकास्ते हतकर्मबद्धाः | यैः पीनतामेव बलादुपेत्य शरीरबाधेन न ते भवन्ति || २२ ||
SK
सर्वप्राणिनां प्रियत्वेन प्रसिद्धैरसुभिः प्राणैर्यजमानैस्त एव जनैडका नरमेषाः पशवः | हतशब्दः कुत्सायाम् | कुत्सितकर्मलक्षणेषु यूपेषु बद्धाः सन्तो दोषाञ्जनैः कालवर्णं मुखं यथा स्यात्तथा क्रियन्ते संस्क्रियन्ते | ते के | यैर्विषयासक्तिदेहपोषणादिबलात्पीनतामेवोपेत्य स्थितं न विवेकवैराग्याद्यभ्यस्तमित्यर्थः | अत एव हि ते रोगर्त्विग्भिः संज्ञपन- bhavantītyutprekṣā | asanneva sa bhavati asadbrahmeti veda cet iti śruteḥ | yajña- लक्षणा | अथवा यैरेव जनैडकैः पोषकैः स्वयं पीनतामुपेत्य स्थितास्त एव क्रियन्ते उपह्रियन्ते | अतएव कृतघ्ना असवः शरीरबाधेन हेतुना ते प्रियासवो न भवन्ति किंत्वप्रियाः शत्रवः | तथाच न प्राणपोषणमात्र-परेण भाव्यमिति भावः | अथवा असुपोषणपरा अपि न मूढजनाः प्रियासवः | तेषां मृत्युमुखप्रवेशोपायाचरणेन प्रत्युत प्राणविघात-कत्वात् | किंतु तत्त्वज्ञा एवेह प्रियासवः | प्राणानां तत्त्वदृशा नित्यात्म- mūḍhajanaiḍakāḥ kālamukhamiva kriyante | nādriyanta iti yāvat | kasteṣvatiśayastatrāha - yaiṣtattvajñānabalāccharīratrayabādhena pīnatāmapari-cchinnatāmevopetya sthitamiti hetoste janaiḍakavaddehātmamatayo na bhavantītyayamevātiśaya ityarthaḥ || 22 || ajastramāgacchati satvaraivamanārataṃ gacchati satvaraiva | kuto'pi lolā janatā jagatyāṃ taraṅgamālā kṣaṇabhaṅgureva || 23 || yathā āgacchati evaṃ satvaraiva gacchati | kuto'pītyuktyā yata āgacchati yatra ca gachati tajjijñāsitamiti sūcitam || 23 || prāṇāpahāraikaparā narāṇāṃ mano manohāritayā haranti | raktacchadāścañcalaṣaṭpadākṣyo viṣadrumālolalatāḥ striyaśca || 24 || raktacchadā raktauṣṭhyo raktavastrā vā raktapallavāśca | ṣaṭpadā iva ṣaṭpadā eva cākṣīṇi yāsām | viṣadrumeṣvālolā latā viṣalatāḥ || 24 || ito'nyataścopagatā mudhaiva samānasaṃketanibaddhabhāvā | yātrāsamāsaṃgasamā narāṇāṃ kalatramitravyavahāramāyā || 25 ||
SK
इतो मनुष्यलोकादन्यतः स्वर्गनरकादिभ्यश्च | मुधा व्यर्थमेव | इहास्माभिर्मिलितव्यमिति परस्पराभिप्रायनिबन्धनः संकेतस्तेन संपादितस्वरूपा | देवोत्सवादियात्रायां समासङ्गः समाजमेलनम् || २५ || प्रदीपशान्तिष्विव भुक्तभूरिदशास्वतिस्नेहनिबन्धनीषु | संसारमालासु चलाचलासु न ज्ञायते तत्त्वमतात्त्विकीषु || २६ || संसारा जन्ममरणपरम्परास्तेषां मालासु प्रदीपानां शान्तिषु क्षणिकज्वालोपरमप्रवाहेष्विव तत्त्वं पारमार्थिकं वस्तु न ज्ञायते इति संबन्धः | सर्वाणि विशेषणान्युभयसाधारणानि | दशा बाल्यादयो वर्तिकाश्च | स्नेहो रागस्तैलं च | चलाचलासु चञ्चलासु | अतात्त्विकीषु मिध्याभूतासु || २६ || संसारसंरम्भकुचक्रिकेयं प्रावृट्पयोबुद्बुदभङ्गुरापि | असावधानस्य जनस्य बुद्धौ चिरस्थिरप्रत्ययमातनोति || २७ || यथा कुलालचक्रिका भ्रमन्त्यप्यसावधानपुरुषबुद्धौ चिरं स्थिरैवेयं न भ्रमतीति प्रतीतिं जनयति एवमियं [प्रवृत्तिकुचक्रिका] संसारप्रवृत्ति-रूपा कुचक्रिका वार्षिकलजबुद्बुद्वदनित्यापि चिरस्थायिताप्रतीतिं जनयतीत्यर्थः || २७ || शोभोज्ज्वला दैववशाद्विनष्टा गुणाः स्थिताः संप्रति जर्जरत्वे | आश्वासनादूरतरं प्रयाता जनस्य हेमन्त इवाम्बुजस्य || २८ || जनस्य अम्बुजस्येव संप्रति यौवने शरदि च ये सौन्दर्यसौगन्ध्यादयो गुणाः शोभोज्ज्वलाः स्थितास्त एव गुणा वार्धकेन जर्जरत्वे हेमन्ते च दैववशाद्विनष्टाः सन्त आश्वासनायाश्चित्तसमाधानस्य आघ्राणस्य च दूरतरं प्रयाता दुर्लभा भविष्यन्तीति न तेषु विश्वास इति भावः || २८ || पुनःपुनर्दैववशादुपेत्य स्वदेहभारेण कृतोपकारः | विलूयते यत्र तरुः कुठारैराश्वासने तत्र हि कः प्रसङ्गः || २९ ||
SK
यत्र संसारे भूजलपवनादि दैववशात्पुरुषोपकारमनपेक्ष्यैवेति यावत् | जन्माभिवृद्धिफलपुष्पादिसमृद्धिमुपेत्य स्वदेहस्य भारेण धारणेन पुनःपुनर्जनेभ्यश्छायापत्रपुष्पफलादिभिः कृतोपकारोऽनपराध्यपि तरुर्वृक्षः कुठारैर्विलूयते छिद्यते | तत्र संसारे | तत्र प्रतिपदप्रसक्ता- mṛtyuranapakāriṇamapi haniṣyatyeveti bhāvaḥ || 29 || manoramasyāpyatidoṣavṛtterantarvighātāya samutthitasya | viṣadrumasyeva janasya saṅgādāsādyate saṃprati mūrchanaiva || 30 || nanvastvanyatra doṣastathāpi hitaiṣiṣu svajaneṣu ko doṣastatrāha - manoramasyeti | atiśayitadoṣāḥ snehabhogādivṛttayo dāhabhramaṇādivṛttayaśca yasmāt | antarupaśamasya jīvitasya ca vighātāyodyuktasyotpannasya ca mūrcchanā mūḍhatā kaśmalaṃ vā āsādyata ityayameva doṣa iti bhāvaḥ || 30 || kāstā dṛśo yāsu na santi doṣāḥ kāstā diśo yāsu na duḥkhadāhaḥ | kāstāḥ prajā yāsu na bhaṅguratvaṃ kāstāḥ kriyā yāsu na nāma māyā || 31 || saṃsāradṛṣṭiṣu kāstā dṛśo dṛṣṭayaḥ | kriyā laukikyaḥ | māyā chalam || 31 || kalpābhidhānakṣaṇajīvino hi kalpaughasaṃkhyākalane [viriñcyā] viriñcyāḥ | ataḥ kalāśālini kālajāle laghutvadīrghatvadhiyo'pyasatyāḥ || 32 || nanvanyāsāṃ prajānāṃ bhaṅguratve'pi viriñcisālokyaṃ prāptānāṃ prajānāṃ kalpāyuṣāṃ na bhaṅguratvamityāśaṅkyāha - kalpeti | kalpaughānāmatītānāgatānantakalpānāṃ saṃkhyāyā akalane aparijñāne ānantyāviśeṣātkalpā api viṣṇurudrādidṛśā kṣaṇā eveti viriñcyā api kalpābhidhānakṣaṇajīvina eva | ato'vayavaśālini kālasamūhe laghutvadīrgha- तुल्यन्यायेन ब्रह्माण्डा अप्यनन्तकोटिब्रह्माण्डदृशां दृशा अणव एवेत्यणुमहत्त्वादिबुद्धयोऽप्यसत्या बोध्याः || ३२ || सर्वत्र पाषाणमया महीध्रा मृदा मही दारुभिरेव वृक्षाः | मांसैर्जनाः पौरुषबद्धभावा नापूर्वमस्तीह विकारहीनम् ||३३||
SK
एवं प्रकृतिदृष्टौ विकारजातमप्यसत्यमेव प्रतिभातीताह - सर्वत्रेति | स्वार्थे मयट् | प्रकृत्या चारुरित्यादिवदभेदे तृतीया | महीध्ना वस्तुतः पाषाणा एव | मही मृदेव | जना मांसादीन्येव | कथं तर्हि पर्वतादि- puruṣakṛtairnāmarūpasaṃketaiḥ pratiniyatasvabhāvā ityarthaḥ | paramārthatastu apūrva pūrvasiddhakāraṇāda-nyannāsti | tathāca sarvatra nyāyasāmyādvikārahīnaṃ parityaktavikāraṃ sarvaṃ jagatprakṛtibhūtamekameva paramārthavastvastīti yuktyā saṃbhāvyata ityarthaḥ | athavā astu parvatādivikārāṇāmasatyatvaṃ tatprakṛtīnāṃ pāṣāṇa-mṛdādīnāṃ tu tatkutastatrāha - nāpūrvamiti | teṣāmapi svakāraṇamahābhūta- एवेत्यर्थः || ३३ || आलोक्यते चेतनयाऽनुविद्धा पयोनुबद्धोऽस्तनयो नभः स्थाः | पृथग्विभागेन पदार्थलक्ष्म्या एतज्जगन्नेतरदस्ति किंचित् || ३४ || पाषाणमृदादीनां महाबूतमात्रत्वमुक्तं स्फुटयति - आलोक्यत इति | अनुवित् हा इति च्छेदः | पयो जलं तदनुबद्धस्तत्कारणत्वेन तदिन्धनत्वेन वा तत्संबद्धो वह्निः | यद्यपि भौमो वह्निः पार्थिवेन्धनस्तथापि काष्ठा- sūryacandrāpnyudakādīnītyastanayo vāyuḥ | nabha ākāśaḥ | tiṣṭhati na calatīti sthāḥ pṛthivī | ityetanmahābhūtapañcakamevānuvidhyate parsparaṃ saṃbadhyata ityanuvit militaṃ sat goghaṭādinānāpadārthalakṣmyā etajjagaccetanayā buddhyā ālokyate avivekibhiḥ | hā iti khedāvadyotako nipātaḥ | vivekadṛśā pṛthagvibhāgena prayālocane tu itaratpañcabhūtātiriktaṃ na kiṃcidastītyarthaḥ | tathāca śrutiḥ - yadagne rohitaṃ rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ yatkṛṣṇaṃ tadannasya | apāgāmadagneragnitvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam iti || 34 || camatkṛtiśceha manasvilokacetaścamatkārakarī narāṇām | svapne'pi sādho viṣayaṃ kadācitkeṣāṃcidabhyeti na citrarūpā || 35 ||
SK
नन्वेवं पदार्थानामसत्यत्वे कथं जनानां व्यवहारभोगचमत्कारः नहि शुक्तिरजतेन कङ्कणं कर्तुं शक्यमित्याशङ्क्याह - चमत्कृतिरिति | इह मिथ्याभूतेऽपि पदार्थजाते व्यवहारकुशलतया मनस्विनां प्रिक्षावता- citrarūpā nāścaryabhūtā | yatastathāvidhā camatkṛtiḥ kadācitkeṣāṃcinna- यावत् | यद्यपि सर्वेषामपि स्वप्ने भोगाः प्रसिद्धास्तथापि सुखदुःखाति- cirabhogacamatkṛtiryathā hariścandrasya svarganarakabhogayoriti sūcanāya kadācitkeṣāṃcidityuktam || 35 || adyāpi yāti'pi ca kalpanāyā ākāśavallīphalavanmahattve | udeti no lobhalavāhatānāmudāravṛttāntamayī kathaiva || 36 || nanu yadyasti bhogacamatkṛtistarhi kimadhunaiva virajyase | bhogānbhuktvottare vayasi virajyātmavicārasya kartuṃ yuktatvādityāśaṅkya bhogāsaktau vairāgyasya vicārasya ca sadaiva daurlabhyamityāha - adyeti | adyādhunātane pūrve vayasi yāte'sminnuttare'pi ca vayasi ākāśavalliphalavanmithyābhūtāyā api bhogāsaktikalpanāyā avicārānmahattve sati bhogatatsādhanādilobhalavenā- सर्वोत्कृष्टस्य परमात्मनो यो वृत्तान्तः स्वरूपनिरूपणवार्ता तत्प्रचुरा कथैव नोदेति | निरन्तरं तद्विचारस्तु दूरनिरस्त इति भावः || ३६ || आदातुमिच्छन्पदमुत्तमानां स्वचेतसैवापहतोऽद्य लोकः | पतत्यशङ्कं पशुरद्रिकूटादानीलवल्लीफलवाञ्छयैव || ३७ || आसक्तौ न केवलं पुरुषार्थहानिः प्रत्युत महाननर्थोऽपीत्याह - आदातु- amumarthamarthāntaranyāsena dṛaḍhayati - paśurityādinā | paśuśchāgādiḥ patatītyanuṣajyate | ānīlā haritā valli arthādviṣamasthā karīrādivallī gṛhyate || 37 || avāntaranyastanirarthakāṃśacchāyālatāpatraphalaprasūnāḥ | śarīra eva kṣatasaṃpadaśca śvabhradrumā adyatanā narāśca || 38 ||
SK
अवान्तरे दुर्गमे गर्तोदर एव न्यस्तान्यतएव निरर्थकांशानि अंशतोऽपि प्राणिभिरनुपभोग्यत्वाद्व्यर्थानीति यावत् | छायादीनि येषां तथाविधाः श्वभ्रद्रुमाः शरीरे स्वशरीरपोषणायैवोपयोगात्क्षता व्यर्थं नाशिता विद्याविनयधनादिसंपदो यैस्तथाविधा नराश्च तुल्या एव | व्यर्थजन्म- kvacijjanā mārdavasundareṣu dvacitkaṭhoreṣu ca saṃcaranti | deśāntarāleṣu nirantareṣu vanāntakhaṇḍeṣviva kṛṣṇasārāḥ || 39 || yadyapi kvaciddhārmikā api santi tathāpi vivekino durlabhā iti vaktuṃ janadvai- प्रकृतानुसाराच्चित्तभूमयो गृह्यन्ते | मार्दवं दयादाक्षिण्यक्षमादिसौन्दर्यं विद्याविनयादि च तद्वत्सु | कठोरेषु क्रोधलोभनैष्ठुर्यशालिषु [तैक्ष्ण्यशालिषु] | वनमध्यभागानां खण्डेष्ववयवेषु || ३९ || धातुर्नवानि दिवसं प्रति भीषणानि रम्याणि वा विलुलितान्ततमाकुलानि | कार्याणि कष्टफलपाकहतोदयानि विस्मापयन्ति न शवस्य मनांसि केषाम् || ४० || जनानां दुर्दशां दृष्ट्वा दुःखितस्तन्निमित्तं दैवं निन्दति - धातुरिति | शवस्य अचेतनत्वान्मृतकल्पस्य धातुर्दैवस्य | यदि जीवन्स्यान्नेदृशो निद्रयः स्यादित्यभिप्रायः | दिवसं प्रति दिने दिने | कर्मप्रवचनीयेनैव वीप्साद्योत-नान्न द्विवचनं कृतम् | फलसो भीषणान्यापाततो रम्याणि | वाशब्दः समुच्चये | विलुलितान्ततमैः रागादिभिरत्यन्तवाकुलितचित्तैराकुलानि | परिणामे कष्टफलपाकेन दूषितारम्भाभ्युदयानि नवानि कार्याणि केषां विवेकिनां मनांसि न विस्मापयन्ति || ४० || जनः कामासक्तो विविधकुकलाचेष्टनपरः स तु स्वप्नेऽप्यस्मिञ्जगति सुलभो नाद्य सुजनः | क्रिया दुःखासङ्गाऽविधुरविधुरा नूनमखिला न जाने नेतव्या कथमिव दशा जीवितमयी || ४१ || उक्तमर्थमनूद्योपसंहरंस्तन्निमित्तं स्वस्योद्वेगं दर्शयति - जन इति | कुकलाभिः कौटिल्य चातुर्यैः | सुजनो विवेकी | दुःखैरसङ्गोऽसंबन्धस्तद- rahitā | avaśyaṃ duḥkhānubandhinyeveti yāvat || 41 ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे निःश्रेयसविरोधिभावानित्यताप्रतिपादनं नं नाम सप्तविंशतितमः सर्गः || २७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे निःश्रेयसविरोधिभावानित्यताप्रतिपादनं नं नाम सप्तविंशतितमः सर्गः || २७ || अष्टाविंशः सर्गः २८ श्रीराम उवाच | यच्चेदं दृश्यते किंचिज्जगत्स्थावरजंगमम् | तत्सर्वमस्थिरं ब्रह्मन्स्वप्नसंगमसंनिभम् || १ || इह सर्वेषु भोग्येषु वैरस्यप्रतिपत्तये | वर्ण्यते सर्वभावानां विपर्यासिस्वभावता || सर्वभावानामविरतविपर्यासस्वभावतादर्शनादपि न तेष्वाश्वास इत्याहः - यच्चेदमित्यादिना | स्वप्ने संगमः समाजमेलनम् || १ || शुष्कसागरसंकाशो निखातो योऽद्य दृश्यते | स प्रातरभ्रसंवीतो नगः संपद्यते मुने || २ || निखातो गर्तः | प्रातर्ग्रहणं कालान्तरोपलक्षणम् || २ || यो वनव्यूहविस्तीर्णो विलीढगगनो महान् [गगनोऽचलः] | दिनैरेव स यात्युर्वीसमतां कूपतां च वा || ३ || वनव्यूहेन वनसमुदायेन | विलीढगगनश्चुम्बितनभस्तलः | उन्नत इति यावत् | महान्परिणाहतः | दिनैः कैश्चिदेव || ३ || यदङ्गमद्य संवीतं कौशेयस्रग्विलेपनैः | दिगम्बरं तदेव श्वो दूरे विशरिताऽवटे || ४ || अवटे गर्ते | विशरिता विशीर्णं भविता | लुट् || ४ || यत्राद्य नगरं दृष्टं विचित्राचारचङ्चलम् | तत्रैवोदेति दिवसैः संशून्यारण्यधर्मता || ५ || चञ्चलं पुनः पुनश्चरत् || ५ || यः पुमानद्य तेजस्वी मण्डलान्यधितिष्ठति | स भस्मकूटतां राजन्दिवसैरधिगच्छति || ६ || अधिगच्छति प्राप्नोति || ६ || अरण्यानि महाभीमा या नभोमण्डलोपमा | पताकाच्छादिताकाशा सैव संपद्यते पुरी || ७ || महारण्यमरण्यानी | विस्तीर्णतया नीलतया च नभोमण्डलोपमा || ७ || या लतावलिता भीमा भात्यद्य विपिनावली | दिवसैरेव सा याति पुनर्मरुमहीपदम् || ८ || लताभिर्वलिता संवृत्ता | मरुमह्याः पदं लक्षणं निर्वृक्षजलताम् || ८ ||
SK
सलिलं स्थलतां याति स्थलीभवति वारिभूः | विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् || ९ || वारिभूरुदकस्थानम् | विपर्यस्यति विपरीतावस्थामापद्यते || ९ || अनित्यं यौवनं बाल्यं शरीरं द्रव्यसंचयाः | भावाद्भावान्तरं यान्ति तरङ्गवदनारतम् || १० || पूर्वस्वभावात्स्वभावान्तरम् || १० || वातान्तर्दीपकशिखालोलं जगति जीवितम् | तडित्स्फुरणसंकाशा पदार्थश्रीर्जगत्रये || ११ || अल्पो दीपो दीपकः || ११ || विपर्यासमियं याति भूरिभूतपरम्परा | बीजराशिरिवाजस्त्रं पूर्यमाणः पुनःपुनः || १२ || यथा कुसूलादावजस्रं पुनःपुनः पूर्यमाणो धान्यादिबीजराशिर्व्ययेन विपर्यासं क्षेत्रे उप्तो जलेन पूर्यमाणो वोच्छूनताङ्कुरसस्यादिभावेन विपर्यासमित्यर्थः || १२ || मनःपवनपर्यस्तभूरिभूतरजःपटा | पातोत्पातपरावर्तपराभिनयभूषिता || १३ || इयं जागती स्थितिरेव संसारस्य [स्वकौशलातिश्याप्रकटनाय प्राणिनां जन्ममृत्युसंसरणलक्षणायामारभट्यां नटी वंशनटी | भटीनटीति समुदायो वा तद्वाचकः] कर्तृभोक्तृतासंतानलक्षणा या आरभटी आडम्बरातिशयः सैव नटी नर्तकी स्वकौशलातिशयप्रकटनाय नृत्ते आवेशेन विवृत्ता परिवर्तनमानेव जनितभ्रमा आलक्ष्यते इति संबन्धः | तदनुरूपं विशिनष्टि | मन एव पवनस्तेन पर्यस्तमुद्भूतं भूरिभूतं प्राणिलक्षणं रजोवृन्दमेव पटो यस्याः | अतएव प्राणिनां पातो नरकादावुत्पातः स्वर्गे परावर्तो मध्यमलोकेऽत एव परा उत्कृष्टा अभिनयाभावव्यञ्जकचेष्टास्ताभिर्भूषिता || १३ || आलक्ष्यते स्थितिरियं जागती जनितभ्रमा | नृत्तावेशविवृत्तेव संसारारभटीनटी || १४ || गन्धर्वनगराकारविपर्यासविधायिनी | अपाङ्गभङ्गुरोदारव्यवहारमनोरमा || १५ || तामेव वर्णयति द्वाभ्याम् - गन्धर्वेति | विपर्यासो भ्रान्तिः वंशनटीनां नेत्रपिधानगारुडविद्या प्रसिद्धा | अपाङ्गाविव भङ्गुरैश्चपलैरपाङ्ग-पातैश्च भङ्गुरैर्व्यवहारैर्मनोरमा || १५ ||
SK
तडित्तरलमामोलमातन्वाना पुनःपुनः | संसाररचना राजन्नृत्तसक्तेव राजते || १६ || तडितमेव तडितमिव च तरलं आलोकं आलोकनम् || १६ || दिवासास्ते महान्तस्ते संपदस्ताः क्रियाश्च ताः | सर्वं स्मृतिपथं यातं यामो वयमपि क्षणात् || १७ || ते उत्सवविभवशालिनः || १७ || प्रत्यहं क्षयमायाति प्रत्यहं जायते पुनः | अद्यापि हतरूपाया नान्तोऽस्या दग्धसंसृतेः || १८ || हतदग्धशब्दौ निन्दावचनौ || १८ || त्रियक्त्वं पुरुषा यान्ति तिर्यञ्चो नरतामपि | देवाश्चादेवतां यान्ति किमिवेह विभो स्थिरम् || १९ || तिर्यक्त्वं पश्वादिजन्म || १९ || रचयन्रश्मिजालेन रात्र्यहानि पुनःपुनः | अतिबाह्य रविः कालो विनाशवधिमीक्षते || २० || कालः कालत्मा रविः सूर्यः | रचयन् | भूतजातमिति शेषः | रात्र्यहानि अतिबाह्य विनाशावधिं स्वरचितस्य भूतजातस्येति शेषः || २० || ब्रह्माविष्णुश्च रुद्रश्च सर्वा वा भूतजातयः | नाशमेवानुधावन्ति सलिलानीव वाडवम् || २१ || अनुधावन्त्यनुसरन्ति | वाडवं वडवानलम् || २१ || द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः | विनाशवाडवस्यैतत्सर्वं संशुष्कमिन्धनम् || २२ || वाडवस्य भागलक्षणया वह्नेः | प्रसिद्धस्य वाडवस्याबिन्धनत्वेन संशुष्कविशेषणानुपयोगात् || २२ || धनानि बान्धवा भृत्या मित्राणि विभवाश्च ये | विनाशभयभीतस्य सर्वं नीरसतां गतम् || २३ || स्वदन्ते तावदेवैते भावा जगति धीमते | यावत्स्मृतिपथं याति न विनाशकुराक्षसः || २४ || स्वदन्ते रोचन्ते || २४ || क्षणमैश्वर्यमायाति क्षणमेति दरिद्रताम् | क्षणं विगतरोगत्वं क्षणमागतरोगताम् || २५ || क्षणमल्पकालम् | जन इति शेषः || २५ || प्रतिक्षणविपर्यासदायिना निहतात्मना | जगद्भ्रमेण के नाम धीमन्तो हि न मोहिताः || २६ || निहगशब्दो निन्दावचनो नश्वरवचनो वा || २६ || तमःपङ्कसमालब्धं क्षणमाकाशमण्डलम् | क्षणं कनकनिष्यन्दकोमलालोकसुन्दरम् || २७ ||
SK
अनियतस्थितिमेवोदाहरणेन प्रपञ्चयति - तम इत्यादित्रिभिः | आकाशमण्डलो-दाहरणम् दृष्टान्तार्थम् | तमोलक्षणेन पङ्केन सम्यगालब्धं स्पृष्टम् | कनकस्य निष्यन्दो द्रव इव रम्येण कोमलेन सुखस्पर्शेन चन्द्राद्यालोकेन || २७ || क्षणं जलदनीलाब्जमालावलितकोटरम् | क्षणमुड्डामररवं क्षणं मूकमिव [मूकमवस्थितम्] स्थितम् || २८ || जलदा एव नीलाब्जमालास्ताभिर्वेष्टितोदरम् | उड्डामरस्तारः || २८ || क्षणं ताराविरचितं क्षणमर्केण भूषितम् | क्षणमिन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् || २९ || आलोकातिरिक्तैः पर्यायेण वा पूर्वोक्तैः सर्वैर्बहिष्कृतं रहितम् || २९ || आगमापायपरया क्षणसंस्थितिनाशया | न बिभेति हि संसारे धीरोऽपि [ऽधिक इव] क इवानया || ३० || इवशब्दोऽनर्थको दृष्टान्तदौर्लभ्यार्थो वा | एवमूत्तरत्रापि | अनया जगत्स्थित्या || ३० || आपदः क्षणमायान्ति क्षणमायान्ति संपदः | क्षणं जन्म क्षणं मृत्युर्मुने किमिव न क्षणम् || ३१ || प्रागासीदन्य एवेह जातस्त्वन्यो नरो दिनैः | सदैकरूपं भगवन्किंचिदस्ति न सुस्थिरम् || ३२ || इह सदैकरूपं सुस्थिरं न किंचिदस्तीति संबन्धः || ३२ || घटस्य पटता दृष्टा पटस्यापि घटस्थितिः | न तदस्ति न यद्दृष्टं विपर्यस्यति संसृतौ || ३३ || घटस्य कार्पासक्षेत्रे विशीर्णस्य कार्पासपरिणामक्रमेण पटता दृष्टेत्यर्थः || ३३ || तनोत्युत्पादयत्यत्ति निहत्यासृजति क्रमात् | सततं रात्र्यहानीव निवर्तते नरं प्रति || ३४ || वृद्धिविपरिणामापक्षयविनाशपुनर्जन्माख्याः पञ्च भावविकारास्तनो-त्यादिभिरुच्यन्ते | तान्क्रमेण प्राप्नुवानं नरं देहाभिमानिनं प्रति ते भावविकारा निवर्तन्ते न चिरं तिष्ठन्तीति तेऽपि विपर्यस्यन्तीत्यर्थः | यद्यप्यस्तीति सतापि भावविकारेषु यास्केन पठ्यते तथापि साधिष्ठान-ब्रह्मसत्तानुवेधो न विकार इति भावः || ३४ || अशूरेण हतः शूर एकेनापि हतं शतम् | प्राकृताः प्रभुतां याताः सर्वमावर्त्यते जगत् || ३५ || आवर्त्यते विपर्यस्यते || ३५ ||
SK
जनतेयं विपर्यासमजस्रमनुगच्छति | जडस्पन्दपरामर्शात्तरङ्गाणामिवावली || ३६ || जनता चेतनसमूहः जडस्याचेतनस्य प्राणकरणादेः | डलयोरभेदा- bālyamalpadinaireva yauvanaśrīstato jarā | dehe'pi naikarūpatvaṃ kāsthā bāhyeṣu vastuṣu || 37 || alpadinairyātīti śeṣaḥ || 37 || kṣaṇamānanditāmeti kṣaṇameti viṣāditām | kṣaṇaṃ saumyatvamāyāti sarvasminnaṭavanmanaḥ || 38 || naṭo yathā harṣaviṣādādyabhinayati tadvat || 38 || itaścānyaditaścānyaditaścānyadayaṃ vidhiḥ | racayanvastunāyāti khedaṃ līlāsvivārbhakaḥ || 39 || tribhirita ādiśabdairharṣaviṣādamohahetavo vicitrā ucyante || 39 || cinotyutpādayatyatti nihatyāsṛjati kramāt | satataṃ rātryahānīva nivartante naraṃ prati || 40 || cinoti brīhyādīniva saṃcayenopacayaṃ nayati tairanyānutpādayati tāṃśca nihatyātti bhakṣayati tato labdhāsvādastathaiva nirantaraṃ bhoktumanyānapi jantūnāsṛjati vidhiḥ | sṛṣṭaṃ ca naraṃ prati harṣaviṣādādayo rātryahānīva sadā prāpya nivartanta ityarthaḥ || 40 || āvirbhāvatirobhāvabhāgino bhavabhātinaḥ | janasya sthiratāṃ yānti nāpado na ca saṃpadaḥ || 41 || tadeva hetvasthairyeṇa viśadayati - āvirbhāveti || 41 || kālaḥ krīḍatyayaṃ prāyaḥ sarvamāpadi pātayan | helāvicalitāśeṣacaturācāracañcuraḥ || 42 || helayā anādareṇaiva vicalitāḥ parivartitā aśeṣāścaturāḥ samarthā api yena tathāvidhe ācaraṇe cañcuraḥ kuśalaḥ || 42 || samaviṣamavipākato vibhinnāstribhuvanabhūtaparamparāphalaughāḥ | samayapavanapātitāḥ patanti pratidinamātatasaṃsṛtidrumebhyaḥ || 43 || karmaṇāṃ rasānāṃ ca samaviṣamavipākato nānāvidhāstrailokyaprāṇi- भिन्नास्तल्लक्षणेभ्यो द्रुमेभ्यः समयः कालस्तल्लक्षणेन पवनेन पातिताः प्रतिदिनं पतन्ति | तथाच पतनपर्यवसितं सर्वं दुष्टमेवेति न क्वचिदास्था युक्तेति भावः || ४३ ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे सर्वभावाऽविरतविपर्यासप्रतिपादनं नामाष्टाविंशः सर्गः || २८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे सर्वभावाऽविरतविपर्यासप्रतिपादनं नामाष्टाविंशः सर्गः || २८ || एकोनत्रिंशः सर्गः २९ श्रीराम उवाच | इति मे दोषदावाग्निदग्धे महति चेतसि | प्रस्फुरन्ति न भोगाशा मृगतृष्णाः सरःस्विव || १ || दोषाणां दर्शनात्सर्वनिर्वेदः स्वस्य वर्ण्यते | रामेण तत्प्रशान्त्यर्थमुपदेशस्तथार्थ्यते || इत्थं दोषदर्शनात्स्वचित्ते तत्त्वबुभूत्सापर्यवसितं निर्वेदं दर्शयति - इतीत्यादिना | दोषपदेन तद्दर्शनं लक्ष्यते | दोषाणामेव वा विवेक- mahati vivekavipule | maruṣveva hi mṛgadṛṣṇāḥ sphuranti na saraḥsu || 1 || pratyahaṃ yāti kaṭutāmeṣā saṃsārasaṃsthitiḥ | kālapākavaśāllolā rasā nimbalatā yathā || 2 || eṣeti pāṭhe spaṣṭam | itīti pāṭhe tu pratyahamahanyahani yāti sati saṃsāra- पाकप्रकर्षवशादल्पकटुकटुतरमित्येवमवस्थाभेदैर्लोलाः कटुरसा यथा निम्बानां लताः बालवृक्षान्यान्ति तद्वत् || २ || वृद्धिमायाति दौर्जन्यं सौजन्यं याति तानवम् | करञ्जकर्कशे राजन्प्रत्यहं जनचेतसि || ३ || वैराग्याभावे भोगाशास्फुरणे त्वनर्थमाह - वृद्धिमिति | करञ्जः कण्टकवृक्षः | प्रत्यहं धर्मपादापचयादधर्मपादोपचयाच्चेति भावः || ३ || भज्यते भुवि मर्यादा झटित्येव दिनं प्रति | शुष्केव माषशिम्बीका टङ्कारकरवं विना || ४ || दिनं प्रति प्रतिदिनम् | ननु वीप्सायां द्विर्वचनाभावेऽवश्यं नित्येना- maryādā tu taṃ vinetyetāvānviśeṣaḥ ityarthaḥ || 4 || rājyebhyo bhogapūgebhyaścintāvadbhyo munīśvara | nirastacintākalitā varamekāntaśīlatā || 5 || ākalitā svikṛtā | ekānta aikāgryam || 5 || nānandāya mamodyānaṃ na sukhāya mama striyaḥ | na harṣāya mamārthāśā śāmyāmi manasā saha || 6 || arthāśā lakṣaṇayā dhanaprāptiḥ || 6 ||
SK
अनित्यश्चासुखो लोकस्तृष्णा तात दुरुद्वहा | चापलोपहगं चेतः कथं यास्यामि निर्वृतिम् || ७ || शान्तिं विना मान्यो निर्वृतिहेतुरस्तीत्याह - अनित्यश्चेति || ७ || नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् | यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् || ८ || किं मे राज्येन किं भोगैः किमर्थेन किमीहितैः | अहंकारवशादेतत्स एव गलितो मम || ९ || ईहितै राजादिविषयैरभिलाषैश्चेष्टितैर्वा | एतद्राज्यादि || ९ || जन्मावलिवरत्रायामिन्द्रियग्रन्थयो दृढाः | ये बद्धास्तद्विमोक्षार्थं यतन्ते ये त उत्तमाः || १० || इन्द्रियाण्येव ग्रन्थयो दृढा विषयाशङ्गस्य दुस्त्यजत्वात् | तैर्ग्रन्थिभिर्ये जन्मावलीलक्षणायां वरत्रायां चर्मरज्जौ बद्धा जीवास्तेषां मध्ये ये तद्विमोक्षार्थं यतन्ते त एवोत्तमा इति संबन्धः || १० || मथितं मानिनीलोकैर्मनो मकरकेतुना | कोमलं कुरनिष्पेषैः कमलं करिणा यथा || ११ || मकरकेतुना कर्त्रा मानिनीलोकैः करणैर्मथितं हिंसितम् || ११ || अद्य चेत्स्वच्छया बुद्ध्या मुनीन्द्र न चिकित्स्यते | भूयश्चित्तचिकित्सायास्तत्किलावसरः कुतः || १२ || अद्यास्मिन्बाल्ये वयसि | तत्तर्हि पेलवः सूद्धरो वृक्षो रूढस्कन्धो दुरुद्धर इति न्यायादिति भावः || १२ || विषं विषयवैषम्यं न विषं विषमुच्यते | जन्मान्तरघ्ना विषया एकदेहहरं विषम् || १३ || विषयलक्षणं वैषम्यमनार्जवम् | जन्मान्तरेष्वपि घ्नन्ति मृत्युं प्रापयन्तीति जन्मान्तरघ्नाः || १३ || न सुखानि न दुःखानि न मित्राणि न बान्धवाः | न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः || १४ || ननु तत्त्वज्ञा अपि विषयान्भुञ्जानाः सुखादिभागिनो दृश्यन्ते तथाच तेषु को विशेषस्तत्राह - नेति | ज्ञस्यात्मज्ञस्य || १४ || तद्भवामि यथा ब्रह्मन्पूर्वापरविदां वर | वीतशोकाभयायासो ज्ञस्तथोपदिशाशु मे || १५ ||
SK
सर्वदुःखासङ्गमूलोच्छेदित्वात् ज्ञत्वमेव महान्पुरुषार्थ इति तदर्थमुपदेशं प्रार्थयते - तदिति | तत्तस्मादुक्तहेतोर्यथाऽहं ज्ञः सन् वीतशोकभयायासो भवामि शीघ्रं भविष्यामि | वर्तमानसामिप्ये लट् | तथैव आशु उपदिशेति संबन्धः || १५ || वासनाजालवलिता दुःखकण्टकसंकुला [संकटसंकुला] | निपातोत्पातबहुला भीमरूपाऽज्ञताटवी || १६ || उपदेशाविलम्बाय स्वस्य दुःखातिशयासहिष्णुतानिर्वेदुत्कण्ठ्ये दर्शयति - veṣṭitā | nipatantyutpatanti cānayoriti nipātotpātau nimnonnatapradeśau vipatsaṃpadau nirayasvargau vā | ajñataivāṭavī araṇyam || 16 || krakacāgraviniṣpeṣaṃ soḍhuṃ śaknomyahaṃ mune | saṃsāravyavahārotthaṃ nāśāviṣayavaiśasam || 17 || krakacasyāgrairdaśanairviniṣpeṣaṃ gharṣaṇam | āśāviṣayābhyāṃ tataṃ vaiśasaṃ viśasanam || 17 || idaṃ nāstīdamastīti vyavahārāñjanabhramaḥ | dhunotīdaṃ calaṃ ceto rajorāśimivānilaḥ || 18 || idamaniṣṭamastīti tannivāraṇe idamiṣṭaṃ nāstīti tatsaṃpādane ca pravṛttinivṛ-tyādivyavahārarūpo'vidyāñjanaprayukto bhramaḥ svabhāvata eva calaṃ cetaḥ rajorāśimanilo vāyuriva dhunoti kampayati | harṣaviṣādacintādibhhirviśārayatī-tyarthaḥ | tūlarāśimivānalaḥ iti pāṭhe tu dāho lakṣyate || 18 || tṛṣṇātantulavaprotaṃ jīvasaṃcayamauktikam | cidacchāṅgatayā nityaṃ vikasaccittanāyakam || 19 || tṛṣṇaiva tantulavaḥ sūkṣmatantustatra protaṃ gumbhitam | jīvasaṃcayā jīvasamūhā eva mauktikāni yasmin | sākṣicidvyāptyā taijasatvena svaccha- शिखामणिर्यस्मिंस्तथाविधम् || १९ || संसारहारमरतिः कालव्यालविभूषणम् | त्रोटयाम्यहमक्रूरं वागुरामिव केसरी || २० || कालो मृत्युः स एव व्यालः षिङ्गस्तस्य विभूषणमलंकारभूतं संसारलक्षणं हारं [मुक्तासरं] मुक्ताहारमरतिर्वैराग्यादि- syāttathā vāgurāṃ kesarīva troṭayāmi | bhavadupadeśajanyajñāneneti bhāvaḥ || 20 ||
SK
नीहारं हृदयाटव्यां मनस्तिमिरमाशु मे | केन विज्ञानदीपेन भिन्धि तत्त्वविदांवर || २१ || हृदयं हृत्पुण्डरीकस्थानं तदेव दुष्प्रवेशत्वादटवी | तस्य जाड्या- manasastimiramiva vivekanetrapidhāyakamajñānaṃ kena sukhakareṇa śira iva pradhānena vā vijñāyate aneneti vijñānamupadeśaḥ sa eva dīpayati diśa iti dīpaḥ sūryastena bhindhi vidāraya || 21 || vidyanta eveha na te mahātman durādhayo na kṣayamāpnuvanti | ye saṅgamenottamamānasānāṃ niśātamāṃsīva niśākareṇa || 22 || ye uttamamānasānāṃ saṅgena tatphalenopadeśena kṣayaṃ nāpnuvanti te tathā- आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः | लोलायौवनलालनाजलरयश्चेत्याकलय्य द्रुतं मुद्रैवाद्य दृढार्पिता ननु मया चित्ते चिरं शान्तये || २३ || ननु शान्त्यादिदार्ढ्यशून्ये बाले त्वयि कृतोऽप्युपदेशः कथं फलिष्यती- bahuṣvadhikāralipsuṣu satsu yeṣu lobhakātaratādidoṣai rāṣṭre pīḍāparākrama- तृष्णाचापलादिदोषैश्चित्तदुःखनाशाद्यनर्थमाकलय्य तानि विहाय सर्वदोषरहितायै समर्थायै च शान्तये प्रशमायैव दृढा [अचञ्चला] अचला चित्ते विषये अधिकारमुद्रा अर्पितेत्यर्थः | वायुविघट्टितायामभ्रपटल्यां लम्बमानं यदम्बु तद्वद्भङ्गुरम् | मेघानां वितानो विस्तारो वितानमिव विस्तृता वा मेघास्तेषां मध्ये विलसन्ती सौदामिनी विद्युदिव चञ्चलाः यौवनसंबन्धिन्यो लालनाश्चित्तविनोदाः | इवार्थे च शब्दः | जलस्य रयो वेग इव लोलाः | तुल्ययोरेवोत्सर्गतः समुच्चयो दृष्ट इत्यर्थाद्वा इवार्थलाभः | द्रुतं शीघ्रमाकलय्य विचार्य || २३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे सकलपदार्थानास्थाप्रतिपादनं नामैकोनत्रिंशः सर्गः || २९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे सकलपदार्थानास्थाप्रतिपादनं नामैकोनत्रिंशः सर्गः || २९ || त्रिंशः सर्गः ३० श्रीराम उवाच |
SK
एवमभ्युत्थितानर्थशतसंकटकोटरे | जगदालोक्य निर्मग्नं मनो मननकर्गमे || १ || स्वचित्तोद्वेगमेवेह हेतुभिः संप्रकाशयन् | तन्निरासाय विश्रान्त्यै प्रार्थयत्युपदेशनम् || स्वचित्तोद्वेगमेव हेतुभिः प्रपञ्चयन्विश्रान्तिहेतुतत्त्वोपदेशमेव विस्तरेण प्रार्थयति - एवमित्यादिना | एवमुक्तप्रकारैरनर्थशतैः संकटे निबिडिते अर्थात्संसारान्धकूपस्य कोटरे छिद्रे जगज्जीवजातं निर्मग्नमालोक्य मनो मननमत्र चिन्ता तल्लक्षणे कर्दमे निमग्नं ममेति शेषः || १ || मनो मे भ्रमतीवेदं संभ्रमश्चोपजायते | गात्राणि परिकम्पन्ते पत्राणीव जरत्तरोः || २ || संभ्रमो भयम् | जरत्तरोर्जीर्णवृक्षस्य || २ || अनाप्तोत्तमसंदोषधैर्योत्सङ्गाकुला मतिः | शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा || ३ || न आप्त उत्तमसंतोषो धैर्यलक्षणो मातुरुत्सङ्गो यया सा मतिः शिशुस्था- yathāraṇyādau bibheti tadvat || 3 || vikalpebhyo luṭhantyetāścāntaḥkaraṇavṛttayaḥ | śvabhrebhya iva sāraṅgāstucchālambaviḍambitāḥ || 4 || tucchairālambairviṣayairviḍambitā vañcitā antaḥkaraṇavṛttayo vikalpebhyo vikṣepaduḥkhebhyo vikṣepaduḥkhāni prāptum | kriyārthopapadasya ca karmaṇi sthāninaḥ iti karmaṇi caturthī | luṭhanti gacchanti | duḥkhagarte patantīti yāvat | yathā sāraṅgā mṛgāstucchalambamānatṛṇādivañcitāḥ śvabhreṣu patanti tadvat || 4 || avivekāspadā bhraṣṭāḥ kaṣṭe rūḍhā na satpade | andhakūpamivāpannā [avakārā] varākāścakṣurādayaḥ || 5 || tatra hetumāha - aviveketi | na vidyate viveko yeṣāṃ puruṣāṇāṃ tadāspadāsta-dāśritāścakṣurādayo yataḥ kaṣṭe saṃsārasthāna eva rūḍhāściraparicayena dṛḍhavāsitā natu satpade paramārthavastunītyarthaḥ || 5 || nāvasthitimupāyāti na ca yāti yathepsitam | cintā jīveśvarāyattā [śvarāyātā] kānteva priyasadmani || 6 || jīva eveśvaraḥ patistasminnāyattā nibaddhā | avasthitimuparamam | yathepsitaṃ viṣayaṃ deśaṃ ca | yāti prāpnoti || 6 ||
SK
जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा | मार्गशीर्षान्तवल्लीव धृतिर्विधुरताम् गता || ७ || वस्तूनि विषयान् पर्णादींश्च विवेकहिमोपघातात्त्यजन्ती रसावशेषात्कानि- apahastitasarvārthamanavasthitirāsthitā | gṛhītvotsṛjya cātmānaṃ bhavasthitiravasthitā || 8 || tāmantarālāvasthāmeva kleśāvahāṃ svasya prapañcayati - apahastiteti | uktā cittasyānavasthitirasthiratā | hastādapagamitāḥ sarve sāṃsārikāḥ pāramārthi- स्वविवेकमात्रेणार्धप्रबोधादर्धमुत्सृज्यार्धं च गृहीत्वाऽव- calitācalitenāntaravaṣṭambhena me matiḥ | daridrā chinnavṛkṣasya mūleneva viḍambyate || 9 || antaravaṣṭambha ātmatattvaniścayāvalambanaṃ tena daridrā tadrahitā | ātmatattvaniścaye saṃśayiteti yāvat | me matiśchinnavṛkṣasya mūlena sthāṇunā kartrā yathā [madāndhakāre] mahāndhakāre sthāṇurvā coro veti satyāsatyakoṭitvāccalitācalitena saṃśayena hetunā matirviḍambyate tadvadidaṃ tattvaṃ syādidaṃ vā tattvamiti saṃśayena viḍambyata ityarthaḥ | athavā uktalakṣaṇā me matirdoṣadarśanajanyavairāgyadārḍhyādrāgebhyaścalitena [dbhogebhyaḥ] apagatasaṃśayena mūlājñānānucchedādacalitena ca vāsanāpraroheṇa hetunā chinnavṛkṣasya mūlena mūlānucchedātpunaḥ prarohonmukhena voḍambyate anukriyata ivetyarthaḥ || 9 || cetaścañcalamābhogi bhuvanāntarvihāri ca | na saṃbhramaṃ jahātīdaṃ svavimānamivāmarāḥ || 10 || svata eva cañcalamābhogi nānābhogavāsanāvistīrṇaṃ bhuvanāntarviharaṇena ca dṛḍhābhyastacāpalamato balānnigṛhyamāṇamapi tattvajñānāvaṣṭambhā- अतोऽतुच्छमनायासमनुपाधि गतभ्रमम् | किं तत्स्थितिपदं साधो यत्र शोको न विद्यते || ११ || अतुच्छं परमार्थसत्यम् | जन्ममरणायासरहितं देहाद्युपाधिशून्यम् | भ्रमहेतूच्छेदाद्गतभ्रमम् | स्थितिपदं विश्रान्तिस्थानम् | यत्र गत्वा यत्प्राप्य || ११ || सर्वारम्भसमारुढाः सुजना जनकादयः | व्यवहारपरा एव कथमुत्तमतां गताः || १२ ||
SK
वयमिव सर्वेषु दृष्टादृष्टफलारम्भेषु | परास्तत्पराः | तदनुकूललौकि-कवैदिकव्यवहारपरा एवेत्यर्थः || १२ || लग्नेनापि किलाङ्गेषु बहुधा बहुमानद | कथं संसारपङ्केन पुमानिह न लिप्यते || १३ || संसारपङ्केन पुण्यपापरूपेण शोकमोहादिना च || १३ || कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः | महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः || १४ || लोभयन्तो भयायैव विषयाभोगभोतिनः | भङ्गुराकारविभवाः कथमायान्ति भव्यताम् || १५ || विषयाभोगा विषयवेषा भोगिनः सर्पाः | भङ्गुरौ नश्वरौ कुडिलौ चाकारविभवौ येषाम् | सर्पपक्षे विभवो विषसामर्थ्यम् | भव्यतां मङ्गलताम् || १५ || मोहमातङ्गमृदिता कलङ्ककलितान्तरा | परं प्रसादमायाति शेमुषीसरसी कथम् || १६ || मृदिता विलोडिता | कलङ्काः कामादयः कर्दमशैवलादयश्च | प्रसादं नैर्मल्यम् | शेमुषी प्रज्ञा सैव सरसी महत्सरः | दक्षिणापथे महान्ति सरांसि सरस्य इत्युच्यन्ते इति महाभाष्योक्तेः || १६ || संसार एव निवहे जनो व्यवहरन्नपि | न बन्धं कथमाप्नोति पद्मपत्रे पयो यथा || १७ || निवहे प्रवाहरूपे || १७ || आत्मवत्तृणवच्चेदं सकलं कलयञ्जनः | कथमुत्तमतामेति मनोमन्मथमस्पृशन् || १८ || परदुःखादावात्मवत्स्वदुःखादौ तृणवत् | अन्तर्दृष्ट्या आत्मवत् बहिर्दृष्ट्या तृणवत् | कलयन्पश्यन् | मनसो मन्मथं कामादिवृत्तिम् || १८ || कं महापुरुषं [उपयातं] पारमुपायातं महोदधेः | आचारेणानुसंस्मृत्य जनो याति न दुःखिताम् || १९ || महापुरुषं जीवन्मुक्तम् | महदत्राज्ञानं तल्लक्षणादुदधेः | आचारेण चरित्रेणानु लक्षीकृत्य स्मृत्वा तद्वदेव स्मृत्वा आचर्येत्यर्थः || १९ || किं तस्यादुचितं श्रेयः किं तत्स्यादुचितं फलम् | वर्तितव्यं च संसारे कथं नामासमञ्जसे || २० || उचितमनश्वरत्वात्प्राप्तुं योग्यम् | श्रेयो मोक्षः | फलं कर्मोपासनादेः || २० || तत्त्वं कथय मे किंचिद्येनास्य जगतः प्रभो | वेद्मि पूर्वापरं धातुश्चेष्टितस्यानवस्थितेः || २१ ||
SK
येन उपदेशेन | अनवस्थितेः अव्यवस्थितस्य | असमस्थितेः इति पाठे विषमस्थितेः | धातुश्चेष्टितस्य जगतः | पूर्वापरमाद्यन्तयोरविशिष्टं वस्तु || २१ || हृदयाकाशशशिनश्चेतसो मलमार्जनम् | यथा मे जायते ब्रह्मंस्तथा निर्विघ्नमाचर || २२ || चेतसः साभासान्तःकरणस्य | मलमज्ञानम् || २२ || किमिह स्यादुपादेयं किंवा हेयमथेतरत् | कथं विश्रान्तिमायातु चेतश्चपलमद्रिवत् || २३ || इतरत् अहेयमनुपादेयं च || २३ || केन पावनमन्त्रेण दुःसंसृतिविषूचिका | शाम्यतीयमनायासमायासशतकारिणी || २४ || रोगाणां पापमूलत्वात्तन्निरासद्वारा पावनेन पवनदोषोपशमन- kathaṃ śītalatāmantarānandatarumañjarīm | pūrṇacandra ivākṣīṇāṃ [bhṛśaṃ sākṣāddayā] bhṛśamāsādayāmyaham || 25 || ānandatarormañjarīmiva sthitāṃ śītalatām | bhṛśaṃ daiśikapariccheda- प्राप्यान्तः पूर्णतां पूर्णो न शोचामि यथा पुनः | सन्तो भवन्तस्तत्त्वज्ञास्तथेहोपदिशन्तु माम् || २६ || अनुत्तमानन्दपदप्रधानविश्रान्तिरिक्तं सततं महात्मन् | कदर्थयन्तीह भृशं विकल्पाः श्वानो वने देहमिवाल्पजीवम् [आत्मजीवं] || २७ || आनन्दपदे प्रधानविश्रान्तिरात्यन्तिकं स्थैर्यं तेन रिक्तं शून्यम् | कदर्थयन्ति पीडयन्ति || २७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे प्रयोजनकथनं नाम त्रिंशः सर्गः || ३० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे प्रयोजनकथनं नाम त्रिंशः सर्गः || ३० || एकत्रिंशः सर्गः ३१ श्रीराम उवाच | प्रोच्चवृक्षचलत्पत्रलम्बाम्बुलवभङ्गुरे | आयुषीशानशीतांशुकलामृदुनि देहके || १ || संसारे जीवितं प्रावृड्घनदुर्जीवितोपमम् | येन सौख्यपदं याति स उपायोऽत्र पृच्छ्यते ||
SK
करिष्यमाणप्रश्नोपोद्धातत्वेन संसारे जीवितं प्रावृड्घनत्वेन कल्पयति - प्रोच्चेत्यादिषड्भिः | सर्वेषां सप्तम्यन्तानां क उपाय इत्यादिभिः संबन्धः | प्रोच्चः प्रांशुः | लम्बो लम्बमानोऽम्बुकण इव भङ्गुरे | यद्यपि हेमन्तेऽप्येतदस्ति तथापि वर्षास्वासारपातादाशुतरभङ्गुरतेति विशेषः | ईशानः शिवस्तद्भूषणशीतांशुः कलामात्रशेष इव मृदुन्यल्पे | दुर्लक्ष्य इति यावत् | वर्षासु चन्द्र एव दुर्लक्ष्यस्तत्रापि कलामात्रशेषः सुतरामिति भावः | इदमप्यायुष एव विशेषणम् | कुत्सितेऽल्पे वा देहके [देहे इति क्वचिन्न पठ्यते] देहे || १ || केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे | वागुरावलये जन्तोः सुहृत्सुजनसंगमे || २ || केदारेषु शालिक्षेत्रेषु | कोणोऽत्र मध्यभागः स इव भङ्गुरे अस्थिरे देहके इति पूर्वेण संबन्धः | सुहृदां मित्राणां सुजनानां आप्तबन्धु- vāsanāvātavalite kadāśātaḍiti sphuṭe | mohogramihikāmeghe ghanaṃ sphūrjati garjati || 3 || vāsanālakṣaṇena purovātena valite āveṣṭite mohogramihikāmeghe ityanvayaḥ | mihikātuṣāro me ghānāmārambhāvasthā | ghanaṃ nirantaram | garjanaṃ sāmānyataḥ sphūrjanaṃ tvaśanipātaparyantamityapaunaruktyam || 3 || nṛtyatyuttāṇḍavaṃ caṇḍe lole lobhakalāpini | suvikāsini sāsphoṭe hyanarthakuṭajadrume || 4 || lole cañcale | kalāpini mayūre | āsphoṭaḥ kalahaḥ kalikāḥ puṭabhedaśca || 4 || krūre kṛtāntamārjāre sarvabhūtākhuhāriṇi | aśrāntasyandasaṃcāre [spanda] kuto'pyuparipātini || 5 || sarvabhūtānyevākhavaḥ | varṣāsu bahujantubhakṣaṇānmārjārāṇāṃ balātiśayaḥ prasiddhaḥ | syando jalapravāhaḥ | kuto bhūmitaḥ ai śabdānna-bhastaśca kuto'pyatarkitasthānāditi vā || 5 || ka upāyo gatiḥ kā vā kā cintā kaḥ samāśrayaḥ | keneyamaśubhodarkā na bhavejjīvitāṭavī || 6 ||
SK
आरण्यकवातवर्षादिपीडानिवृत्तौ छत्रच्छदिः कटादिरुपायाः | रसगुटिकौ-षधलेपादिना द्रुतं निर्दृष्टिदूरदेशे गतिः | संकटोत्तरकमन्त्रदेवता-देश्चिन्ता | गिरिगुहादेः समाश्रयो वा साधनानि यथा लोके प्रसिद्धानि तथा अत्रापि पृच्छ्यन्ते | अशुभमेवोदर्कं औत्तरकालिकं फलं यस्यास्तथाविधा न भवेत् || ६ || न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् | सुधियस्तुच्छमप्येतद्यन्नयन्ति न रम्यताम् || ७ || सुधियस्तपोज्ञानशक्त्यूर्जितबुद्ध्यो भवादृश्यास्तुच्छमतिफल्ग्वपि यद्वस्तु रम्यतां न नयन्ति | नेतुमसमर्था इति यावत् | तदेतत्पृथिव्यां मनुष्यादिषु दिवि देवेषु वा नास्ति | यतस्त्रिशङ्कोस्तादृशो गुरुशापोऽप्याकल्पभोग्यस्वर्ग-परिणतः शुनःशेपस्य च मृत्युर्दीर्घायुषि [दीर्घायुष्यपर्यवसित] पर्यवसित इति भावः || ७ || अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः | कथं सुस्वादुतामेति नीरसो मूढतां विना || ८ || नीरन्ध्रं निरन्तरं दुःखकलनया आकुलः अतएव नीरसः | सुस्वादुतां सरसताम् | मूढतां विना मूढतानिरासद्वारा | कथं केनोपायेन सुस्वादुतामेतीत्यर्थः || ८ || आशाप्रतिविपाकेन क्षीरस्नानेन रम्यताम् | उपैति पुष्पशुभ्रेण मधुनेव वसुंधरा || ९ || सर्वदुःखनिदानभूताया आशायाः प्रसिद्धस्वभावप्रतिकूलो विपाकः पूर्णकामता स एव क्षीरस्नानम् | उपैति संसार इति शेषः | पुष्पैः शुभ्रेण रम्येण मधुना वसन्तेन || ९ || अपमृष्टमलोदेति क्षालनेनामृतद्युतिः | मनश्चन्द्रमसः केन तेन कामकलङ्कितात् || १० || कामेन कलङ्कितान्मनश्चन्द्रमसः | तेन विद्वदनभवप्रसिद्धेन केन क्षालनेनापकृष्टकामादिमला अमृतद्युतिराह्लादचन्द्रिका उदेतीत्यन्वयः || १० || दृष्टसंसारगतिना दृष्टादृष्टविनाशिना | केनेव व्यवहर्तव्यं संसारवनवीथिषु || ११ ||
SK
दृष्टा संसारस्य गतिरनर्थपर्यवसानलक्षणा येन | दृष्टादृष्टे ऐहिकामुष्मिकभोगौ [विवेकेति क्वचिन्न] विवेकवैराग्यबोधदार्ढ्याभ्यां विनाशितवता केन महापुरुषेणेव व्यवहर्तव्यमस्माभिस्तमुदाहरेति शेषः | केनैव इति पाठे व्यवहारेणेति शेषः || ११ || रागद्वेषमहारोगा भोगपूगा विभूतयः | कथं जन्तुं न बाधन्ते संसाराणवचारिणम् || १२ || कथं च धीरवर्याग्नौ पततापि न दह्यते | पावके पारदेनेव रसेन रसशालिना || १३ || धीर्वर्येति संबोधनम् | अग्नौ अग्निवद्दाहके संसारे | रसो ज्ञानामृतं तेन शालिना || १३ || यस्मात्किल जगत्यस्मिन्व्यवहारक्रिया [क्रियां विना] विना | न स्थितिः संभवत्यब्धौ पतितस्याजला यथा || १४ || ननु यदि व्यवहारद्दुःखं तर्हि संत्यज्यतां तत्राह - यस्मादिति | व्यवहाराणां क्रियाः संपादनानि विना | अब्धौ पतितस्य जातस्य मत्स्यादेर्यथा अजला स्थितिर्न संभवति तद्वत् || १४ || रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता | कृशानोर्दाहहीनेव शिखा नास्तीह सत्क्रिया || १५ || नन्वस्तु दुर्व्यवहारे दुःखं सत्क्रियायां तु न तत्संभावनेत्या- manomananaśālinyāḥ sattāyā bhuvanatraye | kṣayo yuktiṃ vinā nāsti brūta tāmalamuttamām || 16 || tiṣṭhatu bāhyavyavahāro manaścāñcalyameva paraṃ duḥkham atastaccikitsaiva vaktavyetyāha - mana iti | manaso mananaṃ viṣayāvalambastacchālinyeva satā-viṣayāvalambakṣaya eva | manaḥsattākṣayaḥ sa ca sarvaviṣayabādhakatattva-bodhahetuyuktyupadeśaṃ vinā nāsti | atastāṃ yuktimalamatyarthaṃ yāvad-dodhodayaṃ brūta | upadiśantvityarthaḥ || 16 || vyavahāravato yuktyā duḥkhaṃ nāyāti me yayā | athavā vyavahārasya brūta tāṃ yuktimuttamām || 17 || tatkathaṃ kena vā kiṃ vā kṛtamuttamacetasā | pūrvaṃ yenaiti viśrāmaṃ paramaṃ pāvanaṃ manaḥ || 18 || tat yuktyā mohanirasanaṃ kena vā pūrvaṃ kṛtaṃ kathaṃ kena prakāreṇa kṛtaṃ tena kiṃ vā prāptaṃ tattvaṃ yathā jānāsi tathā brūhītyuttareṇa saṃbandhaḥ || 18 ||
SK
यथा जानासि भगवंस्तथा मोहनिवृत्तये | ब्रूहि मे साधवो येन नूनं निर्दुःखतां गताः || १९ || अथवा तादृशी युक्तिर्यदि ब्रह्मन्न विद्यते | न वक्ति मम वा कश्चिद्विद्यमानामपि स्फुटम् || २० || तादृशयुक्त्यलाभे स्वस्य देहत्यागान्तं प्रायोपवेशनमेव न जीवनव्यवहारादय इत्याह - अथवेत्यादिसप्तभिः || २० || स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् | तदहं त्यक्तसर्वेहो निरहंकारतां गतः || २१ || स्वयमेव विचार्य वा नाप्नोमि चेत्तर्हि || २१ || न भोक्ष्ये न पिबाम्यम्बु नाहं परिदधेऽम्बरम् | करोमि नाहं व्यापारं स्नानदानाशनादिकम् || २२ || न च तिष्ठामि कार्येषु संपत्स्वापद्दशासु [संपत्स्वापत्सु चैव हि] च | न किंचिदपि वाञ्छामि देहत्यागादृते मुने || २३ || केवलं विगताशङ्को निर्ममो गतमत्सरः | मौन एवेह तिष्ठामि लिपिकर्मस्विवार्पितः || २४ || मौने वागादिसर्वव्यवहाराभावे | लिपिकर्मसु चित्रक्रियासु | अर्पितो लिखितः || २४ || अथ क्रमेण संत्यज्य प्रश्वासोच्छ्वाससंविदः | संनिवेशं त्यजामीममनर्थं देहनामकम् || २५ || संनिवेशमवयवसंस्थानरूपम् || २५ || नाहमस्य न मे नान्यः शाम्याम्यस्नेहदीपवत् | सर्वमेव परित्यज्य त्यजामीदं कलेवरम् || २६ || न मे इदमिति शेषः | अन्योऽपि न मे | अस्नेहो निस्तैलः || २६ || वाल्मीकिरुवाच | इत्युक्तवानमलशीतकराभिरामो रामो महत्तरविचारविकासिचेताः | रूष्णीं बभूव पुरतो महतां घनानां केकारवं श्रमवशादिव नीलकण्ठः || २७ || शीतकरश्चन्द्रः | इति उक्तवान्सन् महतां गुरूणां वसिष्ठादीनां पुरतस्तूष्णीं बभूव | यथा केकारवमुक्तवान्नीलकण्ठो मयुरो घंनानां पुरतस्तूष्णीं भवति तद्वत् || २७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवप्रश्नो नामैकत्रिंशः सर्गः || ३१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे राघवप्रश्नो नामैकत्रिंशः सर्गः || ३१ || द्वात्रिंशः सर्गः ३२ श्रीवाल्मीइरुवाच |
SK
वदत्येवं मनोमोहविनिवृत्तिकरं वचः | रामे राजीवपत्राक्षे तस्मिन्राजकुमारके || १ || रामवाक्यं श्रुतवतां वर्ण्यते भूरिविस्मयः | नराणाममराणां च पुष्पवर्षश्च स्वाज्ञ्युतः || स्वविवेकसम्यग्विचारमूलमिदं श्रीरामवचनजातं स्वतो विचारा- nyāyasiddhaṃ devādīnāmapi vakṣyamāṇabrahmavidyādhikāraṃ darśayituṃ tatkṛtāṃ śrīrāmavākyapraśaṃsāṃ tatsamāgamamahotsavaṃ ca varṇayitu- वक्ष्यमाणविष्मयरोमाञ्चादिविशिष्टा बभूवुरित्युत्तरत्रान्वयः || १ || सर्वे बभूवुस्तत्रस्था विस्मयोत्फुल्ललोचनाः | भिन्नाम्बरा देहरुहैर्गिरः श्रोतुमिवोद्धुरैः || २ || उक्ता रामगिरः श्रोतुमुद्धुरैरुत्सारितजाड्यभारैरुत्थितैरिति यावत् | देहरुहै रोमभिर्भिन्नाम्बराश्छिद्रितवस्त्रा इवेत्युत्प्रेक्षा || २ || विरागवासनापास्तसमस्तभववासनाः | मुहूर्तममृताम्भोधिवीचीविलुलिता इव || ३ || विरागवासनया अपास्ता समस्ता भवहेतुरागद्वेषादिवासना येषाम् || ३ || ता गिरो रामभद्रस्य तस्य चित्रार्पितैरिव | संश्रुता शृणुकैरन्तरानन्दपदपीवरैः || ४ || शृणुकैः श्रवणसमर्तैः | आनन्दस्य पदेन लक्ष्मणा पीवरैः पुष्टैः || ४ || वसिष्ठविश्वामित्राद्यैर्मुनिभिः संसदि स्थितैः | जयन्तधृष्टिप्रमुखैर्मन्त्रिभिर्मन्त्रकोविदैः || ५ || नृपैर्दशरथप्रख्यैः पौरैः पारशवादिभिः | सामन्तै राजपुत्रैश्च ब्राह्मणैर्ब्रह्मवादिभिः || ६ || [पर्श्वादय इति | पर्श्वादिगणे परशुशब्दस्याभावात्तस्याकृतिगणत्वा-भावाच्चेदं विचारणीयम्] पर्श्वादयो देशविशेषास्तद्राजादयः पारशवादयः | पर्श्वादित्वादण् || ६ || तथा भृत्यैरमात्यैश्च पञ्चरस्थैश्च पक्षिभिः | क्रीडामृगैर्गतस्पन्दैस्तुरङ्गैस्त्यक्तचर्वणैः || ७ || कौसल्याप्रमुखैश्चैव निजवातायनस्थितैः | संशान्तभूषणारावैरस्पन्दैर्वनितागणैः || ८ || वातायनं गवाक्षः || ८ || उद्यानवल्लिनिलयैर्विटङ्कनिलयैरपि | अक्षुब्धपक्षततिभिर्विहङ्गैर्विरतारवैः || ९ || विटङ्कः सौधाग्रकपोतपालिका || ९ ||
SK
सिद्धैर्नभश्चरैश्चैव तथा गन्धर्वकिन्नरैः | नारदव्यासपुलहप्रमुखैर्मुनिपुङ्गवैः || १० || अन्यैश्च देवदेवेशविद्याधरमहोरगैः | रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः || ११ || देवेशा दिक्पतयः | श्रुता इति सर्वत्र संबध्यते || ११ || अथ तूष्णीं स्थितवति रामे राजीवलोचने | तस्मिन्रघुकुलाकाशशशाङ्के शशिसुन्दरे || १२ || रघुकुलमेवाकाशो निर्मलत्वात्तस्य शशाङ्के पूर्णचन्द्रे | पूर्णे हि शशौ लक्ष्यते तर्हि कलङ्कितापि स्यादित्याशङ्क्याह - शशिसुन्दरे इति | सौन्दर्याति-शयलाभाय पूर्णतोपलक्षणार्थं शशोपादानं न स्वार्थमिति भावः || १२ || साधुवादगिरा सार्धं सिद्धसार्थसमीरिता | वितानकसमा व्योम्नः पौष्पी वृस्टिः पपात ह || १३ || सिद्धग्रहणं मुमुक्ष्हुदेवयोनिमात्रोपलक्षणम् | स्वार्थः सङ्घः || १३ || मन्दारकोशविश्रान्तभ्रमद्वन्द्वनादिनी | मधुरामोदसौन्दर्यमुदितोन्मदमानवा || १४ || द्वन्द्व मिथुनम् | मुदिताः संतुष्टाः | उन्मदा अस्वाधीनचित्ताः || १४ || व्योमवातविनुन्नेव तारकाणां परम्परा | पतितमेव धरापीठे स्वर्गस्त्रीहसितच्छटा || १५ || निनुन्ना पातिता | हसितच्छटा हास्यकान्तिः || १५ || [वृष्टमूक] वृष्यमूककचन्मेघलवावलिरिव च्युता | हैयंगवीनपिण्डानामीरितेव परम्परा || १६ || वृष्या वर्षणशीला मूका गर्जनवर्जिता विद्युद्भिः कचन्तो दीप्ता ये मेघास्तेषां लवावलिर्लेशसमूहः || १६ || हिमवृष्टिरिवोदारा मुक्ताहारचयोपमा | ऐन्दवी रश्मिमालेव क्षीरोर्मीणामिवाततिः || १७ || किञ्जल्काम्भोजवलिता भ्रमद्भृङ्गकदम्बका | सीत्कारगायदामोदिमधुरानिललोलिता || १८ || किञ्जल्कः केसरस्तत्प्रधानैरम्भोजैर्वलिता सहिता | जनानां स्पर्शसुखाभि- īṣaccālitā || 18 || prabhramatketakīvyūhā prasphūratkairavotkarā | prapatatkundavalayā calatkuvalayālayā || 19 || vyūhādayaḥ samūhārthāḥ || 19 || āpūritāṅgaṇarasā gṛhācchādanacatvarā | ugdrīvapuravāstavyanaranārīvilokitā || 20 ||
SK
रसा भूमिः | आपूरितानि चत्वरान्तानि यया | पुरवास्तव्यैः पुरवासिभिः || २० || निरभ्रोत्पलसंकाशव्योमवृष्टिरनाकुला | अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया || २१ || निरभ्रमत एवोत्पलसंकाशं यद्व्योम ततः पतिता वृष्टिर्वर्णि (र्षि? adṛśyāmbarasiddhaughakarotkarasamīritā | sā muhūrtacaturbhāgaṃ puṣpavṛṣṭiḥ papāta ha || 22 || muhūrtasya caturthabhāgo'rdhaghaṭikā tāvatkālaṃ papāta | ha kila || 22 || āpūritasabhāloke śānte kusumavarṣaṇe | imaṃ siddhagaṇālāpaṃ śuśruvuste sabhāgatāḥ || 23 || āpūritāḥ sabhā tadgatā lokāśca yena | śānte uparate sati || 23 || ākalpaṃ siddhasenāsu bhramadbhirabhitodivam | apūrvamidamasmābhiḥ śrutaṃ śrutirasāyanam || 24 || divamabhitaḥ svargasya sarvapradeśeṣu śrutirasāyanaṃ śrotrāmṛtaṃ vedasārabhūtaṃ vā || 24 || yadanena kilodāramuktaṃ raghukulendunā | vītarāgatayā taddhi vākpaterapyagocaram || 25 || na gocarā arthā yasmiṃstathāvidham || 25 || aho bata mahatpuṇyamadyāsmābhiridaṃ śrutam | vaco rāmamukhodbhūtaṃ mahāhlādakaraṃ dhiyaḥ || 26 || batetyetādrśavākyaśravaṇahīnaṃ janma vyarthamiti khede || 26 || upaśamāmṛtasundaramādarādadhigatottamatāpadameṣa yat | kathitavānucitaṃ raghunandanaḥ sapadi tena vyayaṃ pratibodhitāḥ || 27 || adhigatāyāḥ prāptāyāḥ jātikulacāritryadharmābhijñatādibhiruttamatāyāḥ sārtahkyāpādanātpadaṃ trāṇaṃ lakṣaṇabhūtaṃ vā yadvākyajātaṃ kathita- इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे नभश्चरसाधुवादो नाम द्वात्रिंशः सर्गः || ३२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे नभश्चरसाधुवादो नाम द्वात्रिंशः सर्गः || ३२ || त्रयस्त्रिंशः सर्गः ३३ सिद्धा ऊचुः | पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना | निर्णयं श्रोतुमुचितं वक्ष्यमाणं महर्षिभिः || १ || अवतारोऽत्र सिद्धानां सभायामुपवर्ण्यते | यथोचितोपविष्टैस्तै रामवाक्यप्रशंसनम् ||
SK
सिद्धैः कृतां रामवाक्यादिप्रशंसामेव महीकुर्वंस्तेषां प्रश्न- siddhā ūcurityādinā | raghuśabdena tadvaṃśo lakṣyate tasya ketuvatprakhyāpake-netyarthaḥ || 1 || nāradavyāsapulahapramukhā munipuṅgavāḥ | āgacchatāśvavighnena sarva eva maharṣayaḥ || 2 || āśu āgacchata avighnena | śrotumiti śeṣaḥ | śreyāṃsi bahuvighnāni iti na vilambanamucitamiti bhāvaḥ || 2 || [yatāmaḥ] patāmaḥ paritaḥ puṇyāmetāṃ dāśarathīṃ sabhām | nīrandhrāṃ kanakoddyotāṃ padminīmiva ṣaṭpadāḥ || 3 || nīrandhrāṃ pūrṇāmarthātsaṃpadeti gamyate | ataeva kanakairuddyotāmutkṛṣṭa-prakāśām | padminīpakṣe kesaraśriyā kanakairivoddyotamānām || 3 || śrīvālmīkiruvāca | [ityuktā siddhairiti śeṣaḥ] ityuktā sā samastaiva vyomavāsanivāsinī | tāṃ papāta sabhāṃ tatra divyā muniparamparā || 4 || vyoma vāso nivāsasthānaṃ yeṣāṃ vimānānāṃ teṣu nivāsinī | vistīrṇayāṃ sabhāyāṃ yatra pradeśe rāmādayastatra || 4 || agrasthitamanutsṛṣṭaraṇadvīṇaṃ munīśvaram | payaḥpīnaghanaśyāmaṃ vyāsameva kilāntarā || 5 || tāmeva varṇayatyaṣṭabhiḥ | agre pramukhasthāne sthitam | na utsṛṣṭā raṇadvīṇā yena taṃ munīśvaraṃ nāradam | payasā jalena pīnaḥ pūrṇo ghana iva śyāmaṃ vyāsameva ca antarā | tayorantarāle ityarthaḥ | antarāntareṇa yukte iti ṣaṣṭhyarthe dvitīyā | bhṛgvaṅgiraḥ pulastyādimunināyakairmaṇḍitā bhūṣitetyuttareṇa saṃbandhaḥ || 5 || bhṛgviṅgaraḥ pulastyādimunināyakamaṇḍitā | cyavanoddālakośīraśaralomādimālitā || 6 || bhṛgvādīni teṣāṃ nāmāni || 6 || parasparaparāmarśaduḥsaṃsthānamṛgājinā | lolākṣamālāvalayā sukamaṇḍaludhāriṇī || 7 || parāmarśena saṃgharṣaṇena duḥsaṃsthānāni visaṃṣṭhulāni mṛgājināni yasyāḥ || 7 || tārāvaliriva vyomni tejaḥ prasarapāṭalā | sūryāvalirivānyonyaṃ bhāsitānanamaṇḍanā || 8 || tejaḥprasareṇa pāṭalā śvetaraktā || 8 || ratnāvalirivānyonyaṃ nānāvarṇakṛtāṅgikā | muktāvalirivānyonyaṃ kṛtaśobhātiśāyinī || 9 ||
SK
कौमुतीवृष्टिरन्येव द्वितीयेवार्कमण्डली | संभृतेवातिकालेन पूर्णचन्द्रपरम्परा || १० || अन्या प्रसिद्धविलक्षणा | अतिकालेन चिरेण संभृता एकत्र संचिता || १० || ताराजाल इवाम्भोदो [अम्भोधौ] व्यासो यत्र विराजते | तारौघ इव शीतांशुर्नारदोऽत्र विराजते || ११ || व्यास एकतः नारदोऽन्यत इति शेषः || ११ || देवेष्विव सुराधीशः पुलस्त्योऽत्र विराजते | आदित्य इव देवानामङ्गिरास्तु विराजते || १२ || अस्थास्यां सिद्धसेनायां पतन्त्यां नभसो रसाम् | उत्तस्थौ मुनिसंपूर्णा तदा दाशरथी सभा || १३ || रसां [सीमाभूमिम्] सभाभूमिम् | पतन्त्यां प्रविशन्त्याम् || १३ || मिश्रीभूता विरेजुस्ते नभश्चरमहीचराः | परस्परवृताङ्गाभा भासयन्तो दिशो दश || १४ || परस्परं वृताभिर्मिश्रिताभिरङ्गानामाभाभिः कान्तिभिः || १४ || वेणुदण्डावृतकरा लीलाकमलधारिणः | दुर्वाङ्कुराक्रान्तशिखाः सचूडामणिमूर्धजाः || १५ || लीलाकमलधारिणः केचिदिति यथायोग्यं शेषः || १५ || जटाजूटैश्च कपिला मौलिमालितमस्तकाः | प्रकोष्ठगाक्षवलया मल्लिकावलयान्विताः || १६ || मौलावग्रभागो मालितं मालाभिर्वेष्टितं मस्तकं शिरो येषाम् | प्रकोष्ठः करमूलम् || १६ || चीरवल्कलसंवीताः स्रक्कौशैयावगुण्ठिताः | विलोलमेखलापाशाश्चलन्मुक्ताकलापिनः || १७ || चीरवल्कलयोरवान्तरजात्या भेदः | कलापिनो भूषिताः | कर्मधारयाद- vasiṣṭhaviśvāmitrau tānpūjayāmāsatuḥ kramāt | arghyaiḥ pādyairvacobhiśca sarvāneva nabhaścarān || 18 || vasiṣṭhaviśvāmitrau te pūjayāmāsurādarāt | arthyaiḥ pādyairvacobhiśca nabhaścaramahāgaṇāḥ || 19 || sarvādareṇa siddhaughaṃ pūjayāmāsa bhūpatiḥ | siddhaugho bhūpatiṃ caiva kuśalapraśnavārtayā || 20 || kuśalapraśnasahitayā vārtayā tatkālocitakathayā || 20 || taistaiḥ praṇayasaṃrambhairanyonyaṃ prāptasatkriyāḥ | upāviśanviṣṭareṣu nabhaścaramahīcarāḥ || 21 || praṇayaḥ prītistaducitairdānamānādisaṃrambhaiḥ | satkriyā pūjā | viṣṭareṣvāsaneṣu || 21 ||
SK
वचोभिः पुष्पवर्षेण साधुवादेन चाभितः | रामं ते पूजयामासुः पुरः प्रणतमास्थितम् || २२ || वचोभिरुचितकथालापैः | साधुवादेन प्रशंसनेन || २२ || आसांचक्रे च तत्रासौ राज्यलक्ष्मीविराजितः | विश्वामित्रो वसिष्ठश्च वामदेवोऽथ मन्त्रिणः || २३ || तत्र तेषां मध्ये | असौ रामः | विश्वामित्रादयः अथ आस्थिता उपविष्टा इति [सप्तमेन श्लोकार्धेनेति ज्ञेयम्] सप्तमेन संबन्धः || २३ || नारदो देवपुत्रश्च व्यासश्च मुनिपुङ्गवः | मरीचिरथ दुर्वासा मुनिराङ्गिरसस्तथा || २४ || क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः | वात्स्यायनो भरद्वाजो वाल्मीकिर्मुनिपुङ्गवः || २५ || उद्दालक ऋचीकश्च शर्यातिश्च्यवनस्तथा || २६ || एते चान्ये च बहवो वेदवेदाङ्गपारगाः | ज्ञातज्ञेया महात्मान आस्थितास्तत्र नायकाः || २७ || ज्ञातमवश्यं ज्ञेयमात्मतत्त्वं ज्ञेयमात्रं वा यैः | नायकाः श्रेष्ठाः || २७ || वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः | इदमूचुरनूचाना राममानमिताननम् || २८ || अनूचाना आचार्याद्विधिवदधीतसाङ्गवेदाः | आनमिताननं विनयेन || २८ || अहो बत कुमारेण कल्याणगुणशालिनी | वागुक्ता परमोदारा वैराग्यरसगर्भिणी || २९ || तदुक्तीरेव प्रपञ्चयति अहो इत्यादिभिरष्टादशभिः | कल्याणैर्वक्ष्यमाण- pariniṣṭhitavaktavyaṃ sabodhamucitaṃ sphuṭam | udāraṃ priyamāryārhamavihvalamapi sphuṭam || 30 || vicāryetthameveti vyavasthāpitāḥ pariniṣṭhitā vaktavyārthā yasmin | sabodhaṃ padārthatattvabodhasahitaṃ na kalpanāmātravyavasthāpitārthamiti yāvat | ataeva vidvatsabhocitam | sphūṭaṃ vyaktavarṇam | udāramutkṛṣṭabahvāśayagarbham | priyaṃ hṛdayānandanam | āryāṇāṃ pūjyānāmarhamucitam | avihvalaṃ citta- अभिव्यक्तपदं स्पष्टमिष्टं स्पष्टं च तुष्टिमत् | करोति राघवप्रोक्तं वचः कस्य न विस्मयम् || ३१ || अभिव्यक्तानि व्याकरणपरिशोधितानि पदानि यस्मिन् | इष्टं हितम् | स्पष्टं ग्रस्तादिदोषरहितम् | सुष्टिमत् तृष्णाक्षयप्रयुक्तासंतोषवत् || ३१ ||
SK
शतादेकतमस्यैव सर्वोदारचमत्कृतिः | ईप्सितार्थार्पणैकान्तदक्षा भवति भारती || ३२ || सर्वेभ्यो वक्तृभ्यः सर्वाम्शेऽपि वा उदारा उत्कृष्टा चमत्कृतिः सहृदया-स्वादनीयं सौष्ठवं यस्यास्तथाविधा अतएव ईप्सितस्याभिप्रेतस्यार्थ-स्यार्पणे बोधने एकान्तदक्षा नियमेन समर्था भारती वाणी वाग्मि-शतादपि मुख्येषु मुख्यतमस्यैव विकासं स्फूर्तिमायाति न सर्वेषाम् | पञ्चमी विभक्ते इति शताद्विभज्य निर्धारितेषु तमपा निर्धारणान्तरप्रत्य-यात्सर्वोदारतोपपत्तिः || ३२ || कुमर त्वां विना कस्य विवेकफलशालिनी | परं विकासमायाति प्रज्ञाशरलतातता || ३३ || प्रज्ञा शर इव सूक्ष्मार्थभेदिनी प्रज्ञाशरः सैव लता वल्ली | विकासं विचारवैराग्यपुष्पपल्लवाभ्यामुपचयम् | शकारपाठे प्रकाशम् || ३३ || प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता | प्रज्वलत्यसमालोककारिणी स पुमान्स्मृतः || ३४ || असममनन्यसाधारणमालोकं पदार्थतत्त्वप्रकाशं करोति असमस्या- pumān | anyastu puruṣārthāsamarthaḥ strīprāya iti bhāvaḥ || 34 || raktamāṃsāsthiyantrāṇi bahūnyatitarāṇi ca | padārthānabhikarṣanti nāsti teṣu sacetanaḥ || 35 || uktaprajñāhīnājanā raktādiyantrātmakadehātmabuddhitvāttānyeva śabdasparśādipadārthānanukarṣantyupabhuñjate | anyaśca sacetana ātmā nāstīti cārvākataivameteṣāṃ phaliteti bhāvaḥ | athavā yadi teṣu sacetanaḥ syādavaśyaṃ puruṣārthe yatetaiva yato na yatante tasmāddhaṭakuḍyādivada-cetanā eva te iti nindārthamapahnavaḥ || 35 || janmamṛtyujarāduḥkhamanuyānti punaḥpunaḥ | vimṛśanti na saṃsāraṃ paśavaḥ parimohitāḥ || 36 || ye na vimṛśanti te paśavaḥ || 36 || kathaṃcitkvacidevaiko dṛśyate vimalāśayaḥ | pūrvāparavicārārho yathāyamarimardanaḥ || 37 || ayaṃ rāmaḥ | arayaḥ kāmādayasteṣāṃ mardanaḥ || 37 || anuttamacamatkāraphalāḥ subhagamūrtayaḥ | bhavyā hi viralā loke sahakāradrumā iva || 38 ||
SK
अनुत्तमः सर्वोत्कृष्टश्चमत्कारो माधुर्यविशेषो येषां तथाविधानि तत्त्वसाक्षात्कारफलानि येषु | सहकारद्रुमा आम्रवृक्षाः || ३८ || सम्यग्दृष्टजगद्यात्रा स्वविवेकचमत्कृतिः | अस्मिन्मान्यमतावन्तरियमद्यैव दृश्यते || ३९ || स्वबुद्धिकृतेनैव विवेकेन तत्त्वदर्शनपर्यन्ता चमत्कृतिः | अद्यास्मिन्नेव वयसि | तच्चाश्चर्यमिति भावः || ३९ || सुभगाः सुलभारोहाः फलपल्लवशालिनः | जायन्ते तरवो देशे न तु चन्दनपादपाः || ४० || औभगाः सुन्दराः देशे सर्वत्रेति शेषः || ४० || वृक्षाः प्रतिवनं सन्ति नित्यं सफलपल्लवाः | नत्वपूर्वचमत्कारो लवङ्गः सुलभः सदा || ४१ || ज्योत्स्नेव शीता शशिनः सुतरोरिव मञ्जरी | पुष्पादामोदलेखेव दृष्टा रामाच्चमत्कृतिः || ४२ || आमोदलेखा परिमलपङ्क्तिः || ४२ || अस्मिन्नुद्दामदौरात्म्यदैवनिर्माणनिर्मिते | द्विजेन्द्रा दग्धसंसारे सारो ह्यत्यन्तदुर्लभः || ४३ || उद्दामं दौरात्म्यं यस्य तथाविधस्य दैवस्य प्राक्तनकर्मणस्तदनु- vivekenātmalābhaḥ || 43 || yatante sārasaṃprāptau ye yaśonidhayo dhiyaḥ | dhanyā dhuri satāṃ gaṇyāsta eva puruṣottamāḥ || 44 || dhyāyantīti dhiyaḥ sadā tattvacintanaparāḥ santo ye yatante te dhanyāḥ satāṃ dhuri gaṇyāḥ || 44 || na rāmeṇa samo'stīha dṛṣṭo lokeṣu kaścana | vivekavānudārātmā na bhāvī ceti no matiḥ || 45 || iha sāṃprataṃ nāsti prāṅna dṛṣṭo'gre ca na bhāvī || 45 || sakalalokacamatkṛtikāriṇo'pyabhimataṃ yadi rāghavacetasaḥ | phalati no tadime vayameva hi sphuṭataraṃ munayo hatabuddhayaḥ || 46 || rāmamanorathasaṃpatteravaśyakartavyatāṃ tatpraśaṃsanenottamādhikāra- समुचितप्रष्टव्य-रहस्योद्घाटनेन चानन्दस्तत्कारिणो राघवचेतसोऽप्यभिमतं तत्त्वजिज्ञा-सालक्षणो मनोरथो यदि नो फलति अस्मदाद्यभिज्ञोपदेशेनेति शेषः | नो इति नञ्पर्यायो निपातः | तत्तर्हि हतबुद्धयो दुर्बुद्धयः | अभिज्ञता निष्फलैव स्यादिति भावः | तस्मादवश्यमुपदेष्टव्यमिति सिद्धम् || ४६ ||
SK
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे नभश्चरमहीचरसंमेलनं नाम त्रयस्त्रिंशः सर्गः || ३३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे वैराग्यप्रकरणे नभश्चरमहीचरसंमेलनं नाम त्रयस्त्रिंशः सर्गः || ३३ || समाप्तमिदं वैराग्यप्रकरणम् |

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. yogavāsiṣṭha part 1 with commentary tātparyaprakāśa [M00335].

Source