Compendium of the Perfections

Pāramitāsamāsa · Pआरमितासमास

Compendium of the Perfections

Pāramitāsamāsa

Pआरमितासमास

SK
Pआरमितासमासः
SK
१. दानपारमितासमासः
SK
नमो बुद्धाय //
SK
तथागतानां पदम् आरुरुक्षुराश्रित्य रत्नत्रयम् आदरेण / बोधौ निधायाविचलं मनश्च कुर्यात् परात्मव्यतिहारम् आदौ // Pस्_१.१ //
SK
ततः परं दानविधौ प्रयोगः कार्यस्तथा लोकहितोन्मुखेन / यथा स्वगात्राण्यपि याचितस्य न योगसंकोचविरूपता स्यात् // Pस्_१.२ //
SK
मात्सर्यदोषोपचयाय यत् स्यान् न त्यागचित्तं परिबृंहयेद् वा / तत्त्यक्तुमेवार्हति बोधिसत्त्वः परिग्रहच्छद्ममयं विघातम् // Pस्_१.३ //
SK
तद् बोधिसत्त्वः कथम् आददीत रत्नं धनं वा दिवि वापि राज्यम् / यत् त्यागचित्तप्रतिपक्षदक्षं संबोधिमार्गावरणं करोति // Pस्_१.४ //
SK
संस्मृत्य चर्यातिशयं मुनीनां तदुन्मुखीं स्वामपि च प्रतिज्ञाम् / परिग्रहस्नेहविनिग्रहार्थं कुर्याद् इमांश्चेतसि सद्वितर्कान् // Pस्_१.५ //
SK
यदा निसृष्टो जगते मयायं कायो ऽपी तत्त्यागकृतो ऽपि धर्मः / बाह्ये तदा वस्तुनि सङ्गचित्तं न मे गजस्नानम् इवानुरूपम् // Pस्_१.६ //
SK
मांसार्थिनो मांसमिदं हरन्तु मज्जानमप्युद्धरणात् तदर्थी / अहं हि लोकार्थमिदं बिभर्मि शरीरकं किं बत वस्तु बाह्यम् // Pस्_१.७ //
SK
यथैव भैषज्यमहीरुहस्य त्वक्पत्त्रपुष्पादि जना हरन्ति / मदीयमेते ऽपहरन्ति चेति नैवं विकल्पाः समुदाचरन्ति // Pस्_१.८ //
SK
तथैव लोकार्थसमुद्यतेन स्वल्पो ऽपि कार्यो न मया विकल्पः / दुःखे कृतघ्ने सतताशुचौ च देहे परस्मायुपयुज्यमाने // Pस्_१.९ //
SK
आध्यात्मिके चैव महीजलाद्ये बाह्ये महाभूतगणे च तुल्ये / इदं ममेदं न ममेति को ऽयम् अज्ञानपङ्काङ्कविधिर्मयापि // Pस्_१.१० //
SK
गृह्णीत गात्राण्यपि मे यथेष्टं मा कार्षुरस्मिन् परकीयबुद्धिम् / युष्माकमेव स्वमिदं किमर्थं नात्माभिमानो मम कश्चिदत्र // Pस्_१.११ //
SK
इत्यद्भुता यस्य भवन्त्यभीक्ष्णं संबुद्धभावानुगुणा वितर्काः / तं बोधिसत्त्वातिशयं वदन्ति बुद्धा महासत्त्वमचिन्त्यसत्त्वाः // Pस्_१.१२ //
SK
एवं स दानप्रतिपत्तिशूरः करोति काये ऽपि न जात्वपेक्षाम् / तस्याप्रयत्नादुपयान्ति शुद्धिं कर्माणि वाक्कायमनोमयानि // Pस्_१.१३ //
SK
विशुद्धकर्मा च हितं परेषाम् आयासदुःखेन विना करोति / इत्थं स सत्त्वार्थमभिप्रयत्नो नयानये कौशलमभ्युपैति // Pस्_१.१४ //
SK
भूयस्तरं प्राप्य बलं स दानात् सद्धर्मदानेन ततः करोति / भवान्धकारे भ्रमतां जनानां सूर्योदयात् स्पष्टतरं प्रकाशम् // Pस्_१.१५ //
SK
साधारणी लोकहितार्थसिद्धिः सर्वज्ञभावाभ्युदयप्रतिष्ठा / अतो ऽस्य पुण्याक्षयताभ्युदेति प्रभेव भानोरुदयस्थितस्य // Pस्_१.१६ //
SK
इत्यद्भुता दानमया गुणौघा ये बोधिसत्त्वाभरणीभवन्ति / तस्मात् तदीयं परिकर्म चित्तं दानस्य कारुण्यपुरःसरस्य // Pस्_१.१७ //
SK
आयुःप्रतीभानबलादि बौद्धं निष्पादयेयं जगतामनेन / सत्त्वा मया चामिषसंगृहीताः सद्धर्मपात्राण्यपि मे भवेयुः // Pस्_१.१८ //
SK
इत्यन्नदानं प्रददाति विद्वान् न स्वर्गसंपत्तिपरिग्रहाय / पानान्यपि क्लेशतृषः शमाय लोकस्य लोकार्थचरो ददाति // Pस्_१.१९ //
SK
बौद्धस्य चैवर्द्धिविचेष्टितस्य निर्वाणसौख्यस्य च सर्वलोकः / लाभी कथं स्यादिति लोकनाथो यानं महायानरतिर्ददाति // Pस्_१.२० //
SK
संबुद्धवर्णस्य च हेमभासो लज्जामयस्यैव च भूषणस्य / निष्पत्तये वस्त्रविधीनुदारान् सत्कृत्य कालानुगुणं ददाति // Pस्_१.२१ //
SK
संबोधिमण्डासनम् आसनानि शय्याश्च शय्यात्रयम् ईक्षमाणः / सर्वज्ञचक्षुःप्रतिलब्धये च चैत्येषु रथ्यासु च दीपमालाम् // Pस्_१.२२ //
SK
वाद्यानि दिव्यश्रुतिसंग्रहार्थं संबुद्धशीलाय च गन्धदानम् / सभाप्रपारामविहारगेहाञ् शरण्यभावाभिमुखो ददाति // Pस्_१.२३ //
SK
दानं रसानां तु सुसंस्कृताणां रसारसाग्रत्वपरिग्रहाय / भैषज्यदानान्यजरामरत्वं लोकान् इमान् प्रापयितुं ददाति // Pस्_१.२४ //
SK
भुजिष्यतामात्मसमं निनीषुर्दाशीकृतान् क्लेशगणेन लोकान् / स दासदास्यादि सदा ददाति दासानुदासानपराकरिष्यन् // Pस्_१.२५ //
SK
ददाति पुत्रान् दुहितृः प्रियाश्च बोधिप्रियत्वादनवद्यदानम् / एकान्तसद्धर्मरतिप्रियश्च क्रीडाविशेषान् रतिहेतुभूतान् // Pस्_१.२६ //
SK
सुवर्णमुक्तामणिविद्रुमादीन् ददाति सल्लक्षणसंपदर्थम् / रत्नप्रदीप्तानि च भूषणानि चित्राण्यनुव्यञ्जनसौष्ठवाय // Pस्_१.२७ //
SK
ध्यानार्थमुद्यानतपोवनानि सद्धर्मकोषाय च वित्तकोषम् / मुनीन्द्रराज्याय ददात्यखिन्नो राज्यानि चाज्ञापनमण्डितानि // Pस्_१.२८ //
SK
चक्राङ्किताभ्यां चरणोत्तमाभ्याम् संबोधिमण्डाक्रमणोत्सुकत्वात् / स निर्विकारश्चरणप्रदानं लोकार्थनिष्पत्तिकरो ददाति // Pस्_१.२९ //
SK
दुःखापगायामतिशीघ्रगायां मग्नस्य लोकस्य कथं न दद्याम् / सद्धर्महस्तानिति संप्रदत्ते हस्तान्विकोषाम्बुरुहप्रकाशान् // Pस्_१.३० //
SK
श्रद्धेन्द्रियादिप्रतिपूरणार्थं स कर्णनासादि ददात्यखिन्नः / चक्षुश्च चक्षुर्विमलीकरिष्यंल्लोकस्य सर्वावरणप्रहाणात् // Pस्_१.३१ //
SK
उत्कृत्य मांसानि सशोणितानि ददाति कारुण्यवशेन नाथः / भूम्यग्निवाय्वम्बुवदेव मे स्याल्लोकोपजीव्यः कथम् एष कायः // Pस्_१.३२ //
SK
लोकोत्तमज्ञानसमापनार्थं स उत्तमाङ्गैरपि सत्करोति / अभ्यागतस्यार्थिजनस्य याच्ञां प्रागेव देहावयवैस्तदन्यैः // Pस्_१.३३ //
SK
मज्जानमप्यद्भुतवीरचेष्टो ददाति लोकस्य कथं न कुर्याम् / तथागतं विग्रहमप्रधृष्यं वृष्ट्यापि वज्रोज्ज्वलया पतन्त्या // Pस्_१.३४ //
SK
इत्येवमाद्यं सततानवद्यं तद्बोधिसत्त्वाम्बुधरप्रमुक्तम् / प्रह्लाद्य दानाम्बु जगत्समग्रं सर्वज्ञतासागरमभ्युपैति // Pस्_१.३५ //
SK
अन्विष्य भोगान्विषमेण नासौ ददाति नोत्पीडनया परस्य / न त्रासलज्जाप्रतिकारहेतोर्न दक्षिनीयान् परिमार्गमाणः // Pस्_१.३६ //
SK
न च प्रणीते सति रूक्षदानम् अदक्षिणीया इति वावमन्य / विपाककाङ्क्षाकृपणीकृतं वा सत्कारहीनं विजुगुप्सितं वा // Pस्_१.३७ //
SK
नैवोन्नतिं शीलवते प्रयच्छन् विपर्ययं गच्छति नेतरस्मै / नात्मानमुत्कर्षति नैव निन्दां करोति सो ऽन्यस्य समप्रयोगः // Pस्_१.३८ //
SK
न चास्य मिथ्याशयदानमस्ति नैवास्त्यनध्याशयदानमस्य / न क्रोधदोषोपहतं ददाति नैवानुतापं कुरुते स दत्त्वा // Pस्_१.३९ //
SK
न श्लाघ्यमानो विपुलं ददाति नाश्लाघ्यमानो ऽन्यतरं ददाति / न याचकानामुपघातदानं यद् वा भवेद् विप्रतिपत्तिहेतुः // Pस्_१.४० //
SK
नाकालदानं स ददाति किंचिद् ददाति काले विषमे ऽपि नैव / न देवभावाय न राज्यहेतोर्न हीनयानस्पृहयालुभावात् // Pस्_१.४१ //
SK
नासौ मुखोल्लोकनया ददाति न कीर्तिशब्दाय न हास्यहेतोः / पर्याप्तमेतच्च ममेति नैवं यद्वा विहिंसाहसितं परेषाम् // Pस्_१.४२ //
SK
सर्वज्ञभावापरिणामितं वा सगर्हितं वा स ददाति नैव / ततो ऽस्य तत् पारमिताभिधानं परां विशुद्धिं समुपैति दानम् // Pस्_१.४३ //
SK
दानोद्भवं तस्य च पुण्यराशिं लोकात् समग्रादपि पिण्डितानि / पुण्यानि नैवाभिभवन्ति यस्माल्लोकोत्तमत्त्वं स ततो ऽभ्युपैति // Pस्_१.४४ //
SK
पञ्चस्वभिज्ञासु विनिश्चितात्मा लोकाय यद्वर्षति दानवर्षम् / समन्ततस्तस्य कुतः प्रमाणं परिक्षयो वा सततप्रवृत्तेः // Pस्_१.४५ //
SK
यदक्षयाणां जगतां हिताय ज्ञानस्य हेतुश्च यदक्षयस्य / त्रैधातुकेन क्षयिणा न तच्च संलिप्यते व्योमवदम्बुदेन // Pस्_१.४६ //
SK
तच्छून्यताकारसमाहितं च निमित्तदोषैः परिवर्जितं च / अकिंचनक्लेशवियोगसिद्धेस्तेनाक्षयं तत्कथितं मुनीन्द्रैः // Pस्_१.४७ //
SK
अस्मिन् पुनः सत्पुरुषावदाने दाने निदाने सुखविस्ताराणाम् / चिकीर्षता योगमनित्यसंज्ञा भोगेषु कार्या करुणा च लोके // Pस्_१.४८ //
SK
भोगाननित्यानभिवीक्षमानः सात्म्यं गतायां च ततः कृपायाम् / स निश्चयं गच्छति दीयते यद् एतान् मदीयां न तु यद्गृहे मे // Pस्_१.४९ //
SK
यद्दत्तम् अस्मान् न भयं कदा चिद् गेहे यदस्माद्भयमभ्युपैति / साधारणं रक्ष्यमतर्पकं च दत्ते तु नैते प्रभवन्त्यनर्थाः // Pस्_१.५० //
SK
सुखं परत्रापि करोति दत्तम् इहैव दुःखं प्रकरोत्यदत्तम् / उल्कास्वभावं हि धनं नराणाम् अत्यज्यमानं व्यसनं ददाति // Pस्_१.५१ //
SK
अदीयमानं निधनं प्रयाति निधानतां याति हि दीयमानम् / धनस्य निःसारलघोः स सारो यद्दीयते लोकहितोन्मुखेन // Pस्_१.५२ //
SK
यद्दत्तमेतद्विदुषां प्रशस्यं बालो जनस्तन्निचयप्रशंसी / प्रायो वियोगो हि परिग्रहेभ्यो दानाद्भवत्यभ्युदयो यशश्च // Pस्_१.५३ //
SK
दत्तं न तत्क्लेशपरिग्रहाय क्लेशाय मात्सर्यमनार्यधर्मः / यद्दीयते सत्पथ एष तस्माद् अतो ऽन्यथा कापथमाहुरार्याः // Pस्_१.५४ //
SK
अभ्यागते याचनके च तेन संबोधिसंभारविवृद्धिहेतौ / तत्प्रेष्यसंज्ञात्मनि संनिवेश्या कल्याणमित्रप्रियता च तस्मिन् // Pस्_१.५५ //
SK
महात्मनां यत्प्रतनूभवन्ति रागादयो याचनकान्निशम्य / तेनोत्सवाभ्यागममप्यतीत्य तेषां प्रियं याचनकोपयानम् // Pस्_१.५६ //
SK
स चेत्पुनर्याचनके ऽपि लब्धे दातुं न शक्नोत्यतिदुर्बलत्वात् / तेनानुनेयो मधुरेण साम्ना स याचकः स्यान्न यथा समन्युः // Pस्_१.५७ //
SK
कार्यश्च मात्सर्यविनिग्रहाय मोहप्रहाणाय च तेन यत्नः / तथा यथा याचनकः कदा चिद् वैमुख्यदीनो न ततो व्यापैति // Pस्_१.५८ //
SK
संबोधिचित्तं कुत एव तस्य द्रव्ये ऽपि यो मत्सरमभ्युपैति / वासः सुचित्तस्य हि नास्ति दोषैरम्भोनिधानस्य शवैर्यथैव // Pस्_१.५९ //
SK
तस्मात् त्यक्त्वा सर्वतः सर्वदोषान् बोधिप्रार्थी सर्वदा सर्वदः स्यात् / त्रातुं लोकानेकवीरः क्व चित्तं चेष्टा दैन्यानूर्जितेयं क्व चैव // Pस्_१.६० //
SK
मूलं दानस्यास्य संबोधिचित्तं तन्न त्याज्यं दित्सता दानमीदृक् / तं संबुद्धास्त्यागिनामग्रमाहुर्यो लोकेषु त्यागमाधित्सुरग्रम् // Pस्_१.६१ //
SK
// दानपारमितासमासः //
SK
२. शीलपारमितासमासः
SK
संबुद्धशीलाभरणाभिरामान् कर्तुं जनानुत्पतितादरेण / स्वमेव शीलं परिशोध्यमादौ शीलं हि शक्तेर्बलमादधाति // Pस्_२.१ //
SK
लोके तथा प्रेम निवेशयेत स्वप्ने ऽपि न द्रोहरुचिर्यथा स्यात् / परोपकारैकरसः परेषां भोगानहीनामिव न स्पृशेच्च // Pस्_२.२ //
SK
द्वन्द्वप्रवृत्तेर्विनिवृत्तबुद्धिः प्रागेव दारप्रणयात् परस्य / कुर्वीत लोकस्य हितार्थकर्ता कायेन चेष्टाः सुजनस्य चेष्टाः // Pस्_२.३ //
SK
माधुर्यरम्यामपि कालयुक्तां सत्यानुकूलामविभेदिनीं च / सद्धर्मतत्त्वाधिगमाय वाणीं ब्रूयाद्विपक्षादुपरम्य तस्याः // Pस्_२.४ //
SK
कार्यं प्रयत्नेन मया यदस्मै तत्साधनेन स्वयमेव लब्धम् / परस्य सौख्येष्विति तुष्टचित्तः कुर्यान् मनोनिर्विषयामभिध्याम् // Pस्_२.५ //
SK
ममैव दौरबल्यमिदं यदेष क्लेशास्वतन्त्रः स्वहितं न वेत्ति / परापराधेष्वपि कार्य एवं व्यापादवह्निप्रशमाय यत्नः // Pस्_२.६ //
SK
कुदृष्टिसंज्ञं च तमःप्रतानं ज्ञानप्रकाशैर्मनसो निरस्य / कुर्यादहार्यां नरदेववर्ये भक्तिं गुणाभ्यासविरूढमूलाम् // Pस्_२.७ //
SK
स्वर्गस्य मोक्षस्य च सत्पथेभ्यो नैवोच्चलेत् कर्मपथेभ्य एभ्यः / अत्र स्थितानां हि जगद्धितार्थाश्चिन्ताविशेषाः सफलीभवन्ति // Pस्_२.८ //
SK
समासतः शीलमिदं वदन्ति यः संवरः कायवचोमनस्तः / कार्त्स्न्येन चात्रैव यतः स तस्माद् एतान्ययत्नेन विशोधयेच्च // Pस्_२.९ //
SK
हिंसानिवृत्तप्रणयो ददाति सौम्यस्वभावादभ्यं जनानाम् / या वासना दोषकृतास्य चित्ते तां चाप्रयत्नेन समुच्छिनत्ति // Pस्_२.१० //
SK
मैत्रीविशेषानुगते च चित्ते वैरानुबन्धेषु शमम् गतेषु / सुखप्रबोधः सुखमेव शेते क्षीणाशुभस्वप्नविकारदोषः // Pस्_२.११ //
SK
कुर्वन्ति रक्षांस्यपि चास्य रक्षां न दुर्गतिभ्यो भयमभ्युपैति / प्राप्नोति चारोग्यगुणाभिराममायुः प्रकृष्टं सुगतिप्रतिष्ठम् // Pस्_२.१२ //
SK
अतश्च संबोधिमुपागतानां तथागतानाममितप्रयामम् / निर्वर्तते चित्तवशानुवर्ति लोकस्य सौख्योपचयाय वायुः // Pस्_२.१३ //
SK
अनाददानस्तु परस्य भोगान् आप्नोति भोगान्महतः परत्र / नरेन्द्रदायादगणैरहार्यान् गिरीनिव श्वासनवैरहार्यान् // Pस्_२.१४ //
SK
आचारशुद्ध्यानुगतप्रियत्वं विश्वासपात्रत्वमिहैव याति / अतः परोपक्रमनिर्विशङ्को गतिप्रतीघातमुपैति नैव // Pस्_२.१५ //
SK
असारबुद्धिर्धनविस्तरेषु भवत्ययत्नेन विशुद्धशीलः / तस्मादुपक्लेशविशुद्धबुद्धिरनुत्तरां च स्वयमेति बोधिम् // Pस्_२.१६ //
SK
कामेषु मिथ्याचरणान्निवृत्तो जितेन्द्रियत्वात् प्रशमाभिरामः / प्राप्नोति लोकस्तुतिभिः समन्तात् कीर्तिं दिगन्तेषु विकीर्यमाणम् // Pस्_२.१७ //
SK
न चापि कं चित्प्रमदासु रागं करोति मातृरिव वीक्षमाणः / अस्माच्च पुण्योपचयान् मुनीन्द्रः संजायते वारणवस्तिकोषः // Pस्_२.१८ //
SK
वाचो ऽनृतायास्तु निवर्तमानः प्रामोद्यवाञ्छाठ्यविमुक्तचित्तः / आदेयसिद्ध्या वचनस्य सत्त्वान् करोति धर्माभिमुखान् अयत्नात् // Pस्_२.१९ //
SK
दिवौकसां च प्रियतां यदेति सत्यप्रियश्चित्रमिदं न तादृक् / देवस्वभावो गुणपक्षपाती प्रत्यक्षिणस्तच्चरितेषु ते च // Pस्_२.२० //
SK
प्रमाणभूतो भवति प्रियश्च यल्लौकिकानामिदमत्र चित्रम् / प्रायेण लोको हि गुणैर्दरिद्रः स्वेनानुमानेन परान्मिनोति // Pस्_२.२१ //
SK
त्यक्त्वेव नीलोत्पलिनीवनानि विशेषदर्शी कमलायमाने / तस्यानने संश्रयमभ्युपैति प्रह्लादनो गन्धविधिर्मनोज्ञः // Pस्_२.२२ //
SK
भ्राजिष्णुना दुर्गतितारकेण ज्ञानेन पश्यंश्च समासमानि / स आत्मसाक्षी समुपैति लज्जां यादृच्छिकैरप्यशुभैर्वितर्कैः // Pस्_२.२३ //
SK
एवं स शुद्धप्रकृतिः क्रमेण न शङ्क्यते ऽन्यैर्न च शङ्कते ऽन्यान् / ततो ऽस्य सत्याभ्यनुवर्तनी वागरक्षतां याति तथागतत्वे // Pस्_२.२४ //
SK
कायः परोपक्रमणैरभेद्याः परैरहार्या परिवारसंपत् / पैशून्यमुक्तस्य भवत्यभेद्या श्रद्धा च धर्मे प्रतिपत्तिसारा // Pस्_२.२५ //
SK
मैत्रीमभेद्यामविसंवदन्तीं कृपां च लोकार्थमसंत्यजन्तीम् / प्राप्नोति चाभेद्यतमान् मुनित्वे जन्मान्तरस्थानपि शिष्यसंघान् // Pस्_२.२६ //
SK
क्रोधस्य सैन्याग्ररजःप्रतानं संकल्पचण्डानिलविप्रकीर्णम् / यशोवपुर्ध्वंसनमित्यपास्यं मैत्र्यम्बुवाहैः परुषाभिधानम् // Pस्_२.२७ //
SK
अस्मान्निवृत्तो मधुरैर्वचोभिर्लोकस्य चेतांसि वशीकरोति / लोकस्य च प्रेम्णि विरूढमूले सैवास्य वाग्ग्राह्यतरत्वमेति // Pस्_२.२८ //
SK
अतश्च लोकाञ्छतशो विनीय तेषां समावृत्य च दुःखमार्गम् / न दुर्गतिं गच्छति पुण्यकर्मा धर्मो हि रक्षेह परत्र चैव // Pस्_२.२९ //
SK
दूरादपि व्यक्तपदानुनादः श्रीमान् अदूरे ऽपि सुखस्वभावः / मेघस्वनोदग्रतरस्ततो ऽस्य ब्रह्मस्वरो वक्त्रम् अलंकरोति // Pस्_२.३० //
SK
अबद्धवाक्याद्विरतः प्रियत्वम् एकान्ततो याति विचक्षणानाम् / सत्याभिधाने क्रमते सबुद्धिः प्राप्नोति माहात्म्यम् अकृत्रिमं च // Pस्_२.३१ //
SK
अस्माच्च पुण्यान् मुनिराजभावे गाम्भीर्यगूढान् परिपृच्छमानः / प्रश्नाननेकानपि चैककाले निःसंशयं व्याकुरुते स वाचा // Pस्_२.३२ //
SK
प्रेत्येह चानर्थफलैरवन्ध्यां वन्ध्यामभिध्यां समपास्य बुद्ध्या / अनीर्ष्यभावादतिकाङ्क्षितां स प्राप्नोति विस्तीर्णतरां समृद्धिम् // Pस्_२.३३ //
SK
चित्ते विशुद्धे च तदाश्रयाणि वाक्कायकर्माणि शुचीभवन्ति / नभस्तले कालगुणाभिरामे तारागणानामिव मण्डलानि // Pस्_२.३४ //
SK
पुण्याधिपत्यात्क्रमते च बुद्धिस्तस्योपभोगेषु सदोत्तमेषु / प्रयाति राज्ञामपि संमतत्वम् अधृष्यतां च प्रतिगर्वितानाम् // Pस्_२.३५ //
SK
वैकल्यमायान्ति न चेन्द्रियाणि सत्कर्मनिर्वृत्तबलानि तस्य / अतश्च लोकत्रयपूज्य एकः शास्ता भवत्यप्रतिवर्त्यचक्रः // Pस्_२.३६ //
SK
व्यापाददाहज्वरविप्रमुक्तः साधुस्वभावाभिनयो नयेन / व्यक्तीकरोतीव मनःप्रसादं स्वस्थप्रशान्तेन विचेष्टितेन // Pस्_२.३७ //
SK
हिंसात्मके विग्रहसंहिते वा कर्मण्यनार्याचरिते शठे वा / न चास्य बुद्धिः क्रमते कदाचिन् मैत्रीसुखास्वादविशेषलाभात् // Pस्_२.३८ //
SK
लोके व्रजत्यार्यजनेन साम्यं संमान्यते दैवतवज्जनेन / न ब्रह्मलोको ऽपि च दुर्लभो ऽस्य प्रस्निग्धकर्मण्यमनःपथस्य // Pस्_२.३९ //
SK
हिताभिनन्दी जगतामयत्नात् प्रसादयत्येव च मानसानि / रम्यः शरत्काल इवापगानां तोयानि मेघागमदूषितानि // Pस्_२.४० //
SK
रूपेण सर्वप्रियदर्शनेन ज्ञानास्पदेनाद्भुतचेष्टितेन / एकीकरोतीव ततो मुनित्वे लोकस्य विज्ञानपृथक्त्वसिद्धिम् // Pस्_२.४१ //
SK
कुदृष्टिपङ्कक्रमणं लसंस्तु प्राप्नोति कल्याणहृदः सहायान् / कर्मस्वको ऽस्तीति च कर्म पापं विशस्यमानो ऽपि करोति नैव // Pस्_२.४२ //
SK
भवत्यकम्प्या च जिणे ऽस्य भक्तिर्नायस्यते कौतुकमङ्गलैश्च / आर्ये च मार्गे लभते प्रतिष्ठां विशेषगामित्वमतो ऽभ्युपैति // Pस्_२.४३ //
SK
सत्कायदृष्ट्युच्चलितः स याति न दुर्गतिं हेतुपरिक्षयेण / ज्ञानेन चानावरणेन युक्तो दिवःपृथिव्योर्विचरत्यसङ्गः // Pस्_२.४४ //
SK
प्रत्येकबुद्धैरपि चानवाप्ताः सर्वे ततो ऽस्याभिमुखीभवन्ति / जगद्धितार्थेषु विजृम्भमाणाः सर्वज्ञभावाय मुनीन्द्रधर्माः // Pस्_२.४५ //
SK
इमां विभूतिं गुणरत्नचित्रां श्लाघ्यां स्वयंग्राहगुणाभिरामाम् / को नाम विद्वान् न समाददीत विशेषतः सत्त्वहिताभिलाषी // Pस्_२.४६ //
SK
दिव्याभिरामा मनुजेषु संपत् प्रकृष्टसौख्यैकरसा च दिव्या / शीलाद्यदि स्यात् किमिवात्र चित्रं यस्मात् प्ररोहन्त्यपि बुद्धधर्माः // Pस्_२.४७ //
SK
शीलच्युतस्त्वात्महिते ऽप्यशक्तः कस्मिन् परस्यार्थविधौ समर्थः / तस्माद् विशेषेण परार्थसाधोर्न न्याय्यमस्मिञ्छीथिलादरत्वम् // Pस्_२.४८ //
SK
विवर्जयेदण्वपि वर्जनीयं तस्माद्भयं तीव्रमवेक्षमाणः / न बोधिसत्त्वाभ्युचितं च शीलं विखण्डयेदात्मसुखोदयेन // Pस्_२.४९ //
SK
न च्छिद्रदोषैः परिजर्जरं वा स्त्रीकेलिसंवाहनवीक्षणाद्यैः / न दुर्जनक्लेशपरिग्रहाद् वा कुर्वीत शीलं शबलप्रकारम् // Pस्_२.५० //
SK
कल्माषदोषापगतं निषेव्यम् एकान्तशुक्लोपचयेन शीलम् / स्वेच्छागतित्वाच्च भुजिष्यवृत्तं विद्वत्प्रशंसाभरणानवद्यम् // Pस्_२.५१ //
SK
समग्रशिक्षापदपूरणाच्च संपूर्णमामर्षविवर्जितं च / चेतोविशुद्धिप्रतिबिम्बभूतैस्तीव्रैः परार्थैकरसैः प्रयोगैः // Pस्_२.५२ //
SK
स्मृत्याश्रयाच्चेन्द्रियसंवरेण शीलस्य संरक्षणतत्परः स्यात् / लोकस्य दौःशील्यमभिप्रवृद्धं तमः सहस्रांशुरिवापनेष्यन् // Pस्_२.५३ //
SK
दुःखप्रतीकारनिमित्तसेव्यैः कायव्रणालेपनवेष्टनाद्यैः / न्यायोपलब्धैः परितुष्टचित्तो ऽपराननोल्लोकनकातरः स्यात् // Pस्_२.५४ //
SK
श्लाघ्येषु सर्वेष्वपि वर्तमानः शीलानुकूलेषु गुणोदयेषु / अविस्मितत्वादपराधमानी कीर्तेर्बिभीयाच्च तदुद्भवायाः // Pस्_२.५५ //
SK
लाभप्रकारो हि गुणप्रकाशाच्छत्रुत्वमभ्येति सुहृन्मुखेन / सरोरुहाणामिव शीतरश्मिः श्रेयः प्रमाथी शिथिलव्रतानाम् // Pस्_२.५६ //
SK
शीलं गुणाभ्यासविधिं वदन्ति संबोधिचित्ते च गुणाः समग्राः / अभ्यस्यते तच्च कृपागुणेन कारुण्यशीलः सततं ततः स्यात् // Pस्_२.५७ //
SK
यन्निश्रितं कामभवे ऽपि नैव संतिष्ठते नैव च रूपधातौ / आरूप्यधातौ यदसंस्थितं च तत्तत्त्वतः शीलमुदाहरन्ति // Pस्_२.५८ //
SK
यो लोकधातुष्वमितेषु सत्त्वाञ्छीले प्रतिष्ठापयिषुः समग्रान् / निषेवते लोकहिताय शीलं तदुच्यते पारमितेति तज्ज्ञैः // Pस्_२.५९ //
SK
शीलं विशेषाधिगमस्य मार्गो दायाद्यभूतं करुणात्मकानाम् / ज्ञानप्रकर्षस्य शुचिस्वभावो नष्टोद्धवा मण्डनजातिरग्रा // Pस्_२.६० //
SK
लोकत्रयव्यापि मनोज्ञागन्धं विलेपनं प्रव्रजिताविरोधि / तुल्याकृतिभ्यो ऽपि पृथग्जनेभ्यः शीलं विशेषं कुरुते नराणाम् // Pस्_२.६१ //
SK
अकत्थनानामपि धीरभावाद् विनापि वाग्भेदपरिश्रमेण / अत्रासनाभ्यानतसर्वलोकं त्यक्तावलेपोद्धवमीश्वरत्वम् // Pस्_२.६२ //
SK
अप्यप्रकाशान्वयसंस्तवानाम् अकुर्वतामप्युपकारसारम् / निष्केवले शीलविधौ स्थितानाम् असंस्तुतानामपि यन्नराणाम् // Pस्_२.६३ //
SK
रजांसि पादाश्रयपावितानि प्रणामलब्धानि समुद्वहन्ति / चूडाग्रलग्नानि मनुष्यदेवाः श्रीमत्तरं शीलमतः कुलेभ्यः // Pस्_२.६४ //
SK
तस्मान् न दुर्गतिभयेन न राज्यहेतोर्न स्वर्गसंपदभिलाषसमुद्भवेन / सेवेत शीलममलं न हि तत्तथा स्याल्लोकार्थसिद्धिपरमस्तु भजेत शीलम् // Pस्_२.६५ //
SK
// शीलपारमितासमासः //
SK
३. क्षान्तिपारमितासमासः
SK
संमोहनीं मन्मथपक्षमायां प्राहुः सुखां चैव विमोक्षमायाम् / तस्यां न कुर्यात् कैव क्षमायां प्रयत्नमेकान्तहितक्षमायाम् // Pस्_३.१ //
SK
परापराधेषु सदानभिज्ञा व्यवस्थितिः सत्त्ववतां मनोज्ञा / गुणाभिनिर्वर्तितचारुसंज्ञा क्षमेति लोकार्थचरी कृपाज्ञा // Pस्_३.२ //
SK
परार्थमभ्युद्यतमानसानां दीक्षां तितिक्षां प्रथमां वदन्ति / सेतुर्जलानीव हि रोषदोषः श्रेयांसि लोकस्य समावृणोति // Pस्_३.३ //
SK
अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलसंपदग्रा / व्यापाददावानलवारिधारा प्रेत्येह च क्षान्तिरनर्थशान्तिः // Pस्_३.४ //
SK
क्षमामये वर्मणि सज्जनानां विकुण्ठिता दुर्जनवाक्यबाणाः / प्रायः प्रशंसाकुसुमत्वमेत्य तत्कीर्तिमालावयवा भवन्ति // Pस्_३.५ //
SK
प्रतिक्रिया दुर्जनवाग्विषाणां प्रह्लादनी ज्ञाननिशाकराभा / धीरप्रकारा प्रकृतिर्यतीनां क्षान्तिर्गुणानाम् अधिवासभूमिः // Pस्_३.६ //
SK
सत्त्वस्य गाम्भीर्यमयस्य सारो घनागमः क्रोधनिदाघशान्त्यै / व्यतीतवेलस्य गुणार्णवस्य व्यापी स्वनः क्षान्तिमयो ऽभ्युदेति // Pस्_३.७ //
SK
आ ब्रह्मलोकादधिरोहाणार्था सोपानपङ्क्तिर्गतखेददोषा / कर्मान्तशाला गुणशीभरस्य रूपस्य सल्लक्षणभूषणस्य // Pस्_३.८ //
SK
उन्मूलनी वैरफलाचितानां क्षमासरिद्दोषमहाद्रुमाणाम् / संबोधिचित्तस्य विवर्धितस्य गुणाम्बुरशेः सततानुकूला // Pस्_३.९ //
SK
शुभा परत्रापि हिते समृद्धिर्जगद्धितार्थस्य परा विवृद्धिः / शुभस्वभावातिशयप्रसिद्धिः क्षान्तिर्मनःकायवचोविशुद्धिः // Pस्_३.१० //
SK
संसारदोषैर्न च च्छेदमेति सत्त्वान् कृपास्निग्धमवेक्षमाणः / सत्कर्मभिर्लोकहितैः समन्ताद् यशोमयत्वं व्रजतीव लोके // Pस्_३.११ //
SK
न स्पृश्यते विस्मयवाच्यदोषैर्ज्ञानावदानेन तितिक्षुरेव / अनित्यताक्षान्तिबलोदयाच्च प्रहर्षमायाति सुखे ऽपि नैव // Pस्_३.१२ //
SK
संकोचमायाति न चायशोभिर्विसारिणा क्षान्तिबलश्रयेण / अतश्च शेषैरपि लोकधर्मैरनिश्रितत्वान्न स चापलीति // Pस्_३.१३ //
SK
तीव्रप्रकारैरपि विप्रकारैर्न विक्रियां यान्ति सतां मनांसि / दृढाभिलाषाणि मुनीन्द्रभावे क्षान्त्या बलाधानसुसंस्कृतानि // Pस्_३.१४ //
SK
स क्षान्तिधीरेण च मानसेन कष्टानि संदर्शयते तपांसि / दर्पोन्नतिं तीर्थकृतां मनःसु नीचैः करिष्यन् हितकाम्ययैव // Pस्_३.१५ //
SK
लोको ऽयमात्माभिनिवेशसमूढः शेषान् परानित्यभिमन्यमानः / तद्विप्रकारैरभिभूतचेता<;ः>; क्षमावियोगात् परिखेदमेति // Pस्_३.१६ //
SK
कृपासनाथानि सतां मनांसि क्षान्त्या कृतस्वस्त्ययनक्रियाणि / नष्टात्मदृष्टिणि परापकारान् न विक्रियां यान्ति गुणानुरागात् // Pस्_३.१७ //
SK
मिथ्याविकल्पो हृदयज्वरस्य क्रोधस्य हेतुर्धृतिदुर्बलानाम् / सम्यग्विकल्पस्तु समादधाति क्षान्तिप्रकारां मनसः प्रशान्तिम् // Pस्_३.१८ //
SK
विकल्पसन्निश्रयसंश्रितायां क्षान्त्यां न तु स्याच्चलितावकाशः / प्रत्यूषवातस्फुरिते ऽम्भसीव संपूर्णचन्द्रप्रतिबिम्बलक्षयाः // Pस्_३.१९ //
SK
विकल्पशान्तिं परमार्थतस्तु क्षान्तिं क्षमातत्त्वविदो वदन्ति / तस्माद्विकल्पोपशमे यतेत स्वप्नोपमं लोकमवेक्षमाणः // Pस्_३.२० //
SK
चक्षुः किम् आक्रोशति चक्षुरेतच्छ्रोत्रादि वाक्रोशति किं तदादि / यैवं क्षमा सायतनान्ववेक्षा न क्षान्तिरेषा परमार्थतस्तु // Pस्_३.२१ //
SK
वक्ता वचश्चैतदनित्यमेव श्रुतिर्विकल्पो ऽपि च यो ममायम् / अनित्यभावप्रविकल्पनैषा न क्षान्तिमेताम् परमां वदन्ति // Pस्_३.२२ //
SK
कर्तापकारस्य न कश्चिदस्ति नैवास्ति कश्चित्क्रियाते च यस्य / नैरात्मसंदर्शनसिद्धिरेषा न क्षान्तिरेषापि गतप्रकर्षा // Pस्_३.२३ //
SK
तत्तत्प्रतीत्य प्रभवन्ति भावा निन्दाप्रशंसासुखदुःखसंज्ञाः / प्रतीत्यसिद्धेरवतारभूमिर्न क्षान्तिरत्यन्तसमाहितैषा // Pस्_३.२४ //
SK
यद्येसा संमोहमहाग्रहेण पर्यस्तचेता ननु नाहमेवम् / इत्युन्नते चावनते च चित्ते क्षान्तिप्रकर्षस्य कुतो ऽवकाशः // Pस्_३.२५ //
SK
प्रध्वंसिनी वर्णलवप्रतिश्रुद्यन्त्रादिवैकैकश उच्चरन्ती / कुर्यां कथं कस्य च कां च पीडाम् एषापि न क्षान्तिरतिप्रकृष्टा // Pस्_३.२६ //
SK
यद्येसा मत्पापपरिक्षयार्थं न वीक्षते स्वामपि धर्मपीडाम् / अस्मान् न कल्याणतरं हि मित्रम् असावपि क्षान्त्युपचारा एव // Pस्_३.२७ //
SK
कर्मस्वतां एव हि वीक्षमाणस्तितिक्षते तद्गुणदर्शनाच्च / नैवंप्रकारापि हि नैष्ठिकत्वं क्षान्तिर्विकल्पोपहता प्रयाति // Pस्_३.२८ //
SK
अनित्यदुःखाशुचिनिःस्वभावता मम क्षमन्ते न तु तद्विपर्ययाः / इयं विपक्षप्रशमक्षमा क्षमा द्वयप्रवृत्तेर्न तु पारमार्थिकी // Pस्_३.२९ //
SK
अयत्नतत्त्वार्थविचक्षणो जनः परोपकारेषु यतः प्रवर्तते / क्षमा न चैवं समतां समेति या यतः क्षमैवं न विकल्पनक्षया // Pस्_३.३० //
SK
निरोधम् आयान्ति यदा त्वशेषताः समाधिकन्यूनविकल्पनक्रमाः / अनुत्तरां क्षान्तिममानगोचरां वदन्ति तामद्वायमार्गचारिणाः // Pस्_३.३१ //
SK
स्वतः परस्मादुभयादहेतुतो यथा न भावाः प्रभवन्ति के चन / स्वतः परस्माद् उभयाद् अहेतुतस्तथा न भावा विभवन्ति के चन // Pस्_३.३२ //
SK
नष्टाद् अनष्टाद् उभयाच् न नोभयान् न जातु कार्यं खलु विद्यते क्व चित् / तथापि कार्यं समुदेति वस्तुनो येत्थं क्षमा सा द्वयवर्जिता क्षमा // Pस्_३.३३ //
SK
सतो ऽसतो वास्ति न जन्म जन्मना विना निरोधो ऽपि न कस्य चित् क्व चित् / स्वभावशून्यामिति भावकल्पनां विपश्यतः क्षान्तिरुदेति नैष्ठिकी // Pस्_३.३४ //
SK
अवाप्य यां व्याक्रियते सहस्रशो जिनैरसौ नाम जिनो भविष्यति / प्रवर्तते लोकहितक्रियाविधिः समाहितस्यैव च तस्य सर्वदा // Pस्_३.३५ //
SK
यावच्च भावाभिनिविष्टबुद्धिरत्र द्वयं तावदुपैति मोहात् / तथानिमित्तं च विमोक्षहेतुर्दुरे भवत्यस्य यथा क्षितेः खम् // Pस्_३.३६ //
SK
उपैति धर्मप्रणिधानकर्मसु प्रभुत्वमृद्धावधिमुक्तिजन्मसु / तथा परिष्कारविधौ स्वचेतसि प्रकर्षिणि ज्ञानबले तथायुषि // Pस्_३.३७ //
SK
अवाप्य चैतद्वशितामयं धनं प्रकृष्टं अक्षिष्णु परार्थसाधनम् / जनस्य कृच्छ्रेषु पतिष्यतः सतः स जायते धारणकारणं विभुः // Pस्_३.३८ //
SK
तस्मात् परार्थमहतीं धुरमुद्वहद्भिः क्षान्तेरुपायविधिरेष सदानुगम्यः / अत्र स्थितस्य हि भवन्ति परार्थचित्ताः सर्वा<;ः>; क्रिया गुणफलाभरणाभिरामाः // Pस्_३.३९ //
SK
अस्यां हि भक्तिरपि या प्रविरूढमूला तामभ्यसन्ति मुनयो मुनिराजभावे / श्रद्धानुविद्धमनसां न हि धर्ममार्गे दृष्टो मनोरथरथस्य यतो ऽक्षभङ्गः // Pस्_३.४० //
SK
// क्षान्तिपारमितासमासः //
SK
४. वीर्यपारमितासमासः
SK
सर्वंसहे क्षान्तिबले च रूढे सर्वाद्भुतान्यारभते स शौर्यात् / वीर्येण कार्यान्तमहाबलेन यस्मात् स देवानपि यात्यतीत्य // Pस्_४.१ //
SK
सुदृश्यपाराण्यपि लौकिकानि कार्याणि निर्वीर्यदुरुत्तराणि / अप्राप्यरूपं तु न किं चिद् अस्ति खेदानभिज्ञेन पराक्रमेण // Pस्_४.२ //
SK
आरब्धम् एवोत्सहते न हीन आरभ्य मध्यस्तु विषादमेति / परार्थम् अश्रान्तपराक्रमास्ते निर्वाणमुत्सृज्य समारभन्ते // Pस्_४.३ //
SK
प्रायेण दैन्योपहतो जनो ऽयं स्वाधीनवीर्यो ऽपि गुरुस्वकार्यः / अहीनवीर्यस्य तु मेरुसारो ऽप्यखेदसाध्यः परकार्यभारः // Pस्_४.४ //
SK
संसारकोट्योरुभयोः समानैः प्रयामसारैर्दिवसैर्यदि स्युः / संवत्सरास्तत्प्रचयातिदीर्घैः कल्पैः समुद्रोदकबिन्दुतुल्यैः // Pस्_४.५ //
SK
उत्पादयेयं यदि बोधिचित्तम् एकैकमेतेन पराक्रमेण / संभारशेषं चिनुयां तथापि भूयःसमुत्सारितखेददैन्यः // Pस्_४.६ //
SK
एकैकमेवं यदि बोधिचित्तं प्राप्येत संभारविधिश्च शेषः / तथापि बोधिं समुदानयेयं कृपासमुत्साहितधैर्यसारः // Pस्_४.७ //
SK
संसारदुःखं स्वमचिन्तयित्वा संनाहदार्ढ्यं यदचिन्त्यमेवम् / आद्यं समादानमिदं वदन्ति वीरव्रतानां करुणात्मकानाम् // Pस्_४.८ //
SK
पद्भ्यां अतिक्रम्य कुकूलकल्पां कृत्स्नां महीमायुधसंवृतां वा / यद्द्रष्टुम् अप्युत्सहते मुनीन्द्रान् पातुं शिवं धर्मरसायनं वा // Pस्_४.९ //
SK
संसारपङ्काज्जनता मयेयम् उद्धृत्य निर्वाणसुखे निवेष्या / उत्क्षेपनिक्षेपविधौ पदानां यच्चित्तमेवं च समाददाति // Pस्_४.१० //
SK
यद् वा हितार्थं क्रमते परस्य पुण्यानि वा लोकहिताय चित्तम् / पराक्रमः सो ऽक्षयविक्रमाणां श्रीमत्समादानविधौ द्वितीयः // Pस्_४.११ //
SK
पुण्यस्य चोत्पादसमानकालं संबुद्धभावे परिणामनं यत् / तदक्षयत्वं समुदागमाय शुभं समादानम् उदाहरन्ति // Pस्_४.१२ //
SK
महत्सु वाम्भःसु यथा निषिक्तो नैवोदबिन्दुः क्षयमभ्युपैति / संबुद्धभावे परिणामितस्य तथैव पुण्यस्य न संक्षयो ऽस्ति // Pस्_४.१३ //
SK
तथा हि कारुण्यविशुद्धबुद्धिः सर्वज्ञभावाय फलन्त्यमूनि / पुण्यानि लोकस्य चराचरस्येत्येवं स तान्यारभते सुसत्त्वः // Pस्_४.१४ //
SK
महात्रिसाहस्रगतं जनौघं निर्वापयेदेकदिने न कश्चित् / कल्पं तथा नैव च सत्त्वधातोस्तेनापि किं चित् परिपाचितं स्यात् // Pस्_४.१५ //
SK
श्रुत्वापि सत्त्वाक्षयतां इमां यः सत्त्वानशेषान् विनिनीषुरेव / विषाददोषानवलीढवीर्यः कस्तस्य दूरस्थ इहार्थसारः // Pस्_४.१६ //
SK
यः पुण्यराशिर्जगतां समग्रस्तावत्प्रमाणैर्दशभिर्जिनस्य / निवृत्तिमागच्छति रोमकूप एकैक एकैकसुजातरोमा // Pस्_४.१७ //
SK
शतेन भूयो गुणितेन तेन पुण्येन रोमास्पदसंश्रितेन / भवत्यनुव्यञ्जनमेकमेव शेषाणि तस्य प्रभवन्ति काये // Pस्_४.१८ //
SK
तावद्गुणादेव च पुण्यराशेस्तस्माद् अनुव्यञ्जनसंप्रविष्टात् / प्रत्येकशस्तस्य जिनत्वशंसि निर्वर्तते लक्षणचित्रकर्म // Pस्_४.१९ //
SK
सल्लक्षणोत्पत्तिनिमित्तभूतात् सहस्रसंख्यागुणिताच्च पुण्यात् / निर्वर्तते तस्य मनोज्ञवर्णा संपूर्णचन्द्रस्फुटकान्तिरूर्णा // Pस्_४.२० //
SK
ऊर्णाभिनिर्वृत्तिकर्मं च पुण्यं शतप्रमाणैर्गुणितं सहस्रैः / करोति तस्यानवलोकनीयं छत्तराभमुष्णीषललामशीर्षम् // Pस्_४.२१ //
SK
अयं मया पुण्यनिधिः परार्थं संचेय इत्युत्तमबोधिचित्ते / वीर्योन्मुखे केन मुखेन तस्मिंल्लयप्रवृत्तिर्लभतां प्रवेशम् // Pस्_४.२२ //
SK
सर्वे ऽपि सत्त्वा यदि लोकधातौ प्रत्येकबुद्धैः सदृशा भवेयुः / ज्ञानेन तेभ्यो ऽभ्यधिकप्रभावः क्षान्तिस्थ एको ऽपि हि बोधिसत्त्वः // Pस्_४.२३ //
SK
तथैव च क्षान्तिबलस्थितेभ्यो विशेषं आयात्यविवर्तनीयः / अश्रान्तवीर्यः कुशलप्रयोगे यल्लौकिके चैव तदुत्तरे च // Pस्_४.२४ //
SK
तेभ्यः पुणश्चाधिक एव दूरं य एकजातिप्रतिबद्धबोधिः / क एव वादो दृढवीर्यवत्सु ये बोधिमूले प्रथमं निषण्णाः // Pस्_४.२५ //
SK
तादृग्विधज्ञानविशुद्धिपूर्णः स्याद् यद्यशेषेन च लोकधातुः / यायात् कलां सो ऽपि न बोधिमूले स्थितस्य मारातिकृतान्त्यजातेः // Pस्_४.२६ //
SK
तादृग्विधज्ञानविशुद्धचित्ताः स्युर्यद्यशेषेन च सर्वलोकाः / बलप्रदेशस्य मुनेरतुल्याः कलाप्रदेशैरपि ते समग्राः // Pस्_४.२७ //
SK
इत्यद्भुतज्ञानसमुद्रमेकः कृपात्मको निस्तरितुं प्रयाति / अव्याहताज्ञः परचित्तचारे प्रज्ञावभासं च नभो विशालम् // Pस्_४.२८ //
SK
सर्वेषु सत्त्वेषु च तस्य मात्रा समानहार्दा करुणाभ्युदेति / संबुद्धधर्माश्च ततो ऽवशेषास्तस्याद्भुताः संप्रभवन्त्यशेषाः // Pस्_४.२९ //
SK
एभिः समादानगुणैरुपेतः शुद्धश्रवैः पेलवसत्त्वसत्त्वैः / अष्टाभिरङ्गैरिव तत्त्वमार्गो वीर्यप्रकर्षादधिकं विभाति // Pस्_४.३० //
SK
वीर्यं त्रिधा यः कुशलप्रयोगस्तस्माच्च वाक्कायमनोविशेषाः / प्रस्थानविष्ठानसमाहितस्य वीर्यप्रकर्षस्य मनोमयस्य // Pस्_४.३१ //
SK
यो बोधिचित्तप्रणयः समश्च कृपा च नैरात्मगतौ क्षमा च / चतुर्विकल्पो जनसंग्रहश्च सर्वेषु धर्मेष्वनवग्रहश्च // Pस्_४.३२ //
SK
संसारपङ्के यदखिन्नता च त्रैधातुकस्यैव च नोपलब्धिः / सर्वस्वदानं न च तेन मानः समग्रशिक्षस्य न शिक्षया च // Pस्_४.३३ //
SK
परापकारैरविकारि धैर्यं चित्तस्य चात्यन्तमविक्षतिर्या / आरम्भदार्ढयं कुशलक्रियासु प्रीतिर्विवेकैकरसा च चित्ते // Pस्_४.३४ //
SK
चतुर्विधध्यानसमापनं च चित्तस्य निध्यप्तिरनात्मतश्च / अतृप्तता च श्रुतविस्तरेण न्यायप्रवेशस्तदवेक्षणाच्च // Pस्_४.३५ //
SK
या देशना चैव यथाश्रुतानां ज्ञानं च धर्मानभिलाप्यतायाम् / पञ्चस्वभिज्ञासु च यत्प्रभुत्वम् अभ्यासमात्रा च तदुत्तरायाम् // Pस्_४.३६ //
SK
यदृद्धिपादेष्वभिनिर्हृतत्वं पट्वी न चायासमयी क्रिया च / सम्यक्प्रहाणेषु च यः प्रयोगः शुभाशुभादेव च या विमुक्तिः // Pस्_४.३७ //
SK
यत्कौशलं चेन्द्रियनिर्णयेषु निरिन्द्रियान् पश्यति यच्च धर्मान् / मार्गस्य संभारविमार्गणं च न चास्य किं चिद् गमनं कुतश्चित् // Pस्_४.३८ //
SK
इत्येवमाद्यं पृथुचित्रवीर्यं प्रस्थानविष्ठानविशेषचित्रम् / अस्याक्षयत्वप्रतिपूरणार्थं प्रस्थानकर्मैव विशेषहेतुः // Pस्_४.३९ //
SK
निमित्तकर्मस्वपि न प्रवर्तते वितिष्ठते ज्ञानमये च कर्मणि / कृपागुणाद्यन् न जहाति संस्कृतं न चोरुवीर्यो ऽपि पतत्यसंस्कृते // Pस्_४.४० //
SK
अपूर्वधर्मश्रुतिरल्परोगता दुरासदेत्वं श्रुतधर्मधारणम् / अमानुषेभ्यो ऽपि परिग्रहोदयः समाधिगोत्रप्रतिलम्भ एव च // Pस्_४.४१ //
SK
व्रजन्त्यवन्ध्या यदहर्निशं क्रिया गुणैर्न हानिं यदुत्पैति मौशलीम् / विवृद्ध एवोत्पलवच्च यद्गुणैर्मनुष्यधर्मादधिकप्रयोजनैः // Pस्_४.४२ //
SK
यशो विशालम् च सुखं सुखोदयं विनीतकार्पण्यमनस्त्वमुत्तमम् / गुणाश्च तेषामिह दृष्टधार्मिका भवन्ति वीर्यादिति को ऽत्र विस्मयः // Pस्_४.४३ //
SK
त्रैलोक्यपूज्यममितोरुगुणं संबुद्धभावमपि यान्ति यदा / वीर्यव्यापाश्रयदृढाः पुरुषा न स्याद् अतः क इव वीर्यपरः // Pस्_४.४४ //
SK
// वीर्यपारमितासमासः //
SK
५. ध्यानपारमितासमासः
SK
अथ ध्यानविधौ योगं कुर्याज् ज्ञानविवृद्धये / सुखं हि कर्तुं लोकानां ज्ञानालोकादनुग्रहम् // Pस्_५.१ //
SK
प्रसीदत्यधिकं ज्ञानं ध्यानान्मनसि निर्मले / शरदुत्सारितघने नभसीवेन्दुमण्डलम् // Pस्_५.२ //
SK
विशुद्धशीलः कल्याणैः सहायैः सहितैर्हितैः / अल्पकृत्यः प्रशान्तात्म स्मृत्यधिष्ठानवेष्टितः // Pस्_५.३ //
SK
निवसन् वृक्षमूलेषु शाद्वलास्तीर्णभूमिषु / अनुपस्कृतरम्येषु वनपुष्पसुगन्धिषु // Pस्_५.४ //
SK
ध्यानसाचिव्यधीरेषु संतुष्टजनवेश्मसु / जननिर्घोषमूकत्वाद् गम्भीरावस्थितेष्विव // Pस्_५.५ //
SK
प्रत्यरण्यनिविष्टेषु शून्येष्वायतनेषु वा / कुञ्जेषु च महीध्राणां सिंहनादानुनादिषु // Pस्_५.६ //
SK
यत्र क्व चन वा देशे संसर्गक्लेशवर्जिते / पर्यङ्केन सुखासीनः शरीरम् ऋजु धारयन् // Pस्_५.७ //
SK
उपस्थाप्य स्मृतिमयीं रक्षां अभिमुखीं हृदि / कृपया कुवितर्काणां कृत्वेवाक्षणघोषणाम् // Pस्_५.८ //
SK
प्रज्ञापरिचयस्यायां कालो मे न तु निर्वृतेः / न हि सत्त्वान् अनिर्वाप्य स्वयं निर्वातुम् उत्सहे // Pस्_५.९ //
SK
इति लोकहितावेक्षी बुद्धभावगतस्पृहः / कुर्यात् सातत्ययोगेन ध्यानारम्भसमुद्यमम् // Pस्_५.१० //
SK
न हि विश्रम्य विश्रम्य मथ्नन्नग्निमवाप्नुयात् / स एव योगो योगे ऽपि विशेषाधिगमादृते // Pस्_५.११ //
SK
एकत्रैव च बध्नीयाद् दृढम् आलम्बने मनः / अन्यान्यालम्बनग्राहः क्लिश्नात्येवाकुलं मनः // Pस्_५.१२ //
SK
विदर्शनाद् वीर्यबलाल्लीयमानं समुद्धरेत् / उद्धन्यमानं च मनः प्रशमेन निवारयेत् // Pस्_५.१३ //
SK
सम्यग्गतमुपेक्षितं समाधिबलनिश्चलम् / तत्रापि वा तन्मयः स्यात् सुगतज्ञानलब्धये // Pस्_५.१४ //
SK
न च ध्यानसुखास्वादः पारतन्त्र्यमनुक्रमेत् / न हि स्वसुखमात्रार्थमयम् आरम्भविस्तरः // Pस्_५.१५ //
SK
शरीरजीवितापेक्षी दैन्योपहतमानसः / न कुर्याद् वीर्यशैथिल्यमप्यादीप्ते स्वमूर्धनि // Pस्_५.१६ //
SK
लक्षयित्वा निमित्तानि मनस्तस्य समाधये / भ्रश्यमानं प्रयुञ्जीत स्मृत्यावहितया पुनः // Pस्_५.१७ //
SK
मनो निवरणेभ्यश्च विपक्षैर्विनिवर्तयेत् / स्वेच्छाप्रयातं द्विरदम् अङ्कुशाकर्षणैरिव // Pस्_५.१८ //
SK
अथ नीवरणव्याधिनाशप्रस्वस्थमानसः / दारिद्र्यादिव निर्मुक्तो महतो व्यसनादिव // Pस्_५.१९ //
SK
प्रीतियुक्तेन मनसा कामदोषान् विचारयेत् / तद्वियोगोपलभ्यां च परां सुखपरम्पराम् // Pस्_५.२० //
SK
विद्युदुद्द्योतचपलाः फेनांशुकनिभात्मकाः / स्वप्नवत् पेलवास्वादा वञ्चनार्थमिवोदिताः // Pस्_५.२१ //
SK
पितृणामपि पुत्रेषु पुत्राणां च पितृष्वपि / प्रीतिसर्वस्वभूतेषु सुहृत्सु सुहृदामपि // Pस्_५.२२ //
SK
गुणप्रचयबद्धस्य व्यूढेसु समरेष्वपि / दर्शितस्थैर्यसारस्य स्नेहसेतोर्विदारिणः // Pस्_५.२३ //
SK
इह पर्येष्टिदुःखस्य परत्र नरकस्य च / हेतुभूता यतः कामाः कामयेत न तान् अतः // Pस्_५.२४ //
SK
यदाश्रयो वितर्को ऽपि प्रज्ञाचक्षुर्निमीलनः / आत्मनो ऽपि परस्यापि विघाताय प्रवर्तते // Pस्_५.२५ //
SK
आत्मकामैरपि च ये सर्वथापि विवर्जिताः / परार्थकामस्तान् कामांस्त्यक्त्वा कथमनुस्मरेत् // Pस्_५.२६ //
SK
तृप्तिरेषां न संप्राप्त्या नाहन्यहनि सेवया / नैव संनिचयेनापि को ऽन्यो व्याधिरतः परः // Pस्_५.२७ //
SK
यदास्वादहतो नैव स्वार्थमप्यवबुध्यते / उन्मत्तपानप्रतिमान् कस्तान् सहृदयः स्मरेत् // Pस्_५.२८ //
SK
इत्येवं सर्वतो दुष्टान् कामांस्तस्यानुपश्यतः / ततः संकुचितं चित्तं नैष्क्रम्ये ऽभिप्रसीदति // Pस्_५.२९ //
SK
विवेकजं प्रीतिसुखं ततः प्रस्रब्धिलब्धिजम् / प्राप्नोति चित्तस्यैकाग्र्यं प्रथमध्यानसंज्ञितम् // Pस्_५.३० //
SK
स वितर्कविचाराणां कामानामिव दुष्टताम् / पुष्यांस्तत्प्रशमान्वेषी समाधिप्रीतिजं सुखम् // Pस्_५.३१ //
SK
अध्यात्मसंप्रसादाच्च चित्तैकाग्रतया च तत् / द्वितीयं ध्यानमित्याहुरद्वितीया महर्षयः // Pस्_५.३२ //
SK
उत्प्लवं मनसो दृष्ट्वा प्रीतेरथ विरज्य सः / तृतीयं ध्यानमाप्नोति स्मृत्युपेक्षासमन्वितम् // Pस्_५.३३ //
SK
सुखभोगमपि त्यक्त्वा सुखदुःखनिराकृतम् / विशुद्धं स्मृत्युपेक्षाभ्यां चतुर्थं ध्यानमश्नुते // Pस्_५.३४ //
SK
अभिज्ञा लभते पञ्च स च तत्रानुगामिनीः / राज्यस्थ इव धर्मात्मा ह्रीकीर्तिश्रीमतिद्युतीः // Pस्_५.३५ //
SK
प्रत्येकजिनलब्धाश्च श्रावकीया व्यतीत्य च / ता भवन्त्यधिका दूरं परार्थसमुदागमात् // Pस्_५.३६ //
SK
स हि मत्सरिणस्त्यागे शीले तद्विकलानपि / कोपनान् क्षान्तिसौरत्ये कुसीदान् वीर्यसंपदि // Pस्_५.३७ //
SK
विक्षिप्तचेतसो ध्याने प्रज्ञायां तन्निराकृतान् / नियोजयति कारुण्यादश्रान्ताचारविक्रमः // Pस्_५.३८ //
SK
अतो ऽच्युताभिर्दीप्ताभिर्भाभिर्लोकावभासनम् / मरीचिभिरिवादित्याः कुरुते ऽनन्तगोचरम् // Pस्_५.३९ //
SK
अथ पापकृतः सत्त्वान् पततो नरकादिषु / क्षीणपुण्यायुषश्चैव देवाञ्छाश्वतमानिनः // Pस्_५.४० //
SK
तैस्तैर्दुःखविशेषैश्च लोकं कारणयाहतम् / तत्र दिव्यप्रभावेण चक्षुषा सा विलोकयन् // Pस्_५.४१ //
SK
तीव्रमायाति कारुण्यं कारुण्यान् न प्रमाद्यति / परार्थेष्वप्रमत्तश्च यात्यचिन्त्यप्रभावताम् // Pस्_५.४२ //
SK
अथान्यलोकधातुस्थान् सम्पश्यति तथागतान् / बुद्धक्षेत्रगुणव्यूहान् संघस्यैव च संपदः // Pस्_५.४३ //
SK
बोधिसत्त्वर्षभाणां च विशुद्धाचारगोचरम् / सर्वलोकहितोदर्कं श्रीमच्चरितमीक्षते // Pस्_५.४४ //
SK
तत्र च प्रणिधिस्तस्य सुखेनैव समृध्यति / परार्थपरिणामाच्च शीलस्यैव च संपदः // Pस्_५.४५ //
SK
अतिमानुषया श्रुत्या दिव्ययार्थविशुद्धया / शृण्वन्नुच्चावचा वाचो विदूरे ऽप्यविदूरवत् // Pस्_५.४६ //
SK
कृपादूरचरैरुक्ताः पारुष्यविरसाक्षराः / अन्तर्दीप्तस्य कोपाग्नेर्निश्चरन्तीरिवार्चिषः // Pस्_५.४७ //
SK
अप्सरोगीतसचिवान् भूषणस्वनशीभरान् / दिव्यतूर्यनिनादांश्च विनाशैकरसानपि // Pस्_५.४८ //
SK
निषेव्यमाणान् रागान्धैरमित्रान्मित्रारूपिणः / वीक्ष्य व्रजति कारुण्यं तेषां वाञ्चनया तया // Pस्_५.४९ //
SK
भयाद्दुःखविशेषाच्च सो ऽविस्पष्टपदाक्षरैः / नारकैरार्तरसितैर्हृदीवाभिहतस्ततः // Pस्_५.५० //
SK
परमालम्बते वीर्यं मज्जागतमहाकृपः / तीक्ष्णाग्रेण प्रतोदेन सदश्व इव चोदितः // Pस्_५.५१ //
SK
नानालोकस्थितेभ्यो ऽथ जिनेभ्यो धर्मदेशनाः / शृणोति सर्वसत्त्वानां निर्वाणकाङ्क्षयाक्षयाः // Pस्_५.५२ //
SK
ततः स परचित्तेषु विज्ञायानुशयाशयान् / पुण्याङ्कुरान् रोपयति ज्ञानसाधनवान्नवान् // Pस्_५.५३ //
SK
स्मृत्वा पूर्वनिवासं च कल्पकोटिसहस्रशः / पश्यन् पुण्यानि लोकानां तथेन्द्रियबलाबलम् // Pस्_५.५४ //
SK
तदाश्रयवशादृद्ध्या सो ऽनेकीकृतविग्रहः / अवन्ध्यकथनं याति यथाभाजनदेशनात् // Pस्_५.५५ //
SK
क्व चिद् अर्कसहस्रदीप्तिनाप्यविसंवादितकान्तिसंपदा / वपुषा मुनिराजलक्षणः स्फुटचित्रेण समन्तलक्ष्मणा // Pस्_५.५६ //
SK
जनयन्नयनोत्सवं नृणां वचसा ह्लादविशेषमाचरन् / स करोत्यमृतप्रकाशनं जिनभावाय जिनाधिमुक्तिषु // Pस्_५.५७ //
SK
प्रशमोत्तरया मुनिश्रिया क्व चिद् अत्यार्थविशिष्टचेष्टया / कुरुते मुनिशिष्यरूपभृद्विनयं तद्विनयार्हचेतसाम् // Pस्_५.५८ //
SK
अभिसारितपादपङ्कजः सुरचूडामणिभिर्महेन्द्रवत् / धनदो धनदो यथा क्व चित् कुह चिद्ब्रह्मवदद्भुतद्युतिः // Pस्_५.५९ //
SK
क्व चिद् उन्मिषितत्रिलोचनः शशीलेखामलमौलिभूषणः / अमराधिपभासुरद्युतिर्बुजगेन्द्रश्रियमुद्वहन् क्व चित् // Pस्_५.६० //
SK
कुलिशानलपिङ्गलाङ्गुलिः कुह चिद् गुह्यकराजराजवत् / अमिताजिनलक्ष्मवान् क्व चिद् गुणरश्मिर्मुनिचन्द्रमा इव // Pस्_५.६१ //
SK
स्फुटकौस्तुभरत्नरश्मिभिर्विपुलोरःस्थलभासुरद्युतिः / गरुडध्वजराजदृक् क्व चित् कुह चिच्चैव हलायुधद्युतिः // Pस्_५.६२ //
SK
सितशक्तिरचिन्त्यशक्तिमान् कुह चिच्चारुशिखण्डिवाहनः / उदयास्तनगेन्द्रभूषणः शशिसूर्यामलरूपवान् क्व चित् // Pस्_५.६३ //
SK
कुह चिद् धुतभुङ्मरुत्वतां वपुषान्यत्र नराश्रयाशिनाम् / वारुणद्युतिम् उद्वहन् क्व चित् कुह चिन्मन्मथचारुविग्रहः // Pस्_५.६४ //
SK
ललितां प्रमदानराकृतिं नरनारीरतिसंगलालसः / क्व चिद् एव तपोधनश्रियं विदधत् कामविरक्तमानसः // Pस्_५.६५ //
SK
हृदयानि हरन्नृणां क्व चिद् गुरुशिष्यक्षितिपालवृत्तिभिः / नरकेष्वपि च परभावतो विदधद्दुःखविमोक्षणक्षणम् // Pस्_५.६६ //
SK
जगताम् अधिमुक्तिविस्तरैरथ सो ऽनेकविधैर्विचेष्टितैः / करुणागुणसंततस्ततः कुरुते लोकहितं ततस्ततः // Pस्_५.६७ //
SK
समवाप्य विशेषसंपदं विपुलां ध्यानगुणश्रयादिमाम् / प्रयतेत विशेषवत्तरं निधिचिह्नेष्वविसंवदत्स्विव // Pस्_५.६८ //
SK
कुशले स्थितिरप्यनूर्जिता किम् अहानिः शिथिलव्रतोचिता / प्रयतेत विवृद्धये ततः परिहाणिस्तु विपर्ययादतः // Pस्_५.६९ //
SK
सुलभश्च समाधिरुद्यमाद् अनुरक्षा पुनरस्य दुष्करा / सहसा विजिगीषुणा यथा विजितस्य प्रशमप्रतिक्रिया // Pस्_५.७० //
SK
मनसः परिवृत्तिलाघवं परमं तत्र न विश्वसेदतः / अनवाप्य महीमिवाचलाम् अचलां भूमिमभीरदुर्गमाम् // Pस्_५.७१ //
SK
अभिसंस्कृत[मार्गचारिणः] पतनान्ता हि समाधिविस्तराः / अत उत्तममार्गभावनाम् अवलम्बेत विकल्पवर्जनात् // Pस्_५.७२ //
SK
सुचिनित्यसुखात्मकल्पनं कपटम् संस्कृतदम्भसंभवाम् / समवेक्ष्य न भावकल्पनाप्रणयव्यापृतमानसो भवेत् // Pस्_५.७३ //
SK
विशदे ऽप्युपलम्भसंभवे व्रजति क्लेशशरव्यताम् अतः / व्यतियाति तु मारगोचरं तमनर्थं प्रशमय्य सर्वथा // Pस्_५.७४ //
SK
न हि निश्रयदोशदुषितो भवति ध्यानविधिर्विशुद्धये / चलतानुगतो हि निश्रयः सखटुङ्कस्तत एव कथ्यते // Pस्_५.७५ //
SK
व्यवहारविधिप्रसिद्धये प्रतिपत्तद्भवतीति कथ्यते / न हि किं चिद् उदेति कुत्र चित् सदसत्संभवयुक्त्यसंभवात् // Pस्_५.७६ //
SK
गगनेन समानमानसस्त्रिभवादप्यु अथ वीतनिश्रयः / अविकल्पितधीरचेष्टितो वचनेनाप्रतियत्नशोभिना // Pस्_५.७७ //
SK
कुरुते स च लौकिकीं क्रियां जगदेकान्तहितानुवर्तिनीम् / न समाधिबलाच्च हीयते वशवर्तित्वमवाप्य चेतसः // Pस्_५.७८ //
SK
ततः परं परहिततत्परोद्यतैः समाधिभिर्विधिविहितप्रयोजनैः / विवर्धते घनसमये यथोदधिः सरिद्वधूसमुपहृतैर्नवाम्बुभिः // Pस्_५.७९ //
SK
// ध्यानपारमितासमासः //
SK
६. प्रज्ञापारमितासमासः पुण्यानि दानप्रभृतीन्यमूनि प्रज्ञासनाथान्यधिकं विभान्ति / हिरण्मयानीव विभूषणानि प्रत्युप्तरत्नद्युतिभास्वराणि // Pस्_६.१ //
SK
क्रियासु सामर्थ्यगुणं हि तेषां प्रज्ञैव विस्तारिणमादधाति / स्वार्थप्रवृत्तौ विशदक्रमाणां यथा मनःसंततिरिन्द्रियाणां // Pस्_६.२ //
SK
क्रियास्वयोग्यानि शरीरयन्त्राण्यायुर्वियुक्तानि यथा न भान्ति / तथैव कार्याणि न भान्ति लोके प्रज्ञावियोगेन जदीकृतानि // Pस्_६.३ //
SK
श्रद्धादिकानामपि चेन्द्रियाणां प्रज्ञाग्रणी बुद्धिरिवेन्द्रियाणाम् / गुणागुणान् वेत्ति हि तत्सनाथः क्लेशक्षये नैपुणमेत्यतश्च // Pस्_६.४ //
SK
प्रज्ञावियोगात् फललालसानां नैव स्वतोदानविशुद्धिरस्ति / त्यागं परार्थं हि वदन्ति दानं शेषस्तु वृद्ध्यार्थमिव प्रयोगः // Pस्_६.५ //
SK
प्रज्ञासमुन्मीलितचक्षुषस्तु दत्त्वा स्वमांसान्यपि बोधिसत्त्वाः / नैवोन्नतिं नावनतिं प्रयान्ति भैषज्यवृक्षा इव निर्विक्लपाः // Pस्_६.६ //
SK
एवं स भूमिं प्रथमामुपैति लोकोत्तरस्यार्थविधिप्रतिष्ठाम् / अक्रोधनः प्रीतिसमृद्धचेता दानैर्महद्भिर्जगदर्थचेताः // Pस्_६.७ //
SK
प्रायेण यस्यां बलचक्रवर्ती भवत्यसंहार्यमतिश्च बोधेः / प्रज्ञागुणादेशितसत्पथो ऽथ कर्मेण भूमिं विमलामुपैति // Pस्_६.८ //
SK
यस्यां प्रकृत्यैव विशुद्धशीलश्चतुर्महाद्वीपपतिः स भूत्वा / नरेन्द्रचूडामणिसत्कृताज्ञः सूर्यार्हतामेति यथा मुनीन्द्रः // Pस्_६.९ //
SK
ततः परं कामिषु दैवतेषु लोके ऽपि च द्वित्रिसहस्रसंख्ये / ऐश्वर्यमाप्नोति ततः परं च भूमिं विशोध्य प्रभवां प्रभायाः // Pस्_६.१० //
SK
शीलस्य शुद्धिः कुत एव तस्य यः प्रज्ञया नापहृतान्धकारः / प्रायेण शीलानि हि तद्वियोगाद् आमर्षदोषैः कलुषीक्रियन्ते // Pस्_६.११ //
SK
नात्मार्थमप्यस्ति तु यस्य शीलं प्राज्ञस्य तस्यास्ति कथं परार्थम् / यो दृष्टदोषो भवबन्धनानां लोकान् समस्तांस्तत उज्जिहीर्षुः // Pस्_६.१२ //
SK
प्रज्ञाविपक्षैर्हृदि सोपरागे क्षमागुणः केन धृतिं लभेत / गुणागुणाअवेक्षणकातराक्षे ख्यातो गुणैर्वीरा इव क्षितीशे // Pस्_६.१३ //
SK
प्रज्ञान्वितानां तु परापकाराः क्षमागुणाः स्थैर्यकरा भवन्ति / भद्रात्मकानामिव वारणानां करमाश्रया नैकविधा विषेषाः // Pस्_६.१४ //
SK
निष्केवलं वीर्यमपि श्रमाय प्रज्ञासनाथस्य तु तस्य कार्ये / अनुत्तरः सिद्धिगुणो ऽभ्युदेति हर्ता तदुत्थस्य परिश्रमस्य // Pस्_६.१५ //
SK
यस्मात् परं सूक्षमतरं न किं चिद् यन्नैपुणानां परमः प्रकर्षः / यत्कामदोषादिभिरावृतानां मनःपथं नैव कदा चिदेति // Pस्_६.१६ //
SK
तद् ध्यानमेकान्तसुखाभिरामं कथं प्रवेक्ष्यन्त्यस्तां मनांसि / स्थूलानि दोषोपचयैर्महद्भिः प्रज्ञोत्पथं न्यायमिवाश्रितानी // Pस्_६.१७ //
SK
प्रज्ञानिरुद्योगमतेर्हि दृष्टिर्नायाति शुद्धिं तदृते न शीलम् / सम्यकस्माधिस् तदृते न लभ्यो दुःखक्षयस्तद्विरहात्तथैव // Pस्_६.१८ //
SK
प्राज्ञस्तु दोषाद्भयमीक्षमाणः सुखानुबद्धं च सुखं गुणेभ्यः / विहाय दोषाञ्जगदर्थकामो गुणाभिरामेण पथा प्रयाति // Pस्_६.१९ //
SK
समुद्यतस्तेन समाधिमेत्य प्राप्नोति वाक्कायमनोविशुद्धीः / अतो ऽनवद्येन बलेन युक्तः प्रवर्तते लोकहितोदयेषु // Pस्_६.२० //
SK
दानेन चाभीप्सितभूयसैव प्रियैरदीनैर्वचनामृतैश्च / नैष्कारणोर्जस्वलया च वृत्त्या परार्थचर्यासु समं समन्तात् // Pस्_६.२१ //
SK
सामान्यमर्थेषु च दर्शयित्वा प्रेम्णा वशीकृत्य मनांसि तेषाम् / करोति निर्वाणसुखे प्रतिष्ठां प्रज्ञागुणाव्याहतधर्मचक्रः // Pस्_६.२२ //
SK
प्रज्ञाद्यरोगैश्च बलैरमीभिरध्यासितं नाभ्युपयातुमीसा / अजीविकादुर्गतिमृत्युनिन्दाशारद्यदोषाश्रयणी भयार्तिः // Pस्_६.२३ //
SK
भयानि सर्वाणि हि दोषजानि प्रज्ञा न दोषैः सहवासमेति / शरद्व्यपोढाभ्रगवाक्षपक्षा भा भास्करस्येव तमःप्रतानैः // Pस्_६.२४ //
SK
सहस्ररश्मेरुदये ऽपि यानि तमांसि रुन्धन्ति जगद्गतानि / नामैकशेषाणि करोति तानि प्रज्ञाप्रभायाः प्रसरप्रभावः // Pस्_६.२५ //
SK
न तत्र भूयः करणीयम् अस्ति यत्र प्रभा सा बलतामुपैति / युगान्तकालानलसंहृते हि लोके न दग्धव्यकथाः प्रथन्ते // Pस्_६.२६ //
SK
ज्योतींषि सर्वाण्यपि संहितानि प्रज्ञाप्रभां नालमथोपयातुम् / अतस्तया नास्ति परातिवृद्धिर्गरीयसी वापरिहाणिजातिः // Pस्_६.२७ //
SK
संपूर्णतां याति सुखेन शिक्षा शीलाय चित्तप्रशमाय चैव / प्रज्ञाभियुक्तस्य यतस्ततो ऽस्यां सर्वाभिसारेण पराक्रमेत // Pस्_६.२८ //
SK
या स्कन्धधात्वायतनप्रवृत्तौ सत्याश्रया प्रत्ययिता परीक्षा / कालत्रये ऽप्येष समासयुक्त्या प्रज्ञावदातैर्विषयप्रवेशः // Pस्_६.२९ //
SK
कीर्तिं वितन्वन्ति जिनात्मजानां प्रज्ञावदाताश्चरितप्रदेशाः / गुणद्वीषामप्यतिदुष्कुहाणां रोमाञ्चिता विस्मयपारतन्त्र्यात् // Pस्_६.३० //
SK
प्रज्ञाबलं दीप्ततरप्रभावं नालं प्रसोढुं सबलो ऽपि मारः / प्रज्ञांशवो विभ्रमयान्ति चक्षुर्न द्रष्टुम् ईशो हि यतः स एव // Pस्_६.३१ //
SK
कन्दर्पनाराचनिपातसाही प्रज्ञामयं वर्म वितत्य चित्ते / व्यूढानि रूपप्रभृतीन्यनेकान्येको ऽपि निर्भीरभिभूय याति // Pस्_६.३२ //
SK
अधीरसात्म्यं भयविक्लवं वा मूढोचितं शोकपरिग्रहं वा / स्वल्पात्मचित्तेष्ववगाढमूलं रोषोपरागं परिजिह्मितं वा // Pस्_६.३३ //
SK
दीनेषु कार्पण्यमलीमसत्वं कृतास्पदं रागिषु चापलं वा / तेजोविहीनेष्वलसत्वसत्त्वं समुद्धतेष्वप्रशमात्मकत्वम् // Pस्_६.३४ //
SK
तांस्तांश्च लीनानपि दोषलेशान् पृथग्विधिष्वाश्रयगह्वरेषु / समुद्भवन्त्येव पराकरोति प्रज्ञा प्रतिज्ञेव जगद्धितार्था // Pस्_६.३५ //
SK
निवेश्य दोषक्षयधीरसौम्यां भवस्य तस्योपरि दृष्टिलक्ष्मीम् / स्वयं मुनीन्द्रैरभिषिच्यते यत् प्रह्लादिना व्याकरणामृतेन // Pस्_६.३६ //
SK
ऊर्णाप्रभाभिश्च महामुनीनां निशीथचन्द्रद्युतिहासिनीभिः / यदाज्यधाराभिरिवाध्वरग्निर्विभाति मूर्धन्यभिषिच्यमानः // Pस्_६.३७ //
SK
अवाप्य यस्मान् मुनियौवराज्यं समं समन्ताद् विसृतात्मभावः / लोकस्य दुःखं प्रशमत्ययत्नाद् रजो महामेघ इव प्रवृष्टः // Pस्_६.३८ //
SK
प्रज्ञाप्रभावोपनतः स सर्वः प्रभाविसारः सुगतात्मजानाम् / को विस्मयो वात्र सुतप्रियाया मातुः समीयाद्यदियं विभूतिः // Pस्_६.३९ //
SK
दशप्रकारो ऽपि यदा मुनीनां तदाश्रयादेव बलप्रकर्षः / उदेत्यसाधारणसुन्दरश्च शेषो ऽप्यसंख्यो गुणरत्नराशिः // Pस्_६.४० //
SK
शास्त्राणि चक्षुःप्रतिमानि लोके निधानभूतांश्च कलाविशेषान् / मन्त्रान् परित्राणकृतो विचित्रान् धर्मव्यवस्थाश्च पृथग्विशेषाः // Pस्_६.४१ //
SK
पर्यायचित्रं च विमोक्षमार्गं तत्तच्च लोकस्य हितोपपादि / यद्बोधिसत्त्वाः प्रविदर्शयन्ति प्रज्ञाप्रभावाभ्युदयः स सर्वः // Pस्_६.४२ //
SK
दिव्यप्रतिस्पर्धिभिरिन्द्रियार्थैर्नरेन्द्रभावे ऽपि हि बोधिसत्त्वाः / न यद्विरूपां प्रकृतिं व्रजन्ति प्रज्ञा गुणामात्यसनाथता सा // Pस्_६.४३ //
SK
परोपकारैकरसा च मैत्री रागोपरागप्रतिवर्जिता च / परस्य दुःखेषु परा दया च न शोकभारालसतां गता च // Pस्_६.४४ //
SK
अनुद्धातत्वं मुदिते ऽपि चित्ते तमोनिरारम्भमुपेक्षितं च / ते ते गुणा<;श्>;चाभ्यधिकं विभान्ति प्रज्ञानिरुद्धप्रतिपक्षमार्गाः // Pस्_६.४५ //
SK
को नाम लोकस्य परार्थसाधुर्दुःखैकहेतूनि तमांसि हन्यात् / अव्याहता ज्ञानशयाशयेषु प्रज्ञा न चेत् स्यादतिसूर्यादीप्तिः // Pस्_६.४६ //
SK
तत्प्राप्तये श्रुतम् अशीतिविकल्पचित्रं संचेयम् आश्रयसहं गुरुमभ्युपेत्य / द्वात्रिंशता तदधिगम्य विवर्धयेत सम्यङ्मनः समवधानकृतैर्विशेषैः // Pस्_६.४७ //
SK
अल्पश्रुतो ऽन्ध इव वेत्ति न भावनाया मार्गं विचिन्तयति कानि च तद्विहीनः / तस्माच्छ्रुतं प्रति यतेत तदाश्रया हि प्रज्ञा समुद्भवति चिन्तनभावनाभ्याम् // Pस्_६.४८ //
SK
प्रश्नैरविग्रहमुखैश्च कथाविशेषैर्मीमांसयार्थगतिवीक्षणया स्वयं च / प्रज्ञाविवृद्धिमभितः प्रयतेत नित्यं ध्यानेन तद्गुणविवृद्धिकरेण चैव // Pस्_६.४९ //
SK
प्रज्ञाभ्युपायविधिरेष समासतस्तु ध्यानं तदर्थनियतः श्रुतिविस्तरश्च / ताभ्यां समुद्भवति हि प्रभवो गुणानां प्रज्ञाप्रभासमुदयो ऽग्निरिवारणीभ्यां // Pस्_६.५० //
SK
विद्वज्जनाचरितमार्गसमाश्रयाच्च संमोहहेतुगहनानि विवर्जयेत / तैरावृतो न हि विभात्युदयस्थितो ऽपि तोयावलम्बिजलदान्तरितः शशीव // Pस्_६.५१ //
SK
आलस्यजृम्भितमतित्वम् असत्सहाया निद्रानिवृत्तिरविनिश्चयशीलता च / ज्ञाने मुनेरिव कुतूहलितानिवृत्तिर्मिथ्याभिमानपरिसंकुचिताश्च पृच्छाः // Pस्_६.५२ //
SK
दैन्येन चात्मपरितापसमुद्भवेन विद्वज्जनाभिगमनादरकातरत्वम् / मिथ्याविकल्पपटुता वितथा च दृष्टिर्मोहाय तत्प्रशमनाय तु तद्विपक्षाः // Pस्_६.५३ //
SK
स्कन्धेषु सायतनधातुषु सत्ययुक्त्यो<;र्>; हेतुद्भवेषु शुचयानविनिर्णये च / धर्मेषु कौशलमशेषत एव यच्च प्रज्ञाप्रयोगविषयो ऽष्टविकल्प एषः // Pस्_६.५४ //
SK
निःसारफेननिचयैरविशेषि रूपं तिस्रो ऽपि बुद्बुदलवा इव वेदनाश्च / संज्ञापि कामगुणविप्रसृतान् सतृष्णान् बालान् मृगानिव विलोभयते मरीचिः // Pस्_६.५५ //
SK
संस्कारजातिरपि तुल्यगुणा कदल्या विज्ञानतो ऽपि न च युक्ततरास्ति माया / यन्निश्रयाद्भ्रमति नैकविकल्पचेष्टं भूताभिभूतकुणपप्रतिमं शरीरम् // Pस्_६.५६ //
SK
नात्मा तदीयमपि चात्र न किं चिद् अस्ति संघात एष विविधाशूचिसंनिधानः / बालान् प्रलम्भयत एव च सत्त्वसंज्ञा स्वच्छन्दचेष्ट इव यन्त्रविधौ सुयुक्ते // Pस्_६.५७ //
SK
आत्मा न चक्षुरपि च क्षणभङ्गुरत्वात् तद्वन् न चक्षुषि न चात्र यथैव चक्षुः / आध्यात्मिकायतनशेषम् अशेषम् एवम् आत्मीयवस्तुविषयो ऽपि च तद्विवेकी // Pस्_६.५८ //
SK
बाह्येषु धातुषु शरीरसमाश्रितानां नाल्पो ऽपि लक्षणविरोधकृतो ऽस्ति भेदः / विज्ञानधातुरपि च क्षणिकः स नात्मा तस्मात्परो ऽपि च नभःकुसुमैः समानः // Pस्_६.५९ //
SK
इत्येतदुद्भवति केवलमेव दुःखं तृष्णाविमूढमनसो विग्मात्तु तस्याः / शान्तिः परा भवति तर्षहरस्तु मार्गः शीलं समाधिपरिशुद्धतया च दृष्टिः // Pस्_६.६० //
SK
तत्तत्प्रतीत्य भवतीति विशुद्धदृष्टिर्नास्त्यस्ति वेति समुपैति स नैव किं चित् / मायामयं जगदिदं प्रतिभाति तस्य तस्मात् सुखादिषु भवत्यविकारधीरः // Pस्_६.६१ //
SK
आसीद्भविष्यति च यत् तद् अपीदृगेव कः संभवो यदसुखं न भवेद् भवेभ्यः / एवं व्यतीतविषयेष्वपि वीतरागो नैवाभिनन्दति भवांश्च भविष्यतो ऽपि // Pस्_६.६२ //
SK
आकारभेदपरुषे पुरुषो ऽपराधी को नाम गूढनखरस्फुटदृष्टिचिह्ने / तत्प्रैष्यवृत्तिकपटान्यनुचिन्त्य रज्येद् विश्वासमेव च यथोचितमत्र यायात् // Pस्_६.६३ //
SK
एवं विमुक्तमतिरप्यनुकम्पकस्तु क्लेशान्तरं जगदनाथमवेक्षमाणः / हीनेषु निष्प्रणयबुद्धिरुदारभावान् निर्वातुमिच्छति न बुद्धगुणानलब्ध्वा // Pस्_६.६४ //
SK
लोकार्थसाधनविधावसमर्थरूपं यानद्वयं समवाधूय स पूर्वमेव / कारुण्यदेशितपथो मुनिराजयानम् आतस्थिवान् परहितैकरसस्वभावम् // Pस्_६.६५ //
SK
हीनोचितेषु न मतिर्नमति प्रणीता संतिष्ठते महति नामहती कदा चित् / संस्यन्दते शुचिभिरेव शुचिस्वभावं तुल्यैस्तथान्यदपि शास्वत एष योगः // Pस्_६.६६ //
SK
स्वप्नोपमानि विगणय्य सुखासुखानि संमोहदोषकृपणां जनतां च तेषु / आत्मार्थ एव गुरुतां कथम् अस्य यायाद् व्यापारभारमवधूय परार्थरम्यम् // Pस्_६.६७ //
SK
यः सर्वलोकहितकारणसर्वचेष्टस्त्यक्त्वात्मदृष्टिविषयं वितथाभिमानम् / सर्वत्र शान्तमतिरद्वयमार्गचारी सो ऽत्यद्भुतश्चरितनिर्वृत एव लोके // Pस्_६.६८ //
SK
प्रज्ञाविशुद्धिकरमुत्तमयानमेतत् सर्वज्ञता तदुदया हि महामुनीनाम् / लोकस्य या नयनतामिव संप्रयाति दीप्तांशुमण्डलतलोत्पतिता प्रभेव // Pस्_६.६९ //
SK
संसारदोषभरनिर्मथितो ऽपि नैव प्रज्ञाविवेचनतया परिखीद्यते यः / नात्माभिखेदपरिविक्लवतां स याति यानस्य बुद्धगुणसंजननस्य लोके // Pस्_६.७० //
SK
पश्यन्ति चाभुतमयं सुगतप्रभावं रोमाञ्चकञ्चुकितसर्वशरीरदेशाः / तद्गामिनं परिहरन्ति च यानमार्गं किं नाम कारणमृते शठचेष्टितेभ्यः // Pस्_६.७१ //
SK
को नाम मारकलिनानभिभूतचेताः संबुद्धधर्मगुणरत्ननिधानभूतम् / सर्वज्ञयानमपयानम् अनर्थपङ्काद् आक्रोष्टुमर्हति न चेज्जगतो ऽस्य वैरम् // Pस्_६.७२ //
SK
लोकार्थसाधनपरे जिनराजवंशे प्रज्ञानिमीलितनयेषु परिस्खलत्सु / चित्तं नरस्य करुणामृदु कस्य न स्यात् तन्मोहदोषशमनाय दृढं च वीर्यम् // Pस्_६.७३ //
SK
प्रज्ञाया जनयति यः परां विशुद्धिं निर्मोक्षः कथमिव तस्य दूरतः स्यात् / नैवास्मात्परतरमस्ति शीलम् अन्यत् तत्तस्माद् भजत विमोक्षकाङ्क्षिणो हि // Pस्_६.७४ //
SK
// प्रज्ञापारमितास[मास]श्चायं पारमितासमासः //
SK
विशुद्धमौनीन्द्रमनस्तडागप्रसूतसूत्रान्तसरोरुहेभ्यः / आदाय शुरभ्रमरेण सम्यग् मधूर्जितं पारमितासमासे //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Āryaśūra: Pāramitāsamāsa (sa_AryazUra-pAramitAsamAsa.htm).

Source
Pāramitāsamāsa — Reader · Sutraya