Thirty Verses on the Supreme
Parātriṃśikā
परात्रिंशिका
SKअनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् | येन विज्ञातमात्रेण खेचरीसमतां व्रजेत्
SKएतद् गुह्यं महागुह्यं कथयस्व मम प्रभो | हृदयस्था तु या शक्तिः कौलिनी कुलनायिका
SKताम् मे कथय देवेश येन तृप्तिं व्रजाम्य् अहम् |
SKशृणु देवि महाभगे उत्तरस्याप्य् अनुत्तरम्
SKकथयामि न संदेहः सद्यः कौलिकसिद्धिदम् | कौलिको ऽयं विधिर् देवि मम हृद्व्योम्न्य् अवस्थितः
SKअथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः | तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ
SKपृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते
SKवाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् | तदूर्ध्वे शादिविख्यातम् पुरस्ताद् ब्रह्मपञ्चकम्
SKअमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिर् उदाहृता | सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि
SKइयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा | चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् | तृतीयम् ब्रह्म सुश्रोणि हृदयम् भैरवात्मनः
SKएतन् ना योगिनीजातो ना रुद्रो लभते स्फुटम् | हृदयं देवदेवस्य सद्यो योगविमोक्षदम्
SKअस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् | सद्यः सन्मुखताम् एति स्वदेहावेशलक्षणम्
SKमुहूर्तं स्मरते यस् तु चुम्बके नाभिमुद्रितः | स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः
SKअतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि | प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन्
SKसक्षात् पश्यत्य् असंदिग्धम् आकृष्टं रुद्रसक्तिभिः | प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन्
SKत्रयेण मातरः सर्वा योगेस्वर्यो महाबलाः | वीरा वीरेस्वराः सिद्धा बलवान् शाकिनीगणः
SKआगत्य समयं दत्त्वा भैरवेण प्रचोदिताः | यच्छन्ति परमां सिद्धिं फलं यद् वा समीहितम्
SKअनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः
SKयत्किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिध्यति | मन्त्रवीर्यसमावेशप्रभावान् न नियन्त्रिणा
SKअदृष्टम.ङ्दलो ऽप्य् एवम् यः कश्चिद् वेत्ति तत्त्वतः | स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षीतः
SKअनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः | शाकिनीकुलसामान्यो भवेद् योगं विनापि हि
SKअविधिज्ञो विधानज्ञो जायते यजनं प्रति | कालाग्निम् आदितः कृत्वा मायान्तम् ब्रह्मदेहगम्
SKशिवो विश्वद्यनन्तान्तः परं शक्तित्रयं मतम् | तदन्तर् वर्ति यत्किंचिच् छुद्धमार्गे व्यवस्थितम्
SKअणुर् विशुद्धम् अचिराद् ऐस्वरं ज्ञानम् अश्नुते | तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः
SKसर्वगो निर्मलः स्वच्छस् तृप्तः स्वायतनः शुचिः | यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः
SKतथा हृदयबीजस्थं जगद् एतच् चराचरम् | एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी
SKदीक्षा भवत्य् असंदिग्धा तिलाज्याहुतिवर्जिता | मूर्ध्नि वक्त्रे च हृदये गुह्ये मुर्तौ तथैव च
SKन्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंसतिमन्त्रिताम् | एकैकेन दिशां बन्धं दशानाम् अपि कारयेत्
SKतालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये | शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः
SKपुष्पादिकं क्रमात् सर्वं लिङ्गं वा स्थ.ङ्दिलं च वा | चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना
SKतत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः | सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत्
SKसर्वतत्त्वसुसम्पूर्णाम् सर्वावयवशोभिताम् | यजेद् देवीं महाभागा सप्तविंशतिमन्त्रिताम्
SKततः सुगन्धिपुष्पैश् च यथाशक्त्या समर्चयेत् | पूजयेत् परया भक्त्या स्वात्मनं च निवेदयेत्
SKएवं यजनम् आख्यातम् अग्निकार्ये ऽप्य् अयं विधिः | कृतपूजाविधिः सम्यक् स्मरन् बीजम् प्रसिद्ध्यति
SKआद्यन्तरहितम् बीजं विकसत् तिथिमध्यगम् | हृत्पद्मान्तर्गतं ध्यायेत् सोमांशुं नित्यम् अभ्यस्येत्
SKयान् यान् कामयते कामांस् तान् ताञ् च्छीघ्रम् अवाप्नुयात् | अज्ञः प्रत्यक्षताम् एति सर्वज्ञत्वं न संशयः
SKएवं मन्त्रफलावप्तिर् इत्य् एतद् रुद्रयामलम् | एतद् अभ्यासतः सिद्धिः सर्वज्ञत्वम् अवाप्यते