The Perfection of Wisdom in One Hundred Verses

Advayaśatikā prajñāpāramitā · Aद्वयशतिका प्रज्ञापारमिता

The Perfection of Wisdom in One Hundred Verses

Advayaśatikā prajñāpāramitā

Aद्वयशतिका प्रज्ञापारमिता

SK
Āर्य अद्वयशतिका प्रज्ञापारमिता सूत्र
SK
नमो भगवत्यै आर्यप्रज्ञापारमितायै //
SK
एवं मया श्रुतम् / एकस्मिन् समये भगवान् राजगृहे विहरतिस्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैरनेकैर्ब्रह्मशक्रलोकपालैर्देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगैरूपासकोपासिकाभिः सार्धम् /
SK
तत्र खलु भगवान् आयुष्मन्तं सुभूतिंमामन्त्रयते स्म / ये केचित् सुभूते श्रावकमार्गः शिक्षितुकामेन प्रज्ञापारमिता श्रोतव्या उद्गृहीतव्या धारयितव्या वाचयितव्यादेशयितव्या पर्यवाप्तव्या / इहैव प्रज्ञापारमितायामुपायकौशल्य समन्वागतेन बोधिसत्त्वेन महासत्त्वेन सर्वबुद्धधर्मसमुदागमाय योगः करणीयः / तत्कस्य हेतोः? इह प्रज्ञापारमितायां विस्तरेण सर्वबुद्धधर्मा निर्दिष्टाः / यत्र बोधिसत्त्वेन शिक्षितव्यम्, ये केचित् सुभूते कुशलधर्मा बोधिपक्षाः श्रावकधर्मा वा प्रत्येक बुद्धधर्मा वा बोधिसत्वधर्मा वा बुद्धधर्मा वा / बोधिपक्षाः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्वधर्मास्त्वं ते प्रज्ञापारमितायामन्तर्गतामनुप्रविष्टाः संग्रहसमवसरणं गच्छन्ति / भगवानाह - तद्यथा सुभूते दानपारमिउता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता / अध्यात्मशून्यता वहिर्धाशून्यता अध्यात्मवहिर्धाशून्यता शून्यता शून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्त शून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता / चत्वारि स्मृउत्युपस्थानानि / चत्वारि सम्यक्प्रहाणानि / चत्वारि ऋद्धिपादानि / पञ्चेन्द्रियाणि / पञ्चबलानि / सप्तबोध्यङ्गानि / आर्याष्टाङ्गिकमार्गाः // चत्वारि ध्यानानि / चत्वारि प्रमाणानि / चतस्र आरूप्यसमापत्तयः / अष्टौ विमोक्षाः / नवानुपूर्वविहारसमापत्तयः / सर्वधारणीमुखानि / दशतथागतबलानि / चत्वारि वैशारद्यानि / चतस्रः प्रतिसंविदः / महमैत्री महाकरूणा / अष्टादशावेणिकबुद्धधर्माः श्रोतापत्तिफलं सकृदागामिफलं अनागामिफलं सर्वज्ञता च //
SK
इयमेव सुभूते कुशलधर्मा बोधिपक्षाः श्रावकधर्माः प्रत्येकबुद्धधर्माः / यत्र प्रज्ञापारमितायामन्तर्गता अनुप्रविष्टाः सग्रहसमवसरणं गच्छन्ति /
SK
सुभूतिराह - अहो! अहो!दुरवगाहा वतेयं प्रज्ञापारमिता / यत्र हि नाम कुशलधर्मा बोधिपक्षाः श्रावकधर्माः प्रत्येकबुद्धधर्मा बोधिसत्वधर्मा बुद्धधर्मा इति / यतो प्रज्ञापारमितायामन्तर्गता अनुप्रविष्टाः संग्रहसमवसरणं गच्छन्ति /
SK
भगवानाह - अत्यन्तमुक्तत्वात् सुभूते प्रज्ञापारमिता /
SK
सुभूतिराह - अहो! अहो!दुरवगाहा वतेयं प्रज्ञापारमिता /
SK
भगवानाह - अत्यन्तविशुद्धत्वात् सुभूते प्रज्ञापारमिता /
SK
सुभूतिराह - अहो! अहो! दुरवगाहा वतेयं भगवन् प्रज्ञापारमिता /
SK
भगवानाह - अत्यन्तशुद्धत्वात् सुभूते प्रज्ञापारमिता, तस्मात्तर्हि सुभूते आकाशोपमा प्रज्ञापारमिता /
SK
सुभूतिराह - अहो! अहो! दुरवगाहा वतेय प्रज्ञापारमिता भगवन् अभियुक्तेन /
SK
भगवानाह - एवमेव तद्यथा वदसि / दुरधिमोचा प्रज्ञापारमिता अनभियुक्तेन परीतकुशलमूलेन दुर्मेधस अनाविलेन सुभूतिना / नहि न यद्येन पापमित्रसहितेन पापमित्रसवर्गेण बहुलेन पापमित्रसमादायेन सद्धर्मान्तक समन्वागतेन आदिकर्मिकेण अत्यन्तरूपेण अपरिपृच्छकजातीयेन दुष्प्रज्ञसंवर्त्तनीयेन कुसीदेन हीनसत्वेन नाधिमुक्तेन कुशलेषु धर्मेषु अनभियुक्तेन तस्यैव हि सुभूते दुरधिमोचां प्रज्ञापारमितामुच्यते /
SK
पुनरपरं सुभूते यः कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां गम्भीरां भाषन्ति धारयि वाचयि देशयि पर्यवाप्स्यन्ति सो ऽतीतानागतप्रत्युत्पन्नानां भगवतां बुद्धबोधिं बोधिसत्त्वा धारयिष्यन्ति / तस्मात्तर्हि सुभूते अध्याशयेन भिक्षवो ऽनुत्तरायां सम्यक्सम्बोधिकामेनाभिज्ञ्यप्रज्ञापारमिता उद्गृहीतव्या /
SK
इदमवोचद् भगवान्नात्तमना सा च सर्वावती पर्वदीयं भगवतो भाषितमभिनन्दन्निति //
SK
अद्वयशतिका प्रज्ञापारमिता धारणी सूत्र समाप्ता

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Advayaśatikā prajñāpāramitā (sa_advayazatikA-prajJApAramitA.htm).

Source