The Complete Family of the Vine
Aśeṣakulavallarī
SK१अ) ॐ नमः श्रीश्रीत्रिपुराम्बिके || पञ्चवक्त्रोपि भगवानैश्वर्यस्योप्यनीश्वरः | स्तुतो यस्यामहम्वायांस्तां नमामि महेश्वरीम् || स जयति गुरुर्गरीयान् ज्ञानार्थतमो यद् उपदेशात् | गर्गान्वये समभवत् कविराजराजनीराजितांघ्रिकमलः सुलभागमः श्रीः | भूमीन्द्रमौलिमणिरञ्जितपादपीठः || समजनितनयोर्यतेन विद्यानिधानं निवसति विरजायां पूजनार्थं भवान्याः | स सकलगुणसिन्धु वंधुतुल्यो नृपाणां जगदुपकृतिकर्ता श्रीमहादेवभट्टः || तस्यात्मजः सकलसत्कविदासदासो निर्मत्सरः सकलतन्त्ररहस्यवेत्ता | अस्ता स्वरांघ्रि सरसीरुहदत्त चित्तो देव्यार्चने च निरतो गणनाथभट्टः || समालोक्यमियन्तेन देव्या श्रीवामिकामतम् | क्रियते पद्धतिः सम्यगशेषकुलवल्लरी || अथ गरुडाग्रजोदयवेलायां समुत्थायोपविश्य | निजशिरसि सहस्रारकमलकर्णिकाया || शितांशूपलसंकाशं शरच्चन्द्रनिभाननम् | | शुक्लमालालंकृतोरस्थलम् || वरदा भयालंकृत भुजद्वयविराजतीम् || वामाङ्कगदया स्वशक्त्या रक्तोत्पलधारिण्या दक्षिणेनालिङ्गित विग्रहम् || ज्ञानारविन्दमकरंदानंदितमानसम् || निजगुरुं ध्यात्वा अमुकानन्दनाथ अमुकशक्त्याम्वा युग्म श्रीपादुकाम् पूजयामि || इति मानसे गंधाक्षत कुसुमैरभ्यर्च्य नमस्कृत्य स्तुत्वा नित्यकर्माकरणार्थ मनुज्ञां प्राप्य श्रीगुरुं निजस्थाने विसज्यावश्यकार्थं विलमति जायात् || इति भट्टश्रीगणनाथविरचितायामशेषवल्लर्यां गुरुध्यानपद्धतिः प्रथमा ||
SKअथ दन्तधावनमुखप्रक्षालनादिकं विधाय स्नानकर्म समाचरेत् | तच्च वारूण भस्ममस्त्रादि वहुभेदम् | क्रामित्यकुशमुद्रया सवितृमण्डलातीर्थमावाह्य श्रीमूलविद्यावीजमंत्रयात्मकाविद्या शिवतत्वात्मिकानि च स्मृत्वा त्रिवारं निमज्य योनिमुद्रया सप्तवार स्वशिरस्यभिषेकं विधाया वम्यतीरमागत्यानुपहते वाससी परिधाय शुद्धभस्मनात्रिपुण्ड्रकानि विधायाचम्य आचमनविरुक्तमन्यत्र | अदुष्टे रसगन्धाढ्ये अकीटाफेन वुद्वुदे | अनुष्ठैरम्वुभिः शुद्धैराचमेऽभिवीक्षितैः | त्रिपूण्यायो द्विमू * न्याभिः समुप स्पृशेत् | हृत्कण्ठे तालुकाभिस्तु यथा संख्या द्विजातयः || शुद्धेरंस्त्रीश्च शूद्राश्च सकृत् पीतेन वारिति || अथ भस्ममंत्रविधिः || मंत्रितं प्रोक्षणोक्तैस्तु मन्त्रैस्तु स स्ववामके | करे विलोड्यते मन्त्री शिखादि चरणावधिः || १ब्) अभ्युक्षितेषु स्नानेषु त्रिपुण्डाश्च मन्त्रितम् | त्रिवार दक्षहस्तस्थ दिव्यमुद्रिकया पुनः || वामहस्तेन संप्रोक्ष्य त्रिवारमनुभिस्तुतैः | शिष्टयोतिर्मय * * ? मिलया कृष्य कुम्भयेत् || क्षालितान्तर्मलं त * रचयेद् दाक्षया पुनः | कृष्णातमंतमनुना क्षिपेद् वज्र शिलोपरि || इति स्नानविधिः || प्रोक्तः सर्वपापक्षयकरमिति | अशक्तानामधि पञ्चाङ्गरमानम् || तद्यथा || मणिवन्धादधो हस्तौ पादौ गुल्फं तथाननम् | क्षालयेतमानमेतस्याऽन्यभिधारयेत् | भस्मस्नानमिति प्रोक्तं मंत्रस्नानमथोच्यते || मंत्रशुद्धजलं मंत्रैः प्रोक्षणोक्तत् पञ्चाङ्ग्र?म्रै? atha sandhyāvidhirucyate || tatra karāṅgāni vinyasya savyakara ghṛta mūla saptābhi maṃtrita jalena svaśirasi saptavāraṃ mārjanaṃ kṛtvā tadavaśeṣa jalaṃ śivarūpaṃ dakṣakare kṛtvā itayāntaṃ kṛkṣakumbhitaniśilāyāt prakṣālanāt kṛṣṇarūpaṃ piṅgalayā virecya dakṣiṇayāsthitavajraśiloparihraḥ astrāya phaḍiti prakṣipya dakṣakara vidhṛta mūlasaptābhimantritajalaṃpītvā camya |
SKॐ ह्रीṁ श्रीṁ ह्राṁ ह्रीṁ सः मार्तण्डभैरवाय प्रकाशशक्तिसंहिताय स ग्रहराशिनक्षत्रतिथियोगपरिवारसहित सूर्याय स्वाहा | इति सूर्यार्घं दत्वा प्रविश्य तत्र त्रिकोणवृतचतुरस्रम्परिभाव्य गणेशवटुकौ चक्रवामदक्षिणतः संतर्प्य त्रिकोणवृत्तचतुरस्त्र्यन्तरागे ईशानादि वायव्यान्तं वक्ष्यमाणं गुरुपङ्क्तिसंतर्प्य त्रिकोणमध्ये ऋत्वासन मंत्रिर्वक्षमाणैः संतर्प्य कथ्यमानोक्तेन भगवतामावाह्य तथा ध्यात्वा परामृतधारया त्रिवारं मूलेन संतर्प्य कोणेषु कामेश्वर्यादि देवास्त्रयं समयविद्याया संतर्प्य चतुरस्र कोणेष्वङ्गदेवताध्यान पूर्वकं तर्पयेत् | ध्यानमुक्त श्रीमत् प्रपञ्चसारे | हारस्फाटिक कलयाञ्जनं पिङ्गलं वह्निरोचिषोललनाः | अभयवरोद्यतहस्ताः प्रधानतनवोङ्गदोवलाः कथिता | स्थान नियमस्तु श्रीसामभुजगवल्यां वेन्हो हृदमैशान्यां शिरोरात्रि वरो सि * * | वायोवर्मपुरे मंत्रे मंत्रं दिक्षु चतुष्टये | प्रनंति वारं भगवत्यै तर्पयेत् | ततो भगवती विसृज्य गायत्र्या जपमारभेत् | ऐं त्रिपुरा देवी विद्महे क्लीṁ कामेश्वरी धीमहि सौः तन्नो वामे प्रचोदयात् | इति गायत्री दशवारमावृत्य हंसः सोहमित्युपस्थांय तीर्थं विसृज्य नियत वचनो यागस्थाने यायात् | यागस्थां न नियमस्तु कथितमन्यत्र | गिरि पितृ च न लिङ्ग वृक्ष युद्ध ह्रदजल संगम चत्वरोग्रदेशे | अपि शिव गदितां विमुच्यशस्तं निज गृह एव हि पूजनं मुमुक्षोः | कालिका मते च | अरण्यं स्वल्प कामानां सिध्यर्थं पूजनं हितम् | २अ) निष्कामानां मुमुक्षुणां गृहे शस्तं सदार्चनम् || ऋषीणां मुनिमुख्यानां दीक्षितानां द्विजन्मनाम् | गृहेपि यजनं कार्यं रसैर्द्राक्षेषु सम्भवैः || इति भट्टश्रीगणनाथविरचितायामशेषकुलवल्लर्यां स्नानसंध्यातर्पणार्चनस्नाननियमपद्धतिर्द्वितीया || अथ सूर्यपूजा | प्राङ्गणे * नय जलैरालिप्यस्थण्डिलस्थण्डिलं शुभम् | तत्रासने समासीनः प्राङ्मुखः साधकोत्तमः | पूर्वगुरुं गणपतिं यथावदभिवन्दयेत् ||
SKप्रयोनज तिलकमंत्रस्य ब्रह्म-ऋषिर्गायत्री छन्दः सविता चतुर्विध पुरुषार्थे विनियोगः || ह्राṁ हस्तयोः | ह्रीṁ हस्ततलयोः | सः हस्तपृष्टयोः | ह्रीṁ पादाङ्गुलपर्यन्तम् | ह्रीṁ गुह्यात् कण्ठपर्यन्तम् | सः कण्ठाच्छिरपर्यन्तम् | न्यसेत् | ह्राṁ हृदयाय नमः | ह्रीṁ शिरसे स्वाहा | हूṁ शिखायै वौषट् | ह्रैṁ कवचाय हूṁ | ह्राṁ नेत्राय वौषट् | हूṁ अस्त्राय फट् | इति न्यासविधिः || एवं न्यस्तशरीरं सन्चितयेदुष्णदीधितीम् || रक्तांवुजासनमशेषगुणैक सिन्धुर्भानुः समस्तजगतामधिपम्भजामि | पद्मद्वयाभयवरां दधतं कण्यैर्माणिक्यमौलिमरुण्यङ्क रुचिं त्रिनेत्रम् | इति ध्यात्वा पुरतः कुंकुम सिन्दूरादिना सवितृमण्डलं वृत्ताकारमुपलिप्य मण्डलात्मजो मध्ये त्रिकोणवृत्त चतुरस्रमर्घ्याय परिकल्प्य तत्र पूर्वोक्तस्थानेषु हृदयादीनभ्यर्च्यार्घासनं प्रतिस्थाप्य अग्निमण्डलाय दश कलात्मने नमः | इति सम्पूज्य तत्र ताम्रपात्रं प्रतिष्ठाप्य सूर्यमण्डलाय द्वादश कलात्मने नमः | इति संपूज्य | पवित्र जलेनाभ्युक्ष्य | सोममण्डलाय षोडशकलात्मने नमः | इत्यभ्यर्च्य | हृदयादीनभ्यर्चयित्वा त्रासक मुद्रया मूलेन सप्तवारमभिमंत्र्य तज्जलेनात्मानं याग द्रव्याणि च संप्रोक्षयेत् | अथ स्वर्णपीठमर्चयेत् | तद्यथा | लṁ प्रभुतायै नमः | वṁ विमलायै नमः | रṁ रसायै नमः | हṁ परममुखायै नमः | इत्याग्नेयादि मध्यान्तम् | स्कन्दात्मने धर्माय नमः | लोमात्मने ज्ञानाय नमः | पंकेरुहात्मने वैराग्याय नमः | कणिकात्मने ऐश्वर्याय नमः | इत्युपर्युपरि | राṁ दीप्तायै नमः | रीṁ शूष्मायै नमः | रूṁ जयायै नमः | रṁ भद्रायै नमः | रैṁ विभूत्यै नमः | राṁ विमलायै नमः | रोṁ अमोघायै नमः | रṁ विद्युतायै नमः | रः सवतो मुख्यै नमः | इति शक्ति नवकं पूर्वादि दलमध्ये चाभ्यर्च्य | ३ ब्रह्मविष्णुशिवात्मक शौर्ययोगपीठाय नमः | इति समस्तमनुनाभ्यर्च्य ऐṁ ह्राṁ ह्रीṁ सः मार्तण्डभैरवाय मूर्तये नमः | २ब्)
SKइति स पुष्पकरांञ्जली प्रवाहं नाड्या वाह्यस्मिन्मण्डले सन्निधी भवेत् यावाह्य सकलीकृत्य पद्ममुद्रो प्रदर्श्य यथा सम्भवै रूपचारैरर्चयित्वा देवविग्रहे लयाङ्गदलमूलाग्नेयादि कोणेषु भोगाङ्ग पथाष्टदल पूर्वादि दिग्विक्षु सोṁ सोमाय नमः | वुṁ वुधाय नमः | वृṁ वृहस्पतये नमः | शुṁ शुक्राय नमः | अṁ अङ्गारकाय नमः | शṁ शनैश्चराय नमः | राṁ राहवे नमः | केṁ केतवे नमः | अṁ अरुणाय नमः | हृं?त्यग्ने हृदयादीनां धेनुमुद्रा गोविषाणमुद्रात्रासिनी मनोन्मनी मुद्राः प्रदर्शयित्वा पूर्वोक्त प्रकारेण ध्यायेत् | अथ गन्धपुष्पाक्षत धूपदीपनैवेद्य सहसलिलेनापूर्याङ्गैः संपूज्याष्टोत्तर शतवारमावर्स्यार्घं गृहीत्वा काशवर्ति सूर्यात्मनैक्यं भावयेत् | एṁ ह्रीṁ श्रीṁ ह्रीṁ फीṁ सः मार्तण्डभैरवाय प्रकाशशक्ति सहिताय स ग्रहराशि नक्षत्रतिथियोगपरिवारसहित शिवसूर्यासनस्थायै शिवशक्त्यात्मके श्रीमहाकामचैतन्येश्वरि अर्घ स्वधा | इत्यर्घं दत्वा | पद्मविम्वमुद्रे प्रदर्श्य मूलमंत्रोत्तर शतवारमावर्त्यार्घांवुना जपफलं वक्षमाणमंत्रेण निवेद्य स्तुत्वा प्रणम्य प्राङ्मुखार्घं दत्वा अस्त्रेण मूर्तिनं योज्य तेजोमयं भगवंतं निजहृदयतारा हृदिसंहारमुद्रया विलाप्याङ्गानि विन्यस्य * * त्यादिक * * * * * सः | इति चण्डाय निवेद्य हस्तौ पादौ प्रक्षाल्या चमेत् || इति भट्ट श्रीगणनाथविरचितायामशेषकुलवल्लर्यां सूर्यपूजापद्धतिस्तृतीया || अथ द्वारपूजा | यथा वालायान्यभ्युक्ष तस्य वामदक्षिण ताश्याया(?) रूपयधश्च |
SKऐṁ ह्रीṁ श्रीṁ गṁ गणपतये नमः | इक्षाṁ क्षेत्रपालाय नमः | ॐ द्वारश्रियै नमः | ॐ देहल्यै नमः | इत्याराध्य दक्षिणं पाद * * ः | प्रविश्य प्रकाश च नग्ना * कोणेषु | ॐ गṁ गणपतये नमः | ॐ दुṁ दुर्गायै नमः | ॐ वṁ वटुकाय नमः | ॐ क्षाṁ क्षेत्रपालाय नमः | इति संपूज्य | रत्नमण्डप पश्चिमद्वारमागत्य * * * लयास्ये * * * * * * कामदेवाय नमः | ॐ वां * * यपीत्यै नमः | ॐ * * * * नमः | ततो द्वारेषु रत्नमण्डपाभिमुखावरभयचिह्नितं ताः सरस्वत्याद्याः | तदुक्तम् | सोमभुजवल्ल्याः | सरस्वतीं श्रियं ३अ) मायां दुर्गां च तदनन्त * * द्र काली ततः स्वा * स्वाहा चैव शुभंकरी | लोकनेन दि * म्विघ्नानुत्सृज्य सिद्धाक्षत कुसुमान्यादायनारा च मुद्रया | ॐ अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः | विघ्नकर्तारो ये भूतास्ते नश्यन्ति शिवाज्ञया || ह्रः अस्त्राय फडित्यन्तः प्रक्षिप्यानिर्गच्छतानां विघ्नानां वामाङ्ग संकोचेन मार्गं प्रदाय वामपाद पुरसरमंतः प्रविश्य | ॐ ब्रह्मणे वास्त्वधिपतये नमः | इति मध्ये ||
SKअथासास्विन्द्रियादीन्पूजयेत् | तदुक्तं श्रीमत्प्रपंचसारे | इन्द्राग्नियमनिशाचरवरुणानिलशिवाधिपति विधयः | जात्यधिपहेति वाहन परिवारान्ताः क्रमेण यष्टव्याः | पीतपिङ्गलधूम्रो शुक्लश्च धूम्रशित शुक्लाः | काशारुणाम्वुजाभावे केशरवासवादयः प्रोक्ताः | अपि वाहनादिकं यथा | लाṁ इन्द्राय सुराधिपतये ऐरावत वाहनाय वज्रहस्ताय शक्तियुक्ताय साङ्गाय स परिवाराय नमः | राṁ आग्नेये तेनोधिपतये मेषारूढाय शक्ति हस्ताय शक्ति युक्ताय साङ्गाय सपरिवाराय नमः | शाṁ यमाय प्रेताधिपतये महिषारूढाय दण्ड हस्ताय शक्तियुक्ताय साङ्गाय सपरिवाराय नमः | क्षौṁ निर्-ऋतये रक्षोधिपतये तुरगरूढाय खड्गहस्ताय शक्तियुक्ताय साङ्गाय सपरिवाराय नमः | वाṁ वरुणाय जलाधिपतये मकरारूढाय वो सहस्ताय शक्तियुक्ताय साङ्गाय सपरिवाराय नमः | वाṁ वायवे प्राणाधिपतये एषारूढायाङ्कुशहस्ताय शक्तियुक्ताय साङ्गाय सपरिवाराय नमः | कुṁ कुवेराय यक्षाधिपतये मनुष्या रूढाय गदाहस्ताय शक्तियुक्ताय साङ्गाय सपरिवाराय नमः | ह्रीṁ ईशानाय विद्याधिपतये वृषारूढाय शूलहस्ताय शक्तियुक्ताय साङ्गाय सपरिवाराय नमः | आṁ अनन्ताय नागाधिपतये चक्रहस्ताय शक्तियुक्ताय साङ्गाय सपरिवाराय नमः | ॐ ब्रह्मणे विद्याधिपतये हंसारुढाय पद्महस्ताय शक्तियुक्ताय साङ्गाय सपरिवाराय नमः | तस्मिन् स्वकोमलमरुणासनं प्रकल्पयेत् | आसन नियमञ्चागमान्तरे | मेष व्याघ्रगतोक्ष ऋक्षतुरगत्वग्भिस्वु षट् | कर्मसु प्रत्येकं विविधासनानि भूमिः | जाताराक्ष शृङ्गस्तथा | मोक्षं भोगदमासनं च कुरुते उर्णं तथा वीरिजम् | वेत्रा च व मृगाजिनं शुभकरं सर्वं प्रतीतं वुधैः | एतेषां मध्ये हृद्यतमासनं परिकल्पयेत् | निषिद्धमपि | भूमौ भूपभयं कुलक्षयकरं वंशासनं रोगजम् | काष्ठं चैव तथासनं वं कुरुते शिलं महादुःखदम् | ३ब्)
SKफुल्लत्पल्लव मृतिकासन युतं तृणं च विद्वेषि कृत् | मेषा * मिज मासनादि सकलं मोक्षादि सिद्धिप्रदामिति | तत्रा * या शक्ति कमलासनाय नम इति संपूज्य || अथ गन्धाष्टकविरचित त्रिपुण्ड्रो मण्डित ललाटपत्रः | गन्धाष्टकम् | प्रपंचसारे | तद्वहुविधम् || अथ शाक्त प्रस्तुतात् | चन्दनकर्पूरागुरुकुंकुमकपिमासरोचनाचोराः | गन्धाष्टकञ्च शक्तिः सानिध्यकरं च लोकरंजनकृत् | अथ प्रकृत मनुसराम | प्रस्तन्यताला विराजमानवक्षःस्थलो दूर्वाक्षत कुसुम चिह्नितमस्वकोप्रासाननधन वदनो वासमुपविश्य वामदक्षिणपार्श्वयोर्नाम मुद्रया गुरुभ्यो नमः || गणपतये नमः | दुर्गायै नमः | क्षेत्रपालाय नमः | परमाचार्य गुरुभ्यो नमः | पूर्वसिद्धिगुरुभ्यो नमः | आदि सिद्धि गुरुभ्यो नमः | इत्येतान् स्वशिरसि नत्वा करशुद्धिं समाचरेत् | न्यासानां मध्ये कथमादौ करे शुद्धिः | इत्याशक्यागमान्तरे | तत्रादौ करयोः शुद्धिः कर्तव्यावरवर्णिनि | ताभ्यामन्यानि वस्तूनि शोधयेत् सर्वकर्मसु | तथा च मूलसूत्रे || सर्वाघ विद्यया देवि करशुद्धिन्तु कारयेदिति || तद्यथा || अं मध्यमाभ्यां नमः | अं अनामिकाभ्यां नमः | सौंः कनिष्ठिकाभ्यां नमः | अṁ अङ्गुष्ठाभ्यां नमः | आṁ तर्जनीभ्यां नमः | सौंः करपुटाभ्यां नमः | त्रिभिः करतलाभ्यां नमः | तैः कोर्यानाभ्यां नमः | इति पुनस्वेण तालत्रय दिग्वंधनानि कुर्यात् | अथ प्राणायामं समाचरेत् | ततश्चतुः षष्ठिमात्राभिः कुम्भल * त् | क्रमेण तदद्वाभिरेचयेत् | इति प्राणायामं कृत्वाऽसन षट्कं न्यसेत् | तद्यथा |
SKऐṁ क्लीṁ सौः त्रिपुरेश्वरि अमृता न वामनाय नम इति पादयोः | ऐṁ क्लीṁ ह्सीṁः त्रिपुरसुन्दरि * तांवुजा * य नम इति जान्वेः | ह्रीṁ क्लीṁ * * * * ह्सṁ ह्स्वीṁ ह्सौṁः त्रिपुरमालिनि सर्वमंत्रासनाय नम इति | * * * | ह्रीṁ क्लाṁ क्लोṁ त्रिपुरादि सिद्धेश्वरि साध्य सिध्यसनाय नम इति मूलाधारे | इति षदासनानि विन्यसेत् | ऐṁ क्लीṁ ह्सो त्रिपुरसुन्दरि आत्मानं रक्षेदिति हृदये | ऐṁ क्लीṁ सौः ह्रः अस्त्राय फट् तालत्रय दिग्वंधनान्यग्नि प्राकारं विदध्याद्धृत शुद्ध्यर्थमुक्तं श्रीकेशवाचार्ये | ततस्तु मंत्रेण विशोध्य पाणात्रित्पलदिग्वन्धन गताशशालाम् | विधाय भूतात्मकमेतदिङ्ग विशोधयेदुद्धिमति(?) क्रमेण | ततः स्वप्न?स्यावर्त्मनाह स वीजेनात्मना परमनिपोक्षयेदिति वायुवीजेन ससोक्षरमिति वह्निवीजेन देहं निर्दहेत् | ४अ) वमिति वरुण वीजेनामृतान्त सा देहमाप्लावयेत् | लमिति भूमि वीजेन देहावयवं कारयेत् | ततो जीवं स्वस्थानमानीय मंत्रध्यानं समाचरेत् | तद्यथा | मूलाधारे हृदये भ्रूमध्येषु वह्निसूर्यसोममण्डलानि दशयादस(?) षोडशदलात्मकानि मूलवाशुषकामराजशक्तिवीजाधिष्ठितानि परस्पर संशक्तनादाग्नाणि तडिदूक्तशितोभानि ब्रह्मरन्ध्रावधि विभाव्य वक्ष्यमाणो मृतकुण्डलिनी रूपविनिर्गताभिः परामृतधाराभिस्तुरीय विद्यामुच्चरन्नात्मतनुमभिषिच्य कराङ्गं न्यसेत् | तद्यथा | ऐṁ क्लीṁ सौः त्रिपुरसुन्दरीं अङ्गुष्ठाभ्यां नमः | ॐ त्रिपुरसुन्दरि अनामिकाभ्यां नमः | ॐ त्रिपुरसुन्दरि कनिष्टाभ्यां नमः | ॐ त्रिपुरसुन्दरि करपुटाभ्यां नमः | अथ सर्वेषां मंत्राणां मातृभूतत्वान् मातृकान्यासं कुर्यात् | तद्यथा |
SKमातृकान्यासस्य ब्रह्म * * गायत्री छन्दो मातृका सरस्वती देवता ह्नौ वीजानि सुराः शक्तयश्चतुर्विध पुरुषार्थे विनियोगः | स्थानं मुक्त श्रीमत्प्रपञ्चसारे | ऋषिगुरुत्वाच्छिरसि वृद्धायेन छंदोक्षरत्वा * रसना गतं स्यात् | धिया वगन्तव्य न या स देह हृदि प्रदिष्टा मनुदेवता चेति | अṁ कṁ खṁ गṁ घṁ डṁ आ हृदयाय नमः | इṁ चṁ छṁ जṁ झṁ ञṁ ई शिरसे स्वाहा | उṁ टṁ ठṁ डṁ ढṁ णṁ शिखायै वषट् | एṁ तṁ थṁ दṁ धṁ नṁ ए कवचाय हूṁ | अṁ पṁ फṁ बṁ भṁ मṁ ऐṁ नेत्राय वौषट् | अṁ यṁ रṁ लṁ वṁ शṁ षṁ सṁ हṁ आ अस्त्राय फट् | इति तालत्रय शिखावंधनानि विधायता ध्यायेत् | स्वस्वमुद्राभिः | षडंगं न्यसेत् | अङ्गुष्ठ मध्यमानामिकाभिर्हृदयम् | अङ्गुष्ठानामिकाभ्यां शिरः | उन्नताङ्गुष्ठमुष्टिना शिखा | विपरीत कराभ्यामष्टकादारभ्य पादपर्यन्त स्पर्शनं कवचम् | तर्जनी मध्यमानामिकाभिर्नेत्रम् | तर्जन्यङ्गुष्ठच्छोटिकाभिरस्तम् | पंचाशल्लिपिभिर्विभक्त मुखापाप न मध्यवक्षःस्थलाभास्वत्मालिनिवद्ध चन्द्रशकलामापी नत्तुङ्गस्तनीम् | मुद्रामक्षगुणशुध्येढ्य कलशविद्याञ्च हस्ताम्वुजे विभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये | इति ध्यात्वाऽरन्यासं समाचरेत् | तदुक्तं श्रीमत्प्रपंचसारे | काननवृत्त ह्यक्ष श्रुतिनो गण्डाष्ट दन्तमूर्धास्ये | दोः पत्सध्योग्रेषु च पार्ष्णि द्वय पृष्टनाभि जठरेषु | रुद्रो * शूलापरगलकक्षेषु हृदानि पाणिपादयुगेषु | जठराननयोर्व्यापक संज्ञां न्यसेदथाक्षरान्क्रम इति | अथ देह पीठरुधं स्रावयेत् | तदुक्तं श्रीमल्लक्षण देशिकेन्द्रेण | कल्पयेदात्मनो देहं पीठधर्माभिः क्रमात् | अंसोरुयुग्मयोर्विद्वान् प्रादक्षिण्येन देशिकः | धर्मज्ञानं स वैराग्यमैश्वर्य न्यस्यं तु क्रमात् | ४ब्)
SKमुख पार्श्वनाडि पार्श्वे सुधर्मादीन् प्रकल्पयेत् | धर्मादयः स्मृताः पादाः पीठगात्राणि चापरेति | हृदयेऽनन्ताय नमः | पद्माय नमः | सूर्यमण्डलाय नमः | सोममण्डलाय नमः | मṁ वह्निमण्डलाय नमः | सṁ शत्वाय नमः | रैं रमसे नमः | तṁ तमसे नमः | इत्युपर्यु परिकल्पयेत् | एवं पीठमयो देहे चिंतयेत् परदेवताम् | ततः पद्मनिभा देवी वालार्क किरणोरुणाम् || जवाकुसुमसंकाशं दाडिमी कुसुमोपमम् | पद्मरागप्रतीकाशां कुंकुमोदकसंनिभम् || स्फुरन्मुकु * माणिक्य किंकिणी जालमण्डिताम् | कालालि कुलसंकाशं कुटिलालकपल्लवाम् || प्रगारुणसंकाशवदनाम्भोजमण्डलाम् | किंचिदर्धेन्दु कुटिल ललाट मृदुपट्टिकाम् || पिनाकधनुराकारं भ्रूवन्ध परमेश्वरीम् | आनन्दमुदिताह्लाद लोलान्दोलित लोचनाम् || स्फुरन् मयूख संघात विलसद्व्योमकुण्डलाम् | सुगण्डमण्डलाभोग जितेन्द्रमृतमण्डलाम् || विश्वकर्मादि निर्माल्यः सूत्रं सुस्पष्टनायिकाम् | ताम्रविद्रुमविश्वाभ रक्तोष्णी ममृतोपमाम् || स्मितमापूर्यविजितमाधूर्य रससागराम् | अनोपेत गुणोपेत चिवुको देशशोभिताम् || कम्वुग्रीवां महादेवीं मृडालललितैर्मुजैः | रक्तोत्पलदलाकारसुकुमारकराम्वुजाम् || कराम्वुजनखज्योतिर्वितानित भस्म