Stages of Meditation Bhāvanākrama
Bहावनाक्रम
1 SK आचार्यकमलशीलप्रणीतो Bहावनाक्रमः प्रथमः [महायानसूत्राणां य आदिकर्मिकस्य चर्यानियमः / तमधिकृत्य संक्षेपाद् भावनाक्रमस्त्वभिधीयते //
2 SK अचिरेण सर्वज्ञतां प्राप्तुकामैः संक्षेपतः करुणा, बोधिचित्तम्, प्रतिपत्तिश्चेति त्रिषु स्थानेषु प्रयतितव्यम् /
3 SK बुद्धत्वस्य अशेषधर्महेतुमूलं करुणैवेति ज्ञात्वा सादावेव भावयितव्या / यथोक्तम् आर्यधर्मसंगीतिसूत्रे- ᳚अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महसत्त्वो भगवन्तमेतदवोचत्- न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम् / एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधितः सुप्रतिविद्धः कर्तव्यः / तस्य सर्वबुद्धधर्माः करतलगता भवन्ति / कतम एकधर्मः? यदुत महाकरुणा / महाकरुणया भगवन् बोधिसत्त्वानां सर्वबुद्धधर्माः करतलगता भवन्ति / तद्यथा भगवन् येन राज्ञश्चक्रवर्तिनश्चक्ररत्नं गच्छति तेन सर्वो बलकायो गच्छति, एवमेव भगवन् येन बोधिसत्त्वस्य महाकरुण गच्छति, तेन सर्वे बुद्धधर्मा गच्छन्ति / तद्यथा भगवन् जीवितेन्द्रिये सति अन्येषामिन्द्रियाणां प्रवृत्तिर्भवति, एवमेव भगवन् महाकरुणायां सत्यामन्येषां बोधिसत्त्वानां] धर्माणां प्रवृत्तिर्भवति /᳚ इति /
4 SK आर्याक्षयमतिनिर्देशे चोक्तम्- ᳚पुनरपरम्, भदन्त शारद्वतीपुत्र, बोधिसत्त्वानां महाकरुणाप्यक्षया / तत् कस्य हेतोः? पूर्वङ्गमत्वात् / (Bह्क् १६६) तद्यथापि नाम, भदन्त शारद्वतीपुत्र, आश्वासाः [प्रश्वासाः] पुरुषस्य जीवितेन्द्रियस्य पूर्वङ्गमाः, एवमेव महायान-सम्भार-समुदागमाय बोधिसत्त्वस्य महाकरुणा पूर्वङ्गमा᳚ इति विस्तरः / आर्यगयाशीर्षे चोक्तम्- ᳚किमारम्भा, मञ्जुश्रीः, बोधिसत्त्वानां चर्या, किमधिष्ठाना च? मञ्जुश्रीराह- महाकरुणारम्भा, देवपुत्र, बोधिसत्त्वानां चर्या सत्त्वाधिष्ठाना / ᳚इति विस्तरः /
5 SK तथा हि तया प्रेर्यमाणा बोधिसत्त्वाः स्वात्मनिरपेक्षा एकान्तेन परोपकारार्थतया अतिदुष्करदीर्घकालिके ऽपि सम्भारोपार्जनपरिश्रमे प्रवर्तन्ते / तथा चोक्तम् आर्यश्रद्धाबलाधाने- ᳚तत्र [महा]करुणयापि सर्वसत्त्वपरिपाचनार्थं न तत् किञ्चित् सुखोपाधानं यन्न परित्यजति / ᳚इति / अतो ऽतिदुष्करे प्रवर्तमानो नचिरेणैव सम्भारान् परिपूर्यावश्यमेव सर्वज्ञपदम् अधिगच्छति / ततो बुद्धधर्माणां करुणैव मूलम् / महाकरुणापरिग्रहादेव बुद्धा भगवन्तो ऽधिगम्य सर्वज्ञपदम् अशेषस्य जगतो ऽर्थ विकुर्वाणास्तिष्ठन्त इति निर्वाणाप्रतिष्ठाने सैव भगवतां महाकरुणा हेतुः /
6 SK सा च दुःखितसत्त्वालम्बनमनस्कारबहुलीकारतो वृद्धिम् (उपयाति) / सर्वे च ते सत्त्वास्त्रिधातुकावचरास्त्रिविधदुःखतया यथोयोगम् अत्यन्त दुःखिता एवेति सर्वेष्वेव सत्त्वेषु भावनीयम् / तथा च ये तावन्नारकास्ते विविधचिरन्तनदीर्घकालिकदाहादिदुःख [नदीषु] निमग्ना एव भगवता वर्णिताः / तथा प्रेता अपि दुःसहतीव्रक्षुत्तृषादिदुःख[अग्नि] (Bह्क् १६७) पीडाभिसंशोषितमूर्तयस्तीव्रदुःखम् अनुभवन्ति / येन वर्षशतेनाप्यशुचिं खेटपिण्डनं च भोक्तुं न लभन्त इत्यादि वर्णितं भगवता / तिर्यञ्चो ऽपि परस्पर[भक्षण]क्रोधवधहिंसादिभिरनेकविधं दुःखमनुभवन्तो दृश्यन्त एव / तथा हि केचिन्नासिकाभेदनताडाणबन्धनादिभिरतन्त्रीकृतशरीराः परितः परिपीडयमानाः कथमप्यनिच्छन्तो ऽपि अतिदुर्वहगुरुभारोद्वहनपरिखिन्नवपुषः परिक्लाम्यन्ति, तथारण्ये ऽपि निवसन्तो ऽनपराधाः केचित् क्वचित् [अर्थ]तो ऽन्विष्य हन्यन्ते / नित्यं च भयविव्हलमानसस्ततस्ततः पलायमानास्तिष्ठन्तीत्यपरिमितम् एषां दुःखं दृश्यत्त एव / तथा मानुष्ये ऽपि नारकं दुःखं दृश्यत एव / अत्र ये चौरादयो ऽङ्गच्छेदशूलार्पणोद्बन्धनादिभिः कार्यन्त एव तेषां नारकमेव दुःखम् / ये च दारिद्रयद्युपहतास्तेषां प्रेतानामिव तत्क्षुत्तर्षाडिभिर्दुःखम् / ये च भृत्यादयः परायत्तीकृतात्मभावाः, ये च बलिभिराक्रम्य पीडयन्ते तेषां तिरश्चामिव ताडनावरोधनादि दुःखम् / तथा पर्येष्टिकृतम् अन्यो ऽन्यद्रोहोपघातादि कृतं प्रियविप्रयोगाप्रियसंयोगकृतं चाप्रमेयमेषां दुःखम् / ये क्वचिद् ईश्वराः सुखिता इव लप्यन्ते ते ऽपि विपर्यवसानसम्पदो विविधकुदृष्टिगहननिमग्ना नारकादिदुःखानुभवहेतुविविध क्लेशकर्माण्युपचिन्वन्तः प्रपातस्थास्तरव इव दुःखहेतौ [अपि] वर्तमानाः परमार्थतो दुःखिता एव /
7 SK देवा अपि ये तावत् कामावचरास्ते ऽपि तीव्रकामाग्निसन्दीप्तमानसा आक्षिप्तचित्ता इवास्वच्छचेतसः क्षणमपि समाधानं चेतसां न लभन्ते / तेषां प्रशमसुखधनदरिद्राणां कीदृशं नाम तत् सुखम्? नित्यच्यवनपतनादिभयशोकोपहताः कथं सुखिता नाम? ये च रूपारूपावचरास्ते ऽपि (Bह्क् १६८) यदि नाम कियत्कालं दुःखदुःखतां व्यतीतास्तथाप्यत्यन्तं कामावचराणाम् अनुशयानाम् अप्रहाणात् तेषां पुनरपि नारकादिविनिपातसम्भवाद् विपरिणामदुःखम् अस्त्येव / सर्वे नाम देवमनुष्याः क्लेशकर्मादिपारतन्त्र्यात् ते संस्कारदुःखतया दुःखिता एव /
8 SK तदेवं सकलमेव जगद् दुःखग्निज्वालावलीढम् इत्यवेत्य यथा मम दुःखमप्रियं तथान्येषामप्रियमिति चिन्तयता सर्वेष्वेव सत्त्वेषु कृपा भावनीया / प्रथमं तावद् मित्रपक्षेषु पूर्वोक्ता विविधदुःखानुभवेष्वनुपश्यता भावनीया /
9 SK ततः सत्त्वसमतया विशेषमपश्यतानादिमति च संसारे न कश्चित् सत्त्वो यो न मे शतशो बन्धुरभूदिति परिचिन्तयता व्यस्तेषु भावनीया / यदा मित्रपक्षेष्विव व्यस्तेषु [अपि] तुल्या करुणा प्रवृत्ता भवति, तदा शत्रुपक्षे ऽपि तथैव सत्त्वसमतादिमनसिकारेण भावनीया / यदा च शत्रुपक्षे ऽपि मित्रपक्षवत् समप्रवृत्ता भवति, तदा क्रमशो दशसु दिक्षु सर्वसत्त्वेषु [अपि] भावयेत् / यदा च दुःखितबालप्रियेष्विव दुःखोद्धरणेच्छाकारा स्वरसवाहिनी सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति, तदा सा निष्पन्ना भवति महाकरुणाव्यपदेशं च लभते / यथा अक्षयमतिसूत्रे च वर्णितम् / अयं च कृपाभावनाक्रमो भगवताभिधर्मसूत्रादौ वर्णितः /
10 SK तस्यैवं कृपाभ्यासबलात् सकलसत्त्वाभ्युद्धरणप्रतिज्ञयानुत्तरसम्यक्सम्बोधिप्रार्थनाकारम् अयत्नत एव बोधिचित्तमुत्पद्यते / यथोक्तम् आर्यदशधर्मसूत्रे- ᳚सत्त्वान् अत्राणान् अशरणान् अद्वीपान् दृष्ट्वा करुणायै चित्तमुपस्थाप्य यावदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति᳚ इति / यदि नाम परसमादापनादिनापि बोधिसत्त्वस्य महासत्त्वस्य बोधिचित्तमुत्पद्यते, तथापि कृपावेगतो यत् स्वयमेव बोधिसत्त्वस्य बोधिचित्तमुत्पद्यते (Bह्क् १६९) तद् भगवता आर्यतथागतज्ञानमुद्रासमाधौ विशिष्टतरत्वेन वर्णितम् /
11 SK तदेतद् बोधिचित्तं प्रतिपत्तिविकलमपि संसारे महाफलं भगवता वर्णितम् / तथा चोक्तं मैत्रेयविमोक्षे- ᳚तद् यथापि नाम, कुलपुत्र, भिन्नमपि वज्ररत्नं सर्वम् अतिविशिष्टं सुवर्णालङ्कारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्रयं च विनिवर्तयति / एवमेव, कुलपुत्र, प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालङ्कारम् अभिभवति / बोधिचित्तनाम न विजहाति, संसारादारिद्रयं च विनिवर्तयति᳚ इति /
12 SK यो ऽपि पारमितासु सर्वेण सर्वं सर्वथा शिक्षितुम् असमर्थः, तेनापि बोधिचित्तम् उत्पादनीयमेव, उपायपरिग्रहेण महाफलत्वात् / यथा चोक्तम् आर्यराजाववादकसूत्रे- ᳚यास्मात् त्वं महाराज, बहुकृत्यो बहुकरणियः, असहः सर्वेण सर्वं सर्वथा दानपारमितायां शिक्षितुम्, यावत् प्रज्ञापारमितायां शिक्षितुम् / तस्मात्तर्हि त्वं महाराज एवमेव सम्बोधौ छन्दं श्रद्धां प्रार्थनां प्रणिधिं च, गच्छन्नपि तिष्ठन्नपि निषण्णो ऽपि शयानो ऽपि जाग्रदपि भुञ्जानो ऽपि पिबन्नपि, सततसमितम् अनुस्मर, मनसिकुरु भावय / सर्वबुद्धबोधिसत्त्वार्य श्रावकप्रत्येकबुद्धपृथग्जनानाम् आत्मनश्च अतीतानागतप्रत्युत्पन्नानि कुशलमूलानि पिण्डयित्वा, अनुमोदस्व अग्रया अनुमोदनया / अनुमोद्य च सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्माणि निर्यातय / निर्यात्य च सर्वसत्त्वसाधारणानि कुरु / ततः सर्वसत्त्वानां यावत् सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने (Bह्क् १७०) त्रैकाल्यम् अनुत्तरायां सम्यक्संबोधौ परिणामय / एवं खलु त्वं महाराज, प्रतिपन्न, सन् राज्यं च कारयिष्यसि, राज्यकृत्यानि च न हापयिस्यसि, [बोधिसम्भारांश्च परिपूरयिष्यासि]᳚ / इत्यादि कमुक्त्वाह- ᳚अथ खलु पुनस्त्वं महाराज, सम्यक्सम्बोधिचित्तकुशलमूलविपाकेन अनेककृत्यो देवेषु उपपन्नो ऽभूः / अनेककृत्यो मनुष्येषु उपपन्नो ऽभूः / सर्वासु च देवमनुष्योपपत्तिषु आधिपत्यं कारयिष्यसि᳚ / इति विस्तरः /
13 SK यत् पुनः प्रतिपत्तिसारं बोधिचित्तं तद् अतितरां विपुलं फलम् इति सिद्धिम् / अत एव आर्यवीरदत्तपरिपृच्छायाम् उक्तम्-
14 SK बोधिचित्ताद् वै यत् पुण्यं तच्च रूपि भवेद् यदि / आकाशधातुं सम्पूर्य भूयश्चोत्तरितं भवेत् //
15 SK गङ्गाबालुकसंख्यानि बुद्धक्षेत्राणि यो नरः / दद्याद् रत्नप्रपूर्णानि लोकनाथेभ्य एव हि //
16 SK यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामति / इयं विशिष्यते पूजा यस्या अन्तो न विद्यते // इति /
17 SK यथा आर्यगण्डव्यूहे वर्णितम्- ᳚बोधिचित्तं कुलपुत्र! बीजभूतं सर्वबुद्धधर्माणाम्᳚ इति विस्तरः / तच्च बोधिचित्तं द्विविधं प्रणीधिचित्तं प्रस्थानचित्तं च / आर्यगण्डव्यूहे वर्णितम्, तथा- ᳚र्दुर्लभास्ते, कुलपुत्र, सत्त्वाः सत्त्वलोके ये ऽनुत्तरायां सम्यक्सम्बोधौ प्रणिदधति इति / ततो ऽपि दुर्लभतमास्ते सत्त्वा ये ऽनुत्तरां सम्यक्सम्बोधिम् अभिसम्प्रस्थिताः᳚ इति / सकलजगतो हिताय बुद्धो भवेयमिति प्रथमतरं प्रार्थनाकारा चेतना (Bह्क् १७१) तत्प्रणिधिचित्तम् / यतः प्रभृति संवरग्रहणे वर्तमानाः सम्भारेषु दृश्यन्ते तत्प्रस्थानचित्तम् /
18 SK संवरश्च विज्ञातप्रतिबलसंवरस्थितात् कल्याणमित्रात् परतो ग्राह्यः / असति प्रतिरूपे ग्राहके बुद्धबोधिसत्त्वान् आमुखीकृत्य यथा मञ्जुश्रीयाम्बरराजभूतेन बोधिचित्तमुत्पादितं तथोत्पादनीयः / एवमुत्पादितबोधिचित्तो बोधिसत्त्वः स्वयमेव दानादि ददाति प्रतिपत्तौ प्रयोक्ष्यते, न हि स्वयमदान्तः परान् दमयतीति मत्त्वा / न चापि विना प्रतिपत्त्या बोधिरवाप्यते / यथोक्तम् आर्यगयाशीर्षे- ᳚प्रतिपत्तिसाराणां बोधिसत्त्वानां बोधिर्नाप्रतिपत्तिसाराणाम्᳚ इति / आर्यसमाधिराजे चोक्तम्- ᳚तस्मात् प्रतिपत्तिसारो भविष्यामि इत्येवं त्वया कुमार, शिक्षितव्यम् / तत् कस्य हेतोः? प्रतिपत्तिसारस्य हि, कुमार, न दुर्लभा भवत्यनुतरा सम्यक्संबोधिः᳚ इति /
19 SK सा च प्रतिपत्तिर्बोधिसत्त्वस्य पारमिताप्रमाणसङ्ग्रहवस्त्वादिभेदेन अक्षयमतिरत्नमेघादिसूत्रेषु विस्तरेण वर्णिता / तथा लौकिकशिल्पादिस्थानेष्वपि यावद् बोधिसत्त्वेन शिक्षितव्यम् / किं पुनर्लोकोत्तरेषु ध्यानादिषु / अन्यथा कथं सर्वाकारं सत्त्वार्थं कुर्युः / सा चेयं संक्षेपेण बोधिअत्त्वस्य प्रज्ञोपायरूपा प्रतिपत्तिर्न प्रज्ञामात्रं नोपायमात्रम् / यथा आर्यविमलकिर्तिनिर्देशे- ᳚प्रज्ञारहित उपाय उपायरहिता च प्रज्ञा बोधिसत्त्वानां बन्धनम्᳚ इत्युक्तम् / उपायसहिता प्रज्ञा प्रज्ञासहिता उपायो मोक्षत्वेन वर्णितः / आर्यगयाशीर्षे चोक्तम्- ᳚द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ / द्वाभ्यां मार्गाभ्यां समन्वागता बोधिसत्त्वा महासत्त्वाः क्षिप्रमनुत्तरां (Bह्क् १७२) सम्यक्संबोधिम् अभिसम्भोत्स्यन्ते / कतमौ द्वौ, उपायश्च प्रज्ञा च / ᳚इति /
20 SK तत्र प्रज्ञापारमितां त्यक्त्वा दानादिपारमितासङ्ग्रहवस्त्वादिकं सर्वमेव क्षेत्रपरिशुद्धिमहाभोग[बहु] परिवारसम्पत्सत्त्वपरिपाकनिर्माणादिकसकलाभ्युदयधर्मसङ्ग्राहकं कुशलम् उपाय उच्यन्ते / प्रज्ञा तु तस्यैव चोपायस्याविपरीतस्वभावपरिच्छेदहेतुः / तया हि सम्यगुपायं विविच्याविपर्यस्तो यथावत् स्वपरार्थानुष्ठानाद् विषमिव मन्त्रपरिगृहीतं भुञ्जानो न संक्लिश्यते / तथा चोक्तमत्रैव सुत्रे- ᳚उपायः सङ्ग्रहज्ञानम् प्रज्ञा परिच्छेदज्ञानम् /᳚ इति / आर्यश्रद्धाबलाधाने चोक्तम्- ᳚उपायकौशलं कतमम्? यत् सङ्ग्रहः सर्वधर्माणां / प्रज्ञा कतमा? यत् सर्वधर्माणाम् असम्भदेन कौशलम्᳚ इति / एतौ प्रज्ञोपायौ द्वावपि सर्वकालमेव सेवनीयौ भूमिप्रविष्टैरपि न तु प्रज्ञामात्रं नोपायमात्रम् / यतः सर्वास्वेव दशसु भूमिषु बोधिसत्त्वस्य पारमितासमुदाचारः पठितो दधभूमिकादौ ᳚न च परिशेषासु न समुदाचरति᳚ इति वचनात् /
21 SK अष्टम्यां च भूमौ बोधिसत्त्वस्य शान्तविहारिणो बुद्धैर्व्युत्त्थानं तद् विरुध्येत / तच्च ततस्तत्र पाठाद् अवगन्तव्यम् / [तथा चोक्तं तत्रैव सूत्रे] ᳚तस्य खलु भो जिनपुत्र, बोधिसत्त्वस्य एवमिमामचलां बोधिसत्त्वभूमिमनुगतस्य पूर्वप्रणिधानबलाधानस्थितस्य बुद्धा भगवन्तस्तस्मिन् धर्ममुखस्त्रोतसि तथागतज्ञानोपसंहारं कुर्वन्ति / एवं चैन ब्रुवन्ति- साधु (Bह्क् १७३) साधु कुलपुत्र / एषा परमार्थक्षान्तिर्बुद्धधर्मानुगमाय / अपि तु खलु पुनः कुलपुत्र, या अस्माकं दशबलचतुर्वैशारद्यबुद्धधर्मसमृद्दिः, सा तव नास्ति / तस्या बुद्धधर्मसमृद्धेः पर्येषणाय अभियोगं कुरु, वीर्यमारभस्व / एतदेव क्षान्तिमुखं मोन्मोक्षीः / अपि तु खलु पुनः कुलपुत्र, किं चापि त्वयैवं शान्तविमोक्षविहारो ऽनुप्राप्तः, इमान् पुनरशान्तानप्रशान्तान् बालपृथग्जनान् नानाक्लेशसमुदाचारप्राप्तान् विविधवितर्कोपहतमानसान् समन्वाहर, अपेक्षस्व / अपि तु खलु पुनः कुलपुत्र, पूर्वप्रणिधानमनुस्मर सत्त्वार्थसंप्रापणं ज्ञानमुखाचिन्त्यतां च / अपि तु खलु पुनः कुलपुत्र, एषा सर्वधर्माणां धर्मता / उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मधातुस्थितिः यदिदं सर्वधर्मशून्यता सर्वधर्मानुपलब्धिः / नैतया तथागता एव केवलं प्रभाव्यन्ते, सर्वश्रावकप्रत्येकबुद्धा अपि ह्येतामविकल्पधर्मतामनुप्राप्नुवन्ति /
22 SK अपि तु खलु पुनः कुलपुत्र, प्रेक्षस्व तावत् त्वमस्माकं कायाप्रमाणतां च ज्ञानाप्रमाणतां च बुद्धक्षेत्राप्रमाणतां च ज्ञानाभिनिर्हाराप्रमाणतां च प्रभामण्डलाप्रमाणतां च स्वराङ्गविशुद्धयप्रमाणतां च / तथैव त्वमप्यभिनिर्हारमुत्पादय / अपि तु खलु पुनः कुलपुत्र, एकस्त्वेष आलोको यो ऽयं सर्वधर्मानिर्विकल्पालोकः / ईदृशास्तु कुलपुत्र, धर्मालोकास्तथागतानामपर्यन्तगता अपर्यन्तकृता अपर्यन्तबद्धाः, येषां संख्या नास्ति, गणना, प्रमाणमुपनिषदौपम्यं नास्ति, तेसामधिगमाय अभिनिर्हारमुत्पादय / अपि तु खलु पुनः कुलपुत्र, प्रेक्षस्व तावद् दशसु दिक्षु अप्रमाणक्षेत्रतां च अप्रमाणसत्त्वतां च अप्रमाणधर्मविभक्तितां च / तत्सर्वमनुगणय / यथावत्तया अभिनिर्हारमुत्पादय / ᳚इति हि भो जिनपुत्र, ते बुद्धा भगवन्त (Bह्क् १७४) एवं भूम्यनुगतस्य बोधिसत्त्वस्य एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि ज्ञानाभिनिर्हारमुखान्युपसंहरन्ति, यैर्ज्ञानाभिनिर्हारमुखैर्बोधिसत्त्वो ऽप्रमाणज्ञानविभक्तितो ऽभिनिर्हारकर्माभिनिष्पदयति / ऽ आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि / ते चेद् बुद्धा भगवन्तस्तं बोधिसत्त्वमेवं सर्वज्ञज्ञानाभिनिर्हारमुखेषु नावतारयेयुस्तदेवास्य परिनिर्वाणं भवेत्सर्वसत्त्वकार्यप्रतिप्रस्रब्धिश्च /᳚ इति विस्तरः /
23 SK यच्च आर्यविमलकीर्तिनिर्देशे गयाशीर्षे चोक्तं तदपि पूर्वोक्तं विरुध्यते, एवं सामान्येनैव तत्राभिधानात् / यत् सर्वधर्मसङ्ग्रहवैपुल्ये चोक्तं तदपि विरुध्यते / एव / तत्रोक्तम्- ᳚सूक्ष्मं हि मञ्जुश्रीः, सद्धर्मप्रतिक्षेपकर्मावरणम् / यो हि कश्चिन्मञ्जुश्रीः, तथागतभाषिते धर्म एकस्मिन् शोभनसंज्ञाम् उत्पादयति / एकस्मिन्नशोभसंज्ञाम् उत्पादयति / स सद्धर्मं प्रतिक्षिपति / तेन सद्धर्मं प्रतिक्षिपता तथागतो ऽभ्याख्यातो भवति᳚ इति विस्तरम् उक्त्वा आह- ᳚यो ऽयं मैत्रेय, षट्पारमितासमुदागमो बोधिसत्त्वानां बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति / प्रज्ञापारमितायामेव बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति / ते ऽन्या मुपायपारमितां दूषयितव्यां मन्यन्ते / तत् किं मन्यसे, अजित! दुष्प्रज्ञः स काशिराजो ऽभूद् येन कपोतार्थ श्येनाय स्वमांसानि दत्तानि? मैत्रेय आह, नो हीदम्, भगवन् / भगवानाह- यानि मया मैत्रेय, बोधिसत्त्वचर्यां चरता षट्पारमितासंयुक्तानि कुशलमूलान्युपचितानि / अपकृतं नु तैः कुशलमूलैः? मैत्रेय आह- नो हीदं भगवन् / भगवान् आह, त्वं तावद् अजित, दानापारमितायां षष्टिं कल्पान् समुदागतः / यावत् प्रज्ञापारमितायां षष्टिं कल्पान् समुदागतः, तत् ते मोहपुरुषा एवं वक्ष्यन्ति- एकनयेनैव (Bह्क् १७५) बोधिर्यदुत शून्यतानयेन᳚ इति विस्तरः / वैरोचनाभिसम्बोधौ चोक्तम्- ऽतदेतत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकम् उपायपर्यवसानम्᳚ इति / तस्मादुभयं सर्वकालमेव बोधिसत्त्वेन सेवनीयम् /
24 SK एवं हि भगवताम् अप्रतिष्ठितनिर्वाणं सिध्यति / तथा हि दानादेरूपायस्य रूपकायक्षेत्रपरिवारादिमहाभोगताफलसम्पत्परिग्रहाद् भगवतां न निर्वाणे ऽवस्थानम् / प्रज्ञया च सकलविपर्यासप्रहाणाद् न संसारे ऽवस्थानं विपर्यासमूलत्वात् संसारस्य / अन्या च प्रज्ञोपायस्वरूपया प्रतिपदा समारोपापवादान्तविवर्जनेन मध्यमा प्रतिपद् उद्भाविता / प्रज्ञया समारोपान्तस्य वर्जनाद् उपायेनापवादान्तस्य वर्जनात् / अत एव आर्यधर्मसङ्गीतावुक्तम्- ᳚लक्षणानुव्यञ्जनरूपकायपरिनिष्पादनाभिरतश्च भवति, न धर्मकायाभिसमयमात्राभिरतः᳚ इति / पुनरुक्तम्- ᳚प्रज्ञोपायजनितस्तथागतानां परप्रत्ययतः संभवो ऽनुगन्तव्यः᳚ इति /
25 SK यत् पुनरुक्तम्- ᳚कोलोपमं धर्मपर्यायम् आजानद्भिर्धर्मा एव प्रहातव्याः, प्राग् एवाधर्माः᳚ इति / तद् विपरीताभिनिवेशप्रहाणतः प्रहातव्या इत्यभिप्रायादुक्तम्, न तु प्रयोजनसम्पदनार्थमपि नाश्रयणियम् / तथा चोक्तम्- ᳚धर्मः प्रग्रहीतव्यो नोद्ग्रहीतव्यः᳚ इति / नोन्मार्गेण प्रग्रहीतव्य इत्यर्थः / यच्चापि क्वचिद् दानादि सांसारिकफलत्वेन वर्णितं तत् प्रज्ञारहितानां दानादीनां पूर्वम् उक्तं तावन्मात्रकुशलमूलसन्तुष्टांश्चाधिकृत्योत्तर कुशलमूले प्रोत्साहनार्थम् / अन्यथा [आर्य-]विमलकीर्तिनीर्देशः [आदि पूर्वोक्तः] सर्व एव विरुध्यते / तस्मात्तु द्वावपि प्रज्ञोपायौ सेवनीयाविति स्थितम् /
26 SK तत्र प्रज्ञापरिगृहीता दानादयः पारमिताव्यपदेशं लभन्ते नान्यथेति / अतो दानदिपरिशुद्धये समाधानम् आस्थाय प्रज्ञोपादानार्थं यत्नं कुर्वीत /
27 SK तत्र प्रथमं तावत् श्रुतमयी प्रज्ञोत्पादनीया / तया हि तावद् आगमार्थम् अवधारयति / ततश्चिन्तामय्या प्रज्ञयानीतनेयार्थं निर्वेधयति / ततस्तया निश्चित्य भूतमर्थं भावयेन्नाभूतम् / अन्यथा हि विपरीतस्यापि भवानाद् विचिकित्सायाश्चाव्यपगमात् सम्यग्ज्ञानोदयो न स्यात् / ततश्च व्यर्थैव भावना स्यात् / यथा तीर्तीकानाम् / उक्तं च भगवता समाधिराजे-
28 SK नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् / स हेतुर्निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये // इति /
29 SK तस्माच्चिन्तामय्या प्रज्ञया युक्तयागमाभ्यां प्रत्यवेक्ष्य भूतमेव वस्तुस्वरूपं भावनीयम् / वस्तूनां स्वरूपं च परमार्थतो ऽनुत्पाद एवागमतो युक्तितश्च निश्चितम् /
30 SK तत्रागमतो यथोक्तम् आर्यधर्मसङ्गीतौ- ᳚अनुत्पादः सत्यमसत्यम् अन्ये धर्माः᳚ इति / एतच्च परमार्थानुकूलत्वाद् अनुत्पादः सत्यमित्युक्तम् / परमार्थतस्तु नोत्पादो नाप्यनुत्पादः, तस्य् सर्व्यवहारातीतत्वात् / पुनश्चात्रैव चोक्तम्- ᳚उत्पादनिरोधाभिनिविष्टः कुलपुत्र, लोकसन्निवेशः, (Bह्क् १७७) तस्मात् तथागतो महाकारुणिको लोकस्योत्त्रासपदपरिहाराथं व्यवहारवशाद् उक्तवान्, उत्पद्यते निरुध्यते चेति न चात्र कस्यचिद् धर्मस्योत्पादः᳚ इति / अर्यबुद्धसङ्गीतौ चोक्तम्- ᳚कतमा योनिशः पृच्छा, कतमा योनिः? आह अनुत्पादो योनिः, तस्य पृच्छा योनिशः पृच्छ᳚ / पुनरत्रैवोक्तम्- ᳚चकारमुखः सर्वधर्माश्च्युत्युत्पत्तिविगताः / अभावमुखाः सर्वधर्माः, स्वभावशून्यताम् उपादाय᳚ इति / आर्यसत्यद्वयविभागे चानुत्पादसमतया सर्वधर्माणां समता भवति / प्रज्ञापारमितायां चोक्तम्- ᳚रूपं सुभूते, रूपस्वभावेन शून्यम्, यावद् विज्ञानं विज्ञानस्वभावेन शून्यमिति स्वलक्षणशून्यताम् उपादाय᳚ इति / हस्तिकक्ष्ये चोक्तम्-
31 SK न कश्चिल्लभ्यते भावो यस्योत्पादस्य संभवः / असंभवेषु धर्मेषु बालः सम्भवमिच्छति // इति /
32 SK पितापुत्रसमागमे चोक्तम्- ᳚सर्व एते धर्माः सर्वे समास्त्रैकाल्यसमतया / अतीते ऽध्वनि सर्वधर्माः स्वभावरहिता यावत् प्रत्युत्पन्ने ऽध्वनि᳚ इति / एवं तवद् आगमतः प्रत्यवेक्षणीयम् / युक्त्या हि स्थिरीकृतस्यागमार्थस्यान्यैरपोहितम् अशक्यत्वात् / अतो युक्त्यापि प्रत्यवेक्षनीयम् /
33 SK तत्र संक्षेपतो युक्तिरुच्यते / उत्पादो भावानामहेतुको वा स्यात् सहेतुको वा / न तावद् अहेतुकः कादाचित्कत्वदर्शनात् / कारणानपेक्षा हि विशेषाभावाद् उत्पादकालवत् सदा सर्वत्रैव च भावाः किं न भवेयुः / अभावकालाद् अविशेषाद् वा उत्पादकाले ऽपि नैव भवेयुः / एवं तावन्न निर्हेतुको युक्तः / नापि सहेतुकः / तथा हि यस्तावदीश्वरादिस्तीर्थिकैर्नित्यो हेतुः कल्पितस्ततो भावा न जायन्ते क्रमेणोत्पाददर्शनात् / न (Bह्क् १७८) त्वविकलकारणस्य [फलस्य] क्रमेणोत्पादो युक्तो निरपेक्षत्वात् / नापीश्वरादेः स्वयं समर्थस्य परापेक्षाः / नित्यत्वेन परैरनुपकार्यत्वात् / अनुपकारिणि चापेक्षायोगात् / अत एवेश्वरादीनां सर्वसामर्थ्यशून्यत्वाद् वन्ध्यापूत्रादिवद् निःस्वभावत्वमेव / अर्थक्रियासमर्थत्वाद् वस्तुनः / तेषां क्वचिदपि कार्ये न क्रमेण सामर्थ्यं यथा विचारितम् / नापि यौगपद्येन, तथा हि सर्वकार्यं सकृद् उत्पाद्योक्तरकाले ऽपि यद्युत्पत्तिसमर्थ एवासौ तदा पुनरपि समर्थस्वभावानुवृत्तौ पूर्ववत् कार्योत्पत्तिप्रसङ्गः / अननुवृत्तौ वा पूर्वस्वभावपरित्यागाद् अनित्यत्वप्रसङ्गः /
34 SK तस्मान्न नित्यं नाम किञ्चिद् वस्तु विद्यते / अत एवोक्तं भगवता- ᳚असत्समारोपः पुनर्महामते! आकाशनिरोधनिर्वाण[आदि]अकृतकभावाभिनिवेशसमारोपः᳚ इति / तस्मान्न नित्याद् एषामुत्पादो युक्तः / नाप्यनित्यात्तत्रातीतानागतयोरवस्तुत्वान्न् तावत्ततो जन्म युक्तम् अहेतुकत्वप्रसङ्गात् / नापि वर्तमानात्, समानासमानकालयोस्तत उत्पादायोगात् / तथा हि न तावत् समानकालं कारणं स्वभाववत् कार्यस्यापि तत्समानकालभावितया निष्पन्नत्वात् / नापि भिन्नकालम्, कालन्तरव्यवधानेनोत्पादे ऽतीतादेरेवोत्पत्तिप्रसङ्गात् / अव्यवधानेनाप्युत्पादे सर्वात्माना यद्यव्यवधाणं तदैकस्मिन्नेव क्षणे सर्वक्षणानाम् अनुप्रवेशात् कल्पस्य क्षणमात्रताप्रसङ्गः / यथा परमाणोः सर्वात्मना संयोगो पिण्डस्याणुमात्रताप्रसङ्गः / अथैकदेशनेन, तदा क्षणस्य सावयवत्वप्रसङ्गः / स्वतो ऽपि नोत्पद्यन्ते, निर्हेतुकपक्षेणैवास्य पक्षस्य सङ्गृहीतत्वात् स्वात्मनि च कारित्रविरोधात् / नाप्युभयतः उभयपक्षभाविदोषद्वय [सङ्ग्रह]प्रसङ्गात् /
35 SK तस्मात् परमार्थतो ऽनुत्पन्ना एवामी भावाः / संवृत्या तूत्पादस्य विद्यमानत्वान्नागमादिविरोधः / तथा चोक्तं भगवता-
36 SK भावा विद्यन्ति संवृत्या परमार्थे न भावकाः / निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत् // इति /
37 SK इयं च युक्तिर्भगवतो ऽभिप्रेता शालिस्तम्बादौ / स्वतः परत उभाभ्याम् अहेतोश्च जन्मनिषेधात् /
38 SK अथवा एवं युक्त्या विचारयेत् / द्विविधा भावा रूपिणो ऽरूपिणश्च / तत्रापि तावद् रूपिणो घतादयस्ते ऽणुशो विभिन्नरूपत्वाद् नैकस्वभावाः / अणूनां पूर्वापरस्थितानां पूर्वादिदिग्भागत्वेन विभिद्यमानानाम् असिद्धावप्यणुसंचयात्मकत्वे नानेकस्वभावो युक्तः, न चैकानेकस्वभावव्यतिरेकेणापरः कश्चिद् भावस्वभावो ऽस्तीति निःस्वभावा एवामी परमार्थतः स्वप्नाद्युपलब्धरूपादिवद् रूपिणो भवाः / एतच्च भगवतैव चोक्तम् आर्यलङ्कावतारे- ᳚गोविषाणां पुनर्महामते, अणुशो ऽपि विभिद्यमानं नावतिष्ठते / पुनरप्यणवो ऽपि भिद्यमाना अणुत्वलक्षणेन नावतिष्ठन्ते᳚ इति /
39 SK ये चारुपिणस्ते ऽपि तथैव विचार्युमाणा निःस्वभावा एव / तथा हि, बाह्यस्य नीलादेरर्थस्याभावात् सामर्थ्यत एव विज्ञानादयो ऽरूपिणः स्कन्धा निलादिरूपेण प्रतिभासन्त इत्यभ्युपेयम् / उक्तं च भगवता-
40 SK ᳚बहिर्धा नास्ति वैरूपं स्वचित्तं दृश्यते बहिः /᳚ इति /
41 SK ततश्च नीलादिचित्राकारनिर्भासतया ग्राह्यग्राहकाकारनिर्भासतया नैकस्वभावा (Bह्क् १८०) अमी युक्ताः / न चैकस्यानेकरूपता युक्तिमती, एकानेकविरोधात् / एकस्य कस्यचित् स्वभावस्यासिद्धावनेकरूपताप्ययुक्तिमती, एकसमूहरूपत्वाद् अनेकस्य /
42 SK अथवा तत्रालीका एवामी रूपादय आकाराः प्रतिभासन्त इत्युब्युपगम्यते, तदा विज्ञानम् अप्यलीकं प्राप्नोति / विज्ञानस्य तत्स्वरूपाव्यतिरेकात् / न हि स्वयं प्रकाशमानरूपताव्यतिरेकेणान्यद् विज्ञानस्य रूपमस्ति / स्वयं च न निर्भासन्ते रूपादयः / तेषां च विज्ञानस्वरूपापन्नानाम् अलीकत्वे सर्वमेव विज्ञानम् अलीकम् अभ्युपेतं स्यात् / तस्माद् ᳚मायोपमं च विज्ञानम्᳚ इत्युक्तं भगवता /
43 SK तस्माद् एकानेकस्वभावशून्यत्वेन परमार्थतो ऽलीका एवामी सर्वभावा इति निश्चितमेतत् / अयं चार्थ उक्तो भगवता लङ्कावतारे-
44 SK यथैव दर्पणे रूपम् एकत्वान्यत्ववर्जितम् / दृश्यते न च तत्रास्ति तथा भावेषु भवता // इति /
45 SK एकत्वान्यत्ववर्जितम् इति, एकत्वान्यत्वरहितम् इत्यर्थः / पुनश्चोक्तम्-
46 SK बुद्धया विविच्यमानानां स्वभावो नावधार्यते / अतो निरभिलाप्यस्ते निःस्वभावाश्च दर्शिताः // इति /
47 SK तदेवं चिन्तामय्या प्रज्ञया निश्चित्य भूतमर्थ तस्य प्रत्यक्षीकरणाय भावनामयीं प्रज्ञाम् उत्पादयेत् / ᳚बहुश्रुतादिमात्रकेणा नार्थः प्रत्यक्षो भवतीति निवेदितम् आर्यरत्नमेघादिषु / अनुभवश्च प्रतिपत्तृणाम्, न चापि स्फुटतरज्ञानालोकोदयम् अन्तरेण सम्यगावरणतमो ऽपहीयते / भावनाबहुलीकारतश्चाभूते (Bह्क् १८१) ऽप्यर्थे स्फुटरज्ञानम् उत्पद्यते / यथा अशुभादिपृथ्वीकृत्स्नादिसमापन्नानां [ज्ञानोद्भवत्वे] किम्पुनर्भूते / तथा च भावनायाः परिस्फुटज्ञानफलत्वेन साफल्यमुक्तम् आर्यसमाधिराजे-
48 SK आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नरः / तथा तथा भवति तन्निमित्तचित्तस्तेहि वितर्केहि तन्निश्रितेहि // इति विस्तरः /
49 SK तस्मात् तत्त्वं साक्षात्कर्तुकामो भावनायां प्रवर्तते /
50 SK तत्र प्रथमतरं तावद् योगिना शमथो निष्पादनीयश्चित्तस्थिरीकरणाय / सलिलवच्चञ्चलत्वाच्चित्तस्य, न शमथमाधारमन्तेरण स्थितिरस्ति / न चासमाहितेन चेतसा यथाभुतं शक्यते ज्ञातुम् / उक्तं हि भगवता- ᳚समाहितचित्तो यथाभूतं प्रजानाति᳚ इति / शमथो लाभादिकामनानिरपेक्षस्य सम्यक्प्रवृत्तौ स्थिरस्य दुःखाद्यधिवासनशिलस्यारब्धवीर्यस्य शीघ्रतरं सम्पद्यते / अत एव आर्यसंधिनिर्वोचनादौ दानादय उत्तरोत्तरत्वेन वर्णिताः /
51 SK तदेवं शीलादिशमथसम्भारेषु स्थितो मनो ऽनुकूलदेशे सर्वबुद्धबोधिसत्त्वेषु प्रणामादिकं कृत्वा पापदेशनां पुण्यानुमोदनां विधाय सकलजगदभ्युद्धरणाशयो महाकरुणाम् एवाभिमुखीकृत्य कायम् ऋजुं प्रणिधाय सुखासनोपविष्टः पर्यङ्कमाभुज्य समाधिमभिनिष्पादयेत् /
52 SK तत्र प्रथमं तावद् यद् वस्तु विचारयितव्यं यावता प्रकारेण सङ्क्षेपतः सकलवस्तुसङ्ग्रहो भवति तत्र चित्तं बध्नीयत् / सङ्क्षिप्तं (Bह्क् १८२) पुनर्वस्तु रूप्यरूपिभेदेन द्विध भवति / एतच्चादिकर्मिकस्य विक्षेपदोषपरिहारार्थ संक्षिप्तं तावद् युक्तम् आलम्बयितुम् / यदा तु जितमनस्कारो भवति तदा स्कन्धधात्वादिभेदेन विशोध्य विस्तरशो ऽप्यालम्बत एव / तथा सन्धिनिर्मोचनादौ योगिनाम् अष्टादशप्रकारशून्यतालम्बनादिभेदेन नानाप्रकारम् आलम्बनम् उक्तम् /
53 SK अत्रैव भगवता सत्त्वानुग्रहाद् रूप्यरूप्यादिभेदेन संक्षेपमध्यविस्तारैः वस्तुभेदो ऽभिधर्मादौ निर्दिष्टः / तच्च वस्तु अध्यारोपापवादपरिहाराय स्कन्धधात्वादिसङ्ग्रहतो गणयेत् / ततो निश्चित्य सर्वं वस्तुसङ्ग्रहं तत्रैव पुनश्चित्तं प्रबन्धेन प्रेरयेत् /
54 SK यद त्वन्तरा रागादिना चित्तं बहिर्विक्षिपेत् तदावगम्य विक्षेपताम् अशुभादिभावनया विक्षेपम् उपशाम्य पुनस्तत्रैवोपर्युपरि चित्तं प्रेरयेत् / अशुभदिभावनाक्रमस्तु ग्रन्थविस्तरभयान्न लिखितः / यदा तु चित्तं तत्रानभिरतं पश्येत्, तद समाधेर्गुणदर्शनतो ऽभिरतिं तत्र भावयेत् / विक्षेपदोषदर्शनाद् अरतिं प्रशमयेत् / अथ यदा स्त्यानमिद्धाभिभवाद् आअलम्बनग्रहणाप्रकटतयालीनं चित्तं भवति तदा लोकसंज्ञाभावनया प्रामोद्यवस्तुबुद्धादिगुणमनसिकारात् [वा] लयं उपशाम्य पुनस्तदेवालम्बनं दृढतरं गृण्हीयात् /
55 SK अथ यदा पूर्वहसितरमिताद्यनुस्मरतो ऽन्तरा चित्तम् उद्धतं पश्येत्, तदानित्यतादिसंवेगमनसिकाराद् औद्धत्यं प्रशमयेत्, ततः पुनस्तत्रैवालम्बने चित्तस्यानभिसंस्कारवाहितायं यत्नं कुर्वीत / अथ यदा लयौद्धत्यभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहिचित्तं पश्येत् तदाभोगशिथीलीकरणाद् (Bह्क् १८३) उपेक्षते / यदा तु समप्रवृत्ते सत्याभोगः क्रियते, तदा चित्तं विक्षिपेत् /
56 SK यदा तु तत्रालम्बने ऽनभिसंस्कारवाहि यावदिच्छं चित्तं प्रवृत्तं भवति, तदा शमथो निष्पन्नो वेदितव्यः / एतच्च सर्वशमथानां सामान्यलक्षणम्, चित्तैकग्रतामात्रस्वभावत्वात् / शमथस्य / आलम्बनं तु तस्यानियतमेव / अयं च शमथमार्गो भगवता आर्यप्रज्ञापारमितादौ निर्दिष्टः / यद् आह- ᳚तत्र चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समादधाति᳚ इति नवपदैः /
57 SK तत्र स्थापयति, आलम्बनेन बध्नाति / संस्थापयति, तत्रैवालम्बने प्रबन्धेन प्रवर्तयति / अवस्थापयति, विक्षेपम् अवगम्य तं परिहरति / उपस्थापयति, विक्षेपं परिहृत्य उपर्युपरि पुनस्तत्रैवालम्बने स्थापयति / दमयति, रतिमुत्पादयति / शमयति, अरतिं व्युपशामयति विक्षेपदोषदर्शनात् / व्युपशमयति, स्त्यानमिद्धादीन् व्युत्थितान् व्युपशमयति / एकोतीकरोति, आलम्बने ऽनभिसंस्कारवाहितायं यत्नं करोति / समादधाति, समप्राप्तं चित्तम् उपेक्षते समन्वाहरतीत्यर्थः / एष चैषां पदानाम् अर्थः पूर्वाचार्यैः मैत्रेयेण च व्याख्यातः /
58 SK संक्षेपेण सर्वसैव समाधेः षड् दोषा भवन्ति / कौषिद्यम् आलम्बनसंप्रमोषः, लयौद्धत्यम्, अनाभोगः, आभोगतेति / तेषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भवनीयाः / तद् यथा- श्रद्धा, छन्दः, व्यायामः प्रश्रब्धिः, स्मृतिः, सम्प्रजन्यम्, चेतना, उपेक्षा चेति / तत्राद्याश्चत्वारः कौसीद्यस्य प्रतिपक्षाः / तथा हि- समाधेर्गुणेष्वभिसम्प्रत्ययलक्षणया श्रद्धया तत्र योगिनो ऽभिलाष उत्पद्यते / ततो ऽभिलाषाद् वीर्यमरभेत / तद्वीर्यबलेन कायचित्तकर्मण्यताम् (Bह्क् १८४) आसादयति / ततः प्रश्रब्धकायचेतसः कौसीद्यम् आवर्तते / अतः श्रद्धादयः कौसीद्यप्रहाणाय भावनीयाः / स्मृतिरालम्बनसम्प्रमोषस्य प्रतिपक्षः / सम्प्रजन्यं लयौद्धत्ययोः प्रतिपक्षः / तेन लयौद्धत्ययोः सम्यगुपंलक्षणात् / लयौद्धत्याप्रशमनकाले त्वनाभोगदोषः तत्प्रतिपक्षेण च चेतना भावनीया / लयौद्धत्यप्रशमे सति यदा चित्तं प्रशमवाहि तदाभोगदोषः, तत्प्रतिपक्षस्तदानीमुपेक्षा भावनीया /
59 SK एभिरष्टाभिः प्रहाणसंस्कारैः समन्वागतः समाधिः परमकर्मण्यो भवति / ऋद्धयादीन् गुणान् निष्पादयति / अत एवोक्तं सूत्र- ᳚[अष्ट]प्रहाण [संस्कार]समन्वागतः ऋद्धिपादं भावयति᳚ इति / एषा च चित्तैकाग्रता उत्तरोत्तरकर्मण्यतासम्प्रयोगाद् आलम्बनादिगुणविशेषयोगाच्च ध्यानारूपिसमापत्तिः विमोक्षादिव्यपदेशं लभते /
60 SK तथा हि यदोपेक्षावेदनासम्प्रयुक्ता सवितर्कसविचारा सा भवति, तदानागम्या उच्यते [प्रथमध्यानप्रयोगचित्तत्वात्] / यदा च कामतृष्णया पापधर्मैश्च] विविक्ता भवति [वितर्कविचार]प्रीतिसुखाध्यात्मसम्प्रसादैः सम्प्रयुक्ता भवति, तदा प्रथमं ध्यानम् उच्यते / अत एव प्रथमध्यानं वितर्कमात्ररहितं ध्यानान्तरमुच्यते / यदा वितर्कविचाररहिता प्रथमध्यानभूमितृष्णया विविक्ता च भवति / प्रीतिसुखाध्यात्मसम्प्रसादैः सम्प्रयुक्ता भवति, तदा द्वितीयं ध्यानमुच्यते / यदा तु द्वितीयध्यानभूमितृष्णया विविक्ता भवति, सुखोपेक्षास्मृतिसम्प्रजन्यसम्प्रयुक्ता भवति, तदा तृतीयं ध्यानम् उच्यते / यदा तृतीयध्यानभूमितृष्णया विविक्ता भवति / अदुःखासुखा उपेक्षास्मृत्यभिसम्प्रयुक्ता भवति, तदा चतुर्थं ध्यानमुच्यते / एवम् अरूप्यसमापत्तिविमोक्षाभिभवायतनादिष्वालम्बनाकारादिभेदेन योज्यम् /
61 SK तदेवमालम्बने चित्तं स्थिरीकृत्य प्रज्ञया विवेचयेत् / यतो ज्ञानालोकोत्पादात् सम्मोहबीजस्यात्यन्तप्रहाणं भवति / अन्यथा हि तीर्थिकानामिव समाधिमात्रेण क्लेशप्रहाणं न स्यात् / यथोक्तं सुत्रे-
62 SK किञ्चापि भावयेत् समाधिमेतं न चो बिभावेय्य सा आत्मसंज्ञाम् / पुनः प्रकुप्यति किलेषु तस्य यथोद्रकस्येह समाधिभावना // इति /
63 SK तत्रायम् आर्यलङ्कावतारे संक्षेपात् प्रज्ञाभावनाक्रमो निर्दिष्टः-
64 SK चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् / तथतालम्बने स्थित्वा चित्तमात्रमतिक्रमेत् //
65 SK चित्तमात्रमतिक्रम्य निराभासमतिक्रमेत् / निराभासस्थितो योगी महायानं स पश्यति //
66 SK अनाभोगगतिः शान्ता प्रणिधानैर्विशोधिता / ज्ञानं निरात्मकं श्रेष्ठं निराभासे न पश्यति // इति /
67 SK तत्रायमर्थः- प्रथमं योगी ये रूपिणो धर्मा बाह्यार्थतया परैः परिकल्पितास्तेषु तावद् विचारयेत् / किमेते विज्ञानाद् अन्ये, आहोस्विद् विज्ञानमेवैतत् तथा प्रतिभासते, यथा स्वप्नावस्थायामिति / तत्र विज्ञानाद् बहिः परमाणुशो विचारयेत् / परमाणूंश्च भागशः प्रत्यवेक्ष- माणो योगी तान् अर्थान्न समनुपश्यति / तस्यासमनुपश्यत एवं भवति चित्तमात्रमेवैतत् सर्वं न पुनर्बाह्यो ऽर्था विपद्यते / तदेवम्-
68 SK ᳚चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत् / ᳚
69 SK रूपिधर्मविकल्पांस्त्यजेद् इत्यर्थः /
70 SK तेषाम् उपलब्धिलक्षणप्राप्तानां विचारयेद् अनुपलब्धेः / एवं रूपिणो धर्मान् विभाव्यारुपिणो विभावयेत् / तत्र यच्चित्तमात्रं तदप्यसति ग्राह्ये ग्राहको न युक्तो ग्राहकस्य ग्राह्यपेक्षत्वद् ततश्चित्तं ग्राह्यग्राहकविविक्तम् अद्वयमेव चित्तमिति विचारयेद् अद्वयलक्षणे-
71 SK ᳚तथतालम्बने स्थित्वा तदपि चित्तमात्रम् अतिक्रमेत् / ᳚
72 SK ग्रहकमाकारमतिक्रमेत / द्वयनिराभास एव अद्वयज्ञाने तिष्ठेदित्यर्थः /
73 SK एवं चित्तमात्रमतिक्रम्य तदपि द्वयनिराभसं यज्ज्ञानं तदतिक्रमेत / स्वतः परतो भावानां जन्मानुपपत्तेः ग्राह्यग्राहकयोश्चालीकत्वे तदव्यतिरेकात् तस्यापि सत्यत्वमयुक्तमिति विचारयेत् / तत्राप्यद्वयज्ञाने वस्तुत्वाभिनिवेशं त्यजेत्, अद्वयज्ञाननिराभास एव ज्ञाने तिष्ठेदित्यर्थः / एवं सति सर्वधर्मनिःस्वभावताप्रतिपत्तौ स्थितो भवति / तत्र स्थितस्य परमतत्त्वप्रवेशात् निर्विकल्पसमाधिप्रवेशः /
74 SK तथा चाद्वयज्ञाननिराभासे ज्ञाने यदा स्थितो योगी तदा परमतत्त्वे स्थितत्वात्, महायानं स पश्यति / एतदेव तत् महायानम् उच्यते यत् परमतत्त्वदर्शनम् / एतदेव तत् परमतत्त्वदर्शनं यत् सर्वधर्मान् प्रज्ञाचक्षुषा निरूपयतः सम्यग्ज्ञानावलोके सत्यदर्शनम् / तथा चोक्तं सुत्रे- ᳚कतमं परमार्थदर्शनम्? सर्वधर्माणाम् अदर्शनम् /᳚ इति /
75 SK अत्रेदृशमेवादर्शनमभिप्रेतं न तु निमीलिताक्षजात्यन्धानामिव प्रत्ययवैकल्याद् अमनसिकारतो वा यददर्शनम् /
76 SK ततो भावाभिनिवेशदिविपर्यासवासनाया अप्रहीणत्वाद् असंज्ञिसमापत्त्यादिव्युत्थितस्येव पुनरपि भावाभिनिवेशमूलस्य रागादिक्लेशगणस्योत्पत्तेरमुक्त एव योगी भवेत् / भावाभिनिवेशमूलो रागादिः आर्यसत्यद्वयनिर्देशादौ वर्णितः / यत्पुनरुक्तम् अविकल्पप्रवेशधारण्याम्- ᳚अमनसिकारतो रूपादिनिमित्तं वर्जयति᳚ इति / तत्रापि प्रज्ञया निरूपयतो यो ऽनुपलम्भः स तत्रामनसिकारो ऽभिप्रेतो न मनसिकाराभावमात्रम् / न ह्यसंज्ञिसमापत्त्यादिरिव अनादिकालिको रूपाद्यभिनिवेशो मनसिकारपरिवर्जनमात्रात् प्रहीयते /
77 SK संशया प्रहाणे तु न पूर्वोपलब्धेषु च रूपादिष्वभिनिवेशमनसिकारपरिवर्जनं शक्यं कर्तुम् अग्न्यपरिवर्जने दाहापरिवर्जनवत् / तथामी रूपादिमिथ्याविकल्पाः कण्टकादिवदुत्कील्य न हस्तेन चेतसो ऽपनेतव्याः / किं तर्हि संशयबीजापगमात् / तच्च संशयबीजं योगिनः समाध्यालोके सति प्रज्ञाचक्षुषा निरूपयतस्तेसां रूपादीनां पूर्वोपलब्धानाम् उपलब्धिलक्षणप्राप्तानाम् अनुपलम्भाद्, रज्जोः सर्पज्ञानवद्, अपगच्छति नान्यथा / तथा संशयबीजापगमाद् रूपादिनिमित्तमनसिकारः शक्यते वर्जयितुं नान्यथा / अन्यथा ह्यसति समाध्यालोके प्रज्ञाचक्षुषाप्यनवलोके यथा अन्धकूपावस्थितपुरुषस्यावचरकगतघाटादिष्विव योगिनो रूपादिष्वस्तित्वसंशयो नैव निवर्तेत / तदनिवृत्त्या चा प्रहीणतिमिरदोषस्येव यो ऽयुक्तो ऽलीकरूपाद्यभिनिवेशः प्रवर्तेत न केनापि निवर्त्येत /
78 SK तस्मात् समाधिहस्तेन मनः सन्धाय सूक्ष्मतरप्रज्ञाशस्त्रेण तत्र चेतसि रूपादिमिथ्याविकल्पबीजम् उद्धरेत् / एवम् सत्युत्खातमूला इव (Bह्क् १८८) तरवो भूमेर्निर्मूलतया मिथ्याविकल्पाः पुनश्चेतसि न विरोहन्ति / अत एवावरणप्रहाणाय शमथविपश्यनायुगनद्धवाही मार्गो भगवता निर्दिष्टः, तयोः अविकल्पसम्यग्ज्ञाने हेतुत्वात् / तथा चोक्तम्-
79 SK शीलं प्रतिष्ठाय समाधिलाभाः समाधिलाभाच्च हि प्रज्ञाभावना / प्रज्ञया ज्ञानं भवति विशुद्धं विशुद्धज्ञानस्य हि शीलसम्पत् // इति /
80 SK तथा हि यदा शमथेनालम्बने चित्तं स्थिरीकृतं भवति तदा प्रज्ञया विचारयतः सम्यग्ज्ञानालोक उत्पद्यते, तदान्धकारमिवालोके प्रकाशयति आवरणम् अपहीयते / अत एवानयोश्चक्षुरालोकयोरिव सम्यग्ज्ञानोत्पादं प्रत्यन्यो ऽन्यानुगुण्येनावस्थितत्वान्नालोकान्धकारवत् परस्परविरोधः / न हि समाधिरन्धकारस्वभावः / किं तर्हि चित्तैकाग्रतालक्षणः / स च समाहितो यथाभूतं प्रजानातीति वचनादेकान्तेन प्रज्ञानुकूल एव भवति, न तु विरुद्धस्तस्मात् स्यात् समाहितस्य प्रज्ञया निरूपयतः सर्वधर्माणामनुपलम्भः / स एव परमो ऽनुपलम्भः / सा च तादृशी योगिनामवस्थानलक्षणा गतिरनाभोगा, ततः परं दृष्टव्यस्याभावात् / शान्तेति भावाभावादिविकल्पलक्षणस्य प्रपञ्चस्योपशमात् /
81 SK तथा हि यदा प्रज्ञया निरूपयन् न किञ्चिद् भावस्वभावम् उपलभते योगी, तदास्य नैव भावविकल्पो भवत् / अभावविकल्पो ऽपि तस्य नास्त्येव / यदि भावः कदाचिद् दृष्टो भवति, एवं सति तन्निषेधेनाभावविकल्पः प्रवर्तते / यदा तु कालत्रये ऽपि भावो योगिना प्रज्ञाचक्षुषा निरूपयता नोपलब्धः, तदा कथं तस्य प्रतिषेधेनाभावविकल्पं कुर्वीत / एवमन्ये ऽपि विकल्पास्तदा तस्य न समुत्पद्यन्त एव भावाभावविकल्पाभ्यां (Bह्क् १८९) सर्वविकल्पस्य व्याप्तत्वात् / व्यापकाभावे च व्याप्यस्यासम्भवात् / अयमसौ परमनिर्विकल्पो योगः / तत्र स्थितस्य योगिनः सर्वविकल्पानाम् अस्तंगमात् सम्यक् क्लेशावरणं ज्ञेयावरणं च प्रहीयते / तथा हि क्लेशावरणस्यानुत्पन्नानिरुद्धभावेषु भावादिविपर्यासो मूलं कारणम् आर्यसत्यद्वयनिर्देशादौ वर्णितं भगवता / अनेन च योगाभ्यासेन सर्वभावादिविकल्पानां प्रहाणात् सकलभावादिविपर्यासस्याविद्यास्वभावस्य क्लेशावरणमूलस्य प्रहाणम् / ततो मूलोच्छेदात् क्लेशवरणं सम्यक् प्रहीयते / तथा चोक्तं सत्यद्वयनिर्देशे- ᳚कथं मञ्जुश्रीः, क्लेशा विनयं गच्छन्ति, कथं क्लेशाः परिज्ञाता भवन्ति? मञ्जुश्रीराह- परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु संवृत्यासद्विपर्यासः / तस्माद् असद्विपर्यासात् सङ्कल्पविकल्पः / तस्मात् संकल्पविकल्पाद् अयोनिशो मनसिकारः / तस्माद् अयोनिशो मनसिकाराद् आत्मसमारोपः / तस्माद् आत्मसमारोपाद् दृष्टिपर्युत्थानम् / तस्माद् दृष्टिपर्युत्थानात् क्लेशाः प्रवर्तन्ते / यः पुनः देवपुत्र! परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावान् सर्वधर्मान् प्रजानाति, स परमार्थतो ऽविपर्यस्तः / यश्च परमार्थतो ऽविपर्यस्तः सो ऽविकल्पः / यश्चाविकल्पः स योनिशः प्रयुक्तः / यश्च योनिशः प्रयुक्तः तस्यात्मसमारोपो न भवति / यस्यात्मसमारोपो न भवति तस्य दृष्टिपर्युत्थानं न भवति / यावत् परमार्थतो निर्वाणदृष्टिसर्व दृष्टिपर्युत्थानम् अपि न भवति / तस्यैवम् अनुत्पादविहारिणः क्लेशा अत्यन्तं विनीता द्रष्टव्याः / अयम् उच्यते क्लेशविनयः / यदा, देवपुत्र! क्लेशान् निराभासेन ज्ञानेन परमार्थतो ऽत्यन्तशून्यान् अत्यन्ताभावान् अत्यन्तनिर्निमित्तात् प्रजानाति, तदा देवपुत्र! क्लेशाः परिज्ञाता भवन्ति / तत्र (Bह्क् १९०) यथापि नाम, देवपुत्र! य आशीविषस्य गोत्रं प्रजानाति / स तस्याशीविषस्य विषं शमयति / एवमेव देवपुत्र! य क्लेशानां गोत्रं प्रजानाति तस्य क्लेशाः प्रशाम्यन्ति / देवपुत्र आह- कतमन् मञ्जुश्रीः! क्लेशानां गोत्रम् / आह- यावद् एषा परमार्थतो ऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु कल्पना इदं क्लेशानां गोत्रम्᳚ इति विस्तरः /
82 SK भावादिविपर्यासेन च सकलविपर्यासस्य व्याप्तत्वात् / तत्प्रहाणे सकलविपर्यासप्रहाणाद् ज्ञेयावरणम् अप्यनेन सम्यक् प्रहीयते, विपर्यासलक्षणत्वाद् आवरणस्य / ज्ञेयावरणे च प्रहीणे प्रतिबन्धाभावाद् रविकिरणवद् अपगतमेघाद्यावरणे नभसि सर्वत्राव्याहतो योगि प्रत्यक्षो ज्ञानालोकः प्रवर्तते / तथा हि वस्तुस्वभावप्रकाशरूपं विज्ञानम् / तच्च संनिहितम् अपि वस्तु प्रतिबन्धसद्भावान्न प्रकाशयति / प्रतिबन्धाभावे तु सति, अचिन्त्यशक्तिविशेषलाभात् किमिति सकलम् एव वस्तु यथावद् न प्रकाशयेत् / अतः संवृतिपरमार्थरूपेण सकलस्य वस्तुनो यथावत् परिज्ञानात् सर्वज्ञत्वम् अवाप्यते / अतो ऽयम् एवावरणप्रहाणो सर्वज्ञत्वाधिगमे च परमो मार्गः /
83 SK यस्तु श्रावकादीनां मार्गस्तेन विपर्यासाप्रहाणान् न सम्यग् आवरणद्वयं प्रहीयते / तथा चोक्तम् आर्यलङ्कावतारे- ᳚अन्ये तु कारणाधीनान् सर्वधर्मान् दृष्ट्वानिर्वाणे ऽपि निर्वाणम् इति बुद्धयो भवन्ति / धर्मनैरात्म्यादर्शनाद् नास्ति महामते! मोक्ष एषाम् / महामते, श्रावकयानिकाभिसमयगोत्रस्यानिर्याणे निर्याणबुद्धिः / अत्र महामते, (Bह्क् १९१) कुदृष्टिव्यावर्तना योगः करणीयः᳚ इति / अत एव चान्येन मार्गेण मोक्षाभावाद् एकम् एव यानम् उक्तं भगवता /
84 SK केवलम् [बालेन बालस्य] अवतारणाभिसन्धिना श्रावकादिमार्गो देशितः / तथा हि सकन्ध मात्रमेवैतत्, न त्वात्मास्तीति भावयन् श्रावकः पुद्गलनैरात्म्यम् अवतरति, विज्ञप्तिमात्रं त्रैधातुकमिति भावयन् विज्ञानवादिबाह्यार्थनैरात्म्यमवतरति / अनेन त्वस्यद्वयज्ञानस्य नैरात्म्यप्रवेशात् परमतत्त्वप्रविष्टो भवति / न तु विज्ञप्तिमात्रताप्रवेश एव तत्त्वप्रवेशः / यथोक्तं प्राक् / उक्तं च आर्यलोकोत्तरपरिवर्ते ᳚पुनरपरं भो जिनपुत्र! चित्तमात्रं त्रैधातुकम् अवतरति, तच्च चित्तम् अनन्तमध्यतयावतरति᳚ इति / अन्तयोरुत्पादभङ्गलक्षणयोः स्थितिलक्षणस्य च मध्यस्याभावाद् अनन्तमध्यचित्तम् / तस्माद् अद्वयज्ञानप्रवेश एव तत्त्वप्रवेशः /
85 SK सा चेयं योगिनाम् अवस्था कुतो विशोधिता? इत्याह-
86 SK ᳚प्रणिधानैर्विशोधिता᳚ इति / महाकरुणया यत् सर्वसत्त्वार्थकरणाय बोधिसत्त्वेन प्रणिहितम्, ततः प्रणिधानबलाद् उत्तरोत्तरदानादिकुशलाभ्यासात् सा तथा विशुद्धा जात, येन सर्वधर्मनिःस्वभावताज्ञाने ऽपि सकलसत्त्वापेक्षा न व्यावर्तते यावत् संसार एव अननुलिप्ताः संसारदोषैरवतिष्ठन्त इति / कथं पुनरनाभोगा शान्तेत्यत्र कारणमाह-
87 SK ज्ञानं निरात्मकं श्रेष्ठं निराभासेन पश्यति / इति /
88 SK यस्माद् यद् अद्वयलक्षणं ज्ञानम् अद्वयवादिनां श्रेष्ठं परमार्थेनाभिमतं तदपि निरात्मकं निःस्वभावम् अद्वयनिराभासेन ज्ञानेन पश्यति योगी / अतो ऽपरस्य द्रष्टव्यस्याभावाद् अनाभोगा, सर्वविकल्पाभावत् शान्तेति /
89 SK अत्रेदानीं को ऽसौ योगी विद्यते, यः पश्यतीति चेत्? न परमार्थतः कश्चिद् आत्मादिः स्वतन्त्रो ऽस्ति, योगी नापि कश्चित् पश्यति / किन्तु संवृत्या यथा रूपादीविषयाकारज्ञानोत्पादमात्रेण विज्ञानमेव लोके तथा तथा व्यवह्रियते देवदत्तो यज्ञदत्तं ज्ञानेन पश्यतीति न तु कश्चिद् आत्मादिरस्ति / तथात्रापि ज्ञानमेवाद्वयज्ञाननिराभासम् उत्पद्यमानं तथा व्यपदिश्यते निराभासेन ज्ञानेन पश्यतिति / न हि सर्वधर्माणां परमार्थतो निःस्वभावत्वे ऽपि संवृत्या योगिज्ञानम् अन्यद् वा पृथग्ज्ञानं नेष्टम् / तथा चोक्तम् आर्यसत्यद्वयनिर्देशे- ᳚परमार्थतो ऽत्यन्ताभावश्च संवृत्त्या च मार्ग भावयति᳚ इति /
90 SK अन्यथा श्रावकप्रत्येकबुद्धबोधिसत्त्व [बुद्ध]पृथग्जनादिव्यवस्था कथं भवेत्, किन्तु यस्य संवृत्यापि कारणं नास्ति स संवृत्यापि नोत्पद्यते / यथा शशविषाणादि / यस्य तु [कारणं] विद्यते स परमार्थतो ऽलीको ऽपि समुत्पद्यत एव / यथा- मायाप्रतिबिम्ब [प्रतिध्वनि]आदी / न च मायादेः संवृत्या प्रतीत्यसमुत्पादे परमार्थतो वस्तुत्वप्रसङ्गः, तस्य विचाराक्षमत्वात् / अतः सर्वमेव मायोपमं जगत् / तत्र यथा क्लेशकर्ममायावशात् सत्त्वानां जन्ममाया प्रवर्तेत, तथा योगिनामपि पुण्यज्ञानसम्भारमायावशाद् योगिज्ञानमाया प्रवर्तत एव / तथा चोक्तम् आर्यप्रज्ञापारमितायाम्- ᳚कश्चित् श्रावकनिर्मितः, कश्चित् प्रत्येकबुद्धनिर्मितः, कश्चिद् बोधिसत्त्वनिर्मितः, कश्चित् तथागतनिर्मितः, कश्चित् क्लेशनिर्मितः कश्चित् कर्मनिर्मितः / अनेन सुभूते, पर्यायेण सर्वधर्मा निर्मितोत्पन्नाः᳚ इति / अयं तु विशेषो योगिनां पृथग्जनेभ्यः, ते हि मायाकारवत् तां मायां यथावत् परिज्ञानात् सत्यतो नाभिनिविशन्ते, (Bह्क् १९३) तेन ते योगिन उच्यन्ते / ये तां बालपृथग्जनवत् कौतूहलं स्त्यत्वेनाभिनिविष्टास्ते विपरीताभिनिवेशद् बाल उच्यन्ते इति सर्वमविरुद्धम् / तथा चोक्तम् आर्यधर्मसङ्गीतौ-
91 SK मायाकारो यथा कश्चिन्निर्मित-मोक्षमुद्यतः / न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतो ऽस्य सः //
92 SK त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः / संनह्यते जगद्धेतोर्ज्ञातपूर्वं जगत् तथा // इति /
93 SK एवमनेन क्रमेण तत्त्वं भावयेत् /
94 SK तत्र च लयौद्धत्यादीन् व्युत्थितान् पूर्ववत् प्रशमयेत् / यदा तु सर्वधर्मनिःस्वभावतालम्बने च लयौद्धत्यादिरहितम् अनभिसंस्कारेण प्रवृत्तं ज्ञानं भवति, तदा शमथविपश्यनायुगनद्धवाही मार्गो निष्पन्नो भवति / तथा यावत् शक्नोति तावद् अधिमुक्तिबलेन अधिमुक्तिचर्याभूमौ स्थितो भावयेत् /
95 SK ततो यथेच्छं पर्यङ्कमाभुज्य व्युत्थाय पुनरेवं चिन्तयेत् / यदि नामामी धर्माः परमार्थत एव निःस्वभावा अप्येते संवृत्या स्थिता एव / तथा चोक्तम् आर्यरत्नमेघे- ᳚कथं बोधिसत्त्वो नैरात्म्यकुशलो भवति? इह कुलपुत्र, बोधिसत्त्वः सम्यक्प्रज्ञया रूपं प्रत्येवक्षते, वेदनां संज्ञां संस्कारान् विज्ञानं प्रत्यवेक्षते / स रूपं प्रत्यवेक्षमाणो रूपस्योत्पादं नोपलभते, विरोधं नोपलभते, समुदयं नोपलभते / एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं नोपलभते, निरोधं नोपलभते, समुदयं नोपलभते / अयं च परमार्थतो ऽनुत्पादविहारिण्याः प्रज्ञाया न पुनर्व्यावहारिकेण स्वभावेन᳚ इति विस्तरः / एते च बालबुद्धय एवं निःस्वभावेषु भावेषु (Bह्क् १९४) विपरीताभिनिवेशात् संसारे परिभ्रमन्तो विविधानि दुःखानि प्रत्यनुभवन्ति / महाकरुणाम् एव आमुखीकृत्य एवमनुविचिन्तयेत्- तथाहं करिष्यामि यथा सर्वज्ञत्वं प्राप्य एतेषां धर्मतामवबोधयेयमिति /
96 SK ततः सर्वबुद्धबोधिसत्त्वेभ्यः पूजास्तोत्रोपहारं कृत्वा आर्यभद्रचर्याप्रणिधानमभिनिर्हरेत् / ततः शून्यताकरुणागर्भ एव सकलदानादिपुण्यज्ञानसम्भारोपार्जने प्रवर्तते / तथा चोक्तम् आर्यधर्मसंगीतौ- ᳚यथाभूतदर्शिनो बोधिसत्त्वस्य सत्त्वेषु महाकरुणा प्रवर्तते / एवं चास्य भवति- इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शं च सर्वसत्त्वानां निस्पादयितव्यम् / स तया महाकरुणया संचोद्यमानो ऽधिशीलम् अधिचित्तम् अधिप्रज्ञं च शिक्षात्रयं परिपूर्यानुत्तरं सम्यक्सम्बोधिम् अभिसम्बुध्यते᳚ इति /
97 SK अयमेव प्रज्ञोपाययुगनद्धबाही बोधिसत्त्वानां मार्गो यत् परमार्थदर्शने ऽपि संवृतिं नोच्छेदयन्ति / संवृतिं चानुच्छेदयन्तो महाकरुणापूर्वङ्गमा अविपर्यस्ता एव सत्त्वार्थक्रियासु प्रवर्तन्ते / उक्तम् आर्यरत्नमेघे- ᳚कथं बोधिसत्त्वो महायानकुशलो भवति / इह बोधिसत्त्वः सर्वासु शिक्षासु शिक्षते, शिक्षामार्गं च नोपलभते / यच्च शिक्षते तदपि नोपलभते / यश्च शिक्ष्यते तमपि नोपलभते / न च तद्धेतुकं तन्निदानं तत्प्रत्ययम् उच्छेददृष्टौ पतति᳚ इति / आर्यधर्मसंगीतौ चोक्तम्- ᳚कतमा बोधिसत्त्वानां प्रतिपत्तिः? यत् किञ्चिद् बोधिसत्त्वानां कायकर्म, यत् किञ्चिद् वाक्कर्म, यत् किञ्चिन् मनःकर्म, तत् सर्वसत्त्वापेक्षकं प्रवर्तते, महाकरुणापूर्वङ्गमत्वात् / महाकरुणाधिपत्यं सर्वसत्त्वाहितसुखाध्याशयसमुत्थितम्᳚ इति / अयमेवं हिताशयः संज्ञीभवति / सा मया (Bह्क् १९५) प्रतिपत्तिः प्रतिपत्तव्या सर्वसत्त्वानां हितावहा सुखावहा / तस्य स्कन्धेषु मायावत् प्रत्यवेक्षणा प्रतिपत्तिर्न च स्कन्धपरित्यागं स्पृहयतीति / धातुष्वाशीविषवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च धातुपरित्यागं स्पृहयतीति / आयतनेषु शून्यग्रामवत् प्रत्यवेक्षणाप्रतिपत्तिर्न चायतनपरित्यागं स्पृहयतीति / रूपस्य फेनपिण्डवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतरूपकायविठपनां जहाति / वेदनाया बुद्बुद्वत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतध्यानसमाधिसमापत्तिसुखनिष्पदनप्रयोगं नारभते / संज्ञायां मरीचिवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतज्ञाननिष्पादन अप्रतिपत्तिः / संस्काराणां कदलीवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च बुद्धधर्मसंस्काराणाम् अप्रतिपत्तिः / विज्ञानस्य मायावत् प्रत्यवेक्षणा प्रतिपत्तिर्न च ज्ञानपूर्वङ्गमकायवाङ्मनस्कर्मनिष्पादना प्रतिपत्तिः᳚ इति विस्तरः / एवम् अपर्यन्तेषु सूत्रान्तेषु प्रज्ञोपायरूपा प्रतिपत्तिरनुगन्तव्या /
98 SK तत्र यदि नाम लोकोत्तरप्रज्ञावस्थायाम् उपायसेवना न सम्भवति, उपायसेवनाकाले तु बोधिसत्त्वस्य मायाकारवद् अविपर्यस्तत्वात् लोकोत्तरज्ञानात् प्रयोगपृष्ठभावनि यथावद् वस्तुपरमार्थतत्त्वाभिनिवेशनी प्रज्ञासम्भवत्येवेति, भवत्येव प्रज्ञोपाययुगनद्धवाही मार्गः / आर्यक्षयमतिनिर्देशे च ध्यानाक्षयतया प्रज्ञोपाययुगनद्धवाही मार्गो ऽनुगन्तव्यः / एवमनेन क्रमेण बोधिसत्त्वस्य प्रज्ञाम् उपायं च सततं सत्कृत्य दीर्घकालाभ्यासेन भावयतो द्वादशावस्थाविशेषा भवन्ति / ता एवावस्था उत्तरोत्तरगुणप्रतिष्ठार्थेन भूमयो व्यवस्थाप्यन्ते / अधिमुक्तिचर्याभूमेर्यावद् बुद्धभूमिरिति /
99 SK तत्र यावत् पुद्गलधर्मनैरात्म्यत्वं न साक्षात्करोति, केवलं दृढतराधिमुक्तिः / मारादिभिरप्यभेद्यो यदाधिमुक्तिबलेन तत्त्वं भवयति, तदा (Bह्क् १९६) दृढाधिमुक्तितो ऽधिमुक्तिचर्याभूमिर्व्यवस्थाप्यते / अस्यामपि भूमौ वर्तमानो बोधिसत्त्व पृथग्जनो ऽपि सर्वबालविपत्तिसमतिक्रान्तो ऽसंख्येयसमाधिधारणीविमोक्षाभिज्ञादिगुणान्वित आर्यरत्नमेघे पठ्यते /
100 SK अस्या एव च मृदुमध्याधिमात्राधिमात्रतरावस्थाचतुष्टयेन चत्वारि निर्वेधभागीयानि व्यवस्थाप्यन्ते / तथा हि यदा [बाह्यार्थ विभावयता] ईषत्स्पष्टो ज्ञानालोको भवति तदा उष्मगतनामकं निर्वेधभागीयं भवति / स चात्र महायान आलोकलब्धसमाधिरुच्यते / यदा तु स एव ज्ञानलोको मध्यमस्पष्टो भवति, तदा मूर्धनामकनिर्वेधभागीयं भवति, वृद्धालोकश्च समाधिरुच्यते / यदा तु स्पष्टतरो बाह्यार्थानाभासज्ञानालोको जायते, तदा विज्ञप्तिमात्रावस्थानात् क्षान्तिनामकं निर्वेधभागीयं भवति / एकदेशप्रविष्टश्च समाधिरुच्यते / ग्राह्यकारानुपलम्भप्रवेशात् / यदा तु ग्राह्यग्राहकाकाररहितम् अद्वयं ज्ञानं विभावयेत् तदाग्रधर्माख्यं निर्वेधभागीयं भवति / आनन्तर्यश्च स समाधिरुच्यते, तदनन्तरमेव तत्त्वप्रवेशात् / अत्र तावद् अधिमुक्तिचर्याभूमि /
101 SK इतरास्तु भूमयः संक्षेपत एकादशाङ्गपरिपूरिता व्यवस्थाप्यन्ते / तत्र प्रथमा भूमिः प्रथमं पुद्गलधर्मनैरात्म्यतत्त्वाधिगमाङ्गपरिपूरिता व्यवस्थाप्यते / तथा हि यदाग्रधर्मानन्तरं प्रथमतरं लोकोत्तरं सर्वप्रपञ्चरहितं सर्वधर्मनिःस्वभावतासाक्षात्कारि स्फुटतरं ज्ञानम् उत्पद्यते, तदा बोधिसत्त्वः सम्यक्त्वन्ययाभावक्रान्तितो दर्शनमार्गोत्पादात् प्रथमां भूमिं प्रविष्टो भवति / अत एवास्यां भूमौ प्रथमतो ऽनधिगततत्त्वाधिगमाद् बोधिसत्त्वः प्रमुदितो भवति / तत एषा भूमिः प्रमुदितेत्युच्यते / अत्र च द्वादशोत्तरं दर्शनहेयं क्लेशशतं प्रहीयते /
102 SK शेषास्तु भूमयो भावनामार्गस्वभावाः / तासु भावनाहेयास्त्रैधातुकाः षोडश क्लेशाः प्रहीयन्ते / अस्यां च भूमौ बोधिसत्त्वस्य धर्मधातुसमुदागमताप्रबोधात् स्वार्थ इव पराथे प्रवर्तनाद् दानपारमितातिरिक्ततरा भवति / स च बोधिसत्त्वः समधिगततत्त्वो ऽपि वा यावन्न् शक्नोति सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारि भवितुं तावत् प्रथमा भूमिः / यदा तु शक्नोति, तदास्याङ्गस्य परिपूरितो द्वितीया भूमिर्व्यवस्थाप्यते / अत एवास्यां भूमौ सूक्ष्मापत्तिस्खलितसमुदाचारात् शीलपारमितातिरिक्ततरा भवति / सर्वदौश्शील्यमलापगमाद् इयं भूमिर्विमलेत्युच्यते /
103 SK स सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारी भवति / यावन्न शक्नोति सकललौकिकं समाधिं समापत्तुं यथाश्रुतं चार्थम् आधर्त्तुं तावद् द्वितीयैव भूमिः / यदा शक्नोति, तदा तस्याङ्गस्य परिपूरितस्तृतीया भूमिर्व्यवस्थाप्यते / अस्यां च भूमौ बोधिसत्त्वस्य श्रुतधारण्या सर्वलौकिकसमाध्याभिनिर्हारार्थं सर्वदुःखसहनात्, क्षान्तिपारमितातिरिक्ततरा भवति / तेषां समाधीनां लाभाद् इय भूमिरप्रमाणं लोकोत्तरं ज्ञानावभासं करोतीति प्रभाकरीत्युच्यते /
104 SK स प्रतिलब्धलौकिकसकलसमाधिरपि यावन्न् शक्नोति यथाप्रतिलब्धैर्बोधिपक्षैर्धर्मैर्बहुलं विहर्तुं सर्वसमापत्तीनां च चित्तम् उपेक्षितुं तावत् तृतीया भूमिः / यदा तु शक्नोति तदा तस्याङ्गस्य परिपूरितश्चतुर्थी भूमिर्व्यवस्थाप्यते / अस्यां भूमौ बोधिसत्त्वस्याभीक्ष्णं कायवाङ्मनोजल्पसमतिक्रमणाअय बोधिपक्षैर्धर्मैर्विहरणात्, विर्यपरमितातिरिक्ततराभवति / इयं च सकलक्लेशेन्धनदाहसमर्थस्य बोधिपक्षधर्मार्चिष उद्गतत्वाद् अर्चिष्मतीत्युच्यते /
105 SK सो ऽभीक्ष्णं बोधिपक्षधर्मविहारी भवति / यावन्न शक्नोति सत्यानि भावयन् संसारानभिमुखं निर्वाणाभिमुखं च चेतो व्यावर्तयितुम् उपायसंगृहीतान् (Bह्क् १९८) बोधिपक्षान् धर्मान् भावयितुम्, तावच्चतुर्थी भूमिः / यदा तु शक्नोति तदास्याङ्गस्य परिपूरितः पञ्चमी भूमिर्व्यवस्थाप्यते / अत एवास्याम् इयम् उपायसंगृहीता बोधिपक्षभावना [परिपूरितेन] सुष्ठु दुःखेन जीयते अभ्यस्यता इति सुदुर्जयेत्युज्यते /
106 SK अस्यां चार्यसत्याकारभावनाबहुलीकाराद् ध्यानपारमिता अतिरिक्ततरा भवति / उपयसंगृहीतबोधिपक्षबहुलविहारी च भवति / यावद् न शक्नोति संसारप्रवृत्तिप्रत्यवेक्षणान् निर्वित्सहया चित्तसन्तत्यानिमित्तविहारं समापत्तुं तावत् पञ्चमी भूमिः / यदा शक्नोति तदास्याङ्गस्य परिपूरितः षष्ठी भूमिर्व्यवस्थाप्यते / अस्यां च बोधिसत्त्वस्य प्रतीत्यसमुत्पादभावनाविहारात् प्रज्ञापारमितातिरिक्ततरा भवति / अत एव प्रज्ञापारमिताया अतिरिक्ततरत्वात् सर्वबुद्धधर्मेषु अभिमुखो ऽस्यां भूमौ वर्तत इति कृत्वा अभिमुखीत्युच्यते /
107 SK सो ऽनिमित्तविहारलाभी भवति / यावन्न शक्नोति निश्छिद्रम् अनिमित्तविहारं समापत्तुम्, तावत् षष्ठी भूमिः / यदा शक्नोति तदास्याङ्गस्य परिपूरितः सप्तमी भूमिर्व्यवस्थाप्यते / अस्यामपि भूमौ बोधिसत्त्वः सर्वनिमित्तं निर्निमित्तेन प्रतिविध्यति निमित्तकृतव्यवहारं च न विरोधयति / अतो ऽस्याम् उपायपारमितातिरिक्ततरा भवति / इयं च भूमिरनाभोगमार्गोपश्लेषात् सुष्ठु दूरङ्गमाद् दूरङ्गमा /
108 SK स निश्छिद्रानिमित्ताविहारि भवति / यावन्न शक्नोत्यनाभोगवाहिनम् अनिमित्तविहारं समापत्तुं तावत् सप्तमी भूमिः / यदा शक्नोति तदास्याङ्गस्य परिपूरितो ऽष्टमी भूमिर्व्यवस्थाप्यते / अस्यां च भूमौ अनाभोगेन कुशलपक्षयोगात् प्रणिधानपारमितातिरिक्ततरा भवति / अनिमित्ताभोगाप्रकम्प्यत्वाद् इयम् अचलेत्युच्यते /
109 SK सो ऽनाभोगानिमित्तविहारी च भवति / यावन्न शक्नोति पर्यायनिरुक्त्यादिप्रभेदैः सर्वाकारसर्वधर्मदेशनायां वशीभवितुं तावद् अष्टमी भूमिः / यदा शक्नोति तदास्याङ्गस्य परिपूरितो नवमी भूमिर्व्यवस्थाप्यते / अस्यां च भूमौ बोधिसत्त्वस्य प्रतिसंविद्- विशेषलाभात् प्रज्ञाबलविशेषयोगाद् बलपारमितातिरिक्ततरा भवति / सर्वाकारधर्मदेशनाकौशलतो ऽनवद्यमतिविशेषलाभात् साधुमती भूमिरुच्यते /
110 SK अस्यां च प्रतिसंविच्चतुष्टयलभी भवति / यावन्न शक्नोति बुद्धक्षेत्रपर्षन्निर्माणादि दर्शयितुं परिपूर्णधर्मसम्भोगं सत्त्वपरिपाकं च कर्तुम्, तावद् नवमी भूमिः / यदा तु शक्नोति तदास्याङ्गस्य परिपूरितो दशमी भूमिर्व्यवस्थाप्यते / अस्यां च निर्माणादिना सत्त्वपरिपाचनाय ज्ञानविशेषयोगाद् बोधिसत्त्वस्य ज्ञानपारमितातिरिक्ततरा भवति / इयं च धर्मदेशनामेघैः अनन्तेषु लोकधातुषु धर्मप्रवर्षणाद् धर्ममेघेत्युच्यते / अपरैरपि स्कन्धपरिशुद्धयादिव्यवस्थापनैः भूमीनां व्यवस्थापनमस्ति, ग्रन्थविस्तरभयान् न लिखितम् /
111 SK स प्रतिलब्ध- निर्माणादिवशितो ऽपि यावन् न शक्नोति सर्वस्मिन् ज्ञेये सर्वाकारम् असक्तम् / अप्रतिहतं ज्ञानम् उत्पादयितुं तावद् दशमी भूमि / यदा शक्नोति तदास्याङ्गस्य परिपूरितो बुद्धभूमिर्व्यवस्थाप्यते / एतच्च भूमिव्यवस्थापनम् आर्यसंधिनिर्मोचने निर्दिष्टम् / अस्याश्च बुद्धभूमेः सर्वाकारसकलसंपत्प्रकर्ष्डपर्यन्तगमनान्नापरम् उत्कृष्टं स्थानान्तरमस्ति [तस्मात् ततः परं नास्ति भूमिव्यवस्था] इति /
112 SK अस्याश्च बुद्धमूमेर्गुणपक्षप्रभेदो बुद्धैरपि न शक्यते सर्वाकारं वक्तुम् / तस्या अप्रमेयत्वात्, कथं पुनः अस्मत्सदृशैः / यथोक्तम् आर्यगण्डव्यूहे-
113 SK गुणैकदेश-पर्यन्त नाधिगच्छेत् स्वयंभुवः / निरीक्ष्यमाणो बुद्धो ऽपि बुद्धधर्मा ह्यचिन्तियाः // इति /
114 SK एतावत्तु संक्षेपेण वक्तुं शक्यते / [स्वपरार्थसम्पत्तिप्रकर्षपर्यन्तगतः, अशेषदोषापगमनिष्ठां प्राप्य भगवान् बुद्धो धर्मकाये स्थित्वा सम्भोगनिर्माणकायाभ्याम् अनाभोगरूपेण अशेषजगदर्थ कुर्वन् यावत् संसारं विहरति /
115 SK तस्मात् प्रेक्षवद्भिः सर्वगुणाकरेषु भगवत्सु श्रद्धा उत्पदनीया, तद्गुणपरिसाधनार्थं सर्वप्रकारेण प्रयतितव्यम् / त्रिकायदिविभागस्तु ग्रन्थविस्तरभयान्न लिख्यते /
116 SK नयस्यानुसारेण सूत्रस्य चाठ सदुक्त्यास्य मार्गस्य जिनपुत्रकाणाम् / मयानल्पपुण्यं यदाप्तं च तेन परामेतु बुद्धिं जगन्मन्दमाशु //
117 SK भूपतिश्रीदेवराजवचनेन] कमलशीलेन भावनाक्रमस्य अयं संक्षेपः कृतः /
118 SK भावनाक्रमः प्रथमः समाप्तः /
119 SK २. भावनाक्रमो द्वितीयः
120 SK नमो मञ्जुश्रिये कुमारभूताय /
121 SK महायानसूत्रनयानुप्रविश्यमानानां भावनाक्रमः संक्षेपतः कथ्यते / इह अतीशिघ्रं सर्वज्ञताप्राप्तुकामेन प्रेक्षावता तत्प्रापक-हेतु-प्रत्ययेभ्यो ऽभियोगः करणीयः /
122 SK इत्थमियं सर्वज्ञता तु हेतुं विना भवितुं न युज्यते, सर्वस्यापि सर्वदा सर्वज्ञताभावप्रसङ्गत्वात् / निरपेक्षभावे तु कुत्रापि प्रतिघो न स्याद्, यतो हि सर्वे ऽपि सर्वज्ञा एव न भवन्ति / किं तर्हि कस्यचित् कदाचित् किञ्चिन्मात्रंमूतत्वात् सर्वं हि वस्तु हेतुसापेक्षमेव / सर्वज्ञतापि कुत्रचित् कदाचित् किञ्चित् संभाव्यते / सर्वस्मिन्नपि काले नास्ति, सर्वस्मिन् स्थाने नास्ति, सर्वमपि नास्ति, तस्मात् सा तु नियतमेव हेतुप्रत्ययसापेक्षा / तद्धेतुप्रत्ययेष्वपि अभ्रान्ता अविकलाश्च सेवितव्याः / भ्रन्तहेत्वनुष्ठाने तु अतिदीर्घकालेनापि न इष्टफल-प्राप्तिः / यथा-शृङ्गात् पयोदोहवत् / सकलहेतुसेवनं विनापि न फलोत्पादः / बीजादिषु कस्यचिदपि अभावे अङ्कुरादिफलानुत्पादात् / तस्मात् तत्फलकामेनाभ्रान्तसकलं हेतुप्रत्ययं सेवनीयम् /
123 SK के हेतुप्रत्ययाः सर्वज्ञताफलस्य इति? उच्यते, मादृशो जात्यन्धसदृशस्तान् दर्शयितुं न शक्नोति, तथापि भगवतैवाभिसंबुद्धय विनेयजनेभ्यो यथोक्तं तथैव मया भगवद्वचनेनैव कथ्यते / भगवांस्तन् अवोचत्- ᳚गुह्याधिपते! तत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकम् उपायपर्यवसानम्᳚ इति / तस्मात् सर्वज्ञतामधिगन्तुकामैः करुणा-बोधिचित्तोपायेषु एतेषु त्रिषु शिक्षितव्यम् /
124 SK करुणया प्रेर्यमाणा बोधिसत्त्वाः सर्वसत्त्वाभ्युद्धारणर्थम् अवश्यं प्रतिज्ञास्यन्ति / अतः स्वात्मदृष्टिं निराकृत्य अतिदुष्कराविछिन्न-दीर्घकाल-साधीतपुण्यज्ञानसम्भारेषु (Bह्क् २०२) आदरेण प्रवृत्तिः / तत्र प्रविश्य परिपूर्ण पुण्यज्ञानसम्भारम् अवश्यं साधयति / सम्भारापरिनिष्पत्तौ सर्वज्ञता करतलगतवद् भविष्यति / तर्हि सर्वज्ञतामूलं तु करुणाया एव भूतत्वात् सा तु प्रथमतरमेव भवनीया / आर्यधर्मसंगीतिसूत्रे- ᳚न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम् / एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधितः सुप्रतिबिद्धः कर्तव्यः / तस्य सर्वबुद्धधर्माः करतलगता भवन्ति / कतम एकधर्मः? यदुत महाकरुणा /᳚ इति /
125 SK महाकरुणापरिगृहीतत्वाद् भगवन्तो बुद्धाः सकलस्वार्थसम्पत्तिलाभे ऽपि सत्त्वधातुपर्यवसानपर्यन्तं तिष्ठन्ति / श्रावकवद् अतिशान्ते ऽपि निर्वाणनगरे न प्रविशन्तिं / सत्त्वान् अवलोक्य तच्छान्तनिर्वाणनगरं प्रज्वलदयोगृहवद् दूरं त्यक्तत्वाद् भगवताम् अप्रतिष्ठितनिर्वाणहेतुस्तु सा महाकरुणा एव /
126 SK अत्र स करुणाभावनाक्रमः प्रथमप्रवेशादारभ्य अभिधातव्यः / संप्रति उपेक्षाभावनया सर्वसत्त्वेषु अनुरागं द्वेषं च निरस्य समाचित्तता प्रथमं निष्पादयितव्या /
127 SK सर्वे सत्त्वाः सुखं कामयन्ते, दुःखं तु न कामयन्ते / अनादिमति च संसारे न कश्चित् सत्त्वो यो नाभूत् शतशो मे बन्धुरिति परिचिन्तय- तश्चात्र को विशेषः स्यात्? तर्हि कस्मिंश्चिद् अनुरागः कस्मिंश्चिच्च द्वेषो भवेत्, तस्मान् मया सर्वेषु सत्त्वेषु चित्तसमतैव कार्या इति / एवं मनसिकारेण मध्यस्थपक्षत आरभ्य मित्रे शत्रौ चचित्तसमतामेव भावयेत् / ततः सर्वसत्त्वेषु चित्तसमतां साधयित्वा मैत्रीं भावयेत् / मैत्रीजलेन चित्तसंतानं सिंचयित्वा विद्यमानसुवर्णभूमिवत् कृत्वा करुणाबीजवपने सुखेन अतिसुविस्तारो भविष्यति / ततश्चित्तसंतानं मैत्र्या वासयित्वा करुणां भावयेत् /
128 SK सा च करुणा सर्वपीडितसत्त्वदुःखावगमेच्छाकारास्ति / लोकत्रयस्य सर्वसत्त्वानां त्रिविधदुःखतया यथायोगम् अत्यन्तदुःखितत्वात् तदर्थ सर्वसत्त्वेषु सा भावनीया / तथा च ये तावन्नाकारकास्ते विविधचिरन्तनदीर्घकालिकदाहादि-दुखेःषु निमग्ना एव भावतो वर्णिताः / तथा प्रेता अपि प्रायो दुःसहतीव्रक्षुत्तृषुदुःखाग्न्यभिसंशोषितमूर्तयो बहुदुःखमनुभवन्ति इति वर्णिताः / तिर्यञ्चो ऽपि परस्परभक्षणक्रोधवधहिंसादिभिरनेकविधं दुःखमनुभवन्तो दृश्यन्त एव / मनुष्या अपि कामपर्येषणाकार्पण्याद् अन्यो ऽन्यद्रोहोपधातकृतं प्रियविप्रयोगाप्रियसंयोगं दारिद्रयाद्युत्पन्नम् अप्रमेयं दुःखमनुभवन्तो दृश्यन्तो /
129 SK ये रागादिनाना-संक्लेशपर्यवेष्टितचित्ताः, ये च विविधकुदृष्टिगहननिमग्नास्ते सर्वे ऽपि दुःखहेतुत्वात् प्रपतस्था इव अतिदुःखिता एव / देवा अपि सर्वविपरिणामदुःखदुःखिता एव / देवा अपि ये कामवचरास्ते ऽपि नित्यच्यवनपतनादिभयश्कोपहताः कथं सुखिता नाम? संस्कारदु खं तु कर्मक्लेशलक्षणं हेतुपरतन्त्रस्वभावं प्रतिक्षणभङ्गुरस्वभावलक्षणं च सकलजगति व्याप्तम् / तस्मात् सकलमेव जगद् दुःखाग्निज्वालान्तरप्रविष्टम् अवेत्य यथा मम दुःखम् अप्रियम् अन्येषामपि तादृशम् इति चिन्तयता / अहो बत! दुःखिता ममैते प्रियसत्त्वास्तु कथं तद्दुःखमुक्ताः स्युरिति स्वात्मदुःखवत् कृत्वा तन्निवारणेच्छाकारया करुणया समाध्यवस्थायां सर्वचर्यासु वापि सर्वदा सर्वसत्त्वान् भावयेत् / प्रथमं तावद् मित्रपक्षेषु अनुभूतपूर्वोक्तविविधदुःखेषु अनुपश्यता भावनीया / ततः सत्त्वसमतयाविशेषमपश्यता ऽसर्वे सत्त्वास्तु मे बन्धुभूता एवऽ इति परिचिन्तयता मध्यमपक्षेषु भवनीया / यदा तत्र मित्रपक्षेष्विव सा करुणा तुल्या प्रवृत्ता भवति तदा दशसु दिक्षु सर्वसत्त्वेषु भावयेत् / यदा दुःखितप्रियशिशोः मातृवत् स्वात्मनो ऽतिप्रियं दुःखत उद्दरणेच्छाकारा स्वरसवाहिनीं सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति तदा सा निष्पन्ना भवति, महाकरुणाव्यपदेशं च लभते /
130 SK प्रथमं तावद् मित्रपक्षे कृता मैत्रीभावना सुखसंयोगेच्छाकारा भवति, क्रमशः व्यस्तेषु शत्रुषु चापि भावनीया / तथाभ्यस्ता च सा करुणा क्रमशः सकलसत्त्वाभ्युद्धरणेच्छां स्वरसेन एव उत्पादयति /
131 SK अतो मूलकरुणां भावयित्वा बोधिचित्तं भावयेत् / तद् बोधिचित्तं तु द्विविधम्- संवृतं परमार्थ च / तत्र संवृतं तु करुणया सकलसत्त्वाभ्युद्धरणं प्रतिज्ञाय ऽजगद्धिताय बुद्धो भवेयम्ऽ इति, अनुत्तरसम्यक्सम्बोधिच्छाकारः प्रथमश्चित्तोत्पादः / तथापि शीलपरिवर्तप्रदर्शित-विधिवद् बोधिसत्त्वः संवरस्थितान्यविद्वत्सु चित्तमुत्पादयेत् /
132 SK तथा संवृतबोधिचित्तमुत्पाद्य परमार्थबोधिचित्तोत्पादार्थं प्रयतितव्यम् / तच्च परमार्थगोचरम्, विमलम्, अचलम्, निर्वातप्रदीपप्रवाहवन्निष्कम्पम् / तत्सिद्धिस्तु सततं सत्कृत्य दीर्घकालं शमथविपश्यनायोगभावनाकरणाद् भविष्यति / आर्यसंधिनिर्मोचने यथा ᳚मैत्रेय! श्रावकाणां बोधिसत्त्वानां तथागतानां वा ये ऽपि सर्वे ऽपि लौकिकलोकोत्तरकुशलधर्माः शमथविपश्यनाफला वेदितव्या इति /᳚ तद्द्वयोः सर्वसमाधिसंगृहीतत्वात् सर्वयोगिभिः सदा अवश्यं शमथविपश्यने सेवनीये / तत्रैव आर्यसंधिनिर्मोचने भगवता उक्तम्, तद्यथा- ᳚मया श्रावकाणां बोधिसत्त्वानां तथागतानां विविधसमाधयो दर्शिताः, ते सर्वे शमथविपश्यनासंगृहीता वेदितव्याः᳚ इति /
133 SK केवलं शमथमात्रभावनया न योगिनाम् आवरणप्रहाणम्, क्लेशविक्रान्तिमात्रमेव तावत् / प्रज्ञालोकाभावे ऽनुशयहान्यसंभवाद् अनुशयसंहारो न भविष्यति / तस्मात् तत्रैव आर्यसंधिनिर्मोचने उक्तम् ᳚ध्यानेन हि क्लेशानां विक्रान्तिः / प्रज्ञया तु अनुशयं संप्रतिहन्ति इति᳚ /
134 SK आर्यसमाधिराजसूत्रे ऽपि-
135 SK किं चापि भावेय्य समाधिलोके न चो विभावेय्य स आत्मसंज्ञाम् / पुनः प्रकुप्यन्ति किलेशु तस्य यथोद्रकस्येह समाधिभावना / नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् / स हेतु निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये // इति उक्तम् /
136 SK बोधिसत्त्वपिटके ऽपि- ᳚ये बोधिसत्त्वपिटकस्य एतद्धर्मपर्यायाश्रवणे, आर्यविनयधर्मश्रवणं च विना समाधिमात्रेण संतोषग्रहणे तु अहंकारवशाद् अभिमाने पतिताः जन्मजरारोगमरणशोकपरिदेवनादुःखदौर्मनस्यकोपापरिमुक्ताः / षड्गतिसंसारापरिमुक्ताः दुःखस्कन्धतो ऽपि अपरिमुक्ताः / तान् संधाय तथागतेन एवम् उक्तम्- परस्माद् अनुकूलश्रोता तु जरामरणमुक्तो भविष्यति᳚ इति /
137 SK तस्मात् सकलावरणं विहाय विशुद्धज्ञानोद्भवकामेन शमथे स्थित्वा प्रज्ञा भावनीया / एवम् आर्यरत्नकूटे ऽपि भाषितम्-
138 SK शीलं प्रतिष्ठाय समाधिलाभः समाधिलाभाच्च हि प्रज्ञाभावना / प्रज्ञाया ज्ञानं भवति विशुद्धं विशुद्धज्ञानस्य हि शीलसम्पत् // इति /
139 SK आर्यमहायानश्रद्धाभावनासूत्रे ऽपि उक्तम्- ᳚कुलपुत्र! प्रज्ञायाम् अनुपस्थितौ बोधिसत्त्वानां महायानश्रद्धा महायाने कथमपि उत्पत्स्यते (इति) अहं न वक्ष्यामि / कुलपुत्र! अनेन पर्यायेणापि एवं बोधिसत्त्वानां (Bह्क् २०६) या काचिद् महायानश्रद्धा महायाने उत्पत्स्यते सा सर्वा तु अविक्षिप्तचित्तेन धर्मार्थसंचिन्तनात् समुत्पन्ना वेदितव्या / ᳚
140 SK शमथं विना विपश्यनामात्रेण योगिचित्तं विषयेषु विक्षिप्यते, वायुमध्यस्थितप्रदीपवच्च स्थिरं न भवति / अतो ज्ञानालोको ऽतिस्फुटो न भवति / तस्माद् उभयं समं सेवितव्यम् / अतः आर्यमहापरिनिर्वाणसूत्रे ऽपि उक्तम्- ᳚श्रावकैस्तु तथागतगोत्रं न दृश्यते / समाधेरधिकत्वात् प्रज्ञायाश्च अल्पत्वात् बोधिसत्त्वास्तु पश्यन्ति, किन्तु अस्फुटम्, प्रज्ञातिरेकात् समाधेश्चाल्पत्वात् / तथागतस्तु सर्वम् अवलोकयति शमथविपश्यनासमानयुक्तत्वाद्᳚ इति / शमथबलेन च वायुना अक्षोभ्यप्रदीपवद् विकल्पवायुभिश्चित्तं न कम्पते / विपश्यनया तु सकलकुदृष्टिमलप्रहाणत्वाद् अन्यैरभेद्या / चन्द्रप्रदीपसुत्रे यथा-
141 SK अकम्पियः शमथबलेन भोति शैलोपमो भोति विपश्यनाय /
142 SK इत्युक्तम् / अतः उभयेन योगकरणं स्थितम् /
143 SK तत्र आदौ संप्रति तेन योगिना सुखं शीघ्रं च शमथ-विपश्यनासिद्धये शमथविपश्यनासम्भारः सेवनीयः / तत्र शमथसंभारः कतमः? अनुकूलदेशवासः, अल्पेच्छता, सन्तुष्टिः, क्रियाबाहुल्यपरिहारः, शीलविशुद्धिः इच्छादिविकल्पपरित्यागश्च /
144 SK तत्र पञ्चगुणयुक्तो हि देशो ऽनुकूलो ज्ञातव्यः / वस्त्रभोजनादेः अकृच्छ्रेण प्राप्तित्वात् सुलब्धः, दुर्जनशत्र्वाद्यनवस्थितत्वात् सुस्थानम्, नीरोगभूमित्वात् सुभूमिः, मित्रशीलवत्समदृष्टित्वात् सन्मित्रम्, दिवा बहुजनापूरितत्वाद् रात्रौ अल्पशब्दत्वाच्च स्युयुक्तम् / अल्पेच्छता कतमा? चीबरादेरौत्कृष्टमस्य आधिक्यस्य वा अनध्यवसनम् / संतुष्टिः कतमा? (Bह्क् २०७) अबरमात्रचिवराडिलाभेन यः सदा सन्तोषः / क्रियाबाहुल्यपरिहारः कतमः? क्रयविक्रयादिदुष्कर्मपरिहारः, गृहस्थ-प्रव्रजितान्यतमातिसंस्तुतिपरिहरः, ओषधिनिर्माणनक्षत्रगणानादिपरिहारश्च /
145 SK शीलविशुद्धिः कतमा? संवरद्वये ऽपि प्रकृति-प्रतिक्षेपसावद्यशिक्षापदाभङ्गता, प्रमादभङ्गे ऽपि शीघ्रातिशीघ्रं पश्चात्तापेन यथाधर्माचरणम् / श्रावकसंवरे पाराजिकप्रतिविधाने ऽयोग्यं कथनं यदस्ति तस्मिन्नपि पश्चात्तापः, पश्चाच्च अकरण-मनसिकारः / यच्चित्तेन यत्कर्मं कृतम्, तच्चित्ते निःस्वभावताप्रतिसंख्यानद् सर्वधर्मनिःस्वभावताभावनात्वात् तत्छीलविशुद्धिरेव वक्तव्या / तत्तु आर्याजातशत्रुकौकृत्यविनोदनाद् अवबोद्धव्यम् / तस्मात् कौकृत्याभावं कृत्वा भावनायाम् अभियोगः कर्त्तव्यः /
146 SK कामेष्वपि इह जन्मान्तरे च भाविनो विविधदोषान् मनसिकृत्य तेषु विकल्पः परिहर्त्तव्यः / एतावता संसारभावः प्रियो ऽप्रियो वापि तत्सर्वं तु विनाशधर्मि अस्थिरं च / निश्चयेन तत्सर्वस्मिन् मयि च अचिरं वियोगे भावे सति मम तस्मिन् कथम् अध्यवसितादिर्भवेद् इति भावनया सर्वे विकल्पाः परिहर्त्तव्याः /
147 SK विपश्यना-सम्भारः कतमः? सत्पुरुषाश्रयः, बहुश्रुतपर्येषणा, योनिशोमनसिकारश्च / तत्र कीदृशं सत्पुरुषम् आश्रयेद् इति चेत्- यो बहुश्रुतः प्रसन्नवाक्, कारुणिको निर्वित्सहश्च / तत्र बहुश्रुतपर्येष्टिः कतमा? यत् सादरं भगवद्द्वादशाङ्गधर्मप्रवचननेयार्थनीतार्थातिश्रवणम् / इत्थम् आर्यसंधिनिर्मोचने- ᳚यथेच्छम् आर्याख्यानाश्रवणं हि विपश्यनाविघ्नः᳚ इति उक्तम् / तत्रैव ᳚विपश्यना च श्रवणमननाभ्यामुत्पन्नविशुद्धदृष्टिहेतोरूत्पद्यते /᳚ इत्युक्तम् / आर्यानारायणपरिपृच्छायाम् अपि- ᳚श्रुतिमति प्रज्ञाप्रदुर्भवति / प्रज्ञावतः क्लेशाः प्रशाम्यन्ति /᳚ इत्युक्तम् /
148 SK योनिशोमनसिकारः कतमः? यस्य नीतार्थसूत्रनेयार्थसूत्रादिसुनिर्णयस्तादृशे बोधिसत्त्वे निःशङ्के सति भावनायाम् ऐकान्तिकनिश्चयो भविष्यति / अन्यथा संशयान्दोलितयानस्थितस्तु शृङ्गाटकमध्यगतमनुष्यवत् कुत्रापि ऐकान्तिकनिश्चयो न भविष्यति /
149 SK योगिना तु सदा मत्स्यमांसादि परिहृत्य अप्रतिकूलं भोजनं नियतमात्रकं भोक्तव्यम् / तथा तेन साञ्चितसकलशमथविपश्यनासम्भारेणबोधिसत्त्वेन भावनायां प्रवेष्टव्यम् /
150 SK तत्र प्रथमं तावद् योगी भावनाकाले सर्वम् इतिकरणीयं परिसमाप्यं कृतमूत्रपुरीषः कण्टकस्वरादिरहिते मनो ऽनूकूले प्रदेशे स्थित्वा मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन्, सकलजगदभ्युद्धरणाशयो महाकरुणाम् आमुखीकृत्य दशदिगवस्थितान् सर्वबुद्धभोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वन् पटादौ स्थापयित्वा अन्यत्र वा यथावत् तेभ्यश्च यथारुचि पूजास्तवनं कृत्वा स्वपापं प्रदेश्य, सकलस्य जगतः पुण्यम् अनुमोद्य, मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केन अर्धपर्यङ्केन वा निष्पाद्य नात्युन्मूईलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा, नातिनम्रं नातिस्तब्धम् ऋजुकायं प्रणिधायान्तर्मुखावर्जितस्मृतिरुपविशेत् / ततः स्कन्धौ समौ स्थापयेत् / शिरो नोन्नतम् नावनतं एक-पार्श्वे निश्चलं स्थापयितव्यम् / किं तर्हि नाभिप्रगुणा नासिका स्थापयितव्या / दन्तोष्ठं मृदु स्थापनीयम् / जिव्हा चोपरिदन्तमूले स्थापनीया / आश्वास्प्रश्वासास्तु न सशब्दा नापि स्थूला नापि त्वरिताः करणीयाः / किं त्वसंलक्ष्यमाणा मन्दं मन्दमनाभोगेन यथा प्रविशेयुर्निर्गच्छेयुर्वा तथा करणियम् /
151 SK तत्र प्रथमं तावत् शमथो निस्पादयितव्यः, बाह्यविषयविक्षेपशान्तेः आन्तरालम्बने सततं स्वरसवाहि प्रीतिप्रस्रब्धिवच्चित्त एव स्थितिस्तु शमथ इति उच्यते / तस्यैव शमथस्यालम्बनकाले यस्तत्त्व-विचारः सा विपश्यना / आर्यरत्नमेघे यथा- ᳚शमथश्चित्तैकाग्रता / विपश्यना भूतप्रत्यवेक्षेति᳚ उक्तम् /
152 SK आर्यसंधिनिर्मोचने ऽपि- ᳚भगवन् कथं शमथपरिगवेषणं विपश्यनाकौशलं चास्ति? उच्यते / मैत्रेय! मया धर्मोपचारो व्यवस्थापितः / तद्यथा- ये सूत्रगेयव्याकरण-गाथा-उदान-निदान-अवदान-इतिवृत्तक-जातक-वैपुल्य-अद्भूतधर्म-उपदेश-वर्गाः बोधिसत्त्वेभ्य आख्यातास्ते बोधिसत्त्वैः संश्रुत्य संधार्य, पाठमभ्यस्य, मनसा सम्परीक्ष्य, दृष्ट्या सुप्रतिविद्धय स एकाकी विविक्तस्थः, अन्तः प्रतिसंलीनः, यथासुचिन्तितान् तानेव धर्मान् मनसिकृत्य, येन चित्तेन मनसिकारस्तच्चिताभ्यन्तरं सततं मनसिकारेण मनसिकारः / तथा प्रविश्य तत्र बहुशः स्थितः तस्यां कायप्रस्रब्धिचित्तप्रस्रब्धिसम्भवश्च यो ऽस्ति स तु शमथ इति / तर्हि बोधिसत्त्वः शमथपरिगवेषणं करोति / तेन कायप्रस्रब्धिः, चित्तप्रस्रब्धिश्च / ते प्राप्य तत्रैव स्थितः, चित्तविक्षेपं विहाय यथा चिन्तितधर्मः तेषामेव अभ्यन्तरे समाधिगोचरप्रतिबिम्बं प्रत्यवेक्षते, अधिमुच्यते, तादृक् समाधिगोचरप्रतिबिम्बम्, तज्ज्ञेयर्थे विविच्यते प्रविवेचनं परिकल्पनं पर्यवेक्षणं क्षान्तिः, कामो विशिष्टैव्भागो दर्शनम्, अधिगमश्च यो ऽस्ति, सा तु विपश्यना इति, तथा च बोधिसत्त्वविपश्यना कौशलम् इत्युक्तम् / ᳚
153 SK तत्र शमथाभिनिर्हारकामो योगी प्रथमं तावत् सूत्रगेयादिसकलप्रवचनं तु तथतापरायणम्, तथताप्रग्भारम्, तथताप्रवणम इति सर्वं संग्राह्य तत्र चित्तम् उपस्थापयेत् / एतावता कियदाकारेण सर्वधर्मसंग्रहभुते स्कन्धादौ तत्र चित्तम् उपस्थापयेत् / एतावता यथादृष्ट-यथाश्रुतबुद्धप्रतिमायां चित्तं स्थापितव्यम् / आर्यसमाधिराजे यथा-
154 SK सुवर्णवर्णेन समुच्छ्रयेण समन्तप्रासादिकु लोकनाथः / यस्यात्र आलम्बनि चित्तु वर्तते समाहितः सोच्यति बोधिसत्त्व // इति उक्तम् /
155 SK तथा यत्र इच्छालम्बनं तस्मिन् चित्तं स्थापयित्वा तत्रैव उपर्युपरि सततं चित्तं स्थापयेत् / तत्र उपस्थाप्य चित्तम् ईदृशमेवं परीक्षेत / ऽकिम् आलम्बनं सुगृण्हाति लीयते वा अथवा बाह्यविषयव्यसेकाद् विक्षिप्यते इति परीक्षितव्यम् / तत्र यदि स्त्यानमिद्धाभिभवाद् चित्तं लीनं वा लयाभिशङ्का दर्शने तत्काले प्रमोद्य वस्तुनि बुद्धप्रतिमादौ वा अलोकसंज्ञामनसिकरः कर्तव्यः / अथ लयम् उपशाम्य यथापि तत्रैव आलम्बने चित्तालम्बनम् अतिस्फुटदर्शनं भवति तथा करणियम् /
156 SK यदा तु जात्यन्धवद् अन्धकारप्रविष्टपुरुषवद् वा विनिमीलिताक्षवद् वा चित्तम् आलम्बनं अतिस्फुटरं न पश्यति तदा लीनं वेदितव्यम् / यदा बाह्यरूपादौ तेषां गुणकल्पनया धावनेन, अन्यमनसिकारेण वा पूर्वानुभूतविषयेच्छया चित्तौद्धत्यं वा औद्धत्यशङ्कादर्शनं वा तदा सर्वे संस्कारा अनित्या दुःखादिमनोसंवेगवस्तु मनसि कर्त्तव्यम् / ततः विक्षेपशान्तिं कृत्वा स्मृतिसम्प्रजन्यरज्जुना मनोनागः तदालम्बनस्तम्भे एव बन्धितव्यः / यदा लयौद्धत्ये न भवतः तदालम्बेन चित्तप्रशमवहितां पश्येत्, तदा आभोगशिथिलिकरणाद् उपेक्षया तत्काले यावदिच्छं तिष्ठेत् / इत्थं भावितशमथस्य तच्छरीरस्य चित्तस्य च प्रश्रब्धिर्भविष्यति / यथेच्छालम्बने चित्तं स्ववशे भविष्यति / तदा शमथो निष्पन्नो वेदितव्यः /
157 SK ततः शमथं निष्पाद्य विपश्यनां भावयेत् / ईदृशं च मन्तव्यम् भगवतः सर्ववचनं तु सुभषितम्, साक्षात् परम्परया वा तत्त्वप्रत्यक्षव्यञजनं तत्त्वपरायणमेव च / तत्त्वज्ञाने आलोकोभ्दवात् तमोनिरासवत् सर्वदृष्टिजालवियोगो भविष्यति / शमथमात्रेण ज्ञानशुद्धिर्न भविष्यति, आवरण-तमोनिरासश्चापि न भविष्यति / प्रज्ञया च तत्त्वसम्यग्भावनायां ज्ञानविशुद्धिर्भविष्यति / प्रज्ञया एव तत्त्वमवगम्यते प्रज्ञयैव आवरणं सम्यक् प्रहीयते / (Bह्क् २११) तस्मान्मया शमथे स्थित्वा प्रज्ञया तत्त्वं पर्येषितव्यम् / शमथमात्रेण संतोषो न करणीय इति विचारणीयम् /
158 SK कीदृशं च तत्त्वम् इति चेत्? यत् परमार्थतः सर्ववस्तुपुद्गल धर्मात्मशून्यम्, तत्प्रज्ञापरिमितया अधिगम्यते न चान्यथा / आर्यसंधिनिर्मोचने यथोक्तम् ᳚भगवन्! कया पारमितया बोधिसत्त्वः धर्मनिःस्वभावतां गृण्हीयात्? अवलोकितेश्वर! प्रज्ञापारमितया गृह्यते /᳚ इति / तस्मात् शमथे स्थित्वा प्रज्ञां भावयेत् /
159 SK तत्रैवं योगी विचारयेत्, ऽपुद्गलः न स्कन्धधात्वायतनव्यतिरिक्त उपलभ्यते / न चापि पुद्गलः स्कन्धादिस्वभवः / ते स्कन्धादयस्तु अनित्याः, अनेकस्वभावत्वात् पुद्गलस्य च नित्यैकरूपेण परैरुपकल्पितत्वात् / नापि तत्त्वान्यत्वाभ्याम् अनभिलाप्यपुद्गलस्य वस्तुत्वं युक्तम् / वस्तुसतः प्रकारान्तराभावात् / तस्मात् तद्यथा भ्रम एव अयं लोकस्य यदुताहं मेमेति विचारितव्यम् /
160 SK धर्मनैरात्म्यमपि एवं भवनीयम् / धर्म इति संक्षेपतः पञ्चस्कन्धो द्वादशायतनम्, अष्टादशधातवश्च / तत्र ये च स्कन्धायतनधातुरूपिणः, न ते परमार्थतः चित्ताकारव्यतिरिक्ताः / तत्परमाणुशो विभागे परमाणवो ऽपि भागशः स्वभावताप्रत्यवेक्षमाणाः स्वभावनिश्चयग्रहणाभावात् / तस्माद् अनादिकालिकवितथरूपाद्यभिनिवेशवशात् स्वप्नोपलभ्यमानरूपादिप्रतिभासवद् बालानां चित्तमेव बहिः विच्छिन्नमिव रूपादिप्रतिभासं ख्याति / परमार्थतस्तत्र रूपादिस्तु न चित्ताकारव्यतिरिक्त इति विचारयेत् / तद् एवं त्रैधातुकमिदं तु चित्तमात्रमिति चिन्तयेत् / स एवं चित्तमेव सकलधर्मप्रज्ञप्तिं निश्चित्य तत्र प्रत्यवेक्ष्य च सर्वधर्माणां स्वभावः प्रत्यवेक्षितो भवतीति चित्तस्वभावमपि प्रत्यवेक्षते / स एवं विचारयति /
161 SK चित्तमपि परमार्थः सत्यं भवितुम् न युज्यते / यदा हि अलीकस्वभावरूपाद्याकरोपग्रहणे चित्तमेव चित्राकारं प्रतिभासते, तदा सत्यत्वं कुत्र भवेत् / यथा रूपादी (Bह्क् २१२) अलीकं तथा चित्तमपि तदव्यतिरिक्तत्वाद् अलीकमेव / यथा चित्राकारतया रूपादयो नैकानेकस्वभावाः तथा चित्तमपि तदव्यतिरेकेण अनिकानेकस्वभावम् / तस्मात् मायादिस्वभावोपममेव चित्तम् /
162 SK यथा चित्तमेवं सर्वधर्मा अपि मायास्वभावसदृशा एव इति विचारयेत् / तेन तथा प्रज्ञया चित्तस्वभावे प्रत्येवेक्षमाणे परमार्थतः चित्तम् अभ्यन्तरे ऽपि नोपलभते, बाह्ये ऽपि नोपलभते, अनुभयो ऽपि नोपलभते, अतीतचित्तमपि नोपलभते, अनागतमपि नोपलभते, प्रत्युत्पन्नमपि नोपलभते / नापि चित्तमुत्पाद्यमानं कुतो ऽप्यागच्छति, नापि निरुध्यमानं क्वचिदपि गच्छति / चित्तं तु अग्राह्यम् अनिर्देश्यम्, अरूपम् च / अनिर्देश्यम् अग्रह्यम् अरूपम् च यदस्ति तस्य स्वभावः कीदृशः? तथा आर्यरत्नकूटे यथोक्तम्- ᳚काश्यप! चित्तं तु परिगवेष्यमाणं न लभ्यते / यन्न लब्धं तन्न आलम्ब्यते यच्च नालम्ब्यते / तन्नातीतम्, नानागतम्, न च प्रत्युत्पन्नम् /᳚ इति विस्तरः / तद् एवं परीक्ष्यमाणे चित्तस्य आदिं न समनुपस्यति, अन्तं न समनुपश्यति मध्यं न समनुपश्यति /
163 SK यथा च चित्तम् अनन्तमध्यं तथा सर्वधर्मानपि अनन्तमध्यम् अवगच्छेत् / तेन तदेवं चित्तम् अनन्तमध्यम् अवगम्य किमपि चित्तस्वभावं नोपलभते / यदपि चित्तं परीक्ष्यते तदपि शून्यं प्रतिविध्यति / तत्प्रतिविध्यमाने चित्तविठपनास्वभावं रूपादिस्वभावमपि न समनुपश्यति / तेन तथा प्रज्ञया सर्वधर्मस्वभावस्य असमनुदर्शनत्वाद् रूपं नित्यम् अनित्यं वा, शून्यम् अशून्यं वा, सास्रवम् अनास्रवं वा, उत्पन्नम् अनुत्पन्नं वा, भावो ऽभावो वेती न विकल्पयति / यथा रूपं न विकल्पयति तथा वेदनासंज्ञासंस्कारविज्ञानेष्वपि न विकल्पयति / असिद्धे धर्मिणि तस्य विशेषणानामपि असिद्धत्वात्, तत्र कथं विकल्पयेत् / तद् एवं प्रज्ञया परीक्ष्यमाणो (Bह्क् २१३) यदा योगिना कस्यचिद् वस्तुनः स्वभावपरमार्थनिश्चयो न गृह्यते, तदा निर्विकल्पसमाधौ प्रविशति / सर्वधर्मनिःस्वभावता अपि अवगम्यते /
164 SK यः प्रज्ञया वस्तुस्वभावं प्रत्यवेक्ष्य न भावयन्, मनसिकारपरिहारमात्रं भावयति, तस्य विकल्पः कदापि न निवर्तते, न च निःस्वभावतावबोधो ऽपि भविष्यति, प्रज्ञालोकाभावात् / एवं सम्यक्प्रत्यवेक्षणात् सम्यग्यथावज्ज्ञानाग्निभावे ऽरणिमन्थनाग्निवत् कल्पनावृक्षो दह्यते इति भगवता उक्तम् /
165 SK तथा उक्तम् आर्यरत्नमेघे- ᳚स एवम् अपक्षालकुशलः सर्वप्रपञ्चविगमाय शून्यताभावनाय योगमापद्यते / स शून्यताभावनबहुलो येषु येषु स्थानेषु चित्तं प्रसरति, चित्तमभिरमते, तानि तानि स्थानानि स्वभावतः परिगवेषमाणः शून्यं प्रतिविध्यति / यत् चित्तं तदपि परीक्षमाणः शून्यं प्रतिविध्यति, येनापि चित्तेन परीक्षते तद् अपि स्वभावतः शून्यं परिगवेष्यमाणं प्रतिविध्यति / स एवम् उपपरीक्षमाणो निर्निमित्ततायां योगमापद्यते /᳚ इति भवति / अनेन तु पर्यवेक्षणपूर्वगामितायाः निर्निमित्तताप्रवेशं दर्शयति / मनसिकारपरिहारमात्रम्, प्रज्ञया वस्तुस्वभावतां च अविचार्य, अविकल्पताप्रवेशम् असंभाव्य, अतिस्फुटतरं दर्शयति / तथा तया प्रज्ञया रूपादिवस्तुस्वभावं सम्यग् यथावत् परीक्ष्य ध्यायति, रूपादौ स्थित्वा ध्यानं न करोति / इहलोकपरलोकयोर्मध्ये स्थित्वा ध्यानं न करोति, तद्रूपाद्यनुपलम्भात् / तस्माद् अप्रतिष्ठितध्यान इति उच्यते /
166 SK प्रज्ञया स्कलवस्तुस्वभावतां प्रतिवीक्ष्य यस्माद् अनुपलम्भं ध्यायति- तस्मात् प्रज्ञोत्तरध्यायी इति उच्यते / आर्यगगनगञ्ज-आर्यरत्नचूडादिषु यथा निर्दिष्टम् /
167 SK स एवं पुद्गलधर्मनैरात्म्यमयं तत्त्वमवतीर्णः, अपरस्य परीक्षणीयस्य दर्शनीयस्य च अभावाद् उपरतम्, वितर्क-विचार-अनभिलाप्यैकरसेन मनसा स्वरसवाहिना अनभिसंस्कारतस्तत्त्वमेव (Bह्क् २१४) स्फुटतरं भावयन् तिष्ठेत् / तत्र च स्थितश्चित्तसंतानं न विक्षिपेत् / यदान्तरा रागादीनां चित्तं बहिर्धा विक्षपेत् तदा विक्षेपं विदित्वा शिघ्रम् अशुभभावनादिविक्षेपम् उपशम्य शीघ्रं तथतायां चित्तम् उपर्युपरि प्रवेशयेत् / यदा तु तत्रानभिरतं चित्तं पश्येत्, तदा समाधेर्गुणदर्शनाद् अभिरतिं तत्र भावयेत् / विक्षेपे च दोषदर्शनाद् अरतिं प्रशमयेत् / अथ स्त्यानमिद्धाभिभवाद् यदा स्फुटप्रचारतया लीनं चित्तं पश्येत्, लयाभिशङ्कितं वा तदा पूर्ववत् प्रमोद्यवस्तु मनसिकारेण शीघ्रं लयमुपशमयेत् / पुनः तद् एव तत्त्वालम्बनम् अतिदृढतरं गृण्हीयात् / यदि तदा पूर्वहसितरमितान्यनुस्मृत्य चित्तमन्तरा समृद्धतं पश्येद् औद्धत्याभिशङ्कितं वा तदा अनित्यतादिसंवेगवस्तुमनसिकाराद् विक्षेपं शमयेत् / ततः पुनस्तत्रैव तत्त्वे चित्तानभिसंस्कारवाहितायां यत्नं कुर्वीत /
168 SK अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहिस्फुटतरं तत्रैव तत्त्वे चित्तं उत्पादयते, तदा भोगशिथिलीकरणाद् उपेक्षणियम् / यदि समप्रवृत्ते चित्ते सति आभोगः क्रियते, तदा चित्तं विक्षेप्यते / लीने ऽपि चित्ते सति, यद्याभोगो न क्रियते, तदा अतिलीनत्वाद् विपश्यनारहितं, चित्तं च जात्यन्धवद् भविष्यति / तस्माच्चित्ते लीने सति भोगं कुवीत / समप्रवृत्ते सति भोगं न कुर्वीत / यदा च विपश्यनां भावेयत् प्रज्ञातिरिक्ततरा भवेत्, तदा शमथस्याल्पत्वात् प्रवातस्थित-प्रदीपवत् प्रचलत्वाच्चित्तस्य न स्फुटरं तत्त्वदर्शनं भवेत् / अतस्तदा शमथौ भावयितव्यः / शमथस्याभ्यधिक्ये ऽपि प्रज्ञा भावयितव्या /
169 SK यदा उभयं समप्रवृत्तं तदा अनभिसंस्कारेणैव तावत् स्थातव्यं यावत् कायचित्तपीडा न भवेत् / सत्यां कायादिपीडायां तदन्तरा सकलमेव लोकं मायामरीचिस्वप्नजलचन्द्रोपमप्रतिभासवद् दृष्ट्वा ईदृशं चिन्तनीयम् / अमी सत्त्वास्तु एवं विधधर्मगाम्भिर्यानवबोधतया संसारे संक्लिष्टाः / ततो ऽहं करिष्यामि तांस्तां धर्मताम् अवबोधयेयुः, तथा करिष्यामिऽ इति चिन्तयन् महाकरुणां बोधिचित्ताभिमुखीं कुर्वित / ततो विश्रम्य पुनरपि तथैव सर्वधर्मनिराभासं समाधिमवतरेत् / चित्ते ऽतिखेदे सति, तथैव विश्रमेत् / अयं तु शमथविपश्यनायुगनद्धप्रवृत्तिमार्गः सविकल्पनिर्विकल्पप्रतिबिम्बम् आलम्बते /
170 SK एवं योगी अनेन क्रमेण घटिकाम् अर्धप्रहरम् एकप्रहरं वा यावत्कालेच्छापर्यन्तं तत्त्वं भावयन् तिष्ठेत् / इदं त्वर्थप्रविचयध्यानम् आर्यलङ्कावतारे (Bह्क् २१५) निर्दिष्टम् / तत इच्छया समाधेरुत्थातुं पर्यङ्कम् अभित्त्वैवम् अनुविचिन्तयेत्, अमी धर्माः सर्वे परमार्थतः निःस्वभावाः सन्तो ऽपि संवृतौ व्यवस्थिता एव / तथासति कर्मफलसम्बन्धादयः कथं व्यवस्थिताः स्युः? भगवता चोक्तम्-
171 SK ᳚भावा विद्यन्ति संवृत्या परमार्थे न भावकाः /᳚ इत्युक्तम् /
172 SK अमी बालबुद्धयो निःस्वभाववस्तुषु भावादिसमारोपेण विपर्यस्तबुद्धयो भवन्ति / चिरकालं संसारचक्रे परिभ्रमन्ति, ततो ऽहं करिष्यामि अनुत्तरपुण्यज्ञानसम्भारं परिपूर्य, ततः सर्वज्ञपदं प्राप्य तान् धर्मताम् अवबोधयेयम् / एवं विचिन्तयेत् / अथ शनैः पर्यङ्कं भित्त्वा दशदिग्व्यवस्थितान् सर्वबुद्धोबोधिसत्त्वान् प्रणिपत्य तेभ्यश्च पूजास्तोत्रोपहारं कृत्वार्यभद्रचर्यादिमहाप्रणिधानं प्रणिदधीत / ततः शून्यताकरुणागर्भसकलदानादिपुण्यसंभारोपार्जने ऽभियोगः करणीयः /
173 SK तथा च सति तद्ध्यानसर्वाकारवरोपेतशुन्यताभिनिर्हारः स्यात् / आर्यरत्नचूडे यथोक्तम्- ᳚स मैत्रीवर्मसंनद्धो महाकरुणास्थाने स्थित्वा सर्वाकारवरोपेतशून्यताभिनिर्हारध्यानं करोति / तत्र सर्वाकारवरोपेतशून्यता कतमा? या दानपगति-शीलानपगति-क्षान्त्यनपगति-वीर्यानपगति-ध्यानानपगति-प्रज्ञनापगति-उपायानपगतीत्यादिविस्तरोक्तिरिति /᳚ बोधिसत्त्वस्तु सर्वसत्त्वपरिपाकं कुर्वीत / क्षेत्रकायबहुपरिवारादिसंपत्तिप्रादुर्भावोपायदानादिकुशलं चावश्यं सेवेत /
174 SK असति च तथा बुद्धानाम् क्षेत्रादिसंपत्तिर्योक्ता सा कस्य फलं स्यात् / तस्मात् सर्वाकारवरोपेतं तत्सर्वज्ञज्ञानं तु दानाद्युपायेन परिपूर्यमाणत्वाद् भगवान् तत् सर्वज्ञज्ञानम् उपायेन पर्यन्तगतम् इत्यवोचत् / तस्माद् बोधिसत्त्वेन दानाद्युपायो ऽपि सेवितव्यो न तु शून्यता एव / आर्यसर्वधर्मवैपुल्ये (Bह्क् २१६) ᳚यो ऽयं मैत्रेय! षट्पारमितासमुदागमो बिधिसत्त्वानां सम्बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति, प्रज्ञापारमितायाम् एवं बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति उच्यन्ते / ते ऽन्याः पारमिता दूषयितव्या मंस्यन्ते / तत् किं मन्यसे अजित! दुष्प्रज्ञः स काशिराजो ऽभूद् येन कपोतार्थेन श्येनाय स्वमांसानि दत्तानि? मैत्रेय आह, नो हीदं भगवन् / भगवान् आह- यानि मया मैत्रेय! बोधिसत्त्वचर्यां चरता षट्पारमिता-प्रतिसंयुक्तानि कुशलमूलान्युपचितानि, अपकृतं नु तैः कुशलमूलैः? मैत्रेय आह नो हीदं भगवन् / भगवान् आह- त्वं तावद् अजित! षष्टिकल्पान दानापारमितायां समुदागतः, षष्टिकल्पान् शीलपारमितायं षष्टिकल्पान् क्षान्तिपारमितायां षष्टिकल्पान् विर्यपारमितायां षष्टिकल्पान् ध्यानपारमितायां षष्टिकल्पान् प्रज्ञापारमितायां समुदागतः / तत् ते मोहपुरुषा एवं वक्ष्यन्ति / एकनयेनैव बोधिर्यदुत शून्यतानयेनेति ते चर्यापरिशुद्धा भवन्तीत्यादि / ᳚
175 SK उपायरहिते सति बोधिसत्त्वः प्रज्ञया एव तु श्रावकवत् बुद्धकार्याणि कर्तुं न शक्नोति / उपायसनाथश्च समर्थो भवति / आर्यरत्नकूटे यथोक्तम्- ᳚तद्यथा काश्यप! अमात्यसंगृहीता राजानः सर्वकार्याणि कुर्वन्ति, एवमेव उपायकौशल्यसंगृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति /᳚ इति / बोधिसत्त्वानां मार्गदृष्टेरप्यन्या तीर्थिकानां श्रावकाणां च मार्गदृष्टिरप्यन्या / एवं तीर्थिकमार्गदृष्टिस्तु आत्मादौ विपर्यासयुक्तत्वात् सर्वेण सर्वः प्रज्ञारहितो मार्गः / तस्मात् ते मुक्तिं न प्राप्नुवन्ति /
176 SK श्रावकाणां तु महाकरुणारहितत्वाद् उपायायुकता / तस्मात् ते एकान्तनिर्वाणपरायणाः भवन्ति / बोधिसत्त्वमार्गस्तु प्रज्ञोपाययुक्तो मन्यते / तस्मात् ते अप्रतिष्ठितनिर्वाणपरायणा भवन्ति / बोधिसत्त्वानां मार्गस्तु प्रज्ञोपाययुक्तो मन्यते / तस्मात् ते अप्रतिस्ठितनिर्वाणं प्राप्नुवन्ति / प्रज्ञाबलेन तु संसारे न पतति, उपायबलेन च निर्वाणे न पतति /
177 SK तस्माद् आर्यगयाशीर्षे- ᳚द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ / कतमौ द्वौ- यदुत प्रज्ञा चोपायश्च /᳚ इत्याख्यातम् / आर्यश्रीपरमाद्ये ऽपि उक्तम्- (Bह्क् २१७) ᳚प्रज्ञापारमिता तु ऽमाताऽ अस्ति, उपायकौशल्यं च ऽपिताऽ अस्ति / ᳚आर्यविमलकीर्तिनिर्देशसूत्रे ऽपि- ᳚बोधिसत्त्वानां किं बन्धनम्? का च मुक्तिः? अनुपायेन भवगतिपरिग्रहो हि बोधिसत्त्वस्य बन्धनम् / उपायेन भवगतिगमनं मुक्तिः / प्रज्ञारहितभावगतिपरिग्रहो बोधिसत्त्वस्य बन्धनम् / प्रज्ञया भवगतिगमनं तु मुक्तिः / उपायेन अपरिगृहीता प्रज्ञा हि बन्धनम् / उपायेन परिगृहिता प्रज्ञा मुक्तिः / प्रज्ञयापरिगृहीतोपायो बन्धनम् / प्रज्ञया गृहीतोपायः मुक्तिः इति᳚ विस्तरेन उक्तम् /
178 SK बोधिसत्त्वस्य प्रज्ञामात्रसेवनं तु श्रावकेष्टनिर्वाणपतितत्वाद् बन्धनवद् भविष्यति / अप्रतिष्ठितनिर्वाणेन मुक्तिर्न भविष्यति / तस्मादुपायरहिता प्रज्ञा तु बोधिसत्त्वानां बन्धनमित्युच्यते / तस्माद् वायुपीडितेन अग्निसेवनवद् बोधिसत्त्वेन विपर्यासवायुमात्रप्रहाणत्वात् सोप्याप्रज्ञया शून्यता सेवितव्या, न तु श्रावकवत् साक्षात्करणीया / यथा आर्यदशधर्मसूत्रे चोक्तम्- ᳚कुलपुत्र! तद्यथा यथा कश्चिन्मनुष्यः अग्निपरिचर्यां करोति, स तदग्निसत्कारं करोति, गुरुं करोति, किन्तु सो ऽयमिति मया सो ऽग्निः सत्कृत्य, गुरूकृत्य मानितश्च इति कृते ऽपि एष द्वाभ्यां हस्ताभ्यां परिगृहीतव्य इति न चिन्तयति / तत् कस्मादिति चेत् तन्निधान्ने मयि कायिकदुःखं चित्तदौर्मनस्यं वा सम्भाव्यते इति चिन्तनात् / तथैव च बोधिसत्त्वे ऽपि निर्वाणाशयो ऽप्यस्ति, निर्वाण-प्रत्यक्षं न करोति / तत् कस्य हेतोरिति चेत्? तन्निधानाद् अहं बोधिं निर्वर्तेयम् इति चिन्तनाद्᳚ इति /
179 SK केवलम् उपायमात्रसेवने ऽपि बोधिसत्त्वः पृथग्जनभूमेरनुत्तीर्णत्वाद् अत्यवबद्ध एव भविष्यति / तस्मात् प्रज्ञासहितमुपायं सेवेत / एवं मन्त्रपरिगृहीतविषवद् बोधिसत्त्वक्लेशे ऽपि प्रज्ञापरिग्रहबलेन भाविते सति अमृतिकता / पुनः स्वभावेन अभ्युदयफलं दानादि यदस्ति तत्र किमुत (Bह्क् २१८) वक्तव्यम् / आर्यरत्नकुटे चोक्तं यथा- ᳚तद्यथापि नाम काश्यप! मन्त्रौषधपरिगृहीतं विषं न विनिपातयति एवमेव बोधिसत्त्वानाम् क्लेशः प्रज्ञापरिगृहितत्वाद् अपि न शक्नोति विनिपातयितुम् इति / ᳚
180 SK तस्माद् येन कारणेन बोधिसत्त्व उपायबलेन संसारमनुत्सृजति तस्माद् निर्वाणे न पतति / यस्मात् प्रज्ञाबलेन सकलालम्बनं प्रहीयते तस्मात् संसारे न पतति, तस्माद् अप्रतिष्ठितनिर्वाणबुद्धत्वं प्राप्यते / तस्माद् आर्यगगनगञ्जे ऽपि उक्तम्- ᳚तत्प्रज्ञानेन हि सर्वक्लेशाः परिवर्ज्यन्ते / उपायज्ञानेन हि सर्वसत्त्वा न परित्यज्यन्ते /᳚ इति / आर्यसंधिनिर्मोचने ऽपि- ᳚एकान्तसत्त्वार्थविमुखस्य एकान्तसंस्काराभिसंस्कारविमुखस्य नानुत्तरा सम्यक्संबोधिरुक्ता मयेति /᳚ तस्माद् बुद्धत्वप्रातुकामेन प्रज्ञोपायौ उभौ सेवितव्यौ /
181 SK तत्र लोकोत्तरप्रज्ञाभावनावसरे, अतिसमाहितावसरे वा दानाद्युपायसेवनासम्भावनायामपि तत्र प्रयोगतत्पृष्ठलब्धप्रज्ञयोः यो ऽपि भवति, तदा उपायसेवनं भवत्येव / तस्मात् प्रज्ञापायौ युगपत् प्रवर्तेते / पुनरपरं बोधिसत्त्वानाम् अयं हि प्रज्ञोपाययुगनद्धवाहि मार्गः सर्वसत्त्वावलोकितमहाकरुणया परिगृहीतत्वात् लोकोत्तरमार्गः सेव्यते, उत्थानोपायकाले ऽपि मायाकारवद् अविपर्यस्तमेव दानादि सेव्यते / आर्याक्षयमतिनिर्देशे ऽपि यथोक्तम्- ᳚तत्र को हि बोधिसत्त्वोपायः? कश्च प्रज्ञाभिनिर्हार इति? यतः समाधाने सत्त्वावलोकितमहाकरुणावलम्बने चित्तोपस्थापना स एव उपायः / यतः शान्तिप्रशान्तिसमापत्तिः सा तु तत्प्रज्ञा᳚इति विस्तरः / मारदमनपरिच्छेदे ऽपि उक्तम्- ᳚पुनरपरं बोधिसत्त्वानां समुत्कर्षिकप्रयोगस्तु प्रज्ञाज्ञानेन अभियोगं करोति / उपयज्ञानेन सर्वकुशलधर्मसंग्रहो (Bह्क् २१९) ऽपि प्रयुज्यते / प्रज्ञाज्ञानेन नैरात्म्य-असत्त्व-अजीव-अपोष-अपुद्गलेषु च प्रयुज्यते / उपायज्ञानेन यः सर्वसत्त्वपरिपाको ऽपि प्रयोज्यः᳚ इति विस्तरः / आर्यधर्मसंगीतिसूत्रे ऽपि-
182 SK मायाकारो यथा कश्चिन्निर्मितं मोक्षमुद्यतः / न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतो ऽस्य सः //
183 SK त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः / संनह्यते जगद्धेतोर्ज्ञातपूर्व जगत् तथा // इति /
184 SK बोधिसत्त्वनाम् प्रज्ञोपायविधिरेव साध्यमधिकृत्य तत्प्रयोगसंसारे स्थितो ऽपि अस्ति, आशयनिर्वाणे स्थितो ऽपि स्याद् इत्युक्तम् /
185 SK तादृश्यां शून्यतामहाकरुणागर्भानुत्तरसम्यक्संबुद्धौ परिणतदानाद्युपायभावनां कृत्वा, परमार्थबोधिचित्तोत्पादार्थ पूर्ववत् नित्यं काले काले शमथविपश्यनाप्रयोगो यथाशक्ति भावनीयः / आर्यगोचरपरिशुद्धिसूत्रे- सर्वावस्थासु सत्त्वार्थकारिबोधिसत्त्वानामनुशंसा यथा निर्दिष्टा तथा संनिहितस्मृत्या सर्वदा उपाअयकौशलं भावितव्यम् /
186 SK तादृक्करुणोपायबोधिचित्तभावकः स इह जन्मनि अवश्यं विशिष्टो भवति / तस्मात् स्वप्ने नित्यं बुद्धबोधिसत्त्वदर्शनं भविष्यति / सुस्वप्नान्तराण्यपि दृश्यन्ते / देवा अपि अनुमोदनाद् रक्षां करिष्यन्ति / प्रतिक्षणमपि विपुलपुण्यज्ञानसम्भारसंचयो भविष्यति / क्लेशावरणदौष्ठुल्यमपि क्षीणं भविष्यति / सर्वदैव सुखसौमनस्यमधिकं भविष्यति / बहुजनप्रियो भविष्यति / शरीरे ऽपि रोगग्रस्तो न भविष्यति / परमचित्तकर्मण्यतापि प्राप्ता भविष्यति / तस्माद् अभिज्ञतादिविशिष्टगुणप्राप्तिः /
187 SK अथ ऋद्धिबलेन अनन्तलोकधातून् गत्वा भगवतो बुद्धान् पूजयति / तेभ्यः धर्मो ऽपि श्रूयते / मरणसमये ऽपि अवश्यमेव बुद्धबोधिसत्त्वदर्शनं भविष्यति / जन्मान्तरे ऽपि बुद्धबोधिसत्त्वानपगतदेशविशिष्टगृहे चापि जन्म भविष्यति / तस्माद् अनायासपुण्यज्ञानसम्भारः परिपूरयिष्यते / महाभोगो बहुपरिवारश्च भविष्यति / तीक्ष्णप्रज्ञया बहुजनपरिपाकमपि करिष्यन्ति / सर्वजातिषु जातिस्मरणं भविष्यति / तादृशी अपरिमितानुशंसा सूत्रान्तरेषु संभूता अवगन्तव्या /
188 SK तेन तादृक्करुणोपायबोधिचित्तानि च नित्यम् आदरेण चिरंभवितानि क्रमशः चित्तसंताने अतिपरिशुद्धक्षणोत्पादेन परिपाकभूतत्वाद् अरणिमन्थनाग्निवत् सम्यगर्थभावनाप्रकर्षपर्यन्तं गमनं भूत्वा लोकोत्तरज्ञानसकलविकल्पजालापगमनं निष्प्रपञ्चधर्मधातुप्रस्फुटावगति, निर्मलनिश्चलनिर्वातस्थितप्रदीपवत् निश्चलप्रमाणभूतः, सर्वधर्मनैरात्म्यस्वभावः तत्त्वसाक्षात्कारी, दर्शनमार्गसंगृहीतः परमार्थबोधिचित्तस्वभाव उत्पद्यते / तदुत्पादाद् वस्तुपर्यन्ततालम्बने प्रविष्टः / तथागतगोत्रे उत्पद्यते, बोधिसत्त्वानपक्षालप्रवृत्तिः, लोकसर्वगतिनिवृत्तिः, बोधिसत्त्वधर्मताधर्मधात्ववबोधस्थितिः, प्राप्तबोधिसत्त्वप्रथमभूमिः इत्यनुशंसा तद्विस्तरः दशभूम्यादिषु अवगन्तव्यः / इदं तथतालम्बनध्यानम् आर्यलङ्कावतारे निर्दिष्टम् / इदं तु बोधिसत्त्वानाम् निष्प्रपञ्चनिर्विकल्पतायामेव प्रविशति /
189 SK अधिमुक्तिभूमौ तु अधिमुक्तिवशात् प्रवृत्तिर्व्यवस्थापिता न तु अभिसंस्कारेण / तज्ज्ञानप्रादुर्भावे तु साक्षात् प्रवेशः / तथा प्रथमभूमिप्रवेशः तदनन्तरं भावनामार्गे लोकोत्तरेण तत्पृष्ठलब्धज्ञानेन द्वाभ्यां च प्रज्ञोपायभावनाक्रमेण भावनाप्रहेयसंचितावरणस्य सूक्ष्मसूक्ष्मतरव्यवदानाद् उत्तरोत्तरविशिष्टगुणप्राप्तये अधोभूमिपरिशोधनेन तथागतज्ञानपर्यन्तं प्रविश्य, सर्वज्ञतासागरम् अवतीर्य, कार्यपरिनिष्पत्त्यालम्बनमपि प्राप्नोति / एवं क्रमेण एव चित्तसंतानपरिशुद्धिः आर्यलङ्कावतारे ऽपि उक्ता / आर्यसंधिनिर्वोचने (Bह्क् २२१) ऽपि यथोक्तम्- ᳚क्रमेणोत्तरोत्तरभूमिसु सुवर्णवत् चित्तं व्यवदाय, अनुत्तरसंयक्संबोधिपर्यन्तम् अभिसंबुध्यति᳚ इति /
190 SK सर्वज्ञतासागरप्रवेशे सति चिन्तमणिवत् सकलसत्त्वोपजीविगुणस्कन्धयुक्तः पूर्वप्रणीधानफलसत्कृतः, महाकरुणास्वभावभूतः, अनाभोगनानोपययुक्तः, अपरिमितनिर्माणैरशेषजगत्सर्वार्थाकरः कृतः / अशेषगुणसंपत्तिप्रकर्षपर्यन्तभुतः, सवासनादोषं सकलमलं निराकृत्य, सत्त्वधात्वन्तपर्यन्तविहारी, इति प्रेक्षावान् भगवति बुद्धे सकलगुणाकरे श्रद्धाम् उत्पाद्य तद्गुणपरिनिष्पत्त्यर्थं स्वयं सर्वान् प्रयत्नान् कुर्यात् / तस्माद् भगवता एवमुक्तम्- ᳚तदेतत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकम् उपायपर्यवसानम्᳚ इति /
191 SK दूरीकृतेर्ष्यादिमला हि सन्तो गुणैरतृप्ताः सलिलैरिवाब्धिः / विवेच्य गृण्हन्ति सुभाषितानि हंसाः पयो यत्पयांसि प्रहृष्टाः //
192 SK पक्षपाताकुलं तस्माद् दूरीकृतं मनो बुधैः / सर्वमेव ग्रहीतव्यं बालादपि सुभाषितम् //
193 SK प्रकाश्य यत् प्रापि मया शुभम् असमपद्धितम् / पुण्यमस्तु जनस्तेन प्राप्तो मध्यमपद्धितम् //
194 SK आचार्यकमलशीलेन मध्ये निबद्धो भावनाक्रमः समाप्तः /
195 SK भरतीयोपाध्यायेन प्रज्ञावर्मणा महालोकचक्षुषा वन्द्यज्ञानसेनेन चानूद्य सुनिर्णितः /
196 SK भावनाक्रमः द्वीतीयः समाप्तः //
197 SK (Bह्क् २२२): ब्लन्क्
198 SK ३. भावनाक्रमस्तृतीयः
199 SK महायानसूत्रान्तनयप्रवृत्तानां संक्षेपतो भावनाक्रमः कथ्यते / तत्र यद्यपि बोधिसत्त्वानामपरिमितो ऽप्रमाणादिभेदेने भगवता समधिरुपदिष्टः, तथापि शमथविपश्यनाभ्यां सर्वे समाधयो व्याप्ता इति / स एव शमथविपश्यनायुगनद्धवाही मार्गस्तावत् कथ्यते / उक्तं च भगवता-
200 SK निमित्तबन्धनाज् जन्तुरथो दोष्ठुलबन्धनात् / विपश्यनां भावयित्वा शमथं च विमुच्यते // इति /
201 SK तस्मात् सकलावरण-प्रहाणार्थिन शमथविपश्यने सेवनीये / शमथबलेन स्वालम्बने चित्तम् अप्रकम्प्यं भवति निवातस्थितप्रदीपवत् / विपश्यनया यथावद् धर्मतत्त्वावगमात् सम्यग्ज्ञानालोकः समुत्पद्यते, ततः सकलम् आवरणं प्रहीयते, अन्धकारवद् आलोकोदयात् /
202 SK अत एव भगवता चत्वार्यालम्बनवस्तूनि योगिनां निर्दिष्टानि / निर्विकल्पप्रतिबिम्बकम्, सविकल्पप्रतिबिम्बकम्, वस्तुपर्यन्तता, कार्यपरिनिष्पत्तिश्च / तत्र शमथेन यत् सर्वधर्मप्रतिबिम्बकं बुद्धादिरूपं चाधिमुच्यालम्ब्यते तेन निर्विकल्पप्रतिबिम्बकम् उच्यते / तत्र भूतार्थनिरूपणाविकल्पाभावान् निर्विकल्पकम् उच्यते / यथाश्रुतोद्गृहीतानाञ्च धर्माणां प्रतिबिम्बकम् अधिमुच्यालम्ब्यत इति कृत्वा प्रतिबिम्बकम् उच्यते / तद् एव प्रतिबिम्बकं यदा विपश्यनया विचारयति योगी तत्त्वाधिगमार्थं तदा सविकल्पप्रतिबिम्बकम् उच्यते, तत्त्वनिरूपणविकल्पस्य विपश्यनालक्षणस्य तत्र समुद्भवात् / तस्यैव च प्रतिबिम्बस्य स्वभावं निरूपयन् (Bह्क् २२४) योगी दर्पणान्तर्गतस्वमुख-प्रतिबिम्बप्रत्यवेक्षणेन स्वमुखगतवैरूप्याणां विनिश्चयवत्, सर्वधर्माणां यथावत् स्वभावावगमात् / यदा वस्तु पर्यन्ततालक्षणां तथतां प्रतिबिध्यति, तदा वस्तुपर्यन्ततावगमात् प्रथमायां भूमौ वस्तुपर्यन्ततालम्बनम् उच्यते / ततो भावनामार्गेण परिशिष्टासु भूमिष्वोषधिरसायनोपयोगाद् इव क्रमेण विशुद्धतरतमक्षणोदयाद् आश्रयपरावृत्तौ सत्याम्, आवरण-प्रहाणलक्षण-कार्यपरिसमाप्तिर्यदा भवति तदा बुद्धभूमौ तद् एव ज्ञानं कार्यपरिनिष्पत्त्यालम्बनम् उच्यते /
203 SK तद् एवम् अनेन किं दर्शितं भवति? शमथविपश्यनाभ्यां समस्तवस्तुपर्यन्तताधिगमो भवति / तेन चावरणप्रहाणलक्षणा कार्यपरिनिष्पत्तिरवाप्यते / तद् एव च बुद्धत्वम् / अतो बुद्धत्वाधिगमार्थिना शमथविपश्यने सेवनीये / यस्तु ते न सेवते तस्य नैव वस्तुपर्यन्तताधिगमो नापि कार्यपरिनिष्पत्तिरिति / तत्र शमथश्चित्तैकाग्रता / विपश्यना भूतप्रत्यवेक्षेति संक्षेपाद् आर्यरत्नमेघादौ भगवता शमथविपश्यनयोर्लक्षणम् उक्तम् / तत्र योगिना शीलविशुद्धयादौ शमथविपश्यनासंभारे स्थितेन सर्वसत्त्वेषु महाकरुणाम् उत्पाद्य, समुत्पादित-बोधिचित्तेन श्रुतचिन्ताभावनायां प्रयोक्तव्यम् /
204 SK तत्र प्रथमं तावद् योगी भावना-काले सर्वम् इतिकरणियं परिसमाप्य कृतमूत्रपुरीषः कण्टक-स्वरादिरहिते मनो ऽनुकूले प्रदेशे स्थित्वा मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन्, सकलजगदभ्युद्धरणाशयो महाकरुणाम् आमुखीकृत्य, दशदिगवस्थितान् सर्वबुद्धबोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वान् पीठादौ स्थापयित्वा अन्यत्र वा यथावत् तेभ्यश्च यथारुचि पूजास्तवनं कृत्वा स्वपापं प्रदेश्य, सकलस्द्य जगतः पुण्यम् अनुमोद्य, मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केण (Bह्क् २२५) अर्धपर्येङ्केण वा निषद्य नात्युन्मीलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा, नातिनम्रं नातिस्तब्धम् ऋजुकायं प्रणिधायान्तर्मुखावर्जितस्मृतिरुपविशेत् / ततः स्कन्धौ समौ स्थापयेत् / शिरो नोन्नतं नावनतम् एकपार्श्वे निश्चलं स्थापयितव्यम् / किं तर्हि नाभिप्रगुणा नासिका स्थापयितव्या / दन्तोष्ठं मृदु स्थापनीयम् / जिव्हा चोपरि दन्तमूले स्थापनीया / आश्वासप्रश्वासास्तु न सशब्दा नापि श्थूला नापि त्वरिताः करणीयाः / किं त्वसंलक्षयमाणां मन्दं मन्दमनाभोगेन यथा प्रविशेयुर्निर्गच्छेयुर्वा तथा करणियम् /
205 SK तत्र प्रथमं तावद् योगी यथादृष्टश्रुते तथागतविग्रहे चित्तं स्थापयित्वा शमथं निष्पादयेत् / तञ्च तथागतविग्रहम् उत्तप्तकनकावदातं लक्षणानुव्यञ्जनालंकृतं पर्षन्मण्डलमध्यगतं नानाविधैरुपायैः सत्त्वार्थं कुर्वन्तं प्राबन्धिकेन मनसिकारेण तद्गुणाभिलाषं समुपादाय लयौद्धत्यादीन् व्युपशमय्य तावद् ध्यायेद् यावत् स्फुटतरं पुरो ऽवस्थितमिव तं पश्येत् / ततः तस्य तथागतविग्रहप्रतिबिम्बकस्यागतिगतिं निरूपयतो विपश्यनां भावयति / ततश्चैवंविधं विचिन्तयेत् / यथेदं तथागतविग्रहप्रतिबिम्बकं न कुतश्चिद् आगतं नापि क्वचिद् गमिष्यति तिष्ठदपि स्वभावशून्यम् आत्मात्मीयरहितं तथा एव सर्वधर्माः स्वभावशून्या आगतिगतिरहिताः प्रतिबिम्बोपमाः, भावादिरूपरहिता इति विचार्योपरतविचारेण निर्जल्पैकरसे मनसा तत्त्वं भावयन् यावदिच्छं तिष्ठेत् / अयं च समाधिः प्रत्युत्पन्नबुद्धसंमुखावस्थितसमाधिर्निर्दिष्टः / अस्य चानुशंसा विस्तरतस्तत्रैव सुत्रे बोधयितव्या /
206 SK एतावता प्रकारेण सर्वधर्मसंग्रहो भवति, तत्र चित्तम् उपनिबध्य लयौद्धत्यादिप्रशमेन शमथं निष्पादयेत् / रूप्यरूपिभेदेन च (Bह्क् २२६) संक्षेपात् सर्वधर्मसंग्रहः / तत्र रूपस्कन्धसंगृहीता रूपिणः / वेदनादिस्कन्धस्वभावा अरूपिणः / तत्र बाला भावादिग्रहाभिनिवेशाद् विपर्यस्तधियः संसारे परिभ्रमन्ति / तेषां विपर्यासापनयनाय, तेषु च महाकरुणाम् आमुखीकृत्य, निष्पन्नशमथो योगी तत्त्वाधिगमाय ततो विपश्यनां भावयेत् / भूतप्रत्यवेक्षणा च विपश्यनोच्यते / भुतं पुनः पुद्गलधर्मनैरात्म्यम् /
207 SK तत्र पुद्गलनैरात्म्यं या स्कन्धानामात्मात्मीयरहितता / धर्मनैरात्म्यं या तेषामेव मायोपमता / तत्रैवं योगी निरूपयेत् / न तावद् रूपादिव्यतिरिक्तः पुद्गलो ऽस्ति / तस्या प्रतिभासनात् / रूपादिष्वेवाहमिति प्रत्ययोत्पत्तिश्च / न चापि रूपादिस्कन्धस्वभावः पुद्गलः / तेषां रूपादीनामनित्यानेकस्वभावत्वात् / पुद्गलस्य च नित्यैकरूपेण परैरुपकल्पितत्वात् / नापि तत्त्वान्यत्वाभ्याम् अनभिलाप्यपुद्गलस्य वस्तुत्वं युक्तम् / वस्तुसतः प्रकारान्तराभावात् / तस्माद् अलीकविभ्रम एवायं लोकस्य यदुताहं ममेति निश्चयं प्रतिपन्नस्य / ततो रूपिणो ऽपि धर्मान् धर्मनैरात्म्याधिगमाय विचारयेत्- किम् एते चित्तव्यतिरेकेण परमार्थसन्तः स्थिताः आहोस्विच्चित्तमेव रूपादिनिर्भासं स्वप्नावस्थायां प्रतिभासवत् प्रतिभासत इति / स तान् परमाणुशो निरूपयन्, परमाणूंश्च भागशः प्रत्यवेक्षमाणो नोपलभते / तथा चानुपलभमानस्तेषु अस्तिनास्तित्वविकल्पान् निवर्तयति /
208 SK चित्तमात्रञ्च त्रैधातुकम् अवतरति नान्यथा / अथ चोक्तं लङ्कावतारे-
209 SK अणुशो विभजति द्रव्यं न चैव रूपं विकल्पयेत् / चित्तमात्रव्यवस्थानं कुदृष्ट्या न प्रसीदति // इति /
210 SK तस्यैवं भवति चित्तमेवानादिकालिकवितथरूपाद्यभिनिवेशवशात् स्वप्नोपलभ्यमानरूपादिप्रतिभासवद् बालानां बहिः विच्छिन्नमिव रूपादिप्रतिभासं ख्याति / तस्माच्चित्तमात्रमेव त्रैधातुकम् / स एवं चित्तमेव सकलधर्मप्रज्ञप्तिं निश्चित्य तत्र प्रत्यवेक्ष्य च सर्वधर्माणां स्वभावः प्रत्यवेक्षितो भवतीति चित्तस्वभावमपि प्रत्यवेक्षते / स एवं विचारयति, चित्तमपि परमार्थतो मायावद् अनुत्पन्नम् / यद हि अलीकस्वभावरूपाद्याकारोपग्रहेण चित्तमेव चित्राकारं प्रतिभासते, तदास्यापि रूपादिवत् तदव्यतिरेकात् सत्यत्वं कुत्र भवेत्? यथा चित्राकारतया रूपादयो नैकानेकस्वभावास्तथा चित्तमपि तदव्यतिरेकेण नैकानेकस्वभावम् / नापि चित्तमुत्पाद्यमानं कुतश्चिद् आगच्छति / नापि निरुध्ययानं क्वचिद् गच्छति / नापि स्वपरोभयतः परमार्थेनास्योत्पादो युक्तः / तस्मान् मायोपममेव चित्तम् / यथा चित्तमेवं सर्वधर्मा मायावत् परमार्थतो ऽनुत्पन्नाः /
211 SK येनापि चित्तेन प्रत्यवेक्षते योगी तस्यापि स्वभावं परीक्षमाणो नोपलभते / तद् एवं यत्र यत्रालम्बने योगिनश्चित्तं प्रसरेत् तस्य तस्य स्वभावं परीक्षमाणो [तत् स्वभावमपि नोपलभते] ऽसौ यद नोपलभते तदा सर्वमेव वस्तु विचार्य कदलीस्कन्धवद् असारमवगम्य, ततश्चित्तं विवर्तयति / ततो भावादिविकल्पोपरतौ सर्वप्रपञ्चविगतम् आनिमित्तं योगं प्रतिलभते / तथा चोक्तम् आर्यरत्नमेघे- ᳚स एवम् अपक्षालकुशलः सर्वप्रपञ्चविगमाय शून्यताभावनाया योगमापद्यते / स शून्यताभावनाबहुलो येषु येषु स्थानेषु चित्तं प्रसरति चित्तमभिरमते तानि तानि स्थानानि स्वभावतः (Bह्क् २२८) परिगवेषमाणः शून्यं प्रतिविध्यति [यत् चित्तं तदपि परीक्षमाणं शून्यं प्रतिविध्यति] येनापि चित्तेन परीक्षते तद् अपि स्वभावतः परिगवेष्यमाणं शून्यं प्रतिविध्यति / स एवम् उपपरीक्षमाणो निर्निमित्ततायां योगमापद्यते /᳚ तद् एव अनेनैवं दर्शितं भवति / यस्तु नोपपरीक्षते तस्य नास्ति निर्निमित्ततायां प्रवेश इति /
212 SK स एवं धर्माणां स्वभावमुपपरीक्षमाणो यद नोपलभते, तदास्तीति न विकल्पयति नास्तीति न विकल्पयति / यो ऽसौ नास्तीति कल्प्यते तस्य बुद्धौ सर्वदैवाप्रतिभासनात् / यदि हि भावः कदाचिद् दृष्टो भवेत्, तदा तस्य प्रतिषेधान् नास्तीति कल्पयेत् / यदा कालत्रये ऽपि योगिना प्रज्ञया निरूपयता भावो नोपलब्धः तदा कस्य प्रतिषेधान् नास्तीति कल्पयेत् / एवमन्ये विकल्पास्तस्य तदानीं न सन्ति एव, भावाभावविकल्पाभ्यां सर्वस्य विकल्पस्य व्याप्तत्वात् / एवं व्यापकाभावाद् ब्याप्यस्याप्यभावः / एवं सति निष्प्रपञ्चनिर्विकल्पतामवतीर्णो भवति, रूपादिषु चानिश्रितो भवति / प्रज्ञया च निरूपयतः सकलवस्तुस्वभावानुपलम्भात् प्रज्ञोत्तरध्यायी भवति / स एवं पुद्गलधर्मनैरात्म्यमयं तत्त्वमवतीर्णः, अपरस्य परीक्षणीयस्य चाभावाद्, उपरतविचारेण निर्विकल्पैकरसेन मनसा स्वरसवाहिना, अनभिसंस्कारतः तद् एव तत्त्वं स्फुटतरम् अवधारयन् योगी तिष्ठेत / तत्र च स्थितश्चित्तबन्धं न विक्षिपेत् /
213 SK यदान्तरा चित्तं बहिर्धा विक्षिप्तं पश्येत् तदा तत्स्वभावप्रत्येवेक्षणेन विक्षेपं प्रशमय्य, पुनस्तत्रैव चित्तमुपर्युपरि प्रेरयेत् / यदा तु तत्रानभिरतं चित्तं पश्येत्, तदा समाधेर्गुणदर्शनाद् अभिरतिं तत्र थावयेत् / विक्षेपे च दोषदर्शनाद् अरतिं प्रशमयेत् / अथ स्त्यानमिद्धाभिभवाद् यद प्रचारतया लीनं चित्तं पश्येत्, लयाभिशङ्कितं वा तदा प्रमोद्यवस्तु बुद्धरूपादिकमालोकसंज्ञां वा मनसिकृत्य लयमुपशमयेत्, ततस्तद् एव तत्त्वं दृढतरं (Bह्क् २२९) गृण्हीयात् / यदा तु जात्यन्धवद् अन्धकारप्रविष्टपुरुषवद् विनिमीलिताक्षवत् स्फुटतरं तत्त्वं नावधारयेद् योगी, तदा तस्य लीनं चित्तं वेदितव्यं विपश्यनारहितं च / अथ यथा पूर्वानुभूतविषयस्पृहया चित्तमन्तरा समुद्धतं पश्येद्, औद्धत्याभिशङ्कितं वा, तदानित्यतादि संवेगवस्तुमनसिकाराद् औद्धत्यं शमयेत् / ततः पुनः तत्रैव तत्त्वे चित्तानभिसंस्कारवाहितायां यत्नं कुर्वीत / यदा च विक्षिप्तपुरुषवद् वानरवद् वानवस्थितवृत्ति चित्तं भवेत्, तद् औद्धत्यं बोद्धव्यं शमथरहितं च / अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहि स्फुटतरं तत्रैव तत्त्वे चित्तम् उत्पाद्यते तदाभोगशिथिलीकरणाद् उपेक्षणियम् / तदा च शमथविपश्यनायुगनद्धवाही मार्गोनिष्पन्नो वेदितव्यः /
214 SK यदा च विपश्यना भावयेत् प्रज्ञातिरिक्ततरा भावयेत्, तदा शमथस्याल्पत्वात् प्रवातस्थितप्रदिपवत् प्रचलत्वाच्चित्तस्य न स्फुटतरं तत्त्वदर्शनं भवेत् / अतस्तदा शमथो भावयितव्यः / शमथस्याभ्याधिक्ये मिद्धावष्टबधपुरुषस्येव स्फुटतरं तत्त्वदर्शनं न स्यात् / तस्मात् तदा प्रज्ञा भावयितव्या / यदा समप्रवृत्ते द्वे अपि भवतो युगनद्धवाहिबलीवर्दद्वयवत् तदानभिसंस्कारेणैव तावत् स्थातव्यं यावत् कायचित्तपीडा न भवेत् /
215 SK संक्षेपतः सर्वस्यैव समाधेः षड् दोषा भवन्ति / कौसीद्यम्, आलम्बनसंप्रमोषः, लयः, औद्धत्यम्, अनाभोगः, आभोगश्चेति / एषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भावनीयाः / श्रद्धा, छन्दः, व्यायामः, प्रस्रब्धिः, स्मृतिः, संप्रजन्यम्, चेतना, उपेक्षा चेति / तत्राद्याश्चत्वारः कौसीद्यप्रतिपक्षाः / तथा हि- समाधिगुणेष्वभिसंप्रत्ययलक्षणया श्रद्धया योगिनो ऽभिलाषः समुत्पद्यते / ततो ऽभिलाषवान् वीर्यमारभते / ततो वीर्यारम्भणात् कायचित्तयोः कर्मण्यतां भावयति / ततः प्रस्रब्धकायचेतसः (Bह्क् २३०) कौसीद्यं व्यावर्तते / ततः [श्रद्धादयः कौसीद्यप्रहाणाय भवन्ति] तदर्थ ते भावनीयाः / स्मृतिरालम्बन-संप्रमोषस्य प्रतिपक्षः / संप्रजन्यं लयौद्धत्ययोः प्रतिपक्षः / तयोस्तेन समुपेक्ष्य परिवर्जनात् / लयौद्धत्याप्रशमनकाले तु अनाभोगदोषः ततस्तत्प्रतिपक्षेण चेतना भावनीया / लयौद्धत्यप्रशमे सति, यदा प्रशमबाहि चित्तं भवेत्, तदाभोगदोषः / तस्य प्रतिपक्षस्तदानीम् उपेक्षा भावनीया / यदि समप्रवृत्ते चित्ते आभोगः क्रियते, तदा चित्तं विक्षिप्यते / लीने ऽपि चित्ते सति यद्याभोगो न क्रियते, तदा विपश्यनारहितत्वाद्, अन्धपुरुषवच्चित्तं लीनं स्यात् / तस्मात् लीनचित्तं निगृण्हीयाद्, उद्धतं प्रशमयेत्, पुनः समाप्राप्तम् उपेक्षेत /
216 SK ततो यावदिच्छ योगी तावद् अनभिसंस्कारेणैव तत्त्वं भावयंस्तिष्ठेत् / सत्यां तु कायादिपीडायां पुनः पुनरन्तरा सकलमेव लोकं व्यवलोक्यमायाजल चन्द्रोपमप्रतिभासं [वत] अवतरेत् / तथ चोक्तम् अविकल्पप्रवेशे- लोकोत्तरेण ज्ञानेनाकाशसमतलान् सर्वधर्मान्पश्यति / पृष्ठलब्धेन पुनर्मायामरीचिस्वप्नो दकचन्द्रोपमान् पश्यतीति / तद् एवं मायोपमं जगद् अवगम्य, सत्त्वेषु महाकरुणाम् आमुखीकृत्यैवम् अनुविचिन्तयेत् / एवंविधं धर्मगाम्भोर्यम् अनवगच्छन्तो ऽमी बालबुद्धय आदिशान्तेष्वेव धर्मेषु भावादिसमारोपविपर्यस्ता विविधकर्मक्लेशान् उपचिन्वन्ति / ततः संसारे परिभ्रमन्ति, ततो ऽहं करिष्यामि यथैतान् एवंविधं धर्मागाम्भीर्यम् अवबोधयेयम् इति, ततो विश्रम्य पुनरपि तथैव सर्वधर्मनिराभासं समाधिमवतरेत् / चित्तखेदे सति, तथैव विश्रम्य पुनरवतरेत् / एवम् अनेन क्रमेण घटिकाम् [अर्थप्रहरम्] एकप्रहरं वा यावन्तं कालं शक्नोति तावन्तं कालं तिष्ठेत् /
217 SK तत इच्छया समाधेः उत्थातुं पर्यङ्कम् अभित्त्वैवम् अनुविचिन्तयेत् / यदि नामामी धर्माः सर्व एव परमार्थतो ऽनुत्पन्नास्तथापि मायवत् प्रतिनियतविविधहेतुप्रत्ययसामग्रीवशेन विचित्रा एवाविचाररमणीयाः प्रवर्तन्ते, तेन नोच्छेददृष्टिप्रसङ्गः / नाप्यपवादान्तस्य, यतश्च प्रज्ञया विचार्यमाणा नोपलभ्यन्ते, तेन न शाश्वतदृष्टिप्रसङ्गो नापि समारोपान्तस्य / तत्र ये प्रज्ञाचक्षुर्विकलतया विपर्यस्तमतया आत्माभिनिविष्टा विविधानि कर्माणि कुर्वन्ति ते संसारे परिभ्रमन्ति / ये पुनरेकान्तेन संसारविमुखा महाकारुण्यविकलतया च न [सत्त्वार्थं] दानादिपारमिताः परिपूरयन्ति आत्मानं दमयन्ति ते सत्त्वा उपायविकलतया श्रावकप्रत्येकबुद्धबोधौ पतन्ति /
218 SK ये तु अस्वभावं जगद् अवगम्य महाकारुण्यबलेन सकलजगदभ्युद्धरणकृतनिश्चया मायाकारवद् अविपर्यस्तधियो विपुलपुण्यज्ञानसंभारं समुपायन्ति ते तथागतं पदं प्राप्यासंसारमशेषस्य जगतः सर्वाकारं हितसुखानि संपादयन्तः तिष्ठन्ति / ते च ज्ञान[सम्भार]बलेन [समस्त]क्लेशप्रहाणान् न संसारे पतन्ति सर्वसत्त्वापेक्षया च समुपार्जितविपुलाप्रमेयपुण्यसंभारवशेन न निर्वाणे पतन्ति, सर्वसत्त्वोपजीव्याश्च भवन्ति / तस्मान् मया सकलसत्त्वहितसुखाधानार्थिनाप्रतिष्ठितनिर्वाणम् अधिगन्तुकामेन विपुलपुण्यज्ञान-संभारोपार्जने ऽभियोगः [सदा] करणियः / तथा चोक्तम् आर्यतथागतगुह्यसुत्रे- ᳚ज्ञानसम्भारः सर्वक्लेशप्रहाणाय संवर्तते / पुण्यसम्भारः सर्वसत्त्वोपजीवितायै संवर्तते / तस्मात् तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेन पुण्यसम्भारे ज्ञानसंभारे च सर्वदाभियोगः करणीयः᳚ इति / आर्यतथागतोत्पत्तिसंभसूत्रे चोक्तम्- ᳚स खलु पुनरेष तथागतानां (Bह्क् २३२) संभवो नैकेन कारणेन भवति / तत् कस्य हेतोः? समुदागतैस्तावद् भो जिनपुत्राप्रमेयशतसहस्रदशकारणैस्तथागताः समुदागच्छन्ति / कतमैर्दशभिर्यदुताप्रमेयपुण्यज्ञानसम्भारातृप्तिसमुदागमकारणेनेति᳚ विस्तर / आर्यविमलकीर्तिनिर्देशे चोक्तम्- ᳚शतपुण्यनिर्जाताः सर्वकुशलधर्मनिर्जाता अप्रमाणकुशलमूलकर्मनिर्जाताः कायास्तथागतस्येति᳚ विस्तरः /
219 SK तद् एवं कृत्वा शनैः पर्यङ्कं भित्त्वा दशदिग्व्यवस्थितान् सर्वबुद्धबोधिसत्त्वान् प्रणिपत्य तेभ्यश्च पूजास्तोत्रोपहारं कृत्वार्यभद्रचर्यादिप्रणिधानं प्रनिदधीत / ततः शून्यताकरुणागर्भानुत्तरसंबोधिपरिणामितसकलदानादिपुण्यसंभारोपार्जनाभियुक्तो भवेत् /
220 SK यस्तु मन्यते, चित्तविकल्पसमुत्थापितशुभाशुभकर्मवशेन सत्त्वाः स्वर्गादिकर्म फलमनुभवन्तः संसारे संसरन्ति / ये पुनर्न किञ्चिच्चिन्तयन्ति नापि किञ्चित् कर्म कुर्वन्ति ते परिमुच्यन्ते संसारात् / तस्मान्न किञ्चिच्चिन्तयितव्यम् / नापि दानादिकुशलचर्या कर्तव्या / केवलं मूर्खजनमधिकृत्य दानादिकुशलचर्या निर्दिष्टेति / तेन सकलमहायानं प्रतिक्षिप्तं भवेत् / महायानमूलत्वाच्च सर्वयानानां तत्प्रतिक्षेपेण सर्वम् एव यानं प्रतिक्षिप्तं स्यात् / तथा हि ऽन किञ्चिच्चिन्तयितव्यमितिऽ ब्रुवत भुतप्रत्यवेक्षालक्षणा प्रज्ञा प्रतिक्षिप्ता भवेत् / भूतप्रत्यवेक्षा-मूलत्वात् सम्यग्ज्ञानस्य तत्प्रतिक्षेपा ल्लोकोत्तरापि प्रज्ञा प्रतिक्षिप्ता भवेत् / तत्प्रतिक्षेपात् सर्वाकारज्ञता प्रतिक्षिप्ता भवेत् / नापि दानादिचर्या कर्तव्येति वदता चोपायो दानादिः स्फुटतरमेव प्रतिक्षिप्तः /
221 SK एतावद् एव च संक्षिप्तं महायानं यदुत प्रज्ञोपायश्च / यथोक्तम् आर्यगयाशीर्षे- ᳚द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ / कतमौ द्वौ? यदुत (Bह्क् २३३) प्रज्ञा चोपायश्च /᳚ आर्यतथागतगुह्यसूत्रे चोक्तम्- ᳚इमौ च प्रज्ञोपायौ बोधिसत्त्वानां सर्वपारमितासंग्रहाय संवर्तेते᳚ इति / ततश्च महायानं प्रतिक्षिपता महत् कर्मावरणं कृतं स्यात् / तस्माद् [महायानं प्रतिक्षिपतः, अल्पश्रुतस्य, आत्मदृष्टिं परामृशतः,] अस्यानुपासितविद्वज्जनस्यानवधारित-तथागत-प्रवचननीतेः स्वयं विनष्टस्य परान् अपि नाशयतो युक्त्यागमदूषितत्वात्, विषसंसृष्टवचनं सविषभोजनमिव आत्मकामेन धीमता दूरत एव परिहर्तव्यम् /
222 SK तथा ह्यनेन भूतप्रत्यवेक्षां प्रतिक्षिपता धर्मप्रविचयाख्यं प्रधानम् एव बोध्यङ्गं प्रतिक्षिप्तं स्यात् / विना च मूतप्रत्यवेक्षया योगिनः कथम् अनादिकालाभ्यस्तरूपादिभावाभिनिवेशस्य चित्तं निर्विकल्पतां प्रविशेत्? सर्वधर्मेष्वस्मृत्यमनसिकारेण प्रविशतीति चेत्, तद् अयुक्तम् / न हि विना भूतप्रत्यवेक्षयानुभूयमानेष्वपि सर्वधर्मेष्वस्मृतिरमनसिकारो वा शक्यते कर्तुम् / यदि च नामामी धर्मा मयास्मर्तव्या नापि मनसिकर्तव्या इत्येवं भावयन्नस्मृतिमनसिकारौ तेषु भावयेत् तदा सुतराम् एव तेन ते स्मृता मनसिकृताश्च स्युः / अथ स्मृतिमनसिकाराभावमात्रम् अस्मृत्यमनसिकारावभिप्रेतौ, तदा तयोरभावः केन प्रकारेण भवतीति एतद् एव विचार्यते / न चाभावः कारणं युक्तम्, येन ततो [निर्निमित्तामनसिकारात्] निर्विकल्पता भवेत् / [तन्मात्रतो ऽविकल्पतायां] संमुर्च्छितस्यापि स्मृतिमनसिकाराभावान् निर्विकल्पताप्रवेशप्रसङ्गः / न च भूतप्रत्यवेक्षां विनान्य उपायो ऽस्ति येन प्रकारेणास्मृत्यमनसिकारौ कुर्यात् /
223 SK सत्यपि चास्मृत्यमनसिकारसम्भवे, विना भूतप्रत्यवेक्षया निःस्वभावता धर्माणां कथम् अवगता भवेत्? न हि स्वभावत एवं धर्माः (Bह्क् २३४) शून्याः स्थिता इत्येवं विना तत्प्रत्यवेक्षया तच्छून्यताप्रतिवेधो भवेत् / नापि विना शून्यताप्रतिवेधेन आवरणप्रहाणं संभवति सर्वत्र सर्वेषां मुक्तिप्रसङ्गात् / किं च तस्य योगिनो यदि सर्वधर्मेषु मुषितस्मृतितया मूढतया वा स्मृतिमनसिकारौ न प्रवर्तेते, तदात्यन्तमूढः कथम् असौ योगी भवेत् / विना च भूतप्रत्यवेक्षया तत्रास्मृतिम् अमनसिकारं चाभ्यस्तता मोह एवाभ्यस्तो भवेत् / तत एव सम्यग्ज्ञानालोको दूरीकृतः स्यात् / अथासौ न मुषितस्मृतिर्नापि मूढः, तदा कथं तत्रास्मरणम् अमनसिकारं कर्तु शक्नुयाद् विना भूतप्रत्यवेक्षया / न हि स्मरन्नेव न स्मरति, पश्यन् एव न पश्यतीति युक्तम् अभिधातुम् / अस्मृत्यमनसिकाराभ्यासाच्च कथं पूर्वनिवासानुस्मृत्यादि-बुद्धधर्मोदयो भवेत्, विरोधात्, न ह्युष्णविरुद्धं शीतम् आसेवमानस्य उष्णस्पर्शसंवेदनं भवेत् /
224 SK किं च समाधिसमापन्नस्य योगिनो यदि मनोविज्ञानम् अस्ति, तदावश्यं तेन किंचिद् आलम्बयितव्यम् / न हि पृथग्जनानां सहसा निरालम्बनं ज्ञानं भवेत् / अथ नास्ति, तदा कथं निःस्वभावता धर्माणामवगता भवेत्? केन च प्रतिपक्षेण क्लेशावरणं प्रहीयते? न च चतुर्थध्यानालाभिनः पृथग्जनस्य चित्तनिरोधः संभवति / तस्मात् सद्धर्मे यावस्मृत्यमनसिकारौ पठितौ तौ भूतप्रत्यवेक्षापूर्वाकौ द्रष्टव्यौ / अस्माद् भूतप्रत्यवेक्षयास्मृतिर्मनसिकारश्च शक्यते कर्तुम्, नान्यथा / तथा हि यदा निरूपयन् सम्यक्प्रज्ञया योगी कालत्रये परमार्थतः समुत्पन्नं न कंचिद् धर्म पश्यति, तदा तत्र कथं स्मृतिमनसिकारौ कुर्यात् / यो हि कालत्रये ऽप्यसत्त्वान् नानुभूतः परमार्थतः स कथं स्मर्येत, मनसि वा क्रियेत / ततो ऽसौ सर्वप्रपञ्चोपशमं निर्विकल्पं ज्ञानं प्रविष्टो भवेत् / तत्प्रवेशाच्च शून्यतां प्रतिविध्यति तत्प्रतिवेधाच्च प्रहीणसकलकुदृष्टिजालो भवति /
225 SK उपाययुक्तः प्रज्ञासेवनतश्च सम्यक् संवृतिपरमार्थसत्यकुशलो भवति / अतो ऽनावरणज्ञानलाभात् सर्वान् एव बुद्धधर्मान् अधिगच्छति / तस्मान्न विना भूतप्रत्यवेक्षया सम्यग्ज्ञानोदयो नापि क्लेशावरणप्रहाणाम् / तथा चोक्तं मञ्जुश्रीविकुर्वितसूत्रे- ᳚कथं दारिके बोधिसत्त्वो विजितसंग्रामो भवति? आह, यो मञ्जुश्रीः विचाय विचाय सर्वधर्मान् नोपलभते᳚ इति / तस्माद् विस्फारितज्ञानचक्षुः प्रज्ञाशस्त्रेण क्लेशारीन् निर्जित्य, निर्भयो विहरन् योगी, न तु कातरपुरुष इव विनिमीलिताक्षः / आर्यसमाधिराजे ऽप्युक्तम्-
226 SK नैरात्म्यधर्मान् यदि प्रत्येवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत् / स हेतु निर्वाणपहलस्य प्राप्तये यो ऽन्यहेतुर्न स भोति शान्तये // इति /
227 SK सुत्रसमुच्चये चोक्तम्- ᳚आत्मना विपश्यनायोगम् अनुयुक्तो विहरति परांश्च विपश्यनायां नाभियोजयतीति मारकर्मेति /᳚ विपश्यना च भूतप्रत्यवेक्षास्वभावा आर्यरत्नमेघ-सन्धिनिर्मोचनादौ, आर्यरत्नमेघे च- ᳚विपश्यनां निरूपयतो निःस्वभावताप्रतिवेधद् अनिमित्तप्रवेश उक्तः /᳚ आर्यलङ्कावतारे चोक्तम्- ᳚यस्मात्, महामते, बुद्धया विचार्यमाणानां स्वसामान्यलक्षणं भावानां नावधार्यते / तेनोच्यन्ते निःस्वभावाः सर्वधर्माः᳚ इति / तत्र तत्र सूत्रे या भगवता नानाप्रकारा प्रत्यवेक्षा निर्दिष्टा सा विरुध्यते, यदि भूतप्रत्यवेक्षा न कर्तव्या / तस्माद् एवं युक्तं वक्तुं वयम् अल्पप्रज्ञा अल्पवीर्याश्चन शक्नुमो बाहुश्रुत्यं पर्येषितुमिति / न हि तत्प्रतिक्षेपो युक्तो भगवता (Bह्क् २३६) बहुधा बाहुश्रुत्यस्य वर्णितत्वात् / तत् पुनर्ब्रह्मपरिपृच्छायाम् उक्तम्- ᳚ये त्वचिन्त्येषु धर्मेषु [चिन्तन]विप्रयुक्ताः तेषाम् अयोनिश इति / तत्रापि ये परमार्थतो ऽनुत्पन्नानां धर्माणाम् उत्पादं परिकल्प्यानित्यदुःखदिरूपेण श्रावकादिवच्चिन्तां प्रकुर्वन्ति, तेषां समारोपापवादान्तेन चिन्तां प्रवर्तयताम् अयोनिशः तद् भवतीति तत्प्रतिषेधाय यद् उक्तं न भूतप्रत्यवेक्षायाः स प्रतिषेधः तस्याः सर्वसूत्रेष्वनुज्ञानात् / तथा च तत्रैव ब्रह्मपरिपृच्छायाम् उक्तम्- ᳚चित्तशूरो बोधिसत्त्व आह-यश्चित्तेन सर्वधर्माश्चिन्तयति तत्र चाक्षतो ऽनुपहतः स तेनोच्यते बोधिसत्त्वः᳚ इति / तत्रैवोक्तम्- ᳚कथं वीर्यवन्तो भवन्ति, यद सर्वज्ञताचित्तं विचीयमानानोपलभन्ते᳚ इति / पुनः तत्रैवोक्तम्- ᳚मतिमन्तश्च ते भविष्यन्ति योनिशो धर्मान् प्रत्यवेक्षणतयेति᳚ / पुनः तत्रैवोक्तम्- ᳚प्रविचिन्वन्ति ते धर्मान् यथा मायामरीचिकेति᳚ /
228 SK तद् एवं यत्र यत्राचिन्त्यादिप्रपञ्चः श्रूयते, तत्र तत्र श्रुतचिन्तामात्रेणैव तत्त्वाधिगमं ये मन्यन्ते, तेषाम् अभिमानप्रतिषेधेन प्रत्यात्मवेदनीयत्वं धर्माणां प्रतिपादयते / अयोनिशश्च चित्तप्रतिषेधः क्रियत इति बोद्धव्यम्, न भूतप्रत्यवेक्षायाः प्रतिषेधः / अन्यथा बहुतरं युक्त्यागमविरुद्धं स्यात् / यथोक्तं प्राक् / किञ्च यद् एव श्रुतचिन्तामय्या प्रज्ञया विदितं तद् एव भावनामय्या प्रज्ञया भावनीयं नान्यत् / संदिष्ट-धावनभूम्यश्वधावनवत् / तस्मात् भूतप्रत्यवेक्षा कर्तव्या / यदि नामासौ विकल्पस्वभावातथापि योनिशो मनसिकारस्वभावत्वात् ततो भूत निर्विकल्पज्ञानोदय इति कृत्वा तज्ज्ञानार्थिना सा सेवनीया / निर्विकल्पे च भुतज्ञानाग्नौ (Bह्क् २३७) समुत्पन्ने, सति, काष्ठद्वयनिघर्षसंजातवन्हिना तत्काष्ठद्वयदाहवत् सापि पश्चात् तेनैव दह्यत एवेत्युक्तम् आर्यरत्नकूटे /
229 SK यच्चाप्युच्यते- न किंचित् कुशलादिकर्म कर्तव्यम् इति / तत्रैवैवं वदता कर्मक्षयान् मुक्तिरित्याजीवक वादाभ्युपगमो भवेत् / न हि भगवत्प्रवचने कर्मक्षयान् मुक्तिरिष्यते / किं तर्हि, क्लेशक्षयात् / अनादिकालोपचित्तस्य हि कर्मणो न शक्यते क्षयः कर्तु तस्यानन्तत्वात् / अपायादिषु च तत्फलं भुञ्जानस्यापरस्यापि कर्मणः प्रसूतेः क्लेशेषु चाविकलेषु तत्करणतया स्थितेषु कर्मणो निरोद्धुम् अशक्यत्वात् / प्रदीपानिरोधे तत्प्रभाया अनिरोधवत् / न चापि तस्य विपश्यनापवादिनः क्लेशक्षयः संभवतीत्युक्त प्राक् / अथ क्लेशक्षयार्थ विपश्यना सेवनीयेति मन्यते, तदा क्लेशक्षयाद् एव मुक्तिः सिध्यतीति कर्मक्षये तर्हि व्यर्थः श्रमः / अकुशलकर्म न कर्तव्यम् इति युक्तमेतत्, कुशलं तु किमिति प्रतिषिध्यते / संसारावाहकत्वात् प्रतिषिध्यत इति चेत्, तदयुक्तम् / यद् एव आत्मादिविपर्याससमुत्थापितम् कुशलं तद् एव संसारावाहकं भवति / न तु बोधिसत्त्वानां महाकरुणासमुत्थापितम् अनुत्तरसंबोधिपरिणामितमपि / तथा आर्यदशभूमके एत एव दशकुशलकर्मपथाः परिणामनादिपरिशुद्धिविशेषेण श्रावकप्रत्येकबुद्धबोधिसत्त्वबुद्धत्ववाहका भवन्तीति निर्दिष्टम् / आर्यरत्नकूटे च, सर्वमहानदीनां महासमुद्रे प्रविष्टानां पयः स्कन्धवद् बोधिसत्त्वानां नानामुखोपचितं कुशलमूलं सर्वज्ञतापरिणामितं सर्वज्ञतैकरसं भवति इति वर्णितम् /
230 SK या च बुद्धबोधिसत्त्वानां रूपकायक्षेत्रपरिशुद्धिः प्रभापरिवारमहाभोगतादिसंपत्तिः दानादिपुण्यसम्भारफलसत्त्वेन तत्र तत्र सूत्रे वर्णिता भगवता सापि विरुध्यते / कुशलचर्याप्रतिषेधे च प्रातिमोक्षसंवरादिरपि प्रतिक्षिप्तः स्यात् / ततो व्यर्थमेव तस्य शिरोमुण्डितकाषायधारणादि प्रसज्येत / कुशलकर्माभिसंस्कारवैमुख्ये च सति संसारवैमुख्यं सत्त्वार्थक्रियावैमुख्यं च सेवितं भवेत् / ततो बोधिः तस्य दूरे भवेत् / उक्तं ह्यार्यंसंधिनिर्मोचने- ᳚एकान्तसत्त्वार्थविमुखस्य एकान्तसंस्कारा भिसंस्कारविमुखस्य नानुत्तरासम्यक्संबोधिरुक्ता मयेति / ᳚आर्योपालिपरिपृच्छादौ च- ᳚संसारे वैमुख्यं बोधिसत्त्वानां परदौःशील्यमिति वर्णितम् / संसारपरिग्रहः तु परमं शीलम् /᳚ उक्तम् आर्यविमलकीर्तिनिर्देशे च- ᳚उपायाद् भवति संसारगमनं बोधिसत्त्वानां मोक्षः / उपायरहिता च प्रज्ञा बन्धः, प्रज्ञारहितश्चोपायो बन्धः / प्रज्ञासहित उपायो मोक्षः, उपायसहिता प्रज्ञा मोक्षः᳚ इति वर्णितम् / आर्यगगनगञ्जे उक्तम्- ᳚संसारपरिखेदो बोधिसत्त्वानां मारकर्म इति /᳚ सूत्रसमुच्चये च- ᳚असंस्कृतं च प्रत्यवेक्षते संस्कृतैश्च कुशलैः परिखिद्यत इति मारकर्म इति / बोधिमार्ग प्रजानाति पारमितामार्ग च न पर्येषत इति मारकर्मेति /᳚ यत् पुनः तत्रैवोक्तम्- ᳚दानचित्ताभिनिवेशाद् यावत् प्रज्ञाचित्ताभिनिवेशां मारकर्मेति तत्र न दानादिनां सेवाप्रतिषेधः किं त्वहंकारममकारचित्ताभिनिविष्टस्य ग्राह्यग्राहकचित्ताभिनिविष्टस्य चौपलम्भिकस्य यो विपरीताभिनिवेशो दानादौ तस्य प्रतिषेधः / विपरीताभिनिवेशसमुत्त्थापिता हि दानादयो ऽपरिशुद्धा भवन्तीति कृत्वा मारकर्मेत्युक्तम् / अन्यथा ध्यानम् अपि न सेवनीयं स्यात् / तथा च कथं मुक्तिः भवेत्?
231 SK अत एवौपलम्भिकस्य सत्त्वनानात्वसंज्ञाया यद् दानादि तद् अपरिशुद्धम् इति प्रतिपादनाय आर्यगगनगञ्जे ऽपि- ᳚सत्त्वनानात्व [विपरीतकर्म]संज्ञिनो दानादि मारकर्मेत्युक्तम्᳚ / यच्चापि [त्रि]स्कन्धपरिणामनायाम् उक्तम्- ᳚सर्वम् एव दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञासमताम् अजानतोपलम्भयति, तेन पर्येष्टितदानेन परामृष्टशीलेन शीलं रक्षितम् / आत्मपरसंज्ञिना क्षान्तिर्भावितेत्यादि तत् प्रतिदेशयामीति /᳚ तत्राप्यौपलम्भिकस्य नानत्वसंज्ञिनो विपरीताभिनिवेशसमुत्थापिता दानादयो ऽपि शुद्धा भवन्तीति एतावन्मात्रं प्रतिपादितम् / न तु सर्वथा दानादीनां सेवनप्रतिषेधः / अन्यथा सर्वस्यैव दानादेरविशेषेण प्रतिदेशना कृता स्यात्, नोपलम्भविपर्यासपतितस्यैव / यच्चापि ब्रह्मपरिपृच्छायाम् उक्तम्- ᳚यावती चर्या सर्वा परिकल्प्या / निष्परिकल्प्या च बोधिरित्यादि /᳚ तत्राप्युत्पादादिविकल्पचर्यायाः प्रकृतत्वात् तस्याः परिकल्पत्वमुक्तम् / अनिमित्तविहारे चानभिसंस्कारवाहिनः स्थितस्य बोधिसत्त्वस्य व्याकरणं भवति, नान्यस्येत्येतावन्मात्रं प्रतिपादितम् / सर्वेषां च दानादीनां परमार्थतो ऽनुत्पन्नत्वं च परिदीपितम्, न तु चर्या न कर्तव्येत्यभिहितम् /
232 SK अन्यथा हि दीपङ्करावदाने ये बुद्धा भगवता पर्युपासिता येषां तु कल्पमपि भगवता भाषमाणेन न शक्यं नामपरिकीर्त्नं कथं तेषां भगवता बोधिसत्त्वावस्थायां चर्याप्रतिषेधो न कृतः / दीपङ्करेणापि तदानीं भगवतश्चर्याप्रतिषेधो न कृत एव / किं तु यदा शान्तानिमित्तविहारे ऽष्टम्यां भूमौ स्थितो ऽसौ दृष्टस्तदासौ व्याकृतो भगवता, तत्र तस्य चर्या (Bह्क् २४०) अप्रतिषिद्धा / सा चानिमित्तविहारपरमता बोधिसत्त्वानाम् अष्टाम्यां भूमौ दशभूमिकैर्बुद्धैः प्रतिषिद्धा ऽमा भूद् एतद् एव तेषां परिनिर्वाणम्ऽ इति कृत्वा यदि तु सर्वथा चर्या न कर्तव्या भवेत् पूर्वोक्तं सर्व विरुध्येत /
233 SK यच्च तत्रैव ब्रह्मपरिपृच्छायाम् उक्तम्- ᳚दानं च ददाति तच्चाविपाकाभिकाङ्क्षी, शीलं च रक्षति तच्चासमारोपितः᳚ इत्यादि / चतुर्भिः ब्रह्म! धर्मैः समन्वागता बोधिसत्त्वा अवैवर्त्तिका भवन्ति बुद्धधर्मेषु / कतमैश्चतुर्भिः अपरिमितसंसारपरिग्रहेण अपरिमितबुद्धोपस्थानपूजयेत्यादि सर्वं विरुध्येत / नापि मृद्विन्द्रियेणैव चर्या कर्तव्या न तु तीक्ष्णेन्द्रियेणेति युक्तं वक्तुम् / यतः प्रथमां भूमिमुपादाय यावद्दशमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां दानादिचर्या उत्पद्यते, न च परिशिष्टासु न समुदाचरतीति वचनात् / नहि भूमिप्रविष्टा अपि मृद्विन्द्रियायुक्ताः / आर्योपलिपरिपृच्छायाम्- ᳚अनुत्पत्तिकधर्मक्षान्तिप्रतिष्ठितेनैव त्यागमहात्यागातित्यागाः कर्तव्याः᳚ इति वर्णितम् / सूत्रसमुच्चये च- ᳚षट्पारमितादिप्रतिपत्तिमान् बोधिसत्त्वस्तथागतर्द्धिगतिकः᳚ इति वर्णितम् / न च तथागतर्द्धिगतेरन्या शीघ्रतरा गतिरस्ति / नापि षट्पारमितादशभूमिव्यतिरेकेणान्यो बोधिसत्त्वानां मार्गो ऽस्ति यः शीघ्रतरवाहीस्यात् / क्रमेणैव च चित्तसंततेः कनकशुद्धिवत् शुद्धिर्भवतीति सूत्रे वर्णितम् [आर्यलङ्कावतारदशभूमिकादौ चोक्तं]- तथतायां यदा स्थितो बोधिसत्त्वो भवति, तदा प्रथमायां भूमौ प्रविष्टो भवति / ततः क्रमेणैव पूर्वभूमीः परिशोध्य तथागतभूमिं प्रविशतीति / अतो नास्ति भूमिपारमिताव्यतिरेकेण [युगपत्] बुद्धत्वपुरप्रवेशे अन्यन्मुखं नापि भगवता क्वचित् सूत्रादौ देशितम् /
234 SK ध्यान एव षट्पारमितान्तर्गमात् तत्सेवनाद् एव सर्वपारमिताः सेविता भवन्त्यतो न दानादयः [अन्यपारमिताः] पृथक् सेवितव्या इति चेत् तद् अयुक्तम् / एवं हि बुद्धे गोमयमण्डले ऽपि षट्पारमितान्तर्गमान् मण्डलकम् एव कर्तव्यं स्यान्न ध्यानाद्याः / श्रावकस्यापि निरोधसमाधिसमापन्नस्य निमित्ताद् एव असमुदाचारात् तदा षट्पारमितापरिपूरिप्रसङ्गः / ततश्च न श्रावकेभ्यो बोधिसत्त्वानां भेदः प्रतिपादितो भवेत् / सर्वावस्थायाम् एव तु बोधिसत्त्वेन षट्पारमिताः परिपूरयितव्या इति संदर्शनार्थे एकैकपारमितान्तर्भावः सर्वपारमितानां भगवता सन्दर्शितः / न पुनरेकैव पारमिता सेवनीयेति / तथा चोक्तं सर्वधर्मवैपुल्ये- ᳚यो ऽप्ययं मैत्रेय! षट्पारमितासमुदागमो बोधिसत्त्वानां संबोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति, प्रज्ञापारमितायाम् एवं बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति / ते ऽन्याः पारमिता दूषयितव्या मंस्यन्ते / तत् किं मन्यसे, अजित! दुष्प्रज्ञः स काशिराजो ऽभूत्, येन कपोतार्थेन श्येनाय स्वमांसानि दत्तानि? मैत्रेय आह- नो हीदं भगवन्! भगवान् आह- यानि मया मैत्रेय! बोधिसत्त्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्युपचितानि / अपकृतं नु तैः कुशलमूलैः? मैत्रेय आह, नो हीदं भगवन्, भगवान् आह- त्वं तावद् अजित! षष्टिकल्पान् दानापारमितायां समुदागतः / एवं यावत् षष्टिकल्पान् प्रज्ञापारमितायां समुदागतः / तत् ते मोहपुरुषा एवं वक्ष्यन्ति / एकनयेनैव बोधिर्यदुत शून्यतानयेनेति ते चर्यापरिशुद्धा भवन्ति᳚ इत्यादि / केवलं शून्याताम् एव सेवमानाः श्रावकवन्निर्वाणे पतन्ति / अतः उपायसहिता प्रज्ञा सेवनीया / अत एवाचार्यनागार्जुनपादैः सूत्रसमुच्चये ऽभिहितम्- ᳚न चोपायकौशलरहितेन बोधिसत्त्वेन गम्भीरधर्मतायामभियोक्तव्यम्᳚ इति / अत्र (Bह्क् २४२) आर्यविमलकीर्तिनिर्देशादिज्ञापकस्तैरूपन्यस्तः, न चाचार्यनागार्जुनपादीयं वचनम् / युक्तयागमोपेतं त्यक्त्वा भगवद्वचनं च परित्यज्य अन्यस्य मूर्खजनस्य वचनं प्रेक्षावता ग्रहीतुम् अयुक्तम् / आर्यरत्नकूटे च- ᳚सकलदानादिकुशलोपेततया सर्वाकारवरोपेतशून्यता सेवनीयेत्युक्तं न तु केवला /᳚ आर्यरत्नकूटे चोक्तम्- तद्यथा काश्यपामात्यसंगृहीता राजानः सर्वकार्याणि कुर्वन्ति एवम् एव उपायकौशल्यसंगृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति /
235 SK अत एव केवलां शून्यतां सेवमानस्य मा भून्निर्वाणप्रवेश इति / भगवता आर्यतथागतगुह्यसूत्रे᳚ चोक्तम्- ᳚नैकान्तनिरालम्बनं चित्तमात्रसेवनं कर्तव्यम् अपि तु उपायकौशल्यम् अपि सेवनीयम् इति प्रदर्शनार्थम् उक्तम्- तद्यथापि नाम, कुलपुत्र! अग्निरुपादानाद् ज्वलति / अनुपादानः शाम्यति / एवम् एवारम्बणतश्चित्तं ज्वलति, अनारम्बणं शाम्यति / तत्रोपायकुशलो बोधिसत्त्वः प्रज्ञापारमितापरिशुद्धारम्बणोपशमम् अपि जानाति / कुशलमूलारम्बणं च न शाम्यति / क्लेशारम्बणं च नोत्थापयति / पारमितारम्बणं चोत्थापयति / शून्यतारम्बणं च प्रत्यवेक्षते सर्वसत्त्वमहाकरुणारम्बणं च प्रेक्षते इति हि कुलपुत्र! उपायकुशलः प्रज्ञापारमितापरिशुद्धो बोधिसत्त्वो ऽनारम्बने वशितां प्रतिलभते᳚ इति विस्तरम् उक्त्वा पुनश्च वदत्येवं हि- ᳚नास्ति तत् किंचिद् आरम्बणं बोधिसत्त्वस्य यत् सर्वज्ञज्ञानाभिनिर्हाराय न संतिष्ठते / यस्य बोधिसत्त्वस्य सर्वारम्बाणानि बोधिपरिणामितानि, अयं बोधिसत्त्व उपायकुशल सर्वधर्मान् बोध्यनुगतान् पश्यति / तद्यथापि नाम कुलपुत्र, नास्ति तत् त्रिसाहस्रमहासाहस्रे लोकधातौ यत् सत्त्वानाम् उपभोगाय न स्यात् / (Bह्क् २४३) एवम् एव, कुलपुत्र नास्ति तत् किंचिद् आरम्बणं यद् उपायकुशलो बोधिसत्त्वो बोधाय चोपकारीभूतं न पश्यति᳚ इति विस्तरः / एवम् अनन्तसूत्रान्तेषु बोधिसत्त्वानां प्रज्ञोपायप्रतिपत्तिर्निर्दिष्टा / तत्र यदि नाम स्वयं न शक्यते दानादिद्पुण्यसंभारवीर्यम् आरब्धुं तथापि अन्येषाम् एवम् उपदेशो दातुं न युक्तश्चेति स्वपरद्रोहः कृतः स्यात् /
236 SK तद् एवं युक्त्यागमाभ्यां प्रतिपादितं यथा बोधिसत्त्वेनावश्यं भूतप्रत्यवेक्षा कर्तव्या सकलदानादिपुण्यसम्भारश्चोपार्जयितव्यः / ततः प्रेक्षावताल्पश्रुतानाम् आभिमानिकानां वचनं विषम् इवावधूयार्यनागार्जुनादिविद्वज्जनवचनामृतनुगतेन सकलसत्त्वेषु महकारुणाम् उपजनय्य मायाकारवद् अविपर्यस्तेनानुत्तरसंबोधिपरिणामितसकलदानादिकुशलचर्यायाम् अशेषजगदुद्धरणे चाभियुक्त्ने अभावितव्यम् / यथोक्तम् आर्यधर्मसंगीतौ-
237 SK मायाकारो यथा कश्चिन् निर्मितं मोक्तुमुद्यतः / न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतो ऽस्य सः //
238 SK त्रिभवं निर्मितप्रख्यं ज्ञात्वा संबोधिपारगः / सन्नह्यन्ति जगद्धेतोः ज्ञातपूर्वे जगे तथा // इति तस्यैवं /
239 SK प्रज्ञाम् उपायं च सततं सत्कृत्याभ्यस्यतः क्रमेण [चित्तं] संततिपरिपाकाद् उत्तरोत्तरविशुद्धतरतमक्षणोदयाद् भूतार्थभावनाप्रकर्षपर्यन्तगमेन सकलकल्पनाजालरहितं स्फुटतरं धर्मधात्वधिगमं विमलं निश्चलनिवातदीपवल्लोकोत्तरज्ञानम् उत्पद्यते / तदा च वस्तुपर्यन्ततालम्बनम् प्रतिलब्धं भवति / दर्शनमार्गं च प्रविष्टो भवति / प्रथमा च भूमिः प्राप्ता भवति / ततस्तदुत्तरा भूमीः परिशोधयन् क्रमेण कनकवद् अशेषावरणापगमे सति असक्तम् अप्रतिहतं ज्ञानं प्रतिलभ्य बुद्धभूमिम् अशेषगुणाधारां प्राप्तो भवति / कार्यपरिनिष्पत्तिं चालम्बनं प्रतिलभते / तस्माद् बुद्धत्वाधिगमार्थिना मध्यमपद्धतौ तावद् अभियोगः करणीय इति /
240 SK प्रकाश्य यत् प्रापि मया शुभम् असमपद्धितम् / पुण्यमस्तु जनस्तेन प्राप्तो मध्यमपद्धितम् //
241 SK दूरीकृतेर्ष्यादिमला हि सन्तो गुणैरतृप्ताः सलिलैरिवाब्धिः / विवेच्य गृण्हन्ति सुभाषितानि हंसाः पयो यत्पयसि प्रहृष्टाः //
242 SK पक्षपाताकुलं तस्माद् दूरीकृतं मनो बुधैः / सर्वमेव ग्रहीतव्यं बालादपि सुभाषितम् //
243 SK आचार्यकमलशीलेन अन्ते निबद्धो भावनाक्रमः समाप्तः /
244 SK तृतीयः भावनाक्रमः समाप्तः /
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kamalaśīla: Bhāvanākrama (sa_kamalazIla-bhAvanAkrama.htm).
Source