The Perfection of Wisdom in One Hundred Thousand Lines - Volume 2

Śatasāhasrikā Prajñāpāramitā-2 · Śअतसाहस्रिका Pरज्ञापारमिता-२

The Perfection of Wisdom in One Hundred Thousand Lines - Volume 2

Śatasāhasrikā Prajñāpāramitā-2

Śअतसाहस्रिका Pरज्ञापारमिता-२

SK
Śअतसाहस्रिका Pरज्ञपरमिता
SK
ॐ नमः सर्वबुद्धबोधिसत्त्वेभ्यः.
SK
पृथिवीधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र पृथिवीधात्वसत्तायां पृथिवीधातुशून्यतायां पृथिवीधातुविविक्ततायां पृथिवीधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या पृथिवीधात्वसत्तान्या पृथिवीधातुशून्यतान्या पृथिवीधातुविविक्ततान्या पृथिवीधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च पृथिवीधात्वसत्ता या च पृथिवीधातुशून्यता या च पृथिवीधातुविविक्तता या च पृथिवीधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अब्धात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति. अब्धातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, अब्धातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अब्धात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अब्धातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अब्धातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अब्धात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, अब्धातुशून्यतया मध्यतो (Śस्P_II-१_२) बोधिसत्त्वो नोपैति, अब्धातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राब्धात्वसत्तायाम् अब्धातुशून्यतायाम् अब्धातुविविक्ततायाम् अब्धात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याब्धात्वसत्तान्याब्धातुशून्यतान्याब्धातुविविक्ततान्याब्धात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाब्धात्वसत्ता या चाब्धातुशून्यता या चाब्धातुविविक्तता या चाब्धात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
तेजोधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, तेजोधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र तेजोधात्वसत्तायां तेजोधातुशून्यतायां तेजोधातुविविक्ततायां तेजोधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या तेजोधात्वसत्तान्या तेजोधातुशून्यतान्या तेजोधातुविविक्ततान्या तेजोधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तेजोधात्वसत्ता या च तेजोधातुशून्यता या च तेजोधातुविविक्तता या च तेजोधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
वायुधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, वायुधात्वुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतयापरान्ततो (Śस्P_II-१_३) बोधिसत्त्वो नोपैति, वायुधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, वायुधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वायुधात्वसत्तायां वायुधातुशून्यतायां वायुधातुविविक्ततायां वायुधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वायुधात्वसत्तान्या वायुधातुशून्यतान्या वायुधातुविविक्ततान्या वायुधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वायुधात्वसत्ता या च वायुधातुशून्यता या च वायुधातुविविक्तता या च वायुधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
आकाशधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राकाशधात्वसत्तायाम् आकाशधातुशून्यतायाम् आकाशधातुविविक्ततायाम् आकाशधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या आकाशधात्वसत्तान्या आकाशधातुशून्यतान्या आकाशधातुविविक्ततान्या आकाशधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाकाशधात्वसत्ता या चाकाशधातुशून्यता या चाकाशधातुविविक्तता या चाकाशधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
विज्ञानधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतया (Śस्P_II-१_४) पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र विज्ञानधात्वसत्तायां विज्ञानधातुशून्यतायां विज्ञानधातुविविक्ततायां विज्ञानधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या विज्ञानधात्वसत्तान्या विज्ञानधातुशून्यतान्या विज्ञानधातुविविक्ततान्या विज्ञानधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विज्ञानधात्वसत्ता या च विज्ञानधातुशून्यता या च विज्ञानधातुविविक्तता या च विज्ञानधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अविद्यासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्याशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्याविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्यासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अविद्याशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अविद्याविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अविद्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अविद्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, अविद्याशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अविद्याविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अविद्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राविद्यासत्तायाम् अविद्याशून्यतायाम् अविद्याविविक्ततायाम् अविद्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याविद्याअसत्तान्याविद्याशून्यतान्याविद्याविविक्ततान्याविद्यास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च अविद्यासत्ता या च अविद्याशून्यता या च अविद्याविविक्तता या चाविद्यास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् (Śस्P_II-१_५) च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारासत्तयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारासत्तया मध्यतो बोधिसत्त्वो नोपैति, संस्कारशून्यतया मध्यतो बोधिसत्त्वो नोपैति, संस्कारविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, संस्कारास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र संस्कारासत्तायां संस्कारशून्यतायां संस्कारविविक्ततायां संस्कारास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या संस्कारासत्तान्या संस्कारशून्यतान्या संस्कारविविक्ततान्या संस्कारास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च संस्कारासत्ता या च संस्कारशून्यता या च संस्कारविविक्तता या च संस्कारास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र विज्ञानासत्तायां च विज्ञानशून्यतायां विज्ञानविविक्ततायां विज्ञानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या विज्ञानासत्तान्या विज्ञानशून्यतान्या विज्ञानविविक्ततान्या विज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विज्ञानासत्ता या च विज्ञानशून्यता या च विज्ञानविविक्तता या च विज्ञानास्वभावता (Śस्P_II-१_६) यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
नामरूपासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपासत्तयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपासत्तया मध्यतो बोधिसत्त्वो नोपैति, नामरूपशून्यतया मध्यतो बोधिसत्त्वो नोपैति, नामरूपविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, नामरूपास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र नामरूपासत्तायां नामरूपशून्यतायां नामरूपविविक्ततायां नामरूपास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या नामरूपासत्तान्या नामरूपशून्यतान्या नामरूपविविक्ततान्या नामरूपास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च नामरूपसत्ता या च नामरूपशून्यता या च नामरूपविविक्तता या च नामरूपास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
षडायतनासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनासत्तयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनासत्तया मध्यतो बोधिसत्त्वो नोपैति, षडायतनशून्यतया मध्यतो बोधिसत्त्वो नोपैति, षडायतनविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, षडायतनास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र षडायतनासत्तायां षडायतनशून्यतायां षडायतनविविक्ततायां षडायतनास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या षडायतनासत्तान्या षडायतनशून्यतान्या षडायतनविविक्ततान्या षडायतनास्वभावतान्यो बोधिसत्त्वो ऽन्यः (Śस्P_II-१_७) पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च षडायतनासत्ता या च षडायतनशून्यता या च षडायतनविविक्तता या च षडायतनास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र स्पर्शासत्तायां च स्पर्शशून्यतायां स्पर्शविविक्ततायां स्पर्शास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या स्पर्शासत्तान्या स्पर्शशून्यतान्या स्पर्शविविक्ततान्या स्पर्शास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्पर्शासत्ता या च स्पर्शशून्यता या च स्पर्शविविक्तता या च स्पर्शास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
वेदनासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वेदनाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वेदनाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वेदनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वेदनासत्तया मध्यतो बोधिसत्त्वो नोपैति, वेदनाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वेदनाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वेदनास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वेदनासत्तायां च वेदनाशून्यतायां वेदनाविविक्ततायां वेदनास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वेदनासत्तान्या वेदनाशून्यतान्या वेदनाविविक्ततान्या वेदनास्वभावतान्यो बोधिसत्त्वो ऽन्यः (Śस्P_II-१_८) पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वेदनासत्ता या च वेदनाशून्यता या च वेदनाविविक्तता या च वेदनास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
तृष्णासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णासत्तया मध्यतो बोधिसत्त्वो नोपैति, तृष्णाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तृष्णास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र तृष्णासत्तायां च तृष्णाशून्यतायां तृष्णाविविक्ततायां तृष्णास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या तृष्णासत्तान्या तृष्णाशून्यतान्या तृष्णाविविक्ततान्या तृष्णास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तृष्णासत्ता या च तृष्णाशून्यता या च तृष्णाविविक्तता या च तृष्णास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
उपादानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, उपादानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, उपादानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, उपादानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, उपादानासत्तया मध्यतो बोधिसत्त्वो नोपैति, उपादानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, उपादानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, उपादानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रोपादानासत्तायाम् उपादानशून्यतायाम् उपादानविविक्ततायाम् उपादानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या उपादानासत्तान्या उपादानशून्यतान्या उपादानविविक्ततान्या उपादानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो (Śस्P_II-१_९) ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चोपादानासत्ता या चोपादानशून्यता या चोपादानविविक्तता या चोपादानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
भवासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, भवशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवासत्तयापरान्ततो बोधिसत्त्वो नोपैति, भवशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, भवविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, भवास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, भवासत्तया मध्यतो बोधिसत्त्वो नोपैति, भवशून्यतया मध्यतो बोधिसत्त्वो नोपैति, भवविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, भवास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र भवासत्तायां च भवशून्यतायां भवविविक्ततायां भवास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या भवासत्तान्या भवशून्यतान्या भवविविक्ततान्या भवास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च भवासत्ता या च भवशून्यता या च भवविविक्तता या च भवास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
जात्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, जातिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जातिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, जात्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जात्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, जातिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, जातिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, जात्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, जात्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, जातिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, जातिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, जात्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र जात्यसत्तायां च जातिशून्यतायां जातिविविक्ततायां जात्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या जात्यसत्तान्या जातिशून्यतान्या जातिविविक्ततान्याजात्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् (Śस्P_II-१_१०) आयुष्मञ् छारद्वतीपुत्र या च जात्यसत्ता या च जातिशून्यता या च जातिविविक्तता या च जात्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
जरामरणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणासत्तया मध्यतो बोधिसत्त्वो नोपैति, जरामरणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, जरामरणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, जरामरणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र जरामरणाअसत्तायां च जरामरणशून्यतायां जरामरणविविक्ततायां जरामरणस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या जरामरणासत्तान्या जरामरणशून्यतान्या जरामरणविविक्ततान्या जरामरणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च जरामरणासत्ता या च जरामरणशून्यता या च जरामरणविविक्तता या च जरामरणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
दानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र दानपारमितासत्तायां दानपारमिताशून्यतायां (Śस्P_II-१_११) दानपारमिताविविक्ततायां दानपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या दानपारमितासत्तान्या दानपारमिताशून्यतान्या दानपारमिताविविक्ततान्या दानपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च दानपारमितासत्ता या च दानपारमिताशून्यता या च दानपारमिताविविक्तता या च दानपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
शीलपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र शीलपारमितासत्तायां शीलपारमिताशून्यतायां शीलपारमिताविविक्ततायां शीलपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या शीलपारमितासत्तान्या शीलपारमिताशून्यतान्या शीलपारमिताविविक्ततान्या शीलपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शीलपारमितासत्ता या च शीलपारमिताशून्यता या च शीलपारमिताविविक्तता या च शीलपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
क्षान्तिपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, (Śस्P_II-१_१२) क्षान्तिपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र क्षान्तिपारमितासत्तायां क्षान्तिपारमिताशून्यतायां क्षान्तिपारमिताविविक्ततायां क्षान्तिपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या क्षान्तिपारमितासत्तान्या क्षान्तिपारमिताशून्यतान्या क्षान्तिपारमिताविविक्ततान्या क्षान्तिपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च क्षान्तिपारमितासत्ता या च क्षान्तिपारमिताशून्यता या च क्षान्तिपारमिताविविक्तता या च क्षान्तिपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
वीर्यपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वीर्यपारमितासत्तायां वीर्यपारमिताशून्यतायां वीर्यपारमिताविविक्ततायां वीर्यपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वीर्यपारमितासत्तान्या वीर्यपारमिताशून्यतान्या वीर्यपारमिताविविक्ततान्या वीर्यपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वीर्यपारमितासत्ता या च वीर्यपारमिताशून्यता या च वीर्यपारमिताविविक्तता या च वीर्यपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
ध्यानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततया (Śस्P_II-१_१३) पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति. ध्यानपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र ध्यानपारमितासत्तायां ध्यानपारमिताशून्यतायां ध्यानपारमिताविविक्ततायां ध्यानपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या ध्यानपारमितासत्तान्या ध्यानपारमिताशून्यतान्या ध्यानपारमिताविविक्ततान्या ध्यानपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च ध्यानपारमितासत्ता या च ध्यानपारमिताशून्यता या च ध्यानपारमिताविविक्तता या च ध्यानपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
प्रज्ञापारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमितासत्तायां प्रज्ञापारमिताशून्यतायां प्रज्ञापारमिताविविक्ततायां प्रज्ञापारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या प्रज्ञापारमितासत्तान्या प्रज्ञापारमिताशून्यतान्या प्रज्ञापारमिताविविक्ततान्या प्रज्ञापारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् (Śस्P_II-१_१४) छारद्वतीपुत्र या च प्रज्ञापारमितासत्ता या च प्रज्ञापारमिताशून्यता या च प्रज्ञापारमिताविविक्तता या च प्रज्ञापारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अध्यात्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राध्यात्मशून्यतासत्तायाम् अध्यात्मशून्यताशून्यतायाम् अध्यात्मशून्यताविविक्ततायाम् अध्यात्मशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याध्यात्मशून्यतासत्तान्याध्यात्मशून्यताशून्यतान्याध्यात्मशून्यताविविक्ततान्याध्यात्मशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाध्यात्मशून्यतासत्ता या चाध्यात्मशून्यताशून्यता या चाध्यात्मशून्यताविविक्तता या चाध्यात्मशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
बहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतया (Śस्P_II-१_१५) मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बहिर्धाशून्यतासत्तायां बहिर्धाशून्यताशून्यतायां बहिर्धाशून्यताविविक्ततायां बहिर्धाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या बहिर्धाशून्यतासत्तान्या बहिर्धाशून्यताशून्यतान्या बहिर्धाशून्यताविविक्ततान्या बहिर्धाशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बहिर्धाशून्यतासत्ता या च बहिर्धाशून्यताशून्यता या च बहिर्धाशून्यताविविक्तता या च बहिर्धाशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अध्यात्मबहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र अध्यात्मबहिर्धाशून्यतासत्तायाम् अध्यात्मबहिर्धाशून्यताशून्यतायाम् अध्यात्मबहिर्धाशून्यताविविक्ततायाम् अध्यात्मबहिर्धाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याध्यात्मबहिर्धाशून्यतासत्तान्याध्यात्मबहिर्धाशून्यताशून्यतान्याध्यात्मबहिर्धाशून्यताविविक्ततान्याध्यात्मबहिर्धाशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाध्यात्मबहिर्धाशून्यतासत्ता या चाध्यात्मबहिर्धाशून्यताशून्यता या चाध्यात्मबहिर्धाशून्यताविविक्तता या चाध्यात्मबहिर्धाशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् (Śस्P_II-१_१६) च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
शून्यताशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र शून्यताशून्यतासत्तायां शून्यताशून्यताशून्यतायां शून्यताशून्यताविविक्ततायां शून्यताशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या शून्यताशून्यतासत्तान्या शून्यताशून्यताशून्यतान्या शून्यताशून्यताविविक्ततान्या शून्यताशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शून्यताशून्यतासत्ता या च शून्यताशून्यताशून्यता या च शून्यताशून्यताविविक्तता या च शून्यताशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
महाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र महाशून्यतासत्तायां महाशून्यताशून्यतायां महाशून्यताविविक्ततायां महाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या महाशून्यतासत्तान्या (Śस्P_II-१_१७) महाशून्यताशून्यतान्या महाशून्यताविविक्ततान्या महाशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च महाशून्यतासत्ता या च महाशून्यताशून्यता या च महाशून्यताविविक्तता या च महाशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
परमार्थशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र परमार्थशून्यतासत्तायां परमार्थशून्यताशून्यतायां परमार्थशून्यताविविक्ततायां परमार्थशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या परमार्थशून्यतासत्तान्या परमार्थशून्यताशून्यतान्या परमार्थशून्यताविविक्ततान्या परमार्थशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च परमार्थशून्यतासत्ता या च परमार्थशून्यताशून्यता या च परमार्थशून्यताविविक्तता या च परमार्थशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
संस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो (Śस्P_II-१_१८) नोपैति, संस्कृतशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र संस्कृतशून्यतासत्तायां संस्कृतशून्यताशून्यतायां संस्कृतशून्यताविविक्ततायां संस्कृतशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या संस्कृतशून्यतासत्तान्या संस्कृतशून्यताशून्यतान्या संस्कृतशून्यताविविक्ततान्या संस्कृतशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च संस्कृतशून्यतासत्ता या च संस्कृतशून्यताशून्यता या च संस्कृतशून्यताविविक्तता या च संस्कृतशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
असंस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृत शून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृतशून्यतासत्तायाम् असंस्कृतशून्यताशून्यतायाम् असंस्कृतशून्यताविविक्ततायाम् असंस्कृतशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यासंस्कृतशून्यतासत्तान्यासंस्कृतशून्यताशून्यतान्यासंस्कृतशून्यताविविक्ततान्यासंस्कृतशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चासंस्कृतशून्यतासत्ता या चासंस्कृतशून्यताशून्यता या चासंस्कृतशून्यताविविक्तता या चासंस्कृतशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् (Śस्P_II-१_१९) अद्वैधीकारम्.
SK
अत्यन्तशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति. अत्यन्तशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रात्यन्तशून्यतासत्तायाम् अत्यन्तशून्यताशून्यतायाम् अत्यन्तशून्यताविविक्ततायाम् अत्यन्तशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यात्यन्तशून्यतासत्तान्यात्यन्तशून्यताशून्यतान्यात्यन्तशून्यताविविक्ततान्यात्यन्तशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चात्यन्तशून्यतासत्ता या चात्यन्तशून्यताशून्यता या चात्यन्तशून्यताविविक्तता या चात्यन्तशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अनवराग्रशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति. अनवराग्रशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति. अनवराग्रशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति. अनवराग्रशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानवराग्रशून्यतासत्तायाम् अनवराग्रशून्यताशून्यतायाम् अनवराग्रशून्यताविविक्ततायाम् अनवराग्रशून्यताशून्यतान्यानवराग्रशून्यताविविक्ततान्यानवराग्रशून्यतास्वभावतान्यो (Śस्P_II-१_२०) बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानवराग्रशून्यतासत्ता या चानवराग्रशून्यताशून्यता या चानवराग्रशून्यताविविक्तता या चानवराग्रशुन्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अनवकारशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकार शून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानवकारशून्यतासत्तायाम् अनवकारशून्यताशून्यतायाम् अनवकारशून्यताविविक्ततायाम् अनवकारशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यानवकारशून्यतासत्तान्यानवकारशून्यताशून्यतान्यानवकारशून्यताविविक्ततान्यानवकारशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानवकारशून्यतासत्ता या चानवकारशून्यताशून्यता या चानवकारशून्यताविविक्तता या चानवकारशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
प्रकृतिशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्त्वो (Śस्P_II-१_२१) नोपैति, प्रकृतिशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यतासत्तायां प्रकृतिशून्यताशून्यतायां प्रकृतिशून्यताविविक्ततायां प्रकृतिशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या प्रकृतिशून्यतासत्तान्या प्रकृतिशून्यताशून्यतान्या प्रकृतिशून्यताविविक्ततान्या प्रकृतिशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च प्रकृतिशून्यतासत्ता या च प्रकृतिशून्यताशून्यता या च प्रकृतिशून्यताविविक्तता या च प्रकृतिशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
सर्वधर्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मशून्यतासत्तायां सर्वधर्मशून्यताशून्यतायां सर्वधर्मशून्यताविविक्ततायां सर्वधर्मशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या सर्वधर्मशून्यतासत्तान्या सर्वधर्मशून्यताशून्यतान्या सर्वधर्मशून्यताविविक्ततान्या सर्वधर्मशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सर्वधर्मशून्यतासत्ता या च सर्वधर्मशून्यताशून्यता या च सर्वधर्मशून्यताविविक्तता या च सर्वधर्मशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च (Śस्P_II-१_२२) पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
स्वलक्षणशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र स्वलक्षणशून्यतासत्तायां स्वलक्षणशून्यताशून्यतायां स्वलक्षणशून्यताविविक्ततायां स्वलक्षणशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या स्वलक्षणशून्यतासत्तान्या स्वलक्षणशून्यताशून्यतान्या स्वलक्षणशून्यताविविक्ततान्या स्वलक्षणशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्वलक्षणशून्यतासत्ता या च स्वलक्षणशून्यताशून्यता या च स्वलक्षणशून्यताविविक्तता या च स्वलक्षणशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अनुपलम्भशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानुपलम्भशून्यतासत्तायाम् (Śस्P_II-१_२३) अनुपलम्भशून्यताशून्यतायाम् अनुपलम्भशून्यताविविक्ततायाम् अनुपलम्भशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यानुपलम्भशून्यतासत्तान्यानुपलम्भशून्यताशून्यतान्यानुपलम्भशून्यताविविक्ततान्यानुपलम्भशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानुपलम्भशून्यतासत्ता या चानुपलम्भशून्यताशून्यता या चानुपलम्भशून्यताविविक्तता या चानुपलम्भशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति. अभावशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राभावशून्यतासत्तायां अभावशून्यताशून्यतायां अभावशून्यताविविक्ततायां अभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याभावशून्यतासत्तान्याभावशून्यताशून्यतान्याभावशून्यताविविक्ततान्याभावशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाभावशून्यतासत्ता या चाभावशून्यताशून्यता या चाभावशून्यताविविक्तता या चाभावशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
स्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततयापरान्ततो बोधिशून्यतया (Śस्P_II-१_२४) मध्यतो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्वभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र स्वभावशून्यतासत्तायां स्वभावशून्यताशून्यतायां स्वभावशून्यताविविक्ततायां स्वभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या स्वभावशून्यतासत्तान्या स्वभावशून्यताशून्यतान्या स्वभावशून्यताविविक्ततान्या स्वभावशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्वभावशून्यतासत्ता या च स्वभावशून्यताशून्यता या च स्वभावशून्यताविविक्तता या च स्वभावशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अभावस्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति. अभावस्वभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति, तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राभावस्वभावशून्यतासत्तायाम् अभावस्वभावशून्यताशून्यतायाम् अभावस्वभावशून्यताविविक्ततायाम् अभावस्वभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याभावस्वभावशून्यतासत्तान्याभावस्वभावशून्यताशून्यतान्याभावस्वभावशून्यताविविक्ततान्याभावस्वभावशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाभावस्वभावशून्यतासत्ता या चाभावस्वभावशून्यताशून्यता या चाभावस्वभावशून्यताविविक्तता या चाभावस्वभावशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् (Śस्P_II-१_२५) अद्वयम् अद्वैधीकारम्.
SK
स्मृत्युपस्थानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र स्मृत्युपस्थानासत्तायां स्मृत्युपस्थानशून्यतायां स्मृत्युपस्थानविविक्ततायां स्मृत्युपस्थानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या स्मृत्युपस्थानासत्तान्या स्मृत्युपस्थानशून्यतान्या स्मृत्युपस्थानविविक्ततान्या स्मृत्युपस्थानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्मृत्युपस्थानासत्ता या च स्मृत्युपस्थानशून्यता या च स्मृत्युपस्थानविविक्तता या च स्मृत्युपस्थानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
सम्यक्प्रहाणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणासत्तया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र सम्यक्प्रहाणासत्तायां सम्यक्प्रहाणशून्यतायां सम्यक्प्रहाणविविक्ततायां सम्यक्प्रहाणास्वभावतायां (Śस्P_II-१_२६) पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या सम्यक्प्रहाणासत्तान्या सम्यक्प्रहाणशून्यतान्या सम्यक्प्रहाणविविक्ततान्या सम्यक्प्रहाणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सम्यक्प्रहाणासत्ता या च सम्यक्प्रहाणशून्यता या च सम्यक्प्रहाणविविक्तता या च सम्यक्प्रहाणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
ऋद्धिपादासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति. ऋद्धिपादास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादासत्तया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रर्द्धिपादासत्तायाम् ऋद्धिपादशून्यतायाम् ऋद्धिपादविविक्ततायाम् ऋद्धिपादास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या ऋद्धिपादासत्तान्या ऋद्धिपादशून्यतान्या ऋद्धिपादविविक्ततान्या ऋद्धिपादास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चर्द्धिपादासत्ता या चर्द्धिपादशून्यता या चर्द्धिपादविविक्तता या चर्द्धिपादास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
इन्द्रियासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियासत्तयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियासत्तया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतया (Śस्P_II-१_२७) मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रेन्द्रियासत्तायाम् इन्द्रियशून्यतायाम् इन्द्रियविविक्ततायाम् इन्द्रियास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या इन्द्रियासत्तान्या इन्द्रियशून्यतान्या इन्द्रियविविक्ततान्या इन्द्रियास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चेन्द्रियासत्ता या चेन्द्रियशून्यता या चेन्द्रियविविक्तता या चेन्द्रियास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
बलासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बलशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बलशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बलविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बलास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बलासत्तया मध्यतो बोधिसत्त्वो नोपैति, बलशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बलविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बलास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बलासत्तायां बलशून्यतायां बलविविक्ततायां बलास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या बलासत्तान्या बलशून्यतान्या बलविविक्ततान्या बलास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बलासत्ता या च बलशून्यता या च बलविविक्तता या च बलास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
बोध्यङ्गासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गासत्तया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. (Śस्P_II-१_२८) तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बोध्यङ्गासत्तायां बोध्यङ्गशून्यतायां बोध्यङ्गविविक्ततायां बोध्यङ्गास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या बोध्यङ्गासत्तान्या बोध्यङ्गशून्यतान्या बोध्यङ्गविविक्ततान्या बोध्यङ्गास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बोध्यङ्गासत्ता या च बोध्यङ्गशून्यता या च बोध्यङ्गविविक्तता या च बोध्यङ्गास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
आर्याष्टाङ्गमार्गासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गासत्तयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यास्ताङ्गमार्गासत्तया मध्यतो बोधिसत्त्वो नोपैति, आर्यास्ताङ्गमार्गशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र आर्याष्टाङ्गमार्गासत्तायाम् आर्याष्टाङ्गमार्गशून्यतायाम् आर्याष्टाङ्गमार्गविविक्ततायाम् आर्याष्टाङ्गमार्गास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या आर्याष्टाङ्गमार्गासत्तान्या आर्याष्टाङ्गमार्गशून्यतान्या आर्याष्टाङ्गमार्गविविक्ततान्या आर्याष्टाङ्गमार्गास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चार्याष्टाङ्गमार्गासत्ता या चार्यष्टाङ्गमार्गशून्यता या चार्याष्टाङ्गमार्गविविक्तता या चार्याष्टाङ्गमार्गास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
आर्यसत्यासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यासत्तयापरान्ततो बोधिसत्त्वो (Śस्P_II-१_२९) नोपैति, आर्यसत्यशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रार्यसत्यासत्तायाम् आर्यसत्यशून्यतायाम् आर्यसत्यविविक्ततायाम् आर्यसत्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यार्यसत्यासत्तान्यार्यसत्यशून्यतान्यार्यसत्यविविक्ततान्यार्यसत्यास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चार्यसत्यासत्ता या चार्यसत्यशून्यता या चार्यसत्यविविक्तता या चार्यसत्यास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
ध्यानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानासत्तया मध्यतो बोधिसत्त्वो नोपैति, ध्यानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ध्यानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, ध्यानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र ध्यानासत्तायां ध्यानशून्यतायां ध्यानविविक्ततायां ध्यानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या ध्यानासत्तान्या ध्यानशून्यतान्या ध्यानविविक्ततान्या ध्यानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च ध्यानासत्ता या च ध्यानशून्यता या च ध्यानविविक्तता या च ध्यानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अप्रमाणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमानविविक्ततया (Śस्P_II-१_३०) पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणासत्तया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राप्रमाणासत्तायाम् अप्रमाणशून्यतायाम् अप्रमाणविविक्ततायाम् अप्रमाणास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याप्रमाणासत्तान्याप्रमाणशून्यतान्याप्रमाणविविक्ततान्याप्रमाणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाप्रमाणासत्ता या चाप्रमाणशून्यता या चाप्रमाणविविक्तता या चाप्रमाणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
आरूप्यसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रारूप्यसमापत्त्यसत्तायाम् आरूप्यसमापत्तिशून्यतायाम् आरूप्यसमापत्ति विविक्ततायाम् आरूप्यसमापत्त्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या आरूप्यसमापत्त्यसत्तान्या आरूप्यसमापत्तिशून्यतान्या आरूप्यसमापत्तिविविक्ततान्या आरूप्यसमापत्त्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चारूप्यसमापत्त्यसत्ता या चारूप्यसमापत्तिशून्यता या चारूप्यसमापत्तिविविक्तता (Śस्P_II-१_३१) या चारूप्यसमापत्त्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
विमोक्षासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति. विमोक्षविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षासत्तयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षासत्तया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र विमोक्षासत्तायां विमोक्षशून्यतायां विमोक्षविविक्ततायां विमोक्षास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या विमोक्षासत्तान्या विमोक्षशून्यतान्या विमोक्षविविक्ततान्या विमोक्षास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विमोक्षासत्ता या च विमोक्षशून्यता या च विमोक्षविविक्तता या च विमोक्षास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अनुपूर्वविहारसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानुपूर्वविहारसमापत्त्यसत्तायाम् अनुपूर्वविहारसमापत्तिशून्यतायाम् अनुपूर्वविहारसमापत्तिविविक्ततायाम् अनुपूर्वविहारसमापत्त्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त (Śस्P_II-१_३२) उपलभ्यते न मध्यम् उपलभ्यते. न चान्यानुपूर्वविहारसमापत्त्यसत्तान्यानुपूर्वविहारसमापत्तिशून्यतान्यानुपूर्वविहारसमापत्तिविविक्ततान्यानुपूर्वविहारसमापत्त्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानुपूर्वविहारसमापत्त्यसत्ता या चानुपूर्वविहारसमापत्तिशून्यता या चानुपूर्वविहारसमापत्तिविविक्तता या चानुपूर्वविहारसमापत्त्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्ता या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्तता या च (Śस्P_II-१_३३) शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अभिज्ञासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्नासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राभिज्ञासत्तायाम् अभिज्ञाशून्यतायाम् अभिज्ञाविविक्ततायाम् अभिज्ञास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याभिज्ञासत्तान्याभिज्ञाशून्यतान्याभिज्ञाविविक्ततान्याभिज्ञास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाभिज्ञासत्ता या चाभिज्ञाशून्यता या चाभिज्ञाविविक्तता या चाभिज्ञास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
समाध्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, समाधिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाधिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाध्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाध्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, समाधिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, समाधिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, समाध्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, समाध्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, समाधिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, समाधिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, समाध्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र समाध्यसत्तायां समाधिशून्यतायां समाधिविविक्ततायां समाध्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या समाध्यसत्तान्या समाधिशून्यतान्या समाधिविविक्ततान्या समाध्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो (Śस्P_II-१_३४) ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च समाध्यसत्ता या च समाधिशून्यता या च समाधिविविक्तता या च समाध्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
धारणीमुखासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखासत्तयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखासत्तया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र धारणीमुखासत्तायां धारणीमुखशून्यतायां धारणीमुखविविक्ततायां धारणीमुखास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या धारणीमुखासत्तान्या धारणीमुखशून्यतान्या धारणीमुखविविक्ततान्या धारणीमुखास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च धारणीमुखासत्ता या च धारणीमुखशून्यता या च धारणीमुखविविक्तता या च धारणीमुखास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
तथागतबलासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलासत्तया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् (Śस्P_II-१_३५) छारद्वतीपुत्र तथागतबलासत्तायां तथागतबलशून्यतायां तथागतबलविविक्ततायां तथागतबलास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या तथागतबलासत्तान्या तथागतबलशून्यतान्या तथागतबलविविक्ततान्या तथागतबलास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तथागतबलासत्ता या च तथागतबलशून्यता या च तथागतबलविविक्तता या च तथागतबलास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
वैशारद्यासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वैशारद्यासत्तायां वैशारद्यशून्यतायां वैशारद्यविविक्ततायां वैशारद्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वैशारद्यासत्तान्या वैशारद्यशून्यतान्या वैशारद्यविविक्ततान्या वैशारद्यास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वैशारद्यासत्ता या च वैशारद्यशून्यता या च वैशारद्यविविक्तता या च वैशारद्यास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
प्रतिसंविदसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदसत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदसत्तया मध्यतो (Śस्P_II-१_३६) बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रतिसंविदसत्तायां प्रतिसंविद्शून्यतायां प्रतिसंविद्विविक्ततायां प्रतिसंविदस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या प्रतिसंविदसत्तान्या प्रतिसंविद्शून्यतान्या प्रतिसंविद्विविक्ततान्या प्रतिसंविदस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च प्रतिसंविदसत्ता या च प्रतिसंविद्शून्यता या च प्रतिसंविद्विविक्तता या च प्रतिसंविदस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
महाकरुणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणासत्तया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र महाकरुणासत्तायां महाकरुणाशून्यतायां महाकरुणाविविक्ततायां महाकरुणास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या महाकरुणासत्तान्या महाकरुणाशून्यतान्या महाकरुणाविविक्ततान्या महाकरुणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च महाकरुणासत्ता या च महाकरुणाशून्यता या च महाकरुणाविविक्तता या च महाकरुणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
आवेणिकबुद्धधर्मासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति. आवेणिकबुद्धधर्मशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, (Śस्P_II-१_३७) आवेणिकबुद्धधर्मास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मासत्तयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मासत्तया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रावेणिकबुद्धधर्मासत्तायाम् आवेणिकबुद्धधर्मशून्यतायाम् आवेणिकबुद्धधर्मविविक्ततायाम् आवेणिकबुद्धधर्मास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यावेणिकबुद्धधर्मासत्तान्यावेणिकबुद्धधर्मशून्यतान्यावेणिकबुद्धधर्मविविक्ततान्यावेणिकबुद्धधर्मास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चावेणिकबुद्धधर्मासत्ता या चावेणिकबुद्धधर्मशून्यता या चावेणिकबुद्धधर्मविविक्तता या चावेणिकबुद्धधर्मास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र धर्मधात्वसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र धर्मधात्वसत्तायां धर्मधातुशून्यतायां धर्मधातुविविक्ततायां धर्मधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या धर्मधात्वसत्तान्या धर्मधात्व्शून्यतान्या धर्मधातुविविक्तान्या धर्मधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो (Śस्P_II-१_३८) ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च धर्मधात्वसत्ता य च धर्मधातुशून्यता या च धर्मधातुविविक्तता या च धर्मधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र तथतासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तथताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तथताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तथतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तथतासत्तया मध्यतो बोधिसत्त्वो नोपैति, तथताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तथताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तथतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र तथतासत्तायां तथताशून्यतायां तथताविविक्ततायां तथतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या तथतासत्तान्या तथताशून्यतान्या तथताविविक्तान्या तथतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तथतासत्ता या च तथताशून्यता या च तथताविविक्तता या च तथतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र भूतकोट्यसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोत्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र (Śस्P_II-१_३९) भूतकोट्यसत्तायां भूतकोटिशून्यतायां भूतकोटिविविक्ततायां भूतकोट्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या भूतकोट्यसत्तान्या भूतकोटिशून्यतान्या भूतकोटिविविक्तान्या भूतकोट्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च भूतकोट्यसत्ता या च भूतकोटिशून्यता या च भूतकोटिविविक्तता या च भूतकोट्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राचिन्त्यधात्वसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राचिन्त्यधात्वसत्तायाम् अचिन्त्यधातुशून्यतायाम् अचिन्त्यधातुविविक्ततायाम् अचिन्त्यधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्याचिन्त्यधात्वसत्तान्याचिन्त्यधातुशून्यतान्याचिन्त्यधातुविविक्ततान्याचिन्त्यधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाचिन्त्यधात्वसत्ता या चाचिन्त्यधातुशून्यता या चाचिन्त्यधातुविविक्तता या चाचिन्त्यधात्व् अस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र श्रावकासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकासत्तयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकविविक्ततयापरान्ततो (Śस्P_II-१_४०) बोधिसत्त्वो नोपैति, श्रावकास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकासत्तया मध्यतो बोधिसत्त्वो नोपैति, श्रावकशून्यतया मध्यतो बोधिसत्त्वो नोपैति, श्रावकविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, श्रावकास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र श्रावकासत्तायां श्रावकशून्यतायां श्रावकविविक्ततायां श्रावकास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या श्रावकासत्तान्या श्रावकशून्यतान्या श्रावकविविक्तान्या श्रावकास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च श्रावकासत्ता या च श्रावकशून्यता या च श्रावकविविक्तता या च श्रावकास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र प्रत्येकबुद्धासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रत्येकबुद्धासत्तायां प्रत्येकबुद्धशून्यतायां प्रत्येकबुद्धविविक्ततायां प्रत्येकबुद्धास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या प्रत्येकबुद्धासत्तान्या प्रत्येकबुद्धशून्यतान्या प्रत्येकबुद्धविविक्तान्या प्रत्येकबुद्धास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च प्रत्येकबुद्धासत्ता या च प्रत्येकबुद्धशून्यता या च प्रत्येकबुद्धविविक्तता या च प्रत्येकबुद्धास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वासत्तया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वासत्तायां बोधिसत्त्वशून्यतायां बोधिसत्त्वविविक्ततायां बोधिसत्त्वास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या बोधिसत्त्वासत्तान्या बोधिसत्त्वशून्यतान्या बोधिसत्त्वविविक्तान्या बोधिसत्त्वास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बोधिसत्त्वासत्ता या च बोधिसत्त्वशून्यता या च बोधिसत्त्वविविक्तता या च बोधिसत्त्वास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वज्ञासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञासत्तया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र सर्वज्ञासत्तायां सर्वज्ञशून्यतायां सर्वज्ञविविक्ततायां सर्वज्ञास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या सर्वज्ञासत्तान्या सर्वज्ञशून्यतान्या सर्वज्ञविविक्तान्या सर्वज्ञास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् (Śस्P_II-१_४२) इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सर्वज्ञासत्ता या च सर्वज्ञशून्यता या च सर्वज्ञविविक्तता या च सर्वज्ञास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति. रूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामायुष्मञ् छारद्वतीपुत्राकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते. एवम् एवायुष्मञ् छारद्वतीपुत्र न रूपस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते रूपशून्यताम् उपादाय. न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति. वेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वेदनाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते वेदनाशून्यताम् उपादाय. न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संज्ञा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र संज्ञाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संज्ञाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण (Śस्P_II-१_४३) संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कारा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र संस्काराणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संस्कारशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र विज्ञानस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते विज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन चक्षुषो ऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुर् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र चक्षुषो न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते चक्षुर्शून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुषो ऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न श्रोत्रस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते श्रोत्रशून्यताम् (Śस्P_II-१_४४) उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन घ्राणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र घ्राणस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते घ्राणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन जिह्वापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जिह्वाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जिह्वाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन कायापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, काय आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र कायस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते कायशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन मनोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मन आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति (Śस्P_II-१_४५) नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र मनसो न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते मनःशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र रूपस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते रूपशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन शब्दापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शब्द आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र शब्दस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शब्दशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शब्दापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन गन्धापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, गन्ध आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न गन्धस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते गन्धशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण गन्धापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन रसोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रस आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद् यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र रसस्य न पूर्वान्त उपलभ्यते नापरन्त उपलभ्यते न मध्यम् उपलभ्यते रसोशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रसापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्पर्शस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन धर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, धर्मा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद् यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र धर्माणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण धर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन चक्षुर्विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुर्विज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो (Śस्P_II-१_४७) वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुर्विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतिपुत्र न श्रोत्रविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, श्रोत्रविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन घ्राणविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न घ्राणविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, घ्राणविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन जिह्वाविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वाविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जिह्वाविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, जिह्वाविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वाविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन कायविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् (Śस्P_II-१_४८) छारद्वतीपुत्र न कायविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते कायविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन मनोविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न मनोविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते मनोविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनोविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन चक्षुःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुस्संस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुःसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते चक्षुःसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमह्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न श्रोत्रसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते श्रोत्रसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन घ्राणसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. (Śस्P_II-१_४९) तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न घ्राणसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते घ्राणसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन जिह्वासंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जिह्वासंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, जिह्वासंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वासंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन कायसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न कायसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, कायसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन मनःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न मनःसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, मनःसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुःसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन घ्राणसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन जिह्वासंस्पर्शप्रत्ययवेदनापर्यन्ततया (Śस्P_II-१_५१) बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वासंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वासंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन कायसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन मनःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनःसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते मनःसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनस्संस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन पृथिवीधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त (Śस्P_II-१_५२) उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र पृथिवीधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते पृथिवीधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण पृथिवीधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाब्धात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अब्धातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राब्धातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अब्धातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाब्धात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन तेजोधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र तेजोधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तेजोधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण तेजोधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन वायुधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वायुधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया अकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वायुधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते वायुधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वायुधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाकाशधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता (Śस्P_II-१_५३) वेदितव्येति, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र आकाशधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आकाशधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाकाशधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन विज्ञानधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र विज्ञानधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, विज्ञानधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाविद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अविद्या आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अविद्याशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्द्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कारा आयुष्मञ् छारद्वत्ःपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न संस्काराणां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संस्कारशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं (Śस्P_II-१_५४) वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न विज्ञानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते विज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन नामरूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, नामरूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न नामरूपस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते नामरूपशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नामरूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन षडायतनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, षडायतनम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न षडायतनस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते षडायतनशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण षडायतनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्पर्शस्य न पूर्वान्त (Śस्P_II-१_५५) उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, वेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वेदनापर्यन्ततया बोधिसत्त्वो ऽपर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन तृष्णापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, तृष्णा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र तृष्णाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते तृष्णाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण तृष्णापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनोपादानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, उपादानम् आयुष्मञ् छारद्वतिपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र उपादानस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, उपादानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणोपादानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन भवापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, भव आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकशस्य न पूर्वान्त उपलभ्यते नापरान्त (Śस्P_II-१_५६) उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र भवस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते भवशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण भवापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन जात्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जातिर् आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जातेर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जातिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जात्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन जरामरणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जरामरणम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जरामरणस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जरामरणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जरामरणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन दानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, दानपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र दानपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते दानपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण दानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन शीलपारमितापर्यन्ततया (Śस्P_II-१_५७) बोधिसत्त्वापर्यन्तता वेदितव्येति, शीलपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र शीलपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शीलपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शीलपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन क्षान्तिपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते क्षान्तिपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण क्षान्तिपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन वीर्यपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वीर्यपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, वीर्यपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वीर्यपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन ध्यानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ध्यानपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र ध्यानपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते ध्यानपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र (Śस्P_II-१_५८) पर्यायेण ध्यानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन प्रज्ञापारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते प्रज्ञापारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण प्रज्ञापारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाध्यात्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राध्यात्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अध्यात्मशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाध्यात्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन बहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र बहिर्धाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते बहिर्धाशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाध्यात्मबहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अध्यात्मबहिर्धाशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् (Śस्P_II-१_५९) उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अध्यात्मबहिर्धाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाध्यात्मबहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन शून्यताशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शून्यताशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र शून्यताशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शून्यताशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शून्यताशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन महाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, महाशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र महाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते महाशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण महाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन परमार्थशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, परमार्थशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र परमार्थशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते परमार्थशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण परमार्थशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन संस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कृतशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र संस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते संस्कृतशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनासंस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, असंस्कृतशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र असंस्कृतशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, असंस्कृतशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणासंस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनात्यन्तशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अत्यन्तशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अत्यन्तशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अत्यन्तशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणात्यन्तशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनानवराग्रशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रानवराग्रशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवराग्रशून्यताशून्यताम् उपादाय, न च (Śस्P_II-१_६१) शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानवराग्रशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनानवकारशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अनवकारशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवकारशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानवकारशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन प्रकृतिशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रकृतिशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते प्रकृतिशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण प्रकृतिशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन सर्वधर्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, सर्वधर्मशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र सर्वधर्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते सर्वधर्मशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन स्वलक्षणशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया (Śस्P_II-१_६२) आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्वलक्षणशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, स्वलक्षणशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्वलक्षणशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनानुपलम्भशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रानुपलम्भशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनुपलम्भशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानुपलम्भशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अभावशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन स्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्वभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्वभावशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाभावस्वभावशून्यतापर्यन्ततया (Śस्P_II-१_६३) बोधिसत्त्वापर्यन्तता वेदितव्येति, अभावस्वभावशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राभावस्वभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावस्वभावशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभावस्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन स्मृत्युपस्थानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततयाकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्मृत्युपस्थानानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्मृत्युपस्थानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्मृत्युपस्थानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन सम्यक्प्रहाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामायुष्मञ् छारद्वतीपुत्राकशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र सम्यक्प्रहाणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते सम्यक्प्रहाणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सम्यक्प्रहाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन ऋद्धिपादापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र ऋद्धिपादानां (Śस्P_II-१_६४) न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ऋद्धिपादशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण ऋद्धिपादापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनेन्द्रियापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, इन्द्रियान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रेन्द्रियाणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, इन्द्रियाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणेन्द्रियापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन बलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बलान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र बलानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते बलशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन बोध्यङ्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र बोध्यङ्गानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते बोध्यङ्गशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बोध्यङ्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनार्याष्टाङ्गमार्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आर्याष्टाङ्गमार्ग आयुष्मञ् छारद्वतीपुत्राकाशसमः. (Śस्P_II-१_६५) तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र आर्याष्टाङ्गमार्गस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, आर्याष्टाङ्गमार्गशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणार्याष्टाङ्गमार्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनार्यसत्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रार्यसत्यानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्यसत्यशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणार्यसत्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन ध्यानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र ध्यानानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते ध्यानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण ध्यानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाप्रमाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राप्रमाणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अप्रमाणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाप्रमाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनारूप्यसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आरूप्यसमापत्तय आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रारूप्यसमापत्तीनार्प् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आरूप्यसमापत्तिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणारूप्यसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाष्टविमोक्षापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अष्टविमोक्षा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र विमोक्षाणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विमोक्षशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विमोक्षापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनानुपूर्वविहारसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनुपूर्वविहारसमापत्तय आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायिइष्मञ् छारद्वतीपुत्रानुपूर्वविहारसमापत्तीनां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्तिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानुपूर्वविहारसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामायुष्मञ् छारद्वतीपुत्र आकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र (Śस्P_II-१_६७) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शून्यतानिमित्ताप्रणिहितविमोक्षमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनाभिज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अभिज्ञा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राभिज्ञाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभिज्ञाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभिज्ञापर्यन्ततया बोधिसत्त्वो ऽपर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन समाध्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, समाधय आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र समाधीनां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते समाधिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण समाध्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन धारणीमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र धारणीमुखानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते धारणीमुखशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण धारणीमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन तथागतबलापर्यन्ततया (Śस्P_II-१_६८) बोधिसत्त्वापर्यन्तता वेदितव्येति, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र तथागतबलानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते तथागतबलशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण तथागतबलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन वैशारद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वैशारद्यानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते वैशारद्यशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वैशारद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन प्रतिसंविदपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रतिसंविद आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र प्रतिसंविदां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते प्रतिसंविद्शून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण प्रतिसंविदपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेन महाकरुणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, महाकरुणायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र महाकरुणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते महाकरुणाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण (Śस्P_II-१_६९) महाकरुणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् एवं वदसि, केन कारणेनावेणिकबुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रावेणिकबुद्धधर्मानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणावेणिकबुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्र एवं वदसि, केन कारणेन रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभत इति, केन कारणेन वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यत इति, संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यत इति, संस्कारा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यत इति, विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यत इति. रूपम् आयुष्मञ् छारद्वतीपुत्र रूपेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां रूपं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. वेदना वेदनया शून्या. तत् कस्य हेतोः? न हि शून्यतायां रूपं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. संज्ञा संज्ञया शून्या. तत् कस्य हेतोः? न हि शून्यतायां संज्ञा संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां संस्काराः संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कारा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां विज्ञानं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र दानपारमिता दानपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां दानपारमिता संविद्यते न बोधिसत्त्वः. शीलपारमिता शीलपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां शीलपारमिता संविद्यते न बोधिसत्त्वः. क्षान्तिपारमिता क्षान्तिपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां क्षान्तिपारमितां संविद्यते न बोधिसत्त्वः. वीर्यपारमिता वीर्यपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां वीर्यपारमिता संविद्यते न बोधिसत्त्वः. ध्यानपारमिता ध्यानपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां ध्यानपारमिता संविद्यते न बोधिसत्त्वः. प्रज्ञापारमिता प्रज्ञापारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां प्रज्ञापारमिता संविद्यते न बोधिसत्त्वः.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राध्यात्मशून्यताध्यात्मशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अध्यात्मशून्यता संविद्यते न बोधिसत्त्वः, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां बहिर्धाशून्यता संविद्यते न बोधिसत्त्वः, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अध्यात्मबहिर्धाशून्यता संविद्यते न बोधिसत्त्वः, शून्यताशून्यता शून्यताशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां शून्यताशून्यता संविद्यते न बोधिसत्त्वः, महाशून्यता महाशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां महाशून्यता संविद्यते न बोधिसत्त्वः,परमार्थशून्यता परमार्थशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां परमार्थशून्यता संविद्यते न बोधिसत्त्वः, संस्कृतशून्यता संस्कृतशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां संस्कृतशून्यता संविद्यते न बोधिसत्त्वः, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् असंस्कृतशून्यता संविद्यते न बोधिसत्त्वः, अत्यन्तशून्यतात्यन्तशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अत्यन्तशून्यता संविद्यते न बोधिसत्त्वः, अनवराग्रशून्यतानवराग्रशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अनवराग्रशून्यता संविद्यते न बोधिसत्त्वः, अनवकारशून्यतानवकारशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अनवकारशून्यता संविद्यते न बोधिसत्त्वः, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां प्रकृतिशून्यता संविद्यते न बोधिसत्त्वः, सर्वधर्मशून्यता सर्वधर्मशून्यतया (Śस्P_II-१_७१) शून्या. तत् कस्य हेतोः? न हि शून्यतायां सर्वधर्मशून्यता संविद्यते न बोधिसत्त्वः, स्वलक्षनशून्यता स्वलक्षनशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां स्वलक्षनशून्यता संविद्यते न बोधिसत्त्वः, अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अनुपलम्भशून्यता संविद्यते न बोधिसत्त्वः, अभावशून्यताभावशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अभावशून्यता संविद्यते न बोधिसत्त्वः, भावशून्यता भावशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां भावशून्यता संविद्यते न बोधिसत्त्वः, अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अभावस्वभावशून्यता संविद्यते न बोधिसत्त्वः.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां स्मृत्युपस्थानानि संविद्यन्ते न बोधिसत्त्वः. सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां सम्यक्प्रहाणानि संविद्यन्ते न बोधिसत्त्वः. ऋद्धिपादा ऋद्धिपादैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां सम्यक्प्रहाणानि संविद्यन्ते न बोधिसत्त्वः. इन्द्रियाणीन्द्रियैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायाम् इन्द्रियानि संविद्यन्ते न बोधिसत्त्वः. बलानि बलैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां बलानि संविद्यन्ते न बोधिसत्त्वः. बोध्यङ्गानि बोध्यङ्गैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां बोध्यङ्गानि संविद्यन्ते न बोधिसत्त्वः. आर्याष्टाङ्गो मार्ग आर्याष्टाङ्गेन मार्गेन शून्यः. तत् कस्य हेतोः? न हि शून्यतायाम् आर्याष्टाङ्गो मार्गः संविद्यते न बोधिसत्त्वः. आर्यसत्यान्य् आर्यसत्यैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां आर्यसत्यानि संविद्यन्ते न बोधिसत्त्वः. ध्यानानि ध्यानैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां ध्यानानि संविद्यन्ते न बोधिसत्त्वः. अप्रमाणान्य् अप्रमाणैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां अप्रमाणानि संविद्यन्ते न बोधिसत्त्वः. आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां आरूप्यसमापत्तयः संविद्यन्ते न बोधिसत्त्वः. अष्टौ विमोक्षा विमोक्षैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायाम् अष्टौ विमोक्षाः संविद्यन्ते न बोधिसत्त्वः. नवानुपूर्वविहारसमापत्तय नवानुपूर्वविहारसमापत्तिभिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां नवानुपूर्वविहारसमापत्तयः संविद्यन्ते न (Śस्P_II-१_७२) बोधिसत्त्वः. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्ष मुखैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि संविद्यन्ते न बोधिसत्त्वः. अभिज्ञा अभिज्ञाभिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायाम् अभिज्ञाः संविद्यन्ते न बोधिसत्त्वः. समाधयः समाधिभिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां समाधयः संविद्यन्ते न बोधिसत्त्वः. धारणीमुखानि धारणीमुखैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां धारणीमुखानि संविद्यन्ते न बोधिसत्त्वः. तथागतबलानि तथागतबलैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां तथागतबलानि संविद्यन्ते न बोधिसत्त्वः. वैशारद्यानि वैशारद्यैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां वैशारद्यानि संविद्यन्ते न बोधिसत्त्वः. प्रतिसंविदः प्रतिसंविद्भिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां प्रतिसंविदः संविद्यन्ते न बोधिसत्त्वः. महाकरुणा महाकरुणया शून्या. तत् कस्य हेतोः? न हि शून्यतायां महाकरुणा संविद्यते न बोधिसत्त्वः. आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायाम् आवेणिकबुद्धधर्माः संविद्यन्ते न बोधिसत्त्वः. धर्मधातुर् धर्मधातुना शून्यः. तत् कस्य हेतोः? न हि शून्यतायां धर्मधातुः संविद्यते न बोधिसत्त्वः. तथता तथतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां तथता संविद्यते न बोधिसत्त्वः. भूतकोटिर् भूतकोट्या शून्या. तत् कस्य हेतोः? न हि शून्यतायां भूतकोटिः संविद्यते न बोधिसत्त्वः. अचिन्त्यधातुर् अचिन्त्यधातुना शून्यः. तत् कस्य हेतोः? न हि शून्यतायाम् अचिन्त्यधातुः संविद्यते न बोधिसत्त्वः. सर्वज्ञता सर्वज्ञतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां सर्वज्ञता संविद्यते न बोधिसत्त्वः. मार्गाकारज्ञता मार्गाकारज्ञतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां मार्गाकारज्ञता संविद्यते न बोधिसत्त्वः. सर्वाकारज्ञता सर्वाकारज्ञतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां सर्वाकारज्ञता संविद्यते न बोधिसत्त्वः. श्रावकयानं श्रावकयानेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां श्रावकयानं संविद्यते न बोधिसत्त्वः. प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां प्रत्येकबुद्धयानं संविद्यते न बोधिसत्त्वः. बुद्धयानं बुद्धयानेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां बुद्धयानं संविद्यते न बोधिसत्त्वः. श्रावकः श्रावकेन शून्यः. तत् (Śस्P_II-१_७३) कस्य हेतोः? न हि शून्यतायां श्रावकः संविद्यते न बोधिसत्त्वः. प्रत्येकबुद्धः प्रत्येकबुद्धेन शून्यः. तत् कस्य हेतोः? न हि शून्यतायां प्रत्येकबुद्धः संविद्यते न बोधिसत्त्वः. तथागतस् तथागतेन शून्यः. तत् कस्य हेतोः? न हि शून्यतायां तथागतः संविद्यते न बोधिसत्त्वः.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते, वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते, संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते, संस्कारा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते, विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते.
SK
यद् अप्य् आयुष्मञ् छारद्वतीपुत्र एवम् आह केन कारणेन वदसि, एवम् आह सर्वेण सर्वं बोधिसत्त्वम् अनुपलम्भमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् एवं वदिष्याम्य् अनुशासिष्यामीति.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्र रूपे न संविद्यते नोपलभ्यते,
SK
रूपं वेदनायां न संविद्यते नोपलभ्यते,
SK
वेदना वेदनायां न संविद्यते नोपलभ्यते,
SK
वेदना रूपे न संविद्यते नोपलभ्यते,
SK
रूपवेदना संज्ञायां न संविद्यते नोपलभ्यते,
SK
संज्ञा संज्ञायां न संविद्यते नोपलभ्यते,
SK
संज्ञा रूपवेदनयो न संविद्यते नोपलभ्यते,
SK
रूपवेदनासंज्ञा संस्कारेषु न संविद्यते नोपलभ्यते,
SK
संस्काराः संस्कारेषु न संविद्यन्ते नोपलभ्यते,
SK
संस्कारा रूपवेदनासंज्ञासु न संविद्यते नोपलभ्यते,
SK
रूपवेदनासंज्ञासंस्कारा विज्ञाने न संविद्यते नोपलभ्यते,
SK
विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते,
SK
विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न संविद्यते नोपलभ्यते.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र चक्षुषि न संविद्यते नोपलभ्यते,
SK
चक्षुः श्रोत्रे न संविद्यते नोपलभ्यते,
SK
श्रोत्रं श्रोत्रे न संविद्यते नोपलभ्यते,
SK
श्रोत्रं चक्षुषि न संविद्यते नोपलभ्यते,
SK
चक्षुः श्रोत्रश् च घ्राणे न संविद्यते नोपलभ्यते,
SK
घ्राणं घ्राणे न संविद्यते नोपलभ्यते,
SK
घ्रानं चक्षुःश्रोत्रयो न संविद्यते नोपलभ्यते,
SK
चक्षुःश्रोत्रघ्राणं जिह्वायां न संविद्यते नोपलभ्यते,
SK
जिह्वा जिह्वायां न संविद्यते नोपलभ्यते,
SK
जिह्वा चक्षुःश्रोत्रघ्राणेषु न संविद्यते नोपलभ्यते,
SK
चक्षुःश्रोत्रघ्राणजिह्वाः काये न संविद्यते नोपलभ्यते,
SK
कायः काये न संविद्यते नोपलभ्यते,
SK
कायश् चक्षुःश्रोत्रघ्राणजिह्वासु न संविद्यते नोपलभ्यते,
SK
चक्षुःश्रोत्रघ्राणजिह्वाकाया मनसि न संविद्यते नोपलभ्यते,
SK
मनो मनसि न संविद्यते नोपलभ्यते,
SK
मनश् चक्षुःश्रोत्रघ्राणजिह्वाकायेषु न संविद्यते नोपलभ्यते.
SK
रूपं रूपे न संविद्यते नोपलभ्यते,
SK
रूपं शब्दे न संविद्यते नोपलभ्यते,
SK
शब्दः शब्दे न संविद्यते नोपलभ्यते,
SK
शब्दो रूपे न संविद्यते नोपलभ्यते,
SK
रूपशब्दो गन्धे न संविद्यते नोपलभ्यते,
SK
गन्धो गन्धे न संविद्यते नोपलभ्यते,
SK
गन्धो रूपशब्दयो न संविद्यते नोपलभ्यते,
SK
रूपशब्दोगन्धो रसे न संविद्यते नोपलभ्यते,
SK
रसो रसे न संविद्यते नोपलभ्यते,
SK
रसो रूपशब्दगन्धेषु न संविद्यते नोपलभ्यते,
SK
रूपशब्दगन्धरसः स्पर्शे न संविद्यते नोपलभ्यते,
SK
स्पर्शः स्पर्से न संविद्यते नोपलभ्यते,
SK
स्पर्शो रूपशब्दगन्धरसेषु न संविद्यते नोपलभ्यते,
SK
रूपशब्दगन्धरसस्पर्शो धर्मेषु न संविद्यते नोपलभ्यते,
SK
धर्मा धर्मेषु न संविद्यते नोपलभ्यते,
SK
धर्मा रूपशब्दगन्धरसस्पर्शेषु न संविद्यते नोपलभ्यते.
SK
चक्षुर्विज्ञानं चक्षुर्विज्ञाने न संविद्यते नोपलभ्यते,
SK
चक्षुर्विज्ञानं श्रोत्रविज्ञाने न संविद्यते नोपलभ्यते,
SK
श्रोत्रविज्ञानं श्रोत्रविज्ञाने न संविद्यते नोपलभ्यते,
SK
श्रोत्रविज्ञानं चक्षुर्विज्ञाने न संविद्यते नोपलभ्यते,
SK
चक्षुर्विज्ञानं श्रोत्रविज्ञानञ् च घ्राणविज्ञाने न संविद्यते नोपलभ्यते,
SK
घ्राणविज्ञानं घ्राणविज्ञाने न संविद्यते नोपलभ्यते,
SK
घ्राणविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानयो न संविद्यते नोपलभ्यते,
SK
चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानानि जिह्वाविज्ञाने न संविद्यन्ते नोपलभ्यन्ते,
SK
जिह्वाविज्ञानं जिह्वाविज्ञाने न संविद्यते नोपलभ्यते,
SK
जिह्वाविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानेषु न संविद्यते नोपलभ्यते,
SK
चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानानि कायविज्ञाने न संविद्यन्ते नोपलभ्यन्ते,
SK
कायविज्ञानं कायविज्ञाने न संविद्यते नोपलभ्यते,
SK
कायविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानेषु न संविद्यते नोपलभ्यते,
SK
चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानानि मनोविज्ञाने न संविद्यन्ते नोपलभ्यन्ते,
SK
मनोविज्ञानं मनोविज्ञाने न संविद्यते नोपलभ्यते,
SK
मनोविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानेषु न संविद्यते नोपलभ्यते.
SK
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
श्रोत्रसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
घ्राणसंस्पर्शो घ्राणसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
घ्राणसंस्पर्शश् चक्षुःसंस्पर्शश्रोत्रसंस्पर्शयो न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शे न संविद्यते नोपलभ्यते,
SK
जिह्वासंस्पर्शो जिह्वासंस्पर्शे न संविद्यते नोपलभ्यते,
SK
जिह्वासंस्पर्शश् चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शेषु न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
कायसंस्पर्शः कायसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
कायसंस्पर्शश् चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्सजिह्वासंस्पर्शेषु न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शकायसंस्पर्शा मनःसंस्पर्शे न संविद्यन्ते नोपलभ्यन्ते,
SK
मनःसंस्पर्शो मनःसंस्पर्शे न संविद्यते नोपलभ्यते,
SK
मनःसंस्पर्शश् चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शकायसंस्पर्शेषु न संविद्यते नोपलभ्यते.
SK
चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
श्रोत्रसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
घ्राणसंस्पर्शजावेदना चक्षुःसंस्पशजावेदनाश्रोत्रसंस्पर्शजावेदनयोर् न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते,
SK
जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
जिह्वासंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनासु न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाः कायसंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते,
SK
कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
कायसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनासु (Śस्P_II-१_७७) न संविद्यते नोपलभ्यते,
SK
चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाकायसंस्पर्शजावेदना मनःसंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते,
SK
मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते,
SK
मनःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाकायसंसर्शजावेदनासु न संविद्यते नोपलभ्यते.
SK
पृथिवीधातु पृथिवीधातौ न संविद्यते नोपलभ्यते,
SK
पृथिवीधातुर् अब्धातौ न संविद्यते नोपलभ्यते,
SK
अब्धातुर् अब्धातौ न संविद्यते नोपलभ्यते,
SK
अब्धातुः पृथिवीधातौ न संविद्यते नोपलभ्यते,
SK
पृथिवीधातुर् अब्धातुश् च तेजोधातौ न संविद्यते नोपलभ्यते,
SK
तेजोधातुः तेजोधातौ न संविद्यते नोपलभ्यते,
SK
तेजोधातुः पृथिवीधाताव् अब्धातौ च न संविद्यते नोपलभ्यते,
SK
पृथिवीधातुर् अब्धातुः तेजोधातुर् वायुधातौ न संविद्यते नोपलभ्यते,
SK
वायुधातुर् वायुधातौ न संविद्यते नोपलभ्यते,
SK
वायुधातुः पृथिवीधात्वब्धातुतेजोधातुषु न संविद्यते नोपलभ्यते,
SK
पृथिवीधातुर् अब्धातुतेजोधातुवायुधातुर् आकाशधातौ न संविद्यते नोपलभ्यते,
SK
आकाशधातुर् आकाशधातौ न संविद्यते नोपलभ्यते,
SK
आकाशधातुः पृथिवीधात्वब्धातुतेजोधातुवायुधातुषु न संविद्यते नोपलभ्यते,
SK
पृथिवीधातुर् अब्धातुतेजोधातुवायुधातुर् आकाशधातुर् वा विज्ञानधातौ न संविद्यते नोपलभ्यते,
SK
विज्ञानधातुर् विज्ञानधातौ न संविद्यते नोपलभ्यते,
SK
विज्ञानधातुः पृथिवीधात्वब्धातुतेजोधातुवायुधात्वाकाशधातुषु न संविद्यते नोपलभ्यते.
SK
अविद्या अविद्यायां न संविद्यते नोपलभ्यते,
SK
अविद्या संस्कारेषु न संविद्यते नोपलभ्यते,
SK
संस्काराः संस्कारेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
संस्कारा अविद्यायां न संविद्यन्ते नोपलभ्यन्ते,
SK
अविद्या संस्काराश् च विज्ञाने न संविद्यते नोपलभ्यते,
SK
विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते,
SK
विज्ञानम् अविद्यायां संस्कारेषु च न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञानानि नामरूपे न संविद्यन्ते नोपलभ्यन्ते,
SK
नामरूपं नामरूपे न संविद्यते नोपलभ्यते,
SK
नामरूपम् अविद्यासंस्कारविज्ञानेषु न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञाननामरूपाणि षडायतने न संविद्यन्ते नोपलभ्यन्ते,
SK
षडायतनं षडायतने न संविद्यते नोपलभ्यते,
SK
षडायतनम् अविद्यासंस्कारविज्ञाननामरूपेषु न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञाननामरूपषडायतनानि स्पर्से न संविद्यन्ते नोपलभ्यन्ते,
SK
स्पर्शः स्पर्से न संविद्यते नोपलभ्यते,
SK
स्पर्शो ऽविद्यासंस्कारविज्ञाननामरूपषडायतनेषु न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शा वेदनायां न संविद्यन्ते नोपलभ्यन्ते,
SK
वेदना वेदनायां न संविद्यते नोपलभ्यते,
SK
वेदनाविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शेषु न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनास् तृष्णायां न संविद्यते नोपलभ्यते,
SK
तृष्णा तृष्णायां न संविद्यते नोपलभ्यते,
SK
तृष्णाविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनासु न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णा उपादाने न संविद्यन्ते नोपलभ्यन्ते,
SK
उपादानम् उपादाने न संविद्यते नोपलभ्यते,
SK
उपादानम् अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णासु न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानानि भवे न संविद्यन्ते नोपलभ्यन्ते,
SK
भवो भवे न संविद्यते नोपलभ्यते,
SK
भवो ऽविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानेषु न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवा जातौ न संविद्यन्ते नोपलभ्यन्ते,
SK
जातिर् जातौ न संविद्यते नोपलभ्यते,
SK
जातिर् अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपदानभवेषु न संविद्यते नोपलभ्यते,
SK
अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातयो जरामरणे न संविद्यन्ते नोपलभ्यन्ते,
SK
जरामरणं जरामरणे न संविद्यते नोपलभ्यते,
SK
जरामरणम् अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिषु न संविद्यते नोपलभ्यते.
SK
दानपारमिता दानपारमितायां न संविद्यते नोपलभ्यते,
SK
दानपारमिता शीलपारमितायां न संविद्यते नोपलभ्यते,
SK
शीलपारमिता शीलपारमितायां न संविद्यते नोपलभ्यते,
SK
शीलपारमिता दानपारमितायां न संविद्यते नोपलभ्यते,
SK
दानपारमिता शीलपारमिता क्षान्तिपारमितायां न संविद्यते नोपलभ्यते,
SK
क्षान्तिपारमिता क्षान्तिपारमितायां न संविद्यते नोपलभ्यते,
SK
क्षान्तिपारमिता दानपारमिताशीलपारमितयो न संविद्यते नोपलभ्यते,
SK
दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमितायां न संविद्यते नोपलभ्यते,
SK
वीर्यपारमिता वीर्यपारमितायां न संविद्यते नोपलभ्यते,
SK
वीर्यपारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितासु न संविद्यते नोपलभ्यते,
SK
दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमितायां न संविद्यते नोपलभ्यते,
SK
ध्यानपारमिता ध्यानपारमितायां न संविद्यते नोपलभ्यते,
SK
ध्यानपारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमितासु न संविद्यते नोपलभ्यते,
SK
दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते,
SK
प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते,
SK
प्रज्ञापारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमितासु न संविद्यते नोपलभ्यते.
SK
अध्यात्मशून्यताध्यात्मशून्यतायां न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यता बहिर्धाशून्यतायां न संविद्यते नोपलभ्यते,
SK
बहिर्धाशून्यता बहिर्धाशून्यतायां न संविद्यते नोपलभ्यते,
SK
बहिर्धाशून्यताध्यात्मशून्यतायां न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यतायां न संविद्यते नोपलभ्यते,
SK
अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतायां न संविद्यते नोपलभ्यते,
SK
अध्यात्मबहिर्धाशून्यताध्यात्मशून्यताबहिर्धाशून्यतयो न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यता बहिर्धाशून्यता शून्यताशून्यतायां न संविद्यते नोपलभ्यते,
SK
शून्यताशून्यता शून्यताशून्यतायां न संविद्यते नोपलभ्यते,
SK
शून्यताशून्यताध्यात्मशून्यताबहिर्धाशून्यतयो न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यतायां न संविद्यते नोपलभ्यते,
SK
महाशून्यता महाशून्यतायां न संविद्यते नोपलभ्यते,
SK
महाशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यतायां न संविद्यते नोपलभ्यते,
SK
परमार्थशून्यता परमार्थशून्यतायां न संविद्यते नोपलभ्यते,
SK
परमार्थशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यताः संस्कृतशून्यतायां न (Śस्P_II-१_८१) संविद्यन्ते नोपलभ्यन्ते,
SK
संस्कृतशून्यता संस्कृतशून्यतायां न संविद्यते नोपलभ्यते,
SK
संस्कृतशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यता असंस्कृतशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
असंस्कृतशून्यतासंस्कृतशून्यतायां न संविद्यते नोपलभ्यते,
SK
असंस्कृतशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यता अत्यन्तसून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
अत्यन्तशून्यतात्यन्तशून्यतायां न संविद्यते नोपलभ्यते,
SK
अत्यन्तशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यताषु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यता अनवराग्रशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
अनवराग्रशून्यतानवराग्रशून्यतायां न संविद्यते नोपलभ्यते,
SK
अनवराग्रशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर् धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यता अनवकारशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
अनवकारशून्यतानवकारशून्यतायां न संविद्यते नोपलभ्यते,
SK
अनवकारशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताः प्रकृतिशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
प्रकृतिशून्यता प्रकृतिशून्यतायां न संविद्यते नोपलभ्यते,
SK
प्रकृतिशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थ्शून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यताः सर्वधर्मशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
सर्वधर्मशून्यता सर्वधर्मशून्यतायां न संविद्यते नोपलभ्यते,
SK
सर्वधर्मशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यताः स्वलक्षणशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
स्वलक्षणशून्यता स्वलक्षणशून्यतायां न संविद्यते नोपलभ्यते,
SK
स्वलक्षणशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यता अनुपलम्भशून्यतायां न संविद्यन्ते (Śस्P_II-१_८३) नोपलभ्यन्ते,
SK
अनुपलम्भशून्यतानुपलम्भशून्यतायां न संविद्यते नोपलभ्यते,
SK
अनुपलम्भशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यताप्रमार्थश्न्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यता अभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
अभावशून्यताभावशून्यतायां न संविद्यते नोपलभ्यते,
SK
अभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यताभावशून्यताः स्वभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
स्वभावशून्यता स्वभावशून्यतायां न संविद्यते नोपलभ्यते,
SK
स्वभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यताभावशून्यतासु न संविद्यते नोपलभ्यते,
SK
अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यतासून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षाणशून्यतानुपलम्भशून्यतास्वभावशून्यता (Śस्P_II-१_८४) अभावस्वभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते,
SK
अभावस्वभावशून्यताभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते,
SK
अभावस्वभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षाणशून्यतानुपलम्भशून्यताभावशून्यतास्वभावशून्यतासु न संविद्यते नोपलभ्यते.
SK
स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
स्मृत्युपस्थानानि सम्यक्प्रहाणेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
सम्यक्प्रहाणानि सम्यक्प्रहाणेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
सम्यक्प्रहाणानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
ऋद्धिपादा ऋद्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
ऋद्धिपादाः स्मृत्युपस्थानेषु सम्यक्प्रहाणेषु च न संविद्यन्ते नोपलभ्यन्ते,
SK
स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादा इन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
इन्द्रियाणीन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
इन्द्रियाणि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियाणि बलेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
बलानि बलेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
बलानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलानि बोध्यङ्गेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
बोध्यङ्गानि बोध्यङ्गेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
बोध्यङ्गानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मर्गे न संविद्यन्ते नोपलभ्यन्ते,
SK
मार्गो मर्गे न संविद्यते नोपलभ्यते,
SK
मार्गः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु न संविद्यते नोपलभ्यते.
SK
आर्यसत्यान्य् आर्यसत्येषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आर्यसत्यानि ध्यानेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
ध्यानानि ध्यानेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
ध्यानान्य् आर्यसत्येषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आर्यसत्यानि ध्यानानि चाप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अप्रमाणान्य् अप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अप्रमाणान्य् आर्यसत्येषु ध्यानेषु च न संविद्यन्ते नोपलभ्यन्ते,
SK
आर्यसत्यध्यानाप्रमाणान्य् आरूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आरूप्यसमापतय आरूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आरूप्यसमापत्तय आर्यसत्यध्यानाप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आर्यसत्यध्यानाप्रमाणारूप्यसमापत्त्यो विमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
विमोक्षा विमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
विमोक्षा आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षा अनुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते.
SK
अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अनुपूर्वविहारसमापत्तय आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते.
SK
आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तयो विमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
विमोक्षमुखानि विमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते.
SK
विमोक्षमुखान्य् आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षान्य् अभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते,
SK
अभिज्ञा अभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते.
SK
अभिज्ञा आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञाः समाधिषु न संविद्यन्ते नोपलभ्यन्ते,
SK
समाधयः समाधिषु न संविद्यन्ते नोपलभ्यन्ते,
SK
समाधय आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते,
SK
आर्यसत्यध्यानाप्रमाणारूप्यसमापतिविमोक्षानुपूर्वविहारसमपत्तिविमोक्षमुखाभिज्ञासमाधयो धारणीमुखेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
धारणीमुखानि धारणीमुखेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
धारणीमुखान्य् आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञासमाधिषु न संविद्यन्ते नोपलभ्यन्ते.
SK
तथागतबलानि तथागतबलेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
तथागतबलानि वैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते,
SK
वैशारद्यानि वैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते,
SK
वैशारद्यानि तथागतबलेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
तथागतबलानि वैशारद्यानि च प्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते,
SK
प्रतिसंविदः प्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते,
SK
प्रतिसंविदस् तथागतबलवैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते,
SK
तथागतबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
आवेणिकबुद्धधर्मास् तथागतबलवैशारद्यप्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते.
SK
गोत्रभूधर्मा गोत्रभूधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
गोत्रभूधर्मा अष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अष्टमकधर्मा अष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अष्टमकधर्मा गोत्रभूधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
गोत्रभूधर्मा अष्टमकधर्माश् च स्रोतआपत्तिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
स्रोतआपत्तिधर्माः स्रोतआपत्तिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
स्रोतआपत्तिधर्मा गोत्रभूधर्माष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते.
SK
गोत्रभूधर्मा अष्टकधर्माः स्रोतआपत्तिधर्माः सकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
सकृदागामिधर्माः सकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
सकृदागामिधर्मा गोत्रभूधर्माष्ट्मकधर्मस्रोतआपन्नधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हत्त्वधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अनागामिधर्मा अनागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अनागामिधर्मा गोत्रभूधर्माष्टमकधर्मस्रोतआपन्नधर्मसकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अर्हद्धर्मा अर्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
अर्हद्धर्मा गोत्रभूधर्माष्टमकधर्मश्रोतआपन्नधर्मसकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
प्रत्येकबुद्धधर्माः प्रत्येकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते,
SK
प्रत्येकबुद्धधर्मा गोत्रभूधर्माष्टमकधर्मस्रोतआपन्नधर्मसकृदागामिधर्मानागामिधर्मार्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते.
SK
पृथग्जनभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिर् गोत्रभूमौ न संविद्यते नोपलभ्यते,
SK
गोत्रभूमिर् गोत्रभूमौ न संविद्यते नोपलभ्यते,
SK
गोत्रभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिर् गोत्रभूमिश् चाष्टमकभूमौ न संविद्यते नोपलभ्यते,
SK
अष्टमकभूमिर् अष्टमकभूमौ न संविद्यते नोपलभ्यते.
SK
अष्टमकभूमिः पृथग्जनभूमिगोत्रभूमौ न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिगोत्रभूम्यष्टमकभूमयो दर्शनभूमौ न संविद्यन्ते नोपलभ्यन्ते,
SK
दर्शनभूमिर् दर्शनभूमौ न संविद्यते नोपलभ्यते,
SK
दर्शनभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिषु न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमयस् तनुभूमौ न संविद्यन्ते नोपलभ्यन्ते,
SK
तनुभूमिस् तनुभूमौ न संविद्यते नोपलभ्यते,
SK
तनुभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमिषु न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमयो वीतरागभूमौ न संविद्यन्ते नोपलभ्यन्ते,
SK
वीतरागभूमिर् वीतरागभूमौ न संविद्यते नोपलभ्यते,
SK
वीतरागभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिषु न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमयः कृताविभूमौ न संविद्यन्ते नोपलभ्यन्ते,
SK
कृताविभूमिः कृताविभूमौ न संविद्यते नोपलभ्यते,
SK
कृताविभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिषु न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमयः प्रत्यकबुद्धभूमौ न संविद्यन्ते नोपलभ्यन्ते,
SK
प्रत्येकबुद्धभूमिः प्रत्येकबुद्धभूमौ न संविद्यते नोपलभ्यते,
SK
प्रत्येकबुद्धभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिषु (Śस्P_II-१_८९) न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमयो बोधिसत्त्वभूमौ न संविद्यन्ते नोपलभ्यन्ते,
SK
बोधिसत्त्वभूमिर् बोधिसत्त्वभूमौ न संविद्यते नोपलभ्यते.
SK
बोधिसत्त्वभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिषु न संविद्यते नोपलभ्यते,
SK
पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिबोधिसत्त्वभूमयः सम्यक्षंबुद्धभूमौ न संविद्यन्ते नोपलभ्यन्ते,
SK
सम्यक्षंबुद्धभूमिः सम्यक्षंबुद्धभूमौ न संविद्यते नोपलभ्यते,
SK
सम्यक्षंबुद्धभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिबोधिसत्त्वभूमिषु न संविद्यते नोपलभ्यते.
SK
सर्वज्ञता सर्वज्ञतायां न संविद्यते नोपलभ्यते,
SK
सर्वज्ञता मार्गाकारज्ञतायां न संविद्यते नोपलभ्यते,
SK
मार्गाकारज्ञता मार्गाकारज्ञतायां न संविद्यते नोपलभ्यते,
SK
मार्गाकारज्ञता सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते,
SK
सर्वज्ञता मार्गाकारज्ञता च सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते,
SK
सर्वाकारज्ञता सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते,
SK
सर्वाकारज्ञता सर्वज्ञतामार्गाकारज्ञतयोर् न संविद्यते नोपलभ्यते.
SK
स्रोतआपन्नः स्रोतआपन्ने न संविद्यते नोपलभ्यते,
SK
स्रोतआपन्नः सकृदागामिनि न संविद्यते नोपलभ्यते,
SK
सकृदागामी सकृदागामिनि न संविद्यते नोपलभ्यते,
SK
सकृदागामी स्रोतआपन्ने न संविद्यते नोपलभ्यते,
SK
स्रोतआपन्नः सकृदागामी चानागामिनि न संविद्यते नोपलभ्यते,
SK
अनागाम्य् अनागामिनि न संविद्यते नोपलभ्यते,
SK
अनागामी स्रोतआपन्नसकृदागामिनि च न संविद्यते नोपलभ्यते,
SK
स्रोतआपन्नसकृदागाम्यनागामिनो ऽर्हति न संविद्यन्ते नोपलभ्यन्ते,
SK
अर्हन् अर्हति न संविद्यते नोपलभ्यते,
SK
अर्हन् स्रोतआपन्नसकृदागाम्यनागामिषु न संविद्यते नोपलभ्यते,
SK
स्रोतआपन्नसकृदागाम्यनागाम्यर्हन्तः प्रत्येकबुद्धे न संविद्यन्ते नोपलभ्यन्ते,
SK
प्रत्येकबुद्धः प्रत्येकबुद्धे न संविद्यते नोपलभ्यते,
SK
प्रत्येकबुद्धः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्सु न संविद्यते नोपलभ्यते,
SK
श्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धा बोधिसत्त्वे न संविद्यन्ते नोपलभ्यन्ते,
SK
बोधिसत्त्वो बोधिसत्त्वे न संविद्यते नोपलभ्यते,
SK
बोधिसत्त्वः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धेषु न संविद्यते नोपलभ्यते,
SK
स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वास् तथागते न संविद्यन्ते नोपलभ्यन्ते,
SK
तथागतस् तथागते न संविद्यते नोपलभ्यते,
SK
तथागतः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वेषु न संविद्यते नोपलभ्यते.
SK
बोधिसत्त्वो बोधिसत्त्वे न संविद्यते नोपलभ्यते,
SK
बोधिसत्त्वः प्रज्ञापारमितायां न संविद्यते नोपलभ्यते,
SK
प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते,
SK
प्रज्ञापारमिता बोधिसत्त्वे न संविद्यते नोपलभ्यते,
SK
बोधिसत्त्वप्रज्ञापारमिता चाववादानुशासन्यां न संविद्यते नोपलभ्यते,
SK
अववादानुशासन्य् अववादानुशासन्यां न संविद्यते नोपलभ्यते,
SK
अववादानुशासनी बोधिसत्त्वप्रज्ञापारमितयोर् न संविद्यते नोप लभ्यते.
SK
एवम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलभमानेषु बोधिसत्त्वो न संविद्यते नोपलभ्यते.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि केन कारणेन नामधेयमात्रम् एतद् यद् उत पुनर् बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति, तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रञ् च न तद् रूपं न सा वेदना न सा संज्ञा न ते संस्कारा न तद् विज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुर् इति श्रोत्रम् इति घ्राणम् इति जिह्वेति काय इति मन इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न तच् चक्षुर् न श्रोत्रं न तद् घ्राणं न सा जिह्वा न स कायो न तन् मनः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत रूपम् इति शब्द इति गन्ध इति रस इति स्पर्श इति धर्मा इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न तद् रूपं न स शब्दो न गन्धो न स रसो न स स्पर्शो न ते धर्माः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुर्विज्ञाम् इति श्रोत्रविज्ञानम् इति घ्राणविज्ञानम् इति जिह्वाविज्ञानम् इति कायविज्ञानम् इति मनोविज्ञानम् इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न तच् चक्षुर्विज्ञानं न तच् छ्रोत्रविज्ञानं न तद् घ्राणविज्ञानं न तज् जिह्वाविज्ञानं न तत् कायविज्ञानं न तन् मनोविज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुःसंस्पर्श इति श्रोत्रसंस्पर्श इति घ्राणसंस्पर्श इति जिह्वासंस्पर्श (Śस्P_II-१_९२) इति कायसंस्पर्श इति मनःसंस्पर्श इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न स चक्षुःसंस्पर्शो न स श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न स जिह्वासंस्पर्शो न स कायसंस्पर्शो न स मनःसंस्पर्शः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुःसंस्पर्शप्रत्ययवेदनेति श्रोत्रसंस्पर्शप्रत्ययवेदनेति घ्राणसंस्पर्शप्रत्ययवेदनेति जिह्वासंस्पर्शप्रत्ययवेदनेति कायसंस्पर्शप्रत्ययवेदनेति मनःसंस्पर्शप्रत्ययवेदनेति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न सा चक्षुःसंस्पर्शप्रत्ययवेदना न सा श्रोत्रसंस्पर्शप्रत्ययवेदना न सा घ्राणसंस्पर्शप्रत्ययवेदना न सा जिह्वासंस्पर्शप्रत्ययवेदना न सा कायसंस्पर्शप्रत्ययवेदना न सा मनःसंस्पर्शप्रत्ययवेदना. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नामं तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत पृथिवीधातुर् इत्य् अब्धातुर् इति तेजोधातुर् इति वायुधातुर् इत्य् आकाशधातुर् इति विज्ञानधातुर् इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न स पृथिवीधातुर् न सो ऽब्धातुर् न स तेजोधातुर् न स वायुधातुर् न स आकाशधातुर् न स विज्ञानधातुः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताविद्येति संस्कारा इति विज्ञानम् इति नामरूपम् इति षडायतनम् इति स्पर्शम् इति वेदनेति तृष्णेत्य् उपादानम् इति भव इति जातिर् इति जरामरणम् इति, तथा हि न नाम कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न साविद्या न ते संस्कारा न तद् विज्ञानं न तन् नामरूपं न तत् षडायतनं न स स्पर्शो न सा वेदना न सा तृष्णा न तद् उपादानं न स भवो न सा जातिर् न तज् जरामरणम्. तत् कस्य हेतोः? तथा हि नाम शून्यं न नाम स्वभावेन (Śस्P_II-१_९३) यच् च शून्यं न तन् नाम तेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र नामधेयमात्रम् एतद् यद् उत दानपारमिता न च नाम्नि दानपारमिता न च दानपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च दानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
नमधेयमात्रम् एतद् यद् उत शीलपारमिता न च नाम्नि शीलपारमिता न च शीलपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च शीलपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
नामधेयमात्रम् एतद् यद् उत क्षान्तिपारमिता न च नाम्नि क्षान्तिपारमिता न च क्षान्तिपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च क्षान्तिपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
नमधेयमात्रम् एतद् यद् उत वीर्यपारमिता न च नाम्नि वीर्यपारमिता न च वीर्यपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च वीर्यपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
नमधेयमात्रम् एतद् यद् उत ध्यानपारमिता न च नाम्नि ध्यानपारमिता न च ध्यानपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च ध्यानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
नमधेयमात्रम् एतद् यद् उत प्रज्ञापारमिता न च नाम्नि प्रज्ञापारमिता न च प्रज्ञापारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
नमधेयमात्रम् एतद् यद् उताध्यात्मशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्न्य् अध्यात्मबहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत बहिर्धाशून्यता न च बहिर्धाशून्यतायां (Śस्P_II-१_९४) नाम न च नाम्नि बहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च बहिर्धाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उताध्यात्मबहिर्धाशून्यता न चाध्यात्मबहिर्धाशून्यतायां नाम न च नाम्न्य् अध्यात्मबहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मबहिर्धाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत शून्यताशून्यता न च शून्यताशून्यतायां नाम न च नाम्नि शून्यताशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च शून्यताशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत महाशून्यता न च महाशून्यतायां नाम न च नाम्नि महाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च महाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत परमार्थशून्यता न च परमार्थशून्यतायां नाम न च नाम्नि परमार्थशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च परमार्थशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत संस्कृतशून्यता न च संस्कृतशून्यतायां नाम न च नाम्नि संस्कृतशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च संस्कृतशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उतासंस्कृतशून्यता न चासंस्कृतसुन्यतायां नाम न च नाम्न्य् असंस्कृतशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चासंस्कृतशुन्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उतात्यन्तशून्यता न चात्यन्तशून्यतायां नाम न च नाम्न्य् अत्यन्तशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चात्यन्तशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नामधेयमात्रम् एतद् यद् उतानवराग्रशून्यता न चानवराग्रशून्यतायां नाम न च नाम्न्य् अनवराग्रशून्यता. तत् कस्य हेतोः? तथा (Śस्P_II-१_९५) हि यच् च नाम या चानवराग्रशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उतानवकारशून्यता न चानवकारशून्यतायां नाम न च नाम्न्य् अनवकारशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चानवकारशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत प्रकृतिशून्यता न च प्रकृतिशून्यतायां नाम न च नाम्नि प्रकृतिशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रकृतिशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत सर्वधर्मशून्यता न च सर्वधर्मशून्यतायां नाम न च नाम्नि सर्वधर्मशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वधर्मशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत स्वलक्षणशून्यता न च स्वलक्षणशून्यतायां नाम न च नाम्नि स्वलक्षणशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च स्वलक्षणशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उतानुपलम्भशून्यता न चानुपलम्भशून्यतायां नाम न च नाम्न्य् अनुपलम्भशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चानुपलम्भशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उताभावशून्यता न चाभावशून्यतायां नाम न च नाम्न्य् अभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाभावशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उत स्वभावशून्यता न च स्वभावशून्यतायां नाम न च नाम्नि स्वभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च स्वभावशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति,
SK
नमधेयमात्रम् एतद् यद् उताभावस्वभावशून्यता न चभवस्वभावशून्यतायां नाम न च नाम्न्य् अभावस्वभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाभावस्वभावशून्यता उभयम् एतन् न (Śस्P_II-१_९६) संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत स्मृत्युपस्थानानीति न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सम्यक्प्रहाणानीति न च सम्यक्प्रहानेषु नाम न च नाम्नि सम्यक्प्रहाणानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च सम्यक्प्रहाणान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतर्द्धिपादा इति न चर्द्धिपादेषु नाम न च नाम्न्य् ऋद्धिपादाः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चर्द्धिपादा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतेन्द्रियानीति न चेन्द्रियेषु नाम न च नाम्नीन्द्रियानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चेन्द्रियान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत बलानीति न च बलेषु नाम न च नाम्नि बलानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च बलान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत बोध्यङ्गानीति न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च बोध्यङ्गान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं (Śस्P_II-१_९७) यद् उतार्याष्टाङ्गो मार्ग इति न चार्याष्टाङ्गे मर्गे नाम न च नाम्न्य् आर्याष्टाङ्गो मार्गः. तत् कस्य हेतोः? तथा हि यच् च नाम यश् चार्याष्टाङ्गो मार्ग उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतार्यसत्यानीति न चार्यासत्येषु नाम न च नाम्न्य् आर्य्सत्यानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चार्यसत्यान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत ध्यानानीति न च ध्यानेषु नाम न च नाम्नि ध्यानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च ध्यानान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताप्रमाणानीति न चाप्रमाणेषु नाम न च नाम्न्य् अप्रमाणानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चाप्रमाणान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतारूप्यसमापत्तय इति न चारूप्यसमापत्तिषु नाम न च नाम्न्य् आरूप्यसमापत्तयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चारूप्यसमापत्तय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत विमोक्षा इति न च विमोक्षेषु नाम न च नाम्नि विमोक्षाः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च विमोक्षा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत नवानुपूर्वविहारसमापत्तय इति न च नवानुपूर्वविहारसमापत्तिषु नाम न च नाम्न्य् अनुपूर्वविहारसमापत्तयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चानुपूर्वविहारसमापत्तय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत शून्य्तानिमित्ताप्रणिहितविमोक्षमुखानीति न च विमोक्षमुखेषु नाम न च नाम्नि विमोक्षमुखानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च विमोक्षमुखान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताभिज्ञा इति न चाभिज्ञाषु नाम न च नाम्न्य् अभिज्ञाः. तत् कस्य हेतोः? तथा हि यच् च नाम याश् चाभिज्ञा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत समाधय इति न च समाधिषु नाम न च नाम्नि समाधयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च समाधय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत धारणीमुखानीति न च धारणीमुखेषु नाम न च नाम्नि धारणीमुखानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च धारणीमुखान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत दशतथागतबलानीति न च तथागतबलेषु नाम न च नाम्नि तथागतबलानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च तथागतबलान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चत्वारि वैशारद्यानीति न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च वैशारद्यान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चतस्रः प्रतिसंविद इति न च प्रतिसंवित्षु नाम न च नाम्नि प्रतिसंविदः. तत् कस्य हेतोः? तथा हि यच् च नाम याश् च प्रतिसंविद उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत महामैत्रीति न च महामैत्र्यां नाम न च नाम्नि महामैत्री. तत् कस्य हेतोः? तथा हि यच् च नाम या च महामैत्र्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत महाकरुणेति न च महाकरुणायां नाम न च नाम्नि महाकरुणा. तत् कस्य हेतोः? तथा हि यच् च नाम या च महाकरुणा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताष्टादशावेणिका बुद्धधर्मा इति न चावेणिकेषु बुद्धधर्मेषु नाम न च नाम्न्य् आवेणिकबुद्धधर्माः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चावेणिकबुद्धधर्मा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सर्वज्ञतेति न च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वज्ञता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत मार्गाकारज्ञतेति न च मार्गाकारज्ञतायां नाम न च नाम्नि मार्गाकारज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च मार्गाकारज्ञतोभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सर्वाकारज्ञतेति न च सर्वाकारज्ञतायां नाम न च नाम्नि सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वाकारज्ञतोभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति.
SK
यथायुष्मञ् छारद्वतीपुत्र एवम् अह, केन कारणेनैवं वदसि, यथात्मात्मेत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्त आत्मेति, यथा सत्त्वः सत्त्व इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः सत्त्व इति, यथा जीवो जीव इत्य् (Śस्P_II-१_१००) उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जीव इति, यथा जन्तुं जंतूर् इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जातुर् इति, यथा पोस पोस इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पोष इति, यथा पुरुषः पुरुष इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पुरुष इति, यथा पुद्गलः पुद्गल इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पुद्गल इति, यथा मनुजो मनुज इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो मनुज इति, यथा मानवो मानव इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो मानव इति, यथा कारकः कारक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः कारक इति, यथा वेदको वेदक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो वेदक इति, यथा जानको जानक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जानक इति, यथा पश्यकः पश्यक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पश्यक इति.
SK
अत्यन्ततयायुष्मञ् छारद्वतीपुत्रात्मा न संविद्यते नोपलभ्यते, कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया सत्त्वो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जीवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जन्तु न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पोषो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पुरुषो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पुद्गलो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया मनुजो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया मानवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया कारको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया वेदको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जानको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पश्यको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया रूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया संज्ञा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया संस्कारा न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया विज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया चक्षुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रं न संविद्यते नोपलभ्यते कुतो (Śस्P_II-१_१०१) ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया रूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शब्दो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया गन्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया रसो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया धर्मा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वाविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनोविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वासंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनःसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्या अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वासंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायसंस्पर्शजा वेदना न (Śस्P_II-१_१०२) संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया पृथिवीधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाब्धातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तेजोधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वायुधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाकाशधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया विज्ञानधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततयाविद्या न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया संस्कारा न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया नामरूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया षडायतनं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तृष्णा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया उपादानं न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया भवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जातिर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जरामरणं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया दानपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शीलपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया क्षान्तिपारमिता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वीर्यपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ध्यानपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रज्ञापारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततयाध्यात्मशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बहिर्धाशून्यता न संविद्यते (Śस्P_II-१_१०३) नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाध्यात्मबहिर्धाशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शून्यताशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महाशून्यता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया परमार्थशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया संस्कृतशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयासंस्कृतशून्यता न संविद्यते नोपलभ्यते कुतो स्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अत्यन्तशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अनवराग्रशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयानवकारशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रकृतिशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया सर्वधर्मशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्वलक्षणशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयानुपलम्भशून्यता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्वभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभावस्वभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अत्यन्ततया स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया सम्यक्प्रहाणानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ऋद्धिपादा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया इन्द्रियाणि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बलानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बोध्यङ्गानि न संविद्यन्ते नोपलभ्यन्ते कुत एसाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आर्याष्टङ्गो मार्गो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आर्यसत्यानि न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ध्यानानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाप्रमाणानि न संविद्यन्ते (Śस्P_II-१_१०४) नोपलभ्यत्ने कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आरूप्यसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अष्टौ विमोक्षा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया नवानुपूर्वविहारसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभिज्ञा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया समाधयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया धारणीमुखानि न संविद्यते नोपलभ्यते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया दशतथागतब्लानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चत्वारि वैशारद्यानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महामैत्री न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महाकरुणा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रावको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रत्येकबुद्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बोधिसत्त्वो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तथागतो ऽर्हन् सम्यक्षंबुद्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणात्मेति चोच्यते ऽत्यन्तम् अभिनिर्वृत्तिश् चात्मा.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र यद् वदस्य् एवम् अस्वभावाः सर्वधर्मा इति, एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः.
SK
शारद्वतीपुत्र आह: कस्यायुष्मन् सुभूते नास्ति सांयोगिकः स्वभावः.
SK
आह: रूपस्यायुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः, वेदनाया नास्ति सांयोगिकः स्वभावः, संज्ञाया नास्ति सांयोगिकः स्वभावः, संस्काराणां नास्ति सांयोगिकः स्वभावः, विज्ञानस्य नास्ति (Śस्P_II-१_१०५) सांयोगिकः स्वभावः.
SK
चक्षुष आयुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः, श्रोत्रस्य नास्ति सांयोगिकः स्वभावः, घ्राणस्य नास्ति सांयोगिकः स्वभावः, जिह्वाया नास्ति सांयोगिकः स्वभावः, कायस्य नास्ति सांयोगिकः स्वभावः, मनसो नास्ति सांयोगिकः स्वभावः.
SK
रूपस्य नास्ति सांयोगिकः स्वभावः, शब्दस्य नास्ति सांयोगिकः स्वभावः, गन्धस्य नास्ति सांयोगिकः स्वभावः, रसस्य नास्ति सांयोगिकः स्वभावः, स्पर्शस्य नास्ति सांयोगिकः स्वभावः, धर्माणां नास्ति सांयोगिकः स्वभावः.
SK
चक्षुर्विज्ञानस्य नास्ति सांयोगिकः स्वभावः, श्रोत्रविज्ञानस्य नास्ति सांयोगिकः स्वभावः, घ्राणविज्ञानस्य नास्ति सांयोगिकः स्वभावः, जिह्वाविज्ञानस्य नास्ति सांयोगिकः स्वभावः, कायविज्ञानस्य नास्ति सांयोगिकः स्वभावः, मनोविज्ञानस्य नास्ति सांयोगिकः स्वभावः.
SK
चक्षुःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, श्रोत्रसंस्पअर्शस्य नास्ति सांयोगिकः स्वभावः, घ्राणसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, जिह्वासंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, कायसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, मनःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः.
SK
चक्षुःसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, श्रोत्रसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, घ्राणसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, जिह्वासंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, कायसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, मनःसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः.
SK
पृथिवीधातोर् नास्ति सांयोगिकः स्वभावः, अब्धातोर् नास्ति सांयोगिकः स्वभावः, तेजोधातोर् नास्ति सांयोगिकः स्वभावः, वायुधातोर् नास्ति सांयोगिकः स्वभावः, आकाशधातोर् नास्ति सांयोगिकः स्वभावः, विज्ञानधातोर् नास्ति सांयोगिकः स्वभावः.
SK
अविद्याया नास्ति सांयोगिकः स्वभावः, संस्काराणां नास्ति सांयोगिकः स्वभावः, विज्ञानस्य नास्ति सांयोगिकः स्वभावः, नामरूपस्य नास्ति सांयोगिकः स्वभावः, षडायतनस्य नास्ति सांयोगिकः स्वभावः, स्पर्शस्य नास्ति सांयोगिकः स्वभावः, वेदनाया नास्ति सांयोगिकः स्वभावः, तृष्णा नास्ति सांयोगिकः स्वभावः, उपादानस्य नास्ति सांयोगिकः स्वभावः, भवस्य नास्ति सांयोगिकः स्वभावः, जातेर् नास्ति सांयोगिकः स्वभावः, जरामरणस्य नास्ति सांयोगिकः स्वभावः.
SK
दानपारमिताया नास्ति सांयोगिकः स्वभावः, शीलपारमिताया नास्ति सांयोगिकः स्वभावः, क्षान्तिपारमिताया नास्ति सांयोगिकः स्वभावः, वीर्यपारमिताया नास्ति सांयोगिकः स्वभावः, ध्यानपारमिताया नास्ति सांयोगिकः स्वभावः, प्रज्ञापारमिताया नास्ति सांयोगिकः स्वभावः.
SK
अध्यात्मशून्यताया नास्ति सांयोगिकः स्वभावः, बहिर्धाशून्यताया नास्ति सांयोगिकः स्वभावः, अध्यात्मबहिर्धाशून्यताया नास्ति सांयोगिकः स्वभावः, शून्यताशून्यताया नास्ति सांयोगिकः स्वभावः, महाशून्यताया नास्ति सांयोगिकः स्वभावः, परमार्थशून्यताया नास्ति सांयोगिकः स्वभावः, संस्कृतशून्यताया नास्ति सांयोगिकः स्वभावः, असंस्कृतशून्यताया नास्ति सांयोगिकः स्वभावः, अत्यन्तशून्यताया नास्ति सांयोगिकः स्वभावः, अनवराग्रशून्यताया नास्ति सांयोगिकः स्वभावः, अनवकारशून्यताया नास्ति सांयोगिकः स्वभावः, प्रकृतिशून्यताया नास्ति सांयोगिकः स्वभावः, सर्वधर्मशून्यताया नास्ति सांयोगिकः स्वभावः, स्वलक्षणशून्यताया नास्ति सांयोगिकः स्वभावः, अनुपलम्भशून्यताया नास्ति सांयोगिकः स्वभावः, अभावशून्यताया नास्ति सांयोगिकः स्वभावः, स्वभावशून्यताया नास्ति सांयोगिकः स्वभावः, अभावस्वभावशून्यताया नास्ति सांयोगिकः स्वभावः.
SK
स्मृत्युपस्थानानां नास्ति सांयोगिकः स्वभावः, सम्यक्प्रहाणानां नास्ति सांयोगिकः स्वभावः, इन्द्रियाणां नास्ति सांयोगिकः स्वभावः, ऋद्धिपादानां नास्ति सांयोगिकः स्वभावः, बलानां नस्ति सांयोगिकः स्वभावः, बोध्यङ्गानां नास्ति सांयोगिकः स्वभावः, आर्याष्टाङ्गमार्गस्य नास्ति सांयोगिकः स्वभावः, आर्यसत्यानां नास्ति सांयोगिकः स्वभावः, ध्यानानां नास्ति सांयोगिकः स्वभावः, अप्रमाणानां नास्ति सांयोगिकः स्वभावः, आरूप्यसमापत्तीनां नास्ति सांयोगिकः स्वभावः, अष्टानां विमोक्षानां नास्ति सांयोगिकः स्वभावः, नवानुपूर्वविहारसमापत्तीनां नास्ति सांयोगिकः स्वभावः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नास्ति सांयोगिकः स्वभावः, अभिज्ञानां नास्ति सांयोगिकः स्वभावः, समाधीनां नास्ति सांयोगिकः स्वभावः, धारणीमुखानां नास्ति सांयोगिकः स्वभावः, दशानां तथागतबलानां नास्ति सांयोगिकः स्वभावः, चत्वुर्णां वैशारद्यानां नास्ति सांयोगिकः स्वभावः, चतसृणां प्रतिसंविदां नास्ति सांयोगिकः स्वभावः, महामैत्र्यां नास्ति सांयोगिकः स्वभावः, महाकरुणा नास्ति सांयोगिकः स्वभावः, आवेणिकबुद्धधर्माणां नास्ति सांयोगिकः स्वभावः.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्वभावाः सर्वधर्माः.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनित्या न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनित्या न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानित्यं न च कस्यचिद् विगमेन, वेदनानित्या न च कस्यचिद् विगमेन, संज्ञानित्या न च कस्यचिद् विगमेन, संस्कारा अनित्या न च कस्यचिद् विगमेन, विज्ञानम् अनित्यं न च कस्यचिद् विगमेन.
SK
चक्षुर् अनित्यं न च कस्यचिद् विगमेन, श्रोत्रम् अनित्यं न च कस्यचिद् विगमेन, घ्राणम् अनित्यं न च कस्यचिद् विगमेन, जिह्वानित्या न च कस्यचिद् विगमेन, कायो ऽनित्यो न च कस्यचिद् विगमेन, मनो ऽनित्यो न च कस्यचिद् विगमेन.
SK
रूपम् अनित्यं न च कस्यचिद् विगमेन, शब्दो ऽनित्यो न च कस्यचिद् विगमेन, गन्धो ऽनित्यो न च कस्यचिद् विगमेन, रसो ऽनित्यो न च कस्यचिद् विगमेन, स्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, धर्मा अनित्या न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् अनित्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, कायविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनित्यं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन,श्रोत्रसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् अनित्यो न च कस्यचिद् विगमेन, अब्धातुर् अनित्यो न च कस्यचिद् विगमेन, तेजोधातुर् अनित्यो न च कस्यचिद् विगमेन, वायुधातुर् (Śस्P_II-१_१०८) अनित्यो न च कस्यचिद् विगमेन, आकाशधातुर् अनित्यो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनित्यो न च कस्यचिद् विगमेन.
SK
अविद्यानित्या न च कस्यचिद् विगमेन, संस्कारा अनित्या न च कस्यचिद् विगमेन, विज्ञानम् अनित्यं न च कस्यचिद् विगमेन, नामरूपम् अनित्यं न च कस्यचिद् विगमेन, षडायतनम् अनित्यं न च कस्यचिद् विगमेन, स्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, वेदनानित्या न च कस्यचिद् विगमेन, तृष्णानित्या न च कस्यचिद् विगमेन, उपादानम् अनित्यं न च कस्यचिद् विगमेन, भवो ऽनित्यो न च कस्यचिद् विगमेन, जातिर् अनित्या न च कस्यचिद् विगमेन, जरामरणम् अनित्यं न च कस्यचिद् विगमेन.
SK
दानपारमिता नित्या न च कस्यचिद् विगमेन, शीलपारमितानित्या न च कस्यचिद् विगमेन, क्षान्तिपारमितानित्या न च कस्यचिद् विगमेन, वीर्यपारमितानित्या न च कस्यचिद् विगमेन, ध्यानपारमितानित्या न च कस्यचिद् विगमेन, प्रज्ञापारमितानित्या न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतानित्या न च कस्यचिद् विगमेन, बहिर्धाशून्यतानित्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानित्या न च कस्यचिद् विगमेन, शून्यताशून्यतानित्या न च कस्यचिद् विगमेन, महाशून्यतानित्या न च कस्यचिद् विगमेन, परमार्थशून्यतानित्या न च कस्यचिद् विगमेन, संस्कृतशून्यतानित्या न च कस्यचिद् विगमेन, असंस्कृतशून्यतानित्या न च कस्यचिद् विगमेन, अत्यन्तशून्यतानित्या न च कस्यचिद् विगमेन, अनवराग्रशून्यतानित्या न च कस्यचिद् विगमेन, अनवकारशून्यतानित्या न च कस्यचिद् विगमेन, प्रकृतिशून्यतानित्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानित्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानित्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानित्या न च कस्यचिद् विगमेन, अभावशून्यतानित्या न च कस्यचिद् विगमेन, स्वभावशून्यतानित्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानित्या न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् अनित्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनित्यानि न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनित्यानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनित्यानि न च कस्यचिद् विगमेन, बलान्य् अनित्यानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनित्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनित्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् अनित्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनित्यानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनित्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनित्या न च कस्यचिद् विगमेन, अस्तौ विमोक्सा ऽनित्या न च कस्यचिद् विगमेन, (Śस्P_II-१_१०९) नवानुपूर्वविहारसमापत्तयो ऽनित्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानि न च कस्यचिद् विगमेन, अभिज्ञानित्या न च कस्यचिद् विगमेन, समाधयो ऽनित्या न च कस्यचिद् विगमेन, धारणीमुखान्य् अनित्यानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनित्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनित्यानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनित्या न च कस्यचिद् विगमेन, महामैत्र्य् अनित्या न च कस्यचिद् विगमेन, महाकरुणानित्या न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा अनित्या न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनित्यं सो ऽभावः क्षयश् च.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनित्या न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा दुःखा न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा दुःखा न च कस्यचिद् विगमेन?
SK
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र दुःखं न च कस्यचिद् विगमेन, वेदना दुःखा न च कस्यचिद् विगमेन, संज्ना दुःखा न च कस्यचिद् विगमेन, संस्कारा दुःखा न च कस्यचिद् विगमेन, विज्ञानं दुःखं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र दुःखं न च कस्यचिद् विगमेन, श्रोत्रं दुःखं न च कस्यचिद् विगमेन, घ्राणं दुःखं न च कस्यचिद् विगमेन, जिह्वा दुःखा न च कस्यचिद् विगमेन, कायो दुःखो न च कस्यचिद् विगमेन, मनो दुःखो न च कस्यचिद् विगमेन.
SK
रूपं दुःखं न च कस्यचिद् विगमेन, शब्दो दुःखो न च कस्यचिद् विगमेन, गन्धो दुःखो न च कस्यचिद् विगमेन, रसो दुःखो न च कस्यचिद् विगमेन, स्पर्शो दुःखो न च कस्यचिद् विगमेन, धर्मो दुःखो न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानं दुःखं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं दुःखं न च कस्यचिद् विगमेन, घ्राणविज्ञानं दुःखं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं दुःखं न च कस्यचिद् विगमेन, कायविज्ञानं दुःखं न च कस्यचिद् विगमेन, मनोविज्ञानं दुःखं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो दुःखो न च कस्यचिद् विगमेन, कायसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, मनःसंस्पर्शो दुःखो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् दुःखो न च कस्यचिद् विगमेन, अब्धातुर् दुःखो न च कस्यचिद् विगमेन, तेजोधातुर् दुःखो न च कस्यचिद् विगमेन, वायुधातुर् दुःखो न च कस्यचिद् विगमेन, आकाशधातुर् दुःखो न च कस्यचिद् विगमेन, विज्ञानधातुर् दुःखो न च कस्यचिद् विगमेन.
SK
अविद्या दुःखा न च कस्यचिद् विगमेन, संस्कारा दुःखा न च कस्यचिद् विगमेन, विज्नानं दुःखं न च कस्यचिद् विगमेन, नामरूपं दुःखं न च कस्यचिद् विगमेन, षडायतनं दुःखं न च कस्यचिद् विगमेन, स्पर्शो दुःखो न च कस्यचिद् विगमेन, वेदना दुःखा न च कस्यचिद् विगमेन, तृष्णा दुःखा न च कस्यचिद् विगमेन, उपादानं दुःखं न च कस्यचिद् विगमेन, भवो दुःखो न च कस्यचिद् विगमेन, जातिर् दुःखा न च कस्यचिद् विगमेन, जरामरणं दुःखं न च कस्यचिद् विगमेन.
SK
दानपारमिता दुःखा न च कस्यचिद् विगमेन, शीलपारमिता दुःखा न च कस्यचिद् विगमेन, क्षान्तिपारमिता दुःखा न च कस्यचिद् विगमेन, वीर्यपारमिता दुःखा न च कस्यचिद् विगमेन, ध्यानपारमिता दुःखा न च कस्यचिद् विगमेन, प्रज्ञापारमिता दुःखा न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र दुःखा न च कस्यचिद् विगमेन, बहिर्धाशून्यता दुःखा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता दुःखा न च कस्यचिद् विगमेन, शून्यताशून्यता दुःखा न च कस्यचिद् विगमेन, महाशून्यता दुःखा न च कस्यचिद् विगमेन, परमार्थशून्यता दुःखा न च कस्यचिद् विगमेन, संस्कृतशून्यता दुःखा न च कस्यचिद् विगमेन, असंस्कृतशून्यता दुःखा न च कस्यचिद् विगमेन, अत्यन्तशून्यता दुःखा न च कस्यचिद् विगमेन, अनवराग्रशून्यता (Śस्P_II-१_१११) दुःखा न च कस्यचिद् विगमेन, अनवकारशून्यता दुःखा न च कस्यचिद् विगमेन, प्रकृतिशून्यता दुःखा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता दुःखा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता दुःखा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता दुःखा न च कस्यचिद् विगमेन, अभावशून्यता दुःखा न च कस्यचिद् विगमेन, स्वभावशून्यता दुःखा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता दुःखा न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानानि दुःखानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि दुःखानि न च कस्यचिद् विगमेन, ऋद्धिपादा दुःखा न च कस्यचिद् विगमेन, इन्द्रियाणि दुःखानि न च कस्यचिद् विगमेन, बलानि दुःखानि न च कस्यचिद् विगमेन, बोध्यङ्गानि दुःखानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो दुःखो न च कस्यचिद् विगमेन, आर्यसत्यानि दुःखानि न च कस्यचिद् विगमेन, ध्यानानि दुःखानि न च कस्यचिद् विगमेन, अप्रमाणानि दुःखानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो दुःखा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा दुःखा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो दुःखा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानि न च कस्यचिद् विगमेन, अभिज्ञा दुःखा न च कस्यचिद् विगमेन, समाधयो दुःखा न च कस्यचिद् विगमेन, धारणीमुखानि दुःखानि न च कस्यचिद् विगमेन, दशतथागतबलानि दुःखानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि दुःखानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो दुःखा न च कस्यचिद् विगमेन, महामैत्री दुःखा न च कस्यचिद् विगमेन, महाकरुणा दुःखा न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा दुःखा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् दुःखं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा दुःखा न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानात्मा न च कस्यचिद् विगमेन, वेदनानात्मा न च कस्यचिद् विगमेन, संज्ञानात्मा न च कस्यचिद् विगमेन, संस्कारा अनात्मानो न च कस्यचिद् विगमेन, विज्ञानम् अनात्मा (Śस्P_II-१_११२) न च कस्यचिद् विगमेन.
SK
चक्षुर् अनात्मा न च कस्यचिद् विगमेन, श्रोत्रम् अनात्मा न च कस्यचिद् विगमेन, घ्राणम् अनात्मा न च कस्यचिद् विगमेन, जिह्वानात्मा न च कस्यचिद् विगमेन, कायो ऽनात्मा न च कस्यचिद् विगमेन, मनो ऽनात्मा न च कस्यचिद् विगमेन.
SK
रूपम् अनात्मा न च कस्यचिद् विगमेन, शब्दो ऽनात्मा न च कस्यचिद् विगमेन, गन्धो ऽनात्मा न च कस्यचिद् विगमेन, रसो ऽनात्मा न च कस्यचिद् विगमेन, स्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, धर्मा अनात्मानो न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् अनात्मा न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, कायविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, मनोविज्ञानम् अनात्मा न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेनजिह्वासंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् अनात्मा न च कस्यचिद् विगमेन, अब्धातुर् अनात्मा न च कस्यचिद् विगमेन, तेजोधातुर् अनात्मा न च कस्यचिद् विगमेन, वायुधातुर् अनात्मा न च कस्यचिद् विगमेन, आकाशधातुर् अनात्मा न च कस्यचिद् विगमेन, विज्ञानधातुर् अनात्मा न च कस्यचिद् विगमेन.
SK
अविद्यानात्मा न च कस्यचिद् विगमेन, संस्कारा अनात्माना न च कस्यचिद् विगमेन, विज्ञानम् अनात्मा न च कस्यचिद् विगमेन, नामरूपम् अनात्मा न च कस्यचिद् विगमेन, षडायतनम् अनात्मा न च कस्यचिद् विगमेन, स्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, वेदनानात्मा न च कस्यचिद् विगमेन, तृष्णानात्मा न च कस्यचिद् विगमेन, उपादानम् (Śस्P_II-१_११३) अनात्मा न च कस्यचिद् विगमेन, भवो ऽनात्मा न च कस्यचिद् विगमेन, जातिर् अनात्मा न च कस्यचिद् विगमेन, जरामरणम् अनात्मा न च कस्यचिद् विगमेन.
SK
दानपारमितानात्मा न च कस्यचिद् विगमेन, शीलपारमितानात्मा न च कस्यचिद् विगमेन, क्षान्तिपारमितानात्मा न च कस्यचिद् विगमेन, वीर्यपारमितानात्मा न च कस्यचिद् विगमेन, ध्यानपारमितानात्मा न च कस्यचिद् विगमेन, प्रज्ञापारमितानात्मा न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतानात्मा न च कस्यचिद् विगमेन, बहिर्धाशून्यतानात्मा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानात्मा न च कस्यचिद् विगमेन, शून्यताशून्यतानात्मा न च कस्यचिद् विगमेन, महाशून्यतानात्मा न च कस्यचिद् विगमेन, परमार्थशून्यतानात्मा न च कस्यचिद् विगमेन, संस्कृतशून्यतानात्मा न च कस्यचिद् विगमेन, असंस्कृतशून्यतानात्मा न च कस्यचिद् विगमेन, अत्यन्तशून्यतानात्मा न च कस्यचिद् विगमेन, अनवराग्रशून्यतानात्मा न च कस्यचिद् विगमेन, अनवकारशून्यतानात्मा न च कस्यचिद् विगमेन, प्रकृतिशून्यतानात्मा न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानात्मा न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानात्मा न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानात्मा न च कस्यचिद् विगमेन, अभावशून्यतानात्मा न च कस्यचिद् विगमेन, स्वभावशून्यतानात्मा न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानात्मा न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् अनात्मानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनात्मानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनात्मानो न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनात्मानि न च कस्यचिद् विगमेन, बलान्य् अनात्मानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनात्मानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनात्मा न च कस्यचिद् विगमेन, आर्यसत्यान्य् अनात्मानि न च कस्यचिद् विगमेन, ध्यानान्य् अनात्मानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनात्मानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनात्मानो न च कस्यचिद् विगमेन, अष्टौ विमोक्षामुखान्य् अनात्मानि न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनात्मानो न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानि न च कस्यचिद् विगमेन, अभिज्ञा अनात्मानो न च कस्यचिद् विगमेन, समाधयो ऽनात्मानो न च कस्यचिद् विगमेन, धारणीमुखान्य् अनात्मानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनात्मानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनात्मानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनात्मानो न च (Śस्P_II-१_११४) कस्यचिद् विगमेन, महामैत्र्य् अनात्मा न च कस्यचिद् विगमेन, महाकरुणानात्मा न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा अनात्मानो न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनात्मानो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः शान्ता न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्माः शान्ता न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, वेदना शान्ता न च कस्यचिद् विगमेन, संज्ञा शान्ता न च कस्यचिद् विगमेन, संस्काराः शान्ता न च कस्यचिद् विगमेन, विज्ञानं शान्तं न च कस्यचिद् विगमेन.
SK
चक्षुः शान्तं न च कस्यचिद् विगमेन, श्रोत्रं शान्तं न च कस्यचिद् विगमेन, घ्राणं शान्तं न च कस्यचिद् विगमेन, जिह्वा शान्ता न च कस्यचिद् विगमेन, कायः शान्तो न च कस्यचिद् विगमेन, मनः शान्तं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, शब्दः शान्तो न च कस्यचिद् विगमेन, गन्धः शान्तो न च कस्यचिद् विगमेन, रसः शान्तो न च कस्यचिद् विगमेन, स्पर्शः शान्तो न च कस्यचिद् विगमेन, धर्माः शान्ता न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं शान्तं न च कस्यचिद् विगमेन, घ्राणविज्ञानं शान्तं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं शान्तं न च कस्यचिद् विगमेन, कायविज्ञानं शान्तं न च कस्यचिद् विगमेन, मनोविज्ञानं शान्तं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शान्तो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः शान्तो न च कस्यचिद् विगमेन, कायसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, मनःसंस्पर्शः शान्तो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र सान्ता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् (Śस्P_II-१_११५) विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शान्तो न च कस्यचिद् विगमेन, अब्धातुः शान्तो न च कस्यचिद् विगमेन, तेजोधातुः शान्तो न च कस्यचिद् विगमेन, वायुधातुः शान्तो न च कस्यचिद् विगमेन, आकाशधातुः शान्तो न च कस्यचिद् विगमेन, विज्ञानधातुः शान्तो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्र शान्ता न च कस्यचिद् विगमेन, संस्काराः शान्ता न च कस्यचिद् विगमेन, विज्ञानं शान्तं न च कस्यचिद् विगमेन, नामरूपं शान्तं न च कस्यचिद् विगमेन, षडायतनं शान्तं न च कस्यचिद् विगमेन, स्पर्शः शान्तो न च कस्यचिद् विगमेन, वेदना शान्ता न च कस्यचिद् विगमेन, तृष्णा शान्ता न च कस्यचिद् विगमेन, उपादानं शान्तं न च कस्यचिद् विगमेन, भवः शान्तो न च कस्यचिद् विगमेन, जातिः शान्ता न च कस्यचिद् विगमेन, जरामरणं शान्तं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्र शान्ता न च कस्यचिद् विगमेन, शीलपारमिता शान्ता न च कस्यचिद् विगमेन, क्षान्तिपारमिता शान्ता न च कस्यचिद् विगमेन, वीर्यपारमिता शान्ता न च कस्यचिद् विगमेन, ध्यानपारमिता सान्ता न च कस्यचिद् विगमेन, प्रज्ञापारमिता शान्ता न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र सान्ता न च कस्यचिद् विगमेन, बहिर्धाशून्यता सान्ता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता शान्ता न च कस्यचिद् विगमेन, शून्यताशून्यता शान्ता न च कस्यचिद् विगमेन, महाशून्यता शान्ता न च कस्यचिद् विगमेन, परमार्थशून्यता शान्ता न च कस्यचिद् विगमेन, संस्कृतशून्यता शान्ता न च कस्यचिद् विगमेन, असंस्कृतशून्यता शान्ता न च कस्यचिद् विगमेन, अत्यन्तशून्यता शान्ता न च कस्यचिद् विगमेन, अनवराग्रशून्यता शान्ता न च कस्यचिद् विगमेन, अनवकारशून्यता शान्ता न च कस्यचिद् विगमेन, प्रकृतिशून्यता शान्ता न च कस्यचिद् विगमेन, सर्वधर्मशून्यता शान्ता न च कस्यचिद् विगमेन, स्वलक्षणशून्यता शान्ता न च कस्यचिद् विगमेन, अनुपलम्भशून्यता शान्ता न च कस्यचिद् विगमेन, अभावशून्यता शान्ता न च कस्यचिद् विगमेन, स्वभावशून्यता शान्ता न च कस्यचिद् विगमेन, अभावस्वभावशून्यता शान्ता न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शान्तानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि शान्तानि न च कस्यचिद् विगमेन, ऋद्धिपादाः शान्ता न च कस्यचिद् विगमेन, इन्द्रियाणि शान्तानि न च कस्यचिद् विगमेन, बलानि शान्तानि न च कस्यचिद् विगमेन, बोध्यङ्गानि शान्तानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गः शान्तो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शान्तानि न च कस्यचिद् विगमेन, ध्यानानि शान्तानि न च कस्यचिद् विगमेन, अप्रमाणानि शान्तानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः शान्ता न च कस्यचिद् विगमेन, अष्टौ विमोक्षामुखानि शान्तानि न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयः शान्ता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानि न च कस्यचिद् विगमेन, अभिज्ञा शान्ता न च कस्यचिद् विगमेन, समाधयः शान्ता न च कस्यचिद् विगमेन, धारणीमुखानि शान्तानि न च कस्यचिद् विगमेन, दशतथागतबलानि शान्तानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि शान्तानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदः शान्ता न च कस्यचिद् विगमेन, महामैत्री शान्ता न च कस्यचिद् विगमेन, महाकरुणा शान्ता न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्माः शान्ता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् सान्ताभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः शान्ता न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः शून्या न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्माः शून्या न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, वेदना शून्या न च कस्यचिद् विगमेन, संज्ञा शून्या न च कस्यचिद् विगमेन, संस्काराः शून्या न च कस्यचिद् विगमेन, विज्ञानं शून्यं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, श्रोत्रं शून्यं न च कस्यचिद् विगमेन, घ्राणं शून्यं न च कस्यचिद् विगमेन, जिह्वा शून्या न च कस्यचिद् विगमेन, कायः शून्यो न च कस्यचिद् विगमेन, मनः शून्यं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, (Śस्P_II-१_११७) शब्दः शून्यो न च कस्यचिद् विगमेन, गन्धः शून्यो न च कस्यचिद् विगमेन, रसः शून्यो न च कस्यचिद् विगमेन, स्पर्शः शून्यो न च कस्यचिद् विगमेन, धर्माः शून्या न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं शून्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानं शून्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं शून्यं न च कस्यचिद् विगमेन, कायविज्ञानं शून्यं न च कस्यचिद् विगमेन, मनोविज्ञानं शून्यं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः शून्यो न च कस्यचिद् विगमेन, कायसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शः शून्यो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो न च कस्यचिद् विगमेन, अब्धातुः शून्यो न च कस्यचिद् विगमेन, तेजोधातुः शून्यो न च कस्यचिद् विगमेन, वायुधातुः शून्यो न च कस्यचिद् विगमेन, आकाशधातुः शून्यो न च कस्यचिद् विगमेन, विज्ञानधातुः शून्यो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, संस्काराः शून्या न च कस्यचिद् विगमेन, विज्ञानं शून्यं न च कस्यचिद् विगमेन, नामरूपं शून्यं न च कस्यचिद् विगमेन, षडायतनं शून्यं न च कस्यचिद् विगमेन, स्पर्शः शून्यो न च कस्यचिद् विगमेन, वेदना शून्या न च कस्यचिद् विगमेन, तृष्णा शून्या न च कस्यचिद् विगमेन, उपादानं शून्यं न च कस्यचिद् विगमेन, भवः शून्यो न च कस्यचिद् विगमेन, जातिः शून्या न च कस्यचिद् विगमेन, जरामरणं शून्यं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, शीलपारमिता शून्या न च कस्यचिद् विगमेन, क्षान्तिपारमिता शून्या न च कस्यचिद् विगमेन, वीर्यपारमिता शून्या न च कस्यचिद् विगमेन, (Śस्P_II-१_११८) ध्यानपारमिता शून्या न च कस्यचिद् विगमेन, प्रज्ञापारमिता शून्या न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, बहिर्धाशून्यता शून्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता शून्या न च कस्यचिद् विगमेन, शून्यताशून्यता शून्या न च कस्यचिद् विगमेन, महाशून्यता शून्या न च कस्यचिद् विगमेन, परमार्थशून्यता शून्या न च कस्यचिद् विगमेन, संस्कृतशून्यता शून्या न च कस्यचिद् विगमेन, असंस्कृतशून्यता शून्या न च कस्यचिद् विगमेन, अत्यन्तशून्यता शून्या न च कस्यचिद् विगमेन, अनवराग्रशून्यता शून्या न च कस्यचिद् विगमेन, अनवकारशून्यता शून्या न च कस्यचिद् विगमेन, प्रकृतिशून्यता शून्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यता शून्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यता शून्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यता शून्या न च कस्यचिद् विगमेन, अभावशून्यता शून्या न च कस्यचिद् विगमेन, स्वभावशून्यता शून्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यता शून्या न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि शून्यानि न च कस्यचिद् विगमेन, ऋद्धिपादाः शून्या न च कस्यचिद् विगमेन, इन्द्रियाणि शून्यानि न च कस्यचिद् विगमेन, बलानि शून्यानि न च कस्यचिद् विगमेन, बोध्यङ्गानि शून्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गः शून्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि न च कस्यचिद् विगमेन, ध्यानानि शून्यानि न च कस्यचिद् विगमेन, अप्रमाणानि शून्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः शून्या न च कस्यचिद् विगमेन, विमोक्षा शून्या न च कस्यचिद् विगमेन, अनुपूर्वविहारसमापत्तयः शून्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानि न च कस्यचिद् विगमेन, अभिज्ञाः शून्या न च कस्यचिद् विगमेन, समाधयः शून्या न च कस्यचिद् विगमेन, धारणीमुखानि शून्यानि न च कस्यचिद् विगमेन, दशतथागतबलानि शून्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि शून्यानि न च कस्यचिद् विगमेन, चतस्रह् प्रतिसंविदः शून्या न च कस्यचिद् विगमेन, महामैत्री शून्या न च कस्यचिद् विगमेन, महाकरुणा शून्या न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्माः शून्या न च कस्यचिद् विगमेन.
SK
तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् शून्यं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः (Śस्P_II-१_११९) शून्या न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्र आनिमित्तं न च कस्यचिद् विगमेन, वेदनानिमित्ता न च कस्यचिद् विगमेन, संज्ञानिमित्ता न च कस्यचिद् विगमेन, संस्कारा आनिमित्ता न च कस्यचिद् विगमेन, विज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, श्रोत्रम् आनिमित्तं न च कस्यचिद् विगमेन, घ्राणम् आनिमित्तं न च कस्यचिद् विगमेन, जिह्वानिमित्ता न च कस्यचिद् विगमेन, काय आनिमित्तो न च कस्यचिद् विगमेन, मन आनिमित्तं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, शब्द आनिमित्तो न च कस्यचिद् विगमेन, गन्ध आनिमित्तो न च कस्यचिद् विगमेन, रस आनिमित्तो न च कस्यचिद् विगमेन, स्पर्श आनिमित्तो न च कस्यचिद् विगमेन, धर्मा आनिमित्ता न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, कायविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, मनोविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानिमित्तो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, घ्राणसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, जिह्वासंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, कायसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, मनःसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानिमित्तो न च कस्यचिद् विगमेन, अब्धातुर् आनिमित्तो न च कस्यचिद् विगमेन, तेजोधातुर् आनिमित्तो न च कस्यचिद् विगमेन, वायुधातुर् आनिमित्तो न च कस्यचिद् विगमेन, आकाशधातुर् आनिमित्तो न च कस्यचिद् विगमेन, विज्ञानधातुर् आनिमित्तो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, संस्कारा आनिमित्ता न च कस्यचिद् विगमेन, विज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, नामरूपम् आनिमित्तं न च कस्यचिद् विगमेन, षडायतनम् आनिमित्तं न च कस्यचिद् विगमेन, स्पर्श आनिमित्तो न च कस्यचिद् विगमेन, वेदनानिमित्ता न च कस्यचिद् विगमेन, तृष्णानिमित्ता न च कस्यचिद् विगमेन, उपादानम् आनिमित्तं न च कस्यचिद् विगमेन, भव आनिमित्तो न च कस्यचिद् विगमेन, जातिर् आनिमित्ता न च कस्यचिद् विगमेन, जरामरणम् आनिमित्तं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, शीलपारमितानिमित्ता न च कस्यचिद् विगमेन, क्षान्तिपारमितानिमित्ता न च कस्यचिद् विगमेन, वीर्यपारमितानिमित्ता न च कस्यचिद् विगमेन, ध्यानपारमितानिमित्ता न च कस्यचिद् विगमेन, प्रज्ञापारमितानिमित्ता न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, बहिर्धाशून्यतानिमित्ता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानिमित्ता न च कस्यचिद् विगमेन, शून्यताशून्यतानिमित्ता न च कस्यचिद् विगमेन, महाशून्यतानिमित्ता न च कस्यचिद् विगमेन, परमार्थशून्यतानिमित्ता न च कस्यचिद् विगमेन, संस्कृतशून्यतानिमित्ता न च कस्यचिद् विगमेन, असंस्कृतशून्यतानिमित्ता न च कस्यचिद् विगमेन, अत्यन्तशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनवराग्रशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनवकारशून्यतानिमित्ता न च कस्यचिद् विगमेन, प्रकृतिशून्यतानिमित्ता न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानिमित्ता न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानिमित्ता न च कस्यचिद् विगमेन, अभावशून्यतानिमित्ता न च कस्यचिद् विगमेन, स्वभावशून्यतानिमित्ता न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानिमित्ता न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानिमित्तानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् आनिमित्तानि न च कस्यचिद् विगमेन, ऋद्धिपादा आनिमित्ता न च कस्यचिद् विगमेन, इन्द्रियाण्य् आनिमित्तानि न च कस्यचिद् (Śस्P_II-१_१२१) विगमेन, बलान्य् आनिमित्तानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् आनिमित्तानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्ग आनिमित्तो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानिमित्तानि न च कस्यचिद् विगमेन, ध्यानान्य् आनिमित्तानि न च कस्यचिद् विगमेन, अप्रमाणान्य् आनिमित्तानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तय आनिमित्ता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा आनिमित्ता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तय आनिमित्ता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आनिमित्तानि न च कस्यचिद् विगमेन, अभिज्ञा आनिमित्ता न च कस्यचिद् विगमेन, समाधय आनिमित्ता न च कस्यचिद् विगमेन, धारणीमुखान्य् आनिमित्तानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् आनिमित्तानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् आनिमित्तानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविद आनिमित्ता न च कस्यचिद् विगमेन, महामैत्र्य् आनिमित्ता न च कस्यचिद् विगमेन, महाकरुणानिमित्ता न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा आनिमित्ता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् आनिमित्तं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, वेदनाप्रणिहिता न च कस्यचिद् विगमेन, संज्ञाप्रणिहिता न च कस्यचिद् विगमेन, संस्कारा अप्रणिहिता न च कस्यचिद् विगमेन, विज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, श्रोत्रम् अप्रणिहितं न च कस्यचिद् विगमेन, घ्राणम् अप्रणिहितं न च कस्यचिद् विगमेन, जिह्वाप्रणिहिता न च कस्यचिद् विगमेन, कायो ऽप्रणिहितो न च कस्यचिद् विगमेन, मनो ऽप्रणिहितं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, शब्दो ऽप्रणिहितो न च कस्यचिद् विगमेन, गन्धो ऽप्रणिहितो न च कस्यचिद् विगमेन, रसो ऽप्रणिहितो न च कस्यचिद् विगमेन, स्पर्शो ऽप्रणिहितो न च (Śस्P_II-१_१२२) कस्यचिद् विगमेन, धर्मा अप्रणिहिता न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, कायविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, मनोविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राप्रणिहितो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राप्रणिहितो न च कस्यचिद् विगमेन, अब्धातुर् अप्रणिहितो न च कस्यचिद् विगमेन, तेजोधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, वायुधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, आकाशधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, विज्ञानधातुर् अप्रणिहितो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, संस्कारा अप्रणिहिता न च कस्यचिद् विगमेन, विज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, नामरूपम् अप्रणिहितं न च कस्यचिद् विगमेन, षडायतनम् अप्रणिहितं न च कस्यचिद् विगमेन, स्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, वेदनाप्रणिहिता न च कस्यचिद् विगमेन, तृष्णाप्रणिहिता न च कस्यचिद् विगमेन, उपादानम् अप्रणिहितं न च कस्यचिद् विगमेन, भवो ऽप्रणिहितो न च कस्यचिद् विगमेन, जातिर् अप्रणिहिता न च कस्यचिद् विगमेन, जरामरणम् अप्रणिहितं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, शीलपारमिताप्रणिहिता न च कस्यचिद् विगमेन, क्षान्तिपारमिताप्रणिहिता न च कस्यचिद् विगमेन, वीर्यपारमिताप्रणिहिता न च कस्यचिद् विगमेन, ध्यानपारमिताप्रणिहिता न च कस्यचिद् विगमेन, (Śस्P_II-१_१२३) प्रज्ञापारमिताप्रणिहिता न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, बहिर्धाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, शून्यताशून्यताप्रणिहिता न च कस्यचिद् विगमेन, महाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, परमार्थशून्यताप्रणिहिता न च कस्यचिद् विगमेन, संस्कृतशून्यताप्रणिहिता न च कस्यचिद् विगमेन, असंस्कृतशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अत्यन्तशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनवराग्रशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनवकारशून्यताप्रणिहिता न च कस्यचिद् विगमेन, प्रकृतिशून्यताप्रणिहिता न च कस्यचिद् विगमेन, सर्वधर्मशून्यताप्रणिहिता न च कस्यचिद् विगमेन, स्वलक्षणशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनुपलम्भशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन, स्वभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अभावस्वभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, ऋद्धिपादा अप्रणिहिता न च कस्यचिद् विगमेन, इन्द्रियाण्य् अप्रणिहितानि न च कस्यचिद् विगमेन, बलान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽप्रणिहितो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, ध्यानान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽप्रणिहिता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अप्रणिहिता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽप्रणिहिता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, अभिज्ञा अप्रणिहिता न च कस्यचिद् विगमेन, समाधयो ऽप्रणिहिता न च कस्यचिद् विगमेन, धारणीमुखान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽप्रणिहिता न च कस्यचिद् विगमेन, महामैत्र्य् अप्रणिहिता न च कस्यचिद् विगमेन, महाकरुणाप्रणिहिता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्माप्रणिहिता न च कस्यचिद् (Śस्P_II-१_१२४) विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अप्रणिहितं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः कुशला न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्माः कुशला न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्र कुशलं न च कस्यचिद् विगमेन, वेदना कुशला न च कस्यचिद् विगमेन, संज्ञा कुशला न च कस्यचिद् विगमेन, संस्काराः कुशला न च कस्यचिद् विगमेन, विज्ञानं कुशलं न च कस्यचिद् विगमेन.
SK
चक्षुः कुशलं न च कस्यचिद् विगमेन, श्रोत्रं कुशलं न च कस्यचिद् विगमेन, घ्राणं कुशलं न च कस्यचिद् विगमेन, जिह्वा कुसला न च कस्यचिद् विगमेन, कायः कुशलो न च कस्यचिद् विगमेन, मनः कुशलं न च कस्यचिद् विगमेन.
SK
रूपं कुशलं न च कस्यचिद् विगमेन, शब्दः कुशलो न च कस्यचिद् विगमेन, गन्धः कुशलो न च कस्यचिद् विगमेन, रसः कुशलो न च कस्यचिद् विगमेन, स्पर्शः कुशलो न च कस्यचिद् विगमेन, धर्मा कुसला न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानं कुशलं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं कुशलं न च कस्यचिद् विगमेन, घ्राणविज्ञानं कुशलं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं कुशलं न च कस्यचिद् विगमेन, कायविज्ञानं कुशलं न च कस्यचिद् विगमेन, मनोविज्ञानं कुशलं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः कुशलो न च कस्यचिद् विगमेन, कायसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, मनःसंस्पर्शः कुशलो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना (Śस्P_II-१_१२५) कुशला न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना कुशला न च कस्यचिद् विगमेन.
SK
पृथिवीधातुः कुशलो न च कस्यचिद् विगमेन, अब्धातुः कुशलो न च कस्यचिद् विगमेन, तेजोधातुः कुशलो न च कस्यचिद् विगमेन, वायुधातुः कुशलो न च कस्यचिद् विगमेन, आकाशधातुः कुशलो न च कस्यचिद् विगमेन, विज्ञानधातुः कुशलो न च कस्यचिद् विगमेन.
SK
अविद्या कुशला न च कस्यचिद् विगमेन, संस्काराः कुशला न च कस्यचिद् विगमेन, विज्ञानं कुशलं न च कस्यचिद् विगमेन, नामरूपं कुशलं न च कस्यचिद् विगमेन, षडायतनं कुशलं न च कस्यचिद् विगमेन, स्पर्शः कुशलो न च कस्यचिद् विगमेन, वेदना कुशला न च कस्यचिद् विगमेन, तृष्णा कुशला न च कस्यचिद् विगमेन, उपादानं कुशलं न च कस्यचिद् विगमेन, भवः कुशलो न च कस्यचिद् विगमेन, जातिः कुशला न च कस्यचिद् विगमेन, जरामरणं कुशलं न च कस्यचिद् विगमेन.
SK
दानपारमिता कुशला न च कस्यचिद् विगमेन, शीलपारमिता कुशला न च कस्यचिद् विगमेन, क्षान्तिपारमिता कुशला न च कस्यचिद् विगमेन, वीर्यपारमिता कुशला न च कस्यचिद् विगमेन, ध्यानपारमिता कुसला न च कस्यचिद् विगमेन, प्रज्ञापारमिता कुशला न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यता कुशला न च कस्यचिद् विगमेन, बहिर्धाशून्यता कुशला न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता कुशला न च कस्यचिद् विगमेन, शून्यताशून्यता कुशला न च कस्यचिद् विगमेन, महाशून्यता कुशला न च कस्यचिद् विगमेन, परमार्थशून्यता कुशला न च कस्यचिद् विगमेन, संस्कृतशून्यता कुशला न च कस्यचिद् विगमेन, असंस्कृतशून्यता कुशला न च कस्यचिद् विगमेन, अत्यन्तशून्यता कुशला न च कस्यचिद् विगमेन, अनवराग्रशून्यता कुशला न च कस्यचिद् विगमेन, अनवकारशून्यता कुशला न च कस्यचिद् विगमेन, प्रकृतिशून्यता कुसला न च कस्यचिद् विगमेन, सर्वधर्मशून्यता कुशला न च कस्यचिद् विगमेन, स्वलक्षणशून्यता कुशला न च कस्यचिद् विगमेन, अनुपलम्भशून्यता कुशला न च कस्यचिद् विगमेन, अभावशून्यता कुसला न च कस्यचिद् विगमेन, स्वभावशून्यता कुशला न च कस्यचिद् विगमेन, अभावस्वभावशून्यता कुशला न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानानि कुशलानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि कुशलानि न च कस्यचिद् विगमेन, ऋद्धिपादाः कुशला न च कस्यचिद् विगमेन, इन्द्रियानि कुशलानि न च कस्यचिद् विगमेन, बलानि कुशलानि न (Śस्P_II-१_१२६) च कस्यचिद् विगमेन, बोध्यङ्गानि कुशलानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो कुशलो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, ध्यानानि कुशलानि न च कस्यचिद् विगमेन, अप्रमाणानि कुशलानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः कुशला न च कस्यचिद् विगमेन, अष्टौ विमोक्षाः कुशला न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयः कुशला न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कुशलानि न च कस्यचिद् विगमेन, अभिज्ञा कुशला न च कस्यचिद् विगमेन, समाधयः कुशला न च कस्यचिद् विगमेन, धारणीमुखानि कुशलानि न च कस्यचिद् विगमेन, दशतथागतबलानि कुशलानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि कुशलानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदः कुशला न च कस्यचिद् विगमेन, महामैत्री कुशला न च कस्यचिद् विगमेन, महाकरुणा कुशला न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्माः कुशला न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यत् कुशलं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः कुशला न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनवद्या न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनवद्या न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, वेदनानवद्या न च कस्यचिद् विगमेन, संज्ञानवद्या न च कस्यचिद् विगमेन, संस्कारा अनवद्या न च कस्यचिद् विगमेन, विज्ञानम् अनवद्यं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, श्रोत्रम् अनवद्यं न च कस्यचिद् विगमेन, घ्राणम् अनवद्यं न च कस्यचिद् विगमेन, जिह्वानवद्या न च कस्यचिद् विगमेन, कायो ऽनवद्यो न च कस्यचिद् विगमेन, मनो ऽनवद्यं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, शब्दो ऽनवद्यो न च कस्यचिद् विगमेन, गन्धो ऽनवद्यो न च कस्यचिद् विगमेन, रसो ऽनवद्यो न च कस्यचिद् विगमेन, स्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, धर्मा अनवद्या न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, कायविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानवद्यो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानवद्यो न च कस्यचिद् विगमेन, अब्धातुर् अनवद्यो न च कस्यचिद् विगमेन, तेजोधातुर् अनवद्यो न च कस्यचिद् विगमेन, वायुधातुर् अनवद्यो न च कस्यचिद् विगमेन, आकाशधातुर् अनवद्यो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनवद्यो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, संस्कारा अनवद्या न च कस्यचिद् विगमेन, विज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, नामरूपम् अनवद्यं न च कस्यचिद् विगमेन, षडायतनम् अनवद्यं न च कस्यचिद् विगमेन, स्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, वेदनानवद्या न च कस्यचिद् विगमेन, तृष्णानवद्या न च कस्यचिद् विगमेन, उपादानम् अनवद्यं न च कस्यचिद् विगमेन, भवो ऽनवद्यो न च कस्यचिद् विगमेन, जातिर् अनवद्या न च कस्यचिद् विगमेन, जरामरणम् अनवद्यं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, शीलपारमितानवद्या न च कस्यचिद् विगमेन, क्षान्तिपारमितानवद्या न च कस्यचिद् विगमेन, वीर्यपारमितानवद्या न च कस्यचिद् विगमेन, ध्यानपारमितानवद्या न च कस्यचिद् विगमेन, प्रज्ञापारमितानवद्या न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, बहिर्धाशून्यतानवद्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानवद्या न च कस्यचिद् विगमेन, शून्यताशून्यतानवद्या न च कस्यचिद् विगमेन, महाशून्यतानवद्या न च कस्यचिद् विगमेन, परमार्थशून्यतानवद्या न च कस्यचिद् विगमेन, संस्कृतशून्यतानवद्या न च कस्यचिद् विगमेन, असंस्कृतशून्यतानवद्या न च कस्यचिद् विगमेन, अत्यन्तशून्यतानवद्या न च कस्यचिद् विगमेन, अनवराग्रशून्यतानवद्या न च कस्यचिद् विगमेन, अनवकारशून्यतानवद्या न च कस्यचिद् विगमेन, प्रकृतिशून्यतानवद्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानवद्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानवद्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानवद्या न च कस्यचिद् विगमेन, अभावशून्यतानवद्या न च कस्यचिद् विगमेन, स्वभावशून्यतानवद्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानवद्या न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनवद्यानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनवद्या न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनवद्यानि न च कस्यचिद् विगमेन, बलान्य् अनवद्यानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनवद्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनवद्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनवद्यानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनवद्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनवद्या न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अनवद्या न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनवद्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनवद्यानि न च कस्यचिद् विगमेन, अभिज्ञा अनवद्या न च कस्यचिद् विगमेन, समाधयो ऽनवद्या न च कस्यचिद् विगमेन, धारणीमुखान्य् अनवद्यानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनवद्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनवद्यानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनवद्या न च कस्यचिद् विगमेन, महामैत्र्य् अनवद्या न च कस्यचिद् विगमेन, महाकरुणानवद्या न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा अनवद्या न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनवद्यं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा (Śस्P_II-१_१२९) अनवद्या न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, वेदनानास्रवा न च कस्यचिद् विगमेन, संज्ञानास्रवा न च कस्यचिद् विगमेन, संस्कारा अनास्रवा न च कस्यचिद् विगमेन, विज्ञानम् अनास्रवं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, श्रोत्रम् अनास्रवं न च कस्यचिद् विगमेन, घ्राणम् अनास्रवं न च कस्यचिद् विगमेन, जिह्वानास्रवा न च कस्यचिद् विगमेन, कायो ऽनास्रवो न च कस्यचिद् विगमेन, मनो ऽनास्रवं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, शब्दो ऽनास्रवो न च कस्यचिद् विगमेन, गन्धो ऽनास्रवो न च कस्यचिद् विगमेन, रसो ऽनास्रवो न च कस्यचिद् विगमेन, स्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, धर्मा अनास्रवा न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, कायविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानास्रवो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानास्रवो न च कस्यचिद् विगमेन, अब्धातुर् अनास्रवो न च कस्यचिद् विगमेन, तेजोधातुर् अनास्रवो न च कस्यचिद् विगमेन, वायुधातुर् अनास्रवो न च कस्यचिद् विगमेन, आकाशधातुर् अनास्रवो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनास्रवो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, संस्कारा अनास्रवा न च कस्यचिद् विगमेन, विज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, नामरूपम् अनास्रवं न च कस्यचिद् विगमेन, सडायतनम् अनास्रवं न च कस्यचिद् विगमेन, स्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, वेदनानास्रवा न च कस्यचिद् विगमेन, तृष्णानास्रवा न च कस्यचिद् विगमेन, उपादानम् अनास्रवं न च कस्यचिद् विगमेन, भवो ऽनास्रवो न च कस्यचिद् विगमेन, जातिर् अनास्रवा न च कस्यचिद् विगमेन, जरामरणम् अनास्रवं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, शीलपारमितानास्रवा न च कस्यचिद् विगमेन, क्षान्तिपारमितानास्रवा न च कस्यचिद् विगमेन, वीर्यपारमितानास्रवा न च कस्यचिद् विगमेन, ध्यानपारमितानास्रवा न च कस्यचिद् विगमेन, प्रज्नापारमितानास्रवा न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, बहिर्धाशून्यतानास्रवा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानास्रवा न च कस्यचिद् विगमेन, शून्यताशून्यतानास्रवा न च कस्यचिद् विगमेन, महाशून्यतानास्रवा न च कस्यचिद् विगमेन, परमार्थशून्यतानास्रवा न च कस्यचिद् विगमेन, संस्कृतशून्यतानास्रवा न च कस्यचिद् विगमेन, असंस्कृतशून्यतानास्रवा न च कस्यचिद् विगमेन, अत्यन्तशून्यतानास्रवा न च कस्यचिद् विगमेन, अनवराग्रशून्यतानास्रवा न च कस्यचिद् विगमेन, अनवकारशुन्यतानास्रवा न च कस्यचिद् विगमेन, प्रकृतिशून्यतानास्रवा न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानास्रवा न च कस्यचिद् विगमेन, स्वलक्षणशुन्यतानास्रवा न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानास्रवा न च कस्यचिद् विगमेन, अभावशून्यतानास्रवा न च कस्यचिद् विगमेन, स्वभावशून्यतानास्रवा न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानास्रवा न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानास्रवानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनास्रवानि न च कस्यचिद् विगमेन, ऋद्धिपादा (Śस्P_II-१_१३१) विगमेन, बलान्य् अनास्रवानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनास्रवाणि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनास्रवो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनास्रवाणि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनास्रवाणि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनास्रवा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अनास्रवा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनास्रवा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनास्रवानि न च कस्यचिद् विगमेन, अभिज्ञा अनास्रवा न च कस्यचिद् विगमेन, समाधयो ऽनास्रवा न च कस्यचिद् विगमेन, धारणीमुखान्य् अनास्रवानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनास्रवाणि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनास्रवाणि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनास्रवा न च कस्यचिद् विगमेन, महामैत्र्य् अनास्रवा न च कस्यचिद् विगमेन, महाकरुणानास्रवा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा अनास्रवा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनास्रवं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, वेदना निःक्लेशा न च कस्यचिद् विगमेन, संज्ञा निःक्लेशा न च कस्यचिद् विगमेन, संस्कारा निःक्लेशा न च कस्यचिद् विगमेन, विज्ञानं निःक्लेशं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, श्रोत्रं निःक्लेशं न च कस्यचिद् विगमेन, घ्राणं निःक्लेशं न च कस्यचिद् विगमेन, जिह्वा निःक्लेशा न च कस्यचिद् विगमेन, कायो निःक्लेशो न च कस्यचिद् विगमेन, मनो निःक्लेशं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, शब्दो निःक्लेशो न च कस्यचिद् विगमेन, गन्धो निःक्लेशो न च कस्यचिद् विगमेन, रसो निःक्लेशो न च कस्यचिद् विगमेन, स्पर्शो निःक्लेशो न च (Śस्P_II-१_१३२) कस्यचिद् विगमेन, धर्मा निःक्लेशा न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, घ्राणविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, कायविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, मनोविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र निःक्लेशो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, कायसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, मनःसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र निःक्लेशो न च कस्यचिद् विगमेन, अब्धातुर् निःक्लेशो न च कस्यचिद् विगमेन, तेजोधातुर् निःक्लेशो न च कस्यचिद् विगमेन, वायुधातुर् निःक्लेशो न च कस्यचिद् विगमेन, आकाशधातुर् निःक्लेशो न च कस्यचिद् विगमेन, विज्ञानधातुर् निःक्लेशो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, संस्कारा निःक्लेशा न च कस्यचिद् विगमेन, विज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, नामरूपं निःक्लेशं न च कस्यचिद् विगमेन, षडायतनं निःक्लेशं न च कस्यचिद् विगमेन, स्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, वेदना निःक्लेशा न च कस्यचिद् विगमेन, तृष्णा निःक्लेशा न च कस्यचिद् विगमेन, उपादानं निःक्लेशं न च कस्यचिद् विगमेन, भवो निःक्लेशो न च कस्यचिद् विगमेन, जातिर् निःक्लेशा न च कस्यचिद् विगमेन, जरामरणं निःक्लेशं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, शीलपारमिता निःक्लेशा न च कस्यचिद् विगमेन, क्षान्तिपारमिता निःक्लेशा न च कस्यचिद् विगमेन, वीर्यपारमिता निःक्लेशा न च कस्यचिद् विगमेन, ध्यानपारमिता निःक्लेशा न च कस्यचिद् विगमेन, प्रज्ञापारमिता (Śस्P_II-१_१३३) निःक्लेशा न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, बहिर्धाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, शून्यताशून्यता निःक्लेशा न च कस्यचिद् विगमेन, महाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, परमार्थशून्यता निःक्लेशा न च कस्यचिद् विगमेन, संस्कृतशून्यता निःक्लेशा न च कस्यचिद् विगमेन, असंस्कृतशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अत्यन्तशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनवराग्रशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनवकारशून्यता निःक्लेशा न च कस्यचिद् विगमेन, प्रकृतिशून्यता निःक्लेशा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता निःक्लेशा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन, स्वभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र निःक्लेशानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि निःक्लेशानि न च कस्यचिद् विगमेन, ऋद्धिपादा निःक्लेशा न च कस्यचिद् विगमेन, इन्द्रियाणि निःक्लेशानि न च कस्यचिद् विगमेन, बलानि निःक्लेशानि न च कस्यचिद् विगमेन, बोध्यङ्गानि निःक्लेशानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो निःक्लेशो न च कस्यचिद् विगमेन.
SK
आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र निःक्लेशानि न च कस्यचिद् विगमेन, ध्यानानि निःक्लेशानि न च कस्यचिद् विगमेन, अप्रमाणानि निःक्लेशानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो निःक्लेशा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा निःक्लेशा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो निःक्लेशा न च कस्यचिद् विगमेन, शून्यताप्रणिहिताप्रणिहितविमोक्षमुखानि निःक्लेशानि न च कस्यचिद् विगमेन, अभिज्ञा निःक्लेशा न च कस्यचिद् विगमेन, समाधयो निःक्लेशा न च कस्यचिद् विगमेन, धारणीमुखानि निःक्लेशानि न च कस्यचिद् विगमेन, दशतथागतबलानि निःक्लेशानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि निःक्लेशानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो निःक्लेशा न च कस्यचिद् विगमेन, महामैत्री निःक्लेशा न च कस्यचिद् विगमेन, महाकरुणा निःक्लेशा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा निःक्लेशा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् (Śस्P_II-१_१३४) छारद्वतीपुत्र यद् निःक्लेशं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, वेदना व्यवदाता न च कस्यचिद् विगमेन, संज्ञा व्यवदाता न च कस्यचिद् विगमेन, संस्कारा व्यवदाता न च कस्यचिद् विगमेन, विज्ञानं व्यवदातं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, श्रोत्रं व्यवदातं न च कस्यचिद् विगमेन, घ्राणं व्यवदातं न च कस्यचिद् विगमेन, जिह्वा व्यवदाता न च कस्यचिद् विगमेन, कायो व्यवदातो न च कस्यचिद् विगमेन, मनो व्यवदातो न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, शब्दो व्यवदातो न च कस्यचिद् विगमेन, गन्धो व्यवदातो न च कस्यचिद् विगमेन, रसो व्यवदातो न च कस्यचिद् विगमेन, स्पर्शो व्यवदातो न च कस्यचिद् विगमेन, धर्मा व्यवदाता न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, घ्राणविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, कायविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, मनोविज्ञानं व्यवदातं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र व्यवदातो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, कायसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, मनःसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् (Śस्P_II-१_१३५) विगमेन, मनःसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र व्यवदातो न च कस्यचिद् विगमेन, अब्धातुर् व्यवदातो न च कस्यचिद् विगमेन, तेजोधातुर् व्यवदातो न च कस्यचिद् विगमेन, वायुधातुर् व्यवदातो न च कस्यचिद् विगमेन, आकाशधातुर् व्यवदातो न च कस्यचिद् विगमेन, विज्ञानधातुर् व्यवदातो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, संस्कारा व्यवदाता न च कस्यचिद् विगमेन, विज्ञानं व्यवदातं न च कस्यचिद् विगमेन, नामरूपं व्यवदातं न च कस्यचिद् विगमेन, षडायतनं व्यवदातं न च कस्यचिद् विगमेन, स्पर्शो व्यवदातो न च कस्यचिद् विगमेन, वेदना व्यवदाता न च कस्यचिद् विगमेन, तृष्णा व्यवदाता न च कस्यचिद् विगमेन, उपादानं व्यवदातं न च कस्यचिद् विगमेन, भवो व्यवदातो न च कस्यचिद् विगमेन, जातिर् व्यवदाता न च कस्यचिद् विगमेन, जरामरणं व्यवदातं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, शीलपारमिता व्यवदाता न च कस्यचिद् विगमेन, क्षान्तिपारमिता व्यवदाता न च कस्यचिद् विगमेन, वीर्यपारमिता व्यवदाता न च कस्यचिद् विगमेन, ध्यानपारमिता व्यवदाता न च कस्यचिद् विगमेन, प्रज्ञापारमिता व्यवदाता न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, बहिर्धाशून्यता व्यवदाता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता व्यवदाता न च कस्यचिद् विगमेन, शून्यताशून्यता व्यवदाता न च कस्यचिद् विगमेन, महाशून्यता व्यवदाता न च कस्यचिद् विगमेन, परमार्थशून्यता व्यवदाता न च कस्यचिद् विगमेन, संस्कृतशून्यता व्यवदाता न च कस्यचिद् विगमेन, असंस्कृतशून्यता व्यवदाता न च कस्यचिद् विगमेन, अत्यन्तशून्यता व्यवदाता न च कस्यचिद् विगमेन, अनवराग्रशून्यता व्यवदाता न च कस्यचिद् विगमेन, अनवकारशून्यता व्यवदाता न च कस्यचिद् विगमेन, प्रकृतिशून्यता व्यवदाता न च कस्यचिद् विगमेन, सर्वधर्मशून्यता व्यवदाता न च कस्यचिद् विगमेन, स्वलक्षणशुन्यता व्यवदाता न च कस्यचिद् विगमेन, अनुपलम्भशून्यता व्यवदाता न च कस्यचिद् विगमेन, अभावशून्यता व्यवदाता न च कस्यचिद् विगमेन, स्वभावशून्यता व्यवदाता न च कस्यचिद् विगमेन, अभावस्वभावशून्यता व्यवदाता न च कस्यचिद् (Śस्P_II-१_१३६) विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र व्यवदातानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि व्यवदातानि न च कस्यचिद् विगमेन, ऋद्धिपादा व्यवदाता न च कस्यचिद् विगमेन, इन्द्रियाणि व्यवदातानि न च कस्यचिद् विगमेन, बलानि व्यवदातानि न च कस्यचिद् विगमेन, बोध्यङ्गानि व्यवदातानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो व्यवदातो न च कस्यचिद् विगमेन.
SK
आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र व्यवदातानि न च कस्यचिद् विगमेन, ध्यानानि व्यवदातानि न च कस्यचिद् विगमेन, अप्रमाणानि व्यवदातानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो व्यवदाता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा व्यवदाता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो व्यवदाता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि व्यवदातानि न च कस्यचिद् विगमेन, अभिज्ञा व्यवदाता न च कस्यचिद् विगमेन, समाधयो व्यवदाता न च कस्यचिद् विगमेन, धारणीमुखानि व्यवदातानि न च कस्यचिद् विगमेन, दशतथागतबलानि व्यवदातानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि व्यवदातानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो व्यवदाता न च कस्यचिद् विगमेन, महामैत्री व्यवदाता न च कस्यचिद् विगमेन, महाकरुणा व्यवदाता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा व्यवदाता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् व्यवदातं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, वेदना लोकोत्तरा न च कस्यचिद् विगमेन, संज्ञा लोकोत्तरा न च कस्यचिद् विगमेन, संस्कारा लोकोत्तरा न च कस्यचिद् विगमेन, विज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रं लोकोत्तरं न च कस्यचिद् विगमेन, घ्राणं लोकोत्तरं न च (Śस्P_II-१_१३७) कस्यचिद् विगमेन, जिह्वा लोकोत्तरा न च कस्यचिद् विगमेन, कायो लोकोत्तरो न च कस्यचिद् विगमेन, मनो लोकोत्तरं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, शब्दो लोकोत्तरो न च कस्यचिद् विगमेन, गन्धो लोकोत्तरो न च कस्यचिद् विगमेन, रसो लोकोत्तरो न च कस्यचिद् विगमेन, स्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, धर्मा लोकोत्तरा न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, घ्राणविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, कायविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, मनोविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र लोकोत्तरो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, कायसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, मनःसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरो न च कस्यचिद् विगमेन, अब्धातुर् लोकोत्तरो न च कस्यचिद् विगमेन, तेजोधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, वायुधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, आकाशधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, विज्ञानधातुर् लोकोत्तरो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, संस्कारा लोकोत्तरा न च कस्यचिद् विगमेन, विज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, नामरूपं लोकोत्तरं न च कस्यचिद् विगमेन, षडायतनं लोकोत्तरं न च कस्यचिद् विगमेन, स्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, वेदना लोकोत्तरा न च कस्यचिद् विगमेन, तृष्णा लोकोत्तरा न च कस्यचिद् विगमेन, उपादानं लोकोत्तरं न च कस्यचिद् विगमेन, भवो लोकोत्तरो न च कस्यचिद् विगमेन, जातिर् लोकोत्तरा न च (Śस्P_II-१_१३८) कस्यचिद् विगमेन, जरामरणं लोकोत्तरं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, शीलपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, क्षान्तिपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, वीर्यपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, ध्यानपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, प्रज्ञापारमिता लोकोत्तरा न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, बहिर्धाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, शून्यताशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, महाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, परमार्थशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, संस्कृतशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, असंस्कृतशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अत्यन्तशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनवराग्रशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनवकारशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, प्रकृतिशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, स्वभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र लोकोत्तराणि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि लोकोत्तराणि न च कस्यचिद् विगमेन, ऋद्धिपादा लोकोत्तरा न च कस्यचिद् विगमेन, इन्द्रियाणि लोकोत्तराणि न च कस्यचिद् विगमेन, बलानि लोकोत्तराणि न च कस्यचिद् विगमेन, बोध्यङ्गानि लोकोत्तराणि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो लोकोत्तरो न च कस्यचिद् विगमेन.
SK
आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र लोकोत्तराणि न च कस्यचिद् विगमेन, ध्यानानि लोकोत्तराणि न च कस्यचिद् विगमेन, अप्रमाणानि लोकोत्तराणि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो लोकोत्तरा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा लोकोत्तरा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो लोकोत्तरा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि लोकोत्तराणि न च कस्यचिद् विगमेन, अभिज्ञा लोकोत्तरा न च कस्यचिद् विगमेन, समाधयो लोकोत्तरा न च कस्यचिद् विगमेन, धारणीमुखानि लोकोत्तराणि न च कस्यचिद् (Śस्P_II-१_१३९) विगमेन, दशतथागतबलानि लोकोत्तराणि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि लोकोत्तराणि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो लोकोत्तरा न च कस्यचिद् विगमेन, महामैत्री लोकोत्तरा न च कस्यचिद् विगमेन, महाकरुणा लोकोत्तरा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा लोकोत्तरा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् लोकोत्तरं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन?
SK
आह: रूपम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, वेदनासंस्कृता न च कस्यचिद् विगमेन, संज्ञासंस्कृता न च कस्यचिद् विगमेन, संस्कारा असंस्कृता न च कस्यचिद् विगमेन, विज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रम् असंस्कृतं न च कस्यचिद् विगमेन, घ्राणम् असंस्कृतं न च कस्यचिद् विगमेन, जिह्वासंस्कृता न च कस्यचिद् विगमेन, कायो ऽसंस्कृतो न च कस्यचिद् विगमेन, मनो ऽसंस्कृतं न च कस्यचिद् विगमेन.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, शब्दो ऽसंस्कृतो न च कस्यचिद् विगमेन, गन्धो ऽसंस्कृतो न च कस्यचिद् विगमेन, रसो ऽसंस्कृतो न च कस्यचिद् विगमेन, स्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, धर्मा असंस्कृता न च कस्यचिद् विगमेन.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, कायविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, मनोविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रासंस्कृतो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, (Śस्P_II-१_१४०) मनःसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रासंस्कृतो न च कस्यचिद् विगमेन, अब्धातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, तेजोधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, वायुधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, आकाशधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन, विज्ञानधातुर् ऽसंस्कृतो न च कस्यचिद् विगमेन.
SK
अविद्यायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, संस्कारा असंस्कृता न च कस्यचिद् विगमेन, विज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, नामरूपम् असंस्कृतं न च कस्यचिद् विगमेन, षडायतनम् असंस्कृतं न च कस्यचिद् विगमेन, स्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, वेदनासंस्कृता न च कस्यचिद् विगमेन, तृष्णासंस्कृता न च कस्यचिद् विगमेन, उपादानम् असंस्कृतं न च कस्यचिद् विगमेन, भवो ऽसंस्कृतो न च कस्यचिद् विगमेन, जातिर् असंस्कृता न च कस्यचिद् विगमेन, जरामरणम् असंस्कृतं न च कस्यचिद् विगमेन.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, शीलपारमितासंस्कृता न च कस्यचिद् विगमेन, क्षान्तिपारमितासंस्कृता न च कस्यचिद् विगमेन, वीर्यपारमितासंस्कृता न च कस्यचिद् विगमेन, ध्यानपारमितासंस्कृता न च कस्यचिद् विगमेन, प्रज्ञापारमितासंस्कृता न च कस्यचिद् विगमेन.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, बहिर्धाशून्यतासंस्कृता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतासंस्कृता न च कस्यचिद् विगमेन, शून्यताशून्यतासंस्कृता न च कस्यचिद् विगमेन, महाशून्यतासंस्कृता न च कस्यचिद् विगमेन, परमार्थशून्यतासंस्कृता न च कस्यचिद् विगमेन, संस्कृतशून्यतासंस्कृता न च कस्यचिद् विगमेन, असंस्कृतशून्यतासंस्कृता न च कस्यचिद् विगमेन, अत्यन्तशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनवराग्रशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनवकारशून्यतासंस्कृता न च कस्यचिद् विगमेन, प्रकृतिशून्यतासंस्कृता (Śस्P_II-१_१४१) न च कस्यचिद् विगमेन, सर्वधर्मशून्यतासंस्कृता न च कस्यचिद् विगमेन, स्वलक्षणशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनुपलम्भशून्यतासंस्कृता न च कस्यचिद् विगमेन, अभावशून्यतासंस्कृता न च कस्यचिद् विगमेन, स्वभावशून्यतासंस्कृता न च कस्यचिद् विगमेन, अभावस्वभावशून्यतासंस्कृता न च कस्यचिद् विगमेन.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृताणि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् असंस्कृतानि न च कस्यचिद् विगमेन, ऋद्धिपादासंस्कृता न च कस्यचिद् विगमेन, इन्द्रियाण्य् असंस्कृतानि न च कस्यचिद् विगमेन, बलान्य् असंस्कृतानि न च कस्यचिद् विगमेन, बोध्यङ्गानि ऽसंस्कृताणि न च कस्यचिद् विगमेन, आर्याष्टाण्गो मार्गो ऽसंस्कृतो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृतानि न च कस्यचिद् विगमेन, ध्यानान्य् असंस्कृतानि न च कस्यचिद् विगमेन, अप्रमाणान्य् असंस्कृतानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽसंस्कृता न च कस्यचिद् विगमेन, अष्टौ विमोक्षासंस्कृता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽसंस्कृता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्य् असंस्कृतानि न च कस्यचिद् विगमेन, अभिज्ञा असंस्कृता न च कस्यचिद् विगमेन, समाधयो ऽसंस्कृता न च कस्यचिद् विगमेन, धारणीमुखान्य् असंस्कृतानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् असंस्कृतानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् असंस्कृतानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽसंस्कृता न च कस्यचिद् विगमेन, महामैत्र्य् असंस्कृता न च कस्यचिद् विगमेन, महाकरुणासंस्कृता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा असंस्कृता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् असंस्कृतं सो ऽभावः क्षयश् च. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राकूटस्था अविनाशिनः सर्वधर्माः.
SK
आह: किम् इत्य् आयुष्मन् सुभूते ऽकूटस्था अविनाशिनः सर्वधर्माः?
SK
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, वेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? (Śस्P_II-१_१४२) प्रकृतिर् अस्यैषा, संज्ञाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, संस्कारा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयं, विज्ञानम् अकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, श्रोत्रम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, घ्राणम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, जिह्वाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, कायो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, मनो ऽकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. शब्दो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. गन्धो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. रसो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. स्पर्शो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रविज्ञानम् अकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जिह्वाविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनोविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रसंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणसंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जिह्वासंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायसंस्पर्शो ऽकूतस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनःसंस्पर्शो ऽकूतस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? (Śस्P_II-१_१४३) प्रकृतिर् अस्यैषा. जिह्वासंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनःसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. अब्धातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. तेजोधातुर् ऽकूट्&#८२१६;अस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. वायुधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. आकाशधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. विज्ञानधातुर् ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
SK
अविद्यायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिन्L तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. संस्कारा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. विज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. नामरूपम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. षडायतनम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. स्पर्शो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. वेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. तृष्णाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. उपादानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. भवो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जातिर् अकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. जरामरणम् अकूटस्थम् अविनशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. शीलपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. क्षान्तिपारमिताकूट्&#८२१६;अस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. वीर्यपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. ध्यानपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. प्रज्ञापारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राकूट्.अस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. बहिर्धाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अध्यात्मबहिर्धाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. शून्यताशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. महाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. परमार्थशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. संस्कृतशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. असंस्कृतशून्यताकूटस्थाविनाशिनी. तत् कस्य (Śस्P_II-१_१४४) हेतोः? प्रकृतिर् अस्या एषा. अत्यन्तशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनवराग्रशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनवकारशून्यताकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. प्रकृतिशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. सर्वधर्मशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्वलक्षणशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनुपलम्भशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्वभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अभावस्वभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. सम्यक्प्रहाणान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. ऋद्धिपादा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. इन्द्रियाण्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. बलान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. बोध्यङ्गान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. आर्याष्टाङ्गो मार्गो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. ध्यानान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अप्रमाणान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. आरूप्यसमापत्तयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आसाम् इयम्. अष्टौ विमोक्षा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. नवानुपूर्वविहारसमापत्तयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आषाम् इयम्. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अभिज्ञा अकूतस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. समाधयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. धारणीमुखान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. दशतथागतबलान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चत्वारि वैशारद्यान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चतस्रः प्रतिसंविदो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आसाम् इयम्. महामैत्र्य् अकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. महाकरुणाकूटस्थाविनाशिनी. (Śस्P_II-१_१४५) तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अष्टादशावेणिका बुद्धधर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्.
SK
कुशला धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अकुशला धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. संस्कृता धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. असंस्कृता धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. सास्रवा धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अनास्रवा धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपम् अनभिनिर्वृत्तं, केन कारणेन वेदनानभिनिर्वृत्ता, केन कारणेन संज्ञानभिनिर्वृत्ता, केन कारणेन संस्कारा अनभिनिर्वृत्ताः, केन कारणेन विज्ञानम् अनभिनिर्वृत्तम् इति वदसि, एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपम् अनभिसंस्कृतं, वेदनानभिसंस्कृता, संज्ञानभिसंस्कृता, संस्कारा अनभिसंस्कृताः, विज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा हि रूपस्याभिसंस्कर्ता नास्ति, वेदनाया अभिसंस्कर्ता नास्ति, संज्ञाया अभिसंस्कर्ता नास्ति, संस्काराणाम् अभिसंस्कर्ता नास्ति, विज्ञानस्याभिसंस्कर्ता नास्ति.
SK
चक्षुर् आयुष्मञ् छारद्वतिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, श्रोत्रम् अनभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, घ्राणम् अनभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जिह्वानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, कायो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, शब्दो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, गन्धो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, रसो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, स्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? (Śस्P_II-१_१४६) तथा ह्य् अभिसंस्कर्ता नास्ति, धर्मा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वाविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनोविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वासंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनःसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वासंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनःसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अब्धातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. तेजोधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वायुधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आकाशधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विज्ञानधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
अविद्यायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. संस्कारा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. नामरूपम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. षडायतनम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. तृष्णानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. उपादानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, भवो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जातिर् अनभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जरामरणम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शीलपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. क्षान्तिपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वीर्यपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ध्यानपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. प्रज्ञापारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
अध्यात्मशून्यतायुष्मञ् छार्द्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बहिर्धाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अध्यात्मबहिर्धाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शून्यताशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. परमार्थशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. संस्कृतशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. असंस्कृतशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अत्यन्तशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनवराग्रशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनवकारशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. प्रकृतिशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. सर्वधर्मशून्यतानभिसंस्कृता, (Śस्P_II-१_१४८) तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्वलक्षणशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनुपलम्भशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्वभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभावस्वभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. सम्यक्प्रहाणान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ऋद्धिपादा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. इन्द्रियाण्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बलान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बोध्यङ्गान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आर्याष्टाङ्गो मार्गो ऽनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ध्यानान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अप्रमाणान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आरूप्यसमापत्तयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विमोक्षा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. नवानुपूर्वविहारसमापत्तयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभिज्ञा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. समाधयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. धारणीमुखान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. दशतथागतबलान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चत्वारि वैशारद्यान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चतस्रः प्रतिसंविदो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महामैत्र्य् अनभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महाकरुणानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अष्टादशावेणिका बुद्धधर्मा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपम् अनभिनिर्वृत्तं वेदनानभिनिर्वृत्ता संज्ञानभिनिर्वृत्ता संस्कारा अनभिनिर्वृत्ता विज्ञानम् अनभिनिर्वृत्तम्.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेनायुष्मञ् सुभूते यद् अनभिनिर्वृत्तं न तद् रूपं, या अनभिनिर्वृत्ता न सा वेदना, या अनभिनिर्वृत्ता न सा संज्ञा, ये ऽनभिनिर्वृत्ता न ते संस्कारा, यद् अनभिनिर्वृत्तं न तद् विज्ञानम् इति वदसि?
SK
एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संज्ञा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संस्काराः प्रकृतिशून्या या च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
SK
चक्षुः प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. कायः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. मनः प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
SK
रूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. शब्दः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो (Śस्P_II-१_१५०) न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. गन्धः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. रसः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. स्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. धर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते.
SK
चक्षुर्विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वाविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. कायविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. मनोविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
SK
चक्षुःसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वासंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. कायसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते. मनःसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते.
SK
चक्षुःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं (Śस्P_II-१_१५१) प्रज्ञायते. श्रोत्रसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. घ्राणसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. जिह्वासंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. कायसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते.
SK
पृथिवीधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. अब्धातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. तेजोधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. वायुधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. आकाशधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
SK
अविद्या प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संस्काराः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. नामरूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. षडायतनं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. स्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं (Śस्P_II-१_१५२) प्रज्ञायते. वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. तृष्णा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. उपादानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. भवः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जातिः प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. जरामरणं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते.
SK
दानपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. शीलपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. क्षान्तिपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. वीर्यपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. ध्यानपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. प्रज्ञापारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते.
SK
अध्यात्मशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. बहिर्धाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अध्यात्मबहिर्धाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. शून्यताशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. महाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, (Śस्P_II-१_१५३) यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. परमार्थशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. संस्कृतशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. असंस्कृतशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अत्यन्तशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अनवराग्रशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अनवकारशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. प्रकृतिशून्यता प्रकृतिशून्या य् आ च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. सर्वधर्मशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. स्वलक्षणशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्य् अन्यथात्वं प्रज्नायते. अनुपलम्भशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. स्वभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अभावस्वभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते.
SK
स्मृत्युपस्थानानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. सम्यक्प्रहाणानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. ऋद्धिपादा प्रकृतिशून्या य् आ च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. इन्द्रियाणि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां (Śस्P_II-१_१५४) नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. बलानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. बोध्यङ्गानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. आर्याष्टाङ्गो मार्गः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते. आर्यसत्यानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. ध्यानानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. अप्रमाणानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. आरूप्यसमापत्तयः प्रकृतिशून्या या च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. अष्टौ विमोक्षाः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. नवानुपूर्वविहारसमापत्तयः प्रकृतिशून्या याश् च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. अभिज्ञा प्रकृतिशून्या याश् च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. समाधयः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. धारणीमुखानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. दशतथागतबलानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. चत्वारि वैशारद्यानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. चतस्रः प्रतिसंविदः प्रकृतिशून्या याश् च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. महामैत्री प्रकृतिशून्या (Śस्P_II-१_१५५) या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. महाकरुणा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. आवेणिकबुद्धधर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् अनभिसंस्कृतं न तद् रूपं, यानभिसंस्कृता न सा वेदना, यानभिसंस्कृता न सा संज्ञा, ये ऽनभिसंस्कृता न ते संस्काराः, यद् अनभिसंस्कृतं न तद् विज्ञानम्.
SK
यद् अनभिसंस्कृतं न तच् चक्षुः, यद् अनभिसंस्कृतं न तच् छ्रोत्रं, यद् अनभिसंस्कृतं न तद् घ्राणं, यानभिसंस्कृता न सा जिह्वा, यो ऽनभिसंस्कृतो न स कायः, यद् अनभिसंस्कृतं न तन् मनः.
SK
यद् अनभिसंस्कृतं न तद् रूपं, यो ऽनभिसंस्कृतो न स शब्दः, यो ऽनभिसंस्कृतो न स गन्धः, यो ऽनभिसंस्कृतो न स रसः, यो ऽनभिसंस्कृतो न स स्पर्शः, ये ऽनभिसंस्कृता न ते धर्माः.
SK
यद् अनभिसंस्कृतं न तच् चक्षुर्विज्ञानं, यद् अनभिसंस्कृतं न तच् छ्रोत्रविज्ञानं, यद् अनभिसंस्कृतं न तद् घ्राणविज्ञानं, यद् अनभिसंस्कृतं न तद् जिह्वाविज्ञानं, यद् अनभिसंस्कृतं न तत् कायविज्ञानं, यद् अनभिसंस्कृतं न तन् मनोविज्ञानम्.
SK
यो ऽनभिसंस्कृतो न स चक्षुःसंस्पर्शः, यो ऽनभिसंस्कृतो न स श्रोत्रसंस्पर्शः, यो ऽनभिसंस्कृतो न स घ्राणसंस्पर्शः, यो ऽनभिसंस्कृतो न स जिह्वासंस्पर्शः, यो ऽनभिसंस्कृतो न स कायसंस्पर्शः, यो ऽनभिसंस्कृतो न स मनःसंस्पर्शः.
SK
यानभिसंस्कृता न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा घ्राणसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा जिह्वासंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा कायसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा मनःसंस्पर्शप्रत्ययवेदना.
SK
यो ऽनभिसंस्कृतो न स पृथिवीधातुः, यो ऽनभिसंस्कृतो न सो ऽब्धातुः, यो ऽनभिसंस्कृतो न स तेजोधातुः, यो ऽनभिसंस्कृतो न स वायुधातुः, यो ऽनभिसंस्कृतो न स आकाशधातुः, यो ऽनभिसंस्कृतो न स विज्ञानधातुः.
SK
यानभिसंस्कृता न साविद्या, ये ऽनभिसंस्कृता न ते संस्काराः, यद् अनभिसंस्कृतं न तद् विज्ञानं, यद् अनभिसंस्कृतं न तन् नामरूपं, यद् अनभिसंस्कृतं न तत् षडायतनं, यो ऽनभिसंस्कृतो न स स्पर्शः, यानभिसंस्कृता न सा वेदना, यानभिसंस्कृता न सा तृष्णा, यद् अनभिसंस्कृतं न तद् उपादानं, यो ऽनभिसंस्कृतो न स भवः, यानभिसंस्कृता न सा जातिः, यद् अनभिसंस्कृतं न तज् जरामरणम्.
SK
यानभिसंस्कृता न सा दानपारमिता, यानभिसंस्कृता न सा शीलपारमिता, यानभिसंस्कृता न सा क्षान्तिपारमिता, यानभिसंस्कृता न सा वीर्यपारमिता, यानभिसंस्कृता न सा ध्यानपारमिता, यानभिसंस्कृता न सा प्रज्ञापारमिता.
SK
यानभिसंस्कृता न साध्यात्मशून्यता, यानभिसंस्कृता न सा बहिर्धाशून्यता, यानभिसंस्कृता न साध्यात्मबहिर्धाशून्यता, यानभिसंस्कृता न सा शून्यताशून्यता, यानभिसंस्कृता न सा महाशून्यता,
SK
यानभिसंस्कृता न सा परमार्थशून्यता, यानभिसंस्कृता न सा संस्कृतशून्यता, यानभिसंस्कृता न सासंस्कृतशून्यता, यानभिसंस्कृता न सात्यन्तशून्यता, यानभिसंस्कृता न सानवराग्रशून्यता, यानभिसंस्कृता न सानवकारशून्यता, यानभिसंस्कृता न सा प्रकृतिशून्यता, यानभिसंस्कृता न सा सर्वधर्मशून्यता, यानभिसंस्कृता न सा स्वलक्षणशून्यता, यानभिसंस्कृता न सानुपलम्भशून्यता, यानभिसंस्कृता न साभावशून्यता, यानभिसंस्कृता न सा स्वभावशून्यता, यानभिसंस्कृता न साभावस्वभावशून्यता.
SK
यान्य् अनभिसंस्कृतानि न तानि स्मृत्युपस्थानानि, यान्य् अनभिसंस्कृतानि न तानि सम्यक्प्रहाणानि, ये ऽनभिसंस्कृता न ते ऋद्धिपादाः यान्य् अनभिसंस्कृतानि न तानीन्द्रियाणि, यान्य् अनभिसंस्कृतानि न तानि बलानि, यान्य् अनभिसंस्कृतानि न तानि बोध्यङ्गानि, यो ऽनभिसंस्कृतो न स आर्याष्टाङ्गो मार्गः, यान्य् अनभिसंस्कृतानि न तान्य् आर्यसत्यानि, यान्य् अनभिसंस्कृतानि न तानि ध्यानानि, यान्य् अनभिसंस्कृतानि न तान्य् अप्रमाणानि, या अनभिसंस्कृता न ता आरूप्यसमापत्तयः, ये ऽनभिसंस्कृता न ते विमोक्षाः, यानभिसंस्कृता न ता नवानुपूर्वविहारसमापत्तयः, यान्य् अनभिसंस्कृतानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यानभिसंस्कृता न ता अभिज्ञाः, ये ऽनभिसंस्कृता न ते समाधयः, यान्य् अनभिसंस्कृतानि न तानि धारणीमुखानि, यान्य् अनभिसंस्कृतानि न तानि दशतथागतबलानि, यान्य् अनभिसंस्कृतानि न तानि चत्वारि (Śस्P_II-१_१५७) वैशारद्यानि, या अनभिसंस्कृता न ताश् चतस्रः प्रतिसंविदः, यानभिसंस्कृता न सा महामैत्री, यानभिसंस्कृता न सा महाकरुणा, ये ऽनभिसंस्कृता न ते ऽष्टादशावेणिका बुद्धधर्माः, यानभिसंस्कृता न सा सर्वज्ञता, यानभिसंस्कृता न सा मार्गाकारज्ञता, यानभिसंस्कृता न सा सर्वाकारज्ञता.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेनैवं वदसि, तत् किम् अनभिनिर्वृत्तं प्रज्ञापारमितायाम् अववदिष्याम् अनुशासिष्यामीति?
SK
तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यानभिनिर्वृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सानाभिनिर्वृत्तिर् इति ह्य् अनभिनिर्वृत्तिश् च प्रज्ञापारमिता चाभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणैवं वदसि, तत् किम् अनभिनिर्वृत्तिं प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेन नान्यत्राभिवृत्त्या बोधिसत्त्व उपलभ्यते यो बोधाय चरेद् इति. तथा ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् नान्यम् अनभिनिर्वृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति. इति ह्य् अनभिनिर्वृत्तिश् च बोधिसत्त्वश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्त्या रूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या वेदना समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः संज्ञां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संज्ञा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः संस्कारान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्काराश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्त्याश् चक्षुः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रनभिनिर्वृत्त्याः श्रोत्रं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रं (Śस्P_II-१_१५८) चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः मनः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्त्या रूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः शब्दं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शब्दश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या गन्धं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च गन्धश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या रसं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रसश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः स्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या धर्मान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च धर्माश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्त्याश् चक्षुर्विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिवृत्तिश् च श्रोत्रव्ण्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारं, श्रोत्रविज्ञानम्. नान्यत्रानभिनिर्वृत्त्या घ्राणविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वाविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वाविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायव्य्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायविज्ञानं चोभाव् एतौ धर्माव् ओ अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनोविज्ञानं समनुन्पश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनोविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्त्याश् चक्षुःसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुःसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् (Śस्P_II-१_१५९) अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वासंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वासंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनःसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनःसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्त्याश् चक्षुःसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुःसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वासंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वासंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनःसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनःसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्तेः पृथिवीधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च पृथिवीधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अब्धातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाब्धातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः तेजोधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च तेजोधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वायुधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वायुधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकार्म्. नान्यत्रानभिनिर्वृत्तेर् आकाशधातुं (Śस्P_II-१_१६०) समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च आकाशधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् विज्ञानधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्तेर् अविद्यां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाविद्या चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः संस्कारान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्काराश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् नामरूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च नामरूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः षडायतनं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च षडायतनं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः तृष्णां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च तृष्णा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् उपादानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च उपादानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् भवं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च भवश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् जातिं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जातिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् जरामरणं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जरामरणं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्तेर् दानपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च दानपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् शीलपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शीलपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् क्षान्तिपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च क्षान्तिपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वीर्यपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वीर्यपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. (Śस्P_II-१_१६१) नान्यत्रानभिनिर्वृत्तेर् ध्यानपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ध्यानपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् प्रज्ञापारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च प्रज्ञापारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्तेर् अध्यात्मशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाध्यात्मशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बहिर्धाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बहिर्धाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अध्यात्मबहिर्धाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाध्यात्मबहिर्धाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः शून्यताशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शून्यताशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः परमार्थशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च परमार्थशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः संस्कृतशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्कृतशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् असंस्कृतशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चासंस्कृतशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अत्यन्तशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चात्यन्तशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनवराग्रशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चानवराग्रशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनवकारशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चानवकारशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः प्रकृतिशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च प्रकृतिशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वधर्मशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वधर्मशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्वलक्षणशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्वलक्षणशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनुपलम्भशून्यतां समनुपश्यति, (Śस्P_II-१_१६२) तथा ह्य् अनभिनिर्वृत्तिश् चानुपलम्भशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्वभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्वभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभावस्वभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभावस्वभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
नान्यत्रानभिनिर्वृत्तेः स्मृत्युपस्थानानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्मृत्युपस्थानानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सम्यक्प्रहाणानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सम्यक्प्रहाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् ऋद्धिपादान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ऋद्धिपादांश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् इन्द्रियाणि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चेन्द्रियाणि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बलानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बलानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बोध्यङ्गानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बोध्यङ्गानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आर्याष्टाङ्गमार्गं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चार्याष्टाङ्गो मार्गश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आर्यसत्यानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चार्यसत्यानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् ध्यानानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ध्यानानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अप्रमाणानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाप्रमाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आरूप्यसमापत्तीः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चारूप्यसमापत्तिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अष्टौ विमोक्षां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाष्टौ विमोक्षाश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् नवानुपूर्वविहारसमापत्तीः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च नवानुपूर्वविहारसमापत्तिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः (Śस्P_II-१_१६३) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाप्रमाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभिज्ञाः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभिज्ञाश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः समाधीन् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च समाधयश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् धारणीमुखानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च धारणीमुखानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् दशतथागतबलानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च दशतथागतबलानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेश् चत्वारि वैशारद्यानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चत्वारि वैशारद्यानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेश् चतस्रः प्रतिसंविदः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चतस्रः प्रतिसंविदश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महामैत्रीं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महामैत्री चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महाकरुणां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महाकरुणा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अष्टादशावेणिकान् बुद्धधर्मान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाष्टादशावेणिका बुद्धधर्माश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् मार्गाकारज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मार्गाकारज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वाकारज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वाकारज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नान्यत्रानभिनिर्वृत्त्या बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह केन कारणेनैवं वदसि, सचेत् बोधिसत्तो महासत्त्व एवम् उद्दिश्यमानेनोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां तथा ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो (Śस्P_II-१_१६४) निरीहकात् सर्वधर्मान् न समनुपश्यति. स्वप्नोपमान् सर्वधर्मान् न समनुपश्यति. मायोपमान् सर्वधर्मान् न समनुपश्यति. मारीच्युपमान् सर्वधर्मान् न समनुपश्यति. प्रतिश्रुत्कोपमान् सर्वधर्मान् न समनुपश्यति. प्रतिभासोपमान् सर्वधर्मान् न समनुपश्यति. निर्मितोपमान् सर्वधर्मान् न समनुपश्यति.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा नोत्रस्यति संत्रसति न संत्रासम् आपद्यते प्रज्ञापारमितायां चरति.
SK
अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते,
SK
तस्मिन् समये रूपं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति रूपम् एतद् इति, तस्मिन् समये वेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति वेदनेयम् इति, तस्मिन् समये संज्ञां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संज्ञेयम् इति, तस्मिन् समये संस्कारान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संस्कारा इम इति, तस्मिन् समये विज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति विज्ञानम् एतद् इति.
SK
तस्मिन् समये चक्षुर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुर् एतद् इति, तस्मिन् समये श्रोत्रं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रम् एतद् इति, तस्मिन् समये घ्राणं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणम् एतद् इति, तस्मिन् समये जिह्वां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वेयम् इति, तस्मिन् समये कायं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायो ऽयम् इति, तस्मिन् समये मनो नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मन एतद् इति.
SK
तस्मिन् समये रूपं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति रूपम् एतद् इति, तस्मिन् समये शब्दं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शब्दो ऽयम् इति, तस्मिन् समये गन्धं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति गन्धो ऽयम् इति, तस्मिन् समये रसं नोपैति नोपादत्ते नाधितिष्ठति (Śस्P_II-१_१६५) नाभिनिविशते न प्रज्ञापयति रसो ऽयम् इति, तस्मिन् समये स्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्पर्शओ ऽयम् इति, तस्मिन् समये धर्मान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति धर्मा इम इति.
SK
तस्मिन् समये चक्षुर्विज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुर्विज्ञानम् एतद् इति, तस्मिन् समये श्रोत्रविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रविज्ञानम् एतद् इति, तस्मिन् समये घ्राणविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्fतापयति घ्राणविज्ञानम् एतद् इति, तस्मिन् समये जिह्वाविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वाविज्ञानम् एतद् इति, तस्मिन् समये कायविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायविज्ञानम् एतद् इति, तस्मिन् समये मनोविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनोविज्ञानम् एतद् इति.
SK
तस्मिन् समये चक्षुःसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुःसंस्पर्शो ऽयम् इति, तस्मिन् समये श्रोत्रसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रसंस्पर्शो ऽयम् इति, तस्मिन् समये घ्राणसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणसंस्पर्शो ऽयम् इति, तस्मिन् समये जिह्वासंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वासंस्पर्शो ऽयम् इति, तस्मिन् समये कायसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायसंस्पर्शो ऽयम् इति, तस्मिन् समये मनःसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनःसंस्पर्शो ऽयम् इति.
SK
तस्मिन् समये चक्षुःसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुःसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये श्रोत्रसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये घ्राणसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये जिह्वासंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वासंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये कायसंस्पर्शप्रत्ययवेदनां (Śस्P_II-१_१६६) नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये मनःसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनःसंस्पर्शप्रत्ययवेदनेयम् इति.
SK
यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवम् उपपरीक्षते, तस्मिन् समये दानपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति दानपारमितेयम् इति, तस्मिन् समये शीलपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शीलपारमितेयम् इति, तस्मिन् समये क्षान्तिपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति क्षान्तिपारमितेयम् इति, तस्मिन् समये वीर्यपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति वीर्यपारमितेयम् इति, तस्मिन् समये ध्यानपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति ध्यानपारमितेयम् इति, तस्मिन् समये प्रज्ञापारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति प्रज्ञापारमितेयम् इति.
SK
तस्मिन् समये ऽध्यात्मशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अध्यात्मशून्यतेयम् इति, तस्मिन् समये बहिर्धाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति बहिर्धाशून्यतेयम् इति, तस्मिन् समये ऽध्यात्मबहिर्धाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अध्यात्मबहिर्धाशून्यतेयम् इति, तस्मिन् समये शून्यताशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शून्यताशून्यतेयम् इति, तस्मिन् समये महाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति महाशून्यतेयम् इति, तस्मिन् समये परमार्थशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति परमार्थशून्यतेयम् इति, तस्मिन् समये संस्कृतशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संस्कृतशून्यतेयम् इति, तस्मिन् समये ऽसंस्कृतशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् असंस्कृतशून्यतेयम् इति, तस्मिन् समये ऽत्यन्तशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अत्यन्तशून्यतेयम् इति, तस्मिन् समये ऽनवराग्रशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनवराग्रशून्यतेयम् (Śस्P_II-१_१६७) इति, तस्मिन् समये ऽनवकारशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनवकारशून्यतेयम् इति, तस्मिन् समये प्रकृतिशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति प्रकृतिशून्यतेयम् इति, तस्मिन् समये सर्वधर्मशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति सर्वधर्मशून्यतेयम् इति, तस्मिन् समये स्वलक्षणशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्वलक्षणशून्यतेयम् इति, तस्मिन् समये ऽनुपलम्भशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनुपलम्भशून्यतेयम् इति, तस्मिन् समये ऽभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अभावशून्यतेयम् इति, तस्मिन् समये स्वभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्वभावशून्यतेयम् इति, तस्मिन् समये ऽभावस्वभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अभावस्वभावशून्यतेयम् इति.
SK
पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरन् स्मृत्युपस्थानानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानान्य् एतानीति, तस्मिन् समये सम्यक्प्रहाणानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सम्यक्प्रहाणान्य् एतानीति, तस्मिन् समये ऋद्धिपादान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ऋद्धिपादा इमा इति, तस्मिन् समये इन्द्रियाणि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयतीन्द्रियाण्य् एतानीति, तस्मिन् समये बलानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बलानीमानीति, तस्मिन् समये बोध्यङ्गानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बोध्यङ्गानीमानीति, तस्मिन् समये आर्याष्टाङ्गमार्गं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आर्याष्टङ्गो मार्ग इति, तस्मिन् समये आर्यसत्यानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आर्यसत्यान्य् एतानीति, तस्मिन् समये ध्यानानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ध्यानान्य् एतानीति, तस्मिन् समये ऽप्रमाणानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अप्रमाणान्य् एतानीति, तस्मिन् समये आरूप्यसमापत्तीर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आरूप्यसमापत्तय इमा इति, तस्मिन् समये ऽष्टौ विमोक्षान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अष्टौ विमोक्षा (Śस्P_II-१_१६८) इम इति, तस्मिन् समये नवानुपूर्वविहारसमापत्तीर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति नवानुपूर्वविहारसमापत्तय इमा इति, तस्मिन् समये शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एतानीति, तस्मिन् समये ऽभिज्ञा नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभिज्ञा इमा इति, तस्मिन् समये समाधीन् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधय इम इति, तस्मिन् समये धारणीमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति धारणीमुखान्य् एतानीति, तस्मिन् समये दशतथागतबलानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दशतथागतबलानीमानीति, तस्मिन् समये चत्वारि वैशारद्यानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चत्वारि वैशारद्यानीमानीति, तस्मिन् समये चतस्रः प्रतिसंविदो नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चतस्रः प्रतिसंविद इमा इति, तस्मिन् समये महामैत्रीं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महामैत्रीयम् इति, तस्मिन् समये महाकरुणां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महाकरुणेयम् इति, तस्मिन् समये ऽष्टादशावेणिकान् बुद्धधर्मान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आवेणिका बुद्धधर्मा एत इति.
SK
पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरन् सर्वसमाधिधारणीमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सर्वसमधिधारणीमुखाण्य् एतानीति.
SK
तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति, वेदनां न समनुपश्यति, संज्ञां न समनुपश्यति, संस्कारान् न समनुपश्यति, विज्ञानं न समनुपश्यति.
SK
चक्षुर् न समनुपस्यति, श्रोत्रं न समनुपश्यति, घ्राणं न समनुपश्यति, जिह्वां न समनुपश्यति, कायं न समनुपस्यति, मनो न समनुपश्यति.
SK
रूपं न समनुपश्यति, शब्दं न समनुपश्यति, गन्धं न समनुपश्यति, रसं न समनुपश्यति, स्पर्शं न समनुपश्यति, धर्मान् न समनुपस्यति.
SK
चक्षुर्विज्ञानं न समनुपस्यति, श्रोत्रविज्ञानं न समनुपस्यति, (Śस्P_II-१_१६९) घ्राणविज्ञानं न समनुपस्यति, जिह्वाविज्ञानं न समनुपस्यति, कायविज्ञानं न समनुपस्यति, मनोविज्ञानं न समनुपस्यति.
SK
चक्षुःसंस्पर्शं न समनुपस्यति, श्रोत्रसंस्पर्शं न समनुपस्यति, घ्राणसंस्पर्शं न समनुपस्यति, जिह्वासंस्पर्शं न समनुपस्यति, कायसंस्पर्शं न समनुपस्यति, मनःसंस्पर्शं न समनुपस्यति.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, घ्राणसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, जिह्वासंस्पर्शप्रत्ययवेदनां न समनुपस्यति, कायसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, मनःसंस्पर्शप्रत्ययवेदनां न समनुपस्यति.
SK
पृथिवीधातुं न समनुपस्यति, अब्धातुं न समनुपस्यति, तेजोधातुं न समनुपस्यति, वायुधातुं न समनुपस्यति, आकाशधातुं न समनुपस्यति, विज्ञानधातुं न समनुपस्यति.
SK
अविद्यां न समनुपस्यति, संस्कारान् न समनुपस्यति, विज्ञानं न समनुपस्यति, नामरूपं न समनुपस्यति, षडायतनं न समनुपश्यति, स्पर्शं न समनुपस्यति, वेदनां न समनुपस्यति, तृष्णां न समनुपस्यति, उपादानं न समनुपस्यति, भवं न समनुपस्यति, जातिं न समनुपस्यति, जरामरणं न समनुपस्यति.
SK
दानपारमितां न समनुपस्यति, शीलपारमितां न समनुपस्यति, क्षान्तिपारमितां न समनुपस्यति, वीर्यपारमितां न समनुपस्यति, ध्यानपारमितां न समनुपस्यति, प्रज्ञापारमितां न समनुपस्यति.
SK
अध्यात्मशून्यतां न समनुपस्यति, बहिर्धाशून्यतां न समनुपश्यति, अध्यात्मबहिर्धाशून्यतां न समनुपस्यति, शून्यताशून्यतां न समनुपस्यति, महाशून्यतां न समनुपस्यति, परमार्थशून्यतां न समनुपस्यति, संस्कृतशून्यतां न समनुपस्यति, असंस्कृतशून्यतां न समनुपस्यति, अत्यन्तशून्यतां न समनुपस्यति, अनवराग्रशून्यतां न समनुपस्यति, अनवकारशून्यतां न समनुपस्यति, प्रकृतिशून्यतां न समनुपस्यति, सर्वधर्मशून्यतां न समनुपस्यति, स्वलक्षणशून्यतां न समनुपस्यति, अनुपलम्भशून्यतां न समनुपस्यति, अभावशून्यतां न समनुपस्यति, स्वभावशून्यतां न समनुपस्यति, अभावस्वभावशून्यतां न समनुपस्यति,
SK
स्मृत्युपस्थानानि न समनुपस्यति, सम्यक्प्रहाणानि न समनुपश्यति, ऋद्धिपादान् न समनुपस्यति, इन्द्रियाणि न समनुपस्यति, बलानि (Śस्P_II-१_१७०) न समनुपस्यति, बोध्यङ्गानि न समनुपस्यति, आर्याष्टाङ्गमार्गं न समनुपस्यति, आर्यसत्यानि न समनुपस्यति, ध्यानानि न समनुपस्यति, अप्रमाणानि न समनुपस्यति, आरूप्यसमापत्तीर् न समनुपस्यति, अष्टौ विमोक्षान् न समनुपस्यति, नवानुपूर्वविहारसमापत्तीर् न समनुपश्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपस्यति, अभिज्ञा न समनुपस्यति, समाधीन् न समनुपस्यति, धारणीमुखानि न समनुपस्यति, दशतथागतबलानि न समनुपस्यति, चत्वारि वैशारद्यानि न समनुपस्यति, चतस्रः प्रतिसंविदो न समनुपस्यति, महामैत्रीं न समनुपस्यति, महाकरुणां न समनुपस्यति, अष्टादशावेणिकान् बुद्धधर्मान् न समनुपस्यति, सर्वज्ञतां न समनुपस्यति, मार्गाकारज्ञतां न समनुपस्यति, सर्वाकारज्ञतां न समनुपस्यति.
SK
तत् कस्य हेतोः?
SK
तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपम्, इति हि रूपं >; चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्यानुत्पादो न तद् रूपं,
SK
तथा हि भगवन् यो वेदनाया अनुत्पादो न सा वेदना, इति हि वेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया अनुत्पादो न सा वेदना,
SK
तथा हि भगवन् यः संज्ञाया अनुत्पादो न सा संज्ञा, इति हि संज्ञा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संज्ञाया अनुत्पादो न सा संज्ञा,
SK
तथा हि भगवन् यः संस्काराणाम् अनुत्पादो न ते संस्कारा, इति हि संस्काराश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्काराणाम् अनुत्पादो न ते संस्काराः,
SK
तथा हि भगवन् यो विज्ञानस्यानुत्पादो न ते विज्ञानम्, इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्यानुत्पादो न तद् विज्ञानं.
SK
तथा हि यो भगवंश् चक्षुषो ऽनुत्पादो न तच् चक्षुः, इति हि चक्षुश् (Śस्P_II-१_१७१) चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुषो ऽनुत्पादो न तच् चक्षुः,
SK
तथा हि भगवन् यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रम्, इति हि श्रोत्रं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यह् श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं,
SK
तथा हि भगवन् घ्राणस्यानुत्पादो न तद् घ्राणम्, इति हि घ्राणं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणस्यानुत्पादो न तद् घ्राणं,
SK
तथा हि भगवन् जिह्वाया अनुत्पादो न सा जिह्वा, इति हि जिह्वा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाया अनुत्पादो न सा जिह्वा,
SK
तथा हि यो भगवन् कायस्यानुत्पादो न स कायः, इति हि कायश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायस्यानुत्पादो न स कायः,
SK
तथा हि यो भगवन् मनसो ऽनुत्पादो न तन् मनः, इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनसो नुत्पादो न तन् मनः.
SK
यो भगवन् रूपस्यानुत्पादो न तद् रूपम्, इति हि रूपं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्यानुत्पादो न तद् रूपं,
SK
यो भगवन् शब्दस्यानुत्पादो न स शब्दः, इति हि शब्दश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शब्दस्यानुत्पादो न स शब्दः,
SK
यो भगवन् गन्धस्यानुत्पादो न स गन्धः, इति हि गन्धश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो गन्धस्यानुत्पादो न स गन्धः,
SK
यो भगवन् रसस्यानुत्पादो न स रसः, इति हि रसश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रसस्यानुत्पादो न सो रसः,
SK
यो भगवन् स्पर्शस्यानुत्पादो न स स्पर्श, इति हि स्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्यानुत्पादो न स स्पर्शः,
SK
यो भगवन् धर्माणाम् अनुत्पादो न ते धर्माः, इति हि धर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्माणाम् अनुत्पादो न ते धर्माः,
SK
यो भगवन् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं,
SK
यो भगवन् श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं,
SK
यो भगवन् घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं,
SK
यो भगवन् जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं,
SK
यो भगवन् कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानम्, इति हि कायविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं,
SK
यो भगवन् मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्, इति हि मनोविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् (Śस्P_II-१_१७३) यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानं,
SK
यो भगवन् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः,
SK
यो भगवन् श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्परः, इति हि श्रोत्रसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः,
SK
यो भगवन् घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्परः, इति हि घ्राणसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः,
SK
यो भगवन् जिह्वासंस्पर्शस्यानुत्पादो न तन् जिह्वासंस्पर्शअः, इति हि जिह्वासंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः,
SK
यो भगवन् कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शअः, इति हि कायसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः,
SK
यो भगवन् मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शअः, इति हि मनःसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः,
SK
यो भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना,
SK
यो भगवञ् छ्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद (Śस्P_II-१_१७४) एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, इति हि पृथिवीधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः,
SK
यो भगवन् अब्धातोर् अनुत्पादो न सो ऽब्धातुः, इति ह्य् अब्धातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः,
SK
यो भगवंस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, इति हि तेजोधातुश् (Śस्P_II-१_१७५) चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तेजोधातोर् अनुत्पादो न स तेजोधातुः,
SK
यो भगवन् वायुधातोर् अनुत्पादो न स वायुधातुः, इति हि वायुधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वायुधातोर् अनुत्पादो न सो वायुधातुः,
SK
यो भगवन्न् आकाशधातोर् अनुत्पादो न स आकाशधातुः, इति ह्य् आकाशधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आकाशधातोर् अनुत्पादो न स आकाशधातुः,
SK
यो भगवन् विज्ञानधातोर् अनुत्पादो न स विज्ञानधातुः, इति हि विज्ञानधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानधातोर् अनुत्पादो न सो विज्ञानधातुः,
SK
यो भगवन्न् अविद्याया अनुत्पादो न साविद्या, इति ह्य् अविद्या चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽविद्याया अनुत्पादो न साविद्या,
SK
यो भगवन् संस्काराणाम् अनुत्पादो न ते संस्काराः, इति हि संस्काराश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं,तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो संस्काराणाम् अनुत्पादो न ते संस्काराः,
SK
यो भगवन् विज्ञानस्यानुत्पादो न तद् विज्ञानम्, इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्यानुत्पादो न तद् विज्ञानं,
SK
यो भगवन् नामरूपस्यानुत्पादो न तन् नामरूपम्, इति हि नामरूपं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो नामरूपस्यानुत्पादो न तन् नामरूपं,
SK
यो भगवन् षडायतनस्यानुत्पादो न तत् षडायतनम्, इति हि षडायतनञ् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् (Śस्P_II-१_१७६) यः षडायतनस्यानुत्पादो न तत् षडायतनं,
SK
यो भगवन् स्पर्शस्यानुत्पादो न स स्पर्शः, इति हि स्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्यानुत्पादो न स स्पर्शः,
SK
यो भगवन् वेदनाया अनुत्पादो न सा वेदना, इति हि वेदनाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया अनुत्पादो न सा वेदना,
SK
यो भगवन् तृष्णाया अनुत्पादो न सा तृष्णा, इति हि तृष्णाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तृष्णाया अनुत्पादो न सा तृष्णा,
SK
यो भगवन् उपादानस्यानुत्पादो न तद् उपादानम्, इति ह्य् उपादानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य उपादानस्यानुत्पादो न तद् उपादानं,
SK
यो भगवन् भवस्यानुत्पादो न स भवः, इति हि भवश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो भवस्यानुत्पादो न स भवः,
SK
यो भगवन् जातेर् अनुत्पादो न सा जातिः, इति हि जातिश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जातिएर् अनुत्पादो न सा जातिः,
SK
यो भगवन् जरामरणस्यानुत्पादो न तज् जरामरणम्, इति हि जरामरणं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जरामरणस्यानुत्पादो न तज् जरामरणं,
SK
यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, इति हि दानपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो दानपारमिताया अनुत्पादो न सा दानपारमिता,
SK
यो भगवन् शीलपारमिताया अनुत्पादो न सा शीलपारमिता, इति हि शीलपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? (Śस्P_II-१_१७७) तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता,
SK
यो भगवन् क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता,
SK
यो भगवन् वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, इति हि वीर्यपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता,
SK
यो भगवन् ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, इति हि ध्यानपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता,
SK
यो भगवन् प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्नापारमिता,
SK
यो भगवन्न् अध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता,
SK
यो भगवन् बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता,
SK
यो भगवन्न् अध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, इति ह्य् अध्यात्मबहिर्धाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता,
SK
यो भगवन् शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, इति हि शून्यताशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् (Śस्P_II-१_१७८) यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता,
SK
यो भगवन् महाशून्यताया अनुत्पादो न सा महाशून्यता, इति हि महाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाशून्यताया अनुत्पादो न सा महाशून्यता,
SK
यो भगवन् परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, इति हि परमार्थशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता,
SK
यो भगवन् संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता,
SK
यो भगवन् असंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, इति ह्य् असंस्कृतशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता,
SK
यो भगवन् अत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, इति ह्य् अत्यन्तशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता,
SK
यो भगवन् अनवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, इति ह्य् अनवराग्रशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवराग्रशुन्यताया अनुत्पादो न सानवराग्रशून्यता,
SK
यो भगवन् अनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, इति ह्य् अनवकारशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता,
SK
यो भगवन् प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता,
SK
यो भगवन् सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, (Śस्P_II-१_१७९) इति हि सर्वधर्मशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता,
SK
यो भगवन् स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता,
SK
यो भगवन् अनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, इति ह्य् अनुपलम्भशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपलम्भशून्यताया अनुत्पादो न स ऽनुपलम्भशून्यता,
SK
यो भगवन् अभावशून्यताया अनुत्पादो न साभावशून्यता, इति ह्य् अभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता,
SK
यो भगवन् स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, इति हि स्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता,
SK
यो भगवन् अभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता, इति ह्य् अभावस्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावस्वभावशून्यताया अनुत्पादो न स ऽभावस्वभावशून्यता,
SK
यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानीति हि स्मृत्युपस्थानानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि,
SK
यो भगवन् सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि,
SK
यो भगवन्न् ऋद्धिपादानाम् अनुत्पादो न ते ऋद्धिपादा इति ह्य् ऋद्धिपादाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य् अ ऋद्धिपादानाम् अनुत्पादो न त ऋद्धिपादाः,
SK
यो भगवन्न् इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणीति हीन्द्रियाणि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि,
SK
यो भगवन् बलानाम् अनुत्पादो न तानि बलानीति हि बलानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बलानाम् अनुत्पादो न तानि बलानि,
SK
यो भगवन् बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानीति हि बोध्यङ्गानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि,
SK
यो भगवन्न् आर्याष्टाङ्गमार्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्ग इति ह्य् आर्याष्टाङ्गमार्गश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्याष्टाङ्गमार्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्गः,
SK
यो भगवन्न् आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानीति हि आर्यसत्यानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य् अ आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि,
SK
यो भगवन् ध्यानानाम् अनुत्पादो न तानि ध्यानानीति हि ध्यानानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानानाम् अनुत्पादो न तानि ध्यानानि,
SK
यो भगवन्न् अप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानीति ह्य् अप्रमाणानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि,
SK
यो भगवन्न् आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तय इति ह्य् आरूप्यसमापत्तयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. (Śस्P_II-१_१८१) तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तयः,
SK
यो भगवन् विमोक्षाणाम् अनुत्पादो न ते विमोक्षा इति हि विमोक्षाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः,
SK
यो भगवन्न् अनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तय इति ह्य् अनुपूर्वविहारसमापत्तयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो नुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः,
SK
यो भगवन्न् शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि,
SK
यो भगवन्न् अभिज्ञानाम् अनुत्पादो न ता अभिज्ञा इति ह्य् अभिज्ञाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभिज्ञानाम् अनुत्पादो न ता अभिज्ञाः,
SK
यो भगवन् समाधीनाम् अनुत्पादो न ते समाधय इति ह्य् समाधयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः समाधीनाम् अनुत्पादो न ते समाधयः,
SK
यो भगवन्न् धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानीति ह्य् धारणीमुखानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धारणीमुखानाम् अनुत्पादो न तान्य् धारणीमुखानि,
SK
यो भगवन् दशतथागतबलानाम् अनुत्पादो न तानि दशतथागतबलानीति हि दशतथागतबलानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो दशतथागतबलानाम् अनुत्पादो न तानि दशतथागतबलानि,
SK
यो भगवन् वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानीति हि वैशारद्यानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि,
SK
यो भगवन् प्रतिसंविदाम् अनुत्पादो न ताः प्रतिसंविद इति हि प्रतिसंविदश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रतिसंविदाम् अनुत्पादो न ताः प्रतिसंविदः,
SK
यो भगवन् महामैत्र्या अनुत्पादो न स महामैत्री इति हि महामैत्री चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महामैत्र्या अनुत्पादो न सा महामैत्री,
SK
यो भगवन् महाकरुणाया अनुत्पादो न सा महाकरुणा, इति हि महाकरुणा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाकरुणाया अनुत्पादो न सा महाकरुणा,
SK
यो भगवन्न् अष्टादशावेणिकबुद्धधर्मानाम् अनुत्पादो न त आवेणिकबुद्धधर्मा इति ह्य् आवेणिकबुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः,
SK
यो भगवन् तथताया अनुत्पादो न स तथता, इति हि तथता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तथताया अनुत्पादो न स तथता,
SK
यो भगवन् धर्मताया अनुत्पादो न ता धर्मता, इति हि धर्मता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मताया अनुत्पादो न सा धर्मता,
SK
यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, इति हि धर्मधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मधातोर् अनुत्पादो न स धर्मधातुः,
SK
यो भगवन् धर्मनियामताया अनुत्पादो न स धर्मनियामता, इति हि (Śस्P_II-१_१८३) धर्मनियामता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मनियामताया अनुत्पादो न त धर्मनियामता,
SK
यो भगवन् भूतकोटेर् अनुत्पादो न सा भूतकोटिर् इति हि भूतकोटिश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो भूतकोटेर् अनुत्पादो न सा भूतकोटिः,
SK
यो भगवन्न् अचिन्त्यधातोर् अनुत्पादो न सो ऽचिन्त्यहातुः, इति ह्य् अचिन्त्यधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽचिन्त्यधातोर् अनुत्पादो न सो ऽचिन्त्यधातुः,
SK
यो भगवन् सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, इति हि सर्वज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं,तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता,
SK
यो भगवन् मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता,
SK
यो भगवन् सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
SK
यो भगवन् रूपस्य व्ययो न तद् रूपम्, इति हि रूपञ् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्य व्ययो न तद् रूपं,
SK
यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययस् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया व्ययो न सा वेदना,
SK
यो भगवन् संज्ञाया व्ययो न सा संज्ञा, इति हि संज्ञा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न (Śस्P_II-१_१८४) व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संज्ञाया व्ययो न सा संज्ञा,
SK
यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कारानां व्ययो न ते संस्काराः,
SK
यो भगवन् विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्य व्ययो न तद् विज्ञानम्.
SK
यो भगवन् चक्षुषो व्ययो न तच् चक्षुः, इति हि चक्षुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुषो व्ययो न तच् चक्षुः,
SK
यो भगवन् छ्रोत्रस्य व्ययो न तच् छ्रोत्रम्, इति हि श्रोत्रं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं,
SK
यो भगवन् घ्राणस्य व्ययो न तद् घ्राणम्, इति हि घ्राणं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणस्य व्ययो न तद् घ्राणं,
SK
यो भगवन् जिह्वाया व्ययो न सा जिह्वा, इति हि जिह्वा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाया व्ययो न सा जिह्वा,
SK
यो भगवन् कायस्य व्ययो न स कायः, इति हि कायश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायस्य व्ययो न स कायः,
SK
यो भगवन् मनसो व्ययो न तन् मनः, इति हि मनश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनसो व्ययो न तन् मनः.
SK
यो भगवन् रूपस्य व्ययो न तद् रूपम् इति हि रूपं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्य व्ययो न तद् रूपं,
SK
यो भगवन् शब्दस्य व्ययो न सः शब्दः, इति हि शब्दश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शब्दस्य व्ययो न सः शब्दः,
SK
यो भगवन् गन्धस्य व्ययो न स गन्धः, इति हि गन्धश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो गन्धस्य व्ययो न स गन्धः,
SK
यो भगवन् रसस्य व्ययो न स रसः, इति हि रसश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रसस्य व्ययो न स रसः,
SK
यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्य व्ययो न स स्पर्शः,
SK
यो भगवन् धर्माणां व्ययो न ते धर्माः, इति हि धर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्माणां व्ययो न ते धर्माः,
SK
यो भगवन् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं,
SK
यो भगवन् छ्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं,
SK
यो भगवन् घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? (Śस्P_II-१_१८६) तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानं,
SK
यो भगवन् जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानं,
SK
यो भगवन् कायविज्ञानस्य व्ययो न तत् कायविज्ञानम्, इति हि कायविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायविज्ञानस्य व्ययो न तत् कायविज्ञानं,
SK
यो भगवन् मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्, इति हि मनोविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.
SK
यो भगवन् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः,
SK
यो भगवञ् छ्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, इति हि श्रोत्रसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शस्स्य व्ययो न स श्रोत्रसंस्पर्शः,
SK
यो भगवन् घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, इति हि घ्राणसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः,
SK
यो भगवन् जिह्वासंस्पर्शस्य व्ययो न स जिह्वसंस्पर्शः, इति हि जिह्वासंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः,
SK
यो भगवन् कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, इति हि कायसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः,
SK
यो भगवन् मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः, इति हि मनःसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.
SK
यो भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना,
SK
यो भगवञ् छ्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना,
SK
यो भगवन् मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.
SK
यो भगवन् पृथिवीधातोर् व्ययो न स पृथिवीधातुः, इति हि पृथिवीधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः,
SK
यो भगवन्न् अब्धातोर् व्ययो न सो ऽब्धातुः, इति ह्य् अब्धातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽब्धातोर् व्ययो न सो ऽब्धातुः,
SK
यो भगवंस् तेजोधातोर् व्ययो न स तेजोधातुः, इति हि तेजोधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः तेजोधातोर् व्ययो न स तेजोधातुः,
SK
यो भगवन् वायुधातोर् व्ययो न स वायुधातुः, इति हि वायुधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वायुधातोर् व्ययो न सो वायुधातुः,
SK
यो भगवन्न् आकाशधातोर् व्ययो न स अकाशधातुः, इति ह्य् आकाशधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आकाशधातोर् व्ययो न स आकाशधातुः,
SK
यो भगवन् विज्ञानधातोर् व्ययो न स विज्ञानधातुः, इति हि विज्ञानधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानधातोर् व्ययो न सो विज्ञानधातुः.
SK
यो भगवन्न् अविद्याया व्ययो न साविद्या, इति ह्य् अविद्या च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽविद्याया व्ययो न साविद्या,
SK
यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्काराणां व्ययो न ते संस्काराः,
SK
यो भगवन् विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् (Śस्P_II-१_१८९) न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्य व्ययो न तद् विज्ञानं,
SK
यो भगवन् नामरूपस्य व्ययो न तन् नामरूपम्, इति हि नामरूपं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो नामरूपस्य व्ययो न तन् नामरूपं,
SK
यो भगवन् षडायतनस्य व्ययो न तत् षडायतनम्, इति हि षडायतनञ् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः षडायतनस्य व्ययो न तत् षडायतनं,
SK
यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्य व्ययो न स स्पर्शः,
SK
यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया व्ययो न सा वेदना,
SK
यो भगवन् तृष्णाया व्ययो न सा तृष्णा, इति हि तृष्णा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः तृष्णाया व्ययो न सा तृष्णा,
SK
यो भगवन् उपादानस्य व्ययो न तद् उपादानम्, इति ह्य् उपादानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य उपादानस्य व्ययो न तद् उपादानं,
SK
यो भगवन् भवस्य व्ययो न स भवः, इति हि भवश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो भवस्य व्ययो न स भवः,
SK
यो भगवन् जातेर् व्ययो न सा जातिः, इति हि जातिश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जातेर् व्ययो न सा जातिः,
SK
यो भगवन् जरामरणस्य व्ययो न तज् जरामरणम्, इति हि (Śस्P_II-१_१९०) जरामरणं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जरामरणस्य व्ययो न तज् जरामरणम्.
SK
यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, इति हि दानपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो दानपारमिताया व्ययो न सा दानपारमिता,
SK
यो भगवन् शीलपारमिताया व्ययो न सा शीलपारमिता, इति हि शीलपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शीलपारमिताया व्ययो न सा शीलपारमिता,
SK
यो भगवन् क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता,
SK
यो भगवन् वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, इति हि वीर्यपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता,
SK
यो भगवन् ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, इति हि ध्यानपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता,
SK
यो भगवन् प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.
SK
यो भगवन्न् अध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता,
SK
यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, (Śस्P_II-१_१९१) तस्माद् यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता,
SK
यो भगवन्न् अध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, इति ह्य् अध्यात्मबहिर्धाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता,
SK
यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, इति हि शून्यताशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता,
SK
यो भगवन् महाशून्यताया व्ययो न सा महाशून्यता, इति हि महाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाशून्यताया व्ययो न सा महाशून्यता,
SK
यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, इति हि परमार्थशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता,
SK
यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता,
SK
यो भगवन्न् असंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, इति ह्य् असंस्कृतशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता,
SK
यो भगवन्न् अत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, इति ह्य् अत्यन्तशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता,
SK
यो भगवन्न् अनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, इति ह्य् अनवराग्रशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता,
SK
यो भगवन्न् अनवकारशून्यताया व्ययो न सानवकारशून्यता, इति ह्य् अनवकारशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता,
SK
यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता,
SK
यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, इति हि सर्वधर्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता,
SK
यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता,
SK
यो भगवन्न् अनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, इति ह्य् अनुपलम्भशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता,
SK
यो भगवन्न् अभावशून्यताया व्ययो न साभावशून्यता, इति ह्य् अभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावशून्यताया व्ययो न साभावशून्यता,
SK
यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, इति हि स्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता,
SK
यो भगवन्न् अभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता, इति ह्य् अभावस्वभावशुन्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता,
SK
यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानीति (Śस्P_II-१_१९३) हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि,
SK
यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि,
SK
यो भगवन्न् ऋद्धिपादानां व्ययो न ते ऋद्धिपादा, इति ह्य् ऋद्धिपादाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः,
SK
यो भगवन्न् इन्द्रियाणां व्ययो न तानीन्द्रियाणि, इति हीन्द्रियाणि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य इन्द्रियाणां व्ययो न तानीन्द्रियाणि,
SK
यो भगवन् बलानां व्ययो न तानि बलानि, इति हि बलानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो बलानां व्ययो न तानि बलानि,
SK
यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, इति हि बोध्यङ्गानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि,
SK
यो भगवन्न् आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गो मार्ग इति ह्य् आर्याष्टाङ्गमार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः,
SK
यो भगवन्न् आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, इति हि आर्यसत्यानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि,
SK
यो भगवन् ध्यानानां व्ययो न तानि ध्यानानीति हि ध्यानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानानां व्ययो (Śस्P_II-१_१९४) न तानि ध्यानानि,
SK
यो भगवन्न् अप्रमाणानां व्ययो न तान्य् अप्रमाणानीति ह्य् अप्रमाणानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽप्रमाणानां व्ययो न तान्य् अप्रमाणानि,
SK
यो भगवन्न् आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तय इति ह्य् आरूप्यसमापत्तयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः,
SK
यो भगवन् विमोक्षाणां व्ययो न ते विमोक्षा इति हि विमोक्षाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विमोक्षाणां व्ययो न ते विमोक्षाः,
SK
यो भगवन् नवानुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, इति ह्य् अनुपूर्वविहारसमापत्तयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः,
SK
यो भगवञ् छून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि,
SK
यो भगवन्न् अभिज्ञानां व्ययो न ता अभिज्ञा, इति ह्य् अभिज्ञाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः,
SK
यो भगवन् समाधीनां व्ययो न ते समाधयः, इति हि समाधयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः समाधीनां व्ययो न ते समाधयः,
SK
यो भगवन् धारणीमुखानां व्ययो न तानि धारणीमुखानीति ह्य् धारणीमुखानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? (Śस्P_II-१_१९५) तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो धारणीमुखानां व्ययो न तानि धारणीमुखानि,
SK
यो भगवन् दशतथागतबलानां व्ययो न तानि दशतथागतबलानीति हि दशतथागतबलानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो दशतथागतबलानां व्ययो न तानि दशतथागतबलानि,
SK
यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानीति हि वैशारद्यानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वैशारद्यानां व्ययो न तानि वैशारद्यानि,
SK
यो भगवन् प्रतिसंविदां व्ययो न ताः प्रतिसंविद इति हि प्रतिसंविदश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः,
SK
यो भगवन् महामैत्र्या व्ययो न सा महामैत्री, इति हि महामैत्री च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महामैत्र्या व्ययो न सा महामैत्री,
SK
यो भगवन् महाकरुणाया व्ययो न सा महाकरुणा, इति हि महाकरुणा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाकरुणाया व्ययो न सा महाकरुणा,
SK
यो भगवन्न् अष्टादशावेणिकानां बुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, इति ह्य् आवेणिकबुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः,
SK
यो भगवन् सर्वज्ञताया व्ययो न सा सर्वज्ञता, इति हि सर्वज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वज्ञताया व्ययो न सा सर्वज्ञता,
SK
यो भगवन् मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो (Śस्P_II-१_१९६) मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता,
SK
यो भगवन् सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
SK
यत् पुनर् भ्गवान् उच्यते रूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संज्ञेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कारा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते चक्षुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते काय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मन इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते रूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शब्द इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते गन्ध इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते रस इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते धर्मा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा (Śस्P_II-१_१९७) गणना कृता, यद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते अब्धातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते तेजोधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वायुधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आकाशधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते ऽविद्येत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कारा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते नामरूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते षडायतनम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते तृष्णेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते उपादानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते भव इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जातिर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जरामरणाम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा (Śस्P_II-१_१९८) गणना कृता.
SK
यद् उच्यते दानपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शीलपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वीर्यपारमितेत्य् अद्वयस्यासंमोषस्यधर्मस्यैषा गणना कृता, यद् उच्यते ध्यानपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शून्यताशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते परमार्थशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽत्यन्तशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनवराग्रशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्या संमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्वभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.
SK
यद् उच्यते स्मृत्युपस्थानानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सम्यक्प्रहाणानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऋद्धिपादा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते इन्द्रियानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते बलानीत्य् अद्वयस्यासंमोषस्य (Śस्P_II-१_१९९) धर्मस्यैषा गणना कृता, यद् उच्यते बोध्यङ्गानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आर्याष्टाङ्गो मार्ग इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आर्यसत्यानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ध्यानानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽप्रमाणानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आरूप्यसमापत्तय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विमोक्षा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते नवानुपूर्वविहारसमापत्तय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभिज्ञा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते समाधय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते धारणीमुखानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते दशतथागतबलानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते चत्वारि वैशारद्यानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते चतस्रः प्रतिसंविद इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महामैत्रीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महाकरुणेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽष्टादशावेणिकबुद्धधर्मा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता इति.
SK
शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो द्वादशः
SK
Śअतसाहस्रिका Pरज्ञापारमिता, II-२
SK
अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते? कतम आयुष्मन् सुभूते बोधिसत्त्वः? कतमा प्रज्ञापारमिता? कतमोपपरीक्षा?
SK
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: यद् आयुष्मञ् छारद्वतीपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिर् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणाम् आकारान् जानाति न च तान् धर्मान् अभिनिविशते. कतमेषां धर्माणाम् आकारान् जानाति?
SK
रूपस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, संज्ञाया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणाम् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते.
SK
चक्षुष आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाया आकारान् जानाति न च तत्राभिनिविशते, कायस्याकारान् जानाति न च तत्राभिनिविशते, मनस आकारान् जानाति न च तत्राभिनिविशते.
SK
रूपस्याकारान् जानाति न च तत्राभिनिविशते, शब्दस्याकारान् जानाति न च तत्राभिनिविशते, गन्धस्याकारान् जानाति न च तत्राभिनिविशते, रसस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, धर्माणाम् आकारान् जानाति न च तत्राभिनिविशते.
SK
चक्षुर्विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, कायविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, मनोविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते.
SK
चक्षुःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शस्याकारान् (Śस्P II-२ २) जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते.
SK
पृथिवीधातोर् आकारान् जानाति न च तत्राभिनिविशते, अब्धातोर् आकारान् जानाति न च तत्राभिनिविशते, तेजोधातोर् आकारान् जानाति न च तत्राभिनिविशते, वायुधातोर् आकारान् जानाति न च तत्राभिनिविशते, आकाशधातोर् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानधातोर् आकारान् जानाति न च तत्राभिनिविशते.
SK
अविद्याया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणाम् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, नामरूपस्याकारान् जानाति न च तत्राभिनिविशते, षडायतनस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, तृष्णाया आकारान् जानाति न च तत्राभिनिविशते, उपादानस्याकारान् जानाति न च तत्राभिनिविशते, भवस्याकारान् जानाति न च तत्राभिनिविशते, जातेर् आकारान् जानाति न च तत्राभिनिविशते, जरामरणस्याकारान् जानाति न च तत्राभिनिविशते.
SK
दानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, शीलपारमिताया आकारान् जानाति न च तत्राभिनिविशते, क्षान्तिपारमिताया आकारान् जानाति न च तत्राभिनिविशते, वीर्यपारमिताया आकारान् जानाति न च तत्राभिनिविशते, ध्यानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, प्रज्ञापारमिताया आकारान् जानाति न च तत्राभिनिविशते.
SK
अध्यात्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, बहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अध्यात्मबहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, शून्यताशून्यताया आकारान् जानाति न च तत्राभिनिविशते, महाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, परमार्थशून्यताया आकारान् जानाति न च तत्राभिनिविशते, संस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, असंस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अत्यन्तशून्यताया आकारान् जानाति न च (Śस्P II-२ ३) तत्राभिनिविशते, अनवराग्रशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनवकारशून्यताया आकारान् जानाति न च तत्राभिनिविशते, प्रकृतिशून्यताया आकारान् जानाति न च तत्राभिनिविशते, सर्वधर्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वलक्षणशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनुपलम्भशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावस्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते.
SK
स्मृत्युपस्थानानाम् आकारान् जानाति न च तत्राभिनिविशते, सम्यक्प्रहाणानाम् आकारान् जानाति न च तत्राभिनिविशते, ऋद्धिपादानाम् आकारान् जानाति न च तत्राभिनिविशते, इन्द्रियाणाम् आकारान् जानाति न च तत्राभिनिविशते, बलानाम् आकारान् जानाति न च तत्राभिनिविशते, बोध्यङ्गानाम् आकारान् जानाति न च तत्राभिनिविशते, आर्याष्टाङ्गमार्गस्याकारान् जानाति न च तत्राभिनिविशते, आर्यसत्यानाम् आकारान् जानाति न च तत्राभिनिविशते.
SK
ध्यानानाम् आकारान् जानाति न च तत्राभिनिविशते, अप्रमाणानाम् आकारान् जानाति न च तत्राभिनिविशते, आरूप्यसमापत्तीनाम् आकारान् जानाति न च तत्राभिनिविशते, विमोक्षाणाम् आकारान् जानाति न च तत्राभिनिविशते, अनुपूर्वविहारसमापत्तीनाम् आकारान् जानाति न च तत्राभिनिविशते.
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् आकारान् जानाति न च तत्राभिनिविशते, अभिज्ञानाम् आकारान् जानाति न च तत्राभिनिविशते, समाधीनाम् आकारान् जानाति न च तत्राभिनिविशते, धारणीमुखानाम् आकारान् जानाति न च तत्राभिनिविशते, तथागतबलानाम् आकारान् जानाति न च तत्राभिनिविशते, वैशारद्यानाम् आकारान् जानाति न च तत्राभिनिविशते, प्रतिसंविदाम् आकारान् जानाति न च तत्राभिनिविशते, महामैत्र्या आकारान् जानाति न च तत्राभिनिविशते, महाकरुणाया आकारान् जानाति न च तत्राभिनिविशते, अष्टादशावेणिकबुद्धधर्माणाम् आकारान् जानाति न च तत्राभिनिविशते.
SK
आह: कतमे आयुष्मन् सुभूते सर्वधर्माणाम् आकाराः?
SK
सुभूतिर् आह: यैर् आयुष्मञ् छारद्वतीपुत्राकारैर् यैर् लिङ्गैर् यैर् निमित्तैः सर्वधर्मा आकार्यन्ते, यद् उत रूपैर् वा शब्दैर् वा गन्धैर् वा रसैर् वा स्पर्शैर् वा आध्यात्मिकैर् वा बाह्यैर् वा धर्मैः संस्कृतासंस्कृता धर्मा यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् आकार्यन्ते, इम उच्यन्ते सर्वधर्माणाम् आकाराः.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, कतमा प्रज्ञापारमितेति? आरमितैषायुष्मञ् छारद्वतीपुत्र यद् उच्यते प्रज्ञापारमिता. कस्माद् आरमिता? आरमितायुष्मञ् छारद्वतीपुत्र स्कन्धेभ्यस् तद् उच्यते.
SK
आरमिता आरता धातुभ्यस् तद् उच्यते, आरमिता आरता आयतनेभ्यस् तद् उच्यते, आरमिता आरता सर्वक्लेशेभ्यस् तद् उच्यते, आरमिता आरता सर्वदृष्टिगतेभ्यस् तद् उच्यते, आरमिता आरता षड्भ्यो गतिभ्यस् तद् उच्यते.
SK
आरमिता आरता दानपारमितायास् तद् उच्यते, आरमिता आरता शीलपारमितायास् तद् उच्यते, आरमिता आरता क्षान्तिपारमितायास् तद् उच्यते, आरमिता आरता वीर्यपारमितायास् तद् उच्यते, आरमिता आरता ध्यानपारमितायास् तद् उच्यते, आरमिता आरता प्रज्ञापारमितायास् तद् उच्यते.
SK
आरमिता आरताध्यात्मशून्यतायास् तद् उच्यते, आरमिता आरता बहिर्धाशून्यतायास् तद् उच्यते, आरमिता आरताध्यात्मबहिर्धाशून्यतायास् तद् उच्यते, आरमिता आरता शून्यताशून्यतायास् तद् उच्यते, आरमिता आरता महाशून्यतायास् तद् उच्यते, आरमिता आरता परमार्थशून्यतायास् तद् उच्यते, आरमिता आरता संस्कृतशून्यतायास् तद् उच्यते, आरमिता आरतासंस्कृतशून्यतायास् तद् उच्यते, आरमिता आरतात्यन्तशून्यतायास् तद् उच्यते, आरमिता आरतानवराग्रशून्यतायास् तद् उच्यते, आरमिता आरतानवकारशून्यतायास् तद् उच्यते, आरमिता आरता प्रकृतिशून्यतायास् तद् उच्यते, आरमिता आरता सर्वधर्मशून्यतायास् तद् उच्यते, आरमिता आरता स्वलक्षणशून्यतायास् तद् उच्यते, आरमिता आरतानुपलम्भशून्यतायास् तद् उच्यते, आरमिता आरताभावशून्यतायास् तद् उच्यते, आरमिता आरता स्वभावशून्यतायास् तद् उच्यते, आरमिता आरताभावस्वभावशून्यतायास् तद् उच्यते.
SK
आरमिता आरता स्मृत्युपस्थानेभ्यस् तद् उच्यते, आरमिता आरता सम्यक्प्रहाणेभ्यस् तद् उच्यते, आरमिता आरता ऋद्धिपादेभ्यस् तद् उच्यते, आरमिता आरता इन्द्रियेभ्यस् तद् उच्यते, आरमिता आरता बलेभ्यस् तद् उच्यते, आरमिता आरता बोध्यङ्गेभ्यस् तद् उच्यते, आरमिता आरता आर्याष्टाङ्गान् मार्गात् तद् उच्यते, आरमिता आरता आर्यसत्येभ्यस् तद् उच्यते, आरमिता आरता ध्यानेभ्यस् तद् उच्यते, आरमिता आरता अप्रमाणेभ्यस् तद् उच्यते, आरमिता आरता आरूप्यसमापत्तिभ्यस् तद् उच्यते, आरमिता आरता विमोक्षेभ्यस् तद् उच्यते, आरमिता आरता अनुपूर्वविहारसमापत्तिभ्यस् तद् उच्यते, आरमिता आरता शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस् तद् उच्यते, आरमिता आरता अभिज्ञाभ्यस् तद् उच्यते, आरमिता आरता समाधिभ्यस् तद् उच्यते, आरमिता आरता धारणीमुखेभ्यस् तद् उच्यते, आरमिता आरता तथागतबलेभ्यस् (Śस्P II-२ ५) तद् उच्यते, आरमिता आरता वैशारद्येभ्यस् तद् उच्यते, आरमिता आरता प्रतिसंविद्भ्यस् तद् उच्यते, आरमिता आरता महामैत्र्यास् तद् उच्यते, आरमिता आरता महाकरुणायास् तद् उच्यते, आरमिता आरता आवेणिकबुद्धधर्मेभ्यस् तद् उच्यते, आरमिता आरता सर्वज्ञतायास् तद् उच्यते, आरमिता आरता मार्गाकारज्ञतायास् तद् उच्यते, आरमिता आरता सर्वाकारज्ञतायास् तद् उच्यते.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणारमितैषा यद् उत प्रज्ञापारमिता.
SK
यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, कतमोपपरीक्षणेति, इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रूपं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न वेदनां नित्येत्य् उपपरीक्षते नानित्येति, न वेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न वेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न वेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न संज्ञां नित्येत्य् उपपरीक्षते नानित्येति, न संज्ञां सुखेत्य् उपपरीक्षते न दुःखेति, न संज्ञाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न संज्ञां शुभेत्य् उपपरीक्षते नाशुभेति, न संज्ञां शून्येत्य् उपपरीक्षते नाशून्येति, न संज्ञां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न संज्ञां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न संज्ञां शान्तेत्य् उपपरीक्षते नाशान्तेति, न संज्ञां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न संस्कारान् नित्या इत्य् उपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न संस्कारान् आत्मेत्य् उपपरीक्षते नानात्मान इति, न संस्कारान् शुभा इत्य् उपपरीक्षते नाशुभा इति, न संस्कारान् शून्या (Śस्P II-२ ६) इत्य् उपपरीक्षते नाशून्या इति, न संस्कारान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
न विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न चक्षुर् नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न चक्षुः सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न चक्षुर् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुः शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न चक्षुः शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न चक्षुर् निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न चक्षुः प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न चक्षुः शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न चक्षुर् विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न श्रोत्रं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न श्रोत्रं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न श्रोत्रम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न श्रोत्रं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न श्रोत्रं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न श्रोत्रं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न श्रोत्रं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न श्रोत्रं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न घ्राणं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न घ्राणं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न घ्राणम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न घ्राणं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न घ्राणं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न घ्राणं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न घ्राणं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न घ्राणं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न जिह्वां नित्येत्य् उपपरीक्षते नानित्येति, न जिह्वां सुखेत्य् उपपरीक्षते न दुःखेति, न जिह्वाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वां शुभेत्य् (Śस्P II-२ ७) उपपरीक्षते नाशुभेति, न जिह्वां शून्येत्य् उपपरीक्षते नाशून्येति, न जिह्वां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जिह्वां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जिह्वां शान्तेत्य् उपपरीक्षते नाशान्तेति, न जिह्वां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न कायं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न कायं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न कायम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न कायं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न कायं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न कायं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न कायं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न कायं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न मनो नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न मनः सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न मन आत्मेत्य् उपपरीक्षते नानात्मेति, न मनः शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न मनः शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न मनो निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न मनः प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न मनः शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न मनो विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न रूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रूपं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न शब्दं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न शब्दं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न शब्दम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शब्दं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न शब्दं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न शब्दं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न शब्दं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न शब्दं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न शब्दं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न गन्धं नित्य इत्य् उपपरीक्षते नानित्य इति, न गन्धं सुख इत्य् उपपरीक्षते न दुःख इति, न गन्धम् आत्मेत्य् उपपरीक्षते नानात्मेति, (Śस्P II-२ ८) न गन्धं शुभ इत्य् उपपरीक्षते नाशुभ इति, न गन्धं शून्य इत्य् उपपरीक्षते नाशून्य इति, न गन्धं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न गन्धं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न गन्धं शान्त इत्य् उपपरीक्षते नाशान्त इति, न गन्धं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न रसं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रसं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रसम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रसं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रसं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रसं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रसं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रसं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रसं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न स्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न स्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न धर्मान् नित्या इत्य् उपपरीक्षते नानित्या इति, न धर्मान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न धर्मान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, न धर्माञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, न धर्माञ् छून्या इत्य् उपपरीक्षते नाशून्या इति, न धर्मान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न धर्मान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न धर्मान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न धर्मान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
न चक्षुर्विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न चक्षुर्विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न चक्षुर्विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुर्विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न चक्षुर्विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न चक्षुर्विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न चक्षुर्विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न चक्षुर्विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न चक्षुर्विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न श्रोत्रविज्ञनं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न श्रोत्रविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न श्रोत्रविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न श्रोत्रविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न श्रोत्रविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न श्रोत्रविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न श्रोत्रविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न श्रोत्रविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न घ्राणविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न घ्राणविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न घ्राणविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न घ्राणविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न घ्राणविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न घ्राणविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न घ्राणविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न घ्राणविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न जिह्वाविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न जिह्वाविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न जिह्वाविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वाविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न जिह्वाविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न जिह्वाविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न जिह्वाविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न जिह्वाविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न जिह्वाविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न कायविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न कायविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न कायविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न कायविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न कायविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न कायविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न कायविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न कायविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न मनोविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न मनोविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न मनोविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनोविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न मनोविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न (Śस्P II-२ १०) मनोविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न मनोविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न मनोविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न मनोविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न चक्षुःसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न चक्षुःसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न चक्षुःसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न चक्षुःसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न चक्षुःसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न चक्षुःसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न चक्षुःसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न चक्षुःसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न श्रोत्रसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न श्रोत्रसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न श्रोत्रसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न श्रोत्रसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न श्रोत्रसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न श्रोत्रसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न श्रोत्रसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न श्रोत्रसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न घ्राणसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न घ्राणसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न घ्राणसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न घ्राणसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न घ्राणसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न घ्राणसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न घ्राणसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न घ्राणसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न जिह्वासंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न जिह्वासंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न जिह्वासंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न जिह्वासंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न जिह्वासंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न जिह्वासंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न जिह्वासंस्पर्शं शान्त इत्य् (Śस्P II-२ ११) उपपरीक्षते नाशान्त इति, न जिह्वासंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न कायसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न कायसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न कायसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न कायसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न कायसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न कायसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न कायसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न कायसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न मनःसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न मनःसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न मनःसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनःसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न मनःसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न मनःसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न मनःसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न मनःसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न मनःसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न चक्षुःसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न श्रोत्रसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां (Śस्P II-२ १२) शान्तेत्य् उपपरीक्षते नाशान्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न घ्राणसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न घ्राणसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न जिह्वासंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न जिह्वासंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न कायसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न कायसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न कायसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न कायसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न कायसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न कायसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न कायसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न कायसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न मनःसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न मनःसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न मनःसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनःसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न मनःसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न (Śस्P II-२ १३) मनःसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न मनःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न मनःसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न मनःसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न पृथिवीधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न पृथिवीधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न पृथिवीधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न पृथिवीधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न पृथिवीधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न पृथिवीधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न पृथिवीधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न पृथिवीधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न पृथिवीधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
नाब्धातुं नित्य इत्य् उपपरीक्षते नानित्य इति, नाब्धातुं सुख इत्य् उपपरीक्षते न दुःख इति, नाब्धातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाब्धातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, नाब्धातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, नाब्धातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नाब्धातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नाब्धातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, नाब्धातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न तेजोधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न तेजोधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न तेजोधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न तेजोधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न तेजोधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न तेजोधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न तेजोधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न तेजोधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न तेजोधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न वायुधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न वायुधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न वायुधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वायुधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न वायुधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न वायुधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न वायुधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न वायुधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न वायुधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
नाकाशधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, नाकाशधातुं (Śस्P II-२ १४) सुख इत्य् उपपरीक्षते न दुःख इति, नाकाशधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाकाशधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, नाकाशधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, नाकाशधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नाकाशधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नाकाशधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, नाकाशधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न विज्ञानधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न विज्ञानधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न विज्ञानधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न विज्ञानधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न विज्ञानधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न विज्ञानधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न विज्ञानधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न विज्ञानधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
नाविद्यां नित्येत्य् उपपरीक्षते नानित्येति, नाविद्यां सुखेत्य् उपपरीक्षते न दुःखेति, नाविद्याम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाविद्यां शुभेत्य् उपपरीक्षते नाशुभेति, नाविद्यां शून्येत्य् उपपरीक्षते नाशून्येति नाविद्यां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाविद्यां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाविद्यां शान्तेत्य् उपपरीक्षते नाशान्तेति नाविद्यां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न संस्कारान् नित्या इत्य् उपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न संस्कारान् आत्मा इत्य् उपपरीक्षते नानात्मा इति, न संस्कारान् शुभा इत्य् उपपरीक्षते नाशुभा इति, न संस्कारान् शून्या इत्य् उपपरीक्षते नाशून्या इति, न संस्कारान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
न विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न नामरूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न नामरूपं (Śस्P II-२ १५) सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न नामरूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न नामरूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न नामरूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न नामरूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न नामरूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न नामरूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न नामरूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न षडायतनं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न षडायतनं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न षडायतनम् आत्मेत्य् उपपरीक्षते नानात्मेति, न षडायतनं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न षडायतनं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न षडायतनं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न षडायतनं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न षडायतनं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न षडायतनं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न स्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न स्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न वेदनां नित्येत्य् उपपरीक्षते नानित्येति, न वेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न वेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न वेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न तृष्णाम् नित्येत्य् उपपरीक्षते नानित्येति, न तृष्णां सुखेत्य् उपपरीक्षते न दुःखेति, न तृष्णाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न तृष्णां शुभेत्य् उपपरीक्षते नाशुभेति, न तृष्णां शून्येत्य् उपपरीक्षते नाशून्येति, न तृष्णां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न तृष्णां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न तृष्णां शान्तेत्य् उपपरीक्षते नाशान्तेति, न तृष्णां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नोपादानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, नोपादानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, नोपादानम् आत्मेत्य् उपपरीक्षते नानात्मेति, (Śस्P II-२ १६) नोपादानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, नोपादानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, नोपादानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, नोपादानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, नोपादानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, नोपादानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न भवं नित्य इत्य् उपपरीक्षते नानित्य इति, न भवं सुख इत्य् उपपरीक्षते न दुःख इति, न भवम् आत्मेत्य् उपपरीक्षते नानात्मेति, न भवं शुभ इत्य् उपपरीक्षते नाशुभ इति, न भवं शून्य इत्य् उपपरीक्षते नाशून्य इति, न भवं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न भवं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न भवं शान्त इत्य् उपपरीक्षते नाशान्त इति, न भवं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
न जातिं नित्येत्य् उपपरीक्षते नानित्येति, न जातिं सुखेत्य् उपपरीक्षते न दुःखेति, न जातिम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जातिं शुभेत्य् उपपरीक्षते नाशुभेति, न जातिं शून्येत्य् उपपरीक्षते नाशून्येति, न जातिं निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जातिं प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जातिं शान्तेत्य् उपपरीक्षते नाशान्तेति, न जातिं विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न जरामरणं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न जरामरणं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न जरामरणम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जरामरणं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न जरामरणं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न जरामरणं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न जरामरणं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न जरामरणं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न जरामरणं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
SK
न दानपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न दानपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न दानपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न दानपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न दानपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न दानपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न दानपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न दानपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न दानपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न शीलपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न शीलपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न शीलपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शीलपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न शीलपारमितां (Śस्P II-२ १७) शून्येत्य् उपपरीक्षते नाशून्येति, न शीलपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न शीलपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न शीलपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न शीलपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न क्षान्तिपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न क्षान्तिपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न क्षान्तिपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न क्षान्तिपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न क्षान्तिपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न क्षान्तिपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न क्षान्तिपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न क्षान्तिपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न क्षान्तिपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न वीर्यपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न वीर्यपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न वीर्यपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वीर्यपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न वीर्यपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न वीर्यपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वीर्यपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वीर्यपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वीर्यपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न ध्यानपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न ध्यानपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न ध्यानपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न ध्यानपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न ध्यानपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न ध्यानपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न ध्यानपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न ध्यानपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न ध्यानपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न प्रज्ञापारमितां नित्येत्य् उपपरीक्षते नानित्येति, न प्रज्ञापारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न प्रज्ञापारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न प्रज्ञापारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न प्रज्ञापारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न प्रज्ञापारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न प्रज्ञापारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न प्रज्ञापारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न प्रज्ञापारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नाध्यात्मशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाध्यात्मशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाध्यात्मशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाध्यात्मशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाध्यात्मशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाध्यात्मशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाध्यात्मशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाध्यात्मशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाध्यात्मशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न बहिर्धाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न बहिर्धाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न बहिर्धाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न बहिर्धाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न बहिर्धाशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न बहिर्धाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न बहिर्धाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न बहिर्धाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न बहिर्धाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नाध्यात्मबहिर्धाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाध्यात्मबहिर्धाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाध्यात्मबहिर्धाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाध्यात्मबहिर्धाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाध्यात्मबहिर्धाशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाध्यात्मबहिर्धाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाध्यात्मबहिर्धाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाध्यात्मबहिर्धाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाध्यात्मबहिर्धाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न शून्यताशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न शून्यताशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न शून्यताशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शून्यताशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न शून्यताशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न शून्यताशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न शून्यताशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न शून्यताशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न शून्यताशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न महाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न महाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न महाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न महाशून्यतां (Śस्P II-२ १९) शून्येत्य् उपपरीक्षते नाशून्येति, न महाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न महाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न परमार्थशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न परमार्थशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न परमार्थशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न परमार्थशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न परमार्थशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न परमार्थशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति,न परमार्थशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न परमार्थशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न परमार्थशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न संस्कृतशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न संस्कृतशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न संस्कृतशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न संस्कृतशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न संस्कृतशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न संस्कृतशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न संस्कृतशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न संस्कृतशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न संस्कृतशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नासंस्कृतशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नासंस्कृतशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नासंस्कृतशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नासंस्कृतशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नासंस्कृतशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नासंस्कृतशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नासंस्कृतशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नासंस्कृतशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नासंस्कृतशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नात्यन्तशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नात्यन्तशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नात्यन्तशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नात्यन्तशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नात्यन्तशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नात्यन्तशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नात्यन्तशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नात्यन्तशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नात्यन्तशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नानवराग्रशून्यतां नित्येत्य् उपपन्क्षते नानित्येति, नानवराग्रशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानवराग्रशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानवराग्रशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानवराग्रशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानवराग्रशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानवराग्रशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानवराग्रशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानवराग्रशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नानवकारशून्यतां नित्येत्य् उपपरीक्षते ञानित्येति, नानवकारशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानवकारशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानवकारशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानवकारशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानवकारशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानवकारशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानवकारशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानवकारशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न प्रकृतिशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न प्रकृतिशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न प्रकृतिशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न प्रकृतिशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न प्रकृतिशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न प्रकृतिशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न प्रकृतिशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न प्रकृतिशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न प्रकृतिशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न सर्वधर्मशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वधर्मशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वधर्मशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वधर्मशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वधर्मशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वधर्मशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वधर्मशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वधर्मशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वधर्मशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न स्वलक्षणशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न स्वलक्षणशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न स्वलक्षणशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्वलक्षणशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न स्वलक्षणशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न (Śस्P II-२ २१) स्वलक्षणशुन्यतं निमित्तेत्य् उपपरीक्षते ननिमित्तेति, न स्वलक्षणशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न स्वलक्षणशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न स्वलक्षणशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नानुपलम्भशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नानुपलम्भशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानुपलम्भशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानुपलम्भशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानुपलम्भशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानुपलम्भशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानुपलम्भशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानुपलम्भशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानुपलम्भशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नाभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न स्वभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न स्वभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न स्वभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्वभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न स्वभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न स्वभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न स्वभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न स्वभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न स्वभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नाभावस्वभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाभावस्वभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाभावस्वभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाभावस्वभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाभावस्वभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाभावस्वभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाभावस्वभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाभावस्वभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, (Śस्P II-२ २२) नाभावस्वभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न स्मृत्युपस्थानानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न स्मृत्य् उपस्थानानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न स्मृत्युपस्थानान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न स्मृत्युपस्थानानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न स्मृत्युपस्थानानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न स्मृत्युपस्थानानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति न स्मृत्युपस्थानानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न स्मृत्युपस्थानानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न स्मृत्युपस्थानानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
न सम्यक्प्रहाणानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न सम्यक्प्रहाणानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न सम्यक्प्रहाणान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न सम्यक्प्रहाणानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न सम्यक्प्रहाणानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न सम्यक्प्रहाणानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न सम्यक्प्रहाणानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न सम्यक्प्रहाणानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न सम्यक्प्रहाणानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
नर्द्धिपादान् नित्या इत्य् उपपरीक्षते नानित्या इति, नर्द्धिपादान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नर्द्धिपादान् आत्मान इत्य् उपपरीक्षते नात्मान इति, नर्द्धिपादान् शुभा इत्य् उपपरीक्षते नाशुभा इति, नर्द्धिपादान् शून्या इत्य् उपपरीक्षते नाशून्या इति, नर्द्धिपादान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नर्द्धिपादान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति नर्द्धिपादान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नर्द्धिपादान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
नेन्द्रियाणि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नेन्द्रियाणि सुखानीत्य् उपपरीक्षते न दुःखानीति, नेन्द्रियाण्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति नेन्द्रियाणि शुभानीत्य् उपपरीक्षते नाशुभानीति, नेन्द्रियाणि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नेन्द्रियाणि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति नेन्द्रियाणि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नेन्द्रियाणि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नेन्द्रियाणि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
न बलानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न बलानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न बलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति न बलानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न बलानि शून्यानीत्य् (Śस्P II-२ २३) उपपरीक्षते नाशून्यानीति, न बलानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न बलानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न बलानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न बलानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
न बोध्यङ्गानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न बोध्यङ्गानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न बलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न बोध्यङ्गानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न बोध्यङ्गानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न बोध्यङ्गानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न बोध्यङ्गानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न बोध्यङ्गानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न बोध्यङ्गानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
नार्याष्टाङ्गमार्गं नित्य इत्य् उपपरीक्षते नानित्य इति, नार्याष्टाङ्गमार्गं सुख इत्य् उपपरीक्षते न दुःख इति, नार्याष्टाङ्गमार्गम् आत्मेत्य् उपपरीक्षते नानात्मेति, नार्याष्टाङ्गमार्गं शुभ इत्य् उपपरीक्षते नाशुभ इति, नार्याष्टाङ्गमार्गं शून्य इत्य् उपपरीक्षते नाशून्य इति, नार्याष्टाङ्गमार्गं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नार्याष्टाङ्गमार्गं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नार्याष्टाङ्गमार्गं शान्त इत्य् उपपरीक्षते नाशान्त इति, नार्याष्टाङ्गमार्गं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
SK
नार्यसत्यानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नार्यसत्यानि सुखानीत्य् उपपरीक्षते न दुःखानीति, नार्यसत्यान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, नार्यसत्यानि शुभानीत्य् उपपरीक्षते नाशुभानीति, नार्यसत्यानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नार्यसत्यानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, नार्यसत्यानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नार्यसत्यानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नार्यसत्यानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
न ध्यानानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न ध्यानानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न ध्यानान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न ध्यानानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न ध्यानानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न ध्यानानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न ध्यानानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न ध्यानानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न ध्यानानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
नाप्रमाणानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नाप्रमाणानि सुखानीत्य् उपपरीक्षते न दुःखानीति, नाप्रमाणान्य् आत्मानीत्य् उपपरीक्षते (Śस्P II-२ २४) नानात्मानीति, नाप्रमाणानि शुभानीत्य् उपपरीक्षते नाशुभानीति, नाप्रमाणानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नाप्रमाणानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, नाप्रमाणानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नाप्रमाणानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नाप्रमाणानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
नारूप्यसमापत्तीर् नित्या इत्य् उपपरीक्षते नानित्या इति, नारूप्यसमापत्तीः सुखा इत्य् उपपरीक्षते न दुःखा इति, नारूप्यसमापत्ती आत्मान इत्य् उपपरीक्षते नानात्मान इति, नारूप्यसमापत्तीः शुभा इत्य् उपपरीक्षते नाशुभा इति, नारूप्यसमापत्तीः शून्या इत्य् उपपरीक्षते नाशून्या इति, नारूप्यसमापत्तीर् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नारूप्यसमापत्तीः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नारूप्यसमापत्तीः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नारूप्यसमापत्तीर् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
नाष्टौ विमोक्षान् नित्या इत्य् उपपरीक्षते नानित्या इति, नाष्टौ विमोक्षान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नाष्टौ विमोक्षान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, नाष्टौ विमोक्षान् शुभा इत्य् उपपरीक्षते नाशुभा इति, नाष्टौ विमोक्षान् शून्या इत्य् उपपरीक्षते नाशून्या इति, नाष्टौ विमोक्षान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नाष्टौ विमोक्षान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नाष्टौ विमोक्षान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नाष्टौ विमोक्षान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
न नवानुपूर्वविहारसमापत्तीर् नित्या इत्य् उपपरीक्षते नानित्या इति न नवानुपूर्वविहारसमापत्तीः सुखा इत्य् उपपरीक्षते न दुःखा इति, न नवानुपूर्वविहारसमापत्तीर् आत्मान इत्य् उपपरीक्षते नानात्मान इति न नवानुपूर्वविहारसमापत्तीः शुभा इत्य् उपपरीक्षते नाशुभा इति, न नवानुपूर्वविहारसमापत्तीः शून्या इत्य् उपपरीक्षते नाशून्या इति, न नवानुपूर्वविहारसमापत्तीर् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न नवानुपूर्वविहारसमापत्तीः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न नवानुपूर्वविहारसमापत्तीः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न नवानुपूर्वविहारसमापत्तीर् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (Śस्P II-२ २५) शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
नाभिज्ञा नित्या इत्य् उपपरीक्षते नानित्या इति, नाभिज्ञाः सुखा इत्य् उपपरीक्षते न दुःखा इति, नाभिज्ञा आत्मान इत्य् उपपरीक्षते नानात्मन इति, नाभिज्ञाः शुभा इत्य् उपपरीक्षते नाशुभा इति, नाभिज्ञाः शून्या इत्य् उपपरीक्षते नाशून्या इति, नाभिज्ञा निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नाभिज्ञाः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नाभिज्ञाः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नाभिज्ञा विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
न समाधीन् नित्या इत्य् उपपरीक्षते नानित्या इति, न समाधीन् सुखा इत्य् उपपरीक्षते न दुःखा इति, न समाधीन् आत्मान इत्य् उपपरीक्षते नानात्मान इति, न समाधीञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, न समाधीञ् छून्या इत्य् उपपरीक्षते नाशून्या इति, न समाधीन् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न समाधीन् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न समाधीञ् छान्ता इत्य् उपपरीक्षते नाशान्ता इति, न समाधीन् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न धारणीमुखानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न धारणीमुखानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न धारणीमुखान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न धारणीमुखानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न धारणीमुखानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न धारणीमुखानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न धारणीमुखानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न धारणीमुखानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न धारणीमुखानि विविक्तानित्य् उपपरीक्षते नाविविक्तानीति.
SK
न तथागतबलानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न तथागतबलानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न तथागतबलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न तथागतबलानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न तथागतबलानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न तथागतबलानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न तथागतबलानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न तथागतबलानि शान्तानीत्य् (Śस्P II-२ २६) उपपरीक्षते नाशान्तानीति, न तथागतबलानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
न वैशारद्यानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न वैशारद्यानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न वैशारद्यान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न वैशारद्यानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न वैशारद्यानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न वैशारद्यानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न वैशारद्यानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न वैशारद्यानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न वैशारद्यानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
SK
न प्रतिसंविदो नित्या इत्य् उपपरीक्षते नानित्या इति, न प्रतिसंविदः सुखा इत्य् उपपरीक्षते न दुःखा इति, न प्रतिसंविद आत्मानीत्य् उपपरीक्षते नानात्मानीति, न प्रतिसंविदः शुभा इत्य् उपपरीक्षते नाशुभा इति, न प्रतिसंविदः शून्या इत्य् उपपरीक्षते नाशून्या इति, न प्रतिसंविदो निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न प्रतिसंविदः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न प्रतिसंविदः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न प्रतिसंविदो विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
न महामैत्रीं नित्येत्य् उपपरीक्षते नानित्येति, न महामैत्रीं सुखेत्य् उपपरीक्षते न दुःखेति, न महामैत्रीम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महामैत्रीं शुभेत्य् उपपरीक्षते नाशुभेति, न महामैत्रीं शून्येत्य् उपपरीक्षते नाशून्येति, न महामैत्रीं निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महामैत्रीं प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महामैत्रीं शान्तेत्य् उपपरीक्षते नाशान्तेति, न महामैत्रीं विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न महाकरुणां नित्येत्य् उपपरीक्षते नानित्येति, न महाकरुणां सुखेत्य् उपपरीक्षते न दुःखेति, न महाकरुणाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महाकरुणां शुभेत्य् उपपरीक्षते नाशुभेति, न महाकरुणां शून्येत्य् उपपरीक्षते नाशून्येति, न महाकरुणां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महाकरुणां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महाकरुणां शान्तेत्य् उपपरीक्षते नाशान्तेति, न महाकरुणां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
नावेणिकबुद्धधर्मान् नित्या इत्य् उपपरीक्षते नानित्या इति, नावेणिकबुद्धधर्मान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नावेणिकबुद्धधर्मान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, नावेणिकबुद्धधर्माञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, नावेणिकबुद्धधर्माञ् छून्या इत्य् (Śस्P II-२ २७) उपपरीक्षते नाशून्या इति, नावेणिकबुद्धधर्मान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नावेणिकबुद्धधर्मान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नावेणिकबुद्धधर्माञ् छान्ता इत्य् उपपरीक्षते नाशान्ता इति, नावेणिकबुद्धधर्मान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
SK
न सर्वज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वज्ञतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न मार्गाकारज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न मार्गाकारज्नतां सुखेत्य् उपपरीक्षते न दुःखेति, न मार्गाकारज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मार्गाकारज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न मार्गाकारज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न मार्गाकारज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न मार्गाकारज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न मार्गाकारज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न मार्गाकारज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
न सर्वाकारज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वाकारज्ञतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वाकारज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वाकारज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वाकारज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वाकारज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वाकारज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वाकारज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वाकारज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
SK
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते.
SK
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनाया अनुत्पादो न सा वेदना, यः संज्ञाया अनुत्पादो न सा संज्ञा, यः संस्काराणाम् अनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुषो ऽनुत्पादो (Śस्P II-२ २८) न तच् चक्षुः, यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, यो घ्राणस्यानुत्पादो न तद् घ्राणं, यो जिह्वाया अनुत्पादो न सा जिह्वा, यः कायस्यानुत्पादो न स कायः, यो मनसो ऽनुत्पादो न तन् मनः.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यः शब्दस्यानुत्पादो न सः शब्दः, यो गन्धस्यानुत्पादो न स गन्धः, यो रसस्यानुत्पादो न स रसः, यः स्पर्शस्यानुत्पादो न सः स्पर्शः, यो धर्माणाम् अनुत्पादो न ते धर्माः.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, यः कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुःसंस्पर्शस्यानुत्पादो न सश् चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्यानुत्पादो न सः श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्यानुत्पादो न सो घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्यानुत्पादो न सो जिह्वासंस्पर्शः, यः कायसंस्पर्शस्यानुत्पादो न सः कायसंस्पर्शः, यो मनःसंस्पर्शस्यानुत्पादो न सो मनःसंस्पर्शः.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, यस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, यो वायुधातोर् अनुत्पादो न स वायुधातुः, य आकाशधातोर् अनुत्पादो न स आकाशधातुः, यो विज्ञानधातोर् अनुत्पादो न सो विज्ञानधातुः.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो ऽविद्याया अनुत्पादो न सो ऽविद्या, यः संस्काराणाम् अनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, यो नामरूपस्यानुत्पादो न तन् नामरूपं, (Śस्P II-२ २९) यः षडायतनस्यानुत्पादो न स षडायतनं, यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो वेदनाया अनुत्पादो न सा वेदना, यस् तृष्णाया अनुत्पादो न सा तृष्णा, य उपादानस्यानुत्पादो न तद् उपादानं, यो भवस्यानुत्पादो न स भवः, यो जातेर् अनुत्पादो न सा जातिः, यो जरामरणस्यानुत्पादो न तज् जरामरणम्.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता, यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, यो महाशून्यताया अनुत्पादो न सा महाशून्यता, यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, यो नवराग्रशून्यताया अनुत्पादो न सा नवराग्रशून्यता, यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता, यः स्वभवशून्यताया अनुत्पादो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि, यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानाम् अनुत्पादो न त ऋद्धिपादाः, य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, यो बलानाम् अनुत्पादो न तानि बलानि, यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्गः, य आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि, यो ध्यानानाम् अनुत्पादो न तानि ध्यानानि, यो ऽप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनान् अनुत्पादो न ता आरूप्यसमापत्तयः, (Śस्P II-२ ३०) यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, य अभिज्ञानाम् अनुत्पादो न ता अभिज्ञाः, यः समाधीनाम् अनुत्पादो न ते समाधयः, यो धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानि, यस् तथागतबलानाम् अनुत्पादो न तानि तथागतबलानि, यो वैशारद्यानाम् अन्त्पादो न तानि वैशारद्यानि, यः प्रतिसंविदाम् अनुत्पादो न ता प्रतिसंविदः, यो महामैत्र्या अनुत्पादो न सा महामैत्री, यो महाकरुणाया अनुत्पादो न सा करुणा, य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः.
SK
केन कारणेनायुष्मन् सुभूते एवं वदसि? यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
SK
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं रूपेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् रूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदनायुष्मञ् छारद्वतीपुत्र शून्या वेदनया यद् आयुष्मञ् छारद्वतीपुत्र शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वेदनाया अनुत्पादो न सा वेदना, संज्ञायुष्मञ् छारद्वतीपुत्र शून्या संज्ञया आयुष्मञ् छारद्वतीपुत्र शून्या न सा संज्ञा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संज्ञाया अनुत्पादो न सा संज्ञा, संस्कारा आयुष्मञ् छारद्वतीपुत्र शून्याः संस्कारैर् य आयुष्मञ् छारद्वतीपुत्र शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्काराणाम् अनुत्पादो न ते संस्काराः, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं विज्ञानेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र शून्यं चक्षुषा यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तच् चक्षुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यच् चक्षुषो ऽनुत्पादो न तच् चक्षुः, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्र शून्यं श्रोत्रेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तच् छ्रोत्रं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, घ्राणम् आयुष्मञ् छारद्वतीपुत्र (Śस्P II-२ ३१) शून्यं घ्राणेन यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् घ्राणं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणस्यानुत्पादो न तद् घ्राणं, जिह्वायुष्मञ् छारद्वतीपुत्र शून्या जिह्वया यायुष्मञ् छारद्वतीपुत्र शून्या न सा जिह्वा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वाया अनुत्पादो न सा जिह्वा, काय आयुष्मञ् छारद्वतीपुत्र शून्यं कायेण य आयुष्मञ् छारद्वतीपुत्र शून्यो न स कायो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायस्यानुत्पादो न स कायः, मन आयुष्मञ् छारद्वतीपुत्र शून्यं मनसा यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तन् मनो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनसो ऽनुत्पादो न तन् मनः.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं रूपेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् रूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, शब्द आयुष्मञ् छारद्वतीपुत्र शून्यः शब्देन, यश् च शून्यो न स शब्दो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शब्दस्यानुत्पादो न स शब्दः, गन्ध आयुष्मञ् छारद्वतीपुत्र शून्यो गन्धेन यश् च शून्यो न स गन्धो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो गन्धस्यानुत्पादो न स गन्धः, रस आयुष्मञ् छारद्वतीपुत्र शून्यो रसेन यश् च शून्यो न स रसो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रसस्यानुत्पादो न स रसः, स्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः स्पर्शेन, यश् च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, धर्मा आयुष्मञ् छारद्वतीपुत्र शून्या धर्मैर् ये च शून्या न ते धर्मा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो धर्ंआनाम् अनुत्पादो न ते धर्माः.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं चक्षुर्विज्ञानेन, यच् च शून्यं न तच् चक्षुर्विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं श्रोत्रविज्ञानेन, यच् च शून्यं न तच् छ्रोत्रविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं घ्राणविज्ञानेन, यच् च शून्यं न तद् घ्राणविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, जिह्वाविज्ञानम् आयुष्मञ् (Śस्P II-२ ३२) छारद्वतीपुत्र शून्यं जिह्वाविज्ञानेन, यच् च शून्यं न तज् जिह्वाविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं कायविज्ञानेन, यच् च शून्यं न तत् कायविज्ञानं नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यत् कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं मनोविज्ञानेन, यच् च शून्यं न तन् मनोविज्ञानं नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यश् चक्षुःसंस्पर्शेन यश् च शून्यो न स चक्षुःसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः श्रोत्रसंस्पर्शेन, यश् च शून्यो न स श्रोत्रसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो घ्राणसंस्पर्शेन, यश् च शून्यो न स घ्राणसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो जिह्वासंस्पर्शेन, यश् च शून्यो न स जिह्वासंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः कायसंस्पर्शेन, यश् च शून्यो न स कायसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो मनःसंस्पर्शेन, यश् च शून्यो न स मनःसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या चक्षुःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा चक्षुःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्यय वेदना, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या श्रोत्रसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा श्रोत्रसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः (Śस्P II-२ ३३) श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या घ्राणसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा घ्राणसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या जिह्वासंस्पर्शप्रत्ययवेदनया, या च शून्या न सा जिह्वासंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या कायसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा कायसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या मनःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा मनःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यः पृथिवीधातुना, यश् च शून्यो न स पृथिवीधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, अब्धातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो ऽब्धातुना, यश् च शून्यो न सो ऽब्धातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यस् तेजोधातुना, यश् च शून्यो न स तेजोधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, वायुधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो वायुधातुना, यश् च शून्यो न स वायुधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वायुधातोर् अनुत्पादो न स वायुधातुः, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो आकाशधातुना, यश् च शून्यो न स आकाशधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आकाशधातोर् अनुत्पादो न स आकाशधातुः, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो विज्ञानधातुना, यश् च शून्यो न स विज्ञानधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानधातोर् अनुत्पादो न स विज्ञानधातुः.
SK
अविद्यायुष्मञ् छारद्वतीपुत्र शून्यो अविद्यया, या च शून्या न साविद्या नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो अविद्याया अनुत्पादो न साविद्या, संस्कारा आयुष्मञ् छारद्वतीपुत्र शून्याः संस्कारैर्, ये च शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्काराणाम् अनुत्पादो न ते संस्काराः विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं विज्ञानेन, यच् च शून्यं न तद् विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, नामरूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं नामरूपेण, यच् च शून्यं न तन् नामरूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो नामरूपस्यानुत्पादो न तन् नामरूपं, षडायतनम् आयुष्मञ् छारद्वतीपुत्र शून्यं षडायतनेन, यच् च शून्यं न तत् षडायतनं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः षडायतनस्यानुत्पादो न तत् षडायतनं, स्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः स्पर्शेन, यश् च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, वेदनायुष्मञ् छारद्वतीपुत्र शून्यो वेदनया, या च शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वेदनायाम् अनुत्पादो न सा वेदना, तृष्णायुष्मञ् छारद्वतीपुत्र शून्या तृष्णया, या च शून्या न सा तृष्णा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यस् तृष्णाया अनुत्पादो न सा तृष्णा, उपादानम् आयुष्मञ् छारद्वतीपुत्र शून्यम् उपादानेन, यच् च शून्यं न तद् उपादानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् उपादानस्यानुत्पादो न तद् उपादानं, भव आयुष्मञ् छारद्वतीपुत्र शून्यो भवेन, यश् च शून्यो न स भवो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो भवस्यानुत्पादो न स भवः, जातिर् आयुष्मञ् छारद्वतीपुत्र शून्या जात्या, या च शून्या न सा जातिर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जातेर् अनुत्पादो न सा जातिः, जरामरणम् आयुष्मञ् छारद्वतीपुत्र शून्या जरामरणेन, यच् च शून्यं न तज् जरामरणं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जरामरणस्यानुत्पादो न तज् जरामरणम्.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्र शून्या दानपारमितया, या च शून्या न सा दानपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, शीलपारमितायुष्मञ् छारद्वतीपुत्र शून्या शीलपारमितया, या च शून्या न सा शीलपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शीलपारमिताया (Śस्P II-२ ३५) अनुत्पादो न सा शीलपारमिता, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्र शून्या क्षान्तिपारमितया, या च शून्या न सा क्षान्तिपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, वीर्यपारमितायुष्मञ् छारद्वतीपुत्र शून्या वीर्यपारमितया, या च शून्या न सा वीर्यपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, ध्यानपारमितायुष्मञ् छारद्वतीपुत्र शून्या ध्यानपारमितया, या च शून्या न सा ध्यानपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र शून्या प्रज्ञापारमितया, या च शून्या न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्याध्यात्मशून्यतया, या च शून्या न साध्यात्मशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र शून्या बहिर्धाशून्यतया, या च शून्या न सा बहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र शून्याध्यात्मबहिर्धाशून्यतया, या च शून्या न साध्यात्मबहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यतायुष्मञ् छारद्वतीपुत्र शून्या शून्यताशून्यतया, या च शून्या न सा शून्यताशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, महाशून्यतायुष्मञ् छारद्वतीपुत्र शून्या महाशून्यतया, या च शून्या न सा महाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महाशून्यताया अनुत्पादो न सा महाशून्यता, परमार्थशून्यतायुष्मञ् छारद्वतीपुत्र शून्या परमार्थशून्यतया, या च शून्या न सा परमार्थशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, संस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र शून्या संस्कृतशून्यतया, या च शून्या न सा संस्कृतशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, अत्यन्तशून्यतायुष्मञ् (Śस्P II-२ ३६) छारद्वतीपुत्र शून्यात्यन्तशून्यतया, या च शून्या न सात्यन्तशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानवराग्रशून्यतया, या च शून्या न सानवराग्रशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानवकारशून्यतया, या च शून्या न सानवकारशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, प्रकृतिशून्यतायुष्मञ् छारद्वतीपुत्र शून्या प्रकृतिशून्यतया, या च शून्या न सा प्रकृतिशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, सर्वधर्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्या सर्वधर्मशून्यतया, या च शून्या न सा सर्वधर्मशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्र शून्या स्वलक्षणशून्यतया, या च शून्या न सा स्वलक्षणशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानुपलम्भशून्यतया, या च शून्या न सानुपलम्भशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, अभावशून्यतायुष्मञ् छारद्वतीपुत्र शून्याभावशून्यतया, या च शून्या न साभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्र शून्या स्वभावशून्यतया, या च शून्या न सा स्वभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, अभावस्वभावशून्यतायुष्मन् छारद्वतीपुत्र शून्याभावस्वभावशून्यतया, या च शून्या न साभावस्वभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि स्मृत्युपस्थानं यानि च शून्यानि न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि (Śस्P II-२ ३७) सम्यक्प्रहाणैर् यानि च शून्यानि न तानि सम्यक्प्रहाणानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्र शून्या ऋद्धिपादैर् या च शून्या न ते ऋद्धिपादा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य ऋद्धिपादानाम् अनुत्पादो न ते ऋद्धिपादाः, इन्द्रियाणि आयुष्मञ् छारद्वतीपुत्र शून्यानीन्द्रियैर् यानि च शून्यानि न तानीन्द्रियाणि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, बलान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि बलैर् यानि च शून्यानि न तानि बलानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बलानाम् अनुत्पादो न तानि बलानि, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि बोध्यङ्गैर् यानि च शून्यानि न तानि बोध्यङ्गानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, आर्याष्टाङ्गो मार्ग आयुष्मञ् छारद्वतीपुत्र शून्य आर्याष्टाङ्गमार्गेन यश् च शून्यो न स मार्गो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आर्याष्टाङ्गस्य मार्गस्यानुत्पादो न स मार्गः, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यान्य् आर्यसत्यैः, यानि च शून्यानि न तान्य् आर्यसत्यानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि ध्यानैः, यानि च शून्यानि न तान्य् ध्यानानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ध्यानानाम् अनुत्पादो न तान्य् ध्यानानि, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्र शून्यान्य् अप्रमाणैः, यानि च शून्यानि न तान्य् अप्रमाणानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो प्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, आरूप्यसमापत्तय आयुष्मञ् छारद्वतीपुत्र शून्या आरूप्यसमापत्तिभिः, याश् च शून्या न ता आरूप्यसमापत्तयो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तयः, विमोक्षा आयुष्मञ् छारद्वतीपुत्र शून्या विमोक्षैः, ये च शून्या न ते विमोक्षा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, अनुपूर्वविहारसमापत्तय आयुष्मञ् छारद्वतीपुत्र शून्या अनुपूर्वविहारसमापत्तिभिः, याश् च शून्या न ता अनुपूर्वविहारसमापत्तयो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः, (Śस्P II-२ ३८) यानि च शून्यानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा आयुष्मञ् छारद्वतीपुत्र शून्या अभिज्ञाभिः, याश् च शून्या न ता अभिज्ञा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभिज्ञाया अनुत्पादो न ता अभिज्ञाः, समाधय आयुष्मञ् छारद्वतीपुत्र शून्या समाधिभिः, ये च शून्या न ते समाधयो नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः समाधीनाम् अनुत्पादो न ते समाधयः, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि धारणीमुखैः, यानि च शून्यानि न तानि धारणीमुखानि नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यो धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानि, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि तथागतबलैः, यानि च शून्यानि न तानि तथागतबलानि नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यः तथागतबलानाम् अनुत्पादो न तानि तथागतबलानि, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि वैशारद्यैः, यानि च शून्यानि न तानि वैशारद्यानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि प्रतिसंविद आयुष्मञ् छारद्वतीपुत्र शून्याः प्रतिसंविद्भिः, याश् च शून्या न ता प्रतिसंविदो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रतिसंविदाम् अनुत्पादो न ता प्रतिसंविदः, महामैत्र्य् आयुष्मञ् छारद्वतीपुत्र शून्या महामैत्र्या, या च शून्या न सा महामैत्री नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महामैत्र्या अनुत्पादो न सा महामैत्री, महाकरुणायुष्मञ् छारद्वतीपुत्र शून्या महाकरुणया, या च शून्या न सा महाकरुणा नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महाकरुणाया अनुत्पादो न सा महाकरुणा, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र शून्या आवेणिकबुद्धधर्मैः, ये च शून्या न त आवेणिकबुद्धधर्मा नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः.
SK
सर्वज्ञतायुष्मञ् छारद्वतीपुत्र शून्या सर्वज्ञतया, या च शून्या न सा सर्वज्ञता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, मार्गाकारज्ञतायुष्मञ् छारद्वतीपुत्र शून्या मार्गाकारज्ञतया, या च शून्या न सा मार्गाकारज्ञता नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मार्गाकारज्ञताया अनुत्पादो (Śस्P II-२ ३९) न सा मार्गाकारज्ञता, सर्वाकारज्ञतायुष्मञ् छारद्वतीपुत्र शून्या सर्वाकारज्ञतया, या च शून्या न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
SK
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्य व्ययो न तद् रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानम्.
SK
यश् चक्षुषो व्ययो न तच् चक्षुः, यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो घ्राणस्य व्ययो न तद् घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन् मनः.
SK
यो रूपस्य व्ययो न तद् रूपं, यः शब्दस्य व्ययो न स शब्दः, यो गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः.
SK
यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञनस्य व्ययो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञनस्य व्ययो न तज् जिह्वाविज्ञानं, यः कायविज्ञनस्य व्ययो न तत् कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.
SK
यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स छ्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.
SK
यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.
SK
यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यस् तेजोधातोर् व्ययो न स तेजोधातुः, यो वायुधातोर् व्ययो न स वायुधातुः, य आकाशधातोर् व्ययो न स आकाशधातुः, यो विज्ञानधातोर् व्ययो न स विज्ञानधातुः.
SK
यो ऽविद्याया व्ययो न साविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो नामरूपस्य व्ययो न तन् नामरूपं, यः षडायतनस्य व्ययो न तत् षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस् तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तद् उपादानं, यो भवस्य व्ययो न स भवः, यो जातेर् व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज् जरामरणम्.
SK
यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.
SK
यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताय व्ययो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो ऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता.
SK
यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्य मार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः, य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनां (Śस्P II-२ ४१) व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस् तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानां व्ययो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ता प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा महाकरुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या च वेदना यच् चाद्वैधीकारं, यश् च व्ययो या च संज्ञा यच् चाद्वैधीकारं, यस् च व्ययो ये च संस्कारा यच् चाद्वैधीकारं, यश् च व्ययो यच् च विज्ञानं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो यच् च चक्षुर् यच् चाद्वैधीकारं, यश् च व्ययो यच् च श्रोत्रं यच् चाद्वैधीकारं, यश् च व्ययो यच् च घ्राणं यच् चाद्वैधीकारं, यश् च व्ययो या च जिह्वा यच् चाद्वैधीकारं, यश् च व्ययो यश् च कायो यच् चाद्वैधीकारं, यश् च व्ययो यच् च मनो यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं, यश् च व्ययो यश् च शब्दो यच् चाद्वैधीकारं, यश् च व्ययो यश् च गन्धो यच् चाद्वैधीकारं, यश् च व्ययो यश् च रसो यच् चाद्वैधीकारं, यश् च व्ययो यश् च स्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो ये च धर्मा यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो यच् च चक्षुर्विज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च श्रोत्रविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च घ्राणविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च जिह्वाविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च कायविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च मनोविज्ञानं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो यश् च चक्षुःसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च श्रोत्रसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च घ्राणसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च जिह्वासंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च कायसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च मनःसंस्पर्शो यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो या च चक्षुःसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च श्रोत्रसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च घ्राणसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च जिह्वासंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च कायसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च मनःसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो यश् च पृथिवीधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् चाब्धातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च तेजोधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च वायुधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् चाकाशधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च विज्ञानधातुर् यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो या चाविद्या यच् चाद्वैधीकारं, यश् च व्ययो ये च संस्कारा यच् चाद्वैधीकारं, यश् च व्ययो यच् च विज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च नामरूपं यच् चाद्वैधीकारं, यश् च व्ययो यच् च षडायतनं यच् चाद्वैधीकारं, यश् च व्ययो यश् च स्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो या च वेदना यच् चाद्वैधीकारं, यश् च व्ययो या च तृष्णा यच् चाद्वैधीकारं, यश् च व्ययो यच् चोपादानं (Śस्P II-२ ४३) यच् चाद्वैधीकारं, यश् च व्ययो यश् च भवो यच् चाद्वैधीकारं, यश् च व्ययो या च जातिर् यच् चाद्वैधीकारं, यश् च व्ययो यच् च जरामरणं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो या च दानपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च शीलपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च क्षान्तिपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च वीर्यपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च ध्यानपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च प्रज्ञापारमिता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो या चाध्यात्मशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च बहिर्धाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाध्यात्मबहिर्धाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च शून्यताशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च महाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च परमार्थशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च संस्कृतशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चासंस्कृतशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चात्यन्तशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानवराग्रशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानवकारशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च प्रकृतिशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च सर्वधर्मशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च स्वलक्षणशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानुपलम्भशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाभावशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च स्वभावशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाभावस्वभावशून्यता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो यानि च स्मृत्युपस्थानानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च सम्यक्प्रहाणानि यच् चाद्वैधीकारं, यश् च व्ययो ये च ऋद्धिपादा यच् चाद्वैधीकारं, यश् च व्ययो यानि चेन्द्रियाणि यच् चाद्वैधीकारं, यश् च व्ययो यानि च बलानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च बोध्यङ्गानि यच् चाद्वैधीकारं, यश् च व्ययो यश् चार्याष्टाङ्गमार्गो यच् चाद्वैधीकारं, यश् च व्ययो यानि चार्यसत्यानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च ध्यानानि यच् चाद्वैधीकारं, (Śस्P II-२ ४४) यश् च व्ययो यानि चाप्रमाणानि यच् चाद्वैधीकारं, यश् च व्ययो याश् चारूप्यसमापत्तयो यच् चाद्वैधीकारं, यश् च व्ययो ये च विमोक्षा यच् चाद्वैधीकारं, यश् च व्ययो याश् चानुपूर्वविहारसमापत्तयो यच् चाद्वैधीकारं, यश् च व्ययो यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यच् चाद्वैधीकारं, यश् च व्ययो याश् चाभिज्ञा यच् चाद्वैधीकारं, यश् च व्ययो ये च समाधयो यच् चाद्वैधीकारं, यश् च व्ययो यानि च धारणीमुखानि यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो यानि च तथागतबलानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च वैशारद्यानि यच् चाद्वैधीकारं, यश् च व्ययो याश् च प्रतिसंविदो यच् चाद्वैधीकारं, यश् च व्ययो या च महामैत्री यच् चाद्वैधीकारं, यश् च व्ययो या च महाकरुणा यच् चाद्वैधीकारं, यश् च व्ययो ये चाष्टादशावेणिकबुद्धधर्मा यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो यच् च श्रोतआपत्तिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् च सकृदागामिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् चानागामिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् चार्हत्त्वं यच् चाद्वैधीकारं, यश् च व्ययो या च प्रत्येकबोधिर् यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
यश् च व्ययो या च सर्वज्ञता यच् चाद्वैधीकारं, यश् च व्ययो या च मार्गाकारज्ञता यच् चाद्वैधीकारं, यश् च व्ययो या च सर्वाकारज्ञता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानम्.
SK
यश् चक्षुसो व्ययो न तच् चक्षुः, यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो घ्राणस्य व्ययो न तद् घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन् मनः.
SK
यो रूपस्य व्ययो न तद् रूपं, यः शब्दस्य व्ययो न स शब्दः, यो (Śस्P II-२ ४५) गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः.
SK
यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानं, यः कायविज्ञानस्य व्ययो न तत् कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.
SK
यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.
SK
यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.
SK
यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यस् तेजोधातोर् व्ययो न स तेजोधातुः, यो वायुधातोर् व्ययो न स वायुधातुः, य आकाशधातोर् व्ययो न स आकाशधातुः, यो विज्ञानधातोर् व्ययो न स विज्ञानधातुः.
SK
यो ऽविद्याया व्ययो न सो ऽविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो नामरूपस्य व्ययो न तन् नामरूपं, यः षडायतनस्य व्ययो न तत् षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस् तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तद् उपादानं, यो भवस्य व्ययो न स भवः, यो जातेर् व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज् जरामरणम्.
SK
यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.
SK
यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो ऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभवशून्यताया व्ययो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता.
SK
यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्य व्ययो न स आर्याष्टाङ्गो मार्गः, य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस् तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा करुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः.
SK
यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
SK
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यद् एतद् उच्यते (Śस्P II-२ ४७) रूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संज्ञेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते चक्षुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते काय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मन इत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शब्द इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते गन्ध इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते रस इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते धर्मा इत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽब्धातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते तेजोधातुर् (Śस्P II-२ ४८) इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वायुधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आकाशधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते ऽविद्येत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते नामरूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते षडायतनम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते तृष्णेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते उपादानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते भव इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जातिर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जरामरणाम् इत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते दानपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शीलपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वीर्यपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ध्यानपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शून्यताशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते परमार्थशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽत्यन्तशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनवराग्रशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता.
SK
यद् एतद् उच्यते स्मृत्युपस्थानानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सम्यक्प्रहाणानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऋद्धिपादा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते इन्द्रियानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बलानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बोध्यङ्गानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आर्याष्टाङ्गमार्ग इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आर्यसत्यानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ध्यानानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽप्रमाणानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आरूप्यसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विमोक्षा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनुपूर्वविहारसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभिज्ञा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते समाधय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते धारणीमुखानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते दशतथागतबलानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वैशारद्यानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रतिसंविद इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महामैत्रीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महाकरुणेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आवेणिकबुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वज्ञतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता इति.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र नान्यद् रूपम् अन्यो ऽनुत्पादः, अनुत्पाद एव रूपं रूपम् एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अद्वयैषा गणना कृता, तथा हि नान्या वेदनान्यो अनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या संज्ञान्यो ऽनुत्पादः, अनुत्पाद एव संज्ञा संज्ञैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयं संज्ञेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्यो ऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा (Śस्P II-२ ५०) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते संस्कारा इत्य् अद्वयस्यैषा गणना कृताः, तथा हि नान्यद् विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्यच् चक्षुर् अन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुश् चक्षुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते चक्षुर् इत्य् अद्वयस्यैषा गणना, तथा हि नान्यच् छ्रोत्रम् अन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रं श्रोत्रम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् घ्राणम् अन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणं घ्राणम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते घ्राणम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वान्यो ऽनुत्पादः, अनुत्पाद एव जिह्वा जिह्वैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जिह्वेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः कायो ऽन्यो ऽनुत्पादः, अनुत्पाद एव कायः काय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते काय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यं मनो ऽन्यो ऽनुत्पादः, अनुत्पाद एव मनो मन एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते मन इत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्यद् रूपम् अन्यानुत्पादः, अनुत्पाद एव रूपं रूपम् एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते रूप्म् इत्य् अद्वयैषा गणना कृता, तथा हि नान्यः शब्दो ऽन्यो ऽनुत्पादः, अनुत्पाद एव शब्दः शब्द एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते शब्द इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो गन्धो ऽन्यो ऽनुत्पादः, अनुत्पाद एव गन्धो गन्ध एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते गन्ध इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो रसो ऽन्यो ऽनुत्पादः, अनुत्पाद एव रसो रस एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते रस इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः स्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये धर्मा अन्यो ऽनुत्पादः, अनुत्पाद एव धर्मा धर्मा (Śस्P II-२ ५१) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यते धर्मा इत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्यच् चक्षुर्विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुर्विज्ञानं चक्षुर्विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यच् छ्रोत्रविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रविज्ञानं श्रोत्रविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् घ्राणविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणविज्ञानं घ्राणविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यज् जिह्वाविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव जिह्वाविज्ञानं जिह्वाविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यत् कायविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव कायविज्ञानं कायविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् मनोविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव मनोविज्ञानं मनोविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्यश् चक्षुःसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शश् चक्षुःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः श्रोत्रसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् एतद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो घ्राणसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शो घ्राणसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो जिह्वासंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शो जिह्वासंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः कायसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शः कायसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो (Śस्P II-२ ५२) ऽयम् उच्यते कायसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो मनःसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्श मनःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्या चक्षुःसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते चक्षुःसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या श्रोत्रसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् एतद् उच्यते श्रोत्रसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या घ्राणसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते घ्राणसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वासंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जिह्वासंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या कायसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते कायसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या मनःसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते मनःसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्यः पृथिवीधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव पृथिवीधातुः पृथिवीधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो ऽब्धातुर् अन्यो ऽनुत्पादः, अनुत्पाद एवाब्धातुर् अब्धातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते ऽब्धातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यस् तेजोधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव तेजोधातुः तेजोधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते तेजोधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि (Śस्P II-२ ५३) नान्यो वायुधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव वायुधातुर् वायुधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते वायुधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आकाशधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एवाकाशधातुर् आकाशधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते आकाशधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो विज्ञानधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानधातुर् विज्ञानधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्याविद्यान्यो ऽनुत्पादः, अनुत्पाद एवाविद्याविद्यैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽविद्येत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्यो ऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यन् नामरूपम् अन्यो ऽनुत्पादः, अनुत्पाद एव नामरूपं नामरूपम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते नामरूपम् इत्य् अद्वयस्यैषा गणना कृता, (तथा हि नान्यः षडायतनम् अन्यो ऽनुत्पादः, अनुत्पाद एव षडायतनं षडायतनम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते षडायतनम् इत्य् अद्वयस्यैषा गणना कृता.) तथा हि नान्यः स्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्या वेदनान्यो ऽनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या तृष्णान्यो ऽनुत्पादः, अनुत्पाद एव तृष्णा तृष्णैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते तृष्णेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् उपादानम् अन्यो ऽनुत्पादः, अनुत्पाद एवोपादानम् उपादानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते उपादानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो भवो ऽन्यो ऽनुत्पादः, अनुत्पाद एव भवो भव एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते भव इत्य् अद्वयस्यैषा गणना (Śस्P II-२ ५४) कृता, तथा हि नान्या जातिर् अन्यो ऽनुत्पादः, अनुत्पाद एव जातिर् जातिर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जातिर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यज् जरामरणं ऽन्यो ऽनुत्पादः, अनुत्पाद एव जरामरणं जरामरणम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते जरामरणम् इत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्या दानपारमितान्यो ऽनुत्पादः, अनुत्पाद एव दानपारमिता दानपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते दानपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या शीलपारमितान्यो ऽनुत्पादः, अनुत्पाद एव शीलपारमिता शीलपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते शीलपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या क्षान्तिपारमितान्यो ऽनुत्पादः, अनुत्पाद एव क्षान्तिपारमिता क्षान्तिपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या वीर्यपारमितान्यो ऽनुत्पादः, अनुत्पाद एव वीर्यपारमिता वीर्यपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वीर्यपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या ध्यानपारमितान्यो ऽनुत्पादः, अनुत्पाद एव ध्यानपारमिता ध्यानपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ध्यानपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रज्ञापारमितान्यो ऽनुत्पादः, अनुत्पाद एव प्रज्ञापारमिता प्रज्ञापारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्याध्यात्मशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाध्यात्मशून्यताध्यात्मशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या बहिर्धाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव बहिर्धाशून्यता बहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याध्यात्मबहिर्धाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते अध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या शून्यताशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव शून्यताशून्यता शून्यताशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र (Śस्P II-२ ५५) पर्यायेण येयम् उच्यते शून्यताशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव महाशून्यता महाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या परमार्थशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव परमार्थशून्यता परमार्थशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते परमार्थशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या संस्कृतशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव संस्कृतशून्यता संस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यासंस्कृतशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवासंस्कृतशून्यतासंस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यात्यन्तशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवात्यन्तशून्यतात्यन्तशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽत्यन्तशून्यता अद्वयस्यैषा गणना कृता, तथा हि नान्यानवराग्रशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवानवराग्रशून्यता नवराग्रशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते अनवराग्रशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या अनवकारशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव अनवकारशून्यता अनवकारशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रकृतिशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव प्रकृतिशून्यता प्रकृतिशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वधर्मशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वधर्मशून्यता सर्वधर्मशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या स्वलक्षणशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव स्वलक्षणशून्यता स्वलक्षणशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानुपलम्भशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवानुपलम्भशून्यतानुपलम्भशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद (Śस्P II-२ ५६) एवाभावशून्यताभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या स्वभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव स्वभावशून्यता स्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते स्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याभावस्वभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाभावस्वभावशून्यताभावस्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्यानि स्मृत्युपस्थानान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते स्मृत्युपस्थानानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि सम्यक्प्रहाणान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव सम्यक्प्रहाणानि सम्यक्प्रहाणान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते सम्यक्प्रहाणानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य ऋद्धिपादा अन्यो ऽनुत्पादः, अनुत्पादा एव ऋद्धिपादा ऋद्धिपादा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते ऋद्धिपादा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानीन्द्रियाण्य् अन्यो ऽनुत्पादः, अनुत्पाद एवेन्द्रियाणीन्द्रियाण्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते इन्द्रियाणीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि बलान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव बलानि बलान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते बलानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि बोध्यङ्गान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव बोध्यङ्गानि बोध्यङ्गान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते बोध्यङ्गानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आर्याष्टाङ्गो मार्गो ऽन्यो ऽनुत्पादः, अनुत्पाद एवार्याष्टाङ्गमार्गः आर्याष्टाङ्गमार्ग एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यत आर्याष्टाङ्गमार्ग इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यान्य् आर्यसत्यान्य् अन्यो ऽनुत्पादः, अनुत्पाद एवार्यसत्यान्य् आर्यसत्यान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्त आर्यसत्यानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि ध्यानान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव ध्यानानि ध्यानान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते ध्यानानीत्य् अद्वयस्यैषा गणना कृता, (Śस्P II-२ ५७) तथा हि नान्यान्य् अप्रमाणान्य् अन्यो ऽनुत्पादः, अनुत्पाद एवाप्रमाणान्य् अप्रमाणान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते प्रमाणानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या आरूप्यसमापत्तयो ऽन्यो ऽनुत्पादः, अनुत्पाद एवारूप्यसमापत्तय आरूप्यसमापत्तय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इम उच्यन्ते आरूप्यसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये विमोक्षा अन्यो ऽनुत्पादः, अनुत्पाद एव विमोक्षा विमोक्षा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते विमोक्षा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानुपूर्वविहारसमापत्तयो ऽन्यो ऽनुत्पादः, अनुत्पाद एवानुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते ऽनुपूर्वविहारसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यान्य् शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या अभिज्ञान्यो ऽनुत्पादः, अनुत्पाद एवाभिज्ञा अभिज्ञा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण या इमा उच्यन्ते अभिज्ञा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये समाधयो ऽन्यो ऽनुत्पादः, अनुत्पाद एव समाधयः समाधय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते समाधय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि धारणीमुखान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव धारणीमुखानि धारणीमुखान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते धारणीमुखानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि तथागतबलान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव तथागतबलानि तथागतबलान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते तथागतबलानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि वैशारद्यान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव वैशारद्यानि वैशारद्यान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते वैशारद्यानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो प्रतिसंविदो ऽन्यो ऽनुत्पादः, अनुत्पाद एव प्रतिसंविदः प्रतिसंविद एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते प्रतिसंविद इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महामैत्र्य् अन्यो ऽनुत्पादः, अनुत्पाद एव महामैत्री महामैत्र्य् (Śस्P II-२ ५८) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महामैत्रीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महाकरुणा न्यो ऽनुत्पादः, अनुत्पाद एव महाकरुणा महाकरुणैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महाकरुणेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आवेणिकबुद्धधर्मा अन्यो ऽनुत्पादः, अनुत्पाद एवावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मा एवानुत्पादः.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते आवेणिकबुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृता.
SK
तथा हि नान्यत् स्रोतआपत्तिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एव स्रोतआपत्तिफलं स्रोतआपत्तिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रआपत्तिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यत् सकृदागामिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एव सकृदागामिफलं सकृदागामिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते सकृदागामिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् अनागामिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एवानागामिफलम् अनागामिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते ऽनागामिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् अर्हत्त्वम् अन्यो ऽनुत्पादः, अनुत्पाद एवार्हत्त्वम् अर्हत्त्वम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते ऽर्हत्त्वम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रत्येकबोधिर् अन्यो ऽनुत्पादः, अनुत्पाद एव प्रत्येकबोधिः प्रत्येकबोधिर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते प्रत्येकबोधिर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वज्ञता सर्वज्ञतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वज्ञतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या मार्गाकारज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव मार्गाकारज्ञता मार्गाकारज्ञतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वाकारज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वाकारज्ञता सर्वाकारज्ञतैवानुत्पादः.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता.
SK
अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते, तस्मिन् समये भगवन् रूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संज्ञाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्काराणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
चक्षुषो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनसो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
रूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शब्दस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, गन्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, रसस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, धर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
चक्षुर्विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वाविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनोविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
चक्षुःसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वासंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनःसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायसंस्पर्शप्रत्ययवेदनाया (Śस्P II-२ ६०) अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
पृथिवीधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अब्धातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तेजोधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वायुधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आकाशधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
अविद्याया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्काराणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, नामरूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, षडायतनस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तृष्णाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, उपादानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, भवस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जातेर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जरामरणस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
दानपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शीलपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, क्षान्तिपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वीर्यपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ध्यानपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रज्ञापारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
अध्यात्मशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शून्यताशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, परमार्थशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्कृतशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, असंस्कृतशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अत्यन्तशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनवराग्रशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनवकारशून्यताया (Śस्P II-२ ६१) अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रकृतिशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सर्वधर्मशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्वलक्षणशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनुपलम्भशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्वभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभावस्वभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
स्मृत्युपस्थानानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सम्यक्प्रहाणानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ऋद्धिपादानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, इन्द्रियाणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बलानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोध्यङ्गानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आर्याष्टाङ्गमार्गस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आर्यसत्यानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ध्यानानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आरूप्यसमापत्तीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विमोक्षाणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनुपूर्वविहारसमापत्तीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
शून्यतानिमित्तेप्रणिहितविमोक्षमुखानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभिज्ञानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, समाधीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, धारणीमुखानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तथागतबलानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वैशारद्यानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रतिसंविदाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महामैत्र्या अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महाकरुणाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आवेणिकबुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
सर्वज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मार्गाकारज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सर्वाकारज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
पृथग्जनस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिनो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनागामिनो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अर्हतो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनागामिधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बुद्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
SK
अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथाहम् आयुष्मतः सुभूतेर् भाषितस्यार्थम् आजानामि,
SK
रूपम् अनुत्पादः, वेदनाम् अनुत्पादः, संज्ञाम् अनुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः.
SK
चक्षुर् अनुत्पादः, श्रोत्रम् अनुत्पादः, घ्राणम् अनुत्पादः, जिह्वानुत्पादः, कायो ऽनुत्पादः, मनो ऽनुत्पादः.
SK
रूपम् अनुत्पादः, शब्दो ऽनुत्पादः, गन्धो ऽनुत्पादः, रसो ऽनुत्पादः, स्पर्शो ऽनुत्पादः, धर्मा अनुत्पादः.
SK
चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादः, घ्राणविज्ञानम् अनुत्पादः, जिह्वाविज्ञानम् अनुत्पादः, कायविज्ञानम् अनुत्पादः, मनोविज्ञानम् अनुत्पादः.
SK
चक्षुःसंस्पर्शो ऽनुत्पादः, श्रोत्रसंस्पर्शो ऽनुत्पादः, घ्राणसंस्पर्शो ऽनुत्पादः, जिह्वासंस्पर्शो ऽनुत्पादः, कायसंस्पर्शो ऽनुत्पादः, मनःसंस्पर्शो ऽनुत्पादः.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः, श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादः, घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादः, जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः (Śस्P II-२ ६३) कायसंस्पर्शप्रत्ययवेदनानुत्पादः, मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
SK
पृथिवीधातुर् अनुत्पादः, अब्धातुर् अनुत्पादः, तेजोधातुर् अनुत्पादः, वायुधातुर् अनुत्पादः, आकाशधातुर् अनुत्पादः, विज्ञानधातुर् अनुत्पादः.
SK
अविद्यानुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः, नामरूपम् अनुत्पादः, षडायतनम् अनुत्पादः, स्पर्शो ऽनुत्पादः, वेदनानुत्पादः, तृष्णानुत्पादः, उपादानम् अनुत्पादः, भवो ऽनुत्पादः, जातिर् अनुत्पादः, जरामरणम् अनुत्पादः.
SK
दानपारमितानुत्पादः, शीलपारमितानुत्पादः, क्षान्तिपारमितानुत्पादः, वीर्यपारमितानुत्पादः, ध्यानपारमितानुत्पादः, प्रज्ञापारमितानुत्पादः.
SK
अध्यात्मशून्यतानुत्पादः, बहिर्धाशून्यतानुत्पादः, अध्यात्मबहिर्धाशून्यतानुत्पादः, शून्यताशून्यतानुत्पादः, महाशून्यतानुत्पादः, परमार्थशून्यतानुत्पादः, संस्कृतशून्यतानुत्पादः, असंस्कृतशून्यतानुत्पादः, अत्यन्तशून्यतानुत्पादः, अनवराग्रशून्यतानुत्पादः, अनवकारशून्यतानुत्पादः, प्रकृतिशून्यतानुत्पादः, सर्वधर्मशून्यतानुत्पादः, स्वलक्षणशून्यतानुत्पादः, अनुपलम्भशून्यतानुत्पादः, अभावशून्यतानुत्पादः, स्वभावशून्यतानुत्पादः, अभावस्वभावशून्यतानुत्पादः.
SK
स्मृत्युपस्थानान्य् अनुत्पादः, सम्यक्प्रहाणान्य् अनुत्पादः, ऋद्धिपादा अनुत्पादः, इन्द्रियाण्य् अनुत्पादः, बलान्य् अनुत्पादः, बोध्यङ्गान्य् अनुत्पादः, आर्याष्टाङ्गो मार्गो ऽनुत्पादः, आर्यसत्यान्य् अनुत्पादः, चत्वारि ध्यानान्य् अनुत्पादः, चत्वार्य् अप्रमाणान्य् अनुत्पादः, चतस्र आरूप्यसमापत्तयो ऽनुत्पादः, अष्टौ विमोक्षा अनुत्पादः, नवानुपूर्वविहारसमापत्तयो ऽनुत्पादः,
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादः, अभिज्ञा अनुत्पादः, समाधयो ऽनुत्पादः, धारणीमुखान्य् अनुत्पादः, दशतथागतबलान्य् अनुत्पादः, चत्वारि वैशारद्यान्य् अनुत्पादः, चतस्रः प्रतिसंविदो ऽनुत्पादः, महामैत्र्य् अनुत्पादः, महाकरुणानुत्पादः, अष्टादशावेणिकबुद्धधर्मा अनुत्पादः. सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः,
SK
पृथग्जनो ऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नो ऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनो ऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनो ऽनुत्पादः, अनागामिधर्मा अनुत्पादः, (Śस्P II-२ ६४) अर्हत्त्वम् अनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धो ऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वो ऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धो ऽप्य् अनुत्पादः, बुद्धधर्मा अनुत्पादः. यदि वायुष्मन् सुभूते रूपम् अनुत्पादः, वेदनाम् अनुत्पादः, संज्ञाम् अनुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः.
SK
चक्षुर् अनुत्पादः श्रोत्रम् अनुत्पादो घ्राणम् अनुत्पादो जिह्वानुत्पादः कायो ऽनुत्पादो मनो ऽनुत्पादः.
SK
रूपम् अनुत्पादः शब्दो ऽनुत्पादो गन्धो ऽनुत्पादो रसो ऽनुत्पादः स्पर्शो ऽनुत्पादो धर्मा अनुत्पादः. चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादो घ्राणविज्ञानम् अनुत्पादो जिह्वाविज्ञानम् अनुत्पादः कायविज्ञानम् अनुत्पादो मनोविज्ञानम् अनुत्पादः.
SK
चक्षुःसंस्पर्शो ऽनुत्पादः श्रोत्रसंस्पर्शो ऽनुत्पादो घ्राणसंस्पर्शो ऽनुत्पादो जिह्वासंस्पर्शो ऽनुत्पादः कायसंस्पर्शो ऽनुत्पादो मनःसंस्पर्शो ऽनुत्पादः.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
SK
पृथिवीधातुर् अनुत्पादो ऽब्धातुर् अनुत्पादः तेजोधातुर् अनुत्पादो वायुधातुर् अनुत्पाद आकाशधातुर् अनुत्पादो विज्ञानधातुर् अनुत्पादः.
SK
अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानम् अनुत्पादो नामरूपम् अनुत्पादः षडायतनम् अनुत्पादः स्पर्शो ऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानम् अनुत्पादो भवो ऽनुत्पादो जातिर् अनुत्पादो जरामरणम् अनुत्पादः.
SK
दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः.
SK
अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादो ऽसंस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो (Śस्P II-२ ६५) ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादः.
SK
स्मृत्युपस्थानान्य् अनुत्पादः सम्यक्प्रहाणान्य् अनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्य् अनुत्पादो बलान्य् अनुत्पादो बोध्यङ्गान्य् अनुत्पाद आर्याष्टाङ्गो मार्गो ऽनुत्पाद आर्यसत्यान्य् अनुत्पादश् चत्वारि ध्यानान्य् अनुत्पादश् चत्वार्य् अप्रमाणान्य् अनुत्पाद चतस्र आरूप्यसमापत्तयो ऽनुत्पादो अष्टौ विमोक्षानुत्पादो नवानुपूर्वविहारसमापत्तयो ऽनुत्पादः,
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादो ऽभिज्ञानुत्पादः, समाधयो ऽनुत्पादो धारणीमुखान्य् अनुत्पादः दशतथागतबलान्य् अनुत्पादश् चत्वारि वैशारद्यान्य् अनुत्पादश् चतस्रः प्रतिसंविदो ऽनुत्पादो महामैत्र्य् अनुत्पादो महाकरुणानुत्पादो ऽष्टादशावेणिकबुद्धधर्मा अनुत्पादः. सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः,
SK
पृथग्जनो ऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नो ऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनो ऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनो ऽनुत्पादः, अनागामिधर्मा अनुत्पादः, अर्हत्त्वम् अनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धो ऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वो ऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धो ऽप्य् अनुत्पादः, बुद्धधर्मा अप्य् अनुत्पादः. तत् प्राप्तम् एव भवति श्रावकयाणिकैः स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्तैव भवति, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिः प्राप्तैव भवति, बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता पञ्चानां गतीनां भेदे न भविष्यति प्राप्तैव भवति बोधिसत्त्वेन महसत्त्वेन पञ्चविधा बोधिः.
SK
यद्य् आयुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किं कारणं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावितः, सकृदागामिना रागद्वेषमोहानां तनुत्वाय मार्गो भावितः, अनागामिना पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाय मार्गो भावितः, अर्हता पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाय मार्गो भावितः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधये मार्गो भावितः? किं कारणं बोधिसत्त्वो महासत्त्वो दुष्करचर्याञ् चरति यद् दुःखानि सत्त्वानां कृतने प्रत्यनुभवति? किं कारणं तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, किं कारणं तथागतेन धर्मचक्रं प्रवर्तितम्?
SK
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पादस्य धर्मस्य प्राप्तिम् इच्छामि न समयं चानुत्पादस्य स्रोतआपत्तित्वम् इच्छामि, स्रोतआपत्तिफलं नानुत्पादस्य सकृदागामित्वम् इच्छामि, सकृदागामिफलं नानुत्पादस्यानागामित्वम् इच्छामि नानागामिफलं नानुत्पादस्यार्हत्त्वम् इच्छामि नार्हत्त्वसाक्षात्क्रियां, नानुत्पादस्य प्रत्येकबुद्धत्वम् इच्छामि न प्रत्येकबोधिर् नाप्य् अहम् आयुष्मञ् छारद्वतीपुत्रेच्छामि यो बोधिसत्त्वो महासत्त्वो दुष्करचर्यां चरन् नापि बोधिसत्त्वो महासत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र दुःखसंज्ञां जनयित्वाशक्यम् अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं कर्तुम् अपि त्व् आयुष्मञ् छारद्वतीपुत्र सर्वत्त्वेयुमातृसंज्ञा जनयित्वा पितृसंज्ञां जनयित्वा पुत्रसंज्ञा जनयित्वासक्यम् अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थकर्तुन् तच् चानुपलम्भयोगेन एवं बोधिसत्त्वेन महासत्त्वेन चित्तम् उत्पादयितव्यं, यथात्मात्मेति चोच्यते स च सर्वेण सर्वथा सर्वं न संविद्यते नोपलभ्यते.
SK
एवम् अध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेद् एवं संज्ञाम् उत्पादयितव्येति दुष्करसंज्ञाम् उत्पदयिष्यति. तत् कस्य हेतोः? तथा हि न स कच्चित् तद् धर्मम् उत्पादयति नोपलभ्यते नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पादे तथागतम् इच्छामि नानुत्तरा संयक्संबोधिर् यथा तथागतेन धर्मचक्रं प्रवर्तितं न ह्य् अनुत्पन्नेन धर्मेण प्राप्तिः प्राप्यते.
SK
आह: किम् पुनस् त्वम् आयुष्मन् सुभूते उत्पन्नेन धर्मेण प्राप्तिम् इच्छसि? अथानुत्पन्नेन धर्मेण प्राप्यमाणम्?
SK
सुभूतिर् आह: नाहम् आयुष्मञ् छारद्वतीपुत्रोत्पान्नेन धर्मेण प्राप्तिम् इच्छामि नाप्य् अनुत्पन्नेन धर्मेण प्राप्यमाणाम्.
SK
आह: किं पुनर् आयुष्मन् सुभूते नास्ति प्राप्तिर् नास्त्य् अभिसमयः.
SK
सुभूतिर् आह: अस्त्य् आयुष्मञ् छारद्वतीपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनः परमार्थेन धर्मेण.
SK
अपि तु खलु पुनर् आयुष्मञ् छारद्वतीपुत्र लोकव्यवहारेण प्राप्तिर् अभिसमयो वा प्रज्ञाप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा नागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा प्रज्ञयते. न पुनः परमार्थेन प्राप्तिर् वाभिसमयो वा स्रोतआपन्नो वा (Śस्P II-२ ६७) सकृदागामी वानागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते.
SK
आह: किं पुनर् आयुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन?
SK
आह: एवम् एतद् आयुष्मञ् छारद्वतीपुत्र यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र परमार्थेण कर्मणः करमविपाकः, नोत्पादो न निरोधो न संक्लेशो न व्यवदानः.
SK
आह: किं पुनर् आयुष्मन् सुभूते ऽनुत्पन्नो धर्म उत्पद्यते, अथ वोत्पन्नो धर्म उत्पद्यते?
SK
सुभूतिर् आह: नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य धर्मस्योत्पादम् इच्छामि.
SK
आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
SK
सुभूतिर् आह: रूपस्यायुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संज्ञाया आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संस्काराणाम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानस्यायुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
चक्षुषो ऽहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसो ऽहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य (Śस्P II-२ ६८) स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्मानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
चक्षुर्विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
चक्षुःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
पृथिवीधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य (Śस्P II-२ ६९) स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
अविद्याया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
दानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
SK
अध्यात्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया (Śस्P II-२ ७०) अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
SK
स्मृत्युपस्थानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सम्यक्प्रहाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ऋद्धिपादानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, इन्द्रियाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बोध्यङ्गानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आर्याष्टाङ्गमार्गस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् (Śस्P II-२ ७१) उत्पादं नेच्छामि, ध्यानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अप्रमाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आरूप्यसमापत्तीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विमोक्षाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अनुपूर्वविहारसमापत्त्ल्नाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अभिज्ञानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, समाधीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, धारणीमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
SK
तथागतबलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, वैशारद्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, प्रतिसंविदाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महामैत्र्या अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महाकरुणाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्यायाम् उत्पादं नेच्छामि, आवेणिकबुद्धधर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
SK
स्रोतआपत्तिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सकृदागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहम् आयुष्मञ् (Śस्P II-२ ७२) छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
SK
आह: कतमस्य त्वम् आयुष्मन् सुभूते उत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
SK
आह: रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संज्ञाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
चक्षुषो ऽहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहम् आयुष्मञ् छारद्वति पुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसो ऽहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि.
SK
चक्षुर्विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य (Śस्P II-२ ७३) स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
चक्षुःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
SK
पृथिवीधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
अविद्याया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं (Śस्P II-२ ७४) नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
SK
दानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
SK
अध्यात्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया (Śस्P II-२ ७५) अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
SK
स्मृत्युपस्थानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सम्यक्प्रहाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ऋद्धिपादानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, इन्द्रियाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बोध्यङ्गानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आर्याष्टाङ्गमार्गस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ध्यानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अप्रमाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आरूप्यसमापत्तीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विमोक्षाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अनुपूर्वविहारसमापत्तिनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अभिज्ञानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, समाधीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, धारणीमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
SK
तथागतबलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, वैशारद्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, प्रतिसंविदाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महामैत्र्या अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महाकरुणाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्यायाम् उत्पादं नेच्छामि, आवेणिकबुद्धधर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
SK
स्रोतआपत्तिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सकृदागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि,
SK
सर्वज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
SK
शारद्वतीपुत्र आह: किं पुनर् आयुष्मन् सुभूते उत्पाद उत्पद्यते? अथानुत्पाद उत्पद्यते?
SK
आह: न ह्य् आयुष्मञ् छारद्वतीपुत्रोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् चोत्पादो यश् चानुत्पाद उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणो यद् उतालक्षणः. तद् अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते.
SK
शारद्वतीपुत्र आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति ते मन्त्रयितुम्, अनुत्पन्नानां धर्माणाम् अनुत्पादो ह्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्.
SK
सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मञ् (Śस्P II-२ ७७) छारद्वतीपुत्र यच् च प्रतिभाति ते मन्त्रयितुम् इति, अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मञ् छारद्वतीपुत्र न मे प्रतिभाति मन्त्रयितुम्, अनुत्पन्नानां धर्माणाम् अनुत्पादो ऽपि मे आयुष्मञ् छारद्वतीपुत्र न प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् चानुत्पन्नो धर्मो यश् चानुत्पादो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्वधर्मा एते न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा अविज्ञप्तिका एकलक्षणा यद् उतालक्षणाः.
SK
आह: अनुत्पाद इत्य् आयुष्मन् सुभूते मन्त्रः, अनुत्पादं प्रतिभानं, अनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मञ् छारद्वतीपुत्र अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानो ऽनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपम् अनुत्पादो वेदनानुत्पादः संज्ञानुत्पादः संस्कारानुत्पादो विज्ञानम् अनुत्पादः.
SK
चक्षुर् अनुत्पादः श्रोत्रम् अनुत्पादो घ्राणम् अनुत्पादो जिह्वानुत्पादः कायो ऽनुत्पादो मनो ऽनुत्पादः.
SK
रूपम् अनुत्पादः शब्दो ऽनुत्पादो गन्धो ऽनुत्पादो रसो ऽनुत्पादः स्पर्शो ऽनुत्पादो धर्मा अनुत्पादः.
SK
चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादो घ्राणविज्ञानम् अनुत्पादो जिह्वाविज्ञानम् अनुत्पादः कायविज्ञानम् अनुत्पादो मनोविज्ञानम् अनुत्पादः.
SK
चक्षुःसंस्पर्शो ऽनुत्पादः श्रोत्रसंस्पर्शो ऽनुत्पादो घ्राणसंस्पर्शो ऽनुत्पादो जिह्वासंस्पर्शो ऽनुत्पादः कायसंस्पर्शो ऽनुत्पादो मनःसंस्पर्शो ऽनुत्पादः.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
SK
पृथिवीधातुर् अनुत्पादो ऽब्धातुर् अनुत्पादः तेजोधातुर् अनुत्पादो वायुधातुर् अनुत्पाद आकाशधातुर् अनुत्पादो विज्ञानधातुर् अनुत्पादः.
SK
अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानम् अनुत्पादो नामरूपम् अनुत्पादः षडायतनम् अनुत्पादः स्पर्शो ऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानम् अनुत्पादो भवो ऽनुत्पादो जातिर् अनुत्पादो जरामरणम् अनुत्पादः.
SK
दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः.
SK
अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादो ऽसंस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादः.
SK
स्मृत्युपस्थानान्य् अनुत्पादः सम्यक्प्रहाणान्य् अनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्य् अनुत्पादो बलान्य् अनुत्पादो बोध्यङ्गान्य् अनुत्पाद आर्याष्टाङ्गो मार्गो ऽनुत्पाद आर्यसत्यान्य् अनुत्पादो ध्यानान्य् अनुत्पादो ऽप्रमाणान्य् अनुत्पाद आरूप्यसमापत्तयो ऽनुत्पादो विमोक्षानुत्पादो ऽनुपूर्वविहारसमापत्तयो ऽनुत्पादः,
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादो ऽभिज्ञानुत्पादः, समाधयो ऽनुत्पादो धारणीमुखान्य् अनुत्पादः तथागतबलान्य् अनुत्पादो वैशारद्यान्य् अनुत्पादः प्रतिसंविदो ऽनुत्पादो महामैत्र्य् अनुत्पादो महाकरुणानुत्पाद आवेणिकबुद्धधर्मा अनुत्पादः.
SK
स्रोतआपत्तिफलम् अनुत्पादः सकृदागामिफलम् अनुत्पादो ऽनागामिफलम् अनुत्पादो ऽर्हत्त्वम् अनुत्पादः प्रत्येकबोधिर् अनुत्पादः, सर्वज्ञतानुत्पादो मार्गाकारज्ञतानुत्पादः सर्वाकारज्ञतानुत्पादः,
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानुत्पादो मन्त्रो ऽनुत्पादं प्रतिभानम् अनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्.
SK
आह: धर्मकथिकानाम् अग्रतायाम् अयम् आयुष्मन् सुभूतिः स्थापयितव्यः. तत् कस्य हेतोः? तथा हि सुभूतिः स्थविरो यतो यत एव परिपृच्छ्यते ततस् तत एव निःसरति.
SK
सुभूतिर् आह: धर्मतैषायुष्मञ् छारद्वतीपुत्र भगवतः श्रावकानाम् अनिश्रितानां सर्वधर्मेषु ते यतो यत एव परिपृच्छ्यन्ते (Śस्P II-२ ७९) ततस् तत एव निःसरन्ति. तत् कस्य हेतोः? यथापि तद् अनिश्रितत्वात् सर्वधर्माणाम्.
SK
आह: कथम् आयुष्मन् सुभूते ऽनिश्रिताः सर्वधर्माः?
SK
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, वेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संज्ञायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कारा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्त्रेणोपलभ्यते, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
SK
चक्षुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, घ्राणम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, जिह्वायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, काय आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, मन आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
SK
रूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, शब्द आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, गन्ध आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, रस आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, स्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो (Śस्P II-२ ८०) नोभयम् अन्तरेणोपलभ्यते, धर्मा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
SK
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, जिह्वाविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
SK
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिःश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, कायसंस्पर्शप्रत्ययवेदनायुष्मञ् (Śस्P II-२ ८१) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
SK
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, अब्धातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, वायुधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तर् एणोपलभ्य् अते.
SK
अविद्यायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कारा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, नामरूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, षडायतनम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, स्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, वेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, तृष्णायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अतरेणोपलभ्यते, उपादानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, भव आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, जातिर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, जरामरनम् आयुष्मञ् (Śस्P II-२ ८२) छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
SK
दानपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शीलपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, वीर्यपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, ध्यानपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अध्यात्मबहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शून्यताशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, परमार्थशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, असंस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अत्यन्तशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, प्रकृतिशून्यतायुष्मन् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता (Śस्P II-२ ८३) नोभयम् अन्तरेणोपलभ्यते, सर्वधर्मशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अभावस्वभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
SK
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, इन्द्रियाण्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, बलान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, आर्याष्टाङ्गो मार्ग आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, आरूप्यसमापत्तयः आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, विमोक्षा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनुपूर्वविहारसमापत्तय आयुष्मञ् (Śस्P II-२ ८४) छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रितानि न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, अभिज्ञा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, समाधय आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, प्रतिसंविद आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महामैत्र्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महाकरुणायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
SK
स्रोतआपत्तिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, सकृदागामिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, अनागामिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, अर्हत्त्वम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, प्रत्येकबोधिर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, सर्वज्ञतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, मार्गाकारज्ञतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, सर्वाकारज्ञतायुष्मञ् (Śस्P II-२ ८५) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्याम् उपादाय.
SK
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरित्वा रूपं परिशोधयितव्यं, वेदना परिशोधयितव्या, संज्ञा परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यम्.
SK
चक्षुर् परिशोधयितव्यं, श्रोत्रं परिशोधयितव्यं, घ्राणं परिशोधयितव्यं, जिह्वा परिशोधयितव्या, कायः परिशोधयितव्यः, मनः परिशोधयितव्यम्.
SK
रूपं परिशोधयितव्यं, शब्दः परिशोधयितव्यः, गन्धः परिशोधयितव्यः, रसः परिशोधयितव्यः, स्पर्शः परिशोधयितव्यः, धर्माः परिशोधयितव्याः.
SK
चक्षुर्विज्ञानं परिशोधयितव्यं, श्रोत्रविज्ञानं परिशोधयितव्यं, घ्राणविज्ञानं परिशोधयितव्यं, जिह्वाविज्ञानं परिशोधयितव्यं, कायविज्ञानं परिशोधयितव्यं, मनोविज्ञानं परिशोधयितव्यम्.
SK
चक्षुःसंस्पर्शः परिशोधयितव्यः, श्रोत्रसंस्पर्शः परिशोधयितव्यः, घ्राणसंस्पर्शः परिशोधयितव्यः, जिह्वासंस्पर्शः परिशोधयितव्यः, कायसंस्पर्शः परिशोधयितव्यः, मनःसंस्पर्शः परिशोधयितव्यः.
SK
चक्षुःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, घ्राणसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, जिह्वासंस्पर्शप्रत्ययवेदना परिशोधयितव्या, कायसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, मनःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या.
SK
पृथिवीधातुः परिशोधयितव्यो ऽब्धातुः परिशोधयितव्यः तेजोधातुः परिशोधयितव्यो वायुधातुः परिशोधयितव्य आकाशधातुः परिशोधयितव्यो विज्ञानधातुः परिशोधयितव्यः.
SK
अविद्या परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यं, नामरूपं परिशोधयितव्यं, षडायतनं परिशोधयितव्यं, स्पर्शः परिशोधयितव्यो वेदना परिशोधयितव्या, तृष्णा परिशोधयितव्या, (Śस्P II-२ ८६) उपादानं परिशोधयितव्यं, भवः परिशोधयितव्यो जातिः परिशोधयितव्या, जरामरणं परिशोधयितव्यम्.
SK
दानपारमिता परिशोधयितव्या, शीलपारमिता परिशोधयितव्या, क्षान्तिपारमिता परिशोधयितव्या, वीर्यपारमिता परिशोधयितव्या, ध्यानपारमिता परिशोधयितव्या, प्रज्ञापारमिता परिशोधयितव्या.
SK
अध्यात्मशून्यता परिशोधयितव्या, बहिर्धाशून्यता परिशोधयितव्या, अध्यात्मबहिर्धाशून्यता परिशोधयितव्या, शून्यताशून्यता परिशोधयितव्या, महाशून्यता परिशोधयितव्या, परमार्थशून्यता परिशोधयितव्या, संस्कृतशून्यता परिशोधयितव्या, असंस्कृतशून्यता परिशोधयितव्या, अत्यन्तशून्यता परिशोधयितव्या, अनवराग्रशून्यता परिशोधयितव्या, अनवकारशून्यता परिशोधयितव्या, प्रकृतिशून्यता परिशोधयितव्या, सर्वधर्मशून्यता परिशोधयितव्या, स्वलक्षणशून्यता परिशोधयितव्या, अनुपलम्भशून्यता परिशोधयितव्या, अभावशून्यता परिशोधयितव्या, स्वभावशून्यता परिशोधयितव्या, अभावस्वभावशून्यता परिशोधयितव्या.
SK
स्मृत्युपस्थानानि परिशोधयितव्यानि, सम्यक्प्रहाणानि परिशोधयितव्यानि, ऋद्धिपादाः परिशोधयितव्याः, इन्द्रियाणि परिशोधयितव्यानि, बलानि परिशोधयितव्यानि, बोध्यङ्गानि परिशोधयितव्यानि, आर्याष्टाङ्गो मार्गः परिशोधयितव्यः, आर्यसत्यानि परिशोधयितव्यानि, ध्यानानि परिशोधयितव्यानि, अप्रमाणानि परिशोधयितव्यानि, आरूप्यसमापत्तयः परिशोधयितव्याः, विमोक्षाः परिशोधयितवाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिशोधयितव्यानि, अभिज्ञाः परिशोधयितवाः, समाधयः परिशोधयितवाः, धारणीमुखानि परिशोधयितव्यानि, तथागतबलानि परिशोधयितव्यानि, वैशारद्यानि परिशोधयितव्यानि, प्रतिसंविदः परिशोधयितव्यः, महामैत्री परिशोधयितव्या, महाकरुणा परिशोधयितव्या, आवेणिकबुद्धधर्माः परिशोधयितव्याः, सर्वज्ञता परिशोधयितव्या, मार्गाकारज्ञता परिशोधयितव्या, सर्वाकारज्ञता परिशोधयितव्या.
SK
अथायुष्मञ् छारद्वतीपुत्र पुनर् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति?
SK
सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र दानपारमिता लौकिक्य् अस्ति (Śस्P II-२ ८७) लोकोत्तरास्ति, शीलपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, क्षान्तिपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, वीर्यपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, ध्यानपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, प्रज्ञापारमिता लौकिक्य् अस्ति लोकोत्तरास्ति.
SK
आह: कतमायुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा?
SK
सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो दाता भवति दानपतिः श्रमणब्राह्मणकृपणवनीपकायाचनकेभ्यः, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यो गन्धं गन्धार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्य उपाश्रयम् उपाश्रयार्थिकेभ्य शय्यासनं शय्यासनार्थिकेभ्य उपकरणम् उपकरणार्थिकेभ्यो भैषज्यं भैषज्यार्थिकेभ्यः, यावद् अन्यतरान्यतरा मानुष्यकापरिष्कारान् ददाति पुत्रार्थिकेभ्यः पुत्रं ददाति दुहितृकार्थिकेभ्यो दुहितृन् ददाति भार्यार्थिकेभ्यो भार्यां ददाति राज्यार्थिकेभ्यो राज्यं ददाति, शिरोऽर्थिकेभ्यः शिरो ददाति, नयनार्थिकेभ्यो नयनं ददाति, अङ्गप्रत्यङ्गार्थिकेभ्यो ऽङ्गं ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जान् ददाति, तच् च संनिश्रितः परित्यजति तस्यैवं भवति, अहं ददाम्य् एष प्रतिग्र्ह्णाति, इदं दानम् अहं दाता, अहं दानपतिर् अहं सर्वास्तिपरित्यागी, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, तच् च दानं दत्वोपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे दानफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिता भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति, स त्रिषु संयोगेषु सक्तस् तद् दानं ददाति, कतमेषु त्रिषु? यद् उतात्मसंज्ञायां परसंज्ञायां दानसंज्ञायाम् एषु त्रिषु संयोगेषु सक्तो दानं ददाति. इयम् उच्यते लौकिकी दानपारमिता. केन कारणेनोच्यते लौकिकी दानपारमितेति? तथा हि लोकतो न चरति नोच्चरति, न च संक्रामति तेनोच्यते लौकिकी दानपारमिता.
SK
तत्र कतमा लोकोत्तरा दानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
SK
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस् तद् दानं ददन्न् आत्मानं नोपलभ्यते प्रतिग्राहकं नोपलभ्यते दानं नोपलभ्यते विपाकञ् (Śस्P II-२ ८८) च नाभिनन्दति. इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.
SK
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र दानं ददाति सर्वसत्त्वेभ्यश् च तद् दानं निर्यातयति तांश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यति. इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र लोकोत्तरा दानपारमिता. केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा हि लोकोत्तरेति लोका चरति संक्रामति तेनोच्यते लोकोत्तरा दानपारमितेति.
SK
अस्त्य् आयुष्मञ् छारद्वतीपुत्र शीलपारमिता लौकिक्य् अस्ति लोकोत्तरा.
SK
तत्र कतमा लौकिकी शीलपारमिता?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षति तच् च संनिश्रितो भवति तस्यैवं भवत्य् अहम् शीलं रक्षामि सत्त्वानाम् अर्थाय. इदम् शीलम् अहं बुद्धाज्ञां करोमि तच् च शीलं रक्षन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे शीलफलेनैते सत्त्वा दृष्ट एव धर्मेषु सुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् तच् छीलं रक्षति यद् उतात्मसंज्ञायां परसंज्ञायां शीलसंज्ञायाम् इयम् उच्यते लौकिकी शीलपारमितेति. तथा हि लोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
SK
तत्र कतमा लोकोत्तरा शीलपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
SK
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते शीलं नोपलभ्यते विपाकं नाभिनन्दति सर्वसत्त्वेभ्यश् च तच् छीलं निर्यातयति. तांश् च सत्त्वान् नोपलभ्यते ऽनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यतीयम् उच्यते लोकोत्तरा शीलपारमिता तथा हि लोका चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
SK
अस्त्य् आयुष्मञ् छारद्वतीपुत्र क्षान्तिपारमिता लौकिक्य् अस्ति लोकोत्तरा.
SK
तत्र कतमा लौकिकी क्षान्तिपारमिता?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयति, ताञ् च संनिश्रितो भवति, तस्यैवं भवत्व् अहं क्षान्तिं भावयामि सर्वसत्त्वानाम् अर्थाय, इयं क्षान्तिर् अहं बुद्धाज्ञां करोति तञ् च क्षान्तिं भावयन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं (Śस्P II-२ ८९) साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयते, अनेन मे क्षान्तिफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् ता क्षान्तिं भावयति यद् उतात्मसंज्ञायां परसंज्ञायां क्षान्तिसंज्ञायाम् इयम् उच्यते लौकिकी क्षान्तिपारमितेति. तथा हि लोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
SK
तत्र कतमा लोकोत्तरा क्षान्तिपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
SK
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते क्षान्तिं नोपलभ्यते, विपाकं नाभिनन्दति, सर्वसत्त्वेभ्यश् च तां क्षान्तिं निर्यातयति तांश् च सत्त्वान् नोपलभ्यते, ऽनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यति. इयम् उच्यते लोकोत्तरा क्षान्तिपारमिता, तथा हि लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
SK
अस्त्य् आयुष्मञ् छारद्वतीपुत्र वीर्यपारमिता लौकिक्य् अस्ति लोकोत्तरा.
SK
तत्र कतमा लौकिकी वीर्यपारमिता?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यम् आरभते, तच् च संनिश्रित आरभते तस्यैवं भवत्य् अहं वीर्यम् आरभते सर्वसत्त्वानाम् अर्थाय, अयं काय इदं चित्तम् इदं वीर्यम् अहं बुद्धाज्ञां करोम्य् अहं वीर्यपारमितायाञ् चरामि तच् च वीर्यम् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरयां सम्यक्संबोधौ परिणामयति, अनेन मे वीर्यफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवत्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् तं वीर्यम् आरभते, यद् उतात्मसंज्ञायां परसंज्ञायां वीर्यसंज्ञायाम् इयम् उच्यते लौकिकी वीर्यपारमितेति. तथा हि कोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
SK
तत्र कतमा लोकोत्तरा वीर्यपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
SK
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यम् आरभमाण आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते वीर्यं नोपलभ्यते विपाकं च नाभिनन्दति सर्वसत्त्वेभ्यश् च तद् वीर्यं निर्यतयति तांश् च सत्त्वान् नोपलभते नुत्तरायां सम्यक्संबोधौ परिणामयञ् चापि च निमित्तम् न समनुपश्यतीयम् उच्यते लोकोत्तरा वीर्यपारमिता तथा हि (Śस्P II-२ ९०) लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
SK
अस्त्य् आयुष्मञ् छारद्वतीपुत्र ध्यानपारमिता लौकिक्य् अस्ति लोकोत्तरा.
SK
तत्र कतमा लौकिकी ध्यानपारमिता?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानं समापद्यते, तच् च संनिश्रितः समापद्यते तस्यैवं भवत्य् अहं ध्यानानि समापद्यते सर्वसत्त्वानाम् अर्थाय, इमानि ध्यानानि, अहं बुद्धाज्ञां करोमि तच् च ध्यानं समापद्यमान उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे ध्यानफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति, स त्रिषु संज्ञेषु सक्तस् तद् ध्यानं समापद्यते, यद् उतात्मसंज्ञायां परसंज्ञायां ध्यानसंज्ञायाम् इयम् उच्यते लौकिकी ध्यानपारमितेति, तथा हि लोकतो न चरति नोच्चरति न संक्रामति, तद् उच्यते लौकिकीति.
SK
तत्र कतमा लोकोत्तरा ध्यानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
SK
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानानि समापद्यमान आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते विपाकं च नाभिनन्दति, सर्वसत्त्वेभ्यश् च तानि ध्यानानि निर्यातयति, ताश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तन् न समनुपश्यतीयम् उच्यते लोकोत्तरा ध्यानपारमिता तथा हि लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
SK
अस्त्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिता लौकिक्य् अस्ति लोकोत्तरा.
SK
तत्र कतमा लौकिकी प्रज्ञापारमिता?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयति, ताञ् च संनिश्रितो भावयति सर्वपापं प्रतिदेशयति, आत्मनः परेषां चार्थाय सर्वपुण्यम् अनुमोद्यते सर्वबुद्धान् अध्येषते उपलम्भयोगेन तच् च सर्वकुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपायेन तस्यैवं भवत्य् अहं प्रज्ञां भावयामि सर्वसत्त्वानाम् अर्थाय इयं प्रज्ञा इमां बुद्धाज्ञां करोमि. तां च प्रज्ञां भावयन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति अनेन मे प्रज्ञाफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिनो भवन्त्व् अनुत्पादाय च परिनिर्वान्त्व् इति, स त्रिषु संज्ञेषु सक्तस् तां प्रज्ञां भावयन्ति, यद् उतात्मसंज्ञायां परसंज्ञायां प्रज्ञासंज्ञायाम् इयम् उच्यते लौकिकी (Śस्P II-२ ९१) प्रज्ञापारमिता तथा हि लोकान् न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
SK
तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
SK
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
SK
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते प्रज्ञान् नोपलभ्यते विपाकश् च नाभिनन्दति, सर्वसत्त्वेभ्यश् च प्रज्ञां निर्यातयति, तांश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तन् न समनुपश्यतीयम् उच्यते लोकोत्तरा प्रज्ञापारमिता तथा हि लोकाच् चरत्य् उच्चरति संक्रामति तद् उच्यते लोकोत्तरा प्रज्ञापारमितेति.
SK
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति.
SK
आह: कतमायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः?
SK
सुभूतिर् आह: दानपारमितायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शीलपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, क्षान्तिपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, वीर्यपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, ध्यानपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
SK
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, बहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अध्यात्मबहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यताशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, परमार्थशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, संस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, असंस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अत्यन्तशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवराग्रशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवकारशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रकृतिशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधर्मशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वलक्षणशून्यता (Śस्P II-२ ९२) बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनुपलम्भशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावस्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
SK
चत्वारि स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ऋद्धिपादा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चेन्द्रियाणि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्च बलानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्त बोध्यङ्गानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, आर्याष्टाङ्गो मार्गो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
SK
चत्वार्य् आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ध्यानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वार्य् अप्रमाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्र आरूप्यसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टौ विमोक्षा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, नवानुपूर्वविहारसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चाभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वसमाधयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधारणीमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
SK
दशतथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि वैशारद्यानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्रः प्रतिसंविदो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महामैत्री बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाकरुणा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टादशावेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
SK
आह: साधु साध्व् आयुष्मन् सुभूते कतमस्या अयं पारमितायाः पुरुषकारः?
SK
सुभूतिर् आह: प्रज्ञापारमिताया आयुष्मञ् छारद्वतीपुत्रायं पुरुषकारः. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिता (Śस्P II-२ ९३) जनयित्री सर्वकुशलानां धर्माणां श्रावकधर्माणां प्रत्येकबुद्धधर्माणां बुद्धधर्माणां प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र परिग्राहिका संग्राहिका सर्वकुशलानां धर्माणां श्रावकधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां प्रज्ञापारमितायाम् आयुष्मञ् छारद्वतीपुत्र चरितैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धाः, अनागता अप्य् आयुष्मञ् छारद्वतीपुत्र तथागतार्हतः सम्यक्संबुद्धा अत्रैव प्रज्ञापारमितायाञ् चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. ये ऽपि ते आयुष्मञ् छारद्वतीपुत्र दशसु दिक्षु लोकधातुषु तथागतार्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रीयन्ते यापयन्ति, ते ऽपीहैव प्रज्ञापारमितायाञ् चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः.
SK
सचेत् पुनर् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां न भवति काङ्क्षायितत्वं वा धन्वायितत्वं वा वेदितव्यम् आयुष्मञ् छारद्वतीपुत्र विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेण यद् उत सर्वसत्त्वानां त्राणाय सर्वसत्त्वानाम् अपरित्यागतायै तच् चानुपलम्भयोगेन विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन मनसिकारेण यद् उत महाकरुणा मनसिकारेन.
SK
आह: विहरतुम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो ऽयम् अनेन विहारेणेच्छसि, अविरहितं चानेन मनसिकारेण यद् उत महाकरुणा मनसिकारेण, एवं सत्य् आयुष्मन् सुभूते सर्वसत्त्वा बोधिसत्त्वा भविष्यन्ति. तत् कस्य हेतोः? सर्वसत्त्वा ह्य् आयुष्मन् सुभूते ऽविरहिता मनसिकारेन.
SK
सुभूतिर् आह: साधु साध्व् आयुष्मञ् छारद्वतीपुत्र उपालप्स्ये उपालप्स्य इति. अत एवायुष्मता शारद्वतीपुत्रेण भूतपदाभिधानेन परिगृहीतः. तत् कस्य हेतोः? सत्त्वासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या सत्त्वाभावतया मनसिकाराभावता वेदितव्या सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वशून्यतया मनसिकाराशून्यता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वान् अभिसंबोधनतया मनसिकारान् अभिसंबोधनता वेदितव्या.
SK
रूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता (Śस्P II-२ ९४) वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
वेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
संज्ञासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संज्ञाभावतया मनसिकाराभावता वेदितव्या, संज्ञास्वभावतया मनसिकारास्वभावता वेदितव्या, संज्ञाशून्यतया मनसिकारशून्यता वेदितव्या, संज्नाविविक्ततया मनसिकारविविक्तता वेदितव्या, संज्ञानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्काराशून्यतया मनसिकारशून्यता वेदितव्या, संस्काराविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारवि विक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
चक्षुरसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुरभावतया मनसिकाराभावता वेदितव्या, चक्षुरस्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुरनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
श्रोत्रासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्राभावतया मनसिकाराभावता वेदितव्या, श्रोत्रास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
घ्राणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (Śस्P II-२ ९५) घ्राणाभावतया मनसिकाराभावता वेदितव्या, घ्राणास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
जिह्वासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वाभावतया मनसिकाराभावता वेदितव्या, जिह्वास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
कायासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायाभावतया मनसिकाराभावता वेदितव्या, कायास्वभावतया मनसिकारास्वभावता वेदितव्या, कायशून्यतया मनसिकारशून्यता वेदितव्या, कायविविक्ततया मनसिकारविविक्तता वेदितव्या, कायानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
मनोसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोभावतया मनसिकाराभावता वेदितव्या, मनोऽस्वभावतया मनसिकारास्वभावता वेदितव्या, मनःशून्यतया मनसिकारशून्यता वेदितव्या, मनोऽविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोऽनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
रूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावनतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
शब्दासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शब्दाभावतया मनसिकाराभावता वेदितव्या, शब्दास्वभावतया मनसिकारास्वभावता वेदितव्या, शब्दशून्यतया मनसिकारशून्यता वेदितव्या, शब्दविविक्ततया मनसिकारविविक्तता वेदितव्या, शब्दानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
गन्धासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, गन्धाभावतया मनसिकाराभावता वेदितव्या, गन्धास्वभावतया मनसिकारास्वभावता वेदितव्या, गन्धशून्यतया मनसिकारशून्यता वेदितव्या, गन्धविविक्ततया मनसिकारविविक्तता वेदितव्या, गन्धानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
रससत्तययुष्मञ् छारद्वतीपुत्र मनसिकरसत्त वेदितव्य, रसाभावतया मनसिकाराभावता वेदितव्या, रसास्वभावतया मनसिकारास्वभावता वेदितव्या, रसशून्यतया मनसिकारशून्यता वेदितव्या, रसविविक्ततया मनसिकारविविक्तता वेदितव्या, रसानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
धर्मासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, धर्माभावतया मनसिकाराभावता वेदितव्या, धर्मास्वभावतया मनसिकारास्वभावता वेदितव्या, धर्मशून्यतया मनसिकारशून्यता वेदितव्या, धर्मविविक्ततया मनसिकारविविक्तता वेदितव्या, धर्मानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
चक्षुर्विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुर्विज्ञानाभावतया मनसिकाराभावता वेदितव्या, चक्षुर्विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुर्विज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुर्विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
श्रोत्रविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रविज्ञानाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
घ्राणविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणविज्ञानाभावतया मनसिकाराभावता वेदितव्या, घ्राणविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
जिह्वाविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (Śस्P II-२ ९७) जिह्वाविज्ञानाभावतया मनसिकाराभावता वेदितव्या, जिह्वाविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वाविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधरिअता वेदितव्या,
SK
कायविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायविज्ञानाभावतया मनसिकाराभावता वेदितव्या, कायविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, कायविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, कायविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, कायविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
मनोविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोविज्ञानाभावतया मनसिकाराभावता वेदितव्या, मनोविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, मनोविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, मनोविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
चक्षुःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्श विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
श्रोत्रसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्श शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
घ्राणसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शानभिसंबोधनतया (Śस्P II-२ ९८) मनसिकारानभिसंबोधनता वेदितव्या,
SK
जिह्वासंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
कायसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
मनःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
श्रोत्रसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
घ्राणसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र (Śस्P II-२ ९९) मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
जिह्वासंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
कायसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
मनःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
पृथिवीधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, पृथिवीधात्वभावतया मनसिकाराभावता वेदितव्या, पृथिवीधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, पृथिवीधातुशून्यतया मनसिकारशून्यता वेदितव्या, पृथिवीधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, पृथिवीधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अब्धात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (Śस्P II-२ १००) अब्धात्वभावतया मनसिकाराभावता वेदितव्या, अब्धात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, अब्धातुशून्यतया मनसिकारशून्यता वेदितव्या, अब्धातुविविक्ततया मनसिकारविविक्तता वेदितव्या, अब्धात्व् अनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
तेजोधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तेजोधात्वभावतया मनसिकाराभावता वेदितव्या, तेजोधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, तेजोधातुशून्यतया मनसिकारशून्यता वेदितव्या, तेजोधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, तेजोधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
वायुधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वायुधात्वभावतया मनसिकाराभावता वेदितव्या, वायुधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, वायुधातुशून्यतया मनसिकारशून्यता वेदितव्या, वायुधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, वायुधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
आकाशधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आकाशधात्वभावतया मनसिकाराभावता वेदितव्या, आकाशधात्व् अस्वभावतया मनसिकारास्वभावता वेदितव्या, आकाशधातुशून्यतया मनसिकारशून्यता वेदितव्या, आकाशधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, आकाशधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
विज्ञानधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानधात्वभावतया मनसिकाराभावता वेदितव्या, विज्ञानधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानधातुशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, विज्ञानधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
अविद्यासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अविद्याभावतया मनसिकाराभावता वेदितव्या, अविद्यास्वभावतया मनसिकारास्वभावता वेदितव्या, अविद्याशून्यतया मनसिकारशून्यता वेदितव्या, अविद्याविविक्ततया मनसिकारविविक्तता वेदितव्या, अविद्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया (Śस्P II-२ १०१) मनसिकारास्वभावता वेदितव्या, संस्कारशून्यतया मनसिकारशून्यता वेदितव्या, संस्कारविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
नामरूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, नामरूपाभावतया मनसिकाराभावता वेदितव्या, नामरूपास्वभावतया मनसिकारास्वभावता वेदितव्या, नामरूपशून्यतया मनसिकारशून्यता वेदितव्या, नामरूपविविक्ततया मनसिकारविविक्तता वेदितव्या, नामरूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
षडायतनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, षडायतनाभावतया मनसिकाराभावता वेदितव्या, षडायतनास्वभावतया मनसिकारास्वभावता वेदितव्या, षडायतनशून्यतया मनसिकारशून्यता वेदितव्या, षडायतनविविक्ततया मनसिकारविविक्तता वेदितव्या, षडायतनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
वेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
तृष्णासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तृष्णाभावतया मनसिकाराभावता वेदितव्या, तृष्णास्वभावतया मनसिकारास्वभावता वेदितव्या, तृष्णाशून्यतया मनसिकारशून्यता वेदितव्या, तृष्णाविविक्ततया मनसिकारविविक्तता वेदितव्या, तृष्णानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
उपादानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (Śस्P II-२ १०२) उपादानाभावतया मनसिकाराभावता वेदितव्या, उपादानास्वभावतया मनसिकारास्वभावता वेदितव्या, उपादानशून्यतया मनसिकारशून्यता वेदितव्या, उपादानविविक्ततया मनसिकारविविक्तता वेदितव्या, उपादानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
भवासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, भवाभावतया मनसिकाराभावता वेदितव्या, भवास्वभावतया मनसिकारास्वभावता वेदितव्या, भवशून्यतया मनसिकारशून्यता वेदितव्या, भवविविक्ततया मनसिकारविविक्तता वेदितव्या, भवानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
जात्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जात्यभावतया मनसिकाराभावता वेदितव्या, जात्यस्वभावतया मनसिकारास्वभावता वेदितव्या, जातिशून्यतया मनसिकारशून्यता वेदितव्या, जातिविविक्ततया मनसिकारविविक्तता वेदितव्या, जात्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
जरामरणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जरामरणाभावतया मनसिकाराभावता वेदितव्या, जरामरणास्वभावतया मनसिकारास्वभावता वेदितव्या, जरामरणशून्यतया मनसिकारशून्यता वेदितव्या, जरामरणविविक्ततया मनसिकारविविक्तता वेदितव्या, जरामरणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
दानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, दानपारमिताभावतया मनसिकाराभावता वेदितव्या, दानपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, दानपारमिता शून्यतया मनसिकारशून्यता वेदितव्या, दानपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, दानपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
शीलपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शीलपारमिताभावतया मनसिकाराभावता वेदितव्या, शीलपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, शीलपारमिताशून्यतया मनसिकारशून्यता वेदितव्या, शीलपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, शीलपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
क्षान्तिपारमिता सत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, क्षान्तिपारमिताभावतया मनसिकाराभावता वेदितव्या, क्षान्तिपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, क्षान्तिपारमिताशून्यतया (Śस्P II-२ १०३) मनसिकारशून्यता वेदितव्या, क्षान्तिपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, क्षान्तिपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
वीर्यपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वीर्यपारमिताभावतया मनसिकाराभावता वेदितव्या, वीर्यपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, वीर्यपारमिता शून्यतया मनसिकारशून्यता वेदितव्या, वीर्यपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, वीर्यपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
ध्यानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ध्यानपारमिताभावतया मनसिकाराभावता वेदितव्या, ध्यानपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, ध्यान्पारमिता शून्यतया मनसिकारशून्यता वेदितव्या, ध्यानपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, ध्यानपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
प्रज्ञापारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रज्ञापारमिताभावतया मनसिकाराभावता वेदितव्या, प्रज्ञापारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, प्रज्ञापारमिता शून्यतया मनसिकारशून्यता वेदितव्या, प्रज्ञापारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, प्रज्ञापारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
अध्यात्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अध्यात्मशून्यताभावतया मनसिकाराभावता वेदितव्या, अध्यात्मशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अध्यात्मशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अध्यात्मशून्यता विविक्ततया मनसिकारविविक्तता वेदितव्या, अध्यात्मशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
बहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बहिर्धाशून्यताभावतया मनसिकाराभावता वेदितव्या, बहिर्धाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, बहिर्धाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, बहिर्धाशून्यता विविक्ततया मनसिकारविविक्तता वेदितव्या, बहिर्धाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अध्यात्मबहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता (Śस्P II-२ १०४) वेदितव्या, अध्यात्मबहिर्धाशून्यताभावतया मनसिकाराभावता वेदितव्या, अध्यात्मबहिर्धाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अध्यात्मबहिर्धाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अध्यात्मबहिर्धाशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अध्यात्मबहिर्धाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
शून्यताशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शून्यताशून्यताभावतया मनसिकाराभावता वेदितव्या, शून्यताशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, शून्यताशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, शून्यताशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, शून्यताशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
महाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महाशून्यताभावतया मनसिकाराभावता वेदितव्या, महाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, महाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, महाशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, महाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
परमार्थशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, परमार्थशून्यताभावतया मनसिकाराभावता वेदितव्या, परमार्थशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, परमार्थशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, परमार्थशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, परमार्थशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
संस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्कृतशून्यताभावतया मनसिकाराभावता वेदितव्या, संस्कृतशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्कृतशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, संस्कृतशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कृतशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
असंस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, असंस्कृतशून्यताभावतया मनसिकाराभावता वेदितव्या, असंस्कृतशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, असंस्कृतशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, असंस्कृतशून्यताविविक्ततया (Śस्P II-२ १०५) मनसिकारविविक्तता वेदितव्या, असंस्कृतशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अत्यन्तशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अत्यन्तशून्यताभावतया मनसिकाराभावता वेदितव्या, अत्यन्तशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अत्यन्तशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अत्यन्तशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अत्यन्तशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अनवराग्रशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनवराग्रशून्यताभावतया मनसिकाराभावता वेदितव्या, अनवराग्रशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनवराग्रशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनवराग्रशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनवराग्रशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अनवकारशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनवकारशून्यताभावतया मनसिकाराभावता वेदितव्या, अनवकारशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनवकारशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनवकारशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनवकारशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
प्रकृतिशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रकृतिशून्यताभावतया मनसिकाराभावता वेदितव्या, प्रकृतिशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, प्रकृतिशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, प्रकृतिशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, प्रकृतिशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
सर्वधर्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वधर्मशून्यताभावतया मनसिकाराभावता वेदितव्या, सर्वधर्मशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, सर्वधर्मशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वधर्मशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वधर्मशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
स्वलक्षणशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्वलक्षणशून्यताभावतया मनसिकाराभावता वेदितव्या, (Śस्P II-२ १०६) स्वलक्षणशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, स्वलक्षणशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, स्वलक्षणशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, स्वलक्षणशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अनुपलम्भशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनुपलम्भशून्यताभावतया मनसिकाराभावता वेदितव्या, अनुपलम्भशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनुपलम्भशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनुपलम्भशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनुपलम्भशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभावशून्यताभावतया मनसिकाराभावता वेदितव्या, अभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
स्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्वभावशून्यताभावतया मनसिकाराभावता वेदितव्या, स्वभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, स्वभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, स्वभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, स्वभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अभावस्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभावस्वभावशून्यताभावतया मनसिकाराभावता वेदितव्या, अभावस्वभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अभावस्वभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अभावस्वभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अभावस्वभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
स्मृत्युपस्थानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्मृत्युपस्थानाभावतया मनसिकाराभावता वेदितव्या, स्मृत्युपस्थानास्वभावतया मनसिकारास्वभावता वेदितव्या, स्मृत्युपस्थानशून्यतया मनसिकारशून्यता वेदितव्या, स्मृत्युपस्थानविविक्ततया (Śस्P II-२ १०७) मनसिकारविविक्तता वेदितव्या, स्मृत्युपस्थानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
सम्यक्प्रहाणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सम्यक्प्रहाणाभावतया मनसिकाराभावता वेदितव्या, सम्यक्प्रहाणास्वभावतया मनसिकारास्वभावता वेदितव्या, सम्यक्प्रहाणशून्यतया मनसिकारशून्यता वेदितव्या, सम्यक्प्रहाणविविक्ततया मनसिकारविविक्तता वेदितव्या, सम्यक्प्रहाणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
ऋद्धिपादासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ऋद्धिपादाभावतया मनसिकाराभावता वेदितव्या, ऋद्धिपादास्वभावतया मनसिकारास्वभावता वेदितव्या, ऋद्धिपादशून्यतया मनसिकारशून्यता वेदितव्या, ऋद्धिपादविविक्ततया मनसिकारविविक्तता वेदितव्या, ऋद्धिपादानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
इन्द्रियासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, इन्द्रियाभावतया मनसिकाराभावता वेदितव्या, इन्द्रियास्वभावतया मनसिकारास्वभावता वेदितव्या, इन्द्रियशून्यतया मनसिकारशून्यता वेदितव्या, इन्द्रियविविक्ततया मनसिकारविविक्तता वेदितव्या, इन्द्रियानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
बलासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बलाभावतया मनसिकाराभावता वेदितव्या, बलास्वभावतया मनसिकारास्वभावता वेदितव्या, बलशून्यतया मनसिकारशून्यता वेदितव्या, बलविविक्ततया मनसिकारविविक्तता वेदितव्या, बलानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
बोध्यङ्गासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बोध्यङ्गाभावतया मनसिकाराभावता वेदितव्या, बोध्यङ्गास्वभावतया मनसिकारास्वभावता वेदितव्या, बोध्यङ्गशून्यतया मनसिकारशून्यता वेदितव्या, बोध्यङ्गविविक्ततया मनसिकारविविक्तता वेदितव्या, बोध्यङ्गानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
आर्याष्टाङ्गमार्गासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आर्याष्टाङ्गमार्गाभावतया मनसिकाराभावता वेदितव्या, आर्याष्टाङ्गमार्गास्वभावतया मनसिकारास्वभावता वेदितव्या, आर्याष्टाङ्गमार्गशून्यतया मनसिकारशून्यता वेदितव्या, आर्याष्टाङ्गमार्गविविक्ततया मनसिकारविविक्तता वेदितव्या, आर्याष्टाङ्गमार्गानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
आर्यसत्यासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आर्यसत्याभावतया मनसिकाराभावता वेदितव्या, आर्यसत्यास्वभावतया मनसिकारास्वभावता वेदितव्या, आर्यसत्यशून्यतया मनसिकारशून्यता वेदितव्या, आर्यसत्यविविक्ततया मनसिकारविविक्तता वेदितव्या, आर्यसत्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
ध्यानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ध्यानाभावतया मनसिकाराभावता वेदितव्या, ध्यानास्वभावतया मनसिकारास्वभावता वेदितव्या, ध्यानशून्यतया मनसिकारशून्यता वेदितव्या, ध्यानविविक्ततया मनसिकारविविक्तता वेदितव्या, ध्यानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अप्रमाणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अप्रमाणाभावतया मनसिकाराभावता वेदितव्या, अप्रमाणास्वभावतया मनसिकारास्वभावता वेदितव्या, अप्रमाणशून्यतया मनसिकारशून्यता वेदितव्या, अप्रमाणविविक्ततया मनसिकारविविक्तता वेदितव्या, अप्रमाणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
आरूप्यसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आरूप्यसमापत्त्यभावतया मनसिकाराभावता वेदितव्या, आरूप्यसमापत्त्यस्वभावतया मनसिकारास्वभावता वेदितव्या, आरूप्यसमापत्तिशून्यतया मनसिकारशून्यता वेदितव्या, आरूप्यसमापत्तिविविक्ततया मनसिकारविविक्तता वेदितव्या, आरूप्यसमापत्त्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
विमोक्षासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विमोक्षाभावतया मनसिकाराभावता वेदितव्या, विमोक्षास्वभावतया मनसिकारास्वभावता वेदितव्या, विमोक्षशून्यतया मनसिकारशून्यता वेदितव्या, विमोक्षविविक्ततया मनसिकारविविक्तता वेदितव्या, विमोक्षानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
अनुपूर्वविहारसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनुपूर्वविहारसमापत्त्यभावतया मनसिकाराभावता वेदितव्या, अनुपूर्वविहारसमापत्त्यस्वभावतया मनसिकारास्वभावता वेदितव्या, अनुपूर्वविहारसमापत्तिशून्यतया मनसिकारशून्यता वेदितव्या, अनुपूर्वविहारसमापत्तिविविक्ततया मनसिकारविविक्तता वेदितव्या, अनुपूर्वविहारसमापत्त्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
शून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (Śस्P II-२ १०९) शून्यताभावतया मनसिकाराभावता वेदितव्या, शून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, शून्यताशून्यतया मनसिकारशून्यता वेदितव्या, शून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, शून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
आनिमित्तासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आनिमित्ताभावतया मनसिकाराभावता वेदितव्या, आनिमित्तास्वभावतया मनसिकारास्वभावता वेदितव्या, आनिमित्तशून्यतया मनसिकारशून्यता वेदितव्या, आनिमित्तविविक्ततया मनसिकारविविक्तता वेदितव्या, आनिमित्तानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अप्रणिहितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अप्रणिहिताभावतया मनसिकाराभावता वेदितव्या, अप्रणिहितास्वभावतया मनसिकारास्वभावता वेदितव्या, अप्रणिहितशून्यतया मनसिकारशून्यता वेदितव्या, अप्रणिहितविविक्ततया मनसिकारविविक्तता वेदितव्या, अप्रणिहितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
अभिज्ञासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभिज्ञाभावतया मनसिकाराभावता वेदितव्या, अभिज्ञास्वभावतया मनसिकारास्वभावता वेदितव्या, अभिज्ञाशून्यतया मनसिकारशून्यता वेदितव्या, अभिज्ञाविविक्ततया मनसिकारविविक्तता वेदितव्या, अभिज्ञानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
समाध्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, समाध्यभावतया मनसिकाराभावता वेदितव्या, समाध्यस्वभावतया मनसिकारास्वभावता वेदितव्या, समाधिशून्यतया मनसिकारशून्यता वेदितव्या, समाधिविविक्ततया मनसिकारविविक्तता वेदितव्या, समाध्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
धारणीमुखासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, धारणीमुखाभावतया मनसिकाराभावता वेदितव्या, धारणीमुखास्वभावतया मनसिकारास्वभावता वेदितव्या, धारणीमुखशून्यतया मनसिकारशून्यता वेदितव्या, धारणीमुखविविक्ततया मनसिकारविविक्तता वेदितव्या, धारणीमुखानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
तथागतबलासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तथागतबलाभावतया मनसिकाराभावता वेदितव्या, तथागतबलास्वभावतया मनसिकारास्वभावता वेदितव्या, तथागतबलशून्यतया मनसिकारशून्यता वेदितव्या, तथागतबलविविक्ततया मनसिकारविविक्तता (Śस्P II-२ ११०) वेदितव्या, तथागतबलानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
वैशारद्यासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वैशारद्याभावतया मनसिकाराभावता वेदितव्या, वैशारद्यास्वभावतया मनसिकारास्वभावता वेदितव्या, वैशारद्यशून्यतया मनसिकारशून्यता वेदितव्या, वैशारद्यविविक्ततया मनसिकारविविक्तता वेदितव्या, वैशारद्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
प्रतिसंविदसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रतिसंविदभावतया मनसिकाराभावता वेदितव्या, प्रतिसंविदस्वभावतया मनसिकारास्वभावता वेदितव्या, प्रतिसंविद्शून्यतया मनसिकारशून्यता वेदितव्या, प्रतिसंविद्विविक्ततया मनसिकारविविक्तता वेदितव्या, प्रतिसंविदनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
महामैत्र्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महामैत्र्यभावतया मनसिकाराभावता वेदितव्या, महामैत्र्यस्वभावतया मनसिकारास्वभावता वेदितव्या, महामैत्रीशून्यतया मनसिकारशून्यता वेदितव्या, महामैत्रीविविक्ततया मनसिकारविविक्तता वेदितव्या, महामैत्र्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
महाकरुणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महाकरुणाभावतया मनसिकाराभावता वेदितव्या, महाकरुणाऽस्वभावतया मनसिकारास्वभावता वेदितव्या, महाकरुणाशून्यतया मनसिकारशून्यता वेदितव्या, महाकरुणाविविक्ततया मनसिकारविविक्तता वेदितव्या, महाकरुणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
आवेणिकबुद्धधर्मासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आवेणिकबुद्धधर्माभावतया मनसिकाराभावता वेदितव्या, आवेणिकबुद्धधर्मास्वभावतया मनसिकारास्वभावता वेदितव्या, आवेणिकबुद्धधर्मशून्यतया मनसिकारशून्यता वेदितव्या, आवेणिकबुद्धधर्मविविक्ततया मनसिकारविविक्तता वेदितव्या, आवेणिकबुद्धधर्मानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
सर्वज्ञतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वज्ञताभावतया मनसिकाराभावता वेदितव्या, सर्वज्ञतास्वभावतया (Śस्P II-२ १११) मनसिकारास्वभावता वेदितव्या, सर्वज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
मार्गाकारज्ञतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मार्गाकारज्ञताभावतया मनसिकाराभावता वेदितव्या, मार्गाकारज्ञतास्वभावतया मनसिकारास्वभावता वेदितव्या, मार्गाकारज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, मार्गाकारज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, मार्गाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
SK
सर्वाकारज्ञतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वाकारज्ञताभावतया मनसिकाराभावता वेदितव्या, सर्वाकारज्ञतास्वभावतया मनसिकारास्वभावता वेदितव्या, सर्वाकारज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वाकारज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
बोध्यङ्गासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बोध्यङ्गाभावत्या मनसिकाराभावता वेदितव्या, बोध्यङ्गास्वभावतया मनसिकारास्वभावता वेदितव्या, बोध्यङ्गशून्यतया मनसिकारशून्यता वेदितव्या, बोध्यङ्गविविक्ततया मनसिकारविविक्तता वेदितव्या, बोध्यङ्गानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
SK
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वो ऽविरहित एव तेन मनसिकारेण वेदितव्यः, यद् उत महाकरुणामनसिकारेन.
SK
अथ भगवान् आयुष्मते सुभूतये साधुकारम् अदात्: साधु साधु सुभूते, एवं खलु सुभूते बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितोपदेष्टव्या, यथा त्वम् उपदिशसि यथापि तं तथागतस्यानुभावेन एवं च पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, यथा त्वम् उपदिशसि. अस्मिन् खलु पुनः प्रज्ञापारमिता परिवर्ता.
SK
आयुष्मता सुभूतिना भाष्यमाने अयम् त्रिसाहस्रमहासाहस्रो लोकधातुः षड् विकारम् अकंपत् प्राकंपत् संप्राकंपत्, अवेधत् प्रावेधत् संप्रावेधत्, अचरत् प्राचरत् संप्राचरत्, अक्षुभ्यत् (Śस्P II-२ ११२) प्राक्षुभ्यत् संप्राक्षुभ्यत्, अगर्जत् प्रागर्जत् संप्रागर्जत्, अरणत् प्रारणत् संप्रारणत्, पूर्वा दिग् अवनमति स्म, पश्चिमा दिग् उन्नमति स्म, पूर्वा दिग् उन्नमति स्म, पश्चिमा दिग् अवनमति स्म, उत्तरा दिग् अवनमति स्म, दक्षिणा दिग् उन्नमति स्म, उत्तरा दिग् उन्नमति स्म, दक्षिणा दिग् अवनमति स्म, मध्येष्व् अवनमति स्म, अन्तेष्व् उन्नमति स्म, अन्तेष्व् अवनमति स्म, मध्येषु उन्नमति स्म.
SK
अथ भगवांस् तस्यां वेलायां स्मितं प्रादुर् अकार्षीत्.
SK
अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे?
SK
एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते,
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव दक्षिणस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धो इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते,
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव पश्चिमायां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते.
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैवोत्तरायां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते.
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैवोत्तरपूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते.
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव पूर्वदक्षिणस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां (Śस्P II-२ ११३) महासत्त्वानां भाषन्ते.
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव दक्षिणपश्चिमायां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते.
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव पश्चिमोत्तरस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते.
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैवाधस्ताद् दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते.
SK
यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैवोपरिष्टाद् दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते.
SK
यस्मिन् खलु पुनः सुभूते प्रज्ञापारमितानिर्देशे भाष्यमाणे द्वादशानाम् अयुतानां देवमाणुष्यकानां प्रज्ञापारमिताया अनुत्पत्तिकेषु धर्मेषु क्षान्तिर् उत्पन्ना, तेषाम् अपि समन्ताद् दशसु दिक्षु लोकधातुषु बुद्धानां भगवतां प्रज्ञापारमितां भाषमाणानाम् असंख्येयानाम् अप्रमेयानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि.
SK
शतसाहस्र्याः प्रज्ञापारमितायाः सुभूतिपरिवर्तस् त्रयोदशमः
SK
अथ खलु यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसाहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ शक्रा देवेन्द्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सुयामा देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ संतुषिता देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ निर्मिता देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ वशवर्तिना देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ महाब्रह्माणस् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ आभास्वरा देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ शुभकृत्स्ना देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ बृहत्फला देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासकायिका देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ यश् च तेषां चातुर्महाराजकायिकानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां त्रयस्त्रिंशानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां यामानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां तुषितानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां निर्माणरतीनां देवानां कर्मविपाकजः कायावभासः, यश् च तेषां परनिर्मितवशवर्तिनां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां ब्रह्मकायिकानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषाम् (Śस्P II-२ ११५) आभास्वराणाम् देवानां कर्मविपाकजः कायावभासः, यश् च तेषाम् शुभकृत्स्नानाम् देवानां कर्मविपाकजः कायावभासः, यश् च तेषां बृहत्फलानां देवानां कर्मविपाकजः कायावभासः, यश् च तेषां शुद्धावासकायिकानां देवानां कर्मविपाकजः कायावभासः, स तथागतस्य प्रकृत्यवभासस्य शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि कलां नोपैति, शतसहस्रतमीम् अपि कलां नोपैति, कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि न क्षमते, तथागतस्य प्रकृत्या आभायाः पुरतः सर्वास् ता देवानां कर्मविपाकजा आभा न भासन्ते न तपन्ति न विरोचन्ते, तथागतस्यैषाभा साग्राख्यायते ज्येष्ठाख्यायते विशिष्टाख्यायते वराख्यायते प्रवराख्याते प्रणीताख्यायते अनुत्तराख्यायते निरुत्तराख्यायते.
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एते भदन्त सुभूते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवाः त्रयस्त्रिंशा देवा यामा देवा तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासकायिका देवास् ते सर्वे संनिपतिता भदन्त सुभूते धर्मश्रवणाय प्रज्ञापारमितोपदेशं श्रोतुकामाः.
SK
कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्?
SK
कतमा च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता?
SK
कथं च बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारैतायां शिक्षितव्यम्?
SK
एवम् उक्ते आयुष्मान् सुभूतिः शक्रम् देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरूपदेश्यामि बुद्धानुभावेन बुद्धाधिष्ठानेन च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितायां यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं यथा च शिक्षितव्यम्. यैश् च देवपुत्रैर् अनुत्तरायै सम्यक्संबोधये चित्तं नोत्पादितम्, तैर् अप्य् अनुत्तरायै सम्यक्संबोधये चित्तम् उत्पादयितव्यम्. ये पुनर् अवक्रान्तसम्यक्त्वन्यामात्, ते प्रतिबला अनुत्तरायै सम्यक्संबोधये चित्तम् उत्पादयितुम्. तत् कस्य हेतोः?
SK
बद्धसिमा हि ते संसारस्रोतसः.
SK
अपि तु खलु पुनस् तेषाम् अप्य् अनुमोदे सचेद् अनुत्तरायै सम्यक्संबोध्यये चित्तम् उत्पादयति, नाहं तेषां कुशलपक्षस्यान्तरायं करोमि विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्यः.
SK
तत्र कतमा कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता?
SK
इह कौशिक बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रूपम् अनित्यतो मनसिकर्तव्यं, रूपं दुःखतो मनसिकर्तव्यं, रूपम् अनात्मतो मनसिकर्तव्यं, रूपं शान्ततो मनसिकर्तव्यं, रूपं विविक्ततो मनसिकर्तव्यं, रूपं रोगतो मनसिकर्तव्यं, रूपं गण्डतो मनसिकर्तव्यं, रूपं शल्यतो मनसिकर्तव्यं, रूपम् अघतो मनसिकर्तव्यं, रूपम् आबाधतो मनसिकर्तव्यं, रूपं परतो मनसिकर्तव्यं, रूपं प्रलोपधर्मतो मनसिकर्तव्यं, रूपं चलतो मनसिकर्तव्यं, रूपं प्रभङ्गुलतो मनसिकर्तव्यं, रूपं भयतो मनसिकर्तव्यं, रूपम् उपसर्गतो मनसिकर्तव्यं, रूपं शून्यतो मनसिकर्तव्यं, रूपम् अनात्मीयतो मनसिकर्तव्यं, रूपम् अनाश्वासिकतो मनसिकर्तव्यं, रूपं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वेदनानित्यतो मनसिकर्तव्या, वेदना दुःखतो मनसिकर्तव्या, वेदनानात्मतो मनसिकर्तव्या, वेदना शान्ततो मनसिकर्तव्या, वेदना विविक्ततो मनसिकर्तव्या, वेदना रोगतो मनसिकर्तव्या, वेदना गण्डतो मनसिकर्तव्या, वेदना शल्यतो मनसिकर्तव्या, वेदनाघतो मनसिकर्तव्या, वेदनाबाधतो मनसिकर्तव्या, वेदना परतो मनसिकर्तव्या, वेदना प्रलोपधर्मतो मनसिकर्तव्या, वेदना चलतो मनसिकर्तव्या, वेदना प्रभङ्गुलतो मनसिकर्तव्या, वेदना भयतो मनसिकर्तव्या, वेदनोपसर्गतो मनसिकर्तव्या, वेदना शून्यतो मनसिकर्तव्या, वेदनानात्मीयतो मनसिकर्तव्या, वेदना नाश्वासिकतो मनसिकर्तव्या, वेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संज्ञानित्यतो मनसिकर्तव्या, संज्ञा दुःखतो मनसिकर्तव्या, संज्ञा नात्मतो मनसिकर्तव्या, संज्ञा शान्ततो मनसिकर्तव्या, संज्ञा विविक्ततो मनसिकर्तव्या, संज्ञा रोगतो मनसिकर्तव्या, संज्ञा गण्डतो मनसिकर्तव्या, संज्ञा शल्यतो मनसिकर्तव्या, संज्ञाघतो मनसिकर्तव्या, संज्ञाबाधतो (Śस्P II-२ ११७) मनसिकर्तव्या, संज्ञा परतो मनसिकर्तव्या, संज्ञा प्रलोपधर्मतो मनसिकर्तव्या, संज्ञा चलतो मनसिकर्तव्या, संज्ञा प्रभङ्गुलतो मनसिकर्तव्या, संज्ञा भयतो मनसिकर्तव्या, संज्ञोपसर्गतो मनसिकर्तव्या, संज्ञा शून्यतो मनसिकर्तव्या, संज्ञानात्म्ल्यतो मनसिकर्तव्या, संज्ञा नाश्वासिकतो मनसिकर्तव्या, संज्ञा व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्कारा अनित्यतो मनसिकर्तव्याः, संस्कारा दुःखतो मनसिकर्तव्याः, संस्कारा अनात्मतो मनसिकर्तव्याः, संस्काराः शान्ततो मनसिकर्तव्याः, संस्कारा विविक्ततो मनसिकर्तव्याः, संस्कारा रोगतो मनसिकर्तव्याः, संस्कारा गण्डतो मनसिकर्तव्याः, संस्काराः शल्यतो मनसिकर्तव्याः, संस्कारा अघतो मनसिकर्तव्याः, संस्कारा आबाधतो मनसिकर्तव्याः, संस्काराः परतो मनसिकर्तव्याः, संस्काराः प्रलोपधर्मतो मनसिकर्तव्याः, संस्काराश् चलतो मनसिकर्तव्याः, संस्काराः प्रभङ्गुलतो मनसिकर्तव्याः, संस्कारा भयतो मनसिकर्तव्याः, संस्कारा उपसर्गतो मनसिकर्तव्याः, संस्काराः शून्यतो मनसिकर्तव्याः, संस्कारा अनात्मीयतो मनसिकर्तव्याः, संस्कारा अनाश्वासिकतो मनसिकर्तव्याः, संस्कारा व्याबाधतो मनसिकर्तव्याः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानम् अनित्यतो मनसिकर्तव्यं, विज्ञानं दुःखतो मनसिकर्तव्यं, विज्ञानम् अनात्मतो मनसिकर्तव्यं, विज्ञानं शान्ततो मनसिकर्तव्यं, विज्ञानं विविक्ततो मनसिकर्तव्यं, विज्ञानं रोगतो मनसिकर्तव्यं, विज्ञानं गण्डतो मनसिकर्तव्यं, विज्ञानं शल्यतो मनसिकर्तव्यं, विज्ञानम् अघतो मनसिकर्तव्यं, विज्ञानम् आबाधतो मनसिकर्तव्यं, विज्ञानं परतो मनसिकर्तव्यं, विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, विज्ञानं चलतो मनसिकर्तव्यं, विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, विज्ञानं भयतो मनसिकर्तव्यं, विज्ञानम् उपसर्गतो मनसिकर्तव्यं, विज्ञानं शून्यतो मनसिकर्तव्यं, विज्ञानम् अनात्मीयतो मनसिकर्तव्यं, विज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुर् अनित्यतो मनसिकर्तव्यं, चक्षुर् दुःखतो मनसिकर्तव्यं, चक्षुर् अनात्मतो मनसिकर्तव्यं, चक्षुः शान्ततो मनसिकर्तव्यं, चक्षुर् विविक्ततो मनसिकर्तव्यं, चक्षुर् रोगतो मनसिकर्तव्यं, चक्षुर् गण्डतो मनसिकर्तव्यं, (Śस्P II-२ ११८) चक्षुः शल्यतो मनसिकर्तव्यं, चक्षुर् अघतो मनसिकर्तव्यं, चक्षुर् आबाधतो मनसिकर्तव्यं, चक्षुः परतो मनसिकर्तव्यं, चक्षुः प्रलोपधर्मतो मनसिकर्तव्यं, चक्षुश् चलतो मनसिकर्तव्यं, चक्षुः प्रभङ्गुलतो मनसिकर्तव्यं, चक्षुर् भयतो मनसिकर्तव्यं, चक्षुर् उपसर्गतो मनसिकर्तव्यं, चक्षुः शून्यतो मनसिकर्तव्यं, चक्षुर् अनात्मीयतो मनसिकर्तव्यं, चक्षुर् अनाश्वासिकतो मनसिकर्तव्यं, चक्षुर् व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रम् अनित्यतो मनसिकर्तव्यं, श्रोत्रं दुःखतो मनसिकर्तव्यं, श्रोत्रम् अनात्मतो मनसिकर्तव्यं, श्रोत्रं शान्ततो मनसिकर्तव्यं, श्रोत्रं विविक्ततो मनसिकर्तव्यं, श्रोत्रं रोगतो मनसिकर्तव्यं, श्रोत्रं गण्डतो मनसिकर्तव्यं, श्रोत्रं शल्यतो मनसिकर्तव्यं, श्रोत्रम् अघतो मनसिकर्तव्यं, श्रोत्रम् आबाधतो मनसिकर्तव्यं, श्रोत्रं परतो मनसिकर्तव्यं, श्रोत्रं प्रलोपधर्मतो मनसिकर्तव्यं, श्रोत्रं चलतो मनसिकर्तव्यं, श्रोत्रं प्रभङ्गुलतो मनसिकर्तव्यं, श्रोत्रं भयतो मनसिकर्तव्यं, श्रोत्रम् उपसर्गतो मनसिकर्तव्यं, श्रोत्रं शून्यतो मनसिकर्तव्यं, श्रोत्रम् अनात्मीयतो मनसिकर्तव्यं, श्रोत्रम् अनाश्वासिकतो मनसिकर्तव्यं, श्रोत्रं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणम् अनित्यतो मनसिकर्तव्यं, घ्राणं दुःखतो मनसिकर्तव्यं, घ्राणम् अनात्मतो मनसिकर्तव्यं, घ्राणं शान्ततो मनसिकर्तव्यं, घ्राणं विविक्ततो मनसिकर्तव्यं, घ्राणं रोगतो मनसिकर्तव्यं, घ्राणं गण्डतो मनसिकर्तव्यं, घ्राणं शल्यतो मनसिकर्तव्यं, घ्राणम् अघतो मनसिकर्तव्यं, घ्राणम् आबाधतो मनसिकर्तव्यं, घ्राणं परतो मनसिकर्तव्यं, घ्राणं प्रलोपधर्मतो मनसिकर्तव्यं, घ्राणं चलतो मनसिकर्तव्यं, घ्राणं प्रभङ्गुलतो मनसिकर्तव्यं, घ्राणं भयतो मनसिकर्तव्यं, घ्राणम् उपसर्गतो मनसिकर्तव्यं, घ्राणं शून्यतो मनसिकर्तव्यं, घ्राणम् अनात्मीयतो मनसिकर्तव्यं, घ्राणम् अनाश्वासिकतो मनसिकर्तव्यं, घ्राणं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वानित्यतो मनसिकर्तव्या, जिह्वा दुःखतो मनसिकर्तव्या, जिह्वानात्मतो मनसिकर्तव्या, (Śस्P II-२ ११९) जिह्वा शान्ततो मनसिकर्तव्या, जिह्वा विविक्ततो मनसिकर्तव्या, जिह्वा रोगतो मनसिकर्तव्या, जिह्वा गण्डतो मनसिकर्तव्या, जिह्वा शल्यतो मनसिकर्तव्या, जिह्वाघतो मनसिकर्तव्या, जिह्वाबाधतो मनसिकर्तव्या, जिह्वा परतो मनसिकर्तव्या, जिह्वा प्रलोपधर्मतो मनसिकर्तव्या, जिह्वा चलतो मनसिकर्तव्या, जिह्वा प्रभङ्गुलतो मनसिकर्तव्या, जिह्वा भयतो मनसिकर्तव्या, जिह्वोपसर्गतो मनसिकर्तव्या, जिह्वा शून्यतो मनसिकर्तव्या, जिह्वानात्मीयतो मनसिकर्तव्या, जिह्वानाश्वासिकतो मनसिकर्तव्या, जिह्वा व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायो ऽनित्यतो मनसिकर्तव्यः, कायो दुःखतो मनसिकर्तव्यः, कायो ऽनात्मतो मनसिकर्तव्यः, कायः शान्ततो मनसिकर्तव्यः, कायो विविक्ततो मनसिकर्तव्यः, कायो रोगतो मनसिकर्तव्यः, कायो गण्डतो मनसिकर्तव्यः, कायः शल्यतो मनसिकर्तव्यः, कायो ऽघतो मनसिकर्तव्यः, काय आबाधतो मनसिकर्तव्यः, कायः परतो मनसिकर्तव्यः, कायः प्रलोपधर्मतो मनसिकर्तव्यः, कायश् चलतो मनसिकर्तव्यः, कायः प्रभङ्गुलतो मनसिकर्तव्यः, कायो भयतो मनसिकर्तव्यः, काय उपसर्गतो मनसिकर्तव्यः, कायः शून्यतो मनसिकर्तव्यः, कायो ऽनात्मीयतो मनसिकर्तव्यः, कायो ऽनाश्वासिकतो मनसिकर्तव्यः, कायो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनो ऽनित्यतो मनसिकर्तव्यं, मनो दुःखतो मनसिकर्तव्यं, मनो ऽनात्मतो मनसिकर्तव्यं, मनः शान्ततो मनसिकर्तव्यं, मनो विविक्ततो मनसिकर्तव्यं, मनो रोगतो मनसिकर्तव्यं, मनो गण्डतो मनसिकर्तव्यं, मनः शल्यतो मनसिकर्तव्यं, मनो ऽघतो मनसिकर्तव्यं, मन आबाधतो मनसिकर्तव्यं, मनः परतो मनसिकर्तव्यं, मनः प्रलोपधर्मतो मनसिकर्तव्यं, मनश् चलतो मनसिकर्तव्यं, मनः प्रभङ्गुलतो मनसिकर्तव्यं, मनो भयतो मनसिकर्तव्यं, मन उपसर्गतो मनसिकर्तव्यं, मनः शून्यतो मनसिकर्तव्यं, मनो ऽनात्मीयतो मनसिकर्तव्यं, मनो ऽनाश्वासिकतो मनसिकर्तव्यं, मनो व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रूपम् अनित्यतो मनसिकर्तव्यं, रूपं दुःखतो मनसिकर्तव्यं, रूपम् अनात्मतो मनसिकर्तव्यं, रूपं शान्ततो मनसिकर्तव्यं, रूपं विविक्ततो मनसिकर्तव्यं, रूपं रोगतो मनसिकर्तव्यं, रूपं गण्डतो मनसिकर्तव्यं, (Śस्P II-२ १२०) रूपं शल्यतो मनसिकर्तव्यं, रूपम् अघतो मनसिकर्तव्यं, रूपम् आबाधतो मनसिकर्तव्यं, रूपं परतो मनसिकर्तव्यं, रूपं प्रलोपधर्मतो मनसिकर्तव्यं, रूपं चलतो मनसिकर्तव्यं, रूपं प्रभङ्गुलतो मनसिकर्तव्यं, रूपं भयतो मनसिकर्तव्यं, रूपम् उपसर्गतो मनसिकर्तव्यं, रूपं शून्यतो मनसिकर्तव्यं, रूपम् अनात्मीयतो मनसिकर्तव्यं, रूपम् अनाश्वासिकतो मनसिकर्तव्यं, रूपं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, शब्दो ऽनित्यतो मनसिकर्तव्यः, शब्दो दुःखतो मनसिकर्तव्यः, शब्दो ऽनात्मतो मनसिकर्तव्यः, शब्दः शान्ततो मनसिकर्तव्यः, शब्दो विविक्ततो मनसिकर्तव्यः, शब्दो रोगतो मनसिकर्तव्यः, शब्दो गण्डतो मनसिकर्तव्यः, शब्दः शल्यतो मनसिकर्तव्यः, शब्दो ऽघतो मनसिकर्तव्यः, शब्द आबाधतो मनसिकर्तव्यः, शब्दः परतो मनसिकर्तव्यः, शब्दः प्रलोपधर्मतो मनसिकर्तव्यः, शब्दश् चलतो मनसिकर्तव्यः, शब्दः प्रभङ्गुलतो मनसिकर्तव्यः, शब्दो भयतो मनसिकर्तव्यः, शब्द उपसर्गतो मनसिकर्तव्यः, शब्दः शून्यतो मनसिकर्तव्यः, शब्दो ऽनात्मीयतो मनसिकर्तव्यः, शब्दो ऽनाश्वासिकतो मनसिकर्तव्यः, शब्दो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, गन्धो ऽनित्यतो मनसिकर्तव्यः, गन्धो दुःखतो मनसिकर्तव्यः, गन्धो नात्मतो मनसिकर्तव्यः, गन्धः शान्ततो मनसिकर्तव्यः, गन्धो विविक्ततो मनसिकर्तव्यः, गन्धो रोगतो मनसिकर्तव्यः, गन्धो गण्डतो मनसिकर्तव्यः, गन्धः शल्यतो मनसिकर्तव्यः, गन्धो घतो मनसिकर्तव्यः, गन्ध आबाधतो मनसिकर्तव्यः, गन्धः परतो मनसिकर्तव्यः, गन्धः प्रलोपधर्मतो मनसिकर्तव्यः, गन्धश् चलतो मनसिकर्तव्यः, गन्धः प्रभङ्गुलतो मनसिकर्तव्यः, गन्धो भयतो मनसिकर्तव्यः, गन्ध उपसर्गतो मनसिकर्तव्यः, गन्धः शून्यतो मनसिकर्तव्यः, गन्धो नात्मीयतो मनसिकर्तव्यः, गन्धो ऽनाश्वासिकतो मनसिकर्तव्यः, गन्धो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रसो नित्यतो मनसिकर्तव्यः, रसो दुःखतो मनसिकर्तव्यः, रसो ऽनात्मतो मनसिकर्तव्यः, रसः शान्ततो मनसिकर्तव्यः, रसो विविक्ततो मनसिकर्तव्यः, रसो रोगतो (Śस्P II-२ १२१) मनसिकर्तव्यः, रसो गण्डतो मनसिकर्तव्यः, रसः शल्यतो मनसिकर्तव्यः, रसो ऽघतो मनसिकर्तव्यः, रस आबाधतो मनसिकर्तव्यः, रसः परतो मनसिकर्तव्यः, रसः प्रलोपधर्मतो मनसिकर्तव्यः, रसश् चलतो मनसिकर्तव्यः, रसः प्रभङ्गुलतो मनसिकर्तव्यः, रसो भयतो मनसिकर्तव्यः, रस उपसर्गतो मनसिकर्तव्यः, रसः शून्यतो मनसिकर्तव्यः, रसो ऽनात्मीयतो मनसिकर्तव्यः, रसो ऽनाश्वासिकतो मनसिकर्तव्यः, रसो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, स्पर्शो ऽनित्यतो मनसिकर्तव्यः, स्पर्शो दुःखतो मनसिकर्तव्यः, स्पर्शो ऽनात्मतो मनसिकर्तव्यः, स्पर्शः शान्ततो मनसिकर्तव्यः, स्पर्शो विविक्ततो मनसिकर्तव्यः, स्पर्शो रोगतो मनसिकर्तव्यः, स्पर्शो गण्डतो मनसिकर्तव्यः, स्पर्शः शल्यतो मनसिकर्तव्यः, स्पर्शो ऽघतो मनसिकर्तव्यः, स्पर्श आबाधतो मनसिकर्तव्यः, स्पर्शः परतो मनसिकर्तव्यः, स्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, स्पर्शश् चलतो मनसिकर्तव्यः, स्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, स्पर्शो भयतो मनसिकर्तव्यः, स्पर्श उपसर्गतो मनसिकर्तव्यः, स्पर्शः शून्यतो मनसिकर्तव्यः, स्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, स्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, स्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, धर्मा अनित्यतो मनसिकर्तव्याः, धर्मा दुःखतो मनसिकर्तव्याः, धर्मा अनात्मतो मनसिकर्तव्याः, धर्माः शान्ततो मनसिकर्तव्याः, धर्मा विविक्ततो मनसिकर्तव्याः, धर्मा रोगतो मनसिकर्तव्याः, धर्मा गण्डतो मनसिकर्तव्याः, धर्माः शल्यतो मनसिकर्तव्याः, धर्मा अघतो मनसिकर्तव्याः, धर्मा आबाधतो मनसिकर्तव्याः, धर्माः परतो मनसिकर्तव्याः, धर्माः प्रलोपधर्मतो मनसिकर्तव्याः, धर्माश् चलतो मनसिकर्तव्याः, धर्माः प्रभङ्गुलतो मनसिकर्तव्याः, धर्मा भयतो मनसिकर्तव्याः, धर्मा उपसर्गतो मनसिकर्तव्याः, धर्माः शून्यतो मनसिकर्तव्याः, धर्मा अनात्मीयतो मनसिकर्तव्याः, धर्मा अनाश्वासिकतो मनसिकर्तव्याः, धर्मा व्याबाधतो मनसिकर्तव्याः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुर्विज्ञानम् अनित्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानं दुःखतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् अनात्मतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शान्ततो मनसिकर्तव्यं, (Śस्P II-२ १२२) चक्षुर्विज्ञानं विविक्ततो मनसिकर्तव्यं, चक्षुर्विज्ञानं रोगतो मनसिकर्तव्यं, चक्षुर्विज्ञानं गण्डतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शल्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् अघतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् आबाधतो मनसिकर्तव्यं, चक्षुर्विज्ञानं परतो मनसिकर्तव्यं, चक्षुर्विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, चक्षुर्विज्ञानं चलतो मनसिकर्तव्यं, चक्षुर्विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, चक्षुर्विज्ञानं भयतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् उपसर्गतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शून्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् अनात्मीयतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, चक्षुर्विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रविज्ञानम् अनित्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानं दुःखतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् अनात्मतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शान्ततो मनसिकर्तव्यं, श्रोत्रविज्ञानं विविक्ततो मनसिकर्तव्यं, श्रोत्रविज्ञानं रोगतो मनसिकर्तव्यं, श्रोत्रविज्ञानं गण्डतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शल्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् अघतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् आबाधतो मनसिकर्तव्यं, श्रोत्रविज्ञानं परतो मनसिकर्तव्यं, श्रोत्रविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, श्रोत्रविज्ञानं चलतो मनसिकर्तव्यं, श्रोत्रविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, श्रोत्रविज्ञानं भयतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् उपसर्गतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शून्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, श्रोत्रविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणविज्ञानम् अनित्यतो मनसिकर्तव्यं, घ्राणविज्ञानं दुःखतो मनसिकर्तव्यं, घ्राणविज्ञानम् अनात्मतो मनसिकर्तव्यं, घ्राणविज्ञानं शान्ततो मनसिकर्तव्यं, घ्राणविज्ञानं विविक्ततो मनसिकर्तव्यं, घ्राणविज्ञानं रोगतो मनसिकर्तव्यं, घ्राणविज्ञानं गण्डतो मनसिकर्तव्यं, घ्राणविज्ञानं शल्यतो मनसिकर्तव्यं, घ्राणविज्ञानम् अघतो मनसिकर्तव्यं, घ्राणविज्ञानम् आबाधतो मनसिकर्तव्यं, घ्राणविज्ञानं परतो मनसिकर्तव्यं, घ्राणविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, घ्राणविज्ञानं चलतो मनसिकर्तव्यं, घ्राणविज्ञानं (Śस्P II-२ १२३) प्रभङ्गुलतो मनसिकर्तव्यं, घ्राणविज्ञानं भयतो मनसिकर्तव्यं, घ्राणविज्ञानम् उपसर्गतो मनसिकर्तव्यं, घ्राणविज्ञानं शून्यतो मनसिकर्तव्यं, घ्राणविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, घ्राणविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, घ्राणविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वाविज्ञानम् अनित्यतो मनसिकर्तव्यं, जिह्वाविज्ञानं दुःखतो मनसिकर्तव्यं, जिह्वाविज्ञानम् अनात्मतो मनसिकर्तव्यं, जिह्वाविज्ञानं शान्ततो मनसिकर्तव्यं, जिह्वाविज्ञानं विविक्ततो मनसिकर्तव्यं, जिह्वाविज्ञानं रोगतो मनसिकर्तव्यं, जिह्वाविज्ञानं गण्डतो मनसिकर्तव्यं, जिह्वाविज्ञानं शल्यतो मनसिकर्तव्यं, जिह्वाविज्ञानम् अघतो मनसिकर्तव्यं, जिह्वाविज्ञानम् आबाधतो मनसिकर्तव्यं, जिह्वाविज्ञानं परतो मनसिकर्तव्यं, जिह्वाविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, जिह्वाविज्ञानं चलतो मनसिकर्तव्यं, जिह्वाविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, जिह्वाविज्ञानं भयतो मनसिकर्तव्यं, जिह्वाविज्ञानम् उपसर्गतो मनसिकर्तव्यं, जिह्वाविज्ञानं शून्यतो मनसिकर्तव्यं, जिह्वाविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, जिह्वाविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, जिह्वाविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायविज्ञानम् अनित्यतो मनसिकर्तव्यं, कायविज्ञानं दुःखतो मनसिकर्तव्यं, कायविज्ञानम् अनात्मतो मनसिकर्तव्यं, कायविज्ञानं शान्ततो मनसिकर्तव्यं, कायविज्ञानं विविक्ततो मनसिकर्तव्यं, कायविज्ञानं रोगतो मनसिकर्तव्यं, कायविज्ञानं गण्डतो मनसिकर्तव्यं, कायविज्ञानं शल्यतो मनसिकर्तव्यं, कायविज्ञानम् अघतो मनसिकर्तव्यं, कायविज्ञानम् आबाधतो मनसिकर्तव्यं, कायविज्ञानं परतो मनसिकर्तव्यं, कायविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, कायविज्ञानं चलतो मनसिकर्तव्यं, कायविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, कायविज्ञानं भयतो मनसिकर्तव्यं, कायविज्ञानम् उपसर्गतो मनसिकर्तव्यं, कायविज्ञानं शून्यतो मनसिकर्तव्यं, कायविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, कायविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, कायविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनोविज्ञानम् अनित्यतो मनसिकर्तव्यं, मनोविज्ञानं दुःखतो मनसिकर्तव्यं, मनोविज्ञानम् अनात्मतो मनसिकर्तव्यं, मनोविज्ञानं शान्ततो मनसिकर्तव्यं, (Śस्P II-२ १२४) मनोविज्ञानं विविक्ततो मनसिकर्तव्यं, मनोविज्ञानं रोगतो मनसिकर्तव्यं, मनोविज्ञानं गण्डतो मनसिकर्तव्यं, मनोविज्ञानं शल्यतो मनसिकर्तव्यं, मनोविज्ञानम् अघतो मनसिकर्तव्यं, मनोविज्ञानम् आबाधतो मनसिकर्तव्यं, मनोविज्ञानं परतो मनसिकर्तव्यं, मनोविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, मनोविज्ञानं चलतो मनसिकर्तव्यं, मनोविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, मनोविज्ञानं भयतो मनसिकर्तव्यं, मनोविज्ञानम् उपसर्गतो मनसिकर्तव्यं, मनोविज्ञानं शून्यतो मनसिकर्तव्यं, मनोविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, मनोविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, मनोविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुःसंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो दुःखतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शान्ततो मनसिकर्तव्यः, चक्षुःसंस्पर्शो विविक्ततो मनसिकर्तव्यः, चक्षुःसंस्पर्शो रोगतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो गण्डतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शल्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो ऽघतो मनसिकर्तव्यः, चक्षुःसंस्पर्श आबाधतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः परतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, चक्षुःसंस्पर्शश् चलतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो भयतो मनसिकर्तव्यः, चक्षुःसंस्पर्श उपसर्गतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शून्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रसंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो दुःखतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शान्ततो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो विविक्ततो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो रोगतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो गण्डतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शल्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो ऽघतो मनसिकर्तव्यः, श्रोत्रसंस्पर्श आबाधतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः परतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शश् चलतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः (Śस्P II-२ १२५) प्रभङ्गुलतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो भयतो मनसिकर्तव्यः, श्रोत्रसंस्पर्श उपसर्गतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शून्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणसंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शो दुःखतो मनसिकर्तव्यः, घ्राणसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शान्ततो मनसिकर्तव्यः, घ्राणसंस्पर्शो विविक्ततो मनसिकर्तव्यः, घ्राणसंस्पर्शो रोगतो मनसिकर्तव्यः, घ्राणसंस्पर्शो गण्डतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शल्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शो ऽघतो मनसिकर्तव्यः, घ्राणसंस्पर्श आबाधतो मनसिकर्तव्यः, घ्राणसंस्पर्शः परतो मनसिकर्तव्यः, घ्राणसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, घ्राणसंस्पर्शश् चलतो मनसिकर्तव्यः, घ्राणसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, घ्राणसंस्पर्शो भयतो मनसिकर्तव्यः, घ्राणसंस्पर्श उपसर्गतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शून्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शो नात्मीयतो मनसिकर्तव्यः, घ्राणसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, घ्राणसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वासंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शो दुःखतो मनसिकर्तव्यः, जिह्वासंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शान्ततो मनसिकर्तव्यः, जिह्वासंस्पर्शो विविक्ततो मनसिकर्तव्यः, जिह्वासंस्पर्शो रोगतो मनसिकर्तव्यः, जिह्वासंस्पर्शो गण्डतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शल्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शो ऽघतो मनसिकर्तव्यः, जिह्वासंस्पर्श आबाधतो मनसिकर्तव्यः, जिह्वासंस्पर्शः परतो मनसिकर्तव्यः, जिह्वासंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, जिह्वासंस्पर्शश् चलतो मनसिकर्तव्यः, जिह्वासंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, जिह्वासंस्पर्शो भयतो मनसिकर्तव्यः, जिह्वासंस्पर्श उपसर्गतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शून्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, जिह्वासंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, जिह्वासंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायसंस्पर्शो ऽनित्यतो (Śस्P II-२ १२६) मनसिकर्तव्यः, कायसंस्पर्शो दुःखतो मनसिकर्तव्यः, कायसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, कायसंस्पर्शः शान्ततो मनसिकर्तव्यः, कायसंस्पर्शो विविक्ततो मनसिकर्तव्यः, कायसंस्पर्शो रोगतो मनसिकर्तव्यः, कायसंस्पर्शो गण्डतो मनसिकर्तव्यः, कायसंस्पर्शः शल्यतो मनसिकर्तव्यः, कायसंस्पर्शो ऽघतो मनसिकर्तव्यः, कायसंस्पर्श आबाधतो मनसिकर्तव्यः, कायसंस्पर्शः परतो मनसिकर्तव्यः, कायसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, कायसंस्पर्शश् चलतो मनसिकर्तव्यः, कायसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, कायसंस्पर्शो भयतो मनसिकर्तव्यः, कायसंस्पर्श उपसर्गतो मनसिकर्तव्यः, कायसंस्पर्शः शून्यतो मनसिकर्तव्यः, कायसंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, कायसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, कायसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनःसंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, मनःसंस्पर्शो दुःखतो मनसिकर्तव्यः, मनःसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, मनःसंस्पर्शः शान्ततो मनसिकर्तव्यः, मनःसंस्पर्शो विविक्ततो मनसिकर्तव्यः, मनःसंस्पर्शो रोगतो मनसिकर्तव्यः, मनःसंस्पर्शो गण्डतो मनसिकर्तव्यः, मनःसंस्पर्शः शल्यतो मनसिकर्तव्यः, मनःसंस्पर्शो ऽघतो मनसिकर्तव्यः, मनःसंस्पर्श आबाधतो मनसिकर्तव्यः, मनःसंस्पर्शः परतो मनसिकर्तव्यः, मनःसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, मनःसंस्पर्शश् चलतो मनसिकर्तव्यः, मनःसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, मनःसंस्पर्शो भयतो मनसिकर्तव्यः, मनःसंस्पर्श उपसर्गतो मनसिकर्तव्यः, मनःसंस्पर्शः शून्यतो मनसिकर्तव्यः, मनःसंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, मनःसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, मनःसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुःसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, (Śस्P II-२ १२७) चक्षुःसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना नात्मीयतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना (Śस्P II-२ १२८) गण्डतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वासंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना (Śस्P II-२ १२९) रोगतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनःसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना नात्मीयतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, पृथिवीधातुर् अनित्यतो मनसिकर्तव्यः, पृथिवीधातुर् दुःखतो मनसिकर्तव्यः, पृथिवीधातुर् अनात्मतो मनसिकर्तव्यः, पृथिवीधातुः शान्ततो मनसिकर्तव्यः, पृथिवीधातुर् (Śस्P II-२ १३०) विविक्ततो मनसिकर्तव्यः, पृथिवीधातू रोगतो मनसिकर्तव्यः, पृथिवीधातुर् गण्डतो मनसिकर्तव्यः, पृथिवीधातुः शल्यतो मनसिकर्तव्यः, पृथिवीधातुर् अघतो मनसिकर्तव्यः, पृथिवीधातुर् आबाधतो मनसिकर्तव्यः, पृथिवीधातुः परतो मनसिकर्तव्यः, पृथिवीधातुः प्रलोपधर्मतो मनसिकर्तव्यः, पृथिवीधातुश् चलतो मनसिकर्तव्यः, पृथिवीधातुः प्रभङ्गुलतो मनसिकर्तव्यः, पृथिवीधातुर् भयतो मनसिकर्तव्यः, पृथिवीधातुर् उपसर्गतो मनसिकर्तव्यः, पृथिवीधातुः शून्यतो मनसिकर्तव्यः, पृथिवीधातुर् अनात्मीयतो मनसिकर्तव्यः, पृथिवीधातुर् अनाश्वासिकतो मनसिकर्तव्यः, पृथिवीधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, अब्धातुर् अनित्यतो मनसिकर्तव्यः, अब्धातुर् दुःखतो मनसिकर्तव्यः, अब्धातुर् अनात्मतो मनसिकर्तव्यः, अब्धातुः शान्ततो मनसिकर्तव्यः, अब्धातुर् विविक्ततो मनसिकर्तव्यः, अब्धातू रोगतो मनसिकर्तव्यः, अब्धातुर् गण्डतो मनसिकर्तव्यः, अब्धातुः शल्यतो मनसिकर्तव्यः, अब्धातुर् अघतो मनसिकर्तव्यः, अब्धातुर् आबाधतो मनसिकर्तव्यः, अब्धातुः परतो मनसिकर्तव्यः, अब्धातुः प्रलोपधर्मतो मनसिकर्तव्यः, अब्धातुश् चलतो मनसिकर्तव्यः, अब्धातुः प्रभङ्गुलतो मनसिकर्तव्यः, अब्धातुर् भयतो मनसिकर्तव्यः, अब्धातुर् उपसर्गतो मनसिकर्तव्यः, अब्धातुः शून्यतो मनसिकर्तव्यः, अब्धातुर् अनात्मीयतो मनसिकर्तव्यः, अब्धातुर् अनाश्वासिकतो मनसिकर्तव्यः, अब्धातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, तेजोधातुर् अनित्यतो मनसिकर्तव्यः, तेजोधातुर् दुःखतो मनसिकर्तव्यः, तेजोधातुर् अनात्मतो मनसिकर्तव्यः, तेजोधातुः शान्ततो मनसिकर्तव्यः, तेजोधातुर् विविक्ततो मनसिकर्तव्यः, तेजोधातू रोगतो मनसिकर्तव्यः, तेजोधातुर् गण्डतो मनसिकर्तव्यः, तेजोधातुः शल्यतो मनसिकर्तव्यः, तेजोधातुर् अघतो मनसिकर्तव्यः, तेजोधातुर् आबाधतो मनसिकर्तव्यः, तेजोधातुः परतो मनसिकर्तव्यः, तेजोधातुः प्रलोपधर्मतो मनसिकर्तव्यः, तेजोधातुश् चलतो मनसिकर्तव्यः, तेजोधातुः प्रभङ्गुलतो मनसिकर्तव्यः, तेजोधातुर् भयतो मनसिकर्तव्यः, तेजोधातुर् उपसर्गतो मनसिकर्तव्यः, तेजोधातुः शून्यतो मनसिकर्तव्यः, तेजोधातुर् अनात्मीयतो मनसिकर्तव्यः, तेजोधातुर् अनाश्वासिकतो मनसिकर्तव्यः, तेजोधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वायुधातुर् अनित्यतो मनसिकर्तव्यः, वायुधातुर् दुःखतो मनसिकर्तव्यः, वायुधातुर् अनात्मतो मनसिकर्तव्यः, वायुधातुः शान्ततो मनसिकर्तव्यः, वायुधातुर् विविक्ततो मनसिकर्तव्यः, वायुधातू रोगतो मनसिकर्तव्यः, वायुधातुर् गण्डतो मनसिकर्तव्यः, वायुधातुः शल्यतो मनसिकर्तव्यः, वायुधातुर् अघतो मनसिकर्तव्यः, वायुधातुर् आबाधतो मनसिकर्तव्यः, वायुधातुः परतो मनसिकर्तव्यः, वायुधातुः प्रलोपधर्मतो मनसिकर्तव्यः, वायुधातुश् चलतो मनसिकर्तव्यः, वायुधातुः प्रभङ्गुलतो मनसिकर्तव्यः, वायुधातुर् भयतो मनसिकर्तव्यः, वायुधातुर् उपसर्गतो मनसिकर्तव्यः, वायुधातुः शून्यतो मनसिकर्तव्यः, वायुधातुर् अनात्मीयतो मनसिकर्तव्यः, वायुधातुर् अनाश्वासिकतो मनसिकर्तव्यः, वायुधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, आकाशधातुर् अनित्यतो मनसिकर्तव्यः, आकाशधातुर् दुःखतो मनसिकर्तव्यः, आकाशधातुर् अनात्मतो मनसिकर्तव्यः, आकाशधातुः शान्ततो मनसिकर्तव्यः, आकाशधातुर् विविक्ततो मनसिकर्तव्यः, आकाशधातू रोगतो मनसिकर्तव्यः, आकाशधातुर् गण्डतो मनसिकर्तव्यः, आकाशधातुः शल्यतो मनसिकर्तव्यः, आकाशधातुर् अघतो मनसिकर्तव्यः, आकाशधातुर् आबाधतो मनसिकर्तव्यः, आकाशधातुः परतो मनसिकर्तव्यः, आकाशधातुः प्रलोपधर्मतो मनसिकर्तव्यः, आकाशधातुश् चलतो मनसिकर्तव्यः, आकाशधातुः प्रभङ्गुलतो मनसिकर्तव्यः, आकाशधातुर् भयतो मनसिकर्तव्यः, आकाशधातुर् उपसर्गतो मनसिकर्तव्यः, आकाशधातुः शून्यतो मनसिकर्तव्यः, आकाशधातुर् अनात्मीयतो मनसिकर्तव्यः, आकाशधातुर् अनाश्वासिकतो मनसिकर्तव्यः, आकाशधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानधातुर् अनित्यतो मनसिकर्तव्यः, विज्ञानधातुर् दुःखतो मनसिकर्तव्यः, विज्ञानधातुर् अनात्मतो मनसिकर्तव्यः, विज्ञानधातुः शान्ततो मनसिकर्तव्यः, विज्ञानधातुर् विविक्ततो मनसिकर्तव्यः, विज्ञानधातू रोगतो मनसिकर्तव्यः, विज्ञानधातुर् गण्डतो मनसिकर्तव्यः, विज्ञानधातुः शल्यतो मनसिकर्तव्यः, विज्ञानधातुर् अघतो मनसिकर्तव्यः, विज्ञानधातुर् आबाधतो मनसिकर्तव्यः, विज्ञानधातुः परतो मनसिकर्तव्यः, विज्ञानधातुः प्रलोपधर्मतो मनसिकर्तव्यः, विज्ञानधातुश् चलतो मनसिकर्तव्यः, (Śस्P II-२ १३२) विज्ञानधातुः प्रभङ्गुलतो मनसिकर्तव्यः, विज्ञानधातुर् भयतो मनसिकर्तव्यः, विज्ञानधातुर् उपसर्गतो मनसिकर्तव्यः, विज्ञानधातुः शून्यतो मनसिकर्तव्यः, विज्ञानधातुर् अनात्मीयतो मनसिकर्तव्यः, विज्ञानधातुर् अनाश्वासिकतो मनसिकर्तव्यः, विज्ञानधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, अविद्यानित्यतो मनसिकर्तव्या, अविद्या दुःखतो मनसिकर्तव्या, अविद्यानात्मतो मनसिकर्तव्या, अविद्या शान्ततो मनसिकर्तव्या, अविद्या विविक्ततो मनसिकर्तव्या, अविद्या रोगतो मनसिकर्तव्या, अविद्या गण्डतो मनसिकर्तव्या, अविद्या शल्यतो मनसिकर्तव्या, अविद्याघतो मनसिकर्तव्या, अविद्याबाधतो मनसिकर्तव्या, अविद्या परतो मनसिकर्तव्या, अविद्या प्रलोपधर्मतो मनसिकर्तव्या, अविद्या चलतो मनसिकर्तव्या, अविद्या प्रभङ्गुलतो मनसिकर्तव्या, अविद्या भयतो मनसिकर्तव्या, अविद्योपसर्गतो मनसिकर्तव्या, अविद्या शून्यतो मनसिकर्तव्या, अविद्यानात्मीयतो मनसिकर्तव्या, अविद्यानाश्वासिकतो मनसिकर्तव्या, अविद्या व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्कारा अनित्यतो मनसिकर्तव्याः, संस्कारा दुःखतो मनसिकर्तव्याः, संस्कारा अनात्मतो मनसिकर्तव्याः, संस्काराः शान्ततो मनसिकर्तव्याः, संस्कारा विविक्ततो मनसिकर्तव्याः, संस्कारा रोगतो मनसिकर्तव्याः, संस्कारा गण्डतो मनसिकर्तव्याः, संस्काराः शल्यतो मनसिकर्तव्याः, संस्कारा अघतो मनसिकर्तव्याः, संस्कारा आबाधतो मनसिकर्तव्याः, संस्काराः परतो मनसिकर्तव्याः, संस्काराः प्रलोपधर्मतो मनसिकर्तव्याः, संस्काराश् चलतो मनसिकर्तव्याः, संस्काराः प्रभङ्गुलतो मनसिकर्तव्याः, संस्कारा भयतो मनसिकर्तव्याः, संस्कारा उपसर्गतो मनसिकर्तव्याः, संस्काराः शून्यतो मनसिकर्तव्याः, संस्कारा अनात्मीयतो मनसिकर्तव्याः, संस्कारा अनाश्वासिकतो मनसिकर्तव्याः, संस्कारा व्याबाधतो मनसिकर्तव्याः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानम् अनित्यतो मनसिकर्तव्यं, विज्ञानं दुःखतो मनसिकर्तव्यं, विज्ञानम् अनात्मतो मनसिकर्तव्यं, विज्ञानं शान्ततो मनसिकर्तव्यं, विज्ञानं विविक्ततो मनसिकर्तव्यं, विज्ञानं रोगतो मनसिकर्तव्यं, विज्ञानं गण्डतो मनसिकर्तव्यं, विज्ञानं शल्यतो मनसिकर्तव्यं, विज्ञानम् अघतो मनसिकर्तव्यम्, विज्ञानम् आबाधतो मनसिकर्तव्यम्, विज्ञानम् परतो (Śस्P II-२ १३३) मनसिकर्तव्यं, विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, विज्ञानं चलतो मनसिकर्तव्यं, विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, विज्ञानं भयतो मनसिकर्तव्यं, विज्ञानम् उपसर्गतो मनसिकर्तव्यं, विज्ञानं शून्यतो मनसिकर्तव्यं, विज्ञानम् अनात्मीयतो मनसिकर्तव्यं, विज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, नामरूपम् अनित्यतो मनसिकर्तव्यं, नामरूपं दुःखतो मनसिकर्तव्यं, नामरूपम् अनात्मतो मनसिकर्तव्यं, नामरूपं शान्ततो मनसिकर्तव्यं, नामरूपं विविक्ततो मनसिकर्तव्यं, नामरूपं रोगतो मनसिकर्तव्यं, नामरूपं गण्डतो मनसिकर्तव्यं, नामरूपं शल्यतो मनसिकर्तव्यं, नामरूपम् अघतो मनसिकर्तव्यं, नामरूपम् आबाधतो मनसिकर्तव्यं, नामरूपं परतो मनसिकर्तव्यं, नामरूपं प्रलोपधर्मतो मनसिकर्तव्यं, नामरूपं चलतो मनसिकर्तव्यं, नामरूपं प्रभङ्गुलतो मनसिकर्तव्यं, नामरूपं भयतो मनसिकर्तव्यं, नामरूपम् उपसर्गतो मनसिकर्तव्यं, नामरूपं शून्यतो मनसिकर्तव्यं, नामरूपम् अनात्मीयतो मनसिकर्तव्यं, नामरूपम् अनाश्वासिकतो मनसिकर्तव्यं, नामरूपं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, षडायतनम् अनित्यतो मनसिकर्तव्यम्, सदायतनम् दुह्खतो मनसिकर्तव्यम्, सदायतनम् अनात्मतो मनसिकर्तव्यं, षडायतनं शान्ततो मनसिकर्तव्यं, षडायतनं विविक्ततो मनसिकर्तव्यं, षडायतनं रोगतो मनसिकर्तव्यं, षडायतनं गण्डतो मनसिकर्तव्यं, षडायतनं शल्यतो मनसिकर्तव्यं, षडायतनम् अघतो मनसिकर्तव्यं, षडायतनम् आबाधतो मनसिकर्तव्यं, षडायतनं परतो मनसिकर्तव्यं, षडायतनं प्रलोपधर्मतो मनसिकर्तव्यं, षडायतनं चलतो मनसिकर्तव्यं, षडायतनं प्रभङ्गुलतो मनसिकर्तव्यं, षडायतनं भयतो मनसिकर्तव्यं, षडायतनम् उपसर्गतो मनसिकर्तव्यं, षडायतनं शून्यतो मनसिकर्तव्यं, षडायतनम् अनात्मीयतो मनसिकर्तव्यं, षडायतनम् अनाश्वासिकतो मनसिकर्तव्यं, षडायतनं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्पर्शो ऽनित्यतो मनसिकर्तव्यः, संस्पर्शो दुःखतो मनसिकर्तव्यः, संस्पर्शो ऽनात्मतो (Śस्P II-२ १३४) मनसिकर्तव्यः, संस्पर्शः शान्ततो मनसिकर्तव्यः, संस्पर्शो विविक्ततो मनसिकर्तव्यः, संस्पर्शो रोगतो मनसिकर्तव्यः, संस्पर्शो गण्डतो मनसिकर्तव्यः, संस्पर्शः शल्यतो मनसिकर्तव्यः, संस्पर्शो ऽघतो मनसिकर्तव्यः, संस्पर्श आबाधतो मनसिकर्तव्यः, संस्पर्शः परतो मनसिकर्तव्यः, संस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, संस्पर्शश् चलतो मनसिकर्तव्यः, संस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, संस्पर्शो भयतो मनसिकर्तव्यः, संस्पर्श उपसर्गतो मनसिकर्तव्यः, संस्पर्शः शून्यतो मनसिकर्तव्यः, संस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, संस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, संस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वेदनानित्यतो मनसिकर्तव्या, वेदना दुःखतो मनसिकर्तव्या, वेदनानात्मतो मनसिकर्तव्या, वेदना शान्ततो मनसिकर्तव्या, वेदना विविक्ततो मनसिकर्तव्या, वेदना रोगतो मनसिकर्तव्या, वेदना गण्डतो मनसिकर्तव्या, वेदना शल्यतो मनसिकर्तव्या, वेदनाघतो मनसिकर्तव्या, वेदनाबाधतो मनसिकर्तव्या, वेदना परतो मनसिकर्तव्या, वेदना प्रलोपधर्मतो मनसिकर्तव्या, वेदना चलतो मनसिकर्तव्या, वेदना प्रभङ्गुलतो मनसिकर्तव्या, वेदना भयतो मनसिकर्तव्या, वेदनोपसर्गतो मनसिकर्तव्या, वेदना शून्यतो मनसिकर्तव्या, वेदनानात्मीयतो मनसिकर्तव्या, वेदनानाश्वासिकतो मनसिकर्तव्या, वेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, तृष्णानित्यतो मनसिकर्तव्या, तृष्णा दुःखतो मनसिकर्तव्या, तृष्णानात्मतो मनसिकर्तव्या, तृष्णा शान्ततो मनसिकर्तव्या, तृष्णा विविक्ततो मनसिकर्तव्या, तृष्णा रोगतो मनसिकर्तव्या, तृस्णा गण्डतो मनसिकर्तव्या, तृष्णा शल्यतो मनसिकर्तव्या, तृष्णाघतो मनसिकर्तव्या, तृष्णाबाधतो मनसिकर्तव्या, तृष्णा परतो मनसिकर्तव्या, तृष्णा प्रलोपधर्मतो मनसिकर्तव्या, तृष्णा चलतो मनसिकर्तव्या, तृष्णा प्रभङ्गुलतो मनसिकर्तव्या, तृष्णा भयतो मनसिकर्तव्या, तृष्णोपसर्गतो मनसिकर्तव्या, तृष्णा शून्यतो मनसिकर्तव्या, तृष्णानात्मीयतो मनसिकर्तव्या, तृष्णानाश्वासिकतो मनसिकर्तव्या, तृष्णा व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, उपादानम् अनित्यतो मनसिकर्तव्यं, उपादानं दुःखतो मनसिकर्तव्यं, उपादानम् अनात्मतो मनसिकर्तव्यं, उपादानं शान्ततो मनसिकर्तव्यं, उपादानं (Śस्P II-२ १३५) विविक्ततो मनसिकर्तव्यं, उपादानं रोगतो मनसिकर्तव्यं, उपादानं गण्डतो मनसिकर्तव्यं, उपादानं शल्यतो मनसिकर्तव्यं, उपादानम् अघतो मनसिकर्तव्यं, उपादानम् आबाधतो मनसिकर्तव्यं, उपादानं परतो मनसिकर्तव्यं, उपादानं प्रलोपधर्मतो मनसिकर्तव्यं, उपादानं चलतो मनसिकर्तव्यं, उपादानं प्रभङ्गुलतो मनसिकर्तव्यं, उपादानं भयतो मनसिकर्तव्यं, उपादानम् उपसर्गतो मनसिकर्तव्यं, उपादानं शून्यतो मनसिकर्तव्यं, उपादानम् अनात्मीयतो मनसिकर्तव्यं, उपादानम् अनाश्वासिकतो मनसिकर्तव्यं, उपादानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, भवो ऽनित्यतो मनसिकर्तव्यः, भवो दुःखतो मनसिकर्तव्यः, भव अनात्मतो मनसिकर्तव्यः, भवः शान्ततो मनसिकर्तव्यः, भवो विविक्ततो मनसिकर्तव्यः, भवो रोगतो मनसिकर्तव्यः, भवो गण्डतो मनसिकर्तव्यः, भवः शल्यतो मनसिकर्तव्यः, भवो ऽघतो मनसिकर्तव्यः, भव आबाधतो मनसिकर्तव्यः, भवः परतो मनसिकर्तव्यः, भवः प्रलोपधर्मतो मनसिकर्तव्यः, भवश् चलतो मनसिकर्तव्यः, भवः प्रभङ्गुलतो मनसिकर्तव्यः, भवो भयतो मनसिकर्तव्यः, भव उपसर्गतो मनसिकर्तव्यः, भवः शून्यतो मनसिकर्तव्यः, भवो ऽनात्मीयतो मनसिकर्तव्यः, भवो ऽनाश्वासिकतो मनसिकर्तव्यः, भवो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जातिर् अनित्यतो मनसिकर्तव्या, जातिर् दुःखतो मनसिकर्तव्या, जातिर् अनात्मतो मनसिकर्तव्या, जातिः शान्ततो मनसिकर्तव्या, जातिर् विविक्ततो मनसिकर्तव्या, जाती रोगतो मनसिकर्तव्या, जातिर् गण्डतो मनसिकर्तव्या, जातिः शल्यतो मनसिकर्तव्या, जातिर् अघतो मनसिकर्तव्या, जातिर् आबाधतो मनसिकर्तव्या, जातिः परतो मनसिकर्तव्या, जातिः प्रलोपधर्मतो मनसिकर्तव्या, जातिश् चलतो मनसिकर्तव्या, जातिः प्रभङ्गुलतो मनसिकर्तव्या, जातिर् भयतो मनसिकर्तव्या, जातिर् उपसर्गतो मनसिकर्तव्या, जातिः शून्यतो मनसिकर्तव्या, जातिर् अनात्मीयतो मनसिकर्तव्या, जातिर् अनाश्वासिकतो मनसिकर्तव्या, जातिर् व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
SK
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जरामरणम् अनित्यतो मनसिकर्तव्यं, जरामरणं दुःखतो मनसिकर्तव्यं, जरामरणम् अनात्मतो मनसिकर्तव्यं, जरामरणं शान्ततो मनसिकर्तव्यं, जरामरणं विविक्ततो मनसिकर्तव्यं, जरामरणं रोगतो मनसिकर्तव्यं, (Śस्P II-२ १३६) जरामरणं गण्डतो मनसिकर्तव्यं, जरामरणं शल्यतो मनसिकर्तव्यं, जरामरणम् अघतो मनसिकर्तव्यं, जरामरणम् आबाधतो मनसिकर्तव्यं, जरामरणं परतो मनसिकर्तव्यं, जरामरणं प्रलोपधर्मतो मनसिकर्तव्यं, जरामरणं चलतो मनसिकर्तव्यं, जरामरणं प्रभङ्गुलतो मनसिकर्तव्यं, जरामरणं भयतो मनसिकर्तव्यं, जरामरणम् उपसर्गतो मनसिकर्तव्यं, जरामरणं शून्यतो मनसिकर्तव्यं, जरामरणम् अनात्मीयतो मनसिकर्तव्यं, जरामरणम् अनाश्वासिकतो मनसिकर्तव्यं, जरामरणं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दानपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शीलपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः क्षान्तिपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् वीर्यपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् ध्यानपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः प्रज्ञापारमितायां चरत्य् अनुपलम्भयोगेन.
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि स्मृत्युपस्थानानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि सम्यक्प्रहाणानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार ऋद्धिपादं भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः पञ्चेन्द्रियाणि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः पञ्च बलानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः सप्त बोध्यङ्गानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टाङ्गमार्गानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार्य् आर्यसत्यानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि ध्यानानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार्य् अप्रमाणानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् (Śस्P II-२ १३७) चित्तोत्पादैश् चतस्र आरूप्यसमापत्तीर् भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टौ विमोक्षां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनुपूर्वविहारसमापत्तीर् भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अभिज्ञां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः समाधीं भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् धारणीमुखानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दशतथागतबलानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि वैशारद्यानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चतस्रः प्रतिसंविदो भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् महामैत्रीं भावयन्त्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् महाकरुणां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टा दशावेणिकबुद्धधर्मान् भावयत्य् अनुपलम्भयोगेन.
SK
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रतिसंशिक्षते धर्मा एवैते धर्मान् अभिष्यन्दयन्ति परिष्यन्दयन्ति परिपूरयन्ति परिस्फरयन्ति परिमीमांस्यन्ते, नास्त्य् अत्रात्मा वा आत्मीयं व. तत् कस्य हेतोः? तथा हि यद् बोधिसत्त्वस्य महासत्त्वस्य परिणामनाचित्तं तद् बोधिचित्ते न समवहितं, यद् बोधिचित्तं तत् परिणामनाचित्ते न समवहितं, यत् कौशिक परिणामनाचित्तं तद् बोधिचित्ते न संविद्यते नोपलभ्यते, यद् बोधिचित्तं तत् परिणामनाचित्ते न संविद्यते नोपलभ्यते. इयं कौसिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यद् एवं सर्वधर्माश् च प्रत्यवेक्षते न क्वचिद् धर्मेषु परिचरति.
SK
एवम् उक्ते शक्रो देवानाम् इन्द्रः सुभूतिस्थविरम् एतद् अवोचत्:
SK
कथं भदन्त सुभूत्ते परिणामनाचित्तं बोधिचित्ते न समवहितम्?
SK
कथं बोधिचित्तं परिणामनाचित्ते न समवहितम्?
SK
कथं परिणामनाचित्तं बोधिचित्ते न संविद्यते नोपलभ्यते?
SK
कथं बोधिचित्तं परिणामनाचित्ते न संविद्यते नोपलभ्यते?
SK
सुभूतिर् आह: यत् कौशिक परिणामनाचित्तं तद् अचित्तं, यद् बोधिचित्तं तद् अचित्तम्, इति हि यद् अचित्तं तद् अचिन्त्यं, यद् अचिन्त्यं तद् अचित्तं न ह्य् अचित्तता अचित्ततायां परिणामयति, नाचिन्त्यता अचिन्त्यतायां परिणामयति, इति हि या अचित्तता सा अचिन्त्यता या अचिन्त्यता सा अचित्तता, इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
SK
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: साधु साधु सुभूते साधु खलु पुनस् त्वं बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदिशस्य् उत्साहं ददासि.
SK
सुभूतिर् आह: कृतज्ञेन मया भगवन् भवितव्यं नाकृतज्ञेन, तथा हि पौर्वकानां तथागतानाम् अर्हम् अर्हन्तां सम्यक्संबुद्धानाम् अन्तिके तैः श्रावकैस् तथागतो ऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिसत्त्वभूतः षट्सु पारमितासु चोदितो ऽनुशिष्टाः संदर्शितः समादायितः समुत्तेजितः संप्रहर्षितः निवेशितः प्रतिष्ठापितः यतो भगवं पूर्वं बोधिसत्त्वभूतः षट्सु पारमितासु शिक्षितः. अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः एवम् एव भगवन्न् अस्माभिर् बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदितव्या अनुशिक्षितव्याः संहर्षितव्या, समादापयितव्याः, समुत्तरे ज्ञयितव्या, संप्रहर्षयितव्याः निवेशयितव्या, प्रतिष्ठापयितव्या, अस्माभिर् अपि बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदिता अनुशिष्टाः संहर्षिताः समादापितः समुत्तेजिताः संप्रहर्षितः निवेशिताः प्रतिष्ठापिता अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
SK
अथायुष्मान् सुभूतिः शक्रम् देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यथा च न स्थातव्यं रूपं कौशिक रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक रूपशून्यता च वेदनाशून्यता च संज्ञाशून्यता च संस्कारशून्यता च विज्ञानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक चक्षुश् चक्षुषा शून्यं, श्रोत्रं श्रोत्रेण (Śस्P II-२ १३९) शून्यं, घ्राणं घ्राणेन शून्यं, जिह्वा जिह्वया शून्या, कायः कायेन शून्यः, मनो मनसा शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःशून्यता च श्रोत्रशून्यता च घ्राणशून्यता च जिह्वाशून्यता च कायशून्यता च मनःशून्यता च बोदिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक रूपं रूपेण शून्यं, शब्दः शब्देन शून्यः, गन्धो गन्धेन शून्यः, रसो रसेन शून्यः, स्पर्शः स्पर्शेन शून्यः, धर्मा धर्मैः शून्याः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक रूपशून्यता च शब्दशून्यता च गन्धशून्यता च रसशून्यता च स्पर्शशून्यता च धर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक चक्षुर्विज्नानं चक्षुर्विज्ञानेन शून्यं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं, जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं, कायविज्ञानं कायविज्ञानेन शून्यं, मनोविज्ञानं मनोविज्ञानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुर्विज्ञानशून्यता च श्रोत्रविज्ञानशून्यता च घ्राणविज्ञानशून्यता च जिह्वाविज्ञानशून्यता च कायविज्ञानशून्यता च मनोविज्नानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः, घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः, जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः, कायसंस्पर्शः कायसंस्पर्शेन शून्यः, मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःसंस्पर्शशून्यता च श्रोत्रसंस्पर्शशून्यता च घ्राणसंस्पर्शशून्यता च जिह्वासंस्पर्शशून्यता च कायसंस्पर्शशून्यता च मनःसंस्पर्शशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनया शून्या, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनया शून्या, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनया शून्या, जिह्वासंस्पर्शजावेदना (Śस्P II-२ १४०) जिह्वासंस्पर्शजावेदनया शून्या, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनया शून्या, मनःसंस्पर्श्जावेदना मनःसंस्पर्शजावेदनया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःसंस्पर्शजावेदनाशून्यता च श्रोत्रसंस्पर्शजावेदनाशून्यता च घ्राणसंस्पर्शजावेदनाशून्यता च जिह्वासंस्पर्शजावेदनाशून्यता च कायसंस्पर्शजावेदनाशून्यता च मनःसंस्पर्शजावेदनाशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं क्लिअलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक पृथिवीधातुः पृथिवीधातुना शून्यः, अब्धातुर् अब्धातुना शून्यः, तेजोधातुस् तेजोधातुना शून्यः, वायुधातुर् वायुधातुना शून्यः, आकाशधातुर् आकाशधातुना शून्यः, विज्ञानधातुर् विज्ञानधातुना शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक पृथिवीधातुशून्यता चाब्धातुशून्यता च तेजोधातुशून्यता च वायुधातुशून्यता च् आकाशधातुशून्यता च विज्ञानधातुशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक अविद्याविद्यया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यं, नामरूपं नामरूपेण शून्यं, षडायतनं षडायतनेन शून्यं, स्पर्शः स्पर्शेन शून्यः, वेदना वेदनया शून्या, तृष्णा तृष्णया शून्या, उपादानम् उपादानेन शून्यं, भवो भवेन शून्यः, जातिर् जात्या शून्या, जरामरणं जरामरणेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकाविद्याशून्यता च संस्कारशून्यता च विज्ञानशून्यता च नामरूपशून्यता च षडायतनशून्यता च स्पर्शशून्यता च वेदनाशून्यता च तृष्णाशून्यता चोपादानशून्यता च भवशून्यता च जातिशून्यता च जरामरणशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक दानपारमिताशून्यता च शीलपारमिताशून्यता च क्षान्तिपारमिताशून्यता च वीर्यपारमिताशून्यता च ध्यानपारमिताशून्यता च प्रज्ञापारमिताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. (Śस्P II-२ १४१) एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिकाध्यात्मशून्यताध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या, शून्यताशून्यता शून्यताशून्यतया शून्या, महाशून्यता महाशून्यतया शून्या, परमार्थशून्यता परमार्थशून्यतया शून्या, संस्कृतशून्यता संस्कृतशून्यतया शून्या, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या, अत्यन्तशून्यतात्यन्तशून्यतया शून्या, अनवराग्रशून्यतानवराग्रशून्यतया शून्या, अनवकारशून्यतानवकारशून्यतया शून्या, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या, अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या, अभावशून्यताभावशून्यतया शून्या, स्वभावशून्यता स्वभावशून्यतया शून्या, अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकाध्यात्मशून्यता च बहिर्धाशून्यता चाध्यात्मबहिर्धाशून्यता च शून्यताशून्यता च महाशून्यता च परमार्थशून्यता च संस्कृतशून्यता चासंस्कृतशून्यता चात्यन्तशून्यता चानवराग्रशून्यता चानवकारशून्यता च प्रकृतिशून्यता च सर्वधर्मशून्यता च स्वलक्षणशून्यता चानुपलम्भशून्यता चाभावशून्यता च स्वभावशून्यता चाभावस्वभावशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि, ऋद्धिपादा ऋद्धिपादैः शून्याः, इन्द्रियाणीन्द्रियैः शून्यानि, बलानि बलैः शून्यानि, बोध्यङ्गानि बोध्यङ्गैः शून्यानि, आर्याष्टाङ्गमार्ग आर्याष्टाङ्गमार्गेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक स्मृत्युपस्थानशून्यता च सम्यक्प्रहाणशून्यता च ऋद्धिपादशून्यता चेन्द्रियशून्यता च बलशून्यता च बोध्यङ्गशून्यता च मार्गशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक आर्यसत्यान्य् आर्यसत्यैः शून्यानि, ध्यानानि ध्यानैः शून्यानि, अप्रमाणान्य् अप्रमाणैः शून्यानि, आरूप्यसमापत्तय (Śस्P II-२ १४२) आरूप्यसमापत्तिभिः शून्याः, विमोक्षाः विमोक्षैः शून्याः, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्याः, समाधयः समाधयः शून्याः, धारणीमुखानि धारणीमुखैः शून्यानि, तथागतबलानि तथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्या, महामैत्री महामैत्र्या शून्या, महाकरुणा महाकरुणया शून्या, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकार्यसत्यशून्यता च ध्यानशून्यता चाप्रमाणशून्यता चारूप्यसमापत्तिशून्यता च विमोक्षशून्यता चानुपूर्वविहारसमापत्तिशून्यता च शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता चाभिज्ञाशून्यता च समाधिशून्यता च धारणीमुखशून्यता च तथागतबलशून्यता च वैशारद्यशून्यता च प्रतिसंविद्शून्यता च महामैत्रीशून्यता च महाकरुणाशून्यता चावेणिकबुद्धधर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक श्रावकयानं श्रावकयानेन शून्यं, प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रावकयानशून्यता च प्रत्येकबुद्धयानशून्यता च बुद्धयानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक श्रावकः श्रावकेन शून्यः, प्रत्येकबुद्धः प्रत्येकबुद्धेन शून्यः, बुद्धो बुद्धेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रावकशून्यता च प्रत्येकबुद्धशून्यता च बुद्धशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
पुनर् अपरं कौशिक स्रोतआपत्तिफलं स्रोतआपत्तिफलेन शून्यं, सकृदागामिफलं सकृदागामिफलेन शून्यं, अनागामिफलम् अनागामिफलेन शून्यं, अर्हत्त्वम् अर्हत्त्वेन शून्य्ं, प्रत्येकबोधिः प्रत्येकबोध्या शून्या, मार्गाकारज्ञता मार्गाकारज्ञतया शून्या, सर्वाकारज्ञता सर्वाकारज्ञतया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रोत्रआपत्तिफलशून्यता च सकृदागामिफलशून्यता चानागामिफलशून्यता चार्हत्फलशून्यता च प्रत्येकबोधिशून्यता च मार्गाकारज्ञताशून्यता (Śस्P II-२ १४३) च सर्वाकारज्ञताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
SK
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां न स्थातव्यम्?
SK
सुभूतिर् आह: इति हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे न स्थातव्यम् उपलम्भयोगेन, वेदनायां न स्थातव्यम् उपलम्भयोगेन, संज्ञायां न स्थातव्यम् उपलम्भयोगेन, संस्कारेषु न स्थातव्यम् उपलम्भयोगेन, विज्ञाने न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुषि न स्थातव्यम् उपलम्भयोगेन, श्रोत्रे न स्थातव्यम् उपलम्भयोगेन, घ्राणे न स्थातव्यम् उपलम्भयोगेन, जिह्वायां न स्थातव्यम् उपलम्भयोगेन, काये न स्थातव्यम् उपलम्भयोगेन, मनसि न स्थातव्यम् उपलम्भयोगेन.
SK
रूपे न स्थातव्यम् उपलम्भयोगेन, शब्दे न स्थातव्यम् उपलम्भयोगेन, गन्धे न स्थातव्यम् उपलम्भयोगेन, रसे न स्थातव्यम् उपलम्भयोगेन, स्पर्शे न स्थातव्यम् उपलम्भयोगेन, धर्मेषु न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुर्विज्ञाने न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञाने न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञाने न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञाने न स्थातव्यम् उपलम्भयोगेन, कायविज्ञाने न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञाने न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुःसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुःसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शजायां (Śस्P II-२ १४४) वेदनायां न स्थातव्यम् उपलम्भयोगेन.
SK
पृथिवीधातौ न स्थातव्यम् उपलम्भयोगेन, अब्धातौ न स्थातव्यम् उपलम्भयोगेन, तेजोधातौ न स्थातव्यम् उपलम्भयोगेन, वायुधातौ न स्थातव्यम् उपलम्भयोगेन, आकाशधातौ न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातौ न स्थातव्यम् उपलम्भयोगेन.
SK
अविद्यायां न स्थातव्यम् उपलम्भयोगेन, संस्कारेषु न स्थातव्यम् उपलम्भयोगेन, विज्ञाने न स्थातव्यम् उपलम्भयोगेन, नामरूपे न स्थातव्यम् उपलम्भयोगेन, षडायतने न स्थातव्यम् उपलम्भयोगेन, स्पर्शे न स्थातव्यम् उपलम्भयोगेन, वेदनायां न स्थातव्यम् उपलम्भयोगेन, तृष्णायां न स्थातव्यम् उपलम्भयोगेन, उपदाने न स्थातव्यम् उपलम्भयोगेन, भवे न स्थातव्यम् उपलम्भयोगेन, जातौ न स्थातव्यम् उपलम्भयोगेन, जरामरणे न स्थातव्यम् उपलम्भयोगेन.
SK
दानपारमितायां न स्थातव्यम् उपलम्भयोगेन, शीलपारमितायां न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितायां न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितायां न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितायां न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितायां न स्थातव्यम् उपलम्भयोगेन.
SK
अध्यात्मशून्यतायां न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यतायां न स्थातव्यम् उपलम्भयोगेन, महाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यतायां न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यतायां न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यतायां न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यतायां न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यतायां न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन.
SK
स्मृत्युपस्थानेषु न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणेषु न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादेषु न स्थातव्यम् उपलम्भयोगेन, इन्द्रियेषु न स्थातव्यम् उपलम्भयोगेन, बलेषु न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गेषु न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गे मर्गे न स्थातव्यम् उपलम्भयोगेन, आर्यसत्येषु न स्थातव्यम् उपलम्भयोगेन, ध्यानेषु न स्थातव्यम् उपलम्भयोगेन, अप्रमाणेषु न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तिषु न स्थातव्यम् उपलम्भयोगेन, विमोक्षेषु न स्थातव्यम् उपलम्भयोगेन, नवानुपूर्वविहारसमापत्तिषु न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न स्थातव्यम् उपलम्भयोगेन, अभिज्ञासु न स्थातव्यम् उपलम्भयोगेन, समाधिषु न स्थातव्यम् उपलम्भयोगेन, धारणीमुखेषु न स्थातव्यम् उपलम्भयोगेन, तथागतबलेषु न स्थातव्यम् उपलम्भयोगेन, वैशारद्येषु न स्थातव्यम् उपलम्भयोगेन, प्रतिसंवित्सु न स्थातव्यम् उपलम्भयोगेन, महामैत्र्यां न स्थातव्यम् उपलम्भयोगेन, महाकरुणायां न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मेषु न स्थातव्यम् उपलम्भयोगेन, श्रावकयाने न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धयाने न स्थातव्यम् उपलम्भयोगेन, बुद्धयाने न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफले न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफले न स्थातव्यम् उपलम्भयोगेन, अनागामिफले न स्थातव्यम् उपलम्भयोगेन, अर्हत्फले न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धत्वे न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतायां न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतायां न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतायां न स्थातव्यम् उपलम्भयोगेन.
SK
रूपम् इति न स्थातव्यम् उपलम्भयोगेन, वेदनेति न स्थातव्यम् उपलम्भयोगेन, संज्ञेति न स्थातव्यम् उपलम्भयोगेन, संस्कारा इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुर् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वेति न स्थातव्यम् उपलम्भयोगेन, काय इति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १४६) मन इति न स्थातव्यम् उपलम्भयोगेन.
SK
रूपम् इति न स्थातव्यम् उपलम्भयोगेन, शब्द इति न स्थातव्यम् उपलम्भयोगेन, गन्ध इति न स्थातव्यम् उपलम्भयोगेन, रस इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श इति न स्थातव्यम् उपलम्भयोगेन, धर्मा इति न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुर्विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुःसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन.
SK
पृथिवीधाताव् इति न स्थातव्यम् उपलम्भयोगेन, अब्धाताव् इति न स्थातव्यम् उपलम्भयोगेन, तेजोधाताव् इति न स्थातव्यम् उपलम्भयोगेन, वायुधाताव् इति न स्थातव्यम् उपलम्भयोगेन, आकाशधाताव् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधाताव् इति न स्थातव्यम् उपलम्भयोगेन.
SK
अविद्येति न स्थातव्यम् उपलम्भयोगेन, संस्कारा इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनम् इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श इति न स्थातव्यम् उपलम्भयोगेन, वेदनेति न स्थातव्यम् उपलम्भयोगेन, तृष्णेति न स्थातव्यम् उपलम्भयोगेन, उपादानम् इति न स्थातव्यम् उपलम्भयोगेन, भव इति न स्थातव्यम् उपलम्भयोगेन, जातिर् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
दानपारमितेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमितेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अध्यात्मशून्यतेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यतेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यतेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यतेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यतेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यतेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यतेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन.
SK
स्मृत्युपस्थानानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानीति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा इति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणीति न स्थातव्यम् उपलम्भयोगेन, बलानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानीति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्ग इति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानीति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तय इति न स्थातव्यम् उपलम्भयोगेन, विमोक्षा इति न स्थातव्यम् उपलम्भयोगेन, नवानुपूर्वविहारसमापत्तय इति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा इति न स्थातव्यम् उपलम्भयोगेन, समाधय इति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानीति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविद इति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १४८) महामैत्रीति न स्थातव्यम् उपलम्भयोगेन, महाकरुणेति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा इति न स्थातव्यम् उपलम्भयोगेन, श्रावकयानम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धयानम् इति न स्थातव्यम् उपलम्भयोगेन, बुद्धयानम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धत्वम् इति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतेति न स्थातव्यम् उपलम्भयोगेन.
SK
रूपं नित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं सुखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
वेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन. वेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
संज्ञा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, संज्ञा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १४९) संज्ञा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, संज्ञा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
संस्कारा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुर् नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
श्रोत्रं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शुभम् इत्य् (Śस्P II-२ १५०) अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
घ्राणं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
जिह्वा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
कायो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, कायः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, काय आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, कायः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, कायो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, कायः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, कायो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, कायः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
मनो नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनः सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, मन आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनः शुभम् इत्य् अशुभम् इति (Śस्P II-२ १५१) न स्थातव्यम् उपलम्भयोगेन, मनः शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनो विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनः शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनो निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनः प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
रूपं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
शब्दो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, शब्दः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, शब्द आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शब्दः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, शब्दः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, शब्दो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
गन्धो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, गन्धः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, गन्ध आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, गन्धः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, गन्धः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, गन्धो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
रसो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, रसः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, रस आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रसः शुभ इत्य् अशुभ इति न स्थातव्यम् (Śस्P II-२ १५२) उपलम्भयोगेन, रसः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, रसो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, रसः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, रसो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, रसः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
स्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
धर्मा नित्या इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, धर्माः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, धर्मा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्मा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, धर्मा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्माः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुर्विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
श्रोत्रविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १५३) श्रोत्रविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
घ्राणविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
जिह्वाविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन., जिह्वाविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
कायविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १५४) कायविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
मनोविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुःसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
श्रोत्रसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
घ्राणसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
जिह्वासंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
कायसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
मनःसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १५६) मनःसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
श्रोत्रसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
घ्राणसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् (Śस्P II-२ १५७) उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
जिह्वासंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
कायसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
मनःसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न (Śस्P II-२ १५८) स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
पृथिवीधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
अब्धातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
तेजोधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
वायुधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शान्त इत्य् अशान्त (Śस्P II-२ १५९) इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
आकाशधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
विज्ञानधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः सुख इति दुह्ख इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
अविद्या नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अविद्या सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अविद्या आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अविद्या निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
संस्कारा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः (Śस्P II-२ १६०) शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा विविक्ता इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
नामरूपं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
षडायतनं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
स्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः (Śस्P II-२ १६१) सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
वेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, वेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
तृष्णा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, तृष्णा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, तृष्णा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
उपादानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, उपादानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
भवो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, भवः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, भव आत्मेत्य् अनात्मेति (Śस्P II-२ १६२) न स्थातव्यम् उपलम्भयोगेन, भवः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, भवः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, भवो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, भवः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, भवो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, भवः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
जातिर् नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जातिः सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जातिर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जातिः शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जातिः शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जातिर् विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जातिः शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जातिर् निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जातिः प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
जरामरणं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
दानपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता प्रणिहितेत्य् अप्रनिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
शीलपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता (Śस्P II-२ १६३) आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
क्षान्तिपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
वीर्यपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
ध्यानपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
प्रज्ञापारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अध्यात्मशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
बहिर्धाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अध्यात्मबहिर्धाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता विविक्तेत्य् अविविक्तेति न (Śस्P II-२ १६५) स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
शून्यताशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
महाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
परमार्थशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
संस्कृतशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १६६) संस्कृतशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
असंस्कृतशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अत्यन्तशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अनवराग्रशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता सुखेति दुह्खेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अनवकारशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १६७) अनवकारशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
प्रकृतिशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
सर्वधर्मशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
स्वलक्षणशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १६८) स्वलक्षणशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अनुपलम्भशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
स्वभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
अभावस्वभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् (Śस्P II-२ १६९) उपलम्भयोगेन, अभावस्वभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
स्मृत्युपस्थानानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
सम्यक्प्रहाणानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
ऋद्धिपादा नित्या इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा निमित्ता इत्य् अनिमित्त इति न (Śस्P II-२ १७०) स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
इन्द्रियाणि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाण्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
बलानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, बलानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, बलान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, बलानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
बोध्यङ्गानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
आर्याष्टाङ्गमार्गो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्ग आत्मा इत्य् अनात्मा इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १७१) आर्याष्टाङ्गमार्गः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
SK
आर्यसत्यानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि सुखानिति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
ध्यानानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
अप्रमाणानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
आरूप्यसमापत्तयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १७२) आरूप्यसमापत्तयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयो विविक्ता इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
अष्टौ विमोक्षा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
अनुपूर्वविहारसमापत्तयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (Śस्P II-२ १७३) विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
अभिज्ञा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
समाधयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, समाधयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, समाधय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, समाधयो निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
धारणीमुखानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
तथागतबलानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १७४) तथागतबलानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
वैशारद्यानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.
SK
प्रतिसंविदो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविद आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
महामैत्री नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महामैत्री सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महामैत्र्य् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महामैत्री निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १७५) महामैत्री प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
महाकरुणा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
आवेणिकबुद्धधर्मा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
SK
स्रोतआपत्तिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
सकृदागामिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् (Śस्P II-२ १७६) उपलम्भयोगेन, सकृदागामिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
अनागामिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
अर्हत्त्वं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
SK
प्रत्येकबोधिर् नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
सर्वज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
मार्गाकारज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
सर्वाकारज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
SK
पुनर् अपरं कौशिक स्रोतआपत्तिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनुत्तरायाः सम्यक्संबोधिर् असंस्कृतप्रभावितम् (Śस्P II-२ १७८) इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपन्ना दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामी दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामी दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हन् दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन, तथागतो ऽर्हन् सम्यक्संबुद्धो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ न स्थातव्यम् उपलम्भयोगेन, द्वितीयायां भूमौ न स्थातव्यम् उपलम्भयोगेन, तृतीयायां भूमौ न स्थातव्यम् उपलम्भयोगेन, चतुर्थायां भूमौ न स्थातव्यम् उपलम्भयोगेन, पञ्चम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, षष्टम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, सप्तम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, अष्टम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, नवम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, दशम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादे स्थित्वा दानपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, शीलपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन.
SK
स्मृत्युपस्थानानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बलानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गं परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोधिसत्त्वनियामम् अवक्रमिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोधिसत्त्वनियामम् अवक्रम्य बुद्धभूमौ स्थास्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन.
SK
पञ्चबोधिसत्त्वाभिज्ञाः परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, पञ्चसु बोधिसत्त्वाभिज्ञासु स्थित्वा अप्रमेयान्य् असंख्येयानि बुद्धक्षेत्राण्य् उपसंक्रमिष्यामि बुद्धानां भगवतां दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय श्रुत्वा च तथत्वाय परेभ्यो देशयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन.
SK
यादृशानि च तेषां बुद्धानां भगवतां बुद्धक्षेत्रानि तदृशानि एव परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन, सत्त्वान् बोधौ परिपाचयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन.
SK
अप्रमेयासंख्येयांश् च लोकधातुं गत्वा तान् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करिष्यामीति गुरुकरिष्यामीति मानयिष्यामीति पूजयिष्यामीति, पुष्पमाल्यगन्धविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः कोटीनियुतशतसहस्रैश् च तांस् तथागतां पूजयिष्यामीत्य् एवम् अपि न स्थातव्यम् उपलम्भयोगेन, अप्रमेयासंख्येयां सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन.
SK
पञ्चचक्षुष्य् उत्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. कतमानि पञ्च? मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, सर्वसमाधीं परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, येन येन पुनः समाधीन् आकाङ्क्षयिष्यामि विक्रीडितुं तेन तेन समाधिना विक्रीडिष्यामीति न स्थातव्यम् उपलम्भयोगेम, सर्वधारणीमुखानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन.
SK
दशतथागतबलानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, चत्वारि वैशारद्यानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, चतस्रः प्रतिसंविदः परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, महामैत्रीं परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, महाकरुणां परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, अष्टादशावेणिकान् बुद्धधर्मान् परिनिष्पादयिष्यामीति एवम् अपि बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन, द्वात्रिंशतानि महापुरुषलक्षणानि काये परिनिष्पादयिष्यामीति न स्थातव्यम् (Śस्P II-२ १८०) उपलम्भयोगेन, अशीत्य् अनुव्यञ्जनानि काये परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन.
SK
शुद्धानुसारीनि न स्थातव्यम् उपलम्भयोगेन, धर्मानुसारीनि न स्थातव्यम् उपलम्भयोगेन, अष्टमक इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपन्न इति न स्थातव्यम् उपलम्भयोगेन, सप्तकृत्वभवपरमम् इति न स्थातव्यम् उपलम्भयोगेन, कुलंकुल इत्य् एकवीचिक इति न स्थातव्यम् उपलम्भयोगेन, समशीर्षपुद्गल इति न स्थातव्यम् उपलम्भयोगेन, आयुःक्षये क्लेशक्षये चेति न स्थातव्यम् उपलम्भयोगेन, अविनिपातधर्मा इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामि सकृद् इमं लोकम् आगम्य दुःखस्यां तं करिष्यामीति न स्थातव्यम् उपलम्भयोगेन, अनागगामिफलसाक्षात्क्रियायै प्रतिकन्नक इति न स्थातव्यम् उपलम्भयोगेन, अनागामि तत्रैव निर्वास्यतीति न स्थातव्यम् उपलम्भयोगेन, अर्हत्फलसाक्षात्क्रियायैः प्रतिपन्नक इति न स्थातव्यम् उपलम्भयोगेन, अर्हन्न् इहैवानुपधिशेषनिर्वाणधातौ परिनिर्वापयिष्यतीति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्ध इति न स्थातव्यम् उपलम्भयोगेन, अतिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं च बोधिसत्त्वभूमौ स्थास्यामीति इति न स्थातव्यम् उपलम्भयोगेन.
SK
मार्गाकारज्ञताज्ञाने सर्वाकारज्ञतायां च न स्थातव्यम् उपलम्भयोगेन, सर्वाकारैः सर्वधर्मान् अभिसंबुद्धा सर्वावासना न संविक्ते शक्षयायां न स्थातव्यम् उपलम्भयोगेन, अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रप्रवर्तयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बुद्धकार्ये कृत्वा अप्रमेयान् असंख्येयान् लोकधातून् परिनिर्वापयिष्यामीति, एवम् अपि न स्थातव्यम् उपलम्भयोगेन.
SK
चतुर्षु ऋद्धिपादेषु स्थित्वा तथारूपं समाधिं समापत्स्ये यथारूपं समाधिं समापद्य गङ्गानदीवालुकोपमान् कल्पान् तिष्ठेयम् इति न स्थातव्यम् उपलम्भयोगेन, अपरिमितश् च मे आयुर् भवेद् इति न स्थातव्यम् उपलम्भयोगेन.
SK
द्वात्रिंशतां मे महापुरुषलक्षणानाम् एकैकलक्षणं शतपुण्यपरिनिष्पन्नं भवेद् इति न स्थातव्यम् उपलम्भयोगेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पूर्वेण, यावन्तो गङ्गानदीवालुकोपमा लोकधातवो दक्षिणेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पश्चिमेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातव उत्तरेण, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः उत्तरपूर्वेण, यावन्तो गङ्गानदीवालुकोपमा (Śस्P II-२ १८१) लोकधातवः पूर्वदक्षिणेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवो दक्षिणपश्चिमेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पश्चिमोत्तरेण, तावन्त एकं मे बुद्धक्षेत्रं भवेद् इति न स्थातव्यम् उपलम्भयोगेन, वज्रोपमो मे त्रिसाहस्रमहासाहस्रो लोकधातुर् भवेद् इति न स्थातव्यम् उपलम्भयोगेन.
SK
बोधिवृक्षाश् च मे तादृशो गन्धो निश्चरेत्, ये सत्त्वास् तं गन्धम् आजिघ्रेयुस् तेषाम् न रागद्वेषमोहाश् च व्याबाधेयुर् इति न स्थातव्यम् उपलम्भयोगेन, न श्रावकचित्तं न प्रत्येकबुद्धचित्तम् उत्पद्येयुर् इति न स्थातव्यम् उपलम्भयोगेन, सर्वे च ते नियता भवेयुर् अनुत्तराया सम्यक्संबुद्धाव् इति न स्थातव्यम् उपलम्भयोगेन, ये च सत्त्वास् तं बोधिवृक्षगन्धम् आजिघ्रेयुस् तेषां न कश्चिद् व्याधिर् भवेद् काये वा चित्ते वेति न स्थातव्यम् उपलम्भयोगेन.
SK
तत्र च मे बुद्धक्षेत्रे न रूपशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न वेदनाशब्दो भवेन् न संज्ञाशब्दो भवेन् न संस्कारशब्दो भवेन् न विज्ञानशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन,
SK
न धातुशब्दो नायतनशब्दो न प्रतीत्यसमुत्पादशब्दो भवेद् इति स्थातव्यम् उपलम्भयोगेन,
SK
न दानपारमिताशब्दो भवेन् न शीलपारमिताशब्दो भवेन् न क्षान्तिपारमिताशब्दो भवेन् न वीर्यपारमिताशब्दो भवेन् न ध्यानपारमिताशब्दो भवेन् न प्रज्ञापारमिताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन,
SK
नाध्यात्मशून्यताशब्दो भवेन् न बहिर्धाशून्यताशब्दो भवेन् नाध्यात्मबहिर्धाशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न शून्यताशून्यताशब्दो भवेन् न महाशून्यताशब्दो भवेन् न परमार्थशून्यताशब्दो भवेन् न संस्र्तशून्यताशब्दो भवेन् नासंस्कृतशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नात्यन्तशून्यताशब्दो भवेन् नानवराग्रशून्यताशब्दो भवेन् नानवकारशून्यताशब्दो भवेन् न प्रकृतिशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न सर्वधर्मशून्यताशब्दो भवेन् न स्वलक्षणशून्यताशब्दो भवेन् नानुपलम्भशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नाभावशून्यताशब्दो भवेन् न स्वभावशून्यताशब्दो भवेन् नाभावस्वभावशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, (Śस्P II-२ १८२) न स्मृत्युपस्थानशब्दो भवेन् न सम्यक्प्रहाणशब्दो भवेन् न ऋद्धिपादशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नेन्द्रियशब्दो भवेन् न बलशब्दो भवेन् न बोध्यङ्गशब्दो भवेन् नार्याष्टाङ्गमार्गशब्दो भवेन् नार्यसत्यशब्दो भवेद् इति न स्थातवय्म् उपलम्भयोगेन, न ध्यानशब्दो भवेन् नाप्रमाणशब्दो भवेन् नारूप्यसमापत्तिशब्दो भवेन् न विमोक्षशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नानुपूर्वविहारसमापत्तिशब्दो भवेन् न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशब्दो भवेन् नाभिज्ञाशब्दो भवेन् न समाधिशब्दो भवेन् न धारणीमुखशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न तथागतबलशब्दो भवेन् न वैशारद्यशब्दो भवेन् न प्रतिसंविद्शब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न महामैत्रीशब्दो भवेन् न महाकरुणाशब्दो भवेन् नावेणिकबुद्धधर्मशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न स्रोतआपत्तिशब्दो भवेन् न सकृदागामिशब्दो भवेन् नानागामिशब्दो भवेन् नार्हत्त्वशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न प्रत्येकबुद्धशब्दो भवेन् न बुद्धशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन. तत् कस्य हेतोः? तथा हि तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वधर्मा नोपलब्धाः.
SK
एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां न स्थातव्यम् उपलम्भयोगेन.
SK
अथायुष्मतः शारद्वतीपुतस्यैतद् अभूत्: कथं पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्?
SK
अथायुष्मतः सुभूतिर् आयुष्मतः शारद्वतीपुत्रस्य चेतस्यैव चेतःपरिवितर्कम् आज्ञायायुष्मतं शारद्वतीपुत्रम् आमन्त्रयति स्म. तत् किं मन्यसे? आयुष्मञ् छारद्वतीपुत्र क्व तथागतो ऽर्हन् सम्यक्संबुद्धः स्थितः.
SK
आह: न क्वचिद् आयुष्मन् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः स्थित इति अप्रतिस्थितमानसः खलु पुनर् आयुष्मन् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः स रूपे न स्थितो वेदनायां न स्थितः संज्ञायां न स्थितः संस्कारेषु न स्थितो विज्ञाने न स्थितः.
SK
न चक्षुषि स्थितो न श्रोत्रे स्थितो न घ्राणे स्थितो न जिह्वायां स्थितो न काये स्थितो न मनसि स्थितः.
SK
न रूपे स्थितो न शब्दे स्थितो न गन्धे स्थितो न रसे स्थितो न स्पर्शे स्थितो न धर्मेषु स्थितः.
SK
न चक्षुर्विज्ञाने स्थितो न श्रोत्रविज्ञाने स्थितो न घ्राणविज्ञाने स्थितो न जिह्वाविज्ञाने स्थितो न कायविज्ञाने स्थितो न मनोविज्ञाने स्थितः.
SK
न चक्षुःसंस्पर्शे स्थितो न श्रोत्रसंस्पर्शे स्थितो न घ्राणसंस्पर्शे स्थितो न जिह्वासंस्पर्शे स्थितो न कायसंस्पर्शे स्थितो न मनःसंस्पर्शे स्थितः.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनायां स्थितो न श्रोत्रसंस्पर्शप्रत्ययवेदनायां स्थितो न घ्राणसंस्पर्शप्रत्ययवेदनायां स्थितो न जिह्वासंस्पर्शप्रत्ययवेदनायां स्थितो न कायसंस्पर्शप्रत्ययवेदनायां स्थितो न मनःसंस्पर्शप्रत्ययवेदनायां स्थितः. न पृथिवीधातौ स्थितो नाब्धातौ स्थितो न तेजोधातौ स्थितो न वायुधातौ स्थितो नाकाशधातौ स्थितो न विज्ञानधातौ स्थितः.
SK
नाविद्यायां स्थितो न संस्कारेषु स्थितो न विज्ञाने स्थितो न नामरूपे स्थितो न षडायतने स्थितो न स्पर्शे स्थितो न वेदनायां स्थितो न तृष्णायां स्थितो नोपादाने स्थितो न भवे स्थितो न जातौ स्थितो न जरामरणे स्थितः.
SK
न दानपारमितायां स्थितो न शीलपारमितायां स्थितो न क्षान्तिपारमितायां स्थितो न वीर्यपारमितायां स्थितो न ध्यानपारमितायां स्थितो न प्रज्ञापारमितायां स्थितः.
SK
नाध्यात्मशून्यतायां स्थितो न बहिर्धाशून्यतायां स्थितो नाध्यात्मबहिर्धाशून्यतायां स्थितो न शून्यताशून्यतायां स्थितो न महाशून्यतायां स्थितो न परमार्थशून्यतायां स्थितो न संस्कृतशून्यतायां स्थितो नासंस्कृतशून्यतायां स्थितो नात्यन्तशून्यतायां स्थितो नानवराग्रशून्यतायां स्थितो नानवकारशून्यतायां स्थितो न प्रकृतिशून्यतायां स्थितो न सर्वधर्मशून्यतायां स्थितो न स्वलक्षणशून्यतायां स्थितो नानुपलम्भशून्यतायां स्थितो नाभावशून्यतायां स्थितो न स्वभावशून्यतायां स्थितो नाभावस्वभावशून्यतायां स्थितः. न स्मृत्युपस्थानेषु स्थितो न सम्यक्प्रहाणेषु स्थितो न ऋद्धिपादेषु स्थितो नेन्द्रियेषु स्थितो न बलेषु स्थितो न बोध्यङ्गेषु स्थितो नार्याष्टाङ्गे मर्गे स्थितो नार्यसत्येषु स्थितो न ध्यानेषु स्थितो नाप्रमाणेषु स्थितो नारूप्यसमापत्तिषु स्थितो न विमोक्षेषु स्थितो नानुपूर्वविहारसमापत्तिषु स्थितो न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितो नाभिज्ञासु स्थितो न समाधिषु स्थितो न धारणीमुखेषु (Śस्P II-२ १८४) स्थितो न तथागतबलेषु स्थितो न वैशारद्येषु स्थितो न प्रतिसंवित्सु स्थितो न महामैत्र्या स्थितो न महाकरुणायां स्थितो नावेणिकबुद्धधर्मेषु स्थितो न सर्वज्ञतायां स्थितो न मार्गाकारज्ञतायां स्थितो न सर्वाकारज्ञतायां स्थितः.
SK
सुभूतिर् आह: एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यथा तथागतो ऽर्हन् सम्यक्संबुद्धो रूपे नैव स्थितो नास्थितो वेदनायां नैव स्थितो नास्थितः सम्ज्ञायाम् नैव स्थितो नास्थितः संस्कारेषु नैव स्थितो नास्थितो विज्ञाने नैव स्थितो नास्थितः.
SK
चक्षुषि नैव स्थितो नास्थितः श्रोत्रे नैव स्थितो नास्थितो घ्राणे नैव स्थितो नास्थितो जिह्वायां नैव स्थितो नास्थितः काये नैव स्थितो नास्थितो मनसि नैव स्थितो नास्थितः.
SK
रूपे नैव स्थितो नास्थितः शब्दे नैव स्थितो नास्थितो गन्धे नैव स्थितो नास्थितो रसे नैव स्थितो नास्थितः स्पर्शे नैव स्थितो नास्थितो धर्मेषु नैव स्थितो नास्थितः.
SK
चक्षुर्विज्ञाने नैव स्थितो नास्थितः श्रोत्रविज्ञाने नैव स्थितो नास्थितो घ्राणविज्ञाने नैव स्थितो नास्थितो जिह्वाविज्ञाने नैव स्थितो नास्थितः कायविज्ञाने नैव स्थितो नास्थितो मनोविज्ञाने नैव स्थितो नास्थितः.
SK
चक्षुःसंस्पर्शे नैव स्थितो नास्थितः श्रोत्रसंस्पर्शे नैव स्थितो नास्थितो घ्राणसंस्पर्शे नैव स्थितो नास्थितो जिह्वासंस्पर्शे नैव स्थितो नास्थितः कायसंस्पर्शे नैव स्थितो नास्थितो मनःसंस्पर्शे नैव स्थितो नास्थितः.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः श्रोत्रसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो घ्राणसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो जिह्वासंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः कायसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो मनःसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः
SK
पृथिवीधातौ नैव स्थितो नास्थितो ऽब्धातौ नैव स्थितो नास्थितः तेजोधातौ नैव स्थितो नास्थितो वायुधातौ नैव स्थितो नास्थित आकाशधातौ नैव स्थितो नास्थितो विज्ञानधातौ नैव स्थितो नास्थितः.
SK
अविद्यायां नैव स्थितो नास्थितः संस्कारेषु नैव स्थितो नास्थितो विज्ञाने नैव स्थितो नास्थितो नामरूपे नैव स्थितो नास्थितः षडायतने नैव स्थितो नास्थितः स्पर्शे नैव स्थितो नास्थितो वेदनायां नैव स्थितो (Śस्P II-२ १८५) नास्थितः तृष्णायां नैव स्थितो नास्थित उपादाने नैव स्थितो नास्थितो भवे नैव स्थितो नास्थितो जातौ नैव स्थितो नास्थितो जरामरणे नैव स्थितो नास्थितः.
SK
दानपारमितायां नैव स्थितो नास्थितः शीलपारमितायां नैव स्थितो नास्थितः क्षान्तिपारमितायां नैव स्थितो नास्थितो वीर्यपारमितायां नैव स्थितो नास्थितो ध्यानपारमितायां नैव स्थितो नास्थितः प्रज्ञापारमितायां नैव स्थितो नास्थितः.
SK
अध्यात्मशून्यतायां नैव स्थितो नास्थितो बहिर्धाशून्यतायां नैव स्थितो नास्थितो ऽध्यात्मबहिर्धाशून्यतायां नैव स्थितो नास्थितः शून्यताशून्यतायां नैव स्थितो नास्थितो महाशून्यतायां नैव स्थितो नास्थितः परमार्थशून्यतायां नैव स्थितो नास्थितः संस्कृतशून्यतायां नैव स्थितो नास्थितो ऽसंस्कृतशून्यतायां नैव स्थितो नास्थितो ऽत्यन्तशून्यतायां नैव स्थितो नास्थितो नवराग्रशून्यतायां नैव स्थितो नास्थितो ऽनवकारशून्यतायां नैव स्थितो नास्थितः प्रकृतिशून्यतायां नैव स्थितो नास्थितः सर्वधर्मशून्यतायां नैव स्थितो नास्थितः स्वलक्षणशून्यतायां नैव स्थितो नास्थितो ऽनुपलम्भशून्यतायां नैव स्थितो नास्थितो ऽभावशून्यतायां नैव स्थितो नास्थितः स्वभावशून्यतायां नैव स्थितो नास्थितो ऽभावस्वभावशून्यतायां नैव स्थितो नास्थितः.
SK
स्मृत्युपस्थानेषु नैव स्थितो नास्थितः, सम्यक्प्रहाणेषु नैव स्थितो नास्थितः, ऋद्धिपादेषु नैव स्थितो नास्थितः, इन्द्रियेषु नैव स्थितो नास्थितः, बलेषु नैव स्थितो नास्थितः, बोध्यङ्गेषु नैव स्थितो नास्थितः, आर्याष्टाङ्गे मर्गे नैव स्थितो नास्थितः, आर्यसत्येषु नैव स्थितो नास्थितः, ध्यानेषु नैव स्थितो नास्थितः, अप्रमाणेषु नैव स्थितो नास्थितः, आरूप्यसमापत्तिषु नैव स्थितो नास्थितः, विमोक्षेषु नैव स्थितो नास्थितः, अनुपूर्वविहारसमापत्तिषु नैव स्थितो नास्थितः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नैव स्थितो नास्थितः, अभिज्ञासु नैव स्थितो नास्थितः, समाधिषु नैव स्थितो नास्थितः, धारणीमुखेषु नैव स्थितो नास्थितः, तथागतबलेषु नैव स्थितो नास्थितः, वैशारद्येषु नैव स्थितो नास्थितः, प्रतिसंवित्सु नैव स्थितो नास्थितः, महामैत्र्यां नैव स्थितो नास्थितः, महाकरुणायां नैव स्थितो नास्थितः, आवेणिकबुद्धधर्मेषु नैव स्थितो नास्थितः, सर्वज्ञतायां नैव स्थितो नास्थितः, मार्गाकारज्ञतायां नैव स्थितो नास्थितः, सर्वाकारज्ञतायां नैव स्थितो नास्थितः.
SK
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं स्थातव्यम् इत्य् अस्थानयोगेन.
SK
अथ खलु तत्र पर्षदि केषाञ्चिद् देवपुत्राणाम् एतद् अभवत्: यानि तानि यक्षाणां यक्षपदानि यक्षमन्त्रितानि यक्षरुतानि यक्षप्रव्याहृतानि विज्ञायन्ते, तानि मन्त्रयमाणानि, इदं पुनर् अपि न विज्ञायते यद् आर्यसुभूतिः प्रज्ञापारमितां भाषते प्रव्याहरति देशयति विभजत्य् उत्तानीकरोति उपदिशति.
SK
अथायुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् आमन्त्रयते स्म, न विज्ञायते देवपुत्राणाम् आमन्त्रयते.
SK
देवपुत्रा आहुः: न विज्ञायते आर्यसुभूते.
SK
सुभूतिर् आह: तथा हि देवपुत्रा एकाक्षरम् अपि न प्रव्याह्रिते तन् न श्रुयते यन् न श्रुयते तन् न विज्ञायते. तत् कस्य हेतोः? न ह्य् अक्षराणि प्रज्ञापारमिता न चात्र कश्चिद् देशयिता न श्रोता न विज्ञाता. तत् कस्य हेतोः? अनक्षरा हि देवपुत्रास् तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिः तद् यथापि नाम देवपुत्रास् तथागतो ऽर्हन् सम्यक्संबुद्धो बुद्धनिर्मितं निर्मिमीते. स च पुनर् निर्मितश् चतस्रपर्षदो निर्मिमीतः भिक्षुभिक्षुण्युपासकोपासिकाः.
SK
अथ स निर्मितः ताभ्यो निर्मिताभ्यश् चतसृभ्यः पर्षद्भ्यो धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्राः. अपि तु तत्र पर्षदि केनचिद् देशितं भवेत्? केनचिच् छ्रुतम् आज्ञातं च भवेत्?
SK
आहुः: नो हीदं भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव देवपुत्राः सर्वधर्मा निर्मितोपमास् तत्र केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातं, तद् यथापि नाम देवपुत्राः स्वप्नान्तरगतः पुरुषस् तथागतम् अर्हन्तं सम्यक्संबुद्धधर्मं देशयन्तं पश्येत्. तत् किं मन्यध्वे? देवपुत्राः. अपि नु तत्र देशितं वा श्रुतं वा आज्ञातं वा भवेत्.
SK
आहुः: नो हीदं भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव देवपुत्राः स्वप्नोपमाः सर्वधर्मास् तत्र न केनचिद् देशितं न केनचिद् श्रुतं न केनचिद् आज्ञातं तद् यथापि नाम देवपुत्राः द्वौ पुरुषौ पर्वतकन्दरे स्थित्वा बुद्धस्य वर्णं भाषेयातां धर्मस्य वर्णं भाषेयातां संघस्य वर्णं भाषेयातां, तत्र उभयतः प्रतिश्रुत्कात् स्वरो निश्चतेत्. तत् किं मन्यध्वे? (Śस्P II-२ १८७) देवपुत्राः. अपि नु तेनैकेन प्रतिश्रुत्काशब्देन द्वितीयप्रतिश्रुत्काशब्दो विज्ञापितो भवेत्.
SK
आहुह्: नो हीदं भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव देवपुत्राः सर्वधर्माः प्रतिश्रुत्कोपमाः, तत्र न केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातं, तद् यथापि नाम देवपुत्रा दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभिनिर्मिमीते. चतस्रश् च पर्षदो ऽबिनिर्मिमीतो भिक्षुभिक्षुण्युपासकोपाशिकाः स च निर्मितस् ताभ्यो निर्मिताभ्यः पर्षद्भ्यो धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्राः, अपि नु तत्र केनचिद् देशितं वा श्रुतं वा आज्ञातं वा भवेत्.
SK
आहुह्: नो हीदं भदन्त सुभूते.
SK
सुभूतिर् आह: एवम् एव देवपुत्रा मायोपमाः सर्वधर्मास् तत्र न केनचिच् छ्रुतं न केनचिद् देशितं न केनचिद् आज्ञातम्.
SK
अथ तेषाम् देवपुत्राणाम् एतद् अभूत्: उत्तरीकरिष्यति बतायम् आर्यस्थविरः सुभूतिर् उत्तानीकरिष्यति बतायम् आर्यस्थविरः सुभूतिः प्रज्ञापारमिताम् इति, अथ च पुनर् गम्भीराद् गम्भीरतरं देशयति, शूक्ष्मात् शूक्ष्मतरं प्रविशति.
SK
अथायुष्मान् सुभूतिस् तेषाम् देवपुत्राणाम् चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: न खलु देवपुत्रा रूपं गम्भीरं न शूक्ष्मं, न वेदना गम्भीरा न शूक्ष्मा, न संज्ञा गम्भीरा न शूक्ष्मा, न संस्कारा गम्भीरा न शूक्ष्माः, न विज्ञानं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न रूपस्वभावो गम्भीरो न शूक्ष्मः, न वेदनास्वभावो गम्भीरो न शूक्ष्मः, न संज्ञास्वभावो गम्भीरो न शूक्ष्मः, न संस्कारस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानस्वभावो गम्भीरो न शूक्ष्मः.
SK
न चक्षुर् गम्भीरं न शूक्ष्मं, न श्रोत्रं गम्भीरं न शूक्ष्मं, न घ्राणं गम्भीरं न शूक्ष्मं, न जिह्वा गम्भीरा न शूक्ष्मा, न कायो गम्भीरो न शूक्ष्मः, न मनो गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न चक्षुःस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वास्वभावो (Śस्P II-२ १८८) गम्भीरो न शूक्ष्मः, न कायस्वभावो गम्भीरो न शूक्ष्मः, न मनःस्वभावो गम्भीरो न शूक्ष्मः.
SK
न रूपं गम्भीरं न शूक्ष्मं, न शब्दो गम्भीरो न शूक्ष्मः, न गन्धो गम्भीरो न शूक्ष्मः, न रसो गम्भीरो न शूक्ष्मः, न स्पर्शो गम्भीरो न शूक्ष्मः, न धर्मा गम्भीरा न शूक्ष्माः. तत् कस्य हेतोः? न रूपस्वभावो गम्भीरो न शूक्ष्मः, न शब्दस्वभावो गम्भीरो न शूक्ष्मः, न गन्धस्वभावो गम्भीरो न शूक्ष्मः, न रसस्वभावो गम्भीरो न शूक्ष्मः, न स्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न धर्मस्वभावो गम्भीरो न शूक्ष्मः.
SK
न चक्षुर्विज्ञानं गम्भीरं न शूक्ष्मं, न श्रोत्रविज्ञानं गम्भीरं न शूक्ष्मं, न घ्राणविज्ञानं गम्भीरं न शूक्ष्मं, न जिह्वाविज्ञानं गम्भीरं न शूक्ष्मं, न कायविज्ञानं गम्भीरं न शूक्ष्मं, न मनोविज्ञानं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न चक्षुर्विज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वाविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न कायविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न मनोविज्ञानस्वभावो गम्भीरो न शूक्ष्मः.
SK
न चक्षुःसंस्पर्शो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शो गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शो गम्भीरो न शूक्ष्मः. तत् कस्य हेतोः? न चक्षुःसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न श्रोत्रसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न घ्राणसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न जिह्वासंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न कायसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न मनःसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः. तत् कस्य हेतोः? न चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शप्रत्ययवेदनास्वभावो (Śस्P II-२ १८९) गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः.
SK
न पृथिवीधातुर् गम्भीरो न शूक्ष्मः, नाब्धातुर् गम्भीरो न शूक्ष्मः, न तेजोधातुर् गम्भीरो न शूक्ष्मः, न वायुधातुर् गम्भीरो न शूक्ष्मः, नाकाशधातुर् गम्भीरो न शूक्ष्मः, न विज्ञानधातुर् गम्भीरो न शूक्ष्मः. तत् कस्य हेतोः? न पृथिवीधातुस्वभावो गम्भीरो न शूक्ष्मः, नाब्धातुस्वभावो गम्भीरो न शूक्ष्मः, न तेजोधातुस्वभावो गम्भीरो न शूक्ष्मः, न वायुधातुस्वभावो गम्भीरो न शूक्ष्मः, नाकाशधातुस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानधातुस्वभावो गम्भीरो न शूक्ष्मः.
SK
नाविद्या गम्भीरा न शूक्ष्मा, न संस्कारा गम्भीरा न शूक्ष्माः, न विज्ञानं गम्भीरं न शूक्ष्मं, न नामरूपं गम्भीरं न शूक्ष्मं, न षडायतनं गम्भीरं न शूक्ष्मं, न स्पर्शो गम्भिरो न शूक्ष्मः, न वेदना गम्भीरा न शूक्ष्मा, न तृष्णा गम्भीरा न शूक्ष्मा, नोपादानं गम्भीरं न शूक्ष्मं, न भवो गम्भीरो न शूक्ष्मः, न जातिर् गम्भीरा न शूक्ष्मा, न जरामरणं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? नाविद्यास्वभावो गम्भीरो न शूक्ष्मः, न संस्कारस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न नामरूपस्वभावो गम्भीरो न शूक्ष्मः, न षडायतनस्वभावो गम्भीरो न शूक्ष्मः, न स्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न वेदनास्वभावो गम्भीरो न शूक्ष्मः, न तृष्णास्वभावो गम्भीरो न शूक्ष्मः, नोपादानस्वभावो गम्भीरो न शूक्ष्मः, न भवस्वभावो गम्भीरो न शूक्ष्मः, न जातिस्वभावो गम्भीरो न शूक्ष्मः, न जरामरणस्वभावो गम्भीरो न शूक्ष्मः.
SK
न दानपारमिता गम्भीरा न शूक्ष्मा, न शीलपारमिता गम्भीरा न शूक्ष्मा, न क्षान्तिपारमिता गम्भीरा न शूक्ष्मा, न वीर्यपारमिता गम्भीरा न शूक्ष्मा, न ध्यानपारमिता गम्भीरा न शूक्ष्मा, न प्रज्ञापारमिता गम्भीरा न शूक्ष्मा. तत् कस्य हेतोः? न दानपारमितास्वभावो गम्भीरो न शूक्ष्मः, न शीलपारमितास्वभावो गम्भीरो न शूक्ष्मः, न क्षान्तिपारमितास्वभावो गम्भीरो न शूक्ष्मः, न वीर्यपारमितास्वभावो गम्भीरो न शूक्ष्मः, न ध्यानपारमितास्वभावो गम्भीरो न शूक्ष्मः, न प्रज्ञापारमितास्वभावो गम्भीरो न शूक्ष्मः.
SK
नाध्यात्मशून्यता गम्भीरा न शूक्ष्मा, न बहिर्धाशून्यता गम्भीरा न शूक्ष्मा, नाध्यात्मबहिर्धाशून्यता गम्भीरा न शूक्ष्मा, न शून्यताशून्यता (Śस्P II-२ १९०) गम्भीरा न शूक्ष्मा, न महाशून्यता गम्भीरा न शूक्ष्मा, न परमार्थशून्यता गम्भीरा न शूक्ष्मा, न संस्कृतशून्यता गम्भीरा न शूक्ष्मा, नासंस्कृतशून्यता गम्भीरा न शूक्ष्मा, नात्यन्तशून्यता गम्भीरा न शूक्ष्मा, नानवराग्रशून्यता गम्भीरा न शूक्ष्मा, नानवकारशून्यता गम्भीरा न शूक्ष्मा, न प्रकृतिशून्यता गम्भीरा न शूक्ष्मा, न सर्वधर्मशून्यता गम्भीरा न शूक्ष्मा, न स्वलक्षणशून्यता गम्भीरा न शूक्ष्मा, नानुपलम्भशून्यता गम्भीरा न शूक्ष्मा, नाभावशून्यता गम्भीरा न शूक्ष्मा, न स्वभावशून्यता गम्भीरा न शूक्ष्मा, नाभावस्वभावशून्यता गम्भीरा न शूक्ष्मा. तत् कस्य हेतोः? नाध्यात्मशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न बहिर्धाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाध्यात्मबहिर्धाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न शून्यताशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न महाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न परमार्थशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न संस्कृतशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नासंस्कृतशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नात्यन्तशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नानवराग्रशून्यतास्वभावो गम्भीरो न शूक्ष्मः नानवकारशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न प्रकृतिशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न सर्वधर्मशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न स्वलक्षणशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नानुपलम्भशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न स्वभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाभावस्वभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः.
SK
न स्मृत्युपस्थानानि गम्भीराणि न शूक्ष्माणि, न सम्यक्प्रहाणानि गम्भीराणि न शूक्ष्माणि, न ऋद्धिपादा गम्भीरा न शूक्ष्माः, नेन्द्रियाणि गम्भीराणि न शूक्ष्माणि, न बलानि गम्भीराणि न शूक्ष्माणि, बोध्यङ्गानि गम्भीराणि न शूक्ष्माणि, नार्याष्टाङ्गो मार्गो गम्भीरो न शूक्ष्मः, नार्यसत्यानि गम्भीराणि न शूक्ष्माणि, न ध्यानानि गम्भीराणि न शूक्ष्माणि, नाप्रमाणानि गम्भीराणि न शूक्ष्माणि, नारूप्यसमापत्तयो गम्भीरा न शूक्ष्माः, न विमोक्षा गम्भीरा न शूक्ष्माः, नानुपूर्वविहारसमापत्तयो गम्भीरा न शूक्ष्माः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि गम्भीराणि न शूक्ष्माणि, नाभिज्ञा गम्भीरा न शूक्ष्माः, न समाधयो गम्भीरा न शूक्ष्माः, न धारणीमुखानि गम्भीराणि न शूक्ष्माणि, न तथागतबलानि गम्भीराणि न शूक्ष्माणि, न वैशारद्यानि गम्भीराणि न (Śस्P II-२ १९१) शूक्ष्माणि, न प्रतिसंविदो गम्भीरा न शूक्ष्माः, न महामैत्री गम्भीरा न शूक्ष्मा, न महाकरुणा गम्भीरा न शूक्ष्मा, नावेणिकबुद्धधर्मा गम्भीरा न शूक्ष्माः. तत् कस्य हेतोः? न स्मृत्युपस्थानस्वभावो गम्भीरो न शूक्ष्मः, न सम्यक्प्रहाणस्वभावो गम्भीरो न शूक्ष्मः, न ऋद्धिपादस्वभावो गम्भीरो न शूक्ष्मः, नेन्द्रियस्वभावो गम्भीरो न शूक्ष्मः, न बलस्वभावो गम्भीरो न शूक्ष्मः, बोध्यङ्गस्वभावो गम्भीरो न शूक्ष्मः, नार्याष्टाङ्गो मार्गस्वभावो गम्भीरो न शूक्ष्मः, नार्यसत्यस्वभावो गम्भीरो न शूक्ष्मः, न ध्यानस्वभावो गम्भीरो न शूक्ष्मः, नाप्रमाणस्वभावो गम्भीरो न शूक्ष्मः, नारूप्यसमापत्तिस्वभावो गम्भिरो न शूक्ष्मः, न विमोक्षस्वभावो गम्भीरो न शूक्ष्मः, नानुपूर्वविहारसमापत्तिस्वभावो गम्भीरो न शूक्ष्मः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखस्वभावो गम्भीरो न शूक्ष्मः, नाभिज्ञास्वभावो गम्भीरो न शूक्ष्मः, न समाधिस्वभावो गम्भीरो न शूक्ष्मः, न धारणीमुखस्वभावो गम्भीरो न शूक्ष्मः, न तथागतबलस्वभावो गम्भीरो न शूक्ष्मः, न वैशारद्यस्वभावो गम्भीरो न शूक्ष्मः, न प्रतिसंवित्स्वभावो गम्भीरो न शूक्ष्मः, न महामैत्रीस्वभावो गम्भीरो न शूक्ष्मः, न महाकरुणास्वभावो गम्भीरो न शूक्ष्मः, नावेणिकबुद्धधर्मस्वभावो गम्भीरो न शूक्ष्मः.
SK
न सर्वज्ञता गम्भीरा न शूक्ष्मा, न मार्गाकारज्ञता गम्भीरा न शूक्ष्मा, न सर्वाकारज्ञता गम्भीरा न शूक्ष्मा. तत् कस्य हेतोः? न सर्वज्ञतास्वभावो गम्भीरो न शूक्ष्मः, न मार्गाकारज्ञतास्वभावो गम्भीरो न शूक्ष्मः, न सर्वाकारज्ञतास्वभावो गम्भीरो न शूक्ष्मः.
SK
अथ तेषां देवपुत्राणाम् एतद् अभूत्: न खलु पुनर् इह धर्मदेशनायां रूपं प्रज्ञपितं, न वेदना प्रज्ञपिता, न संज्ञा प्रज्ञपिता, न संस्कारा प्रज्ञपिताः, न विज्ञानं प्रज्ञपितम्.
SK
न खलु पुनर् इह धर्मदेशनायां चक्षुः प्रज्ञपितं, न श्रोत्रं प्रज्ञपितं, न घ्राणं प्रज्ञपितं, न जिह्वा प्रज्ञपिता, न कायः प्रज्ञपितः, न मनः प्रज्ञपितम्.
SK
न खलु पुनर् इह धर्मदेशनायां रूपं प्रज्ञपितं, न शब्दः प्रज्ञपितः, न गन्धः प्रज्ञपितः, न रसः प्रज्ञपितः, न स्पर्शः प्रज्ञपितः, न धर्माः प्रज्ञपिताः,
SK
न खलु पुनर् इह धर्मदेशनायां चक्षुर्विज्ञानं प्रज्ञपितं, न श्रोत्रविज्ञानं प्रज्ञपितं, न घ्राणविज्ञानं प्रज्ञपितं, न जिह्वाविज्ञानं (Śस्P II-२ १९२) प्रज्ञपितं, न कायविज्ञानं प्रज्ञपितं, न मनोविज्ञानं प्रज्ञपितम्.
SK
न खलु पुनर् इह धर्मदेशनायां चक्षुःसंस्पर्शः प्रज्ञपितः, न श्रोत्रसंस्पर्शः प्रज्ञपितः, न घ्राणसंस्पर्शः प्रज्ञपितः, न जिह्वासंस्पर्शः प्रज्ञपितः, न कायसंस्पर्शः प्रज्ञपितः, न मनःसंस्पर्शः प्रज्ञपितः.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञपिता.
SK
न पृथिवीधातुः प्रज्ञपितः, नाब्धातुः प्रज्ञपितः, न तेजोधातुः प्रज्ञपितः, न वायुधातुः प्रज्ञपितः, नाकाशधातुः प्रज्ञपितः, न विज्ञानधातुः प्रज्ञपितः.
SK
नाविद्या प्रज्ञपिता, न संस्कारा प्रज्ञपिताः, न विज्ञानं प्रज्ञपितं, न नामरूपं प्रज्ञपितं, न षडायतनं प्रज्ञपितं, न स्पर्शः प्रज्ञपितः, न वेदना प्रज्ञपिता, न तृष्णा प्रज्ञपिता, नोपादानं प्रज्ञपितं, न भवः प्रज्ञपितः, न जातिः प्रज्ञपिता, न जरामरणं प्रज्ञपितम्.
SK
दानपारमिता प्रज्ञपिता, शीलपारमिता प्रज्ञपिता, क्षान्तिपारमिता प्रज्ञपिता, वीर्यपारमिता प्रज्ञपिता, ध्यानपारमिता प्रज्ञपिता, प्रज्ञापारमिता प्रज्ञपिता.
SK
नाध्यात्मशून्यता प्रज्ञपिता, न बहिर्धाशून्यता प्रज्ञपिता, नाध्यात्मबहिर्धाशून्यता प्रज्ञपिता, न शून्यताशून्यता प्रज्ञपिता, न महाशून्यता प्रज्ञपिता, न परमार्थशून्यता प्रज्ञपिता, न संस्कृतशून्यता प्रज्ञपिता, नासंस्कृतशून्यता प्रज्ञपिता, नात्यन्तशून्यता प्रज्ञपिता, नानवराग्रशून्यता प्रज्ञपिता, नानवकारशून्यता प्रज्ञपिता, न प्रकृतिशून्यता प्रज्ञपिता, न सर्वधर्मशून्यता प्रज्ञपिता, न स्वलक्षणशून्यता प्रज्ञपिता, नानुपलम्भशून्यता प्रज्ञपिता, नाभावशून्यता प्रज्ञपिता, न स्वभावशून्यता प्रज्ञपिता, नाभावस्वभावशून्यता प्रज्ञपिता.
SK
न खलु पुनर् इह धर्मदेशनायां स्मृत्युपस्थानानि प्रज्ञपितानि, न सम्यक्प्रहाणानि प्रज्ञपितानि, न ऋद्धिपादाः प्रज्ञपिताः, नेन्द्रियाणि प्रज्ञपितानि, न बलानि प्रज्ञपितानि, न बोध्यङ्गानि प्रज्ञपितानि, नार्याष्टाङ्गो मार्गः प्रज्ञपितः, नार्यसत्यानि प्रज्ञपितानि, न ध्यानानि प्रज्ञपितानि, नाप्रमाणानि प्रज्ञपितानि, नारूप्यसमापत्तयः प्रज्ञपिताः, (Śस्P II-२ १९३) नाष्टौ विमोक्षाः प्रज्ञपिताः, न नवानुपूर्वविहारसमापत्तयः प्रज्ञपिताः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञपितानि, नाभिज्ञाः प्रज्ञपिताः, न समाधयः प्रज्ञपिताः, न धारणीमुखानि प्रज्ञपितानि, न तथागतबलानि प्रज्ञपितानि, न वैशारद्यानि प्रज्ञपितानि, न प्रतिसंविदः प्रज्ञपिताः, न महामैत्री प्रज्ञपिता, न महाकरुणा प्रज्ञपिता, नाष्टादशावेणिकबुद्धधर्माः प्रज्ञपिताः.
SK
न खलु पुनर् इह धर्मदेशनायां स्रोतआपन्नः प्रज्ञपितो न स्रोतआपत्तिफलं प्रज्ञपितं, न सकृदागामी प्रज्ञपितो न सकृदागामिफलं प्रज्ञपितं, नानागामी प्रज्ञपितो नानागामीफलं प्रज्ञपितं, नार्हत् प्रज्ञपितो नार्हत्त्वं न प्रज्ञपितं, न प्रत्येकबुद्धः प्रज्ञपितो न प्रत्येकबोधिः प्रज्ञपिता, न बोधिसत्त्वः प्रज्ञपितो न बोधिसत्त्वभूमयः प्रज्ञपिताः, न बुद्धः प्रज्ञपितो न बोधिः प्रज्ञपिता, नाक्षराणि प्रज्ञपितानि.
SK
अथायुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: एवम् एतद् देवपुत्रा एवम् एतद् इति तद् अनभिलाप्या तथागतानाम् अर्हतां सम्यक्संबुद्दानां बोधिः, अप्रव्याहारा सा न केनचिद् छ्रुता न विज्ञाता.
SK
तेन हि देवपुत्रा ये स्रोतआपत्तिफले स्थातुकामाः स्रोतआपत्तिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये सकृदागामिफले स्थातुकामाः सकृदागामिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये ऽनागामीफले स्थातुकामा अनागामिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये ऽर्हत्त्वे स्थातुकामा अर्हत्त्वं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये प्रत्येकबोधौ स्थातुकामाः प्रत्येकबोधिं साक्षात्कर्तुकमा नेमां क्षान्तिम् अनागम्य, ये ऽनुत्तरायां सम्यक्संबोधौ स्थातुकामा अनुत्तरां सम्यक्संबोधिं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य.
SK
एवं खलु देवपुत्रा बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय प्रज्ञापारमितायां स्थातव्यं, अप्रव्याहारा श्रवणताम् उपादाय.
SK
शतसाहस्र्याः प्रज्ञापारमिताया द्वितीयखण्डे चतुर्दशमः परिवर्तः समाप्तः.
SK
अथ खलु तेषां देवपुत्राणाम् एतद् अभूत्: कीदृग्रूपाः सुभूतेः स्थविरस्य धार्मश्रवणिका एष्टव्याः?
SK
अथायुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: मायोपमा मे देवपुत्रा धर्मदेशना मायोपमा मे देवपुत्रा धार्मश्रवणिका एष्टव्याः. निर्मितोपमा मे देवपुत्रा धर्मदेशना निर्मितोपमा मे देवपुत्रा धार्मश्रवणिका एष्टव्याः. ते नैव किंचिच् छ्रोष्यन्ति न साक्षात्करिष्यन्ति.
SK
अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिम् एतद् अवोचन्: किं पुनर् भदन्त सुभूते मायोपमास् ते सत्त्वा मायोपमास् ते धार्मश्रवणिका, निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धार्मश्रवणिकाः.
SK
सुभूतिर् आह: एवम् एतद् देवपुत्रा एवम् एतद्, मायोपमास् ते सत्त्वा मायोपमास् ते धार्मश्रवणिका, निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धार्मश्रवणिकाः. स्वप्नोपमास् ते देवपुत्राः सत्त्वाः, मायोपमास् ते देवपुत्राः सत्त्वाः.
SK
रूपम् अपि देवपुत्राः स्वप्नोपमं मायोपमं, वेदनापि देवपुत्राः स्वप्नोपमा मायोपमा, संज्ञापि देवपुत्राः स्वप्नोपमा मायोपमा, संस्कारा अपि देवपुत्राः स्वप्नोपमा मायोपमाः, विज्ञानम् अपि देवपुत्राः स्वप्नोपमं मायोपमम्.
SK
चक्षुर् अपि स्वप्नोपमं मायोपमं, श्रोत्रम् अपि स्वप्नोपमं मायोपमं, घ्राणम् अपि स्वप्नोपमं मायोपमं, जिह्वापि स्वप्नोपमा मायोपमा, कायो ऽपि स्वप्नोपमो मायोपमः, मनो ऽपि स्वप्नोपमं मायोपमम्.
SK
रूपम् अपि स्वप्नोपमं मायोपमं, शब्दो ऽपि स्वप्नोपमो मायोपमः, गन्धो ऽपि स्वप्नोपमो मायोपमः, रसो ऽपि स्वप्नोपमो मायोपमः, स्पर्शो ऽपि स्वप्नोपमो मायोपमः, धर्मा अपि स्वप्नोपमा मायोपमाः.
SK
चक्षुर्विज्ञानम् अपि स्वप्नोपमं मायोपमं, श्रोत्रविज्ञानम् अपि (Śस्P_II-३_२) स्वप्नोपमं मायोपमं, घ्राणविज्ञानम् अपि स्वप्नोपमं मायोपमं, जिह्वाविज्ञानम् अपि स्वप्नोपमं मायोपमं, कायविज्ञानम् अपि स्वप्नोपमं मायोपमं, मनोविज्ञानम् अपि स्वप्नोपमं मायोपमम्.
SK
चक्षुःसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, श्रोत्रसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, घ्राणसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, जिह्वासंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, कायसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, मनःसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः.
SK
चक्षुःसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, श्रोत्रसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, घ्राणसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, जिह्वासंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, कायसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, मनःसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा.
SK
पृथिवीधातुर् अपि स्वप्नोपमो मायोपमः, अब्धातुर् अपि स्वप्नोपमो मायोपमः, तेजोधातुर् अपि स्वप्नोपमो मायोपमः, वायुधातुर् अपि स्वप्नोपमो मायोपमः, आकाशधातुर् अपि स्वप्नोपमो मायोपमः, विज्ञानधातुर् अपि स्वप्नोपमो मायोपमः.
SK
अविद्यापि स्वप्नोपमा मायोपमा, संस्कारा अपि स्वप्नोपमा मायोपमाः, विज्ञानम् अपि स्वप्नोपमं मायोपमं, नामरूपम् अपि स्वप्नोपमं मायोपमं, षडायतनम् अपि स्वप्नोपमं मायोपमं, स्पर्शो ऽपि स्वप्नोपमो मायोपमः, वेदनापि स्वप्नोपमा मायोपमा, तृष्णापि स्वप्नोपमा मायोपमा, उपादानम् अपि स्वप्नोपमं मायोपमं, भवो ऽपि स्वप्नोपमो मायोपमः, जातिर् अपि स्वप्नोपमा मायोपमा, जरामरणम् अपि स्वप्नोपमं मायोपमम्.
SK
दानपारमितापि स्वप्नोपमा मायोपमा, शीलपारमितापि स्वप्नोपमा मायोपमा, क्षान्तिपारमितापि स्वप्नोपमा मायोपमा, वीर्यपारमितापि स्वप्नोपमा मायोपमा, ध्यानपारमितापि स्वप्नोपमा मायोपमा, प्रज्ञापारमितापि स्वप्नोपमा मायोपमा.
SK
अध्यात्मशून्यतापि स्वप्नोपमा मायोपमा, बहिर्धाशून्यतापि स्वप्नोपमा मायोपमा, अध्यात्मबहिर्धाशून्यतापि स्वप्नोपमा मायोपमा, शून्यताशून्यतापि स्वप्नोपमा मायोपमा, महाशून्यतापि स्वप्नोपमा मायोपमा, परमार्थशून्यतापि स्वप्नोपमा मायोपमा, संस्कृतशून्यतापि स्वप्नोपमा मायोपमा, असंस्कृतशून्यतापि स्वप्नोपमा मायोपमा, अत्यन्तशून्यतापि स्वप्नोपमा मायोपमा, अनवराग्रशून्यतापि स्वप्नोपमा मायोपमा, अनवकारशून्यतापि स्वप्नोपमा मायोपमा, (Śस्P_II-३_३) प्रकृतिशून्यतापि स्वप्नोपमा मायोपमा, सर्वधर्मशून्यतापि स्वप्नोपमा मायोपमा, स्वलक्षणशून्यतापि स्वप्नोपमा मायोपमा, अनुपलम्भशून्यतापि स्वप्नोपमा मायोपमा, अभावशून्यतापि स्वप्नोपमा मायोपमा, स्वभावशून्यतापि स्वप्नोपमा मायोपमा, अभावस्वभावशून्यतापि स्वप्नोपमा मायोपमा.
SK
स्मृत्युपस्थानान्य् अपि स्वप्नोपमानि मायोपमानि, सम्यक्प्रहाणान्य् अपि स्वप्नोपमानि मायोपमानि, ऋद्धिपादा अपि स्वप्नोपमा मायोपमा, इन्द्रियाण्य् अपि स्वप्नोपमानि मायोपमानि, बलान्य् अपि स्वप्नोपमानि मायोपमानि, बोध्यङ्गान्य् अपि स्वप्नोपमानि मायोपमानि, आर्याष्टाङ्गो मार्गो ऽपि स्वप्नोपमो मायोपमः, आर्यसत्यान्य् अपि स्वप्नोपमानि मायोपमानि, ध्यानान्य् अपि स्वप्नोपमानि मायोपमानि, अप्रमाणान्य् अपि स्वप्नोपमानि मायोपमानि, आरूप्यसमापत्तयो ऽपि स्वप्नोपमा मायोपमाः, विमोक्षा अपि स्वप्नोपमा मायोपमाः, अनुपूर्वविहारसमापत्तयो ऽपि स्वप्नोपमा मायोपमाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपि स्वप्नोपमानि मायोपमानि, अभिज्ञा अपि स्वप्नोपमा मायोपमाः, समाधयो ऽपि स्वप्नोपमा मायोपमाः, धारणीमुखान्य् अपि स्वप्नोपमानि मायोपमानि, तथागतबलान्य् अपि स्वप्नोपमानि मायोपमानि, वैशारद्यान्य् अपि स्वप्नोपमानि मायोपमानि, प्रतिसंविदो ऽपि स्वप्नोपमा मायोपमाः, महामैत्र्यापि स्वप्नोपमा मायोपमा, महाकरुणापि स्वप्नोपमा मायोपमा, आवेणिकबुद्धधर्मा अपि स्वप्नोपमा मायोपमाः.
SK
स्रोतआपत्तिफलम् अपि स्वप्नोपमं मायोपमं, सकृदागामिफलम् अपि स्वप्नोपमं मायोपमं, अनागामिफलम् अपि स्वप्नोपमं मायोपमं, अर्हत्त्वम् अपि स्वप्नोपमं मायोपमं, प्रत्येकबोधिर् अपि स्वप्नोपमा मायोपमा, सम्यक्संबोधिर् अपि स्वप्नोपमा मायोपमा.
SK
अथ ते देवपुत्रा आयुष्मन्तं सुभूतिम् एतद् अवोचन्: बोधिर् अपि सुभूते स्वप्नोपमा मायोपमा वदसि. तत् किं निर्वाणम् अपि स्वप्नोपमं मायोपमं वदसि?
SK
सुभूतिर् आह: निर्वाणम् अप्य् अहं देवपुत्राः स्वप्नोपमं मायोपमं वदामि, सचेत् ततो निर्वाणाद् अन्यः कश्चिद् धर्मो विशिष्टतरो भवेत्, तम् अप्य् अहं स्वप्नोपमं मायोपमं वदेयम्. तत् कस्य हेतोः? तथा हि देवपुत्राः स्वप्नश् च माया च निर्वाणं चाद्वयम् एतद् अद्वैधीकारम्.
SK
अथायुष्माञ् छारद्वतीपुत्र आयुष्मांश् च महामौद्गल्यायनः, (Śस्P_II-३_४) आयुष्मांश् च महाकौष्ठिल्यः, आयुष्मांश् च महाकात्यायनः, आयुष्मांश् च पूर्णमैत्रायणीपुत्रः, आयुष्मांश् च महाकाश्यपो ऽनेकानि च बोधिसत्त्वसहस्राण्य् आयुष्मन्तं सुभूतिम् एवम् आहुः: के ऽस्या भदन्त सुभूते गम्भीरायाः प्रज्ञापारमिताया एवंदुर्दृशाया एवंदुरनुबोधाया एवंशान्ताया एवंनिपुणाया एवंसूक्ष्माया एवंप्रणीतायाः प्रत्येषितारो भवन्ति?
SK
अथायुष्मां सुभूतिस् तान् महाश्रावकान् ताञ् च बोधिसत्त्वान् महासत्त्वान् एतद् अवोचत्: अवैवर्तिका आयुष्मन्तो बोधिसत्त्वा महासत्त्वा अस्या एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुर्दृशाया एवंदुरनुबोधाया एवंशान्ताया एवंप्रणीताया एवमलमार्याया एवंपण्डितविज्ञवेदनीयायाः प्रज्ञापारमितायाः प्रत्येषितारो भवन्ति. दृष्टसत्या वा पुद्गला अर्हन्तो वा क्षीणास्रवाः परिपूर्णसंकल्पाः पूर्वजिनकृताधिकाराश् च सत्त्वा बहुबुद्धकोटीष्व् अवरोपितकुशलमूलाः कल्याणमित्रपरिगृहीताश् च कुलपुत्रा कुलदुहितरश् च ये ऽस्याः प्रज्ञापारमिताया एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुदृशाया एवंदुरनुबोधाया एवंशान्ताया एवंप्रणीताया एवमलमार्याया एवंपण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषितारो भविष्यन्ति.
SK
तेन खलु पुनर् न रूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रूपम् इति विकल्पयिष्यन्ति, न वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां वेदनेति विकल्पयिष्यन्ति, न संज्ञां शून्येति विकल्पयिष्यन्ति, न शून्यतां संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानम् इति विकल्पयिष्यन्ति,
SK
न रूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रूपम् इति विकल्पयिष्यन्ति, न वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं वेदनेति विकल्पयिष्यन्ति, न संज्ञाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानम् इति विकल्पयिष्यन्ति,
SK
न रूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रूपम् इति (Śस्P_II-३_५) विकल्पयिष्यन्ति, न वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं वेदनेति विकल्पयिष्यन्ति, न संज्ञाम् अप्रणिहितं इति विकल्पयिष्यन्ति, नाप्रणिहितं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहिताः संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानम् इति विकल्पयिष्यन्ति,
SK
न रूपम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं रूपम् इति विकल्पयिष्यन्ति, न वेदनाम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं वेदनेति विकल्पयिष्यन्ति, न संज्ञाम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् अनुत्पादा इति विकल्पयिष्यन्ति, नानुत्पादं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानम् इति विकल्पयिष्यन्ति,
SK
न रूपम् अनिरोधम् इति विकल्पयिष्यन्ति, नानिरोधं रूपम् इति विकल्पयिष्यन्ति, न वेदनाम् अनिरोधेति विकल्पयिष्यन्ति, नानिरोधा वेदनेति विकल्पयिष्यन्ति, न संज्ञाम् अनिरोधा इति विकल्पयिष्यन्ति, नानिरोधं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् अनिरोधा इति विकल्पयिष्यन्ति, नानिरोधं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अनिरोधम् इति विकल्पयिष्यन्ति, नानिरोधं विज्ञानम् इति विकल्पयिष्यन्ति,
SK
न रूपं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं रूपम् इति विकल्पयिष्यन्ति, न वेदनां शान्तेति विकल्पयिष्यन्ति, न शान्तं वेदनेति विकल्पयिष्यन्ति, न संज्ञां शान्तेति विकल्पयिष्यन्ति, न शान्तं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् शान्ता इति विकल्पयिष्यन्ति, न शान्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं विज्ञानम् इति विकल्पयिष्यन्ति,
SK
न रूपं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं रूपम् इति विकल्पयिष्यन्ति, न वेदनां विविक्तेति विकल्पयिष्यन्ति, न विविक्तां वेदनेति विकल्पयिष्यन्ति, न संज्ञां विविक्तेति विकल्पयिष्यन्ति, न विविक्तां संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तान् संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं विज्ञानम् इति विकल्पयिष्यन्ति.
SK
न चक्षुः शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणं शून्यम् इति विकल्पयिष्यन्ति, न शून्यं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वां शून्येति विकल्पयिष्यन्ति, न शून्यतां जिह्वेति विकल्पयिष्यन्ति, न कायं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां (Śस्P_II-३_६) काय इति विकल्पयिष्यन्ति, न मनः शून्य इति विकल्पयिष्यन्ति, न शून्यतां मन इति विकल्पयिष्यन्ति,
SK
न चक्षुर् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जिह्वेति विकल्पयिष्यन्ति, न कायम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं काय इति विकल्पयिष्यन्ति, न मन आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मन इति विकल्पयिष्यन्ति,
SK
न चक्षुर् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वाम् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहिता जिह्वेति विकल्पयिष्यन्ति, न कायम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं काय इति विकल्पयिष्यन्ति, न मनो ऽप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं मन इति विकल्पयिष्यन्ति,
SK
न चक्षुर् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वाम् अनुत्पादेति विकल्पयिष्यन्ति, नानुत्पादं जिह्वेति विकल्पयिष्यन्ति, न कायम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं काय इति विकल्पयिष्यन्ति, न मनो ऽनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मन इति विकल्पयिष्यन्ति,
SK
न चक्षुर् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वाम् अनिरोधा इति विकल्पयिष्यन्ति, नानिरोधं जिह्वेति विकल्पयिष्यन्ति, न कायम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं काय इति विकल्पयिष्यन्ति, न मनो ऽनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मन इति विकल्पयिष्यन्ति,
SK
न चक्षुः शान्तम् इति विकल्पयिष्यन्ति, न शान्तं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वां शान्तेति विकल्पयिष्यन्ति, न शान्तं (Śस्P_II-३_७) जिह्वेति विकल्पयिष्यन्ति, न कायं शान्त इति विकल्पयिष्यन्ति, न शान्तं काय इति विकल्पयिष्यन्ति, न मनः शान्तम् इति विकल्पयिष्यन्ति, न शान्तं मन इति विकल्पयिष्यन्ति,
SK
न चक्षुर् विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं जिह्वेति विकल्पयिष्यन्ति, न कायं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं काय इति विकल्पयिष्यन्ति, न मनो विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं मन इति विकल्पयिष्यन्ति,
SK
न रूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रूपम् इति विकल्पयिष्यन्ति, न शब्दं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां शब्द इति विकल्पयिष्यन्ति, न गन्धं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां गन्ध इति विकल्पयिष्यन्ति, न रसं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां धर्मा इति विकल्पयिष्यन्ति,
SK
न रूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रूपम् इति विकल्पयिष्यन्ति, न शब्दम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं शब्द इति विकल्पयिष्यन्ति, न गन्धम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं गन्ध इति विकल्पयिष्यन्ति, न रसम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं धर्मा इति विकल्पयिष्यन्ति,
SK
न रूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रूपम् इति विकल्पयिष्यन्ति, न शब्दम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं शब्द इति विकल्पयिष्यन्ति, न गन्धम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं गन्ध इति विकल्पयिष्यन्ति, न रसम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितं धर्मा इति विकल्पयिष्यन्ति,
SK
न रूपम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं रूपम् इति विकल्पयिष्यन्ति, न शब्दम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं (Śस्P_II-३_८) शब्द इति विकल्पयिष्यन्ति, न गन्धम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं गन्ध इति विकल्पयिष्यन्ति, न रसम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं धर्मा इति विकल्पयिष्यन्ति,
SK
न रूपम् अनिरोधम् इति विकल्पयिष्यन्ति, नानिरोधं रूपम् इति विकल्पयिष्यन्ति, न शब्दम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शब्द इति विकल्पयिष्यन्ति, न गन्धम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं गन्ध इति विकल्पयिष्यन्ति, न रसम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यम् अनिरोधम् इति विकल्पयिष्यन्ति, नानिरोधं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं धर्मा इति विकल्पयिष्यन्ति,
SK
न रूपं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं रूपम् इति विकल्पयिष्यन्ति, न शब्दं शान्त इति विकल्पयिष्यन्ति, न शान्तं शब्द इति विकल्पयिष्यन्तिंअ गन्धं शान्त इति विकल्पयिष्यन्ति, न शान्तं गन्ध इति विकल्पयिष्यन्ति, न रसं शान्त इति विकल्पयिष्यन्ति, न शान्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् शान्त इति विकल्पयिष्यन्ति, न शान्तं धर्मा इति विकल्पयिष्यन्ति,
SK
न रूपं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं रूपम् इति विकल्पयिष्यन्ति, न शब्दं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं शब्द इति विकल्पयिष्यन्ति, न गन्धं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं गन्ध इति विकल्पयिष्यन्ति, न रसं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् विविक्त इति विकल्पयिष्यन्ति, न विविक्तं धर्मा इति विकल्पयिष्यन्ति.
SK
न चक्षुर्विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां मनोविज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, (Śस्P_II-३_९) न शून्यतां मनोविज्ञानम् इति विकल्पयिष्यन्ति,
SK
न चक्षुर्विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मनोविज्ञानम् इति विकल्पयिष्यन्ति,
SK
न चक्षुर्विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं मनोविज्ञानम् इति विकल्पयिष्यन्ति,
SK
न चक्षुर्विज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनोविज्ञानम् इति विकल्पयिष्यन्ति,
SK
न चक्षुर्विज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं (Śस्P_II-३_१०) कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मनोविज्ञानम् इति विकल्पयिष्यन्ति,
SK
न चक्षुर्विज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं मनोविज्ञानम् इति विकल्पयिष्यन्ति,
SK
न चक्षुर्विज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं मनोविज्ञानम् इति विकल्पयिष्यन्ति.
SK
न चक्षुःसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां मनःसंस्पर्श इति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं चक्षुःसंस्पर्शम् इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं कायसंस्पर्श इति (Śस्P_II-३_११) विकल्पयिष्यन्ति, न मनःसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं मनःसंस्पर्श इति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्श इति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मनःसंस्पर्श इति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं जिह्वासंस्पर्श इति (Śस्P_II-३_१२) विकल्पयिष्यन्ति, न कायसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति.
SK
न चक्षुःसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनाम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, (Śस्P_II-३_१३) नाप्रणिहितं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शजां वेदनाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न (Śस्P_II-३_१४) शान्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति,
SK
न चक्षुःसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति.
SK
न पृथिवीधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुं शून्य इति विकल्पयिष्यन्ति, न शून्यताम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यताम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानधातुर् इति विकल्पयिष्यन्ति,
SK
न पृथिवीधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानधातुर् इति विकल्पयिष्यन्ति,
SK
न पृथिवीधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, (Śस्P_II-३_१५) नाप्रणिहितम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानधातुर् इति विकल्पयिष्यन्ति,
SK
न पृथिवीधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानधातुर् इति विकल्पयिष्यन्ति,
SK
न पृथिवीधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं विज्ञानधातुर् इति विकल्पयिष्यन्ति,
SK
न पृथिवीधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुं शान्त इति विकल्पयिष्यन्ति, न शान्तम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं विज्ञानधातुर् इति विकल्पयिष्यन्ति,
SK
न पृथिवीधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुं (Śस्P_II-३_१६) विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं विज्ञानधातुर् इति विकल्पयिष्यन्ति.
SK
नाविद्यां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शं सून्य इति विकल्पयिष्यन्ति, न शून्यतां स्पर्श इति विकल्पयिष्यन्ति, न वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां वेदनेति विकल्पयिष्यन्ति, न तृष्णां शून्येति विकल्पयिष्यन्ति, न शून्यतां तृष्णेति विकल्पयिष्यन्ति, नोपादानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् उपादानम् इति विकल्पयिष्यन्ति, न भवं शून्य इति विकल्पयिष्यन्ति, न शून्यतां भव इति विकल्पयिष्यन्ति, न जातिं शून्येति विकल्पयिष्यन्ति, न शून्यतां जातिर् इति विकल्पयिष्यन्ति, न जरामरणं सून्यम् इति विकल्पयिष्यन्ति, न शून्यतां जरामरणम् इति विकल्पयिष्यन्ति,
SK
नाविद्याम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं स्पर्शम् इति विकल्पयिष्यन्ति, न वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् उपादानम् इति विकल्पयिष्यन्ति, न भवम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं भव इति विकल्पयिष्यन्ति, न जातिम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जातिर् इति विकल्पयिष्यन्ति, न जरामरणम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जरामरणम् इति विकल्पयिष्यन्ति,
SK
नाविद्याम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं (Śस्P_II-३_१७) संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्पर्श इति विकल्पयिष्यन्ति, न वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं वेदनेति विकल्पयिष्यन्ति, न तृष्णाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं तृष्णेति विकल्पयिष्यन्ति, नोपादानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् उपादानम् इति विकल्पयिष्यन्ति, न भवम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं भव इति विकल्पयिष्यन्ति, न जातिम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जातिर् इति विकल्पयिष्यन्ति, न जरामरणम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जरामरणम् इति विकल्पयिष्यन्ति,
SK
नाविद्याम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्पर्श इति विकल्पयिष्यन्ति, न वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वेदनेति विकल्पयिष्यन्ति, न तृष्णाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं तृष्णेति विकल्पयिष्यन्ति, नोपादानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् उपादानम् इति विकल्पयिष्यन्ति, न भवम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं भव इति विकल्पयिष्यन्ति, न जातिम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जातिर् इति विकल्पयिष्यन्ति, न जरामरणम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जरामरणम् इति विकल्पयिष्यन्ति,
SK
नाविद्याम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्पर्श इति (Śस्P_II-३_१८) विकल्पयिष्यन्ति, न वेदनाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वेदनेति विकल्पयिष्यन्ति, न तृष्णाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं तृष्णेति विकल्पयिष्यन्ति, नोपादानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् उपादानम् इति विकल्पयिष्यन्ति, न भवम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं भव इति विकल्पयिष्यन्ति, न जातिम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जातिर् इति विकल्पयिष्यन्ति, न जरामरणम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जरामरणम् इति विकल्पयिष्यन्ति,
SK
नाविद्यां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् शान्त इति विकल्पयिष्यन्ति, न शान्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं स्पर्श इति विकल्पयिष्यन्ति, न वेदनां शान्तेति विकल्पयिष्यन्ति, न सान्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णां शान्तेति विकल्पयिष्यन्ति, न शान्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् उपादानम् इति विकल्पयिष्यन्ति, न भवं शान्त इति विकल्पयिष्यन्ति, न शान्तं भव इति विकल्पयिष्यन्ति, न जातिं शान्तेति विकल्पयिष्यन्ति, न शान्तं जातिर् इति विकल्पयिष्यन्ति, न जरामरणं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं जरामरणम् इति विकल्पयिष्यन्ति,
SK
नाविद्यां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं स्पर्श इति विकल्पयिष्यन्ति, न वेदनां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् उपादानम् इति विकल्पयिष्यन्ति, न भवं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं भव इति विकल्पयिष्यन्ति, न जातिं विविक्तेति विकल्पयिष्यन्ति, न विविक्तं जातिर् इति विकल्पयिष्यन्ति, न जरामरणं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं जरामरणम् इति विकल्पयिष्यन्ति.
SK
न दानपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रज्ञापारमितेति विकल्पयिष्यन्ति,
SK
न दानपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति,
SK
न दानपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं प्रज्ञापारमितेति विकल्पयिष्यन्ति,
SK
न दानपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रज्ञापारमितेति विकल्पयिष्यन्ति,
SK
न दानपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं दानपारमितेति (Śस्P_II-३_२०) विकल्पयिष्यन्ति, न शीलपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रज्ञापारमितेति विकल्पयिष्यन्ति,
SK
न दानपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति,
SK
न दानपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति.
SK
नाध्यात्मशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां शून्येति विकल्पयिष्यन्ति, (Śस्P_II-३_२१) न शून्यताम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवरग्रशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति,
SK
नाध्यात्मशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् (Śस्P_II-३_२२) अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति,
SK
नाध्यात्मशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति,
SK
नाध्यात्मशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् (Śस्P_II-३_२३) अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अत्यनशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, (Śस्P_II-३_२४) नात्यन्तशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति,
SK
नाध्यात्मशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां शान्तेति विकल्पयिष्यन्ति, (Śस्P_II-३_२५) न शान्तम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति,
SK
नाध्यात्मशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति.
SK
न स्मृत्युपस्थानानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तां स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अनुत्पाद इति विकल्पयिष्यन्ति, (Śस्P_II-३_२६) नानुत्पादं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानानि विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति.
SK
न सम्यक्प्रहाणानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति.
SK
नर्द्धिपादान् शून्या इति विकल्पयिष्यन्ति, न शून्यताम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् आनिमित्त इति विकल्पयिष्यन्ति, नानिमित्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् शान्ता इति विकल्पयिष्यन्ति, न शान्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति.
SK
नेन्द्रियाणि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाणि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाणि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् इन्द्रियाणीति विकल्पयिष्यन्ति.
SK
न बलानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां बलानीति विकल्पयिष्यन्ति, न बलान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं बलानीति विकल्पयिष्यन्ति, (Śस्P_II-३_२७) न बलान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं बलानीति विकल्पयिष्यन्ति, न बलान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बलानीति विकल्पयिष्यन्ति, न बलान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बलानीति विकल्पयिष्यन्ति, न बलानि शान्तम् इति विकल्पयिष्यन्ति, न शान्तं बलानीति विकल्पयिष्यन्ति, न बलानि विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं बलानीति विकल्पयिष्यन्ति.
SK
न बोध्यङ्गानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं बोध्यङ्गानीति विकल्पयिष्यन्ति.
SK
नार्याष्टाङ्गं मार्गं शून्यत इति विकल्पयिष्यन्ति, न शून्यताम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गम् आनिमित्त इति विकल्पयिष्यन्ति, नानिमित्तं आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गं शान्त इति विकल्पयिष्यन्ति, न शान्तम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गं विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति.
SK
नार्यसत्यानि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यानि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् आर्यसत्यानीति विकल्पयिष्यन्ति.
SK
न ध्यानानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं ध्यानानीति विकल्पयिष्यन्ति.
SK
नाप्रमाणानि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणानि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् अप्रमाणानीति विकल्पयिष्यन्ति.
SK
नारूप्यसमापत्तीः शून्या इति विकल्पयिष्यन्ति, न शून्यताम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीः शान्ता इति विकल्पयिष्यन्ति, न शान्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति.
SK
नाष्टौ विमोक्षान् शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अष्टौ विमोक्षा इति (Śस्P_II-३_२९) विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति.
SK
न नवानुपूर्वविहारसमापत्तीः शून्या इति विकल्पयिष्यन्ति, न शून्यतां नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीः शान्ता इति विकल्पयिष्यन्ति, न शान्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति.
SK
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति,
SK
नाभिज्ञाः शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् (Śस्P_II-३_३०) अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञाः शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अभिज्ञा इति विकल्पयिष्यन्ति.
SK
न समाधीन् शून्या इति विकल्पयिष्यन्ति, न शून्यतां समाधय इति विकल्पयिष्यन्ति, न समाधीन् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं समाधय इति विकल्पयिष्यन्ति, न समाधीन् शान्ता इति विकल्पयिष्यन्ति, न शान्तं समाधय इति विकल्पयिष्यन्ति, न समाधीन् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं समाधय इति विकल्पयिष्यन्ति.
SK
न धारणीमुखानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं धारणीमुखानीति विकल्पयिष्यन्ति.
SK
न दशतथागतबलानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं दशतथागतबलानीति विकल्पयिष्यन्ति.
SK
न चत्वारि वैशारद्यानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति.
SK
न चतस्रः प्रतिसंविदः शून्या इति विकल्पयिष्यन्ति, न शून्यतां चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविद आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदः शान्ता इति विकल्पयिष्यन्ति, न शान्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति.
SK
न महाकरुणां शून्येति विकल्पयिष्यन्ति, न शून्यतां महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणां शान्तेति विकल्पयिष्यन्ति, न शान्तं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं महाकरुणेति विकल्पयिष्यन्ति.
SK
नाष्टादशावेणिकबुद्धधर्मान् शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अष्टादशावेणिकबुद्धधर्मा (Śस्P_II-३_३२) इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति.
SK
न स्रोतआपत्तिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति,
SK
न सकृदागामिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति,
SK
नानागामिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनागामिफलम् इति विकल्पयिष्यन्ति, (Śस्P_II-३_३३) नानागामिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् अनागामिफलम् इति विकल्पयिष्यन्ति,
SK
नार्हत्त्वं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति,
SK
न प्रत्येकबोधिं शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिं शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति,
SK
न मार्गाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां शान्तेति विकल्पयिष्यन्ति, न शान्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति,
SK
न सर्वाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतां शान्तेति विकल्पयिष्यन्ति, न शान्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति,
SK
न संस्कृतधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति,
SK
नासंस्कृतधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति.
SK
अनेन देवपुत्राः पर्यायेणास्या गम्भीरायाः प्रज्ञापारमिताया एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुर्दृश्याया एवंदुरवबोधाया एवंशान्ताया एवंप्रणीताया (Śस्P_II-३_३५) एवमलमार्याया एवंपण्डितविज्ञवेदनीयाया न केचित् प्रत्येषितारो भविष्यन्ति. तत् कस्य हेतोः? तथा ह्य् अत्र न कश्चिद् धर्मः सूच्यते न परिदीप्यते. यथैवात्र न कश्चिद् धर्मः सूच्यते न परिदीप्यते तथैवात्र न कश्चित् सत्त्वः प्रत्येषिता भविष्यति.
SK
अथ आयुष्मान् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न त्व् आयुष्मन् सुभूते इह प्रज्ञापारमितायां विस्तरेण त्रीणि यानानि व्यवस्थाप्यन्ते. श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादम् उपादाय बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रसून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वानां च महासत्त्वानाम् अभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भविष्यन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृध्यन्ति. यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ता समाहितयोगेन.
SK
असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. (Śस्P_II-३_३६) सहितप्रतिभानाश् च भविष्यन्ति, मुक्षप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, त्रन्यप्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति.
SK
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारद्वतीपुत्र एवम् एतत्, तथा यथा वदसि विस्तरेणेह प्रज्ञापारमितायां त्रीणि यानान्य् उपदिष्टानि श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिष्टः, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता,
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भसूंयता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः,
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य्, उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानीमानि तथारूपाणि कुशलमूलानि समृध्यन्ते, यश् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ता समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, अक्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च (Śस्P_II-३_३७) भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति, तथानुपलम्भयोगेन.
SK
आत्मनो ऽनुपलम्भयोगेन, सत्त्वस्यानुपलम्भयोगेन, जीवस्यानुपलम्भयोगेन, पोषस्यानुपलम्भयोगेन, पुरुषस्यानुपलम्भयोगेन, पुद्गलस्यानुपलम्भयोगेन, मनुजस्यानुपलम्भयोगेन, मानवस्यानुपलम्भयोगेन, कारकस्यानुपलम्भयोगेन, वेदकस्यानुपलम्भयोगेन, जनकस्यानुपलम्भयोगेन, पश्यकस्यानुपलम्भयोगेन,
SK
रूपस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, संज्ञाया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन.
SK
चक्षुषो ऽनुपलम्भयोगेन, श्रोत्रस्यानुपलम्भयोगेन, घ्राणस्यानुपलम्भयोगेन, जिह्वाया अनुपलम्भयोगेन, कायस्यानुपलम्भयोगेन, मनसो ऽनुपलम्भयोगेन.
SK
रूपस्यानुपलम्भयोगेन, शब्दस्यानुपलम्भयोगेन, गन्धस्यानुपलम्भयोगेन, रसस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, धर्माणाम् अनुपलम्भयोगेन.
SK
चक्षुर्विज्ञानस्यानुपलम्भयोगेन, श्रोत्रविज्ञानस्यानुपलम्भयोगेन, घ्राणविज्ञानस्यानुपलम्भयोगेन, जिह्वाविज्ञानस्यानुपलम्भयोगेन, कायविज्ञानस्यानुपलम्भयोगेन, मनोविज्ञानस्यानुपलम्भयोगेन.
SK
चक्षुःसंस्पर्शस्यानुपलम्भयोगेन, श्रोत्रसंस्पर्शस्यानुपलम्भयोगेन, घ्राणसंस्पर्शस्यानुपलम्भयोगेन, जिह्वासंस्पर्शस्यानुपलम्भयोगेन, कायसंस्पर्शस्यानुपलम्भयोगेन, मनःसंस्पर्शस्यानुपलम्भयोगेन.
SK
चक्षुःसंस्पर्शजावेदनाया अनुपलम्भयोगेन, श्रोत्रसंस्पर्शजावेदनाया अनुपलम्भयोगेन, घ्राणसंस्पर्शजावेदनाया अनुपलम्भयोगेन, जिह्वासंस्पर्शजावेदनाया अनुपलम्भयोगेन, कायसंस्पर्शजावेदनाया अनुपलम्भयोगेन, मनःसंस्पर्शजावेदनाया अनुपलम्भयोगेन.
SK
पृथिवीधातोर् अनुपलम्भयोगेन, अब्धातोर् अनुपलम्भयोगेन, तेजोधातोर् अनुपलम्भयोगेन, वायुधातोर् अनुपलम्भयोगेन, आकाशधातोर् अनुपलम्भयोगेन, विज्ञानधातोर् अनुपलम्भयोगेन.
SK
अविद्याया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, (Śस्P_II-३_३८) विज्ञानस्यानुपलम्भयोगेन, नामरूपस्यानुपलम्भयोगेन, षडायतनस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, तृष्णाया अनुपलम्भयोगेन, उपादानस्यानुपलम्भयोगेन, भवस्यानुपलम्भयोगेन, जातेर् अनुपलम्भयोगेन, जरामरणस्यानुपलम्भयोगेन.
SK
दानपारमिताया अनुपलम्भयोगेन, शीलपारमिताया अनुपलम्भयोगेन, क्षान्तिपारमिताया अनुपलम्भयोगेन, वीर्यपारमिताया अनुपलम्भयोगेन, ध्यानपारमिताया अनुपलम्भयोगेन, प्रज्ञापारमिताया अनुपलम्भयोगेन,
SK
अध्यात्मशून्यताया अनुपलम्भयोगेन, बहिर्धाशून्यताया अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताया अनुपलम्भयोगेन, शून्यताशून्यताया अनुपलम्भयोगेन, महाशून्यताया अनुपलम्भयोगेन, परमार्थशून्यताया अनुपलम्भयोगेन, संस्कृतशून्यताया अनुपलम्भयोगेन, असंस्कृतस्ण्न्यताया अनुपलम्भयोगेन, अत्यन्तशून्यताया अनुपलम्भयोगेन, अनवराग्रशून्यताया अनुपलम्भयोगेन, अनवकारशून्यताया अनुपलम्भयोगेन, प्रकृतिशून्यताया अनुपलम्भयोगेन, सर्वधर्मशून्यताया अनुपलम्भयोगेन, स्वलक्षणशून्यताया अनुपलम्भयोगेन, अनुपलम्भशून्यताया अनुपलम्भयोगेन, अभावशून्यताया अनुपलम्भयोगेन, स्वभावशून्यताया अनुपलम्भयोगेन, अभावस्वभावशून्यताया अनुपलम्भयोगेन.
SK
स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, सम्यक्प्रहाणानाम् अनुपलम्भयोगेन, ऋद्धिपादाम् अनुपलम्भयोगेन, इन्द्रियाणाम् अनुपलम्भयोगेन, बलानाम् अनुपलम्भयोगेन, बोध्यङ्गानाम् अनुपलम्भयोगेन, आर्याष्टाङ्गमार्गस्यानुपलम्भयोगेन, आर्यसत्यानाम् अनुपलम्भयोगेन, ध्यानानाम् अनुपलम्भयोगेन, अप्रमाणानाम् अनुपलम्भयोगेन, आरूप्यसमापत्तीनाम् अनुपलम्भयोगेन, विमोक्षाणाम् अनुपलम्भयोगेन, अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भयोगेन, अभिज्ञानाम् अनुपलम्भयोगेन, समाधीनाम् अनुपलम्भयोगेन, धारणीमुखानाम् अनुपलम्भयोगेन, तथागतबलानाम् अनुपलम्भयोगेन, वैशारद्यानाम् अनुपलम्भयोगेन, प्रतिसंविदानाम् अनुपलम्भयोगेन, महामैत्र्या अनुपलम्भयोगेन, महाकरुणाया अनुपलम्भयोगेन, आवेणिकबुद्धधर्माणाम् अनुपलम्भयोगेन, मार्गाकारज्ञताया अनुपलम्भयोगेन, सर्वाकारज्ञताया अनुपलम्भयोगेन.
SK
अथायुष्मन् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इह प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन. केन कारणेन सुभूते बोधिसत्त्वानां महासत्त्वानां संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमचित्तोत्पादो बोधिमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतनिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भविष्यन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्तसमाहितयोगेन. असङ्गप्रतिभानश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा भविष्यन्त्य् अनुपलम्भयोगेन.
SK
एवम् उक्त आयुष्मन् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: अध्यात्मशून्यताम् उपादाय, आयुष्मन् शारद्वतीपुत्र त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, बहिर्धाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, शून्यताशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, महाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, परमार्थशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, संस्कृतशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, असंस्कृतशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अत्यन्तशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनवराग्रशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनवकारशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, प्रकृतिशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, सर्वधर्मशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, स्वलक्षणशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनुपलम्भशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, स्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अभावस्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन. प्रथमचित्तोत्पादम् उपादाय यावद् दशमचित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उच्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (Śस्P_II-३_४१) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
बहिर्धाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (Śस्P_II-३_४२) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ते. सदासमाहिताश् च भविष्यन्ति अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
अध्यात्मबहिर्धाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भसूंयता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
शून्यताशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकान्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि (Śस्P_II-३_४४) कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
महाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, (Śस्P_II-३_४५) श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महाइअत्त्वा अनुपलम्भयोगेन.
SK
परमार्थशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता,
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
संस्कृतशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो (Śस्P_II-३_४६) बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
असंस्कृतशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (Śस्P_II-३_४७) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
अत्यन्तशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (Śस्P_II-३_४८) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदा समाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
अनवराग्रशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, (Śस्P_II-३_४९) महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
अनवकारशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता,
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् (Śस्P_II-३_५०) भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
प्रकृतिशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. (Śस्P_II-३_५१) समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
सर्वधर्मशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
स्वलक्षणशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह (Śस्P_II-३_५२) उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
अनुपलम्भशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, (Śस्P_II-३_५३) अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
अभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (Śस्P_II-३_५४) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं, तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
स्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
अभावस्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
SK
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि (Śस्P_II-३_५६) कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
SK
शतसाहस्र्याः प्रज्ञापारमितायाः पञ्चदशमः परिवर्तः समाप्तः
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: अस्याः सर्वधर्मवृष्टेः सुभूतिना स्थविरेण भाष्यमाणायाः यन् न्व् अहं पुष्याण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च महासत्त्वान् भिक्षुसंघं च सुभूतिस्थविरम् अस्याः प्रज्ञापारमितायाः पूजाकर्मणे अवकिरेयम् अभ्यवकिरेयम् अभिप्राकिरेयं, यावन्तश् च त्रिसाहस्रमहासाहस्रलोकधातौ चातुर्महाराजिका देवास् त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवाः निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्राह्मपर्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवाः आभास्वरा देवाः शुभा देवाः परित्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फरा देवा अबृहा देवा अतपा देवाः सुदृशा देवा सुदर्शना देवा अकनिष्ठा देवास् तेषाम् एतद् अभूवन्: अस्या धर्मवृष्टेः सुभूतिना स्थविरेण भाष्यमाणायाः. यं नूनं वयं पुष्पाण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च भिक्षुसंघं च सुभूतिस्थविरञ् चास्याः प्रज्ञापारमितायाः पूजाकर्मणे अविकिरेयम्.
SK
अथ खलु शक्रो देवानाम् इन्द्रो ये त्रिसाहस्रमहासाःस्रे लोकधातौ चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवाः यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभस्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभाकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवास् ते सर्वे दिव्यानि मान्दारवानि पुष्पाण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च महासत्त्वांश् च भिक्षुसंघं च सुहूतिस्थविरम् अस्याः प्रज्ञापारमितायाः पूजाकर्मणे अविकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्राकिरन्ति स्म, महावर्णकैश् च तैः पुष्पैः, अयं त्रिसाहस्रमहासाहस्रो लोकधातुः पुष्पसंस्तरसंस्तृतो ऽभूत्, उपरिष्ठाद् अंतरीक्षे त्रिसाहस्रमहासाहस्रलोकधातुः प्रमाणः पुष्पकूटागारः संस्थितो ऽभूत् रमणीयो मनोरमः,
SK
सचेत् सुभूतेः स्थविरस्यैतद् अभूत्: न पुनर् इमानि पुष्पाणि मया (Śस्P_II-३_५८) सर्वदेवभवनेष्व् अदृष्टपूर्वाणि प्रवरमाणानि, यानीमानि पुष्पाणि देवैर् अभ्यवकीर्णानि निर्मितानीमानि पुष्पाणि, न स्तंभनिर्यातानि न स्थलजानि न जलजानि यानीमानि पुष्पाणि देवपुत्रैर् अभ्यवकीर्णानि मनोमयानीमानि पुष्पाणि, नेमानि स्तम्भनिर्यातानि, यानीमानि देवपुत्रैर् अभ्यवकीर्णानि.
SK
अथ शक्रो देवानाम् इन्द्रः सुभूतेः स्थविरस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं सुभूतिस्थविरम् एतद् अवोचन्: अनिर्यातानि भदन्त सुभूते इमानि पुष्पाणि, न मनोमयानि न स्तम्भनिर्यातानि.
SK
सुभूतिर् आह: यत् पुनः कौशिक एवं वदसि, अनिर्यातानीमानि पुष्पाणि नेमानि पुष्पाणि मनोनिर्यातानि न स्तम्भनिर्यातानि, यानि कौशिकानिर्यातानि नेतानि पुष्पाणि.
SK
शक्र आह: किं पुनर् भदन्त सुभूते, इमान्य् एव पुष्पाण्य् अनिर्यातानि, अथ रूपम् अप्य् अनिर्जातम् एवं वेदनाप्य् अनियाता संज्ञाप्य् अनिर्याता संस्कारा अप्य् अनिर्याता विज्ञानम् अप्य् अनिर्यातम्.
SK
सुभूतिर् आह: यत् कौशिकैवं वदसि, न कौशिकेमान्य् एव पुष्पान्य् अनिर्यातानीति, रूपम् अपि कौशिकानिर्यातं यच् चानिर्यातं न तद् रूपं, वेदनापि कौशिकानिर्याता या चानिर्याता न सा वेदना, संज्ञापि कौशिकानिर्याता या चानिर्याता न सा संज्ञा, संस्कारा अपि कौशिकानिर्याता ये चानिर्याता न ते संस्काराः, विज्ञानम् अपि कौशिकानिर्यातं यच् चानिर्यातं न तद् विज्ञानम्.
SK
चक्षुः कौशिकानिर्यातं यच् चानिर्यातं न तच् चक्षुः, श्रोत्रं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोत्रं, घ्राणं कौशिकानिर्यातं यच् चानिर्यातं न तद् घ्राणं, जिह्वा कौशिकानिर्याता या चानिर्याता न सा जिह्वा, कायः कौशिकानिर्यातो यश् चानिर्यातो न स कायः, मनः कौशिकानिर्यातं यच् चानिर्यातं न तन् मनः.
SK
रूपं कौशिकानिर्यातं यच् चानिर्यातं न तद् रूपं, शब्दः कौशिकानिर्यातो यश् चानिर्यातो न स शब्दः, गन्धः कौशिकानिर्यातो यश् चानिर्यातो न स गन्धः, रसः कौशिकानिर्यातो यश् चानिर्यातो न स रसः, स्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स स्पर्शः, धर्माः कौशिकानिर्याता ये चानिर्याता न ते धर्माः.
SK
चक्षुर्विज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तच् चक्षुर्विज्ञानं, श्रोत्रविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोत्रविज्ञानं, घ्राणविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तद् घ्राणविज्ञानं, जिह्वाविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तज् जिह्वाविज्ञानं, कायविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तत् कायविज्ञानं, (Śस्P_II-३_५९) मनोविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तन् मनोविज्ञानम्.
SK
चक्षुःसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स जिह्वासंस्पर्शः, कायसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न सः कायसंस्पर्शः, मनःसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स त्ननःसंस्पर्शः.
SK
चक्षुःसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा चक्षुःसंस्पर्शप्रत्ययवेदना, श्रोत्रसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चनिर्याता न सा मनःसंस्पर्शप्रत्ययवेदना.
SK
पृथिवीधातुः कौशिकानिर्यातो यश् चानिर्यातो न स पृथिवीधातुः, अब्धातुः कौशिकानिर्यातो यश् चानिर्यातो न सो ऽब्धातुः, तेजोधातुः कौशिकानिर्यातो यश् चानिर्यातो न स तेजोधातुः, वायुधातुः कौशिकानिर्यातो यश् चानिर्यातो न स वायुधातुः, आकाशधातुः कौशिकानिर्यातो यश् चानिर्यातो न स आकाशधातुः, विज्ञानधातुः कौशिकानिर्यातो यश् चानिर्यातो न स विज्ञानधातुः.
SK
अविद्या कौशिकानिर्याता या चानिर्याता न सा अविद्या, संस्काराः कौशिकानिर्याता ये चानिर्याता न ते संस्काराः, विज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तद् विज्ञानं, नामरूपं कौशिकानिर्यातं यच् चानिर्यातं न तन् नामरूपं, षडायतनं कौशिकानिर्यातं यच् चानिर्यातं न तत् षडायतनं, स्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स स्पर्शः, वेदना कौशिकानिर्याता या चानिर्याता न सा वेदना, तृष्णा कौशिकानिर्याता या चानिर्याता न सा तृष्णा, उपादानं कौशिकानिर्यातं यच् चानिर्यातं न तद् उपादानं, भवः कौशिकानिर्यातो यश् चानिर्यातो न स भवः, जातिः कौशिकानिर्याता या चानिर्याता न सा जातिः, जरामरणं कौशिकानिर्यातं यच् चानिर्यातं न तज् जरामरणम्.
SK
दानपारमिता कौशिकानिर्याता या चानिर्याता न सा दानपारमिता, शीलपारमिता (Śस्P_II-३_६०) कौशिकानिर्याता या चानिर्याता न सा शीलपारमिता, क्षान्तिपारमिता कौशिकानिर्याता या चानिर्याता न सा क्षान्तिपारमिता, वीर्यपारमिता कौशिकानिर्याता या चानिर्याता न सा वीर्यपारमिता, ध्यानपारमिता कौशिकानिर्याता या चानिर्याता न सा ध्यानपारमिता, प्रज्ञापारमिता कौशिकानिर्याता या चानिर्याता न सा प्रज्ञापारमिता.
SK
अध्यात्मशून्यता कौशिकानिर्याता या चानिर्याता न साध्यात्मशून्यता, बहिर्धाशून्यता कौशिकानिर्याता या चानिर्याता न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता कौशिकानिर्याता या चानिर्याता न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यता कौशिकानिर्याता या चानिर्याता न सा शून्यताशून्यता, महाशून्यता कौशिकानिर्याता या चानिर्याता न सा महाशून्यता, परमार्थशून्यता कौशिकानिर्याता या चानिर्याता न सा परमार्थशून्यता, संस्कृतशून्यता कौशिकानिर्याता या चानिर्याता न सा संस्कृतशून्यता, असंस्कृतशून्यता कौशिकानिर्याता या चानिर्याता न सासंस्कृतशून्यता, अत्यन्तशून्यता कौशिकानिर्याता या चानिर्याता न सात्यन्तशून्यता, अनवराग्रशून्यता कौशिकानिर्याता या चानिर्याता न सानवराग्रशून्यत, अनवकारशून्यता कौशिकानिर्याता या चानिर्याता न सानवकारशून्यता, प्रकृतिशून्यता कौशिकानिर्याता या चानिर्याता न सा प्रकृतिशून्यता, सर्वधर्मशून्यता कौशिकानिर्याता या चानिर्याता न सा सर्वधर्मशून्यता, स्वलक्षणशून्यता कौशिकानिर्याता या चानिर्याता न सा स्वलक्षणशून्यता, अनुपलम्भशून्यता कौशिकानिर्याता या चानिर्याता न सानुपलम्भशून्यता, अभावशून्यता कौशिकानिर्याता या चानिर्याता न साभावशून्यता, स्वभावशून्यता कौशिकानिर्याता या चानिर्याता न सा स्वभावशून्यता, अभावस्वभावशून्यता कौशिकानिर्याता या चानिर्याता न साभावस्वभावशून्यता.
SK
स्मृत्युपस्थानानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि सम्यक्प्रहाणानि, ऋद्धिपादाः कौशिकानिर्याता ये चानिर्याता न ते ऋद्धिपादाः, इन्द्रियाणि कौशिकानिर्यातानि यानि चानिर्यातानि न तानीन्द्रियाणि, बलानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि बलानि, बोध्यङ्गानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि बोध्यङ्गानि, आर्याष्टङ्गो मार्गः कौशिकानिर्यातो यश् चानिर्यातो न स आर्याष्टाङ्गो मार्गः, आर्यसत्यानि कौशिकांइर्यातानि यानि चानिर्यातानि न तानि आर्यसत्यानि, ध्यानानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि ध्यानानि, अप्रमाणानि कौशिकानिर्यातानि यानि चानिर्यातानि न तान्य् अप्रमाणानि, आरूप्यसमापत्तयः कौशिकानिर्याता ये चानिर्याता न ता आरूप्यसमापत्तयः, अष्टौ विमोक्षाः कौशिकानिर्याता ये (Śस्P_II-३_६१) चानिर्याता न ता अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः कौशिकानिर्याता याश् चानिर्याता न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञाः कौशिकानिर्याता यास् चानिर्याता न ता अभिज्ञाः, समाधयः कौशिकानिर्याता ये चानिर्याता न ते समाधयः, धारणीमुखानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि धारणीमुखानि, दशतथागतबलानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि दशतथागतबलानि, चत्वारि वैशारद्यानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि चत्वारि वैशारद्यांइ, चतस्रः प्रतिसंविदः कौशिकानिर्याता याश् चानिर्याता न ताः प्रतिसंविदः, महामैत्री कौशिकानिर्याता या चानिर्याता न सा महामैत्री, महाकरुणा कौशिकानिर्याता या चानिर्याता न सा महाकरुणा, अष्टादशावेणिका बुद्धधर्माः कौशिकानिर्याता ये चानिर्याता न ते अष्टादशावेणिका बुद्धधर्माः, स्रोतआपत्तिफलं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोतआपत्तिफलं, सकृदागामिफलं कौशिकानिर्यातं यच् चानिर्यातं न तत् सकृदागामिफलं, अनागामिफलं कौशिकानिर्यातं यच् चानिर्यातं न तद् अनागामिफलं, अर्हत्त्वं कौशिकानिर्यातं यच् चानिर्यातं न तद् अर्हत्त्वं, प्रत्येकबोधिः कौशिकानिर्याता या चानिर्याता न सा प्रत्येकबोधिः, मार्गाकारज्ञता कौशिकानिर्याता या चानिर्याता न सा मार्गाकारज्ञता, सर्वाकारज्ञता कौशिकानिर्याता या चानिर्याता न सा सर्वाकारज्ञता, स्रोतआपन्नः कौशिकानिर्यातो यश् चानिर्याओ न स स्रोतआपन्नः, सकृदागामी कौशिकानिर्यातो यश् चानिर्यातो न स सकृदागामी, अनागामी कौशिकानिर्यातो यश् चानिर्यातो न सो अनागामी, अर्हत् कौशिकानिर्यातो यश् चानिर्यातो न सो अर्हत्, प्रत्येकबुद्धः कौशिकानिर्यातो यश् चानिर्यातो न स प्रत्येकबुद्धः, बोधिसत्त्वः कौशिकानिर्यातो यश् चानिर्यातो न स बोधिसत्त्वः, तथागतः कौशिकानिर्यातो यश् चानिर्यातो न स तथागतः.
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: गम्भीरप्रज्ञो बतायं सुभूतिस्थविरो यत्र हि नाम प्रज्ञप्तिं च न विरोधयति धर्मताञ् चोपदिशति.
SK
अथ भगवान् शक्रं देवानाम् इन्द्रम् आमन्त्रयते स्म: एवम् एतत् कौशिकैवम् एतद् गम्भीरप्रज्ञो बतायं सुभूतिः स्थविरः यत्र हि नामं प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.
SK
अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति?
SK
एवम् उक्ते भगवाञ् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: रूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वेदना कौशिक प्रज्ञप्तिमात्रा यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संज्ञा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्काराः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रूध्यते न विरूध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
चक्षुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
रूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शब्दः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, गन्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, रसः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, धर्माः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रूध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति (Śस्P_II-३_६३) न च विरोधयति. चक्षुर्विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वाविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनोविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रूध्यते न विरूध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
चक्षुःसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वासंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनःसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
चक्षुःसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणसर्न्स्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वासंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायसंस्पर्शप्रत्ययवेदितं (Śस्P_II-३_६४) कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनःसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
पृथिवीधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अब्धातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तेजोधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वायुधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आकाशधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
अविद्या कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्काराः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, नामरूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, षडायतनं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वेदना कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तृष्णा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, उपादानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, भवः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जातिः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा (Śस्P_II-३_६५) धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जरामरणं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
दानपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शीलपारमिताकौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, क्षान्तिपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वीर्यपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ध्यानपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रज्ञापारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
अध्यात्मशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बहिर्धाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अध्यात्मबहिर्धाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शून्यताशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, परमार्थशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्कृतशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, असंस्कृतशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अत्यन्तशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनवराग्रशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनवकारशून्यता (Śस्P_II-३_६६) कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रकृतिशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सर्वधर्मशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्वलक्षणशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनुपलम्भशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्वभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभावस्वभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
स्मृत्युपस्थानानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सम्यक्प्रहाणानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ऋद्धिपादाः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, इन्द्रियाणि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बलानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बोध्यङ्गानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आर्याष्टाङ्गो मार्गः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आर्यसत्यानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ध्यानानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अप्रमाणानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आरूप्यसमापत्तयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अष्टौ विमोक्षाः कौशिक (Śस्P_II-३_६७) प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, नवानुपूर्वविहारसमापत्तयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभिज्ञाः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, समाधयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, धारणीमुखानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, दशतथागतबलानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, चत्वारि वैशारद्यानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, चतस्रः प्रतिसंविदः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महामैत्री कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महाकरुणा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अष्टादशावेणिकबुद्धधर्माः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
स्रोतआपत्तिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सकृदागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अर्हत्त्वं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रत्येकबोधिः कौशिक प्रज्ञप्तिमात्रं यत् (Śस्P_II-३_६८) प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मार्गाकारज्ञता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सर्वाकारज्ञता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.
SK
स्रोतआपन्नः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सकृदागामी कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामी कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अर्हत् कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रत्येकबुद्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बोधिसत्त्वः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सम्यक्संबुद्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. एवं खलु कौशिक सुभूतिः स्थविरः प्रज्ञप्तितो न च विरोधयति.
SK
अथ खल्व् आयुष्मन् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिक एवम् एतद्, तद् यथा पि नाम भगवता प्रज्ञप्तिमात्रं सर्वधर्मान् उपदिष्टाः. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञप्तिमात्रं सर्वधर्मान् विदित्वा प्रज्ञापारमितां शिक्षितव्यम्.
SK
एवं शिक्षमानः पुनः कौशिक बोधिसत्त्वो महासत्त्वो रूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स रूपं न समनुपश्यति यत्र शिक्षते. वेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वेदनां न समनुपश्यति यत्र शिक्षते. संज्ञायां न शिक्षते. तत् कस्य हेतोः? तथा हि स संज्ञां न समनुपश्यति यत्र शिक्षते. संस्कारेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कारान् न समनुउपश्यति यत्र शिक्षते. विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानं न समनुपश्यति (Śस्P_II-३_६९) यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वश् चक्षुषि न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुर् न समनुपश्यति यत्र शिक्षते. श्रोत्रे न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रं न समनुपश्यति यत्र शिक्षते. घ्राणे न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणं न समनुपश्यति यत्र शिक्षते. जिह्वायां न शिक्षते. तत् कस्य हेतोः? तथा हि स जिह्वां न समनुपश्यति यत्र शिक्षते. काये न शिक्षते. तत् कस्य हेतोः? तथा हि स कायं न समनुपश्यति यत्र शिक्षते. मनसि न शिक्षते. तत् कस्य हेतोः? तथा हि स मनो न समनुपश्यति, यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो रूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स रूपं न समनुपश्यति यत्र शिक्षते. शब्दे न शिक्षते. तत् कस्य हेतोः? तथा हि स शब्दं न समनुपश्यति यत्र शिक्षते. गन्धे न शिक्षते. तत् कस्य हेतोः? तथा हि स गन्धं न समनुपश्यति यत्र शिक्षते. रसे न शिक्षते. तत् कस्य हेतोः? तथा हि स रसं न समनुपश्यति यत्र शिक्षते. स्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स स्पर्शं न समनुपश्यति यत्र शिक्षते. धर्मेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स धर्मान् न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुर्विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुर्विज्ञानं न समनुपश्यति यत्र शिक्षते. श्रोत्रविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रविज्ञानं न समनुपश्यति यत्र शिक्षते. घ्राणविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणविज्ञानं न समनुपश्यति यत्र शिक्षते. जिह्वाविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स जिह्वाविज्ञानं न समनुपश्यति यत्र शिक्षते. कायविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स कायविज्ञानं न समनुपश्यति यत्र शिक्षते. मनोविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स मनोविज्ञानं न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुःसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुःसंस्पर्शं न समनुपश्यति यत्र शिक्षते. श्रोत्रसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रसंस्पर्शं न समनुपश्यति यत्र शिक्षते. घ्राणसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणासंस्पर्शं न समनुपश्यति यत्र शिक्षते. जिह्वासंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स (Śस्P_II-३_७०) जिह्वासंस्पर्शं न समनुपश्यति यत्र शिक्षते. कायसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स कायसंस्पर्शं न समनुपश्यति यत्र शिक्षते. मनःसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स मनःसंस्पर्शं न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुःसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुःसंस्पर्शप्रत्यय वेदनां न समनुपश्यति यत्र शिक्षते. श्रोत्रसंस्पर्शप्रत्ययवेदनां न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. घ्राणसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणासंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. जिह्वासंस्पर्शप्रत्ययवेदनायां न शिक्षते, तत् कस्य हेतोः? तथा हि स जिह्वासंस्पर्शप्रत्ययवेदनां न सममुपश्यति यत्र शिक्षते. कायसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स कायसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. मनःसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स मनःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः पृथिवीधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स पृथिवीधातुं न समनुपश्यति यत्र शिक्षते. अब्धातौ न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽब्धातुं न समनुपश्यति यत्र शिक्षते. तेजोधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स तेजोधातुं न समनुपश्यति यत्र शिक्षते. वायुधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स वायुधातुं न समनुपश्यति यत्र शिक्षते. आकाशधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स आकाशधातुं न समनुपश्यति यत्र शिक्षते. विज्ञानधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानधातुं न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो ऽविद्यायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽविद्यां न समनुपश्यति यत्र शिक्षते. संस्कारेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कारान् न समनुपश्यति यत्र शिक्षते. विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानं न समनुपश्यति यत्र शिक्षते. नामरूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स नामरूपं न समनुपश्यति यत्र शिक्षते. षडायतने न शिक्षते. तत् कस्य हेतोः? तथा हि स षडायतनं न समनुपश्यति यत्र शिक्षते. स्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स स्पर्शं न समनुपश्यति (Śस्P_II-३_७१) यत्र शिक्षते. वेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वेदनां न समनुपश्यति यत्र शिक्षते. तृष्णायां न शिक्षते. तत् कस्य हेतोः? यथा हि स तृष्णां न समनुपश्यति यत्र शिक्षते. उपादाने न शिक्षते. तत् कस्य हेतोः? तथा हि स उपादानं न समनुपश्यति यत्र शिक्षते. भवे न शिक्षते. तत् कस्य हेतोः? तथा हि स भवं न समनुपश्यति यत्र शिक्षते. जातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स जातिं न समनुपश्यति यत्र शिक्षते. जरामरणे न शिक्षते. तत् कस्य हेतोः? तथा हि स जरामरणं न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः दानपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स दानपारमितां न समनुपश्यति यत्र शिक्षते. शीलपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स शीलपारमितां न समनुपश्यति यत्र शिक्षते. क्षान्तिपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स क्षान्तिपारमितां न समनुपश्यति यत्र शिक्षते. वीर्यपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वीर्यपारमितां न समनुपश्यति यत्र शिक्षते. ध्यानपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स ध्यानपारमितां न समनुपश्यति यत्र शिक्षते. प्रज्ञापारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रज्ञापारमितां न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽध्यात्मशून्यतां न समनुपश्यति यत्र शिक्षते. बहिर्धाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स बहिर्धाशून्यतां न समनुपश्यति यत्र शिक्षते. अध्यात्मबहिर्धाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽध्यात्मबहिर्धाशून्यतां न समनुपश्यति यत्र शिक्षते. शून्यताशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स शून्यताशून्यतां न समनुपश्यति यत्र शिक्षते. महाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स महाशून्यतां न समनुपश्यति यत्र शिक्षते. परमार्थशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स परमार्थशून्यतां न समनुपश्यति यत्र शिक्षते. संस्कृतशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कृतशून्यतां न समनुपश्यति यत्र शिक्षते. असंस्कृतशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽसंस्कृतशून्यतां न समनुपश्यति यत्र शिक्षते. अत्यन्तशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽत्यन्तशून्यतां न समनुपश्यति यत्र शिक्षते. अनवराग्रशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनवराग्रशून्यतां न समनुपश्यति (Śस्P_II-३_७२) यत्र शिक्षते. अनवकारशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनवकारशून्यतां न समनुपश्यति यत्र शिक्षते. प्रकृतिशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रकृतिशून्यतां न समनुपश्यति यत्र शिक्षते. सर्वधर्मशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वधर्मशून्यतां न समनुपश्यति यत्र शिक्षते. स्वलक्षणशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यतां न समनुपश्यति यत्र शिक्षते. अनुपलम्भशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनुपलम्भशून्यतां न समनुपश्यति यत्र शिक्षते. अभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभावशून्यतां न समनुपश्यति यत्र शिक्षते. स्वभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स स्वभावशून्यतां न समनुपश्यति यत्र शिक्षते. अभावस्वभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभावस्वभावशून्यतां न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चतुर्षु स्मृत्युपस्थानेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स चत्वारि स्मृत्युपस्थानानि न समनुपश्यति यत्र शिक्षते. चतुर्षु सम्यक्प्रहाणेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स सम्यक्प्रहाणानि न समनुपश्यति यत्र शिक्षते. चतुर्षु ऋद्धिपादेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स ऋद्धिपादां न समनुपश्यति यत्र शिक्षते. पञ्चेन्द्रियेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स इन्द्रियाणि न समनुपश्यति यत्र शिक्षते. पञ्चषु बलेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स बलाणि न समनुपश्यति यत्र शिक्षते. सप्तसु बोध्यङ्गेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स बोध्यङ्गानि न समनुपश्यति यत्र शिक्षते. आर्याष्टाङ्गे मर्गे न शिक्षते. तत् कस्य हेतोः? तथा हि स आर्याष्टाङ्गं मार्गं न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वश् चतुर्ष्व् आर्यसत्येषु न शिक्षते. तत् कस्य हेतोः? तथा हि स आर्यसत्यानि न समनुपश्यति यत्र शिक्षते. चतुर्षु ध्यानेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स ध्यानानि न समनुपश्यति यत्र शिक्षते. चतुर्ष्व् अप्रमाणेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स अप्रमाणानि न समनुपश्यति यत्र शिक्षते. चतसृषु आरूप्यसमापत्तिषु न शिक्षते. तत् कस्य हेतोः? तथा हि स आरूप्यसमापत्तिन् न समनुपश्यति यत्र शिक्षते. अष्टाषु विमोक्षेषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽष्टौ विमोक्षान् न समनुपश्यति यत्र शिक्षते. (Śस्P_II-३_७३) नवानुपूर्वविहारसमापत्तिषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनुपूर्वविहारसमापत्तीन् न समनुपश्यति यत्र शिक्षते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपश्यति यत्र शिक्षते. पञ्चस्व् अभिज्ञासु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभिज्ञा न समनुपश्यति यत्र शिक्षते. सर्वसमाधिषु न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वसमाधीन् न समनुपश्यति यत्र शिक्षते. धारणीमुखेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स धारणीमुखानि न समनुपश्यति यत्र शिक्षते. दशतथागतबलेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स दशतथागतबलानि न समनुपश्यति यत्र शिक्षते. चतुर्षु वैशारद्येषु न शिक्षते. तत् कस्य हेतोः? तथा हि स वैशारद्यानि न समनुपश्यति यत्र शिक्षते. चतसृषु प्रतिसंवित्सु न शिक्षते. तत् कस्य हेतोः? तथा हि स चतस्रः प्रतिसंविदो न समनुपश्यति यत्र शिक्षते. महामैत्र्या न शिक्षते. तत् कस्य हेतोः? तथा हि स महामैत्रीन् न समनुपश्यति यत्र शिक्षते. महाकरुणायां न शिक्षते. तत् कस्य हेतोः? तथा हि स महाकरुणां न समनुपश्यति यत्र शिक्षते. अष्टादशावेणिकेषु बुद्धधर्मेषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽष्टादशावेणिकबुद्धधर्मान् न समनुपश्यति यत्र शिक्षते.
SK
एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः स्रोतआपत्तिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स स्रोतआपत्तिफलं न समनुपश्यति यत्र शिक्षते. सकृदागामिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स सकृदागामिफलं न समनुपश्यति यत्र शिक्षते. अनागामिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स अनागामिफलं न समनुपश्यति यत्र सिक्षते. अर्हत्त्वे न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽर्हत्त्वं न समनुपश्यति यत्र शिक्षते. प्रत्येकबोधौ न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रत्येकबोधिं न समनुपश्यति यत्र शिक्षते. मार्गाकारज्ञतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स मार्गाकारज्ञतां न समनुपश्यति यत्र शिक्षते. सर्वाकारज्ञतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वाकारज्ञतां न समनुपश्यति यत्र शिक्षते.
SK
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: केन कारणेन भदन्त सुभूते बोधिसत्त्वो महासत्त्वो रूपं न समनुपश्यति, केन कारणेन वेदनां न समनुपश्यति, केन कारणेन संज्ञां न समनुपश्यति, केन कारणेन संस्कारान् न समनुपश्यति, (Śस्P_II-३_७४) केन कारणेन विज्ञानं न समनुपश्यति.
SK
केन कारणेन चक्षुर् न समनुपश्यति, केन कारणेन श्रोत्रं न समनुपश्यति, केन कारणेन घ्राणं न समनुपश्यति, केन कारणेन जिह्वां न समनुपश्यति, केन कारणेन कायं न समनुपश्यति, केन कारणेन मनो न समनुपश्यति.
SK
केन कारणेन रूपं न समनुपश्यति, केन कारणेन शब्दं न समनुपश्यति, केन कारणेन गन्धं न समनुपश्यति, केन कारणेन रसं न समनुपश्यति, केन कारणेन स्पर्शं न समनुपश्यति, केन कारणेन धर्मान् न समनुपश्यति.
SK
केन कारणेन चक्षुर्विज्ञानं न समनुपश्यति, केन कारणेन श्रोत्रविज्ञानं न समनुपश्यति, केन कारणेन घ्राणविज्ञानं न समनुपश्यति, केन कारणेन जिह्वाविज्ञानं न समनुपश्यति, केन कारणेन कायविज्ञानं न समनुपश्यति, केन कारणेन मनोविज्ञानं न समनुपश्यति.
SK
केन कारणेन चक्षुःसंस्पर्शं न समनुपश्यति, केन कारणेन श्रोत्रसंस्पर्शं न समनुपश्यति, केन कारणेन घ्राणसंस्पर्श्ं न समनुपश्यति, केन कारणेन जिह्वासंस्पर्शं न समनुपश्यति, केन कारणेन कायसंस्पर्शं न समनुपश्यति, केन कारणेन मनःसंस्पर्शं न समनुपश्यति.
SK
केन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन घ्राणसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन जिह्वासंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन कायसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन मनःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति.
SK
केन कारणेन पृथिवीधातुं न समनुपश्यति, केन कारणेन अब्धातुं न समनुपश्यति, केन कारणेन तेजोधातुं न समनुपश्यति, केन कारणेन वायुधातुं न समनुपश्यति, केन कारणेन आकाशधातुं न समनुपश्यति, केन कारणेन विज्ञानधातुं न समनुपश्यति.
SK
केन कारणेनाविद्यां न समनुपश्यति, केन कारणेन संस्कारान् न समनुपश्यति, केन कारणेन विज्ञानं न समनुपश्यति, केन कारणेन नामरूपं न समनुपश्यति, केन कारणेन षडायतनं न समनुपश्यति, केन कारणेन स्पर्शं न समनुपश्यति, केन कारणेन वेदनां न समनुपश्यति, केन कारणेन तृष्णां न समनुपश्यति, केन कारणेनोपादानं (Śस्P_II-३_७५) न समनुपश्यति, केन कारणेन भवं न समनुपश्यति, केन कारणेन जातिं न समनुपश्यति, केन कारणेन जरामरणं न समनुपश्यति.
SK
केन कारणेन दानपारमितां न समनुपश्यति, केन कारणेन शीलपारमितां न समनुपश्यति, केन कारणेन क्षान्तिपारमितां न समनुपश्यति, केन कारणेन वीर्यपारमितां न समनुपश्यति, केन कारणेन ध्यानपारमितां न समनुपश्यति, केन कारणेन प्रज्ञापारमितां न समनुपश्यति.
SK
केन कारणेनाध्यात्मशून्यतां न समनुपश्यति, केन कारणेन बहिर्धाशून्यतां न समनुपश्यति, केन कारणेनाध्यात्मबहिर्धाशून्यतां न समनुपश्यति, केन कारणेन शून्यताशून्यतां न समनुपश्यति, केन कारणेन महाशून्यतां न समनुपश्यति, केन कारणेन परमार्थशून्यतां न समनुपश्यति, केन कारणेन संस्कृतशून्यतां न समनुपश्यति, केन कारणेनासंस्कृतशून्यतां न समनुपश्यति, केन कारणेनात्यन्तशून्यतां न समनुपश्यति, केन कारणेनानवरग्रशून्यतां न समनुपश्यति, केन कारणेनानवकारशून्यतां न समनुपश्यति, केन कारणेन प्रकृतिशून्यतां न समनुपश्यति, केन कारणेन सर्वधर्मशून्यतां न समनुपश्यति, केन कारणेन स्वलक्षणशून्यतां न समनुपश्यति, केन कारणेनानुपलम्भशून्यतां न समनुपश्यति, केन कारणेनाभावशून्यतां न समनुपश्यति, केन कारणेन स्वभावशून्यतां न समनुपश्यति, केन कारणेनाभावस्वभावशून्यतां न समनुपश्यति.
SK
केन कारणेन स्मृत्युपस्थानानि न समनुपश्यति, केन कारणेन सम्यक्प्रहाणानि न समनुपश्यति, केन कारणेन ऋद्धिपादां न समनुपश्यति, केन कारणेनेन्द्रियाणि न समनुपश्यति, केन कारणेन बलानि न समनुपश्यति, केन कारणेन बोध्यङ्गानि न समनुपश्यति, केन कारणेनार्याष्टाङ्गमार्गं न समनुपश्यति, केन कारणेनार्यसत्यानि न समनुपश्यति, केन कारणेन ध्यानानि न समनुपश्यति, केन कारणेनाप्रमाणानि न समनुपश्यति, केन कारणेनारूप्यसमापत्तीं न समनुपश्यति, केन कारणेनाष्ट्;औ विमोक्षां न समनुपश्यति, केन कारणेन नवानुपूर्वविहारसमापत्तीं न समनुपश्यति, केन कारणेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपश्यति, केन कारणेन अभिज्ञा न समनुपश्यति, केन कारणेन समाधीन् न समनुपश्यति, केन कारणेन धारणीमुखानि न समनुपश्यति, केन कारणेन दश (Śस्P_II-३_७६) तथागतबलानि न समनुपश्यति, केन कारणेन चत्वारि वैशारद्यानि न समनुपश्यति, केन कारणेन चतस्रः प्रतिसंविदो न समनुपश्यति, केन कारणेन महामैत्रीं न समनुपश्यति, केन कारणेन महाकरुणां न समनुपश्यति, केन कारणेन अष्टादशावेणिकबुद्धधर्मान् न समनुपश्यति, केन कारणेन सर्वज्ञतां न समनुपश्यति, केन कारणेन मार्गाकारज्ञतां न समनुपश्यति, केन कारणेन सर्वाकारज्ञतां न समनुपश्यति.
SK
सुभूतिर् आह: तथा हि कौशिक रूपं रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यम्.
SK
चक्षुश् चक्षुषा शून्यं, श्रोत्रं श्रोत्रेण शून्यं, घ्राणं घ्राणेन्सि शून्यं, जिह्वा जिह्वया शून्या, कायः कायेन शून्यः, मनो मनसा शून्यम्.
SK
रूपं रूपेण शून्यं, शब्दः शब्देन शून्यः, गन्धो गन्धेन शून्यः, रसो रसेन शून्यः, स्पर्शः स्पर्शेन शून्यः, धर्मा धरैः शून्याः.
SK
चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं, जिह्वाविज्ञानं श्रोत्रविज्ञानेन शून्यं, कायविज्ञानं जिह्वाविज्ञानेन शून्यं, मनोविज्ञानं मनोविज्ञानेन शून्यम्.
SK
चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः, घ्राणसंस्पर्शः घाणसंस्पर्शेन शून्यः, जिह्वासंस्पर्शः जिह्वासंस्पर्शेन शून्यः, कायसंस्पर्शः कायसंस्पर्शेन शून्यः, मनःसंस्पर्शः मनःसंस्पर्शेन शून्यः.
SK
चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनया शून्या, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनया शून्या, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनया शून्या, जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनया शून्या, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनया शून्या, मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनया शून्या.
SK
पृथिवीधातुः पृथिवीधातुना शून्यः, अब्धातुर् अब्धातुना शून्यः, तेजोधातुः तेजोधातुना शून्यः, वायुधातुर् वायुधातुना शून्यः, आकाशधातुर् आकाशधातुना शून्यः, विज्ञानधातुः पृथिवीधातुना शून्यः.
SK
अविद्या अविद्यया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं (Śस्P_II-३_७७) विज्ञानेन शून्यं, नामरूपं नामरूपेण शून्यं, षडायतनं षडायतनेन शून्यं, स्पर्शः स्पर्शेन शून्यः, वेदना वेदनया शून्या, तृष्णा तृष्णया शून्या, उपादानम् उपादानेन शून्यं, भवो भवेन शून्यः, जातिर् जात्या शून्या, जरामरणं जरामरणेन शून्यम्.
SK
दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या.
SK
अध्यात्मशून्यताध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या, शून्यताशून्यता शून्यताशून्यतया शून्या, महाशून्यता महाशून्यतया शून्या, परमार्थशून्यता परमार्थशून्यतया शून्या, संस्कृतशून्यता संस्कृतशून्यतया शून्या, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या, अत्यन्तशून्यतात्यन्तशून्यतया शून्या, अनवराग्रशून्यतानवराग्रशून्यतया शून्या, अनवकारशून्यतानवकारशून्यतया शून्या, प्रकृतिशून्यता प्रकृतिशून्यतया शून्यता, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या, अनुपलम्भशून्यताध्यात्मशून्यतया शून्या, अभावशून्यताध्यात्मशून्यतया शून्या, स्वभावशून्यता स्वभावशून्यतया शून्या, अभावस्वभावशून्यताध्यात्मशून्यतया शून्या.
SK
स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि, ऋद्धिपादा ऋद्धिपादैः शून्याः, इन्द्रियाणीन्द्रियैः शून्यानि, बलानि बलैः शून्यानि, बोध्यङ्गानि बोध्यङ्गैः शून्यानि, आर्याष्टाङ्गो मार्ग आर्याष्टाङ्गेन मार्गेन शून्यः, आर्यसत्यान्य् आर्यसत्यैः शून्यानि, ध्यानानि ध्यानैः शून्यानि, अप्रमाणान्य् अप्रमाणैः शून्यानि, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः, विमोक्षा विमोक्षैः शून्याः, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्याः, समाधयः समाधिभिः शून्यः, धारणीमुखानि धारणीमुखैः शून्यानि, दशतथागतबलानि दशतथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्याः, महामैत्री महामैत्र्या शून्या, महाकरुणा महाकरुणया शून्या, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः, सर्वज्ञता सर्वज्ञतया शून्या, मार्गाकारज्ञता मार्गाकारज्ञतया (Śस्P_II-३_७८) शून्या, सर्वाकारज्ञता सर्वाकारज्ञतया शून्या.
SK
न हि कौशिक रूपशून्यता रूपशून्यतां समनुपश्यति, न वेदनाशून्यता वेदनाशून्यतां समनुपश्यति, न संज्ञाशून्यता संज्ञाशून्यतां समनुपश्यति, न संस्कारशून्यता संस्कारशून्यतां समनुपश्यति, न विज्ञानशून्यता विज्ञानशून्यतां समनुपश्यति.
SK
न चक्षुःशून्यता चक्षुःशून्यतां समनुपश्यति, न श्रोत्रशून्यता श्रोत्रशून्यतां समनुपश्यति, न घ्राणशून्यता घ्राणशून्यतां समनुपश्यति, न जिह्वाशून्यता जिह्वाशून्यतां समनुपश्यति, न कायशून्यता कायशून्यतां समनुपश्यति, न मनःशून्यता मनःशून्यतां समनुपश्यति.
SK
न रूपशून्यता रूपशून्यतां समनुपश्यति, न शब्दशून्यता शब्दशून्यतां समनुपश्यति, न गन्धशून्यता गन्धशून्यतां समनुपश्यति, न रसशून्यता रसशून्यतां समनुपश्यति, न स्पर्शशून्यता स्पर्शशून्यतां समनुपश्यति, न धर्मशून्यता धर्मशून्यतां समनुपश्यति.
SK
न चक्षुर्विज्ञानशून्यता चक्षुर्विज्ञानशून्यतां समनुपश्यति, न श्रोत्रविज्ञानशून्यता श्रोत्रविज्ञानशून्यतां समनुपश्यति, न घ्राणविज्ञानशून्यता घ्राणविज्ञानशून्यतां समनुपश्यति, न जिह्वाविज्ञानशून्यता जिह्वाविज्ञानशून्यतां समनुपश्यति, न कायविज्ञानशून्यता कायविज्ञानशून्यतां समनुपश्यति, न मनोविज्ञानशून्यता मनोविज्ञानशून्यतां समनुपश्यति.
SK
न चक्षुःसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न श्रोत्रसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न घ्राणसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न जिह्वासंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न कायसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न मनःसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति,
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यता चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यता श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न घ्राणसंस्पर्शप्रत्ययवेदनाशून्यता घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न जिह्वासंस्पर्शप्रत्ययवेदनाशून्यता जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न कायसंस्पर्शप्रत्ययवेदनाशून्यता कायसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न (Śस्P_II-३_७९) मनःसंस्पर्शप्रत्ययवेदनाशून्यता मनःसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति,
SK
न पृथिवीधातुशून्यता पृथिवीधातुशून्यतां समनुपश्यति, नाब्धातुशून्यताब्धातुशून्यतां समनुपश्यति, न तेजोधातुशून्यता तेजोधातुशून्यतां समनुपश्यति, न वायुधातुशून्यता वायुधातुशून्यतां समनुपश्यति, नाकाशधातुशून्यताकाशधातुशून्यतां समनुपश्यति, न विज्ञानधातुशून्यता विज्ञानधातुशून्यतां समनुपश्यति.
SK
नाविद्याशून्यताविद्याशून्यतां समनुपश्यति, न संस्कारशून्यता संस्कारशून्यतां समनुपश्यति, न विज्ञानशून्यता विज्ञानशून्यतां समनुपश्यति, न नामरूपशून्यता नामरूपशून्यतां समनुपश्यति, न षडायतनशून्यत षडायतनशून्यतां समनुपश्यति, न स्पर्शशून्यता स्पर्शशून्यतां समनुपश्यति, न वेदनाशून्यता वेदनाशून्यतां समनुपश्यति, न तृष्णाशून्यता तृष्णाशून्यतां समनुपश्यति, नोपादानशून्यता उपादानशून्यतां समनुपश्यति, न भवशून्यता भवशून्यतां समनुपश्यति, न जातिसून्यता जातिशून्यतां समनुपश्यति, न जरामरणशून्यता जरामरणशून्यतां समनुपश्यति.
SK
न दानपारमिताशून्यता दानपारमिताशून्यतां समनुपश्यति, न शीलपारमिताशून्यता शीलपारमिताशून्यतां समनुपश्यति, न क्षान्तिपारमिताशून्यता क्षान्तिपारमिताशून्यतां समनुपश्यति, न वीर्यपारमिताशून्यता वीर्यपारमिताशून्यतां समनुपश्यति, न ध्यानपारमिताशून्यता ध्यानपारमिताशून्यतां समनुपश्यति, न प्रज्ञापारमिताशून्यता प्रज्ञापारमिताशून्यतां समनुपश्यति.
SK
नाध्यात्मशून्यताशून्यताध्यात्मशून्यताशून्यतां समनुपश्यति, न बहिर्धाशून्यताशून्यता बहिर्धाशून्यताशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यताशून्यताध्यात्मबहिर्धाशून्यताशून्यतां समनुपश्यति, न शून्यताशून्यताशून्यता शून्यताशून्यताशून्यतां समनुपश्यति, न महाशून्यताशून्यता महाशून्यताशून्यतां समनुपश्यति, न परमार्थशून्यताशून्यता परमार्थशून्यताशून्यतां समनुपश्यति, न संस्कृतशून्यताशून्यता संस्कृतशून्यताशून्यतां समनुपश्यति, नासंस्कृतशून्यताशून्यतासंस्कृतशून्यताशून्यतां समनुपश्यति, नात्यन्तशून्यताशून्यतात्यन्तशून्यताशून्यतां समनुपश्यति, नानवराग्रशून्यताशून्यतानवराग्रशून्यताशून्यतां समनुपश्यति, नानवकारशून्यताशून्यतानवकारशून्यताशून्यतां समनुपश्यति, न प्रकृतिशून्यताशून्यता प्रकृतिशून्यताशून्यतां समनुपश्यति, न सर्वधर्मशून्यताशून्यता (Śस्P_II-३_८०) सर्वधर्मशून्यताशून्यतां समनुपश्यति, न स्वलक्षणशून्यताशून्यता स्वलक्षणशून्यताशून्यतां समनुपश्यति, नानुपलम्भशून्यताशून्यतानुपलम्भशून्यताशून्यतां समनुपश्यति, नाभावशून्यताशून्यताभावशून्यताशून्यतां समनुपश्यति, न स्वभावशून्यताशून्यता स्वभावशून्यताशून्यतां समनुपश्यति, नाभावस्वभावशून्यताशून्यताभावस्वभावशून्यताशून्यतां समनुपश्यति.
SK
न स्मृत्युपस्थानशून्यता स्मृत्युपस्थानशून्यतां समनुपश्यति, न सम्यक्प्रहाणशून्यता सम्यक्प्रहाणशून्यतां समनुपश्यति, न ऋद्धिपादशून्यता ऋद्धिपादशून्यतां समनुपश्यति, नेन्द्रियशून्यता इन्द्रियशून्यतां समनुपश्यति, न बलशून्यता बलशून्यतां समनुपश्यति, न बोध्यङ्गशून्यता बोध्यङ्गशून्यतां समनुपश्यति, न मार्गशून्यता मार्गशून्यतां समनुपश्यति, नार्यसत्यसून्यतार्यसत्यशून्यतां समनुपश्यति, न ध्यानशून्यता ध्यानशून्यतां समनुपश्यति, नाप्रमाणशून्यताप्रमाणशून्यतां समनुपश्यति, नारूप्यसमापत्तिशून्यतारूप्यसमापत्तिशून्यतां समनुपश्यति, न विमोक्षशून्यता विमोक्षशून्यतां समनुपश्यति, नानुपूर्वविहारसमापत्तिशून्यतानुपूर्वविहारसमापत्तिशून्यतां समनुपश्यति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतां समनुपश्यति, नाभिज्ञाशून्यताभिज्ञाशून्यतां समनुपश्यति, न समाधिशून्यता समाधिशून्यतां समनुपश्यति, न धारणीमुखशून्यता धारणीमुखशून्यतां समनुपश्यति, न दशतथागतबलशून्यता दशतथागतबलशून्यतां समनुपश्यति, न वैशारद्यशून्यता वैशारद्यशून्यतां समनुपश्यति, न प्रतिसंविच्छून्यता प्रतिसंविच्छून्यतां समनुपश्यति, न महामैत्रीशून्यता महामैत्रीशून्यतां समनुपश्यति, न महाकरुणाशून्यता महाकरुणाशून्यतां समनुपश्यति, नावेणिकबुद्धधर्मशून्यतावेणिकबुद्धधर्मशून्यतां समनुपश्यति, न सर्वधर्मशून्यता सर्वधर्मशून्यतां समनुपश्यति, न सर्वज्ञताशून्यता सर्वज्ञताशून्यतां समनुपश्यति, न मार्गाकारज्ञताशून्यता मार्गाकारज्ञताशून्यतां समनुपश्यति, न सर्वाकारज्ञताशून्यता सर्वाकारज्ञताशून्यतां समनुपश्यति.
SK
यः कौशिक इह शून्यतायां न शिक्षते स शून्यतायां शिक्षते ऽद्वैधीकारेण, स रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स वेदनाशून्यतायां (Śस्P_II-३_८१) शिक्षते ऽद्वैधीकारेण, स संज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स चक्षुःशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वाशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स शब्दशून्यतायां शिक्षते ऽद्वैधीकारेण, स गन्धशून्यतायां शिक्षते ऽद्वैधीकारेण, स रसशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स धर्मशून्यतायां शिक्षते ऽद्वैधीकारेण,
SK
स चक्षुर्विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वाविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनोविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स चक्षुःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वासंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स पृथिवीधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽब्धातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स तेजोधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स वायुधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स आकाशधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानधातुशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
सो ऽविद्याशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स नामरूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स षडायतनशून्यतायां (Śस्P_II-३_८२) शिक्षते ऽद्वैधीकारेण, स स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स वेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स तृष्णाशून्यतायां शिक्षते ऽद्वैधीकारेण, स उपादानशून्यतायां शिक्षते ऽद्वैधीकारेण, स भवशून्यतायां शिक्षते ऽद्वैधीकारेण, स जातिशून्यतायां शिक्षते ऽद्वैधीकारेण, स जरामरणशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स दानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स शीलपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स क्षान्तिपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स वीर्यपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स ध्यानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रज्ञापारमिताशून्यतायां शिक्षते ऽद्वैधीकरेण.
SK
सो ऽध्यात्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स बहिर्धाशून्यताशून्यतायं शिक्षते ऽद्वैधीकारेण, सो ऽध्यात्मबहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यताशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स परमार्थशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽसंस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽत्यन्तशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवराग्रशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवकारशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रकृतिशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वधर्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वलक्षणशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपलम्भशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावस्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स स्मृत्युपस्थानशून्यतायां शिक्षते ऽद्वैधीकारेण, स सम्यक्प्रहाणशून्यतायां शिक्षते ऽद्वैधीकारेण, स ऋद्धिपादशून्यतायां शिक्षते ऽद्वैधीकारेण, स इन्द्रियशून्यतायां शिक्षते ऽद्वैधीकारेण, स बलशून्यतायां शिक्षते ऽद्वैधीकारेण, स बोध्यङ्गशून्यतायां शिक्षते ऽद्वैधीकारेण, स आर्याष्टाङ्गमार्गशून्यतायां शिक्षते ऽद्वैधीकारेण, स आर्यसत्यशून्यतायां शिक्षते ऽद्वैधीकारेण, स ध्यानशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽप्रमाणशून्यतायां शिक्षते ऽद्वैधीकारेण, स आरूप्यसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, स विमोक्षशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपूर्वविहारसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, (Śस्P_II-३_८३) सो ऽभिज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, स समाधिशून्यतायां शिक्षते ऽद्वैधीकारेण, स धारणीमुखशून्यतायां शिक्षते द्वैधीकारेण, स तथागतबलशून्यतायां शिक्षते ऽद्वैधीकारेण, स वैशारद्यशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रतिसंविच्छून्यतायां शिक्षते ऽद्वैधीकारेण, स महामैत्रीशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाकरुणाशून्यतायां शिक्षते ऽद्वैधीकारेण, स आवेणिकबुद्धधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, स मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यः कौशिक रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वेदनाशून्यतायं शिक्षते ऽद्वैधीकारेण, यः संज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यश् चक्षुःशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यो रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शब्दशून्यतायां शिक्षते ऽद्वैधीकारेण, यो गन्धशून्यतायां शिक्षते ऽद्वैधीकारेण, यो रसशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो धर्मशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यश् चक्षुर्विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वाविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनोविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यश् चक्षुःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वासंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यश् चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो (Śस्P_II-३_८४) घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यः पृथिवीधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽब्धातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यस् तेजोधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वायुधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, य आकाशधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानधातुशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यो ऽविद्याशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो नामरूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यः षडायतनशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यस् तृष्णाशून्यतायां शिक्षते ऽद्वैधीकारेण, य उपादानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो भवशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जातिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जरामरणशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यो दानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शीलपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः क्षान्तिपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वीर्यपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ध्यानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रज्ञापारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यो ऽध्यात्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽध्यात्मबहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यताशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः परमार्थशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽसंस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽत्यन्तशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवराग्रशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवकारशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रकृतिशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वधर्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वलक्षणशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपलम्भशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावशून्यताशून्यतायां (Śस्P_II-३_८५) शिक्षते ऽद्वैधीकारेण, यः स्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावस्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यः स्मृत्युपस्थानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सम्यक्प्रहाणशून्यतायां शिक्षते ऽद्वैधीकारेण, य ऋद्धिपादशून्यतायां शिक्षते ऽद्वैधीकारेण, य इन्द्रियशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बलशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बोध्यङ्गशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मार्गशून्यतायां शिक्षते ऽद्वैधीकारेण, य आर्यसत्यशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ध्यानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽप्रमाणशून्यतायां शिक्षते ऽद्वैधीकारेण, य आरूप्यसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽष्टौ विमोक्षशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपूर्वविहारसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभिज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः समाधिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो धारणीमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, यो दशतथागतबलशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वैशारद्यशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रतिसंविच्छून्यतायां शिक्षते ऽद्वैधीकारेण, यो महामैत्रीशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाकरुणाशून्यतायां शिक्षते ऽद्वैधीकारेण, य आवेणिकबुद्धधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स दानपारमितायां शिक्षते ऽद्वैधीकारेण, स शीलपारमितायां शिक्षते ऽद्वैधीकारेण, स क्षान्तिपारमितायां शिक्षते ऽद्वैधीकारेण, स वीर्यपारमितायां शिक्षते ऽद्वैधीकारेण, स ध्यानपारमितायां शिक्षते ऽद्वैधीकारेण, स प्रज्ञापारमितायां शिक्षते ऽद्वैधीकारेण.
SK
सो ऽध्यात्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स बहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽध्यात्मबहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाशून्यतायां शिक्षते ऽद्वैधीकारेण, स परमार्थशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽसंस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽत्यन्तशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवराग्रशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवकारशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रकृतिशून्यतायां शिक्षते ऽद्वैधीकारेण, स (Śस्P_II-३_८६) सर्वधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वलक्षणशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपलम्भशून्यतायां शिक्षते ऽद्वैधीकरेण, सो ऽभावशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावस्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
स स्मृत्युपस्थान्नेषु शिक्षते ऽद्वैधीकारेण, स सम्यक्प्रहाणेषु शिक्षते ऽद्वैधीकारेण, स ऋद्धिपादेषु शिक्षते ऽद्वैधीकारेण, स इन्द्रियेषु शिक्षते ऽद्वैधीकारेण, स बलेषु शिक्षते ऽद्वैधीकारेण, स बोध्यङ्गेषु शिक्षते ऽद्वैधीकारेण, स आर्याष्टाङ्गमार्गे शिक्षते ऽद्वैधीकारेण, स आर्यसत्येषु शिक्षते ऽद्वैधीकारेण, स ध्यानेषु शिक्षते ऽद्वैधीकारेण, सो ऽप्रमाणेषु शिक्षते ऽद्वैधीकारेण, स आरूप्यसमापत्तिषु शिक्षते ऽद्वैधीकारेण, सो ऽष्टासु विमोक्षेषु शिक्षते ऽद्वैधीकारेण, सो ऽनुपूर्वविहारसमापत्तिषु शिक्षते ऽद्वैधीकारेण, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते ऽद्वैधीकारेण, सो ऽभिज्ञासु शिक्षते ऽद्वैधीकारेण, स समाधिषु शिक्षते ऽद्वैधीकारेण, स धारणीमुखेषु शिक्षते ऽद्वैधीकारेण, स तथागतबलेषु शिक्षते ऽद्वैधीकारेण, स वैशारद्येषु शिक्षते ऽद्वैधीकारेण, स प्रतिसंवित्सु शिक्षते ऽद्वैधीकारेण, स महामैत्र्यां शिक्षते ऽद्वैधीकारेण, स महाकरुणायां शिक्षते ऽद्वैधीकारेण, सो ऽष्टादशावेणिकबुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, स स्रोतआपत्तिफलेषु शिक्षते ऽद्वैधीकारेण, स सकृदागामिफलेषु शिक्षते ऽद्वैधीकारेण, सो ऽनागामिफलेषु शिक्षते ऽद्वैधीकारेण, सो ऽर्हत्त्वे शिक्षते ऽद्वैधीकारेण, स प्रत्येकबोधौ शिक्षते ऽद्वैधीकारेण, स बुद्धत्वे शिक्षते ऽद्वैधीकारेण, स सर्वज्ञतायां शिक्षते ऽद्वैधीकारेण, स मार्गाकारज्ञतायां शिक्षते ऽद्वैधीकारेण, स सर्वाकारज्ञतायां शिक्षते ऽद्वैधीकारेण.
SK
यो दानपारमितायां शिक्षते ऽद्वैधीकारेण, यो दानपारमितायां शिक्षते ऽद्वैधीकारेण, यः शीलपारमितायां शिक्षते ऽद्वैधीकारेण, यः क्षान्तिपारमितायां शिक्षते ऽद्वैधीकारेण, यो वीर्यपारमितायां शिक्षते ऽद्वैधीकारेण, यो ध्यानपारमितायां शिक्षते ऽद्वैधीकारेण, यः प्रज्ञापारमितायां शिक्षते ऽद्वैधीकारेण.
SK
यो ऽध्यात्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽध्यात्मबहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः परमार्थशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽसंस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽत्यन्तशून्यतायां शिक्षते (Śस्P_II-३_८७) ऽद्वैधीकारेण, यो ऽनवराग्रशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवकारशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रकृतिशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वलक्षणशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपलम्भशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावस्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यः स्मृत्युपस्थानेषु शिक्षते ऽद्वैधीकारेण, यः सम्यक्प्रहाणेषु शिक्षते ऽद्वैधीकारेण, य ऋद्धिपादेषु शिक्षते ऽद्वैधीकारेण, य इन्द्रियेषु शिक्षते ऽद्वैधीकारेण, यो बलेषु शिक्षते ऽद्वैधीकारेण, यो बोध्यङ्गेषु शिक्षते ऽद्वैधीकारेण, य आर्याष्टङ्गे मार्गे शिक्षते ऽद्वैधीकारेण, य आर्यसत्येषु शिक्षते ऽद्वैधीकारेण, यो ध्यानेषु शिक्षते ऽद्वैधीकारेण, यो ऽप्रमाणेषु शिक्षते ऽद्वैधीकारेण, य आरूप्यसमापत्तिषु शिक्षते ऽद्वैधीकारेण, यो ऽष्टासु विमोक्षेषु शिक्षते ऽद्वैधीकारेण, यो ऽनुपूर्वविहारसमापत्तिषु शिक्षते ऽद्वैधीकारेण, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते ऽद्वैधीकारेण, यो ऽभिज्ञासु शिक्षते ऽद्वैधीकारेण, यः समाधिषु शिक्षते ऽद्वैधीकारेण, यो धारणीमुखेषु शिक्षते ऽद्वैधीकारेण, यस् तथागतबलेषु शिक्षते ऽद्वैधीकारेण, यो वैशारद्येषु शिक्षते ऽद्वैधीकारेण, यः प्रतिसंवित्सु शिक्षते ऽद्वैधीकारेण, यो महामैत्र्यां शिक्षते ऽद्वैधीकारेण, यो महाकरुणायां शिक्षते ऽद्वैधीकारेण, यो ऽष्टादशावेणिकबुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, यः स्रोतआपत्तिफले शिक्षते ऽद्वैधीकारेण, यः सकृदागामिफले शिक्षते ऽद्वैधीकारेण, यो ऽनागामिफले शिक्षते ऽद्वैधीकारेण, यो ऽर्हत्त्वे शिक्षते ऽद्वैधीकारेण, यः प्रत्येकबोधौ शिक्षते ऽद्वैधीकारेण, यः सर्वज्ञत्वे शिक्षते ऽद्वैधीकारेण, यो मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण.
SK
यो ऽसंख्येयाप्रमेयेषु बुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, स न रूपस्य वृद्धये न हानये शिक्षते, न वेदनाया वृद्धये न हानये शिक्षते, न संज्ञाया वृद्धये न हानये शिक्षते, न संस्काराणां वृद्धये न हानये शिक्षते, न विज्ञानस्य वृद्धये न हानये शिक्षते.
SK
न चक्षुषो वृद्धये न हानये शिक्षते, न श्रोत्रस्य वृद्धये न हानये शिक्षते, न घ्राणस्य वृद्धये न हानये शिक्षते, न जिह्वायां वृद्धये न हानये शिक्षते, न कायस्य वृद्धये न हानये शिक्षते, न (Śस्P_II-३_८८) मनसो वृद्धये न हानये शिक्षते.
SK
न रूपस्य वृद्धये न हानये शिक्षते, न शब्दस्य वृद्धये न हानये शिक्षते, न गन्धस्य वृद्धये न हानये शिक्षते, न रसस्य वृद्धये न हानये शिक्षते, न स्पर्शस्य वृद्धये न हानये शिक्षते, न धर्माणां वृद्धये न हानये शिक्षते.
SK
न चक्षुर्विज्ञानस्य वृद्धये न हानये शिक्षते, न श्रोत्रविज्ञानस्य वृद्धये न हानये शिक्षते, न घ्राणविज्ञानस्य वृद्धये न हानये शिक्षते, न जिह्वाविज्ञानस्य वृद्धये न हानये शिक्षते, न कायविज्ञानस्य वृद्धये न हानये शिक्षते, न मनोविज्ञानस्य वृद्धये न हानये शिक्षते.
SK
न चक्षुःसंस्पर्शस्य वृद्धये न हानये शिक्षते, न श्रोत्रसंस्पर्शस्य वृद्धये न हानये शिक्षते, न घ्राणसंस्पर्शस्य वृद्धये न हानये शिक्षते, न जिह्वासंस्पर्शस्य वृद्धये न हानये शिक्षते, न कायसंस्पर्शस्य वृद्धये न हानये शिक्षते, न मनःसंस्पर्शस्य वृद्धये न हानये शिक्षते,
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न घ्राणसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न जिह्वासंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न कायसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न मनःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते.
SK
न पृथिवीधातोर् वृद्धये न हानये शिक्षते, न अब्धातोर् वृद्धये न हानये शिक्षते, न तेजोधातोर् वृद्धये न हानये शिक्षते, न वायुधातोर् वृद्धये न हानये शिक्षते, न आकाशधातोर् वृद्धये न हानये शिक्षते, न विज्ञानधातोर् वृद्धये न हानये शिक्षते.
SK
नाविद्याया वृद्धये न हानये शिक्षते, न संस्काराणां वृद्धये न हानये शिक्षते, न विज्ञानस्य वृद्धये न हानये शिक्षते, न नामरूपस्य वृद्धये न हानये शिक्षते, न षडायतनस्य वृद्धये न हानये शिक्षते, न स्पर्शस्य वृद्धये न हानये शिक्षते, न वेदनाया वृद्धये न हानये शिक्षते, न तृष्णाया वृद्धये न हानये शिक्षते, नोपादानस्य वृद्धये न हानये शिक्षते, न भवस्य वृद्धये न हानये शिक्षते, न जातेर् वृद्धये न हानये शिक्षते, न जरामरणस्य वृद्धये न हानये शिक्षते.
SK
न दानपारमिताया वृद्धये न हानये शिक्षते, न शीलपारमिताया (Śस्P_II-३_८९) वृद्धये न हानये शिक्षते, न क्षान्तिपारमिताया वृद्धये न हानये शिक्षते, न वीर्यपारमिताया वृद्धये न हानये शिक्षते, न ध्यानपारमिताया वृद्धये न हानये शिक्षते, न प्रज्ञापारमिताया वृद्धये न हानये शिक्षते.
SK
नाध्यात्मशून्यताया वृद्धये न हानये शिक्षते, न बहिर्धाशून्यताया वृद्धये न हानये शिक्षते, नाध्यात्मबहिर्धाशून्यताया वृद्धये न हानये शिक्षते, न शून्यताशून्यताया वृद्धये न हानये शिक्षते, न महाशून्यताया वृद्धये न हानये शिक्षते, न परमार्थशून्यताया वृद्धये न हानये शिक्षते, न संस्कृतशून्यताया वृद्धये न हानये शिक्षते, नासंस्कृतशून्यताया वृद्धये न हानये शिक्षते, नात्यन्तशून्यताया वृद्धये न हानये शिक्षते, नानवराग्रशून्यताया वृद्धये न हानये शिक्षते, नानवकारशून्यताया वृद्धये न हानये शिक्षते, न प्रकृतिशून्यताया वृद्धये न हानये शिक्षते, न सर्वधर्मशून्यताया वृद्धये न हानये शिक्षते, न स्वलक्षणशून्यताया वृद्धये न हानये शिक्षते, नानुपलम्भशून्यताया वृद्धये न हानये शिक्षते, नाभावशून्यताया वृद्धये न हानये शिक्षते, न स्वभावशून्यताया वृद्धये न हानये शिक्षते, नाभावस्वभावशून्यताया वृद्धये न हानये शिक्षते.
SK
न स्मृत्युपस्थानानां वृद्धये न हानये शिक्षते, न सम्यक्प्रहाणानां वृद्धये न हानये शिक्षते, न ऋद्धिपादानां वृद्धये न हानये शिक्षते, न इन्द्रियाणां वृद्धये न हानये शिक्षते, न बलानां वृद्धये न हानये शिक्षते, न बोध्यङ्गानां वृद्धये न हानये शिक्षते, न आर्याष्टाङ्गस्य मार्गस्य वृद्धये न हानये शिक्षते, न आर्यसत्यानां वृद्धये न हानये शिक्षते, न ध्यानानां वृद्धये न हानये शिक्षते, नाप्रमाणानां वृद्धये न हानये शिक्षते, न आरूप्यसमापत्तीनां वृद्धये न हानये शिक्षते, नाष्टानां विमोक्षाणां वृद्धये न हानये शिक्षते, नानुपूर्वविहारसमापत्तीनां वृद्धये न हानये शिक्षते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वृद्धये न हानये शिक्षते, नाभिज्ञानां वृद्धये न हानये शिक्षते, न समाधीनां वृद्धये न हानये शिक्षते, न धारणीमुखानां वृद्धये न हानये शिक्षते, न तथागतबलानां वृद्धये न हानये शिक्षते, न वैशारद्यानां वृद्धये न हानये शिक्षते, न प्रतिसंविदां वृद्धये न हानये शिक्षते, न महामैत्र्या वृद्धये न हानये शिक्षते, न महाकरुणाया वृद्धये न हानये शिक्षते, नावेणिकबुद्धधर्माणां वृद्धये न हानये शिक्षते, न स्रोतआपत्तिफलस्य वृद्धये न हानये शिक्षते, न सकृदागामिफलस्य (Śस्P_II-३_९०) वृद्धये न हानये शिक्षते, नानागामिफलस्य वृद्धये न हानये शिक्षते, नार्हत्त्वस्य वृद्धये न हानये शिक्षते, न प्रत्येकबोधेर् वृद्धये न हानये शिक्षते, न मार्गाकरज्ञताया वृद्धये न हानये शिक्षते, न सर्वाकारज्ञताया वृद्धये न हानये शिक्षते.
SK
यो न रूपस्य वृद्धये न हानये शिक्षते, यो न वेदनाया वृद्धये न हानये शिक्षते, यो न संज्ञाया वृद्धये न हानये शिक्षते, यो न संस्काराणां वृद्धये न हानये शिक्षते, यो न विज्ञानस्य वृद्धये न हानये शिक्षते.
SK
यो न चक्षुषो वृद्धये न हानये शिक्षते, यो न श्रोत्रस्य वृद्धये न हानये शिक्षते, यो न घ्राणस्य वृद्धये न हानये शिक्षते, यो न जिह्वाया वृद्धये न हानये शिक्षते, यो न कायस्य वृद्धये न हानये शिक्षते, यो न मनसो वृद्धये न हानये शिक्षते.
SK
यो न रूपस्य वृद्धये न हानये शिक्षते, यो न शब्दस्य वृद्धये न हानये शिक्षते, यो न गन्धस्य वृद्धये न हानये शिक्षते, यो न रसस्य वृद्धये न हानये शिक्षते, यो न स्पर्शस्य वृद्धये न हानये शिक्षते, यो न धर्माणां वृद्धये न हानये शिक्षते.
SK
यो न चक्षुर्विज्ञानस्य वृद्धये न हानये शिक्षते, यो न श्रोत्रविज्ञानस्य वृद्धये न हानये शिक्षते, यो न घ्राणविज्ञानस्य वृद्धये न हानये शिक्षते, यो न जिह्वाविज्ञानस्य वृद्धये न हानये शिक्षते, यो न कायविज्ञानस्य वृद्धये न हानये शिक्षते, यो न मनोविज्ञानस्य वृद्धये न हानये शिक्षते.
SK
यो न चक्षुःसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न श्रोत्रसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न घ्राणसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न जिह्वासंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न कायसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न मनःसंस्पर्शस्य वृद्धये न हानये शिक्षते,
SK
यो न चक्षुःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न श्रोत्रसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न घ्राणसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न जिह्वासंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न कायसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न मनःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते.
SK
यो न पृथिवीधातोर् वृद्धये न हानये शिक्षते, यो न अब्धातोर् (Śस्P_II-३_९१) वृद्धये न हानये शिक्षते, यो न तेजोधातोर् वृद्धये न हानये शिक्षते, यो न वायुधातोर् वृद्धये न हानये शिक्षते, यो नाकाशधातोर् वृद्धये न हानये शिक्षते, यो न विज्ञानधातोर् वृद्धये न हानये शिक्षते.
SK
यो नाविद्याया वृद्धये न हानये शिक्षते, यो न संस्काराणां वृद्धये न हानये शिक्षते, यो न विज्ञानस्य वृद्धये न हानये शिक्षते, यो न नामरूपस्य वृद्धये न हानये शिक्षते, यो न षडायतनस्य वृद्धये न हानये शिक्षते, यो न स्पर्शस्य वृद्धये न हानये शिक्षते, यो न वेदनाया वृद्धये न हानये शिक्षते, यो न तृष्णाया वृद्धये न हानये शिक्षते, यो नोपादानस्य वृद्धये न हानये शिक्षते, यो न भवस्य वृद्धये न हानये शिक्षते, यो न जातेर् वृद्धये न हानये शिक्षते, यो न जरामरणस्य वृद्धये न हानये शिक्षते.
SK
यो न दानपारमिताया वृद्धये न हानये शिक्षते, यो न शीलपारमिताया वृद्धये न हानये शिक्षते, यो न क्षान्तिपारमिताया वृद्धये न हानये शिक्षते, यो न वीर्यपारमिताया वृद्धये न हानये शिक्षते, यो न ध्यानपारमिताया वृद्धये न हानये शिक्षते, यो न प्रज्ञापारमिताया वृद्धये न हानये शिक्षते.
SK
यो नाध्यात्मशून्यताया वृद्धये न हानये शिक्षते, यो न बहिर्धाशून्यताया वृद्धये न हानये शिक्षते, यो नाध्यात्मबहिर्धाशून्यताया वृद्धये न हानये शिक्षते, यो न शून्यताशून्यताया वृद्धये न हानये शिक्षते, यो न महाशून्यताया वृद्धये न हानये शिक्षते, यो न परमार्थशून्यताया वृद्धये न हानये शिक्षते, यो न संस्कृतशून्यताया वृद्धये न हानये शिक्षते, यो नासंस्कृतशून्यताया वृद्धये न हानये शिक्षते, यो नात्यन्तशून्यताया वृद्धये न हानये शिक्षते, यो नानवराग्रशून्यताया वृद्धये न हानये शिक्षते, यो नानवकारशून्यताया वृद्धये न हानये शिक्षते, यो न प्रकृतिशून्यताया वृद्धये न हानये शिक्षते, यो न सर्वधर्मशून्यताया वृद्धये न हानये शिक्षते, यो न स्वलक्षणशून्यताया वृद्धये न हानये शिक्षते, यो नानुपलम्भशून्यताया वृद्धये न हानये शिक्षते, यो नाभावशून्यताया वृद्धये न हानये शिक्षते, यो न स्वभावशून्यताया वृद्धये न हानये शिक्षते, यो नाभावस्वभावशून्यताया वृद्धये न हानये शिक्षते.
SK
यो न स्मृत्युपस्थानानां वृद्धये न हानये शिक्षते, यो न सम्यक्प्रहाणानां वृद्धये न हानये शिक्षते, यो न ऋद्धिपादानां वृद्धये न हानये शिक्षते, यो नेन्द्रियाणां वृद्धये न हानये शिक्षते, यो न बलानां वृद्धये न हानये शिक्षते, यो न बोध्यङ्गानां वृद्धये न हानये (Śस्P_II-३_९२) शिक्षते, यो न आर्याष्टाङ्गस्य मार्गस्य वृद्धये न हानये शिक्षते, यो नार्यसत्यानां वृद्धये न हानये शिक्षते, यो न ध्यानानां वृद्धये न हानये शिक्षते, यो नाप्रमाणानां वृद्धये न हानये शिक्षते, यो नारूप्यसमापत्तीनां वृद्धये न हानये शिक्षते, यो नाष्टानां विमोक्षाणां वृद्धये न हानये शिक्षते, यो नानुपूर्वविहारसमापत्तीनां वृद्धये न हानये शिक्षते, यो न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वृद्धये न हानये शिक्षते, यो नाभिज्ञानां वृद्धये न हानये शिक्षते, यो न समाधीनां वृद्धये न हानये शिक्षते, यो न धारणीमुखानां वृद्धये न हानये शिक्षते, यो न तथागतबलानां वृद्धये न हानये शिक्षते, यो न वैशारद्यानां वृद्धये न हानये शिक्षते, यो न प्रतिसंविदां वृद्धये न हानये शिक्षते, यो न महामैत्र्या वृद्धये न हानये शिक्षते, यो न महाकरुणाया वृद्धये न हानये शिक्षते, यो नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां वृद्धये न हानये शिक्षते, यो न स्रोतआपत्तिफलस्य वृद्धये न हानये शिक्षते, यो न सकृदागामिफलस्य वृद्धये न हानये शिक्षते, यो नानागामिफलस्य वृद्धये न हानये शिक्षते, यो नार्हत्त्वस्य वृद्धये न हानये शिक्षते, यो न प्रत्येकबोधेर् वृद्धये न हानये शिक्षते, यो न मार्गाकारज्ञताया वृद्धये न हानये शिक्षते, यो न सर्वाकारज्ञताया वृद्धये न हानये शिक्षते.
SK
स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वायां परिग्रहाय शिक्षते नान्तर्धानाय, स न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनसः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न (Śस्P_II-३_९३) श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धनाय, स न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न अब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न तेजोधातोः परिग्रहाय शिक्षते नन्तर्धानाय, स न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धानाय,स नोपादानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न भवस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, स न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न वीर्यपारमितायाः परिग्रहाय (Śस्P_II-३_९४) शिक्षते नान्तर्धानाय, स न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, स न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानुपलम्भशून्यतायः परिग्रहाय शिक्षते नान्तर्धानाय, स नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
स न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, स न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ऋद्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, स नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, स न बलानां परिग्रहाय शिक्षते नान्तर्धनाय, स न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, स न आर्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नार्यसत्यानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ध्यानानां परिग्रहाय शिक्षते नान्तर्धनाय, स नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धनाय, स नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धनाय, स नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धनाय, स नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धनाय, स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धनाय, स नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धनाय, स न समाधीनां परिग्रहाय शिक्षते नान्तर्धनाय, स न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धनाय, स न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, स न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धनाय, स न प्रतिसंविदां (Śस्P_II-३_९५) परिग्रहाय शिक्षते नान्तर्धानाय, स न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, स न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, स न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, स न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
अथ खल्व् आयुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनसः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शस्य (Śस्P_II-३_९६) परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, नाब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धानाय, न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धानाय, नोपादानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न भवस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न महाशून्यतायाः परिग्रहाय शिक्षते (Śस्P_II-३_९७) नान्तर्धानाय, न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धारिआय, न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्यसत्यान्नां परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानानां परिग्रहाय शिक्षते नान्तर्धाणाय, नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, न आरूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धानाय, न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते (Śस्P_II-३_९८) नान्तर्धानाय, न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
सुभूतिर् आह: एवं शिक्षमाण आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनसः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय सिक्षते नान्तर्धानाय.
SK
न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धनाय, नाब्धातोः परिग्रहाय शिक्षते नान्तर्धनाय, न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धनाय, न वायुधातोः परिग्रहाय शिक्षते नान्तर्धनाय, नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धनाय, न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धनाय.
SK
नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धनाय, न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धनाय, न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धनाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धनाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धनाय, नोपादानस्य परिग्रहाय शिक्षते नान्तर्धनाय, न भवस्य परिग्रहाय शिक्षते नान्तर्धनाय, न जातेः परिग्रहाय शिक्षते नान्तर्धनाय, न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय.
SK
नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते (Śस्P_II-३_१००) नान्तर्धानाय.
SK
न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्यसत्यांनां परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानानां परिग्रहाय शिक्षते नान्तर्धानाय, नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धानाय, न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
आह: किंकारणम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न संस्कारानं परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
किंकारणं न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वायाः (Śस्P_II-३_१०१) परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनसः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
किंकारणं न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय.
SK
किंकारणं न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
किंकारणं न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय.
SK
किंकारणं न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
किंकारणं न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाकाशधातोः परिग्रहाय (Śस्P_II-३_१०२) शिक्षते नान्तर्धानाय, किंकारणं न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धनाय.
SK
किंकारणं नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न संस्काराणां परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न वेदनायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नोपादानस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न भवस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धनाय.
SK
किंकारणं न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय.
SK
किंकारणं नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नानवराग्रशून्यतायः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते (Śस्P_II-३_१०३) नान्तर्धानाय, किंकारणं नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
किंकारणं न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्यसत्यानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न ध्यानानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धाणाय, किंकारणं न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं ननागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
SK
सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपस्य परिग्रहो नास्ति, न हि रूपं रूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वेदनायाः परिग्रहो नास्ति, न हि वेदना वेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संज्ञायाः परिग्रहो नास्ति, न हि संज्ञा संज्ञां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्काराणां परिग्रहो नास्ति, न हि संस्काराः संस्कारान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानस्य परिग्रहो नास्ति, न हि विज्ञानं विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा हि चक्षुषः परिग्रहो नास्ति, न हि चक्षुश् चक्षुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रस्य परिग्रहो नास्ति, न हि श्रोत्रं श्रोत्रं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणस्य परिग्रहो नास्ति, न हि घ्राणं घ्राणं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वायाः परिग्रहो नास्ति, न हि जिह्वा जिह्वां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायस्य परिग्रहो नास्ति, न हि कायः कायं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनसः परिग्रहो नास्ति, न हि मनो मनसं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा हि रूपस्य परिग्रहो नास्ति, न हि रूपं रूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शब्दस्य परिग्रहो नास्ति, न हि शब्दः शब्दं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि गन्धस्य परिग्रहो नास्ति, न हि गन्धः गन्धं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि रसस्य परिग्रहो नास्ति, न हि रसो रसं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्पर्शस्य परिग्रहो नास्ति, न हि स्पर्शः स्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि धर्माणां परिग्रहो नास्ति, न हि धर्म धर्मान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा हि चक्षुर्विज्ञानस्य परिग्रहो नास्ति, न हि चक्षुर्विज्ञानं चक्षुर्विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रविज्ञानस्य परिग्रहो नास्ति, न हि श्रोत्रविज्ञानं श्रोत्रविज्ञाननि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणविज्ञानस्य परिग्रहो नास्ति, न हि घ्राणविज्ञानं घ्राणविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् (Śस्P_II-३_१०५) उपादाय, तथा हि जिह्वाविज्ञानस्य परिग्रहो नास्ति, न हि जिह्वाविज्ञानं जिह्वाविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायविज्ञानस्य परिग्रहो नास्ति, न हि कायविज्ञानं कायविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनोविज्ञानस्य परिग्रहो नास्ति, न हि मनोविज्ञानं मनोविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा हि चक्षुःसंस्पर्शस्य परिग्रहो नास्ति, न हि चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रसंस्पर्शस्य परिग्रहो नास्ति, न हि श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणसंस्पर्शस्य परिग्रहो नास्ति, न हि घ्राणसंस्पर्शो घ्राणसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वासंस्पर्शस्य परिग्रहो नास्ति, न हि जिह्वासंस्पर्शो जिह्वासंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायसंस्पर्शस्य परिग्रहो नास्ति, न हि कायसंस्पर्शः कायसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनःसंस्पर्शस्य परिग्रहो नास्ति, न हि मनःसंस्पर्शो मनःसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा हि चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा हि पृथिवीधातोः परिग्रहो नास्ति, न हि पृथिवीधातुः पृथिवीधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अब्धातोः परिग्रहो नास्ति, न ह्य् अब्धातुर् अब्धातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तेजोधातोः परिग्रहो नास्ति, न हि तेजोधातुस् तेजोधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वायुधातोः परिग्रहो नास्ति, न हि वायुधातुर् वायुधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आकाशधातोः परिग्रहो नास्ति, न ह्य् आकाशधातुर् आकाशधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानधातोः परिग्रहो नास्ति, न हि विज्ञानधातुर् विज्ञानधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा ह्य् अविद्यायाः परिग्रहो नास्ति, न ह्य् अविद्याविद्यां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्काराणां परिग्रहो नास्ति, न हि संस्काराः संस्कारान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानस्य परिग्रहो नास्ति, न हि विज्ञानं विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि नामरूपस्य परिग्रहो नास्ति, न हि नामरूपं नामरूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि षडायतनस्य परिग्रहो नास्ति, न हि षडायतनं षडायतनं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्पर्शस्य परिग्रहो नास्ति, न हि स्पर्शः स्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वेदनायाः परिग्रहो नास्ति, न हि वेदना वेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तृष्णायाः परिग्रहो नास्ति, न हि तृष्णा तृष्णां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् उपादानस्य परिग्रहो नास्ति, न ह्य् उपादानम् उपादानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि भवस्य परिग्रहो नास्ति, न हि भवो भवं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जातेः परिग्रहो नास्ति, न हि जातिर् जातिं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जरामरणस्य परिग्रहो नास्ति, न हि जरामरणं जरामरणं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा हि दानपारमितायाः परिग्रहो नास्ति, न हि दानपारमिता दानपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शीलपारमितायाः परिग्रहो नास्ति, न हि शीलपारमिता शीलपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि क्षान्तिपारमितायाः परिग्रहो नास्ति, न हि क्षान्तिपारमिता क्षान्तिपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् (Śस्P_II-३_१०७) उपादाय, तथा हि वीर्यपारमितायाः परिग्रहो नास्ति, न हि वीर्यपारमिता वीर्य पारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि ध्यानपारमितायाः परिग्रहो नास्ति, न हि ध्यानपारमिता ध्यानपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रज्ञापारमितायाः परिग्रहो नास्ति, न हि प्रज्ञापारमिता प्रज्ञापारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा ह्य् अध्यात्मशून्यतायाः परिग्रहो नास्ति, न ह्य् अध्यात्मशून्यताध्यात्मशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बहिर्धाशून्यतायाः परिग्रहो नास्ति, न हि बहिर्धाशून्यता बहिर्धाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अध्यात्मबहिर्धाशून्यतायाः परिग्रहो नास्ति, न ह्य् अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शून्यताशून्यतायाः परिग्रहो नास्ति, न हि शून्यताशून्यता शून्यताशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महाशून्यतायाः परिग्रहो नास्ति, न हि महाशून्यता महाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि परमार्थशून्यतायाः परिग्रहो नास्ति, न हि परमार्थशून्यता परमार्थशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्कृतशून्यतायाः परिग्रहो नास्ति, न हि संस्कृतशून्यता संस्कृतशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् असंस्कृतशून्यतायाः परिग्रहो नास्ति, न ह्य् असंस्कृतशून्यतासंस्कृतशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अत्यन्तशून्यतायाः परिग्रहो नास्ति, न ह्य् अत्यन्तशून्यतात्यन्तशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनवराग्रशून्यतायाः परिग्रहो नास्ति, न ह्य् अनवराग्रशून्यतानवराग्रशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनवकारशून्यतायाः परिग्रहो नास्ति, न ह्य् अनवकारशून्यतानवकारशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रकृतिसून्यतायाः परिग्रहो नास्ति, न हि प्रकृतिशून्यत प्रकृतिशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वधर्मशून्यतायाः परिग्रहो नास्ति, न हि सर्वधर्मशून्यता सर्वधर्मशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्वलक्षणशून्यतायाः परिग्रहो नास्ति, न हि स्वलक्षणशून्यता स्वलक्षणशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनुपलम्भशून्यतायाः परिग्रहो (Śस्P_II-३_१०८) नास्ति, न ह्य् अनुपलम्भशून्यतानुपलम्भशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभावशून्यतायाः परिग्रहो नास्ति, न ह्य् अभावशून्यताभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्वभावशून्यतायाः परिग्रहो नास्ति, न हि स्वभावशून्यता स्वभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभावस्वभावशून्यतायाः परिग्रहो नास्ति, न ह्य् अभावस्वभावशून्यताभावस्वभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
तथा हि स्मृत्युपस्थानानां परिग्रहो नास्ति, न हि स्मृत्युपस्थानानि स्मृत्युपस्थानानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सम्यक्प्रहाणानां परिग्रहो नास्ति, न हि सम्यक्प्रहाणानि सम्यक्प्रहाणानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् ऋद्धिपादानां परिग्रहो नास्ति, न ह्य् ऋद्धिपादा ऋद्धिपादान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हीन्द्रियाणां परिग्रहो नास्ति, न हीन्द्रियाणीन्द्रियाणि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बलानां परिग्रहो नास्ति, न हि बलानि बलानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बोध्यङ्गानां परिग्रहो नास्ति, न हि बोध्यङ्गानि बोध्यङ्गानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आर्याष्टाङ्गस्य मार्गस्य परिग्रहो नास्ति, न हि मार्गो मार्गं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आर्यसत्यानां परिग्रहो नास्ति, न ह्य् आर्यसत्यान्य् आर्यसत्यानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि ध्यानानां परिग्रहो नास्ति, न हि ध्यानानि ध्यानानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अप्रमाणानां परिग्रहो नास्ति, न ह्य् अप्रमाणान्य् अप्रमाणानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आरूप्यसमापत्तीनां परिग्रहो नास्ति, न ह्य् आरूप्यसमापत्तय आरूप्यसमापत्तीः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विमोक्षाणां परिग्रहो नास्ति, न हि विमोक्षा विमोक्षां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनुपूर्वविहारसमापत्तीनां परिग्रहो नास्ति, न ह्य् अनुपूर्वविहारसमापत्तय अनुपूर्वविहारसमापत्तीः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहो नास्ति, न हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभिज्ञानां परिग्रहो नास्ति, न ह्य् (Śस्P_II-३_१०९) अभिज्ञा अभिज्ञाः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि समाधीनां परिग्रहो नास्ति, न हि समाधयः समाधीन् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि धारणीमुखानां परिग्रहो नास्ति, न हि धारणीमुखानि धारणीमुखानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तथागतबलानां परिग्रहो नास्ति, न हि तथागतबलानि तथागतबलानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वैशारद्यानां परिग्रहो नास्ति, न हि वैशारद्यानि वैशारद्यानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रतिसंविदां परिग्रहो नास्ति, न हि प्रतिसंविदः प्रतिसंविदः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महामैत्र्यां परिग्रहो नास्ति, न हि महामैत्री महामैत्रीं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महाकरुणायाः परिग्रहो नास्ति, न हि महाकरुणा महाकरुणां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आवेणिकबुद्धधर्माणां परिग्रहो नास्ति, न ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वज्ञतायाः परिग्रहो नास्ति, न हि सर्वज्ञता सर्वज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मार्गाकारज्ञतायाः परिग्रहो नास्ति, न हि मार्गाकारज्ञता मार्गाकरज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वाकारज्ञतायाः परिग्रहो नास्ति, न हि सर्वाकारज्ञता सर्वाकारज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
SK
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मपरिग्रहयोगेन सर्वाकारज्ञतायां निर्यास्यति.
SK
आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायां निर्यास्यति.
SK
सुभूतिर् आह: एवं शिक्षमाण आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायां निर्यास्यति, सर्वधर्मा परिग्रहयोगेन.
SK
आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां परिग्रहायान्तर्धानाय शिक्षित्वा कथं सर्वाकारज्ञतायां निर्यास्यति?
SK
सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् न रूपस्योत्पादं पश्यति, न निरोधं पश्यति (Śस्P_II-३_११०) नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रूपं रूपस्वभावे न संविद्यते नोपलभ्यते,
SK
न वेदनाया उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वेदना वेदनास्वभावे न संविद्यते नोपलभ्यते,
SK
न संज्ञाम् उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संज्ञा संज्ञास्वभावे न संविद्यते नोपलभ्यते,
SK
न संस्काराणाम् उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संस्काराः संस्कारस्वभावे न संविद्यते नोपलभ्यते,
SK
न विज्ञानस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विज्ञानं विज्ञानस्वभावे न संविद्यते नोपलभ्यते.
SK
न चक्षुष उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुश् चक्षुःस्वभावे न संविद्यते नोपलभ्यते,
SK
न श्रोत्रस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रं श्रोत्रस्वभावे न संविद्यते नोपलभ्यते,
SK
न घ्राणस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणं घ्राणस्वभावे न संविद्यते नोपलभ्यते,
SK
न जिह्वाया उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति (Śस्P_II-३_१११) नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वा जिह्वास्वभावे न संविद्यते नोपलभ्यते,
SK
न कायस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायः कायस्वभावे न संविद्यते नोपलभ्यते,
SK
न मनस उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनो मनःस्वभावे न संविद्यते नोपलभ्यते.
SK
न रूपस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रूपं रूपस्वभावे न संविद्यते नोपलभ्यते,
SK
न शब्दस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शब्दः शब्दस्वभावे न संविद्यते नोपलभ्यते,
SK
न गन्धस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि गन्धो गन्धस्वभावे न संविद्यते नोपलभ्यते,
SK
न रसस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रसो रसस्वभावे न संविद्यते नोपलभ्यते,
SK
न स्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्पर्शः स्पर्शस्वभावे न संविद्यते नोपलभ्यते,
SK
न धर्माणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं (Śस्P_II-३_११२) पश्यति. तत् कस्य हेतोः? तथा हि धर्मा धर्मस्वभावे न संविद्यते नोपलभ्यते.
SK
न चक्षुर्विज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुर्विज्ञानं चक्षुर्विज्ञानस्वभावे न संविद्यते नोपलभ्यते,
SK
न श्रोत्रविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रविज्ञानं श्रोत्रविज्ञानस्वभावे न संविद्यते नोपलभ्यते,
SK
न घ्राणविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणविज्ञानं घ्राणविज्ञानस्वभावे न संविद्यते नोपलभ्यते,
SK
न जिह्वाविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वाविज्ञानं जिह्वाविज्ञानस्वभावे न संविद्यते नोपलभ्यते,
SK
न कायविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायविज्ञानं कायविज्ञानस्वभावे न संविद्यते नोपलभ्यते,
SK
न मनोविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनोविज्ञानं मनोविज्ञानस्वभावे न संविद्यते नोपलभ्यते.
SK
न चक्षुःसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति (Śस्P_II-३_११३) नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते,
SK
न श्रोत्रसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते,
SK
न घ्राणसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शो घ्राणसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते,
SK
न जिह्वासंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शो जिह्वासंस्पर्शस्वभावे न संविद्यते नोपलभ्यते,
SK
न कायसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायसंस्पर्शः कायसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते,
SK
न मनःसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शो मनःसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते,
SK
न श्रोत्रसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते,
SK
न घ्राणसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते,
SK
न जिह्वासंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वसंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते,
SK
न कायसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते,
SK
न मनःसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते.
SK
न पृथिवीधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि पृथिवीधातुः पृथिवीधातुस्वभावे न (Śस्P_II-३_११५) संविद्यते नोपलभ्यते,
SK
नाब्धातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति, तत् कस्य हेतोः? तथा ह्य् अब्धातुर् अब्धातुस्वभावे न संविद्यते नोपलभ्यते,
SK
न तेजोधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि तेजोधातुः तेजोधातुस्वभावे न संविद्यते नोपलभ्यते,
SK
न वायुधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि पृथिवीधातुः पृथिवीधातुस्वभावे न संविद्यते नोपलभ्यते,
SK
नाकाशधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आकाशधातुर् आकाशधातुस्वभावे न संविद्यते नोपलभ्यते,
SK
न विज्ञानधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विज्ञानधातुर् विज्ञानधातुस्वभावे न संविद्यते नोपलभ्यते.
SK
नाविद्याया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अविद्याविद्यास्वभावे न संविद्यते नोपलभ्यते,
SK
न संस्काराणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संस्काराः संस्कारस्वभावे न संविद्यते (Śस्P_II-३_११६) नोपलभ्यते,
SK
न विज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विज्ञानं विज्ञानस्वभावे न संविद्यते नोपलभ्यते,
SK
न नामरूपस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि नामरूपं नामरूपस्वभावे न संविद्यते नोपलभ्यते,
SK
न षडायतनस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि षडायतनं षडायतनस्वभावे न संविद्यते नोपलभ्यते,
SK
न स्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्पर्शः स्पर्शस्वभावे न संविद्यते नोपलभ्यते,
SK
न वेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वेदना वेदनास्वभावे न संविद्यते नोपलभ्यते,
SK
न तृष्णाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि तृष्णा तृष्णास्वभावे न संविद्यते नोपलभ्यते,
SK
नोपादानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् उपादानम् उपादानस्वभावे न संविद्यते नोपलभ्यते,
SK
न भवस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति (Śस्P_II-३_११७) नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि भवो भवस्वभावे न संविद्यते नोपलभ्यते,
SK
न जातेर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जातिर् जातिस्वभावे न संविद्यते नोपलभ्यते,
SK
न जरामरणस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जरामरणं जरामरणस्वभावे न संविद्यते नोपलभ्यते.
SK
न दानपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि दानपारमिता दानपारमितास्वभावे न संविद्यते नोपलभ्यते,
SK
न शीलपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शीलपारमिता शीलपारमितास्वभावे न संविद्यते नोपलभ्यते,
SK
न क्षान्तिपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि क्षन्तिपारमिता क्षान्तिपारमितास्वभावे न संविद्यते नोपलभ्यते,
SK
न वीर्यपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वीर्यपारमिता वीर्यपारमितास्वभावे न संविद्यते नोपलभ्यते,
SK
न ध्यानपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति (Śस्P_II-३_११८) नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि ध्यानपारमिता ध्यानपारमितास्वभावे न संविद्यते नोपलभ्यते,
SK
न प्रज्ञापारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता प्रज्ञापारमितास्वभावे न संविद्यते नोपलभ्यते.
SK
नाध्यात्मशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यताध्यात्मशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न बहिर्धाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता बहिर्धाशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
नाध्यात्मबहिर्धाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न शून्यताशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शून्यताशून्यता शून्यताशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न महाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि महाशून्यता महाशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न परमार्थशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं (Śस्P_II-३_११९) पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि परमार्थशून्यता परमार्थशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न संस्कृतशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संस्कृतशून्यता संस्कृतशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
नासंस्कृतशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् असंस्कृतशून्यतासंस्कृतशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
नात्यन्तशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अत्यन्तशून्यतात्यन्तशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
नानवराग्रशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदांअं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनवराग्रशून्यतानवराग्रशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
नानवकारशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनवकारशून्यतानवकारशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न प्रकृतिसून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता प्रकृतिशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न सर्वधर्मशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वधर्मशून्यता सर्वधर्मशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न स्वलक्षणशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यता स्वलक्षणशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
नानुपलम्भशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनुपलम्भशून्यतानुपलम्भशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
नाभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अभावशून्यताभावशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
न स्वभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्वभावशून्यता स्वभावशून्यतास्वभावे न संविद्यते नोपलभ्यते,
SK
नाभावस्वभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यताभावस्वभावशून्यतास्वभावे न संविद्यते नोपलभ्यते.
SK
न स्मृत्युपस्थानानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्मृत्युपस्थानानि स्मृत्युपस्थानस्वभावे (Śस्P_II-३_१२१) न संविद्यते नोपलभ्यते,
SK
न सम्यक्प्रहाणानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सम्यक्प्रहाणानि सम्यक्प्रहाणस्वभावे न संविद्यते नोपलभ्यते,
SK
नर्द्धिपादानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् ऋद्धिपादा ऋद्धिपादस्वभावे न संविद्यते नोपलभ्यते,
SK
नेन्द्रियाणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् इन्द्रियानीन्द्रियस्वभावे न संविद्यते नोपलभ्यते,
SK
न बलानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बलानि बलस्वभावे न संविद्यते नोपलभ्यते,
SK
न बोध्यङ्गानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बोध्यङ्गानि बोध्यङ्गस्वभावे न संविद्यते नोपलभ्यते,
SK
न आर्याष्टाङ्गमार्गस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति पाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मार्गो मार्गस्वभावे न संविद्यते नोपलभ्यते,
SK
नार्यसत्यानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आर्यसत्यान्य् आर्यसत्यस्वभावे न संविद्यते नोपलभ्यते,
SK
न ध्यानानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि ध्यानानि ध्यानस्वभावे न संविद्यते नोपलभ्यते,
SK
नाप्रमाणानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अप्रमाणान्य् अप्रमाणस्वभावे न संविद्यते नोपलभ्यते,
SK
नारूप्यसमापत्तीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आरूप्यसमापत्तय आरूप्यसमापत्तिस्वभावे न संविद्यते नोपलभ्यते,
SK
नाष्टानां विमोक्षाणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विमोक्षा विमोक्षस्वभावे न संविद्यते नोपलभ्यते,
SK
नानुपूर्वविहारसमापत्तीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनुपूर्वविहारसमापत्तय अनुपूर्वविहारसमापत्तिस्वभावे न संविद्यते नोपलभ्यते,
SK
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखस्वभावे न संविद्यते नोपलभ्यते,
SK
नाभिज्ञानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् (Śस्P_II-३_१२३) कस्य हेतोः? तथा ह्य् अभिज्ञा अभिज्ञास्वभावे न संविद्यते नोपलभ्यते,
SK
न समाधीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि समाधयः समाधिस्वभावे न संविद्यते नोपलभ्यते,
SK
न धारणीमुखानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि धारणीमुखानि धारणीमुखस्वभावे न संविद्यते नोपलभ्यते,
SK
न तथागतबलानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि तथागतबलानि तथागतबलस्वभावे न संविद्यते नोपलभ्यते,
SK
न वैशारद्यानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वैशारद्यानि वैशारद्यस्वभावे न संविद्यते नोपलभ्यते,
SK
न प्रतिसंविदाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रतिसंविदः प्रतिसंवित्स्वभावे न संविद्यते नोपलभ्यते,
SK
न महामैत्र्या उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि महामैत्री महामैत्रीस्वभावे न संविद्यते नोपलभ्यते,
SK
न महाकरुणाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं (Śस्P_II-३_१२४) पश्यति. तत् कस्य हेतोः? तथा हि महाकरुणा महाकरुणास्वभावे न संविद्यते नोपलभ्यते,
SK
नावेणिकबुद्धधर्माणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मस्वभावे न संविद्यते नोपलभ्यते,
SK
न सर्वज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वज्ञता सर्वज्ञतास्वभावे न संविद्यते नोपलभ्यते,
SK
न मार्गाकारज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मार्गाकारज्ञता मार्गाकारज्ञतास्वभावे न संविद्यते नोपलभ्यते,
SK
न सर्वाकारज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञता सर्वाकारज्ञतास्वभावे न संविद्यते नोपलभ्यते.
SK
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अनुत्पादायानिरोधायानाग्रहायानुत्सर्गायासंक्लेशायाव्यवदानायानाचयायानापचयायाहानये अवृद्धये प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यत्य् अशिक्षा अनिर्यानयोगेन.
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं छारद्वतीपुत्रम् एतद् अवोचत्: प्रज्ञापारमिता भदन्त शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां कुतो गवेषितव्या?
SK
शारद्वतीपुत्र आह: प्रज्ञापारमिता देवानाम् इन्द्र बोधिसत्त्वानां महासत्त्वानां सुभूतिपरिवर्ता गवेषितव्या.
SK
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तवैष भदन्त सुभूते ऽनुभावंस् तवैतद् अधिष्ठानं यद् आर्य (Śस्P_II-३_१२५) शारद्वतीपुत्र एवम् आह, सुभूतिपरिवर्ता बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता गवेषितव्या.
SK
सुभूतिर् आह: न ममैष कौशिकानुहावो न ममैतद् अधिष्ठानम्.
SK
शक्र अह: तत् कस्यैष भदन्त सुभूते ऽनुभावः कस्यैतद् अधिष्ठानम्.
SK
सुभूतिर् आह: तथागतस्यैष कौशिकानुभावस् तथागतस्यैतद् अधिष्ठानम्.
SK
शक्र आह: निरधिष्ठाणेषु भदन्त सुभूते सर्वधर्मेषु कथम् एवं वदसि? तथागतस्यैषानुभावस् तथागतस्यैतद् अधिष्ठानं, न चात्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, न चात्र तथागतायास् तथागत उपलभ्यते.
SK
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, नान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, नान्यत्र तथातायास् तथागत उपलभ्यते, न च निरधिष्ठानधर्मतायां तथागत उपलभ्यते, न तथागते निरधिष्ठानधर्मतोपलभ्यते, न च तथतायां तथागत उपलभ्यते, न तथागते तथतोपलभ्यते,
SK
न रूपतथतायां तथागत उपलभ्यते, न तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न तथागते रूपधर्मतोपलभ्यते, न वेदनातथतायां तथागत उपलभ्यते, न तथागते वेदनातथतोपलभ्यते, न वेदनाधर्मतायां तथागत उपलभ्यते, न तथागते वेदनाधर्मतोपलभ्यते, न संज्ञातथतायां तथागत उपलभ्यते, न तथागते संज्ञातथतोपलभ्यते, न संज्ञाधर्मतायां तथागत उपलभ्यते, न तथागते संज्ञाधर्मतोपलभ्यते, न संस्कारतथतायां तथागत उपलभ्यते, न तथागते संस्कारतथतोपलभ्यते, न संस्कारधर्मतायां तथागत उपलभ्यते, न तथागते संस्कारधर्मतोपलभ्यते, न विज्ञानतथतायां तथागत उपलभ्यते, न तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधर्मतोपलभ्यते.
SK
न चक्षुस्तथतायां तथागत उपलभ्यते, न तथागते चक्षुस्तथतोपलभ्यते, न चक्षुर्धर्मतायां तथागत उपलभ्यते, न तथागते चक्षुर्धर्मतोपलभ्यते, न श्रोत्रतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रतथतोपलभ्यते, न श्रोत्रधर्मतायां (Śस्P_II-३_१२६) तथागत उपलभ्यते, न तथागते श्रोत्रधर्मतोपलभ्यते, न घ्राणतथतायां तथागत उपलभ्यते, न तथागते घ्राणतथतोपलभ्यते, न घ्राणधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणधर्मतोपलभ्यते, न जिह्वातथतायां तथागत उपलभ्यते, न तथागते जिह्वातथतोपलभ्यते, न जिह्वाधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वाधर्मतोपलभ्यते, न कायतथतायां तथागत उपलभ्यते, न तथागते कायतथतोपलभ्यते, न कायधर्मतायां तथागत उपलभ्यते, न तथागते कायधर्मतोपलभ्यते, न मनस्तथतायां तथागत उपलभ्यते, न तथागते मनस्तथतोपलभ्यते, न मनोधर्मतायां तथागत उपलभ्यते, न तथागते मनोधर्मतोपलभ्यते.
SK
न रूपतथतायां तथागत उपलभ्यते, न तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न तथागते रूपधर्मतोपलभ्यते, न शब्दतथतायां तथागत उपलभ्यते, न तथागते शब्दतथतोपलभ्यते, न शब्दधर्मतायां तथागत उपलभ्यते, न तथागते शब्दधर्मतोपलभ्यते, न गन्धतथतायां तथागत उपलभ्यते, न तथागते गन्धतथतोपलभ्यते, न गन्धधर्मतायां तथागत उपलभ्यते, न तथागते गन्धधर्मतोपलभ्यते, न रसतथतायां तथागत उपलभ्यते, न तथागते रसतथतोपलभ्यते, न रसधर्मतायां तथागत उपलभ्यते, न तथागते रसधर्मतोपलभ्यते, न स्पर्शतथतायां तथागत उपलभ्यते, न तथागते स्पर्शतथतोपलभ्यते, न स्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते स्पर्शधर्मतोपलभ्यते, न धर्मतथतायां तथागत उपलभ्यते, न तथागते धर्मतथतोपलभ्यते, न धर्मधर्मतायां तथागत उपलभ्यते, न तथागते धर्मधर्मतोपलभ्यते.
SK
न चक्षुर्विज्ञानतथतायां तथागत उपलभ्यते, न तथागते चक्षुर्विज्ञानतथतोपलभ्यते, न चक्षुर्विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुर्विज्ञानधर्मतोपलभ्यते, न श्रोत्रविज्ञानतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रविज्ञानतथतोपलभ्यते, न श्रोत्रविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रविज्ञानधर्मतोपलभ्यते, न घ्राणविज्ञानतथतायां तथागत उपलभ्यते, न तथागते घ्राणविज्ञानतथतोपलभ्यते, न घ्राणविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणविज्ञानधर्मतोपलभ्यते, (Śस्P_II-३_१२७) न जिह्वाविज्ञानतथतायां तथागत उपलभ्यते, न तथागते जिह्वाविज्ञानतथतोपलभ्यते, न जिह्वाविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वाविज्ञानधर्मतोपलभ्यते, न कायविज्ञानतथतायां तथागत उपलभ्यते, न तथागते कायविज्ञानतथतोपलभ्यते, न कायविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते कायविज्ञानधर्मतोपलभ्यते, न मनोविज्ञानतथतायां तथागत उपलभ्यते, न तथागते मनोविज्ञानतथतोपलभ्यते, न मनोविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते मनोविज्ञानधर्मतोपलभ्यते.
SK
न चक्षुःसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शतथतोपलभ्यते, न चक्षुःसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शधर्मतोपलभ्यते, न श्रोत्रसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शतथतोपलभ्यते, न श्रोत्रसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शधर्मतोपलभ्यते, न घ्राणसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शतथतोपलभ्यते, न घ्राणसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शधर्मतोपलभ्यते, न जिह्वासंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शतथतोपलभ्यते, न जिह्वासंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शधर्मतोपलभ्यते, न कायसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शतथतोपलभ्यते, न कायसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शधर्मतोपलभ्यते, न मनःसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शतथतोपलभ्यते, न मनःसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शधर्मतोपलभ्यते.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, (Śस्P_II-३_१२८) न घ्राणसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते.
SK
न पृथिवीधातुतथतायां तथागत उपलभ्यते, न तथागते पृथिवीधातुतथतोपलभ्यते, न पृथिवीधातुधर्मतायां तथागत उपलभ्यते, न तथागते पृथिवीधातुधर्मतोपलभ्यते, नाब्धातुतथतायां तथागत उपलभ्यते, न तथागते ऽब्धातुतथतोपलभ्यते, नाब्धातुधर्मतायां तथागत उपलभ्यते, न तथागते ऽब्धातुधर्मतोपलभ्यते, न तेजोधातुतथतायां तथागत उपलभ्यते, न तथागते तेजोधातुतथतोपलभ्यते, न तेजोधातुधर्मतायां तथागत उपलभ्यते, न तथागते तेजोधातुधर्मतोपलभ्यते, न वायुधातुतथतायां तथागत उपलभ्यते, न तथागते वायुधातुतथतोपलभ्यते, न वायुधातुधर्मतायां तथागत उपलभ्यते, न तथागते वायुधातुधर्मतोपलभ्यते, नाकाशधातुतथतायां तथागत उपलभ्यते, न तथागत आकाशधातुतथतोपलभ्यते, नाकाशधातुधर्मतायां तथागत उपलभ्यते, न तथागत आकाशधातुधर्मतोपलभ्यते, न विज्ञानधातुतथतायां तथागत उपलभ्यते, न तथागते विज्ञानधातुतथतोपलभ्यते, न विज्ञानधातुधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधातुधर्मतोपलभ्यते.
SK
नाविद्यातथतायां तथागत उपलभ्यते, न तथागते ऽविद्यातथतोपलभ्यते, नाविद्याधर्मतायां तथागत उपलभ्यते, न तथागते (Śस्P_II-३_१२९) ऽविद्याधर्मतोपलभ्यते, न संस्कारतथतायां तथागत उपलभ्यते, न तथागते संस्कारतथतोपलभ्यते, न संस्कारधर्मतायां तथागत उपलभ्यते, न तथागते संस्कारधर्मतोपलभ्यते, न विज्ञानतथतायां तथागत उपलभ्यते, न तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधर्मतोपलभ्यते, न नामरूपतथतायां तथागत उपलभ्यते, न तथागते नामरूपतथतोपलभ्यते, न नामरूपधर्मतायां तथागत उपलभ्यते, न तथागते नामरूपधर्मतोपलभ्यते, न षडायतनतथतायां तथागत उपलभ्यते, न तथागते षडायतनतथतोपलभ्यते, न षडायतनधर्मतायां तथागत उपलभ्यते, न तथागते षडायतनधर्मतोपलभ्यते, न स्पर्शतथतायां तथागत उपलभ्यते, न तथागते स्पर्शतथतोपलभ्यते, न स्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते स्पर्शधर्मतोपलभ्यते, न वेदनातथतायां तथागत उपलभ्यते, न तथागते वेदनातथतोपलभ्यते, न वेदनाधर्मतायां तथागत उपलभ्यते, न तथागते वेदनाधर्मतोपलभ्यते, न तृष्णातथतायां तथागत उपलभ्यते, न तथागते तृष्णातथतोपलभ्यते, न तृष्णाधर्मतायां तथागत उपलभ्यते, न तथागते तृष्णाधर्मतोपलभ्यते, नोपादानतथतायां तथागत उपलभ्यते, न तथागत उपादानतथतोपलभ्यते, नोपादानधर्मतायां तथागत उपलभ्यते, न तथागत उपादानधर्मतोपलभ्यते, न भवतथतायां तथागत उपलभ्यते, न तथागते भवतथतोपलभ्यते, न भवधर्मतायां तथागत उपलभ्यते, न तथागते भवधर्मतोपलभ्यते, न जातितथतायां तथागत उपलभ्यते, न तथागते जातितथतोपलभ्यते, न जातिधर्मतायां तथागत उपलभ्यते, न तथागते जातिधर्मतोपलभ्यते, न जरामरणतथतायां तथागत उपलभ्यते, न तथागते जरामरणतथतोपलभ्यते, न जरामरणधर्मतायां तथागत उपलभ्यते, न तथागते जरामरणधर्मतोपलभ्यते.
SK
न दानपारमितातथतायां तथागत उपलभ्यते, न तथागते दानपारमितातथतोपलभ्यते, न दानपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते दानपारमिताधर्मतोपलभ्यते, न शीलपारमितातथतायां तथागत उपलभ्यते, न तथागते शीलपारमितातथतोपलभ्यते, न शीलपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते शीलपारमिताधर्मतोपलभ्यते, न क्षान्तिपारमितातथतायां (Śस्P_II-३_१३०) तथागत उपलभ्यते, न तथागते क्षान्तिपारमितातथतोपलभ्यते, न क्षान्तिपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते क्षान्तिपारमिताधर्मतोपलभ्यते, न वीर्यपारमितातथतायां तथागत उपलभ्यते, न तथागते वीर्यपारमितातथतोपलभ्यते, न वीर्यपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते वीर्यपारमिताधर्मतोपलभ्यते, न ध्यानपारमितातथतायां तथागत उपलभ्यते, न तथागते ध्यानपारमितातथतोपलभ्यते, न ध्यानपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते ध्यानपारमिताधर्मतोपलभ्यते, न प्रज्ञापारमितातथतायां तथागत उपलभ्यते, न तथागते प्रज्ञापारमितातथतोपलभ्यते, न प्रज्ञापारमिताधर्मतायां तथागत उपलभ्यते, न तथागते प्रज्ञापारमिताधर्मतोपलभ्यते.
SK
नाध्यात्मशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मशून्यतातथतोपलभ्यते, नाध्यात्मशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मशून्यताधर्मतोपलभ्यते, न बहिर्धशून्यतातथतायां तथागत उपलभ्यते, न तथागते बहिर्धाशून्यतातथतोपलभ्यते, न बहिर्धाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते बहिर्धाशून्यताधर्मतोपलभ्यते, नाध्यात्मबहिर्धाशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मबहिर्धाशून्यतातथतोपलभ्यते, नाध्यात्मबहिर्धाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मबहिर्धाशून्यताधर्मतोपलभ्यते, न शून्यताशून्यतातथतायां तथागत उपलभ्यते, न तथागते शून्यताशून्यतातथतोपलभ्यते, न शून्यताशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते शून्यताशून्यताधर्मतोपलभ्यते, न महाशून्यतातथतायां तथागत उपलभ्यते, न तथागते महाशून्यतातथतोपलभ्यते, न महाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते महाशून्यताधर्मतोपलभ्यते, न परमार्थशून्यतातथतायां तथागत उपलभ्यते, न तथागते परमार्थशून्यतातथतोपलभ्यते, न परमर्थशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते परमार्थशून्यताधर्मतोपलभ्यते, न संस्कृतशून्यतातथतायां तथागत उपलभ्यते, न तथागते संस्कृतशून्यतातथतोपलभ्यते, न संस्कृतशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते संस्कृतशून्यताधर्मतोपलभ्यते, नासंस्कृतशून्यतातथतायां तथागत उपलभ्यते, (Śस्P_II-३_१३१) न तथागते ऽसंस्कृतशून्यतातथतोपलभ्यते, नासंस्कृतशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽसंस्कृतशून्यताधर्मतोपलभ्यते, नात्यन्तशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽत्यन्तशून्यतातथतोपलभ्यते, नात्यन्तशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽत्यन्तशून्यताधर्मतोपलभ्यते, नानवराग्रशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनवराग्रशून्यतातथतोपलभ्यते, नानवराग्रशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनवराग्रशून्यताधर्मतोपलभ्यते, नानवकारशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनवकारशून्यतातथतोपलभ्यते, नानवकारशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनवकारशून्यताधर्मतोपलभ्यते, न प्रकृतिशून्यतातथतायां तथागत उपलभ्यते, न तथागते प्रकृतिशून्यतातथतोपलभ्यते, न प्रकृतिशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते प्रकृतिशून्यताधर्मतोपलभ्यते, न सर्वधर्मशून्यतातथतायां तथागत उपलभ्यते, न तथागते सर्वधर्मशून्यतातथतोपलभ्यते, न सर्वधर्मशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते सर्वधर्मशून्यताधर्मतोपलभ्यते, न स्वलक्षणशून्यतातथतायां तथागत उपलभ्यते, न तथागते स्वलक्षणशून्यतातथतोपलभ्यते, न स्वलक्षणशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते स्वलक्षणशून्यताधर्मतोपलभ्यते, नाउपलम्भशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनुपलम्भशून्यतातथतोपलभ्यते, नानुपलम्भशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनुपलम्भशून्यताधर्मतोपलभ्यते, नाभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽभावशून्यतातथतोपलभ्यते, नाभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽभावशून्यताधर्मतोपलभ्यते, न स्वभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते स्वभावशून्यतातथतोपलभ्यते, न स्वभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते स्वभावशून्यताधर्मतोपलभ्यते, नाभावस्वभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽभावस्वभावशून्यतातथतोपलभ्यते, नाभावस्वभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽभावस्वभावशून्यताधर्मतोपलभ्यते.
SK
न स्मृत्युपस्थानतथतायां तथागत उपलभ्यते, न तथागते स्मृत्युपस्थानतथतोपलभ्यते, न स्मृत्युपस्थानधर्मतायां तथागत उपलभ्यते, न तथागते स्मृत्युपस्थानधर्मतोपलभ्यते, न (Śस्P_II-३_१३२) सम्यक्प्रहाणतथतायां तथागत उपलभ्यते, न तथागते सम्यक्प्रहाणतथतोपलभ्यते, न सम्यक्प्रहाणधर्मतायां तथागत उपलभ्यते, न तथागते सम्यक्प्रहाणधर्मतोपलभ्यते, नर्द्धिपादतथतायां तथागत उपलभ्यते, न तथागत ऋद्धिपादतथतोपलभ्यते, नर्द्धिपादधर्मतायां तथागत उपलभ्यते, न तथागत ऋद्धिपादधर्मतोपलभ्यते, नेन्द्रियतथतायां तथागत उपलभ्यते, न तथागत इन्द्रियतथतोपलभ्यते, नेन्द्रियधर्मतायां तथागत उपलभ्यते, न तथागत इन्द्रियधर्मतोपलभ्यते, न बलतथतायां तथागत उपलभ्यते, न तथागते बलतथतोपलभ्यते, न बल धर्मतायां तथागत उपलभ्यते, न तथागते बलधर्मतोपलभ्यते, न बोध्यङ्गतथतायां तथागत उपलभ्यते, न तथागते बोध्यङ्गतथतोपलभ्यते, न बोध्यङ्गधर्मतायां तथागत उपलभ्यते, न तथागते बोध्यङ्गधर्मतोपलभ्यते, नार्याष्टाङ्गमार्गतथतायां तथागत उपलभ्यते, न तथागत आर्याष्टाङ्गमार्गतथतोपलभ्यते, नार्याष्टाङ्गमार्गधर्मतायां तथागत उपलभ्यते, न तथागत आर्याष्टाङ्गमार्गधर्मतोपलभ्यते, नार्यसत्यतथतायां तथागत उपलभ्यते, न तथागत आर्यसत्यतथतोपलभ्यते, नार्यसत्यधर्मतायां तथागत उपलभ्यते, न तथागत आर्यसत्यधर्मतोपलभ्यते, न ध्यानतथतायां तथागत उपलभ्यते, न तथागते ध्यानतथतोपलभ्यते, न ध्यानधर्मतायां तथागत उपलभ्यते, न तथागते ध्यानधर्मतोपलभ्यते, नाप्रमाणतथतायां तथागत उपलभ्यते, न तथागते ऽप्रमाणतथतोपलभ्यते, नाप्रमाणधर्म तायां तथागत उपलभ्यते, न तथागते ऽप्रमाणधर्मतोपलभ्यते, नारूप्यसमापत्तितथतायां तथागत उपलभ्यते, न तथागत आरूप्यसमापत्तितथतोपलभ्यते, नारूप्यसमापत्तिधर्मतायां तथागत उपलभ्यते, न तथागत आरूप्यसमापत्तिधर्मतोपलभ्यते, न विमोक्षतथतायां तथागत उपलभ्यते, न तथागते विमोक्षतथतोपलभ्यते, न विमोक्षधर्मतायां तथागत उपलभ्यते, न तथागते विमोक्षधर्मतोपलभ्यते, नानुपूर्वविहारसमापत्तितथतायां तथागत उपलभ्यते, न तथागते ऽनुपूर्वविहारसमापत्तितथतोपलभ्यते, नानुपूर्वविहारसमापत्तिधर्मतायां तथागत उपलभ्यते, न तथागते ऽनुपूर्वविहारसमापत्तिधर्मतोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां तथागत उपलभ्यते, न तथागते शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां (Śस्P_II-३_१३३) तथागत उपलभ्यते, न तथागते शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतोपलभ्यते, नाभिज्ञातथतायां तथागत उपलभ्यते, न तथागते ऽभिज्ञातथतोपलभ्यते, नाभिज्ञाधर्मतायां तथागत उपलभ्यते, न तथागते ऽभिज्ञाधर्मतोपलभ्यते, न समाधितथतायां तथागत उपलभ्यते, न तथागते समाधितथतोपलभ्यते, न समाधिधर्मतायां तथागत उपलभ्यते, न तथागते समाधिधर्मतोपलभ्यते, न धारणीमुखतथतायां तथागत उपलभ्यते, न तथागते धारणीमुखतथतोपलभ्यते, न धारणीमुखधर्मतायां तथागत उपलभ्यते, न तथागते धारणीमुखधर्मतोपलभ्यते, न तथागतबलतथतायां तथागत उपलभ्यते, न तथागते तथागतबलतथतोपलभ्यते, न तथागतबलधर्मतायां तथागत उपलभ्यते, न तथागते तथागतबलधर्मतोपलभ्यते, न वैशारद्यतथतायां तथागत उपलभ्यते, न तथागते वैशारद्यतथतोपलभ्यते, न वैशारद्यधर्म तायां तथागत उपलभ्यते, न तथागते वैशारद्यधर्मतोपलभ्यते, न प्रतिसंवित्तथतायां तथागत उपलभ्यते, न तथागते प्रतिसंवित्तथतोपलभ्यते, न प्रतिसंविद्धर्मतायां तथागत उपलभ्यते, न तथागते प्रतिसंविद्धर्मतोपलभ्यते, न महामैत्रीतथतायां तथागत उपलभ्यते, न तथागते महामैत्रीतथतोपलभ्यते, न महामैत्री धर्मतायां तथागत उपलभ्यते, न तथागते महामैत्रीधर्मतोपलभ्यते, न महाकरुणातथतायां तथागत उपलभ्यते, न तथागते महाकरुणातथतोपलभ्यते, न महाकरुणाधर्मतायां तथागत उपलभ्यते, न तथागते महाकरुणाधर्मतोपलभ्यते, नावेणिकबुद्धधर्मतथतायां तथागत उपलभ्यते, न तथागत आवेणिकबुद्धधर्मतथतोपलभ्यते, नावेणिकबुद्धधर्मधर्मतायां तथागत उपलभ्यते, न तथागत आवेणिकबुद्धधर्मधर्मतोपलभ्यते, न सर्वज्ञतातथतायां तथागत उपलभ्यते, न तथागते सर्वज्ञतातथतोपलभ्यते, न सर्वज्ञताधर्मतायां तथागत उपलभ्यते, न तथागते सर्वज्ञताधर्मतोपलभ्यते, न मार्गाकारज्ञतातथतायां तथागत उपलभ्यते, न तथागते मार्गाकारज्ञतातथतोपलभ्यते, न मार्गाकारज्ञताधर्मतायां तथागत उपलभ्यते, न तथागते मार्गाकारज्ञताधर्मतोपलभ्यते, न सर्वाकारज्ञतातथतायां तथागत उपलभ्यते, न तथागते सर्वाकारज्ञतातथतोपलभ्यते, न सर्वाकारज्ञताधर्मतायां तथागत उपलभ्यते, (Śस्P_II-३_१३४) न तथागते सर्वाकारज्ञताधर्मतोपलभ्यते.
SK
यः कौशिक तथागतः स न रूपतथायां संयुक्तो न विसंयुक्तः, न रूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वेदनातथायां संयुक्तो न विसंयुक्तः, न वेदनातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संज्ञातथायां संयुक्तो न विसंयुक्तः, न संज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र संज्ञाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कारतथायां संयुक्तो न विसंयुक्तः, न संस्कारधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स न चक्षुस्तथायां संयुक्तो न विसंयुक्तः, न चक्षुर्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुस्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणतथायां संयुक्तो न विसंयुक्तः, न घ्राणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वातथायां संयुक्तो न विसंयुक्तः, न जिह्वाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायतथायां संयुक्तो न विसंयुक्तः, न कायधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायतथतायाः संयुक्तो (Śस्P_II-३_१३५) न विसंयुक्तः, नान्यत्र कायधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनस्तथायां संयुक्तो न विसंयुक्तः, न मनोधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनस्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनोधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स न रूपतथायां संयुक्तो न विसंयुक्तः, न रूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शब्दतथायां संयुक्तो न विसंयुक्तः, न शब्दतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र शब्दधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शब्दधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न गन्धतथायां संयुक्तो न विसंयुक्तः, न गन्धधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र गन्धतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र गन्धधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न रसतथायां संयुक्तो न विसंयुक्तः, न रसधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रसतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रसधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्पर्शतथायां संयुक्तो न विसंयुक्तः, न स्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धर्मतथायां संयुक्तो न विसंयुक्तः, न धर्मधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धर्मतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धर्मधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स न चक्षुर्विज्ञानतथायां संयुक्तो न विसंयुक्तः, न चक्षुर्विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रविज्ञानतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रविज्ञानतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणविज्ञानतथायां संयुक्तो न विसंयुक्तः, न घ्राणविज्ञानधर्मतायां (Śस्P_II-३_१३६) संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वाविज्ञानतथायां संयुक्तो न विसंयुक्तः, न जिह्वाविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायविज्ञानतथायां संयुक्तो न विसंयुक्तः, न कायविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनोविज्ञानतथायां संयुक्तो न विसंयुक्तः, न मनोविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनोविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनोविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स न चक्षुःसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न चक्षुःसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रसंस्पर्शतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न घ्राणसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वासंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न जिह्वासंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न कायसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनःसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न मनःसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शतथतायाः (Śस्P_II-३_१३७) संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स न चक्षुःसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न चक्षुतअंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वासंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न कायसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनःसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न मनःसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स न पृथिवीधातुतथायां संयुक्तो न विसंयुक्तः, न पृथिवीधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र पृथिवीधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र पृथिवीधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः (Śस्P_II-३_१३८) स नाब्धातुतथायां संयुक्तो न विसंयुक्तः, नाब्धातुतथतायां संयुक्तो न विसंयुक्तः, नान्यत्राब्धातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राब्धातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तेजोधातुतथायां संयुक्तो न विसंयुक्तः, न तेजोधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तेजोधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र तेजोधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वायुधातुतथायां संयुक्तो न विसंयुक्तः, न वायुधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वायुधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वायुधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाकाशधातुतथायां संयुक्तो न विसंयुक्तः, नाकाशधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राकाशधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राकाशधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानधातुतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधातुधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स नाविद्यातथायां संयुक्तो न विसंयुक्तः, नाविद्याधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राविद्यातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राविद्याधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कारतथायां संयुक्तो न विसंयुक्तः, न संस्कारतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न नामरूपतथायां संयुक्तो न विसंयुक्तः, न नामरूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नामरूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नामरूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न षडायतनतथायां संयुक्तो न विसंयुक्तः, न षडायतनधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र षडायतनतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र षडायतनधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक (Śस्P_II-३_१३९) तथागतः स न स्पर्शतथायां संयुक्तो न विसंयुक्तः, न स्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शतथतायाण् संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न वेदनातथायां संयुक्तो न विसंयुक्तः, न वेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तृष्णातथायां संयुक्तो न विसंयुक्तः, न तृष्णातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र तृष्णाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तृष्णाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नोपादानतथायां संयुक्तो न विसंयुक्तः, नोपादानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रोपादानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रोपादानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न भवतथायां संयुक्तो न विसंयुक्तः, न भवधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र भवतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र भवधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जातितथायां संयुक्तो न विसंयुक्तः, न जातिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जातितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जातिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जरामरणतथायां संयुक्तो न विसंयुक्तः, न जरामरणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जरामरणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जरामरणधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स न दानपारमितातथायां संयुक्तो न विसंयुक्तः, न दानपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र दानपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र दानपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शीलपारमितातथायां संयुक्तो न विसंयुक्तः, न शीलपारमितातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र शीलपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शीलपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न क्षान्तिपारमितातथायां संयुक्तो न विसंयुक्तः, न क्षान्तिपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र न क्षान्तिपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र न क्षान्तिपारमिताधर्मतायाः संयुक्तो न (Śस्P_II-३_१४०) विसंयुक्तः, यः कौशिक तथागतः स न वीर्यपारमितातथायां संयुक्तो न विसंयुक्तः, न वीर्यपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वीर्यपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वीर्यपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ध्यानपारमितातथायां संयुक्तो न विसंयुक्तः, न ध्यानपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रज्ञापारमितातथायां संयुक्तो न विसंयुक्तः, न प्रज्ञापारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रज्ञापारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रज्ञापारमिताधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स नाध्यात्मशून्यतातथायां संयुक्तो न विसंयुक्तः, नाध्यात्मशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राध्यात्मशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राध्यात्मशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बहिर्धाशून्यतातथायां संयुक्तो न विसंयुक्तः, न बहिर्धाशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र बहिर्धाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बहिर्धाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाध्यात्मबहिर्धाशून्यतातथायां संयुक्तो न विसंयुक्तः, नाध्यात्मबहिर्धाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नाध्यात्मबहिर्धाशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नाध्यात्मबहिर्धाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यताशून्यतातथायां संयुक्तो न विसंयुक्तः, न शून्यताशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यताशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यताशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महाशून्यतातथायां संयुक्तो न विसंयुक्तः, न महाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महाशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न परमार्थशून्यतातथायां संयुक्तो न विसंयुक्तः, न परमार्थशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र परमार्थशून्यतातथतायाः संयुक्तो (Śस्P_II-३_१४१) न विसंयुक्तः, नान्यत्र परमार्थशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कृतशून्यतातथायां संयुक्तो न विसंयुक्तः, न संस्कृतशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कृतशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कृतशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नासंस्कृतशून्यतातथायां संयुक्तो न विसंयुक्तः, नासंस्कृतशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नासंस्कृतशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नासंस्कृतशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नात्यन्तशून्यतातथायां संयुक्तो न विसंयुक्तः, नात्यन्तशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रात्यन्तशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रात्यन्तशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानवराग्रशून्यतातथायां संयुक्तो न विसंयुक्तः, नानवराग्रशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानवराग्रशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानवराग्रशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानवकारशून्यतातथायां संयुक्तो न विसंयुक्तः, नानवकारशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानवकारशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानवकारशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रकृतिशून्यतातथायां संयुक्तो न विसंयुक्तः, न प्रकृतिशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रकृतिशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रकृतिशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वधर्मशून्यतातथायां संयुक्तो न विसंयुक्तः, न सर्वधर्मशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वधर्मशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वधर्मशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्वलक्षणशून्यतातथायां संयुक्तो न विसंयुक्तः, न स्वलक्षणशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र न स्वलक्षणशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र न स्वलक्षणशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपलम्भशून्यतातथायां संयुक्तो न विसंयुक्तः, नानुपलम्भशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपलम्भशून्यतातथतायाः (Śस्P_II-३_१४२) संयुक्तो न विसंयुक्तः, नान्यत्रानुपलम्भशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभावशून्यतातथायां संयुक्तो न विसंयुक्तः, नाभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्वभावशून्यतातथायां संयुक्तो न विसंयुक्तः, न स्वभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्वभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्वभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभावस्वभावशून्यतातथायां संयुक्तो न विसंयुक्तः, नाभावस्वभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभावस्वभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभावस्वभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागतः स न स्मृत्युपस्थानानतथतायां संयुक्तो न विसंयुक्तः, न स्मृत्युपस्थानानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्मृत्युपस्थानानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्मृत्युपस्थाननधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सम्यक्प्रहाणतथतायां संयुक्तो न विसंयुक्तः, न सम्यक्प्रहाणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सम्यक्प्रहाणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सम्यक्प्रहाणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ऋद्धिपादतथतायां संयुक्तो न विसंयुक्तः, न ऋद्धिपादधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ऋद्धिपादतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ऋद्धिपादधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नेन्द्रियतथतायां संयुक्तो न विसंयुक्तः, नेन्द्रियधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रेन्द्रियतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रेन्द्रियधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बलतथतायां संयुक्तो न विसंयुक्तः, न बलधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बलतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र बलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बोध्यङ्गतथतायां संयुक्तो न विसंयुक्तः, न बोध्यङ्गधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बोध्यङ्गतथतायाः संयुक्तो न विसंयुक्तः, (Śस्P_II-३_१४३) नान्यत्र बोध्यङ्गधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नार्याष्टाङ्गमार्गतथतायां संयुक्तो न विसंयुक्तः, नार्याष्टाङ्गमार्गधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रार्याष्टाङ्गमार्गतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नार्यसत्यतथतायां संयुक्तो न विसंयुक्तः, नार्यसत्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रार्यसत्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रार्यसत्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ध्यानतथतायां संयुक्तो न विसंयुक्तः, न ध्यानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाप्रमाणतथतायां संयुक्तो न विसंयुक्तः, नाप्रमाणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राप्रमाणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राप्रमाणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नारूप्यसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नारूप्यसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रारूप्यसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रारूप्यसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विमोक्षतथतायां संयुक्तो न विसंयुक्तः, न विमोक्षधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विमोक्षतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विमोक्षधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपूर्वविहारसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नानुपूर्वविहारसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां संयुक्तो न विसंयुक्तः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभिज्ञातथतायां संयुक्तो न विसंयुक्तः, नाभिज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञाधर्मतायाः (Śस्P_II-३_१४४) संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न समाधितथतायां संयुक्तो न विसंयुक्तः, न समाधिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र समाधितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र समाधिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धारणीमुखतथतायां संयुक्तो न विसंयुक्तः, न धारणीमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तथागतबलतथतायां संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायां संयुक्तो न विसंयुक्तः, न तथागतबलतथतायाः संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वैशारद्यतथतायां संयुक्तो न विसंयुक्तः, न वैशारद्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यधर्मतायाः संयुक्तो न विसंयुक्तः,
SK
यः कौशिक तथागतः स न प्रतिसंवित्तथतायां संयुक्तो न विसंयुक्तः, न प्रतिसंविद्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंवित्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंविद्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपूर्वविहारसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नानुपूर्वविहारसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां संयुक्तो न विसंयुक्तः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभिज्ञातथतायां संयुक्तो न विसंयुक्तः, नाभिज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न समाधितथतायां संयुक्तो न विसंयुक्तः, न समाधिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र समाधितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र समाधिधर्मतायाः (Śस्P_II-३_१४५) संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धारणीमुखतथतायां संयुक्तो न विसंयुक्तः, न धारणीमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तथागतबलतथतायां संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तथागतबलतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र तथागतबलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वैशारद्यतथतायां संयुक्तो न विसंयुक्तः, न वैशारद्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रतिसंवित्तथतायां संयुक्तो न विसंयुक्तः, न प्रतिसंविद्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंवित्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंविद्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महामैत्रीतथतायां संयुक्तो न विसंयुक्तः, न महामैत्रीधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महामैत्रीतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महामैत्रीधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महाकरुणातथतायां संयुक्तो न विसंयुक्तः, न महाकरुणाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महाकरुणातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महाकरुणाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नावेणिकबुद्धधर्मतथतायां संयुक्तो न विसंयुक्तः, नावेणिकबुद्धधर्मधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रावेणिकबुद्धधर्मतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रावेणिकबुद्धधर्मधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वज्ञतातथतायां संयुक्तो न विसंयुक्तः, न सर्वज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सर्वज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मार्गाकारज्ञतातथतायां संयुक्तो न विसंयुक्तः, न मार्गाकारज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मार्गाकारज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मार्गाकारज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वाकारज्ञतातथतायां (Śस्P_II-३_१४६) संयुक्तो न विसंयुक्तः, न सर्वाकारज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वाकारज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सर्वाकारज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः.
SK
यः कौशिक तथागत एभिः सर्वधर्मैर् न संयुक्तो न विसंयुक्तः, तस्यैषो ऽनुभावस् तस्यैतद् अधिष्ठानम् अनधिष्ठानयोगेन.
SK
यत् पुनः कौशिकैवं वदसि, कुतो बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता गवेषितव्येति?
SK
न कौशिक रूपतो गवेषितव्या नान्यत्र रूपतो गवेषितव्या, न वेदनातो गवेषितव्या नान्यत्र वेदनातो गवेषितव्या, न संज्ञातो गवेषितव्या नान्यत्र संज्ञातो गवेषितव्या, न संस्कारेभ्यो गवेषितव्या नान्यत्र संस्कारेभ्यो गवेषितव्या, न विज्ञानतो गवेषितव्या नान्यत्र विज्ञानतो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं, यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च महाकरुणा या च गवेषणा सर्वम् एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुषो गवेषितव्या नान्यत्र चक्षुषो गवेषितव्या, न श्रोत्राद् गवेषितव्या नान्यत्र श्रोत्राद् गवेषितव्या, न घ्राणाद् गवेषितव्या नान्यत्र घ्राणाद् गवेषितव्या, न जिह्वाया गवेषितव्या नान्यत्र जिह्वाया गवेषितव्या, न कायाद् गवेषितव्या नान्यत्र कायाद् गवेषितव्या, न मनसो गवेषितव्या नान्यत्र मनसो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च चक्षुर् यच् च श्रोत्रं यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न रूपाद् गवेषितव्या नान्यत्र रूपाद् गवेषितव्या, न शब्दाद् गवेषितव्या नान्यत्र शब्दाद् गवेषितव्या, न गन्धाद् गवेषितव्या नान्यत्र गन्धाद् गवेषितव्या, न रसाद् गवेषितव्या नान्यत्र रसाद् गवेषितव्या, न स्पर्शाद् गवेषितव्या नान्यत्र स्पर्शाद् गवेषितव्या, न धर्मेभ्यो गवेषितव्या (Śस्P_II-३_१४७) नान्यत्र धर्मेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च रूपं यश् च शब्दो यश् च गन्धो यश् च रसो यश् च स्पर्शो ये च धर्मा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाह्.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुर्विज्ञानाद् गवेषितव्या नान्यत्र चक्षुर्विज्ञानाद् गवेषितव्या, न श्रोत्रविज्ञानाद् गवेषितव्या नान्यत्र श्रोत्रविज्ञानाद् गवेषितव्या, न घ्राणविज्ञानाद् गवेषितव्या नान्यत्र घ्राणविज्ञानाद् गवेषितव्या, न जिह्वाविज्ञानाद् गवेषितव्या नान्यत्र जिह्वाविज्ञानाद् गवेषितव्या, न कायविज्ञानाद् गवेषितव्या नान्यत्र कायविज्ञानाद् गवेषितव्या, न मनोविज्ञानाद् गवेषितव्या नान्यत्र मनोविज्ञानाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुःसंस्पर्शाद् गवेषितव्या नान्यत्र चक्षुःसंस्पर्शाद् गवेषितव्या, न श्रोत्रसंस्पर्शाद् गवेषितव्या नान्यत्र श्रोत्रसंस्पर्शाद् गवेषितव्या, न घ्राणसंस्पर्शाद् गवेषितव्या नान्यत्र घ्राणसंस्पर्शाद् गवेषितव्या, न जिह्वासंस्पर्शाद् गवेषितव्या नान्यत्र जिह्वासंस्पर्शाद् गवेषितव्या, न कायसंस्पर्शाद् गवेषितव्या नान्यत्र कायसंस्पर्शाद् गवेषितव्या, न मनःसंस्पर्शाद् गवेषितव्या नान्यत्र मनःसंस्पर्शाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न श्रोत्रसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न घ्राणसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाया (Śस्P_II-३_१४८) गवेषितव्या, न जिह्वासंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न कायसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र कायसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न मनःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च चक्षुःसंस्पर्शप्रत्ययवेदना या च श्रोत्रसंस्पर्शप्रत्ययवेदना या च घ्राणसंस्पर्शप्रत्ययवेदना या च जिह्वासंस्पर्शप्रत्ययवेदना या च कायसंस्पर्शप्रत्ययवेदना या च मनःसंस्पर्शप्रत्ययवेदना यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न पृथिवीधातोर् गवेषितव्या नान्यत्र पृथिवीधातोर् गवेषितव्या, नाब्धातोर् गवेषितव्या नान्यत्राब्धातोर् गवेषितव्या, न तेजोधातोर् गवेषितव्या नान्यत्र तेजोधातोर् गवेषितव्या, न वायुधातोर् गवेषितव्या नान्यत्र वायुधातोर् गवेषितव्या, नाकाशधातोर् गवेषितव्या नान्यत्राकाशधातोर् गवेषितव्या, न विज्ञानधातोर् गवेषितव्या नान्यत्र विज्ञानधातोर् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् च पृथिवीधातुर् यश् चाब्धातुर् यश् च तेजोधातुर् यश् च वायुधातुर् यश् चाकाशधातुर् यश् च विज्ञानधातुर् यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाविद्याया गवेषितव्या नान्यत्राविद्याया गवेषितव्या, न संस्कारेभ्यो गवेषितव्या नान्यत्र संस्कारेभ्यो गवेषितव्या, न विज्ञानाद् गवेषितव्या नान्यत्र विज्ञानाद् गवेषितव्या, न नामरूपाद् गवेषितव्या नान्यत्र नामरूपाद् गवेषितव्या, न षडायतनाद् गवेषितव्या नान्यत्र षडायतनाद् गवेषितव्या, न स्पर्शाद् गवेषितव्या नान्यत्र स्पर्शाद् गवेषितव्या, न वेदनाया गवेषितव्या नान्यत्र वेदनाया गवेषितव्या, न तृष्णाया गवेषितव्या नान्यत्र तृष्णाया गवेषितव्या, नोपादानाद् गवेषितव्या नान्यत्रोपादानाद् गवेषितव्या, न भवाद् गवेषितव्या नान्यत्र भवाद् गवेषितव्या, न जातेर् गवेषितव्या नान्यत्र जातेर् गवेषितव्या, न जरामरणाद् गवेषितव्या नान्यत्र जरामरणाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या चाविद्या ये च संस्कारा यच् च विज्ञानं यच् च नामरूपं यच् च षडायतनं यश् (Śस्P_II-३_१४९) च स्पर्शो या च वेदना या च तृष्णा यच् चोपादानं यश् च भवो या च जातिर् यच् च जरामरणं यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न दानपारमिताया गवेषितव्या नान्यत्र दानपारमिताया गवेषितव्या, न शीलपारमिताया गवेषितव्या नान्यत्र शीलपारमिताया गवेषितव्या, न क्षान्तिपारमिताया गवेषितव्या नान्यत्र क्षान्तिपारमिताया गवेषितव्या, न वीर्यपारमिताया गवेषितव्या नान्यत्र वीर्यपारमिताया गवेषितव्या, न ध्यानपारमिताया गवेषितव्या नान्यत्र ध्यानपारमिताया गवेषितव्या, न प्रज्ञापारमिताया गवेषितव्या नान्यत्र प्रज्ञापारमिताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाध्यात्मशून्यताया गवेषितव्या नान्यत्राध्यात्मशून्यताया गवेषितव्या, न बहिर्धाशून्यताया गवेषितव्या नान्यत्र बहिर्धाशून्यताया गवेषितव्या, नाध्यात्मबहिर्धाशून्यताया गवेषितव्या नान्यत्राध्यात्मबहिर्धाशून्यताया गवेषितव्या, न शून्यताशून्यताया गवेषितव्या नान्यत्र शून्यताशून्यताया गवेषितव्या, न महाशून्यताया गवेषितव्या नान्यत्र महाशून्यताया गवेषितव्या, न परमार्थशून्यताया गवेषितव्या नान्यत्र परमार्थशून्यताया गवेषितव्या, न संस्कृतशून्यताया गवेषितव्या नान्यत्र संस्कृतशून्यताया गवेषितव्या, नासंस्कृतशून्यताया गवेषितव्या नान्यत्रासंस्कृतशून्यताया गवेषितव्या, नात्यन्तशून्यताया गवेषितव्या नान्यत्रात्यन्तशून्यताया गवेषितव्या, नानवराग्रशून्यताया गवेषितव्या नान्यत्रानवराग्रशून्यताया गवेषितव्या, नानवकारशून्यताया गवेषितव्या नान्यत्रानवकारशून्यताया गवेषितव्या, न प्रकृतिशून्यताया गवेषितव्या नान्यत्र प्रकृतिशून्यताया गवेषितव्या, न सर्वधर्मशून्यताया गवेषितव्या नान्यत्र सर्वधर्मशून्यताया गवेषितव्या, न स्वलक्षणशून्यताया गवेषितव्या नान्यत्र स्वलक्षणशून्यताया गवेषितव्या, नानुपलम्भशून्यताया गवेषितव्या नन्यत्रानुपलम्भशून्यताया गवेषितव्या, नाभावशून्यताया गवेषितव्या नान्यत्राभावशून्यताया गवेषितव्या, न (Śस्P_II-३_१५०) स्वभावशून्यताया गवेषितव्या नान्यत्र स्वभावशून्यताया गवेषितव्या, नाभावस्वभावशून्यताया गवेषितव्या नान्यत्राभावस्वभावशून्यताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च शून्यताशून्यता या च महाशून्यता या च परमार्थशून्यता या च संस्कृतशून्यता या चासंस्कृतशून्यता या चात्यन्तशून्यता या चानवराग्रशून्यता या चानवकारशून्यता या च प्रकृतिशून्यता या च सर्वधर्मशून्यता या च स्वलक्षणशून्यता या चानुपलम्भशून्यता या चाभावशून्यता या च स्वभावशून्यता या चाभावस्वभावशून्यता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न स्मृत्युपस्थानेभ्यो गवेषितव्या नान्यत्र स्मृत्युपस्थानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च स्मृत्युपस्थानानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सम्यक्प्रहाणानेभ्यो गवेषितव्या नान्यत्र सम्यक्प्रहाणानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च सम्यक्प्रहाणानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नर्द्धिपादेभ्यो गवेषितव्या नान्यत्रर्द्धिपादेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये चर्द्धिपादाः यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नेन्द्रियेभ्यो गवेषितव्या नान्यत्रेन्द्रियेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चेन्द्रियानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता (Śस्P_II-३_१५१) न बलेभ्यो गवेषितव्या नान्यत्र बलेभ्यो गवेसितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च बलानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न बोध्यङ्गेभ्यो गवेषितव्या नान्यत्र बोध्यङ्गेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च बोध्यङ्गानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नार्याष्टाङ्गमार्गाद् गवेषितव्या नान्यत्रार्याष्टाङ्गमार्गाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् चार्याष्टाङ्गमार्गो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नार्यसत्येभ्यो गवेषितव्या नान्यत्रार्यसत्येभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चार्यसत्यानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न ध्यानेभ्यो गवेषितव्या नान्यत्र ध्यानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च ध्यानानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाप्रमाणेभ्यो गवेषितव्या नान्यत्राप्रमाणेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चाप्रमाणानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नारूप्यसमापत्तिभ्यो गवेषितव्या नारूप्यसमापत्तिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चारूप्यसमापत्तयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न विमोक्षेभ्यो गवेषितव्या न विमोक्षेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये च विमोक्षा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नानुपूर्वविहारसमापत्तिभ्यो गवेषितव्या नान्यत्रानुपूर्वविहारसमापत्तिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चानुपूर्वविहारसमापत्तयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यो गवेषितव्या नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाभिज्ञाया गवेषितव्या नान्यत्राभिज्ञाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चाभिज्ञा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न समाधिभ्यो गवेषितव्या नान्यत्र समाधिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् च समाधयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न धारणीमुखेभ्यो गवेषितव्या नान्यत्र धारणीमुखेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च धारणीमुखानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न तथागतबलेभ्यो गवेषितव्या नान्यत्र तथागतबलेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च तथागतबलानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न वैशारद्येभ्यो गवेषितव्या नान्यत्र वैशारद्येभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च वैशारद्यानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न प्रतिसंविद्भ्यो गवेषितव्या न प्रतिसंविद्भ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् च प्रतिसंविदो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न महामैत्र्या गवेषितव्या नान्यत्र महामैत्र्या गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च महामैत्री यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न महाकरुणाया गवेषितव्या नान्यत्र महाकरुणाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च महाकरुणा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नावेणिकबुद्धधर्मेभ्यो गवेषितव्या नान्यत्रावेणिकबुद्धधर्मेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये चावेणिकबुद्धधर्मा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सर्वज्ञताया गवेषितव्या नान्यत्र सर्वज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च सर्वज्ञता यश् च बोधिसत्त्वो या च (Śस्P_II-३_१५४) प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न मार्गाकारज्ञताया गवेषितव्या नान्यत्र मार्गाकारज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च मार्गाकारज्ञता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सर्वाकारज्ञताया गवेषितव्या नान्यत्र सर्वाकारज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च सर्वाकारज्ञता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
SK
तत् कस्य हेतोः? तथा हि न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनाया प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न संज्ञा प्रज्ञापारमिता नान्यत्र संज्ञाया प्रज्ञापारमिता, न संज्ञातथता प्रज्ञापारमिता नान्यत्र संज्ञातथतायाः प्रज्ञापारमिता, न संज्ञाधर्मता प्रज्ञापारमिता नान्यत्र संज्ञाधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता.
SK
न चक्षुः प्रज्ञापारमिता नान्यत्र चक्षुषः प्रज्ञापारमिता, न चक्षुस्तथता प्रज्ञापारमिता नान्यत्र चक्षुस्तथतायाः प्रज्ञापारमिता, न चक्षुर्धर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्धर्मतायाः प्रज्ञापारमिता, न श्रोत्रं प्रज्ञापारमिता नान्यत्र श्रोत्रात् प्रज्ञापारमिता, न (Śस्P_II-३_१५५) श्रोत्रतथता प्रज्ञापारमिता नान्यत्र श्रोत्रतथतायाः प्रज्ञापारमिता, न श्रोत्रधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रधर्मतायाः प्रज्ञापारमिता, न घ्राणं प्रज्ञापारमिता नान्यत्र घ्राणात् प्रज्ञापारमिता, न घ्राणतथता प्रज्ञापारमिता नान्यत्र घ्राणतथतायाः प्रज्ञापारमिता, न घ्राणधर्मता प्रज्ञापारमिता नान्यत्र घ्राणधर्मतायाः प्रज्ञापारमिता, न जिह्वा प्रज्ञापारमिता नान्यत्र जिह्वायाः प्रज्ञापारमिता, न जिह्वातथता प्रज्ञापारमिता नान्यत्र जिह्वातथतायाः प्रज्ञापारमिता, न जिह्वाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाधर्मतायाः प्रज्ञापारमिता, न कायः प्रज्ञापारमिता नान्यत्र कायात् प्रज्ञापारमिता, न कायतथता प्रज्ञापारमिता नान्यत्र कायतथतायाः प्रज्ञापारमिता, न कायधर्मता प्रज्ञापारमिता नान्यत्र कायधर्मतायाः प्रज्ञापारमिता, न मनः प्रज्ञापारमिता नान्यत्र मनसः प्रज्ञापारमिता, न मनस्तथता प्रज्ञापारमिता नान्यत्र मनस्तथतायाः प्रज्ञापारमिता, न मनोधर्मता प्रज्ञापारमिता नान्यत्र मनोधर्मतायाः प्रज्ञापारमिता.
SK
न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न शब्दः प्रज्ञापारमिता नान्यत्र शब्दात् प्रज्ञापारमिता, न शब्दतथता प्रज्ञापारमिता नान्यत्र शब्दतथतायाः प्रज्ञापारमिता, न शब्दधर्मता प्रज्ञापारमिता नान्यत्र शब्दधर्मतायाः प्रज्ञापारमिता, न गन्धः प्रज्ञापारमिता नान्यत्र गन्धात् प्रज्ञापारमिता, न गन्धतथता प्रज्ञापारमिता नान्यत्र गन्धतथतायाः प्रज्ञापारमिता, न गन्धधर्मता प्रज्ञापारमिता नान्यत्र गन्धधर्मतायाः प्रज्ञापारमिता, न रसः प्रज्ञापारमिता नान्यत्र रसात् प्रज्ञापारमिता, न रसतथता प्रज्ञापारमिता नान्यत्र रसतथतायाः प्रज्ञापारमिता, न रसधर्मता प्रज्ञापारमिता नान्यत्र रसधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न धर्माः प्रज्ञापारमिता नान्यत्र धर्मेभ्यः प्रज्ञापारमिता, न धर्मतथता प्रज्ञापारमिता नान्यत्र धर्मतथतायः प्रज्ञापारमिता, न धर्मधर्मता प्रज्ञापारमिता नान्यत्र धर्मधर्मतायाः प्रज्ञापारमिता.
SK
न चक्षुर्विज्ञानं प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानात् प्रज्ञापारमिता, न चक्षुर्विज्ञानतथता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानतथतायाः (Śस्P_II-३_१५६) प्रज्ञापारमिता, न चक्षुर्विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानधर्मतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानं प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानात् प्रज्ञापारमिता, न श्रोत्रविज्ञानतथता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानतथतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानधर्मतायाः प्रज्ञापारमिता, न घ्राणविज्ञानं प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानात् प्रज्ञापारमिता, न घ्राणविज्ञानतथता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानतथतायाः प्रज्ञापारमिता, न घ्राणविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानधर्मतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानं प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानात् प्रज्ञापारमिता, न जिह्वाविज्ञानतथता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानतथतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानधर्मतायाः प्रज्ञापारमिता, न कायविज्ञानं प्रज्ञापारमिता नान्यत्र कायविज्ञानात् प्रज्ञापारमिता, न कायविज्ञानतथता प्रज्ञापारमिता नान्यत्र कायविज्ञानतथतायाः प्रज्ञापारमिता, न कायविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र कायविज्ञानधर्मतायाः प्रज्ञापारमिता, न मनोविज्ञानं प्रज्ञापारमिता नान्यत्र मनोविज्ञानात् प्रज्ञापारमिता, न मनोविज्ञानतथता प्रज्ञापारमिता नान्यत्र मनोविज्ञानतथतायाः प्रज्ञापारमिता, न मनोविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र मनोविज्ञानधर्मतायाः प्रज्ञापारमिता.
SK
न चक्षुःसंस्पर्शः प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शात् प्रज्ञापारमिता, न चक्षुःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शतथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शः प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शात् प्रज्ञापारमिता, न श्रोत्रसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शतथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शः प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शात् प्रज्ञापारमिता, न घ्राणसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शतथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शः प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शात् प्रज्ञापारमिता, न जिह्वासंस्पर्शतथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शतथतायाः प्रज्ञापारमिता (Śस्P_II-३_१५७) न जिह्वासंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शः प्रज्ञापारमिता नान्यत्र कायसंस्पर्शात् प्रज्ञापारमिता, न कायसंस्पर्शतथता प्रज्ञापारमिता नन्यत्र कायसंस्पर्शतथतायाः प्रज्ञापारमिता, न कायसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शः प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शात् प्रज्ञापारमिता, न मनःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शतथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शधर्मतायाः प्रज्ञापारमिता.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनाधर्मता (Śस्P_II-३_१५८) प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता.
SK
न पृथिवीधातुः प्रज्ञापारमिता नान्यत्र पृथिवीधातोः प्रज्ञापारमिता, न पृथिवीधातुतथता प्रज्ञापारमिता नान्यत्र पृथिवीधातुतथतायाः प्रज्ञापारमिता, न पृथिवीधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाब्धातुः प्रज्ञापारमिता नान्यत्राब्धातोः प्रज्ञापारमिता, नाब्धातुतथता प्रज्ञापारमिता नान्यत्राब्धातुतथतायाः प्रज्ञापारमिता, नाब्धातुधर्मता प्रज्ञापारमिता नान्यत्राब्धातुधर्मतायाः प्रज्ञापारमिता, न तेजोधातुः प्रज्ञापारमिता नन्यत्र तेजोधातोः प्रज्ञापारमिता, न तेजोधातुतथता प्रज्ञापारमिता नान्यत्र तेजोधातुतथतायाः प्रज्ञापारमिता, न तेजोधातुधर्मता प्रज्ञापारमिता नान्यत्र तेजोधातुधर्मतायाः प्रज्ञापारमिता, न वारुधातुः प्रज्ञापारमिता नान्यत्र वायुधातोः प्रज्ञापारमिता, न वायुधातुतथता प्रज्ञापारमिता नान्यत्र वायुधातुतथतायाः प्रज्ञापारमिता, न वायुधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाकाशधातुः प्रज्ञापारमिता नान्यत्राकाशधातोः प्रज्ञापारमिता, नाकाशधातुतथता प्रज्ञापारमिता नान्यत्राकाशधातुतथतायाः प्रज्ञापारमिता, नाकाशधातुधर्मता प्रज्ञापारमिता नान्यत्राकाशवीधातुधर्मतायाः प्रज्ञापारमिता, न विज्ञानधातुः प्रज्ञापारमिता नान्यत्र विज्ञानधातोः प्रज्ञापारमिता, न विज्ञानधातुतथता प्रज्ञापारमिता नान्यत्र विज्ञानधातुतथतायाः प्रज्ञापारमिता, न विज्ञानधातुधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधातुधर्मतायाः प्रज्ञापारमिता.
SK
नाविद्या प्रज्ञापारमिता नान्यत्राविद्यायाः प्रज्ञापारमिता, नाविद्यातथता प्रज्ञापारमिता नान्यत्राविद्यातथतायाः प्रज्ञापारमिता, नाविद्याधर्मता प्रज्ञापारमिता नान्यत्राविद्याधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, (Śस्P_II-३_१५९) न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, न नामरूपं प्रज्ञापारमिता नान्यत्र नामरूपात् प्रज्ञापारमिता, न नामरूपतथता प्रज्ञापारमिता नान्यत्र नामरूपतथतायाः प्रज्ञापारमिता, न नामरूपधर्मता प्रज्ञापारमिता नान्यत्र नामरूपधर्मतायाः प्रज्ञापारमिता, न षडायतनं प्रज्ञापारमिता नान्यत्र षडायतनात् प्रज्ञापारमिता, न षडायतनतथता प्रज्ञापारमिता नान्यत्र षडायतनतथतायाः प्रज्ञापारमिता, न षडायतनधर्मता प्रज्ञापारमिता नान्यत्र षडायतनधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनायाः प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाण् प्रज्ञापारमिता, न तृष्णा प्रज्ञापारमिता नान्यत्र तृष्णायाः प्रज्ञापारमिता, न तृष्णातथता प्रज्ञापारमिता नान्यत्र तृष्णातथतायाः प्रज्ञापारमिता, न तृष्णाधर्मता प्रज्ञापारमिता नान्यत्र तृष्णाधर्मतायाः प्रज्ञापारमिता, नोपादानं प्रज्ञापारमिता नान्यत्र ओपादानात् प्रज्ञापारमिता, नोपादानतथता प्रज्ञापारमिता नान्यत्रोपादानतथतायाः प्रज्ञापारमिता, नोपादानधर्मता प्रज्ञापारमिता नान्यत्रोपादानधर्मतायाः प्रज्ञापारमिता, न भवः प्रज्ञापारमिता नान्यत्र भवात् प्रज्ञापारमिता, न भवतथता प्रज्ञापारमिता नान्यत्र भवतथतायाः प्रज्ञापारमिता, न भवधर्मता प्रज्ञापारमिता नान्यत्र भवधर्मतायाण् प्रज्ञापारमिता, न जातिः प्रज्ञापारमिता नान्यत्र जातेः प्रज्ञापारमिता, न जातितथता प्रज्ञापारमिता नान्यत्र जातितथतायाः प्रज्ञापारमिता, न जातिधर्मता प्रज्ञापारमिता नान्यत्र जातिधर्मतायाः प्रज्ञापारमिता, न जरामरणं प्रज्ञापारमिता नान्यत्र जरामरणात् प्रज्ञापारमिता, न जरामरणतथता प्रज्ञापारमिता नान्यत्र जरामरणतथतायाः प्रज्ञापारमिता, न जरामरणधर्मता प्रज्ञापारमिता नान्यत्र जरामरणधर्मतायाः प्रज्ञापारमिता.
SK
न दानपारमिता प्रज्ञापारमिता नान्यत्र दानपारमितायाः प्रज्ञापारमिता, (Śस्P_II-३_१६०) न दानपारमितातथता प्रज्ञापारमिता नान्यत्र दानपारमितातथतायाः प्रज्ञापारमिता, न दानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र दानपारमिताधर्मतायाः प्रज्ञापारमिता, न शीलपारमिता प्रज्ञापारमिता नान्यत्र शीलपारमितायाः प्रज्ञापारमिता, न शीलपारमितातथता प्रज्ञापारमिता नान्यत्र शीलपारमितातथतायाः प्रज्ञापारमिता, न शीलपारमिताधर्मता प्रज्ञापारमिता नान्यत्र शीलपारमिताधर्मतायाः प्रज्ञापारमिता, न क्षान्तिपारमिता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितायाः प्रज्ञापारमिता, न क्षान्तिपारमितातथता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितातथतायाः प्रज्ञापारमिता, न क्षान्तिपारमिताधर्मता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमिताधर्मतायाः प्रज्ञापारमिता, न वीर्यपारमिता प्रज्ञापारमिता नान्यत्र वीर्यपारमितायाः प्रज्ञापारमिता, न वीर्यपारमितातथता प्रज्ञापारमिता नान्यत्र वीर्यपारमितातथतायाः प्रज्ञापारमिता, न वीर्यपारमिताधर्मता प्रज्ञापारमिता नान्यत्र वीर्यपारमिताधर्मतायाः प्रज्ञापारमिता, न ध्यानपारमिता प्रज्ञापारमिता नान्यत्र ध्यानपारमितायाः प्रज्ञापारमिता, न ध्यानपारमितातथता प्रज्ञापारमिता नान्यत्र ध्यानपारमितातथतायाः प्रज्ञापारमिता, न ध्यानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र ध्यानपारमिताधर्मतायाः प्रज्ञापारमिता, न प्रज्ञापारमिता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता, न प्रज्ञापारमितातथता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितातथतायाः प्रज्ञापारमिता, न प्रज्ञापारमिताधर्मता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमिताधर्मतायाः प्रज्ञापारमिता.
SK
नाध्यात्मशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतायाः प्रज्ञापारमिता, नाध्यात्मशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न बहिर्धाशून्यता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतायाः प्रज्ञापारमिता, न बहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, न बहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नाध्यात्मबहिर्धाशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यताधर्मतायाः (Śस्P_II-३_१६१) प्रज्ञापारमिता,
SK
न शून्यतासून्यता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतायाः प्रज्ञापारमिता, न शून्यताशून्यतातथता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतातथतायाः प्रज्ञापारमिता, न शून्यताशून्यताधर्मता प्रज्ञापारमिता नान्यत्र शून्यताशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न महाशून्यता प्रज्ञापारमिता नान्यत्र महाशून्यतायाः प्रज्ञापारमिता, न महाशून्यतातथता प्रज्ञापारमिता नान्यत्र महाशून्यतातथतायाः प्रज्ञापारमिता, न महाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र महाशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न परमार्थशून्यता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतायाः प्रज्ञापारमिता, न परमार्थशून्यतातथता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतातथतायाः प्रज्ञापारमिता, न परमार्थशून्यताधर्मता प्रज्ञापारमिता नान्यत्र परमार्थशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न संस्कृतशून्यता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतायाः प्रज्ञापारमिता, न संस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतातथतायाः प्रज्ञापारमिता, न संस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नासंस्कृतशून्यता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतायाः प्रज्ञापारमिता, नासंस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतातथतायाः प्रज्ञापारमिता, नासंस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नात्यन्तशून्यता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतायाः प्रज्ञापारमिता, नात्यन्तशून्यतातथता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतातथतायाः प्रज्ञापारमिता, नात्यन्तशून्यताधर्मता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नानवराग्रशून्यता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतायाः प्रज्ञापारमिता, नानवराग्रशून्यतातथता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतातथतायाः प्रज्ञापारमिता, नानवराग्रशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नानवकारशून्यता प्रज्ञापारमिता नान्यत्रानवकारशून्यतायाः प्रज्ञापारमिता, नानवकारशून्यतातथता प्रज्ञापारमिता नान्यत्रानवकारशून्यतातथतायाः प्रज्ञापारमिता, नानवकारशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवकारशून्यताधर्मतायाः प्रज्ञापारमिता, न प्रकृतिशून्यता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतायाः प्रज्ञापारमिता,
SK
न प्रकृतिशून्यतातथता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतातथतायाः प्रज्ञापारमिता, न प्रकृतिशून्यताधर्मता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता.
SK
न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः (Śस्P_II-३_१६३) प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता,
SK
न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता,
SK
नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादहर्मतायाः प्रज्ञापारमिता,
SK
नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता,
SK
न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता,
SK
न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता,
SK
नार्याष्टाङ्गमार्गः प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गात् प्रज्ञापारमिता, नार्याष्टाङ्गमार्गतथता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गतथतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गधर्मता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः प्रज्ञापारमिता,
SK
नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता,
SK
न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता,
SK
नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, (Śस्P_II-३_१६४) नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता,
SK
नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता,
SK
न विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता,
SK
नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता,
SK
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता,
SK
नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापाइअमिता,
SK
न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता,
SK
न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता,
SK
न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता,
SK
न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता,
SK
न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता,
SK
न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता,
SK
न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता,
SK
नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता,
SK
न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता,
SK
न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता,
SK
न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, (Śस्P_II-३_१६६) न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायाः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता.
SK
तत् कस्य हेतोः? तथा हि कौशिक सर्व एते धर्मा न संविद्यन्ते नोपलभ्यन्ते.
SK
एवं सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलम्भमानेषु न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनाया प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न संज्ञा प्रज्ञापारमिता नान्यत्र संज्ञाया प्रज्ञापारमिता, न संज्ञातथता प्रज्ञापारमिता नान्यत्र संज्ञातथतायाः प्रज्ञापारमिता, न संज्ञाधर्मता प्रज्ञापारमिता नान्यत्र संज्ञाधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता.
SK
न चक्षुः प्रज्ञापारमिता नान्यत्र चक्षुषः प्रज्ञापारमिता, न चक्षुस्तथता प्रज्ञापारमिता नान्यत्र चक्षुस्तथतायाः प्रज्ञापारमिता, न चक्षुर्धर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्धर्मतायाः प्रज्ञापारमिता, न श्रोत्रं प्रज्ञापारमिता नान्यत्र श्रोत्रात् प्रज्ञापारमिता, न श्रोत्रतथता प्रज्ञापारमिता नान्यत्र श्रोत्रतथतायाः प्रज्ञापारमिता, न श्रोत्रधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रधर्मतायाः प्रज्ञापारमिता, न घ्राणं प्रज्ञापारमिता नान्यत्र घ्राणात् प्रज्ञापारमिता, न घ्राणतथता प्रज्ञापारमिता नान्यत्र घ्राणतथतायाः प्रज्ञापारमिता, न घ्राणधर्मता प्रज्ञापारमिता नान्यत्र घ्राणधर्मतायाः प्रज्ञापारमिता, न जिह्वा प्रज्ञापारमिता नान्यत्र जिह्वायाः प्रज्ञापारमिता, न जिह्वातथता प्रज्ञापारमिता नान्यत्र जिह्वातथतायाः प्रज्ञापारमिता, (Śस्P_II-३_१६७) न जिह्वाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाधर्मतायाः प्रज्ञापारमिता, न कायः प्रज्ञापारमिता नान्यत्र कायात् प्रज्ञापारमिता, न कायतथता प्रज्ञापारमिता नान्यत्र कायतथतायाः प्रज्ञापारमिता, न कायधर्मता प्रज्ञापारमिता नान्यत्र कायधर्मतायाः प्रज्ञापारमिता, न मनः प्रज्ञापारमिता नान्यत्र मनसः प्रज्ञापारमिता, न मनस्तथता प्रज्ञापारमिता नान्यत्र मनस्तथतायाः प्रज्ञापारमिता, न मनोधर्मता प्रज्ञापारमिता नान्यत्र मनोधर्मतायाः प्रज्ञापारमिता.
SK
न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न शब्दः प्रज्ञापारमिता नान्यत्र शब्दात् प्रज्ञापारमिता, न शब्दतथता प्रज्ञापारमिता नान्यत्र शब्दतथतायाः प्रज्ञापारमिता, न शब्दधर्मता प्रज्ञापारमिता नान्यत्र शब्दधर्मतायाः प्रज्ञापारमिता, न गन्धः प्रज्ञापारमिता नान्यत्र गन्धात् प्रज्ञापारमिता, न गन्धतथता प्रज्ञापारमिता नान्यत्र गन्धतथतायाः प्रज्ञापारमिता, न गन्धधर्मता प्रज्ञापारमिता नान्यत्र गन्धधर्मतायाः प्रज्ञापारमिता, न रसः प्रज्ञापारमिता नान्यत्र रसात् प्रज्ञापारमिता, न रसतथता प्रज्ञापारमिता नान्यत्र रसतथतायाः प्रज्ञापारमिता, न रसधर्मता प्रज्ञापारमिता नान्यत्र रसधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न धर्माः प्रज्ञापारमिता नान्यत्र धर्मेभ्यः प्रज्ञापारमिता, न धर्मतथता प्रज्ञापारमिता नान्यत्र धर्मतथतायाः प्रज्ञापारमिता, न धर्मधर्मता प्रज्ञापारमिता नान्यत्र धर्मधर्मतायाः प्रज्ञापारमिता.
SK
न चक्षुर्विज्ञानं प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानात् प्रज्ञापारमिता, न चक्षुर्विज्ञानतथता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानतथतायाः प्रज्ञापारमिता, न चक्षुर्विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानधर्मतायः प्रज्ञापारमिता, न श्रोत्रविज्ञानं प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानात् प्रज्ञापारमिता, न श्रोत्रविज्ञानतथता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानतथतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानधर्मतायाः प्रज्ञापारमिता, न घ्राणविज्ञानं प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानात् प्रज्ञापारमिता, न घ्राणविज्ञानतथता प्रज्ञापारमिता नान्यत्र (Śस्P_II-३_१६८) घ्राणविज्ञानतथतायाः प्रज्ञापारमिता, न घ्राणविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानधर्मतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानं प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानात् प्रज्ञापारमिता, न जिह्वाविज्ञानतथता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानतथतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानधर्मतायाः प्रज्ञापारमिता, न कायविज्ञानं प्रज्ञापारमिता नान्यत्र कायविज्ञानात् प्रज्ञापारमिता, न कायविज्ञानतथता प्रज्ञापारमिता नान्यत्र कायविज्ञानतथतायाः प्रज्ञापारमिता, न कायविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र कायविज्ञानधर्मतायाः प्रज्ञापारमिता, न मनोविज्ञानं प्रज्ञापारमिता नान्यत्र मनोविज्ञानात् प्रज्ञापारमिता, न मनोविज्ञानतथता प्रज्ञापारमिता नान्यत्र मनोविज्ञानतथतायाः प्रज्ञापारमिता, न मनोविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र मनोविज्ञानधर्मतायाः प्रज्ञापारमिता.
SK
न चक्षुःसंस्पर्शः प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शात् प्रज्ञापारमिता, न चक्षुःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शतथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शः प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शात् प्रज्ञापारमिता, न श्रोत्रसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शतथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शः प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शात् प्रज्ञापारमिता, न घ्राणसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शतथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शः प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शात् प्रज्ञापारमिता, न जिह्वासंस्पर्शतथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शतथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शः प्रज्ञापारमिता नान्यत्र कायसंस्पर्शात् प्रज्ञापारमिता, न कायसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शतथतायाः प्रज्ञापारमिता, न कायसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शः प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शात् प्रज्ञापारमिता, न मनःसंस्पर्शतथता प्रज्ञापारमिता (Śस्P_II-३_१६९) नान्यत्र मनःसंस्पर्शतथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शधर्मतायाः प्रज्ञापारमिता.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता.
SK
न पृथिवीधातुः प्रज्ञापारमिता नान्यत्र पृथिवीधातोः प्रज्ञापारमिता, न पृथिवीधातुतथता प्रज्ञापारमिता नान्यत्र पृथिवीधातुतथतायाः प्रज्ञापारमिता, न पृथिवीधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाब्धातुः प्रज्ञापारमिता नान्यत्राब्धातोः प्रज्ञापारमिता, नाब्धातुतथता प्रज्ञापारमिता नान्यत्राब्धातुतथतायाः प्रज्ञापारमिता, नाब्धातुधर्मता प्रज्ञापारमिता नान्यत्राब्धातुधर्मतायाः प्रज्ञापारमिता, न तेजोधातुः प्रज्ञापारमिता नान्यत्र तेजोधातोः प्रज्ञापारमिता, न तेजोधातुतथता प्रज्ञापारमिता नान्यत्र तेजोधातुतथतायाः प्रज्ञापारमिता, न तेजोधातुधर्मता प्रज्ञापारमिता नान्यत्र तेजोधातुधर्मतायाः प्रज्ञापारमिता, न वायुधातुः प्रज्ञापारमिता नान्यत्र वायुधातोः प्रज्ञापारमिता, न वायुधातुतथता प्रज्ञापारमिता नान्यत्र वायुधातुतथतायाः प्रज्ञापारमिता, न वायुधातुधर्मता प्रज्ञापारमिता नान्यत्र वायुधातुधर्मतायाः प्रज्ञापारमिता, नाकाशधातुः प्रज्ञापारमिता नान्यत्राकाशधातोः प्रज्ञापारमिता, नाकाशधातुतथता प्रज्ञापारमिता नान्यत्राकाशधातुतथतायाः प्रज्ञापारमिता, नाकाशधातुधर्मता प्रज्ञापारमिता नान्यत्राकाशवीधातुधर्मतायाः प्रज्ञापारमिता, न विज्ञानधातुः प्रज्ञापारमिता नान्यत्र विज्ञानधातोः प्रज्ञापारमिता, न विज्ञानधातुतथता प्रज्ञापारमिता नान्यत्र विज्ञानधातुतथतायाः प्रज्ञापारमिता, न विज्ञानधातुधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधातुधर्मतायाः प्रज्ञापारमिता.
SK
नाविद्या प्रज्ञापारमिता नान्यत्राविद्यायाः प्रज्ञापारमिता, नाविद्यातथता प्रज्ञापारमिता नान्यत्राविद्यातथतायाः प्रज्ञापारमिता, नाविद्याधर्मता प्रज्ञापारमिता नान्यत्राविद्याधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, न नामरूपं प्रज्ञापारमिता नान्यत्र नामरूपात् प्रज्ञापारमिता, न नामरूपतथता प्रज्ञापारमिता नान्यत्र नामरूपतथतायाः प्रज्ञापारमिता, न नामरूपधर्मता (Śस्P_II-३_१७१) प्रज्ञापारमिता नान्यत्र नामरूपधर्मतायाः प्रज्ञापारमिता, न षडायतनं प्रज्ञापारमिता नान्यत्र षडायतनात् प्रज्ञापारमिता, न षडायतनतथता प्रज्ञापारमिता नान्यत्र षडायतनतथतायाः प्रज्ञापारमिता, न षडायतनधर्मता प्रज्ञापारमिता नान्यत्र षडायतनधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनायाः प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न तृष्णा प्रज्ञापारमिता नान्यत्र तृष्णायाः प्रज्ञापारमिता, न तृष्णातथता प्रज्ञापारमिता नान्यत्र तृष्णातथतायाः प्रज्ञापारमिता, न तृष्णाधर्मता प्रज्ञापारमिता नान्यत्र तृष्णाधर्मतायाः प्रज्ञापारमिता, नोपादानं प्रज्ञापारमिता नान्यत्रोपादानात् प्रज्ञापारमिता, नोपादानतथता प्रज्ञापारमिता नान्यत्रोपादानतथतायाः प्रज्ञापारमिता, नोपादानधर्मता प्रज्ञापारमिता नान्यत्रोपादानधर्मतायाः प्रज्ञापारमिता, न भवः प्रज्ञापारमिता नान्यत्र भवात् प्रज्ञापारमिता, न भवतथता प्रज्ञापारमिता नान्यत्र भवतथतायाः प्रज्ञापारमिता, न भवधर्मता प्रज्ञापारमिता नान्यत्र भवधर्मतायाः प्रज्ञापारमिता, न जातिः प्रज्ञापारमिता नान्यत्र जातेः प्रज्ञापारमिता, न जातितथता प्रज्ञापारमिता नान्यत्र जातितथतायाः प्रज्ञापारमिता, न जातिधर्मता प्रज्ञापारमिता नान्यत्र जातिधर्मतायाः प्रज्ञापारमिता, न जरामरणं प्रज्ञापारमिता नान्यत्र जरामरणात् प्रज्ञापारमिता, न जरामरणतथता प्रज्ञापारमिता नान्यत्र जरामरणतथतायाः प्रज्ञापारमिता, न जरामरणधर्मता प्रज्ञापारमिता नान्यत्र जरामरणधर्मतायाः प्रज्ञापारमिता.
SK
न दानपारमिता प्रज्ञापारमिता नान्यत्र दानपारमितायाः प्रज्ञापारमिता, न दानपारमितातथता प्रज्ञापारमिता नान्यत्र दानपारमितातथतायाः प्रज्ञापारमिता, न दानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र दानपारमिताधर्मतायाः प्रज्ञापारमिता, न शीलपारमिता प्रज्ञापारमिता नान्यत्र शीलपारमितायाः प्रज्ञापारमिता, न शीलपारमितातथता प्रज्ञापारमिता नान्यत्र शीलपारमितातथतायाः प्रज्ञापारमिता, न शीलपारमिताधर्मता प्रज्ञापारमिता नान्यत्र शीलपारमिताधर्मतायाः प्रज्ञापारमिता, न क्षान्तिपारमिता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितायाः (Śस्P_II-३_१७२) पारमिता, न क्षान्तिपारमितातथता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितातथतायाः प्रज्ञापारमिता, न क्षान्तिपारमिताधर्मता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमिताधर्मतायाः प्रज्ञापारमिता, न वीर्यपारमिता प्रज्ञापारमिता नान्यत्र वीर्यपारमितायाः प्रज्ञापारमिता, न वीर्यपारमितातथता प्रज्ञापारमिता नान्यत्र वीर्यपारमितातथतायाः प्रज्ञापारमिता, न वीर्यपारमिताधर्मता प्रज्ञापारमिता नान्यत्र वीर्यपारमिताधर्मतायाः प्रज्ञापारमिता, न ध्यानपारमिता प्रज्ञापारमिता नान्यत्र ध्यानपारमितायाः प्रज्ञापारमिता, न ध्यानपारमितातथता प्रज्ञापारमिता नान्यत्र ध्यानपारमितातथतायाः प्रज्ञापारमिता, न ध्यानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र ध्यानपारमिताधर्मतायाः प्रज्ञापारमिता, न प्रज्ञापारमिता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता, न प्रज्ञापारमितातथता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितातथतायाः प्रज्ञापारमिता, न प्रज्ञापारमिताधर्मता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमिताधर्मतायाः प्रज्ञापारमिता.
SK
नाध्यात्मशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतायाः प्रज्ञापारमिता, नाध्यात्मशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न बहिर्धाशून्यता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतायाः प्रज्ञापारमिता, न बहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, न बहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नाध्यात्मबहिर्धाशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न शून्यताशून्यता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतायाः प्रज्ञापारमिता, न शून्यताशून्यतातथता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतातथतायाः प्रज्ञापारमिता, न शून्यताशून्यताधर्मता प्रज्ञापारमिता नान्यत्र शून्यताशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न महाशून्यता प्रज्ञापारमिता नान्यत्र महाशून्यतायाः प्रज्ञापारमिता, न महाशून्यतातथता प्रज्ञापारमिता नान्यत्र महाशून्यतातथतायाः (Śस्P_II-३_१७३) प्रज्ञापारमिता, न महाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र महाशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न परमार्थशून्यता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतायाः प्रज्ञापारमिता, न परमार्थशून्यतातथता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतातथतायाः प्रज्ञापारमिता, न परमार्थशून्यताधर्मता प्रज्ञापारमिता नान्यत्र परमार्थशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न संस्कृतशून्यता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतायाः प्रज्ञापारमिता, न संस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतातथतायाः प्रज्ञापारमिता, न संस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नासंस्कृतशून्यता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतायाः प्रज्ञापारमिता, नासंस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतातथतायाः प्रज्ञापारमिता, नासंस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नात्यन्तशून्यता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतायाः प्रज्ञापारमिता, नात्यन्तशून्यतातथता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतातथतायाः प्रज्ञापारमिता, नात्यन्तशून्यताधर्मता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नानवराग्रशून्यता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतायाः प्रज्ञापारमिता, नानवराग्रशून्यतातथता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतातथतायाः प्रज्ञापारमिता, नानवराग्रशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नानवकारशून्यता प्रज्ञापारमिता नान्यत्रानवकारशून्यतायाः प्रज्ञापारमिता, नानवकारशून्यतातथता प्रज्ञापारमिता नान्यत्रानवकारशून्यतातथतायाः प्रज्ञापारमिता, नानवकारशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवकारशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न प्रकृतिशून्यता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतायाः प्रज्ञापारमिता, न प्रकृतिशून्यतातथता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतातथतायाः प्रज्ञापारमिता, न प्रकृतिशून्यताधर्मता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता (Śस्P_II-३_१७४) प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता,
SK
नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता.
SK
न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता,
SK
न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता,
SK
नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, (Śस्P_II-३_१७५) नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादधर्मतायाः प्रज्ञापारमिता,
SK
नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता,
SK
न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता,
SK
न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता,
SK
नार्याष्टाङ्गमार्गः प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गात् प्रज्ञापारमिता, नार्याष्टाङ्गमार्गतथता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गतथतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गधर्मता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः प्रज्ञापारमिता,
SK
नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता,
SK
न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता,
SK
नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता,
SK
नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता,
SK
नाष्टौ विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता,
SK
नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता,
SK
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता,
SK
नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापारमिता,
SK
न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता,
SK
न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता,
SK
न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता,
SK
न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता,
SK
न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता,
SK
न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता,
SK
न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता,
SK
नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता,
SK
न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता,
SK
न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता,
SK
न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता.
SK
अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: महापारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं भदन्त (Śस्P_II-३_१७८) सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः, स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिर् अनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिर् अर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिर् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणो बोधिसत्त्वैर् महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.
SK
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, महापारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिर् अनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिर् अर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिर् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणैर् बोधिसत्त्वैर् महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.
SK
रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य (Śस्P_II-३_१७९) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
चक्षुर्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनोमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शब्दमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, गन्धमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, रसमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, धर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां न पूर्वान्त उपलभ्यते, (Śस्P_II-३_१८०) नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
चक्षुर्विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वाविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनोविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
चक्षुःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वासंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त (Śस्P_II-३_१८१) उपलभ्यते न मध्यम् उपलभ्यते, मनःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रसर्न्स्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
पृथिवीधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अब्धातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तेजोधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वायुधातुमहद्गततया कौशिक महापारमितेयं (Śस्P_II-३_१८२) बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आकाशधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाकाशधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
अविद्यामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, नामरूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, षडायतनमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तृष्णामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, उपादानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, भवमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. (Śस्P_II-३_१८३) तत् कस्य हेतोः? तथा हि कौशिक भ्वस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जातिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जरामरणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
दानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शीलपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, क्षान्तिपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वीर्यपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ध्यानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रज्ञापारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
अध्यात्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया (Śस्P_II-३_१८४) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शून्यताशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, परमार्थशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, असंस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अत्यन्तशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवराग्रशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवकारशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रकृतिशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वधर्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्वलक्षणशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते (Śस्P_II-३_१८५) न मध्यम् उपलभ्यते, अनुपलम्भशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावस्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
स्मृत्युपस्थानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सम्यक्प्रहाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ऋद्धिपादमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकर्द्धिपादानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, इन्द्रियमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बोध्यङ्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्याष्टाङ्गमार्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्यसत्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां (Śस्P_II-३_१८६) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ध्यानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अप्रमाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आरूप्यसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विमोक्षमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विमोक्षाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभिज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, समाधिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, धारणीमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तथागतबलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वैशारद्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक (Śस्P_II-३_१८७) वैशारद्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रतिसंविद्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महामैत्रीमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्या न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महाकरुणामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मार्गाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
SK
अनेन कौशिक पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, वेदनापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता (Śस्P_II-३_१८८) वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, संज्ञापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संज्ञापरिमाणता संज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
चक्षुरप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुषः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुरपरिमाणता चक्षुरपरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्राप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रापरिमाणता श्रोत्रापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणापरिमाणता घ्राणापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वायाः (Śस्P_II-३_१८९) प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वापरिमाणता जिह्वापरिमाणतया प्रज्ञापारमितापरिमाणता, कायाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायापरिमाणता कायापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनसः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोपरिमाणता मनोपरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, शब्दाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शब्दस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शब्दापरिमाणता शब्दापरिमाणतया प्रज्ञापारमितापरिमाणता, गन्धाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक गन्धस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया गन्धापरिमाणता गन्धापरिमाणतया प्रज्ञापारमितापरिमाणता, रसाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रसस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रसापरिमाणता रसापरिमाणतया प्रज्ञापारमितापरिमाणता, स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं (Śस्P_II-३_१९०) नोपलभ्यते, एवम् एव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, धर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक धर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धर्मापरिमाणता धर्मापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
चक्षुर्विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुर्विज्ञानापरिमाणता चक्षुर्विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रविज्ञानापरिमाणता श्रोत्रविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणविज्ञानापरिमाणता घ्राणविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वाविज्ञानापरिमाणता जिह्वाविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, कायविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायविज्ञानापरिमाणता (Śस्P_II-३_१९१) कायविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोविज्ञानापरिमाणता मनोविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
चक्षुःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शापरिमाणता चक्षुःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शापरिमाणता श्रोत्रसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शापरिमाणता घ्राणसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शापरिमाणता जिह्वासंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शापरिमाणता कायसंस्पर्शापरिमाणतया (Śस्P_II-३_१९२) प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनःसंस्पर्शापरिमाणता मनःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणता श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणता घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणता जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शप्रत्ययवेदनाप्रमाणतया (Śस्P_II-३_१९३) कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शप्रत्ययवेदनापरिमाणता कायसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
पृथिवीधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया पृथिवीधात्वपरिमाणता पृथिवीधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, अब्धात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाब्धातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अब्धात्वपरिमाणता अब्धात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, तेजोधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तेजोधात्वपरिमाणता तेजोधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, वायुधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वायुधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वायुधात्वपरिमाणता वायुधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, आकाशधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं (Śस्P_II-३_१९४) बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक आकाशधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाकाशधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आकाशधात्वपरिमाणता आकाशधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानधात्वपरिमाणता विज्ञानधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
अविद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अविद्यापरिमाणता अविद्यापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
नामरूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया नामरूपापरिमाणता नामरूपापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
षडायतनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया (Śस्P_II-३_१९५) षडायतनापरिमाणता षडायतनापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
वेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
तृष्णाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तृष्णापरिमाणता तृष्णापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
उपादानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकोपादानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपादानापरिमाणता उपादानापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
भवाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक भवस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक भवस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया भवापरिमाणता भवापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
जात्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जातेः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जात्यपरिमाणता जात्यपरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
जरामरणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोह्? तथा हि कौशिक जरामरनस्य प्रमाणं (Śस्P_II-३_१९६) नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जरामरणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जरामरणापरिमाणता जरामरणापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
दानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया दानपारमितापरिमाणता दानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
शीलपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शीलपारमितापरिमाणता शीलपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
क्षान्तिपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया क्षान्तिपारमितापरिमाणता क्षान्तिपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
वीर्यपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वीर्यपारमितायः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वीर्यपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वीर्यपारमितापरिमाणता वीर्यपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
ध्यानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानपारमितापरिमाणता ध्यानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
प्रज्ञापारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रज्ञापारमितापरिमाणता प्रज्ञापारमितापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
अध्यात्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
बहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बहिर्धाशून्यतापरिमाणता बहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अध्यात्मबहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मबहिर्धाशून्यतापरिमाणता अध्यात्मबहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
शून्यताशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यताशून्यतापरिमाणता शून्यताशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
महाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं (Śस्P_II-३_१९८) नोपलभ्यते, एवम् एव कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाशून्यतापरिमाणता महाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
परमार्थशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया परमार्थशून्यतापरिमाणता परमार्थशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
संस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कृतशून्यतापरिमाणता संस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
असंस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया असंस्कृतशून्यतापरिमाणता असंस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अत्यन्तशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमणतया अत्यन्तशून्यतापरिमाणता अत्यन्तशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अनवराग्रशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवराग्रशून्यतापरिमाणता अनवराग्रशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अनवकारशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवकारशून्यतापरिमाणता अनवकारशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
प्रकृतिशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रकृतिशून्यतापरिमाणता प्रकृतिशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
सर्वधर्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वधर्मशून्यतापरिमाणता सर्वधर्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
स्वलक्षणशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वलक्षणशून्यतापरिमाणता स्वलक्षणशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अनुपलम्भशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपलम्भशून्यतापरिमाणता अनुपलम्भशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाअभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभावशून्यतायाः प्रमाणं नोपलभ्यते, (Śस्P_II-३_२००) आकाशापरिमाणतया अभावशून्यतापरिमाणता अभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
स्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वभावशून्यतापरिमाणता स्वभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अभावस्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभावस्वभावशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
स्मृत्युपस्थानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्मृत्युपस्थानापरिमाणता स्मृत्युपस्थानापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
सम्यक्प्रहाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सम्यक्प्रहाणापरिमाणता सम्यक्प्रहाणापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
ऋद्धिपादाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ऋद्धिपादानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ऋद्धिपादापरिमाणता ऋद्धिपादापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
इन्द्रियाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां (Śस्P_II-३_२०१) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया इन्द्रियापरिमाणता इन्द्रियापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
बलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बलापरिमाणता बलापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
बोध्यङ्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बोध्यङ्गापरिमाणता बोध्यङ्गापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
आर्याष्टाङ्गमार्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकार्याष्टाङ्गस्य मार्गस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्याष्टाङ्गमार्गापरिमाणता आर्याष्टाङ्गमार्गापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
आर्यसत्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्यसत्यापरिमाणता आर्यसत्यापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
ध्यानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ध्यानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानापरिमाणता ध्यानापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अप्रमाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, (Śस्P_II-३_२०२) एवम् एव कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अप्रमाणापरिमाणता अप्रमाणापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
आरूप्यसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आरूप्यसमापत्त्यापरिमाणता आरूप्यसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अष्टविमोक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाष्टविमोक्षाणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाष्टविमोक्षाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विमोक्षापरिमाणता विमोक्षापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अनुपूर्वविहारसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपूर्वविहारसमापत्त्यापरिमाणता अनुपूर्वविहारसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणता शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
अभिज्ञाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभिज्ञापरिमाणता अभिज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
समाध्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक समाधीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया समाध्यपरिमाणता समाध्यापरिमाणतया प्रज्ञापारमितापरिमाणता, धारणीमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धारणीमुखापरिमाणता धारणीमुखापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
तथागतबलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तथागतबलापरिमाणता तथागतबलापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
वैशारद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वैशारद्यापरिमाणता वैशारद्यापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
प्रतिसंविदप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रतिसंविदपरिमाणता प्रतिसंविदपरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
महामैत्र्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महामैत्र्यपरिमाणता महामैत्र्यपरिमाणतया (Śस्P_II-३_२०४) प्रज्ञापारमितापरिमाणता,
SK
महाकरुणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाकरुणापरिमाणता महाकरुणापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
मुदिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मुदितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मुदितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मुदितापरिमाणता मुदितापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
उपेक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपेक्षापरिमाणता उपेक्षापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
आवेणिकबुद्धधर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आवेणिकबुद्धधर्मापरिमाणता आवेणिकबुद्धधर्मापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
सर्वज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वज्ञतापरिमाणता सर्वज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
मार्गाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मार्गाकारज्ञतायाः प्रमाणं (Śस्P_II-३_२०५) नोपलभ्यते, आकाशापरिमाणतया मार्गाकारज्ञतापरिमाणता मार्गाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता,
SK
सर्वाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्, तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वाकारज्ञतापरिमाणता सर्वाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता.
SK
अनेन कौशिक पर्यायेणापरिमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यम् उपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यम् उपलभ्यते, संज्ञापरिमाणतया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञाया नान्तो न मध्यम् उपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यम् उपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते.
SK
चक्षुरनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषो नान्तो न मध्यम् उपलभ्यते, श्रोत्रानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य नान्तो न मध्यम् उपलभ्यते, घ्राणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यम् उपलभ्यते, जिह्वानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यम् उपलभ्यते, कायानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य नान्तो न मध्यम् उपलभ्यते, मनोऽनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसः (Śस्P_II-३_२०६) नान्तो न मध्यम् उपलभ्यते.
SK
रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यम् उपलभ्यते, शब्दानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य नान्तो न मध्यम् उपलभ्यते, गन्धानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य नान्तो न मध्यम् उपलभ्यते, रसानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य नान्तो न मध्यम् उपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यम् उपलभ्यते, धर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां नान्तो न मध्यम् उपलभ्यते.
SK
चक्षुर्विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य नान्तो न मध्यम् उपलभ्यते, श्रोत्रविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, घ्राणविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, जिह्वाविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, कायविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, मनोविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य नान्तो न मध्यम् उपलभ्यते.
SK
चक्षुःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, घ्राणसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. (Śस्P_II-३_२०७) तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, जिह्वासंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, कायसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, मनःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, कायसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते.
SK
पृथिवीधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर् नान्तं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, अब्धात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोर् नान्तं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, तेजोधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोर् नान्तो न मध्यम् (Śस्P_II-३_२०८) उपलभ्यते, वायुधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोर् नान्तो न मध्यम् उपलभ्यते, आकाशधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक आकाशधातोर् नान्तो न मध्यम् उपलभ्यते, विज्ञानधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर् नान्तो न मध्यम् उपलभ्यते.
SK
अविद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाविद्याया नान्तो न मध्यम् उपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यम् उपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते, नामरूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य नान्तो न मध्यम् उपलभ्यते, षडायतनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य नान्तो न मध्यम् उपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यम् उपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यम् उपलभ्यते, तृष्णानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णाया नान्तो न मध्यम् उपलभ्यते, उपादानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य नान्तो न मध्यम् उपलभ्यते, भवानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक भवस्य नान्तो न मध्यम् उपलभ्यते, जात्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेर् नान्तो न मध्यम् उपलभ्यते, जरामरणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरणस्य नान्तो न मध्यम् उपलभ्यते.
SK
दानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां (Śस्P_II-३_२०९) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमिताया नान्तो न मध्यम् उपलभ्यते, शीलपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमिताया नान्तो न मध्यम् उपलभ्यते, क्षान्तिपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया नान्तो न मध्यम् उपलभ्यते, वीर्यपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विर्यपारमिताया नान्तो न मध्यम् उपलभ्यते, ध्यानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया नान्तो न मध्यम् उपलभ्यते, प्रज्ञापारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया नान्तो न मध्यम् उपलभ्यते.
SK
अध्यात्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया नान्तो न मध्यम् उपलभ्यते, बहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया नान्तो न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया नान्तो न मध्यम् उपलभ्यते, शून्यताशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया नान्तो न मध्यम् उपलभ्यते, महाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यताया नान्तो न मध्यम् उपलभ्यते, परमार्थशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया नान्तो न मध्यम् उपलभ्यते, संस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया नान्तो न मध्यम् उपलभ्यते, असंस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया नान्तो न मध्यम् उपलभ्यते, अत्यन्तशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया (Śस्P_II-३_२१०) नान्तो न मध्यम् उपलभ्यते, अनवराग्रशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया नान्तो न मध्यम् उपलभ्यते, अनवकारशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया नान्तो न मध्यम् उपलभ्यते, प्रकृतिशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया नान्तो न मध्यम् उपलभ्यते, सर्वधर्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया नान्तो न मध्यम् उपलभ्यते, स्वलक्षणशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया नान्तो न मध्यम् उपलभ्यते, अनुपलम्भशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया नान्तो न मध्यम् उपलभ्यते, अभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावशून्यताया नान्तो न मध्यम् उपलभ्यते, स्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया नान्तो न मध्यम् उपलभ्यते, अभावस्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वनां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया नान्तो न मध्यम् उपलभ्यते.
SK
स्मृत्युपस्थानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां नान्तो न मध्यम् उपलभ्यते, सम्यक्प्रहाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां नान्तो न मध्यम् उपलभ्यते, ऋद्धिपादानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां नान्तो न मध्यम् उपलभ्यते, इन्द्रियानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां नान्तो न मध्यम् उपलभ्यते, बलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानानि महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां नान्तो न (Śस्P_II-३_२११) मध्यम् उपलभ्यते, बोध्यङ्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां नान्तो न मध्यम् उपलभ्यते, आर्याष्टाङ्गमार्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य नान्तो न मध्यम् उपलभ्यते, आर्यसत्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां नान्तो न मध्यम् उपलभ्यते, ध्यानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां नान्तो न मध्यम् उपलभ्यते, अप्रमाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां नान्तो न मध्यम् उपलभ्यते, आरूप्यसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां नान्तो न मध्यम् उपलभ्यते, अष्टविमोक्षानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाष्टविमोक्षाणां नान्तो न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां नान्तो न मध्यम् उपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानन्ततया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नान्तो न मध्यम् उपलभ्यते, अभिज्ञानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां नान्तं नोपलभ्यते, तद् यथापि नम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, समाध्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां नान्तो न मध्यम् उपलभ्यते, धारणीमुखानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां नान्तो न मध्यम् उपलभ्यते, तथागतबलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां नान्तो न मध्यम् उपलभ्यते, वैशारद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वैशारद्यानां नान्तो न मध्यम् उपलभ्यते, प्रतिसंविदनन्ततया (Śस्P_II-३_२१२) कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां नान्तो न मध्यम् उपलभ्यते, महामैत्र्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्याः नान्तो न मध्यम् उपलभ्यते, महाकरुणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणाया नान्तो न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां नान्तो न मध्यम् उपलभ्यते, सर्वज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया नान्तो न मध्यम् उपलभ्यते, मार्गाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया नान्तो न मध्यम् उपलभ्यते, सर्वाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया नान्तो न मध्यम् उपलभ्यते.
SK
अनेन कौशिक पर्यायेणानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
रूपानन्तताम् उपादाय, वेदनानन्तताम् उपादाय, संज्ञानन्तताम् उपादाय, संस्कारानन्तताम् उपादाय, विज्ञानानन्तताम् उपादाय.
SK
चक्षुरनन्तताम् उपादाय, श्रोत्रानन्तताम् उपादाय, घ्राणानन्तताम् उपादाय, जिह्वानन्तताम् उपादाय, कायानन्तताम् उपादाय, मनोनन्तताम् उपादाय.
SK
रूपानन्तताम् उपादाय, शब्दानन्तताम् उपादाय, गन्धानन्तताम् उपादाय, रसानन्तताम् उपादाय, स्पर्शानन्तताम् उपादाय, धर्मानन्तताम् उपादाय.
SK
चक्षुर्विज्ञानानन्तताम् उपादाय, श्रोत्रविज्ञानानन्तताम् उपादाय, घ्राणविज्ञानानन्तताम् उपादाय, जिह्वाविज्ञानानन्तताम् उपादाय, कायविज्ञानानन्तताम् उपादाय, मनोविज्ञानानन्तताम् उपादाय.
SK
चक्षुःसंस्पर्शानन्तताम् उपादाय, श्रोत्रसंस्पर्शानन्तताम् उपादाय, घ्राणसंस्पर्शानन्तताम् उपादाय, जिह्वासंस्पर्शानन्तताम् उपादाय, कायसंस्पर्शानन्तताम् उपादाय, मनःसंस्पर्शानन्तताम् उपादाय.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, घ्राणसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, जिह्वासंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, कायसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, मनःसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय.
SK
पृथिवीधात्वनन्तताम् उपादाय, अब्धात्वनन्तताम् उपादाय, तेजोधात्वनन्तताम् उपादाय, वायुधात्वनन्तताम् उपादाय, आकाशधात्वनन्तताम् उपादाय, विज्ञानधात्वनन्तताम् उपादाय, अविद्यानन्तताम् उपादाय, संस्कारानन्तताम् उपादाय, विज्ञानानन्तताम् उपादाय, नामरूपानन्तताम् उपादाय, षडायतनानन्तताम् उपादाय, स्पर्शानन्तताम् उपादाय, वेदनानन्तताम् उपादाय, तृष्णानन्तताम् उपादाय, उपादानानन्तताम् उपादाय, भवानन्तताम् उपादाय, जात्यनन्तताम् उपादाय, जरामरणानन्तताम् उपादाय.
SK
दानपारमितानन्तताम् उपादाय, शीलपारमितानन्तताम् उपादाय, क्षान्तिपारमितानन्तताम् उपादाय, वीर्यपारमितानन्तताम् उपादाय, ध्यानपारमितानन्तताम् उपादाय, प्रज्ञापारमितानन्तताम् उपादाय.
SK
अध्यात्मशून्यतानन्तताम् उपादाय, बहिर्धाशून्यतानन्तताम् उपादाय, अध्यात्मबहिर्धाशून्यतानन्तताम् उपादाय, शून्यताशून्यतानन्तताम् उपादाय, महाशून्यतानन्तताम् उपादाय, परमार्थशून्यतानन्तताम् उपादाय, संस्कृतशून्यतानन्तताम् उपादाय, असंस्कृतशून्यतानन्तताम् उपादाय, अत्यन्तशून्यतानन्तताम् उपादाय, अनवराग्रशून्यतानन्तताम् उपादाय, अनवकारशून्यतानन्तताम् उपादाय, प्रकृतिशून्यतानन्तताम् उपादाय, सर्वधर्मशून्यतानन्तताम् उपादाय, स्वलक्षणशून्यतानन्तताम् उपादाय, अनुपलम्भशून्यतानन्तताम् उपादाय, अभावशून्यतानन्तताम् उपादाय, स्वभावशून्यतानन्तताम् उपादाय, अभावस्वभावशून्यतानन्तताम् उपादाय.
SK
स्मृत्युपस्थानानन्तताम् उपादाय, सम्यक्प्रहाणानन्तताम् उपादाय, ऋद्धिपादानन्तताम् उपादाय, इन्द्रियानन्तताम् उपादाय, बलानन्तताम् उपादाय, बोध्यङ्गानन्तताम् उपादाय, आर्याष्टाङ्गमार्गानन्तताम् उपादाय, आर्यसत्यानन्तताम् उपादाय, ध्यानानन्तताम् उपादाय, अप्रमाणानन्तताम् उपादाय, आरूप्यसमापत्त्यनन्तताम् उपादाय, अष्टौ विमोक्षानन्तताम् उपादाय, नवानुपूर्वविहारसमापत्त्यनन्तताम् उपादाय, शून्यतासमाध्यनन्तताम् उपादाय, आनिमित्तसमाध्यनन्तताम् उपादाय, अप्रणिहितसमाध्यनन्तताम् उपादाय, अभिज्ञानन्तताम् उपादाय, समाध्यनन्तताम् (Śस्P_II-३_२१४) उपादाय, धारणीमुखानन्तताम् उपादाय, दशतथागतबलानन्तताम् उपादाय, चतुर्वैशारद्यानन्तताम् उपादाय, चतुःप्रतिसंविदनन्तताम् उपादाय, महामैत्र्यनन्तताम् उपादाय, महाकरुणानन्तताम् उपादाय, अष्टादशावेणिकबुद्धधर्मानन्तताम् उपादाय, स्रोतआपत्तिफलानन्तताम् उपादाय, सकृदागामिफलानन्तताम् उपादाय, अनागामिफलानन्तताम् उपादाय, अर्हत्त्वानन्तताम् उपादाय, प्रत्येकबोध्यनन्तताम् उपादाय, मार्गाकारज्ञतानन्तताम् उपादाय, सर्वाकारज्ञतानन्तताम् उपादाय.
SK
पुनर् अपरं कौशिकालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
शक्र आह: यथा कथं पुनर् भदन्त सुभूते आलम्बनानन्ततयानन्ततपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
SK
सुभूतिर् आह: सर्वाकारज्ञतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
पुनर् अपरं कौशिक धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
शक्र आह: यथा कथं पुनर् भदन्त सुभूते धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
SK
सुभूतिर् आह: धर्मधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
पुनर् अपरं कौशिक तथतालम्बनानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
शक्र आह: यथा कथं पुनर् भदन्त सुभूते तथतालम्बनानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
SK
सुभूतिर् आह: कौशिक तथतालम्बनानन्ततया आलम्बनानन्तता आलम्बनानन्ततया तथतानन्तता तथतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
SK
पुनर् अपरं कौशिक सत्त्वानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्.
SK
शक्र आह: यथा कथं पुनर् भदनत सुभूते सत्त्वानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
SK
सुभूतिर् आह: तत् किं मन्यसे? कौशिक कतमस्यैतद् धर्मस्याधिवचनं (Śस्P_II-३_२१५) यद् उत सत्त्वः सत्त्व इति.
SK
शक्र आह: नेदं भदन्त सुभूते धर्माधिवचनं नाधर्माधिवचनम् आगन्तुकम् एतन् नामधेयं प्रक्षिप्तम् अवस्तुकम् एतन् नामधेयं प्रक्षिप्तम् अनारम्बणम् एतन् नामधेयं प्रक्षिप्तं यद् उत सत्त्वः सत्त्व इति.
SK
सुभूतिर् आह: तत् किं मन्यसे? कौशिक काचिद् इह प्रज्ञापारमितायां सत्त्वपरिदीपना कृता.
SK
शक्र अह: नो हीदं भदन्त सुभूते.
SK
सुभूतिर् आह: यत्र कौशिक न सत्त्वपरिदीपना कृता काचित् तत्र सत्त्वानन्तता सचेत् कौशिक तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् कल्पान् तिष्ठ च सत्त्वः सत्त्व इति वाचं भाषेत, तत् किं मन्यसे? कौशिकापि नु तत्र कश्चित् सत्त्व उत्पद्यते वा निरुद्ध्यते वा.
SK
शक्र आह: नो हीदं भदन्त सुभूते. तत् कस्य हेतोः? आदि विशुद्धत्वा सत्त्वस्य.
SK
सुभूतिर् आह: तद् अनेन ते कौशिक पर्यायेण सत्त्वानन्तत्या प्रज्ञापारमितानन्तता वेदितव्या.
SK
अथ सेन्द्रका देवाः सब्रह्मका देवाः सप्रज्ञापतिका देवाः सनारीनरगणास् त्रिस्कृत्वा उदानम् उदानयति स्म, अहो स्वाख्यातो धर्मः अहो स्वाख्यातो धर्मा अहो स्वाख्यातो धर्मस्य धर्मता येयं सुभूतिना स्थविरेण भाष्यते यद् उत तथागतप्रादुर्भावो य तथागतस्याधिष्ठानेन तथागतस्यानुभावेन सूच्यते देश्यते प्रकास्यते.
SK
अपि नु तथागतम् एव वयं भगवन् बोधिसत्त्वं महासत्त्वं धारयिष्यामः. यो न या प्रज्ञापारमितया अविरहिता भविष्यति, न च नाम कश्चिद् धर्म उपलभ्यते.
SK
रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा.
SK
चक्षुर् वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा.
SK
रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा.
SK
चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा.
SK
चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो वा कायसंस्पर्शो वा मनःसंस्पर्शो वा. चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा.
SK
पृथिवीधातुर् वा अब्धातुर् वा तेजोधातुर् वा वायुधातुर् वा आकाशधातुर् वा विज्ञानधातुर् वा.
SK
अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर् वा जरामरणं वा.
SK
दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा.
SK
अध्यात्मसून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा.
SK
स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टाङ्गो मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा. त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते. कतमेषां त्रयाणां? यद् उत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य.
SK
अथ भगवांस् तान् सेन्द्रकान् देवपुत्रान् आमन्त्रयते, एवम् एतत् तथा यथा वाचं भाषध्वे न च नाम कश्चिद् धर्म उपलभ्यते.
SK
रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा.
SK
चक्षुर् वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा.
SK
रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा.
SK
चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा.
SK
चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो (Śस्P_II-३_२१७) वा कायसंस्पर्शो वा मनःसंस्पर्शो वा.
SK
चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा.
SK
पृथिवीधातुर् वा अब्धातुर् वा तेजोधातुर् वा वायुधातुर् वा आकाशधातुर् वा विज्ञानधातुर् वा.
SK
अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर् वा जरामरणं वा.
SK
दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा.
SK
अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा.
SK
स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टाङ्गो मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदगामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा.
SK
त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते. कतमेषं त्रयाणाम्? यद् उत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य.
SK
तथागत एव सदेवपुत्रा बोधिसत्त्वो महासत्त्वो धारयितव्यः.
SK
यो ऽनया प्रज्ञापारमितया अविरहितो भविष्यत्य् अनुपलम्भयोगेन. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि. कतमाणि त्रीणि? यद् उत श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं,
SK
न चान्यत्र दानपारमितयास् तथागत उपलभ्यते, न चान्यत्र शीलपारमितायास् तथागत उपलभ्यते, न चान्यत्र क्षान्तिपारमितायास् (Śस्P_II-३_२१८) तथागत उपलभ्यते, न चान्यत्र वीर्यपारमितायास् तथागत उपलभ्यते, न चान्यत्र ध्यानपारमितायास् तथागत उपलभ्यते, न चान्यत्र प्रज्ञापारमितायास् तथागत उपलभ्यते.
SK
न चान्यत्राध्यात्मशून्यतायास् तथागत उपलभ्यते, न चान्यत्र बहिर्धाशून्यतायास् तथागत उपलभ्यते, न चान्यत्राध्यात्मबहिर्धाशून्यतायास् तथागत उपलभ्यते, न चान्यत्र शून्यताशून्यतायास् तथागत उपलभ्यते, न चान्यत्र महाशून्यतायास् तथागत उपलभ्यते, न चान्यत्र परमार्थशून्यतायास् तथागत उपलभ्यते, न चान्यत्र संस्कृतशून्यतायास् तथागत उपलभ्यते, न चान्यत्रासंस्कृतशून्यतायास् तथागत उपलभ्यते, न चान्यत्रात्यन्तशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानवराग्रशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानवकारशून्यतायास् तथागत उपलभ्यते, न चान्यत्र प्रकृतिशून्यतायास् तथागत उपलभ्यते, न चान्यत्र सर्वधर्मशून्यतायास् तथागत उपलभ्यते, न चान्यत्र स्वलक्षणशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानुपलम्भशून्यतायास् तथागत उपलभ्यते, न चान्यत्राभावशून्यतायास् तथागत उपलभ्यते, न चान्यत्र स्वभावशून्यतायास् तथागत उपलभ्यते, न चान्यत्राभावस्वभावशून्यतायास् तथागत उपलभ्यते.
SK
न चान्यत्र स्मृत्युपस्थानेभ्यस् तथागत उपलभ्यते, न चान्यत्र सम्यक्प्रहाणेभ्यस् तथागत उपलभ्यते, न चान्यत्र ऋद्धिपादेभ्यस् तथागत उपलभ्यते, न चान्यत्रेन्द्रियेभ्यस् तथागत उपलभ्यते, न चान्यत्र बलेभ्यस् तथागत उपलभ्यते, न चान्यत्र बोध्यङ्गेभ्यस् तथागत उपलभ्यते, न चान्यत्रार्याष्टाङ्गमार्गेभ्यस् तथागत उपलभ्यते, न चान्यत्र आर्यसत्येभ्यस् तथागत उपलभ्यते, न चान्यत्र ध्यानेभ्यस् तथागत उपलभ्यते, न चान्यत्राप्रमाणेभ्यस् तथागत उपलभ्यते, न चान्यत्रारूप्यसमापत्तिभ्यस् तथागत उपलभ्यते, न चान्यत्र विमोक्षेभ्यस् तथागत उपलभ्यते, न चान्यत्रानुपूर्वविहारसमापत्तिभ्यस् तथागत उपलभ्यते, न चान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस् तथागत उपलभ्यते, न चान्यत्राभिज्ञाभ्यस् तथागत उपलभ्यते, न चान्यत्र समाधिभ्यस् तथागत उपलभ्यते, न चान्यत्र धारणीमुखेभ्यस् तथागत उपलभ्यते, न चान्यत्र तथागतबलेभ्यस् तथागत उपलभ्यते, न चान्यत्र वैशारद्येभ्यस् तथागत उपलभ्यते, न चान्यत्र प्रतिसंविद्भ्यस् तथागत उपलभ्यते, न चान्यत्र महामैत्र्यास् तथागत उपलभ्यते, न चान्यत्र महाकरुणायास् (Śस्P_II-३_२१९) तथागत उपलभ्यते, न चान्यत्रावेणिकबुद्धधर्मेभ्यस् तथागत उपलभ्यते, न चान्यत्र सर्वज्ञतायास् तथागत उपलभ्यते, न चान्यत्र मार्गाकारज्ञतायास् तथागत उपलभ्यते, न चान्यत्र सर्वाकारज्ञतायस् तथागत उपलभ्यते.
SK
बोधिसत्त्वाश् च देवपुत्रा महासत्त्वाः सर्वत्रात्र धर्मेषु शिक्षते, दानपारमितायां शिक्षते, शीलपारमितायां शिक्षते, क्षान्तिपारमितायां शिक्षते, वीर्यपारमितायां शिक्षते, ध्यानपारमितायां शिक्षते, प्रज्ञापारमितायां शिक्षते.
SK
अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, शून्यताशून्यतायां शिक्षते, महाशून्यतायां शिक्षते, परमार्थशून्यतायां शिक्षते, संस्कृतशून्यतायां शिक्षते, असंस्कृतशून्यतायां शिक्षते, अत्यन्तशून्यतायां शिक्षते, अनवराग्रशून्यतायां शिक्षते, अनवकारशून्यतायां शिक्षते, प्रकृतिशून्यतायां शिक्षते, सर्वधर्मशून्यतायां शिक्षते, स्वलक्षणशून्यतायां शिक्षते, अनुपलम्भशून्यतायां शिक्षते, अभावशून्यतायां शिक्षते, स्वभावशून्यतायां शिक्षते, अभावस्वभावशून्यतायां शिक्षते.
SK
स्मृत्युपस्थानेषु शिक्षते, सम्यक्प्रहाणेषु शिक्षते, ऋद्धिपादेषु शिक्षते, इन्द्रियेषु शिक्षते, बलेषु शिक्षते, बोध्यङ्गेषु शिक्षते, आर्याष्टाङ्गमार्गे शिक्षते, आर्यसत्येषु शिक्षते, ध्यानेषु शिक्षते, अप्रमाणेषु शिक्षते, आरूप्यसमापत्तिषु शिक्षते, अष्टौ विमोक्षेषु शिक्षते, नवानुपूर्वविहारसमापत्तिषु शिक्षते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते, अभिज्ञासु शिक्षते, समाधिषु शिक्षते, धारणीमुखेषु शिक्षते, तथागतबलेषु शिक्षते, वैशारद्येषु शिक्षते, प्रतिसंवित्सु शिक्षते, महामैत्र्यां शिक्षते, महाकरुणायां शिक्षते, आवेणिकबुद्धधर्मेषु शिक्षते, स्रोतआपत्तिफले शिक्षते, सकृदागामिफले शिक्षते, अनागामिफले शिक्षते, अर्हत्त्वे शिक्षते, प्रत्येकबोधौ शिक्षते, मार्गाकारज्ञतायां शिक्षते, सर्वाकारज्ञतायां शिक्षते.
SK
तस्मात् तर्हि देवपुत्रास् तथागत एव बोधिसत्त्वो महासत्त्वो वक्तव्यः, यो ऽनया प्रज्ञापारमितया अविरहितश् च भविष्यति.
SK
यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यानिके पद्मावत्यां राजधान्याम् अन्तरापणमध्यगतो दानपारमितया अविरहितो ऽभूवन्, शीलपारमितया अविरहितो ऽभूवन्, क्षान्तिपारमितया अविरहितो ऽभूवन्, वीर्यपारमितया अविरहितो ऽभूवन्, (Śस्P_II-३_२२०) ध्यानपारमितया अविरहितो ऽभूवन्, प्रज्ञापारमितया अविरहितो ऽभूवन्.
SK
अध्यात्मशून्यतया अविरहितो ऽभूवन्, बहिर्धाशून्यतया अविरहितो ऽभूवन्, अध्यात्मबहिर्धाशून्यतया अविरहितो ऽभूवन्, शून्यताशून्यतया अविरहितो ऽभूवन्, महाशून्यतया अविरहितो ऽभूवन्, परमार्थशून्यतया अविरहितो ऽभूवन्, संस्कृतशून्यतया अविरहितो ऽभूवन्, असंस्कृतशून्यतया अविरहितो ऽभूवन्, अत्यन्तशून्यतया अविरहितो ऽभूवन्, अनवराग्रशून्यतया अविरहितो ऽभूवन्, अनवकारशून्यतया अविरहितो ऽभूवन्, प्रकृतिशून्यतया अविरहितो ऽभूवन्, सर्वधर्मशून्यतया अविरहितो ऽभूवन्, स्वलक्षणशून्यतया अविरहितो ऽभूवन्, अनुपलम्भशून्यतया अविरहितो ऽभूवन्, अभावशून्यतया अविरहितो ऽभूवन्, स्वभावशून्यतया अविरहितो ऽभूवन्, अभावस्वभावशून्यतया अविरहितो ऽभूवन्.
SK
स्मृत्युपस्थानैर् अविरहितो ऽभूवन्, सम्यक्प्रहाणैर् अविरहितो ऽभूवन्, ऋद्धिपादैर् अविरहितो ऽभूवन्, इन्द्रियैर् अविरहितो ऽभूवन्, बलैर् अविरहितो ऽभूवन्, बोध्यङ्गैर् अविरहितो ऽभूवन्, आर्याष्टाङ्गेन मार्गेणाविरहितो ऽभूवन्, आर्यसत्यैर् अविरहितो ऽभूवन्, ध्यानैर् अविरहितो ऽभूवन्, अप्रमाणैर् अविरहितो ऽभूवन्, आरूप्यसमापतिभिर् अविरहितो ऽभूवन्, अष्टौ विमोक्षैर् अविरहितो ऽभूवन्, नवानुपूर्वविहारसमापत्तिभिर् अविरहितो ऽभूवन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् अविरहितो ऽभूवन्, अभिज्ञाभिर् अविरहितो ऽभूवन्, समाधिभिर् अविरहितो ऽभूवन्, धारणीमुखैर् अविरहितो ऽभूवन्, तथागतबलैर् अविरहितो ऽभूवन्, वैशारद्यैर् अविरहितो ऽभूवन्, चतस्रः प्रतिसंविद्भिर् अविरहितो ऽभूवन्, महामैत्र्याविरहितो ऽभूवन्, महाकरुणाया अविरहितो ऽभूवन्, आवेणिकबुद्धधर्मैर् अविरहितो ऽभूवन्.
SK
अन्यैर् अन्यैश् चापरिमाणैर् बुद्धधर्मैर् अविरहितो ऽभूवन् तच् चानुपलम्भयोगेन. तदाहं देवपुत्रास् तेन दीपंकरेण तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतानुत्तरां सम्यक्संबोधौ भविष्यसि त्वं मानवानागते ऽध्वनि भद्रकल्पे, अस्मिन्न् एव लोकधाताव् असंख्येयैः कल्पैः शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः सास्ता देवानां च मणुष्याणां बुद्धो बुद्धो भगवान्.
SK
अथ देवपुत्रा भगवन्तम् एतद् अवोचन्: आश्चर्य भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञताया अनुपरिग्राहिका,
SK
रूपस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, संज्ञाया अपरिग्रहानुत्सर्गयोगेन, संस्काराणाम् अपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहनुत्सर्गयोगेन.
SK
चक्षुषो ऽपरिग्रहानुत्सर्गयोगेन, श्रोत्रस्यापरिग्रहानुत्सर्गयोगेन, घ्राणस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाया अपरिग्रहानुत्सर्गयोगेन, कायस्यापरिग्रहानुत्सर्गयोगेन, मनसो ऽपरिग्रहानुत्सर्गयोगेन.
SK
रूपस्यापरिग्रहानुत्सर्गयोगेन, शब्दस्यापरिग्रहानुत्सर्गयोगेन, गन्धस्यापरिग्रहानुत्सर्गयोगेन, रसस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, धर्माणाम् अपरिग्रहानुत्सर्गयोगेन.
SK
चक्षुर्विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, श्रोत्रविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, घ्राणविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, कायविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, मनोविज्ञानस्यापरिग्रहानुत्सर्गयोगेन.
SK
चक्षुःसंस्पर्शस्यापरिग्रहारिउत्सर्गयोगेन, श्रोत्रसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन.
SK
पृथिवीधातोर् अपरिग्रहानुत्सर्गयोगेन, अब्धातोर् अपरिग्रहानुत्सर्गयोगेन, तेजोधातोर् अपरिग्रहानुत्सर्गयोगेन, वायुधातोर् अपरिग्रहानुत्सर्गयोगेन, आकाशधातोर् अपरिग्रहानुत्सर्गयोगेन, विज्ञानधातोर् अपरिग्रहानुत्सर्गयोगेन,
SK
अविद्याया अपरिग्रहानुत्सर्गयोगेन, संस्काराणाम् अपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, नामरूपस्यापरिग्रहानुत्सर्गयोगेन, षडायतनस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, तृष्णाया अपरिग्रहानुत्सर्गयोगेन, उपादानस्यापरिग्रहानुत्सर्गयोगेन, भवस्यापरिग्रहानुत्सर्गयोगेन, जातेर् अपरिग्रहानुत्सर्गयोगेन, जरामरणस्यापरिग्रहानुत्सर्गयोगेन.
SK
दानपारमिताया अपरिग्रहानुत्सर्गयोगेन, शीलपारमिताया अपरिग्रहानुत्सर्गयोगेन, क्षान्तिपारमिताया अपरिग्रहानुत्सर्गयोगेन, वीर्यपारमिताया अपरिग्रहानुत्सर्गयोगेन, ध्यानपारमिताया अपरिग्रहानुत्सर्गयोगेन, प्रज्ञापारमिताया अपरिग्रहानुत्सर्गयोगेन.
SK
अध्यात्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, बहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, अध्यात्मबहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, सून्यताशून्यताया अपरिग्रहानुत्सर्गयोगेन, महाशून्यताया अपरिग्रहानुत्सर्गयोगेन, परमार्थशून्यताया अपरिग्रहानुत्सर्गयोगेन, संस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, असंस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, अत्यन्तशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवराग्रशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवकारशून्यताया अपरिग्रहानुत्सर्गयोगेन, प्रकृतिशून्यताया अपरिग्रहानुत्सर्गयोगेन, सर्वधर्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वलक्षणशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनुपलम्भशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावस्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन.
SK
स्मृत्युपस्थानानाम् अपरिग्रहानुत्सर्गयोगेन, सम्यक्प्रहाणानाम् अपरिग्रहानुत्सर्गयोगेन, ऋद्धिपादानाम् अपरिग्रहानुत्सर्गयोगेन, इन्द्रियाणाम् अपरिग्रहानुत्सर्गयोगेन, बलानाम् अपरिग्रहानुत्सर्गयोगेन, बोध्यङ्गानाम् अपरिग्रहानुत्सर्गयोगेन, आर्याष्टाङ्गस्य मार्गस्यापरिग्रहानुत्सर्गयोगेन, आर्यसत्यानाम् अपरिग्रहानुत्सर्गयोगेन, ध्यानानाम् अपरिग्रहानुत्सर्गयोगेन, अप्रमाणानाम् अपरिग्रहानुत्सर्गयोगेन, आरूप्यसमापत्तीनाम् अपरिग्रहानुत्सर्गयोगेन, अष्टौ विमोक्षाणाम् अपरिग्रहानुत्सर्गयोगेन, नवानुपूर्वविहारसमापत्तीनाम् अपरिग्रहानुत्सर्गयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अपरिग्रहानुत्सर्गयोगेन, अभिज्ञानाम् अपरिग्रहानुत्सर्गयोगेन, समाधीनाम् अपरिग्रहानुत्सर्गयोगेन, धारणीमुखानाम् अपरिग्रहानुत्सर्गयोगेन, तथागतबलानाम् अपरिग्रहानुत्सर्गयोगेन, वैशारद्यानाम् अपरिग्रहानुत्सर्गयोगेन, प्रतिसंविदाम् अपरिग्रहानुत्सर्गयोगेन, महामैत्र्या अपरिग्रहानुत्सर्गयोगेन, महाकरुणानाम् अपरिग्रहानुत्सर्गयोगेन, अष्टादशावेणिकबुद्धधर्माणाम् अपरिग्रहानुत्सर्गयोगेन, सर्वज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन, मार्गाकारज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन, सर्वाकारज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन.
SK
अथ भगवांश् चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकान् बोधिसत्त्वान् महासत्त्वांश् चातुर्महाराजकायिकांश् च देवपुत्रां त्रायस्त्रिंशांश् च देवपुत्रान् उपमांश् च देवपुत्रांस् तुषितांश् च देवपुत्रान् निर्माणरतिश् च देवपुत्राश् च देवपुत्रान् परनिर्मितवशवर्तिश् च देवपुत्रा ब्रह्मकायिकाश् च देवपुत्रा ब्रह्मपुरोहितांश् च देवपुत्रान् ब्रह्मपार्षद्याश् च देवपुत्रान् महाब्रह्माणश् च देवपुत्रान् आभाश् च देवपुत्रान् परीत्ताभांश् च देवपुत्रान् अप्रमाणाभांश् च देवान् आभास्वरांश् च देवान् शुभांश् च देवान् परीत्तशुभांश् च देवान् प्रमाणशुभांश् च देवान् शुभकृत्ष्णांश् च देवान् बृहाश् च देवान् परीत्तबृहाश् च देवान् प्रमाणबृहांश् च देवान् बृहत्फलांश् च देवान् अवृहाश् च देवान् अतपांश् च देवान् सदृशाश् च देवान् सुदर्शनांश् च देवान् अकनिष्ठांश् च देवान् संनिपतितां संनिषण्णां विदित्वा तान् सर्वां साक्षिणं कृत्वा शक्रदेवानाम् इन्द्रम् आमन्त्रयते स्म.
SK
ये केचित् कौशिक बोधिसत्त्वा महासत्त्वाः भिक्षुभिक्षुण्युपासकोपसिकाः कुलपुत्राः कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति. न तेषां मारपापीयां मारकायिका देवता अवतारं लप्स्यते.
SK
तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च रूपशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, संज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाशून्यतैव स्वधिष्ठिता भविष्यति, कायशून्यतैव स्वधिष्ठिता भविष्यति, मनःशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा रूपशून्यतैव स्वधिष्ठिता (Śस्P_II-३_२२४) भविष्यति, शब्दशून्यतैव स्वधिष्ठिता भविष्यति, गन्धशून्यतैव स्वधिष्ठिता भविष्यति, रससून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, धर्मशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुर्विज्ञानसून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, मनोविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न सून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वासंस्पर्शप्रत्ययवेदना सून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शप्रत्ययवेदनासून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा पृथिवीधातुशून्यतैव स्वधिष्ठिता भविष्यति, अब्धातुशून्यतैव स्वधिष्ठिता भविष्यति, तेजोधातुशून्यतैव स्वधिष्ठिता भविष्यति, वायुधातुशून्यतैव स्वधिष्ठिता भविष्यति, आकाशधातुशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानधातुशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता (Śस्P_II-३_२२५) शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वाविद्याशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, नामरूपशून्यतैव स्वधिष्ठिता भविष्यति, षडायतनशून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, तृष्णाशून्यतैव स्वधिष्ठिता भविष्यति, उपादानशून्यतैव स्वधिष्ठिता भविष्यति, भवशून्यतैव स्वधिष्ठिता भविष्यति, जातिशून्यतैव स्वधिष्ठिता भविष्यति, जरामरणशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा दानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, शीलपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, क्षान्तिपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, वीर्यपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, प्रज्ञापारमिताशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा अध्यात्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, बहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अध्यात्मबहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, शून्यताशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, महाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, परमार्थशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, संस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, असंस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अत्यन्तशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवराग्रशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवकारशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, प्रकृतिशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वधर्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वलक्षणशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनुपलम्भशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावस्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं (Śस्P_II-३_२२६) लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा स्मृत्युपस्थानशून्यतैव स्वधिष्ठिता भविष्यति, सम्यक्प्रहाणशून्यतैव स्वधिष्ठिता भविष्यति, ऋद्धिपादशून्यतैव स्वधिष्ठिता भविष्यति, इन्द्रियशून्यतैव स्वधिष्ठिता भविष्यति, बलशून्यतैव स्वधिष्ठिता भविष्यति, बोध्यङ्गशून्यतैव स्वधिष्ठिता भविष्यति, आर्याष्टाङ्गमार्गशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वार्यसत्यशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानशून्यतैव स्वधिष्ठिता भविष्यति, अप्रमाणशून्यतैव स्वधिष्ठिता भविष्यति, आरूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, विमोक्षशून्यतैव स्वधिष्ठिता भविष्यति, अनुपूर्वविहारसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतैव स्वधिष्ठिता भविष्यति, अभिज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, समाधिशून्यतैव स्वधिष्ठिता भविष्यति, धारणीमुखशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा तथागतबलशून्यतैव स्वधिष्ठिता भविष्यति, वैशारद्यशून्यतैव स्वधिष्ठिता भविष्यति, प्रतिसंविच्छून्यतैव स्वधिष्ठिता भविष्यति, महामैत्रीशून्यतैव स्वधिष्ठिता भविष्यति, महाकरुणाशून्यतैव स्वधिष्ठिता भविष्यति, आवेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
SK
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा सर्वज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, मार्गाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन चावतारं लभे चरन्, यत्र चावतारं लभेरम्, यस्य चावतारं लभेरन्.
SK
न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां मनुस्या वामनुष्या वावतारं प्रेक्षावतारगवेष्य् अवतारं लप्स्यते. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा सर्वसत्त्वानाम् अन्तिके (Śस्P_II-३_२२७) मैत्रीकरुणामुदितोपेक्षासु भाविता तच् चानुपलम्भयोगेन. न च स कुलपुत्रो वा कुलदुहितरो वा विषमा परिहारेण कालं भविष्यति.
SK
तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैर् वा कुलदुहितृभिर् वा दानपारमितायां चरद्भिः सर्वसत्त्वा सम्यक्परिहारेण नोपस्थिता यो वा कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ, चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवा ब्रह्मपार्षद्या देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, यैश् च देवपुत्रैर् इयं प्रज्ञापारमिता न स्रुता नोद्गृहीता न धारिता पर्यवाप्ता तैर् देवपुत्रैर् इयं प्रज्ञापारमिता श्रोतव्योद्गृहीतव्या धारयितव्या पर्यवाप्तव्या योनिसो मनसिकर्तव्या सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यम्.
SK
पुनर् अपरं कौशिक ये कुलपुत्राः कुलदुहितरश् चेमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति योनिसश् च मनसिकरिष्यन्ति सर्वाकारज्ञताचित्तेन चाविरहितो भविष्यन्ति.
SK
न खलु पुनस् तेषां कुलपुत्राणां कुलदुहितॄणां च शून्यागारगतानां वाभ्यवकाशगतानां चोत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यन्ति. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चाध्यात्मशून्यतासु भाविता तच् चानुपलम्भयोगेन, बहिर्धाशून्यतासु भाविता तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतासु भाविता तच् चानुपलम्भयोगेन, शून्यताशून्यतासु भाविता तच् चानुपलम्भयोगेन, महाशून्यतासु भाविता तच् चानुपलम्भयोगेन, परमार्थशून्यतासु भाविता तच् चानुपलम्भयोगेन, संस्कृतशून्यतासु भाविता तच् चानुपलम्भयोगेन, असंस्कृतशून्यतासु भाविता तच् चानुपलम्भयोगेन, अत्यन्तशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनवराग्रशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनवकारशून्यतासु भाविता तच् चानुपलम्भयोगेन, प्रकृतिशून्यतासु भाविता तच् चानुपलम्भयोगेन, सर्वधर्मशून्यतासु भाविता तच् चानुपलम्भयोगेन, स्वलक्षणशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनुपलम्भशून्यतासु भाविता तच् चानुपलम्भयोगेन, अभावशून्यतासु भाविता तच् चानुपलम्भयोगेन, स्वभावशून्यतासु भाविता तच् चानुपलम्भयोगेन, अभावस्वभावशून्यतासु भाविता तच् चानुपलम्भयोगेन.
SK
अथ खलु तस्यां वेलायां यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासकायिका देवास् ते सर्वे भगवन्तम् एतद् अवोचन्: वयं भगवन् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यामो य इमां गंभीरां प्रज्ञापारमिताम् अधिमोक्षन्ते उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिसश् च मनसिकरिष्यन्ति, परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, अविरहितश् च भविष्यन्ति सर्वाकारज्ञता मनसिकारेण. तत् कस्य हेतोः? बोधिसत्त्वं हि भगवन् महासत्त्वम् आगम्य नरका उच्छिद्यन्ते, यमलोक उच्छिद्यन्ते देवदारिद्यम् उच्छिद्यन्ते मनुष्यदारिद्यम् उच्छिद्यन्ते, इत्युपद्रवोपसर्गा सर्व उच्छिद्यन्ते विनस्यन्ति, न भवन्ति दुर्भिक्षकान्ताराः सर्व उच्छिद्यन्ते बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके पुरादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति.
SK
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.
SK
अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति.
SK
चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति.
SK
बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश् चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महारजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वर देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, (Śस्P_II-३_२३०) अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते,
SK
बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नो प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते, बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिं प्रज्ञायते, तथागता अर्हत सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते.
SK
अनेन च भगवन् पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरेण लोकेन रक्षावरणगुप्तिः संविध्यतव्या.
SK
एवम् उक्ते भगवांच् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतद् कौशिक एवम् एतद्, बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति.
SK
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.
SK
अध्यात्मसून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया (Śस्P_II-३_२३१) लोके प्रादुर्भावो भवति.
SK
चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति.
SK
बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश् चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीतशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीतबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः (Śस्P_II-३_२३२) प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते.
SK
बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नः प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते.
SK
बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागता अर्हन्त सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तनं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते.
SK
तस्माद् बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः, सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, मान्स कौशिक सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं मन्यते, बोधिसत्त्वं महासत्त्वं सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं मन्येत्.
SK
तस्माद् बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरेण लोकेन सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयीतव्यः सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, यच् च कौशिकायं त्रिसाहस्रमहासाहस्रो
SK
लोकधातुः परिपूर्णे भवेच् छ्रावकप्रत्येकबुद्धैस् तद् यथा पि नाम नडवनं वा इक्ष्वनं वा शरवनं वा शारवनं वा शारिवनं वा तिलवनं वा तन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यवज्जीवं सत्कुर्यात् मानयेत् पूजयेत् सर्वोपकरणैर् यश् चैकं बोधिसत्त्वं महासत्त्वं प्रथमचित्तोत्पादिकं षड्भिः पारमिताभिर् अविरहितं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेद् अयम् अयम् एव ततो बहुततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? न खलु पुनः कौशिक तांच् छ्रावकप्रत्येकबुद्धान् आगम्य बोधिसत्त्वो महासत्त्वो लोके प्रज्ञायते, न तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रज्ञायते.
SK
बोधिसत्त्वं पुनः कौशिक महासत्त्वम् आगम्य सर्वश्रावकप्रत्येकबुद्धो लोके प्रज्ञायते, तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायते. तस्मात् तर्हि कौशिक सदेवमानुषासुरेण लोकेन बोधिसत्त्वो महासत्त्वः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चास्या रक्षावरणगुप्तिः संविधातव्या.
SK
शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः षोडशमः
SK
Śअतसाहस्रिका Pरज्ञापारमिता II-४
SK
[K. १७१अ१, N. ३२६ब्५, T. २६६अ१, P. A-१५६अ६, Cह्. ५५७ब्१३] अथ खलु शक्रो देवाणाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावच् चेयं बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिताम् उद्गृह्णन्तो धारयन्तो वाचयन्तः पर्यवाप्नुवन्तो योनिशश् च मनसिकुर्वन्त इह धार्मिकान् गुणान् परिगृह्णन्ति सत्त्वांश् च परिपाचयन्ति, बुद्धक्षेत्रं परिशोधयन्ति बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन्ति, बुद्धान् भगवतः पर्युपासीनाः यैश् च कुशलमूलैर् आकाङ्क्षन्ति तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तान् येषां कुशलमूलानि समृध्यन्ति यच् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृण्वति स तावन् न विप्रमुष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा भवन्ति, कुलसंपदं च परिगृह्णन्ति, जननीसंपदं च परिगृह्णन्ति, जन्मसंपदं च परिगृह्णन्ति परिवारसंपदं च परिगृह्णन्ति लक्षणसंपदं च परिगृह्णन्ति, प्रभासंपदं परिगृह्णन्ति, चक्षुःसंपदं च परिगृह्णन्ति स्वरसंपदं च परिगृह्णन्ति समाधिसंपदं च परिगृह्णन्ति धारणीसंपदं च परिगृह्णन्ति उपायकौशल्येन चात्मानं बुद्धविग्रहम् अभिनिर्माय लोकधातोर् लोकधातुं संक्रामन्ति, यत्र बुद्धानां भगवताम् अनुत्पादः प्रादुर्भावो नास्ति, ते तत्र गत्वा दानपारमिताया वर्णं भाषन्ते, शीलपारमिताया वर्णं भाषन्ते, क्षान्तिपारमिताया वर्णं भाषन्ते, वीर्यपारमिताया वर्णं भाषन्ते, ध्यानपारमिताया वर्णं भाषन्ते, प्रज्ञापारमिताया वर्णं भाषन्ते.
SK
अध्यात्मशून्यताया वर्णं भाषन्ते, बहिर्धाशून्यताया वर्णं भाषन्ते, अध्यात्मबहिर्धाशून्यताया वर्णं भाषन्ते, शून्यताशून्यताया वर्णं भाषन्ते, महाशून्यताया वर्णं भाषन्ते, परमार्थशून्यताया वर्णं भाषन्ते, संस्कृतशून्यताया वर्णं भाषन्ते, असंस्कृतशून्यताया वर्णं भाषन्ते, अत्यन्तशून्यताया वर्णं भाषन्ते, अनवराग्रशून्यताया वर्णं भाषन्ते, अनवकारशून्यताया वर्णं भाषन्ते, प्रकृतिशून्यताया वर्णं भाषन्ते, सर्वधर्मशून्यताया वर्णं भाषन्ते, स्वलक्षणशून्यताया (Śस्P_II-४_२) वर्णं भाषन्ते, अनुपलम्भशून्यताया वर्णं भाषन्ते, अभावशून्यताया वर्णं भासन्ते, स्वभावशून्यताया वर्णं भाषन्ते, अभावस्वभावशून्यताया वर्णं भाषन्ते.
SK
चतुर्णां ध्यानानां वर्णं भाषन्ते, चतुर्णाम् अप्रमाणानां वर्णं भाषन्ते, चतसृणाम् आरूप्यसमापत्तीनां वर्णं भाषन्ते, पञ्चानाम् अभिज्ञानां वर्णं भाषन्ते, चतुर्णां स्मृत्युपस्थानानां वर्णं भाषन्ते, चतुर्णां सम्यक्प्रहाणानां वर्णं भाषन्ते, चतुर्णाम् ऋद्धिपादानां वर्णं भाषन्ते, पञ्चानाम् इन्द्रियाणां वर्णं भाषन्ते, पञ्चानां बलानां वर्णं भाषन्ते, सप्तानां बोध्यङ्गानां वर्णं भाषन्ते, आर्याष्टाङ्गस्य मार्गस्य वर्णं भाषन्ते, चतुर्णाम् आर्यसत्यानां वर्णं भाषन्ते, अष्टानां विमोक्षाणां वर्णं भाषन्ते, नवानुपूर्वविहारसमापत्तीनां वर्णं भाषन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वर्णं भाषन्ते, समाधीनं वर्णं भाषन्ते, धारणीमुखानां वर्णं भाषन्ते, दशानां तथागतबलानां वर्णं भाषन्ते, चतुर्णां वैशारद्यानां वर्णं भाषन्ते, चतसृणां प्रतिसंविदां वर्णं भासन्ते, महामैत्र्या वर्णं भाषन्ते, महाकरुणाया वर्णं भाषन्ते, अष्टादशानाम् आवेणिकबुद्धधर्माणां वर्णं भाषन्ते. उपायकौशल्येन च सत्त्वेभ्यो धर्मं देशयन्ति त्रिषु च यानेषु सत्त्वान् विनयन्ति, श्रावकयाने प्रत्येकबुद्धयाने महायाने.
SK
अथ शक्रो देवानाम् इन्द्रः पुनर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावच् चेदं प्रज्ञापारमितया परिगृहीतया सर्वाः षट् पारमिताः परिगृहीता भवन्ति.
SK
अध्यात्मशून्यताः परिगृहीता भवन्ति, बहिर्धाशून्यताः परिगृहीता भवन्ति, अध्यात्मबहिर्धाशून्यताः परिगृहीता भवन्ति, शून्यताशून्यताः परिगृहीता भवन्ति, महाशून्यताः परिगृहीता भवन्ति, परमार्थशून्यताः परिगृहीता भवन्ति, संस्कृतशून्यताः परिगृहीता भवन्ति, असंस्कृतशून्यताः परिगृहीता भवन्ति, अत्यन्तशून्यताः परिगृहीता भवन्ति, अनवराग्रशून्यताः परिगृहीता भवन्ति, अनवकारशून्यताः परिगृहिता भवन्ति, प्रकृतिशून्यताः परिगृहीता भवन्ति, सर्वधर्मशून्यताः परिगृहीता भवन्ति, स्वलक्षणशून्यताः परिगृहीता भवन्ति, अनुपलम्भशून्यताः परिगृहीता भवन्ति, अभावशून्यताः परिगृहीता भवन्ति, स्वभावशून्यताः परिगृहीता भवन्ति, अभावस्वभावशून्यताः परिगृहीता भवन्ति.
SK
स्मृत्युपस्थानानि परिगृहीतानि भवन्ति, सम्यक्प्रहाणानि परिगृहीतानि (Śस्P_II-४_३) भवन्ति, ऋद्धिपादाः परिगृहीता भवन्ति, इन्द्रियाणि परिगृहीतानि भवन्ति, बलानि परिगृहीतानि भवन्ति, बोध्यङ्गानि परिगृहीतानि भवन्ति, आर्याष्टाङ्गो मार्गः परिगृहीतो भवति, आर्यसत्यानि परिगृहीतानि भवन्ति, ध्यानानि परिगृहीतानि भवन्ति, अप्रमाणानि परिगृहीतानि भवन्ति, आरूप्यसमापत्तयः परिगृहीता भवन्ति, विमोक्षाः परिगृहीता भवन्ति, अनुपूर्वविहारसमापत्तयः परिगृहीता भवन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृहीतानि भवन्ति, अभिज्ञाः परिगृहीता भवन्ति, समाधयः परिगृहीता भवन्ति, धारणीमुखानि परिगृहीतानि भवन्ति, तथागतबलानि परिगृहीतानि भवन्ति, वैशारद्यानि परिगृहीतनि भवन्ति, प्रतिसंविदः परिगृहीता भवन्ति, महामैत्री परिगृहीता भवति, महाकरुणा परिगृहीता भवन्ति, आवेणिकबुद्धधर्माः परिगृहीता भवन्ति, स्रोत्रआपत्तिफलं परिगृहीतं भवति, सकृदागामिफलं परिगृहीतं भवति, अनागामिफलं परिगृहीतं भवति, अर्हत्त्वं परिगृहीतं भवति, प्रत्येकबोधिः परिगृहीता भवति, मार्गाकारज्ञता परिगृहीता भवति, सर्वाकारज्ञता परिगृहीता भवति.
SK
एवम् उक्ते भगवाञ् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमितया कौशिक परिगृहीतया सर्वाः षट् पारमिताः परिगृहीता भवन्ति.
SK
अध्यात्मशून्यता परिगृहीता भवति, बहिर्धाशून्यता परिगृहीता भवति, अध्यात्मबहिर्धाशून्यता परिगृहीता भवति, शून्यताशून्यता परिगृहीता भवति, महाशून्यता परिगृहीता भवति, परमार्थशून्यता परिगृहीता भवति, संस्कृतशून्यता परिगृहीता भवति, असंस्कृतशून्यता परिगृहीता भवति, अत्यन्तशून्यता परिगृहीता भवति, अनवराग्रशून्यता परिगृहिता भवति, अनवकारशून्यता परिगृहीता भवति, प्रकृतिशून्यता परिगृहीता भवति, सर्वधर्मशून्यता परिगृहीता भवति, स्वलक्षणशून्यता परिगृहीता भवति, अनुपलम्भशून्यता परिगृहीता भवति, अभावशून्यता परिगृहीता भवति, स्वभावशून्यता परिगृहीता भवति, अभावस्वभावशून्यता परिगृहीता भवति.
SK
स्मृत्युपस्थानानि परिगृहीतानि भवन्ति, सम्यक्प्रहाणानि परिगृहीतानि भवन्ति, ऋद्धिपादाः परिगृहीता भवन्ति, इन्द्रियाणि परिगृहीतानि भवन्ति, बलानि परिगृहीतानि भवन्ति, बोध्यङ्गानि परिगृहीतानि भवन्ति, आर्याष्टाङ्गो मार्गः परिगृहीतो भवन्ति, आर्यसत्यानि परिगृहीतानि भवन्ति, ध्यानानि परिगृहीतानि भवन्ति, अप्रमाणानि परिगृहीतानि भवन्ति, आरूप्यसमापत्तयः परिगृहीता भवन्ति, विमोक्षाः परिगृहीता भवन्ति, अनुपूर्वविहारसमापत्तयः (Śस्P_II-४_४) परिगृहीता भवन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृहीतानि भवन्ति, अभिज्ञाः परिगृहीता भवन्ति, समाधयः परिगृहीता भवन्ति, धारणीमुखानि परिगृहीतानि भवन्ति, तथागतबलानि परिगृहीतानि भवन्ति, वैशारद्यानि परिगृहीतानि भवन्ति, प्रतिसंविदः परिगृहीता भवन्ति, महामैत्री परिगृहीता भवति, महाकरुणा परिगृहीता भवति, आवेणिकबुद्धधर्माः परिगृहीता भवन्ति, स्रोतआपत्तिफलं परिगृहीतं भवति, सकृदागामिफलं परिगृहीतं भवति, अनागामिफलं परिगृहीतं भवति, अर्हत्त्वं परिगृहीतं भवति, प्रत्येकबोधिः परिगृहीता भवति, मार्गाकारज्ञता परिगृहीता भवति, सर्वाकारज्ञता परिगृहीता भवति.
SK
[K. १७१ब्१४, N. ३२८ब्२, T. २६७अ१२, P. १६०अ१, Cह्. ५५९च्१६] पुनर् अपरं कौशिक प्रज्ञापारमितया परिगृहीतया धारयितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया याङ् गुणान् स कुलपुत्रो वा कुलदुहिता वा दृष्टिधार्मिकान् परिगृह्णाति, तांच् छृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं, एवं भगवन्न् इति शक्रो देवानाम् इन्द्रो भगवतः प्रत्यश्रोषीत्, भगवांस् तम् एतद् अवोचत्: यो हि कश्चित् कौशिक अन्यतीर्थिकचरकपरिव्राजको मारो वा मारकायिका वा देवता अधिमानिका वा पुद्गला इमां प्रज्ञापारमितां विग्रहीतुकामा भविष्यन्ति विवेचयितुकमा भविष्यन्ति विवदितुकामा भविष्यन्ति विरोधयितुकामा भविष्यन्ति तेषां विग्रहीतुकामानां विवेचयितुकमानां विवदितुकामानां विरोधयितुकामानाम् उत्पन्नोत्पन्ना विग्रहविवेचनविवादविरोधाः क्षिप्रम् एव पुनर् एवान्तर्धानात् प्रलयं यास्यन्ति, तेषां विग्रहीतुकामानां विवेचयितुकामानां विवदितुकामानां विरोधयितुकामानां ते ऽभिप्राया न परिपूरयिष्यन्ति. तत् कस्य हेतोः? तथा हि कौशिक बोधिसत्त्वेन महासत्त्वेन दीर्घरात्रं दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता, येषां कृतशः सत्त्वा दीर्घरात्रं कलहभण्डनविग्रहविवादान् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वा दानपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं दौःशील्यम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वाः शीलपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं क्रोधव्यापादविहिंसा आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् (Śस्P_II-४_५) धर्मान् परित्यज्यते सत्त्वाः क्षान्तिपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं कौसीद्यम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वा वीर्यपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं विक्षेपम् आपद्यते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्त्वा ध्यानपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं दौष्प्रज्ञाम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्त्वाः प्रज्ञानपारमितायां प्रतिष्ठापिताः, येषां कृते कौशिक सत्त्वाः संसारे संसारन्ति यद् उतानुशयपर्युत्थाने न तान् बोधिसत्त्वेन महासत्त्वेनोपायकौशलेन, तेषां सत्त्वानाम् अनुशयपर्युत्थानं विगृह्यते सत्त्वाश् चतुर्षु ध्यानेषु प्रतिष्ठापिताश् चतुर्ष्व् अप्रमाणेषु समादापिताश् चतसृष्व् आरूप्यसमापत्तिषु समादापिता पञ्चस्व् अभिज्ञासु समादापिताः चतुर्षु स्मृत्युपस्थानेषु अमादापिताश् चतुर्षु सम्यक्प्रहाणेषु समादापिताः चतुर्ष्व् ऋद्धिपादेषु समापिताः पञ्चस्व् इन्द्रियेषु समादापिताः पञ्चसु बलेषु समादापिताः सप्तसु बोध्यङ्गेषु समादापिताः आर्याष्टाङ्गे मार्गे समादापिताश् चतुर्ष्व् आर्यसत्येषु समादापिताः, नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापिताः सर्वसमाधिषु समादापिताः सर्वधारणीमुखेषु समादापिताः, दशसु तथागतबलेषु समादापिताः चतुर्षु वैशारद्येषु प्रतिष्ठापिताः, चतसृषु प्रतिसंवित्सु प्रतिष्ठापिताः, महामैत्र्यां प्रतिष्ठापिताः, महाकरुणायां प्रतिष्ठापिताः, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु समादापिताः, स्रोतआपत्तिफले प्रतिष्ठापिताः, सकृदागामिफले प्रतिष्ठापिताः, अनागामिफले प्रतिष्ठापिताः, अर्हत्त्वे प्रतिष्ठापिताः प्रत्येकबोधौ प्रतिष्ठापिताः, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापिताः.
SK
इमे ते कौशिक बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरता दृष्टधार्मिका न गुणानुशंसा भविष्यन्ति, संपराये चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्त्य सत्त्वान्यथाप्रतिष्ठाने प्रतिष्ठाप्यानुपधिशेषे निर्वाणधातौ परिनिर्वास्यति.
SK
इमे कौशिक बोधिसत्त्वस्य महासत्त्वस्य सांपरायिका गुणानुशंसा भविष्यन्ति.
SK
[K. १७२अल्०, N. ३२९ब्३, T. २६८अ५, P. १६१ब्५, Cह्. ५६०ब्ल्७] पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा यस्मिन् पृथिवीप्रदेशे इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति (Śस्P_II-४_६) योनिशश् च मनसिकरिष्यति, न तत्र पृथिवीप्रदेशे मारो वा मारकायिका वा देवता अन्यतीर्थिका वा परिव्राजका आधिमानिक वा पुद्गलाः शक्ष्यन्त्य् अस्याः प्रज्ञापारमिताया विग्रहाय वा विवादाय वा विरोधाय वान्तर्धानाय वा पराक्रमितुम् उत्तरे च तेषां गुणानुशंसा भविष्यन्ति. यदास्याः प्रज्ञापारमितायाः श्रवणग्रहणभावनाभिर् अनुपूर्वेण त्रिभिर् यानैर् निर्याय दुःखस्यान्तं करिष्यन्ति, तद् यथापि नाम कौशिक मघिनाम् औषधीः सर्वविषप्रशमणी तत्राशीविषेण वा जन्तुना वा क्षुधाभिभूतेनाहारान्वेषिणा किंचिद् एव प्राणिजातं दृष्टं भवेत्. स तत् प्राणकजातं खादितुकामतयानुगच्छेत्. अथ तत् प्राणकजातं मरणभयभीतं येन सा मघी नाम्ऽ औषधिस् तेनोपसंक्रामन् ततः स आशीविषस् तस्या औषध्या गन्धेनैव प्रत्युदावर्तितव्यं मन्येत. तत् कस्य हेतोः? तथा हि तस्या औषध्या भैषज्यगुणो यं तस्याशीविषस्य तद् विषम् अभिभवत्य् एव बलवती हि कौशिक सा मघी औषधिः.
SK
एवम् एव कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यन्ति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तत्र कौशिक य उत्पन्नोत्पन्ना विग्रहविवादविरोधा भविष्यन्ति, ते प्रज्ञापारमितायास् तेजसा प्रज्ञापारमिताया बलेन क्षिप्रम् एवान्तर्धास्यन्ति, उपशमिष्यन्ति, यतो यत एवोत्पत्स्यन्ते तत्र तत्रैवान्तर्धास्यन्ति, न विवर्धयिष्यन्ते. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिता सर्वेषां पापकानां धर्माणाम् उपशमयित्री न विवर्धिका यद् उत रागद्वेषमोहाणाम् उपशमयित्री न विवर्धिका.
SK
अविद्याया उपशमयित्री न विवर्धिका, संस्काराणाम् उपशमयित्री न विवर्धिका, विज्ञानस्योपशमयित्री न विवर्धिका, नामरूपस्योपशमयित्री न विवर्धिका, षडायतनस्योपशमयित्री न विवर्धिका, स्पर्शस्योपशमयित्री न विवर्धिका, वेदनाया उपसमयीत्रि न विवर्धिका, तृष्णाया उपशमयित्री न विवर्धिका, उपादानस्योपशमयित्री न विवर्धिका, भवस्योपशमयित्री न विवर्धिका, जातेर् उपशमयित्री न विवर्धिका, जरामरणस्योपशमयित्री न विवर्धिका.
SK
स्वकपरिदेवदुःखदौर्मणस्योपायासानाम् उपशमयित्री न विवर्धिका, यावत् केवलस्य महतो दुःखस्कन्धस्योपशमयित्रि न विवर्धिका, नीवरणानाम् उपशमयित्री न विवर्धिका, आवरणानाम् उपसमयित्रि न विवर्धिका, अनुशयानाम् उपशमयित्री न विवर्धिका, पर्युत्थानानाम् उपशमयित्री न विवर्धिका, अनात्मदृष्टेर् उपशमयित्री (Śस्P_II-४_७) न विवर्धिका, सत्त्वदृष्टेर् उपशमयित्री न विवर्धिका, जीवदृष्टेर् उपशमयित्री न विवर्धिका, जन्तुदृष्टेर् उपशमयित्री न विवर्धिका, पोषदृष्टेर् उपशमयित्री न विवर्धिका, पुरुषदृष्टेर् उपशमयित्री न विवर्धिका, पुद्गलदृष्टेर् उपशमयित्री न विवर्धिका, मनुजदृष्टेर् उपशमयित्रि न विवर्धिका, मानवदृष्टेर् उपशमयित्रीन विवर्धिका, कारकदृष्टेर् उपशमयित्री न विवर्धिका, वेदकदृष्टेर् उपशमयित्री न विवर्धिका, जानकदृष्टेर् उपशमयित्री न विवर्धिका, पश्यकदृष्टेर् उपशमयित्री न विवर्धिका, उच्छेदकदृष्टेर् उपशमयित्री न विवर्धिका, शाश्वतदृष्टेर् उपशमयित्री न विवर्धिका, अस्तिदृष्टेर् उपशमयित्री न विवर्धिका, नास्तिदृष्टेर् उपशमयित्री न विवर्धिका, सर्वदृष्टिगतानाम् उपशमयित्री न विवर्धिका, मात्सर्यस्योपशमयित्री न विवर्धिका, दौशील्यस्योपशमयित्री न विवर्धिका, व्यापादस्योपशमयित्री न विवर्धिका, कौशीद्यस्योपशमयित्री न विवर्धिका, विक्षेपस्योपशमयित्री न विवर्धिका, दौष्प्रज्ञस्योपशमयित्री न विवर्धिका, नित्यसंज्ञाया उपशमयित्री न विवर्धिका, सुखसंज्ञाया उपशमयित्रि न विवर्धिका, आत्मसंज्ञाया उपशमयित्री न विवर्धिका, शुभसंज्ञाया उपशमयित्री न विवर्धिका, तृष्णाविचरिताम् उपशमयित्री न विवर्धिका, रूपग्राहस्योपशमयित्री न विवर्धिका, वेदनाग्राहस्योपशमयित्री न विवर्धिका, संज्ञाग्राहस्योपशमयित्री न विवर्धिका, संस्कारग्राहस्योपशमयित्री न विवर्धिका, विज्ञानग्राहस्योपशमयित्री न विवर्धिका.
SK
दानपारमिताग्राहस्योपशमयित्री न विवर्धिका, शीलपारमिताग्राहस्योपशमयित्री न विवर्धिका, क्षान्तिपारमिताग्राहस्योपशमयित्री न विवर्धिका, वीर्यपारमिताग्राहस्योपशमयित्री न विवर्धिका, ध्यानपारमिताग्राहस्योपशमयित्री न विवर्धिका, प्रज्ञापारमिताग्राहस्योपशमयित्री न विवर्धिका,
SK
अध्यात्मशून्यताग्राहस्योपशमयित्री न विवर्धिका, बहिर्धाशून्यताग्राहस्योपशमयित्री न विवर्धिका, अध्यात्मबहिर्धाशून्यताग्राहस्योपशमयित्री न विवर्धिका, शून्यताशून्यताग्राहस्योपशमयित्री न विवर्धिका, महाशून्यताग्राहस्योपशमयित्री न विवर्धिका, परमार्थशून्यताग्राहस्योपशमयित्री न विवर्धिका, संस्कृतशून्यताग्राहस्योपशमयित्री न विवर्धिका, असंस्कृतशून्यताग्राहस्योपशमयित्री न विवर्धिका, अत्यन्तशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनवराग्रशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनवकारशून्यताग्राहस्योपशमयित्री न विवर्धिका, प्रकृतिशून्यताग्राहस्योपशमयित्री न विवर्धिका, सर्वधर्मशून्यताग्राहस्योपशमयित्री (Śस्P_II-४_८) न विवर्धिका, स्वलक्षणशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनुपलम्भशून्यताग्राहस्योपय्शमयित्री न विवर्धिका, अभावशून्यताग्राहस्योपशमयित्री न विवर्धिका, स्वभावशून्यताग्राहस्योपशमयित्री न विवर्धिका, अभावस्वभावशून्यताग्राहस्योपशमयित्री न विवर्धिका.
SK
स्मृत्युपस्थानग्राहस्योपशमयित्री न विवर्धिका, सम्यक्प्रहाणग्राहस्योपशमयित्री न विवर्धिका, ऋद्धिपादग्राहस्योपशमयित्री न विवर्धिका, इन्द्रियग्राहस्योपशमयित्री न विवर्धिका, बलग्राहस्योपशमयित्री न विवर्धिका, बोध्यङ्गग्राहस्योपशमयित्री न विवर्धिका, आर्याष्टाङ्गमार्गग्राहस्योपशमयित्री न विवर्धिका, आर्यसत्यग्राहस्योपशमयित्री न विवर्धिका, ध्यानग्राहस्योपशमयित्री न विवर्धिका, अप्रमाणग्राहस्योपशमयित्री न विवर्धिका, आरूप्यसमापत्तिग्राहयोपशमयित्री न विवर्धिका, विमोक्षग्राहस्योपशमयित्री न विवर्धिका, अनुपूर्वविहारसमापत्तिग्राहस्योपशमयित्री न विवर्धिका, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञाग्राहस्योपशमयित्री न विवर्धिका, समाधिग्राहस्योपशमयित्री न विवर्धिका, धारणीमुखग्राहस्योपशमयित्री न विवर्धिका, तथागतबलग्राहस्योपशमयित्री न विवर्धिका, वैशारद्यग्राहस्योपसमयित्री न विवर्धिका, प्रतिसंविद्ग्राहस्योपशमयित्री न विवर्धिका, महामैत्रीग्राहस्योपशमयित्री न विवर्धिका, महाकरुणाग्राहस्योपशमयित्री न विवर्धिका, आवेणिकबुद्धधर्मग्राहस्योपशमयित्री न विवर्धिका, सर्वज्ञताग्राहस्योपशमयित्री न विवर्धिका, मार्गाकारज्ञताग्राहस्योपशमयित्री न विवर्धिका, सर्वाकारज्ञताग्राहस्योपशमयित्री न विवर्धिका, निर्वाणग्राहस्योपशमयित्री न विवर्धिका.
SK
[K. १७२ब्२०, N. ३३१ब्१, T. २६९ब्४, P. १६५अ३, Cह्. ५६१च्७] एतेषां कौशिक सर्वेसां मारकायिकानां धर्माणाम् इयं प्रज्ञापारमितोपशमयित्री न विवर्धिका, यावन्त कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ चत्वारो महाराजानः शक्रश् च देवानाम् इन्द्रो ब्रह्मानश् च सहापतिः आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासो देवाः, ते सर्वे तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति, यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश् च मनसिकरिष्यन्ति.
SK
स पुनर् अकुशलेभयश् च धर्मेभ्यः परिहास्यते, कुशलैर् धर्मैर् (Śस्P_II-४_९) विवर्धिष्यते, यद् उत दानपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शीलपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, क्षान्तिपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, वीर्यपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ध्यानपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रज्ञापारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.
SK
अध्यात्मशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बहिर्धाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शून्यताशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, परमार्थशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, संस्कृतशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, असंस्कृतशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अत्यन्तशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनवराग्रशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनवकारशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रकृतिशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वधर्मशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, स्वलक्षणशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनुपलम्भशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, स्वभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभावस्वभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.
SK
स्मृत्युपस्थानैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सम्यक्प्रहाणैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ऋद्धिपादैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, इन्द्रियैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बलैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बोध्यङ्गैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आर्याष्टाङ्गेन मार्गेन विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आर्यसत्यैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ध्यानैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अप्रमाणैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आरूप्यसमापत्तिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, विमोक्षैर् विवर्धिष्यते (Śस्P_II-४_१०) न परिहास्यते ऽनुपलम्भयोगेन, अनुपूर्वविहारसमापत्तिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभिज्ञाभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, समाधिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, धारणीमुखैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, तथागतबलैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, वैशारद्यैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रतिसंविद्भिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महामैत्र्या विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महाकरुणया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आवेणिकबुद्धधर्मैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, मार्गाकारज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वाकारज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.
SK
[K. १७३अ१७, N. ३३२ब्३, T, २७Oअ१२, P. १६७अ७, Cह्. ५६२अ२१] स आदेयवचनश् च भविष्यति मितवचनस् च भविष्यति न च विकीर्णवचनो भविष्यति न क्रोधाभिभूतो भविष्यति, न मानाभिभूतो भविष्यति, न मत्सरो भविष्यति, नेर्ष्यालुको भविष्यति,
SK
आत्मना च प्रणातिपातात् प्रतिविरतो भविष्यति, परांश् च प्राणातिपातवैरमण्यां समादापयति, प्राणातिपातवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये प्राणातिपातात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चादत्तादानात् प्रतिविरतो भविष्यति, परांश् चादत्तादानवैरमण्यां समादापयिष्यति. अदत्तादानवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये ऽदत्तादानात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च काममिथ्याचारात् प्रतिविरतो भविष्यति. परांश् च काममिथ्याचारवैरमण्यां समादापयिष्यति काममिथ्याचारविरमण्याश् च वर्णं भाषिष्यते, ये चान्ये काममिथ्याचारात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मृषावादात् प्रतिविरतो भविष्यति. परांश् च मृषावादवैरमण्यां समादापयिष्यति मृषावादवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये मृषावादात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पैशुन्यात् प्रतिविरतो भविष्यति, परांश् च पैशुन्यवैरमण्यां समादापयिष्यति, पैशुन्यवैरमण्याश् च वर्णं भाषिष्यति, ये चान्ये (Śस्P_II-४_११) पैशून्यात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पारुष्यात् प्रतिविरतो भविष्यति, परांश् च पारुष्यवैरमण्यां समादायति, पारूष्यवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये पारुष्यात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च संभिन्नप्रलापात् प्रतिविरतो भविष्यति, परांश् च संभिन्नप्रलापवैरमण्यां समादापयिष्यति, संभिन्नप्रलापवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये संविन्नप्रलापात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभिध्यायाः प्रतिविरतो भविष्यति, परांश् चाभिध्यावैरमण्यां समादापयिष्यति, अभिध्यावैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये ऽभिध्यायाः प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च व्यापादात् प्रतिविरतो भविष्यति, परांश् च व्यापादवैरमण्यां समादापयति, व्यापादवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये व्यापादात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मिथ्यादृष्टेः प्रतिविरतो भविष्यति, परांश् च मिथ्यादृष्टिवैरमण्यां समादापयति, मिथ्यादृष्टिवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये मिथ्यादृष्टेः प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च दानपारमितायां वर्तिष्यते, परांश् च दानपारमितायां समादापयिष्यति, दानपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये दानपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शीलपारमितायां वर्तिष्यते, परांश् च शीलपारमितायां समादापयिष्यति, शीलपारमितयाश् च वर्णं भाषिष्यते, ये चान्ये शीलपारमितायां वर्तिष्यन्ते , तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च क्षान्तिपारमितायां वर्तिष्यते, परांश् च क्षान्तिपारमितायां समादापयिष्यति, क्षान्तिपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये क्षान्तिपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च वीर्यपारमितायां वर्तिष्यते, परांश् च वीर्यपारमितायां समादापयिष्यति, वीर्यपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये वीर्यपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च ध्यानपारमितायां वर्तिष्यते, परांश् च ध्यानपारमितायां समादापयिष्यति, ध्यानपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये ध्यानपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, अत्मना च प्रज्ञापारमितायां वर्तिष्यते, परांश् च प्रैञापारमितायां (Śस्P_II-४_१२) समादापयिष्यति, प्रज्ञापारमितायाश् च वर्णं भाषिष्यते, ये चान्ये प्रज्ञापारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः.
SK
आत्मना चाध्यात्मशून्यतां भावयिष्यति, परांश् चाध्यात्मशून्यतायां समादापयिष्यति, अध्यात्मशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽध्यात्मशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च बहिर्धाशून्यतां भावयिष्यति, परांश् च बहिर्धाशून्यतायां समादापयिष्यति, बहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये बहिर्धाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाध्यात्मबहिर्धाशून्यतां भावयिष्यति, परांश् चाध्यात्मबहिर्धाशून्यतायां समादापयिष्यति, अध्यात्मबहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽध्यात्मबहिर्धाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शून्यताशून्यतां भावयिष्यति, परांश् च शून्यताशून्यतायां समादापयिष्यति, शून्यताशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये शून्यताशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महाशून्यतां भावयिष्यति, परांश् च महाशून्यतायां समादापयिष्यति, महाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये महाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च परमार्थशून्यतां भावयिष्यति, परांश् च परमार्थशून्यतायां समादापयिष्यति, परमार्थशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये परमार्थशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च संस्कृतशून्यतां भावयिष्यति, परांश् च संस्कृतशून्यतायां समादापयिष्यति, संस्कृतशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये संस्कृतशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चासंस्कृतशून्यतां भावयिष्यति, परांश् चासंस्कृतशून्यतायां समादापयिष्यति, असंस्कृतशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽसंस्कृतशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चात्यन्तशून्यतां भावयिष्यति, परांश् चात्यन्तशून्यतायां समादापयिष्यति, अत्यन्तशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽत्यन्तशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चानवराग्रशून्यतां भावयिष्यति, परांश् चानवराग्रशून्यतायां समादापयिष्यति, अनवराग्रशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनवराग्रशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चानवकारशून्यतां भावयिष्यति, परांश् (Śस्P_II-४_१३) चानवकारशून्यतायां समादापयिष्यति, अनवकारशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनवकारशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः, आत्मना च प्रकृतिशून्यतां भावयिष्यति, परांश् च प्रकृतिशून्यतायां समादापयिष्यति, प्रकृतिशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये प्रकृतिशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सर्वधर्मशून्यतां भावयिष्यति, परांश् च सर्वधर्मशून्यतायां समादापयिष्यति, सर्वधर्मशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये सर्वधर्मशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च स्वलक्षणशून्यतां भावयिष्यति, परांश् च स्वलक्षणशून्यतायां समादापयिष्यति, स्वलक्षणशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये स्वलक्षणशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः, आत्मना चानुपलम्भशून्यतां भावयिष्यति, परांश् चानुपलम्भशून्यतायां समादापयिष्यति, अनुपलम्भशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनुपलम्भशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभावशून्यतां भावयिष्यति, परांश् चाभावशून्यतायां समादापयिष्यति, अभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च स्वभावशून्यतां भावयिष्यति, परांश् च स्वभावशून्यतायां समादापयिष्यति, स्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये स्वभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभावस्वभावशून्यतां भावयिष्यति, परांश् चाभावस्वभावशून्यतायां समादापयिष्यति, अभावस्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽभावस्वभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
[K. १७४अ११, N. ३३४ब्७, T. २७२अ५, P. १७०ब्१, Cह्. ५६४अ१७] आत्मना च सर्वसमाधीन् समापत्स्यते परांश् च सर्वसमाधिसमापत्तौ समादापयिष्यति, सर्वसमाधिसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये सर्वसमाधीन् समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च धारणीप्रतिलब्धो भाविष्यति, परांश् च धारणीप्रतिलम्भाय समादापयिष्यति, धारणीप्रतिलम्भस्य च वर्णं भाषिष्यते, ये चान्ये धारणीप्रतिलम्भा भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च प्रथमं ध्यानं समापत्स्यते, परांश् च प्रथमे (Śस्P_II-४_१४) ध्याने समादापयिष्यति, प्रथमध्यानस्य च वर्णं भाषिष्यते, ये चान्ये प्रथमं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च द्वितीयं ध्यानं समापत्स्यते, परांश् च द्वितीये ध्याने समादापयिष्यति, द्वितीयध्यानस्य च वर्णं भाषिष्यते, ये चान्ये द्वितीयं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च तृतीयं ध्यानं समापत्स्यते, परांश् च तृतीये ध्याने समादापयिष्यति, तृतीयध्यानस्य च वर्णं भाषिष्यते, ये चान्ये तृतीयं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतुर्थं ध्यानं समापत्स्यते, परांश् च चतुर्थे ध्याने समादापयिष्यति, चतुर्थध्यानस्य च वर्णं भाषिष्यते, ये चान्ये चतुर्थं ध्यानं समापत्स्यते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च मैत्री समापत्स्यते, परांश् च मैत्रीसमापत्तौ समादापयिष्यति, मैत्रीसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये महामैत्री समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च करुणा समापत्स्यते, परांश् च करुणायां समादापयिष्यति, करुणासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये करुणा समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मुदितां समापत्स्यते, परांश् च मुदितासमापत्तौ समादापयिष्यति, मुदितासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये मुदितां समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चोपेक्षां समापत्स्यते, परांश् चोपेक्षासमापत्तौ समादापयिष्यति, उपेक्षासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये उपेक्षां समापत्स्यते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना चाकाशानन्त्यायतनसमापत्तिं समापत्स्यते, परांश् चाकाशानन्त्यायतनसमापत्तौ समादापयिष्यति, आकाशानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये आकाशानन्त्यायतनं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च विज्ञानानन्त्यायतनसमापत्तिं समापत्स्यते, परांश् च विज्ञानानन्त्यायतनसमापत्तौ समादापयिष्यति, विज्ञानानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये विज्ञानानन्त्यायतनं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाकिञ्चन्यायतनसमापत्तिं समापत्स्यते, परांश् चाकिञ्चन्यायतनसमापत्तौ समादापयिष्यति, आकिञ्चन्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये आकिञ्चन्यायतनसमापत्तिं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति (Śस्P_II-४_१५) समनुज्ञः, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिं समापत्स्यते, परांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयिष्यति, नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
आत्मना च चत्वारि स्मृत्युपस्थानानि भावयिष्यति, परांश् च स्मृत्युपस्थानभावनतायां समादापयिष्यति, स्मृत्युपस्थानभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये स्मृत्युपस्थानानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सम्यक्प्रहाणानि भावयिष्यति, परांश् च सम्यक्प्रहाणभावनतायां समादापयिष्यति, सम्यक्प्रहाणभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये सम्यक्प्रहाणानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतुर ऋद्धिपादान् भावयिष्यति, परांश् च ऋद्धिपादभावनतायां समादापयिष्यति, ऋद्धिपादभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये ऋद्धिपादान् भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पञ्चेन्द्रियाणि भावयिष्यति, परांश् च पञ्चेन्द्रियभावनतायां समादापयिष्यति, पञ्चेन्द्रियभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये पञ्चेन्द्रियाणि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पञ्चबलानि भावयिष्यति, परांश् च बलभावनतायां समादापयिष्यति, बलभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये बलानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सप्तबोध्यङ्गानि भावयिष्यति, परांश् च सप्तबोध्यङ्गभावनतायां समादापयिष्यति, बोध्यङ्गभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये सप्तबोध्यङ्गानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चार्याष्टङ्गमार्गं भावयिष्यति, परांश् चार्याष्टाङ्गमार्गभावनायां समादापयिष्यति, आर्याष्टाङ्गमार्गभावनायाश् च वर्णं भाषिष्यते, ये चान्ये आर्याष्टाङ्गमार्गं भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयिष्यति, परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयिष्यति, शून्यतानिमित्ताप्रणिहितसमाधीनां वर्णं भाषिष्यते, ये चान्ये शून्यतानिमित्ताप्रणिहितसमाधीन् भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाष्टौ विमोक्षान् अनुलोमप्रतिलोमं (Śस्P_II-४_१६) समापत्स्यते, परांश् चाष्टविमोक्षेषु समादापयिष्यति, चाष्टानां विमोक्षाणां वर्णं भाषिष्यते, ये चान्ये ऽष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापत्स्यते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च नवानुपूर्वविहारसमापत्तीः समापत्स्यन्ते, परांश् च नवानुपूर्वविहारसमापत्तिषु समादापयिष्यति, अनुपूर्वविहारसमापत्तिनां वर्णं भाषिष्यते, ये चान्ये ऽनुपूर्वविहारसमापत्तीः समापत्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च दशतथागतबलानि समापत्स्यते, परांश् च दशतथागतबलेषु समादापयिष्यति, दशानां तथागतबलानां वर्णं भाषिष्यते, ये चान्ये दशतथागतबलानि समापत्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चत्वारि वैशारद्यानि भावयिष्यति, परांश् च वैशारद्येषु समादापयिष्यति, वैशारद्यानां वर्णं भाषिष्यते, ये चान्ये वैशारद्यानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतस्रः प्रतिसंविदो भावयिष्यति, परांश् च प्रतिसंविद्भावनायां समादापयिष्यति, प्रतिसंविद्भावनायाश् च वर्णं भाषिष्यते, ये चान्ये प्रतिसंविदो भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महामैत्रीं समापत्स्यते, परांश् च महामैत्रीसमापत्तौ समादापयिष्यति, महामैत्रीसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये महामैत्रीं भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महाकरुणां भावयिष्यति, परांश् च महाकरुणायां समादापयिष्यति, महाकरुणायाश् च वर्णं भाषिष्यते, ये चान्ये महाकरुणां भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चावेणिकबुद्धधर्मान् निष्पादयिष्यति, परांश् चावेणिकबुद्धधर्मनिष्पत्तौ समादापयिष्यति, आवेणिकबुद्धधर्मनिष्पत्तेश् च वर्णं भाषिष्यते, ये चान्ये आवेणिकबुद्धधर्मान् निष्पादयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चासंप्रमोषधर्मा भविष्यति, परांश् चासंप्रमोषधर्मतायां समादापयिष्यति, असंप्रमोषधर्मतायाश् च वर्णं भाषिष्यते, ये चान्ये असंप्रमोषधर्माणो भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सदोपेक्षाविहारी भविष्यति, परांश् च सदोपेक्षाविहारितायां समादापयिष्यति, सदोपेक्षाविहारितायाश् च वर्णं भाषिष्यते, ये चान्ये सदोपेक्षाविहारिणो भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मार्गाकारज्ञतां परिपूरयिष्यति, परांश् च मार्गाकारज्ञतापरिपूर्यां समादापयिष्यति, मार्गाकारज्ञतापरिपूर्याश् च वर्णं भाषिष्यते, ये चान्ये मार्गाकारज्ञतां (Śस्P_II-४_१७) परिपूरयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सर्वाकारज्ञतां प्रतिलप्स्यते, परांश् च सर्वाकारज्ञता प्रतिलम्भाय समादापयिष्यति, सर्वाकारज्ञताप्रतिलम्भस्य च वर्णं भाषिष्यते, ये चान्ये सर्वाकारज्ञतां प्रतिलप्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
SK
[K. १७५अ५, N. ३३६ब्९, T. २७३ब्८, P. १७४अ१, Cह्. ५६४अ२६] स षट्सु पारमितासु चरन् यद् दानं दास्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यच् छीलं रक्षिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यां क्षान्तिं भावयिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यद् वीर्यं आरप्स्यते तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यद् ध्यानं समापद्यते तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यां प्रज्ञां भावयिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन.
SK
एवं चरतः कुलपुत्रस्य वा कुलदुहितुर् वा षट्सु पारमितासु स्मृतिर् उत्पत्स्यते, सचेद् दानं न दास्यामि दुर्गतेषु कुलेषूपपत्स्य न च मे सत्त्वपरिपाको भविष्यति न बुद्धक्षेत्रपरिशोधनं न सर्वाकारज्ञतां प्रतिलप्स्ये, सचेत् छीलं न रक्षिष्यामि तिसृषु मे दुर्गतीषूपपत्तिर् भविष्यति, न च मे मनुष्यप्रतिलम्भो भविष्यति, न सत्त्वपरिपाको न बुद्धक्षेत्रपरिशोधनं न सर्वाकारज्ञतां प्रतिलप्स्ये, सचेन् न क्षान्तिं भावयिष्यामि, इन्द्रियाणि मे परिभेत्स्यते मुखमण्डलं मे ध्यामीभविष्यति, न च रूपसंपदं प्रतिलप्स्ये, यया रूपसंपदया बोधिसत्त्वचारिकाः चरतः सत्त्वसहदर्शने नैव नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ न च रूपसंपदा सत्त्वान् परिपाचयिष्यामि न बुद्धक्षेत्रं परिशोधयिष्यामि न मार्गाकारज्ञतां प्रतिलप्स्ये, सचेत् कुसीदो भविष्यति नेमं शक्ष्यामि बोधिमार्गम् अनुप्राप्तं न च मे सत्त्वपरिपाको भविष्यति, न बुद्धक्षेत्रं परिशोधनं न सर्वाकारज्ञतं प्रतिलप्स्ये, सचेद् विक्षिप्तचित्तो भविष्यामि नेदं शक्स्यामि समाधिम् उत्पादयितुं येन समाधिना सत्त्वान् परिपाचयिष्यामि न मे बुद्धक्षेत्रपरिशोधनं भविष्यामि न सर्वाकारज्ञताम् अनुप्राप्स्ये, सचेद् (Śस्P_II-४_१८) दुष्प्रज्ञो भविष्यामि न शक्ष्यामि प्रज्ञोपायकौशलेन श्रावकभूमिप्रत्येकबुद्धभूमिं चातिक्रम्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञताम् अनुप्राप्तुं, स एवं प्रतिसंशिक्षिष्यते, अयुक्तम् एतद् भवेद् यो मां मात्सर्यवशेन दानपारमितां न परिपूरयेयं दौःशील्यवशेन शीलपारमितां न परिपूरयेयं व्यापदवशेन क्षान्तिपारमितां न परिपूरयेयं कौशीद्यवशेन वीर्यपारमितां न परिपूरयेयं विक्षेपवशेन ध्यानपारमितां न परिपूरयेयं दौष्प्रज्ञावशेन प्रज्ञापारमितां न परिपूरयेयं, अपरिपूरयन् दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां न निर्यास्यामि सर्वाकारज्ञतायाम्.
SK
एवं खलु कौशिक स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकांश् च सांपरायिकांश् च गुणानुशंसान् प्रतिलप्स्यते, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वाकारज्ञताचित्तेन.
SK
[K. १७५अ१८, N. ३३७ब्६, T. २७४अ११, P. १७५अ८, Cह्. ५६४च्२३] शक्र आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता.
SK
भगवान् आह: यथा पुनः कौशिक बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितापरिदमनार्थायानुन्नमार्थाय च प्रत्युपस्थिता.
SK
शक्र आह: इह भगवन् बोधिसत्त्वो महासत्त्वो लौकिक्यां दानपारमितायां चरन् बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यश् च दानं ददाति, तस्यैवं भवत्य् अहं दानं ददामि बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यश् च स कृपणवनीयकार्थेन याचनकेभ्यश् च स तेन दानेनानुपायकौशलेनोन्नामं गच्छति, लौकिक्यां शीलपारमितायां चरतः, एवं भवत्य् अहं शीलपारमितायां चराम्य् अहं शीलपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां क्षान्तिपारमितायां चरतः, एवं भवत्य् अहं क्षान्तिपारमितायां चराम्य् अहं क्षान्तिपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां वीर्यपारमितायां चरतः, एवं भवत्य् अहं वीर्यपारमितायां चराम्य् अहं वीर्यपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां ध्यानपारमितायां चरतः. एवं भवत्य् अहं ध्यानपारमितायां चराम्य् अहं ध्यानपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां प्रज्ञापारमितायां (Śस्P_II-४_१९) चरतः, एवं भवत्य् अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां परिपूरयामि अहं प्रज्ञापारमितां भावयामि, सो ऽनया प्रज्ञापारमितयानुपायकौशलेनोन्नामं गच्छति.
SK
स्मृत्युपस्थानानि भावयेत्, एवं भवत्य् अहं स्मृत्युपस्थानानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, सम्यक्प्रहाणानि भावयेत्, एवं भवत्य् अहं सम्यक्प्रहाणानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, ऋद्धिपादान् भावयेत्, एवं भवत्य् अहम् ऋद्धिपादान् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, इन्द्रियाणि भावयेत्, एवं भवत्य् अहम् इन्द्रियाणि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, बलानि भावयेत्, एवं भवत्य् अहं बलानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, बोध्यङ्गानि भावयेत्, एवं भवत्य् अहं बोध्यङ्गानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आर्याष्टाङ्गमार्गं भावयेत्, एवं भवत्य् अहम् आर्याष्टाङ्गमार्गं भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आर्यसत्यानि भावयेत्, एवं भवत्य् अहम् आर्यसत्यां भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, ध्यानानि भावयेत्, एवं भवत्य् अहं ध्यानानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अप्रमाणानि भावयेत्, एवं भवत्य् अहम् अप्रमाणानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आरूप्यसमापत्तीर् भावयेत्, एवं भवत्य् अहम् आरूप्यसमापत्तिर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, विमोक्षान् भावयेत्, एवं भवत्य् अहम् आरूप्यसमापत्तीर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अनुपूर्वविहारसमापत्तीर् भावयेत्, एवं भवत्य् अहम् अनुपूर्वविहारसमापत्तीर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयेत्, एवं भवत्य् अहं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अभिज्ञां भावयेत्, एवं भवत्य् अहम् अभिज्ञां भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, समाधीन् भावयेत्, एवं भवत्य् अहं समाधीन् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति.
SK
तस्यैवं भवत्य् अहं सर्वधारणीः प्रतिलप्स्ये स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं दशतथागतबलानि भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं (Śस्P_II-४_२०) भवत्य् अहं चत्वारि वैशारद्यानि भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं चतस्रः प्रतिसंविदा भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं महाकरुणां भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहम् अष्टादशावेणिकबुद्धधर्मान् भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं सत्त्वान् परिपाचयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं बुद्धक्षेत्रं परिशोधयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं सर्वाकारज्ञताम् अनुप्राप्स्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति.
SK
एवं खलु भगवन् बोधिसत्त्वो महासत्त्वो लौकिकेषु धर्मेषु चरन् उन्नामं गच्छत्य् अहंकाराभिनिवेशेन तस्य प्रज्ञापारमिता परिदमनार्थाय नानुन्नामार्थाय प्रत्युपस्थिता भवति.
SK
[K. १७५ब्१६, N. ३३८ब्८, T. २७५अ६, P. १७७ब्४, Cह्. ५६६ब्९] इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वो लोकोत्तरायां दानपारमितायां चरन् प्रज्ञापारमितासुभावितत्वान् न दायकम् उपलभते न दानम् उपलभते न प्रतिग्राहकम् उपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्ह्तिता भवति,
SK
स लोकोत्तरायां शीलपारमितायां चरन् प्रज्ञापारमितासुभावितत्वाच् छीलं नोपलभ्यते शीलं नोपलभ्यते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,
SK
स लोकोत्तरायां क्षान्तिपारमितायां चरन् प्रज्ञापारमितासुभावितत्वात् क्षान्तिं नोपलभ्यते क्षान्तिं नोपलभ्यते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,
SK
स लोकोत्तरायां वीर्यपारमितायां चरन् प्रज्ञापारमितासुभावितत्वाद् वीर्यं नोपलभ्यते वीर्यवं तं नोपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमितापरिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,
SK
स लोकोत्तरायां ध्यानपारमितायां चरन् प्रज्ञापारमिता सुभावितत्वाद् ध्यानं नोपलभते ध्यानं नोपलभते. एवं खलु भगवन् (Śस्P_II-४_२१) बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमितापरिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,
SK
स लोकोत्तरायां प्रज्ञापारमितायां चरन् प्रज्ञापारमितासुभावितत्वात् प्रज्ञां नोपलभते प्रज्ञां नोपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.
SK
स स्मृत्युपस्थानानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स सम्यक्प्रहाणानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स ऋद्धिपादान् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स इन्द्रियाणि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स बलानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स बोध्यङ्गानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आर्याष्टाङ्गमार्गं भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति. स आर्यसत्यानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स ध्यानानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, सो ऽप्रमाणानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आरूप्यसमापत्तीर् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स विमोक्षा भावयति न चोपलभते प्रज्ञापारमितासु भावितत्वात्, सो ऽनुपूर्वविहारसमापत्तीर् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, सो ऽभिज्ञां भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स समाधीन् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स धारणीमुखानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.
SK
स तथागतबलानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स वैशारद्यानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स प्रतिसंविदो भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स महामैत्रीं भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स महाकरुणा भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आवेणिकबुद्धधर्मान् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. (Śस्P_II-४_२२) एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्या प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.
SK
स सर्वज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स मार्गाकारज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स सर्वाकारज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.
SK
शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः सप्तदशमः
SK
[K. १७६अ१७, N. ३३९ब्२, T. २७५ब्१३, P. १७९ब्६, Cह्. ५६८अ१८] अथ खलु भगवाञ् छक्रो देवानाम् इन्द्रम् एतद् अवोचत्: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति स्वाध्यापयिष्यति, योनिशश् च मनसिकरिष्यति, अभिरूढो संग्राममध्ये वर्तमाने महति संग्रामशीर्षव्यारूढः, तत्र सचेत् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां स्वाध्यायन्न् अवतरेत्, तत्रावतीर्य तिष्ठेत नासौ कुलपुत्रो वा कुलदुहिता या पराजयं यास्यति, जय एवास्य भविष्यत्य् अक्षतश् चानुपहतश् च तं संग्रामम् उत्तरिष्यति, अस्थानं कौशिकानवकाशो यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायंस् तत्र संग्रामे समभिरूढो जीवितान्तरायं निगच्छेन् नेदं स्थानं विद्यते, सचेत् पुनर् अस्य कश्चिद् एव शस्त्रं वा काण्डं वा शरीरे क्षिपेत् न तस्य शरीरे पतिष्यति. तत् कस्य हेतोः? तथा हि तेन कुलपुत्रेण वा कुलदुहिता वा दीर्घरात्रं षट्सु पारमितासु चरता, आत्मनश् च रागशस्त्राणि रागकाण्डानि निर्जितानि परेषां रागशस्त्राणि रागकाण्डाणि निर्जितानि, आत्मनश् च द्वेषशस्त्राणि द्वेषकाण्डाणि निर्जितानि परेषां द्वेषशस्त्राणि द्वेषकाण्डानि निर्जितानि, आत्मनश् च मोहशस्त्राणि मोहकाण्डाणि निर्जितानि परेषां मोहशस्त्राणि मोहकाण्डानि निर्जितानि, आत्मनश् च दृष्टिकृतशस्त्राणि दृष्टिकृतकाण्डाणि निर्जितानि परेषां च दृष्टिकृतशस्त्राणि दृष्टिकृतकाण्डानि निर्जितानि, आत्मनश् च पर्युत्थानशस्त्राणि पर्युत्थानकाण्डाणि निर्जितानि परेषां च पर्युत्थानशस्त्राणि पर्युत्थानकाण्डानि निर्जितानि, आत्मनश् चानुशयशस्त्राण्य् अनुशयकाण्डाणि निर्जितानि परेषां चानुशयशस्त्राण्य् अनुशयकाण्डानि निर्जितानि, इमाम् एव प्रज्ञापारमिताम् आगम्य तां च प्रज्ञापारमितां भावयतां, अनेन कौशिक पर्यायेण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा संग्राममध्यगतस्य शस्त्राणि वा काण्डानि वा क्षिप्तानि शरीरे न निपतिष्यति.
SK
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सर्वज्ञताचित्तेन चाविरहितो भविष्यति. तस्य कश्चिद् अभैषज्यम् अवकिरेत् काखोर्दं वा कुर्याद् अग्निखदा चोपनामयेत्, शस्त्रेण वा दद्याद् विषं वा दद्याद् उदके चैनं छोरयेत् सर्वं तत् तस्य न क्रमिष्यति. तत् कस्य हेतोः? महाविद्येयं कौशिक विद्या यद् उत प्रज्ञापारमिता अनुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, (Śस्P_II-४_२४) निरुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, अत्र च विद्यायां शिक्षमाणेः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते न परव्याबाधाय चेतयते नोभयव्याबाधाय चेतयते. तत् कस्य हेतोः? तथा हि सो ऽत्र शिक्षमाणो नात्मानम् उपलभते न सत्त्वम् उपलभते न जीवम् उपलभते न जन्तुम् उपलभते न पोषम् उपलभते न पुरुषम् उपलभते न पुद्गलम् उपलभते न मनुजम् उपलभते न मानवम् उपलभते न कारकम् उपलभते न वेदकं उपलभते न जानकम् उपलभते न पश्यकम् उपलभते.
SK
न रूपम् उपलभते, न वेदनाम् उपलभते, न संज्ञाम् उपलभते, न संस्कारान् उपलभते, न विज्ञानम् उपलभते.
SK
न चक्षुर् उपलभते, न श्रोत्रम् उपलभते, न घ्राणम् उपलभते, न जिह्वाम् उपलभते, न कायम् उपलभते, न मन उपलभते.
SK
न रूपम् उपलभते, न शब्दम् उपलभते, न गन्धम् उपलभते, न रसम् उपलभते, न स्पर्शम् उपलभते, न धर्मान् उपलभते.
SK
न चक्षुर्विज्ञानम् उपलभते, न श्रोत्रविज्ञानम् उपलभते, न घ्राणविज्ञानम् उपलभते, न जिह्वाविज्ञानम् उपलभते, न कायविज्ञानम् उपलभते, न मनोविज्ञानम् उपलभते.
SK
न चक्षुःसंस्पर्शम् उपलभते, न श्रोत्रसंस्पर्शम् उपलभते, न घ्राणसंस्पर्शम् उपलभते, न जिह्वासंस्पर्शम् उपलभते, न कायसंस्पर्शम् उपलभते, न मनःसंस्पर्शम् उपलभते.
SK
न चक्षुःसंस्पर्शजां वेदनाम् उपलभते, न श्रोत्रसंस्पर्शजां वेदनाम् उपलभते, न घ्राणसंस्पर्शजां वेदनाम् उपलभते, न जिह्वासंस्पर्शजां वेदनाम् उपलभते, न कायसंस्पर्शजां वेदनाम् उपलभते, न मनःसंस्पर्शजां वेदनाम् उपलभते.
SK
न पृथिवीधातुम् उपलभते, नाब्धातुम् उपलभते, न तेजोधातुम् उपलभते, न वायुधातुम् उपलभते, नाकाशधातुम् उपलभते, न विज्ञानधातुम् उपलभते.
SK
नाविद्याम् उपलभते, न संस्कारान् उपलभते, न विज्ञानम् उपलभते, न नामरूपम् उपलभते, न षडायतनम् उपलभते, न स्पर्शम् उपलभते, न वेदनाम् उपलभते, न तृष्णाम् उपलभते, नोपादानम् उपलभते, न भवम् उपलभते, न जातिम् उपलभते, न जरामरणम् उपलभते.
SK
न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् (Śस्P_II-४_२५) उपलभते, न प्रज्ञापारमिताम् उपलभते.
SK
नाध्यात्मशून्यताम् उपलभते, न बहिर्धाशून्यताम् उपलभते, नाध्यात्मबहिर्धाशून्यताम् उपलभते, न शून्यताशून्यताम् उपलभते, न महाशून्यताम् उपलभते, न परमार्थशून्यताम् उपलभते, न संस्कृतशून्यताम् उपलभते, नासंस्कृतशून्यताम् उपलभते, नात्यन्तशून्यताम् उपलभते, नानवराग्रशून्यताम् उपलभते, नानवकारशून्यताम् उपलभते, न प्रकृतिशून्यताम् उपलभते, न सर्वधर्मशून्यताम् उपलभते, न स्वलक्षणशून्यताम् उपलभते, नानुपलम्भशून्यताम् उपलभते, नाभावशून्यताम् उपलभते. न स्वभावशून्यताम् उपलभते, नाभावस्वभावशून्यताम् उपलभते.
SK
न स्मृत्युपस्थानान्य् उपलभते, न सम्यक्प्रहाणान्य् उपलभते, न ऋद्धिपादान् उपलभते, नेन्द्रियाण्य् उपलभते, न बलान्य् उपलभते, न बोध्यङ्गान्य् उपलभते, नार्याष्टाङ्गमार्गम् उपलभते, नार्यसत्यान्य् उपलभते, न ध्यानान्य् उपलभते, नाप्रमाणान्य् उपलभते, न आरूप्यसमापत्तीर् उपलभते, न विमोक्षान् उपलभते, नानुपूर्वविहारसमापत्तीर् उपलभते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभते, नाभिज्ञा उपलभते, न समाधीन् उपलभते, न धारणीमुखान्य् उपलभते, न तथागतबलान्य् उपलभते, न वैशारद्यान्य् उपलभते, न प्रतिसंविद उपलभते, न महामैत्रीम् उपलभते, न महाकरुणाम् उपलभते, नावेणिकबुद्धधर्मान् उपलभते.
SK
न स्रोतआपत्तिफलम् उपलभते, न सकृदागामिफलम् उपलभते, नानागामिफलम् उपलभते, नार्हत्त्वम् उपलभते, न प्रत्येकबोधिम् उपलभते, न मार्गाकारज्ञताम् उपलभते, न सर्वाकारज्ञताम् उपलभते.
SK
अनुपलम्भमानो नात्मव्याबाधाय चेतयते न परव्याबाधाय चेतयते नोभयव्याबाधाय चेतयते, अनुत्तरां सम्यक्संबोधिं प्रतिलभते, सर्वसत्त्वानां चित्तानि व्यवलोकयति. तत् कस्य हेतोः? अत्र विद्यायां शिक्षमाणैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरां सम्यक्संबोधिर् अभिसंबुद्धा, ये ऽपि ते भविष्यत्य् अनागते ऽध्वनि तथागतार्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र विद्यायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि ते एतर्हि प्रत्युत्पन्ने ऽध्वनि दशसु दिक्ष्व् अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽप्य् अत्रैव विद्यायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
SK
[K. १७७अ६, N. ३४१अ८, T. २७७अ४, P. १८२ब्१, Cह्. ५७०अ२१] पुनर् अपरं कौशिक यत्रेमां प्रज्ञापारमितां लिखित्वा धारयिष्यते उद्गृहीष्यति न स्वाध्यापयिष्यति न वाचयिष्यति न पर्यवाप्स्यते न योनिशो मनसिकरिष्यति, न पुनर् तत्र गृहे वा ग्रामे वा नगरे वा मनुष्यो वा अमनुष्यो वावतारप्रेक्षावतारं लप्स्यते. तत् कस्य हेतोः? तथा ह्य् अस्या एव प्रज्ञापारमितायाः पूजार्थाय ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा देवपुत्रा यामा देवपुत्राः तुषिता देवपुत्रा निर्माणरतयो देवपुत्राः परनिर्मितवसवर्तिनो देवपुत्रा ब्रह्मकायिका देवपुत्रा ब्रह्मपुरोहिता देवपुत्रा ब्रह्मपार्षद्या देवपुत्रा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवाः अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा ये ऽप्य् अप्रमेयासंख्येयेषु लोकधातुषु चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा देवपुत्राः यामा देवपुत्रास् तुषिता देवपुत्रा निर्माणरतयो देवपुत्राः परनिर्मितवशवर्तिनो देवपुत्रा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवास् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति, ये इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति, ते च देवपुत्रा आगत्यैनां प्रज्ञापारमितां सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा गमिष्यन्ति, यः कश्चित् कौशिक इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति तस्येमे दृष्टधार्मिका गुणानुशंसा भविष्यन्ति. तद् यथापि नाम कौशिक ये केचिद् बोधिमण्डे गता बोधिमण्डस्य च परिसामन्तगते न बोधिमण्डस्य चाभ्यन्तरे तिर्यग्योनिगताः प्राणिना मनुष्यभूता वा न ते शक्यन्ते मनुष्येण वा अमनुष्येण वा विहेठयितुं वा विहिंसयितुं वा. तत् कस्य हेतोः? अत्र हि निषद्य तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्रैव निषद्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽपि ते एतर्हि दशसु दिक्षु (Śस्P_II-४_२७) लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ते ऽप्य् अत्रैव निषद्यानुत्तरां सम्यक्संबोधिर् अभिसंबुद्धाः. तैः सर्वतथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वसत्त्वानाम् अभयायावैरायासपन्नाय प्रतिपद्याप्रमेयासंख्येयाः सत्त्वा देवमानुषीषु संपत्तिषु प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, स्रोतआपत्तिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, सकृदागामिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, अनागामिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, अर्हत्त्वे प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, प्रत्येकबोधौ प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च. तत् कस्य हेतोः? अनयैव कौशिक प्रज्ञापारमितया स पृथिवीप्रदेशे सर्वसत्त्वानां चैत्यभूतः कृतो वन्दनीयो नमस्करणीयो माननीयः पूजनीयः सत्करणीयो गुरुकरणीयः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः.
SK
[K. १७७ब्१, N. ३४२अ६, T. २७७ब्५, P. १८४अ१, Cह्. ५७०च्१६] शक्र आह: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा, इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारय तां च पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद्, यश् च तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सप्तरत्नमयस्तूपे तथागतशरीरानि प्रतिष्ठापयेत् परिहरेद् वा सप्तरत्नमये समुद्गते कृत्वा तानि च सत्कुर्याद् गुरुकुराद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः, कतरस् तयोर् बहुतरं पुण्यस्कन्धं प्रसवेत्?
SK
भगवान् आह: तेन हि कौशिक त्वाम् एवात्र परिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुरु. तत् किं मन्यसे? कौशिक येयं तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता यश् चायम् आत्मभावो ऽभिनिवर्तितः. कतमस्यां प्रतिपति शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञतानुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः.
SK
शक्र आह: इहैव भगवन् प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः.
SK
भगवान् आह: एवम् एतत् कौशिक एवम् एतत्, अत्र मया प्रज्ञापारमितायां (Śस्P_II-४_२८) शिक्षमाणेन सर्वाकारज्ञता अनुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः, नानेन कौशिकात्मभावशरीरप्रतिलभेन, तथागतस् तथागत इति संख्यागच्छति. सर्वाकारज्ञताप्रतिलम्भेन तु तथागतस् तथागत इति. संख्यां गच्छति, येयं कौशिक सर्वाकारज्ञता सा प्रज्ञापारमिता निर्याता, एवम् अयं कौशिकात्मभावस् तस्य सर्वाकरज्ञताज्ञानस्याश्रयभूत इमं चाश्रयं निश्रित्य तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता एवं तस्य सर्वाकारज्ञताज्ञानस्यायम् आत्मभाव आश्रयभूतसर्वसत्त्वानां चैत्यभूतो वन्दनीयो माननीयो पूजनीयः सत्करणीयो गुरुकरणीयः संवृतः परिनिवृतस्यापि च कौशिक शरीरान्य् एवं शरीरपूजा भविष्यति, न त्व् अन्यथधर्मपूजाः यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः सर्वाकारज्ञताज्ञानस्य तेन पूजाकृतो भविष्यति. तस्मात् तर्हि कौशिक श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा तथागतं पूजयितुकामेन इयम् एव प्रज्ञापारमिता लिखित्वोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या, सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्याः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः यश् च कौशिक तथागतस्य परिनिर्वृतस्य सप्तरत्नमयस्तूपैः शरीरं प्रतिष्ठापयेत्, सप्तरत्नमये वा समुगते कृत्वा परिहरेत् ततश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः यश् चेमां प्रज्ञापारमितां लिखित्वोद्ग्रहीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् तां च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः. अयम् एव ततो बहुतरं पुण्यस्कन्धं प्रसवेत्. तत् कस्य हेतोः? अतो निर्याता हि कौशिक पञ्चपारमिता,
SK
अतो निर्याता अध्यात्मशून्यता, अतो निर्याता बहिर्धाशून्यता, अतो निर्याता अध्यात्मबहिर्धाशून्यता, अतो निर्याता शून्यताशून्यता, अतो निर्याता महाशून्यता, अतो निर्याता परमार्थशून्यता, अतो निर्याता संस्कृतशून्यता, अतो निर्याता असंस्कृतशून्यता, अतो निर्याता अत्यन्तशून्यता, अतो निर्याता अनवराग्रशून्यता, अतो निर्याता अनवकारशून्यता, अतो निर्याता प्रकृतिशून्यता, (Śस्P_II-४_२९) अतो निर्याता सर्वधर्मशून्यता, अतो निर्याता स्वलक्षणशून्यता, अतो निर्याता अनुपलम्भशून्यता, अतो निर्याता अभावशून्यता, अतो निर्याता स्वभावशून्यता, अतो निर्याता अभावस्वभावशून्यता.
SK
अतो निर्यातानि चत्वारि स्मृत्युपस्थानानि, अतो निर्यातानि चत्वारि सम्यक्प्रहाणानि, अतो निर्याताश् चत्वार्य् ऋद्धिपादाः, अतो निर्यातानि पञ्चेन्द्रियाणि, अतो निर्यातानि पञ्चबलानि, अतो निर्यातानि सप्तबोध्यङ्गानि, अतो निर्यात आर्याष्टाङ्गो मार्गः, अतो निर्यातानि चत्वार्य् आर्यसत्यानि, अतो निर्यातानि चत्वारि ध्यानानि, अतो निर्यातानि चत्वार्य् अप्रमाणानि, अतो निर्याता चत्वारि आरूप्यसमापत्तयः, अतो निर्याता अष्टौ विमोक्षाः, अतो निर्याता नवानुपूर्वविहारसमापत्तयः, अतो निर्यातानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अतो निर्यातानि पञ्चाभिज्ञाः, अतो निर्याताः सर्वसमाधयः, अतो निर्यातानि सर्वधारणीमुखानि, अतो निर्यातानि दशतथागतबलानि, अतो निर्यातानि चत्वारि वैशारद्यानि, अतो निर्याताश् चतस्रः प्रतिसंविदः, अतो निर्याता महाकरुणा, अतो निर्याता अष्टादशावेणिका बुद्धधर्मा, अतो निर्यातः सत्त्वपरिपाकः, अतो निर्याता बुद्धक्षेत्रसंपत्, अतो निर्याता बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्, अतो निर्याता रूपसंपत्, अतो निर्याता लाभसंपत्, अतो निर्याता परिवारसंपत्, अतो निर्याता महामैत्री, अतो निर्याता महाकरुणा, अतो निर्यातानि क्षत्रियमहाशालकुलानि, अतो निर्यातानि ब्राह्मणमहाशालकुलानि, अतो निर्यातानि गृहपतिमहाशालकुलानि.
SK
अतो निर्याताश् चातुर्महाराजकायिका देवपुत्रा, अतो निर्यातास् त्रायस्त्रिंशा देवपुत्रा, अतो निर्याता यामा देवपुत्रा, अतो निर्यातास् तुषिता देवपुत्रा, अतो निर्याता निर्माणरतयो देवपुत्रा, अतो निर्याताः परनिर्मितवशवर्तिनो देवपुत्रा, अतो निर्याता ब्रह्मकायिका देवपुत्रा, अतो निर्याता ब्रह्मपुरोहिता देवपुत्रा, अतो निर्याता ब्रह्मपार्षद्या देवपुत्रा, अतो निर्याता महाब्रह्माणो देवपुत्रा, अतो निर्याता आभा देवा, अतो निर्याता परीत्तभा देवा, अतो निर्याता अप्रमाणाभा देवा, अतो निर्याता आभास्वरा देवा, अतो निर्याताः सुभा देवा, अतो निर्याताः परीत्तशुभा देवा, अतो निर्याता अप्रमाणाशुभा देवा, अतो निर्याताः शुभकृत्स्ना देवा, अतो निर्याता बृहा देवा, अतो निर्याताः परीत्तबृहा देवा, अतो निर्याता अप्रमाणबृहा देवा, अतो निर्याता बृहत्फला देवा, अतो निर्याता अबृहा देवा, अतो निर्याता अतपा देवा, अतो निर्याताः सुदृशा देवा, अतो निर्याताः सुदर्शना देवा, अतो निर्याता अकनिष्ठा देवाः.
SK
अतो निर्याताः स्रोतआपन्ना, अतो निर्याताः सकृदागामिनः, अतो निर्याता अनागामिनः, अतो निर्याता अर्हन्तः, अतो निर्याताः प्रत्येकबुद्धाह्, अतो (Śस्P_II-४_३०) निर्याता बोधिसत्त्वाः, अतो निर्यातास् तथागता अर्हन्तः सम्यक्संबुद्धाः, अतो निर्यातास् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वाकारज्ञता.
SK
[K. १७८अ१०, N. ३४४अ१, T. २७८ब्९, P. १८७अ१, Cह्. ५७२अ११] शक्र आह: इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न सत्कुर्वन्ति न गुरुकुर्वन्ति न मानयन्ति न पूजयन्ति तत् किं ते जाम्बूद्वीपका मनुष्या न जानन्त्य् एव महार्धिका प्रज्ञापारमितायाः पूजाकृता भवति?
SK
भगवान् आह. तत् किं मन्यसे? कौशिकायं जाम्बूद्वीपका मनुष्या ये बुद्धे अभेद्यप्रसादेन समन्वागता ये धर्म अभेद्यप्रसादेन समन्वागता ये संघे अभेद्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षा संघे निष्काङ्क्षाः, ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गताः संघे निष्ठाङ्गताः.
SK
शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपका मनुष्या, ये बुद्धे अभेद्य प्रसादेन समन्वागता, ये धर्मे अभेद्यप्रसादेन समन्वागतो ये संघे अभेद्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षाः संघे निष्काङ्क्साः, ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गता संघे निष्ठाङ्गता.
SK
भगवान् आह: तत् किं मन्यसे? कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां विमोक्षमुखानां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये ऽष्टानां विमोक्षाणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये नवानुपूर्वविहारसमापत्तीनां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये चतसृणां प्रतिसंविदां लाभिनः, कियन्तस् ते जम्बूद्वीपका मनुष्या ये षण्णाम् अभिज्ञानां लाभिनः, कियन्तस् ते जाम्बूद्विपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
SK
शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपकाः सत्त्वा ये सप्तत्रिंशतो बोधिपक्षाणां लाभिनः ततो ऽल्पका ये त्रयाणां विमोक्षमुखानां लाभिनस् (Śस्P_II-४_३१) ततो ऽल्पका ये ऽष्टानां विमोक्षमुखानां लाभिनः ततो ऽल्पका ये न वानुपूर्वविहारसमापत्तीनां लाभिनः, ततो ऽल्पका ये चतसृणां प्रतिसंविदां लाभिनः, ततो ऽल्पका ये षण्णाम् अभिज्ञानां लाभिनः, ततो ऽल्पकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नास् ततो ऽल्पतरका ये रागद्वेषमोहतनुत्वात् सकृदागामिनस् ततो ऽल्पतरका ये पञ्चानाम् अचलभागीयाना संयोजनानां प्रहाणाद् अनागामिनः ततो ऽल्पतरका ये पञ्चानां मूर्धभागीयानां प्रहाणाद् अर्हतस् ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतद् ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये बुद्धे अभेद्यप्रसादेन समन्वागता, ये धर्मे अभेद्यप्रसादेन समन्वागता, ये संघे अभेद्यप्रसादेन समन्वागताः.
SK
ततो ऽल्पतरका ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षाः संघे निष्काङ्क्षाः, ततो ऽल्पतरका ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गताः संघे निष्ठाङ्गताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ततो ऽल्पतरका ये स्रोतआपन्नास् ततो ऽल्पतरका ये सकृदागामिनस् ततो ऽल्पतरका ये अनागामिनस् ततो ऽल्पतरका ये ऽर्हन्तः ततो ऽल्पतरका ये प्रत्येकबोधये संप्रस्थितास् ततो ऽल्पतरका ये ऽनुत्तरा सम्यक्संबोधये संप्रस्थितास् ततो ऽल्पतरका ये बोधये चरन्ति. तत् कस्य हेतोः? तथा हि पूर्वन्तैः संसारे संसरद्भिः न बुद्धादृष्टो न धर्मश्रन संघः पर्युपासितो न दानं दत्तं न शीलं रक्षितं न क्षान्तिं भाविता न वीर्यम् आलब्धं न ध्यानानि भावितानि न प्रज्ञा भाविता,
SK
न दानपारमिता श्रुता न भाविता, न शीलपारमिता श्रुता न भाविता, न क्षान्तिपारमिता श्रुता न भाविता, न वीर्यपारमिता श्रुता न भाविता, न ध्यानपारमिता श्रुता न भाविता, न प्रज्ञापारमिता श्रुता न भाविता.
SK
नाध्यात्मशून्यता श्रुता न भाविता, न बहिर्धाशून्यता श्रुता न भाविता, नाध्यात्मबहिर्धाशून्यता श्रुता न भाविता, न शून्यताशून्यता श्रुता न भाविता, न महाशून्यता श्रुता न भाविता, न परमार्थशून्यता श्रुता न भाविता, न संस्कृतशून्यता श्रुता न भाविता, नासंस्कृतशून्यता श्रुता न भाविता, नात्यन्तशून्यता श्रुता न भाविता, नानवराग्रशून्यता श्रुता न भाविता, नानवकारशून्यता श्रुता न भाविता, न प्रकृतिशून्यता श्रुता न भाविता, न सर्वधर्मशून्यता श्रुता न भाविता, न स्वलक्षणशून्यता (Śस्P_II-४_३२) श्रुता न भाविता, नानुपलम्भशून्यता श्रुता न भाविता, नाभावशून्यताश्रुता न भाविता, न स्वभावशून्यता श्रुता न भाविता, नाभावस्वभावशून्यता श्रुता न भाविता.
SK
न स्मृत्युपस्थानानि श्रुतानि न भावितानि, न सम्यक्प्रहाणानि श्रुतानि न भावितानि, न ऋद्धिपादाः श्रुता न भाविताः, नेन्द्रियाणि श्रुतानि न भावितानि, न बलानि श्रुतानि न भावितानि, न बोध्यङ्गानि श्रुतानि न भावितानि, नार्याष्टाङ्गो मार्गः श्रुतो न भावितः, नार्यसत्यानि श्रुतानि न भावितानि, न ध्यानानि श्रुतानि न भावितानि, नाप्रमाणानि श्रुतानि न भावितानि, नारूप्यसमापत्तयः श्रुता न भाविता, नाष्टौ विमोक्षाः श्रुता न भाविता, नानुपूर्वविहारसमापत्तयः श्रुता न भाविता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि श्रुतानि न भावितानि, नाभिज्ञाः श्रुता न भाविता, न समाधयः श्रुता न भाविता, न धारणीमुखानि श्रुतानि न भावितानि, न तथागतबलानि श्रुतानि न भावितानि, न वैशारद्यानि श्रुतानि न भावितानि, न प्रतिसंविदः श्रुता न भाविता, न महाकरुणा श्रुता न भाविता, नावेणिकबुद्धधर्माः श्रुता न भाविता, न सर्वज्ञता श्रुता न भाविता, न मार्गाकारज्ञता श्रुता न भाविता, न सर्वाकारज्ञता श्रुता न भाविता.
SK
तद् अनेन ते कौशिक पर्यायेणैवं वेदितव्यं, अल्पकास् ते जाम्बूद्वीपका सत्त्वा ये बुद्धे अभेद्यप्रसादेन समन्वागता धर्मे अभेद्य्प्रसादेन समन्वागता संघे अभेद्यप्रसादेन समन्वागताः, ततो ऽल्पतरका ये त्रयाणां विमोक्षमुखानां लाभिनः, ततो ऽल्पतरका ये ऽष्टानां विमोक्षाणां लाभिनः, ततो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तिनां लाभिनः, ततो ऽल्पतरका ये चतसृणां प्रतिसंविदां लाभिनः, ततो ऽल्पतरका ये षण्णाम् अभिज्ञानां लाभिनः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ततो ऽल्पतरका ये रागद्वेसमोहतनुत्वात् सकृदागामिनः ततो ऽल्पतरका ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ततो ऽल्पतरका ये पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरका ये अनुत्तरां सम्यक्संबोधये संप्रस्थिताः, ततो ऽल्पतरका ये बोधये अथ्यासयेन चरन्ति निष्ठतु कौशिक मनुष्याः. तत् किं मन्यसे? कौशिक कियन्तो जाम्बूद्वीपे प्राणिनाये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनो ये त्रयाणां विमोक्षमुखानां लाभिनो ये ऽष्टानां विमोक्षमुखानां लाभिनो ये नवानाम् (Śस्P_II-४_३३) अनुपूर्वविहारसमापत्तीर् लाभिनो ये चतसृणां प्रतिसंविदां लाभिनो ये षण्णाम् अभिज्ञानां लाभिनः.
SK
कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्ना ये रागद्वेषमोहतनुत्वात् सकृदागामिनो ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ये पञ्चानाम् ऊर्ध्वभागीयानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिताः कियन्त्स् ते जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ निष्काङ्क्षा बुद्धे धर्मे संघे निष्काङ्क्षाः कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये मातृज्ञाः ये पितृज्ञाः श्रामण्याः कुले ज्येष्टोपचायका दानानि ददति शीलं रक्षन्ति क्षान्तिपोषधम् उपवशन्ति, काष्टादीन च संज्ञिनो विहरन्ति, एवम् अनित्यसंज्ञिनः, अनात्मसंज्ञिनो ऽशुचिसंज्ञिनः सर्वलोकेष्व् अनभिरति संज्ञनः कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
SK
[K. १७९अ५, N. ३४६अ१, T. २८०अ७, P. १९०ब्३, Cह्. ५७३ब्१२] शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपकाः प्राणिनो ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ये त्रयाणां विमोक्षमुखां लाभिनः, ये ऽष्टानां विमोक्षाणां लाभिनः, ये नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः, ये चतसृणां प्रतिसंविदां लाभिनः, ये षण्णाम् अभिज्ञानां लाभिनः, ये त्रयाणां संयोजनानां प्रहाणा स्रोतआपन्ना, ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिता अल्पकास् ते भगवन् जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
SK
भगवान् आह: एवम् एतत् कौशिक एवम् एतत्, तथा यथा वदसि, अल्पकास् ते कौशिक जाम्बूद्वीपकाः प्राणिनो ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ये त्रयाणां विमोक्षमुखां लाभिनः, ये ऽष्टानां विमोक्षाणां लाभिनः, ये नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः ये चतसृणां प्रतिसंविदां लाभिनो ये षण्णाम् अभिज्ञानां लाभिनः, ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनो ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिताः, ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, अतो ऽल्पतरका ये ऽनुत्तरायां सम्यक्संबोधौ (Śस्P_II-४_३४) चरन्ति, अतो ऽल्पतरका ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा,
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधतुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्ठन्ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा उत्तरस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानद्ल्वालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापरमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? (Śस्P_II-४_३५) दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हिनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
इहाहं कौशिकानावरणेन बुद्धचक्षुषा उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरन्ति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्ठते यद् भूयस्त्वेन (Śस्P_II-४_३६) श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनसत्त्वैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
SK
तस्मात् तर्हि कौशिक ये ते कुलपुत्राः कुलदुहितरश् चानुत्तरायै सम्यक्संबोधये संप्रस्थितास् तैः क्षिप्रं सुखं चानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकमैर् इयं प्रज्ञापारमिताभीक्षणं स्रोतव्योद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्याः, योनिशश् च मनसिकर्तव्याः. तैर् इयं प्रज्ञापारमितोद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य योनिशश् च मनसिकृत्वा, सर्वबुद्धा धर्मा मनसिकर्तव्याः.
SK
तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गः चत्वार्य् आर्यसत्यानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः अष्टौ विमोक्षाः नवानुपूर्वविहारसमापत्तयः त्रीणि विमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः महामैत्रि महाकरुणा अष्टादशावेणिका बुद्धधर्माः.
SK
अन्ये ऽप्य् अपरिमाणा बुद्धधर्मा यत्र प्रज्ञापारमितायाम् अन्तर्गता ते प्य् उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि कौशिक ते कुलपुत्राः कुलदुहितरश् चैवं ज्ञास्यन्ति, अत्र हि तथागतः पूर्वं बोधिसत्त्वचारिकां शिक्षितो यद् उत प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम्.
SK
अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायाम् असंस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायाम् अनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यतायाम् अनुपलम्भशून्यतायाम् अभावशून्यतायां (Śस्P_II-४_३७) स्वभावशून्यतायाम् अभावस्वभावशून्यतायाम्.
SK
चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चेष्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे चतुर्ष्व् आर्यसत्येषु चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु त्रिषु विमोक्षमुखेषु पञ्चस्व् अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, अन्येषु वा परिमाणेषु बुद्धधर्मेषु
SK
अस्माभिर् अप्य् अनुशिक्षितव्यम् एषास्माकं शास्ता यद् उत प्रज्ञापारमिता, यावद् अन्ये ऽप्य् अपरिमाणा बुद्धधर्मा एतद् बुद्धानां भगवतां शासनं प्रत्येकबुद्धानाम् अर्हताम् अनागामिनां सकृदागामिनां स्रोतआपन्नानां यद् उत प्रज्ञापारमिता अत्र प्रज्ञापारमितायां शिक्षमाणा ध्यानपारमितायां शिक्षमाणा वीर्यपारमितायां शिक्षमाणा क्षान्तिपारमितायां शिक्षमाणा शीलपारमितायां शिक्षमाणा दानपारमितायां शिक्षमाणा.
SK
अध्यात्मशून्यतायां शिक्षमाणा, बहिर्धाशून्यतायां शिक्षमाणा, अध्यात्मबहिर्धाशून्यतायां शिक्षमाणा, शून्यताशून्यतायां शिक्षमाणा, महाशून्यतायां शिक्षमाणा, परमार्थशून्यतायां शिक्षमाणा, संस्कृतशून्यतायां शिक्षमाणा, असंस्कृतशून्यतायां शिक्षमाणा, अत्यन्तशून्यतायां शिक्षमाणा, अनवराग्रशून्यतायां शिक्षमाणा, अनवकारशून्यतायां शिक्षमाणा, प्रकृतिशून्यतायां शिक्षमाणा, सर्वधर्मशून्यतायां शिक्षमाणा, स्वलक्षणशून्यतायां शिक्षमाणा, अनुपलम्भशून्यतायां शिक्षमाणा, अभावशून्यतायां शिक्षमाणा, स्वभावशून्यतायां शिक्षमाणा, अभावस्वभावशून्यतायां शिक्षमाणा.
SK
स्मृत्युपस्थानेषु शिक्षमाणाः, सम्यक्प्रहाणेषु शिक्षमाणाः, ऋद्धिपादेषु शिक्षमाणाः, इन्द्रियेषु शिक्षमाणाः, बलेषु शिक्षमाणाः, बोध्यङ्गेषु शिक्षमाणाः, आर्याष्टाङ्गे मार्गे शिक्षमाणाः, आर्यसत्येषु शिक्षमाणाः, ध्यानेषु शिक्षमाणाः, अप्रमाणेषु शिक्षमाणाः, आरूप्यसमापत्तिषु शिक्षमाणाः, विमोक्षेषु शिक्षमाणाः, अनुपूर्वविहारसमापत्तिषु शिक्षमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षमाणाः, अभिज्ञासु शिक्षमाणाः, समाधिषु शिक्षमाणाः, धारणीमुखेषु शिक्षमाणाः, तथागतबलेषु शिक्षमाणाः, वैशारद्येषु शिक्षमाणाः, प्रतिसंवित्सु शिक्षमाणाः, महामैत्र्यां शिक्षमाणाः, महाकरुणायां शिक्षमाणाः, आवेणिकबुद्धधर्मेषु शिक्षमाणाः, सर्वज्ञतायां शिक्षमाणाः, मार्गाकारज्ञतायां (Śस्P_II-४_३८) शिक्षमाणाः, सर्वाकारज्ञतायां शिक्षमाणाः, बुद्धा भगवन्तः प्रत्येकबुद्धा अर्हन्तो ऽनागामिनः सकृदागामिनः स्रोतआपन्नाः पारङ्गता गच्छन्ति गमिष्यन्ति च.
SK
[K. १८०अ१३, N. ३४९ब्५, T. २८२अ१०, P. १९५ब्६, Cह्. ५७५अ९] तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा तिष्ठति तथागतपरिनिर्वृते वा तथागते, प्रज्ञापारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रज्ञापारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ध्यानपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक ध्यानपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, वीर्यपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक वीर्यपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, क्षान्तिपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक क्षान्तिपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरयाः प्रजायाः प्रतिशरणं, शीलपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक शीलपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, दानपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक दानपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिसरणम्.
SK
अध्यात्मशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रज्ञापारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बहिर्धाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक बहिर्धाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं. अध्यात्मबहिर्धाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाध्यात्मबहिर्धाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, शून्यताशून्यतैव तैः (Śस्P_II-४_३९) प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक शून्यताशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, महाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक महाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, परमार्थशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक परमार्थशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, संस्कृतशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक संस्कृतशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, असंस्कृतशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकासंस्कृतशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अत्यन्तशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अत्यन्तशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनवराग्रशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अनवराग्रशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनवकारशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अनवकारशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, प्रकृतिशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रकृतिशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वधर्मशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक सर्वधर्मशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, स्वलक्षणशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक स्वलक्षणशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनुपलम्भशून्यतैव (Śस्P_II-४_४०) तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकानुपलम्भशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाभावशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणम्, स्वभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक स्वभावशून्यता सर्वश्रावकप्रत्येकबुद्धाणां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभावस्वभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाभावस्वभावशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणम्.
SK
स्मृत्युपस्थानान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक स्मृत्युपस्थानानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सम्यक्प्रहाणान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक सम्यक्प्रहाणानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ऋद्धिपादा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक ऋद्धिपादाः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, इन्द्रियाण्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकेन्द्रियाणि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बलान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक बलानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बोध्यङ्गान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक बोध्यङ्गानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आर्याष्टाङ्गमार्ग एव तैः प्रतिसत्कर्तव्यः. तत् कस्य हेतोः? एष एव कौशिकार्याष्टाङ्गमार्गः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं (Śस्P_II-४_४१) यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आर्यसत्यान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकार्यसत्यानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरनं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ध्यानान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक ध्यानानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अप्रमाणान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकाप्रमाणानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आरूप्यसमापत्तय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक आरूप्यसमापत्तयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, विमोक्षा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक विमोक्षाः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनुपूर्वविहारसमापत्तय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिकानुपूर्वविहारसमापत्तयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाल्ः प्रजायाः प्रतिशरणं, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभिज्ञा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिकाभिज्ञा सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, समाधय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक समाधयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, धारणीमुखान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक धारणीमुखानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, तथागतबलान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक (Śस्P_II-४_४२) तथागतबलानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, वैशारद्यान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक वैशारद्यानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, प्रतिसंविद एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिक प्रतिसंविदः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, महाकरुणा एव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक महाकरुणा सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आवेणिकबुद्धधर्मा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक आवेणिकबुद्धधर्माः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक सर्वज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, मार्गाकारज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक मार्गाकारज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वाकारज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक सर्वाकारज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिसरणम्.
SK
[K. १८१अ२१, N. ३५२अ४, T. २८४अ११, P. २००अ७, Cह्. ५७६अ६] यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागते परिनिर्वृते पूजायै सप्तरत्नमयं स्तूपं कारयेद् योजनमुच्चैत्वेनार्धयोजनं विस्तरेणायां यावज् जीवं दिव्यैश् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैर् वाद्यैः सत्कुर्या गुरुकुर्याद् मानयेत् पूजयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (Śस्P_II-४_४३) पुण्यं प्रसवति य इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यत्य् उत्तरे च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः,
SK
तिष्ठन्तु कौशिकैकः स्तूपः सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा तथागतपरिनिर्वृते, इमं जाम्बूद्वीपं सप्तरत्नमयैस् स्तूपैः परिपूरये योजनोच्छ्रितैर् अर्धयोजनविस्तातैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यति, उत्तरे च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः,
SK
तिष्ठन्तु कौशिकायं जाम्बूद्वीपस् तथागतस्तूपपरिपूर्णः, सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां चातुर्महाद्वीपकं लोकधातुं तथागते परिनिर्वृते पूजयैः सप्तरत्नमयैः स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैर् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां पुस्तकगतां कृत्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, लिखित्वा नु सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् (Śस्P_II-४_४४) गन्धैर् विलेपनैश् चुर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
तिष्ठन्तु कौशिक चातुर्महाद्वीपको लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रं चूडिकं लोकधातुं तथागते परिनिर्वृते पूजायै सप्तरत्नमयैस् स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैर् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां पुस्तकगतां कृत्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
तिष्ठन्तु कौशिक साहस्रचूडिको लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रं मध्यमं लोकधातुं तथागते परिनिर्वृते पूजायै सप्तरत्नमयैः स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावत् क्षीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
तिष्ठन्तु कौशिक द्विसाहस्रो मध्यमो लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागते परिनिर्वृते (Śस्P_II-४_४५) पूजायै इमं त्रिसाहस्रं महासाहस्रं लोकधातुं तथागते परिनिर्वृते पूजायैर् सप्तरत्नमयैस् तथागतचैत्यैः परिपूजयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
[K. १८२अ५, N. ३५३ब्४, T. २८५अ११, P. २०३अ२, Cह्. ५७७अ२७] शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रो महासाहस्रो लोकधातुस् तथागतस्तूपपरिपूर्णो ये केचित् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेत् तां च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यति, तांश् च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: एवम् एतद् भगवन् एवम् एतत् सुगत प्रज्ञापारमिता भगवन् सत्कुर्वद्भिः गुरुकुर्वद्भिर् मानयद्भिः पूजयद्भिर् अतीतानगतप्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धाः सत्कृतो गुरुकृतो मानितो पूजितो भवन्ति,
SK
यावन्तः पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् (Śस्P_II-४_४६) दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्तो दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्तः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्त उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्त उत्तरपूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्चैस्त्वे नार्धयोजनं विस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्तः पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्तो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्तः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्तो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
SK
यावन्त उपरिष्ठाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? भगवन् अपि नु स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेयुः.
SK
भगवान् आह: बहु कौशिक.
SK
शक्र आह: अतः स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, तांश् च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तत् (Śस्P_II-४_४८) कस्य हेतोः? अत्र हि भगवन् प्रज्ञापारमितायाम् अन्तर्गताः सर्वे कुशला धर्मास् तद् यथा दश कुशलः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः.
SK
दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता.
SK
स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गः, त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्रणिहिता चत्वार्य् आर्यसत्यानि दुःखं दुःखसमुदयं दुःखनिरोधा मार्गः षड् अभिज्ञा अष्टा विमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्माः सर्वज्ञता मार्गाकारज्ञता सर्वाकारज्ञता इदं तद् बुद्धानां भगवतां शासनं यत्र सर्वश्राव्कप्रत्येकबुद्धानाम् अतितानागतप्रत्युत्पन्नानां बुद्धा भगवन्तः शिक्षित्वा सर्वधर्माणां पारङ्गता गच्छति गमिष्यति च.
SK
शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो नामाष्टादशमः
SK
[K. १८२ब्१८, N. ३५५ब्६, T. २८६ब्९, P. २०७अ३, Cह्. ५७८अ४] अथ भगवाञ् छक्रं देवानां इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बहु ते कुलपुत्राः कुलदुहितरो वा पुण्यं प्रसविष्यत्य् अप्रमेयम् असंख्येयम् अचिन्त्यम् अतुल्यम् अपरिमाणं ते कुलपुत्राः कुलदुहितरो वा पुण्यं प्रसविष्यति य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उत्तरे च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वज्ञता प्रज्ञापारमितानिर्याता ध्यानपारमिता प्रज्ञापारमितानिर्याता वीर्यपारमिता प्रज्ञापारमितानिर्याता क्षान्तिपारमिता प्रज्ञापारमितानिर्याता शीलपारमिता प्रज्ञापारमितानिर्याता दानपारमिता प्रज्ञापारमितानिर्याता.
SK
अध्यात्मशून्यता प्रज्ञापारमितानिर्याता, बहिर्धाशून्यता प्रज्ञापारमितानिर्याता, अध्यात्मबहिर्धाशून्यता प्रज्ञापारमितानिर्याता, शून्यताशून्यता प्रज्ञापारमितानिर्याता, महाशून्यता प्रज्ञापारमितानिर्याता, परमार्थशून्यता प्रज्ञापारमितानिर्याता, संस्कृतशून्यता प्रज्ञापारमितानिर्याता, असंस्कृतशून्यता प्रज्ञापारमितानिर्याता, अत्यन्तशून्यता प्रज्ञापारमितानिर्याता, अनवराग्रशून्यता प्रज्ञापारमितानिर्याता, अनवकारशून्यता प्रज्ञापारमितानिर्याता, प्रकृतिशून्यता प्रज्ञापारमितानिर्याता, सर्वधर्मशून्यता प्रज्ञापारमितानिर्याता, स्वलक्षणशून्यता प्रज्ञापारमितानिर्याता, अनुपलम्भशून्यता प्रज्ञापारमितानिर्याता, अभावशून्यता प्रज्ञापारमितानिर्याता, स्वभावशून्यता प्रज्ञापारमितानिर्याता, अभावस्वभावशून्यता प्रज्ञापारमितानिर्याता.
SK
स्मृत्युपस्थानानि प्रज्ञापारमितानिर्यातानि, सम्यक्प्रहाणानि प्रज्ञापारमितानिर्यातानि, ऋद्धिपादाः प्रज्ञापारमितानिर्याताः, इन्द्रियाणि प्रज्ञापारमितानिर्यातानि, बलानि प्रज्ञापारमितानिर्यातानि, बोध्यङ्गानि प्रज्ञापारमितानिर्यातानि, आर्याष्टाङ्गो मार्गः प्रज्ञापारमितानिर्यातः, आर्यसत्यानि प्रज्ञापारमितानिर्यातानि, ध्यानानि प्रज्ञापारमितानिर्यातानि, अप्रमाणानि प्रज्ञापारमितानिर्यातानि, आरूप्यसमापत्तयः प्रज्ञापारमितानिर्याताः, अष्टौ विमोक्षः प्रज्ञापारमितानिर्यातः, नवानुपूर्वविहारसमापत्तयः प्रज्ञापारमितानिर्याताः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमितानिर्यातानि, अभिज्ञाः प्रज्ञापारमितानिर्याताः, समाधयः प्रज्ञापारमितानिर्याताः, (Śस्P_II-४_५०) धारणीमुखानि प्रज्ञापारमितानिर्यातानि, दशतथागतबलानि प्रज्ञापारमितानिर्यातानि, चत्वारि वैशारद्यानि प्रज्ञापारमितानिर्यातानि, प्रतिसंविदः प्रज्ञापारमितानिर्याताः, महामैत्री प्रज्ञापारमितानिर्याता, महाकरुणा प्रज्ञापारमितानिर्याता, आवेणिकबुद्धधर्माः प्रज्ञापारमितानिर्याताः, पञ्च चक्षूंषि तथागतस्य प्रज्ञापारमितानिर्यतः, सत्त्वपरिपाको बुद्धक्षेत्रपरिशुद्धिः प्रज्ञापारमितानिर्याता, हि कौशिक सर्वज्ञता प्रज्ञापारमितानिर्याता, मार्गाकारज्ञता प्रज्ञापारमितानिर्याता, सर्वाकारज्ञता प्रज्ञापारमितानिर्याता, हि कौशिक श्रावकयानं प्रज्ञापारमितानिर्यातं, हि कौशिक प्रत्येकबुद्धयानं प्रज्ञापारमितानिर्यातं, हि कौशिक महायानं प्रज्ञापारमितानिर्यातम्, हि कौशिकानुत्तरा सम्यक्संबोधिः.
SK
तस्मात् तर्हि कौशिक यो हि कश्चित् कुलपुत्रा वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वोद्ग्रहीष्यति धारयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् अस्य कौशिक पुण्याभिसंस्कारस्यासौ पूर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीसहस्रतमीम् अपि कोटीसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि संख्यम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशम् अपि न क्षमते. तत् कस्य हेतोः? यावत् किलेयं कौशिक प्रज्ञापारमिता जांबूद्वीपे स्थास्यति. तावन् न बुद्धरत्नस्यान्तर्धानं भविष्यति न धर्मरत्नस्यान्तर्धानं भविष्यति न संघरत्नस्यान्तर्धानं भविष्यति, तावद् दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भविष्यति चतुर्णां ध्यानानां लोके प्रादुर्भावो भविष्यति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भविष्यति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, पञ्चानाम् अभिज्ञानां प्रादुर्भावो भविष्यति.
SK
दानपारमिताया लोके प्रादुर्भावो भविष्यति, शीलपारमिताया लोके प्रादुर्भावो भविष्यति, क्षान्तिपारमिताया लोके प्रादुर्भावो भविष्यति, वीर्यपारमिताया लोके प्रादुर्भावो भविष्यति, ध्यानपारमिताया लोके प्रादुर्भावो भविष्यति, प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति.
SK
अध्यात्मशून्यताया लोके प्रादुर्भावो भविष्यति, बहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, शून्यताशून्यताया लोके प्रादुर्भावो भविष्यति, महाशून्यताया (Śस्P_II-४_५१) लोके प्रादुर्भावो भविष्यति, परमार्थशून्यताया लोके प्रादुर्भावो भविष्यति, संस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, असंस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, अत्यन्तशून्यताया लोके प्रादुर्भावो भविष्यति, अनवराग्रशून्यताया लोके प्रादुर्भावो भविष्यति, अनवकारशून्यताया लोके प्रादुर्भावो भविष्यति, प्रकृतिशून्यताया लोके प्रादुर्भावो भविष्यति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भविष्यति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भविष्यति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भविष्यति, अभावशून्यताया लोके प्रादुर्भावो भविष्यति, स्वभावशून्यताया लोके प्रादुर्भावो भविष्यति, अभावस्वभावशून्यताय लोके प्रादुर्भावो भविष्यति.
SK
स्मृत्युपस्थानानां लोके प्रादुर्भावो भविष्यति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भविष्यति, ऋद्धिपादानां लोके प्रादुर्भावो भविष्यति, इन्द्रियाणां लोके प्रादुर्भावो भविष्यति, बलानां लोके प्रादुर्भावो भविष्यति, बोध्यङ्गानां लोके प्रादुर्भावो भविष्यति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भविष्यति, आर्यसत्यानां लोके प्रादुर्भावो भविष्यति, ध्यानानां लोके प्रादुर्भावो भविष्यति, अप्रमाणानां लोके प्रादुर्भावो भविष्यति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, विमोक्षाणां लोके प्रादुर्भावो भविष्यति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भविष्यति, समाधीनां लोके प्रादुर्भावो भविष्यति, धारणीमुखानां लोके प्रादुर्भावो भविष्यति, तथागतबलानां लोके प्रादुर्भावो भविष्यति, वैशारद्यानां लोके प्रादुर्भावो भविष्यति, प्रतिसंविदां लोके प्रादुर्भावो भविष्यति, महामैत्र्या लोके प्रादुर्भावो भविष्यति, महाकरुणाया लोके प्रादुर्भावो भविष्यति, आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भविष्यति, सर्वज्ञताया लोके प्रादुर्भावो भविष्यति, मार्गाकारज्ञताया लोके प्रादुर्भावो भविष्यति, सर्वाकारज्ञताया लोके प्रादुर्भावो भविष्यति, यावन् महाशालकुलानां लोके प्रादुर्भावो भविष्यति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भविष्यति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भविष्यति.
SK
चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भविष्यति, त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भविष्यति, यामानां देवानां लोके प्रादुर्भावो भविष्यति, तुषितानां देवानां लोके प्रादुर्भावो भविष्यति, निर्माणरतीनां देवानां लोके प्रादुर्भावो भविष्यति, परनिर्मितवसवर्तीनां देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मकायिकानां (Śस्P_II-४_५२) देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मपार्षद्यानां देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मपुरोहितानां देवानां लोके प्रादुर्भावो भविष्यति, महाब्रह्माणां देवानां लोके प्रादुर्भावो भविष्यति, आभानां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तभानां देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणाभाणां देवानां लोके प्रादुर्भावो भविष्यति, आभास्वराणां देवानां लोके प्रादुर्भावो भविष्यति, शुभानां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तशुभानां देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भविष्यति, शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भविष्यति, बृहाणां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तबृहाणाउन् देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणबृहाणां देवानां लोके प्रादुर्भावो भविष्यति, बृहत्फलानां देवानां लोके प्रादुर्भावो भविष्यति, अबृहाणां देवानां लोके प्रादुर्भावो भविष्यति, अतपानां देवानां लोके प्रादुर्भावो भविष्यति, सुदृशानां देवानां लोके प्रादुर्भावो भविष्यति, सुदर्शनानां देवानां लोके प्रादुर्भावो भविष्यति, अकनिष्ठानां देवानां लोके प्रादुर्भावो भविष्यति.
SK
स्रोतआपन्नानां लोके प्रादुर्भावो भविष्यति, सकृदागामीनां लोके प्रादुर्भावो भविष्यति, अनागामिनां लोके प्रादुर्भावो भविष्यति, अर्हतां लोके प्रादुर्भावो भविष्यति, प्रत्येकबुद्धानां लोके प्रादुर्भावो भविष्यति. बोधिसत्त्वानां च महासत्त्वानां समुदागः प्रज्ञास्यते, अनुत्तरं बुद्धज्ञानं प्रज्ञास्यते, धर्मचक्रप्रवर्तनं प्रज्ञास्यते, सत्त्वपरिपाकं प्रज्ञास्यते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञास्यते.
SK
[K. १८३ब्१८, N. ३५८अ२, T. २८८अ११, P. २१०ब्३, Cह्. ५७९ब्१३] अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवसवर्तिना ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मणो आभाः परीत्तभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् तं शक्रं देवानाम् इन्द्रम् आमन्त्रयते : उद्गृहीतव्या मार्ष प्रज्ञापारमिता धारयितव्या मार्ष प्रज्ञापारमिता वाचयितव्या मार्ष प्रज्ञापारमिता पर्यवाप्तव्या मार्ष प्रज्ञापारमिता, योनिशश् च मनसिकर्तव्या मार्ष प्रज्ञापारमिता, एतया मार्ष प्रज्ञापारमितयोद्गृहीतया धारयितया वाचयितया पर्यवाप्तया योनिशश् च मनसिकृतया बुद्धनेत्र्या (Śस्P_II-४_५३) वाचयितया पर्यवाप्तया योनिशश् च मनसिकृतया बुद्धनेत्र्या अव्यवच्छेदो भविष्यति, धर्मनेत्र्या अव्यवच्छेदो भविष्यति, संघनेत्र्या अव्यवच्छेदो भविष्यति बुद्धनेत्र्या मार्ष अव्यवच्छेदो ऽनुधर्मनेत्र्या अव्यवच्छेदो ऽनुसंघनेत्र्या अव्यवच्छेदः.
SK
दानपारमिताया लोके प्रादुर्भावो भविष्यति, शीलपारमिताया लोके प्रादुर्भावो भविष्यति, क्षान्तिपारमिताया लोके प्रादुर्भावो भविष्यति, वीर्यपारमिताया लोके प्रादुर्भावो भविष्यति, ध्यानपारमिताया लोके प्रादुर्भावो भविष्यति, प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति.
SK
अध्यात्मशून्यताया लोके प्रादुर्भावो भविष्यति, बहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, शून्यताशून्यताया लोके प्रादुर्भावो भविष्यति, महाशून्यताया लोके प्रादुर्भावो भविष्यति, परमार्थशून्यताया लोके प्रादुर्भावो भविष्यति, संस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, असंस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, अत्यन्तशून्यताया लोके प्रादुर्भावो भविष्यति, अनवराग्रशून्यताया लोके प्रादुर्भावो भविष्यति, अनवकारशून्यताया लोके प्रादुर्भावो भविष्यति, प्रकृतिशून्यताया लोके प्रादुर्भावो भविष्यति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भविष्यति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भविष्यति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भविष्यति, अभावशून्यताया लोके प्रादुर्भावो भविष्यति, स्वभावशून्यताया लोके प्रादुर्भावो भविष्यति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भविष्यति.
SK
स्मृत्युपस्थानानां लोके प्रादुर्भावो भविष्यति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भविष्यति, ऋद्धिपादानां लोके प्रादुर्भावो भविष्यति, इन्द्रियाणां लोके प्रादुर्भावो भविष्यति, बलानां लोके प्रादुर्भावो भविष्यति, बोध्यङ्गानां लोके प्रादुर्भावो भविष्यति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भविष्यति, आर्यसत्यानां लोके प्रादुर्भावो भविष्यति, ध्यानानां लोके प्रादुर्भावो भविष्यति, अप्रमाणानां लोके प्रादुर्भावो भविष्यति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, विमोक्षाणां लोके प्रादुर्भावो भविष्यति, अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भविष्यति, अभिज्ञानां लोके प्रादुर्भावो भविस्वति, समाधीनां लोके प्रादुर्भावो भविष्यति, धारणीमुखानां लोके प्रादुर्भावो भविष्यति, तथागतबलानां लोके प्रादुर्भावो भविष्यति, वैशारद्यानां लोके प्रादुर्भावो भविष्यति, प्रतिसंविदां लोके प्रादुर्भावो (Śस्P_II-४_५४) भविष्यति, महामैत्र्या लोके प्रादुर्भावो भविष्यति, महाकरुणाया लोके प्रादुर्भावो भविष्यति, आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वचर्याया लोके प्रादुर्भावो भविष्यति,
SK
स्रोतआपत्तिफलस्य लोके प्रादुर्भावो भविष्यति, सकृदागामिफलस्य लोके प्रादुर्भावो भविष्यति, अनागामिफलस्य लोके प्रादुर्भावो भविष्यति, अर्हत्त्वस्य लोके प्रादुर्भावो भविष्यति, प्रत्येकबोधेर् लोके प्रादुर्भावो भविष्यति, अनुत्तरायाः सम्यक्संबोधेर् लोके प्रादुर्भावो भविष्यति.
SK
[K. १८४अ१४, N. ३५९अ२, T. २८९अ२, P. २१२ब्२, Cह्. ५८०अ२४] अथ भगवाञ् छक्रं देवानाम् इन्द्रम् आमन्त्रयते: उद्गृहाण त्वं कौशिकेमां प्रज्ञापारमितां धारय वाचय पर्यवाप्नुहि योनिशश् च मनसिकुरुष्वेमां प्रज्ञापारमिताम्. तत् कस्य हेतोः? यदा कौशिकासुराणाम् एवं समुदाचारा भविष्यति, देवांस् त्रायस्त्रिंशान् योधयिष्यामो देवैस् त्रायस्त्रिंशैः सार्धं संग्रामयिष्यामस् तदा त्वं कौशिकेमां प्रज्ञापारमितां समन्वाहृत्य मनसा स्वध्याय कुर्याः योनिशश् च मनसिकुर्या एवं तेषाम् असुराणां ते समुदाचाराः.
SK
पुनर् एवान्तर्द्धास्यति न पुनस् ते चित्तोत्पादा विवर्धिष्यन्ति, येषां च देवपुत्राणां देवकन्यानां च्युतिकालः स्यां ते चात्मनः पापोपपत्तिं पश्येयुस् तेषां त्वं कौशिक पुरतः इमां प्रज्ञापारमितां स्वाध्यायं कुर्यास् ते तेन प्रज्ञापारमिता श्रवणकुशलमूलेन प्रज्ञापारनुता प्रसादेन च तत्रैव देवभवनेषूपपत्स्यते. तत् कस्य हेतोः? एवं महार्थिका हि कौशिक प्रज्ञापारमिता श्रवणं यस्य कस्यचित् कुलपुत्रस्य वा कुलदुहितुर् वा देवपुत्रस्य वा देवकन्याया वा इयं प्रज्ञापारमिता श्रोतावभासं गमिष्यन्ति सर्वे ते तेन कुशलमूलेनानुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तत् कस्य हेतोः? तथा हि कौशिक ये ते ऽभूवन् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः स श्रावकसंघास् ते ऽपीहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि त एतर्हि दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति, सर्वे ते इहैव प्रज्ञापारमितायाम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. तत् कस्य हेतोः? तथा हि कौशिकात्र प्रज्ञापारमितायां सर्वे बोधिपक्षा धर्मा अन्तर्गताः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा.
SK
शक्र आह: महाविद्येयं भगवन् यद् उत प्रज्ञापारमिता अनुत्तरेयं भगवन् विद्या यद् उत प्रज्ञापारमिता असमसमेयं भगवन् विद्या यद् उत प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि भगवन् (Śस्P_II-४_५५) प्रज्ञापारमिता सर्वेषां कुशलानां धर्माणां धारयित्री.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत् महाविद्येयं कौशिक विद्या यद् उत प्रज्ञापारमिता अनुत्तरेयं विद्या यद् उत प्रज्ञापारमिता, असमसमेयं विद्या यद् उत प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक ये ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् त एतां विद्याम् आगम्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् एताम् एव विद्याम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि त एतर्हि दश दिग् लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ति यापयन्ति, ते ऽप्य् एताम् एव विद्याम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा. तत् कस्य हेतोः? तथा हि कौशिकेमां विद्याम् आगम्य दशकुशला कर्मपथाः लोके प्रज्ञायन्ते, चत्वारि ध्यानानि लोके प्रज्ञायन्ते, चत्वार्य् अप्रमाणानि लोके प्रज्ञायन्ते, चतस्र आरूप्यसमापत्तयः लोके प्रज्ञायन्ते, पञ्चाभिज्ञा लोके प्रज्ञायन्ते.
SK
दानपारमिता लोके प्रज्ञायते, शीलपारमिता लोके प्रज्ञायते, क्षान्तिपारमिता लोके प्रज्ञायते, वीर्यपारमिता लोके प्रज्ञायते, ध्यानपारमिता लोके प्रज्ञायते, प्रज्ञापारमिता लोके प्रज्ञायते.
SK
अध्यात्मशून्यता लोके प्रज्ञायते, बहिर्धाशून्यता लोके प्रज्ञायते, अध्यात्मबहिर्धाशून्यता लोके प्रज्ञायते, शून्यताशून्यता लोके प्रज्ञायते, महाशून्यता लोके प्रज्ञायते, परमार्थशून्यता लोके प्रज्ञायते, संस्कृतशून्यता लोके प्रज्ञायते, असंस्कृतशून्यता लोके प्रज्ञायते, अत्यन्तशून्यता लोके प्रज्ञायते, अनवराग्रशून्यता लोके प्रज्ञायते, अनवकारशून्यता लोके प्रज्ञायते, प्रकृतिशून्यता लोके प्रज्ञायते, सर्वधर्मशून्यता लोके प्रज्ञायते, स्वलक्षणशून्यता लोके प्रज्ञायते, अनुपलम्भशून्यता लोके प्रज्ञायते, अभावशून्यता लोके प्रज्ञायते, स्वभावशून्यता लोके प्रज्ञायते, अभावस्वभावशून्यता लोके प्रज्ञायते.
SK
स्मृत्युपस्थानानि लोके प्रज्ञायन्ते, सम्यक्प्रहाणानि लोके प्रज्ञायन्ते, ऋद्धिपादा लोके प्रज्ञायन्ते, इन्द्रियाणि लोके प्रज्ञायन्ते, बलानि लोके प्रज्ञायन्ते, बोध्यङ्गानि लोके प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गो लोके प्रज्ञायन्ते, आर्यसत्यानि लोके प्रज्ञायन्ते, ध्यानानि लोके प्रज्ञायन्ते, अप्रमाणानि लोके प्रज्ञायन्ते, आरूप्यसमापत्तयो लोके प्रज्ञायन्ते, विमोक्षा लोके प्रज्ञायन्ते, अनुपूर्वविहारसमापत्तयो लोके प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखाणि लोके प्रज्ञायन्ते, अभिज्ञा लोके प्रज्ञायन्ते, समाधयो लोके प्रज्ञायन्ते, धारणीमुखानि लोके प्रज्ञायन्ते, तथागतबलानि (Śस्P_II-४_५६) लोके प्रज्ञायन्ते, वैशारद्यानि लोके प्रज्ञायन्ते, प्रतिसंविदो लोके प्रज्ञायन्ते, महाकरुणा लोके प्रज्ञायते, आवेणिकबुद्धधर्मा लोके प्रज्ञायन्ते. धर्मधातुर् लोके प्रज्ञायते, भूतकोटिर् लोके प्रज्ञायते, तथता लोके प्रज्ञायते, अवितथता लोके प्रज्ञायते, अनन्यतथता लोके प्रज्ञायते, धर्मता लोके प्रज्ञायते, धर्मस्थितिता लोके प्रज्ञायते, धर्मनियामता लोके प्रज्ञायते, पञ्च चक्षूंसि लोके प्रज्ञायन्ते, स्रोतआपत्तिफलं लोके प्रज्ञायते, सकृदागामिफलं लोके प्रज्ञायते, अनागामिफलं लोके प्रज्ञायते, अर्हत्त्वं लोके प्रज्ञायते, प्रत्येकबोधिर् लोके प्रज्ञायते, सर्वज्ञता लोके प्रज्ञायते, मार्गाकारज्ञता लोके प्रज्ञायते, सर्वाकारज्ञता लोके प्रज्ञायते, बोधिसत्त्वम् अपि कौशिकागम्य दश कुशलाः कर्मपथाः प्रभाष्यन्ते. चत्वारि ध्यानानि प्रभाव्यन्ते, चतस्र अरूप्यसमापत्तयः प्रभाव्यन्ते, पञ्चाभिज्ञा प्रभाव्यन्ते,
SK
दानपारमिता लोके प्रभाव्यते, शीलपारमिता लोके प्रभाव्यते, क्षान्तिपारमिता लोके प्रभाव्यते, वीर्यपारमिता लोके प्रभाव्यते, ध्यानपारमिता लोके प्रभाव्यते, प्रज्ञापारमिता लोके प्रभाव्यते.
SK
अध्यात्मशून्यता लोके प्रभाव्यते, बहिर्धाशून्यता लोके प्रभाव्यते, अध्यात्मबहिर्धाशून्यता लोके प्रभाव्यते, शून्यताशून्यता लोके प्रभाव्यते, महाशून्यता लोके प्रभाव्यते, परमार्थशून्यता लोके प्रभाव्यते, संस्कृतशून्यता लोके प्रभाव्यते, असंस्कृतशून्यता लोके प्रभाव्यते, अत्यन्तशून्यता लोके प्रभाव्यते, अनवराग्रशून्यता लोके प्रभाव्यते, अनवकारशून्यता लोके प्रभाव्यते, प्रकृतिशून्यता लोके प्रभाव्यते, सर्वधर्मशून्यता लोके प्रभाव्यते, स्वलक्षणशून्यता लोके प्रभाव्यते, अनुपलम्भशून्यता लोके प्रभाव्यते, अभावशून्यता लोके प्रभाव्यते, स्वभावशून्यता लोके प्रभाव्यते, अभावस्वभावशून्यता लोके प्रभाव्यते.
SK
स्मृत्युपस्थानानि लोके प्रभाव्यन्ते, सम्यक्प्रहाणानि लोके प्रभाव्यन्ते, ऋद्धिपादा लोके प्रभाव्यन्ते, इन्द्रियाणि लोके प्रभाव्यन्ते, बलानि लोके प्रभाव्यन्ते, बोध्यङ्गानि लोके प्रभाव्यन्ते, आर्याष्टाङ्गो मार्गो लोके प्रभाव्यते, आर्यसत्यानि लोके प्रभाव्यन्ते, ध्यानानि लोके प्रभाव्यन्ते, अप्रमाणानि लोके प्रभाव्यन्ते, आरूप्यसमापत्तयो लोके प्रभाव्यन्ते, विमोक्षा लोके प्रभाव्यन्ते, अनुपूर्वविहारसमापत्तयो लोके प्रभाव्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि लोके प्रभाव्यन्ते, अभिज्ञाः लोके प्रभाव्यन्ते, समाधयो लोके प्रभाव्यन्ते, धारणीमुखानि लोके प्रभाव्यन्ते, तथागतबलानि लोके प्रभाव्यन्ते, वैशारद्यानि लोके (Śस्P_II-४_५७) प्रभाव्यन्ते, प्रतिसंविदो लोके प्रभाव्यन्ते, महाकरुणा लोके प्रभाव्यते, आवेणिकबुद्धधर्मा लोके प्रभाव्यन्ते, सर्वज्ञता लोके प्रभाव्यते, मार्गाकारज्ञता लोके प्रभाव्यते, सर्वाकारज्ञता लोके प्रभाव्यते, स्रोतआपन्नो लोके प्रभाव्यते, सकृदागामी लोके प्रभाव्यते, अनागामी लोके प्रभाव्यते, अर्हन् लोके प्रभाव्यते, प्रत्येकबुद्धो लोके प्रभाव्यते, तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रभाव्यते.
SK
तद् यथापि नाम कौशिक चन्द्रमण्डलम् आगम्य सर्वोषधितारानक्षत्राणि प्रभाव्यन्ते. एवम् एव कौशिक बोधिसत्त्वचन्द्रमण्डलम् आगम्य सर्वकुशलचर्यासम्यक्चर्यादशकुशलकर्मपथध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञापारमिताशून्यताबोधिपक्षधर्मशून्यतानिमित्ताप्रणिहितार्यसत्यविमोक्षानुपूर्वविहारसमापत्तिसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माधयः प्रभाव्यन्ते. सर्वशैक्षाशैक्षश्रावकप्रत्येकबुद्धतारानक्षत्राणि च प्रभाव्यन्ते. तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रभाव्यन्ते.
SK
यदापि बुद्धानां भगवतां लोके नोत्पादो भवति, तदापि बोधिसत्त्वा महासत्त्वाः सत्त्वेभ्यो लौकिकलोकोत्तरान् धर्मान् देशयन्ति. तत् कस्य हेतोः? बोधिसत्त्वनिर्याता हि श्रावकप्रत्येकबुद्धमहायानानि, तच् च बोधिसत्त्वस्य महासत्त्वस्योपायकौशलं प्रज्ञापारमितानिर्यातं वेदितव्यं, येनोपायकौशलेन समन्वागता बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति.
SK
अध्यात्मशून्यतायां चरति, बहिर्धाशून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, शून्यताशून्यतायां चरति, महाशून्यतायां चरति, परमार्थशून्यतायां चरति, संस्कृतशून्यतायां चरति, असंस्कृतशून्यतायां चरति, अत्यन्तशून्यतायां चरति, अनवराग्रशून्यतायां चरति, अनवकारशून्यतायां चरति, प्रकृतिशून्यतायां चरति, सर्वधर्मशून्यतायां चरति, स्वलक्षणशून्यतायां चरति, अनुपलम्भशून्यतायां चरति, अभावशून्यतायां चरति, स्वभावशून्यतायां चरति, अभावस्वभावशून्यतायां चरति.
SK
स्मृत्युपस्थानेषु चरति. सम्यक्प्रहाणेषु चरति, ऋद्धिपादेषु चरति, इन्द्रियेषु चरति, बलेषु चरति, बोध्यङ्गेषु चरति, आर्याष्टाङ्गे मर्गे चरति, आर्यसत्येषु चरति, ध्यानेषु चरति, अप्रमाणेषु चरति, आरूप्यसमापत्तिषु चरति, अष्टासु विमोक्षेषु चरति, नवस्व् अनुपूर्वविहारसमापत्तिषु (Śस्P_II-४_५८) चरति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरति, अभिज्ञासु चरति, समाधिषु चरति, धारणीमुखेषु चरति, तथागतबलेषु चरति, वैशारद्येषु चरति, प्रतिसंवित्सु चरति, महाकरुणायां चरति, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति. न च श्रावकभूमौ पतति न प्रत्येकबुद्धभूमिसाक्षात् करोति, सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, आयुःसंपदञ् च परिगृह्णाति सत्त्वसंपदञ् च परिगृह्णाति बुद्धक्षेत्रसंपदञ् च परिगृह्णाति, बोधिसत्त्वसंपदं च परिगृह्णाति सर्वाकारज्ञतां चानुत्प्राप्नोति.
SK
[K. १८५अ१८, N. ३६१ब्८, T. २९०ब्१०, P. २१७ब्४, Cह्. ५८२च्२०] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, स एभिर् दृष्टधार्मिकैर् गुणैः समन्वागतो भविष्यति सांपरायिकैश् च गुणैः समन्वागतो भविष्यति.
SK
शक्र आह: कतमैर् भगवन् दृष्टधार्मिकैर् गुणैः समन्वागतः स कुलपुत्रो वा कुलदुहिता वा भविष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
SK
भगवान् आह: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, स न विषेण कालं करिष्यति, न शस्त्रेण कालं करिष्यति, नाग्निना कालं करिष्यति, नोदकेन कालं करिष्यति, यावन् नैकोत्तरेण रागशतेन कालं करिष्यति, स्थापयित्वा पूर्वकर्मविपाकं, ये च पुन राजकुलाद् उपद्रवा भविष्यन्ति, सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलम् उपसंक्रमिष्यति, न तस्य ते ऽवतारप्रेक्षिणाम् अवतारं लप्स्यते, राजपुत्राश् च राजमहामात्राश् चालपितव्यं मंस्यन्ते, आभाषितव्यं मंस्यन्ते, प्रतिसंमोदितव्यं मंस्यन्ते. तत् कस्य हेतोः? यथापि तद् अस्या एव प्रज्ञापारमितायास् तेजोनुभावेन सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलम् उपसंक्रमिष्यति, तम् एनं ते राजपुत्रा वा राजमहामात्रा वा प्रियवचनैर् आलपितव्यं मंस्यन्ते, आभाषितव्यं मंस्यते, प्रतिसंमोदितव्यं मंस्यते. तत् कस्य हेतोः? तथा हि कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां वा सर्वसत्त्वानाम् अन्तिके मैत्रचित्तं प्रत्युपस्थितं करुणाचित्तं मुदिताचित्तम् उपेक्षाचित्तं प्रत्युपस्थितं, एभिः कौशिक दृष्टधार्मिकैर् गुणैः समन्वागतः स कुलपुत्रो वा (Śस्P_II-४_५९) कुलदुहिता वा भविष्यति य इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
SK
कतमैश् च कौशिक सांपरायिकैर् गुणैः समन्वागतो भवति, यद् उत न जातु दशभिः कर्मपथैर् अविरहिता भविष्यति, न चतुर्भिर् ध्यानैर् न चतुर्भिर् अप्रमाणैर् न चतसृभिर् आरूप्यसमापत्तिभिः, न षड्भिः पारमिताभिर् न स्मृत्युपस्थानैर् न सम्यक्प्रहाणैर् न ऋद्धिपादैर् नेन्द्रियैर् न बलैर् न बोध्यङ्गैर् न मार्गेण नार्यसत्यैर् न ध्यानैर् नाप्रमाणैर् नारूप्यसमापत्तिभिर् न विमोक्षैर् नानुपूर्वविहारसमापत्तिभिर् न शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् नाभिज्ञाभिर् न समाधिभिर् न धारणीमुखैर् न तथागतबलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नावेणिकबुद्धधर्मैर् विरहिता भविष्यन्ति, न कदाचिन् नरकेषूपपद्यते, न तिर्यग्योनौ न यमलोके, अन्यत्र प्रणिधानवशेन सत्त्वं परिपाकं करिष्यति, स न कदाचिद् अङ्गविहीनो भविष्यति, न कदाचिद् दरिद्रकुलेषु प्रत्याजनिष्यति, वेणुकरकुले वा पुष्कसकुले वा मौष्ठिकचण्डालौरानिकसौकारिककुलेषु वा शूद्रकुलेषु वा सततसमितं द्वात्रिंशन् महापुरुषलक्षणैः समन्वागतो भविष्यति, यत्र च लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रीयन्ते यापयन्ति तत्र लोकधातुषूपपत्स्यते, न जातु बोधिसत्त्वाभिज्ञाभिर् विरहितो भविष्यति. स आकाङ्क्षं बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, बुद्धानां भगवतां दर्शनाय वन्दनाय पर्युपासनाय स बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा इमां गुणसंपदाम् आकाङ्क्षद्भिर् इयं प्रज्ञापारमितोद्गृहीतव्या धारयितवा वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या, सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यं, त एभिर् दृष्टधार्मिकैः सांपरायिकैश् च गुणैः समन्वागतो भविष्यन्ति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
SK
शतसाहस्र्यां प्रज्ञापारमितायाम् ऊनविंशतितमः परिवर्तः
SK
[K. १८५ब्१५, N. ३६२ब्८, T. २९१ब्३, P. २१९अ५, Cह्. ५८३च्१९] अथान्यतीर्थिकपरिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामं न्यासीत्.
SK
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूद्, इदम् अन्यतीर्थिकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामन्ति स्म, य न्व् अहं यावन् मया भगवतो ऽन्तिकात्, इतः प्रज्ञापारमिताया उद्गृहीतं तत् स्वाध्यायं कुर्यां, यदि मे ऽन्यतीर्थिकपरिव्राजकाम् उपसंक्रम्य भगवतो ऽन्तरायं च कुर्युः प्रज्ञापारमितायां भाष्यमाणायाम्.
SK
अथ शक्रो देवानाम् इन्द्रो यावद् भगवतो ऽन्तिकात् प्रज्ञापारमितायाम् उद्गृहीतं तावत् स्वाध्यायं करोति स्म.
SK
अथ ते ऽन्यतीर्थिकपरिव्राजका दूरेण दूरं भगवतं प्रदक्षिणीकृत्य, तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः
SK
अथ भगवान् आयुष्मतः शारद्वतीपुत्रस्यैतद् अभूत्, किम् अत्र कारणं येन मे ऽन्यतीर्थिकपरिव्राजका दूरेण दूरं भगवन्तं प्रदक्षिणीकृत्य तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः
SK
अथ भगवान् आयुष्मतश् छारद्वतीपुत्रस्य चेतसैव चेतः, परिवितर्कम् आजायायुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयतः शक्रेण सारद्वतीपुत्र देवानाम् इन्द्रेणेयं प्रज्ञापारमिता समन्वाहृता तेनैते ऽन्यतीर्थिकचरकपरिव्राजका दूरेण दूरं तां प्रदक्षिणीकृत्य, तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः, न हि शारद्वतीपुत्र एषाम् अन्यतीर्थिकचरकपरिव्राजकानाम् एकस्यापि शुक्लाङ्गं समनुपश्यामि, सर्व एते ऽन्यतीर्थिकपरिव्राजकाः प्रतिहतचित्ता उपारम्भाभिप्राया इमां पर्षदम् उपसंक्रमितव्यं मंयन्ते नाहं तं शारद्वतीपुत्र समनुपश्यामि, सदेवलोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां यो ऽस्यां प्रज्ञापारमितायां प्रतिहतचित्तो वा उपारम्भाभिप्रायो वा उपसंक्रमेन् नेदं स्थानं विद्यते. तत् कस्य हेतोः? तथा हि शारद्वतीपुत्र य इह त्रिसाहस्रे महासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवपुत्रा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मण आभः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुब्बा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अनभ्रका अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवाः, ये च श्रावका ये च प्रत्येकबुद्धा ये ऽपि (Śस्P_II-४_६१) बोधिसत्त्वा महासत्त्वास् तैर् इयं प्रज्ञापारमितां उद्गृहीता. तत् कस्य हेतोः? तथा हि ते प्रज्ञापारमिता निर्याताः सर्वम्.
SK
पुनर् अपरं शारद्वतीपुत्र ये ऽपि ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते दक्षिणस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते पश्चिमायां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते उत्तरस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते उत्तरपूर्वस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते पूर्वदक्षिणस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा (Śस्P_II-४_६२) देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
SK
ये ऽपि ते उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयम् प्रज्ञापारमितानुगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे.
SK
[K. १८६अ१९, N. ३६४अ८, T. २९२ब्५, P. २२२अ१, Cह्. ५८४अ२३] अथ खलु मारस्य पापीयस् एतद् अभूद्, इमास् तथागतस्यार्हतः सम्यक्संबुद्धस्य चतस्रः पर्षदः संमुखीभूता इमे च कामावचरा रूपावचराश् च देवाः संमुखीभूता निःसंशयम् अत्र बोधिसत्त्वा महासत्त्वा व्याकरिष्यन्ते, अनुत्तरायां सम्यक्संबोधौ य न्व् अहं येन भगवांस् तेनोपसंक्रमेयं विचक्षुष् करणीय.
SK
अथ मार पापीयांश् चतुरङ्गबलकायम् अभिनिर्माय येन भगवांस् तेनोपसंक्रमितुकामो ऽभूत्.
SK
अथ शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्, मारो बतायं पापीयां चतुरङ्गबलकायम् अभिनिर्माय येन भगवांस् तेनोपसंक्रमितुकामः, यश् चायं मारपापीयाञ् चतुरङ्गबलकायस्य व्यूहो नायं राज्ञो बिम्बिसारस्य चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहो न राज्ञः प्रसेनजितो न साक्यानां न लिच्छवीनां चतुरङ्गस्य बलकायस्यैवंरूपव्यूहः यो ऽयं चतुरङ्गो वरकायो मारेण पापियसा निर्मितः दीर्घरात्रं खलु पुनर् मारपापीयान् भगवतो ऽवतारसंप्रेक्ष्यावतारगवेषी सम्यक्प्रयुक्तानां च सत्त्वानां विहेठनाभिप्रायः, य न्व् अहम् इमां (Śस्P_II-४_६३) प्रज्ञापारमितां समन्वाहरेयं स्मृत्या च स्वाध्यायं कुर्यात्.
SK
अथ शक्रो देवानाम् इन्द्र इमां प्रज्ञापारमितां समन्वाहरति स्म, स्मृत्या च स्वाध्यायं करोति स्म, यथा यथा शक्रो देवानाम् इन्द्र इमां प्रज्ञापारमितां स्वाध्यायं करोति स्म, तथा तथा मारपापीयांस् तेनैव मार्गेण तेनैव द्वारेण पुनर् एव प्रत्युदावर्तते स्म.
SK
अथ तत्र पर्षदि चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवास् ते दिव्यानि पुष्पाणि वासांसि चाभिनिर्माय वैहायस्य् अन्तरिक्षे स्थित्वैव येन भगवांस् तेनाक्षिपन्ति स्म, येन भगवांस् तेनाभिप्रकिरन्ति स्म. एवं च वाचम् अभाषन्त, चिरं बतेयं जाम्बूद्वीपकानां मनुष्याणां प्रज्ञापारमिता भगवतां यावत् किलेयं जाम्बूद्वीपकान् मनुष्यान् प्रज्ञापारमितानुवर्तिष्यन्ते तावन् न तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति सद्धर्मस्य च चिरस्थितिकतां भविष्यति, संघरत्नस्य च लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वानां च महासत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा कुलदुहितरो वा लिखिष्यन्ति धारयिष्यन्ति पुस्तकगताम् अपि कृत्वा आलोकजाता च सा दिक् प्रतिकाङ्क्षितव्या सनाथाविगतास् तमोन्धकारा च मे सा दिक् प्रतिकाङ्क्षितव्य.
SK
[K. १८६ब्९, N. २६५अ१, T. २९३अ२, P. २२३अ२, Cह्. ५८४च्१] अथ भगवाञ् छक्रं देवानाम् इन्द्रकांश् चाकनिष्ठपर्यतो देवपुत्रान् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, एवम् एतद् देवपुत्रा एवम् एतत्, यावद् इमां प्रज्ञापारमितां जाम्बूद्वीपका मनुष्या अनुवर्तिष्यन्ते, तावत् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति सद्धर्मस्य च चिरस्थितिकता भविष्यति संघरत्नस्य च लोके प्रज्ञायते यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ यावत् समन्तो दशसु दिक्षु लोकधातुषु तथागतस्यार्हन्तः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति, सर्वधर्मस्य च चिरस्थितिकता भविष्यति, संघरत्नस्य च लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वानां च महासत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा कुलदुहितरो वा लिखिष्यन्ति धारयिष्यन्ति पुस्तकगताम् अपि कृत्वा आलोकजाता च सा दिक् प्रतिकाङ्क्षितव्या सनाथाविगतास् तमोन्धकारा च मे सा दिक् प्रतिभाति.
SK
अथ ते देवपुत्रा पुनर् अपि दिव्यानि कुसुमानि अभिनिर्माय येन भगवांस् तेनाभिप्रकिरन्ति स्म, एवञ् च वाचम् अभाषन्त, यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति (Śस्P_II-४_६४) धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशस् मनसिकरिश्यति. न तस्य मारो वा मारकायिका वा देवता अवतारप्रक्षिणो ऽवतारं लप्स्यन्ते, वयम् अपि भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामः. तत् कस्य हेतोः? शास्तारम् एव भगवंस् तम् अस्य महाशास्तारम् अन्यतरं वा यः कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति.
SK
अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न ते भगवन् कुलपुत्रो वा कुलदुहितरो वा अवरकेन कुशलमूलेन समन्वागता भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, सर्वजिनमनसिकारास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, बहुबुद्धपर्युपासिताश् च ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च ते भगवन् कुलपुत्रा वा कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. तत् कस्य हेतोः? अतो हि भगवन् सर्वाकारज्ञता गवेषितव्या यद् उत प्रज्ञापारमितायाः, अतश् च पुनर् भगवन् प्रज्ञापारमिता गवेषितव्या, यद् उत सर्वाकारज्ञतायाः. तत् कस्य हेतोः? तथा हि भगवन् नान्या प्रज्ञापारमितान्या सर्वाकारज्ञतान्या प्रज्ञापारमिता इति हि प्रज्ञापारमिता च सर्वाकारज्ञता नान्याद्वयम् एतद् अद्वैधीकारम्.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत् प्रज्ञापारमितानिर्याता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वाकारज्ञता, सर्वाकारज्ञातानिर्याता च प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक नान्या प्रज्ञापारमितान्या सर्वाकारज्ञता नान्या सर्वाकारज्ञतान्या प्रज्ञापारमिता इति हि प्रज्ञापारमिता च सर्वाकारज्ञता चाद्वयम् एतद् अद्वैधीकारम्.
SK
शतसाहस्र्यां प्रज्ञापारमितायां विंशतितमः परिवर्तः
SK
[K. १८७अ३, N. ३६५ब्८, T. २९३ब्६, P. २२४ब्२, Cह्, ५८५अ१५] अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: न तथा भगवान् दानपारमिताया नामधेयं परिकीर्तयति, न तथा शीलपारमिताया नामधेयं परिकीर्तयति, न तथा क्षान्तिपारमिताया नामधेयं परिकीर्तयति, न तथा वीर्यपारमिताया नामधेयं परिकीर्तयति, न तथा ध्यानपारमिताया नामधेयं परिकीर्तयति, न तथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
SK
न तथा भगवान् अध्यात्मशून्यताया नामधेयं परिकीर्तयति, न तथा बहिर्धाशून्यताया नामधेयं परिकीर्तयति, न तथाध्यात्मबहिर्धाशून्यताया नामधेयं परिकीर्तयति, न तथा शून्यताशून्यताया नामधेयं परिकीर्तयति, न तथा महाशून्यताया नामधेयं परिकीर्तयति, न तथा परमार्थशून्यताया नामधेयं परिकीर्तयति, न तथा संस्कृतशून्यताया नामधेयं परिकीर्तयति, न तथा संस्कृतशून्यताया नामधेयं परिकीर्तयति, न तथात्यन्तशून्यताया नामधेयं परिकीर्तयति, न तथानवराग्रशून्यताया नामधेयं परिकीर्तयति, न तथानवकारशून्यताया नामधेयं परिकीर्तयति, न तथा प्रकृतिशून्यताया नामधेयं परिकीर्तयति, न तथा सर्वधर्मशून्यताया नामधेयं परिकीर्तयति, न तथा स्वलक्षणशून्यताया नामधेयं परिकीर्तयति, न तथानुपलम्भशून्यताया नामधेयं परिकीर्तयति, न तथाभावशून्यताया नामधेयं परिकीर्तयति, न तथा स्वभावशून्यताया नामधेयं परिकीर्तयति, न तथाभावस्वभावशून्यताया नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
SK
न तथा स्मृत्युपस्थानानां नामधेयं परिकीर्तयति, न तथा सम्यक्प्रहाणानां नामधेयं परिकीर्तयति, न तथा ऋद्धिपादानां नामधेयं परिकीर्तयति, न तथेन्द्रियाणां नामधेयं परिकीर्तयति, न तथा बलानां नामधेयं परिकीर्तयति, न तथा बोध्यङ्गानां नामधेयं परिकीर्तयति, न तथार्याष्टाङ्गस्य मार्गस्य नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथार्यसत्यानां नामधेयं परिकीर्तयति, न तथा ध्यानानां नामधेयं परिकीर्तयति, न तथारूप्यसमापत्तीनां नामधेयं प्ररिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथाष्टानां विमोक्षमुखानां नामधेयं परिकीर्तयति, न तथा नवानुपूर्वविहारसमापत्तीनां नामधेयं परिकीर्तयति, न तथा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां (Śस्P_II-४_६६) नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामद्ःएयं परिकीर्तयति. न तथा समाधीनां नामधेयनि परिकीर्तयति, न तथा धारणीमुखानां नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथा दशानां तथागतबलानां नामधेयं परिकीर्तयति, न तथ चतुर्णां वैशारद्यानां नामधेयं परिकीर्तयति, न तथा चतसृणां प्रतिसंविदां नामधेयं परिकीर्तयति, न तथा महामैत्र्या नामधेयं परिकीर्तयति, न तथा महाकरुणाया नामधेयं परिकीर्तयति, न तथाष्टादशानाम् आवेणिकानां बुद्धधर्माणां नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
SK
भगवान् आह: प्रज्ञापारमिता आनन्दः पूर्वाङ्गमा परिणायिका यद् उत पञ्चानां पारमितानां सर्वशून्यतानां सप्तत्रिंशानां बोधिपक्षाणां धर्माणां, आर्यसत्यानां चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अष्टाणां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अभिज्ञानां समाधीनां धारणीमुखानां दशतथागतबलानां चतुर्णां वैशारद्यानां प्रतिसंविदां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम्. तत् किं मन्यसे? आनन्दापरिणामितं दानं सर्वाकारज्ञतायां दानपारमिता भवति.
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किम् अपरिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति?
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किम् अपरिणामितं क्षान्तिं सर्वाकारज्ञतायां क्षान्तिपारमिता भवति?
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किम् अपरिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति?
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किम् अपरिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति?
SK
आह: नो हीदं भगवन्.
SK
भगवान् आह: तत् किम् अपरिणामितं प्रज्ञां सर्वाकारज्ञतायां प्रज्ञापारमिता भवति?
SK
आह: नो हीदं भगवन्. अपि तु खलु पुनः कथं भगवन् दानपारमितां सर्वाकारज्ञतायां दानपारमिता भवति? कथं भगवन् शीलपारमितां सर्वाकारज्ञतायां शीलपारमिता भवति? कथं भगवन् क्षान्तिपारमितां सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? कथं भगवन् वीर्यपारमितां सर्वाकारज्ञतायां वीर्यपारमिता भवति? कथं भगवन् ध्यानपारमितां सर्वाकारज्ञतायां ध्यानपारमिता भवति? कथं भगवन् प्रज्ञापारमितां सर्वाकारज्ञतायां प्रज्ञापारमिता भवति?
SK
भगवान् आह: अद्वययोगेनानन्द परिणामितं सर्वाकारज्ञतायां दानपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं सर्वाकारज्ञतायां दानपारमिता भवति, अद्वययोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति, अद्वययोगेन परिणामितं क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामिता क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवति, अद्वययोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति, अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति, अद्वययोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति, अद्वययोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां प्रज्ञापारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां प्रज्ञापारमिता भवति.
SK
आह: कथं भगवन्न् अद्वययोगेन परिणामितं दानं सर्वाकारज्ञतायां दानपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां (Śस्P_II-४_६८) प्रज्ञापारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन?
SK
भगवान् आह: रूपस्याद्वययोगेन, वेदनाया अद्वययोगेन, संज्ञाया अद्वययोगेन, संस्काराणाम् अद्वययोगेन, विज्ञानस्याद्वययोगेन.
SK
चक्षुष अद्वययोगेन, श्रोत्रस्याद्वययोगेन, घ्राणस्याद्वययोगेन, जिह्वाया अद्वययोगेन, कायस्याद्वययोगेन, मनसो ऽद्वययोगेन.
SK
रूपस्याद्वययोगेन, शब्दस्याद्वययोगेन, गन्धस्याद्वययोगेन, रसस्याद्वययोगेन, स्पर्शस्याद्वययोगेन, धर्माणाम् अद्वययोगेन.
SK
चक्षुर्विज्ञानस्याद्वययोगेन, श्रोत्रविज्ञानस्याद्वययोगेन, घ्राणविज्ञानस्याद्वययोगेन, जिह्वाविज्ञानस्याद्वययोगेन, कायविज्ञानस्याद्वययोगेन, मनोविज्ञानस्याद्वययोगेन.
SK
चक्षुःसंस्पर्शस्याद्वययोगेन, श्रोत्रसंस्पर्शस्याद्वययोगेन, घ्राणसंस्पर्शस्याद्वययोगेन, जिह्वासंस्पर्शस्याद्वययोगेन, कायसंस्पर्शस्याद्वययोगेन, मनःसंस्पर्शस्याद्वययोगेन.
SK
चक्षुःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कायसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन.
SK
पृथिवीधातोर् अद्वययोगेन, अब्धातोर् अद्वययोगेन, तेजोधातोर् अद्वययोगेन, वायुधातोर् अद्वययोगेन, आकाशधातोर् अद्वययोगेन, विज्ञानधातोर् अद्वययोगेन.
SK
अविद्याया अद्वययोगेन, संस्काराणाम् अद्वययोगेन, विज्ञानस्याद्वययोगेन, नामरूपस्याद्वययोगेन, षडायतनस्याद्वययोगेन, स्पर्शस्याद्वययोगेन, वेदनाया अद्वययोगेन, तृष्णाया अद्वययोगेन, उपादानस्याद्वययोगेन, भवस्याद्वययोगेन, जातेर् अद्वययोगेन, जरामरणस्याद्वययोगेन.
SK
दानपारमिताया अद्वययोगेन, शीलपारमिताया अद्वययोगेन, क्षान्तिपारमिताया अद्वययोगेन, वीर्यपारमिताया अद्वययोगेन, ध्यानपारमिताया अद्वययोगेन, प्रज्ञापारमिताया अद्वययोगेन.
SK
अध्यात्मशून्यताया अद्वययोगेन, बहिर्धाशून्यताया अद्वययोगेन, अध्यात्मबहिर्धाशून्यता अद्वययोगेन, शून्यताशून्यताया अद्वययोगेन, महाशून्यताया अद्वययोगेन, परमार्थशून्यताया अद्वययोगेन, संस्कृतशून्यताया अद्वययोगेन, असंस्कृतशून्यताया अद्वययोगेन, अत्यन्तशून्यताया अद्वययोगेन, अनवराग्रशून्यताया अद्वययोगेन, (Śस्P_II-४_६९) अनवकारशून्यताया अद्वययोगेन, प्रकृतिशून्यताया अद्वययोगेन, सर्वधर्मशून्यताया अद्वययोगेन, स्वलक्षणशून्यताया अद्वययोगेन, अनुपलम्भशून्यताया अद्वययोगेन, अभावशून्यताया अद्वययोगेन, स्वभावशून्यताया अद्वययोगेन, अभावस्वभावशून्यताया अद्वययोगेन.
SK
स्मृत्युपस्थानानाम् अद्वययोगेन, सम्यक्प्रहाणानाम् अद्वययोगेन, ऋद्धिपादानाम् अद्वययोगेन, इन्द्रियाणाम् अद्वययोगेन, बलानाम् अद्वययोगेन, बोध्यङ्गानाम् अद्वययोगेन, आर्याष्टाङ्गस्य मार्गस्याद्वययोगेन, आर्यसत्यानाम् अद्वययोगेन, ध्यानानाम् अद्वययोगेन, अप्रमाणानाम् अद्वययोगेन, आरूप्यसमापत्तीनाम् अद्वययोगेन, विमोक्षाणाम् अद्वययोगेन, अनुपूर्वविहारसमापत्तीनाम् अद्वययोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अद्वययोगेन, अभिज्ञानाम् अद्वययोगेन, समाधीनाम् अद्वययोगेन, धारणीमुखानाम् अद्वययोगेन, दशानां तथागतबलानाम् अद्वययोगेन, चतुर्णां वैशारद्यानाम् अद्वययोगेन, चतसृणां प्रतिसंविदाम् अद्वययोगेन, महामैत्र्या अद्वययोगेन, महाकरुणाया अद्वययोगेन, अष्टादशानाम् आवेणिकबुद्धधर्माणाम् अद्वययोगेन, स्रोतआपत्तिफलस्याद्वययोगेन, सकृदागामिफलस्याद्वययोगेन, अनागामिफलस्याद्वययोगेन, अर्हत्त्वस्याद्वययोगेन, प्रत्येकबोधेर् अद्वययोगेन, अनुत्तरायाः सम्यक्संबोधेर् अद्वययोगेन.
SK
[K. १८८अ१२, N. ३६८ब्४, T. २९५ब्६, P. २२९ब्१, Cह्. ६१७अ८] आह: कथं भगवन् रूपस्याद्वययोगेन, कथं वेदनाया अद्वययोगेन, कथं संज्ञाया अद्वययोगेन, कथं संस्काराणाम् अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन?
SK
कथं चक्षुषो ऽद्वययोगेन, कथं श्रोत्रस्याद्वययोगेन, कथं घ्राणस्याद्वययोगेन, कथं जिह्वाया अद्वययोगेन, कथं कायस्याद्वययोगेन, कथं मनसो ऽद्वययोगेन?
SK
कथं रूपस्याद्वययोगेन, कथं शब्दस्याद्वययोगेन, कथं गन्धस्याद्वययोगेन, कथं रसस्याद्वययोगेन, कथं स्पर्शस्याद्वययोगेन, कथं धर्माणाम् अद्वययोगेन?
SK
कथं चक्षुर्विज्ञानस्याद्वययोगेन, कथं श्रोत्रविज्ञानस्याद्वययोगेन, कथं घ्राणविज्ञानस्याद्वययोगेन, कथं जिह्वाविज्ञानस्याद्वययोगेन, कथं कायविज्ञानस्याद्वययोगेन, कथं मनोविज्ञानस्याद्वययोगेन?
SK
कथं चक्षुःसंस्पर्शस्याद्वययोगेन, कथं श्रोत्रसंस्पर्शस्याद्वययोगेन, (Śस्P_II-४_७०) कथं घ्राणसंस्पर्शस्याद्वययोगेन, कथं जिह्वासंस्पर्शस्याद्वययोगेन, कथं कायसंस्पर्शस्याद्वययोगेन, कथं मनःसंस्पर्शस्याद्वययोगेन?
SK
कथं चक्षुःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं श्रोत्रसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं घ्राणसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं जिह्वासंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं कायसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं मनःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन?
SK
कथं पृथिवीधातोर् अद्वययोगेन, कथम् अब्धातोर् अद्वययोगेन, कथं तेजोधातोर् अद्वययोगेन, कथं वायुधातोर् अद्वययोगेन, कथम् आकाशधातोर् अद्वययोगेन, कथं विज्ञानधातोर् अद्वययोगेन?
SK
कथम् अविद्याया अद्वययोगेन, कथं संस्काराणाम् अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन, कथं नामरूपस्याद्वययोगेन, कथं षडायतनस्याद्वययोगेन, कथं स्पर्शस्याद्वययोगेन, कथं वेदनाया अद्वययोगेन, कथं तृष्णाया अद्वययोगेन, कथम् उपादानस्याद्वययोगेन, कथं भवस्याद्वययोगेन, कथं जातेर् अद्वययोगेन, कथं जरामरणस्याद्वययोगेन?
SK
कथं दानपारमिताया अद्वययोगेन, कथं शीलपारमिताया अद्वययोगेन, कथं क्षान्तिपारमिताया अद्वययोगेन, कथं वीर्यपारमिताया अद्वययोगेन, कथं ध्यानपारमिताया अद्वययोगेन, कथं प्रज्ञापारमिताया अद्वययोगेन?
SK
कथम् अध्यात्मशून्यताया अद्वययोगेन, कथं बहिर्धाशून्यताया अद्वययोगेन, कथम् अध्यात्मबहिर्धाशून्यताया अद्वययोगेन, कथं शून्यताशून्यताया अद्वययोगेन, कथं महाशून्यताया अद्वययोगेन, कथं परमार्थशून्यताया अद्वययोगेन, कथं संस्कृतशून्यताया अद्वययोगेन, कथम् असंस्कृतशून्यताया अद्वययोगेन, कथम् अत्यन्तशून्यताया अद्वययोगेन, कथम् अनवराग्रशून्यताया अद्वययोगेन, कथम् अनवकारशून्यताया अद्वययोगेन, कथं प्रकृतिशून्यताया अद्वययोगेन, कथं सर्वधर्मशून्यताया अद्वययोगेन, कथं स्वलक्षणशून्यताया अद्वययोगेन, कथम् अनुपलम्भशून्यताया अद्वययोगेन, कथम् अभावशून्यताया अद्वययोगेन, कथं स्वभावशून्यताया अद्वययोगेन, कथम् अभावस्वभावशून्यताया अद्वययोगेन?
SK
कथं स्मृत्युपस्थानानाम् अद्वययोगेन, कथं सम्यक्प्रहाणानाम् अद्वययोगेन, कथम् ऋद्धिपादानाम् अद्वययोगेन, कथम् इन्द्रियाणाम् (Śस्P_II-४_७१) अद्वययोगेन, कथं बलानाम् अद्वययोगेन, कथं बोध्यङ्गानाम् अद्वययोगेन, कथम् आर्याष्टाङ्गस्य मार्गस्याद्वययोगेन, कथम् आर्यसत्यानाम् अद्वययोगेन, कथं ध्यानानाम् अद्वययोगेन, कथम् अप्रमाणानाम् अद्वययोगेन, कथम् आरूप्यसमापत्तीनाम् अद्वययोगेन, कथम् अष्टानां विमोक्षाम् अद्वययोगेन, कथम् अनुपूर्वविहारसमापत्तीनाम् अद्वययोगेन, कथं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अद्वययोगेन, कथम् अभिज्ञानाम् अद्वययोगेन, कथं समाधीनाम् अद्वययोगेन, कथं धारणीमुखानाम् अद्वययोगेन, कथं दशानां तथागतबलानाम् अद्वययोगेन, कथं चतुर्णां वैशारद्यानाम् अद्वययोगेन, कथं चतसृणां प्रतिसंविदाम् अद्वययोगेन, कथं महामैत्र्या अद्वययोगेन, कथं महाकरुणाया अद्वययोगेन, कथम् अष्टादशानाम् आवेणिकबुद्धधर्माणाम् अद्वययोगेन, कथं स्रोतआपत्तिफलस्याद्वययोगेन, कथं सकृदागामिफलस्याद्वययोगेन, कथम् अनागामिफलस्याद्वययोगेन, कथम् अर्हत्त्वस्याद्वययोगेन, कथं प्रत्येकबोधेर् अद्वययोगेन, कथं मार्गाकारज्ञताया अद्वययोगेन, कथं सर्वाकारज्ञताया अद्वययोगेन, कथम् अनुत्तरायाः सम्यक्संबोधेर् अद्वययोगेन?
SK
तथा हि रूपं रूपेण शून्यम्. तत् कस्य हेतोः? तथा हि रूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वेदना वेदनया शून्या. तत् कस्य हेतोः? तथा हि वेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संज्ञा संज्ञया शून्या. तत् कस्य हेतोः? तथा हि संज्ञा च पारमिता चाद्वयम् एतद् अद्वैध्ल्कारं, संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? तथा हि संस्कारा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
चक्षुश् चक्षुषा शून्यम्. तत् कस्य हेतोः? तथा हि चक्षुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रं श्रोत्रेण शून्यम्. तत् कस्य हेतोः? तथा हि श्रोत्रं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणं घ्राणेन शून्यम्. तत् कस्य हेतोः? तथा हि घ्राणं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वा जिह्वया शून्या. तत् कस्य हेतोः? तथा हि जिह्वा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायः कायेण शून्यः. तत् कस्य हेतोः? तथा हि कायं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनो मनसा शून्यम्. तत् कस्य हेतोः? तथा हि शून्यं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
रूपं रूपेण शून्यम्. तत् कस्य हेतोः? तथा हि रूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शब्दः शब्देन शून्यः तत् कस्य हेतोह्? तथा हि शब्दश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, गन्धः गन्धेन शून्यः. तत् कस्य हेतोः? तथा हि गन्धश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, रसो रसेन शून्यः. तत् कस्य हेतोः? तथा हि रसश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्पर्शः स्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि स्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मा धर्मैः शून्याः. तत् कस्य हेतोः? तथा हि धर्माश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि चक्षुर्विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि श्रोत्रविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि घ्राणविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि जिह्वाविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायविज्ञानं कायविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि कायविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनोविज्ञानं मनोविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि मनोविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः, तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायसंस्पर्शः कायसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि कायसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया (Śस्P_II-४_७३) शून्या. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि कायसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
पृथिवीधातुः पृथिवीधातुना शून्यः. तत् कस्य हेतोः? तथा हि पृथिवीधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अब्धातुर् अब्धातुना शून्यः. तत् कस्य हेतोः? तथा ह्य् अब्धातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, तेजोधातुः तेजोधातुना शून्यः. तत् कस्य हेतोः? तथा हि तेजोधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वायुधातुर् वायुधातुना शून्यः. तत् कस्य हेतोः? तथा हि वायुधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आकाशधातुर् आकाशधातुना शून्यः. तत् कस्य हेतोः? तथा ह्य् आकाशधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानधातुर् विज्ञानधातुना शून्यः. तत् कस्य हेतोः? तथा हि विज्ञानधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
अविद्या अविद्यया शून्या. तत् कस्य हेतोः? तथा ह्य् अविद्या च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? तथा हि संस्काराश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, नामरूपं नामरूपेण शून्यम्. तत् कस्य हेतोः? तथा हि नामरूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, षडायतनं षडायतनेन शून्यम्. तत् कस्य हेतोः? तथा हि षडायतनं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्पर्शः स्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि स्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वेदना वेदनया शून्या. तत् कस्य हेतोः? तथा हि वेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, तृष्णा तृष्णया शून्या. तत् कस्य हेतोः? तथा हि तृष्णा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, उपादानम् (Śस्P_II-४_७४) उपादानेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् उपादानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, भवो भवेन शून्यः. तत् कस्य हेतोह्? तथा हि भवश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं. जातिर् जत्या शून्या. तत् कस्य हेतोः? तथा हि जातिश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जरामरणं जरामरणेन शून्यम्. तत् कस्य हेतोः? तथा हि नामरूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शून्यताशून्यता शून्यताशून्यतया शून्या. तत् कस्य हेतोः? तथा हि शून्यताशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, महाशून्यता महाशून्यतया शून्या. तत् कस्य हेतोः? तथा हि महाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, परमार्थशून्यता परमार्तशून्यतया शून्या. तत् कस्य हेतोः? तथा हि परमार्थशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संस्कृतशून्यता संस्कृतशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् संस्कृतशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, असंस्कृतशून्यता असंस्कृअशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् असंस्कृतशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अत्यन्तशून्यता अत्यन्तशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्तशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनवराग्रशून्यता अनवराग्रशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनवराग्रशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनवकारशून्यता अनवकारशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनवकारशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या. तत् कस्य हेतोः? तथा हि सर्वधर्मशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या. तत् कस्य हेतोह्? तथा ह्य् अनुपलम्भशून्यता च पारमिता चाद्वयम् एतद्. अद्वैधीकारम्, अभावशून्यता (Śस्P_II-४_७५) अभावशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्वभावशून्यता स्वभावशून्यतया शून्या. तत् कस्य हेतोः? तथा हि स्वभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. तत् कस्य हेतोः? तथा हि स्मृत्युपस्थानानि च पारमिता चाद्ययम् एतद् अद्वैधीकारं, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि. तत् कस्य हेतोः? तथा हि सम्यक्प्रहाणानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, ऋद्धिपादा ऋद्धिपादैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् ऋद्धिपादाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, इन्द्रियाणीन्द्रियैः शून्यानि. तत् कस्य हेतोः? तथा हीन्द्रियानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बलानि बलैः शून्यानि. तत् कस्य हेतोः? तथा हि बलानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बोध्यङ्गानि बोध्यङ्गैः शून्यानि. तत् कस्य हेतोः? तथा हि बोध्यङ्गानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मार्गो मार्गेन शून्यः. तत् कस्य हेतोः? तथा हि मार्गश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आर्यसत्यान्य् आर्यसत्यैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् आर्यसत्यानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, ध्यानानि ध्यानैः शून्यानि. तत् कस्य हेतोः? तथा हि ध्यानानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अप्रमाणान्य् अप्रमाणैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् अप्रमाणानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् आरूप्यसमापत्तयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विमोक्षा विमोक्षैः शून्याः. तत् कस्य हेतोः? तथा हि विमोक्षाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् अनुपूर्वविहारसमापत्तयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षसमुखैः शून्यानि. तत् कस्य हेतोः? तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अभिज्ञा अभिज्ञाभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् अभिज्ञाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, समाधयः समाधिभिः शून्याः. तत् कस्य हेतोः? तथा हि समाधयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, धारणीमुखानि धारणीमुखैः शून्यानि. तत् कस्य हेतोः? तथा हि (Śस्P_II-४_७६) धारणीमुखानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, दशतथागतबलानि दशतथागतबलैः शून्यानि. तत् कस्य हेतोः? तथा हि दशतथागतबलानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वैशारद्यानि वैशारद्यैः शून्यानि. तत् कस्य हेतोः? तथा हि वैशारद्यानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रतिसंविदः प्रतिसंविद्भिः शून्याः. तत् कस्य हेतोह्? तथा हि प्रतिसंविदश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं महाकरुणा महाकरुणया शून्या. तत् कस्य हेतोः? तथा हि महाकरुणा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्माश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्रोतआपत्तिफलं स्रोतआपत्तिफलेन शून्यम्. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, सकृदागामिफलं सकृदागामिफIएन शून्यम्. तत् कस्य हेतोः? तथा हि सकृदागामिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनागामिफलम् अनागामिफलेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् अनागामिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अर्हत्त्वम् अर्हत्त्वेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् अर्हत्त्वं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रत्येकबोधिः प्रत्येकबोध्या शून्या. तत् कस्य हेतोः? तथा ह्य् प्रत्येकबोधिश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मार्गाकारज्ञता मार्गाकारज्ञतया शून्या. तत् कस्य हेतोः? तथा हि मार्गाकारज्ञता च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. अनुत्तरा सम्यक्संबोधिः सम्यक्संबोध्या शून्या. तत् कस्य हेतोह्? तथा हि बोधिसत्त्वाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
[K. १९०अ६, N. ३७३अ२, T. २९८ब्८, P. २३७ब्२, Cह्. ६८७ब्२] तस्मात् तर्ह्य् आनन्द प्रज्ञापारमितैव पूर्वङ्गमा आसां पञ्चानां पारमितानां प्रज्ञापारमितैव पूर्वङ्गमा सर्वशून्यतानां प्रज्ञापारमितैव पूर्वङ्गमा सप्तत्रिंशतां बोधिपक्ष्याणां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णाम् आर्यसत्यानां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णां ध्यानानां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णाम् अप्रमाणानां प्रज्ञापारमितैव पूर्वङ्गमा चतसृणाम् आरूप्यसमापत्तीनां प्रज्ञापारमितैव पूर्वङ्गम अष्टानां विमोक्षाणां प्रज्ञापारमितैव पूर्वङ्गमा नवानाम् अनुपूर्वविहारसमापत्तीनां प्रज्ञापारमितैव पूर्वङ्गमा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रज्ञापारमितैव पूर्वङ्गमा अभिज्ञानां प्रज्ञापारमितैव पूर्वङ्गमा समाधीनां प्रज्ञापारमितैव पूर्वङ्गमा सर्वधारणीमुखानां (Śस्P_II-४_७७) प्रज्ञापारमितैव पूर्वङ्गमा, दशानां तथागतबलानां प्रज्ञापारमितैव पूर्वङ्गमा, चतुर्णां वैशारद्यानां प्रज्ञापारमितैव पूर्वङ्गमा, चतसृणां प्रतिसंविदां प्रज्ञापारमितैव पूर्वङ्गमा, महामैत्र्याः प्रज्ञापारमितैव पूर्वङ्गमा, महाकरुणायाः प्रज्ञापारमितैव पूर्वङ्गमा, अष्टादशानाम् आवेणिकबुद्धधर्माणां प्रज्ञापारमितैव पूर्यङ्गमा, सर्वज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा, मार्गाकारज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा, सर्वाकारज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा.
SK
तद् यथापि नामानन्द महापृथिव्यां बीजानि प्रकीर्णानि सामाग्री लभमानानि विरोहन्ति महापृथिव्यां च तेषां प्रतिष्ठानं महापृथिवी प्रतिष्ठितानि तानि बीजानि प्ररोहन्ति. एवम् एव प्रज्ञापारमिता प्रतिष्ठा इमा पञ्चपारमिता विरोहन्ति.
SK
अध्यात्मशून्यता विरोहति, बहिर्धाशून्यता विरोहति, अध्यात्मबहिर्धाशून्यता विरोहति, शून्यताशून्यता विरोहति, महाशून्यता विरोहति, परमार्थशून्यता विरोहति, संस्कृतशून्यता विरोहति, असंस्कृतशून्यता विरोहति, अत्यन्तशून्यता विरोहति, अनवराग्रशून्यता विरोहति, अनवकारशून्यता विरोहति, प्रकृतिशून्यता विरोहति, सर्वधर्मशून्यता विरोहति, स्वलक्षणशून्यता विरोहति, अनुपलम्भशून्यता विरोहति, अभावशून्यता विरोहति, स्वभावशून्यता विरोहति, अभावस्वभावशून्यता विरोहति.
SK
स्मृत्युपस्थानानि विरोहन्ति, सम्यक्प्रहाणानि विरोहन्ति, ऋद्धिपादा विरोहन्ति, इन्द्रियाणि विरोहन्ति, बलानि विरोहन्ति, बोध्यङ्गानि विरोहन्ति, आर्याष्टाङ्गो मार्गो विरोहति, आर्यसत्यानि विरोहन्ति, ध्यानानि विरोहन्ति, अप्रमाणानि विरोहन्ति, आरूप्यसमापत्तयो विरोहन्ति, अष्टौ विमोक्षा विरोहन्ति, नवानुपूर्वविहारसमापत्तयो विरोहन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरोहन्ति, अभिज्ञा विरोहन्ति, समाधयो विरोहन्ति, धारणीमुखानि विरोहन्ति, दशतथागतबलानि विरोहन्ति, चत्वारि वैशारद्यानि विरोहन्ति, चतस्रः प्रतिसंविदो विरोहन्ति, महामैत्रि विरोहति, महाकरुणा विरोहति, अष्टादशावेणिका बुद्धधर्मा विरोहन्ति, सर्वज्ञता विरोहन्ति, मार्गाकारज्ञता विरोहन्ति, सर्वाकारज्ञता विरोहन्ति.
SK
सर्वाकारज्ञताप्रतिष्ठिताः पुनर् आनन्द पञ्चपारमिता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताः सर्वशून्यता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि स्मृत्युपस्थानानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि सम्यक्प्रहाणानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चत्वार ऋद्धिपादा विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि पञ्चेन्द्रियाणि विरोहन्ति, (Śस्P_II-४_७८) सर्वाकारज्ञताप्रतिष्ठितानि पञ्चबलानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि सप्तबोध्यङ्गानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठित आर्याष्टाङ्गो मार्गो विरोहति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वार्य् आर्यसत्यानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि ध्यानानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वार्य् अप्रमाणानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चतस्र आरूप्यसमापत्तयो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताः सर्वसमाधयो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि सर्वधारणीमुखानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि दशतथागतबलानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि वैशारद्यानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चतस्रः प्रतिसंविदो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता महामैत्री विरोहति, सर्वाकरज्ञतप्रतिष्ठिता महाकरुणा विरोहति, सर्वाकारज्ञतप्रतिष्ठिता अष्टादशावेणिका बुद्धधर्मा विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता सर्वज्ञता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता मार्गाकारज्ञता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता सर्वाकारज्ञता विरोहन्ति.
SK
तस्मात् तर्ह्य् आनन्द प्रज्ञापारमितैवासां पञ्चानां पारमितानां परिणायिका, सर्वशून्यतानां परिणायिका, चतुर्णां स्मृत्युपस्थानानां परिणायिका, चतुर्णां सम्यक्प्रहाणानां परिणायिका, चतुर्णाम् ऋद्धिपादानां परिणायिका, पञ्चानाम् इन्द्रियाणां परिणायिका, पञ्चानां बलानां परिणायिका, सप्तानां बोध्यङ्गानां परिणायिका, आर्याष्टाङ्गस्य मार्गस्य परिणायिका, चतुर्णाम् आर्यसत्यानां परिणायिका, चतुर्णां ध्यानानां परिणायिका, चतुर्णाम् अप्रमाणानां परिणायिका, चतसृणाम् आरूप्यसमापत्तीनां परिणायिका, अष्टानां विमोक्षाणां परिणायिका, नवानुपूर्वविहारसमापत्तीनां परिणायिका, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिणायिका, अभिज्ञानां परिणायिका, समाधीनां परिणायिका, धारणीमुखानां परिणायिका, दशानां तथागतबलानां परिणायिका, चतुर्णां वैशारद्यानां परिणायिका, चतसृणां प्रतिसंविदानां परिणायिका, महामैत्र्याः परिणायिका, महाकरुणायाः परिणायिका, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां परिणायिका, सर्वज्ञतायाः परिणायिका, मार्गाकारज्ञतायाः परिणायिका, सर्वाकारज्ञतायाः परिणायिका.
SK
[K. १९०ब्११, N. ३७४ब्२, T. २९९ब्११, P. २४०अ१, Cह्. ६९०अ२४] अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न मे भगवन् तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः सर्वे (Śस्P_II-४_७९) गुणाः परिकीर्तिता ये मया भगवतो ऽन्तिकाद् उद्गृहीता धारिता वाचितायान् गुणान् स कुलपुत्रो वा कुलदुहिता वा परिगृहीष्यतीमां प्रज्ञापारमिताम् उद्गृहन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् ये मया भगवतो ऽन्तिकाद् अस्याः प्रज्ञापारमिताया गुणा उद्गृहीताः पर्यवाप्ता धारिता वाचिताः प्रवर्तिताः प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति.
SK
पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति.
SK
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.
SK
अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया तोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति.
SK
चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियाणां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां परिणायिका, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके (Śस्P_II-४_८०) प्रादुर्भावो भवति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भवति, अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदानां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां लोके प्रादुर्भावो भवति.
SK
प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भवति,
SK
चातुर्महाराजकायिका देवा लोके प्रज्ञायन्ते, त्रायस्त्रिंशा देवा लोके प्रज्ञायन्ते, यामा देवा लोके प्रज्ञायन्ते, तुषिता देवा लोके प्रज्ञायन्ते, निर्माणरतयो देवा लोके प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवा लोके प्रज्ञायन्ते, ब्रह्मकायिका देवा लोके प्रज्ञायन्ते, ब्रह्मपुरोहिता देवा लोके प्रज्ञायन्ते, ब्रह्मपार्षद्या देवा लोके प्रज्ञायन्ते, महाब्रह्मणो देवा लोके प्रज्ञायन्ते, आभास्वरा देवा लोके प्रज्ञायन्ते. परीत्ताभा देवा लोके प्रज्ञायन्ते, अप्रमाणाभादेवा लोके प्रज्ञायन्ते, आभास्वरा देवा लोके प्रज्ञायन्ते, शुभा देवा लोके प्रज्ञायन्ते, परीत्तशुभा देवा लोके प्रज्ञायन्ते, अप्रमाणशुभा देवा लोके प्रज्ञायन्ते, शुभकृत्स्ना देवा लोके प्रज्ञायन्ते, बृहा देवा लोके प्रज्ञायन्ते, परीत्तबृहा देवा लोके प्रज्ञायन्ते, अप्रमाणबृहा देवा लोके प्रज्ञायन्ते, बृहत्फला देवा लोके प्रज्ञायन्ते, अबृहा देवा लोके प्रज्ञायन्ते, अतपा देवा लोके प्रज्ञायन्ते, सुदृशा देवा लोके प्रज्ञायन्ते, सुदर्शना देवा लोके प्रज्ञायन्ते, अकनिष्ठा देवा लोके प्रज्ञायन्ते.
SK
प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया स्रोतआपन्ना लोके प्रज्ञायन्ते, सकृदागामिनो लोके प्रज्ञायन्ते, अनागामिनो लोके प्रज्ञायन्ते, अर्हन्तो लोके प्रज्ञायन्ते, प्रत्येकबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वा लोके प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया तथागतानाम् अर्हतां लोके प्रादुर्भावो भवति.
SK
[K. १९१अ१४, N. ३७५ब्८, T. ३००ब्८, P. २४१ब्४, Cह्. ६९१ब्७] भगवान् आह: न पुनः कौशिक येन कुलपुत्रेण वा कुलदुहित्रा वा इयं प्रज्ञापारमिता उद्ग्रहीता भविष्यति धारिता भविष्यति वाचिता भविष्यति पर्यवाप्ता भविष्यति योनिशश् च मनसिकृता भविष्यति तस्येमाम् एव गुणान् वदामि. तत् कस्य हेतोः?
SK
अप्रमाणेन ते कौशिक शीलस्कन्धेन समन्वागता, कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीता भविष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
SK
अप्रमाणेन समाधिस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
SK
अप्रमाणेन प्रज्ञास्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
SK
अप्रमाणेन विमुक्तिस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
SK
अप्रमाणेन विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति.
SK
तथागतप्रतिपन्नास् ते कौशिक कुलपुत्राः कुलदुहितरश् च वेदितव्या य इमां प्रज्ञापारमिताम् उद्गृहिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति.
SK
यश् च कौशिक सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः प्रज्ञास्कन्धो विमुक्तस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो यश् च तेषां कुलपुत्राणां वा कुलदुहितॄणां वा शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः. अस्य कौशिक शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य (Śस्P_II-४_८२) पुरतः स सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः शततमीम् अपि कालां नोपैति, सहस्रतमीम् अपि कलां नोपैति, शतसहस्रतमीम् अपि कलां नोपैति, कोटीतमीम् अपि कलां नोपैति, कोटीशततमीम् अपि कलां नोपैति, कोटीसहस्रतमीम् अपि कलां नोपैति, कोटीशतसहस्रतमीम् अपि कलां नोपैति, कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, गणनाम् अपि कलां नोपैति, उपमाम् अपि कलां नोपैति, उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितॄणां च श्रावकप्रत्येकबुद्धभूमेश् चित्तं विमुक्तं न च कश्चिद् धर्म आज्ञातः ये पुनः कौशिक कुलपुत्रो वा कुलदुहितरो वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश् च मनसिकरिष्यन्ति तां च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति. पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यस् तेषाम् अप्य् अहं कुलपुत्रणां कुलदुहितॄणां ततश् चेतद् एवेमां दृष्टधार्मिकान् सा परायिकांश् च गुणां वदामि.
SK
शक्र आह: अहम् अपि भगवन् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, अविरहितश् च भविष्यन्ति सर्वाकारज्ञताचित्तेन इमां च प्रज्ञापारमितां लिखित्वा सत्करिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
भगवान् आह: तस्य पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमितां स्वध्यायमानस्य, बहूनि देवपुत्रसहस्राणि मनसिधर्मश्रवणायोपसंक्रमिष्यन्ति. तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा प्रज्ञापारमिता प्रतिसंयुक्तं धर्मं देशयतस् ते देवपुत्राः प्रतिभानम् उपसंहर्तव्यं मंस्यते, यद् अपि ते धर्मभानकानम् अत्रापि तु कामा भवन्ति, तत् तेनैव धर्मगौरवेन देवपुत्राः प्रतिभानम् उपसंहर्तव्यं मंस्यन्ते, इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकगुणं परिग्रहीष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यत्य् एनां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् (Śस्P_II-४_८३) ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमितां भाष्यमानस्य चतसृणां पर्षदां पुरतो ऽनाचलयता भविष्यति, कश्चित् माम् अनुयोक्ष्यति चोपलप्स्यते च. तत् कस्य हेतोः? तथा हि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इयं प्रज्ञापारमिता रक्षावरणगुप्तिं संविधास्यति. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां सर्वधर्मा अभिन्ना लौकिका लोकोत्तरश् च सास्रवाश् चानास्रवाश् च साधारणाश् च कुशलाश् चाकुसलाश् च संस्कृताश् चासंस्कृताश् च श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च. तत् कस्य हेतोः? तथा ह्य् एषा सर्वं कुशलधर्माणां निधिः, स च कुलपुत्रो वा कुलदुहिता वा,
SK
अध्यात्मशून्यतायां स्थितो बहिर्धाशून्यतायां स्थितो ऽध्यात्मबहिर्धाशून्यतायां स्थितः, शून्यताशून्यतायां स्थितो महाशून्यतायां स्थितः, परमार्थशून्यतायां स्थितः, संस्कृतशून्यतायां स्थितो ऽसंस्कृतशून्यतायां स्थितो ऽत्यन्तशून्यतायां स्थितो ऽनवराग्रशून्यतायां स्थितो ऽनवकारशून्यतायां स्थितः, प्रकृतिशून्यतायां स्थितः, सर्वधर्मशून्यतायां स्थितः, स्वलक्षणशून्यतायां स्थितो ऽनुपलम्भशून्यतायां स्थितो ऽभावशून्यतायां स्थितः, स्वभावशून्यतायां स्थितोऽभावस्वभावशून्यतायां स्थितः. स औपलभिके स्थितः प्रज्ञापारमितायां न समनुपश्यति, यो ऽप्य् उपालभते, तम् अपि प्रज्ञापारमितायां न समनुपश्यति, यो ऽप्य् उपालभते तम् अपि प्रज्ञापारमितायां न समनुपश्यति. एवं खलु तं कुलपुत्रं वा कुलदुहितरं वा प्रज्ञापारमितयोद्गृहीतया न कश्चिद् उपालप्स्यते.
SK
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतश् चित्तं नाचलेष्यते नोत्रसिष्यति न संत्रसिष्यति न संत्रासम् आपत्स्यते. तत् कस्य हेतोः? तथा हि स कुलपुत्रो वा कुलदुहिता वा वस्तु न समनुपश्यति, यो ऽवलीयेत वा संलीयेत वा उत्त्रस्येद् वा संत्रस्येद् वा संत्रासम् आपद्येद् वा, इमां कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृहीष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, ताञ् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
[K. १९२अ४, N. ३७७ब्५, T. ३O२अ३, P. २४४अ४, Cह्. ६९२ब्२६] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, ताञ् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति, पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. स प्रियो भविष्यति मातापितॄणां मित्रामात्यज्ञातिसालोहितानां राज्ञां राजमहामात्राणां श्रवणब्राह्मणानां ये ऽपि ते दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धाश् चार्हन्तश् चानागामिनश् च सकृदागामिनश् च स्रोतआपन्नाश् च तेषाम् अपि स प्रियो भविष्यति, मनापश् च सदेवस्य लोकस्य सब्रह्मकस्य सश्रवणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः प्रियो भविष्यति, मनापश् च अनाच्छेद्य प्रतिभानश् च भविष्यति.
SK
अनच्छेद्या दानपारमिता भविष्यति, अनाच्छेद्या शीलपारमिता भविष्यति, अनाच्छेद्या क्षान्तिपारमिता भविष्यति, अनाच्छेद्या वीर्यपारमिता भविष्यति, अनाच्छेद्या ध्यानपारमिता भविष्यति, अनाच्छेद्या प्रज्ञापारमिता भविष्यति.
SK
अनाच्छेद्याध्यात्मशून्यताभावना भविष्यति, अनाच्छेद्या बहिर्धाशून्यताभावना भविष्यति, अनाच्छेद्याध्यात्मबहिर्धाशून्यताभावना भविष्यति, अनाच्छेद्या शून्यताशून्यता भावनाभविष्यति, अनाच्छेद्या महाशून्यता भावना भविष्यति, अनाच्छेद्या परमार्थशून्यताभावना भविष्यति, अनाच्छेद्या संस्कृतशून्यताभावना भविष्यति, अनाच्छेद्यासंस्कृतशून्यताभावना भविष्यति, अनाच्छेद्यात्यन्तशून्यताभावना भविष्यति, अनाच्छेद्यानवराग्रशून्यताभावना भविष्यति, अनाच्छेद्यानवकारशून्यताभावना भविष्यति, अनाच्छेद्या प्रकृतिशून्यताभावना भविष्यति, अनाच्छेद्या सर्वधर्मशून्यताभावना भविष्यति, अनाच्छेद्या स्वलक्षणशून्यताभावना भविष्यति, अनाच्छेद्यानुपलम्भशून्यताभावना भविष्यति, अनाच्छेद्याभावशून्यता भावनाभविष्यति, अनाच्छेद्या स्वभावशून्यताभावना भविष्यति, अनाच्छेद्याभावस्वभावशून्यताभावना भविष्यति.
SK
अनाच्छेद्या चास्य चतुःस्मृत्युपस्थानभावना भविष्यति, आनाच्छेद्या चतुःसम्यक्प्रहाणभावना भविष्यति, अनाच्छेद्या चतू ऋद्धिपादभावना भविष्यति, अनाच्छेद्या पञ्चेन्द्रियभावना भविष्यति, अनाच्छेद्या पञ्चबलभावना भविष्यति, अनाच्छेद्या सप्तबोध्यङ्गभावना भविष्यति, अनाच्छेद्या आर्याष्ताङ्गमार्गभावना भविष्यति, अनाच्छेद्या चतुरार्यसत्यभावना (Śस्P_II-४_८५) भविष्यति, अनाच्छेद्या चतुर्ध्यानभावना भविष्यति, अनाच्छेद्या चतुरप्रमाणभावना भविष्यति, अनाच्छेद्या चतुरारूप्यसमापत्तिभावना भविष्यति, अनाच्छेद्या अष्टविमोक्षभावना भविष्यति, अनाच्छेद्या नवानुपूर्वविहारसमापत्तिभावना भविष्यति, अनाच्छेद्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखभावना भविष्यति, अनाच्छेद्या अभिज्ञाभावना भविष्यति, अनाच्छेद्या समाधिभावना भविष्यति, अनाच्छेद्या धारणीमुखभावना भविष्यति, अनाच्छेद्या दशतथागतबलभावना भविष्यति, अनाच्छेद्या चतुर्वैशारद्यभावना भविष्यति, अनाच्छेद्या चतुःप्रतिसंविद्भावना भविष्यति, अनाच्छेद्या महामैत्रीभावना भविष्यति, अनाच्छेद्या महाकरुणाभावना भविष्यति, अनाच्छेद्या अष्टादशावेणिकबुद्धधर्म भावना भविष्यति.
SK
अनाच्छेद्या चास्य सत्त्वपरिपाको भविष्यत्य् अनाच्छेद्या बुद्धक्षेत्रपरिशुद्धिर् भविष्यत्य् अनाच्छेद्या चास्य सर्वाकारज्ञता भविष्यति प्रतिबलश् च भविष्यति पुरतः उत्पन्नोत्पन्नानां प्रत्यनुयोगानां सहधर्मेण निःशरणे इमान् अपि स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृहिष्यति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् मनसिकरिष्यत्य् अविरहितश् च भविष्यति सर्वाकारज्ञताचित्तेन तांश् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा धारयिष्यति, तत्र कौशिक ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या महाब्रह्माण आभाः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुब्बाः शुभकृत्स्नाः, बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, ते तत्रागत्येमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते, ये ऽपि ते शुद्धावासकायिका देवा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, ते ऽपि तत्रागम्येमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते.
SK
तत्र कौशिक ये दशसु दिक्षु लोकधातुषु चातुर्महाराजकायिका देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माण अभाः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला देवा अनुत्तरायै सम्यक्सम्बोधये संप्रस्थिताः, ये ऽपि शुद्धावासकायिका देवा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा, ये ऽपि तदन्ये महौजस्का महौजस्का देवा नागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते तत्रागम्येमां प्रज्ञापारमितां वाचयित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते.
SK
तत्र कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा एवं चित्तम् उत्पादयितव्यं, ये ऽपि ते दशसु दिक्षु लोकधतुषु चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माण देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः, बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा, अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, येऽपि ते सुद्धावासकायिका देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा, ये ऽपि तदन्ये महौजस्का महौजस्का देवा नागयक्षगन्धर्वासुरगरुडकिंनरमहोरगा इहागता इमां प्रज्ञापारमितां वाचयितुम् उद्गृहीतुं पर्यवाप्तुं वन्दितुं पूजयितुं तेभ्य इदं धर्मदानं दत्तं भवतु त इमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य पूजयित्वा वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमन्ति तस्य पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः सुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा, ये ऽपि दशसु दिक्षु लोकधातुषु चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा (Śस्P_II-४_८७) यामा देवास् तुषिता देवा निर्माणरतयो देवा परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः, बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा, अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना डेवा अकनिष्ठा देवास् ते धर्मवरेण गुप्तिं संविधास्यन्ति. नास्य कौशिकावतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकं, इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिग्रहीष्यति, ये ऽपि देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् ते तत्रागन्तव्या मंस्यन्ते, अस्याः प्रज्ञापारमितायाः पूजाकर्मणे तस्य च कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तये. तत् कस्य हेतोः? तथा हि कौशिक ते कुलपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः सर्वसत्त्वानां त्राणार्थाय सर्वसत्त्वानां हितसुखार्थाय प्रत्युपस्थिताः.
SK
शक्र आह: कथम् भगवन् कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते, इह चातुर्महाराजकायिका देवा आगच्छन्ति, इह त्रायस्त्रिंशा देवा आगच्छन्ति, इह यामा देवा आगच्छन्ति, इह तुषिता देवा आगच्छन्ति, इह निर्माणरतयो देवा आगच्छन्ति, इह परनिर्मितवशवर्तिनो देवा आगच्छन्ति, इह ब्रह्मकायिका देवा आगच्छन्ति, इह ब्रह्मपुरोहिता देवा आगच्छन्ति, इह ब्रह्मपार्षद्या देवा आगच्छन्ति, इह महाब्रह्मणो देवा आगच्छन्ति, इह आभा देवा आगच्छन्ति, इह परीत्ताभा देवा आगच्छन्ति, इह अप्रमाणाभा देवा आगच्छन्ति, इह आभास्वरा देवा आगच्छन्ती, इह शुभा देवा आगच्छन्ति, इह परीत्तशुभा देवा आगच्छन्ति, इह अप्रमाणशुभा देवा आगच्छन्ति, इह शुभकृत्स्ना देवा आगच्छन्ति, इह बृहा देवा आगच्छन्ति, इह परीत्तबृहा देवा आगच्छन्ति, इह अप्रमाणबृहा देवा आगच्छन्ति, इह बृहत्फला देवा आगच्छन्ति, इह अबृहा देवा आगच्छन्ति, इह अतपा देवा आगच्छन्ति, इह सुदृशा देवा आगच्छन्ति, इह सुदर्शना देवा आगच्छन्ति, इह अकनिष्ठा देवा आगच्छन्ति. समन्ताद् दश दिग् लोकधातुभ्य इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं वन्दितुं नमस्कर्तुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
SK
भगवान् आह: सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा उदारम् अवभासं संज्ञास्यते यत्रेयं प्रज्ञापारमिता स्थापिता भविष्यति निष्ठा (Śस्P_II-४_८८) तेन कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या महेशाख्यमाहेशाख्या महर्द्धिका महानुभावा महौजस्का इह देवता आगता इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं वन्दितुं नमस्कर्तुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
SK
[K. १९३अ९, N. ३८०अ४, T. ३०३ब्१३, P. २४८अ२, Cह्. ६९४अ२२] पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा चौक्षसमाचारो भवति तस्य तया चौक्षसमाचारतया देवता आगम्येमां प्रज्ञापारमितां वाचयित्वोद्गृह्य पर्यवाप्य सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा आत्तमनस्का भविष्यति, याश् च तत्र प्रदेशो अल्पशाख्यदेवता अध्युषिता भविष्यन्ति तास् तत्रोपसंक्रमितव्यं मंस्यते. तासां महेशाख्यानां देवातानां तेजश् च श्रियं च गौरवं चासहमाना, यथा यथा महेशाख्यमहेशाख्या महर्द्धिका महानुभावा देवता उपसंक्रमितव्या मंस्यते, तथा तथा स कुलपुत्रो वा कुलदुहिता वा उदाराधिमुक्तिको भविष्यति. तस्य च स्थानस्य समन्ताद् अचौक्षसमुदाचारता न प्रचारयितव्या, तेन कुलपुत्रेण वा कुलदुहित्रा वा अस्याः प्रज्ञापारमितायाः पूजाकर्मणे गन्धोदकावसिक्तः स पृथिवीप्रदेशः कर्तव्यः पुष्पगन्धावकीर्णगन्धघटिकानिधूपितः, अवसक्तपट्टदामाचैलवितानविततो नेत्रप्रचारं च तत् स पृथिवीप्रदेशो ऽलंकर्तव्यः.
SK
न पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा कायक्लमथो भविष्यति कायसुखतां च कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते. कायलघुतां च कायकथनीयतं च चित्तसुखतां च स कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते चित्तलघुतां च चित्तकम् अथनीयतां च ततः स रात्रौ शय्यां कल्पयन्तीमाम् एव प्रज्ञापारमिताम् अशयेणाधिमुञ्चन् न पापकान् स्वप्नान् द्रक्षति स पश्यंस् तथागतम् एवार्हन्तन् सम्यक्संबुद्धं द्रक्ष्यति द्वात्रिंशन्महापुरुषलक्षणैः समन्वगतम् अशीत्यनुव्यञ्जनैः समलंकृतसुवर्णवर्णेन कायेन भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं धर्मं देशयतं तस्य च तथागतस्यान्तिकाद् धर्मं श्रोष्यति, यद् उत दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिताम्.
SK
अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां शून्यताशून्यतां महाशून्यतां परमार्थशून्यतां संस्कृतशून्यताम् असंस्कृतशून्यताम् अत्यन्तशून्यताम् अनवराग्रशून्यताम् अनवकारशून्यतां प्रकृतिशून्यतां सर्वधर्मशून्यतां स्वलक्षणशून्यताम् (Śस्P_II-४_८९) अनुपलम्भशून्यताम् अभावशून्यतां स्वभावशून्यताम् अभावस्वभावशून्यताम्.
SK
स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्ग आर्यसत्यानि ध्यानानि अप्रमाणानि आरूप्यसमापत्तयो अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा समाधीन् धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणाम् अष्टादशावेणिका बुद्धधर्माश् च.
SK
तस्याश् च दानपारमिताया अर्थं विभज्यमानं श्रोष्यन्ति, तस्याश् च शीलपारमिताया अर्थं विभज्यमानं श्रोस्यति, तस्याश् च वीर्यपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च क्षान्तिपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च ध्यानपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च प्रज्ञापारमिताया अर्थं विभज्यमानं श्रोष्यति.
SK
तस्याश् चाध्यात्मशून्यताया अर्थं विभज्यमानं श्रोष्यन्ति, तस्याश् च बहिर्धाशून्यताया अर्थं विभज्यमानं श्रोष्यति, तस्यास् चाध्यात्मबहिर्धाशून्यताया अर्थं विभज्यमानं श्रोष्यति, एवं हि शून्यताशून्यताया महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यताया असंस्कृतशून्यताया अत्यन्तशून्यताया अनवराग्रशून्यताया अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यताया अनुपलम्भशून्यताया अभावशून्यतायाः स्वभावशून्यताया अभावस्वभावशून्यताया अर्थं विभज्यमानं श्रोष्यति.
SK
तेषां च चतुर्णां स्मृत्युपस्थानानाम् अर्थं विभज्यमानं श्रोष्यति, तेषां च चतुर्णां सम्यक्प्रहाणानाम् अर्थं विभज्यमानं श्रोष्यति, तेषां च चतुर्णाम् ऋद्धिपादानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च पञ्चानाम् इन्द्रियानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च पञ्चानां बलानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च सप्तानां बोध्यङ्गानाम् अर्थं विभज्यमानं श्रोष्यति, तस्य चार्याष्टाङ्गस्य मार्गस्यार्थं विभज्यमानं श्रोस्यति, तेषाञ् चार्यसत्यानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतुर्णां ध्यानानाम् अर्थं विभज्यमानं श्रोःयति, तेषाञ् च चतुर्णाम् अप्रमाणानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतसृणाम् आरूप्यसमापत्तीनाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् चाष्टानां विमोक्षाणाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च नवाम् अनुपूर्वविहारसमापत्तीनाम् अर्थं विभज्यमानं श्रोह्यति, तेषाञ् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अर्थं (Śस्P_II-४_९०) विभज्यमानं श्रोष्यति, तासां चाभिज्ञानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च समाधीनाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च धारणीमुखानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च तथागतबलानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतुर्णां वैशारद्यानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतसृणां प्रतिसंविदानाम् अर्थं विभज्यमानं श्रोष्यति, तस्याश् च महाकरुणायाम् अर्थं विभज्यमानं श्रोष्यति, तस्याञ् चाष्टादशानाम् आवेणिकबुद्धधर्माणाम् अर्थं विभज्यमानं श्रोष्यति,
SK
बोधिवृक्षं द्रक्षति बोधिसत्त्वं महासत्त्वं बोधिवृक्षमूलम् उपसंक्रामं तं द्रक्ष्यति, अनुत्तरायां सम्यक्संबोधिम् अभिसंबुध्यमानं द्रक्ष्यति तथाभिसंबुध्य धर्मचक्रं प्रवर्तयं तं द्रक्ष्यति, बहूनि च बोधिसत्त्वशतसहस्राणि द्रक्ष्यति धर्मसङ्गायन्ति. एवं सर्वाकारज्ञता परिगृहीतव्या. एवञ् च सत्त्वाः परिपाचयितव्या एवं बुद्धक्षेत्रं परिगृहीतव्यं, एवं मारस् स परिषद्कां निर्जतव्या बहुनाञ् च बुद्धकोटीनियुतशतसहस्रणां,
SK
पूर्वस्यां दिशि शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्वकोटीनियुतशतसहस्रैः इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
SK
दक्षिणस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिः बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
SK
पश्चिमायां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति.
SK
उत्तरस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
SK
उत्तरपूर्वस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः (Śस्P_II-४_९१) श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
SK
पूर्वदक्षिणस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
SK
दक्षिणपश्चिमायां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोध्हिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
SK
पश्चिमोत्तरस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
SK
अधस्ताद् दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
SK
उपरिष्टाद् दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति.
SK
पूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
दक्षिणस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
पश्चिमायां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति (Śस्P_II-४_९२) द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्रणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
उत्तरस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
उत्तरपूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णिअचीवरच्छत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
पूर्वदक्षिणस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
दक्षिणपश्चिमायां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्रणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
पश्चिमोत्तरस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पुजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् (Śस्P_II-४_९३) द्रक्ष्यति,
SK
अधस्ताद् दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धै माल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
उपरिष्टाद् दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिऋ बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
SK
[K. १९४ब्२, N. ३८२ब्८, T. ३०६अ९, P. २५२ब्८, Cह्. ६९५अ२५] स खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमान् एव रूपान् भद्रका स्वप्नान् द्रक्ष्यति, स सुखम् एव शय्यां कल्पयिष्यति सुखं च प्रतिविभोत्स्यते स्रोतप्रक्षिप्तश् चास्य कायो भ्हविष्यति, लघुसंज्ञा च काये संज्ञास्यते न गुरुसंज्ञा न चास्य बलवत्याहारगृद्धिर् भविष्यति न चीवरगृद्धिर् भविष्यति न ग्लानप्रत्ययभैषज्यपरिष्कारगृधिर् भविष्यति, मृद्धी चास्याहारसंज्ञा भविष्यति मृद्धीचीवरसंज्ञा भविष्यति मृद्धीग्लानप्रत्ययभैषज्यपरिष्कारं संज्ञा भविष्यति.
SK
तद् यथापि नाम कौशिक योगाचारस्य भिक्षोः समाधव्युत्थितस्य मनसिकारपरिष्यन्दि तेन चित्तेन बलवत्याहारगृद्धिर् भविष्यति मृदुका चास्याहारसंज्ञा भविष्यति.
SK
एवम् एव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा न बकवत्याहारगृद्धिर् भविष्यति. तत् कस्य हेतोः? तथा हि तस्या मानुष्याः काये स्रोत उपसंहरिष्यति.
SK
ये पूर्वस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्ध्हर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
ये च दक्षिणस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
ये पश्चिमायां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
ये च उत्तरस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
ये उत्तरपूर्वस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
पूर्वदक्षिणस्यां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
दक्षिणपश्चिमायां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
पश्चिमोत्तरस्यां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
अधस्ताद् दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
SK
उपरिष्टाद् दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति.
SK
इमाम् अपि कौशिक दृष्टधार्मिकान् गुणान् परिगृहीतुकामेन कुलपुत्रेण वा कुलदुहित्रा वा इयम् एव प्रज्ञापारमिताप्रयत्वतः स्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्याः. सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्याः.
SK
अथ चेत् स कौशिक कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां नोद्गृहीयान् न धारयेन् न वाचयेन् न पर्यवाप्नुयान् न योनिशश् च मनसिकुर्यात् तेन कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां लिखितां पुस्तकगतां कृत्वा सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् च्छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
एवं स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुजनहिताय प्रतिपन्नो भविष्यति बहुजनसुखाय प्रतिपन्नो भविष्यति, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसविष्यति न त्वे वयः समताद् (Śस्P_II-४_९५) दशसु दिक्षु लोकधातुषु तथागतान् अर्हतः सम्यक्षंबुद्धान् सश्रावकसंघान् यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् चीवरपिण्डपात्रशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतान् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्तरत्नमयान् स्तूपाकार्यत्, तांश् च यावज् जीवं सत्कुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैश् पताकाभिर् विविधैश् च वाद्यैः.
SK
शतसाहस्र्याः प्रज्ञापारमिताय एकविंशतितमः परिवर्तः
SK
[K. १९४ब्२१, N. ३८३ब्८, T. ३O७अ३, P. २५४ब्३, Cह्. ६९५च्६] अथ भगवाञ् छक्रं देवानाम् इन्द्रम् आमन्त्रयत: सचेत् त्वं कौशिकेमं जाम्बूद्वीपं पूर्णं चूडिकावबद्धं तथागतशरीराणां लभेथा यच् चेयं प्रज्ञापारमितां पुस्तकं लिखित्वोपनाम्येत, किं त्वं तत उद्गृहीयाः?
SK
शक्र आह: सचेन् मे भगवन्न् अयं जाम्बूद्वीपः पूर्णचूडिकावबद्धस् तथागतशरीराणां दीपेत यच् चेयं प्रज्ञापारमिता पुस्तकं लिखित्वोपनाम्येत इमाम् एवाहं भगवन् प्रज्ञापारमितां गृह्णीयाम्. तत् कस्य हेतोः? न मे भगवन् तत्र तथागतशरीरेष्व् अगौरवं नाप्रत्ययं नाबहुमानता नाप्य् अहं भगवंस् तथागतशरीराणि, न सत्कर्तुकामो न गुरुकर्तुकामो न मानयितुकामो न पूजयितुकामः, अपि तु खलु पुनर् भगवन् प्रज्ञापारमिता निर्यातानि तानि शरीराणि तेन तेन तथागतशरीराणि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूजयन्ते प्रज्ञापारमिता परिभावितानि शरीराणि तेन तानि तथागतशरीराणि पूजा लभन्ते, यदाहं भगवन् तथागतशरीराणि सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयं दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैस् तत् प्रज्ञापारमिता परिभावितानीति कृत्वा यच् च तथागतशरीराणि सदेवमानुषासुरेन लोकेन सत्क्रीयन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते तत् प्रज्ञापारमिता परिभावितानीति कृत्वा.
SK
अथ खल्व् आयुष्माञ् छारद्वतीपुत्रः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: इयं कौशिक प्रज्ञापारमिता अग्राह्या अरूपिणी अनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा. तत् कथं त्वम् अग्राह्या प्रज्ञापारमिताम् अरूपिणीम् अनिदर्शनाम् अप्रतिघा एकलक्षणा यद् उतालक्षणा ग्रहीतव्यां मंयसे. तत् कस्य हेतोः? न हि प्रज्ञापारमिता ग्रहाय नोत्सर्गाय प्रत्युपस्थिता न हानये न वृद्धये नाचयाय नोत्क्षेपाय न संक्लेशाय न व्यवदानाय न बुद्धधर्माणां दात्री न पृथग्जनधर्माणां छोरयित्री न बोधिसत्त्वधर्माणां दात्रि न प्रत्येकबुद्धधर्माणां दात्री न श्रावकधर्मणां दात्री न शैक्षाशैक्षाधर्माणां दात्री न पृथग्जनधर्माणां छोरयित्री नासंस्कृतधातोर् दात्री न संस्कृतधातोश् छोरयित्री न दानपारमिताया दात्री न शीलपारमिताया दात्री न क्षान्तिपारमिताया दात्री न वीर्यपारमिताया दात्री न ध्यानपारमिताया दात्रि न प्रज्ञापारमिताया दात्री.
SK
नाध्यात्मशून्यताया दात्री, न बहिर्धाशून्यताया दात्री, नाध्यात्मबहिर्धाशून्यताया (Śस्P_II-४_९७) दात्री, न शून्यताशून्यताया दात्री, न महाशून्यताया दात्री, न परमार्थशून्यताया दात्री, न संस्कृतशून्यताया दात्री, नासंस्कृतशून्यताया दात्री, नात्यन्तशून्यताया दात्री, नानवराग्रशून्यताया दात्री, नानवकारशून्यताया दात्री, न प्रकृतिशून्यताया दात्री, न सर्वधर्मशून्यताया दात्री, न स्वलक्षणशून्यताया दात्री, नानुपलम्भशून्यताया दात्री, नाभावशून्यताया दात्री, न स्वभावशून्यताया दात्री, नाभावस्वभावशून्यताया दात्री.
SK
न स्मृत्युपस्थानानां दात्री, न सम्यक्प्रहाणानां दात्री, न ऋद्धिपादानां दात्री, नेन्द्रियाणां दात्री, न बलानां दात्री, न बोध्यङ्गानां दात्री, नार्याष्टाङ्गस्य मार्गस्य दात्री, नार्यसत्यानां दात्री, न ध्यानानां दात्री, नाप्रमाणानां दात्री, नारूप्यसमापत्तीनां दात्री, न विमोक्षाणां दात्री, नानुपूर्वविहारसमापत्तीनां दात्री, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां दात्री, नाभिज्ञानां दात्री, न समाधीनां दात्री, न धारणीमुखानां दात्री, न तथागतबलानां दात्री, न वैशारद्यानां दात्री, न प्रतिसंविदां दात्री, न महाकरुणाया दात्री, नावेणिकबुद्धधर्माणां दात्री, न स्रोतआपत्तिफलस्य दात्री, न सकृदागामिफलस्य दात्री, नानागामिफलस्य दात्री, नार्हत्त्वस्य दात्री, न प्रत्येकबोधेर् दात्री, न मार्गाकारज्ञताया दात्री, न सर्वाकारज्ञताया दात्री,
SK
शक्र आह: एवम् एतद् भदन्त शारद्वतीपुत्रैवम् एतद् यो भदन्त शारद्वतीपुत्रैवं जानाति, न प्रज्ञापारमिता बुद्धधर्माणां दात्रि न पृथग्जनधर्मणां छोरयित्री न बोधिसत्त्वधर्माणां दात्री न प्रत्येकबुद्धधर्माणां दात्री न श्रावकधर्माणां दात्री न शैक्षाशैक्षधर्माणां दात्री न पृथग्जनधर्माणांश् छोरयित्री नासंस्कृतधातोर् दात्रि न संस्कृतधातोर् छोरयित्री.
SK
न दानपारमिताया दात्री न शीलपारमिताया दात्री न क्षान्तिपारमिताया दात्री न वीर्यपारमिताया दात्री न ध्यानपारमिताया दात्री न प्रज्ञापारमिताया दात्री.
SK
नाध्यात्मशून्यताया दात्री, न बहिर्धाशून्यताया दात्री, अध्यात्मबहिर्धाशून्यतया दात्री, न शून्यताशून्यताया दात्री, न महाशून्यताया दात्री. न परमार्थशून्यताया दात्रि, न संस्कृतशून्यताया दात्रि, नासंस्कृतशून्यताया दात्री, नात्यन्तशून्यताया दात्री, नानवराग्रशून्यताया दात्री, नानवकारशून्यताया, दात्री, न प्रकृतिशून्यताया दात्री, न सर्वधर्मशून्यताया दात्री, न स्वलक्षणशून्यताया दात्री, नानुपलम्भशून्यताया दात्री, नाभावशून्यताया दात्री, न स्वभावशून्यताया दात्री, (Śस्P_II-४_९८) नाभावस्वभावशून्यताया दात्री.
SK
न स्मृत्युपस्थानानां दात्रि, सम्यक्प्रहाणानां दात्री, न ऋद्धिपादानां दात्री, नेन्द्रियाणां दात्री, न बलानां दात्री, न बोध्यङ्गानां दात्री, नार्याष्टाङ्गस्य मार्गस्य दात्रि, नार्यसत्यानां दात्री, न ध्यानानां दात्री, नाप्रमाणानां दात्री, नारूप्यसमापत्तीनां दात्री, न विमोक्षाणां दात्री, नानुपूर्वविहारसमापत्तीनां दात्री, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां दात्री, नाभिज्ञानां दात्री, न समाधीनां दात्रि, न धारणीमुखानां दात्री, न तथागतबलानां दात्री, न वैशारद्यानां दात्री, न प्रतिसंविदां दात्रि, न महाकरुणाया दात्रि, नावेणिकबुद्धधर्माणां दात्री, न स्रोतआपत्तिफलस्य दात्री, न सकृदागामिफलस्य दात्रि, नानागामिफलस्य दात्री, नार्हत्त्वस्य दात्री, न प्रत्येकबोधेर् दात्रि, न मार्गाकारज्ञताया दात्री, न सर्वाकारज्ञताया दात्री. स प्रज्ञापारमितायां चरतीः स प्रज्ञापारमितां भावयति.
SK
न प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि प्रज्ञापारमिता, न ध्यानपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि ध्ह्यानपारमिता, न वीर्यपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि वीर्यपारमिता, न क्षान्तिपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि क्षान्तिपारमिता, न शीलपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि शीलपारमिता, न दानपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि दानपारमिता.
SK
अथ भगवाञ् छक्रो देवानाम् इन्द्राय साधुकारम् अदात्: साधु साधु कौशिकैवम् एतद् यथा निर्दिशसि,
SK
न हि प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि प्रज्ञापारमिता, न हि ध्यानपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि ध्यानपारमिता, न हि प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि प्रज्ञापारमिता, न हि ध्यानपारमिता द्वयतोऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि ध्यानपारमिता, न हि वीर्यपारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि वीर्यपारमिता, न हि क्षान्तिपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि क्षान्तिपारमिता, न हि शीलपारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि शीलपारमिता, न हि दानपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि दानपारमिता.
SK
धर्मधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् (Śस्P_II-४_९९) यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
तथतायाः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
भूतकोटेः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया (Śस्P_II-४_१००) द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यध्हातुश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च शीलपारमित चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
SK
[K. १९६अ८, N. ३८६अ४, T. ३O९अ७, P. २५९ब्३, Cह्. ६९७च्१०] अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: नमस्करणीयेयं भगवन् प्रज्ञापारमिता सदेवमानुषासुरेण लोकेण यत्र शिक्षित्वा बोधिसत्त्वा महासत्त्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते, अभिसंभोत्स्यन्ते च, यदाहं भगवन् सुधर्मायां देवसभायां तस्मिन्न् एवेन्द्रासने निषण्णो भवामि यन् मे स्वकम् आसनं तत्र देवपुत्रा ममोपस्थानायागच्छन्ति, ते मां पूजयन्ति यदा तत्र न गच्छामि तत्रासनेन निषण्णो भवामि तदा ते देवपुत्रास् तां सभाम् आगत्य तद् आसनं नमस्कृत्य प्रदक्षिणीकृत्य पुनर् एव प्रक्रामति. इह शक्रो देवानाम् इन्द्रो निषद्य देवेभ्यस् त्रयस्त्रिंशेभ्यो धर्मं देशयति. एवम् एतद् भगवन् यत्रेयं प्रज्ञापारमिता लिखित्वा धारयिष्यते स्वाध्यायिष्यते, परेभ्यश् च विस्तरेण संप्रकाशयिष्यते, तत्र ये ते दशदिग्लोकधातुषु देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् (Śस्P_II-४_१०१) ते तां प्रज्ञापारमितां वन्दित्वा नमस्कृत्य प्रक्रमिष्यन्ति, इतो निर्याता हि तथागता अर्हन्तः सम्यक्संबुद्धा इतो निर्याताश् च सर्वश्रावकप्रत्येकबुद्धा इतो निर्यातं च सत्त्वानां सर्वसुखोपधानं यद् अपि तथागतशरीराणि पूजा लभन्ते तद् अपि प्रज्ञापारमिता परिभावितत्वात् पूजां प्रतिलभन्ते. तत् कस्य हेतोः? प्रज्ञापारमिता भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरतः सर्वज्ञज्ञानस्याश्रयभूता प्रत्ययभूता कारणभूता आहारिका तस्मात् तर्हि भगवन्न् अनयोर् द्वयोः प्रत्यङ्गयोर् इमाम् एवाहं भगवन् प्रज्ञापारमितां गृह्णीयां यदाहं भगवन्न् इमां प्रज्ञापारमिताम् उद्गृहीष्याम्य् उद्गृह्य स्वाध्यायं करोमि धर्मान्तर्गतेन मानसेन निमित्तं अप्य् अहं भगवन् तस्मिन् समये न समनुपश्यामि भयस्य वा स्तम्भितत्वस्य वा. तत् कस्य हेतोः?
SK
अनिमित्ता हि भगवन् प्रज्ञापारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रज्ञापारमिता, अनिमित्ता हि भगवन् ध्यानपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् ध्यानपारमिता, अनिमित्ता हि भगवन् वीर्यपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् वीर्यपारमिता, अनिमित्ता हि भगवन् क्षान्तिपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् क्षान्तिपारमिता, अनिमित्ता हि भगवन् शीलपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् शीलपारमिता, अनिमित्ता हि भगवन् दानपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् दानपारमिता.
SK
अनिमित्ता हि भगवन्न् अध्यात्मशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अध्यात्मशून्यता, अनिमित्ता हि भगवन् बहिर्धाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् बहिर्धाशून्यता, अनिमित्ता हि भगवन्न् अध्यात्मबहिर्धाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अध्यात्मबहिर्धाशून्यता, अनिमित्ता हि भगवञ् छून्यताशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवञ् छून्यताशून्यता, अनिमित्ता हि भगवन् महाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् महाशून्यता, अनिमित्ता हि भगवन् परमार्थशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् परमार्थशून्यता, अनिमित्ता हि भगवन् संस्कृतशून्यता अलिङ्ग अनभिलाप्या अप्रव्याहारा हि भगवन् संस्कृतशूङ्यता, अनिमित्ता हि भगवन्न् असंस्कृतशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहार हि भगवन्न् असंस्कृतशून्यता, अनिमित्ता हि भगवन्न् अत्यन्तशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अत्यन्तशून्यता, अनिमित्ता हि भगवन्न् अनवराग्रशून्यता अलिङ्गा (Śस्P_II-४_१०२) अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनवराग्रशून्यता, अनिमित्ता हि भगवन्न् अनवकारशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनवकारशून्यता, अनिमित्ता हि भगवन् प्रकृतिशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रकृतिशून्यता, अनिमित्ता हि भगवन् सर्वधर्मशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वधर्मशून्यता, अनिमित्ता हि भगवन् स्वलक्षणशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् स्वलक्षणशून्यता, अनिमित्ता हि भगवन्न् अनुपलम्भशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनुपलम्भशून्यता, अनिमित्ता हि भगवन्न् अभावशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभावशून्यता, अनिमित्त हि भगवन् स्वभावसून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् स्वभावशून्यता, अनिमित्त हि भगवन्न् अभावस्वभावशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभावस्वभावशून्यता.
SK
अनिमित्तानि हि भगवन् स्मृत्युपस्थानान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् स्मृत्युपस्थानानि, अनिमित्तानि हि भगवन् सम्यक्प्रहाणान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्यहाराणि हि भगवन् सम्यक्प्रहाणानि, अनिमित्ता हि भगवन्न् ऋद्धिपदा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् ऋद्धिपादः, अनिमित्तानि हि भगवन्न् इन्द्रियाण्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहारणि हि भगवन्न् इन्द्रियाणि, अनिमित्तानि हि भगवन् बलान्य् अलिङ्गान्य् अनभिलप्यान्य् अप्रव्याहाराणि हि भगवन्न् इन्द्रियाणि, अनिमित्तानि हि भगवन् बोध्यङ्गान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहारणि हि भगवन् बोध्यङ्गानि, अनिमित्तः हि भगवन्न् आर्याष्टाङ्गो मार्गो ऽलिङ्गो ऽनभिलाप्यो ऽप्रव्याहारो हि भगवन्न् आर्याष्टाङ्गो मार्गः, अनिमित्तानि हि भगवन्न् आर्यसत्यान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन्न् आर्यसत्यानि, अनिमित्तानि हि भगवन् ध्यानान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्यहाराणि हि भगवन्न् ध्यानानि, अनिमित्तानि हि भगवन्न् अप्रमाणान्य् अनभिलाप्यान्य् अप्रव्याहाऋआणि हि भगवन्न् अप्रमाणानि, अनिमित्ता हि भगवन्न् आरूप्यसमापत्तयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् आरूप्यसमापत्तयः, अनिमित्ता हि भगवन् विमोक्षा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् विमोक्षाः, अनिमित्ता हि भगवन्न् अनुपूर्वविहरसमापत्तयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनुपूर्वविहरसमापत्तयः, अनिमित्तानि हि भगवञ् छून्यतानिमित्ताप्रणिहितविमोक्षसमुखान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवञ् छून्यतनिमित्ताप्रणिहितविमोक्षमुखानि, अनिमित्ता हि (Śस्P_II-४_१०३) भगवन्न् अभिज्ञा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभिज्ञाः, अनिमित्ता हि भगवन् समाधयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् समाधयः, अनिमित्तानि हि भगवन् धारणीमुखन्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् धारणीमुखानि, अनिमित्तानि हि भगवंस् तथागतबलान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवंस् तथागतबलानि, अनिमित्तानि हि भगवन् वैशारद्यान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् वैशारद्यानि, अनिमित्ता हि भगवन् प्रतिसंविदो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रतिसंविदः, अनिमित्ता हि भगवन् महाकरुणालिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् महाकरुणा, अनिमित्ता हि भगवन्न् आवेणिकबुद्धधर्मा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् आवेणिकबुद्धधर्माः, अनिमित्ता हि भगवन् सर्वज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वज्ञता, अनिमित्ता हि भगवन् मार्गाकारज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् मार्गाकारज्ञता, अनिमित्ता हि भगवन् सर्वाकारज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वाकारज्ञता.
SK
[K. १९६ब्२१, N. ३८८अ१, T. ३१०ब्५. P. २६३अ१, Cह्. ६९८ब्२४] सचेद् भगवन् प्रज्ञापारमिता निमित्तम् अभविष्यन् नानिमित्तं नैव तस्य तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मान् निमित्तान् अलिङ्गान् अभिलाप्यान् अप्रव्याहारान् विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलाप्यम् अप्रव्याहारं धर्मं देशयिष्यति, यस्मात् तर्हि भगवन् प्रज्ञापारमिता अनिमित्ता अलिङ्गा अनभिलाप्या अप्रव्याहारा तमात् तथागतः, सर्वधर्मान् अलिङ्गान् अनभिलाप्यान् अप्रव्याहारान् विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलाप्यम् अप्रव्याहारं धर्मं देशयिष्यति. तस्मात् तर्हि भगवन्न् इयं प्रज्ञापारमिता सदेवमनुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. लिखित्वा च सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
यो हि कश्चिद् भगवन्न् इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् (Śस्P_II-४_१०४) विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
SK
तस्य नरकगतिः प्रतिकाङ्क्षितव्या न तिर्यग्योनिर् न यमलोकगतिः प्रतिकाङ्क्षितव्या, न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अविरहितश् च भविष्यति तथागतदर्शनेन सत्त्वपरिपाचकेन च बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, तांश् च तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन् गुरुकुर्वन् मानयेत् पूजयेत्, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैह्.
SK
पुनर् भगवन् सचेद् अयं त्रिसाहस्रो लोकधातुश् चूडिकावबद्धः स्यात् तथागतशरीरैः पूर्णो यच् चेयं प्रज्ञापारमिता लिखित्वोपनाम्यते. अनयोर् अहं भगवन् द्वयोर् भागयोर् इमाम् एव प्रज्ञापारमितां गृह्णीयाम्. तत् कस्य हेतोः? अतो निर्याता हि भगवन्स् तथागतास् तानि च तथागतशरीराणि तेन तानि तथागतशरीराणि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते यानि कुलपुत्राश् च कुलदुहितरश् च सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा न दुर्गतिं विनिपातं गच्छन्ति. दिव्यमानुषीः संपत्तीर् अनुभूय यथा प्रणिधानं परिनिर्वाति. यदि वा श्रावकयानेन यदि वा प्रत्येकबुद्धयानेन यदि वा सम्यक्संबुद्धयानेन, अपि तु खलु पुनर् भगवन् यच् च तथागतदर्शनं यच् च प्रज्ञापारमिताया दर्शनं तुल्यम् एतत्. तत् कस्य हेतोः? तथा हि भगवन् प्रज्ञापारमिता च तथागतश् चाद्वयम् एतद् अद्वैधीकारम्.
SK
पुनर् अपरं भगवन् यच् च तथागतो ऽर्हन् सम्यक्संबुद्धस् त्रिषु प्रातिहार्येषु स्थित्वा धर्मदेशयेत् सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशात्, यच् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परस्मै देशयेत् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि भगवन् तथागता अर्हन्तः सम्यक्संबुद्धा इति निर्यातानि त्रीणि प्रातिहार्याणि. इतो निर्यातं सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्यद्भुतधर्मावदानोपदेशाः.
SK
पुनर् अपरं भगवन् यच् च पूर्वस्यां दिशि गङ्गानदीवलुकोपमां तथागतान् अर्हन्तः सम्यक्संबुद्धः, दक्सिणस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पश्चिमायां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उत्तरस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उत्तरपूर्वस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पूर्वदक्षिणस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, दक्षिणपश्चिमायां (Śस्P_II-४_१०५) दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पश्चिमोत्तरस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, अधस्ताद् दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उपरिष्टाद् दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, त्रिषु प्रातिहार्येषु स्थित्वा धर्मं देशयति, सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशान् यच् च कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परस्मै देशयेत् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि ते दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा इतो निर्याता तानि त्रिणि प्रातिहार्याणि इतो निर्यातं सूत्रं गेयं व्याकरणं गाथोदानं निदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशाः.
SK
पुनर् अपरं भगवन् यच् च ते दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धाः सत्क्रियेरन् गुरुक्रियेरन् मानयेरन् पूजयेरन् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. यश् च प्रज्ञापारमिता पुस्तकं लिखित्वा सत्क्रियेत गुरुक्रियेत मान्येत पूज्येत पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि तथागता अर्हन्तः सम्यक्संबुद्धाः.
SK
पुनर् अपरं भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति तस्य नरकगतिः प्रतिकाङ्क्षितव्या न तिर्यग्योनिर् न यमलोकगतिः प्रतिकाङ्क्षितव्या न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या. तत् कस्य हेतोः? तथा हि स कुलपुत्रो वा कुलदुहिता वा स्थितो ऽवैवर्त्यभूमौ वेदितव्यः. तत् कस्य हेतोः? तथा हि स इमां प्रज्ञापारमितां लिखित्वोद्गृह्णाति धारयति वाचयति पर्यवाप्नोति योनिशश् च मनसिकरोति तां च लिखित्वा सत्करोति गुरुकरोति मानयति पूजयति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तथा हि भगवन् सर्वभयप्रशमनि सर्वरोगनिर्घातनीयं प्रज्ञापारमिता.
SK
पुनर् अपरं भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तस्य न कुतश्चिद् भयं प्रतिकाङ्क्षितव्या, तद् यथापि नाम (Śस्P_II-४_१०६) भगवन् धनिकभयभीतः पुरुषो राजानं सेवेत राजानम् उपतिष्ठेत स राजानं सेवमानो राजानम् उपतिष्ठमानो यत एवास्य भयं भवति त एवैवं सेवन्ते न च स तेभ्यो बिभेति. तत् कस्य हेतोः? एवम् एतद् भगवन् भवति यो राजनिःश्रितो भवति बलवतिनिश्रितो भवति.
SK
एवम् एव भगवन् प्रज्ञापारमिता परिभावितानि तथागतशरीराणि पूजां लभते. यद् अपि भगवन् सर्वाकारज्ञताज्ञानं तद् अपि प्रज्ञापारमितापरिभावितं द्रष्टव्यम्, तस्माद् अहं भगवन्न् अनयोर् द्वयोः प्रत्यङ्गयोर् इमाम् एव प्रज्ञापारमितां गृह्णीयात्. तत् कस्य हेतोः? इतो निर्यातानि हि भगवन् तथागतशरीराण्य् अतो निर्यातानि द्वात्रिंशन् महापुरुषलक्षणान्य् अतो निर्यातानि तथागतस्य दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः, अतो निर्याता महामैत्री महाकरुणा अतो निर्याता भगवन् पञ्चपारमिता पारमितानामधेयं लभते, यावद् अतो निर्याता तथागतस्य सर्वाकारज्ञता यत्र भगवन् ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु यत्र च त्रिसाहस्रमहासाहस्रे लोकधाताव् इयं प्रज्ञापारमितोद्ग्रहीष्यति धारयिष्यते वाचयिष्यते पर्यवाप्स्यते तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यते पूजयिष्यते, तेन तत्र मनुष्यो वा अमनुष्यो वावतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते. सर्वे च ते अनुपूर्वेण परिनिर्वानधर्माणो भविष्यन्ति, त्रयाणां यानानां मन्यत् अमान्यत् अनेन यानेन. एवं महार्थिका भगवन्न् इयं प्रज्ञापारमिता, अत्र हि नाम भगवंस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वानां बुद्धसत्येन प्रत्युपस्थिता बुद्धोत्पादो भगवंस् तत्र लोकधातौ प्रतिकाङ्क्षितव्या, यत्र लोकधाताव् इयं प्रज्ञापारमिता प्रचरिष्यते, तद् यथापि नाम भगवन्न् अनर्घो ऽयं महामणिरत्नं भवेत्, तच् च महामणिरत्नम् एभिर् एवंरूपैर् गुणैः समन्वागतं भवेत्,
SK
यत्र यत्र तन् महामणिरत्नं स्थाप्येत्, तत्र तत्रामनुष्या अवतारं न लभेरन्, यत्रामनुष्यगृहीता स्त्रि वा पुरुषो वा भवेत्, तत्र तन् महामणिरत्नं प्रवेशेत्, ततः सो ऽमनुष्यस् तस्य महामणिरत्नस्य तेजो सहमानः क्षिप्रम् एवाप्रक्रामन् नावतिष्ठेत पित्तेन वा दह्यमानस्य तन् महामणिरत्नं शरीरे स्थाप्येत तद् अपि पित्तम् अतिगृह्णीयात् पाताभिभूते वा शरीरे तन् महामणिरत्नं स्थाप्येत् तद् अपि वा तं अतिगृह्णीयात्.
SK
श्लेष्मणारोपस्तब्धे शरीरे तन् महामणिरत्नं स्थाप्येत तद् अपि श्लेष्माणम् उपशामयेत् सांनिपातिको वा व्याधिर् भवेत्, तच् च महामणिरत्नं शरीरे स्थाप्येत तद् अपि सांनिपातिकं व्याधिम् उपशमेन् नासौ (Śस्P_II-४_१०७) विवर्धेत तद् रात्रौ चावभासं कुर्याद् उष्मकाले च वर्तमाने यत्र प्रदेशे तन् महामणिरत्नं स्थाप्येत तत् तं प्रदेशं शीतलं कुर्यात् शीतकाले च वर्तमाने यत्र प्रदेशे तन् महामणिरत्नं स्थाप्य न तत् प्रदेशम् उष्मं कुर्यात्, यत्र च पृथिवीप्रदेशे तन् महामणिरत्नं स् स्थाप्येत तत् पृथ्वीप्रदेशे नात्युष्मं नातिशीतमृदुसंपन्नं कुर्यात् यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत न तत्र पृथिवीप्रदेशे आशिविषप्रदेशे उपचरेत्.
SK
तद् अन्ये ऽपि च वृश्चिकादयः सरीसृपाः प्राणिनो न तत्रोपचरेत्. या काचिद् भगवन् स्त्री वा पुरुषो वा आशीविषेण दष्ठो भवेत्, तस्य तन् महामणिरत्नं दर्शेत् तस्य सहदर्शनेन तद् विषं विगच्छेत्.
SK
एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं तन् महामणिरत्नं भवेत्, यासाम् अपि भगवन् स्त्रीणां वा पुरुषाणां वा अर्बुदं वा तिमिरं वा अजकं वा अक्षिरोगो वा स्रोतरोगो वा घ्राणरोगो वा जिह्वारोगो वा कण्ठरोगो वा कायरोगो वा भवेत् तेषां तन् माहमणिरत्नं काये स्थाप्येत्, तेषां तद् अर्बुदं वा वा तिमिरं वा अजकं वा अक्षिरोगो वा स्रोत्ररोगो वा घ्राणरोगो वा जिह्वारोगो वा कण्ठरोगो वा कायरोगो वा उपशाम्येत्.
SK
एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं तन् महामणिरत्नं भवेत्, यत्रापि भगवन्न् उदके तन् महामणिरत्नं प्रक्षिपेत्, तद् एव तद् उदकम् अष्टाङ्गोपेतम् एकवर्णं भवेत्.
SK
सचेत् भगवन् नीलकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् पीतकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् लोहितकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेद् अवदानकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् माञ्जिष्ठावर्णेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् स्फटिकवर्णेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, एभिश् च नानाप्रकारैश् चीवरैस् तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत तत् स्वभावम् एव तद् उदकं भवेत्, यद् अपि भगवंस् तत्रोदके कालुष्यन्ते तन् महामणिरत्नं प्रसादयेत्, एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं (Śस्P_II-४_१०८) तन् महामणिरत्नं भवेत्, अन्यैश् च एवम् एव भगवन्न् इयं प्रज्ञापारमिता दिव्यमणिरत्नप्रख्या सर्वगुणाकरभूता सर्वपापमोचनी.
SK
[K. १९८अ११, N. ३९१अ१, T. ३१३अ१, P. २६७ब्१, Cह्. ७००ब्८] अथ खल्व् आयुष्मान् आनन्दः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे? कौशिक दिव्यम् एतन् मणिरत्नम् उताहो स्विज् जांबुद्वीपकनां मनुष्याणां मणिरत्नम् अस्ति.
SK
शक्र आह: दिव्यम् एतद् भदन्त मणिरत्नम्.
SK
अपि तु खलु पुनर् भदन्तानन्द यानि जांबूद्वीपकानां मानुष्याणां महामणिरत्नान्य् अस्ति तानि परीत्तानि गुरूणि च, यानि दिव्यानि तानि महान्ति लघूनि च तैर् अङ्गैस् तावत् सुपरिपूर्णानि जांबूद्वीपकानां मनुष्याणां मणिरत्नानि यथा दिव्यानि तानि पुनर् जांबूद्वीपकानि रत्नानि तेषां दिव्यानां मणिरत्नानां संख्यां वा कलां वा गणनां वा उपमां वा उपनिशां वा नोपयान्ति.
SK
पुनर् अपि शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: तत् खलु पुनर् भगवन् महामणिरत्नं यस्मिन् करण्डके प्रक्षिप्तं भवेत् यदा क्षिप्तं भवेत् यदा क्षिपतं च ततः करण्डकात् स्पृहणीयम् एव तत् करण्डकं भवेत् तैर् मणिरत्नगुणैः परो ऽपि तत्र करण्डके स्पृहोम् उत्पादयेत्, एवम् एव भगवन् यत्रेयं प्रज्ञापारमिता प्रचरिष्यति, तत्र तेषां कुलपुत्राणां वा कुलदुहितॄणां वा कायिकाश् चेतसिका वा दुःखोपद्रवा मनुष्यकृता वा अमनुष्यकृता वा न भविष्यति, महामणिरत्नम् इति भगवन् प्रज्ञापारमिताम् एतद् अधिवचनं सर्वाकारज्ञताज्ञानस्यैतद् अधिवचनम्.
SK
कियन्तो भगवञ् छक्यं प्रज्ञापारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि प्रज्ञापारमिताया गुणाः प्रज्ञापारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं ध्यानपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि ध्यानपारमिताया गुणा ध्यानपारमितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं वीर्यपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि वीर्यपारमिताया गुणा वीर्यपारमितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं क्षान्तिपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि क्षान्तिपारमिताया गुणाः क्षान्तिपारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं शीलपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि शीलपारमिताया (Śस्P_II-४_१०९) गुणाः शीलपारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं दानपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि दानपारमिताया गुणा दानपारमितायाश् च तानि तथागतशरीराणि भाजनम्.
SK
कियन्तो भगवञ् छक्यम् अध्यात्मशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अध्यात्मशून्यताया गुणा अध्यात्मशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं बहिर्धाशून्यताया गुणाः परिकीर्तयितुं अप्रमेया हि बहिर्धाशून्यताया गुणा बहिर्धाशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अध्यात्मबहिर्धाशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अध्यात्मबहिर्धाशून्यताया गुणा अध्यात्मबहिर्धाशून्यतयाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं शून्यताशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि शून्यताशून्यताया गुणाः शून्यताशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महाशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि महाशून्यताया गुणा महाशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं परमार्थशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि परमार्थशून्यताया गुणाः परमार्थशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं संस्कृतशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि संस्कृतशून्यताया गुणाः संस्कृतशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् असंस्कृतशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् असंस्कृतशून्यताया गुणा असंस्कृतशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अत्यन्तशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अत्यन्तशून्यताया गुणा अत्यन्तशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनवराग्रशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनवराग्रशून्यताया गुणा अनवराग्रशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ्छक्यम् अनवकारशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनवकारशून्यताया गुणा अनवकारशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं प्रकृतिशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि प्रकृतिशून्यताया गुणाः प्रकृतिशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वधर्मशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वधर्मशून्यताया गुणाः सर्वधर्मशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं (Śस्P_II-४_११०) स्वलक्षणशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि स्वलक्षणशून्यताया गुणाः स्वलक्षणशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनुपलम्भशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनुपलम्भशून्यताया गुणा अनुपलम्भशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभावशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अभावशून्यताया गुणा अभावशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं स्वभावशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि स्वभावशून्यताया गुणाः स्वभावशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभावस्वभावशून्यतया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अभावस्वभावशून्यताया गुणा अभावस्वभावशून्यतयाश् च तानि तथागतशरीराणि भाजनम्.
SK
कियन्तो भगवञ् छक्यं चतुर्णां स्मृत्युपस्थानानां गुणाः परिकीर्तयितुम् अप्रमेया हि स्मृत्युपस्थानानां गुणाः स्मृत्युपस्थानानां च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं चतुर्णां सम्यक्प्रहाणानां गुणाः परिकीर्तयितुम् अप्रमेया हि सम्यक्प्रहाणानां गुणा सम्यक्प्रहाणानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णाम् ऋद्धिपादानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् ऋद्धिपादानां गुणा ऋद्धिपादानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं पञ्चानाम् इन्द्रियानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् इन्द्रियानां गुणा इन्द्रियानां च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं पञ्चानं बलानां गुणाः परिकीर्तयितुम् अप्रमेया हि बलानां गुणा बलानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सप्तानां बोध्यङ्गानां गुणाः परिकीर्तयितुम् अप्रमेया हि बोध्यङ्गानां गुणा बोध्यङ्गानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् आर्याष्टाङ्गमार्गस्य गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आर्याष्ताङ्गस्य मार्गस्य गुणा आर्याष्टाङ्गस्य मार्गस्य च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णम् आर्यसत्यानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आर्यसत्यानां गुणा अर्यसत्यानां च तानि तथागतशरीरणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां ध्यानानां गुणाः परिकीर्तयितुम् अप्रमेया हि ध्यानानां गुणा ध्यानानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णाम् अप्रमाणानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अप्रमाणानां गुणा अप्रमाणानां च तानि (Śस्P_II-४_१११) तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतसृणाम् आरूप्यसमापत्तीनां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आरूप्यसमापत्तीनां गुणा आरूप्यसमापत्तीनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अष्टानां विमोक्षाणां गुणाः परिकीर्तयितुम् अप्रमेया हि विमोक्षाणां गुणा विमोक्षाणां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं नवानुपूर्वविहारसमापत्तीनां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनुपूर्वविहारसमापत्तीनां गुणा अनुपूर्वविहारसमापत्तिनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां गुणाः परिकीर्तयितुम् अप्रमेय हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां गुणाः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभिज्ञानां गुणाः परिकीर्तयितुम् अप्रमेयाह्य् अभिज्ञानां गुणा अभिज्ञानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं समाधीनां गुणाः परिकीर्तयितुम् अप्रमेया हि समाधीनां गुणाः समाधीनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं धारणीमुखानां गुणाः परिकीर्तयितुम् अप्रमेया हि धारणीमुखानां गुणा धारणीमुखानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं दशानां तथागतबलानां गुणाः परिकीर्तयितुम् अप्रमेया हि तथागतबलानां गुणाः तथागतबलानां च इ तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां वैशारद्यानां गुणाः परिकीर्तयितुम् अप्रमेया हि वैशारद्यानां गुणा वैशारद्यानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां प्रतिसंविदां गुणाः परिकीर्तयितुम् अप्रमेया हि प्रतिसंविदां गुणाः प्रतिसंविदं च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महामैत्र्या गुणाः परिकीर्तयितुम् अप्रमेया हि महामैत्र्या गुणाः महामैत्र्याश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महाकरुणाया गुणाः परिकीर्तयितुम् अप्रमेया हि महाकरुणाया गुणा महाकरुणायाश् च तानि तथागतशरीराणि ब्बाजनं, कियन्तो भगवञ् छक्यम् अष्टादशावेणिकबुद्धधर्माणां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अष्टादशावेणिकबुद्धधर्माणां गुणा आवेणिकबुद्धधर्मां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वज्ञताया गुणा सर्वज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं मार्गाकारज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि मार्गाकारज्ञताया (Śस्P_II-४_११२) गुणा मार्गाकारज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वाकारज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वाकारज्ञताया गुणाः सर्वाकारज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं तथताया गुणाः परिकीर्तयितुम् अप्रमेया हि तथताया गुणास् तथतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अवितथताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अवितथताया गुणा अवितथतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनन्यतथताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनन्यतथताया गुणा अनन्यतथतायाश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मताया गुणा धर्मतायश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मधातोर् गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मधातोर् गुणा धर्मधातोश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मस्थितिताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मस्थितिताया गुणा धर्मस्थितितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं धर्मनियामताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मनियामताया गुणाः धर्मनियामतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं भूतकोटेर् गुणाः परिकीर्तयितुम् अप्रमेया हि भूतकोटेर् गुणा भूतकोटेश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यम् अचिन्त्यधातोर् गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अचिन्त्यधातोर् गुणा अचिन्त्यधातोश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं सर्ववासनानुसंधिक्लेशप्रहाणस्य गुणाः परिकीर्तयितुम् अप्रमेया हि सर्ववासनानुसंधिक्लेशप्रहाणस्य गुणाः सर्ववसनानुसंधिक्लेशप्रहाणस्य च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सदोपेक्षाविहारिताया गुणाः परिकीर्तयितुम् अप्रमेया हि सदोपेक्षाविहारिताया गुणाः सदोपेक्षाविहारितयाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् असंप्रमोसधर्मताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् असंप्रमोषधर्मताया गुणा असंप्रमोषधर्मतायश् च तानि तथागतशरीराणि भाजनम्.
SK
तेन तानि तथागतशरीराणि पूजां लभन्ते, रत्नपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, असंक्लेशाव्यवदानपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनुत्पादानिरोधपारमिताया (Śस्P_II-४_११३) भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनायूहानियूहपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनुत्क्षेपाप्रक्षेपपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनागत्यगत्यस्थितिपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, धर्मतापारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तया च धर्मतापारमितया परिभावितानि तानि तथागतशरीराणि तेन परिनिर्वृतस्यापि तस्य तथागतस्य तानि तथागतशरीराणि पूजां लभन्ते.
SK
[K. १९९ब्७, N. ३९२अ८, T. ३१५ब्१, P. २७२अ८, Cह्. ७०३ब्६] पुनर् अपरं भगवन् तिष्ठन्तु त्रिसाहस्रमहासाःस्रो लोकधातुस् तथागतशरीराणां पूर्णचूडिकावबद्धाः, सचेत् भगवन् दशसु दिक्षुः गङ्गानदीवालुकोपमा लोकधातवस् तथागतशरीराणां पूर्णचूडिकावबद्धा भवेयुर् यच् च प्रज्ञापारमितापुस्तकं लिखित्वोपनाम्येतः, अनयोर् अहं भगवन् द्वयोः प्रत्यङ्गयोर् इमाम् एव प्रज्ञापारमितां गृहीयाम्. तत् कस्य हेतोः? अतो निर्यातानि हि भगवन् तथागतस्यार्हतः सम्यक्संबुद्धस्य तानि तथागतशरीराणि पूज्यंते प्रज्ञापारमिता परिभावितनि भगवंस् तानि तथागतशरीराणि पूजां लभन्ते.
SK
यः पुनर् भगवन् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् स तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य देवमनुष्यसंपत्तीर् अनुभूय क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु गृहपतिमहाशालकुलेषु चातुर्महाराजकायिकेषु देवेषु त्रायस्त्रिंशेषु देवेषु यामेषु देवेषु तुषितेषु देवेषु निर्माणरतिषु देवेषु परनिर्मितवशवर्तिषु देवेषु सुखम् अनुभूय तेनैव कुशलमूलेन दुःखस्यान्तं करिष्यति, एतावत् तथागतशरीरपूजायाः फलम् इमां पुनः प्रज्ञापारमिताम् उद्गृहन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् समाधिपारमितां च परिपूरयिष्यन्ति, वीर्यपारमितां च परिपूरयिष्यन्ति, क्षान्तिपारमितां च परिपूरयिष्यन्ति, शीलपारमितां च परिपूरयिष्यन्ति, दानपारमितां च परिपूरयिष्यन्ति.
SK
अध्यात्मशून्यतां परिपूरयिष्यति, बहिर्धाशून्यतां परिपूरयिष्यति, अध्यात्मबहिर्धाशून्यतां परिपूरयिष्यति, शून्यताशून्यतां परिपूरयिष्यति, महाशून्यतां परिपूरयिष्यति, परमार्थशून्यतां परिपूरयिष्यति, संस्कृतशून्यतां परिपूरयिष्यति, असंस्कृतशून्यतां परिपूरयिष्यति, (Śस्P_II-४_११४) अत्यन्तशून्यतां परिपूरयिष्यति, अनवराग्रशून्यतां परिपूरयिष्यति, अनवकारशून्यतां परिपूरयिष्यति, प्रकृतिशून्यतां परिपूरयिष्यति, सर्वधर्मशून्यतां परिपूरयिष्यति, स्वलक्षणशून्यतां परिपूरयिष्यति, अनुपलम्भशून्यतां परिपूरयिष्यति, अभावशून्यतां परिपूरयिष्यति, स्वभावशून्यतां परिपूरयिष्यति, अभावस्वभावशून्यतां परिपूरयिष्यति.
SK
चत्वारि स्मृत्युपस्थानानि परिपूरयिष्यति, चत्वारि सम्यक्प्रहाणानि परिपूरयिष्यति, चतुर ऋद्धिपादान् परिपूरयिष्यति, पञ्चेन्द्रियाणि परिपूरयिष्यति, पञ्च बलानि परिपूरयिष्यति, सप्त बोध्यङ्गानि परिपूरयिष्यति, आर्याष्टाङ्गमार्गं परिपूरयिष्यति. चत्वार्य् आर्यसत्यानि परिपूरयिष्यति, चत्वारि ध्यानानि परिपूरयिष्यति, चत्वार्य् अप्रमाणानि परिपूरयिष्यति, चतस्र आरूप्यसमापत्तिः परिपूरयिष्यति, अष्टौ विमोक्षान् परिपूरयिष्यति, नवानुपूर्वविहारसमापत्तीः परिपूरयिष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिपूरयिष्यति, पञ्चाभिज्ञाः परिपूरयिष्यति, समाधीन् परिपूरयिष्यति, धारणीमुखानि परिपूरयिष्यति, दश तथागतबलानि परिपूरयिष्यति, चत्वारि वैशारद्यानि परिपूरयिष्यति, चतस्रः प्रतिसंविदः परिपूरयिष्यति, महामैत्रीं परिपूरयिष्यति, महाकरुणां परिपूरयिष्यति, अष्टादशावेणिकबुद्धधर्मान् परिपूरयिष्यति.
SK
श्रावकभूमिं च प्रत्येकबुद्धभूमिं चातिक्रम्य बोधिसत्त्वनियामम् अवक्रमिष्यति, बोधिसत्त्वनियामम् अवक्रम्य बोधिसत्त्वाभिज्ञाः प्रतिलप्स्यते, बोधिसत्त्वाभिज्ञा प्रतिलभ्य बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, स संचिन्त्यात्मभावं परिगृहीष्यति, यैर् आत्मभावः सत्त्वपरिपाको भविष्यति, यदि वा चक्रवर्ताश्रयं यदि वा क्षत्रियमहाशालकुलेषु यदि वा ब्राह्मणमहाशालकुलेषु यदि वा गृहपतिमहाशालकुलेषु यदि वा शक्ररूपेण यदि वा ब्राह्मणरूपेण यदि वा वैश्रमणरूपेण स तैर् आत्मभावैः सत्त्वान् परिपाचयिष्यति, तस्मात् तर्हि भगवन् न मम तथागतशरीरेष्व् अगौरवं नाप्य् अप्रत्यया नाप्य् अपूजयितुकामता नाप्य् अग्रहीतुकामता.
SK
अपि तु खलु पुनर् भगवन् कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां सत्कुर्वता गुरुकुर्वता मानयता पूजयत सर्वबुद्धधर्माणां हेतुर् उपचितो भवति सर्वसंपत्तयश् च परिगृहीता भवन्ति, तथागतशरीराणि सत्कृता भवन्ति गुरुकृतानि भवन्ति यानि तानि भवन्ति पूजितानि भवन्ति.
SK
पुनर् अपरं भगवन् ये दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा (Śस्P_II-४_११५) अप्रमेयासंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियते यापयन्ति धर्मं देशयन्ति तान् ध्हर्मकायेन च ज्ञानकायेन च द्रष्टुकामेन पूजयितुकामेन इयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या पूजयितव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या, स कुलपुत्रो वा कुलदुहिता वा दशसु दिक्ष्व् अप्रमेयासख्येयेषु लोकधातुषु तां तथागतान् अर्हतः सम्यक्संबुद्धां द्रक्ष्यति. एवं खलु तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां च तां बुद्धान् अनुस्मृतिभावयितव्या धर्मतया.
SK
पुनर् अपरं भगवंस् तां तथागतान् अर्हतः सम्यक्संबुद्धान् संद्रष्टुकामेन, कुलपुत्रेण वा कुलदुहित्रा वा इयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या पूजयितव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या, धर्मताया द्वे इमे भगवन् धर्मता.
SK
कतमे द्वे संस्कृता च धर्माणां धर्मता असंस्कृता च धर्माणां धर्मता असंस्कृता च धर्माणां धर्मता?
SK
तत्र भगवन् कतमा संस्कृतानां धर्मता? यद् अध्यात्मशून्यतायं ज्ञानं यद् बहिर्धाशून्यतायां ज्ञानं यद् अध्यात्मबहिर्धाशून्यतयां ज्ञानं यद् शून्यताशून्यतायां ज्ञानं यद् महाशून्यतायां ज्ञानं यद् परमार्थशून्यतायां ज्ञानं यद् संस्कृतशून्यतायां ज्ञानं यद् असंस्कृतशून्यतायां ज्ञानं यद् अत्यन्तशून्यतायां ज्ञानं यद् अनवराग्रशून्यतायां ज्ञानं यद् अनवकारशून्यतायां ज्ञानं यद् प्रकृतिशून्यतायां ज्ञानं यद् सर्वधर्मशून्यतयां ज्ञानं यद् स्वलक्षणशून्यतायां ज्ञानं यद् अनुपलम्भशून्यतायां ज्ञानं यद् अभावशून्यतायां ज्ञानं यद् स्वभावशून्यतायां ज्ञानं यद् अभावस्वभावशून्यतायां ज्ञानम्.
SK
यच् चतुर्षु स्मृत्युपस्थानानेषु ज्ञानं, यच् चतुर्षु सम्यक्प्रहाणानेषु ज्ञानं, यच् चतुर्ष्व् ऋद्धिपादेषु ज्ञानं, यत् पञ्चस्व् इन्द्रियेषु ज्ञानं, यत् पञ्चसु बलेषु ज्ञानं, यत् सप्तसु बोध्यङ्गेषु ज्ञानं, यद् आर्याष्टाङ्गे मर्गे ज्ञानं, यच् चतुर्ष्व् आर्यसत्येषु ज्ञानं, यच् चतुर्षु ध्यानेषु ज्ञानं, यच् चतुर्ष्व् अप्रमाणेषु ज्ञानं, यच् चतसृष्व् आरूप्यसमापत्तिषु ज्ञानं, यद् अष्टासु विमोक्षेषु ज्ञानं, यन् नवानुपूर्वविहारसमापत्तिषु ज्ञानं, यञ् छून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेषु ज्ञानं, यत् पञ्चस्व् अभिज्ञासु ज्ञानं, यत् सर्वसमाधिषु ज्ञानं, यत् सर्वधारणीमुखेषु ज्ञानं, यद् दशसु तथागतबलेषु ज्ञानं, यच् (Śस्P_II-४_११६) चतुर्षु वैशारद्येषु ज्ञानं, यच् चतसृषु प्रतिसंवित्सु ज्ञानं, यन् महामैत्र्यां ज्ञानं, यन् महाकरुणायां ज्ञानं, यद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु ज्ञानं, यत् कुशलेषु धर्मेषु ज्ञानं, यद् अकुशलेषु धर्मेषु ज्ञानं, यत् साश्रवेषु धर्मेषु ज्ञानं, यद् अनाश्रवेषु धर्मेषु ज्ञानं, यल् लौकिकेषु धर्मेषु ज्ञानं, यल् लोकोत्तरेषु धर्मेषु ज्ञानं, इयम् उच्यते संस्कृतानां धर्माणां धर्मता.
SK
तत्र कतमा असंस्कृतानां धर्माणां धर्मता? यस्या नोत्पादो न निरोधो न स्थानं न स्थितो नान्यथात्वं न संक्लेशो न व्यवदानं न हानिर् न वृद्धिर् या सर्वधर्माणां स्वभावता,
SK
कतमा च सर्वधर्माणां स्वभावता? अभावस्वभावा हि सर्वधर्मा इयम् उच्यते, असंस्कृतानां धर्माणां धर्मता.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमितां आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः, ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागतार्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽपि ते एतर्हि दशदिग् लोकधातुष्व् अप्रमेयेष्व् असंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्ह्रियन्ते यापयन्ति धर्मं देशयन्ति, ते ऽपीमाम् एव प्रज्ञापारमितायाम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, ये ऽपि ते ऽभूवन्न् अतीतानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ये ऽपि ते भविष्यन्त्य् अनागतानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ये ऽप्य् एतर्हि प्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्य स्रोतआपत्तिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, सकृदागामिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, अनागामिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, अर्हत्त्वं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, ये ऽपि ते ऽभूवन्न् अतिते ऽध्वनि प्रत्येकबुद्धाः, ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि प्रत्येकबुद्धा, ये ऽपि ते एतर्हि अप्रमेयासंख्येयेषु लोकधातुषु प्रत्येकबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति तैर् अपीमाम् एव प्रज्ञापारमिताम् आगम्य प्रत्येकबोधिः प्राप्ताः प्राप्स्यते प्राप्यते च. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमिताया सर्वाणि त्रीणि यानानि विस्तरेणोपदिष्टानि, तानि पुनर् अनिमित्तयोगेनानुपलम्भयोगेनानुत्पादयोगेनानिरोधयोगेनाससंक्लेशयोगेनाव्यवदानयोगेनानभिसंस्कारयोगेनानायूहयोगेनानिर्युहयोगेनानुक्षेपयोगेनाप्रक्षेपयोगेनानुग्रहयोगेनानुत्सर्गयोगेन (Śस्P_II-४_११७) तत् पुनर् लोकव्यवहारेण न परमार्थेन. तत् कस्य हेतोः? न हि प्रज्ञापारमिता आरमिता न पारमिता न हि प्रज्ञापारमिता अपारो न पारः, न स्थलं न निम्नं न समं न विषमं न निमित्तं नानिमित्तं न लौकिकी न लोकोत्तरा न संस्कृता नासंस्कृता न कुशला नाकुशला नातीता नानागता न प्रत्युत्पन्ना, न हि कौशिक प्रज्ञापारमिता बुद्धधर्मानां दात्री, न हि कौशिक प्रज्ञापारमिता स्रोतआपत्तिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता सकृदागामिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता अनागामिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता अर्हद्धर्माणां दात्री न हि कौशिक प्रज्ञापारमिता प्रत्येकबुद्धधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता पृथग्जनधर्माणां दात्री.
SK
[K. २००ब्१०, N. ३९५अ१, T. ३१७अ९, P. २७६अ७, Cह्. ७०६अ१०] शक्र आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता, अत्र भगवन् बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वसत्त्वानां चित्तचरितानि प्रजानन्ति न सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिम् उपलभते नात्मनम् उपलभते न सत्त्वम् उपलभते न जीवम् उपलभते न जन्तुम् उपलभते न पोषम् उपलभते न पुरुषम् उपलभते न पुद्गलम् उपलभते न मनुजम् उपलभते न मानवम् उपलभते न कारकम् उपलभते न वेदकम् उपलभते न जानकम् उपलभते न पश्यकम् उपलभते.
SK
न रूपम् उपलभते, न वेदनाम् उपलभते, न संज्ञाम् उपलभते, न संस्काराम् उपलभते, न विज्ञानम् उपलभते.
SK
न चक्षुर् उपलभते, न श्रोत्रम् उपलभते, न घ्राणम् उपलभते, न जिह्वाम् उपलभते, न कायम् उपलभते, न मनसम् उपलभते.
SK
न रूपम् उपलभते, न शब्दम् उपलभते, न गन्धम् उपलभते, न रसम् उपलभते, न स्पर्शम् उपलभते, न धर्मान् उपलभते.
SK
न चक्षुर्विज्ञानम् उपलभते, न श्रोत्रविज्ञानम् उपलभते, न घ्राणविज्ञानम् उपलभते, न जिह्वाविज्ञानम् उपलभते, न कायविज्ञानम् उपलभते, न मनोविज्ञानम् उपलभते.
SK
न चक्षुःसंस्पर्शम् उपलभते, न श्रोत्रसंस्पर्शम् उपलभते, न घ्राणसंस्पर्शम् उपलभते, न जिह्वासंस्पर्शम् उपलभते, न कायसंस्पर्शम् उपलभते, न मनःसंस्पर्शम् उपलभते.
SK
न चक्षुःसंस्पर्शप्रत्ययवेदनाम् उपलभते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाम् उपलभते, न घ्राणसंस्पर्शप्रत्ययवेदनाम् उपलभते, (Śस्P_II-४_११८) न जिह्वासंस्पर्शप्रत्ययवेदनाम् उपलभते, न कायसंस्पर्शप्रत्ययवेदनाम् उपलभते, न मनःसंस्पर्शप्रत्ययवेदनाम् उपलभते.
SK
न पृथिवीधातुम् उपलभते, नाब्धातुम् उपलभते, न तेजोधातुम् उपलभते, न वायुधातुम् उपलभते, नाकाशधातुम् उपलभते, न विज्ञानधातुम् उपलभते.
SK
नाविद्याम् उपलभते, न संस्काराम् उपलभते, न विज्ञानम् उपलभते, न नामरूपम् उपलभते, न षडायतनम् उपलभते, न स्पर्शम् उपलभते, न वेदनाम् उपलभते, न तृष्णाम् उपलभते, नोपादानम् उपलभते, न भवम् उपलभते, न जातिम् उपलभते, न जरामरणम् उपलभते.
SK
न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् उपलभते, न प्रज्ञापारमिताम् उपलभते.
SK
नाध्यात्मशून्यताम् उपलभते, न बहिर्धाशून्यताम् उपलभते, नाध्यात्मबहिर्धाशून्यताम् उपलभते, न शून्यताशून्यताम् उपलभते, न महाशून्यताम् उपलभते, न परमार्थशून्यताम् उपलभते, न संस्कृतशून्यताम् उपलभते, नासंस्कृतशून्यताम् उपलभते, नात्यन्तशून्यताम् उपलभते, नानवराग्रशून्यताम् उपलभते, नानवकारशून्यताम् उपलभते, न प्रकृतिशून्यताम् उपलभते, न सर्वधर्मशून्यताम् उपलभते, न स्वलक्षणशून्यताम् उपलभते, नानुपलम्भशून्यताम् उपलभते, नाभावशून्यताम् उपलभते, न स्वभावशून्यताम् उपलभते, नाभावस्वभावशून्यताम् उपलभते.
SK
न स्मृत्युपस्थानान्य् उपलभन्ते, न सम्यक्प्रहाणान्य् उपलभन्ते, न र्द्धिपादान् उपलभन्ते, नेन्द्रियान्य् उपलभन्ते, न बलान्य् उपलभन्ते, न बोध्यङ्गान्य् उपलभन्ते, नार्याष्टाङ्गो मार्गम् उपलभन्ते, नार्यसत्यान्य् उपलभन्ते, न ध्यानान्य् उपलभन्ते, नाप्रमाणान्य् उपलभन्ते, नारूप्यसमापत्तीर् उपलभन्ते, नाष्टौ विमोक्षाम् उपलभन्ते, न नवानुपूर्वविहारसमापत्तीर् उपलभन्ते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभन्ते, नाभिज्ञा उपलभन्ते, न समाधीन् उपलभन्ते, न धारणीमुखान्य् उपलभन्ते, न दशतथागतबलान्य् उपलभन्ते, न वैशारद्यान्य् उपलभन्ते, न प्रतिसंविद उपलभन्ते, न महामैत्रीम् उपलभन्ते, न महाकरुणाम् उपलभन्ते, नावेणिकबुद्धधर्मान् उपलभन्ते, न स्रोतआपत्तिफलम् उपलभन्ते, न सकृदागामिफलम् (Śस्P_II-४_११९) उपलभन्ते, नानागामिफलम् उपलभन्ते, नार्हत्त्वम् उपलभन्ते, न प्रत्येकबोधिम् उपलभन्ते, न मार्गाकारज्ञताम् उपलभन्ते, न सर्वाकारज्ञताम् उपलभन्ते, न बोधिसत्त्वम् उपलभन्ते, न बुद्धम् उपलभन्ते, न बुद्धधर्मान् उपलभन्ते.
SK
न हि प्रज्ञापारमितोपलम्भयोगेन प्रत्युपस्थिता. तत् कस्य हेतोः? तथा हि तस्याः स्वभावो न संविद्यते येनोपलभेत् यद् वोपपलभेत् यत्र वोपलभेत्.
SK
[K. २०१अ८, N. ३९६अ२, T. ३१८अ३, P. २७८अ६, Cह्. ७०६च्७] भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यथा हि तद् दीर्घरात्रौ बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन प्रज्ञापारमितायां चरतः स बोधिम् अपि नोपलभ्हते प्राग् एव बुद्धं प्राग् एव बुद्धधर्मान्.
SK
शक्र आह: पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति न तदन्यासु पारमितासु.
SK
भगवान् आह: सर्वासु कौशिक षड्पारमितासु बोधिसत्त्वो महासत्त्वश् चरति तच् चानुपलम्भयोगेन. स दानम् अपि नोपलभते दायकम् अपि नोपलभते प्रतिग्राहकम् अपि नोपलभते, शीलम् अपि नोपलभते शीलवन्तम् अपि नोपलभते दौःशीलम् अपि नोपलभते, क्षान्तिम् अपि नोपलभते क्षमीनम् अपि नोपलभते व्यापादम् अपि नोपलभते, वीर्यम् अपि नोपलभते वीर्यवन्तम् अपि नोपलभते कौशीद्यम् अपि नोपलभते, ध्यानम् अपि नोपलभते ध्यायिनम् अपि नोपलभते विक्षेपम् अपि नोपलभते, प्रज्ञाम् अपि नोपलभते प्रज्ञावन्तम् अपि नोपलभते दौष्प्रज्ञम् अपि नोपलभते.
SK
अपि तु खलु पुनः कौशिक प्रज्ञापारमिता पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य दानं ददतो दानपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य शीलं रक्षतः शीलपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्या संपादाय क्षान्तिपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य वीर्यम् आलम्भमानस्य वीर्यपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य ध्यानानि समापद्यमानस्य ध्यानपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य धर्मान् विविक्ततः प्रज्ञापारमितापरिपूरये सर्वधर्मानुपलम्भयोगेन.
SK
रूपस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, संज्ञाया (Śस्P_II-४_१२०) अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन.
SK
चक्षुषो ऽनुपलम्भयोगेन, श्रोत्रस्यानुपलम्भयोगेन, घ्राणस्यानुपलम्भयोगेन, जिह्वाया अनुपलम्भयोगेन, कायस्यानुपलम्भयोगेन, मनसो ऽनुपलम्भयोगेन.
SK
रूपस्यानुपलम्भयोगेन, शब्दस्यानुपलम्भयोगेन, गन्धस्यानुपलम्भयोगेन, रसस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, धर्माणाम् अनुपलम्भयोगेन.
SK
चक्षुर्विज्ञानस्यानुपलम्भयोगेन, श्रोत्रविज्ञानस्यानुपलम्भयोगेन, घ्राणविज्ञानस्यानुपलम्भयोगेन, जिह्वाविज्ञानस्यानुपलम्भयोगेन, कायविज्ञानस्यानुपलम्भयोगेन, मनोविज्ञानस्यानुपलम्भयोगेन.
SK
चक्षुःसंस्पर्शस्यानुपलम्भयोगेन, श्रोत्रसंस्पर्शस्यानुपलम्भयोगेन, घ्राणसंस्पर्शस्यानुपलम्भयोगेन, जिह्वासंस्पर्शस्यानुपलम्भयोगेन, कायसंस्पर्शस्यानुपलम्भयोगेन, मनःसंस्पर्शस्यानुपलम्भयोगेन.
SK
चक्षुःसंस्पर्शजावेदनाया अनुपलम्भयोगेन, श्रोत्रसंस्पर्शजावेदनाया अनुपलम्भयोगेन, घ्राणसंस्पर्शजावेदनाया अनुपलम्भयोगेन, जिह्वासंस्पर्शजावेदनाया अनुपलम्भयोगेन, कायसंस्पर्शजावेदनाया अनुपलम्भयोगेन, मनःसंस्पर्शजावेदनाया अनुपलम्भयोगेन.
SK
पृथिवीधातोर् अनुपलम्भयोगेन, अब्धातोर् अनुपलम्भयोगेन, तेजोधातोर् अनुपलम्भयोगेन, वायुधातोर् अनुपलम्भयोगेन, आकाशधातोर् अनुपलम्भयोगेन, विज्ञानधातोर् अनुपलम्भयोगेन.
SK
अविद्याया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन, नामरूपस्यानुपलम्भयोगेन, षडायतनस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, तृष्णाया अनुपलम्भयोगेन, उपादानस्यानुपलम्भयोगेन, भवस्यानुपलम्भयोगेन, जातेर् अनुपलम्भयोगेन, जरामरणस्यानुपलम्भयोगेन.
SK
दानपारमिताया अनुपलम्भयोगेन, शीलपारमिताया अनुपलम्भयोगेन, क्षान्तिपारमिताया अनुपलम्भयोगेन, वीर्यपारमिताया अनुपलम्भयोगेन, ध्यानपारमिताया अनुपलम्भयोगेन, प्रज्ञापारमिताया अनुपलम्भयोगेन.
SK
अध्यात्मशून्यताया अनुपलम्भयोगेन, बहिर्धाशून्यताया अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताया अनुपलम्भयोगेन, शून्यताशून्यताया अनुपलम्भयोगेन, महाशून्यताया अनुपलम्भयोगेन, परमार्थशून्यताया अनुपलम्भयोगेन, संस्कृतशून्यताया अनुपलम्भयोगेन, असंस्कृतशून्यताया अनुपलम्भयोगेन, अत्यन्तशून्यताया अनुपलम्भयोगेन, अनवराग्रशून्यताया अनुपलम्भयोगेन, अनवकारशून्यताया अनुपलम्भयोगेन, प्रकृतिशून्यताया अनुपलम्भयोगेन, सर्वधर्मशून्यताया अनुपलम्भयोगेन, स्वलक्षणशून्यताया अनुपलम्भयोगेन, अनुपलम्भशून्यताया अनुपलम्भयोगेन, अभावशून्यताया अनुपलम्भयोगेन, स्वभावशून्यताया अनुपलम्भयोगेन, अभावस्वभावशून्यताया अनुपलम्भयोगेन.
SK
चतुर्णां स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, चतुर्णां सम्यक्प्रहाणानाम् अनुपलम्भयोगेन, चतुर्णाम् ऋद्धिपादानाम् अनुपलम्भयोगेन, पञ्चानाम् इन्द्रियाणाम् अनुपलम्भयोगेन, पञ्चानां बलानाम् अनुपलम्भयोगेन, सप्तानं बोध्यङ्गानाम् अनुपलम्भयोगेन, आर्याष्टाङ्गस्य मार्गस्यानुपलम्भयोगेन, चतुर्णाम् आर्यसत्यानाम् अनुपलम्भयोगेन, चतुर्णां ध्यानानाम् अनुपलम्भयोगेन, चतुर्णाम् अप्रमाणानाम् अनुपलम्भयोगेन, चतसृणाम् आरूप्यसमापत्तीनाम् अनुपलम्भयोगेन, अष्टानां विमोक्षाणाम् अनुपलम्भयोगेन, नवानाम् अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भयोगेन. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भयोगेन, पञ्चानाम् अभिज्ञानाम् अनुपलम्भयोगेन, सर्वसमाधीनाम् अनुपलम्भयोगेन, सर्वधारणीमुखानाम् अनुपलम्भयोगेन, दशानां तथागतबलानाम् अनुपलम्भयोगेन, चतुर्णां वैशारद्यानाम् अनुपलम्भयोगेन, चतसृणां प्रतिसंविदाम् अनुपलम्भयोगेन, महामैत्र्या अनुपलम्भयोगेन, महाकरुणायाम् अनुपलम्भयोगेन, अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुपलम्भयोगेन, स्रोतआपत्तिफलस्यानुपलम्भयोगेन, सकृदागामिफलस्यानुपलम्भयोगेन, अनागामिफलस्यानुपलम्भयोगेन, अर्हत्त्वस्यानुपलम्भयोगेन, प्रत्येकबोधेर् अनुपलम्भयोगेन, मार्गाकारज्ञताया अनुपलम्भयोगेन, सर्वाकारज्ञताताया अनुपलम्भयोगेन.
SK
तद् यथापि नाम कौशिक जाम्बूद्वीपकानां वृक्षाणां नानापत्राणां नानापुष्पाणां नानाफलानां नानासंख्यानां नानारोहपरिणाहानां तेषां छायाया विशेषो वा नानाकरणं वा नोपलभ्यते, अन्यत्र च्छाया च्छायेत्य् एवं संख्यां गच्छन्ति. एवम् एव कौशिक पञ्चानां (Śस्P_II-४_१२२) पारमितानां प्रज्ञापारमिता परिगृहीतानां सर्वज्ञज्ञानपरिणामितानां च विशेषो नानाक्रणं वोपलभ्यते.
SK
शक्र आह: महागुणसमन्वागता भगवन् प्रज्ञापारमिता, सर्वगुणपरिपूरिका, अप्रमेयगुणसमन्वागता भगवन् प्रज्ञापारमिता अप्रमाणगुणसमन्वागता अपर्यन्तगुणसमन्वगता भगवन् प्रज्ञापारमिता अपर्यवसानगुणसमन्वागतया तया हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयेत् ताश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् उत्तरे च यथोपदिष्टां प्रज्ञापारमितां योनिशो मनसिकुर्याद् यो ऽपि कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा परस्मै दद्यात् कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
SK
भगवान् आह: तेन हि कौशिक त्वाम् एवात्र परिपक्ष्यामि, यथा ते क्षमते तथा व्याकुरु. तत् किं मन्यसे? कौशिक यः कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वद्यैः, यश् च कुलपुत्रो वा कुलदुहिता वा सर्षपफलमात्रं तथागतशरीरं परस्मै दद्यात् संविभागं कुर्यात् सो ऽपि कुलपुत्रो वा कुलदुहिता वा, तत् सर्षपफलमात्रं तथागतशरीरं गृहीत्वा सत्कुयाद् गुरुक्रुयात् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्.
SK
शक्र आह: यथाहं भगवन् भगवता भाषितस्वार्थम् आजानामि, यो यं कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः, यो ऽपि परस्मै सर्षपफलमात्रं तथागतशरीरं दद्याद् अयं ततो बहुतरं पुण्यं प्रसवेत्, इमम् एव भगवन्न् अर्थवशं संपश्यत्, तथागतेनार्हता सम्यक्संबुद्धेन वज्रोपमं समाधिः समापद्यः वज्रोपमम् आत्मभावं भित्त्वा तथागतशरीराण्य् अधिष्ठितानि महाकरुणां संजनय्य सत्त्वकाये तथागतधातुवैनयिकानां सत्त्वानाम्. तत् कस्य हेतोः? ये हि केचिद् भगवन् तथगतस्यान्तसः सर्षपफलमात्रं धातुं पूजयिष्यन्ति विविधाभिः पूजाभिः सर्वे ते तस्य कुशलमूलस्य पर्यन्तम् (Śस्P_II-४_१२३) अधिगम्य दुःखस्यान्तं करिष्यन्ति.
SK
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा सत्कुर्याद् गुरुक्रुयाद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् चेमां प्रज्ञापारमितां परस्मै लिखित्वा दद्याद् धर्मप्रीत्या अयं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
[K. २०२अ११, N. ३९८ब्२, T. ३१९ब्११, P. २८१ब्६, Cह्. ७०९अ१८] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां यथोपदिष्टा परेभ्यो गत्वा आचक्षीत् देशयेत् संप्रकाशयेत् विचरेत् विभजेत् उत्तानीकुर्याद् अयं स कुलपुत्रो वा कुलदुहिता वा तेषां पूर्वकानां कुलपुत्राणां कुलदुहितॄणाञ् चान्तिकाद् बहुतरं पुण्यं प्रसवेत्, शास्तैव संप्रतिकाङ्क्षितव्यान्यतरान्यतरीया गुरुस्थानीया विज्ञाः सब्रह्मचारी. तत् कस्य हेतोः? एष एवात्र कौशिक शास्ता यद् उत प्रज्ञापारमिता न ह्य् अन्यः शास्तान्या प्रज्ञापारमिता प्रज्ञापारमितैव शास्ता शास्तैः प्रज्ञापारमिता. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षमाणैर् अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते ऽभिसंभोत्स्यते च, ये ऽपि ते विज्ञाः सब्रह्मचारिणस् ते ऽपि नान्ये अन्यत्रावैवर्तिकबोधिसत्त्वेभ्यो यत्र प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते ऽभिसंभोत्स्यते च. अत्र हि कौशिक प्रज्ञापारमितायां श्रावकयानिका अपि शिक्षित्वा स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिका अपि शिक्षित्वा प्रत्येकबोधिन् अभिसंबुद्धा अभिसंवुद्ध्यते अभिसंभोत्स्यते च, बोधिसत्त्वा अपि महासत्त्वाः शिक्षित्वा बोधिसत्त्वनियमम् अवक्रान्ता अवक्रामन्ति अवक्रामिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्धान्ते अभिसंभोत्स्यन्ते च.
SK
तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा तथागतान् अर्हतः सयक्षंबुद्धानां मुखं सत्कर्तुकामैर् गुरुकर्तुकामैर् मानयितुकामैः पूजयितुकामैः पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्याः पुष्पैर् (Śस्P_II-४_१२४) माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् इमं चार्थवशं संपश्यतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैतद् अभूत्, कतमद् अहं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरेयं सो ऽहं कौशिक सदेवके लोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायाम् आत्मनः सदृशं चाधिकं वा न समनुपश्यामि, तस्य ममैतद् अभूद्, य न्व् एव मया धर्माभिसंबुद्धः शान्तः प्रणीतस् तम् एव धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरेयं कतमश् चासौ कौशिक धर्मा यद् उत सैव प्रज्ञापारमिता अहम् एव तावत् कौशिकेमां प्रज्ञापारमितां सत्करोमि गुरुकरोमि मानयामि पूजयामि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरामि, किम् अङ्ग पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेनेयं प्रज्ञापारमिता न सत्कर्तव्या न गुरुकर्तव्या न मानयितव्या न पूजयितव्या पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, श्रावकयानिकैर् वा कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा प्रत्येकबुधयानिकैर् अपि कुलपुत्रैर् वा कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनिर्याताश् च तथागता अर्हन्तः सम्यक्संबुद्धस् तथागतनिर्याताः श्रावकप्रत्येकबुद्धास् तस्मात् तर्हि कौशिक बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा श्रावकयानिकैश् च प्रत्येकबुद्धयनिकैश् च कुलपुत्रैः कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः. यत्र शिक्षित्वा कुलपुत्रा कुलदुहितरश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यन्ते ऽभिसंभोत्स्यन्ते च श्रावकयानिकाश् चार्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च प्रत्येकबुद्धयानीकाश् च प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च.
SK
शतसाहस्र्याः प्रज्ञापारमितया द्वाविंशतितमः परिवर्तः
SK
[K. २O२ब्११, N. ३९९ब्३, T. ३२Oब्६, P. २८३ब्४, Cह्. ७०९च्२३] अथ भगवाञ् छक्रं देवानाम् इन्द्रम् आमन्त्रयेत: सचेत् कौशिक जाम्बूद्वीपकान् सत्त्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानां बहुपुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुपुण्यं प्रसवेत् यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात् पठनाय वा लिखनाय वा वाचनाय वा. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र शिक्षित्वा कुलपुत्रा कुलदुहितरश् च सम्यक्त्वन्यामम् अवक्रान्ताश् चावक्रमन्ति च अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अनगामिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अनुत्तरा सम्यक्संबोधिं संप्रस्थिता सम्यक्त्वन्यामम् अवक्रान्ताश् चावक्रमन्ति चावक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते.
SK
कतमे च ते कौशिक सास्रवा धर्मा विस्तरेणोपदिष्टाः? यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यानि.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यत्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणा अष्टादशावेणिकबुद्धधर्मः,
SK
इमे ते कौशिक अनास्रवा धर्मा ये प्रज्ञापारमितया निर्दिष्टा यत्र शिक्षित्वा कुलपुत्राः कुलदुहितरश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाश् चाभिसंबुध्यन्ते चाभिसंभोत्स्यन्ते च, एवं कौशिकैकं सत्त्वं स्रोतआपत्तिफले प्रतिष्ठाप्य कुलपुत्रो वा कुलदुहिता वा (Śस्P_II-४_१२६) बहुतरं पुण्यं प्रसवेत्, न त्व् एव जाम्बूद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. तत् कस्य हेतोः? दशसु कौशिक कुशलेषु कर्मपथेषु प्रतिष्ठापितः सत्त्वा अपरिमुक्ता एवं नरकतिर्यग्योनेर् यमलोकान् स्रोतआपत्तिफले कौशिक सत्त्वः प्रतिष्ठापितः परिमुक्तो नरकतिर्यग्योनेर् यमलोकान्, कः पुनर् वादः सकृदागामिफले अनागामिफले ऽर्हत्त्वे प्रतिष्ठापयेत्, यश् च पुनः कौशिक सर्वजाम्बूद्वीपकान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले प्रतिष्ठापयेद् अनागामिफले प्रतिष्ठापयेद् अर्हत्त्वे प्रतिष्ठापयेत्, यश् चैकं सत्त्वं प्रत्येकबोधौ प्रतिष्ठापयेद् अयम् एव बहुतरं पुण्यं प्रसवेत्, यो वा कश्चित् कुलपुत्रो वा कुलदुहिता वा सर्वजाम्बूद्वीपकान् प्रत्येकबोधौ प्रतिष्ठापयेद् यश् च कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा एकम् अपि सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयम् एव बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? बुद्धनेत्र्याः सो व्यवच्छेदाय प्रतिपन्नो भवति, य एकसत्त्वम् अप्य् अनुत्तरायै सम्यक्संबोधये प्रतिष्ठापयति. तत् कस्य हेतोः? बोधिसत्त्वनिर्जाता हि कौशिक स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वनिर्याता हि कौशिक तथागता अर्हन्तः सम्यक्संबुद्धास् तद् अनेन कौशिक पर्यायेणैवं वेदितव्यम्. बोधिसत्त्वो ऽपि पूजयितव्यो मानयितव्यः सत्कर्तव्यो गुरुकर्तव्यः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, स देवकेन लोकेन समारकेन सश्रवणब्राह्मणिकायाः प्रज्ञायाः, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलधिता वा जाम्बूद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लिखनाय वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्व सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतअपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति (Śस्P_II-४_१२७) प्राप्स्यन्ति च, बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमित ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् अर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखनि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखनि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा उपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते. अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा (Śस्P_II-४_१२८) देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धः प्रज्ञायन्ते.
SK
[K. २०३ब्१५, N. ४०२अ५, T. ३२२ब्१, P. २८७ब्१, Cह्. ७११ब्१] तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता (Śस्P_II-४_१२९) वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा Iएखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् चशिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्तो अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
SK
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां (Śस्P_II-४_१३०) विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः (Śस्P_II-४_१३१) प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २०४ब्१, N. ४०३ब्५, T. ३२३ब्३, P. २८९ब्४, Cह्. ७१५च्३] तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो या कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
SK
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमित प्रज्ञापारमिता.
SK
अध्यत्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, (Śस्P_II-४_१३२) अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताब्बा देवाः प्रज्ञायन्ते, अप्रमाणभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. पेयालं
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (Śस्P_II-४_१३३) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. १ - -, N. ४०५अ६, T. ३२४ब्४, P. २९१ब्७, Cह्. ७१७अ८] तिष्ठन्तु कौशिक सहस्रचूडिका लोकधातुः यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
शक्र आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो स्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र (Śस्P_II-४_१३४) कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
SK
कतमे च ते कौशिकानास्रव धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहरसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सन्तधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा, अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात्. पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः (Śस्P_II-४_१३५) प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्साः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, (Śस्P_II-४_१३६) अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. - - , N. ४०६ब्७, T. ३२५ब्६, P. २९४अ१, Cह्. ७१८ब्१३] तिष्ठन्तु कौशिक द्विसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च,
SK
स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
SK
कतमे ते कौशिकानस्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वर्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि (Śस्P_II-४_१३७) दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता (Śस्P_II-४_१३८) प्राज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थनानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञत प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. - -, N. ४०८अ९, T. ३२६ब्१०, P. २९६अ१, Cह्. ७२०अ५] यावन्तः कौशिक दशषु दिक्षु एकैकस्यां दिशे गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वान्स् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्येत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहुता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता (Śस्P_II-४_१३९) अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे च ते कौशिकानास्रवा धर्माःतद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता. अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशलकुलानि प्रज्ञायन्ते, गृहपतिमहाशलकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना (Śस्P_II-४_१४०) देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, दशतथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसम्विदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञयते, स्रोतआपन्नः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धः प्रज्ञायन्ते.
SK
[K. - -, N. ४१०अ१, T. ३२८अ१, P. २९८अ३, Cह्. ७२२च्१९] पुनर् अपरं कौशिक ये केचिज् जाम्बूद्वीपका मनुष्यास् तान् कश्चिद् एव कुलपुत्रो वा कुलधिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयेत् (Śस्P_II-४_१४१) पञ्चस्व् अभिज्ञासु प्रतिष्ट्छापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा नोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि (Śस्P_II-४_१४२) प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देयाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, (Śस्P_II-४_१४३) तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. - -, N. ४११ब्१, T. ३२९अ३, P. ३००अ५, Cह्. ७२४ब्५] तिष्ठन्तु कौशिक जांबूद्वीपकाः सत्त्वाः यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्तो अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (Śस्P_II-४_१४४) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (Śस्P_II-४_१४५) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. - -, N. ४१३अ३, T. ३३०अ७, P. ३०२अ७, Cह्. ७२५च्१५] तिष्ठन्तु कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः यावन्तः कौशिक साहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो या कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र (Śस्P_II-४_१४६) प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रंइष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वद्धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्द्बधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायपि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते. गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यमा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः (Śस्P_II-४_१४७) प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, विमोक्षाः प्रज्ञायन्ते, अनुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, (Śस्P_II-४_१४८) अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. - -, N. ४१४ब्४, T. ३३१अ१०, P. ३०४ब्३, Cह्. ७३०अ२२] तिष्ठन्तु कौशिक साहस्रे लोकधातौ सत्त्वाः यावन्तः कौशिक द्विसाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलद्तिहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ःव् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठपयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं लिखित्वा परेभ्यो दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यनपारमिता प्रज्ञापारमिता.
SK
अध्यत्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थनानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपदः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः (Śस्P_II-४_१४९) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्म विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्, तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता (Śस्P_II-४_१५०) प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थाननि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते,
SK
स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धः प्रज्ञायन्ते.
SK
[K. २०५अ६, N. ४१६अ६, T. ३३२अ१२, P. ३०६ब्६, Cह्. ७३१ब्२८] तिष्ठन्तु कौशिक द्विसाहस्रे लोकधातौ सत्त्वा यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च. सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, (Śस्P_II-४_१५१) अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभवशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षाः, अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यम्. यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां लिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभ देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, (Śस्P_II-४_१५२) अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शूयतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनगामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २०५ब्११, N. ४१७ब्७, T. ३३३ब्२, P. ३०९अ१, Cह्. ७३४ब्३०] यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं लिखितां कृत्वा परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभवशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पऋयायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता (Śस्P_II-४_१५४) वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलाङि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, (Śस्P_II-४_१५५) ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, अरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते. अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २०६अ१८, N. ४१९अ७, T. ३३४ब्४, P. ३११अ४, Cह्. * *] यावन्तः कौशिक दक्षिणस्यां दिशि गङ्गनदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
SK
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अर्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः?
SK
तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिक देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभ देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता (Śस्P_II-४_१५७) प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २०७अ३, N. ४२०ब्९, T. ३३५ब्६, P. ३१३अ४, Cह्. * *] यावन्तः कौशिक पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (Śस्P_II-४_१५८) पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयनिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमित.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भाशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः शर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि. अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिक देवाः प्रज्ञायन्ते, त्रयस्त्रिंश देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका (Śस्P_II-४_१५९) देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, (Śस्P_II-४_१६०) प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २०७ब्१०, N. ४२२अ९, T. ३३६ब्९, P. ३१५अ५, Cह्. * *] यावन्तः कौशिक उत्तरस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
अह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलंप्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (Śस्P_II-४_१६१) षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शन देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यत्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता (Śस्P_II-४_१६२) प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शूङ्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २०८अ१५, N. ४२३ब्९, T. ३३७ब्१०. P. ३१७ब्१, Cह्. * *] यावन्तः कौशिक उत्तरपूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः (Śस्P_II-४_१६३) प्राप्नुवन्ति प्राप्स्यन्ति ःअ, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे ते कौशिकानास्रव धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः (Śस्P_II-४_१६४) प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २०८ब्१९, N. ४२५ब्१, T. ३३८ब्१३, P. ३१९ब्५, Cह्. * *] यावन्तः कौशिक पूर्वदक्षिणस्यां दिशि गङ्गनदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु (Śस्P_II-४_१६५) ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते. कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा (Śस्P_II-४_१६६) उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रयस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः (Śस्P_II-४_१६७) प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २०९ब्४, N. ४२७अ१, T. ३४०अ२, P. ३२१ब्७, Cह्. * *] यावन्तः कौशिक दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठपयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्रः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (Śस्P_II-४_१६८) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यताणिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टा. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायपि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, याम देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिमितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकशनन्त्ययतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञयतन देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमित प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (Śस्P_II-४_१६९) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि wप्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २१०अ७, N. ४२८ब्२, T. ३४१अ५, P. ३२४अ१, Cह्. * *] यावन्तः कौशिक पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः (Śस्P_II-४_१७०) कुलदुहितरस् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धा अऊन्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुकानि सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, (Śस्P_II-४_१७१) आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, (Śस्P_II-४_१७२) बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २१०ब्११, N. ४३०अ१, T. ३४२अ६, P. ३२६अ३, Cह्. * *] यावन्तः कौशिकाधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमपत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टदशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा (Śस्P_II-४_१७३) महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंसा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
SK
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः (Śस्P_II-४_१७४) प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयह् प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २११अ१५, N. ४३१ब्३, T. ३४३अ७, P. ३२स६, Cह्. * *] यावन्तः कौशिक उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
SK
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
SK
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
SK
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
SK
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, VIज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना (Śस्P_II-४_१७६) देवाः प्रज्ञायन्ते.
SK
दानपारन्ञ्ता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
SK
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
SK
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते. बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
SK
[K. २११ब्१९, N. ४३३अ५, T. ३४४अ१०, P. [३२] १.२, Cह्. ७३६अ८] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, अयम् एव बहुतरं पुण्यं प्रसविष्यति.
SK
न त्व् एव जाम्बूद्वीपकान् मनुष्यान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु (Śस्P_II-४_१७७) पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव चातुर्द्वीपके लोकधातौ सर्वसत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ःव् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव साहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव द्विसाहस्रे महासाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव त्रिसाहस्रे महासाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, तत्रायं योनिशो मनस्कारः.
SK
यन् न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रज्ञापारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया ध्यानपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया वीर्यपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया क्षान्तिपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शीलपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया दानपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति.
SK
न द्वयचरितया बुद्ध्या नाद्वयचरितया अध्यात्मशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बहिर्धाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अध्यात्मबहिर्धाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शून्यताशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया महाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया परमार्थशून्यतां (Śस्P_II-४_१७८) योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया संस्कृतशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया असंस्कृतशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अत्यन्तसुन्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनवराग्रशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनवकारशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रकृतिशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वधर्मशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया स्वलक्षणशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनुपलम्भशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभावशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया स्वभावशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभावस्वभावशून्यतां योनिशो मनसिकरिष्यति.
SK
न द्वयचरितया बुद्ध्या नाद्वयचरितया स्मृत्युपस्थाननि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सम्यक्प्रहाणानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया ऋद्धिपादां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया इन्द्रियाणि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बलानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बोध्यङ्गानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आर्याष्ताङ्गं मार्गं योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आर्यसत्यानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया ध्यानानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अप्रमाणानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आरूप्यसमापत्तीर् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अष्टौ विमोक्षान् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया नवानुपूर्वविहारसमापत्तीर् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभिज्ञां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया समाधीन् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया धारणीमुखानि (Śस्P_II-४_१७९) योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया तथागतबलानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया वैशारद्यानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रतिसंविदो योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया महाकरुणां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आवेणिकबुद्धधर्मान् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वज्ञतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया मार्गाकारज्ञतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वाकारज्ञतां योनिशो मनसिकरिष्यति.
SK
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा अनेन पर्यायेण प्रज्ञापारमितां परेभ्यो विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति प्रभावयिष्यति विवरिष्यति विभजिष्यत्य् उत्तरीकरिष्यति, संप्रकाशयिष्यत्य् अर्थं चास्य उपदेक्ष्यति, तत्रायं कौशिक प्रज्ञापारमिताया अर्थः, न प्रज्ञापारमिताद्वयेण द्रष्टव्या न द्वयेन न निमित्ततो नायुहतो नानिर्यूहतः, नोत्क्षेपतो न प्रक्षेपतः, न संक्रेशतो न व्यवदानतो नोत्पादतो न निरोधतः, न ग्रहतो नाग्रहतो नोद्ग्रहतो नोत्सर्गतो न स्थानतो नास्थानतो न भूततो नाभूततः, न योगतो नायोगतो न श्लेष्मतो नाश्लेष्मतो न प्रत्ययतो नाप्रत्ययतो न धर्मतो नाधर्मतः, न तथागततो नातथागततो न भूतकोटीतो नाभूतकोटीतः. अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
य इमां प्रज्ञापारमितां परेभ्यो विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति विचरिष्यति भजिष्यति, उत्त्तानीकरिष्यति संप्रकाशयिष्यति, एयं चास्य उपदेक्ष्यति, न त्व् एव य आत्मनैकोपगृहीयात् पर्यवाप्नुयाद् आधारयेद् धारयेद् वाचयेद् योनिशश् च मनसिकुर्यात्.
SK
[K. २१२ब्१०, N. ४३४अ१, T. ३४५ब्५, P. ४ब्८, Cह्, ७३७अ५] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा स्वयं प्रज्ञापारमिताम् उद्गृहीष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च परस्मै विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति प्रज्ञापयिष्यति स्थापयिष्यति विचरिष्यति भजिष्यति, उत्त्तनीकरिष्यति संप्रकाशयिष्यति. अर्थं चास्य उपदेक्ष्यत्य् अयम् एव स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति.
SK
शक्र आह: एवं खलु भगवन् कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितोपदिष्टव्या, सार्था सव्यञ्जना.
SK
भगवान् आह: एवं ख्लु कौशिक कुलपुत्रो वा कुलदुहिता वा परेभ्यः प्रज्ञापारमितोपदेष्टव्या सार्था सव्यञ्जना. एवम् उपदिशन् पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा अप्रमेयासंख्येयापरिमामानेन पुण्यस्कन्धेन समन्वागतो भविष्यति.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पूर्वस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थं सव्यञ्जनम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दक्षिणायां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पश्चिमायां दिश्य् अप्रमेयासख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्ययेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य (Śस्P_II-४_१८१) हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उत्तरस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उत्तरपूर्वस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जिवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षिद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तनीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पूर्वदक्षिणस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं (Śस्P_II-४_१८२) प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दक्षिणपश्चिमायां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पश्चिमोत्तरस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्म्पारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुन्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोतेयन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अधस्ताद् दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्ययेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं प्ंयं प्रसवेत्. तत् कस्य हेतोह्? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः (Śस्P_II-४_१८३) सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उपरिष्टाद् दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
SK
[K. २१३ब्४, N. ४३६ब्५, T. ३४७अ८, P. ९अ१, Cह्. ७३७ब्२] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा अप्रमेयासंख्येयान् कल्पान् दानपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् शीलपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् क्षान्तिपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् वीर्यपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् ध्यानपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् प्रज्ञापारमितायां चरन्न् उपलम्भयोगेन,
SK
यश् चेमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परस्मै विस्तरेणाचक्षीद् देशयेत् प्रकाशयेत् प्रज्ञापयेत् प्रस्थापयेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् तच् चानुपलम्भयोगेन, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्, तत्रायम् उपलम्भ इह कौशिक बोधिसत्त्वस्योपलम्भयोगेन,
SK
दानं दतत एवं भवत्य् अहं दानं ददामि इदं दानं ददाम्य् अस्मै दानं ददामि तस्यैवं दानं ददतो दानम् एव स्थास्यति न दानपारमिता उपलम्भयोगेन, शीलं रक्षत एवं भवत्य् अहं शीलं रक्षामीदं शीलं रक्षामि तस्यैवं शीलं रक्षतः शीलम् एव स्थास्यति न शीलपारमिता उपलभयोगेन, क्षान्तिं भावयत एवं भवत्य् अहं क्षान्तिभावयामीमां क्षान्तिं भावयामि, तस्यैवं क्षान्तिं भावयतः क्षान्तिर् एव स्थास्यति न क्षान्तिपारमिताम् उपलम्भयोगेन, वीर्यम् आरभमानस्यैवं भवत्य् अहं वीर्यम् आरभे अस्यार्थाय वीर्यम् आरभे तस्यैवं वीर्यम् आरभमानस्य वीर्यम् एव स्थास्यति न वीर्यपारमिता (Śस्P_II-४_१८४) उपलम्भयोगेन, ध्यानानि समापद्यमानस्यैवं भवत्य् अहं ध्यानानि समापद्य इमानि ध्यानानि समापद्येतस्यैवं ध्यानानि समापद्यमानस्य ध्यानान्य् एव स्थास्यति न ध्यानपारमिता उपलम्भयोगेन, प्रज्ञां भावयत एवं भवत्य् अहं प्रज्ञां भावयामीमां भावयामि तस्यैवं प्रज्ञां भावयतः प्रज्ञैव स्थास्यति न प्रज्ञापारमिता उपलम्भयोगेन.
SK
एवं खलु कौशिकोपलम्भचरितस्य कुलपुत्रस्य वा कुलदुहितुर् वा न दानपारमिता परिपूर्यते न शीलपारमिता परिपूर्यते न क्षान्तिपारमिता परिपूर्यते न वीर्यपारमिता परिपूर्यते न ध्यानपारमिता परिपूर्यते न प्रज्ञापारमिता परिपूर्यते.
SK
शक्र आह: कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिपूर्यते?
SK
भगवान् आह: इह कौशिक बोधिसत्त्वो महासत्त्वो दानं ददत् न दायकम् उपलभते न दानं प्रतिग्राहकम् उपलभते, न शीलं रक्षन् न शीलं न शीलसमादानम् उपलभते, न क्षान्तिं भावयन् न क्षान्तिं रक्षन्ति भावनाम् उपलभते, न वीर्यम् आरभमाणे न वीर्यारंभम् उपलभते, न ध्यानानि न ध्यानभावनाम् उपलभते, न प्रज्ञां न प्रज्म्भावनाम् उपलभते, एवं चरतः कौशिक बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते शीलपारमिता परिपूर्यते क्षान्तिपारमिता परिपूर्यते वीर्यपारमिता परिपूर्यते ध्यानपारमिता परिपूर्यते प्रज्ञापारमिता परिपूर्यते.
SK
एवं खलु कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा अबुध्यमानस्य प्रज्ञापारमिता सार्था सव्यञ्जनाम् उपदेष्टव्या, एवम् अबुध्यमानस्य ध्यानपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य वीर्यपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य क्षान्तिपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य शीलपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य (Śस्P_II-४_१८५) दानपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या. तत् कस्य हेतोः? भविष्यन्ति कौशिकानागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च ये बोधिसत्त्वयानिकेभ्यः प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यति, तत्र च कुलपुत्राः कुलदुहितरश् चानुत्तरा यैः सम्यक्संबोधिर् ये संप्रस्थिता भविष्यति, ते तां प्रतिवर्णिकां श्रुत्वा मार्गां प्रणक्षन्ति तेषाम् इयं प्रज्ञापारमिता सार्था सव्यञ्जना विस्तरेणोपदिष्टव्या.
SK
[K. २१४अ१, N. ४३७ब्२, T. ३४८अ१, P. १०ब्८, Cह्. ७३८ब्१३] शक्र आह: कतमा भगवन् प्रज्ञापारमिता प्रतिवर्णिका?
SK
भगवान् आह: इह कौशिक कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताम् उपदेक्ष्याम इति, ते प्रतिवर्णिका उपदेक्ष्यति.
SK
शक्र आह: कथं भगवंस् ते कुलपुत्राः कुलदुहितरो या प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति?
SK
भगवान् आह: इह कौशिक कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताम् उपदिशन्तः, प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति, तत्र या प्रज्ञापारमितायाः प्रतिवर्णिका, यद् उत रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, रूपं दुःखम् इत्य् उपदेक्ष्यन्ति, रूपम् अनात्मेत्य् उपदेक्ष्यन्ति, रूपम् अशुभम् इत्य् उपदेक्ष्यन्ति.
SK
एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रूपम् अनित्यम् इति गवेषिष्यन्ते, रूपं दुःखम् इति गवेषिष्यन्ते, रूपम् अनात्मेति गवेषिष्यन्ते, रूपम् अशुभम् इति गवेषिष्यन्ते, ते रूपम् अनित्यम् इति गवेषमाणाः, रूपं दुःखम् इति गवेषमाणाः, रूपम् अनात्मेति गवेषमाणाः, रूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
वेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, वेदनां दुःखेत्य् उपदेक्ष्यन्ति, वेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, वेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते वेदनाम् अनित्येति गवेषिष्यन्ते, वेदनां दुःखेति गवेषिष्यन्ते, वेदनाम् अनात्मेति गवेषिष्यन्ते, वेदनाम् अशुभेति गवेषिष्यन्ते, ते वेदनाम् अनित्येति गवेषमाणाः, वेदनां दुःखेति गवेषमाणाः, वेदनाम् अनात्मेति गवेषमाणाः वेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
संज्ञाम् अनित्येत्य् उपदेक्ष्यन्ति, संज्ञां दुःखेत्य् उपदेक्ष्यन्ति, संज्ञाम् अनात्मेत्य् उपदेक्ष्यन्ति, संज्ञाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, (Śस्P_II-४_१८६) ते संज्ञाम् अनित्येति गवेषिष्यन्ते, संज्ञां दुःखेति गवेषिष्यन्ते, संज्ञाम् अनात्मेति गवेषिष्यन्ते, संज्ञाम् अशुभेति गवेषिष्यन्ते, ते संज्ञाम् अनित्येति गवेषमाणाः. संज्ञां दुःखेति गवेषमाणाः, संज्ञाम् अनात्मेति गवेषमाणाः संज्ञाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
संस्कारान् अनित्या इत्य् उपदेक्ष्यन्ति, संस्कार दुःखा इत्य् उपदेक्ष्यन्ति, संस्काराम् अनात्मान इत्य् उपदेक्ष्यन्ति, संस्कारान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति, य एवं चरति स प्रज्ञापारमितायां चरतीति. येषां चोपदेक्ष्यन्ति, ते संस्कारान् अनित्या इति गवेषिष्यन्ते, संस्कारान् दुःखा इति गवेषिष्यन्ते, संस्कारान् अनात्मान ति गवेषिष्यन्ते, संस्कारान् अशुभा इति गवेषिष्यन्ते, ते संस्कारान् अनित्या इति गवेषमाणाः, संस्कारान् दुःखा इति गवेषमाणाः, संस्कारान् अनात्मान इति गवेषमाणाः संस्कारान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, विज्ञानं दुःखम् इति गवेषिष्यन्ते, विज्ञानम् अनात्मेति गवेषिष्यन्ते, विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते विज्ञानम् अनित्यम् इति गवेषमाणाः, विज्ञानं दुःखम् इति गवेषमाणाः, विज्ञानम् अनात्मेति गवेषमाणाः, विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
चक्षुर् अनित्यम् इत्य् उपदेक्ष्यन्ति, चक्षुर् दुःखम् इत्य् उपदेक्ष्यन्ति, चक्षुर् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुर् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुर् अनित्यम् इति गवेषीष्यन्ते, चक्षुर् दुःखम् इति गवेषिष्यन्ते, चक्षुर् अनात्मेति गवेषिष्यन्ते, चक्षुर् अशुभम् इति गवेषिष्यन्ते, ते चक्षुर् अनित्यम् इति गवेषमाणाः, चक्षुर् दुःखम् इति गवेषमाणाः, चक्षुर् अनात्मेति गवेषमाणाः, चक्षुर् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
श्रोत्रम् अनित्यम् इत्य् उपदेक्ष्यन्ति, श्रोत्रं दुःखम् इत्य् उपदेक्ष्यन्ति, श्रोत्रम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रम् अनित्यम् इति गवेषिष्यन्ते, श्रोत्रं दुःखम् इति गवेषिष्यन्ते, श्रोत्रम् अनात्मेति गवेषिष्यन्ते. श्रोत्रम् अशुभम् इति (Śस्P_II-४_१८७) गवेषिष्यन्ते, ते श्रोत्रम् अनित्यम् इति गवेषमाणाः, श्रोत्रं दुःखम् इति गवेषमाणाः, श्रोत्रम् अनात्मेति गवेषमाणाः, श्रोत्रम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
घ्राणम् अनित्यम् इत्य् उपदेक्ष्यन्ति, घ्राणं दुःखम् इत्य् उपदेक्ष्यन्ति, घ्राणम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणम् अनित्यम् इति गवेषिष्यन्ते, घ्राणं दुःखम् इति गवेषिष्यन्ते, घ्राणम् अनात्मेति गवेषिष्यन्ते, घ्राणम् अशुभम् इति गवेषिष्यन्ते, ते घ्राणम् अनित्यम् इति गवेषमाणाः, घ्राणं दुःखम् इति गवेषमाणाः, घ्राणम् अनात्मेति गवेषमाणाः, घ्राणम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
जिह्वाम् अनित्येत्य् उपदेक्ष्यन्ति, जिह्वां दुःखेत्य् उपदेक्ष्यन्ति, जिह्वाम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वाम् अनित्येति गवेषिष्यन्ते जिह्वां दुःखेति गवेषिष्यन्ते, जिह्वाम् अनात्मेति गवेषिष्यन्ते, जिह्वाम् अशुभेति गवेषिष्यन्ते, ते जिह्वाम् अनित्येति गवेषमाणाः, जिह्वां दुःखेति गवेषमाणाः, जिह्वाम् अनात्मेति गवेषमाणाः, जिह्वाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
कायम् अनित्य इत्य् उपदेक्ष्यन्ति, कायं दुःख इत्य् उपदेक्ष्यन्ति, कायम् अनात्मेत्य् उपदेक्ष्यन्ति, कायम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायम् अनित्य इति गवेषिष्यन्ते, कायं दुःख इति गवेषिष्यन्ते, कायम् अनात्मेति गवेषिष्यन्ते, कायम् अशुभ इति गवेषिष्यन्ते, ते कायम् अनित्य इति गवेषमाणाः, कायं दुःख इति गवेषमाणाः, कायम् अनात्मेति गवेषमाणाः, कायम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
मनो ऽनित्यम् इत्य् उपदेक्ष्यन्ति, मनो दुःखम् इत्य् उपदेक्ष्यन्ति, मनो ऽनात्मेत्य् उपदेक्ष्यन्ति, मनो ऽशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनो ऽनित्यम् इति गवेषिष्यन्ते, मनो दुःखम् इति गवेषिष्यन्ते, मनो ऽनात्मेति गवेषिष्यन्ते, मनो ऽशुभम् इति गवेषिष्यन्ते, ते मनो ऽनित्यम् इति गवेषमाणाः, मनो दुःखम् इति गवेषमाणाः, मनो ऽनात्मेति गवेषमाणाः, मनो ऽशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, रूपं दुःखम् इत्य् उपदेक्ष्यन्ति, रूपम् अनात्मेत्य् उपदेक्ष्यन्ति, रूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च (Śस्P_II-४_१८८) वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रूपम् अनित्यम् इति गवेषिष्यन्ते, रूपं दुःखम् इति गवेषिष्यन्ते, रूपम् अनात्मेति गवेषिष्यन्ते, रूपम् अशुभम् इति गवेषिष्यन्ते, ते रूपम् अनित्यम् इति गवेषमाणाः, रूपं दुःखम् इति गवेषमाणाः, रूपम् अनात्मेति गवेषमाणाः, रूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
शब्दम् अनित्य इत्य् उपदेक्ष्यन्ति, शब्दं दुःख इत्य् उपदेक्ष्यन्ति, शब्दम् अनात्मेत्य् उपदेक्ष्यन्ति, शब्दम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते शब्दम् अनित्य इति गवेषिष्यन्ते, शब्दं दुःख इति गवेषिष्यन्ते, शब्दम् अनात्मेति गवेषिष्यन्ते, शब्दम् अशुभ इति गवेषिष्यन्ते, ते शब्दम् अनित्य इति गवेषमाणाः, शब्दं दुःख इति गवेषमाणाः, शब्दम् अनात्मेति गवेषमाणाः, शब्दम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
गन्धम् अनित्य इत्य् उपदेक्ष्यन्ति, गन्धं दुःख इत्य् उपदेक्ष्यन्ति, गन्धम् अनात्मेत्य् उपदेक्ष्यन्ति, गन्धम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते गन्धम् अनित्य इति गवेषिष्यन्ते, गन्धं दुःख इति गवेषिष्यन्ते, गन्धम् अनात्मेति गवेषिष्यन्ते, गन्धम् अशुभ इति गवेषिष्यन्ते, ते गन्धम् अनित्य इति गवेषमाणाः, गन्धं दुःख इति गवेषमाणाः, गन्धम् अनात्मेति गवेषमाणाः, गन्धम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
रसम् अनित्य इत्य् उपदेक्ष्यन्ति, रसं दुःख इत्य् उपदेक्ष्यन्ति, रसम् अनात्मेत्य् उपदेक्ष्यन्ति, रसम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रसम् अनित्य इति गवेषिष्यन्ते, रसं दुःख इति गवेषिष्यन्ते, रसम् अनात्मेति गवेषिष्यन्ते, रसम् अशुभ इति गवेषिष्यन्ते, ते रसम् अनित्य इति गवेषमाणाः, रसं दुःख इति गवेषमाणाः, रसम् अनात्मेति गवेषमाणाः, रसम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
स्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, स्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, स्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, स्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते स्पर्शम् अनित्य इति गवेषिष्यन्ते, स्पर्शं दुःख इति गवेषिष्यन्ते, स्पर्शम् अनात्मेति गवेषिष्यन्ते, स्पर्शम् अशुभ इति (Śस्P_II-४_१८९) गवेषिष्यन्ते, ते स्पर्शम् अनित्य इति गवेषमाणाः, स्पर्शं दुःख इति गवेषमाणाः, स्पर्शम् अनात्मेति गवेषमाणाः, स्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
धर्मान् अनित्या इत्य् उपदेक्ष्यन्ति, धर्मान् दुःखा इत्य् उपदेक्ष्यन्ति, धर्मान् अनात्मान इत्य् उपदेक्ष्यन्ति, धर्मान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते धर्मान् अनित्या इति गवेषिष्यन्ते, धर्मान् दुःखा इति गवेषिष्यन्ते, धर्मान् अनात्मान इति गवेषिष्यन्ते, धर्मान् अशुभा इति गवेषिष्यन्ते, ते धर्मान् अनित्या इति गवेषमाणाः, धर्मान् दुःखा इति गवेषमाणाः, धर्मान् अनात्मान इति गवेषमाणाः, धर्मान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
चक्षुर्विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुर्विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, चक्षुर्विज्ञानं दुःखम् इति गवेषिष्यन्ते, चक्षुर्विज्ञानम् अनात्मेति गवेषिष्यन्ते, चक्षुर्विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते चक्षुर्विज्ञानम् अनित्यम् इति गवेषमाणाः, चक्षुर्विज्ञानं दुःखम् इति गवेषमाणाः, चक्षुर्विज्ञानम् अनात्मेति गवेषमाणाः, चक्षुर्विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
श्रोत्रविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, श्रोत्रविज्ञानं दुःखम् इति गवेषिष्यन्ते, श्रोत्रविज्ञानम् अनात्मेति गवेषिष्यन्ते, श्रोत्रविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते श्रोत्रविज्ञानम् अनित्यम् इति गवेषमाणाः, श्रोत्रविज्ञानं दुःखम् इति गवेषमाणाः, श्रोत्रविज्ञानम् अनात्मेति गवेषमाणाः, श्रोत्रविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
घ्राणविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, घ्राणविज्ञानं दुःखम् इति गवेषिष्यन्ते, घ्राणविज्ञानम् (Śस्P_II-४_१९०) अनात्मेति गवेषिष्यन्ते, घ्राणविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते घ्राणविज्ञानम् अनित्यम् इति गवेषमाणाः, घ्राणविज्ञानं दुःखम् इति गवेषमाणाः, घ्राणविज्ञानम् अनात्मेति गवेषमाणाः, घ्राणविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
जिह्वाविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वाविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, जिह्वाविज्ञानं दुःखम् इति गवेषिष्यन्ते, जिह्वाविज्ञानम् अनात्मेति गवेषिष्यन्ते, जिह्वाविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते जिह्वाविज्ञानम् अनित्यम् इति गवेषमाणाः, जिह्वाविज्ञानं दुःखम् इति गवेषमाणाः, जिह्वाविज्ञानम् अनात्मेति गवेषमाणाः, जिह्वाविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
कयविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, कयविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, कायविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, कायविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, कायविज्ञानं दुःखम् इति गवेषिष्यन्ते, कायविज्ञानम् अनात्मेति गवेषिष्यन्ते, कायविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते कायविज्ञानम् अनित्यम् इति गवेषमाणाः, कायविज्ञानं दुःखम् इति गवेषमाणाः, कायविज्ञानम् अनात्मेति गवेषमाणाः, कायविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकयां चरिष्यन्ति,
SK
मनोविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, मनोविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, मनोविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, मनोविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति. ते मनोविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, मनोविज्ञानं दुःखम् इति गवेषिष्यन्ते, मनोविज्ञानम् अनात्मेति गवेषिष्यन्ते, मनोविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते मनोविज्ञानम् अनित्यम् इति गवेषमाणाः, मनोविज्ञानं दुःखम् इति गवेषमाणाः, मनोविज्ञानम् अनात्मेति गवेषमाणाः, मनोविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
चक्षुःसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स (Śस्P_II-४_१९१) प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुःसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, चक्षुःसंस्पर्शं दुःख इति गवेषिष्यन्ते, चक्षुःसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, चक्षुःसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते चक्षुःसंस्पर्शम् अनित्य इति गवेषमाणाः, चक्षुःसंस्पर्शं दुःख इति गवेषमाणाः, चक्षुःसंस्पर्शम् अनात्मेति गवेषमाणाः, चक्षुःसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
श्रोत्रसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, श्रोत्रसंस्पर्शं दुःख इति गवेषिष्यन्ते, श्रोत्रसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते श्रोत्रसंस्पर्शम् अनित्य इति गवेषमाणाः, श्रोत्रसंस्पर्शं दुःख इति गवेषमाणाः, श्रोत्रसंस्पर्शम् अनात्मेति गवेषमाणाः, श्रोत्रसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
घ्राणसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, घ्राणसंस्पर्शं दुःख इति गवेषिष्यन्ते, घ्राणसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, घ्राणसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते घ्राणसंस्पर्शम् अनित्य इति गवेषमाणाः, घ्राणसंस्पर्शं दुःख इति गवेषमाणाः, घ्राणसंस्पर्शम् अनात्मेति गवेषमाणाः, घ्राणसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
जिह्वासंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, जिह्वासंस्पर्शं दुःख इति गवेषिष्यन्ते, जिह्वासंस्पर्शम् अनात्मेति गवेषिष्यन्ते, जिह्वासंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते जिह्वासंस्पर्शम् अनित्य इति गवेषमाणाः, जिह्वासंस्पर्शं दुःख इति गवेषमाणाः, जिह्वासंस्पर्शम् अनात्मेति गवेषमाणाः, जिह्वासंस्पर्शम् अशुभ (Śस्P_II-४_१९२) इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
कायसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, कायसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, कायसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, कायसंस्पर्शं दुःख इति गवेषिष्यन्ते, कायसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, कायसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते कायसंस्पर्शम् अनित्य इति गवेषमाणाः, कायसंस्पर्शं दुःख इति गवेषमाणाः, कायसंस्पर्शम् अनात्मेति गवेषमाणाः, कायसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
मनःसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनःसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, मनःसंस्पर्शं दुःख इति गवेषिष्यन्ते, मनःसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, मनःसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते मनःसंस्पर्शम् अनित्य इति गवेषमाणाः, मनःसंस्पर्शं दुःख इति गवेषमाणाः, मनःसंस्पर्शम् अनात्मेति गवेषमाणाः, मनःसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
चक्षुःसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुःसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते चक्षुःसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकयां चरिष्यन्ति,
SK
श्रोत्रसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च (Śस्P_II-४_१९३) वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते श्रोत्रसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
घ्राणसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते घ्राणसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, घ्राणसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, घ्राणसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, घ्राणसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
जिह्वासंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वासंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते जिह्वासंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, ज्म्वासंस्पर्शजावेदनां दुःखेति गवेषमाणाः, जिह्वासंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, जिह्वासंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
कायसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, कायसंस्पर्शजावेदनां (Śस्P_II-४_१९४) दुःखेति गवेषिष्यन्ते, कायसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, कायसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते कायसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, कायसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, कायसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, कायसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
मनःसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनःसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते मनःसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, मनःसंस्पर्शजावेदनं दुःखेति गवेषमाणाः, मनःसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, मनःसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
[K. २१६अ१७, N. ४४३ब्४, T. ३५२अ३, P. १९ब्७, Cह्. ७४१ब्२ ]. पृथिवीधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, पृथिवीधातुं दुःख इत्य् उपदेक्ष्यन्ति, पृथिवीधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, पृथिवीधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते पृथिवीधतुम् अनित्य इति गवेषिष्यन्ते, पृथिवीधातुं दुःख इति गवेषिष्यन्ते, पृथिवीधातुम् अनात्मेति गवेषिष्यन्ते, पृथिवीधातुम् अशुभ इति गवेषिष्यन्ते, ते पृथिवीधातुम् अनित्य इति गवेषमाणाः, पृथिवीधातुं दुःख इति गवेषमाणाः, पृथिवीधातुम् अनात्मेति गवेषमाणाः, पृथिवीधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अब्धातुम् अनित्य इत्य् उपदेक्ष्यन्ति, अब्धातुं दुःख इत्य् उपदेक्ष्यन्ति, अब्धातुम् अनात्मेत्य् उपदेक्ष्यन्ति, अब्धातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अब्धातुम् अनित्य इति गवेषिष्यन्ते, अब्धतुं दुःख इति गवेषिष्यन्ते, अब्धातुम् अनात्मेति गवेषिष्यन्ते, अब्धातुम् अशुभ इति गवेषिष्यन्ते, ते अब्धातुम् अनित्य इति गवेषमाणाः, अब्धातुं दुःख इति गवेषमाणाः, अब्धातुम् अनात्मेति गवेषमाणाः, अब्धातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
तेजोधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, तेजोधातुं दुःख इत्य् उपदेक्ष्यन्ति, तेजोधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, तेजोधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते तेजोधातुम् अनित्य इति गवेषिष्यन्ते, तेजोधातुं दुःख इति गवेषिष्यन्ते, तेजोधातुम् अनात्मेति गवेषिष्यन्ते, तेजोधातुम् अशुभ इति गवेषिष्यन्ते, ते तेजोधातुम् अनित्य इति गवेषमाणाः, तेजोधातुं दुःख इति गवेषमाणाः, तेजोधातुम् अनात्मेति गवेषमाणाः, तेजोधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
वायुधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, वायुधातुं दुःख इत्य् उपदेक्ष्यन्ति, वायुधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, वायुधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते वायुधातुम् अनित्य इति गवेषिष्यन्ते, वायुधातुं दुःख इति गवेषिष्यन्ते, वायुधातुम् अनात्मेति गवेषिष्यन्ते, वायुधातुम् अशुभ इति गवेषिष्यन्ते, ते वायुधातुम् अनित्य इति गवेषमाणाः, वायुधातुं दुःख इति गवेषमाणाः, वायुधातुम् अनात्मेति गवेषमाणाः, वायुधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
आकाशधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, आकाशधातुं दुःख इत्य् उपदेक्ष्यन्ति, आकाशधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, आकाशधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आकाशधातुम् अनित्य इति गवेषिष्यन्ते, आकाशधातुं दुःख इति गवेषिष्यन्ते, आकाशधातुम् अनात्मेति गवेषिष्यन्ते, आकाशधातुम् अशुभ इति गवेषिष्यन्ते, ते आकाशधातुम् अनित्य इति गवेषमाणाः, आकाशधातुं दुःख इति गवेषमाणाः, आकाशधातुम् अनात्मेति गवेषमाणाः, आकाशधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
विज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, विज्ञानधतुं दुःख इत्य् उपदेक्ष्यन्ति, विज्ञानधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानधातुम् अनित्य इति गवेषिष्यन्ते, विज्ञानधातुं दुःख इति गवेषिष्यन्ते, विज्ञानधातुम् अनात्मेति गवेषिष्यन्ते, विज्ञानधातुम् अशुभ इति गवेषिष्यन्ते, ते विज्ञानधातुम् अनित्य इति गवेषमाणाः, विज्ञानधातुं दुःख इति गवेषमाणाः, विज्ञानधातुम् अनात्मेति गवेषमाणाः, विज्ञानधातुम् अशुभ इति गवेषमाणाः प्रमपारमिताप्रतिवर्णिकायां (Śस्P_II-४_१९६) चरिष्यन्ति.
SK
अविद्याम् अनित्येत्य् उपदेक्ष्यन्ति, अविद्यां दुःखेत्य् उपदेक्ष्यन्ति, अविद्याम् अनात्मेत्य् उपदेक्ष्यन्ति, अविद्याम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते ऽविद्याम् अनित्येति गवेषिष्यन्ते, अविद्यां दुःखेति गवेषिष्यन्ते, अविद्याम् अनात्मेति गवेषिष्यन्ते, अविद्याम् अशुभेति गवेषिष्यन्ते, ते ऽविद्याम् अनित्येति गवेषमाणाः, अविद्यां दुःखेति गवेषमाणाः, अविद्याम् अनात्मेति गवेषमाणाः अविद्याम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
संस्कारान् अनित्या इत्य् उपदेक्ष्यन्ति, संस्करान् दुःखा इत्य् उपदेक्ष्यन्ति, संस्कारान् अनात्मान इत्य् उपदेक्ष्यन्ति, संस्कारान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति, य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते संस्कारान् अनित्य इति गवेषिष्यन्ते, संस्कारान् दुःखा इति गवेषिष्यन्ते, संस्कारान् अनात्मान ति गवेषिष्यन्ते, संस्कारान् असुभा इति गवेषिष्यन्ते, ते संस्कारान् अनित्य इति गवेषमाणाः, संस्कारान् दुःखा इति गवेषमाणाः, संस्कारान् अनात्मान इति गवेषमाणाः संस्कारान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, विज्ञानं दुःखम् इति गवेषिष्यन्ते, विज्ञानम् अनात्मेति गवेषिष्यन्ते, विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते विज्ञानम् अनित्यम् इति गवेषमाणाः, विज्ञानं दुःखम् इति गवेषमाणाः, विज्ञानम् अनात्मेति गवेषमाणाः, विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
नामरूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, नामरूपं दुःखम् इत्य् उपदेक्ष्यन्ति, नामरूपम् अनात्मेत्य् उपदेक्ष्यन्ति, नामरूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते नामरूपम् अनित्यम् इति गवेषिष्यन्ते, नामरूपं दुःखम् इति गवेषिष्यन्ते, नामरूपम् अनात्मेति गवेषिष्यन्ते, नामरूपम् अशुभम् इति गवेषिष्यन्ते, ते नामरूपम् अनित्यम् इति गवेषमाणाः, नामरूपं दुःखम् इति गवेषमाणाः, नामरूपम् अनात्मेति गवेषमाणाः, नामरूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
षडायतनम् अनित्यम् इत्य् उपदेक्ष्यन्ति, षडायतनं दुःखम् इत्य् उपदेक्ष्यन्ति, षडायतनम् अनात्मेत्य् उपदेक्ष्यन्ति, षडायतनम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते षडायतनम् अनित्यम् इति गवेषिष्यन्ते, षडायतनं दुःखम् इति गवेषिष्यन्ते, षडायतनम् अनात्मेति गवेषिष्यन्ते, षडायतनम् अशुभम् इति गवेषिष्यन्ते, ते षडायतनम् अनित्यम् इति गवेषमाणाः, षडायतनं दुःखम् इति गवेषमाणाः, षडायतनम् अनात्मेति गवेषमाणाः, षडायतनम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
स्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, स्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, स्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, स्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्पर्शम् अनित्य इति गवेषिष्यन्ते, स्पर्शं दुःख इति गवेषिष्यन्ते, स्पर्शम् अनात्मेति गवेषिष्यन्ते, स्पर्शम् अशुभ इति गवेषिष्यन्ते, ते स्पर्शम् अनित्य इति गवेषमाणाः, स्पर्शं दुःख इति गवेषमाणाः, स्पर्शम् अनात्मेति गवेषमाणाः, स्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
वेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, वेदनां दुःखेत्य् उपदेक्ष्यन्ति, वेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, वेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते वेदनाम् अनित्येति गवेषिष्यन्ते, वेदनां दुःखेति गवेषिष्यन्ते, वेदनाम् अनात्मेति गवेषिष्यन्ते, वेदनाम् अशुभेति गवेषिष्यन्ते, ते वेदनाम् अनित्येति गवेषमाणाः, वेदनां दुःखेति गवेषमाणाः, वेदनाम् अनात्मेति गवेषमाणाः वेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
तृष्णाम् अनित्येत्य् उपदेक्ष्यन्ति, तृष्णां दुःखेत्य् उपदेक्ष्यन्ति, तृष्णाम् अनात्मेत्य् उपदेक्ष्यन्ति, तृस्णाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते तृष्णाम् अनित्येति गवेषिष्यन्ते, तृष्णां दुःखेति गवेषिष्यन्ते, तृष्णाम् अनात्मेति गवेषिष्यन्ते, तृष्णाम् अशुभेति गवेषिष्यन्ते, ते तृष्णाम् अनित्येति गवेषमाणाः, तृष्णां दुःखेति गवेषमाणाः, तृष्णाम् अनात्मेति गवेषमाणाः तृष्णाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
उपादानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, उपादानं दुःखम् इत्य् उपदेक्ष्यन्ति, उपादानम् अनात्मेत्य् उपदेक्ष्यन्ति, उपादानम् अशुभम् इत्य् (Śस्P_II-४_१९८) उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते उपादानम् अनित्यम् इति गवेषिष्यन्ते, उपादानं दुःखम् इति गवेषिष्यन्ते, उपादानम् अनात्मेति गवेषिष्यन्ते, उपादानम् अशुभम् इति गवेषिष्यन्ते, ते उपादानम् अनित्यम् इति गवेषमाणाः, उपादानं दुःखम् इति गवेषमाणाः, उपादानम् अनात्मेति गवेषमाणाः, उपादानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
भवम् अनित्य इत्य् उपदेक्ष्यन्ति, भवं दुःख इत्य् उपदेक्ष्यन्ति, भवम् अनात्मेत्य् उपदेक्ष्यन्ति, भवम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते भवम् अनित्य इति गवेषिष्यन्ते, भवं दुःख इति गवेषिष्यन्ते, भवम् अनात्मेति गवेषिष्यन्ते, भवम् अशुभ इति गवेषिष्यन्ते, ते भवम् अनित्य इति गवेषमाणाः, भवं दुःख इति गवेषमाणाः, भवम् अनात्मेति गवेषमाणाः, भवम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
जातिम् अनित्येत्य् उपदेक्ष्यन्ति, जातिं दुःखेत्य् उपदेक्ष्यन्ति, जातिम् अनात्मेत्य् उपदेक्ष्यन्ति, जातिम् अशुभेत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते जातिम् अनित्येति गवेषिष्यन्ते, जातिं दुःखेति गवेषिष्यन्ते, जातिम् अनात्मेति गवेषिष्यन्ते, जातिम् अशुभेति गवेषिष्यन्ते, ते जातिम् अनित्येति गवेषमाणाः, जातिं दुःखेति गवेषमाणाः, जातिम् अनात्मेति गवेषमाणाः जातिम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
जरामरणम् अनित्यम् इत्य् उपदेक्ष्यन्ति, जरामरणं दुःखम् इत्य् उपदेक्ष्यन्ति, जरामरणम् अनात्मेत्य् उपदेक्ष्यन्ति, जरामरणम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जरामरणम् अनित्यम् इति गवेषिष्यन्ते, जरामरणं दुःखम् इति गवेषिष्यन्ते, जरामरणम् अनात्मेति गवेषिष्यन्ते, जरामरणम् अशुभम् इति गवेषिष्यन्ते, ते जरामरणम् अनित्यम् इति गवेषमाणाः, जरामरणं दुःखम् इति गवेषमाणाः, जरामरणम् अनात्मेति गवेषमाणाः, जरामरणम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
[K. २१७अ२१, N. ४४६अ९, T. ३५४अ३, P. २३ब्८, Cह्. ७४१च्२२] दानपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, दनपारमितां दुःखेत्य् उपदेक्ष्यन्ति, दानपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, दानपारमिताम् (Śस्P_II-४_१९९) अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, दानपारमिताम् अनित्येति गवेषिष्यन्ते, दानपारमितां दुःखेति गवेषिष्यन्ते, दानपारमिताम् अनात्मेति गवेषिष्यन्ते, दानपारमिताम् अशुभेति गवेषिष्यन्ते, दानपारमिताम् अनित्येति गवेषमाणाः, दानपारमितां दुःखेति गवेषमाणाः, दानपारमिताम् अनात्मेति गवेषमाणाः दानपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
शीलपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, शीलपारमितां दुःखेत्य् उपदेक्ष्यन्ति, शीलपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, शीलपारमिताम् अशुभेत्य् इ उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, शीलपारमिताम् अनित्येति गवेषिष्यन्ते, शीलपारमितां दुःखेति गवेषिष्यन्ते, शीलपारमिताम् अनात्मेति गवेषिष्यन्ते, शीलपारमिताम् अशुभेति गवेषिष्यन्ते, ते शीलपारमिताम् अनित्येति गवेषमाणाः, शीलपारमितां दुःखेति गवेषमाणाः, शीलपारमिताम् अनात्मेति गवेषमाणाः शीलपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
क्षान्तिपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, क्षान्तिपारमितां दुःखेत्य् उपदेक्ष्यन्ति, क्षान्तिपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, क्षान्तिपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, क्षान्तिपारमिताम् अनित्येति गवेषिष्यन्ते, क्षान्तिपारमितां दुःखेति गवेषिष्यन्ते, क्षान्तिपारमिताम् अनात्मेति गवेषिष्यन्ते, क्षान्तिपारमिताम् अशुभेति गवेषिष्यन्ते, ते क्षान्तिपारमिताम् अनित्येति गवेषमाणाः, क्षान्तिपारमितां दुःखेति गवेषमाणाः, क्षान्तिपारमिताम् अनात्मेति गवेषमाणाः क्षान्तिपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
वीर्यपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, वीर्यपारमितां दुःखेत्य् उपदेक्ष्यन्ति, वीर्यपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, वीर्यपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, वीर्यपारमिताम् अनित्येति गवेषिष्यन्ते, वीर्यपारमितां दुःखेति गवेषिष्यन्ते, वीर्यपारमिताम् अनात्मेति गवेषिष्यन्ते, वीर्यपारमिताम् अशुभेति गवेषिष्यन्ते, ते वीर्यपारमिताम् अनित्येति गवेषमाणाः, वीर्यपारमितां दुःखेति गवेषमाणाः, वीर्यपारमिताम् अनात्मेति गवेषमाणाः वीर्यपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतियर्णिकायां चरिष्यन्ति,
SK
ध्यानपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, ध्यानपारमितां दुःखेत्य् उपदेक्ष्यन्ति, ध्यानपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, ध्यानपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ध्यानपारमिताम् अनित्येति गवेषिष्यन्ते, ध्यानपारमितां दुःखेति गवेषिष्यन्ते, ध्यानपारमिताम् अनात्मेति गवेषिष्यन्ते, ध्यानपारमिताम् अशुभेति गवेषिष्यन्ते, ते ध्यानपारमिताम् अनित्येति गवेषमाणाः, ध्यानपारमितां दुःखेति गवेषमाणाः, ध्यानपारमिताम् अनात्मेति गवेषमाणाः ध्यानपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
प्रज्ञापारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, प्रज्ञापारमितां दुःखेत्य् उपदेक्ष्यन्ति, प्रज्ञापारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रज्ञापारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, प्रज्ञापारमिताम् अनित्येति गवेषिष्यन्ते, प्रज्ञापारमितां दुःखेति गवेषिष्यन्ते, प्रज्ञापारमिताम् अनात्मेति गवेषिष्यन्ते, प्रज्ञापारमिताम् अशुभेति गवेषिष्यन्ते, ते प्रज्ञापारमिताम् अनित्येति गवेषमाणाः, प्रज्ञापारमितां दुःखेति गवेषमाणाः, प्रज्ञापारमिताम् अनात्मेति गवेषमाणाः प्रज्ञापारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
[K. २१७ब्१९, N. ४४६ब्३, T. ३५४ब्९, P. २५ब्४, Cह्. ७४२अ२२] अध्यात्मशून्यताम् अनित्येति गवेषिष्यते, अध्यात्मशून्यतां दुःखेति गवेषिष्यते, अध्यात्मशून्यताम् अनात्मेति गवेषिष्यते, अध्यात्मशून्यताम् अशुभेति गवेषिष्यते. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अध्यात्मशून्यताम् अनित्येति गवेषिष्यन्ते, अध्यात्मशून्यतां दुःखेति गवेषिष्यन्ते, अध्यात्मशून्यताम् अनात्मेति गवेषिष्यन्ते, अध्यात्मशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽध्यात्मशून्यताम् अनित्येति गवेषमाणाः, अध्यात्मशून्यतां दुःखेति गवेषमाणाः, अध्यात्मशून्यताम् अनात्मेति गवेषमाणाः अध्यात्मशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
बहिर्धाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषं चोपदेक्ष्यन्ति, बहिर्धाशून्यताम् अनित्येति गवेषिष्यन्ते, बहिर्धाशून्यतां दुःखेति गवेषिष्यन्ते, बहिर्धाशून्यताम् अनात्मेति गवेषिष्यन्ते, बहिर्धाशून्यताम् अशुभेति गवेषिष्यन्ते, ते (Śस्P_II-४_२०१) बहिर्धाशून्यताम् अनित्येति गवेषमाणाः, बहिर्धाशून्यतां दुःखेति गवेषमाणाः, बहिर्धाशून्यताम् अनात्मेति गवेषमाणाः बहिर्धाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अध्यात्मबहिर्धाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति. अध्यात्मबहिर्धाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अनित्येति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यतां दुःखेति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यताम् अनात्मेति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽध्यात्मबहिर्धाशून्यताम् अनित्येति गवेषमाणाः, अध्यात्मबहिर्धाशून्यतां दुःखेति गवेषमाणाः, अध्यात्मबहिर्धाशून्यताम् अनात्मेति गवेषमाणाः अध्यात्मबहिर्धाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
शून्यताशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, शून्यताशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, शून्यताशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, शून्यताशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, शून्यताशून्यताम् अनित्येति गवेषिष्यन्ते, शून्यताशून्यतां दुःखेति गवेषिष्यन्ते, शून्यताशून्यताम् अनात्मेति गवेषिष्यन्ते, शून्यताशून्यताम् अशुभेति गवेषिष्यन्ते, ते शून्यताशून्यताम् अनित्येति गवेषमाणाः, शून्यताशून्यतां दुःखेति गवेषमाणाः, शून्यताशून्यताम् अनात्मेति गवेषमाणाः शून्यताशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
महाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, महाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, महाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, महाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, महाशून्यताम् अनित्येति गवेषिष्यन्ते, महाशून्यतां दुःखेति गवेषिष्यन्ते, महाशून्यताम् अनात्मेति गवेषिष्यन्ते, महाशून्यताम् अशुभेति गवेषिष्यन्ते, ते महाशून्यताम् अनित्येति गवेषमाणाः, महाशून्यतां दुःखेति गवेषमाणाः, महाशून्यताम् अनात्मेति गवेषमाणाः महाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
परमार्थशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, परमार्थशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, परमार्थशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, परमार्थशून्यताम् (Śस्P_II-४_२०२) अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, परमार्थशून्यताम् अनित्येति गवेषिष्यन्ते, परमार्थशून्यतां दुःखेति गवेषिष्यन्ते, परमार्थशून्यताम् अनात्मेति गवेषिष्यन्ते, परमार्थशून्यताम् अशुभेति गवेषिष्यन्ते, ते परमार्थशून्यताम् अनित्येति गवेषमाणाः, परमार्थशून्यतां दुःखेति गवेषमाणाः, परमार्थशून्यताम् अनात्मेति गवेषमाणाः परमार्थशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
संस्कृतशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, संस्कृतशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, संस्कृतशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, संस्कृतशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, संस्कृतशून्यताम् अनित्येति गवेषिष्यन्ते, संस्कृतशून्यतां दुःखेति गवेषिष्यन्ते, संस्कृतशून्यताम् अनात्मेति गवेषिष्यन्ते, संस्कृतशून्यताम् अशुभेति गवेषिष्यन्ते, ते संस्कृतशून्यताम् अनित्येति गवेषमाणाः, संस्कृतशून्यतां दुःखेति गवेषमाणाः, संकृतशून्यताम् अनात्मेति गवेषमाणाः संस्कृतशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
असंस्कृतशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति, येषां चोपदेक्ष्यन्ति, असंस्कृतशून्यताम् अनित्येति गवेषिष्यन्ते, असंस्कृतशून्यतां दुःखेति गवेषिष्यन्ते, असंस्कृतशून्यताम् अनात्मेति गवेषिष्यन्ते, असंस्कृतशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽसंस्कृतशून्यताम् अनित्येति गवेषमाणाः, असंस्कृतशून्यतां दुःखेति गवेषमाणाः, असंस्कृतशून्यताम् अनात्मेति गवेषमाणाः असंस्कृतशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अत्यन्तशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अत्यन्तशून्यताम् अनित्येति गवेषिष्यन्ते, अत्यन्तशून्यतां दुःखेति गवेषिष्यन्ते, अत्यन्तशून्यताम् अनात्मेति गवेषिष्यन्ते, अत्यन्तशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽत्यन्तशून्यताम् अनित्येति गवेषमाणाः, अत्यन्तशून्यतां दुःखेति गवेषमाणाः, (Śस्P_II-४_२०३) अत्यन्तशून्यताम् अनात्मेति गवेषमाणाः अत्यन्तशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अनवराग्रशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनवराग्रशून्यताम् अनित्येति गवेषिष्यन्ते, अनवराग्रशून्यतां दुःखेति गवेषिष्यन्ते, अनवराग्रशून्यताम् अनात्मेति गवेषिष्यन्ते, अनवराग्रशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनवराग्रशून्यताम् अनित्येति गवेषमाणाः, अनवराग्रशून्यतां दुःखेति गवेषमाणाः, अनवराग्रशून्यताम् अनात्मेति गवेषमाणाः अनवराग्रशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अनवकारशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनवकारशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनवकारशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनवकारशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनवकारशून्यताम् अनित्येति गवेषिष्यन्ते, अनवकारशून्यतां दुःखेति गवेषिष्यन्ते, अनवकारशून्यताम् अनात्मेति गवेषिष्यन्ते, अनवकारशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनवकारशून्यताम् अनित्येति गवेषमाणाः, अनवकारशून्यतां दुःखेति गवेषमाणाः, अनवकारशून्यताम् अनात्मेति गवेषमाणाः अनवकारशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
प्रकृतिशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, प्रकृतिशून्यताम् अनित्येति गवेषिष्यन्ते, प्रकृतिशून्यतां दुःखेति गवेषिष्यन्ते, प्रकृतिशून्यताम् अनात्मेति गवेषिष्यन्ते, प्रकृतिशून्यताम् अशुभेति गवेषिष्यन्ते, ते प्रकृतिशून्यताम् अनित्येति गवेषमाणाः, प्रकृतिशून्यतां दुःखेति गवेषमाणाः, प्रकृतिशून्यताम् अनात्मेति गवेषमाणाः प्रकृतिशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
सर्वधर्मशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं (Śस्P_II-४_२०४) चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अनित्येति गवेषिष्यन्ते, सर्वधर्मशून्यतां दुःखेति गवेषिष्यन्ते, सर्वधर्मशून्यताम् अनात्मेति गवेषिष्यन्ते, सर्वधर्मशून्यताम् अशुभेति गवेषिष्यन्ते, ते सर्वधर्मशून्यताम् अनित्येति गवेषमाणाः, सर्वधर्मशून्यतां दुःखेति गवेषमाणाः, सर्वधर्मशून्यतां अनात्मेति गवेषमाणाः सर्वधर्मशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
स्वलक्षणशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति, येषां चोपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अनित्येति गवेषिष्यन्ते, स्वलक्षणशून्यतां दुःखेति गवेषिष्यन्ते, स्वलक्षणशून्यताम् अनात्मेति गवेषिष्यन्ते, स्वलक्षणशून्यताम् अशुभेति गवेषिष्यन्ते, ते स्वलक्षणशून्यताम् अनित्येति गवेषमाणाः, स्वलक्षणशून्यतां दुःखेति गवेषमाणाः, स्वलक्षणशून्यताम् अनात्मेति गवेषमाणाः स्वलक्षणशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अनुपलम्भशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अनित्येति गवेषिष्यन्ते, अनुपलम्भशून्यतां दुःखेति गवेषिष्यन्ते, अनुपलम्भसून्यताम् अनात्मेति गवेषिष्यन्ते, अनुपलम्भशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनुपलम्भशून्यताम् अनित्येति गवेषमाणाः, अनुपलम्भशून्यतां दुःखेति गवेषमाणाः, अनुपलम्भशून्यताम् अनात्मेति गवेषमाणाः अनुपलम्भसून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अभावशून्यताम् अनित्येति गवेषिष्यन्ते, अभावशून्यतां दुःखेति गवेषिष्यन्ते, अभावशून्यताम् अनात्मेति गवेषिष्यन्ते, अभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽभवशून्यताम् अनित्येति गवेषमाणाः, अभावशून्यतां दुःखेति गवेषमाणाः, (Śस्P_II-४_२०५) अभावशून्यताम् अनात्मेति गवेषमाणाः अभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
स्वभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, स्वभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, स्वभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, स्वभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, स्वभावशून्यताम् अनित्येति गवेषिष्यन्ते, स्वभावशून्यतां दुःखेति गवेषिष्यन्ते, स्वभावशून्यताम् अनात्मेति गवेषिष्यन्ते, स्वभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते स्वभावशून्यताम् अनित्येति गवेषमाणाः, स्वभावशून्यतां दुःखेति गवेषमाणाः, स्वभावशून्यताम् अनात्मेति गवेषमाणाः स्वभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अभावस्वभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अनित्येति गवेषिष्यन्ते, अभावस्वभावशून्यतां दुःखेति गवेषिष्यन्ते, अभावस्वभावशून्यताम् अनात्मेति गवेषिष्यन्ते, अभावस्वभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽभावस्वभावशून्यताम् अनित्येति गवेषमाणाः, अभावस्वभावशून्यतां दुःखेति गवेषमाणाः, अभावस्वभावशून्यताम् अनात्मेति गवेषमाणाः अभावस्वभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
SK
[K. २१९अ१२, N. ४४६ब्६, T. ३५७अ५, P. ३०अ८, Cह्. ७४३च्२०] स्मृत्युपस्थानान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानानि दुःखानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्मृत्युपस्थानान्य् अनित्यानीति गवेषिष्यन्ते, स्मृत्युपस्थानानि दुःखानीति गवेषिष्यन्ते, स्मृत्युपस्थानान्य् अनात्मानीति गवेषिष्यन्ते, स्मृत्युपस्थानान्य् अशुभानीति गवेषिष्यन्ते, ते स्मृत्युपस्थानान्य् अनित्यानीति गवेषमाणाः, स्मृत्युपस्थानानि दुःखानीति गवेषमाणाः, स्मृत्युपस्थानान्य् अनात्मनीति गवेषमाणाः, स्मृत्युपस्थानान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
सम्यक्प्रहाणान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, सम्यक्प्रहाणानि दुःखानीत्य् (Śस्P_II-४_२०६) उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते सम्यक्प्रहाणान्य् अनित्यानीति गवेषिष्यन्ते, सम्यक्प्रहाणानि दुःखानीति गवेषिष्यन्ते, सम्यक्प्रहाणान्य् अनात्मानीति गवेषिष्यन्ते, सम्यक्प्रहाणान्य् अशुभानीति गवेषिष्यन्ते, ते सम्यक्प्रहाणान्य् अनित्यानीति गवेषमाणाः, सम्यक्प्रहाणानि दुःखानीति गवेषमाणाः, सम्यक्प्रहाणान्य् अनात्मानीति गवेषमाणाः, सम्यक्प्रहाणान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
ऋद्धिपादान् अनित्या इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् दुःखा इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् अनात्मान इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ऋद्धिपादान् अनित्या इति गवेषिष्यन्ते, ऋद्धिपादाः दुःखा इति गवेषिष्यन्ते, ऋद्धिपादान् अनात्मान इति गवेषिष्यन्ते, रृद्धिपादान् अशुभा इति गवेषिष्यन्ते, ते ऋद्धिपादान् अनित्या इति गवेषमाणाः, ऋद्धिपादान् दुःखा इति गवेषमाणाः, ऋद्धिपादान् अनात्मान इति गवेषमाणाः, ऋद्धिपादान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
इन्द्रियाण्य् अनित्यानीत्य् उपदेक्ष्यन्ति, इन्द्रियाणि दुःखानीत्य् उपदेक्ष्यन्ति, इन्द्रियाण्य् अनात्मानीत्य् उपदेक्ष्यन्ति, इन्द्रियाण्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते इन्द्रियाण्य् अनित्यानीति गवेषिष्यन्ते, इन्द्रियाणि दुःखानीति गवेषिष्यन्ते, इन्द्रियाण्य् अनात्मानीति गवेषिष्यन्ते, इन्द्रियाण्य् अशुभानीति गवेषिष्यन्ते, ते इन्द्रियाण्य् अनित्यानीति गवेषमाणाः, इन्द्रियाणि दुःखानीति गवेषमाणाः, इन्द्रियाण्य् अनात्मानीति गवेषमाणाः, इन्द्रियाण्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
बलान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, बलानि दुःखानीत्य् उपदेक्ष्यन्ति, बलान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, बलान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते बलान्य् अनित्यानीति गवेषिष्यन्ते, बलानि दुःखानीति गवेषिष्यन्ते, बलान्य् अनात्मानीति गवेषिष्यन्ते, बलान्य् अशुभानीति गवेषिष्यन्ते, ते बलान्य् अनित्यानीति गवेषमाणाः, बलानि दुःखानीति गवेषमाणाः, बलान्य् अनात्मानीति गवेषमाणाः, बलान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
बोध्यङ्गान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, बोध्यङ्गानि दुःखानित्य् उपदेक्ष्यन्ति, बोध्यङ्गान्य् अनात्मानीत्य्, उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते बोध्यङ्गान्य् अनित्यानीति गवेषिष्यन्ते, बोध्यङ्गानि दुःखानीति गवेषिष्यन्ते, बोध्यङ्गान्य् अनात्मानीति गवेषिष्यन्ते, बोध्यङ्गान्य् अशुभानीति गवेषिष्यन्ते, ते बोध्यङ्गान्य् अनित्यानीति गवेषमाणाः, बोध्यङ्गानि दुःखानीति गवेषमाणाः, बोध्यङ्गान्य् अनात्मानीति गवेषमाणाः, बोध्यङ्गान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
आर्याष्टाङ्गमार्गम् अनित्य इत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गं दुःख इत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गम् अनात्मेत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आर्याष्टाङ्गमार्गम् अनित्य इति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गं दुःख इति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गम् अनात्मेति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गम् अशुभ इति गवेषिष्यन्ते, ते आर्याष्टाङ्गमार्गम् अनित्य इति गवेषमाणाः, आर्याष्टाङ्गमार्गं दुःख इति गवेषमाणाः, आर्याष्टाङ्गमार्गम् अनात्मेति गवेषमाणाः, आर्याष्टाङ्गमार्गम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
आर्यसत्यान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, आर्यसत्यानि दुःखानीत्य् उपदेक्ष्यन्ति, आर्यसत्यान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, आर्यसत्यान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आर्यसत्यान्य् अनित्यानीति गवेषिष्यन्ते, आर्यसत्यानि दुःखानीति गवेषिष्यन्ते, आर्यसत्यान्य् अनात्मनीति गवेषिष्यन्ते, आर्यसत्यान्य् अशुभानीति गवेषिष्यन्ते, ते आर्यसत्यान्य् अनित्यानीति गवेषमाणाः, आर्यसत्यानि दुःखानीति गवेषमाणाः, आर्यसत्यान्य् अनात्मानीति गवेषमाणाः, आर्यसत्यान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
ध्यानान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, ध्यानानि दुःखानीत्य् उपदेक्ष्यन्ति, ध्यानान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, ध्यानान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ध्यानान्य् अनित्यानीति गवेषिष्यन्ते, ध्यानानि दुःखानीति गवेषिष्यन्ते, ध्यानान्य् अनात्मानीति गवेषिष्यन्ते, ध्यानान्य् अशुभानीति गवेषिष्यन्ते, ते ध्यानान्य् अनित्यानीति गवेषमाणाः, ध्यानानि दुःखानीति (Śस्P_II-४_२०८) गवेषमाणाः, ध्यानान्य् अनात्मानीति गवेषमाणाः, ध्यानान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अप्रमाणान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, अप्रमाणानि दुःखानीत्य् उपदेक्ष्यन्ति, अप्रमाणान्य् अनात्मानित्य् उपदेक्ष्यन्ति, अप्रमाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ऽप्रमाणान्य् अनित्यानीति गवेषिष्यन्ते, अप्रमाणानि दुःखानीति गवेषिष्यन्ते, अप्रमाणान्य् अनात्मानीति गवेषिष्यन्ते, आर्यसत्यान्य् अशुभानीति गवेषिष्यन्ते, ते अप्रमाणान्य् अनित्यानीति गवेषमाणाः, अप्रमाणान्य् दुःखानीति गवेषमाणाः, अप्रमाणान्य् अनात्मानीति गवेषमाणाः, अप्रमाणान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
आरूप्यसमापत्तीर् अनित्या इत्य् उपदेक्ष्यन्ति, आरूप्यसमापत्तीर् दुःखा इत्य् उपदेक्ष्यन्ति, आरूप्यसमापत्तीर् अनात्मान इत्य् उपदेक्ष्यन्ति, आरुप्यसमापत्तीर् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, त आरूप्यसमापत्तीर् अनित्य इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् दुःखा इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् अनात्मान इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् अशुभा इति गवेषिष्यन्ते, ते आरुप्यसमापत्तीर् अनित्य इति गवेषमाणाः, आरूप्यसमापत्तीर् दुःखा इति गवेषमाणाः, आरूप्यसमापत्तीर् अनात्मान इति गवेषमाणाः, आरूप्यसमापत्तीर् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
विमोक्षान् अनित्या इत्य् उपदेक्ष्यन्ति, विमोक्षान् दुःखा इत्य् उपदेक्ष्यन्ति, विमोक्षान् अनात्मान इत्य् उपदेक्ष्यन्ति, विमोक्षान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विमोक्षान् अनित्य इति गवेषिष्यन्ते, विमोक्षान् दुःखा इति गवेषिष्यन्ते, विमोक्षान् अनात्मान इति गवेषिष्यन्ते, विमोक्षान् अशुभा इति गवेषिष्यन्ते, ते विमोक्षान् अनित्य इति गवेषमाणाः, विमोक्षान् दुःखा इति गवेषमाणाः, विमोक्षान् अनात्मान इति गवेषमाणाः, विमोक्षान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अनुपूर्वविहारसमापत्तीर् अनित्य इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् दुःखा इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् अनात्मान इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अनुपूर्वविहारसमापत्तीर् अनित्य इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् दुःखा इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् (Śस्P_II-४_२०९) अनात्मान इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् अशुभा इति गवेषिष्यन्ते, ते अनुपूर्वविहारसमापत्तीर् अनित्य इति गवेषमाणाः, अनुपूर्वविहारसमापत्तीर् दुःखा इति गवेषमाणाः, अनुपूर्वविहारसमापत्तीर् अनात्मान इति गवेषमाणाः, अनुपूर्वविहारसमापत्तिर् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभनित्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभानीति गवेषिष्यन्ते, ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् दुःखानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अभिज्ञा अनित्या इत्य् उपदेक्ष्यन्ति, अभिज्ञा दुःखा इत्य् उपदेक्ष्यन्ति, अभिज्ञा अनात्मान इत्य् उपदेक्ष्यन्ति, अभिज्ञा अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अभिज्ञा अनित्य इति गवेषिष्यन्ते, अभिज्ञा दुःखा इति गवेषिष्यन्ते, अभिज्ञा अनात्मान इति गवेषिष्यन्ते, अभिज्ञा अशुभा इति गवेषिष्यन्ते, ते अभिज्ञा अनित्य इति गवेषमाणाः, अभिज्ञा दुःखा इति गवेषमाणाः, अभिज्ञा अनात्मान इति गवेषमाणाः, अभिज्ञा अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
समाधीन् अनित्या इत्य् उपदेक्ष्यन्ति, समाधीन् दुःखा इत्य् उपदेक्ष्यन्ति, समाधीन् अनात्मान इत्य् उपदेक्ष्यन्ति, समाधीन् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते समाधीन् अनित्य इति गवेषिष्यन्ते, समाधीन् दुःखा इति गवेषिष्यन्ते, समाधीन् अनात्मान इति गवेषिष्यन्ते, समाधीन् अशुभा इति गवेषिष्यन्ते, ते समाधीन् अनित्य इति गवेषमाणाः, समाधीन् दुःखा इति गवेषमाणाः, समाधीन् अनात्मान इति गवेषमाणाः, समाधीन् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
धारणीमुखान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, धारणीमुखानि दुःखानीत्य् उपदेक्ष्यन्ति, धारणीमुखान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, धारणीमुखान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते धारणीमुखान्य् अनित्यानीति गवेषिष्यन्ते, धारणीमुखानि दुःखानीति गवेषिष्यन्ते, धारणीमुखान्य् अनात्मानीति गवेषिष्यन्ते, धारणीमुखान्य् अशुभानीति गवेषिष्यन्ते, ते धारणीमुखान्य् अनित्यानीति गवेषमाणाः, धारणीमुखानि दुःखानीति गवेषमाणाह्, धारणीमुखान्य् अनात्मानीति गवेषमाणाः, धारणीमुखान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
तथागतबलान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, तथागतबलानि दुःखानीत्य् उपदेक्ष्यन्ति, तथागतबलान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, तथागतबलान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते तथागतबलान्य् अनित्यानीति गवेषिष्यन्ते, तथागतबलानि दुःखानीति गवेषिष्यन्ते, तथागतबलान्य् अनात्मानीति गवेषिष्यन्ते, तथागतबलान्य् अशुभानीति गवेषिष्यन्ते, ते तथागतबलान्य् अनित्यानीति गवेषमाणाः, तथागतबलानि दुःखानीति गवेषमाणाः, तथागतबलान्य् अनात्मानीति गवेषमाणाः, तथागतबलान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
वैशारद्यान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, वैशारद्यानि दुःखानीत्य् उपदेक्ष्यन्ति, वैशारद्यान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, वैशारद्यान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते वैशारद्यान्य् अनित्यानीति गवेषिष्यन्ते, वैशारद्यानि दुःखानीति गवेषिष्यन्ते, वैशारद्यान्य् अनात्मानीति गवेषिष्यन्ते, वैशारद्यान्य् अशुभानीति गवेषिष्यन्ते, ते वैशारद्यान्य् अनित्यानीति गवेषमाणाः, वैशारद्यानि दुःखानीति गवेषमाणाः, वैशारद्यान्य् अनात्मानीति गवेषमाणाः, वैशारद्यान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
प्रतिसंविदो ऽनित्या इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो दुःखा इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो ऽनात्मान इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो ऽशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते प्रतिसंविदो ऽनित्या इति गवेषिष्यन्ते, प्रतिसंविदो दुःखा इति गवेषिष्यन्ते, प्रतिसंविदो ऽनात्मान इति गवेषिष्यन्ते, प्रतिसंविदो ऽशुब्बा इति गवेषिष्यन्ते, ते प्रतिसंविदो ऽनित्या इति गवेषमाणाः, प्रतिसंविदो दुःखा इति गवेषमाणाः, प्रतिसंविदो ऽनात्मान इति गवेषमाणाः, प्रतिसंविदो (Śस्P_II-४_२११) ऽशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
महाकरुणाम् अनित्येत्य् उपदेक्ष्यन्ति, महाकरुणां दुःखेत्य् उपदेक्ष्यन्ति, महाकरुणाम् अनात्मेत्य् उपदेक्ष्यन्ति, महाकरुणाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते महाकरुणाम् अनित्येति गवेषिष्यन्ते, महाकरुणां दुःखेति गवेषिष्यन्ते, महाकरुणाम् अनात्मेति गवेषिष्यन्ते, महाकरुणाम् अशुभेति गवेषिष्यन्ते, ते महाकरुणाम् अनित्येति गवेषमाणाः, महाकरुणां दुःखेति गवेषमाणाः, महाकरुणाम् अनात्मेति गवेषमाणाः, महाकरुणाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
आवेणिकबुद्धधर्मान् अनित्या इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् दुःखा इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् अनात्मान इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आवेणिकबुद्धधर्मान् अनित्य इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् दुःखा इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् अनात्मान इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् अशुभ इति गवेषिष्यन्ते, ते आवेणिकबुद्धधर्मान् अनित्य इति गवेषमाणाः, आवेणिकबुद्धधर्मान् दुःखा इति गवेषमाणाः, आवेणिकबुद्धधर्मान् अनात्मान इति गवेषमाणाः, आवेणिकबुद्धधर्मान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
स्रोतआपत्तिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्रोतआपत्तिफलम् अनित्यम् इति गवेषिष्यन्ते, स्रोतआपत्तिफलं दुःखम् इति गवेषिष्यन्ते, स्रोतआपत्तिफलम् अनात्मेति गवेषिष्यन्ते, स्रोतआपत्तिफलम् अशुभम् इति गवेषिष्यन्ते, ते स्रोतआपत्तिफलम् अनित्यम् इति गवेषमाणाः, स्रोतआपत्तिफलं दुःखम् इति गवेषमाणाः, स्रोतआपत्तिफलम् अनात्मेति गवेषमाणाः, स्रोतआपत्तिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
सकृदागामिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, सकृदागामिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, सकृदागामिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, सकृदागामिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति (Śस्P_II-४_२१२) स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते सकृदागामिफलम् अनित्यम् इति गवेषिष्यन्ते, सकृदागामिफलं दुःखम् इति गवेषिष्यन्ते, सकृदागामिफलम् अनात्मेति गवेषिष्यन्ते, सकृदागामिफलम् अशुभम् इति गवेषिष्यन्ते, ते सकृदागामिफलम् अनित्यम् इति गवेषमाणाः, सकृदागामिफलं दुःखम् इति गवेषमाणाः, सकृदागामिफलम् अनात्मेति गवेषमाणाः, सकृदागामिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अनागामिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, अनागामिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, अनागामिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, अनागामिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अनागामिफलम् अनित्यम् इति गवेषिष्यन्ते, अनागामिफलं दुःखम् इति गवेषिष्यन्ते, अनागामिफलम् अनात्मेति गवेषिष्यन्ते, अनागामिफलम् अशुभम् इति गवेषिष्यन्ते, ते अनागामिफलम् अनित्यम् इति गवेषमाणाः, अनागामिफलं दुःखम् इति गवेषमाणाः, अनागामिफलम् अनात्मेति गवेषमाणाः, अनागामिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
अर्हत्त्वम् अनित्यम् इत्य् उपदेक्ष्यन्ति, अर्हत्त्वं दुःखम् इत्य् उपदेक्ष्यन्ति, अर्हत्त्वम् अनात्मेत्य् उपदेक्ष्यन्ति, अर्हत्त्वम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अर्हत्त्वम् अनित्यम् इति गवेषिष्यन्ते, अर्हत्त्वं दुःखम् इति गवेषिष्यन्ते, अर्हत्त्वम् अनात्मेति गवेषिष्यन्ते, अर्हत्त्वम् अशुभम् इति गवेषिष्यन्ते, ते अर्हत्त्वम् अनित्यम् इति गवेषमाणाः, अर्हत्त्वं दुःखम् इति गवेषमाणाः, अर्हत्त्वम् अनात्मेति गवेषमाणाः, अर्हत्त्वम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
प्रत्येकबोधिम् अनित्येत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिं दुःखेत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते प्रत्येकबोधिम् अनित्येति गवेषिष्यन्ते, प्रत्येकबोधिं दुःखेति गवेषिष्यन्ते, प्रत्येकबोधिम् अनात्मेति गवेषिष्यन्ते, प्रत्येकबोधिम् अशुभेति गवेषिष्यन्ते, ते प्रत्येकबोधिम् अनित्येति गवेषमाणाः, प्रत्येकबोधिं दुःखेति गवेषमाणाः, प्रत्येकबोधिम् अनात्मेति गवेषमाणाः प्रत्येकबोधिम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
मार्गाकारज्ञताम् अनित्येत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञतां दुःखेत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञताम् अनात्मेत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते मार्गाकारज्ञताम् अनित्येति गवेषिष्यन्ते, मार्गाकारज्ञतां दुःखेति गवेषिष्यन्ते, मार्गाकारज्ञताम् अनात्मेति गवेषिष्यन्ते, मार्गाकारज्ञतां अशुभेति गवेषिष्यन्ते, ते मार्गाकारज्ञताम् अनित्येति गवेषमाणाः, मार्गाकारज्ञतां दुःखेति गवेषमाणाः, मार्गाकारज्ञताम् अनात्मेति गवेषमाणाः मार्गाकारज्ञताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
SK
सर्वाकारज्ञताम् अनित्येत्य्, उपदेक्ष्यन्ति, सर्वाकारज्ञतां दुःखेत्य् उपदेक्ष्यन्ति, सर्वाकारज्ञताम् अनात्मेत्य् उपदेक्ष्यन्ति, सर्वाकारज्ञताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते सर्वाकारज्ञताम् अनित्येति गवेषिष्यन्ते, सर्वाकारज्ञतां दुःखेति गवेषिस्यन्ते, सर्वाकारज्ञताम् अनात्मेति गवेषिष्यन्ते, सर्वाकारज्ञताम् अशुभेति गवेषिष्यन्ते, ते सर्वाकारज्ञताम् अनित्येति गवेषमाणाः, सर्वाकारज्ञतां दुःखेति गवेषमाणाः, सर्वाकारज्ञताम् अनात्मेति गवेषमाणाः सर्वाकारज्ञताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
SK
[K. २२१ब्३, N. ४४७अ४, T. ३६१अ१, P. ३८ब्१, Cह्. ७८७च्४] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् चैवं प्रज्ञापारमिताम् उपविशन्ति उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र ध्यानपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र वीर्यपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र क्षान्तिपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ (Śस्P_II-४_२१४) षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र शीलपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र दानपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि. तश् च निमित्तयोगेनोपलम्भयोगेन, स कालसंज्ञया प्रज्ञापारमितां भावयिष्यति. इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय सत्त्वं कुलपुत्र प्रज्ञाईपारमितां भावयन् श्रावकभूमिं समतिक्रमिष्यसि प्रत्येकबुद्धभूमिं समतिक्रमिष्यसि. इयं कौशिक सा प्रज्ञापारमिता प्रतिवर्णिका.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा प्रज्ञापारमिताम् उपदिशन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय सत्त्वं प्रज्ञापारमितां भावयन् बोधिसत्त्वन्यामम् अवक्रमिष्याम्य् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलप्स्यसे, सत्त्वम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलभ्य बोधिसत्त्वाभिज्ञासु स्थित्वा बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यसि तां तथागतार्हतः सम्यक्संबुद्धान् सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् नैवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, यः कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सो ऽप्रमेयम् असंख्येयम् अपरिमाणं पुण्यस्कन्धं प्रसविष्यति. एवम् उपदिशन्तस् तेषां कुलपुत्राणां कुलदुहितॄणां वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्रातीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां (Śस्P_II-४_२१५) सम्यक्संबुद्धानां यत् कुशलमूलं तत् प्रथमचित्तोत्पादम् उपादायः, यावद् अनुपाधिशेषां निर्वाणधातौ परिनिर्वृतां तत् सर्वम् अभिसंक्षिप्यानुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामय एवम् उपदिशन्तस् ते कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
[K. २२२अ२, N. ४४८अ५, T. ३६१ब्६, P. ३९ब्७, Cह्. ७८८च्१७] शक्र आह: कथम् उपदिशन्तो भगवंस् ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति?
SK
भगवान् आह: इह कौशिक कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रूपम् अनित्यम् इति समनुपश्यः. तत् कस्य हेतोः? रूपं स्वभावशून्यं यो रूपस्य स्वभावः सो ऽभूवः सा प्रज्ञापारमिताया प्रज्ञापारमिता न तत्र रूपं नित्य इति वा अनित्यम् इति चोपलभ्यते, रूपम् एव न संविद्यते नोपलभते. कुतः पुनर् नित्यं वा अनित्यं वा ब्बविष्यन्ति, एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वेदनास्वभावेन शून्याया वेदनायाः स्वभाव सो ऽभावो यो भावः सा प्रज्ञापारमिता तत्र न वेदना नित्येति चोपलभ्यते. वेदनैव तत्र न सम्विद्यते नोपलभ्यते कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संज्ञाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? संज्ञास्वभावेन शून्यायाः संज्ञायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता न तत्र संज्ञा नित्येति वा अनित्येति वोपलभ्यते. संज्ञैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वाभविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कारान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? संस्काराः स्वभावेन शून्याः यः संस्काराणां स्वभावः सो ऽभावा यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता तत्र न संस्कारा नित्या इति वा अनित्या इति वोपलभ्यते. संस्कारा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं. कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? विज्ञानं स्वभावेन शून्यः यो विज्ञानस्य स्वभावः सो भावो यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता तत्र न विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुर् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुः स्वभावेन शून्यो यश् चक्षुषः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न चक्षुर् नित्यम् इति वा अनित्यम् इति वोपलभ्यते. चक्षुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रं स्वभावेन शून्यो यश् श्रोत्रस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न श्रोत्रं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. श्रोत्रम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः (Śस्P_II-४_२१७) कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणस्वभावेन शुन्या यो घ्राणस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न घ्राणं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. घ्राणम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वाम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जिह्वा स्वभावेन शून्या यो जिह्वायाः स्वभावः सो ऽब्बावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न जिह्वा नित्येति वा अनित्येति वोपलभ्यते. जिह्वैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायः स्वभावेन शून्यो यः कायस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न काये नित्य इति वा अनित्य इति वोपलभ्यते. काय एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनो ऽनित्यम् इति समनुपश्य. तत् कस्य हेतोः? मनः स्वभावेन शून्यं यो मनसः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनो नित्यम् इति वा अनित्यम् इति वोपलभ्यते. मन एव (Śस्P_II-४_२१८) तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रूपम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? रूपं स्वभावेन शून्यं या रूपस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न रूपं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. रूपम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शब्दम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? शब्दः स्वभावेन शून्यः यः शब्दस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न शब्दो नित्य इति वा अनित्य इति वोपलभ्यते. शब्द एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च गन्धम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? गन्धः स्वभावेन शून्यो यो गन्धस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न गन्धो नित्य इति वा अनित्य इति वोपलभ्यते. गन्ध एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रसम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? रसः स्वभावेन शून्यो यो (Śस्P_II-४_२१९) रसस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न रसो नित्य इति वा अनित्य इति वोपलभ्यते. रस एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? स्पर्शः स्वभावेन शून्यो यो स्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारामिता, तत्र न स्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. स्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च धर्मान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? धर्माः स्वभावेन शून्यो यो धर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न धर्मा नित्या इति वा अनित्या इति वोपलभ्यते. धर्मा एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुर्विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुर्विज्ञानं स्वभावेन शून्यं यश् चक्षुर्विज्ञानस्य स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुर्विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. चक्षुर्विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापरमिताम् (Śस्P_II-४_२२०) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रविज्ञानं स्वभावेन शून्यं यः श्रोत्रविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता, तत्र न श्रोत्रविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. श्रोत्रविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणविज्ञानं स्वभावेन शून्यं यो घ्राणविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न घ्राणविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. घ्राणविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वाविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जिह्वाविज्ञानं स्वभावेन शून्यं यो जिह्वाविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वाविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. जिह्वाविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायविज्ञानं स्वभावेन शून्यं यः कायविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. कायविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनोविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? मनोविज्ञानं स्वभावेन शून्यं यो मनोविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनोविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. मनोविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय भावय मा च चक्षुःसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुःसंस्पर्शः स्वभावेन शून्यः यश् चक्षुःसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुःसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. चक्षुःसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रसंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रसंस्पर्शः स्वभावेन शून्यं यः श्रोत्रसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न श्रोत्रसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. श्रोत्रसंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणं चैवं प्रज्ञापरमितम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्रणसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणसंस्पर्शः स्वभावेन शून्यः यो घ्राणसंस्पर्शस्य स्वभावः सो ऽभावो यो भवः सा प्रज्ञापारमिता, या प्रज्ञापारमिता, तत्र न घ्राणसंस्पर्शो नित्य इति (Śस्P_II-४_२२२) वा अनित्य इति वोपलभ्यते. घ्राणसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वासंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? जिह्वासंस्पर्शः स्वभावेन शून्यं यो जिह्वासंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वासंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. जिह्वासंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायसंस्पर्शः स्वभावेन शून्यः यः कायसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. कायसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनःसंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? मनःसंस्पर्शः स्वभावेन शून्यं यो मनःसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनःसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. मनःसंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुःसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? चक्षुःसंस्पर्शप्रत्ययवेदना (Śस्P_II-४_२२३) स्वभावेन शून्या यश् चक्षुःसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुःसंस्पर्शप्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. चक्षुःसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? श्रोत्रसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यः श्रोत्रसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न श्रोत्रसंस्पर्शप्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. श्रोत्रसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो या भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणसंस्पर्शप्रत्ययवेदनाम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यो घ्रणसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न घ्राणसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. घ्राणसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वासंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? जिह्वासंस्पर्शप्रत्ययवेदना स्वभावेन शुन्या यो जिह्वासंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वासंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. जिह्वासंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः (Śस्P_II-४_२२४) पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? कायसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यः कायसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. कायसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति, एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनःसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? मनःसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यो मनःसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनःसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. मनःसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
[K. २२४ब्१८, N. ४५४ब्२, T. ३६६ब्८, P. ४९अ३, Cह्. ७९४च्२४] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च पृथिवीधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? पृथिवीधातुः स्वभावेन शून्यो यः पृथिवीधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न पृथिवीधातुः नित्य इति वा अनित्य इति वोपलभ्यते. पृथिवीधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् (Śस्P_II-४_२२५) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाब्धातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? अब्धातुः स्वभावेन शून्यो यो ऽब्धातोः स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र नाब्धातुर् नित्य इति वा अनित्य इति वोपलभ्यते. अब्धातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तेजोधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? तेजोधातुः स्वभावेन शून्यो यस् तेजोधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न तेजोधातुः नित्य इति वा अनित्य इति वोपलभ्यते. तेजोधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वायुधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? वायुधातुः स्वभावेन शून्यो यो वायुधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न वायुधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. वायुधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाकाशधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? आकाशधातुः स्वभावेन शून्यो य आकाशधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र नाकाशधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. आकाशधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? विज्ञानधातुः स्वभावेन शून्यो यो विज्ञानधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न विज्ञानधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. विज्ञानधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
[K. २२५अ१६, N. ४५५ब्४, T. ३६७अ१३, P. ५०ब्३, Cह्. ७९४ए११] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाविद्याम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अविद्या स्वभावेन शून्या यो विद्यायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाविद्या नित्येति वा अनित्येति वोपलभ्यते. अविद्यैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कारान् अनित्य इति समनुपश्य. तत् कस्य हेतोः? संस्काराः स्वभावेन शून्याः यः संस्काराणां स्वभावः सो ऽभवा यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न संस्कारानित्या इति वा अनित्याइति वोपलभ्यते. संस्कारा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? विज्ञानं स्वभावेन शून्यं यो विज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा (Śस्P_II-४_२२७) भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च नामरूपम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? नामरूपं स्वभावेन शून्यं यो नामरूपस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न नामरूपं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. नामरूपम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च षडायतनम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? षडायतनं स्वभावेन शून्यं यः षडायतनस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न षडायतनं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. षडायतनम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? स्पर्शस्वभावेन शून्यो यः स्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्पर्शं नित्य इति वा अनित्यम् इति वोपलभ्यते. स्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वेदना स्वभावेन शून्या या वेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता (Śस्P_II-४_२२८) तत्र न वेदना नित्येति वा अनित्येति वोपलभ्यते. वेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तृष्णाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? तृष्णास्वभावेन शून्या यस् तृष्णायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न तृष्णा नित्येति वा अनित्येति वोपलभ्यते. तृष्णैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चोपादानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? उपादानं स्वभावेन शून्यो य उपादानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र नोपादनं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. उपादानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवं उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च भवम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? भवः स्वभावेन शून्यो यो भवस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता, तत्र न भवो नित्य इति वा अनित्य इति वोपलभ्यते. भव एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जातिम् अनित्येति समनुपश्य. तत् कस्य हेतोः? जातिः स्वभावेन शून्या या जात्याः (Śस्P_II-४_२२९) स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न जातिर् नित्येति वा अनित्येति वोपलभ्यते. जातिर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जरामरणम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जरामरण स्वभावेन शून्यो यो जरामरणस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र न जरामरणं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. जरामरणम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
[K. २२६अ१४, N. ४५७ब्५, T. ३६८ब्७, P. ५३ब्३, Cह्. ७९५ब्७] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च दानपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? दानपारमिता स्वभावेन शून्या यो दानपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न दाणपारमिता नित्येति वा अनित्येति वोपलभ्यते. दानपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शीलपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? शीलपारमिता स्वभावेन शून्या यः शीलपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न शीलपारमिता नित्येति वा अनित्येति वोपलभ्यते. शीलपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् (Śस्P_II-४_२३०) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च क्षान्तिपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? क्षान्तिपारमिता स्वभावेन शून्या यः क्षान्तिपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न क्षान्तिपारमिता नित्येति वा अनित्येति वोपलभ्यते. क्षान्तिपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वीर्यपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वीर्यपारमिता स्वभावेन शून्या यो वीर्यपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न वीर्यपारमिता नित्येति वा अनित्येति वोपलभ्यते. वीर्यपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय म च ध्यनपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? ध्यानपारमिता स्वभावेन शून्या यो ध्यानपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न ध्यानपारमिता नित्येति वा अनित्येति वोपलभ्यते. ध्यानपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रज्ञापारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? प्रज्ञापारमिता स्वभावेन शून्या यः प्रज्ञापारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र न प्रज्ञापारमिता नित्येति वा अनित्येति वोपलभ्यते. प्रज्ञापारमितैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
[K. २२६ब्१३, N. ४५७ब्८, T. ३६९अ१२, P. ५५अ५, Cह्. ७९६अ६] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाध्यात्मशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अध्यात्मशून्यता स्वभावेन शून्या यो ऽध्यात्मशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाध्यात्मशून्यता नित्येति वा अनित्येति वोपलभ्यते. अध्यात्मशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च बहिर्धाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? बहिर्धाशून्यता स्वभावेन शून्या यो बहिर्धाशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न बहिर्धाशून्यता नित्येति वा अनित्येति वोपलभ्यते. बहिर्धाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाध्यात्मबहिर्धाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अध्यात्मबहिर्धशून्यता स्वभावेन शून्या यो ऽध्यात्मबहिर्धाशून्यतयः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाध्यात्मबहिर्धाशून्यता नित्येति वा अनित्येति वोपलभ्यते. अध्यात्मबहिर्धाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शून्यताशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? शून्यताशून्यता स्वभावेन शून्या यः शून्यताशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता (Śस्P_II-४_२३२) या प्रज्ञापारमिता तत्र न शून्यताशून्यता नित्येति वा अनित्येति वोपलभ्यते. शून्यताशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च महाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? महाशून्यता स्वभावेन शून्या यः महाशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न महाशून्यता नित्येति वा अनित्येति वोपलभ्यते. महाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च परमार्थशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? परमार्थशून्यता स्वभावेन शून्या यश् च परमार्थशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न परमार्थशून्यता नित्येति वा अनित्येति वोपलभ्यते. परमार्थशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कृतशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? संस्कृतशून्यता स्वभावेन शून्या यश् च संस्कृतशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न संस्कृतशून्यता नित्येति वा अनित्येति वोपलभ्यते. संस्कृतशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चासंस्कृतशून्यताम् (Śस्P_II-४_२३३) अनित्येति समनुपश्य. तत् कस्य हेतोः? असंस्कृतशून्यता स्वभावेन शून्या यश् चासंस्कृतशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नासंस्कृतशून्यता नित्येति वा अनित्येति वोपलभ्यते. असंस्कृतशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चात्यन्तशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अत्यन्तशून्यता स्वभावेन शून्या यश् चात्यन्तशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नात्यन्तशून्यता नित्येति वा अनित्येति वोपलभ्यते. अत्यन्तशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमिताइन् भावय मा चानवराग्रशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनवराग्रशून्यता स्वभावेन शून्य यश् चानवराग्रशून्यतायाः स्वभायः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानवराग्रशून्यता नित्येति वा अनित्येति वोपलभ्यते. अनवराग्रशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानवकारशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनवकारशून्यता स्वभावेन शून्या यश् चानवकारशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानवकारशून्यता नित्येति वा अनित्येति वोपलभ्यते. अनवकारशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (Śस्P_II-४_२३४) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रकृतिशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? प्रकृतिशून्यता स्वभावेन शून्या यश् च प्रकृतिशून्यतायाः स्वभवः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रकृतिशून्यता नित्येति वा अनित्येति वोपलभ्यते. प्रकृतिशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सर्वधर्मशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? सर्वधर्मशून्यता स्वभावेन शून्या यश् च सर्वधर्मशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सर्वधर्मशून्यता नित्येति वा अनित्येति वोपलभ्यते. सर्वधर्मशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्वलक्षणशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? स्वलक्षणशून्यता स्वभावेन शून्या यश् च स्वलक्षणशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्वलक्षणशून्यता नित्येति वा अनित्येति वोपलभ्यते. स्वलक्षणशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानुपलम्भशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनुपलम्भशून्यता स्वभावेन शून्या यश् चानुपलम्भशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानुपलम्भशून्यता (Śस्P_II-४_२३५) नित्येति वा अनित्येति वोपलभ्यते. अनुपलम्भशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभावशून्यतम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अभावशून्यता स्वभावेन शून्या यश् चाभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. अभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्वभावशूह्यताम् अनित्येति समनुपश्य, तत् कस्य हेतोः? स्वभावशून्यता स्वभावेन शून्या यश् च स्वभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमित तत्र न स्वभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. स्वभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभावस्वभावशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अभावस्वभावशून्यता स्वभावेन शुन्या यश् चाभावस्वभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभावस्वभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. अभावस्वभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
[K. २२८अ१५, N. ४६१अ५, T. ३७१अ१३, P. ६०अ६, Cह्. ७९९अ२९] पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (Śस्P_II-४_२३६) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमितामुपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्मृत्युपस्थानान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? स्मृत्युपस्थानानि स्वभावेन शून्यानि यः स्मृत्युपस्थानानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्मृत्युपस्थानानि नित्यानीति वा अनित्यानीति वोपलभ्यते. स्मृत्युपस्थानान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सम्यक्प्रहाणान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? सम्यक्प्रहाणानि स्वभावेन शून्यानि यः सम्यक्प्रहाणानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सम्यक्प्रहाणानि नित्यानीति वा अनित्यानीति वोपलभ्यते. सम्यक्प्रहाणान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिअअन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च ऋद्धिपादा अनित्या इति समनुपश्य. तत् कस्य हेतोः? ऋद्धिपादाः स्वभावेन शून्या य ऋद्धिपादानां स्वभावः सो ऽभावो यो ऽभावः स प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न र्द्धिपादा नित्या इति वा अनित्या इति वोपलभ्यते. ऋद्धिपादा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चेन्द्रियाण्य् अनित्यानीति समनुपश्य, तत् कस्य हेतोः? इन्द्रियाणि स्वभावेन शून्यानि य इन्द्रियाणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नेन्द्रियणि नित्यानीति वा अनित्यानीति वोपलभ्यते. इन्द्रियाण्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् (Śस्P_II-४_२३७) उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च बलान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? बलानि स्वभावेन शून्यानि यो बलानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न बलानि नित्यानीति वा अनित्यानीति वोपलभ्यते. बलान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितांभावय मा च बोध्यङ्गान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? बोध्यङ्गानि स्वभावेन शून्यानि यो बोध्यङ्गानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न बोध्यङ्गानि नित्यानीति वा अनित्यानीति वोपलभ्यते. बोध्यङ्गान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्याष्टाङ्गमार्गम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? आर्याष्टाङ्गो मार्गः स्वभावेन शून्या य आर्याष्टाङ्गस्य मार्गस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नार्याष्टाङ्गो मार्गो नित्य इति वा अनित्य इति वोपलभ्यते. आर्याष्टाङ्गमार्ग एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्यसत्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? आर्यसत्यानि स्वभावेन शुन्यानि य आर्यसत्यानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता (Śस्P_II-४_२३८) या प्रज्ञापारमिता तत्र नार्यसत्यानि नित्यानीति वा अनित्यानीति वोपलभ्यते. आर्यसत्यान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च ध्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? ध्यानानि स्वभावेन शून्यानि यो ध्यानानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न ध्यानानि नित्यानीति वा अनित्यानीति वोपलभ्यते. ध्यानान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाप्रमाणान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? अप्रमाणानि स्वभावेन शून्यानि यो ऽप्रमाणानां स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाप्रमाणानि नित्यानीति वा अनित्यानीति वोपलभ्यते. अप्रमाणान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकनां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चरूप्यसमापत्तीर् अनित्या इति समनुपश्य. तत् कस्य हेतोः? आरूप्यसमापत्तयः स्वभावेन शून्या य आरूप्यसमापत्तीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नारुप्यसमापत्तयो नित्या इति वा अनित्या इति वोपलभ्यते. आरुप्यसमापत्तय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय म च विमोक्षान् (Śस्P_II-४_२३९) अनित्या इति समनुपश्य. तत् कस्य हेतोः? विमोक्षा स्वभावेन शून्या यो विमोक्षाणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न विमोक्षा नित्या इति वा अनित्या इति वोपलभ्यते. विमोक्षा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानुपूर्वविहारसमापत्तीर् अनित्या इति समनुपश्य. तत् कस्य हेतोः? चानुपूर्वविहारसमापत्तयः स्वभावेन शून्या यो ऽनुपूर्वविहारसमापत्तीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानुपूर्वविहारसमापत्तयो नित्या इति वा अनित्या इति वोपलभ्यते. अनुपूर्वविहारसमापत्तय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि स्वभावेन शून्यानि यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां स्वभावः सो ऽभायो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीति वा अनित्यानीति वोपलभ्यते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभिज्ञा अनित्या इति समनुपश्य. तत् कस्य हेतोः? अभिज्ञाः स्वभावेन शून्या यो ऽभिज्ञानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभिज्ञा नित्या इति वा अनित्या इति वोपलभ्यते. अभिज्ञा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् (Śस्P_II-४_२४०) उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च समाधीन् अनित्या इति समनुपश्य. तत् कस्य हेतोः? समाधयः स्वभावेन शून्या यः समाधीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न समाधयो नित्या इति वा अनित्या इति वोपलभ्यते. समाधय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च धारणीमुखान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? धारणीमुखानि स्वभावेन शून्यानि यः धारणीमुखानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न धारणीमुखानि नित्यानीति वा अनित्यानीति वोपलभ्यते. धारणीमुखान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तथागतबलान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? तथागतबलानि स्वभावेन शून्यानि यस् तथागतबलानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न तथागतबलानि नित्यानीति वा अनित्यानीति वोपलभ्यते. तथागतबलान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वैशारद्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? वैशारद्यानि (Śस्P_II-४_२४१) स्वभावेन शून्यानि यो वैशारद्यानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न वैशारद्यानि नित्यानीति वा अनित्यानीति वोपलभ्यते. वैशारद्यान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रतिसंविदो ऽनित्या इति समनुपश्य. तत् कस्य हेतोः? प्रतिसंविदः स्वभावेन शून्या यः प्रतिसंविदाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रतिसंविदो नित्या इति वा अनित्या इति वोपलभ्यते. प्रतिसंविद एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च महाकरुणाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? महाकरुणा स्वभावेन शून्या यो महाकरुणायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न महाकरुणा नित्येति वा अनित्येति वोपलभ्यते. महाकरुणैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिइसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चावेणिकबुद्धधर्मान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? आवेणिकबुद्धधर्माः स्वभावेन शून्या य आवेणिकबुद्ध्हधर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नावेणिकबुद्धधर्मा नित्या इति वा अनित्या इति वोपलभ्यते. आवेणिकबुद्धधर्मा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (Śस्P_II-४_२४२) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमितामुपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्रोतआपत्तिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? स्रोतआपत्तिफलं स्वभावेन शून्यं यः स्रोतआपत्तिफलस्य स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न स्रोतआपत्तिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. स्रोतआपत्तिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सकृदागामिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? सकृदागामिफलं स्वभावेन शून्यं यः सकृदागामिफलस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न सकृदागामिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. सकृदागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानगामिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? अनागामिफलं स्वभावेन शून्यं यो ऽनागामिफलस्य स्वभवः सो ऽभावो यो ऽभवः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र नानागामिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. अनागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्हत्त्वम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? अर्हत्त्वं स्वभावेन शून्यं यो ऽर्हत्त्वस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नार्हत्त्वं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. (Śस्P_II-४_२४३) अनागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति, एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रत्येकबोधिम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? प्रत्येकबोधिः स्वभावेन शून्या यः प्रत्येकबोधेः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रत्येकबोधिर् नित्येति वा अनित्येति वोपलभ्यते. प्रत्येकबोधिर् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकनां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मार्गाकारज्ञताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? मार्गाकारज्ञता स्वभावेन शून्या यो मार्गाकारज्ञतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न मार्गाकारज्ञता नित्येति वा अनित्येति वोपलभ्यते. मार्गाकारज्ञता एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सर्वाकारज्ञताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? सर्वाकारज्ञता स्वभावेन शुन्या यः सर्वाकारज्ञतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सर्वाकारज्ञता नित्येति वा अनित्येति वोपलभ्यते. सर्वाकारज्ञता एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
SK
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कं चिद् धर्मं समतिक्रमिष्यसि सा क्वचिद् धर्मे प्रतिष्ठास्यति. तत् कस्य (Śस्P_II-४_२४४) हेतोह्? तथा हि प्रज्ञापारमितायां सद्धर्मो न संविद्यते यो धर्मः समतिक्रमितव्यो यत्र वा प्रतिष्ठातव्यम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्माः स्वभावो न शून्या यश् च सर्वधर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न कश्चिद् धर्म आयूहितव्यो वा निर्यूहितव्यो वा उत्पादयितव्यो वा निरोधयितव्यो वा, एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं प्रज्ञापारमिताया अर्थम् उपदेष्टव्यो एवम् उपदिशन्तः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यस्कन्धं प्रसविष्यति, न त्व् एव ते पौर्वकाः कुलपुत्राः कुलदुहितरश् च.
SK
[K २३०ब्१८, N. ४६६ब्३, T. ३७५अ५, P. ६८ब्८, Cह्. ८८८च्३] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक जाम्बूद्विपकाः सत्त्वा यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां (Śस्P_II-४_२४५) प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यत् संप्रकाशयेद् एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
अह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
SK
[K. २३१ब्२, N. ४६८अ१, T. ३७६अ२, P. ७३अ८, Cह्. ८८९च्२७] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः, यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताह्. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुन्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो (Śस्P_II-४_२४८) विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः सकृदागामिफले प्रतिषिहापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासहस्रे लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायां सकृदागामिनः प्रभाव्यन्ते.
SK
[K. २३२अ८, N. ४६९ब्१, T. ३७६ब्११, P. ७३अ८, Cह्. ८९१अ२२] पुनर् अपरं कौशिक यावन्तो जाम्बूद्विपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं (Śस्P_II-४_२४९) मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः चातुर्द्वीपके सत्त्वाः अनागामिफले प्रतिष्ठापिताः, यावन्तः कौशिक जाम्बूद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां स व्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेत् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहण पर्यवाप्नुहि धारय वाचय य्ॐशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमिता प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधारौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् र्कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थांस व्यञ्जनां परेभ्यो विस्तरेणचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायं (Śस्P_II-४_२५०) प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
SK
[K. २३२ब्३, N. ४७०ब्८, T. ३७७ब्६, P. ७५ब्२, Cह्. ८९२ब्२६] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अर्हत्त्वे प्रतिष्ठापिता यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टयां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिता यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् (Śस्P_II-४_२५२) एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताह्. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमं प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण (Śस्P_II-४_२५३) पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताह्. यावन्तः कौशिक दशसु दिक्षु एकैकस्यां दिशे गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यन्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानिकुइयात् संप्रकाशयेत्. एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. _
SK
[K. २३३अ४, N. ४७२अ५, T. ३७८अ१३, P. ७८अ२, Cह्. ८९३च्२५] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं (Śस्P_II-४_२५४) पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिता यावान्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक (Śस्P_II-४_२५५) प्रज्ञापरमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिता यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितार सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
SK
[K. २३३ब्७, N. ४७३ब्२, T. ३७९अ८, P. ८०अ८, Cह्. ८९५अ२१] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कश्चिड् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (Śस्P_II-४_२५६) पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा त्वं प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
SK
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा (Śस्P_II-४_२५७) महासत्त्वाः.
SK
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समदापिताः यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत,
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं प्ंर्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भावना भूयस्या मात्रया भावना परिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावना परिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
SK
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः यावन्तः कौशिक साहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत् तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदनं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता या बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायं प्रतिपद्यस्व. यदा त्वं कुलपुत्र प्रज्ञापारमिता प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायं शिक्षिष्यसे, (Śस्P_II-४_२५८) यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे. तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापारिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपुरिं गमिष्यति तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
SK
[K. २३४ब्४, N. ४७५ब्५, T. ३८०ब्२, P. ८४अ६, Cह्. ८९७अ१६] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वनां महासत्त्वानाम् अवैवर्त्यभूमिः.
SK
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापिता यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थं सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्. एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायं प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिलप्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
SK
तीष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापिता यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदनं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां सिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् (Śस्P_II-४_२६१) अभिसंभोत्स्यसे. तत् कस्य हेतोह्? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ स अवैवर्त्यभूमौ प्रतिष्ठापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुपुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमिता प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापितः, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
आह: बहु भगवन् बहु सुगत.
SK
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां (Śस्P_II-४_२६२) प्रज्ञापारमितां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
SK
[K. २३५अ१९, N. ४७७ब्३, T. ३८१ब्६, P. ८७अ७, Cह्. ८९९अ४] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरायै सम्यक्सम्बोधये संप्रस्थिता कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये (Śस्P_II-४_२६३) संप्रस्थितायै यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च यदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व, यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुह्हिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो यिस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय (Śस्P_II-४_२६४) वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञतधर्माणं लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्षंबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः, कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमितां उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
[K. २३६अ६, N. ४७९अ५, T. ३८२ब्४, P. ८९ब्६, Cह्. ९००ब्८] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् अहं क्षिप्रं अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्येयम् इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायं सम्यक्संबोधौ तेभ्यो बोधिसत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिसेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् एहि त्वं क्षिप्रं अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेनोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् एहि त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुह्हिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यम् इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारामितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं च वदेद् एहि क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
SK
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः, कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा बहुतरं पुन्यं प्रसवेत्. तत् कस्य हेतोः? अवैवर्तिकेभ्यो हि बोधिसत्त्वेभ्यो नान्यार्थं धर्मम् उपदेष्टव्यो नियता हि ते संबोधि परायणानते भुयो विवर्तित्तिते अनुत्तराया सम्यक्संबोधेर् अयम् अभू कश्चिच् चितः संसारात् महाकरुणासंपीडितश् च.
SK
[K. २३६ब्८, N. ४८०अ८, T. ३८३अ४, P. ९१ब्५, Cह्. ९०४ब्७] अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यथा यथा भगवन् बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तारायाः सम्यक्संबोधेस् तथा तथा बोधिसत्त्वो महासत्त्वो दानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा शीलपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा क्षान्तिपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा वीर्यपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा ध्यानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा प्रज्ञापारमितायाम् अववदितव्यो ऽनुशासितव्यः.
SK
यथा यथा बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथा तथा अध्यात्मशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा बहिर्धाशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अध्यात्मबहिर्धाशून्यतयाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा शून्यताशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा महाशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा परमार्थशून्यतायाम् (Śस्P_II-४_२६७) अववदितव्यो ऽनुशासितव्यः, तथा तथा संस्कृतशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा असंस्कृतशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अत्यन्तशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनवराग्रशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनवकारशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा प्रकृतिशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा सर्वधर्मशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा स्वलक्षणशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनुपलम्भशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा स्वभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अभावस्वभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः.
SK
यथा यथा बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथा तथा स्मृत्युपस्थानेष्व् अववदितव्यो ऽनुशासितव्यः, सम्यक्प्रहाणेष्व् अववदितव्यो ऽनुशासितव्यः, ऋद्धिपादेष्व् अववदितव्यो ऽनुशासितव्यः, इन्द्रियेष्व् अववदितव्यो ऽनुशासितव्यः, बलेष्व् अववदितव्यो ऽनुशासितव्यः, बोध्यङ्गेष्व् अप्रमाणेष्व् अववदितव्यो ऽनुशासितव्यः, आर्याष्टाङ्गे मर्गे ऽववदितव्यो ऽनुशासितव्यः, आर्यसत्येष्व् अववदितव्यो ऽनुशासितव्यः, ध्यानेष्व् अववदितव्यो ऽनुशासितव्यः, अप्रमाणेष्व् अववदितव्यो ऽनुशासितव्यः, आरूप्यसमापत्तिष्व् अववदितव्यो ऽनुशासितव्यः, विमोक्षास्व् अववदितव्यो ऽनुशासितव्यः, नवस्व् अनुपूर्वविहारसमापत्तिष्व् अववदितव्यो ऽनुशासितव्यः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् अववदितव्यो ऽनुशासितव्यः, अभिज्ञास्व् अववदितव्यो ऽनुशसितव्यः, समाधिष्व् अववदितव्यो ऽनुशासितव्यः, धारणीमुखेष्व् अववदितव्यो ऽनुशासितय्यः, तथागतबलेष्व् अववदितव्यो ऽनुशासितव्यः, वैशारद्येष्व् अववदितव्यो ऽनुशासितव्यः, प्रतिसंवित्स्व् अववदितव्यो ऽनुशासितव्यः, महामैत्र्याम् अववदितव्यो ऽनुशासितव्यः, महाकरुणायाम् अववदितव्यो ऽनुशासितव्यः, अष्टादशावेणिकेषु बुद्धधर्मेष्व् अववदितव्यो ऽनुशासितव्यः, चीवरपीण्ड्पात्रसयनसनग्लानप्रत्ययभैषज्यपरिष्कारैश् चानुगृहीतव्यः.
SK
ते खलु पुनर् बोधिसत्त्वं महासत्त्वं धर्मसंग्रहश् चामिषसंग्रहेणं चानुश् चानुगृहून्तो बहुतरं ते कुलपुत्र कुलदुहितरश् च पुण्यं प्रसविष्यन्ति. न त्व् एव ते पौर्वकाः कुलपुत्रा कुलदुहितरश् च. तत् कस्य हेतोः? एवं त्वेन तद् भगवन् भवति, यो बोधिसत्त्वो महासत्त्वो दानपारमितायाम् अववद्यते ऽनुशासिष्यते, शीलपारमितायाम् अववद्यते ऽनुशासिष्यते, क्षान्तिपारमितायाम् अववद्यते ऽनुशासिष्यते, वीर्यपारमितायाम् (Śस्P_II-४_२६८) अववद्यते ऽनुशासिष्यते, ध्यानपारमितायाम् अववद्यते ऽनुशासिष्यते, प्रज्ञापारमितायाम् अववद्यते ऽनुशासिष्यते.
SK
अध्यात्मशून्यतायाम् अववद्यते ऽनुशासिष्यते, बहिर्धाशून्यतायाम् अववद्यते ऽनुशासिष्यते, अध्यात्मबहिर्धाशून्ययाम् अववद्यते ऽनुशासिष्यते, शून्यताशून्यतायाम् अववद्यते ऽनुशासिष्यते, महाशून्यतायाम् अववद्यते ऽनुशासिष्यते, परमार्थशून्यतायाम् अववद्यते ऽनुशासिष्यते. संस्कृतशून्यतायाम् अववद्यते ऽनुशासिष्यते, असंस्कृतशून्यतायाम् अववद्यते ऽनुशासिष्यते, अत्यन्तशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनवराग्रशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनवकारशून्यतायाम् अववद्यते ऽनुशासिष्यते, प्रकृतिशून्यतायाम् अववद्यते ऽनुशासिष्यते. सर्वधर्मशून्यतायाम् अववद्यते ऽनुशासिष्यते, स्वलक्षणशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनुपलम्भशून्यतायाम् अववद्यते ऽनुशासिष्यते, अभावशून्यतायाम् अववद्यते ऽनुशासिष्यते, स्वभावशून्यतायाम् अववद्यतेऽनुशासिष्यते, अभावस्वभावशून्यतायाम् अववद्यते ऽनुशासिष्यते.
SK
स्मृत्युपस्थानेष्व् अववद्यते ऽनुशासिष्यते, सम्यक्प्रहाणेष्व् अववद्यते ऽनुशासिष्यते, ऋद्धिपादेष्व् अववद्यते ऽनुशासिष्यते, इन्द्रियेष्व् अववद्यते ऽनुशासिष्यते, बलेष्व् अववद्यते ऽनुशासिष्यते, अप्रमाणेष्व् अववद्यते ऽनुशासिष्यते, बोध्यङ्गेष्व् अववद्यते ऽनुशासिष्यते, मार्गेष्व् अववद्यते ऽनुशासिष्यते, आर्यसत्येष्व् अववद्यते ऽनुशासिष्यते, ध्यानेष्व् अववद्यते ऽनुशासिष्यते, अप्रमाणेष्व् अववद्यते ऽनुशासिष्यते, आरूप्यसमापत्तिष्व् अववद्यते ऽनुशासिष्यते, अष्टासु विमोक्षेष्व् अववद्यते ऽनुशासिष्यते, नवस्व् अनुपूर्वविहारसमापत्तिष्व् अववद्यते ऽनुशासिष्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् अववद्यते ऽनुशासिष्यते, अभिज्ञास्व् अववद्यते ऽनुशासिष्यते, समाधिष्व् अववद्यते ऽनुशासिष्यते, धारणीमुखेष्व् अववद्यते ऽनुशासिष्यते, दशतथागतबलेष्व् अववद्यते ऽनुशासिष्यते, चतुर्षु वैशारद्येष्व् अववद्यते ऽनुशासिष्यते, चतस्प्सु प्रतिसंवित्स्व् अववद्यते ऽनुशासिष्यते, महामैत्र्याम् अवद्यते ऽनुशासिष्यते, महाकरुणायाम् अववद्यते ऽनुशासिष्यते, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेष्व् अववद्यते ऽनुशासिष्यते.
SK
[K. २३७अ१७, N. ४८२अ१, T. ३८४अ७, P. ९४अ२, Cह्. ९०५ब्२८] अथायुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् आमन्त्रयते: साधु साधु कौशिक यस् त्वं बोधिसत्त्वेभ्या उत्साहं ददासि बोधिसत्त्वानाम् उगृहीष्वे अनुपारयसि, एवम् एष त्वया कौशिक करणीयं य आर्यश्रावकः सत्त्वानाम् अनुग्रहं कर्तुकामः स बोधिसत्त्वानां महासत्त्वानाम् (Śस्P_II-४_२६९) अनुत्तरायां सम्यक्संबोधाव् उत्साहं दधातु धर्माम् इषानुग्रहेण च बोधिसत्त्वान् अनुगृहात्व् अनुपरिपारयतु. तत् कस्य हेतोह्? अतः प्रसबोहि कौशिक भगवतः श्रावकसंघाः यद् उत बोधिसत्त्वेभ्यो महासत्त्वेभ्यः यदि च बोधिसत्त्वो महासत्त्वो ऽनुत्तरायै सम्यक्संबोधये चित्तन् नोत्पादयन् न बोधिसत्त्वो महासत्त्वः शिक्षेत षट्सु पारमितासु दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्.
SK
अध्यात्मशून्यतायां, बहिर्धाशून्यतायां, अध्यात्मबहिर्धाशून्यतायां, शून्यताशून्यतायां, महाशून्यतायां, परमार्थशून्यतायां, संस्कृतशून्यतायां, असंस्कृतशून्यतायां, अत्यन्तशून्यतायां, अनवराग्रशून्यतायां, अनवकारशून्यतायां, प्रकृतिशून्यतायां, सर्वधर्मशून्यतायां, स्वलक्षणशून्यतायां, अनुपलम्भशून्यतायां, अभावशून्यतायां, स्वभावशून्यतायां, अभावस्वभावशून्यतायाम्.
SK
स्मृत्युपस्थानेषु, सम्यक्प्रहाणेषु, ऋद्धिपादेषु, इन्द्रियेषु, बलेषु, बोध्यङ्गेषु, आर्याष्टाङ्गे मर्गे, आर्यसत्येषु, ध्यानेषु, अप्रमाणेषु, आरूप्यसमापत्तिषु, अष्टासु विमोक्षेषु, नवस्व् अनुपूर्वविहारसमापत्तिषु, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु, अभिज्ञासु, समाधिषु, धारणीमुखेषु, तथागतबलेषु, वैशारद्येषु, प्रतिसंवित्सु, महामैत्र्यां, महाकरुणायां, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, नानुत्तरां सम्यक्संबोधिं न प्रत्येकबुद्धा प्रज्ञापरन् न श्रावकाः, यस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः शिक्षते षट्सु पारमितासु दनपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्.
SK
अध्यात्मशून्यतायां, बहिर्धाशून्यतायां, अध्यात्मबहिर्धाशून्यतायां, शून्यताशून्यतायां, महाशून्यतायां, परमार्थशून्यतायां, संस्कृतशून्यतायां, असंस्कृतशून्यतायां, अत्यन्तशून्यतायां, अनवराग्रशून्यतायां, अनवकारशून्यतायां, प्रकृतिशून्यतायां, सर्वधर्मशून्यतायां, स्वलक्सणशून्यतायां, अनुपलम्भशून्यतायां, अभावशून्यतायां, स्वभावशून्यतायां, अभावस्वभावसुन्यतायाम्.
SK
स्मृत्युपस्थानेषु, सम्यक्प्रहाणेषु, ऋद्धिपादेषु, इन्द्रियेषु, बलेषु, बोध्यङ्गेषु, आर्याष्टाङ्गे मर्गे, आर्यसत्येषु, ध्यानेषु, अप्रमाणेषु, आरूप्यसमापत्तिषु, अष्टासु विमोक्षेषु, नवस्व् अनुपूर्वविहारसमापत्तिषु, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु, अभिज्ञासु, समाधिषु, धारणीमुखेषु, तथागतबलेषु, वैशारद्येषु, प्रतिसंवित्सु, महामैत्र्यां, महाकरुणायां, (Śस्P_II-४_२७०) अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु.
SK
तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसम्बुध्यते, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धैः सर्वलोकधातुषु नरक उच्छिद्यन्ते तिर्यग्योनि उच्छिद्यन्ते यमलोक उच्छिद्यन्ते, आसुराश् च काया परिहीयन्ते दिव्यांस् च काया अभिवर्तन्ते, क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भवति.
SK
चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भवति, त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भवति, यामानां देवानां लोके प्रादुर्भावो भवति, तुषितानां देवानां लोके प्रादुर्भावो भवति, निर्माणरतीनां देवानां लोके प्रादुर्भावो भवति, परनिर्मितवशवर्तिनां देवानं लोके प्रादुर्भावो भवति, ब्रह्मकायिकानां देवानां लोके प्रादुर्भावो भवति, ब्रह्मपुरोहितानां देवानं लोके प्रादुर्भावो भवति, ब्रह्मपार्षद्यानं देवानां लोके प्रादुर्भावो भवति, महाब्रह्माणां देवानां लोके प्रादुर्भावो भवति, आभानां देवानां लोके प्रादुर्भावो भवति, परीत्तभानां देवानां लोके प्रादुर्भावो भवति, अप्रमाणाभानां देवानां लोके प्रादुर्भावो भवति, आभास्वराणां देवानां लोके प्रादुर्भावो भवति, शुभानं देवानां लोके प्रादुर्भावो भवति, परीत्तशुभानां देवानां लोके प्रादुर्भावो भवति, अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भवति, शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भवति, बृहाणां देवानां लोके प्रादुर्भावो भवति, परीत्तबृहाणां देवानां लोके प्रादुर्भावो भवति, अप्रमाणबृहाणां देवानां लोके प्रादुर्भावो भवति, बृहत्फलानां देवानां लोके प्रादुर्भावो भवति, अतपानां देवानां लोके प्रादुर्भावो भवति, सुदृशानां देवानां लोके प्रादुर्भावो भवति, सुदर्शनानां देवानां लोके प्रादुर्भावो भवति, अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति, आकाशानन्त्यायतनानां देवानां लोके प्रादुर्भावो भवति, विज्ञानानन्त्यायतनानां देवानां लोके प्रादुर्भावो भवति, आकिञ्चन्यायतनानां देवानां लोके प्रादुर्भावो भवति, नैवसंज्ञनासंज्ञायतनानां देवानां लोके प्रादुर्भावो भवति.
SK
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमितया लोके प्रादुर्भावो भवति.
SK
अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महासुन्यताया लोके प्रादुर्भावो भवति, परमार्थसुन्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यतया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यतया लोके प्रादुर्भावो भवति.
SK
स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, ऋद्धिपादानां लोके प्रादुर्भावो भवति, इन्द्रियाणां देवानां लोके प्रादुर्भावो भवति, बलानां देवानां लोके प्रादुर्भावो भवति, बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, आर्यसत्यानां लोके प्रादुर्भावो भवति, ध्यानानां लोके प्रादुर्भावो भवति, अप्रमाणानां लोके प्रादुर्भावो भवति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भवति, अभिज्ञानां लोके प्रादुर्भावो भवति, समाधीनां लोके प्रादुर्भावो भवति, धारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां लोके प्रादुर्भावो भवति, श्रावकयानस्य लोके प्रादुर्भावो भवति, प्रत्येकबुद्धस्य लोके प्रादुर्भावो भवति, महायानस्य लोके प्रादुर्भावो भवति.
SK
शतसाहस्र्यां प्रज्ञापारमितायां शक्रपरिवर्तो नामस् त्रयोविंशतितमः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Śatasāhasrikā Prajñāpāramitā-2 (sa_zatasAhasrikA-prajJApAramitA-2.htm).

Source