SKत्र्यपायपञ्चयोनीनां सर्वदुःखविघातकम् / श्रेयो ऽभ्युदयसौख्यानां दातारं प्रणमामि तम्
SKअत्र शरणगमनमभिधास्ये / समासतः / अधिष्ठानस्थिती चिन्ता कालप्रकृतिमानकम् / नयः शिक्षा निरुक्तिश्च कर्मौपम्यविभक्तयः / आदीनवार्थशंसाश्च प्रोक्ताः पञ्चदश क्रमात्
SKतत्र अधिष्ठानपुद्गलस्तु द्विविधः- महायानगोत्रीयो हीनयानगोत्रीयश्च / स्थितिर्द्विविधा- महा-हीन-यानभेदतः / तत्रैवं हि तावद् महायानशास्त्रेषु रत्नत्रयम्- तथतारत्नत्रयम्, अभिसमयरत्नत्रयं, सम्मुखस्थं च रत्नत्रयम् /
SKतच्चैवम्- ज्ञेयाविपर्यस्तज्ञानम्, निर्विकल्पाद्वयज्ञानम्, धर्मधात्ववस्थितत्वं च / तदेव विशुद्ध-धर्मधातुप्रज्ञापारमिता, समाहितावस्थायां गगनतलवत् समस्तधर्मसाक्षात्कारिण्यां महाभूमौ अवस्थिताः बोधिसत्त्वाश्च (तथतारत्नत्रयम्) /
SKअथ चैवं- द्विविधो रुपकायः , सन्तानावस्थिताश्चतुःसत्य-सप्तत्रिंशद्बोधिपाक्षिकधर्म-भूमि-पारमितादयो धर्माः, प्रयोगमार्गीयाश्च बोधिसत्त्वाः /
SKपुनश्चैवम्- चित्राङ्किततोत्कीर्णनिषिक्तमृण्मयादि (बुद्धप्रतिमादि) - नवाङ्गप्रवचनमयपोथीपुस्तकादि, संभारमार्गीयाश्च बोधिसत्वाः / हीनयानशास्त्रं तावत्-
SKबुद्धसंघकरान्धर्मान् अशैक्षानुभयांश्च सः / निर्वाणं चेति शरणं यो याति शरणत्रयम् // ३ // इति / तत्र आशयो महायानिनान्तु अशेषसत्त्वार्थचिन्तनम् / इतरस्य च आत्मार्थमेव चिन्तनम् /
SKतत्र अवधिर्महायानिनान्तु बोधिमण्डपर्यन्तम् / इतरस्य तु यावज्जीवनं प्रतिज्ञा /
SKतत्र स्वभावो ह्री-अपत्रपायुक्तता अविज्ञप्त्पादश्च / तत्र मानं तु स्वीकरणम्, शरणकरणं विज्ञप्त्युत्पादश्च / तत्र नयस्तु शरणगमनविधिः / स च गुरोरवगन्तव्यः / तत्र शिक्षा साधारणी असाधारणी च गुरुपादेभ्यो ज्ञेया / तत्र निरुक्तिस्तु दासभावः तदितरस्वामिनमनन्विष्य शरणगमनम् /
SKतत्र कारित्रं तु बोधिचित्तमहावृक्षोत्पादस्य मूलत्वम्, मोक्षमहानगरस्य प्रवेशद्वारत्वम्, उपवासादिसर्वसंवराणाम् आश्रयत्वम् /
SKतत्रौपम्यं तावद् राज्ञः मन्त्रिणो वा प्रजागणस्य तद्वचनानतिक्रमणम्, तदाराधनमिव च /
SKतत्र भेदस्तु साधारणासाधारणत्वेन विशिष्टः /
SKतत्र आदीनवौ द्वौ / शरणच्युतिरज्ञानं वा / च्यवनं च्युतिर्वा यथा चन्द्रकीर्तिपादानाम्-
SKगृहीत्वा सदधिष्ठानं पुनर्हीनसमाश्रये / च्युतिपक्षाश्रयत्वात् सो याति सज्जनहास्यताम् // ४ // इत्युक्तिर्निदर्शनमात्रम् /
SKतत्रार्थस्तु यथोक्तं भगवता-
SK᳚बहवः शरणं यान्ति पर्वतांश्च वनानि च / आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः
SKन त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् / नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते
SKयस्तु बुद्धं च धर्म च संघं च शरणं गतः / चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा
SKदुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् / आर्य चाष्टाङ्गिकं मार्ग क्षेमं निर्वाणगामिनम्
SKएतद्धि शरणं श्रेष्ठं एतच्छरणमुत्तमम् / एतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते // ९ // इति /
SKतत्रानुशंसास्तिम्नः / हेतुकालानुशंसा मार्गकालानुशंसा फलकालानुशंसा च / हेतुकाला एहिकी आमुष्मिकी च / एहिकानुशंसा अष्टमहाभयमोक्षः, अनन्तरायः, शासनप्रियदेवसाहाय्यम्, मरणकाले च चित्तहर्षादि / आमुष्मिकी तु संसारदुर्गति-दुःखेभ्य उद्धरणम्, निर्वाणाभ्युदयसुखप्रदत्त्वञ्च / मार्गानुशंसा तु चतु-(रार्य-)सत्यार्याष्टाङ्गिकमार्ग-सप्तबोध्यङ्गादियोजनम् / फलानुसंसा द्विविधनिर्वाणस्य त्रिकायस्य च प्राप्तिः /
SKइदं हि संक्षिप्तम्, विस्तरं तु गुरुशास्त्रभ्यो ज्ञेयम् /
SKशरणगमनदेशना-नाम गुरुबोधिसत्त्व-दीपङ्कर-श्रीज्ञानविरचिता समाप्ता //